सौतिरुवाच ॥
दृष्ट्वा द्विजं देवसङ्घः प्रत्युत्थानं चकार च ॥
परस्परं च सम्भाषा बभूव तत्र संसदि ॥ १ ॥
मा तं बुबुधिरे देवाः श्रीहरिं विप्ररूपिणम् ॥
पौर्वापर्य्यं विस्मृताश्च मोहिता विष्णुमायया ॥ २ ॥
सुरान्सम्बोध्य विप्रश्च वाचा मधुरया द्विज ॥
उवाच सत्यं परमं प्राणिनां यच्छुभावहम् ॥ ३ ॥
ब्राह्मण उवाच ॥
उपबर्हणभार्य्येयं कन्या चित्ररथस्य च ॥
ययाचे जीवदानं च स्वामिनः शोककर्षिता ॥ ४ ॥
अधुना किमनुष्ठानमस्य कार्यस्य निश्चितम् ॥
तन्मां ब्रूत सुराः सर्वे नित्यं यत्समयोचितम् ॥ ५ ॥
शप्तुकामा सुरान्सर्वान्साध्वी तेजस्विनी वरा ॥
अहं क्षेमाय युष्माकमागतो बोधिता सती ॥ ६ ॥
स्तुतिः कृता च युष्माभिः श्वेतद्वीपे हरेरपि॥
युष्माकमीशो विष्णुश्च कथमेवात्र नागतः ॥ ७ ॥
बभूवाकाशवाणीति पश्चाद्यास्यति केशव ॥
विपरीतं कथं भूतं वाणीवाक्यमचञ्चलम्॥ ॥ ८ ॥
ब्राह्मणस्य वचः श्रुत्वा स्वयं ब्रह्मा जगद्गुरुः ॥
उवाच वचनं सत्यं हितं परममङ्गलम् ॥९॥
ब्रह्मोवाच ॥
मत्पुत्रो नारदः शप्तो गन्धर्वश्चोपबर्हणः ॥
योगेन प्राणांस्तत्याज पुनः शापान्ममैव हि ॥ 1.17.१० ॥
कालं लक्षयुगं व्याप्य स्थितिरस्य महीतले ॥
शूद्रयोनिं ततः प्राप्य भविता मत्सुतः पुनः ॥ ११ ॥
अस्य कालावशेषस्य किञ्चिदस्ति द्विजोत्तम ॥
तत्तु वर्षसहस्रं चैवायुरस्यास्ति साम्प्रतम् ॥ १२ ॥
दास्यामि जीवदानं च स्वयं विष्णोः प्रसादतः ॥
यथैनं न स्पृशेच्छापस्तत्करिष्यामि निश्चितम् ॥ १३ ॥
नागतो हरिरत्रेति त्वया यत्कथितं द्विज ॥
हरिः सर्वत्र सर्वात्मा विग्रहः कुत आत्मनः ॥ १४ ॥
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः ॥
सर्वं पश्यति सर्वज्ञः सर्वत्रास्ति सनातनः ॥ १५ ॥
विषिश्च व्याप्तिवचनो नुश्च सर्वत्रवाचकः ॥
सर्वव्यापी च सर्वात्मा तेन विष्णुः प्रकीर्त्तितः ॥ १६ ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥१७॥
कर्मारम्भे च मध्ये वा शेषे विष्णुं च यः स्मरेत् ॥
परिपूर्णं तस्य कर्म वैदिकं च भवेद्द्विज ॥ १८ ॥
अहं स्रष्टा च जगतां विधाता संहरो हरः ॥
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ॥ १९ ॥
कालः संहरते लोकान्यमः शास्ता च पापिनाम् ॥
उपैति मृत्युः सर्वांश्च भिया यस्याज्ञया सदा ॥ 1.17.२० ॥
सर्वेशा या च सर्वाद्या प्रकृतिः सर्वसूः पुरा ॥
सा भीता यस्य पुरतो यस्याज्ञापरिपालिका ॥ २१ ॥
महेश्वर उवाच ॥
पुत्राणां ब्रह्मणस्तेषां कस्य वंशोद्भवो भवान् ॥
वेदानधीत्य भवता ज्ञातः कः सार एव च ॥ २२ ॥
शिष्यः कस्य मुनीन्द्रस्य कस्त्वं नाम्ना च भो द्विज ॥
बिभर्त्त्यर्कातिरिक्तं च शिशुरूपोऽसि साम्प्रतम् ॥ २३ ॥
विडम्बयसि देवांश्च विष्णुमस्माकमीश्वरम् ॥
हृदिस्थं च न जानासि परमात्मानमीश्वरम् ॥ २४ ॥
यस्मिन्गते पतेद्देहो देहिनां परमात्मनि ॥
प्रयान्ति सर्वे तत्पश्चान्नरदेवानुगा इव ॥ २५ ॥
जीवस्तत्प्रतिबिम्बश्च मनो ज्ञानं च चेतना ॥
प्राणाश्चेन्द्रियवर्गाश्च बुद्धिर्मेधा धृतिः स्मृतिः ॥२६॥
निद्रा दया च तन्द्रा च क्षुत्तृष्णा पुष्टिरेव च ॥
श्रद्धा सन्तुष्टिरिच्छा च क्षमा लज्जादिकाः स्मृताः ॥ २७ ॥
प्रयाति यत्पुरः शक्तिरीश्वरे गमनोन्मुखे ॥
एते सर्वे च शक्तिश्च यस्याज्ञा परिपालकाः ॥२८॥
ईश्वरे च स्थिते देही क्षमश्च सर्वकर्मसु ॥
गतेऽस्पृश्यः शवस्त्याज्यः कस्तं देही न मन्यते ॥ २९ ॥
स्वयं ब्रह्मा च जगतां विधाता सर्वकारकः ॥
पादारविन्दमनिशं ध्यायते द्रष्टुमक्षमः ॥ 1.17.३० ॥
युगलक्षं तपस्तप्तं श्रीकृष्णस्य च वेधसा ॥
तदा बभूव ज्ञानी च जगत्स्रष्टुं क्षमस्तदा ॥ ३१ ॥
असङ्ख्यकालं सुचिरं तपस्तप्तं हरेर्मया ॥
तृप्तिं जगाम न मनस्तृप्यते केन मङ्गले ॥३२॥
अधुना पञ्चवक्त्रेण यन्नामगुणकीर्तनम् ॥
गायन्भ्रमामि सर्वत्र निस्पृहः सर्वकर्मसु ॥ ३३ ॥
मत्तो याति च मृत्युश्च यन्नामगुणकीर्त्तनात् ॥
शश्वजपन्तं तन्नाम दृष्ट्वा मृत्युः पलायते ॥ ३४ ॥
सर्वब्रह्माण्डसंहर्त्ताऽप्यहं मृत्युञ्जयाभिधः ॥
सुचिरं तपसा यस्य गुणनामानुकीर्त्तनात् ॥ ३५ ॥
काले तत्र विलीनोऽहमाविर्भूतस्ततः पुनः ॥
न कालो मम संहर्त्ता न मृत्युर्यत्प्रसादतः ॥३६॥
गोलोके यः स वैकुण्ठे श्वेतद्वीपे स एव च ॥
अंशांशिनोर्न भेदश्च ब्रह्मन्वह्निस्फुलिङ्गवत् ॥ ३७ ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥
अष्टाविंशतिमे शक्रे गते च ब्रह्मणो दिनम् ॥ ३८ ॥
एतत्सङ्ख्याविशिष्टस्य शतवर्षायुषो विधेः ॥
पाते लोचनपातश्च यद्विष्णोः परमात्मनः ॥ ३९ ॥
अहं कलानामृषभः कृष्णस्य परमात्मनः ॥
परं महिम्नः को गच्छेन्न जानामि च किञ्चन ॥ 1.17.४० ॥
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक ॥
धर्मश्च वक्तुमारेभे यः साक्षी सर्वकर्मणाम् ॥ ४१ ॥
धर्म उवाच ॥
यत्पाणिपादौ सर्वत्र चक्षुश्च सर्वदर्शनम् ॥
सर्वान्तरात्मा प्रत्यक्षोऽप्रत्यक्षश्च दुरात्मनः ॥ ४२ ॥
अधुनाऽपि सभां विष्णुर्नायात इति यद्वचः ॥
त्वयोक्तं तत्कया बुद्ध्या मुनीनां च मतिभ्रमः ॥ ४३ ॥
महन्निन्दा भवेद्यत्र नैव साधु शृणोति ताम् ॥
निन्दकः श्रोतृभिः सार्द्धं कुम्भीपाकं व्रजेद्युगम् ॥ ४४ ॥
श्रुत्वा दैवान्महन्निन्दां श्रीविष्णोः स्मरणाद् बुधः ॥
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति दुर्लभम् ॥४५॥
कामतोऽकामतो वाऽपि विष्णुनिन्दां करोति यः ॥
शृणोति यो हसति वा सभामध्ये नराधमः ॥ ४६ ॥
कुम्भीपाके पचति स यावद्धि ब्रह्मणो वयः ॥
स्थलं भवेदपूतं च सुरापात्रं यथा द्विज ॥ ४७ ॥
प्राणी च नरकं याति श्रुतं तत्रैव चेद्ध्रुवम् ॥
विष्णुनिन्दा च त्रिविधा ब्रह्मणा कथिता पुरा॥ ४८॥
अप्रत्यक्षं च कुरुते किं वा तं च न मन्यते॥।
देवान्यसाम्यं कुरुते ज्ञानहीनो नराधमः॥४९॥
तस्यात्र निष्कृतिर्नास्ति यावद्वै ब्रह्मणः शतम् ॥
गुरोर्निन्दां यः करोति पितुर्निन्दां नराधमः ॥
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ 1.17.५० ॥
विष्णुर्गुरुश्च सर्वेषां जनको ज्ञानदायकः ॥
पोष्टा पाता भयत्राता वरदाता जगत्त्रये ॥ ५१ ॥
एषां च वचनं श्रुत्वा त्रयाणां विप्रपुङ्गव ॥
प्रहस्योवाच तान्देवान्वाचा मधुरया पुनः ॥ ५२ ॥
ब्राह्मण उवाच ॥
का कृता विष्णुनिन्दाऽहो हे देवा धर्मशालिनः ॥
नागतो हरिरत्रेति व्यर्थाऽऽकाशसरस्वती ॥५३॥
इति प्रोक्तं मया भद्रं ब्रूत धर्मार्थमीश्वराः ॥
सभायां पाक्षिकाः सन्तो घ्नन्ति स्म शतपूरुषम् ॥५४॥
यूयं च भावुका ब्रूत विष्णुः सर्वत्र सन्ततम् ॥
इति चेत्तत्कथं याताः श्वेतद्वीपं वराय च ॥५५॥
अंशांशिनोर्न भेदश्चेदात्मनश्चेति निश्चितम्॥
कलां हित्वा निषेवन्ते सन्तः पूर्णतमं कथम् ॥५६॥
कोटिजन्मदुराराध्यमसाध्यमसतामपि ॥
आशा बलवती पुंसां कृष्णं सेवितुमिच्छति ॥५७॥
किं क्षुद्राः किं महान्तश्च वाञ्छन्ति परमं पदम् ॥
लब्धुमिच्छति चन्द्रं च बाहुभ्यां वामनो यथा॥५८॥
यो विष्णुर्विषयी विश्वे श्वेतद्वीपनिवासकृत्॥
यूयं ब्रह्मेशधर्माश्च दिक्पालाश्च दिगीश्वराः॥५९॥
ब्रह्मविष्णुशिवाद्याश्च सुरलोकाश्चराचराः ॥
एवं कतिविधाः सन्ति प्रतिविश्वेषु सन्ततम् ॥ 1.17.६० ॥
विश्वानां च सुराणां च कः सङ्ख्यां कर्तुमीश्वरः ॥
सर्वेषामीश्वरः कृष्णो भक्तानुग्रहविग्रहः ॥ ६१ ॥
ऊर्ध्वं च सर्वब्रह्माण्डाद्वैकुण्ठं सत्यमीप्सितम् ॥
तस्मादूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनम् ॥ ६२ ॥
चतुर्भुजश्च वैकुण्ठे लक्ष्मीकान्तः सनातनः ॥
सुनन्दनन्दकुमुदपार्षदादिभिरावृतः ॥ ६३ ॥
गोलोके द्विभुजः कृष्णो राधाकान्तः सनातनः ॥
गोपाङ्गनादिभिर्युक्तो द्विभुजैर्वोपपार्षदैः ॥ ६४ ॥
परिपूर्णतमं ब्रह्म स चात्मा सर्वदेहिनाम् ॥
स्वेच्छामयश्च विहरेद्रासे वृन्दावने सदा ॥ ६९ ॥
तज्ज्योतिर्मण्डलाकारं सूर्य्यकोटिसमप्रभम् ॥
ध्यायन्ते योगिनः सन्तः सन्ततं च निरामयम् ॥ ६६ ॥
नवीननीरदश्यामं द्विभुजं पीतवाससम् ॥
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ॥ ६७ ॥
किशोरनयनं शश्वच्छान्तं सस्मितमी श्वरम् ॥
ध्यायन्ते वैष्णवाः सन्तः सेवन्ते सत्यविग्रहम्॥ ६८ ॥
यूयं च वैष्णवा ब्रूत कस्य वंशोद्भवो भवान्॥
शिष्यः कस्य मुनीन्द्रस्येत्येवं मां च पुनः पुनः ॥ ६९ ॥
यस्य वंशोद्भवोऽहं च यस्य शिष्यश्च बालकः ॥
तस्येदं वचनं ज्ञानं देवसङ्घा निबोधत ॥ ॥ 1.17.७० ॥
शीघ्रं जीवय गन्धर्वं देवेश्वर सुरेश्वर ॥
व्यक्ते विचारे मूर्खः को वाग्युद्धे किं प्रयोजनम् ॥ ७१ ॥
इत्युक्त्वा बालकस्तत्र विप्ररूपी जनार्दनः ॥
विरराम सभामध्ये प्रजहास च शौनक ॥ ७२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे विष्णुसुरसङ्घसंवादे विष्णुप्रशंसाप्रणयने सप्तदशोऽध्यायः ॥ १७ ॥