०१६

ब्राह्मण उवाच ॥
दृष्टः कालो यमो मृत्युकन्या व्याधिगणा अहो ॥
कस्तेऽधुना च सन्देहस्तं पृच्छ कन्यके शुभे ॥ १ ॥
ब्राह्मणस्य वचः श्रुत्वा हृष्टा मालावती सती ॥
यन्मनोनि हितं प्रश्नं चकार जगदीश्वरम् ॥ २ ॥
मालावत्युवाच ॥
त्वया यत्कथितो व्याधिः प्राणिनां प्राणहारकः ॥
तत्कारणं च विविधं सर्वं वेदे निरूपितम् ॥ ३ ॥
यतो न सञ्चरेद्व्याधिर्दुर्निवारोऽशुभावहः ॥
तदुपायं च साकल्यं भवान्वक्तुमिहार्हति ॥ ४ ॥
यद्यत्पृष्मपृष्टं वा ज्ञातमज्ञातमेव वा ॥
सर्वं कथय तद्भद्रं त्वं गुरुर्दीनवत्सलः ॥ ५ ॥
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः ॥
संहितां वक्तुमारेभे सहितार्थां च वैद्यकीम्॥६॥
ब्राह्मण उवाच ॥
वन्दे तं सर्वतत्त्वज्ञं सर्वकारणकारणम् ॥
वेदवेदाङ्गबीजस्य बीजं श्रीकृष्णमीश्वरम् ॥७॥
स ईशश्चतुरो वेदान्ससृजे मङ्गलालयान् ॥
सर्वमङ्गलमङ्गल्य बीजरूपः सनातनः ॥६॥
ऋग्यजुःसामाथर्वाख्यान्दृष्ट्वा वेदान्प्रजापतिः ॥
विचिन्त्य तेषामर्थं चैवायुर्वेदं चकार सः ॥ ९ ॥
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ॥
स्वतन्त्रसंहितां तस्माद्भास्करश्च चकार सः ॥ 1.16.१० ॥
भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम् ॥
प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ ॥ ११ ॥
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च ॥
व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ॥ १२ ॥
धन्वन्तरिर्दिवो दासः काशीराजोऽश्विनीसुतौ ॥
नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥ १३ ॥
जाबालो जाजलिः पैलः करथोऽगस्त्य एव च ॥
एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ १४ ॥
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोहरम् ॥
धन्वन्तरिश्च भग वांश्चकार प्रथमं सति ॥ १५ ॥
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ॥
चिकित्साकौमुदीं दिव्यां काशीगजश्चकार सः ॥ १६ ॥
चिकित्सासारतन्त्रं च श्रमघ्नं चाश्विनीसुतौ ॥
तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः ॥ १७ ॥
चकार सहदेवश्च व्याधिसिन्धुविमर्दनम् ॥
ज्ञानार्णवं महातन्त्रं यमराजश्चकार ह ॥ १८ ॥
च्यवनो जीवदानं च चकार भगवानृषिः ॥
चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥ १९॥
सर्वसारं चन्द्रसुतो जाबालस्तन्त्रसारकम् ॥
वेदाङ्गसारं तन्त्रं च चकार जाजलिर्मुनिः ॥ 1.16.२० ॥
पैलो निदानं करथस्तन्त्रं सर्वधरं परम् ॥
द्वैधनिर्णयतन्त्रं च चकार कुम्भसम्भवः ॥ २१ ॥
चिकित्साशास्त्रबीजानि त न्त्राण्येतानि षोडश ॥।
व्याधिप्रणाशबीजानि बलाधानकरीषि ॥२२॥
मथित्वा ज्ञानमन्त्रेणैवायुर्वेदपयोनिधिम्॥
ततस्तस्मादुदाजह्रुर्नवनीतानि कोविदाः ॥ २३ ॥
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ॥
आयुर्वेदं सर्वबीजं सर्वं जानासि सुन्दरि ॥ २४ ॥
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ॥
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥ २५ ॥
आयुर्वेदस्य विज्ञाता चिकित्सासु यथार्थवित् ॥
धर्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्तितः ॥२६॥
जनकः सर्वरोगाणां दुर्वारो दारुणो ज्वरः ॥
शिवभक्तश्च योगी च निष्ठुरो विकृताकृतिः ॥ २७ ॥
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ॥
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥२८॥
मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ॥
पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः ॥ २९ ॥
वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च ॥
ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ॥ 1.16.३० ॥
पाण्डुश्च कामलः कुष्ठः शोथः प्लीहा च शूलकः ॥
ज्वरातिसारग्रहणीकासव्रणहलीमकाः ॥ ३१ ॥
मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारजः ॥
विषमेहश्च कब्जश्च गोदश्च गलगण्डकः ॥ ३२ ॥
भ्रमरी सन्निपातश्च विषूची दारुणी सति ॥
एषां भेदप्रभेदेन चतुःषष्टी रुजः स्मृताः ॥ ३३ ॥
मृत्युकन्यासुताश्चैते जरा तस्याश्च कन्यका ॥
जरा च भ्रातृभिः सार्द्धं शश्वद् भ्रमति भूतलम् ॥३४॥
एते चोपायवेत्तारं न गच्छन्ति च संयतम्॥
पलायन्ते च तं दृष्ट्वा वैनतेयमिवोरगाः ॥ ३५ ॥
चक्षुर्जलं च व्यायामः पादाधस्तैलमर्दनम् ॥
कर्णयोर्मूर्ध्नि तैलं च जराव्याधिविनाशनम् ॥ ३६ ॥
वसन्ते भ्रमणं वह्निसेवां स्वल्पां करोति यः ॥
बालां च सेवते काले जरा तं नोपगच्छति॥३७॥
खातशीतोदकस्नायी सेवते चन्दनद्रवम्
नोपयाति जरा तं च निदाघेऽनिलसेवकम्॥३८॥
प्रावृष्युष्णोदकस्नायी घनतोयं न सेवते ॥
समये च समाहारी जरा तं नोपगच्छति ॥ ३९ ॥
शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् ॥
खातस्नायी समाहारी जरा तं नोपगच्छति ॥ 1.16.४० ॥
खातस्नायी च हेमन्ते काले वह्निं च सेवते ॥
भुङ्क्ते नवान्नमुष्णं च जरा तं नोपगच्छति ॥ ४१ ॥
शिशिरेंऽशुकवह्निं च नवोष्णान्नं च सेवते ॥
यश्च वोष्णोदकस्नायी जरा तं नोपगच्छति॥४२॥
सद्योमांसं नवान्नं च बालास्त्रीक्षीरभोजनम्॥
घृतं च सेवते यो हि जरा तं नोपगच्छति॥४३॥
भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम् ॥
नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपगच्छति ॥ ४४ ॥
दधि हैयङ्गवीनं च नवनीतं तथा गुडम् ॥
नित्यं भुङ्क्ते संयमी यो जरा तं नोपगच्छति ॥४५॥
शुष्कमांसं स्त्रियं वृद्धां बालार्कं तरुणं दधि ॥
संसेवन्ते जरा याति प्रहृष्टा भ्रातृभिः सह ॥ ४६ ॥
रात्रौ ये दधि सेवन्ते पुंश्चलीश्च रजस्वलाः ॥
तानुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि ॥ ४७ ॥
रजस्वला च कुलटा चावीरा जारदूतिका ॥
शूद्रयाजकपत्नी या ऋतुहीना च या सति ॥ ४८ ॥
यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः ॥
तेन पापेन सार्द्धं सा जरा तमुपगच्छति ॥ ४९ ॥
पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् ॥
पापं व्याधिजराबीजं विघ्नबीजं च निश्चितम् ॥ 1.16.५० ॥
पापेन जायते व्याधिः पापेन जायते जरा ॥
पापेन जायते दैन्यं दुःखं शोको भयङ्करः ॥ ५१ ॥
तस्मात्पापं महावैरं दोषबीजममङ्गलम् ॥
भारते सततं सन्तो नाचरन्ति भयातुराः ॥५२॥
स्वधर्माचारयुक्तं च दीक्षितं हरिसेवकम् ॥
गुरुदेवातिथीनां च भक्तं सक्तं तपःसु च ॥५३॥
व्रतोपवासयुक्तं च सदा तीर्थनिषेवकम् ॥
रोगा द्रवन्ति तं दृष्ट्वा वैनतेयमिवोरगाः॥५४॥
एताञ्जरा न सेवेत व्याधिसङ्घश्च दुर्जयः ॥
सर्वं बोध्यमसमये काले सर्वं ग्रसिष्यति ॥ ५५ ॥
ज्वरस्य सर्वरोगाणां जनकः कथितः सति ॥
पित्तश्लेष्मसमीराश्च ज्वरस्य जनकास्त्रयः ॥ ५६ ॥
एते यथा सं चरन्ति स्वयं यान्ति च देहिषु ॥
तमेव विविधोपायं साध्वि मत्तो निशामय ॥ ५७ ॥
क्षुधि जाज्वल्यमानायामाहाराभाव एव च ॥
प्राणिनां जायते पित्तं चक्रे च मणिपूरके ॥ ५८ ॥
तालबिल्वफलं भुक्त्वा जलपानं च तत्क्षणम् ॥
तदेव तु भवेत्पित्तं सद्यः प्राणहरं परम् ॥ ५९ ॥
तप्तोदकं च शिरसि भाद्रे तिक्तं विशेषतः ॥
दैवग्रस्तश्च यो भुङ्क्ते पित्तं तस्य प्रजायते ॥ 1.16.६० ॥
सशर्करं च धान्याकं पिष्टं शीतोदकान्वितम् ॥
चणकं सर्वगव्यं च दधितक्रविवर्जितम् ॥ ६१ ॥
बिल्वतालफलं पक्वं सर्वमैक्षवमेव च ॥
आर्द्रकं मुद्गयूषं च तिलपिष्टं सशर्करम् ॥ ६२ ॥
पित्तक्षयकरं सद्यो बलपुष्टिप्रदं परम् ॥
पित्तनाशं च तद्बीजमुक्तमन्यन्निबोध मे ॥ ६३ ॥
भोजनानन्तरं स्नानं जलपानं विना तृषा ॥
तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ॥६४॥
पर्य्युषितान्नं च तक्रं च पक्वं रम्भाफलं दधि ॥
मेघाम्बु शर्करातोयं सुस्निग्धजलसेवनम् ॥६५॥
नारिकेलोदकं रूक्षस्नानं पर्युषिते जले ॥
तरुगुञ्जापक्वफलं सुपक्वं कर्क्कटीफलम् ॥६६॥
खातस्नानं च वर्षासु मूलकं श्लेष्मकारकम् ॥
ब्रह्मरन्ध्रे च तज्जन्म महद्वीर्य्य विनाशनम्॥६७॥
वह्निस्वेदं भ्रष्टभङ्गं पक्वतैलविशेषकम् ॥
भ्रमणं शुष्कभक्षं च शुष्कपक्वहरीतकी ॥६८॥
पिण्डारकमपक्वं च रम्भा फलमपक्वकम् ॥
वेसवारः सिन्धुवार अनाहारमपानकम् ॥ ६९ ॥
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ॥
मरीचं पिप्पलं शुष्कमार्द्रकं जीवकं मधु ॥ 1.16.७०. ॥
द्रव्याण्येतानि गान्धर्वि सद्यः श्लेष्महराणि च ॥
बलपुष्टिकराण्येव वायुबीजं निशामय ॥ ७१ ॥
भोजनानन्तरं सद्यो गमनं धावनं तथा ॥
छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् ॥ ७२ ॥
वृद्धस्त्रीगमनं चैव मनःसन्ताप एव च ॥
अतिरूक्षमनाहारं युद्धं कलहमेव च ॥ ७३ ॥
कटु वाक्यं भयं शोकः केवलं वायुकारणम् ॥
आज्ञाख्यचक्रे तजन्म निशामय तदौषधम् ॥ ७४ ॥
पक्वं रम्भाफलं चैव सबीजं शर्करोदकम् ॥
नारिकेलोदकं चैव सद्यस्तक्रं सुपिष्टकम् ॥७५॥
माहिषं दधि मिष्टं च केवलं वा सशर्करम् ॥
सद्यः पर्य्युषितान्नं च सौवीरं शीतलोदकम् ॥ ७६ ॥
पक्वतैलविशेषं च तिलतैलं च केवलम् ॥
लाङ्गलीतालखर्जूरमुष्णमामलकीद्रवम् ॥ ७७ ॥
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् ॥
स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानि च ॥ ७८ ॥
एतत्ते कथितं वत्से सद्योवायुप्रणाशनम् ॥
वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ॥ ७९ ॥
व्याधिसङ्घश्च कथितस्तन्त्राणि विविधानि च ॥
तानि व्याधिप्रणाशाय कृतानि सद्भिरेव च ॥ 1.16.८० ॥
तन्त्राण्येतानि सर्वाणि व्याधिक्षयकराणि च ॥
रसायनादयो येषु चोपायाश्च सुदुर्लभाः ॥ ८१ ॥
न शक्तः कथितुं साध्वि यथार्थं वत्सरेण च ॥
तेषां च सर्वतन्त्राणां कृतानां च विचक्षणैः॥८२॥
केन रोगेण त्वत्कान्तो मृतः कथय शोभने ॥
तदुपायं करिष्यामि येन जीवेदयं सति ॥ ८३ ॥
सौतिरुवाच ॥
ब्राह्मणस्य वचः श्रुत्वा कन्या चित्ररथस्य च ॥
कथां कथितुमारेभे सा गान्धर्वी प्रहर्षिता ॥ ८४ ॥
मालावत्युवाच ॥
योगेन प्राणांस्तत्याज ब्रह्मणः शापहेतुना ॥
सभायां लज्जितः कान्तो मम विप्र निशामय ॥ ८५ ॥
सर्वं श्रुतमपूर्वं च शुभाख्यानं मनोहरम् ॥
भवेद्भवे कुतः केषां महल्लभ्यं विपद्विना ॥ ८६ ॥
अधुना मत्प्राणकान्तं देहि देहि विचक्षण ॥
नत्वा वः स्वामिना सार्द्धं यास्यामि स्वगृहं प्रति ॥ ८७ ॥
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः ॥
सभां जगाम देवानां शीघ्रं विप्रस्तदन्तिकात् ॥ ८८ ॥
इति श्रीब्रह्मवैवर्ते महापु० सौतिशौ० ब्रह्मखण्डे मालावतीविष्णुसंवादे चिकित्साप्रणयने षोडशोऽध्यायः ॥ १६ ॥