०१४

सौतिरुवाच ॥
तत्र स्थित्वा क्षणं देवा ब्रह्मेशानपुरोगमाः ॥
ययुर्मालावतीमूलं परं मङ्गलदायकाः ॥ १ ॥
मालावती सुरान्दृष्ट्वा प्रणनाम प्रतिव्रता ॥
रुरोद कान्तं संस्थाप्य देवानां सन्निधौ मुने ॥ २ ॥
एतस्मिन्नन्तरे तत्र कश्चिद्ब्राह्मणबालकः ॥
आजगाम सुराणां च सभामतिमनोहरः ॥ ३ ॥
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ॥
दीर्घपुस्तकहस्तश्च सुप्रशान्तश्च सुस्मितः ॥ ४ ॥
चन्दनोक्षितसर्वाङ्गः प्रज्वलन्ब्रह्मतेजसा ॥
सुरान्सम्भाष्य तत्रैव विस्मितान्विष्णुमायया ॥५॥
तत्रोवास सभामध्ये तारामध्ये यथा शशी ॥
उवाच देवान्सर्वांश्च मालतीं च विचक्षणः ॥६॥
ब्राह्मण उवाच॥
कथमत्र सुराः सर्वे ब्रह्मेशानपुरोगमाः ॥
स्वयं विधाता जगतां स्रष्टा वै केन कर्मणा॥७॥
सर्वब्रह्माण्डसंहर्त्ता शम्भुरत्र स्वयं विभुः॥
अहो त्रिजगतां साक्षी धर्मो वै सर्वकर्मणाम्॥८॥
कथं रविः कथं चन्द्रः कथमत्र हुताशनः ॥
कथं कालो मृत्युकन्या कथं वाऽत्र यमादयः॥ ॥९॥
हे मालावति ते क्रोडे कोऽतिशुष्कश्शवोऽनघे ॥
जीवितायाः कथं मूले योषितश्च पुमाञ्छवः ॥1.14.१ ० ॥
इत्युक्त्वा तांश्च तां विप्रो विरराम सभातले ॥
मालावती तं प्रणम्य समुवाच विचक्षणम् ॥ ११ ॥
मालावत्युवाच ॥ आनन्दपूर्वकं वन्दे विप्ररूपं जनार्दनम् ॥
तुष्टा देवा हरिस्तुष्टो यस्य पुष्पजलेन च ॥१२॥
अवधानं कुरु विभो शोकार्ताया निवेदने ॥
समा कृपा सतां शश्वद्योग्या योग्ये कृपावताम् ॥ १३ ॥
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च ॥
सर्वे मालावतीं कृत्वा वदन्ते विप्रपुङ्गव ॥ १४ ॥
दिव्यं लक्षयुगं रम्ये स्थाने स्थाने मनोहरे ॥
कृता स्वच्छन्दतः क्रीडा चानेन स्वामिना सह ॥ १५ ॥
प्रिये स्नेहो हि साध्वीनां यावान्विप्रेन्द्र योषिताम् ॥
सर्व शास्त्रानुसारेण जानासि त्वं विचक्षण॥ १६ ॥
अकस्माद्ब्रह्मणः शापात्प्राणांस्तत्याज मत्पतिः॥
देवानुद्दिश्य विलपे यथा जीवति मत्पतिः ॥ १७ ॥
स्वकार्य्यसाधने सर्वे व्यग्राश्च जगतीतले ॥
भावाभावं न जानन्ति केवलं स्वार्थतत्पराः ॥ ॥ १८ ॥
सुखं दुःखं भयं शोकं सन्तापः कर्मणां नृणाम् ॥
ऐश्वर्य्यं परमानन्दो जन्म मृत्युश्च मोक्षणम् ॥ १९ ॥
देवाश्च सर्वज नका दातारः कर्मणां फलम्॥
कर्त्तारः कर्मवृक्षाणां मूलच्छेदं च लीलया॥1.14.२०॥
न हि देवात्परो बन्धुर्न हि देवात्परो बली॥
दयावान्न हि देवाच्च न च दाता ततः परः ॥ २१ ॥
सर्वान्देवानहं याचे पतिदानं ममेप्सितम् ॥
धर्मार्थकाममोक्षाणां फलदांश्च सुरद्रुमान् ॥ २२ ॥
यदि दास्यन्ति देवा मे कान्तदानं यथेप्सितम् ॥
भद्रं तदाऽन्यथा तेभ्यो दास्यामि स्त्रीवधं ध्रुवम् ॥ २३ ॥
शपिष्यामि च सर्वांश्च दारुणं दुर्निवारकम् ॥
दुर्निवार्य्यः सतीशापस्तपसा केन वार्य्यते ॥ २४ ॥
इत्युक्त्वा मालती साध्वी शोकार्ता सुरसंसदि ॥
विरराम द्विजश्रेष्ठस्तामुवाच च शौनक ॥ २५ ॥
ब्राह्मण उवाच ॥
कर्मणां फलदातारो देवाः सत्यं च मालति ॥
न सद्यः सुचिरेणैव धान्यं कृषकवन्नृणाम् ॥ २५ ॥
गृही च कृषकद्वारा क्षत्रे धान्यं वपेत्सति ॥
तदङ्कुरो भवेत्काले काले वृक्षः फलत्यपि ॥ ॥ २७ ॥
काले सुपक्वं भवति काले प्राप्नोति तद्गृही ॥
एवं सर्वं समुन्नेयं चिरेण कर्मणः फलम् ॥ २८ ॥
अष्ठी वपति संसारे गृहस्थो विष्णुमायया ॥
काले तदङ्कुरो वृक्षः काले प्राप्नोति तत्फलम् ॥ २९ ॥
पुण्यवान्पुण्यभूमौ च करोति सुचिरं तपः ॥
तेषां च फलदातारो देवाः सत्यं न संशयः ॥ 1.14.३० ॥
ब्राह्मणानां मुखे क्षेत्रे श्रेष्ठेऽनूषर एव च ॥
यो यज्जुहोति भक्त्या च स तत्प्राप्नोति निश्चितम् ॥३१॥
न बलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः ॥
नैव स्त्री न च सत्कान्तः किं भवेत्तपसा विना ॥३२॥
सेवते प्रकृतिं यो हि भक्त्या जन्मनि जन्मनि॥
स लभेत्सुन्दरीं कान्तां विनीतां च गुणान्विताम् ॥ ३३ ॥
श्रियं च निश्चलां पुत्रं पौत्रं भूमिं धनं प्रजाम् ॥
प्रकृतेश्च वरेणैव लभेद्भक्तोऽवलीलया ॥ ३४ ॥
शिवं शिवस्वरूपं च शिवदं शिवकारणम् ॥
ज्ञानानन्दं महात्मानं परं मृत्युञ्जयं परम् ॥३५॥
तमीशं सेवते यो हि भक्त्या जन्मनि जन्मनि ॥
पुमान्प्राप्नोति सत्कान्तां कामिनी चापि सत्पतिम् ॥ ॥ ३६ ॥
विद्यां ज्ञानं सुकवितां पुत्रं पौत्रं परां श्रियम् ॥
बलं धनं विक्रमं च लभेद्धरवरेण सः ॥ ३७ ॥
ब्रह्माणं भजते यो हि लभेत्सोऽपि प्रजां श्रियम् ॥
विद्यामैश्वर्य्यमानन्दं वरेण ब्रह्मणो नरः ॥ ३८ ॥
यो नरो भजते भक्त्या दीननाथं दिनेश्वरम् ॥
विद्यामारोग्यमानन्दं धनं पुत्रं लभेद् धुवम् ॥३९॥
गणेश्वरं यो भजते देवदेवं सनातनम् ॥
सर्वाग्रपूज्यं सर्वेशं भक्त्या जन्मनि जन्मनि ॥ ॥ 1.14.४० ॥
विघ्ननाशो भवेत्तस्य स्वप्ने जागरणेऽनिशम् ॥
परमानन्दमैश्वर्य्यं पुत्रं पौत्रं धनं प्रजाः ॥ ४१ ॥
ज्ञानं विद्यां सुकवितां लभते तद्वरेण च ॥
भजते यो हि विष्णुं च लक्ष्मीकान्तं सुरेश्वरम् ॥४२॥
वरार्थी चेल्लभेत्सर्वं निर्वाणमन्यथा ध्रुवम् ॥
शान्तं निषेव्य पातारं सत्यं सत्यं लभेन्नरः ॥ ४३ ॥
सर्वं तपः सर्वधर्मं यशः कीर्तिमनुत्तमाम् ॥
विष्णुं निषेव्य सर्वेशं यो मूढो लभते वरम् ॥ ४४ ॥
विडम्बितो विधात्राऽसौ मोहितो विष्णुमायया ॥
माया नारायणीशाना सर्वप्रकृतिरीश्वरी ॥ ४५ ॥
सा कृपां कुरुते यं च विष्णुमन्त्रं ददाति तम् ॥
धर्मं यो भजते धर्मी सर्वधर्मं लभेद् ध्रुवम् ॥४६॥
इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥
यो यं देवं भजेद्भक्त्या स चादौ लभते च तम् ॥ ४७ ॥
काले पश्चात्तेन सार्द्धं परं विष्णोः पदं लभेत् ॥
श्रीकृष्णं भजते यो हि निर्गुणं प्रकृतेः परम् ॥ ४८ ॥
ब्रह्मविष्णुशिवादीनां सेव्यं बीजं परात्परम् ॥
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ॥ ४९ ॥
साकारं च निराकारं ज्योतिः स्वेच्छामयं विभुम् ॥
सर्वाधारं च सर्वेशं परमानन्दमीश्वरम् ॥ 1.14.५० ॥
निर्लिप्तसाक्षिरूपं च भक्तानुग्रहविग्रहम् ॥
जीवन्मुक्तः स सत्यं हि न वरं लभते सुधीः॥५१॥
स सर्वं मन्यते तुच्छं सालोक्यादिचतुष्टयम् ॥
ब्रह्मत्वममरत्वं वा मोक्षं यत्तुच्छवत्सति ॥५२॥
ऐश्वर्यं लोष्टतुल्यं च नश्वरं चैव मन्यते ॥
इन्द्रत्वं च मनुत्वं च चिरजीवित्वमेव वा ॥ ९३ ॥
जल बुद्बुदवद् बुद्ध्या चातितुच्छं न गण्यते ॥
स्वप्ने जागरणे वाऽपि शश्वत्सेवां च वाच्छति ॥५४॥
दास्यं विना न याचेत श्रीकृष्णस्य पदं परम् ॥
तत्पादाब्जे दृढां भक्तिं लब्ध्वा पूर्णो निरन्तरम् ॥ ५९ ॥
परिपूर्णतमं ब्रह्म निषेव्यं सुस्थिरः सदा ॥
आत्मनः कुलकोटिं च शतं मातामहस्य च ॥५६॥
श्वशुरस्य शतं पूर्वमुद्धृत्य चावलीलया ॥
दासं दासीं प्रसूं भार्यां पुत्रादपि परं शतम्॥ ॥ ५७ ॥
उद्धरेत्कृष्णभक्तश्च गोलोकं याति निश्चितम् ॥
तावद्गर्भे वसेत्कामी तावती यमयातना ॥ ९८ ॥
तावद्गृही च भोगार्थी यावत्कृष्णं न सेवते ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ॥ ५९ ॥
यमस्तल्लिखनं दूरं करोति तत्क्षणं भिया ॥
मधुपर्कादिकं ब्रह्मा पुरैव तन्नियोजयेत् ॥1.14.६०॥
अहो विलङ्घ्य मल्लोकं मार्गेणानेन यास्यति॥
तस्य वै निष्कृतिर्नास्ति कल्पकोटिशतैरपि॥६१॥
दुरितानि च भीतानि कोटिजन्मकृतानि च ॥
तं विहाय पलायन्ते वैनतेयं यथोरगाः ॥ ६२ ॥
पुरातनं कृतं कर्म यद्यत्तस्य शुभाशुभम् ॥
छिनत्ति कृष्णश्चक्रेण तीक्ष्णधारेण सन्ततम् ॥ ६३ ॥
तं विहाय जरा मृत्युर्याति चक्रभिया सति ॥
अन्यथा शतखण्डं तां कुरुते च सुदर्शनः॥६४॥
निःशङ्को याति गोलोकं विहाय मानवीं तनुम् ॥
गत्वा दिव्यां तनुं धृत्वा श्रीकृष्णं सेवते सदा॥६५॥
यावत्कृष्णो हि गोलोके तावद्भक्तो वसेत्सदा ॥
निमेषं मन्यते दासो नश्वरं ब्रह्मणो वयः ॥ ६६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे विष्णुमालावतीसंवादो नाम चतुर्दशोऽध्यायः ॥ १४ ॥