०१२

शौनक उवाच ॥
ऋषिवंशप्रसङ्गेन बभूवुर्विविधाः कथाः ॥
उपालम्भेन प्रस्तावात्कौतुकेन श्रुता मया ॥१॥
प्रजा वा ससृजुः के वा ऊर्ध्वरेताश्च कश्चन ॥
पित्रा सह विरोधेन नारदः किं चकार सः ॥ २ ॥
पितुः शापेन पुत्रस्य किं बभूव विरोधतः ॥
पितुर्वा पुत्रशापेन सौते तत्कथ्यतां शुभम् ॥ ३ ॥
सौतिरुवाच ॥
हंसो यतिश्चारणिश्च वोढुः पञ्चशिखस्तथा ॥
अपान्तरतमाश्चैव सनकाद्याश्च शौनक ॥ ४ ॥
एतैर्विनाऽन्ये बहवो ब्रह्मपुत्राश्च सन्ततम् ॥
सांसारिकाः प्रजावन्तो गुर्वाज्ञापरिपालकाः ॥ ५ ॥
अपूज्यः पुत्रशापेन स्वयं ब्रह्मा प्रजापतिः ॥
तेनैव ब्रह्मणो मन्त्रं नोपासन्ते विपश्चितः ॥ ६ ॥
नारदो गुरुशापेन गन्धर्वश्च बभूव सः॥
कथयामि सुविस्तीर्णं तद्वृत्तान्तं निशामय ॥ ७ ॥
गन्धर्वराजः सर्वेषां गन्धर्वाणां वरो महान् ॥
परमैश्वर्य्यसंयुक्तः पुत्रहीनो हि कर्मणा ॥ ८ ॥
गुर्वाज्ञया पुष्करे स परमेण समाधिना ॥
तपश्चकार शम्भोश्च कृपणो दीनमानसः ॥ ९ ॥
शिवस्य कवचं स्तोत्रं मन्त्रं च द्वादशाक्षरम् ॥
ददौ गन्धर्वराजाय वसिष्ठश्च कृपानिधिः ॥ 1.12.१० ॥
जजाप परमं मन्त्रं दिव्यं वर्षशतं मुने ॥
पुष्करे स निराहारः पुत्रदुःखेन तापितः ॥ ११ ॥
विरामे शतवर्षस्य ददर्श पुरतः शिवम् ॥
भासयन्तं दश दिशो ज्वलन्तं ब्रह्मतेजसा ॥ १२ ॥
महत्तेजस्स्वरूपं च भगवन्तं सनातनम् ॥
ईषद्धासं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ १३ ॥
तपोरूपं तपोबीजं तपस्याफलदं फलम् ॥
शरणागतभक्ताय दातारं सर्वसम्पदाम् ॥ १४ ॥
त्रिशूलपट्टिशधरं वृषभस्थं दिगम्बरम् ॥
शुद्ध स्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरम् ॥ १५ ॥
तप्तस्वर्णप्रभाजुष्टजटाजालधरं वरम् ॥
नीलकण्डं च सर्वज्ञं नागयज्ञोपवीतकम् ॥ १६ ॥
संहर्तारं च सर्वेषां कालं मृत्युञ्जयं परम् ॥
ग्रीष्ममध्याह्नमार्त्तण्डकोटिसङ्काशमीश्वरम् ॥ १७ ॥
तत्त्वज्ञानप्रदं शान्तं मुक्तिदं हरिभक्तिदम् ॥
दृष्ट्वा ननाम सहसा गन्धर्वो दण्डवद्भुवि ॥ १८ ॥
वसिष्ठदत्तस्तोत्रेण तुष्टाव परमेश्वरम् ॥
वरं वृणुष्वेति शिवस्तमुवाच कृपानिधिः ॥
स ययाचे हरे भक्तिं पुत्रं परमवैष्णवम् ॥ १९ ॥
गन्धर्वस्य वचः श्रुत्वा चाह सीच्चन्द्रशेखरः ॥
उवाच दीनं दीनेशो दीनबन्धुः सनातनम् ॥ 1.12.२० ॥
श्रीमहादेव उवाच ॥
कृतार्थस्त्वं वरादेकादन्यच्चर्वितचर्वणम् ॥
गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले ॥ २१ ॥
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला ॥
स समर्थः सर्वविश्वं पातुं कर्त्तुं च लीलया ॥ २२ ॥
आत्मनः कुलकोटिं च शतं मातामहस्य च ॥
पुरुषाणां समुद्धृत्य गोलोकं याति निश्चितम् ॥२३॥
त्रिविधानि च पापानि कोटिजन्मार्जितानि च ॥
निहत्य पुण्यभोगं च हरिदास्यं लभेद् ध्रुवम्॥२४॥
तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्॥
सुखं दुःखं नृणां तावद्यावत्कृष्णे न मानसम्॥ २९ ॥
कृष्णे मनसि सञ्जाते भक्तिखड्गो दुरत्ययः ॥
नराणां कर्मवृक्षाणां मूलच्छेदं करोत्यहो ॥ २६ ॥
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः ॥
कुलकोटिं च तेषां ते उद्धरन्त्येव लीलया ॥ २७ ॥
चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो॥
किं वरेण द्वितीयेन पुंसां तृप्तिर्न मङ्गले ॥ २८ ॥
धनं सञ्चितमस्माकं वैष्णवानां सुदुर्लभम् ॥
श्रीकृष्णे भक्तिदास्यं च न वयं दातुमुत्सुकाः ॥२९॥
वरयान्यं वरं वत्स यत्ते मनसि वाञ्छितम्॥
इन्द्रत्वममरत्वं वा ब्रह्मत्वं लभ दुर्लभम्॥1.12.३०॥
सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम् ॥
सुखेन सर्वं दास्यामि हरिदास्यं त्यज ध्रुवम् ॥ ३१ ॥
शङ्करस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुकः ॥
उवाच दीनो दीनेशं दातारं सर्वसम्पदाम् ॥ ३२ ॥
गन्धर्व उवाच ॥
यत्पक्ष्मचालनेनैव ब्रह्मणः पतनं भवेत् ॥
तद्ब्रह्मत्वं स्वप्नतुल्यं कृष्णभक्तो न चेच्छति ॥ ३३ ॥
इन्द्रत्वममरत्वं वा सिद्धियोगादिकं शिव ॥
ज्ञानं मृत्युजयाद्यं वा न हि भक्तस्य वाञ्छितम् ॥ ३४ ॥
सालोक्यसार्ष्टिसामीप्यसायुज्यं श्रीहरेरपि ॥
तत्र निर्वाणमोक्षं च न हि वाञ्छन्ति वैष्णवाः ॥ ३९ ॥
शश्वत्तत्र दृढा भक्तिर्हरिदास्यं सुदुर्लभम् ॥
स्वप्ने जागरणे भक्ता वाञ्छन्त्येवं वरं वरम् ॥ ३६ ॥
तद्दास्यं वैष्णवसुतं देहि कल्पतरो वरम् ॥
त्वां प्राप्य लभते तुष्टं वरं सर्ववरोऽवरः ॥ ३७॥
न दास्यसीदं चेच्छम्भो वरं दुष्कृतिनं च माम् ॥
कृत्वा हि स्वशिरश्छेदं प्रदास्यामि हुताशने ॥ ३८ ॥
गन्धर्ववचनं श्रुत्वा तमुवाच कृपानिधिः ॥
भक्तं दीनं च भक्तेशो भक्तानुग्रहकारकः ॥३९॥
श्रीशङ्कर उवाच ॥
हरिभक्तिं हरेर्दास्यं पुत्रं परमवैष्णवम्॥
चिरायुषं च गुणिनं शश्वत्सुस्थिरयौवनम् ॥ 1.12.४० ॥
ज्ञानिनं सुन्दरवरं गुरुभक्तं जितेन्द्रियम् ॥
गन्धर्वराजप्रवरं वरेमं लभ मा शुचः ॥ ४१ ॥
इत्युक्त्वा शङ्करस्तस्माज्जगाम स्वालयं मुने ॥
गन्धर्वराजः सन्तुष्ट आजगाम स्वमन्दिरम् ॥ ४२ ॥
प्रफुल्लमानसाः सर्वे मानवाः सिद्धकर्मणः ॥
नारदस्तस्य भार्य्यायां लेभे जन्म च भारते ॥ ४३ ॥
सुषाव पुत्रं सा वृद्धा पर्वते गन्धमादने ॥
गुरुर्वसिष्ठो भगवान्नाम चक्रे यथोचितम् ॥ ४४ ॥
बालकस्य च तस्यैव मङ्गलं मङ्गले दिने ॥
उप शब्दोऽधिकार्थश्च पूज्ये च बर्हणः पुमान् ॥
पूज्यानामधिको बालस्तेनोपबर्हणाभिधः ॥ ४९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौति शौनकसंवादे ब्रह्मखण्डे नारदजन्मकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥