०११

शौनक उवाच ॥
द्विजः स भार्य्यां सन्त्यज्य किञ्चकार विशेषतः ॥
अश्विनोर्वा महाभाग किं नाम कस्य वंशजौ ॥ १ ॥
सोतिरुवाच ॥
द्विजश्च सुतपा नाम भारद्वाजो महामुनिः ॥
तपश्चकार कृष्णस्य लक्षवर्षं हिमालिये ॥ २ ॥
महातपस्वी तेजस्वी प्रज्वलन्ब्रह्मतेजसा ॥
ज्योतिर्ददर्श कृष्णस्य गगने सहसा क्षणम् ॥ ३ ॥
वरं स वव्रे निर्लिप्तमात्मानं प्रकृतेः परम् ॥
न च मोक्षं ययाचे तं दास्यं भक्तिं च निश्चलाम् ॥ ४ ॥
बभूवाकाशवाणीति कुरु दारपरिग्रहम् ॥
पश्चाद्दास्यं प्रदास्यामि भक्तिं भोगक्षये द्विज ॥५॥
पितॄणां मानसीं कन्यां ददौ तस्मै विधिः स्वयम् ॥
तस्यां कल्याणमित्रश्च बभूव मुनिपुङ्गव ॥ ६ ॥
यस्य स्मरणमात्रेण न भवेत्कुलिशाद्भयम् ॥
न द्रष्टव्यं बन्धुमात्रं नूनं तत्स्मरणाल्लभेत् ॥ ७ ॥
कल्याणमित्रजननीं परित्यज्य महामुनिः ॥
शशाप सूर्य्यपुत्रं च यज्ञभाग्वर्ज्जितो भव ॥ ८ ॥
स सोदरश्च वा पूज्यो भवेति च सुराधम ॥
व्याधिग्रस्तो जडाङ्गश्च भूयात्तेऽकीर्तिमानिति॥९॥
इत्युक्त्वा सुतपा गेहं प्रतस्थे सूनुना सह ॥
अश्विभ्यां सहितः सूर्य्यः प्रययौ च तदन्तिकम् ॥ 1.11.१० ॥
पुत्राभ्यां व्याधियुक्ताभ्यां सूर्य्यस्त्रिजगतां पतिः ॥
मुनीन्द्रं वै सुतपसं स तुष्टाव च शौनक ॥ ११ ॥
सूर्य्य उवाच॥
क्षमस्व भगवन्विप्र विष्णुरूप युगे युगे ॥
मम पुत्रापराधं च भारद्वाज मुनीश्वर ॥ १२ ॥
ब्रह्मविष्णुमहेशाद्याः सुराः सर्वे च सन्ततम् ॥
भुञ्जते विप्रदत्तं तु फलपुष्पजलादिकम् ॥ १३ ॥
ब्राह्मणावाहिता देवाः शश्वद्विश्वेषु पूजिताः ॥
न च विप्रात्परो देवो विप्ररूपी स्वयं हरिः ॥ १४ ॥
ब्राह्मणे परितुष्टे च तुष्टो नारायणः स्वयम् ॥
नारायणे च सन्तुष्टे सन्तुष्टाः सर्वदेवताः ॥ १५ ॥
नास्ति गङ्गासमं तीर्थं न च कृष्णात्परः सुरः ॥
न शङ्कराद्वैष्णवश्च न सहिष्णुर्धरा परा ॥ १६ ॥
न च सत्यात्परो धर्मो न साध्वी पार्वतीपरा ॥
न दैवाद्बलवान्कश्चिन्न च पुत्रात्परः प्रियः ॥ १७ ॥
न च व्याधिसमः शत्रुर्न च पूज्यो गुरोः परः ॥
नास्ति मातृसमो बन्धुर्न च मित्रं पितुः परम् ॥ १८ ॥
एकादशीव्रतान्नान्यत्तपो नानशनात्परम् ॥
परं सर्वधनं रत्नं विद्या रत्नं परं ततः ॥ १९ ॥
सर्वाश्रमैः परो विप्रो नास्ति विप्रसमो गुरुः ॥
वेदवेदाङ्गतत्त्वज्ञ इत्याह कमलोद्भवः ॥ 1.11.२० ॥
सूर्य्यस्य वचनं श्रुत्वा भारद्वाजो ननाम तम् ॥
नीरुजौ चापि तत्पुत्रौ चकार तपसः फलात् ॥ २१ ॥
पश्चाच्च तव पुत्रौ च यज्ञभाजौ भविष्यतः ॥
इत्युक्त्वा तं च सुतपाः प्रणम्याहस्करं मुनिः ॥ २२ ॥
जगाम गङ्गां सन्त्रस्तो हरिसेवनतत्परः॥
पुत्राभ्यां सहितः सूर्य्यो जगाम निज मन्दिरम् ॥ २३ ॥
बभूवतुस्तौ पूज्यौ च यज्ञभाजौ द्विजाशिषा ॥
एतत्सूर्यकृतं विप्रस्तोत्रं यो मानवः पठेत् ॥
विप्रपादप्रसादेन सर्वत्र विजयी भवेत् ॥ २४ ॥
ब्राह्मणेभ्यो नम इति प्रातरुत्थाय यः पठेत् ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ २५ ॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ॥
सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ २६ ॥
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी ॥
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ॥ २७ ॥
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥२८॥
महारोगी यदि पिबेद्विप्रपादोदकं द्विज ॥
मुच्यते सर्वरोगाच्च मासमेकं तु भक्तितः ॥२९ ॥
अविद्यो वा सविद्यो वा सन्ध्यापूतो हि यो द्विजः ॥
स एव विष्णुसदृशो न हरौ विमुखो यदि ॥ 1.11.३० ॥
घ्नन्तं विप्रं शपन्तं वा न हन्यान्न च तं शपेत् ॥
गोभ्यः शतगुणं पूज्यो हरिभक्तश्च स स्मृतः॥३१॥
पादोदकं च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज॥
नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत् ॥ ३२ ॥
एकादश्यां न भुङ्क्ते यो नित्यं कृष्णं समर्चयेत्॥
तस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद् ध्रुवम्॥ ३३ ॥
यो भुङ्क्ते भोजनोच्छिष्टं नित्यं नैवेद्यभोजनम् ॥
कृष्णदेवस्य पूतोऽसौ जीवन्मुक्तो महीतले ॥ ३४ ॥
अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ॥
द्विजानां कुलजातानामित्याह कमलोद्भवः॥३५॥
ब्रह्मा च ब्रह्मपुत्राश्च सर्वे विष्णुपरायणाः॥
ब्राह्मणस्तत्कुले जातो विमुखश्च हरौ कथम् ॥३६॥
पित्रोर्मातामहादीनां संसर्गस्य गुरोश्च वा॥
दोषेण विमुखाः कृष्णे विप्रा जीवन्मृताश्च ते ॥ ३७ ॥
स किङ्गुरुः स किन्तातः स किम्पुत्रः स किंसखा ॥
स किंराजा स किम्बन्धुर्न दद्याद्यो हरौ मतिम् ॥ ३८ ॥
अवैष्णवाद्द्विजाद्विप्र चण्डालो वैष्णवो वरः ॥
सगणः श्वपचो मुक्तो ब्राह्मणो नरकं व्रजेत् ॥ ३९ ॥
सन्ध्याहीनोऽशुचिर्नित्यं कृष्णे वा विमुखो द्विजः ॥
स एव ब्राह्मणाभासो विषहीनो यथोरगः ॥ 1.11.४० ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ॥
तं वैष्णवं महापूतं जीवन्मुक्तं वदेद्विधिः ॥ ॥ ४१ ॥
पुंसां मातामहादीनां शतैः सार्द्धं हरेः पदम् ॥
प्रयाति वैष्णवः पुंसामात्मनः कुलकोटिभिः ॥४२॥
ब्रह्मक्षत्त्रियविट्शूद्राश्चतस्रो जातयो यथा ॥
स्वतन्त्रा जातिरेका च विश्वस्मिन्वैष्णवाभिधा ॥ ४३ ॥
ध्यायन्ति वैष्णवाः शश्वद्गोविन्दपदपङ्कजम् ॥
ध्यायते तांश्च गोविन्दः शश्वत्तेषां च सन्निधौ ॥४४॥
सुदर्शनं सन्नियोज्य भक्तानां रक्षणाय च ॥
तथापि न हि निश्चिन्तोऽवतिष्ठेद्भक्तसन्निधौ ॥ ४५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे विष्णुवैष्णवब्राह्मणप्रशंसा नामैकादशोऽध्यायः ॥ ॥ ११ ॥