सौतिरुवाच ॥
भृगोः पुत्रश्च च्यवनः शुक्रश्च ज्ञानिनां वर ॥
क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत ॥ १ ॥
त्रयः पुत्राश्चाङ्गिरसो बभूवुर्मुनिसत्तमाः ॥
बृहस्पतिरुतथ्यश्च शम्बरश्चापि शौनक ॥ २ ॥
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥
पराशरसुतः श्रीमान्कृष्णद्वैपायनो हरिः ॥ ३ ॥
व्यासपुत्रः शिवांशश्च शुकश्च ज्ञानिनां वरः ॥
विश्वश्रवाः पुलस्त्यस्य यस्य पुत्रो धनेश्वरः ॥ ४ ॥
शौनक उवाच ॥
अहो पुराण वदुषामत्यन्तं दुर्गमं वचः ॥
न बुद्धं वचनं किञ्चिद्धनेशोत्पत्तिपूर्वकम् ॥ ५ ॥
अधुना कथितं जन्म धनेशस्येश्वरादिदम् ॥
पुनर्भिन्न्नक्रमं जन्म ब्रवीषि कथमेव माम् ॥ ६ ॥
सौतिरुवाच ॥
बभूवुरेते दिक्पालाः पुरा च परमेश्वरात् ॥
पुनश्च ब्रह्मशापेन स च विश्वश्रवस्सुतः ॥ ७ ॥
गुरवे दक्षिणां दातुमुतथ्यश्च धनेश्वरम् ॥
ययाचे कोटिसौवर्णं यत्नतश्च प्रचेतसे ॥ ८ ॥
धनेशो विरसो भूत्वा तस्मै तद्दातुमुद्यतः ॥
चकार भस्मसाद्विप्र पुनर्जन्म ललाभ सः ॥ ९ ॥
तेन विश्रवसः पुत्रः कुबेरश्च धनाधिपः ॥
रावणः कुम्भकर्णश्च धार्मिकश्च विभीषणः ॥ 1.10.१० ॥
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः ॥
सावर्णिर्गौतमाज्जज्ञे मुनिप्रवर एव सः ॥ ११ ॥
काश्यपः कश्यपाज्जातो भरद्वाजो बृहस्पतेः ॥
( स्वयं वात्स्यश्च पुलहात्सावर्णिर्गौतमात्तथा ॥ १२ ॥
शाण्डिल्यश्च रुचेः पुत्रो मुनिस्तेजस्विनां वरः ॥)
बभूवुः पञ्चगोत्राश्च एतेषां प्रवरा भवे ॥ १३ ॥
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः॥
ताः स्थिता देशभेदेषु गोत्रशून्याश्च शौनक ॥ १४ ॥
चन्द्रादित्यमनूनां च प्रवराः क्षत्रियाः स्मृताः ॥
ब्रह्मणो बाहुदेशाच्चैवान्याः क्षत्रियजातयः ॥ १५ ॥
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ॥
तासां सङ्करजातेन बभूवुर्वर्णसङ्कराः ॥ १६ ॥
गोपनापितभिल्लाश्च तथा मोदककूबरौ ॥
ताम्बूलिस्वर्णकारौ च वणिग्जातय एव च ॥ १७ ॥
इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्त्तिताः ॥
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्यद्विजन्मनोः ॥ १८ ॥
विश्वकर्मा च शूद्रायां वीर्य्याधानं चकार सः ॥
ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ॥ १९ ॥
मालाकारः शङ्खकारः कर्मकारः कुविन्दकः ॥
कुम्भकारः कांस्यकारः षडेते शिल्पिनां वराः ॥ 1.10.२० ॥
सूत्रकारश्चित्रकारः स्वर्णकारस्तथैव च ॥
पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ॥ ॥२१॥
शौनक उवाच ॥
कथं देवो विश्वकर्मा वीर्य्याधानं चकार सः ॥
शूद्रायामधमायां च कथं ते पतितास्त्रयः ॥ २२ ॥
कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना ॥
हे पुराणविदां श्रेष्ठ तन्नः शंसितुमर्हसि ॥ २३ ॥
सौतिरुवाच ॥
घृताची कामतः कामं वेषं चक्रे मनोहरम् ॥
तामपश्यद्विश्वकर्मा गच्छन्तीं पुष्करे पथि ॥ २४ ॥
आगच्छत्तद्विलोकाच्च प्रसादोत्फुल्लमानमः ॥
तां ययाचे स शृङ्गारं कामेन हृतचेतनः ॥ २५ ॥
रत्नालङ्कारभूषाढ्यां सर्वावयवकोमलाम् ॥
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ॥२६॥
बृहन्नितम्ब भारार्तां मुनिमानसमोहिनीम् ॥
अतिवेगकटाक्षेण लोलां कामातिपीडिताम् ॥२७॥
तच्छ्रोणीं कठिनां दृष्ट्वा वायुनाऽपहृतांशुकाम् ॥
अतीवोच्चैः स्तनयुगं कठिनं वर्तुलं परम् ॥ २८ ॥
सुस्मितं चारु वक्त्रं च शरच्चन्द्रविनिन्दकम् ॥
पक्वबिम्बफलारक्तस्वोष्ठाधरमनोहरम् ॥ २९ ॥
सिन्दूरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् ॥
कपोलमुज्ज्वलं शश्वन्महार्हमणिकुण्डलम् ॥ 1.10.३० ॥
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः ॥
कामाग्निवर्द्धनोद्योगि वचनं श्रुतिसुन्दरम् ॥ ३१ ॥
विश्वकर्मोवाच ॥
अयि क्व यासि ललिते मम प्राणाधिके प्रिये ॥
मम प्राणांश्चापहत्य तिष्ठ कान्ते क्षणं शुभे ॥ ३२ ॥
तवैवान्वेषणं कृत्वा भ्रमामि जगतीतलम् ॥
स्वप्राणांस्त्यक्तुमिष्टोऽहं त्वां न दृष्ट्वा हुताशने ॥३३॥
त्वं कामलोकं यासीति श्रुत्वा रम्भामुखोदितम् ॥
आगच्छमहमेवाद्य चास्मिन्वर्त्मन्यवस्थितः ॥ ३४ ॥
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे ॥
सुगन्धिमन्दशीतेन वायुना सुरभीकृते ॥ ३५ ॥
यभ कान्ते मया सार्द्धं यूना कान्तेन शोभने॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ॥३६॥
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी॥
कामुकी कोमलाङ्गी च सुन्दरीषु च सुन्दरी॥३७॥
मृत्युञ्जयवरेणैव मृत्युकन्या जिता मया ॥
कुबेरभवनं गत्वा धनं लब्धं कुबेरतः॥३८॥
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम् ॥
वह्निशुद्धं वस्त्रयुगं वह्नेः प्राप्तं महौजस.॥३९॥
कामशास्त्रं कामदेवाद्योषिद्रञ्जनकारम्॥
शृङ्गारशिल्पं यत्किञ्चिल्लब्धं चन्द्राच्च दुर्लभम् ॥ 1.10.४० ॥
रत्नमालां वस्त्रयुग्मं सर्वाण्याभरणानि च ॥
तुभ्यं दातुं हृदि कृतं प्राप्तं तत्क्षणमेव च ॥ ४१ ॥
गृहे तानि च संस्थाप्य चागतोऽन्वेषणे भवे ॥
विरामे सुखसम्भोगे तुभ्यं दास्यामि साम्प्रतम् ॥ ४२ ॥
कामुकस्य वचः श्रुत्वा घृताची सस्मिता मुने ॥
ददौ प्रत्युत्तरं शीघ्रं नीतियुक्तं मनोहरम् ॥ ४३ ॥
घृताच्युवाच ॥
त्वया यदुक्तं भद्रं तत्स्वीकरोम्यधुना परम् ॥ ।
किन्तु सामयिकं वाक्यं ब्रवीष्यामि स्मरातुर ॥ ४४ ॥
कामदेवालयं यामि कृतवेषा च तत्कृते ॥
यद्दिने यत्कृते यामो वयं तेषां च योषितः ॥४५॥
अद्याहं कामपत्नी च गुरुपत्नी तवाधुना ॥
त्वयोक्तमधुनेदं च पठितं कामदेवतः ॥ ४६ ॥
विद्यादाता मन्त्रदाता गुरुर्लक्षगुणैः पितुः ॥
मातुः सहस्रगुणवान्नास्त्यन्यस्तत्समो गुरुः ॥४७॥
गुरोः शतगुणैः पूज्या गुरुपत्नी श्रुतौ श्रुता॥
पितुः शतगुणं पूज्या यथा माता विचक्षण ॥४८॥
मात्रा समागमे सूनोर्यावान्दोषः श्रुतौ श्रुतः ॥
ततो लक्षगुणो दोषो गुरुपत्नीसमागमे ॥ ४९ ॥
मातरित्येव शब्देन यां च सम्भाषते नरः ॥
स मातृतुल्या सत्येन धर्मः साक्षी सतामपि ॥ 1.10.५० ॥
तया हि सङ्गतो यस्स्यात्कालसूत्रं प्रयाति सः ॥
तत्र घोरे वसत्येव यावच्चन्द्रदिवाकरौ ॥ ५१ ॥
मात्रा सह समायोगे ततो दोषश्चतुर्गुणः ॥
सार्द्धं च गुरुपत्न्या च तल्लक्षगुण एव च॥५२॥
कुम्भीपाके पतत्येव यावद्वै ब्रह्मणो वयः ॥
प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम् ॥५३॥
चक्राकारं कुलालस्य तीक्ष्णधारं च खङ्गवत् ॥
वसामूत्रपुरीषैश्च परिपूर्णं सुदुस्तरम् ॥ ५४ ॥
शूलवत्कृमिसंयुक्तं तप्तमग्निसमं द्रवत् ॥
पापिनां तद्विहारं च कुम्भीपाकप्रकीर्तितम् ॥ ५५ ॥
यावान्दोषो हि पुंसां च गुरुपत्नीसमागमे ॥
तावांश्च गुरुपत्न्यां वै तत्र चेत्कामुकी यदि ॥ ५६ ॥
अद्य यास्यामि कामस्य मन्दिरं तस्य कामिनी ॥
वेषं कृत्वा गमिष्यामि त्वत्कृतेऽहं दिनान्तरे ॥५७॥
घृताचीवचनं श्रुत्वा विश्वकर्मा रुरोष ताम् ॥
शशाप शूद्रयोनिं च व्रजेति जगतीतले ॥५८॥
घृताची तद्वचः श्रुत्वा तं शशाप सुदारुणम् ॥
लभ जन्म भवे त्वं च स्वर्गभ्रष्टो भवेति च ॥ ५९ ॥
घृताची कारुमुक्त्वा च साऽगच्छत्काममन्दिरम् ॥
कामेन सुरतं कृत्वा कथयामास तां कथाम् ॥1.10.६० ॥
सा भारते च कामोक्त्या गोपस्य मदनस्य च ॥
पत्न्यां प्रयागे नगरे लेभे जन्म च शौनक ॥ ६१ ॥
जातिस्मरा तत्प्रसूता बभूव च तपस्विनी ॥
वरं न वव्रे धर्मिष्ठा तपस्यायां मनो दधौ ॥ ६२ ॥
तपश्चकार तपसा तप्तकाञ्चनसन्निभा ॥
दिव्यं च शतवर्षं सा गङ्गातीरे मनोरमे ॥ ६३ ॥
वीर्येण सुरकारोश्च नव पुत्रान्प्रसूय सा ॥
पुनः स्वलोकं गत्वा च सा घृताची बभूव ह ॥ ६४ ॥
शौनक उवाच ॥
कथं वीर्य्यं सा दधार सुरकारोस्तपस्विनी ॥
पुत्रान्नव प्रसूता च कुत्र वा कति वासरान्॥ ६५ ।
सौतिरुवाच ॥
विश्वकर्मा तु तच्छापं समाकर्ण्य रुषाऽन्वितः ॥
जगाम ब्रह्मणः स्थानं शोकेन हृतचेतनः ॥ ६६ ॥
नत्वा स्तुत्वा च ब्रह्माणं कथयामास तां कथाम् ॥
ललाभ जन्म ब्राह्मण्यां पृथिव्यामाज्ञया विधेः ॥ ६७ ॥
स एव ब्राह्मणो भूत्वा भुवि कारुर्बभूव ह ॥
नृपाणां च गृहस्थानां नानाशिल्पं चकार ह ॥६८॥
शिल्पं च कारयामास सर्वेभ्यः सर्वतः सदा ।
विचित्रं विविधं शिल्पमाश्चर्य्यं सुमनोहरम् ॥ ६९ ॥
एकदा तु प्रयागे च शिल्पं कृत्वा नृपस्य च ॥
स्नातुं जगाम गङ्गां स चापश्यत्तत्र कामिनीम्।1.10.७०॥
घृताचीं नवरूपां च युवतिं तां तपस्विनीम् ॥
जातिस्मरां तां बुबुधे स च जातिस्मरो द्विज ॥ ७१ ॥
दृष्ट्वा सकामः सहसा बभूव हृतचेतनः ॥
उवाच मधुरं शान्तः शान्तां तां च तपस्विनीम्॥७२॥
ब्राह्मण उवाच ॥
अहोऽधुना त्वमत्रैव घृताचि सुमनोहरे ॥
मा मां स्मरसि रम्भोरु विश्वकर्माऽहमेव च॥७३॥
शापमोक्षं करिष्यामि भज मां तव सुन्दरि॥
त्वत्कृतेऽतिदहत्येव मनो मे स च मन्मथः॥ ॥ ७४ ॥
द्विजस्य वचनं श्रुत्वा घृताची नवरूपिणी॥
उवाच मधुरं शान्ता नीतियुक्तं परं वचः ॥७५॥
गोपिकोवाच॥
तद्दिने कामकान्ताऽहमधुना च तपस्विनी ॥
कथं त्वया सङ्गता स्यां गङ्गातीरे च भारते ॥ ७६ ॥
विश्वकर्मन्निदं पुण्यं कर्मक्षेत्रं च भारतम् ॥
अत्र यत्क्रियते कर्म भोगोऽन्यत्र शुभाशुभम् ॥ ७७ ॥
धर्मी मोक्षकृते जन्म प्रलभ्य तपसः फलात् ॥
निबद्धः कुरुते कर्म मोहितो विष्णुमायया ॥ ७८ ॥
माया नारायणीशाना परितुष्टा च यं भवेत् ॥
तस्मै ददाति श्रीकृष्णो भक्तिं तन्मन्त्रमीप्सितम् ॥ ७९ ॥
यो मूढो विषयासक्तो लब्धजन्मा च भारते ॥
विहाय कृष्णं सर्वेशं स मुग्धो विष्णुमायया ॥ 1.10.८० ॥
सर्वं स्मरामि देवाहमहो जातिस्मरा पुरा ॥
घृताची सुरवेश्याऽहमधुना गोपकन्यका ॥ ८१ ॥
तपः करोमि मोक्षार्थं गङ्गातीरे सुपुण्यदे ॥
नात्र स्थलं च क्रीडायाः स्थिरस्त्वं भव कामुक ॥ ८२ ॥
अन्यत्र यत्कृतं पापं गङ्गायां तद्विनश्यति ॥
गङ्गातीरे कृतं पापं सद्यो लक्षगुणं भवेत् ॥ ८३ ॥
तत्तु नारायणक्षेत्रे तपसा च विनश्यति ॥
यद्येव कामतः कृत्वा निवृत्तश्च भवेत्पुनः ॥ ८४ ॥
घृताचीवचनं श्रुत्वा विश्वकर्माऽनिलाकृतिः ॥
जगाम तां गृहीत्वा च मलयं चन्दनालयम् ॥ ८५ ॥
रम्यायां मलयद्रोण्यां पुष्पतल्पे मनोरमे ॥ ।
पुष्पचन्दनवातेन सन्ततं सुरभीकृते॥८६॥
चकार सुखसम्भोगं तया स विजने वने ॥
पूर्णं द्वादशवर्षं च बुबुधे न दिवानिशम्॥८७॥
बभूव गर्भः कामिन्याः परिपूर्णः सुदुर्वहः॥
सा सुषाव च तत्रैव पुत्रान्नव मनोहरान्॥८८॥
कृतशिक्षितशिल्पांश्व ज्ञानयुक्तांश्च शौनक॥
पूर्णप्राक्तनतो युग्यान्बलयुक्तान्विचक्षणान् ॥ ८९ ॥
मालाकारान्कर्मकाराञ्छङ्खकारान्कुविन्दकान् ॥
कुम्भकारान्सूत्रकारान्स्वर्णचित्रकरांस्तथा ॥ 1.10.९० ॥
तौ च तेभ्यो वरं दत्त्वा तान्संस्थाप्य महीतले ॥
मानवीं तनुमुत्सृज्य जग्मतुर्निजमन्दिरम् ॥ ९१ ॥
स्वर्णकारः स्वर्णचौर्याद्ब्राह्मणानां द्विजोत्तम ॥
बभूव पतितः सद्यो ब्रह्मशापेन कर्मणा ॥ ९२ ॥
सूत्रकारो द्विजानां तु शापेन पतितो भुवि ॥
शीघ्रं च यज्ञकाष्ठानि न ददौ तेन हेतुना॥९३॥
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ॥
पतितो ब्रह्मशापेन ब्राह्मणानां च कोपतः॥९४।
कश्चिद्वणिग्विशेषश्च संसर्गात्स्वर्णकारिणः ॥
स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥९५॥
कुलटायां च शूद्रायां चित्रकारस्य वीर्य्यतः ॥
बभूवाट्टालिकाकारः पतितो जारदोषतः ॥ ९६ ॥
अट्टालिकाकारबीजात्कुम्भकारस्य योषिति ॥
बभूव कोटकः सद्यः पतितो गृहकारकः ॥ ९७ ॥
कुम्भकारस्य बीजेन सद्यः कोटकयोषिति ॥
बभूव तैलकारश्च कुटिलः पतितो भुवि॥ ॥ ९८ ॥
सद्यः क्षत्रियबीजेन राजपुत्रस्य योषिति ॥
बभूव तीवरश्चैव पतितो जारदोषतः ॥ ९९ ॥
तीवरस्य तु बीजेन तैलकारस्य योषिति॥
बभूव पतितो दस्युर्लेटश्च परिकीर्तितः ॥ 1.10.१०० ॥
लेटस्तीवरकन्यायां जनयामास षट् सुतान् ॥
माल्लं मन्त्रं मातरं च भण्डं कोलं कलन्दरम् ॥ १०१ ॥
ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः ॥
सद्यो बभूव चण्डालः सर्वस्मादधमोऽशुचिः ॥ ॥ १०२ ॥
तीवरेण च चण्डाल्यां चर्मकारो बभूव ह ॥
चर्मकार्य्यां च चण्डालान्मांसच्छेदो बभूव ह ॥ १०३ ॥
मांसच्छेद्यां तीवरेण कोञ्चश्च परिकीर्तितः ॥
कोञ्चस्त्रियां तु कैवर्त्तात्कर्त्तारः परिकीर्तितः ॥ १०४ ॥
सद्यश्चण्डालकन्यायां लेटवीर्य्येण शौनक ॥
बभूवतुस्तौ द्वौ पुत्रौ दुष्टौ हड्डिडमौ तथा ॥१०५॥
क्रमेण हड्डिकन्यायां सद्यश्चण्डालवीर्य्यतः ॥
बभूवुः पञ्च पुत्राश्च दुष्टा वनचराश्च ते ॥ १०६ ॥
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक ॥
बभूव सद्यो यो बालो गङ्गापुत्रः प्रकीर्तितः ॥ १०७ ॥
गङ्गापुत्रस्य कन्यायां वीर्य्याद्वै वेषधारिणः ॥
बभूव वेषधारी च पुत्रो युङ्गी प्रकीर्तितः ॥ १०८ ॥
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह ॥
शुण्डीयोषिति वैश्यानु पौण्ड्रकश्च बभूव ह ॥ १०९ ॥
क्षत्रात्करणकन्यायां राजपुत्रो बभूव ह ॥
राजपुत्र्यां तु करणादागरीति प्रकीर्तितः ॥ 1.10.११० ॥
क्षत्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्तितः ॥
कलौ तीवरसंसर्गाद्धीवरः पतितो भुवि ॥ १११ ॥
तीवर्यां धीवरात्पुत्रो बभूव रजकः स्मृतः ॥
रजक्यां तीवराच्चैव कोयालीति बभूव ह ॥ ११२ ॥
नापिताद्गोपकन्यायां सर्वस्वी तस्य योषिति ॥
क्षत्राद्बभूव व्याधश्च बलवान्मृगहिंसकः ॥ ११३ ॥
तीवराच्छुण्डिकन्यायां बभूवुः सप्त पुत्रकाः ॥
ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा ॥ ११४ ॥
ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ॥
कुत्सितश्चोदरे जातः कूदरस्तेन कीर्तितः ॥ ११५ ॥
तदशौचं विप्रतुल्यं पतितश्चर्तुदोषतः ॥
सद्यः कोटकसंसर्गादधमो जगतीतले ॥ ११६ ॥
क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे ॥
जातः पुत्रो महादस्युर्बलवांश्च धनुर्द्धरः ॥ ११७ ॥
चकार वागतीतं च क्षत्रियेणापि वारितः ॥
तेन जात्याः स पुत्रश्च वागतीतः प्रकीर्तितः ॥ ११८ ॥
क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः ॥
बलवन्तो दुरन्ताश्च बभूवुर्म्लेच्छजातयः ॥ ११९ ॥
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्जयाः ॥
शौचाचारविहीनाश्च दुर्द्धर्षा धर्मवर्जिताः ॥ 1.10.१२० ॥
म्लेच्छात्कुविन्दकन्यायां जोला जातिर्बभूव ह॥ ।
जोलात्कुविन्दकन्यायां शराङ्कः परिकीर्तितः ॥ १२१ ॥
वर्णसङ्करदोषेण बह्व्यश्चाश्रुतजातय ॥
तासां नामानि सङ्ख्याश्च को वा वक्तुं क्षमो द्विज ॥ १२२ ॥
वैद्योऽश्विनीकुमारेण जातो विप्रस्य योषिति ॥
वैद्यवीर्य्येण शूद्रायां बभूवुर्बहवो जनाः ॥ १२३ ॥
ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः ॥
तेभ्यश्च जाताः शूद्रायां ये व्यालग्राहिणो भुवि ॥ १२४ ॥
शौनक उवाच ॥
कथं ब्राह्मणपत्न्यां तु सूर्य्यपुत्रोऽश्विनीसुतः ॥
अहो केनाविवेकेन वीर्य्याधानं चकार ह ॥ १२९ ॥
सौतिरुवाच ॥
गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः ॥
ददर्श कामुकः शान्तः पुष्पोद्याने च निर्जने ॥ १२६ ॥
तया निवारितो यत्नाद्बलेन बलवान्सुरः ॥
अतीव सुन्दरीं दृष्ट्वा वीर्य्याधानं चकार सः ॥ १२७ ॥
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे ॥
सद्यो बभूव पुत्रश्च तप्तकाञ्चनस न्निभः ॥ १२८ ॥
सपुत्रा स्वामिनो गेहं जगाम व्रीडिता सदा ॥
स्वामिनं कथयामास यन्मार्गे दैवसङ्कटम् ॥ १२९ ॥
विप्रो रोषेण तत्याज तं च पुत्रं स्वकामिनीम् ॥
सरिद्बभूव योगेन सा च गोदावरी स्मृता ॥ 1.10.१३० ॥
पुत्रं चिकित्साशास्त्रं च पाठयामास यत्नतः ॥
नानाशिल्पं च मन्त्रं च स्वयं स रविनन्दनः ॥ १३१ ॥
विप्रश्च वेतनाज्योतिर्गणनाच्च निरन्तरम् ॥
वेदधर्मपरित्यक्तो बभूव गणको भुवि ॥ १३२ ॥
लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् ॥
ग्रहणे मृतदानानामग्रादानो बभूव सः ॥ १३३ ॥
कश्चित्पुमान्ब्रह्मयज्ञे यज्ञकुण्डात्समुत्थितः ॥
स सूतो धर्मवक्ता च मत्पूर्वपुरुषः स्मृतः ॥ १३४ ॥
पुराणं पाठयामास तं च ब्रह्मा कृपानिधिः ॥
पुराणवक्ता सूतश्च यज्ञकुण्डसमुद्भवः ॥ १३९ ॥
वैश्यायां सूतवीर्य्येण पुमानेको बभूव ह ॥
स भट्टो वावदूकश्च सर्वेषां स्तुतिपाठकः ॥ १३६ ॥
एवं ते कथितः किञ्चित्पृथिव्यां जातिनिर्णय ॥
वर्णसङ्करदोषेण बह्व्योऽन्याः सन्ति जातयः॥ १ ३७॥
सबन्धो येषु येषां यः सर्वजातिषु सर्वतः ॥
तत्त्वं ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ॥ १३८ ॥
पिता तातस्तु जनको जन्मदाता प्रकीर्तितः ॥
अम्बा माता च जननी जनयित्री प्रसूरपि ॥ १३९ ॥
पितामहः पितृपिता तत्पिता प्रपितापहः ॥
अत ऊर्ध्वं ज्ञातयश्च सगोत्राः परिकीर्तितः ॥ 1.10.१४० ॥
मातामहः पिता मातुः प्रमातामह एव च ॥
मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ॥ १४१ ॥
पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही ॥
तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ॥ १४२ ॥
मातामही मातृमाता मातृतुल्या च पूजिता ॥
प्रमातामहीति ज्ञेया प्रमातामहकामिनी ॥ १४३ ॥
वृद्धमातामही ज्ञेया पत्पितुः कामिनी तथा ॥
पितृभ्राता पितृ व्यश्च मातृभ्राता च मातुलः ॥ १४४ ॥
पितृष्वसा पितुर्मातृष्वसा मातुस्स्वसा स्मृता ॥
सूनुश्च तनयः पुत्रो दायादश्चात्मजस्तथा॥ ॥ १४५ ॥
धनभाग्वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते ॥
जन्यायां दुहिता कन्या चात्मजा परिकीर्तिता ॥ १४६ ॥
पुत्रपत्नी वधू ज्ञेया जामाता दुहितुः पतिः ॥
पतिः प्रियश्च भर्ता च स्वामीकान्ते च वर्तते ॥ १४७ ॥
देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा ॥
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ १४८ ॥
भार्य्या जाया प्रिया कान्ता स्त्री व पत्नी प्रकीर्तिता ॥
पत्नीभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ॥ १४९ ॥
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ॥
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ॥ 1.10.१५० ॥
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः ॥
आवुत्तो भगिनीकान्तो भगिनीपतिरेव च ॥ १९१ ॥
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ॥
श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥१९२॥
अन्नदाता भयत्राता पत्नीतातस्तथैव च ॥
विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥ १५३॥
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी
माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ॥१५४॥
मातुर्माता पितुर्माता श्वश्रूपित्रोः स्वसा तथा॥
पितृव्यस्त्री मातुलानी मातरश्च चर्तुदश॥१५५॥
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च ॥
तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः॥१५६॥
कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बान्धवाः॥
भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः॥१५७॥
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः ॥
गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः॥१५८॥
गुरुकन्या च भगिनी पोष्या मातृसमा मुने॥
पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ॥१५९॥
पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः॥
कन्यायाः श्वशुरे चैव तत्सम्बन्धः प्रकीर्तितः॥1.10.१६०॥
गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवः ॥
गुरुश्वशुरभ्रातॄणां गुरुतुल्यः प्रकीर्तितः ॥ १६१॥
बन्धुता येन सार्द्ध च तन्मित्रं परिकीर्तितम् ॥
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ॥ १६२ ॥
बान्धवो दुःखदो दैवान्निस्सम्बन्धोऽसुखप्रदः ॥
सम्बन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ॥ १६३ ॥
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः ॥
मित्रं तु प्रीतिजं ज्ञेयं स सम्बधः सुदुर्लभः ॥ १६४ ॥
मित्रमाता मित्रभार्य्या मातृतुल्या न संशयः॥
मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ॥१६५॥
चतुर्थं नामसम्बन्धमित्याह कमलोद्भवः॥
जारश्चोपपर्तिर्बन्धुर्दुष्टा सम्भोगकर्त्तरि ॥ १६६ ॥
उपपत्न्यां नवज्ञा च प्रेयसी चित्तहारिणी ॥
स्वामितुल्यश्च जारश्च नवज्ञा गृहिणी समा ॥ १६७ ॥
सम्बन्धो देशभेदे च सर्वदेशे विगर्हितः ॥
अवैदिको निन्दितस्तु विश्वामित्रेण निर्मितः ॥ १६८ ॥
दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते ॥
अकीर्तिजनकः पुंसां योषितां च विशेषतः ॥ १६९ ॥
तेजीयसां न दोषाय विद्यमाने युगे युगे ॥ 1.10.१७० ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे जातिसम्बन्धनिर्णयो नाम दशमोऽध्यायः ॥ १० ॥