००८

सौतिरुवाच ॥
ब्रह्मा विश्वं विनिर्माय सावित्र्यां वरयोषिति ॥
चकार वीर्य्याधानं च कामुक्यां कामुको यथा ॥ १ ॥
सा दिव्यं शतवर्षं च धृत्वा गर्भं सुदुस्सहम् ॥
सुप्रसूता च सुषुवे चतुर्वेदान्मनोहरान् ॥ २ ॥
विविधाञ्शास्त्रसङ्घांश्च तर्कव्याकरणादिकान् ॥
षट्त्रिंशत्सङ्ख्यका दिव्या रागिणीः सुमनोहराः ॥ ३ ॥
षड्रागान्सुन्दरांश्चैव नानाताल समन्वितान् ॥
सत्यत्रेताद्वापरांश्च कलिं च कलहप्रियम् ॥ ४ ॥
वर्षमासमृतुं चैव तिथिं दण्डक्षणादिकम् ॥
दिनं रात्रिं च वारांश्च सन्ध्यामुषसमेव च ॥ ५ ॥
पुष्टिं च देवसेनां च मेधां च विजयां जयाम् ॥
षट्कृत्तिकाश्च योगांश्च करणं च तपो धनः ॥ ६ ॥
देवसेनां महाषष्ठीं कार्त्तिकेयप्रियां सतीम् ॥
मातृकासु प्रधाना सा बालानामिष्टदेवता ॥ ७ ॥
ब्राह्मं पाद्मं च वाराहं कल्पत्रयमिदं स्मृतम् ॥
नित्यं नैमित्तिकं चैव द्विपरार्द्धं च प्राकृतम् ॥ ८ ॥
चतुर्विधं च प्रलयं कालं वै मृत्युकन्यकाम् ॥
सर्वान्व्याधिगणांश्चैव सा प्रसूय स्तनं ददौ ॥ ९ ॥
अथ धातुः पृष्ठदेशादधर्मः समजायत॥
अलक्ष्मीस्तद्वामपार्श्वाद्बभूवात्यन्तकामिनी ॥1.8.१०॥
नाभिदेशाद्विश्वकर्मा जातो वै शिल्पिनां गुरुः ॥
महान्तौ वसवोऽष्टौ च महाबलपराक्रमाः ॥ ११ ॥
अथ धातुश्च मनस आविर्भूताः कुमारकाः ॥
चत्वारः पञ्चवर्षीया ज्वलन्तो ब्रह्मतेजसा ॥ १२ ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो भगवांश्चतुर्थो ज्ञानिनां वरः ॥१३॥
आविर्बभूव मुखतः कुमारः कनकप्रभः ॥
दिव्यरूपधरः श्रीमान्सस्त्रीकः सुन्दरो युवा ॥ १४ ॥
क्षत्त्रियाणां बीजरूपो नाम्ना स्वायम्भुवो मनुः ॥
या स्त्री सा शतरूपा च रूपाढ्या कमला कला ॥१५॥
सस्त्रीकश्च मनुस्तस्थौ धात्राज्ञा परिपालकः ॥
स्वयं विधाता पुत्रांश्च तानुवाच प्रहर्षितान् ॥ १६ ॥
सृष्टिं कर्त्तुं महाभागो महाभागवतान्द्विज ॥
जग्मुस्ते च नहीत्युक्त्वा तप्तुं कृष्णपरायणाः ॥ १७ ॥
चुकोप हेतुना तेन विधाता जगतां पतिः ॥
कोपासक्तस्य च विधेर्ज्वलतो ब्रह्मतेजसा ॥ १८ ॥
आविर्भूता ललाटाच्च रुद्रा एकादश प्रभो ॥
कालाग्निरुद्रः संहर्ता तेषामेकः प्रकीर्तितः ॥ १९ ॥
सर्वेषामेव विश्वानां स तामस इति स्मृतः ॥
राजसश्च स्वयं ब्रह्मा शिवो विष्णुश्च सात्त्विकौ ॥ 1.8.२० ॥
गोलोकनाथः कृष्णश्च निर्गुणः प्रकृतेः परः ॥
परमज्ञानिनो मूर्खा वदन्तं तामसं शिवम् ॥ २१ ॥
शुद्धसत्त्वस्वरूपं च निर्मलं वैष्णवाग्रणीम् ॥
शृणु नामानि रुद्राणां वेदोक्तानि च यानि च ॥ २२ ॥
महान्महात्मा मतिमान्भीषणश्च भयङ्करः ॥
ऋतुध्वजश्चोर्ध्वकेशः पिङ्गलाक्षो रुचिः शुचिः ॥ २३ ॥
पुलस्त्यो दक्षकर्णाच्च पुलहो वामकर्णतः ॥
दक्षनेत्रात्तथाऽत्रिश्च वामनेत्रात्क्रतुः स्वयम् ॥ २४ ॥
अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्रुचिः ॥
भृगुश्च वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ॥ २५ ॥
छायायाः कर्दमो जातो नाभेः पञ्चशिखस्तथा ॥
वक्षसश्चैव वोढुश्च कण्ठदेशाच्च नारदः ॥ २६ ॥
मरीचिः स्कन्धदेशाच्चैवापान्तरतमा गलात् ॥
वसिष्ठो रसनादेशात्प्रचेता अधरोष्ठतः ॥ २७ ॥
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् ॥
सृष्टिं विधातुं स विधिश्चकाराज्ञां सुतान्प्रति ॥
पितुर्वाक्यं समाकर्ण्य तमुवाच स नारदः ॥ २८ ॥
नारद उवाच ॥
पूर्वमानय मज्ज्येष्ठान्सनकादीन्पितामह ॥
कारयित्वा दारयुक्तानस्मान्वद जगत्पते ॥ २९ ॥
पित्रा ते तपसे युक्ताः संसाराय वयं कथम् ॥
अहो हन्त प्रभोर्बुद्धिर्विपरीताय कल्पते ॥ 1.8.३० ॥
कस्मै पुत्राय पीयूषात्परं दत्तं तपोऽधुना ॥
कस्मै ददासि विषयं विषमं च विषाधिकम् ॥ ३१ ॥
अतीव निम्ने घोरे च भवाब्धौ यः पतेत्पितः ॥
निष्कृतिस्तस्य नास्तीति कोटिकल्पे गतेऽपि च ॥ ३२ ॥
निस्तारबीजं सर्वेषां बीजं च पुरुषोतमम् ॥
सर्वदं भक्तिदं दास्यप्रदं सत्यं कृपामयम् ॥ ३३ ॥
भक्तैकशरणं भक्तवत्सलं स्वच्छमेव च ॥
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ॥ ३४ ॥
भक्ताराध्यं भक्तसाध्यं विहाय परमेश्वरम् ॥
मनो दधाति को मूढो विषये नाशकारणे ॥ ३५ ॥
विहाय कृष्णसेवां च पीयूषादधिकां प्रियाम् ॥
को मूढो विषमश्नाति विषमं विषयाभिधम् ॥ ३६ ॥
स्वप्नवन्नश्वरं तुच्छमसत्यं मृत्युकारणम् ॥
यथा दीपशिखाग्रं च कीटानां सुमनोहरम् ॥३७॥
यथा बडिशमांसं च मत्स्यापातसुखप्रदम्॥
तथा विषयिणां तात विषयं मृत्युकारणम्॥३८॥
इत्युक्त्वा नारदस्तत्र विरराम विधेः पुरः ॥
तस्थौ तातं नमस्कृत्य ज्वलदग्निशिखोपमः ॥३९॥
ब्रह्मा कोपपरीतश्च शशाप तनयं द्विज ॥
उवाच कम्पिताङ्गश्च रक्तास्यः स्फुरिताधरः ॥ 1.8.४० ॥
ब्रह्मोवाच ॥
भविता ज्ञानलोपस्ते मच्छापेन च नारद ॥
क्रीडामृगश्च त्वं साध्यो योषिल्लुब्द्धधश्च लम्पटः॥४१॥
स्थिरयौवनयुक्तानां रूपाढ्यानां मनोहरः ॥
पञ्चाशत्कामिनीनां च भर्ता च प्राणवल्लभः॥४२॥
शृङ्गारशास्त्रवेत्ता च महाशृङ्गारलोलुपः॥
नानाप्रकारशृङ्गारनिपुणानां गुरोर्गुरुः ॥४३॥
गन्धर्वाणां च सुवरः सुस्वरश्च सुगायनः ॥
वीणावादनसन्दर्भनिष्णातः स्थिरयौवनः ॥ ४४ ॥
प्राज्ञो मधुरवाक् शान्तः सुशीलः सुन्दरः सुधीः ॥
भविष्यसि न सन्देहो नामतश्चोपबर्हणः ॥ ४५ ॥
ताभिर्दिव्यं लक्षयुगं विहृत्य निर्जने वने ॥
पुनर्मदीयशापेन दासी पुत्रश्च तत्परः ॥ ४६ ॥
वत्स वैष्णवसंसर्गाद्वैष्णवोच्छिष्टभोजनात् ॥
पुनः कृष्णप्रसादेन भविष्यसि ममात्मजः ॥ ४७ ॥
ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम् ॥
अधुना भव नष्टस्त्वं मत्सुतो निपत धुवम्॥४८॥
ब्रह्मेत्युक्त्वा सुतं विप्र विरराम जगत्पतिः ॥
रुरोद नारदस्तातमवोचत्सम्पुटाञ्जलिः ॥ ४९ ॥
नारद उवाच ॥
क्रोधं संहर संहर्तस्तात तात जगद्गुरो ॥
स्रष्टुस्तपस्वीशस्याहो क्रोधोऽयं मय्यनाकरः ॥ 1.8.५० ॥
शपेत्परित्यजेद्विद्वान्पुत्रमुत्पथगामिनम् ॥
तपस्विनं सुतं शप्तुं कथमर्हसि पण्डित ॥ ५१ ॥
जनिर्भवतु मे ब्रह्मन्यासु यासु च योनिषु ॥
न जहातु हरेर्भक्तिर्मा वेदं देहि मे वरम् ॥५२॥
पुत्रश्चेज्जगतां धातुर्नास्ति भक्तिर्हरेः पदे॥
सूकरादतिरिक्तश्च सोऽधमो भारते भुवि ॥ ५३ ॥
जातिस्मरो हरेर्भक्तियुक्तः सूकरयोनिषु ॥
जनिर्लभेत्स प्रवरो गोलोकं याति कर्मणा ॥ ५४ ॥
गोविन्दचरणाम्भोजभक्तिमाध्वीकमीप्सितम् ॥
पिबतां वैष्णवादीनां स्पर्शपूता वसुन्धरा ॥ ५५ ॥
तीर्थानि स्पर्शमिच्छन्ति वैष्णवानां पितामह ॥
पापानां पापितत्त्वानां क्षालनायात्मनामपि ॥५६॥
मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारते ॥
परैश्च कोटिपुरुषैः पूर्वैः सार्धं हरेरहो ॥ ५७ ॥
कोटिजन्मार्जितात्पापान्मन्त्रग्रहणमात्रतः ॥
मुक्ताः शुध्यन्ति यत्पूर्वं कर्म निर्मूलयन्ति च ॥५८॥
पुत्रान्दारांश्च शिष्यांश्च सेवकान्बान्धवांस्तथा ॥
यो दर्शयति सन्मार्गं सद्गतिस्तं लभेद्ध्रुवम् ॥५९॥
यो दर्शयत्यसन्मार्गं शिष्यैर्विश्वासितो गुरुः ॥
कुम्भीपाके स्थितिस्तस्य यावच्चन्द्रदिवाकरौ ॥ 1.8.६० ॥
स किङ्गुरुः स किन्तातः स किंस्वामी स किंसुतः॥
यः श्रीकृष्णपदाम्भोजे भक्तिं दातुमनीश्वरः ॥ ६१ ॥
शप्तो निरपराधेन त्वयाऽहं चतुरानन ॥
मया शप्तुं त्वमुचितो घ्नन्तं घ्नन्त्यपि पण्डिताः ॥ ६२ ॥
कवचस्तोत्रपूजाभिः सहितस्ते मनुर्मनोः ॥
लुप्तो भवतु मच्छापात्प्रतिविश्वेषु निश्चितम् ॥ ६३ ॥
अपूज्यो भव विश्वेषु यावत्कल्पत्रयं पितः ॥
गतेषु त्रिषु कल्पेषु पूज्यपूज्यो भविष्यसि॥६४॥
अधुना यज्ञभागस्ते व्रतादिष्वपि सुव्रत ॥
पूजनं चास्तु मामैकं वन्द्यो भव सुरादिभिः ॥ ६५ ॥
इत्युक्त्वा नारदस्तत्र विरराम पितुः पुरः ॥
तस्थौ सभायां स विधिर्हृदयेन विदूयता ॥ ६६ ॥
उपबर्हेण गन्धर्वो नारदस्तेन हेतुना ॥
दासीपुत्रश्च शापेन पितुरेव च शौनक ॥ ६७ ॥
ततः पुनर्नारदश्च स बभूव महानृषिः ॥
ज्ञानं प्राप्य पितुः पश्चात्कथयिष्यामि चाधुना ॥ ६८ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे ब्रह्मनारदशापोपलम्भनं नामाष्टमोऽध्यायः ॥ ८ ॥