सौतिरुवाच ॥
तदा ब्रह्मा तपः कृत्वा सिद्धिं प्राप्य यथेप्सिताम् ॥
ससृजे पृथिवीमादौ मधुकैटभमेदसा ॥ १ ॥
ससृजे पर्वतानष्टौ प्रधानान्सुमनोहरान् ॥
क्षुद्रानसङ्ख्यान्किं ब्रूमः प्रधानाख्यां निशामय ॥ २ ॥
सुमेरुं चैव कैलासं मलयं च हिमालयम्॥
उदयं च तथाऽस्तं च सुवेलं गन्धमादनम् ॥ ३ ॥
समुद्रान्ससृजे सप्त नदान्कतिविधा नदीः ॥
वृक्षांश्च ग्रामनगरं समुद्राख्या निशामय ॥ ४ ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवान् ॥
लक्षयोजनमानेन द्विगुणांश्च परात्परान् ॥ ५ ॥
सप्तद्वीपांश्च तद्भूमिमण्डले कमलाकृते ॥
उपद्वीपांस्तथा सप्तसीमाशैलांश्च सप्त च ॥ ६ ॥
निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता ॥
जम्बूशाककुशप्लक्षक्रौञ्चन्यग्रोधपौष्करान् ॥ ७ ॥
मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरी प्रभुः ॥
अष्टानां लोकपालानां विहाराय मनोहराः ॥ ८ ॥
मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः ॥
ऊर्ध्वे स्वर्गांश्च सप्तैव तेषामाख्या निशामय॥९॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् ॥
जनोलोकं तपोलोकं सत्यलोकं च शौनक॥1.7.१०॥
शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम् ॥
तदूर्ध्वे ध्रुवलोकं च सर्वतः सुमनोहरम् ॥११॥
तदधः सप्त पातालान्निर्ममे जगदीश्वरः ॥
स्वर्गातिरिक्तभोगाढ्यानधोधः क्रमतो मुने ॥ १२ ॥
अतलं वितलं चैव सुतलं च तलातलम् ॥
महातलं च पातालं रसातलमधस्ततः ॥ १३ ॥
सप्तद्वीपैः सप्तनाकैः सप्तपातालसञ्ज्ञकैः ॥
एभिर्लोकैश्च ब्रह्माण्डं ब्रह्माधिकृतमेव च ॥ १४ ॥
एवञ्चासङ्ख्यब्रह्माण्डं सर्वं कृत्रिममेव च ॥
महाविष्णोश्च लोम्नां च विवरेषु च शौनक ॥ १९ ॥
प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः ॥
सुरा नरादयः सर्वे सन्ति कृष्णस्य मायया ॥ १६ ॥
ब्राह्माण्डगणनां कर्तुं न क्षमो जगतां पतिः ॥
न शङ्करो न धर्मश्च न च विष्णुश्च के सुराः॥१७॥
सङ्ख्यातुमीश्वरः शक्तो न सङ्ख्यातुं तथापि सः ॥
विश्वाकाशदिशां चैव सर्वतो यद्यपि क्षमः ॥ १८ ॥
कृत्रिमाणि च विश्वानि विश्वस्थानि च यानि च ॥
अनित्यानि च विप्रेन्द्र स्वप्नवन्नश्वराणि च ॥ १९ ॥
वैकुण्ठः शिवलोकश्च गोलोकश्च तयोः परः ॥
नित्यो विश्वबहिर्भूतश्चात्माकाशदिशो यथा ॥ 1.7.२० ॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥