००५

॥ शौनक उवाच ॥ ॥
गोगोपगोप्यो गोलोके किं नित्याः किन्नु कल्पिताः ॥
मम सन्देहभेदार्थं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
॥ सौतिरुवाच ॥ ॥
सर्वादिसृष्टौ ताः क्लृप्ताः प्रलये प्रलये स्थिताः ॥
सर्वादिसृष्टिकथनं यन्मया कथितं द्विज ॥ २ ॥
सर्वादिसृष्टौ क्लृप्तौ च नारायणमहेश्वरौ ॥
प्रलये प्रलये व्यक्तौ स्थितौ तौ प्रकृतिश्च सा॥३॥
सर्वादौ ब्रह्मकल्पस्य चरितं कथितं द्विज ॥
वाराहपाद्मकल्पौ द्वौ कथयिष्यामि श्रोष्यसि ॥ ४ ॥
ब्राह्मवाराहपाद्माश्च कल्पाश्च त्रिविधा मुने ॥
यथायुगानि चत्वारि क्रमेण कथितानि च ॥ ५ ॥
सत्यं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ॥
त्रिशतैश्च षष्ट्यधिकैर्युगैर्दिव्यं युगं स्मृतम् ॥ ६ ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥
चतुर्दशेषु मनुषु गतेषु ब्रह्मणो दिनम् ॥ ७ ॥
त्रिशतैश्च षष्ट्यधिकैर्दिनैर्वर्षं च ब्रह्मणः ॥
अष्टोत्तरं वर्षशतं विधेरायुर्निरूपितम् ॥ ८ ॥
एतन्निमेषकालस्तु कृष्णस्य परमात्मनः ॥
ब्रह्मणश्चायुषा कल्पः कालविद्भिर्निरूपितः ॥ ९ ॥
क्षुद्रकल्पा बहुतरास्ते संवर्तादयः स्मृताः ॥
सप्तकल्पान्तजीवी स मार्कण्डेयश्च तन्मतः ॥1.5.१०॥
ब्रह्मणश्च दिनेनैव स कल्पः परिकीर्तितः ॥
विधेश्च सप्तदिवसे मुनेरायुर्निरूपितम् ॥ ११ ॥
ब्राह्मवाराहपाद्माश्च त्रयः कल्पा निरूपिताः ॥
कल्पत्रये यथा सृष्टिः कथयामि निशामय ॥ १२ ॥
ब्राह्मे च मेदिनीं सृष्ट्वा स्रष्टा सृष्टिं चकार सः ॥
मधुकैटभयोश्चैव मेदसा चाज्ञया प्रभोः ॥१३॥
वाराहे तां समुद्धृत्य लुप्तां मग्नां रसातलात् ॥
विष्णोर्वराहरूपस्य द्वारा चातिप्रयत्नतः ॥ १४ ॥
पाद्मे विष्णोर्नाभिपद्मे स्रष्टा सृष्टिं विनिर्ममे ॥
त्रिलोकीं ब्रह्मलोकान्तां नित्यलोकत्रयं विना ॥ १५ ॥
एतत्तु कालसङ्ख्यानमुक्तं सृष्टिनिरूपणे ॥
किञ्चिन्निरूपणं सृष्टे किं भूयः श्रोतुमिच्छसि ॥ १६ ॥
॥ शौनक उवाच ॥ ॥
अतः परं किं चकार भगवान्सात्वताम्पतिः ॥
एतान्सृष्ट्वा किं चकार तन्मे व्याख्यातुमर्हसि ॥ १७ ॥
॥ सौतिरुवाच ॥ ॥
अतः परं तु गोलोके गोलोकेशो महान्प्रभुः ॥
एतान्सृष्ट्वा जगामासौ सुरम्यं रासमण्डलम् ॥
एतैः समेतैर्भगवानतीव कमनीयकम् ॥ १८ ॥
रम्याणां कल्पवृक्षाणां मध्येऽतीव मनोहरम् ॥
सुविस्तीर्णं च सुसमं सुस्निग्धं मण्डलीकृतम् ॥ १९ ॥
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृतम् ॥
दधिलाजसक्तुधान्यदूर्वापर्णपरिप्लुतम् ॥ 1.5.२० ॥
पट्टसूत्रग्रन्थियुक्तं नवचन्दनपल्लवैः ॥
संयुक्तरम्भास्तम्भानां समूहैः परिवेष्टितम् ॥ २१ ॥
सद्रत्नसारनिर्माणमण्डपानां त्रिकोटिभिः ॥
रत्नप्रदीपज्वलितैः पुष्पधूपादिवासितैः॥२२॥
शृङ्गारार्हभोगवस्तुसमूहपरिवेष्टितम्॥
अतीव ललिताकल्पतल्पयुक्तैः सुशोभितम् ॥ २३ ॥
तत्र गत्वा च तैः सार्धं समुवास जगत्पतिः ॥
दृष्ट्वा रासं विस्मितास्ते बभूवुर्मुनिसत्तम ॥ २४ ॥
आविर्बभूव कन्यैका कृष्णस्य वामपार्श्वतः ॥
धावित्वा पुष्पमानीय ददावर्घ्यं प्रभोः पदे ॥ २५ ॥
रासे सम्भूय गोलोके सा दधाव हरेः पुरः ॥
तेन राधा समाख्याता पुराविद्भिर्द्विजोत्तम ॥ २६ ॥
प्राणाधिष्ठातृदेवी सा कृष्णस्य परमात्मनः ॥
आविर्बभूव प्राणेभ्यः प्राणेभ्योऽपि गरीयसी ॥ २७ ॥
देवी षोडशवर्षीया नवयौवनसंयुता ॥
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥ २८ ॥
सुकोमलाङ्गी ललिता सुन्दरीषु च सुन्दरी ॥
बृहन्नितम्बभारार्त्ता पीनश्रोणिपयोधरा ॥ २९ ॥
बन्धुजीवजिता रक्तसुन्दरोष्ठा धरावरा ॥
मुक्तापङ्क्तिजिता चारुदन्तपङ्क्तिर्मनोहरा ॥ 1.5.३० ॥
शरत्पार्वणकोटीन्दुशोभामृष्टशुभानना ॥
चारुसीमन्तिनीचारुशरत्पङ्कजलोचना॥ ३१ ॥
खगेन्द्रचञ्चुविजितचारुनासा मनोहरा ॥
स्वर्णगण्डूकविजिते गण्डयुग्मे च बिभ्रती ॥ ३२ ॥
दधती चारुकर्णे च रत्नाभरणभूषिते ॥
चन्दनागुरुकस्तूरीयुक्तकुङ्कुमबिन्दुभिः ॥ ३३ ॥
सिन्दूरबिन्दुसंयुक्तसुकपोला मनोहरा ॥
सुसंस्कृतं केशपाशं मालतीमाल्यभूषितम् ॥ ३४ ॥
सुगन्धकबरीभारं सुन्दरं दधती सती ॥
स्थलपद्मप्रभामुष्टं पादयुग्मं च बिभ्रती ॥ ३५ ॥
गमनं कुर्वती सा च हंसखञ्जनगञ्जनम् ॥
सद्रत्नसारनिर्माणां वनमाली मनोहराम्॥३६॥
हारं हीरकनिर्माणं रत्नकेयूरकङ्कणम् ॥
सद्रत्नसारनिर्माणं पाशकं सुमनोहरम् ॥ ३७ ॥
अमूल्यरत्ननिर्माणं क्वणन्मञ्जीररञ्जितम् ॥
नानाप्रकारचित्राढ्यं सुन्दरं परिबिभ्रती ॥ ३८ ॥
सा च सम्भाष्य गोविन्दं रत्नसिंहासने वरे ॥
उवास सस्मिता भर्तुः पश्यन्ती मुखपङ्कजम् ॥ ३९ ॥
तस्याश्च लोमकूपेभ्यः सद्यो
गोपाङ्गनागणः ॥ आविर्बभूव रूपेण वेशेनैव च तत्समः ॥ 1.5.४० ॥
लक्षकोटीपरिमितः शश्वत्सुस्थिरयौवनः ॥
सङ्ख्याविद्भिश्च सङ्ख्यातो गोलोके गोपिकागणः ॥ ४१ ॥
कृष्णस्य लोमकूपेभ्यः सद्यो गोपगणो मुने ॥
आविर्बभूव रूपेण वेषेणैव च तत्समः ॥
॥ ४२ ॥ त्रिंशत्कोटिपरिमितः कमनीयो मनोहरः ॥
सङ्ख्याविद्भिश्च सङ्ख्यातो बल्लवानां गणः श्रुतौ ॥ ४३ ॥
कृष्णस्य लोमकूपेभ्यः सद्यश्चाविर्बभूव ह ॥
नानावर्णो गोगणश्च शश्वत्सुस्थिरयौवनः ॥ ४४ ॥
बलीवर्दाः सुरभ्यश्च वत्सा नानाविधाः शुभाः ॥
अतीव ललिताः श्यामा बह्व्यो वै कामधेनवः ॥ ४५ ॥
तेषामेकं बलीवर्दं कोटिसिंहसमं बले ॥
शिवाय प्रददौ कृष्णो वाहनाय मनोहरम् ॥ ४६ ॥
कृष्णाङ्घ्रिनखरन्धेभ्यो हंसपङ्क्तिर्मनोहरा ॥
आविर्बभूव सहसा स्त्रीपुंवत्ससमन्विता ॥।
॥ ४७ ॥ तेषामेकं राजहंसं महाबलपराक्रमम् ॥
वाहनाय ददौ कृष्णो ब्रह्मणे च तपस्विने ॥ ४८ ॥
वामकर्णस्य विवरात्कृष्णस्य परमात्मनः ॥
गणः श्वेततुरङ्गाणामाविर्भूतो मनोहरः ॥ ४९ ॥
तेषामेकं च श्वेताश्वं धर्मार्थं वाहनाय च ॥
ददौ गोपाङ्गनेशश्च सम्प्रीत्या सुरसंसदि ॥ 1.5.५० ॥
दक्षकर्णस्य विवरात्पुंसश्च सुरसंसदि ॥
आविर्भूता सिंहपङ्क्तिर्महाबलपराक्रमा ॥ ५१ ॥
तेषामेकं ददौ कृष्णः प्रकृत्यै परमादरम् ॥
अमूल्यरत्नमाल्यं च वरं यदभिवाञ्छितम् ॥ ५२ ॥
कृष्णो योगेन योगीन्द्रश्चकार रथपञ्चकम् ॥
शुद्धरत्नेन्द्रनिर्माणं मनोयायि मनोहरम्॥ ५३ ॥
लक्षयोजनमूर्ध्वे च प्रस्थे च शतयोजनम् ॥
लक्षचक्रं वायुरहं लक्षक्रीडागृहान्वितम् ॥ ५४ ॥
शृङ्गारार्हं भोगवस्तुतल्पासङ्ख्यसमन्वितम् ॥
रत्नप्रदीपलक्षाणां वाजिभिश्च विराजितम् ॥ ५५ ॥
नानाचित्रविचित्राढथं सद्रत्नकलशोज्ज्वलम् ॥
रत्नदर्पणभूषाढ्यं शोभितं श्वेतचामरैः ॥ ५६ ॥
वह्निशुद्धांशुकैश्चित्रैर्मुक्ताजालैर्विभूषितम् ॥
मणीन्द्रमुक्तामाणिक्यहीरहारविराजितम् ॥ ५७ ॥
आरक्तवर्णरत्नेन्द्रसारनिर्माणकृत्रिमैः ॥
पङ्कजानामसङ्ख्यैश्च सुन्दरैश्च सुशोभितम् ॥ ५८ ॥
ददौ नारायणायैकं तेषां मध्ये द्विजोत्तमः ॥
एकं दत्त्वा राधिकायै ररक्षाशेषमात्मने ॥॥ ५९ ॥
आविर्बभूव कृष्णस्य गुह्यदेशात्ततः परम् ॥
पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह ॥ 1.5.६० ॥
आविर्भूता यतो गुह्यात्तेन ते गुह्यकाः स्मृताः ॥
यः पुमान् स कुबेरश्च धनेशो गुह्यकेश्वरः ॥ ६१ ॥
बभूव कन्यका चैका कुबेरे वामपार्श्वतः ॥
कुबेरपत्नी सा देवी सुन्दरीणां मनोरमा ॥ ६२ ॥
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ॥
वेताला विकृतास्तस्याविर्भूता गुह्यदेशतः ॥ ६३॥
शङ्खचक्रगदापद्मधारिणो वनमालिनः ॥
पीतवस्त्रपरीधानाः सर्वे श्यामचतुर्भुजाः ॥ ६४ ॥
किरीटिनः कुण्डलिनो रत्नभूषणभूषिताः ॥
आविर्भूताः पार्षदाश्च कृष्णस्य मुखतो मुने ॥ ६५ ॥
चतुर्भुजान्पार्षदांश्च ददौ नारायणाय च ॥
गुह्यकान्गुह्यकेशाय भूतादीञ्छङ्कराय च ॥६६॥
द्विभुजाः श्यामवर्णाश्च जपमालाकरा वराः ॥
ध्यायन्तश्चरणाम्भोजं कृष्णस्य सततं मुदा ॥६७॥
दास्यो नियुक्ता दसाश्चैवार्घ्यमादाय यत्नतः ॥
आविर्भूता वैष्णवाश्च सर्वे कृष्णपरायणाः ॥ ६८ ॥
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदा ॥
आविर्भूताः पादपद्मात्पादपद्मैकमानसाः॥६९॥
आविर्बभूवुः कृष्णस्य दक्षनेत्राद्भयङ्कराः॥
त्रिशूलपट्टिशधरास्त्रिनेत्राश्चन्द्रशेखराः ॥ 1.5.७० ॥
दिगम्बरा महाकाया ज्वलदग्निशिखोपमाः ॥
ते भैरवा महाभागाः शिवतुल्याश्च तेजसा ॥ ७१ ॥
रुरुसंहारकालाख्या असितक्रोधभीषणाः ॥
महाभैरवखट्वाङ्गावित्यष्टौ भैरवाः स्मृताः ॥ ७२ ॥
आविर्बभूव कृष्णस्य वामनेत्राद्भयङ्करः॥
त्रिशूलपट्टिशव्याघ्रचर्माम्बरगदाधरः ॥ ७३ ॥
दिगम्बरो महाकायस्त्रिणेत्रश्चन्द्रशेखरः ॥
स ईशानो महाभागो दिक्पालानामधीश्वरः ॥ ७४ ॥
डाकिन्यश्चैव योगिन्यः क्षेत्रपालाः सहस्रशः ॥
आविर्बभूवुः कृष्णस्य नासिकाविवरोदरात् ॥ ७५ ॥
सुरास्त्रिकोटिसङ्ख्याता दिव्यमूर्तिधरावराः ॥
आविर्बर्भूवुः सहसा पुंसो वै पृष्ठदेशतः ॥ ७६ ॥