००४

सौतिरुवाच ॥
आविर्बभूव तत्पश्चात्कृष्णस्य रसनाग्रतः ॥
शुद्धस्फटिकसङ्काशा देवी चैका मनोहरा ॥ १ ॥
शुक्लवस्त्रपरीधाना सर्वालङ्कारभूषिता ॥
बिभ्रती जपमालां च सा सावित्री प्रकीर्तिता ॥ २ ॥
सा तुष्टाव पुरः स्थित्वा परं ब्रह्म सनातनम्॥
पुटाञ्जलिपरा साध्वी भक्तिनम्रात्मकन्धरा ॥ ३ ॥
सावित्र्युवाच ॥
नमामि सर्वबीजं त्वां ब्रह्मज्योतिः सनातनम् ॥
परात्परतरं श्यामं निर्विकारं निरञ्जनम् ॥ ४
इत्युक्त्वा सस्मिता देवी रत्नसिंहासने वरे ॥
उवास श्रीहरिं नत्वा पुनरेव श्रुतिप्रसूः ॥ ५ ॥
आविर्बभूव तत्पश्चात्कृष्णस्य परमात्मनः ॥
मानसाच्च पुमानेकस्तप्तकाञ्चनसन्निभः ॥ ६ ॥
मनो मथ्नाति सर्वेषां पञ्चबाणेन कामिनाम् ॥
तन्नाम मन्मथं तेन प्रवदन्ति मनीषिणः ॥ ७ ॥
तस्य पुंसो वामपार्श्वात्कामस्य कामिनी वरा ॥
बभूवातीव ललिता सर्वेषां मोहकारिणी ॥ ८ ॥
रतिर्बभूव सर्वेषां तां दृष्ट्वा सस्मितां सतीम् ॥
रतीति तेन तन्नाम प्रवदन्ति मनीषिणः ॥ ९ ॥
हरिं स्तुत्वा तया सार्द्धं स उवास हरेः पुरः ॥
रत्नसिंहासने चास्य पञ्चबाणो धनुर्द्धरः ॥1.4.१०॥
मारणं स्तम्भनं चैव जृम्भणं शोषणं तथा ॥
उन्मादनं पञ्चबाणन्पञ्चबाणो बिभर्ति सः ॥ ॥ ११ ॥
बाणांश्चिक्षेप सर्वांश्च कामो बाणपरीक्षया ॥
सद्यः सर्वे सकामाश्च बभूवुरीश्वरेच्छया ॥ १२ ॥
रतिं दृष्ट्वा ब्रह्मणश्च रेतः पातो वभूव ह ॥
तत्र तस्थौ महायोगी वस्त्रेणाच्छाद्य लज्जया ॥ १३ ॥
वस्त्रं दग्ध्वा समुत्तस्थौ ज्वलदग्निः सुरेश्वरः ॥
कोटितालप्रमाणश्च सशिखश्च समुज्ज्वलन् ॥ १४ ॥
कृष्णस्तद्वर्द्धनं दृष्ट्वा ससर्जापः स्वलीलया ॥
निःश्वासवायुना सार्द्धं मुखबिन्दुं समुद्गिरन् ॥ १५ ॥
विश्वौघं प्लावयामास मुखबिन्दुजलं द्विज ॥
तत्र किञ्चिज्जलकणं वह्निं शान्तं चकार ह ॥ १६ ॥
ततःप्रभृति तेनाग्निस्तोयान्निर्वाणतां व्रजेत् ॥
आविर्भूतः पुमानेकस्ततस्तदधिदेवता ॥ १७ ॥
उत्तस्थौ तज्जलादेकः पुमान्स वरुणः स्मृतः ॥
जलाधिष्ठातृदेवोऽसौ सर्वेषां यादसाम्पतिः ॥ १८ ॥
आविर्बभूव कन्यैका तद्वह्नेर्वामपार्श्वतः ॥
सा स्वाहा वह्निपत्नी तां प्रवदन्ति मनीषिणः ॥ १९ ॥
जलेशस्य वामपार्श्वात्कन्या चैका बभूव सा ॥
वरुणानीति विख्याता वरुणस्य प्रिया सती ॥ 1.4.२० ॥
बभूव पवनः श्रीमान्विभोर्निश्वासवायुतः॥
स च प्राणाश्च सर्वेषां निःश्वासस्तत्फलोद्भवः॥२१॥
तस्य वायोर्वामपार्श्वात्कन्या चैका बभूव ह॥
वायोः पत्नी सा च देवी वायवी परिकीर्तिता ॥२२॥
कृष्णस्य कामबाणेन रेतःपातो बभूव ह ॥
जले तद्रेचनं चक्रे लज्जया सुर संसदि ॥ २३ ॥
सहस्रवत्सरान्ते तड्डिम्भरूपं बभूव ह ॥
ततो महान्विराड् जज्ञे विश्वौघाधार एव सः ॥ २४ ॥
यस्यैक लोमविवरे विश्वैकस्य व्यवस्थितिः ॥
स्थूलात्स्थूलतरः सोऽपि महान्नान्यस्ततः परः ॥ २५ ॥
स एव षोडशांशोऽपि कृष्णस्य परमात्मनः ॥
महाविष्णुः स विज्ञेयः सर्वाधारः सनातनः ॥ २६ ॥
महार्णवे शयानः स पद्मपत्रं यथा जले ॥
बभूवतुस्तौ द्वौ दैत्यौ तस्य कर्णमलोद्भवौ ॥ २७ ॥
तौ जलाच्च समुत्थाय ब्रह्माणं हन्तुमुद्यतौ ॥
नारायणश्च भगवाञ्जघने तौ जघान ह ॥ २८ ॥
बभूव मेदिनी कृत्स्ना कार्त्स्न्येन मेदसा तया ॥
तत्रैव सन्ति विश्वानि सा च देवी वसुन्धरा ॥ २९ ॥ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे सृष्टिनिरूपणे चतुर्थोऽध्यायः ॥ ४ ॥ ॥