००३

सौतिरुवाच ॥
दृष्ट्वा शून्यमयं विश्वं गोलोकं च भयङ्करम्॥
निर्जन्तु निर्जलं घोरं निर्वातं तमसा वृतम् ॥ १ ॥
वृक्षशैलसमुद्रादिविहीनं विकृताकृतम् ॥
निर्मुक्तिकं च निर्धातु निःसस्यं निस्तृणं द्विज॥२॥
आलोच्य मनसा सर्वमेक एवासहायवान् ॥
स्वेच्छया स्रष्टुमारेभे सृष्टिं स्वेच्छामयः प्रभुः ॥ ३ ॥
आविर्बभूवुः सर्गादौ पुंसो दक्षिणपार्श्वतः ॥
भवकारणरूपाश्च मूर्तिमन्तस्त्रयो गुणाः ॥ ४ ॥
ततो महानहङ्कारः पञ्चतन्मात्र एव च ॥
रूपरसगन्धस्पर्शशब्दाश्चैवेतिसञ्ज्ञकाः ॥ ५ ॥
आविर्बभूव पश्चात्स्वयं नारायणः प्रभुः ॥
श्यामो युवा पीतवासा वनमाली चतुर्भुजः ॥ ६ ॥
शङ्खचक्रगदापद्मधरः स्मेरमुखाम्बुजः ॥
रत्नभूषणभूषाढ्यः शार्ङ्गी कौस्तुभभूषणः ॥ ७ ॥
श्रीवत्सवक्षाः श्रीवासः श्रीविधिः श्रीविभावनः ॥
शारदेन्दुप्रभामृष्टसुखेन्दुसुमनो हरः ॥ ८ ॥
कामदेवप्रभामृष्टरूपलावण्यसुन्दरः ॥
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ॥ ९ ॥
नारायण उवाच ॥
वरं वरेण्यं वरदं वरार्हं वरकारणम् ॥
कारणं कारणानां च कर्म तत्कर्मकारणम् ॥ 1.3.१० ॥
तपस्तत्फलदं शश्वत्तपस्वीशं च तापसम् ॥
वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ॥११॥
निष्कामं कामरूपं च कामघ्नं कामकारणम्॥
सर्वं सर्वेश्वरं सर्वं बीजरूपमनुत्तमम् ॥ ॥ १२ ॥
वेदरूपं वेदभवं वेदोक्तफलदं फलम् ॥
वेदज्ञं तद्विधानं च सर्ववेदविदांवरम् ॥ १३ ॥
इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ॥
रत्नसिंहासने रम्ये पुरतः परमात्मनः ॥ १४ ॥
नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ॥
त्रिसन्ध्यं यः पठेन्नित्यं पापं तस्य न विद्यते ॥ १५ ॥
पुत्रार्थी लभते पुत्रं भार्य्यार्थी लभते प्रियाम् ॥
भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ॥१६॥
कारागारे विपद्ग्रस्तः स्तोत्रेणानेन मुच्यते ॥
रोगात्प्रमुच्यते रोगी ध्रुवं श्रुत्वा च संयतः ॥ १७ ॥
सौतिरुवाच ॥
आविर्बभूव तत्पश्चादात्मनो वामपार्श्वतः ॥
शुद्धस्फटिकसङ्काशः पञ्चवक्त्रो दिगम्बरः ॥ १८ ॥
तप्तकाञ्चनवर्णाभ जटाभारधरो वरः ॥
ईषद्धास्यप्रसन्नास्यस्त्रिनेत्रश्चन्द्रशेखरः ॥ १९ ॥
त्रिशूलपट्टिशधरो जपमालाकरः परः ॥
सर्वसिद्धेश्वरः सिद्धो योगीन्द्राणां गुरोर्गुरुः ॥ 1.3.२० ॥
मृत्योर्मृत्युरीश्वरश्च मृत्युर्मृत्युञ्जयः शिवः ॥
ज्ञानानन्दो महाज्ञानी महाज्ञानप्रदः परः ॥२१॥
पूर्णचन्द्रप्रभामृष्टमुखदृश्यो मनोहरः ॥
वैष्णवानां च प्रवरः प्रज्वलन्ब्रह्मतेजसा॥२२॥
श्रीकृष्पुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिगद्गदः॥२३॥
महादेव उवाच ॥
जयस्वरूपं जयदं जयेशं जयकारणम् ॥
प्रवरं जयदानां च वन्दे तमपराजितम् ॥ २४ ॥
विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ॥
विश्वाधारं च विश्वस्तं विश्वकारणकारणम् ॥ २५ ॥
विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ॥
फलबीजं फलाधारं फलं च तत्फलप्रदम् ॥ २६ ॥
तेजःस्वरूपं तेजोदं सर्वतेजस्विनां वरम् ॥
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ॥
नारायणं च सम्भाष्य स उवास तदाज्ञया ॥ २७ ॥
इति शम्भुकृतं स्तोत्रं यो जनः संयतः पठेत् ॥
सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ॥ २८ ॥
सन्ततं वर्द्धते मित्रं धनमैश्वर्य्यमेव च ॥
शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ॥ २९ ॥
इति ब्रह्मवैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ॥
सौतिरुवाच ॥
आविर्वभूव तत्पश्चात्कृष्णस्य नाभिपङ्कजात् ॥
महातपस्वी वृद्धश्च कमण्डलुकरो वरः ॥ 1.3.३० ॥
शुक्लवासाः शुक्लदन्तः शुक्लकेशश्चतुर्मुखः ॥
योगीशः शिल्पिनामीशः सर्वेषां जनको गुरुः ॥ ३१ ॥
तपसां फलदाता च प्रदाता सर्वसम्पदाम् ॥
स्रष्टा विधाता कर्त्ता च हर्त्ता च सर्वकर्मणाम् ॥३२ ॥
धाता चतुर्णां वेदानां ज्ञाता वेदप्रसूपतिः ॥
शान्तः सरस्वतीकान्तः सुशीलश्च कृपानिधिः॥३३
श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ॥
पुलकाङ्कितसर्वाङ्गो भक्तिनम्रात्मकन्धरः ॥ ३४ ॥
॥ ब्रह्मोवाच ॥ ॥
कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम् ॥
अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ॥ ३५ ॥
किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ॥
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम्॥३६॥
वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ॥
रासेश्वरं रासवासं रासोल्लाससमुत्सुकम्॥३७॥
इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरम् ॥
नारायणेशौ सम्भाष्य स उवास तदाज्ञया ॥ ३८ ॥
इति ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय यः पठेत्॥
पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ॥ ३९ ॥
भक्तिर्भवति गोविन्दे श्रीपुत्रपौत्रवर्द्धिनी ॥
अकीर्तिः क्षयमाप्नोति सत्कीर्त्तिर्वर्द्धते चिरम् ॥ 1.3.४० ॥
इति ब्रह्मवैवर्त्ते ब्रह्मकृतं श्रीकृष्णस्तोत्रम् ॥
सौतिरुवाच ॥
आविर्बभूव तत्पश्चाद्वक्षसः परमात्मनः ॥
सस्मितः पुरुषः कश्चिच्छुक्लवर्णो जटाधरः ॥ ४१ ॥
सर्वसाक्षी च सर्वज्ञः सर्वेषां सर्वकर्मणाम् ॥
समः सर्वत्र सदयो हिंसाकोपविवर्जितः ॥ ४२ ॥
धर्मज्ञानयुतो धर्मो धर्मिष्ठो धर्मदो भवेत् ॥
स एव धर्मिणां धर्मः परमात्मा फलोद्भवः ॥ ४३ ॥
श्रीकृष्णपुरतः स्थित्वा प्रणम्य दण्डवद्भुवि ॥
तुष्टाव परमात्मानं सर्वेशं सर्वकामदम् ॥ ४४ ॥
श्रीधर्म उवाच ॥ ॥
कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ॥
गोविन्दं परमानन्दमेकमक्षरमच्युतम् ॥ ४५ ॥
गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ॥
गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिणम् ॥४६॥
गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ॥४७॥
इत्युच्चार्य्य समुत्तिष्ठन्रत्नसिंहासने वरे ॥
ब्रह्मविष्णुमहेशांस्तान्सम्भाष्य स उवास ह॥४८॥
चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च॥
यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ॥४९॥
मृत्युकाले हरेर्नाम तस्य साध्यं लभेद् धुवम् ॥
स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ॥1.3.५०॥
नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ॥
चतुर्वर्ग फलं तस्य शश्वत्करगतं भवेत्॥५१॥
तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च॥
भयानि चैव दुःखानि वैनतेयमिवोरगाः॥५२॥
इति ब्रह्मवैवर्त्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ॥
सौतिरुवाच ॥
आविर्बभूव कन्यैका धर्मस्य वामपार्श्वतः ॥
मूर्त्तिर्मूर्तिमती साक्षाद्द्वितीया कमलालया ॥५३ ॥
आविर्बभूव तत्पश्चान्मुखतः परमात्मनः ॥
एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ॥५४॥
कोटिपूर्णेन्दुशोभा ढ्या शरत्पङ्कजलोचना ॥
वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥ ५५ ॥
सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी ॥
श्रेष्ठा श्रुतीनां शास्त्राणां विदुषां जननी परा ॥ ५६ ॥
वागधिष्ठातृदेवी सा कवीनामिष्टदेवता ॥
शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती ॥ ५७ ॥
गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम् ॥
तन्नामगुणकीर्तिं च वीणया सा ननर्त्त च ॥ ५८ ॥
कृतानि यानि कर्माणि कल्पेकल्पे युगेयुगे ॥
तानि सर्वाणि हरिणा तुष्टाव सम्पुटाञ्जलिः ॥५९॥
सरस्वत्युवाच ॥
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ 1.3.६० ॥
रासेश्वरं रासकरं वरं रासेश्वरीश्वरम् ॥
रासाधिष्ठातृदैवं च वन्दे रासविनोदिनम् ॥६१॥
रासायासपरिश्रान्तं रासरासविहारिणम् ॥
रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम्॥६२॥
प्रणम्य च तमित्युक्त्वा प्रहृष्टवदना सती ॥
उवास सा सकामा च रत्नसिंहासने वरे ॥ ६३ ॥
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत ॥
बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ॥६४॥
इति ब्रह्मवैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ॥
सौतिरुवाच॥
आविर्बभूव मनसः कृष्णस्य परमात्मनः ॥
एका देवी गौरवर्णा रत्नालङ्कारभूषिता ॥ ६५ ॥
पीतवस्त्रपरीधाना सस्मिता नवयौवना ॥
सर्वैश्वर्य्याधिदेवी सा सर्वसम्पत्फलप्रदा ॥
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ॥ ६६ ॥
सा हरेः पुरतः स्थित्वा परमात्मानमीश्वरम् ॥
तुष्टाव प्रणता साध्वी भक्तिनम्रात्मकन्धरा ॥ ६७ ॥
महालक्ष्मीरुवाच ॥
सत्यस्वरूपं सत्येशं सत्यबीजं सनातनम् ॥
सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम् ॥ ६८ ॥
इत्युक्त्वा श्रीहरिं नत्वा सा चोवास सुखासने ॥
तप्तकाञ्चनवर्णाभा भासयन्ती दिशस्त्विषा ॥ ६९ ॥
आविर्बभूव तत्पश्चाद् बुद्धेश्च परमात्मनः ॥
सर्वाधिष्ठातृदेवी सा मूलप्रकृतिरीश्वरी ॥ 1.3.७० ॥
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा ॥
ईषद्धास्यप्रसन्नास्या शरत्पङ्कजलोचना ॥ ७१ ॥
रक्तवस्त्रपरीधाना रत्नाभरणभूषिता ॥
निद्रातृष्णा क्षुत्पिपासा दया श्रद्धा क्षमादिकाः ॥ ७२ ॥
तासां च सर्वशक्तीनामीशाधिष्ठातृदेवता ॥
भयङ्करी शतभुजा दुर्गा दुर्गार्तिनाशिनी ॥ ७३ ॥
आत्मनः शक्तिरूपा सा जगतां जननी परा ॥
त्रिशूलशक्तिशार्ङ्गं च धनुःखड्गशराणि च ॥ ७४ ॥
शङ्ख चक्रगदापद्ममक्षमालां कमण्डलुम् ॥
वज्रमङ्कुशपाशं च भुशुण्डीदण्डतोमरम् ॥७५॥
नारायणास्त्रं ब्रह्मास्त्रं रौद्रं पाशुपतं तथा ॥
पार्ज्जन्यं वारुणं वाह्नं गान्धर्वं बिभ्रती सती ॥
कृष्णस्य पुरतः स्थित्वा तुष्टाव तं मुदाऽन्विता ॥ ७६ ॥
प्रकृतिरुवाच॥
अहं प्रकृतिरीशाना सर्वेशा सर्वरूपिणी ॥
सर्वशक्तिस्वरूपा च मया च शक्तिमज्जगत् ॥ ७७ ॥
त्वया सृष्टा न स्वतन्त्रा त्वमेव जगतां पतिः ॥
गतिश्च पाता स्रष्टा च संहर्त्ता च पुनर्विधिः ॥ ७८ ॥
स्रष्टुं स्रष्टा च संहर्तुं संहर्ता वेधसा विधिः ॥
परमानन्दरूपं त्वां वन्दे चानन्दपूर्वकम् ॥
चक्षुर्निमेषकाले च ब्रह्मणः पतनं भवेत् ॥ ७९ ॥
तस्य प्रभावमतुलं वर्णितुं कः क्षमो विभो ॥
भ्रूभङ्गलीलामात्रेण विष्णुकोटिं सृजेत्तु यः ॥ 1.3.८० ॥
चराचरांश्च विश्वेषु देवान्ब्रह्मपुरोगमान् ॥
मद्विधाः कति वा देवीः स्रष्टुं शक्तश्च लीलया ॥ ८१ ॥
परिपूर्णतमं स्वीड्यं वन्दे चानन्दपूर्वकम् ॥
महान्विराड् यत्कलांशो विश्वसङ्ख्याश्रयो विभो ॥
वन्दे चानन्दपूर्वं तं परमात्मानमीश्वरम् ॥ ८२ ॥
यं च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः ॥
वेदा अहं च वाणी च वन्दे तं प्रकृतेः परम् ॥ ८३ ॥
वेदाश्च विदुषां श्रेष्ठाः स्तोतुं शक्ताश्च न क्षमाः ॥
निर्लक्ष्यं कः क्षमः स्तोतुं तं निरीहं नमाम्यहम् ॥ ८४ ॥
इत्येवमुक्त्वा सा दुर्गा रत्नसिंहासने वरे ॥
उवास नत्वा श्रीकृष्णं तुष्टुवुस्तां सुरेश्वराः ॥८५॥
इति दुर्गाकृतं स्तोत्रं कृष्णस्य परमात्मनः ॥
यः पठेदर्च्चनाकाले स जयी सर्वतः सुखी॥ ८६ ॥
दुर्गा तस्य गृहं त्यक्त्वा नैव याति कदाचन ॥
भवाब्धौ यशसा भाति यात्यन्ते श्रीहरेः पुरम् ॥ ६७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे सृष्टिनिरूपणे दुर्गास्तोत्रं नाम तृतीयोऽध्यायः ॥ ३ ॥