शौनक उवाच ॥
किमपूर्वं श्रुतं सौते परमाद्भुतमीप्सितम् ॥
सर्वं कथय संव्यस्य ब्रह्मखण्डमनुत्तमम् ॥ १ ॥
सौतिरुवाच ॥
वन्दे गुरोः पादपद्मं व्यासस्यामिततेजसः ॥
हरिं देवान्द्विजान्नत्वा धर्मान्वक्ष्ये सनातनान् ॥ २ ॥
यच्छ्रुतं व्यासवक्त्रेण ब्रह्मखण्डमनुत्तमम् ॥
अज्ञानान्धतमोध्वंसि ज्ञानवर्त्मप्रदीपकम् ॥३॥
ज्योतिःसमूहं प्रलये पुराऽऽसीत्केवलं द्विज ॥
सूर्य्यकोटिप्रभं नित्यमसङ्ख्यं विश्वकारणम् ॥४ ॥
स्वेच्छामयस्य च विभोस्तज्ज्योतिरुज्ज्वलं महत् ॥
ज्योतिरभ्यन्तरे लोकत्रयमेव मनोहरम् ॥५॥
तेषामुपरि गोलोकं नित्यमीश्वरवद् द्विज॥
त्रिकोटियोजनायामविस्तीर्णं मण्डलाकृति ॥६॥
तेजःस्वरूपं सुमहद्रत्नभूमिमयं परम्॥
अदृश्यं योगिभिः स्वप्ने दृश्यं गम्यं च वैष्णवैः ॥७॥
योगेन धृतमीशेन चान्तरिक्षस्थितं वरम् ॥
आधिव्याधिजरामृत्युशोकभीतिविवर्जितम् ॥ ८ ॥
सद्रत्नरचितासङ्ख्यमन्दिरैः परिशोभितम् ॥
लये कृष्णयुतं सृष्टौ गोपगोपीभिरावृतम् ॥ ९ ॥
तदधो दक्षिणे सव्ये पञ्चाशत्कोटियोजनान् ॥
वैकुण्ठं शिवलोकं तु तत्समं सुमनोहरम् ॥ 1.2.१० ॥
कोटियोजनविस्तीर्णं वैकुण्ठं मण्डलाकृति ॥
लये शून्यं च सृष्टौ च लक्ष्मीनारायणान्वितम् ॥ ११ ॥
चतुर्भुजैः पार्षदैश्च जरामृत्य्वादिवर्जितम् ॥
सव्ये च शिवलोकं च कोटियोजनविस्तृतम् ॥ १२ ॥
लये शून्यं च सृष्टौ च सपार्षदशिवान्वितम् ॥
गोलोकाभ्यन्तरे ज्योतिरतीव सुमनोहरम् ॥ १३ ॥
परमाह्लादकं शश्वत्परमानन्दकारकम् ॥
ध्यायन्ते योगिनः शश्वद्योगेन ज्ञानचक्षुषा ॥१४॥
तदेवानन्दजनकं निराकारं परात्परम् ॥
तज्ज्योतिरन्तरे रूपमतीव सुमनोहरम् ॥ १५ ॥
नवीननीरदश्यामं रक्तपङ्कजलोचनम्॥
शारदीयपार्वणेन्दुशोभितं चामलाननम् ॥ १६ ॥
कोटिकन्दर्पलावण्यं लीलाधाम मनोरमम् ॥
द्विभुजं मुरलीहस्तं सस्मितं पीतवाससम् ॥११॥
सद्रत्नभूषणौघेन भूषितं भक्तवत्सलम्॥
चन्दनोक्षितसर्वाङ्गं कस्तूरीकुङ्कुमान्वितम् ॥ १८ ॥
श्रीवत्सवक्षःसम्भ्राजत्कौस्तुभेन विराजितम् ॥
सद्रत्नसाररचितकिरीटमुकुटोज्ज्वलम् ॥ १९ ॥
रत्नसिंहासनस्थं च वनमालाविभूषितम् ॥
तदेव परमं ब्रह्म भगवन्तं सनातनम् ॥ 1.2.२० ॥
स्वेच्छामयं सर्वबीजं सर्वाधारं परात्परम् ॥
किशोरवयसं शश्वद्गोपवेषविधायकम् ॥ २१ ॥
कोटिपूर्णेन्दुशोभाढ्यं भक्तानुग्रहकारकम् ॥
निरीहं निर्विकारं च परिपूर्णतमं विभुम् ॥२२॥
रासमण्डलमध्यस्थं शान्तं रासेश्वरं वरम् ॥
माङ्गल्यं मङ्गलार्हं च माङ्गल्यं मङ्गलप्रदम्॥२३॥
परमानन्दबीजं च सत्यमक्षरमव्ययम् ॥ ।
सर्वसिद्धेश्वरं सर्वसिद्धिरूपं च सिद्धिदम्॥२४॥
प्रकृतेः परमीशानं निर्गुणं नित्यविग्रहम्॥
आद्यं पुरुषमव्यक्तं पुरुहूतं पुरुष्टुतम्॥२५॥
सत्यं स्वतन्त्रमेकं च परमात्मस्वरूपकम् ॥
ध्यायन्ते वैष्णवाः शान्ताः शान्तं तन्परमायणम् ॥ २६ ॥
एवंरूपं परं बिभ्रद्भगवानेक एव सः ॥
दिग्भिश्च नभसा सार्द्धं शून्यं विश्वं ददर्श ह ॥२७॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे परब्रह्मनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥