मुक्ताफलम्

[[मुक्ताफलम् Source: EB]]

[

CALCUTTA ORIENTAL SERIES.
No. 5.

MUKTA-PHALAM
( मुक्ताफलम् )

BY

VOPADEVA

WITH THE COMMENTARY OF
HEMADRI.

EDITED
BY

PANDIT ISVARA CHANDRA SASTRI
SANKHYA-VEDANTA-NYAYA-DARSANA-TIRTHA.
AND
PANDIT HARIDASA VIDYABAGISA.

—————

CALCUTTA.

Printed by Sukhamoy Mitra
At the “New Arya Mission Press.”
9. Sibnarain Dass Lane.

—————

All rights reserved.

Copyright
by
Narendra Nath Law.
Calcutta.

———————————————————

CALCUTTA ORIENTAL SERIES.

No. 1. Yukti-kalpa-Taru
No. 2. Chanakya-Rajaniti Sastram
No. 3. Harilila by Vopadeva.
No. 4. Inter-state Relations in Ancient India, Part I.

Chanakya Katha (in the press)

प्राप्तिस्थानम् ।

संस्कृतयन्त्र-पुस्तकालय, ३० कर्णओयालिस ष्ट्रीट्
कलिकाता।

Published by Baidya Nath Dutt,
26, Vidyasagar Street, Calcutta.

This work edited for the first time from manuscripts was beyond the easy reach of scholars as well as Vaishnavas inspite of its acknowledged importance. The body of the treatise is a compilation of about 1000 slokas culled out from among the 18000 slokas of the Bhagavata executed in such a way as to bring out, establish, explain, and illustrate in its several chapters those subjects that were calculated as important by Vopadeva from the Vaishnava standpoint. There are topics in the treatise touched in other Vaishnava works, but the elicitation of those topics from the scattered verses of the Bhagavata, which hardly strike a reader as pointing to a definite conclusion, or forming part of a co-ordinate whole, imparts much interest to the chapters. There are again topics which are treated nowhere at all in Vaishnava literature, or so well treated as in this work e. g. the subject-matter of chapter VII, or that of chapter XI. A rearrangmenet of the slokas of the Bhagavata may appear at first sight to be an easy task, but it is really such as could only be effected by a scholar combining in himself the genius and intellectual calibre of the grammarian Vopadeva with his devotional depth as a Vaishnavite.

The commentary Kaivalya-dipika of Hemadri, the famous author of the encyclopedic treatise Chaturvarga-chintamani. and the Chief Secretary of the Yadava kings of Devagiri, is a brilliant exposition of the aforesaid slokas of the Bhagavataarranged by Vopadeva.

It is not intended at present to speak in further details either of Vopadeva or of Hemadri, the characteristics of their writings generally, or their performance in the present instance nor to put before the reader the principles of Vaishnavism, a knowledge of which is essential to a clear realization of the meaning, bearing, or importance of the subjects dealt with in this work. These details will be handled in connection with the second part of this treatise.

सूचीपत्रम्।

[TABLE]

सटीक-मुक्ताफलम्।

——————————————————————————————————————————————————————

विष्णुं पञ्चात्मकम्वन्दे भक्त्याष्टादशभेदया।
साङ्गवर्गोनविंशत्या भक्तैर्नवभिराश्रितम्॥१॥

——————————————————————————————————————————————————————

यज्ज्योतिरुन्मिषतिचेतसिधर्म्ममेघ-
मातस्थुषामतिवशे परिकर्म्ममुख्यैः।
तच्छुद्धसत्वमुकुर-प्रतिबिम्बभावात्,
कृष्णाभिधामुपगतं भुवि भावयेम॥१॥

समूलघातं प्रणिहत्य योऽन्धम्,
मृणालिनीं चेतयते मनीषाम्।
त्पाद सङ्गायज्जगती कृतार्था,
गुरुंविवस्वन्तमिहानुवे तम्॥२॥

श्रीवोपदेवस्य निधेर्गुणानाम्,
जयन्ति ते ते भुवि वाग्विलासाः।
विकुण्ठ्ययेषु स्वयमीश्वरोऽपि,
सर्वज्ञशब्दं स्व ( स ) मवैति रूढ़म्॥३॥

अस्मिन् समस्मिन्नपि वाङ्मयाब्धा-
वपार-पारीण-मनीषयोच्चैः।
विबृण्वतश्चिज्जड़-वस्तु-भेदम्,
गुणागणेया भुवि नास्य कैःकैः॥४॥

विष्णुप्रीत्यैचतुर्वर्गचिन्तामण्यामजीगणत्।
भेदान् व्रतानां दानानां तीर्थाणां मोक्षवर्त्मनाम्॥२॥

—————————————————————————————————————————————————————————————

अमुष्यवैदग्ध्यनिधेर्हृदिस्पृशो-
मुदं ददन्तेऽत्र नकस्य सूक्तयः।
मुक्तामृषाद्वेषि-मनांस्यनारतम्,
वियोगि-हृन्दीव कलाः कलानिधेः॥५॥

तेन मुक्ताफलं तेने यल्लोकमनुगृह्नता।
तत्र टीकां यथाबुद्धि कुर्वे कैवल्यदीपिकाम्॥६॥

सृष्टां त्रिलोकगुरुणार्द्धमिवेन्दुलेखाम्,
सर्वज्ञमण्डनकरीमकलङ्क-शङ्काम्।
टीकां प्रियां परमहंसजनस्य दृष्ट्वा,
कुर्य्यामिमां तदिह यान्तु बुधाः प्रसादम्॥७॥

इह मुमुक्षूपकाराय रुचिर-प्रकरणं चिकीर्षुराचार्य्यः तस्य परिसमाप्तिप्रचयपरिपन्थि विघ्नविघाताय शिष्टाचारपरिपालनाय च समुचितेष्टदेवतां वन्द्यमानस्तत्प्रतिपाद्यमर्थं श्रोतृ-प्रवृत्त्यङ्गतया संक्षिप्याह — विष्णुमित्यादि।

पञ्च आत्मानः उपाधिभिन्नानि स्वरूपाणि यस्य स तथा। पञ्चस्वपि विष्णुशब्दोव्याप्तिविवक्षया मङ्गलार्थत्वाच्च प्रागुक्तः। तं वन्दे नमस्कुर्वे। भक्त्येति। अष्टादशभेदया भक्त्या भक्तैराश्रितमित्युत्तरेणान्वयः। अष्टादशत्वेऽपि तत्र विध्यानविक्रम इति भावः। साङ्केति। अङ्गानामसङ्गत्वादीनां वर्गाः समूहाः अङ्गवर्गाः तेषामूनविंशतिरङ्गवर्गोनविंशतिः तया सह वर्त्तत इति साङ्गवर्गोनविंशतिः तया। भक्तिविशेषणञ्चैतत्। ननु समैर्वर्ग इति समसमूहे सङ्केतितोवर्गशब्दःकथमिह तद् वैपरीत्ये प्रयुज्यते ? इति सत्यं, किन्तु

मूर्त्तिप्रासादपूजानां हेमाद्रिर्गणकाग्रणीः।
विष्णुभक्त्यङ्गभक्तानां गणयत्युक्तसारधीः॥३॥

——————————————————————————————————————————————————

जातिसाम्यं तत्र विवक्षितंन तु संख्यासाम्यंत्रिवर्ग इत्यादि स्वयसुक्तेः। यद्यपि ऊनविंशतिरित्यविशेषेणोक्तंतथापि प्रत्यासत्तेर्लोकरूढ़ेश्चैकोनविंशतित्वं ज्ञेयम्। भक्तैर्नवभिरिति। वक्ष्यमाण गोप्यादिभूयस्त्वेऽपि हास्यादिनवरसावच्छिन्नत्वेन नवत्वं, नवोपाध्यवच्छिन्नत्वात्। नवैव द्रव्याणीतिवत् नवभिरित्युक्तंनवविधैरित्यर्थः। तदेवमुपास्यं स साधनोपास्तिरुपासकश्चेति त्रयं प्रकरणार्थ इत्युक्तम्। अयमेव पादचतुष्टयार्थः क्रमात् प्रकरणचतुष्कोणाभिधास्यते। एतावानेव भागवते ऽनुष्ठेयोऽर्थः। फलन्तत्रैवोक्तमिति न पृथग्दर्शितम्। महाप्रयोजनादयस्तु ‘धर्म्मः प्रोञ्झितः’ इत्यत्र टीकायामुक्ता इहानुसन्धेयाः।तत्र कैवल्यलाभः प्रयोजनम्। भक्तियोगोऽभिधेयः। निर्मत्सरत्वविशिष्टसत्वमधिकारि विशेषणम्।न वर्णाश्रमादि। मत्सरः परोत्कर्षासहनम्। सत्वमास्तिकत्वमिति। मूले विप्रकीर्णानामुपास्यादीनां प्रसङ्गान्तराऽसङ्करेण विविक्ततयैकत्र प्रतिपत्तिरिहाबान्तरप्रयोजनम्। अतएवेदं प्रकरणमित्याख्यायते। यथाहुः"शास्त्रैकदेश सम्बद्धं शास्त्रकार्य्यान्तरेस्थितम्। आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चित" इति। इह च स्वकर्त्तृकत्वेऽपि यदुराजमहामन्त्रिणा हेमाद्रिणाऽस्यर्थितस्तत्कर्त्तृकत्वं ख्यापितवान्॥१॥

तदेवाह विष्णित्यादि। चतुर्णांधर्म्मादीनाम्बर्गश्चतुर्व्वर्गः तत्रेष्ट समर्पको ग्रन्थश्चिन्तामणिः। “मणिर्द्वयोरि”त्यभिधानात् स्त्रीत्वम्। तस्यां हेमाद्रिर्ब्रतादिभेदानजीगणत्। गणेर्णिजन्ताद्धेतुमस्मिच्। विद्वद्भिर्गणयामासेत्यर्थः। अन्यत्रस्थितानां व्रतादिवाक्यानां युक्त्याकृष्यैकत्रलेखनं नतु स्वयं निष्पादनमिति गणयतेरर्थः। व्रतादि-

मुक्ताफलेन ग्रन्थेन सद्भागवत-शुक्तिना।
भक्तिस्वात्यम्बुना मुग्धमार्कण्डेयशिशुश्रिया॥४॥

————————————————————————————————————————————————

भेदांश्च क्रमाद्व्रतदान तीर्थ-मोक्ष-परिशेषपूर्वेषु पञ्चसु खण्डेषु मोक्षवर्त्मानि मोक्षोपायाः॥२॥

मूर्त्तयःप्रतिमाः। प्रासादादेवकुलानि। गणकाग्रणीः षुगणके देशकोषयोरायव्ययौ लिखत्सु अग्रणीर्मुख्यः। विष्ण्वादीनाञ्चतुर्णां द्वन्द्वस्तेषां भेदानित्येव। ननु तादृशि लक्षत्रयसम्मिते ग्रन्थे कृतेऽपि किमपरमवशिष्टं यदर्थमस्यारम्भ इति तत्राह। उक्त सारधीरिति। उक्तेभ्यो व्रतादिभ्यः सारेश्रेष्ठे विष्ण्वादिविषये धीर्यस्य स तथा। “आप्लुतास्तीरमन्दारकुसुमोत्करवीचिषु।प्राकाशगङ्गास्रोतःसुदिङ्मागमदगन्धिषु”1“नेयङुबङ्स्थाना"वित्यादि2दर्शनाद्व्यधिकरणेऽपि बहुव्रीहिः। अयमर्थः प्रथमं भगवत्प्रीत्यर्थमुच्चावचानि क्लेशभूयिष्ठानि सोपायानि अनेकान्तिकानि वहिरङ्गानि ब्रतदानादीनि तत्र गणितानि। ततस्तेषु अतुष्टस्तद्विलक्षणं मोक्षैकफलमुपायं प्रकटयितुमिदमचीकरत्॥३॥

ननु व्रतादिभेदाश्चिन्तामणिनागणिता विष्ण्वादिभेदाः पुनः केनेति तत्राह मुक्तेति। ग्रन्थनं ग्रन्थःसन्दर्भः सोऽस्मिन्नस्तीति ग्रन्थं प्रकरणम् “अर्शआदित्वादच्”3यत्राभिन्नरूपेण शब्देन तद्वतोऽभिधानं तत्सर्व्वमिहेति हि वृत्तिकारः। यद्वा ग्रन्थशब्दो नपुंसकेऽप्यस्ति तथाहि पाणिनिना स्वकीये लिङ्गानुशासने “थोपधय”4इत्यधिकृत्य काष्ठ-पृष्ठरित्योत्थानि नपुंसके, तीर्थ-प्रोथ-यूथ-ग्रन्थानि नपुंसके चेत्युक्तम्। मुक्तानाम वल्ली तस्याः फलं तेन,“गतः सकालो

मुक्ताफलं सुखचितस्फुटभक्तिभेद-
प्रत्यक्षराजितलसत्पदपद्मरागम्।

—————————————————————————————————————————————————

यत्त्रासीन्मुक्तानां जन्मवल्लीषु। वर्त्तते साम्प्रतं तासां हेतवः शक्तिसम्पुटाः॥” इत्यादि दर्शनाद् वल्लीजमप्यस्ति मौक्तिकम्। यद्वा मुक्तास्फोटो मुक्ता तदीयं फलं चतुर्थादनजातौ चेत्युत्तरपदलोपो भीमादिवत्। ग्रन्यपक्षे तु मुक्तानां अफलं प्राप्तोपयत्वात्। ग्रन्थः संजल्पः काक्वाव्यञ्जनीयः। अर्थान्मुक्त्यर्थिनां फलदम्। यद्वामुचां भावो मुक्ता साफलं यत्र ग्रन्थे तत्तथा। तर्व्वथामुमुक्षूणां फलदमित्यर्थः। ग्रन्थरत्नयोः साधर्म्म्यमाह सदिति। सती प्रशस्ता भागवतमेव शुक्तिर्जन्मस्थानं यस्य तत्तथा तेन। भक्तिर्भजनं कर्त्तुरनुरागः स एव स्वात्यम्वु यस्य तत्तथा तेन। यथादेशविशेषे स्वातिपयः शुक्तिसम्पुटेषु मूर्च्छितंमौक्तिकं भवति (५) तथानुराग एवास्य ग्रन्थाकारेण परिणत इत्यर्थः। कः पुनरस्यालङ्कार्य इति तमाह मुग्धेति मुग्धो भ्रान्तः मार्कण्डेयो यस्मिन् शिशौ शिशुरूपे विष्णौ स तथा। तस्य श्रीः शोभा यस्मात्तत्तथा तेन। भाषितपुंस्कत्वाद्विभाषापुम्बद्भावः। मार्कण्डेयो हि हिमवति पुष्पभद्रातीरे भगवन्मायां दिदृक्षुरतिदीर्घः तपस्तप्यमानः कदाचित् प्रसन्नेन भगवता प्रकटितायां मायायां निखिललोकसंप्लवोदके मुहर्म्मज्जनोन्मज्जनादिभजन् अकस्माद्वटपत्रसंपुटे शयानमतिसुन्दरं भगवद्बालमालोक्य प्रमुमोह। योहि मुनिः पुञ्जिकस्थल्यादिविभ्रमेषु न बभ्रामसोऽप्यत्र मुग्ध इति शिशोः सुन्दरत्वमुक्तम्। तस्याप्येतदलङ्कारइत्यतिशयः। एकञ्च मुक्ताफलं प्रायेण बालमलङ्करोतीति भङ्गिविशेषोक्तिः। यथा मौक्तिकं करकलितं हृदयार्पितं वा सर्वस्यात्मप्रसाधनाय तथेदमपीति रूपकार्थः॥४॥

——————————————————————————————————————————————————
(५) “स्वात्यम्बुशुक्तिकुहरे पतदेवमुक्तामुक्तैवपङ्कजदले नरजः सु किञ्चित्। “उद्भटः। अन्यद् युक्तिकल्पतरौ मुक्ताप्रकरणेऽस्ति।

हेमाद्रिसम्भवसुवर्णनिवेशरम्यं,
कण्ठे कुरुद्धमवरुन्धमपूर्वलक्ष्मीम्॥५॥

—————————————————————————————————————————————————

नन्वेवमप्यन्येषु ग्रन्थेषु रत्नेषु च सत्सु किमनेनेति तत्राह। मुक्तेति। सुष्ठु खचिताः सम्बद्धाः स्फुटभक्ति भेदाःप्रत्यक्षराजिताः लसत्पदाःपद्मरागाः शोणरत्नानि यस्मिन् तत्तथा। स्फुटः ष्पष्टो भक्तिभेदो रचनाविशेषो येषां पद्मरागानां ते तथा। प्रत्यक्षा राजिताः सौन्दर्य्यंयेषां ते तथा। राजितेतितान्तं वा। अत्यन्तकान्तिमन्त इत्यर्थः। तथा लसत्शोभमानं पदं स्थानमाश्रयो येभ्यस्ते तथा। हेमाद्रिर्मेरुस्तत्सम्भवं यत् सुवर्णं कनकं तस्य निवेशो निक्षेपः, तेन रम्यमपूर्वं, हेमाद्रिसम्भवत्वेन कनकस्य सुजातत्वमुक्तम्। तदेतदत्युज्ज्वलं सुखचितपद्मराग-जाम्बुनदमौक्तिकं भगवता प्रसादोक्तमिव कण्ठे कुरुध्वम्। कर्त्तुः क्रियासासान्यवाचित्वादामुञ्चध्वम्। हे कुशला इति शेषः। आत्मनेपदाच्च क्रियाफलस्य कर्त्तृगामित्वम्। तदाह। अवेति अवरुन्धं आवृणुध्वम्। लक्ष्मीं शोभामपूर्व्वाम्। रत्नान्तरसम्बन्धादननुभूताम्। अन्यत्र तु सुखेन अप्रयासेन चितैः सङ्गृहीतैःस्फटैः परस्परविविक्तैःभक्तोर्भेदैः विहिताविहितादिभिः प्रत्यक्षरम्। अक्षरे अक्षरे अजितस्य विष्णोः लसतोः शोभमानयोः पदपद्मयोश्चरणाम्बुजयोः रागोरतिर्यस्मिन् ग्रन्थे तत्तथा। विष्पष्टं प्रदर्शितैर्भक्त्यादिभेदैरिह प्रत्यक्षरमीश्वराकारामतिर्भवतीत्यर्थः। हेमाद्रिःपुरुषविशेषः। तत्सम्भवानि तेनोच्चरितानि सुरेखानि यानि वर्णानि अक्षराणि तेषां निवेशनेन तत्र तत्रोचितस्थानेषु न्यासेन रम्यम्सुश्लिष्टम्, वर्णग्रहणेन स्ववाक्यानां स्तोकत्वमुक्तम्। तत्कण्ठे कुरुध्वम्। कण्ठस्थंयथास्यात्तथाऽभ्यस्यध्वमित्यर्थः। लक्ष्मीमात्मप्रसादरूपां शोभां अपूर्वां ग्रन्थान्तरैरलब्धाम्॥५॥

तत्रादौ विष्णुप्रकरणम्। तत्र विष्णोर्लक्षणंभेदाश्च।
अहमेवासमेवाग्रे नान्यद्यत्सदसत् परम्।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्॥६॥

—————————————————————————————————————————————————

एवं श्लोकचतुष्केण पूर्व्वं रङ्गं विधाय प्रस्तुतमारभ्यते। तत्रेति। तत्र ग्रन्थे। आदौ उद्दिष्टक्रमानुरोधात्। विष्णुप्रकरणे च विष्णुप्रतिपाद्यः। स च सामान्यविशेषावष्टब्धत्वाद् द्वेधा। तत्र सामान्यपूर्ब्बिका विशेषप्रतिपत्तिरिति सामान्यलक्षणं वक्तुमाह। तत्रेति। भेदा विशेषाः। अहमित्यादि। अहमेवेतिकर्त्रन्तरस्य व्यावृत्तिः। आसमेवेति क्रियान्तरस्य। अग्रे मायासम्बन्धात् प्राक्। मायासम्बन्धेऽपि यत् सत्कार्य्यं असत्कारणं यच्च परं ताभ्यां परं प्रधानम्तन्न मदन्यत्। मायासम्बन्धादस्त्येव त्रिधा विभक्त इत्यर्थः। पश्चान्मायावियोगादनन्तरमप्यहमेव। प्रपञ्चस्यादिमध्यावसनिष्वहमित्यर्थः। यच्चैतत्प्रपञ्चरूपन्तदप्यहम्। अन्यत्र सिद्धं मयि आरोपितम्। यथाऽन्यत्र सिद्धः सर्पोरज्जौ। एवम्विधे वश्चनाद्भ्रमे निवृत्ते योऽवशिष्येत सोऽहमस्मि। इदन्तयास्वरूपस्य निर्द्देष्टुमशक्यत्वात्5। “) एवमुच्यते, एतेन यथा कटकादिष्ववस्थात्रयेऽपि सुवर्णत्वमेव सत्यं तथा जगदादिमध्यान्तेष्वनुस्यूतं सत्तामात्रं भगवत्स्वरूपमिति लक्षणार्थ इत्युक्तम्। न तावदस्यासम्भवः। “स देव सोम्येदमि”त्यादि श्रुतिसिद्धत्वात्6। न च कालाकाशादिष्वति व्याप्तिः। तदुत्पत्तेः श्रुतत्वात् ; विमतमनित्यं बाध्यत्वात् शक्तिरूप्यवदित्यनुमानाश्च7। नापि साकारेषु चतुर्ष्वतिव्याप्तिः। तेषामाकारतिरोहितत्वात्। तस्मान्निर्दोषंलक्षणम्।२।९।३२।(६)।

** सद्वेधानिराकारः साकारश्च। अनवच्छिन्नं चैतन्यं निराकारः। सत्तावच्छिन्नं चैतन्यंसाकारः। स च चतुर्द्धारजस्तमोभ्यां युक्ते सत्वेपुरुषः। रजसा ब्रह्मा। तमसा रुद्रः॥**

—————————————————————————————————————————————————

अत्र च प्रथमयावक्तुर्निर्द्देशः। द्वितीयया श्रोतुः। विष्णुर्ब्रह्माणम्। इह च श्लोकानां स्व स्व स्कन्धाध्याययोर्ज्ञानार्थं क्रमादङ्कन्यासः। (२।९।३२।(६)। एवं सामान्यलक्षणमुक्त्वाविशेषां ल्लक्षयितुमाह। सद्वेधेति। द्वेधात्वमेवाह निरेति। अनवच्छिन्ने वस्तुन्यवच्छेदक उपाधिराकारः। तेन रहितो निराकारः। तत्सहितोऽन्यः। तत्राद्यं लक्षयति अनवच्छिन्नेति। सत्वेति। द्वितीयं लक्षयति। अस्यैव भेदानाह। स चेति।

स साकारः। तत्राद्यं भेदमाह। रजस्तमोभ्यामिति। तुल्याभ्यां रजस्तमोभ्यां युक्ते सत्वे प्रतिफलितं चैतन्यं पुरुषशब्दार्थ इति पूरणीयम्। एवमुत्तरत्र। रजस्तमोभ्यामिति तृतीयया तयोरप्राधान्यम्"सहयुक्तेऽप्राधाने” इति8स्मरणात्। तेन पुरुषे सत्वं बहुलं रजस्तमश्च तदपेक्षयान्यूनमित्यर्थः। न तु त्रीणि समान्येव। त्रिसाम्यस्य प्रकृतिलक्षणात्। स्तोकाधिकभावश्चैषां कार्य्यगम्यो न तु माषादिमूर्त्तद्रव्यवत् प्रत्यक्षः। युक्तग्रहणं द्वयोर्वर्त्तते। सत्वग्रहणं त्रिषु, भेदमाह रजसेति। रजसा युक्ते सत्वे ब्रह्मा। अत्र च मात्रया विद्यमानमपि तमो रजसः प्राधान्यं वक्तुंनोक्तम्। नतु (नु) तन्नास्त्येव तत्कार्य्यस्योपलम्भात्। तृतीया तु प्राग् वत्। तेन ब्रह्मणि तमस्तोकं तदपेक्षया हेयत्वात्। तुर्य्यप्रकरणानुरोधाच्च। तृतीयं भेदमाह। तमसेति। अत्र रजोमात्रानुरोधादिकं प्राग्वत्॥

शुद्धे विष्णुरेव। अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः सत्वम्। गोचरस्य बहुरूपत्वेरजः। बहुरूपस्य तिरोहितत्वेतमः। तथा परस्परमुदासीनत्वे सत्वम्॥

—————————————————————————————————————————————————

चतुर्थमाह। शुद्धे विष्णुरिति। शुद्धे रजस्तमोभ्यामस्पृष्टे सत्वे विष्णुरेव। विष्णुसंज्ञयैव क्रियते। न तु तन्त्रान्तरवत्संज्ञान्तरं इत्येव शब्दार्थः। तथाहि — " तमेनं विशुद्धोर्ज्जितसत्वाकारं सदाशिव” इत्याचक्षते शैवाः। “पशुपतिरिति” पाशुपताः। “पुरुषोत्तम” इति पाञ्चरात्राः। “आदिविद्वान् सिद्ध” इति सांख्याः। “ईश्वर” इति पातज्जलाः9 १।५ स्लोः। शिवसूत्र-व्यासभाष्य-सांख्यदर्शन-नारदपञ्च-रात्रेषु च।")। इह तु तस्य विष्णुसंज्ञयैव। यद्वा “विष्णुं पञ्चात्मक"मित्यत्र पञ्चानामपि विष्णुसंज्ञामुक्त्वाचतुर्णां संज्ञान्तरमप्युक्तम्। शुद्धसत्वोपाधिस्तु विष्णुसंज्ञयैवेत्येव शब्दार्थः। ते च ब्रह्मविष्णुरुद्राः प्रत्येकं आधिदैविकादिभेदात्त्रेधा। एवमुपाधिसंभेदात्पञ्चरूपता मुक्त्वाइदानीमननुसंहितोपधेरुपहितप्रत्ययायोगात्उपाधीन् लक्षयति। अगोचरेति। अगोचरस्याविषयभूतस्य वस्तुनो गोचरत्वेविषयीभावे हेतुर्यः प्रकृतिगुणः तत्सत्वमित्यर्थः। हेतुः प्रकृतिगुण इत्युत्तरत्र पञ्चस्वनुवर्त्तते। गोचरस्य सतो यत्सम्बन्धान्नानात्वं तद्रजः। तस्यैवतिरोहितत्वे कारणात्मनाऽवस्थाने हेतुस्तमइत्यर्थः। विनाशे इत्यनुक्त्वासत्कार्य्यपक्षाश्रयणात् तिरोहितत्वे इत्युक्तम्। एवमाधिदैविकोपाधिस्वरूपमाह तथेति। अयमर्थः। परस्परमुदासीनमित्रद्विषत्सु उदासीनत्वे हेतुः सत्वम्।

** उपकारित्वे रजः अपकारित्वे तमः। गोचरत्वादीनि स्थितिसृष्टिसंहाराः। उदासीनत्वादीनि च॥**

———————————————————————————————————————————————

इतरे स्पष्टे। आधिदैवाध्यात्मिकोपाधिलक्षणादधिभूतोपाधि स्वरूपमपिलक्षितम्। येन हि एकस्मिन् वस्तुनि द्विरूपोविच्छेदः असावाधिभौतिकः। तदुक्तं “योऽध्यात्मिकोऽयंपुरुषः सोऽसा वेवाधिदैविकः।

यस्तत्रोभयविच्छेदः सस्मृतोह्याधिभौतिकः10 ॥”

ततश्च परिशेषे सिद्धमिति नेहोक्तमिति भावः। उक्तान् गोचरत्वादीन् उपाधीनुन्मीलयितुमाह।गोचरेति।गोचरत्वबहुरूपत्वतिरोहितत्वानि क्रमात्स्थित्यादिशब्दैरुच्यन्त इत्यर्थः। नचैवं सृष्ट्यनन्तरं स्थितिरिति विरुद्धत्वं शक्यम्। स्थितिपूव्र्वकत्वात्सृष्टेः। स्थिताहि मृदादयोघटाद्यात्मनासृज्यन्ते नास्थिता इति। अतएवोक्तं “सत्वं त्रिलोकस्थितये स्व मायया, विभर्षिशूक्लंखलुवर्णमात्मनः। सर्गायरक्तं रजसोपबृंहितम्, कृष्णाञ्चवर्णं तमसा जनात्यये”11। इत्येवमाध्यात्मिकेष्वपीत्याह। उदासीनेति। अयमर्थः यदिदं चैत्रादेरुपकारापकारवैधुर्य्येणावस्थानं सा स्थितिः। उपकारकत्वेन सृष्टिः, अपकारकत्वेन तु संहारः। ततश्च जगत् स्थित्यादिहेतवः आधिदैविकाः अन्येत्वाध्यात्मिकाः सुरनरादयः। अवताराश्च सर्व्वे विना कृष्णम्। स तु पुरुषः त्रिविक्रमावतारत्वाद् यथोक्तं “तयोर्व्वापुनरेवाहमदित्यामास कश्यपात्। उपेन्द्र इति विख्यातोवामनत्वाच्च वामनः “12

** तेषु विष्णुब्रह्मरुद्रा निमित्तंपुरुष उपादानम्,**

—————————————————————————————————————————————————

इति। अतएव तत्र तत्र विश्वरूपप्रकटनं पूर्व्ववतारदेश वात्सल्यञ्च, दृश्यतेचाद्यापि कुशस्थलीमूर्तौत्रैविक्रमं चिह्नं कृष्णव्यपदेशश्च। अतएव प्रह्लादसंहितायां द्वारकामाहात्म्येतृतीयेऽध्यायेवैकुण्ठमलङ्करिष्यताभगवता सकलं निजं तेजस्तस्यां मूर्तौविन्यस्तमितिदर्शितम्।13 तथाहि — “यत्र त्रैविक्रमी मूर्त्तिर्व्वहते यत्र गोमती। नरा मुक्तिं प्रयास्यन्ति चक्रतीर्थेन सङ्गताः। कलेवरंपरित्यक्तं प्रभासेहरिणा तदा। कलाभिः सहितं तेजस्तस्यां मूर्त्तौनिवेशितम्। तस्मात् कलियुगे विप्राः ! नान्यत्र प्राप्यतेहरिः। यदि कार्य्यंहि कृष्णेन तत्र गच्छत माचिरम् ”14इति। तथाच “आदौ त्रिविक्रम इति ख्यातिरासीन्महीतले। कृष्णस्य तु कलान्यासात् कृष्णणइत्यभिधीयते”15इति। यत्तुसत्वं विशुद्धमित्यादिना शुद्धसत्वतासंकीर्त्तनं, तत्सत्वभूयस्त्वविषयम्। नतु यथाश्रुतमेव गुणान्तरकार्य्यस्याप्युपलम्भात्। तत्र तदसत्यमन्यत्र तु वास्तवमिति तु भक्तिमात्रम्। तस्मात् पुरुषएवायमिति सन्तोष्टव्यं निष्क्रष्टव्यञ्चेदमुपरिष्टात्। यथाचैता ब्रह्मादिमूर्त्तयोगुणमूलाःतथा हास्यादयोरसाश्च तन्मूलाएवेत्युपरिष्टात् प्रवेदयिष्यामः। किम्बहुना तत्त्रितयतारतम्यवैचित्राक्रान्तमिदंविश्वम्। तदुक्तं “न तदस्ति पृथिव्याम्बादिविदेवेषु वा पुनः। सत्वं प्रकृतिजैर्मुक्तं यदेभिःस्यात्त्रिभिर्गुणै” रिति16

गोचरत्वेतु चैतन्यम्, एवं पञ्चभेदाः।तव निराकारः॥

न यत्रकालोऽनिमिषां परः प्रभुः,
कुतोऽनुदेवा जगतां य ईशिरे।
न यत्त्रसत्वं न रजस्तमश्च,
नवैविकारो न महान् प्रधानम्॥७॥

——————————————————————————————————————————————

एवमुपाधिस्वरूपं निर्द्धार्य्योपहितेषु संख्याविशेषस्योपयोगमाह— तेष्विति। तेषु स्थितिसृष्टिसंहारेषु विष्ण्वादयः क्रमान्निमित्तम्।

कुलाल इव घटस्य, पुरुष उपादानं समवायिकारणं घटस्येव मृत्। दृष्टा च कारणद्वयपूर्विका कार्य्यप्रकृतिः। असमवायिकारणन्तु निमित्तान्तरगतमेवेति पृथङ् नोक्तम्। अतएव “अन्वयादितरतश्चे” (२) ति प्रथमश्लोके इयमेवोपात्तम्। गोचरत्वे प्रतीतिविषयत्वे तु निर्विशेषचैतन्यं हेतुः। " तस्य भासासर्बमिदं विभाति” (३) इति श्रुतेः। तच्च स्थित्यादिनिमित्तार्थं त्रयः उपादानार्थञ्चैकः, गोचरत्वार्थमन्यश्चेति। “विष्णुं पञ्चात्मकं” इत्यत्रत्रयञ्चैवोक्ता न न्यूनाधिका इत्यभिप्रेत्याह एवमिति। नचैवमेकः सामान्यात्मा विशेषरूपाश्च पञ्चेति षट्कमाशङ्क्यं विशेषपरिहारे सामान्यस्यानवस्थानात्। एवं तावत् पञ्चवस्तूनि स्वयं लक्षयित्वा तदेव ग्रन्थारूढ़े न लक्षणेन द्रढ़यितुमाह, तत्रेति। निराकार इति।
निराकारस्य लक्षणं कथ्यत इत्यर्थःll

——————————————————————————————————————————————

( १ ) भागवतं १/१/१ श्लोः।
( २ ) मुण्डकोपनिषद् २।१० श्लोः।

परं पदं वैष्णवमामनन्ति तत्,
यन्नेति नेतीत्यतदुत्सिसृक्षवः।
विसृज्यदौरात्म्यमनन्य सौहृदा,
हृदोपगूह्यार्ह–पदं पदे पदे॥८॥

———————————————————————————————————————————————

तत्रापि न यत्रेति तटस्थस्य, परं पदमिति स्वरूपस्य, तत्परं पदं वैष्णवं आमनन्ति। विष्णुनाधिष्ठितेन राजाधिष्ठितवत्। ब्रह्मादिपदानामपि विष्णुनाधिष्ठितत्वात् परमित्युक्तं विष्णुनैवाधिष्ठितमित्यर्थः। यत्र पदे कालो नास्ति यः अनिमिषां ब्रह्मादीनाम्परः प्रभुः संहर्त्ता महाप्रलयेऽपि नाशो नास्त्येवेत्यर्थः। अतएव कालाभावे किं पुनर्न्यायेन देवा अपि तत्र न सन्तीत्याह, कुतोऽन्विति। तथा देवाभावे जीवा अपि न सन्तीत्याह जगतामिति। ये देवा जगतामुच्चावचां गतिङ्गच्छतां जीवानामीशाः। तेषां वार्त्ता तत् कृतविघ्नगन्धोऽपि नास्तीत्याह। ईशीरे इत्यनित्यत्वद्योतनार्थं लिट्प्रयोगः।

यत्र च पदे सत्वादिर्नास्ति सत्वमिन्द्रियदेवतारूपं, रज इन्द्रियं, तम इन्द्रियार्थरूपं निराकारोऽहङ्कारस्तेषां ‘त्रयाणां कारणं महान्बुद्धितत्वं तदहङ्कारस्य, प्रधानमव्यक्तं तन्महतः, सत्वाद्यभावादेतत् प्राप्तवतां पुनर्ज्जन्मादिशङ्काबीजलेशोऽपि नास्तीत्यर्थः॥२।२।१७।(७)। एवं दुःखं नास्तीत्युक्त्वासुखमस्तीत्याह, यन्नेतीति। यद् विष्णुपदं हृदामनसा उपगूह्याश्लिष्य अनन्यसौहृदा भवन्ति अन्यत्र विषये प्रोतिं परित्यजन्ति तादृक् सुखाभावात्। तद्धिपदे पदे क्षणे क्षणे अर्हपदं अर्हणस्यादरस्य स्थानं उत्तरोत्तरचमत्करणीयत्वात्। दौरात्म्यं विसृज्यानादिदुर्वासनावासितत्वं त्यक्त्वा विषयान्तरस्मृतिरपि(ति) नास्तीत्यर्थः। “नेति नेती"त्युपनिषदुपदेशविश्वासबलात्

इत्थं मुनिस्तूपरमेद्व्यवस्थितो-
विज्ञानदृग्वीर्यसुरन्धिताशयः॥९॥

पुरुषः। भूतैर्यदा पञ्चभिरात्मसृष्टैः,
पुरं विराजं विरचय्य तस्मिन्।
स्वांशेन विष्टःपुरुषाभिधान-
मवाप नारायण आदिदेवः॥१०॥

——————————————————————————————————————————————————

(१)। अतत् विष्णुपदादन्यत्। उत्सिसृक्षवः स्वेच्छयैवोत्सृष्टवन्तः। नित्यनिरतिशयसुखानुभवरूपेऽनुभविता अनुभवनमनुभवनीय इति कर्त्तृ-करण-कर्म्माणि अतच्छब्देनोच्यन्ते। तानि ह्यनुभवार्थमुपादीयन्ते सत्यनुभवे तु त्यज्यन्तेअसत्यत्वादन्तरायत्वाच्च॥२॥२।१८। (८)।

एवमस्य द्विविधं लक्षणमुक्त्वाऽत्राधिकारिणमाह, इत्थमिति। इत्थं व्यवस्थितः अनेन प्रकारेण व्यवस्थामापन्नो मुनिरुपरमेद् न किञ्चित्कुर्य्यात्। यतो विज्ञानस्य विशुद्धज्ञानरूपस्य विष्णोर्दृग्दर्शनं साक्षात्कारः। तस्य वीर्य्यं बलं तेन सुरन्धितो यथा पुनर्नोदेति तथा हिंसित आशयो जीवत्वोपाधिर्येन स तथा। अयमर्थः। वक्ष्य-माण-भूमिकोपासनाक्रमबलात् सत्वपुरुषान्यताख्यातिमापन्नस्तामपि सायुज्यार्थी निरोद्धुकाम इत्येतामवस्थामापन्नो मुनिः अत्राधिक्रियते नान्यः(२)। अवश्यञ्चाधिकारि-निर्द्धारणार्थमित्यमित्यादि ज्ञेयम्। अन्यथास्योद्धरणं निष्प्रयोजनं स्यात्। शुकः राजानं प्रति॥२।२।१९।(९)। पुरुषलक्षणमाह भूतैरित्यादि। आत्मसृष्टेः आत्मना प्रकृतिमधिष्ठाय सृष्टैःपुरं देहं विराजं ब्रह्माण्डं विरचय्य निष्पाद्य-

———————————————————————————————————————————————————

(१) बृहदारण्यकोपनिषद् २।२।६। (२) योगदर्शनभाष्यं।१।३-४।

यत्काय एष भुवनत्रय सन्निवेशो-
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि।
ज्ञानं स्वतः श्वसनतो बलमोजईहा,
सत्वादिभिः स्थितिलयोद्भव आदिकर्त्ता॥११॥

ब्रह्म विष्णु रुद्राः।

आदावभूच्छतधृतीरजसाऽस्य सर्गे,
विष्णुस्थितौ क्रतुपतिर्निजधर्मसेतुः।

————————————————————————————————————————————————

तस्मिन् स्वांसेन जीवकलया यदा प्रविष्टः तदा पुरुषसंज्ञामवाप। पूरिशयनाद्वसनाद् वा पुरुषः(१)। अनंशेऽप्यंशोक्तिः कल्पनया नारायणःजलशायी। आदिदेवो निराकारः११।४।३।(१०)।

एवं तटस्थ’ लक्षयित्वा स्वरूपं लक्षयति, यत्काय इति। एषः दृश्यमानो भुवनत्रयस्य सन्निवेशो यथायथं स्थितिः। यस्येन्द्रियैः"दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रप्रजापतिभिः”17शरीरिणामुभयानि ज्ञानकर्म्मभेदात्। इन्द्रियाणि-श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थाः। स्वतः स्वस्मात् तत् स्वरूपादिति यावत्। तनुभृतां ज्ञानं यस्य श्वसनतः प्राणाद्बलं ज्ञानेन्द्रियाणां पाटवम्। ओजो मनच्चः। इहाकर्मेन्द्रियाणां स सत्त्वादिभिर्विशिष्टः। स्थित्यादौ आदिकर्त्ता प्रथमकारणमुपादानत्वात्। विष्ण्वादयस्तु पश्चात् कर्त्तारः निमित्तत्वात् ११।४।४।(११)।

एवं निराकारपुरुषौ लक्षयित्वा ब्रह्मादित्रयं लक्षयति। ब्रह्मेति। स प्रागुक्तः पुरुषः। आदौ शतधृतिर्ब्रह्माऽभूत्। रजसा उपाधिना।

———————————————————————————————————————————————

( १ ) भागवतं २।५।३०।

रुद्रोऽप्यये च तमसापुरुषः स आद्य -
इत्युद्भवस्थितिलयाः सततं प्रजासु॥१२॥

पुरुषरूपम्।

तद्वामनं रूपमबद्धैताद्भुतम्,
हरेरनन्तस्य गुणत्रयात्मकम्।
भूःखं दिशोद्यौर्विवरा पयोधयः,
तिर्यङ्नृदेवाऋषयो यदासत॥ १३॥

———————————————————————————————————————————————

सर्गे निमित्ते। स एव स्थितौ विष्णुः सत्वेनेत्यर्थसिद्धम्। स्थितिकर्त्तृत्वञ्च सन्निधिमात्रेण धर्म्मप्रवृत्तिहेतुत्वात्। तदाह। क्रत्विति। क्रतुः श्रौतोधर्म्मः। निजः पाञ्चरात्रादिस्थः। सेतुर्विधारकः। स एव तमसारुद्रः। अप्ययः प्रलय इति एवम्विधाः सृष्ट्यादयः स्युः। सततं प्रतिदिनं प्रतिकल्पञ्च ब्रह्मरुद्रयोरनुक्तमपि सत्वं लभ्यते। केवलयोस्तु रजस्तमसोरस्वच्छत्वेन प्रतिविम्बायोग्यत्वात्। अतएव सत्वेन विष्णुरिति नोक्तम्। द्रुमिलःनिमिम् ११।४।५।(१२)।

एवं लक्षितानि पञ्चवस्तूनि। तत्र चतुर्णां ध्यानसिद्धये रूपाणि यथायथं वाच्यानि। तत्रादौ निर्विषयस्य मुमुक्षोःसमीहितसिद्धौ सम्यञ्चमुपायमीक्षमाणस्य विश्वरूपधारणाख्यप्रथमभूमिकोपासनां वक्तुंपुरुषरूपमाह, पुरुषेति। तल्लब्धप्रतिग्रहं। वामनं खर्वम्। अद्भुतं यथा स्यात्तथा। ननु खर्वञ्चेत् परिच्छिन्नं स्याद् नेत्याह। अनन्तस्येति। अनन्तत्वे वृद्धिः कथं तत्राह। गुणेति। गुणोपाधिकमित्यर्थः। यद् यस्मिन् भ्वादयो दश आसत अट्टश्यन्त। द्यौः स्वर्गः। विबराः पातालानि।८।२०।२१।(१३)।

काये बलिस्तस्य महाविभूतेः,
सहर्त्विगाचार्य्य सदस्य एतत्।
ददर्श विश्वं त्रिगुणं गुणात्मको-
भूतेन्द्रियार्थाशय-जीवयुक्तम्॥१४॥

रसामचष्टाङ्घ्रितलेऽथपादयो-
र्महीं महीध्रान् पुरुषस्य जङ्घयोः।
पतत्रिणोजानुनि विश्वमूर्ते-
रुर्वोर्गणं मारुतमिन्द्रसेनः॥१५॥

सन्ध्यांविभोर्वाससि गुह्य ऐक्षत्,
प्रजापतीन् जाघन आत्ममुख्यान्।

————————————————————————————————————————————————

अत्राधिकारिणमाह काय इति। विभूतिरैश्वर्य्यम्। ऋत्विजो यज्ञकृतः। आचार्य्यामन्त्रव्याख्याकृतः। सदस्या उपदेष्टारः। तैः सहितः एतत्सर्व्वं प्रत्यक्षम्। भूतानि महान्ति पञ्च। इन्द्रियाणि दश। अर्थाः पञ्चतन्मात्राणि। आशयाः मनोबुद्धिरहङ्कारश्चित्तञ्चेति चत्वार्य्यन्तःकरणानि18। जीवः पुरुषः। एभिर्युक्तं पञ्चविंशतितत्वात्मकमपश्यदित्यर्थः19। ददर्शेति सिद्धवदुक्तेर्भगवत्प्रसादाद्दिव्यं चक्षुरस्यानुमेयम्। ननु सर्व्वस्वेन भजतो बलेः किं न-तात्त्विकरूपोपलब्धिस्तत्राह। गुणात्मकः अद्याप्याक्षीयमाणगुणत्रयः। एतेनान्योऽपि त्रैगुण्यग्रथितचित्तोऽत्राधिकारीत्युक्तम्॥८।२०।२२।(१४)

एवं सामान्येन रूपमुक्त्वायदत्र चिन्त्यन्तदाह, रसामिति। रसां पातालं अचष्ट अपश्यत्। अङ्घ्र्योस्तलेऽधः। अथ शब्दः सर्व्वत्र वाक्य-

नाभ्यां नभःकुक्षिषु सप्तसिन्धू-
नुरुक्रमस्योरसि ऋक्षमालाम्॥१६॥

हृद्यङ्गधर्म्मं स्तनयोर्मुरारे
र्ऋतञ्चसत्यञ्च मनस्यथेन्दुम्।
श्रियञ्च वक्षस्यरविन्दहस्ताम्,
कण्ठे च सामानि समस्तरेफान्॥१७॥

इन्द्रप्रधानानमरान् भुजेषु,
तत्कर्णयोः ककुभोद्यौश्चमूर्ध्नि।

—————————————————————————————————————————————

भेदार्थं योज्यः। पादयोरुपरीत्यर्थः। महीध्रान् पर्वतान् पतत्रिणः पक्षिणः। जानुनि जानुदेशे। मारुतां गणं आवहादीनां मारुतांस्तोमम्। इन्द्रसेनोवलिः॥८।२१।२३ (१५)

विभुर्व्यापी। जघनमेव जाघनम्। आत्ममुख्यान् दैत्यानित्यर्थः। कुक्षिषु कुक्षिप्रदेशेषु कुक्षेरेकत्वेन बहुवचनायोगात्।उरुर्महान्क्रमणं यस्य स तथा। ऋक्षमालां नक्षत्रपङ्क्तिम्॥८।२०।२४॥ (१६)

अङ्गं अहोरूपाद्भुतश्रवणस्तिमितचित्तं राजानमुद्बोधयति शुकः। अङ्गेति। धर्म्मं स्मृत्यादिसिद्धम्। श्रौतस्य तु यज्ञग्रहणेन ग्रहणात्। ऋतं यथार्थं वाक्यम्। “सत्यं भूतहितप्रोक्तं ऋतमुक्तं यथार्थवाग्” इत्युक्तेः। यद्वाऋतं सुनृतम्। सत्यं समदृष्टिः। “सत्यञ्चसमदर्शनम्”20 “ऋतञ्चं सुनृतावाणी”21त्युक्तेः। अरविन्दहस्तामित्यनेन सर्वतत्त्वानां मूर्त्तत्वम् ज्ञेयं। रेफाः स्तोभाक्षराणि॥८।२०।२५॥ (१७)

केशेषु मेघान् श्वसनं नासिकाया-
मक्ष्णोश्च सूर्य्यं वदने च वह्निम्॥१८॥

वाण्याञ्चच्छन्दांसि रसे जलेशम्,
भ्रूवोर्निषेधञ्च विधिञ्च पक्ष्मसु।
अहश्च रात्रिञ्च परस्य पुंसो,
मन्युं ललाटेऽधर एव लोभम्॥१९॥

स्पर्शे च कामं नृप ! रेतसाम्भः,
पृष्टेत्वधर्म्मं क्रमणेषु यज्ञम्।
छायासु मृत्युं हसिते च मायाम्
तनूरुहेष्वोषधिजातयश्च॥२०॥

नदीश्च नाड़ीषु शिलानखेषु,
बुद्धावजं देवगणा नृषीँश्च।

———————————————————————————————————————————————

भुजेषु अष्टासु इन्द्रादीनष्टौ॥१८॥ छन्दांसि वेदान्। वेदत्वाविशेषेऽपि सामवेदस्य कण्ठ्यत्वमन्तरङ्गत्वार्थम्। तच्च “वेदानां सामवेदोऽस्मी”22त्युक्तत्वात्, चकाराद्गायत्र्यादीनि सप्तधातुषु। रसे रसणेन्द्रिये। जलेशं वरुणं।भ्रूवोर्विधिनिषेधौ आज्ञारूपौ। पक्ष्मसूर्द्ध्वाधः स्थितेषु अक्षिलोमसु अहः रात्रिञ्च मन्युं रुद्रम्। एव शब्दस्तत्त्वानां स्थाननियमार्थः, प्रत्येकं योज्यः॥८।२०।२७। (१९)

हे नृप ! रेतसा रेतसि आर्षो व्यत्ययः। सुपामित्याकारो वा23। क्रमणेषु पादविक्षेपेषु छायासु करादीनां। हसिते हसने। तनूरुहेसु रोमसु। औषधिजातयः औषधीः जातीः॥८।२०।२८। (२०)

प्राणेषु गात्रे स्थिरजङ्गमानि,
क्षणार्द्धमात्रेण विवृद्धमूर्त्तेः॥२१॥

सर्वात्मनीदं भुवनं निरीक्ष्य,
सर्वे सुराःकश्मलमापुरङ्ग !।
सुदर्शनं चक्रमसह्यतेजो,
धनुश्च शार्ङ्गं स्तनयित्नु घोषम्॥२२॥

पर्ज्जन्यघोषोजलजः पाञ्चजन्यः
कौमोदकी विष्णुगदातरस्विनी।
विद्याधरोऽसिःशतचन्द्रयुक्त-
स्तूणोत्तमा वक्षय सायकौ च॥२३॥

————————————————————————————————————————————————

बुद्धौ अजं ब्रह्माणं देवादीन् प्राणेषु अनुक्तेष्विन्द्रियेषु गणाः प्रमथाः। किं बहुना गात्रे देहे स्थिरजङ्गमानि॥८।२०।२८॥ (२१)

कश्मलं मोहम्। एवं ध्यानार्थं मूर्त्तिमुक्त्वाआयुधान्याह सुदर्शनमिति। “सुदर्शनं मनस्तत्त्व"मिति24सहस्रनामभाष्ये। धनुरिन्द्रियाहङ्काररूपं चकाराच्चित्तत्वरूपं पद्मञ्च। तच्च “त्रैलोक्याख्य” मिति विष्णुधर्मोत्तरे। स्तनयित्नुमेघः॥ (८।२०।३०)। (२२)

पर्ज्जन्योगर्ज्जन्मेघः। जलजः शङ्खः। स तु भूताद्यहङ्कारः। कौमोदकीतु बुद्धिः। तरखिनीवेगाढ्याबलिष्ठा च। असिर्नन्दकः। विद्याधरः सर्वविद्यामयत्वात्। शतचन्द्रं फलकं शतचन्द्राः चन्द्राकाराणि

सुनन्दमुख्या उपतस्थुरीशम्,
स्वपार्षदमुख्याःसहलोकपालाः॥२४॥

स्फुरत् किरीटाङ्गदमीनकुण्डलः
श्रीवत्सरत्नोत्तममेखलाम्बरैः।
मधुव्रतस्रग्वनमालयावृतो,
रराजराजन् भगवानुरुक्रमः॥२५॥

———————————————————————————————————————————————

बिम्बानि यस्मिन् तत्तथा। एतच्च तमोमयं। तूणोत्तमौतु कर्म्ममयी। सायकाः शराः। तेत्विन्द्रियरूपाः। ततश्चक्रशङ्खौ गदापद्मौ खड्गफलके धनुस्तूणौ चेत्यूर्द्ध्वदक्षिणादिक्रमेण द्वयोर्द्वयोर्बाह्वोचिन्त्यम्25। यथेच्छं वा। एवमष्टीभुजाः॥८।२०।३१। (२३)

अथ परिवारदैवतान्याह, सुनन्देति। मुख्यशब्दात् सुनन्दजयविजय-प्रवलो -द्वल-कुमुदाख्य-कुमुदाख्य-विश्वक्सेन-श्रुतदेव-जयन्त-सात्वत-पुष्पदन्त-प्रचण्ड-बल-महाबलार्हणानां सप्तदशानां ग्रहणम्। एते च भगवत्स्वरूपा एव। विना श्रीगरुड़कौस्तुभान् ते उपतस्थुः- निकटीभूय सेवाञ्चक्रुः। सह लोकपाला इति समासेन लोकपालानामप्राधान्यं दर्शयति। तेन ते बहिः परिधौ पूज्याः। पार्षदास्त्वन्तः-परिधाविति भावः॥८।२०।३२। (२४)

एवं मूर्त्तिवैपुल्ये न विक्षिप्तं ध्यातृचित्तमेकाग्रयति, स्फुरदिति। किरीटादीनां सप्तानां द्वन्द्वः। किरीटं मुकुटम्26। तच्च पारमेष्ठ्यम्पदम्। मीनोमकरः। तदाकारे रेखाङ्गिते कुण्डले च सांख्ययोगौ27। श्रीवत्सो भृगुपदन्यासः। रत्नोत्तमः कौस्तुभः। स तु आत्म-ज्योतिः। तत्प्रभा तु श्रीवत्सः। अम्बरं वस्त्रं तच्च च्छन्दो-

क्षितिं पदैकेन बलेर्विचक्रमे,
नभःशरीरेण दिशश्चबाहुभिः।
पदं द्वितीयं क्रमतस्त्रिविष्टपम्,
नवैतृतीयाय तदीयमण्वपि॥२६॥

उरुक्रमस्याङ्घ्रिउपर्य्युपर्य्यथो-
महर्ज्जनाभ्यां तपसः परङ्गतः।
सत्यंसमीक्ष्याब्जभवोनखेन्दुभि-
र्हतस्वधामद्युभिरादृतोऽभ्यगात्॥२७॥

—————————————————————————————————————————————

मयम्। मधुव्रतैर्युक्ता स्रक् वैजयन्ती यस्य स तथा। शाकपार्थिवादित्वादुत्तरपदलोपः28। स्रक् च भूततन्मात्ररूपा वनमालात्वापादलम्बिनी। सा योगमाया कीर्त्तिमयीवा। मधुव्रताः सनकादयः। एतच्च सर्वं द्वादशे भगवान् भजनीयसौन्दर्य्यादिगुणवान्॥८।२०।३०। (२५)

एवं विश्वात्मके भगवद्रूपे मनः प्रणिधाय तद्व्यापारे जगदनुग्रहलक्षणे प्रणिदध्यादित्याह क्षितिमिति।क्षितिं भूलोकं पदा पादेन। बलेः सम्बन्धिनं नभः भूर्लोकं क्रमतः क्रमेण द्वितीयं पदं त्रिविष्टपं स्वर्गलोकं विचक्रमे। अत्र उरुक्रमस्येत्युत्तरवाक्यादे(व) तत्प्रतिपत्त्यर्थं आकृष्यते।तृतीयाय पदाय। तदीयं बलिसत्ताकम्॥८।२०।३४। (२६)

उरुक्रमस्येति। अथो स्वर्लोकप्राप्त्यनन्तरं अङ्घिरुपर्य्युपरि गच्छन् महर्ज्जनाभ्यां तपसश्च परं सत्यलोकं गत इत्यर्थः। सत्यमिति। अब्जभवो ब्रह्मा। सः सत्यलोकस्वामी। इत्यन्तं सप्तलोक-

मरीचि मिश्रा ऋषयो वृहद्धताः,
सनन्दनाद्या नरदेव योगिनः।
वेदोपवेदा नियमा यमान्विताः,
तर्केतिहासाङ्गपुराणसंहिताः॥२८॥

येचापरे योगसमीरदीपित-
ज्ञानाग्निनारन्धित कर्म्मकल्मषाः।
ववन्दिरे यत् स्मरणानुभावतः,
स्वायम्भुवं धामगता अकर्म्मकम्॥२९॥

——————————————————————————————————————————————————

क्रमितारं त्रिविक्रमाङ्घ्रिम्। त्यक्तदौर्ह्येकार्थे हतस्वधामद्युभिः तिरस्कृत स्वर्लोकदीप्तिभिः नखेन्दुभिः समीक्ष्यहरिचरणोऽयमित्यवधार्य्यतएवादृतः॥८।२०।३४। (२७)

मरीचिर्मिश्रो मिलितो येषु ते तथा। तत्सहिता इत्यर्थः। ऋषयः सत्यवाक्याः। बृहद्धता ब्रह्मचारिणः। हे नरदेव योगिनो निरुद्धचित्तवृत्तयः। वेदाः ऋगादयः29उपवेदाःआयुर्वेद-गान्धर्वधनुर्वेदा30। नियमा शौचादयः पञ्च31यमा-अहिंसादयश्चत्वारः।32तेचाङ्गप्रकरणे वक्ष्यन्ते। तर्काः षट्। इतिहासाः पुरावृत्तानि। अङ्गानि व्याकरणादीनि षट्। पुराणानि सर्गादिलक्षणानि। संहितास्त्रिवर्गशास्त्राणि। वेदाद्यधिष्ठात्र्योदेवताश्चोगता इत्यर्थः॥८।२१।१। (२८)

योगसमीरेण समाधिवायुना सन्दीपितः सन्धुक्षितो ज्ञानाग्निः तेन रन्धिते पक्वेकर्म्मकल्मषे पुण्यपापे यैस्ते तथा। रन्धितेऽपि

अथाङ्घ्रये प्रोन्नमितायविष्णो-
रुपाहरत्पद्मभवोऽर्हणोदकम्।
समर्च्च्यभक्त्याऽभ्यगृणच्छुचिश्रवा,
यन्नाभिपङ्केरुह सम्भवः स्वयम्॥३०॥

धातुः कमण्डलुजलं तदुरुक्रमस्य,
पादावनेजन - प्रवित्रतयानरेन्द्र।
स्वर्धुन्यभून्नभसि सा पतति निमार्ष्टि,
लोकत्रयं भगवतो विशदेवकीर्त्तिः॥३१॥

ब्रह्मादयो लोकनाथाः स्वनाथायसमादृताः।
सानुगावलिमाजह्नुःसंक्षिप्तात्मविभूतये॥३२॥

——————————————————————————————————————————————————

सापेक्षत्वेऽपि समासः आर्षः अलुग् वा। ज्ञानाग्निदग्धपुण्यपापा जीवन्मुक्ता इत्यर्थः। ते सर्वे तं अग्निं ववन्दिरे। यस्य स्मरणमाहात्म्याद्ब्राह्मपदं प्राप्ताः। तद्धि अकर्म्मकम्। न तत्र सुखानुभवादन्यत् क्रियते। " न यत्र शोको नजराममृत्यु “33 (१) रित्याद्यब्रह्मत्वात्॥८।२१।२। (२९)

अथ मरीच्यादिबन्दनानन्तरम्। प्रोन्नमिताय प्रोर्द्धीकृताय। अर्हणोदकं अर्घ्यम्। भक्त्या तात्पर्य्येण। अभ्यगृणात् श्रुतवान्। शुचिश्रवाःअमलकीत्तिः। यन्नाभीति पितृत्वादपि अस्योचिता अर्च्चा इत्यर्थः॥८।२१।३। (३०)

धातुर्ब्रह्मणः कमण्डलुजलं स्वर्धूनी गङ्गाऽभूत्। सा च विष्णुपादप्रक्षालनकृतपवित्रतया त्रीन् लोकान् निमार्ष्टि विशोधयति। कोर्त्तिरिति शुभ्रत्वपावणत्वादौ दृष्टान्तः॥८।२१।४। (३०)

तोयैस्तमर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः।
धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलोत्करैः॥३३॥

स्तवनैर्जयशब्दैश्च तद्वीर्य्यमहिमाङ्कितैः।
नृत्यवादित्र गीतैश्च शङ्खदुन्दुभिनिःस्वनैः॥३४॥

जाम्बवान्नृक्षाधिपति र्भेरीशब्दैर्म्मनोजवः।
विजयं दिक्षु सर्वासु महोत्सवमघोषयत्॥३५॥

——————————————————————————————————————————————————

एवं ध्यात्वा षोडशोपचारां पूजां भावयेदित्याह ब्रह्मादय इति। तोयादिभिर्बलिं पूजामाजह्नुश्चक्रुः। संक्षिप्ता आत्मनः स्वस्य अर्थाद्ब्रह्मादीनां विभूतिरैश्वर्य्यं येन स तथा। यद्वासंक्षिप्ता आत्मनो विभूतिर्वैभवं रूपवैपुल्यंयेन तस्मै संक्षिप्तरूपायेत्यर्थः। अर्हणैरुपायनैः। उत्कराः समूहाः ८।२१।५ (३२-३३)

अथ प्रदक्षिणमाह, जाम्बवानिति। विजयं जितं विष्णुनेत्यषोषयत्। महानुत्सवो दिक्षु यस्माद्विजयात्। जाम्बवान् हि त्रिविक्रमं प्रदक्षिणोक्तवान्। " सुघोषेण मया चैव तदाविष्णुः सनातमः। प्रदक्षिणोकृतः पूर्वं क्रममाणस्त्रिविष्टपमिति” हि कैस्किन्धे34तद्वाक्यम्। शुकः राजानम् ८।२१।८। (३४)

एवं त्रैगुण्यधारणां प्रथमभूमिकामुक्त्वातत्र स्थिरचेतसो द्वैगुण्यधारणां द्वितीय भूमिकामाह, ब्रह्मेत्यादि। विष्णुग्रहणन्तु श्लोकानुरोधात्। श्लोकेऽत्र यद्यपि त्रयाणां प्रतीतिस्तथापि द्वयोरेवात्राभिनिवेष्टव्यम्। इह हि द्वैगुण्य धारणाया विवक्षितत्वाद् विष्णुरूपस्य वक्ष्यमाणत्वाच्च। नचद्वयोर्युगपद्ध्यानानुपपत्तिः। हरिहरार्द्धनारीश्वरादिवदुपपत्तेः। वृषहंससुपर्णस्थान् रुद्रादीनस्तावीदित्यन्वयः। तत्र वृषभारुढ़ःखट्टाङ्गश्मशानकाष्ठ-टाङ्ग-डमरु-परशु-कपालालङ्कृतचतु-

ब्रह्मविष्णुरुद्ररूपाणि।

वृषहं ससुपर्णस्थान् स्वैःस्वैश्चिह्नैश्चचिह्नितान्।
कृपावलोकेन हसद्वदनेनोपलम्भितान्॥३६॥

तच्छोचिषा प्रतिहते निमील्य मुनिरक्षिणौ।
चेतस्तत्प्रवणं युञ्जनस्तावीत् संहताञ्जलिः॥
(श्लक्ष्णया सूक्तया वाचा सर्व्वलोकगरीयसः)॥३७॥ (१)

विश्वोद्भव-स्थिति-लयेषु विभज्यमानै-
र्मायागुणैरनुयुगं विगृहीतदेहाः।

—————————————————————————————————————————————————

र्भुजा चर्म्मवसना भस्माङ्गरागा फणिकपालविभूषणा ( २ ) रुद्रमूर्त्तिश्चिन्त्या। ब्रह्ममूर्त्तिस्तु हंसारुढ़ा चतुर्म्मुखी चतुर्भुजा तप्तकाञ्चनवर्णा शुक्लवस्त्रा लम्बकूर्च्चातुन्दिला सौम्या पिङ्गाक्षी सोत्तरीयोपवीता योगपट्टासना जटामुकुटालङ्कृताऽक्षसूत्र पुस्तक कमण्डलुस्रुवान् दधानेति। कृपयावलोकः तेन हसद्वदनेन च उपलम्भितान् प्रसन्नत्वेन ज्ञापितान्॥४।१।२४। (३६)

तेषां शोचिषाप्रभया। प्रतिहते प्रतिघातं नीते। मुनिरत्रिः। अनुयुगं कल्पे कल्पे। विशब्दो वैसादृश्ये।४।१।२५ (३७)

ते प्रसिद्धाः तेभ्यः सकाशादेक एवोपहूतः। स च क इति युष्माभिरेव कथनीयइत्याह, प्रधानं प्रकृष्टाधारण। अचित्तं चित्तं कृतश्चित्तीकृतः। चित्तेनैक्यं नीत इत्यर्थः। प्रजननाय पुत्त्रोत्पत्त्यै। एकस्मिन् ध्यातेषु त्रयः कथमत्रागताः इति ब्रूत। दूरा अगोचराः। प्रसीदत प्रसादं कुरुत। इह त्रयाणामागमने।

—————————————————————————————————————————————————————
(१) भागवतीय श्लोकार्द्धम् ४।१।२५।
(२) अर्द्धनारीश्वर-महाकाल-कालसंहारादीनां ध्यानेषु एतादृशरूपं वर्णितमस्ति।

ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहंवः,
तेभ्यः कएव भगवन् मयि होपहूतः॥३८॥

एको मयेह भगवान् विबुधप्रधानै-
श्चित्तीकृत प्रजननाय कथं नु यूयम्।
अत्रागतास्तनुभृतां मनसोऽपि दूरा-
द्ब्रूत प्रसीदमहानिह विस्मयो मे॥३९॥

देवा ऊचुः।

यथाकृतस्ते सङ्कल्पो भाव्यन्तेनैव नान्यथा।
सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते बयम्॥४०॥

इति श्रीवोपदेवकृतेमुक्ताफले विष्णोर्लक्षण-भेदाश्च।

इति प्रथमोऽध्यायः॥

——————————————————————————————————————————————————

एतेनात्रि तुल्योऽत्राकारीति ज्ञेयम्। अत्रि र्हि रजस्तमः प्रकृतिः प्रजाकामत्वात्। यथोक्तं “रजस्तमः प्रकृतयः समशीलान् यजन्तिहि। पितृभूतप्रजेशादीन् श्रियैश्वर्य्य-प्रजेप्सवः”35 इति॥४।१।२६-२७। (३८-३९)

एवं मूर्त्तिद्वयं ध्यायमानोऽप्यभेदं भावयेदित्याह, यथेति। ते तया। एवशब्दोभिन्नक्रमः। अन्यथा न भाव्यमेवेति। यतस्त्वं सत्य-सङ्कल्पः अतस्तवसङ्गल्पभङ्गोमाभूदिति त्रयोवयमागता इत्यर्थः। एकस्यैव त्रिष्वधिष्ठातृत्वात्। मैत्रेयोविदुरम्॥४।१।२९ (४०)।

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां विष्णोर्लक्षणभेदाश्च।

प्रथमोऽध्यायः॥

द्वितीयोऽध्यायः।

<MISSING_FIG href=”../books_images/U-IMG-1737611617Screenshot2025-01-23112324.png”/>

विष्णुरूपम्।

द्युमतत्राद्भतम्बभवनं त्तमम्
भ्राजन्मणिस्तम्भसहस्रशोभितम्।
तस्मिन्महाभीममनन्तमद्भुतं,
सहस्रमूर्द्धन्यफणामणिद्युभिः॥१॥

विभ्राजमानं द्विगुणेक्षणोल्वणम्,
सिताचलाभं शितिकण्ठजिह्वम्।
ददर्श तद्भोगसुखासनं विभुम्,
महानुभावं पुरुषोत्तमोत्तमम्॥२॥

——————————————————————————————————————————————————

एवं धारणायाभ्यासबलाज्जितरजस्तमस्कस्य मुमुक्षोः सत्वजयार्थं शुद्धसत्वधारणां तृतीयभूमिकामाह। विष्णुरूपमिति। तत्र गर्भोदके भवनादिकमच्युतो ददर्शेत्युत्तरेणान्वयः। द्युमत्तमं शोभाट्यम्। भ्राजन्तो मणयो येषु स्तम्भसहस्रेषु तैः शोभितं, तस्मिन् भवनेऽनन्तं शेषं प्रधानात्मकं ददर्श। सहस्रं मूर्द्धन्याःश्रेष्ठा ये फणार्पितमण्यः तेषां द्युभि र्द्वैगुण्यं सहस्रापेक्षम्। सिताचलाभं श्वेतपर्वतसदृशम्, शितयो नीलाःकण्ठा जिह्वाश्चयस्य स तथा। तस्य शेषस्य भोगः शरीरम्। विभुं प्रकृतेरधिष्ठातारं पुरुषम्। अतएव विशेषणद्वयम्। अनुभावः, प्रभावः। पुरुषोत्तमेषु ब्रह्मादिषु उत्तमम्।

सान्द्राम्बु दाभंसुपिशङ्गवाससम्,
प्रसन्नवक्त्रं रुचिरायतेक्षणम्।
महामणिव्रातकिरौट कुण्डल-
त्विषा परिष्वक्तसहस्रकुन्तलम्॥३॥

प्रलम्बचार्वष्टभुजं सकौस्तुभम्,
श्रीवत्सलक्ष्मं वनमालयावृतम्।
सुनन्दनन्दप्रमुखैश्च पार्षदै-
श्चक्रादिभिर्मूर्त्तिधरैर्निजायुधैः॥४॥

पुष्ट्याश्रिया कीर्त्त्यजयाखिलर्द्धिभि-
र्निषेव्यमानं परमेष्ठिनाम्पतिम्।

————————————————————————————————————————————————

मुक्तेषु वा नित्यमुक्तत्वात्। तथाच सूत्रद्वयम्। “तत्र निरतिशयं सर्व्वज्ञबीजम्”। “स एष पूर्वेषामपि गुरुः कालेनानवच्छेदा”दिति36। अस्य च लीलया शरीरग्रहणम्।

सुपिशङ्गं पीतोज्ज्वलं आयतं दीर्घम्। महामणीनां ब्रातः स्तोमो यत्र किरीटे कुण्डलयोश्च तेषां प्रभया परिष्वक्ताः व्याप्ताः सहस्रं बहवः कुन्तलाः केशा यस्य स तथा तम्॥ १०।८९।५४–५५। (१–३)

आयुधादेर्विशेषः प्राग्वत् ( ४ )

कीर्त्तिश्चाजा माया द्वन्द्वैक्येऽपि न नपुंसकत्वम्। “ऊकालोऽच् झह्नस्वदीर्घप्लुत”37इतिवत्। अखिलर्द्धिभिरणिमादि सर्व्व-

ववन्द आत्मानमनन्तमच्युतो-
जिष्णुश्च तद्दर्शनजातसाध्वसः॥५॥

नेदृगेवेच्छारूपत्वात्।

त्वम्भावयोगपरिभावितहृत्सरोज-
आस्मेश्रुतेक्षितपथोननुनाथ पुंसाम्।
यद्यद्धिया त उरुगाय विभावयन्ति,
तत्तद्वपुः प्रणयसे तदनुग्रहाय॥६॥

————————————————————————————————————————————————

सिद्धिभिः। परमेष्ठिनां परमैश्वर्य्यवतां पतिं स्वामिनम्। अत्राधिकारिणमाह, ववन्द इति। आत्मानं तस्यैव कृत्स्नत्वेन वैलक्षण्याभावात्। प्रदीपादिव प्रवृत्तस्य दीपस्य। जिष्णुरर्जुनः स तु तद्दर्शनेन जातभयः। एतेन शुद्धसत्वोऽत्राधिकारीत्युक्तम्। शुकः॥१०।५९।५६। (५)

नन्वीदृशमेव चेद्विष्णुरूपं तत्कथमन्यथा तत्र तत्रोपवर्ण्यते इति तत्राह नेदृगेवेति। अत्र हेतुमाह। इच्छैव रूपं यस्य स तथा। तस्य भावः तस्मात्। भक्तेच्छैव चतुर्भुजाद्याकारेण परिणमतीत्यर्थः। अत्रैव मूलं योजयति, त्वम्भावेति। हे उरुगाय विष्णो! त्वं भावयोगेण परिभाविले विशोधिते हृत्सरोजे आस्ते अभिव्यक्तः सन्नवतितिष्ठसे। तत्र हेतुःश्रुतेन शास्त्रेणेक्षितो निर्ज्ञातः पन्थाः स्वरूपस्थितिर्यस्य स तथा। वेदोऽत्र प्रमाणमित्यर्थः। अतस्ते भक्ताः यद्यद्वपुः स्वधिया विभावयन्ति चिन्तयन्ति, तत्तत्प्रणयसे प्रकटयसि। व्यापकत्वे न हृदयस्थोऽपि भक्तैर्येन केनाऽप्याकारेण विषयीकृतस्तदनुग्रहाय प्रकटोऽसीति भावः। ब्रह्माविष्णुम् ३।९।११ (६)

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव।
यानि यानि चरोचन्ते स्वजनानामरूपिणः॥७॥

शुद्धसत्त्वं विष्णुरूपमेवोपास्यतमम्।
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्तः परः पुरुष एक इहास्यधत्ते।
स्थित्यादये हरिविरिञ्चिहरेतिसंज्ञाः,
श्रेयांसि तत्र खलु सत्वतनोर्नृृणांस्युः॥८॥

—————————————————————————————————————————————————

किञ्च तान्येवेति। ते त्वयैवहेतुना। अभिरूपाणि सुन्दराणि न तु भूषणाद्युपाधिना स्वभावसुभगानीत्यर्थः। येभ्यो भक्ताः स्पृहयन्ति तान्येव ते रूपाणि न तु स्वतः सिद्धानीत्येव शब्दार्थः। अत उक्तं इच्छारूपत्वादिति। अरूपिणः वस्तुतः अरूपोऽपि भक्तेच्छया रूपवानित्यर्थः। कर्द्दमः कपिलम्॥३।२४।३१ (७)

एवं भगवतः पञ्चप्रभेदान् लक्षणतो रूपतञ्च विविच्य पञ्चानामपि साम्ये प्राप्ते उत्तराधरभावं विवेक्तुमाह, शुद्धसत्वेति। तदेवाह शुद्धं रजस्तमोरहितं यस्मिन् विष्णुरूपे तत्तथा। तदेवोपास्यतमम्। इदमेषामतिशयेनोपास्यम्। तमवर्थो ह्यतिशयः। स चान्य सव्यपेक्ष इत्यर्थात्। ब्रह्मरुद्ररूपमुपास्यतरमिति। अयमर्थः — स्थलसूक्ष्मक्रमेण बुद्धयोऽर्थमवगाहन्त इति प्रथमं त्रिगुणात्मके भगवद्रूपे मनः प्रणिधाय तत्र स्थिरं सद् द्विगुणात्मके, ततः परं सत्वैकगुणे।ततश्च निर्गुणे सूक्ष्मे ब्रह्मणि प्रवेश्य नित्यनिरतिशयानन्दलाभेन ध्याता कृतकृत्यतामेतीति। ते चामी साकारध्यायिनो मृदुमध्याधिमात्रोपायत्वेन त्रयः। प्रत्येकं मृदुमध्याधिभेदत्वेन नवस्युरिति योगशास्त्रे38। तत्रा-

सत्वं विशुद्धं श्रयते भवान् स्थितौ,
शरीरिणां श्रेय उपायनं वपुः।
वेदक्रिया योगतपः समाधिभि-
स्तवार्हणं येन जनः समीहते॥९॥

———————————————————————————————————————————————————

द्ययोरवस्थाभेदाद् भेदषट्कः स्वयमुन्नेयः। अन्त्यस्य तु भेदत्रयं वक्ष्यति। एकत्र व्यवस्थाभेदाद् नवविध इत्यर्थः॥

उक्तमर्थं द्रढ़यन्नाह सत्त्वं रज इति। अस्यप्रपञ्चस्य स्थित्यादये स्थितिसृष्टिसंहारार्थं सत्वादियुक्तः संज्ञात्रयं धत्ते। तत्र सत्त्वतनोर्विष्णोः श्रेयांसि शुभफलानि स्युः। खलु शब्दो निश्चये सचातिशयं तमवर्थं गमयतीत्युपास्यतमत्वम्। यद्यप्यंशतः सत्त्वसद्भावादन्येषामपि सत्वतनुत्वम्। तथा"ऽप्यव् भक्षो वायुभक्ष”39 ( २ ) इतिवत् सत्वमेव तनुर्यस्येति शुद्धसत्वत्वं रजस्तमसोः सदपि सत्वं न फलप्रदम्। किन्तु शुद्धामेवेति भावः। सुतः शौनकम्॥१।२।२३ (८)

तदेवाह, सत्वमिति। सत्वं वपुरिति सामानाधिकरण्यं स्थितौ निमित्ते श्रेयसि कैवल्येउपायनं उपायभूतम्। तदाह, वेदेति। येन सत्त्ववपुषाश्रितेन। जनस्तवार्हणं पूजां समीहतेसम्यक् करोति। शुद्धस्याविषयत्वात् सत्वोपहितं भजतीति भावः। क्रियायोग इत्येकम्। ततश्च वेदादिभिश्चतुर्भिः क्रमादाश्रमिणः पूजयन्तीति चतुर्णामुक्तिः। यद्वावेदेन वेदिकाः(१)।40 मुक्तिवाद सन्दर्भेषु।”) क्रियया पाञ्चरात्राः। योगेन प्रकृतिपुरुषविवेकोपायेन सांख्याः। तपसा तपखिनः। शैवाः पाशुपताश्च। समाधिना पातञ्जलाः। सत्वोपाधेरेव तत्तच्छब्दैस्तत्रतत्राभिधानमिति प्रागुक्तम्। पाञ्चैवमार्गा। अतो मार्गपञ्चकविषयत्वेन पञ्चानामुक्तिः१०।२।३४। (९)

सत्त्वं नचेद्धातरिदं निजं भवे-
द्विज्ञानमज्ञानभिदापमाज्जनम्।
गुणप्रकाशैरनुमीयते भवान्,
प्रकाशते यस्य च येन वा गुणः॥१०॥

न नामरूपे गुणकर्मजन्मभि-
र्निरूपितव्ये तव तस्य साक्षिणः।

——————————————————————————————————————————————————

सत्त्वं वपुरित्युक्तं तदमृष्यमाणं प्रति विपक्षे बाधकमाह, सत्त्वं न चेदिति। हे धातः इदं प्रागुक्तं विशुद्धं सत्त्वं निजं वपुष्ट्वेन स्वरूपं न स्यात्। चेत्तर्हि विज्ञानं विशिष्टं ज्ञानं मार्ज्जनं लोपं आप प्राप्नुयात्। लोकोक्त्या लिट् प्रयोगः। निर्मूलत्वात्तत्स्यादित्यर्थः। किन्तद्वैशिष्ट्यम् ? तदाह, अज्ञानभित् सर्ववस्तुतत्त्वावेदकं न तु भ्रमरूपमित्यर्थः। ज्ञानं हि सत्वादुत्पद्यते तच्चेत् सत्त्वंनास्ति तदा ज्ञानमपि नस्यात्। दृश्यते च ज्ञानं, अतस्त्वं सत्त्ववपुरित्यनुमीय स इत्याह, गुणेति। गुणप्रकाशैः सत्वजन्यैर्विषयप्राकट्यैः। ननु सत्त्वस्य जड़त्वात् कुतः प्रकाशकत्वं तत्राह प्रकाशत इति। गुणश्च यस्य सम्बन्धेन प्रकाशते प्रकाशयति अन्तर्भावितनिजर्थत्वात्। येन वा कर्त्तृभूतेनेति परमतमुक्तम्। वाशब्दो हि पक्षान्तरार्थः सर्वथा चिदुज्ज्वलितं प्रकाशकमित्यर्थः। एवमपिसत्त्वमेव प्रकाशकं न तु रजस्तमसो तयोरस्वच्छत्वेन चिति संक्रान्त्यनुपपत्तेः। यथा रवितेजो दर्पणादिष्वेव प्रादुर्भूय मुखादि प्रकाशयति न घटादिषु॥१०।२।३५ (१०)

अस्तु तर्हि सत्त्वयोगो नित्य एव नत्वैच्छिक इत्यत आह, न नामेति। नामरूढ़ं योगिकञ्च, रूपं श्यामादि। गुणः सौन्दर्य्यादिः। कर्म्मचरित्रं निग्रहानुग्रहरूपम्। जन्म शरीरग्रहणम्। सहार्थे तृतीया।

मनो वचोभ्यामनुमेयवर्त्मनो-
देवक्रियायाम्प्रतियन्त्यथापि हि॥११॥

शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्,
नामानि रूपाणि च मङ्गलानिते।
क्रियासु युष्मच्चरणारविन्दयो-
राविष्टचित्तो न भवाय कल्पते॥१२॥

————————————————————————————————————————————————————

न निरूपितव्ये निरूपयितुमशक्ये। आर्षोणिलोपः। नामादिपञ्चकं तव वक्तुं न शक्यते। कुतः साक्षिणः त्वं हि तेषां साक्षी द्रष्टा द्रष्टुश्च दृश्यत्वानुपपपत्तिः। साक्षित्वमेव कुत इति चेत्तत्राह तस्येति। तस्य समाधौ चिन्मात्रतयाऽनुभूयमानस्यानुभूतवाचित्वाच्चास्य तच्छब्दस्य यच्छब्दानपेक्षा। यथा, —

“उत्कम्पिनी भयपरिस्खलितांशुकान्ता।
ते लोचने प्रतिदिशं विदूरेक्षिपन्ति”॥

इत्यादावनुभूतिमपह्नुवानं प्रत्याह, मन इति। यतश्चाचेतने मनो वचसो प्रसरतः स कश्चिदस्तीत्यनुमानम्। हे देव ! अथापि एवमपि क्रियायां षोड़शोपचारपूजायाम्। प्रतियन्ति जानन्ति। वस्तुतस्त्वं सत्यपित्वयि वागा (चा) दिप्रबृत्यर्थं भक्ताः कल्पयन्तीत्यर्थः॥१०।२।३७ (११)

ननु नामादेरवास्तवत्वेऽकिञ्चित्करत्वं स्वात्तत्राह शृण्वन्निति। संस्मरयन्नन्यैः रूपाणि चेति चकाराद्गुणकर्म्मजन्मानि च। आविष्टत्वं प्रवस्थान्तराविष्कारः भवः संसारः। अवास्तवस्यापि सत्यार्थहेतुत्वं रज्जुसर्पादेरिव भयादिहेतुत्वमित्यर्थः। तस्मात् सिद्धमस्यो पास्यतमत्वम्। ब्रह्माद्याः श्रीकृष्णं प्रति॥१०।२।३८।भाः (१२)

विष्णुरूपं (अवयवशारूपं ) क्रमेण पादादिहसितान्तमुपास्यतमम्।

तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम्।
विलच्यै कच संञ्ज्युनादङ्गेभगवतो मुनिः॥१३॥

सञ्चिन्तयेद्भगवतश्चरणारविन्दम्
वज्राङ्कुशध्वजसरोमहलाञ्छनाढ्यम्।
उत्तुङ्गरक्तविलसन्नखचक्रबाल-
ज्योत्स्नाभिराहतमहद्धृदयाऽन्धकारम्॥१४॥

यच्छौचनिःसृत सरित्प्रवरोदकेन,
तीर्थेन मूर्द्ध्न्यधिकृतेन शिवः शिवाऽभूत्।
ध्यातुर्मनः शमलशैलनिसृष्टवज्रम्,
ध्यायेच्चिरं भगवतश्चरणारविन्दम्॥१५॥

—————————————————————————————————————————————————

अधिमात्रोपायस्त्रिधेत्युक्तम्41। तत्र मृद्वधिमात्रमाह, विष्णुरूपेति। हसितस्यावधित्वं प्रकाशमानत्वेन निराकारसन्निक्कष्टत्वात्। स्थूलमाह, तस्मिन्निति। तस्मिन् विष्णुरूपे पदं स्थैर्य्यं विलक्ष्य एकैकमङ्गं विवेकेन लक्षीकृत्य सञ्चिन्तयेदिति। चक्रवालं मण्डलं, महतोध्यातुर्हृदयम्॥३।२८।२०। (१३–१४)

दक्षिणमङ्घ्रिं ध्यात्वा गङ्गायाः प्रभवं वामं ध्यायेत् इत्याह, यच्छौचेति। सरित्प्रवरागङ्गा। तीर्थं तारकम्। अधिकृतेन।

जानुद्वयं जलजलोचनया जनन्या-
लक्ष्म्याखिलस्य सुरवन्दितया विधातुः।
ऊर्व्वोर्निधाय करपल्लवरोचिषा यत्,
संवाहितं हृदिविभोरभवस्य कुर्य्यात्॥१६॥

ऊरूसुपर्णभूजयोरधि शोभमाना-
वोजोनिधीअतसिका कुसुमावभासौ।
व्यालम्बिपीतवरवाससि वर्त्तमान-
काञ्चीकलापपरिरम्भिनितम्बबिम्बम्॥१७॥

नाभिह्रदंभुवनकोशगुहोदरस्थं,
यत्रात्मयोनिधिषणाखिललोकपद्मम्।

—————————————————————————————————————————————————

स्वाभाविके शिवत्वेनिमित्तोत्प्रेक्षा शिव इति। तस्याश्चेवादिमन्तरेणाप्युपलम्भात्तदप्रयोगः। शमलं पापम्। निसृष्टं प्रहितम्।३।२८।२२। (१५)

जानुद्वयमिति। अखिलस्य विधातुर्ब्रह्मणः जनन्या एवम्भूतया परिसंवाहितमित्यतिशयार्थं विशेषणत्रयं ऊर्व्वोरित्यादरार्थम् ( २ )। रोचिषेति स्पर्शनचातुर्य्येण एतत् परमसौकुमार्यार्थम् ३।२८।२३। (१६)

ऊरूइति अधि ऊर्द्ध्वभागेओजो बलं तेजश्च। व्यालम्बि विततत्वात्विन्यासविशेषाच्च यत्पीताम्बरञ्च वासस्तस्मिन् वर्त्तमानस्तदुपरिबद्धो यः काञ्चीकलापः स्तस्य परिरम्भः सर्वतः संश्लेषो यस्यास्ति तत् स्त्रीकटीवत् सौन्दर्य्यंवक्तुं नितम्बशब्दः॥३।२८।२४ (१७)

—————————————————————————————————————————————————

(२) अत्रयोगप्रक्रिया-योगश्चिन्तामणौ, त्रिपुरासारसमुञ्चये, योगतारावल्यादौ चानुसन्धेया।

**व्यूढ़ं हरिन्मणिवृषस्तनयोरमुष्य,
ध्यायेद्दयं विशदहारमयूखगौरम्॥१८॥ **

वक्षोधिवासमृषभस्य महाविभूतेः,
पुंसां मनोनयननिर्वृतिमादधानम्।
कण्ठञ्च कौस्तुभमणेरधिभूषणार्थम्
कुर्य्यान्मनस्यखिललोकनमस्कृतस्य॥१९॥

**बाहूंश्च मन्दरगिरेः परिवर्त्तनेन,
निर्निक्तबाहुबलयानधिलोकपालान्।
सञ्चिन्तयेद्दशशतारमसह्यतेजः,
शङ्खञ्चत्तत्करसरोरुहराजहंसम्॥२०॥ **

_________________________________________________________________

गुहानीरन्ध्र आश्रयः यत्र दे। आत्मयोनेर्ब्रह्मणः धिषणं स्थानं पद्ममासीत्। हरिन्मणिवृषौ मरकतश्रेष्ठाविव यौस्तनौ तयोर्द्वयं व्यूढं विशालम्॥ ३।२८।२५ (१८)

वक्ष इति। ऋषभस्य विष्णोर्महाविभूतेः लक्ष्म्याः अधिवासं स्थानं पुंसाम्। किं पुनः स्त्रीणाम्। कौस्तुभस्याधिक्येन भूषणमर्थः प्रयोजनं यस्य स तथा। कण्ठेन कौस्तुभः शोभते इत्यतिशयः॥ ३।२७।२। (१९)

बाहूनिति। परिवर्त्तनं सव्यापसव्यभ्रमणम्। निर्णिक्तं शोधितम्। अधिलोकपालान् लोकपालाधिष्ठातॄन्। दशशतारं चक्रं शङ्खस्य सर्व्वतः शौक्त्येनः मुखमूलयोर्लौहित्येन च राजहंसोपमा॥ ३।२८।२७। (२०)

**कौमोदकीं भगवतो दयितां स्मरेत,
दिग्धामरातिभटशोणितकर्द्दमेन।
मालां मधुब्रतवरूथ गिरोपघुष्टां,
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे॥२१॥ **

**भृत्यानुकम्पितधियेह गृहीतमूर्त्तेः,
सञ्चिन्तयेद्भगवतो वदनारविन्दम्।
यद्विस्फुरन्मकरकुण्डलंबल्गितेन,
विद्योतितामलकपोलमुदारनासम्॥२२॥ **

यच्छ्रीनिकेतमलिभिः परिषेब्यमाणम्,
भूत्यास्वया कुटिलकुन्तलवृन्दजुष्टम्।
मीनद्वयाश्रितमधिक्षिपदव्जनेत्रम्,
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रूः॥२३॥

_________________________________________________________________

कौमोदकीमिति। दिग्धां लिप्तां। भटायोद्धारः। वरूथः समूहः। उपघुष्टां वाचालीकृताम्। चैत्तस्य क्षेत्रस्य तत्त्वं कारणम् परं ज्योतिः तद्रूपं मणिं कौस्तुभम्॥ ३।२८।२८९। (२१)

भृत्येति। बल्गितं चलनं यद् वदनाब्जं श्रीनिकेतं पद्मं अधिक्षिपेत्। विशेषणप्रधानो निर्द्देशः। श्रीनिकेतत्वादिधर्म्मत्रयं विशिष्टं क्षिपतीत्यर्थः, तत्र स्वभूत्या श्रीनिकेतत्वस्याक्षेपः। कुन्तलैरलियुक्तत्वस्य नेत्रद्वयेन मीनद्वययुक्तत्वस्य। मनोमयं मनसः परिणामम्। ३।२८।२९ (२२-२३)

**तस्यावलोकमधिकं कृपयातिघोर-
तापत्रयोपशमनाय निसृष्टमक्ष्णोः।
स्निग्धस्मितानुगुणितं विपुलप्रसादम्,
ध्यायेच्चिरं विततभावनया गुहायाम्॥२४॥ **

**हासं हरेरवनताखिललोकतीव्र-
शोकाश्रुसागरविशोषणमत्युदारम्।
सम्मोहनाय रचितं निजमाययास्य,
भ्रू मण्डलं मुनिकृते मकरध्वजस्य॥२५॥ **

**ध्यानायनं प्रहसितं बहुलाधरौष्ट-
भासारुणायिततनुद्विजकुन्दप्रङ्क्तिः,
ध्यायेत् स्वदेहकुहरेऽवसितस्य विष्णो-
र्भक्त्यार्द्र यार्पितमना न पृथग् दिदृक्षेत्॥२६॥ **

_________________________________________________________________

तस्येति। अनुगुणितं युक्तम्॥ विपुलो बहुः गुहायां हृदि॥ ३।२८/३१ (२४)

हासमिति। निजमायया अस्य जगतः सम्मोहनाय रचितं हासं ध्यायेत्। मुनीनामपि सम्मोहनं माभूदिति तत् संमोहनाय प्रवृत्तस्य कामस्य सन्तर्ज्जनेन सम्मोहनाय रचितं भ्रूमण्डलं ध्यायेत्॥ ३।२८।३२ (२५)

अव्यक्तं हसितमुक्त्वा प्रव्यक्तं हसितमाह, ध्यानायनमिति। प्रहसितं प्रकाशध्यानातिमात्रत्वाद् निराकारेण स्पर्द्धते। अतएव ध्यानायनं व्यवधानाल्पत्वाद् बहुलया अधरोष्ठस्य भासा अरुणायिता

एवं हरौ भगवति प्रतिलव्धभावो-
भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदान्।
औत्कण्व्यवाष्पकलया मुहुरर्द्ध्यमान-
स्तच्चापि चित्तवड़िशं शनकैर्वियुङ्क्ते॥२७॥

**मुक्ताश्रयं यर्हि निर्विषयं विरक्तम्,
निर्बाणमृच्छतिमनः सहसा यथार्च्चिः। **

_________________________________________________________________

लौहित्यं नीता। तनूनां द्विजानां एवं कुन्दकलिकानां पङ्क्तिर्यत्र तत्। देहकुहरं हृदयाकाशं(१)। अवसितस्य निर्ज्ञातस्य आर्द्रया भक्त्या आनन्दरसेन पृथक् तद्व्यतिरिक्तं न द्रष्टुमिच्छेत् ३।२८।३३ (२६)

ध्यानमुक्त्वा समाधिमाह, एवमिति। एवं दृश्यविशिष्ट द्रष्टृध्यानेन हरौ द्रष्टरि प्रतिलब्धभावः पुनर्लब्धरतिः। तदृश्यं शनकै र्वियुङ्क्ते त्यजति। यतः तच्चित्तवड़िशं चपलस्य चित्तमत्स्यस्य बन्धनार्थमुपात्तम्। यद्यपि तस्मिन् भक्त्या गृहीते प्रमोदाद् द्रवद्हृदय इत्युत्पुलकश्च भवति। अतस्तदपि त्याज्यम्। क्रियाजन्यं हि तत् सुखम्। क्रियाच द्वितीये क्षणे नश्यति। स च क्षणः औत्कण्ठितेन दुःखेन दुःसहः इदमत्रतत्त्वं— ध्येयालम्वनस्य प्रत्ययस्य सदृश प्रबाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्(२)। ध्यानमेव ध्येयाकारनिर्भासप्रत्ययात्मकं न स्वरूपेण शून्यमिव ध्येयस्वभावावेशाद्यदा भवति तदा समाधिरित्युच्यते(३) इति॥ ३।२८।३४ (२७)

_________________________________________________________________

(१) छान्दोग्य ३।३२।४।८-९ श्लोः।
(२) “तत्र प्रत्ययैकतानता ध्यानन्” पातञ्जलं २।३। सूः।
(३) “तदेवार्थमात्रनिर्भासं स्वरुपशुन्यमिवसमाधिः”— योगदर्शनं, ३।३ सूः।

**आत्मानमत्र पुरुषोऽव्यवधानमेक-
मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः॥२८॥ **

सोऽप्येतया चरमया मनसो निवृत्त्या,
स्वस्मिन्महिम्न्यवसितः सुखदुःखवाह्ये।
हेतुत्वमप्यसति कर्त्तरि दुःखयोर्यत्,
स्वात्मन् विधत्त उपलव्धपरात्मकाष्ठः॥२९॥

_________________________________________________________________

अथास्य योगस्य फलमाह, मुक्तेति। त्यक्तेतु बड़िशे मनः सहसा निर्वाणमृच्छति नाशं प्राप्नोति। यथेन्धनाभावात् अर्च्चिः कदा यर्हि यदा मुक्ताश्रयं निर्ग्रन्थित्वात्। निर्विषयं प्रक्षीणकर्म्मत्वात्। विरक्तं च्छिन्नसंशयत्वात्। अत्र अस्यां दशायां पुरुषः आत्मानं अन्वीक्षते। अनुवृत्तमखण्डं पश्यति। अव्यवधानव्यवधायकस्य मनसो भावात्। अतएवैकं जीवपरयोर्भेदाभावात्। यतः प्रतिनिवृत्तो यत्रोदितस्तत्रैव लीनो गुणप्रवाहः कार्य्यकारणभावो यस्य स तथा। ३।२८।३५॥ (२८)

सोऽपीति। सोऽपि आत्मा स्वस्मिन्महिम्नि नित्यनिरतिशयानन्द**(१)**42 छान्दोग्योपनिषत् ७।१।२४ श्लोः।")घने पदे अवसितः अववद्धः संश्लिष्टो भवति। घटाकाशमिव महाकाशे। कया मनसो निवृत्त्या एतया योगाभ्यासलब्धया। अतएव चरमया पुनरावृत्तिशङ्कारहितया। सुखदुःखवाह्ये पुण्यपापफलभोगाभावात्। हेतुत्वमसतिकर्त्तव्यवसितं कर्त्ता सात्त्विकोऽहङ्कारः। स चासन् मायामयत्वात्। दुःखयो सुखदुःखयोः। युगपदधिकरण

_________________________________________________________________

**देहन्तु तं न चरमः स्थितमुत्थितं वा,
सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम्।
दैवादुपेतमथ दैववशादपेतम्,
वासो यथा परिकृतं मदिरामदान्धः॥३०॥ **

देहोऽपि दैववशगः खलु कर्म्म यावत्,
स्वारम्भकं प्रतिसमीक्षत एव सासुः।
तं स प्रपञ्चमधिरूढसमाधियोगः,
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः॥३१॥

_________________________________________________________________

वचनतायां द्वन्द्वस्मरणात्। “द्यावोस्तथेतिचेदि”तिवत्। यत् स हेतुत्वं स्वात्मन् विधत्ते। अहङ्कारकृतं आत्मं कृतं मन्यते। तदिदानीं येन कृतं तत्रैवावसितमित्यर्थः। यत उपलब्धपरमात्मकाष्ठः। साक्षात्कृतपरमात्मस्वरूपः ३।२८।३८॥ (२९)

ईदृशस्य च देहाभिमानो नास्तीत्याह, देहमिति। तं देहं सिद्धो विपश्यति। आभासमात्रेण पश्यति। किन्तु स्थितमुत्थितं वेति विवेकेन न पश्यतीति वेरर्थः। यतः स्वरूपं अध्यगमत् साक्षात्कृतवान्। परिकृतं प्रावृतम्। तथाच श्रुतिः “यथाहिनिर्त्वयनी वल्मीके मृता प्रत्यस्ताशयीतैवमेवेदं शरीरं शेत” (१)42 बृहदारण्यकं ४।४।७ श्लोः।”) इति। ३।२८।३७ (३०)

ननु त्यक्ताभिमानश्चेद्देहस्तदैव पतेदिति नेत्याह, देहोऽपोति। यावत् स्वारम्भकं कर्म्मास्ति तावत् प्रतिसमोक्षत एव। कुतः देव–

_________________________________________________________________

एकैकशोऽङ्गानि धिया नु भावयेत्,
पादादि यावद्धसितं गदाभृतः।
जितं जितं स्थानमपोह्य धारयेत्,
परं परं शुध्यति धीर्यथा यथा॥३२॥

_________________________________________________________________

वशगो यतः। दैवं प्राक्कर्म्म। खलु शब्दोहेतौ। ननु आत्मना त्यक्ताभिमानस्यास्य कुतः प्रवृत्तिनिवृत्ती तत्राह। सासुः सलिङ्गशरीरः। ननु ज्ञानोदयेऽपि चेत् कर्म्माणि न निबर्त्तन्ते तर्हि सञ्चितैः कर्म्मभिर्देहान्तराणिस्युस्तत्राह, तमिति। तं देहं स प्रपञ्चं स कारणं पुनर्न भजते। तत्र हेतुः अधीति। स्वानमिव प्रतिबुद्धवस्तुः, अयमर्थः “तस्य तावदेव चिरं यावन्नविमोक्ष्येऽथसम्पत्स्य” (१) इति श्रुतिः। न विमोक्षते अथ ब्रह्मसम्पत्स्यते प्राप्स्यति। उभयत्र तकारलोपः च्छान्दसः। अस्मादवधिश्रवणात् प्रारब्धफलं कर्म्म भोगादेव नश्यति। अनारब्ध फलन्तु ज्ञानादिनि एषा च फलोक्तिस्तृतीययोगे तीव्राधिमात्रस्य ज्ञेया, अन्यथाऽनेनैव कृतार्थत्वात् उत्तरयोगद्वयोक्तिवैयर्थ्यं स्यादतएव तत्र फलं नोक्तम्। अत्र तु फलसं कीर्त्तनमस्यैव तृतीये फलभूमिकामधिरूढस्यैतत् फलं भवतीति दर्शयितुम्, कपिलः देवहुतिम्॥ ३।२८।३८ (३१)

अवयवशोरूपं क्रमेण चिन्त्यं इत्युक्तम्। तस्यावधिमाह एकैकेति। अपोह्य त्यक्ता पादौ ध्यायन्तोधीर्यदा शुध्यति ध्येयं विनावतिष्ठते तदागुल्फौ ध्यायेत्। गुल्फौ ध्यायन्ती यदा प्राग्वत्तदा जङ्घे ध्यायेदित्यादिक्रमेण हसितं त्यक्त्वा निर्विषयैवाबतिष्ठते स समाधिः। शुकः॥ २।२।१३ (३२)

_________________________________________________________________

(१) छान्दोग्य ६।१४।२

**हृत्पुण्डरीकमन्तःस्थ मूर्द्धनालमधोमुखम्।
ध्यात्वोर्द्धमुखमुन्निद्रमष्टपत्वं स कर्णिकम्॥३३॥ **

**कर्णिकायां न्यसेत् सूर्य-सोमाग्नीनुत्तरोत्तरम्।
बह्निमध्ये स्मरेद्रूपं ममैतद्ध्यानमङ्गलम्॥३४॥ (१) **

**इन्द्रियाणीन्द्रियार्थेभ्यो मनसा कृष्यतन्मनः।
बुद्ध्या सारथिना धीरः प्रणयेन्मयि सर्वतः॥३५॥ **

_________________________________________________________________

अथ मध्याधिमात्रमाह हृदिति। अन्तस्थं हृन्मध्यस्थं स्वतोऽधोमुखम्। सदति तीक्ष्णेन प्रणवाग्रेणोच्चलनाद् ऊर्द्धमुखं ध्यात्वेत्यर्थः। उन्निद्रं उत्फुल्लं अष्टौ भूम्यादितत्त्वानि पत्राणि यस्य स तथा॥ ११।१४।३६ (३३)

कर्णिकायां प्रणवं न्यसेद् ध्यायेत् सत्त्वादिरूपाणि सूर्य्यादिविम्बानि उत्तरोत्तरं क्रमेणैतत् उक्तेषु अन्यतमं ध्यानेषु मङ्गलं स्वस्त्ययनम्। ११।१४।३७ (३४)

ध्यानमुक्तं प्रत्याहारमाह, इन्द्रियाणीति। इन्द्रियाणि अश्वान् मनसाप्रग्रहेण धीरो विषयैरजितः। सर्वतः सर्वावयवरूपे मयि। ११।१४।४२ (३५)

धारणामाह तदिति। एकत्रचरणादौै। “देशबन्धवित्तस्य धारणा”(२) इति हि पातञ्जलम्। एवं प्रागुक्तदिशा स्मितान्तं ध्यायेत्। सुस्मितमिति हि विशेषणे तात्पर्य्यम्॥ ११।१४।४३ (३६)

_________________________________________________________________

(१) मैत्रेयी उपनिषद्१।९ श्लोः।
" योगशिखा २।३ श्लोः।
” ” १३७-१३८ श्लोः।

(२) पातञ्जलदर्शनं ३।१ सूः।

तत् सर्वव्यापकञ्चित्तमाकृष्यैकत्र धारयेत्।
नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम्॥३६॥

**तव लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत्।
तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत्॥३७॥ **

**एवं समाहितमतिर्मामेवात्मानमात्मनि।
विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम्॥३८॥ **

अन्तकाले तु पुरुष आगते गत साध्वसः।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम्॥३९॥

_________________________________________________________________

समाधिमाह तत्रेति। तत्र स्मिते पदं स्थैर्य्यं व्योम्नि मायोपाधावीश्वरे। तञ्च व्योमं, मदारोहोनिरुपाधिमत्स्वरूपमारूढः न किञ्चिच्चिन्तयेत्। ध्यातृध्येयविभागमपि त्यजेदित्यर्थः। प्रत्याहारधारणे ध्यानात् प्राक्। पश्चात् समाधिः। यमादिचतुष्कन्तुर्थ सिद्धम्। तदेवमष्टाङ्गोयोग इहोक्तः॥ ११।१४।४४ (३७)

तस्य फलमाह, एवमिति। एवं सप्तभिरङ्गैः समाधिं प्राप्ता मतिर्यस्य स तथा। मां आत्मानं जीवम्। मय्यात्मनि परमात्मनि सर्वात्मन् सर्वात्मके विचष्टे विशेषात् पश्यति। मां मयीति जीवपरयोरभेदे उक्ते ज्योतिरिति दृष्टान्तः। यथा प्रतिविम्बभूतं ज्योतिरूपाध्युपरमे विम्बीस्यात् तथेत्यर्थः। अत्रापि फलोक्तिः प्राग्वत्। श्रीकृष्णा उद्धवम्। ११।१४।४५ (३८)

तीब्राधिमात्रमाह। अन्तकाल इति। गतसाध्वसः त्यक्तामरण-

**गृहात् प्रब्रजितो धीरः पुण्यतीर्थजलाप्लुतः।
शुचौ विविक्त आसीनो विधिवत् कल्पितासने॥४०॥ **

**अभ्यसेन्मनसा शुद्धं विविद्ब्रह्माक्षरं परम्।
मनो यच्छेज्जितश्वासो ब्रह्मवीजमविस्मरन्॥४१॥ **

**नियच्छेद्विषयेभ्योऽक्षान् मनसाबुद्धिसारथिः।
मनः कर्म्मभिराक्षिप्तं शुभार्थे धारयेद्धिया॥४२॥ **

_________________________________________________________________

भयः। असङ्गशस्त्रेण “असङ्गोह्ययं पुरुष” (१) इत्युपदेशदार्ढ्येन। तं देहं अनु ये पुत्रकलत्रादयस्तेषु। २।१।१५ (३९-४०)

प्रब्रजितः सत्यस्य निर्गतः। धीरो गृहस्यास्मर्त्ताविधिवत्। “नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्” (२)। मनसा न तु वाचा। शुद्धं उदात्तादिधर्म्मरहितम्। त्रिबृत् त्रिभिरकारोकारमकारैर्त्तितं ग्रथितम्। ब्रह्मणः प्रथमं रूपम् \। अक्षरं वर्णं परं स्फोटात्मकम्। यच्छेत् स्थिरीकुर्य्यात्। जितश्वासः प्राणायामाैः (३) ब्रह्मवीजमोङ्कारं अविस्मरन्। स एव जपगर्भः प्राणायामः। २।१।१६ (४१)।

अक्षान् इन्द्रियाश्वान्। मनसाप्रग्रहेण। कर्म्मभिः कर्म्मवासनाभिः। आक्षिप्तं इतस्ततोनीतम्। शुभार्थे धारयेत्। हृदयपुण्डरीके मूर्द्धज्योतिषि नाभिचक्रे नासिकाग्रे (४) अन्यस्मिन् वा पापक्षयकरे वस्तुनि चतुर्भुजादौ बध्नीयात्। २।१।१७। (४२)

_________________________________________________________________

** (१)** बृहदारण्यक ४।३।१५ श्लोः।

** (२)** गीता ६।११ श्लोः।

** (३)** “प्राणायामैर्द्दहेद्दोषान्धारणाभिश्च किल्विषान्”— महाभारत ३।२८।११।

** (४)** योगदर्शने— “नाभिचक्रे कायव्यूहज्ञानम्” “मूर्द्धज्योतिषिसिद्धदर्शनम्” कूर्म्मनाड्यां स्थैर्य्यम्” ३।३०-३१-३२-३२। अन्यत् एतदीयभाष्येऽनुसन्धेयम्”।

**तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा।
मनोनिर्विषयं युक्त्वा ततः किञ्चन न स्मरेत्॥४३॥ **

**पदं तत् परमं विष्णोर्मनो यत्र प्रसीदति॥४४॥ **

इति वोपदेवकृते मुक्ताफले विष्णुरूपं नाम तृतीयं प्रकरणम्। द्वितीयोऽध्यायः समाप्तः॥२॥

_________________________________________________________________

तत्रापि क्रमादेकैकावयवं ध्यायेत्। अव्युच्छिन्नेन ध्येयान्तररहितेन। युक्त्वा समाधाय तच्च**(१)** निर्विषयं मनः। २।१।१९ (४३)42 पातञ्जले— “)

पदं विष्णोर्निराकारस्य परमं पदं स्फूर्त्तिस्थानम्। यत्र यस्यान्दशायाम्। प्रसीदति सत्त्वमात्रशेषमवतिष्ठते। अयमर्थः— उक्तभूमिकाभ्यासवलात्, सर्व्वबृत्तिप्रत्यस्तमये संस्कार शेषे चेतसि निरुद्धे असम्प्रज्ञातसमाधिना निर्विशेषचैतन्यलाभः। ततश्च स संस्कारं चित्तं निवर्त्तते। तस्मिंश्च निवृत्ते पुरुषः स्वरूपं प्रविष्टः शुद्धः केवलो मुक्त इत्युच्यते। (२) तथाच सूत्रम्43 पातञ्जल १।१।३ सूः भाः।”) ‘तदा द्रष्टुः स्वरूपेऽवस्थानम्’ अयमेव मुक्तिशब्दार्थः। “मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः” (३) इत्यत्रोक्तः।44 भागवत २।१०।६ श्लोः।”) तदेवमाप्लुतो धीर इति यमनियमोपलक्षणम्। आसीन इत्यासनमुक्तम्। अभ्यसेदिति प्राणायामः। नियच्छेदिति प्रत्याहारः। ततो धारयेद् इत्यविषयस्य क्रमाद्विषयीकरणरूपा धारण। ध्यायेदिति तस्यैव क्रमत्यागो ध्यानम्। युक्त्येति निर्विषयतारूपसमाधिरित्यष्टाङ्गोयोग उक्तः। शुकः राजानं प्रति। २।१।१६-१९ (४४)

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां विष्णुरूपाणि। द्वितीयोऽध्यायः॥२॥

_________________________________________________________________

अथ तृतीयोऽध्यायः।

<MISSING_FIG href=”../books_images/U-IMG-1737308561Screenshot2025-01-19231151.png”/>

अथ विष्णोरवताररूपाणि चत्वारिंशत्।
हरियज्ञवामनमन्वन्तरेशानां पुनरुक्तत्वात्।

**तत्र बराहः। **

यत्रोद्यतः क्षितितलोद्धरणाय विभ्रन्,
क्रोड़ीं तनुं सकलयज्ञमयीमनन्तः।
अन्तर्म्महार्णव उपागत आदिदैत्यम्,
तं दंष्ट्रयाद्रिमिव वज्जधरो ददार॥१॥

_________________________________________________________________

एवन्तावदियताप्रवन्धेन मुमुक्षोः समाधिसामग्रीं समग्रामुक्त्वेदानीं अस्यैव व्युत्थानदशायां योगान्तरायपरिहारार्थमिष्टावाप्त्यर्थञ्च भगवज्जन्मकर्म्मानुसन्धानं विधातुमाह, विष्णोरवताररूपाणीति। तत्रान्तरायाः— “व्याधि-स्त्यान संशय-प्रमादालस्याविरति-भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः”। “दुःखदौर्म्मनस्याङ्गमेजयत्व श्वासप्रश्वास विक्षेपसहभूवः” (१) तत्र स्त्यानं अकर्म्मण्यता। प्रमादः समाधिभूमेरलाभः। अनवस्थितत्वं यल्लब्धायां

_________________________________________________________________

(१) पातञ्जलं १/३०-३१ सूः।

**जातो रुचेरजनयत् सुयमान् सुयज्ञः,
आकूति सूनुरमरानथदक्षिणायाम्।
लोकत्रयस्य महती महरद्यदार्त्तिम्,
स्वायम्भुवेन मनुनाहरिरित्यनुक्तः॥२॥ **

**कपिलः। **

**यज्ञे च कर्द्द मगृहे द्विजदेबहूत्याम्,
स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे।
ऊचे ययात्मशमलं गुणसङ्ग पङ्क-
मस्मिन् विधूय कपिलस्य गतिं प्रपेदे॥३॥ **

_________________________________________________________________

भूमी चित्तस्याप्रतिष्ठा। जन्मकर्म्मानुसन्धानेन महांल्लाभः। तदुक्तम्। “जन्मकर्म्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः” (१) इति42 गीता ४।९ श्लोः।")। कुतश्चत्वारिंशदेव। चतुर्णामन्येषामप्युपलम्भात्। तत्राह। हरीति। पीनरुक्त्यञ्च मन्वन्तरावतारार्थम्। ते चावताराश्चतुर्द्धा। कल्पमन्वन्तरयुगत्वल्पभेदात्। तत्र कल्पावतारान् शृण्वन् अध्वविघ्नोपशान्तये वराहं भावयेदित्याह। तत्रेति। आदिदैत्यं हिरण्याक्षम्। २।७।१। (१)

लोकापवादनिरासार्थं यज्ञमाह, जात इति। रुचिः पिता। आकूतिर्माता। दक्षिणापत्नी। सुयमा नामदेवाः पुत्राः। स्वायम्भुवो मनुर्मातामहः। तेन सुयज्ञ इति प्रथममुक्तः पश्चाद हरिरिति। यतो लोकानामार्त्तिमहरत्॥ २।७।२ (२)

राजसत्वादिदोषहानार्थं कपिलावतारमाह। कपिल इति।

_________________________________________________________________

**अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो—,
दत्तो मयाहमिति यद्भगवान् स दत्तः।
यत्पादपङ्कजपराग-पवित्रदेहा,
योगर्द्धि मापुरूभयीं यदु हैहयाद्याः॥४॥ **

**चतुःसनः। **

**तप्तं तपो विविध-लोकसिसृक्षयाम,
आदौ सनात् स्वतपसः स चतुःसनोऽभूत्।
प्राक्कल्प संप्लब विनष्टमिहात्मतत्त्वम्,
सम्यग् जगाद मुनयो यदचक्षतात्मन्॥५॥ **

_________________________________________________________________

कर्द्दमः पिता। देवहूतिर्माता।नव भगिन्यः। आत्मगतिं ब्रह्मविद्याम्। यया माता पुत्रस्य गतिं मुक्तिं प्रपेदे। आत्मशमलं मलिणीकरणम्। गुणसंगाख्यं पङ्कं विधूयास्मिन्नेव जन्मनि। हे द्विज! नारदः॥ २।७।३ (३)

अलब्धभूमिकत्वनिवृत्त्यर्थं दत्तात्रेयमाह। अत्रेरिति। आत्मेव माया तवपुत्रोदत्तः इत्यत्रिं प्रत्याह। तस्माद्दत्तः। अत्र्यपत्यत्वादात्रेयः। “इतश्चाऽनिञः”42 पाणिनिः १-४ -११२ सूः।”) (१) इत्यपत्यार्थे ढक्। ऋद्धिं सिद्धिम्, उभयीं भुक्तिमुक्तिरूपाम्। हैहयः कार्त्तवीर्य्यः। आदिशब्दादलर्क प्रह्लादौ॥ २।७।४ (४)

कामोपशमार्थं चतुःसनमाह। तप्तमिति। यन्मया तपस्तप्तं स चतुःसनोऽभूत्। तप एव चतुर्द्धावतीर्णम्। सनत्कुमारः। सनकः।

_________________________________________________________________

नारदः।

**तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्म्यं कर्म्मणां यतः॥६॥ **

**नरनारायणः। **

धर्म्मस्य दक्षदुहिर्यजनिष्ट मूर्त्त्याम्,
नारायणो नर इति खतपः प्रभावः।
दृष्ट्वात्मनो भगवतो नियमावलोपम्,
देव्यस्त्वनङ्गष्टतनाघटितुं नशेकुः॥७॥

_________________________________________________________________

सनन्दनः। सनातन इति। सनशब्दोपलक्षितचतुर्भेदः सनात्— अखण्डितं यत् स्व तपः तस्मादिमानि नामानि सत्वात्मतत्त्वं जगाद च यद् गदितं मुनयः आत्मन्यपश्यन्। उपदेशादेव साक्षात्कारोऽभूतित्यर्थः॥२।७।५ (५)

प्रमादहानार्थं नारदावतारमाह। तृतीयेतिI सात्वतं पञ्चरात्रम्**(१)**।42 नारदपञ्चरात्रम्, (भारद्वाजसंहिता) अहिर्व्युध्नसंहिता, हयशीर्षपञ्चरात्रम्, कपिलसंहिता, कपिपञ्चरात्रमित्यादि।”) नैष्कर्म्म्यं फलाभावत्वेन कर्म्मत्वाभावः। सूतः शौनकम्॥ १।३।६ (६)

उग्रधर्म्महानार्थं नारायणावतारमाह। धर्म्मस्येति। धर्म्मः पिता। मूर्त्तिर्माता। दक्षो मातामहः। नरो भ्राता। स्वः अकृत्रिमः तपः प्रभावो यस्य स तथा। नियमावलोपं घटितुं निष्पादयितुम्। देव्योऽप्सरसः। नशेकुः। यद्यप्यनङ्गपृतनाः काम सैन्यानि आत्मनः आत्मरूपाणि अन्या अप्सरसः भगवतो नारायणस्य देहादुत्पन्ना दृष्टाः॥ २।७।६ (७)

_________________________________________________________________

कामं दहन्ति कृतिनो ननु रोषदृष्ट्या,
रोषं दहन्तमुत तेन दहन्त्यसह्यम्।
सोऽयं यदन्तरमलं प्रविशन् विभेति,
कामः कथं न पुनरस्य मनः श्रयेत॥८॥

**बिद्धः सपत्न्युदित पत्रिभिरन्ति राज्ञो,
बालोऽपि सन्नुपगतस्तपसे वनानि।
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो-
दिव्याः स्तुवन्ति मुनयो यदुपर्य्यधस्तात्॥६॥ **

पृथुः।

यद्वेणमुत्पथगतं द्विजबाक्यवज्ज-
निष्प्लुष्टपौरुषभगं निरये पतन्तम्।

_________________________________________________________________

नारायणस्य धैर्य्यं वर्णयन्ति काममित्यादिना। केचित् कृतिनः कामं तावद्रोषं आविष्कृत्य दहन्ति। रोषं पुनस्तानेव दहन्तं नो दहन्ति। न च सहन्ते। सोऽयं रोषः यस्यान्तःकरणं प्रविशन् अत्यर्थं विभेति। कामस्य तु का वार्त्ता॥ २।७।७ (८)

उद्दिष्टसिद्ध्यर्थं ध्रुवप्रियं भावयेदित्याह। विद्ध इति। मातुः सुनीतेः सपत्नो या सुरुचिः तस्या उदितानि वाक्यानि तान्येव पत्रिणी बाणाः तै राज्ञः उत्तानपादस्यान्तिके समीपे। ध्रुवगतिं ध्रुवपदम्। गृणते स्तुवते। दिव्यामुनयः सप्तर्षयः। यद् यत्र आत्मन उपरिस्थितं अधस्तात् स्थिताः॥ ३।७।८ (९)

क्षुत्पिपासा शान्त्यर्थं पृथमाह। यद्वेणेति। त्राता रक्षिता।

त्रात्वार्थितो जगति पुत्त्रपदञ्च लेभे,
दुग्धा वसूनि वसुधासकलानि येन॥१०॥

ऋषभः।

**नाभेरसा वृषभ आस सुदेविसूनु-
र्यो वै चचार समदृग् जड़योगचर्य्याम्।
यत्पारहंस्य मृषयः पदमामनन्ति,
स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः॥११॥ **

**हयग्रीवः। **

सत्रे ममास भगवान् हयशीरषाथो-
साक्षात् स यज्ञपुरुषस्तपनीयवर्णः।

_________________________________________________________________

यत् पुत्र इति पदं नाम लेभे। “पुन्नाम्नो नरकात्त्रायते” (१) इति पुत्रः।42 “) तेन च वेणः पित्रा त्रातः। अर्थितो द्विजैः। जगति जगदर्थं, वसूनि रत्नानि॥ २।७।९ (१०)

अनवस्थितत्व हानार्थं ऋषभमाह। नाभेरिति। नाभिः पिता। सुदेवी माता। जड़वद्योगेन नित्यसमाधिना, चर्य्या जड़योगचर्य्या। स्वस्थो न तु विषयस्थः॥ २।७।१० (११)

देवहेलन कृतदोषहानार्थं हयग्रीवावतारमाह। सत्र इति।

_________________________________________________________________

**छन्दोमयो मखमयोऽखिलदेवतात्मा,
वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः॥१२॥ **

**मत्स्यः। **

**मत्स्योयुगान्तसमये मनुनोपलब्धः,
क्षोणीमयो निखिलजीवनिकायकेतः।
विस्रंसितानुरुभये सलिले मुखान्म-
आदाय तत्र विजहारह वेदमार्गान्॥१३॥ **

**कुर्म्मः (१)। **

क्षीरोदधावमरदानब यूथपाना-
मुन्मध्नताममृतलब्धय आदिदेवः।
पृष्ठेन कच्छपबपूर्विदधार गोत्रम्,
निद्राक्षणोऽद्रि परिबर्त्तकषाणकण्डः॥१४॥

_________________________________________________________________

सत्रे यज्ञे। मम ब्रह्मणः। हरशिराः आस वभूव। अथो पूर्णाहुतेरनन्तरम्।

यज्ञपुरुषत्वमेव व्यनक्ति छन्दोमय इति। सार्द्धैस्त्रिभिः। तपनीयं सुवर्णम्। उशतीः कमनीयाः (वेदाख्याः) श्वसन्तः श्वासं मुञ्चन्तः। नस्तः नासापुटात्। २\।७\।११ (१२)

जित्वोपसर्गहानार्थं मत्स्यमाह। सत्स्य इति। क्षौणीं नीरूपां मिनोति स्वशृङ्गे प्रक्षिपतीति क्षोणीमयः। निकायः समूहः। केतः

_________________________________________________________________

(१) शुक्लयजुर्वेदः २४।३४
शतपथब्राह्मणम् ७।५।१।५।
कूर्म्मपुराणं १२।४—५।

**नृसिंहः। **

**त्रैपिष्टपोरुभयहा स नृसिंहरूपम्,
कृत्वा भ्रमद्भ्रकुटिदंष्ट्रकरालवक्तम्।
दैत्येन्द्रमाशुगदयाभि पतन्तमारा-
दूरौ निपात्य विददार नखःस्फुरन्तम्॥१५॥ **

**हरिः। **

अन्तःसरस्युरुबलेन पदे गृहीतो
ग्राहेण यूथपतिरम्बुजहस्त आर्त्तः।
आहेदमादिपुरुषाखिललोकनाथ!
तीर्थश्रवः श्रवणमङ्गलनामधेयः॥१६॥

_________________________________________________________________

आश्रयः। नावि प्राणिस्थापनात्। मम मुखादुडुभये सलिले विस्रंसितान् पतितान् वेदमार्गान् आदाय तत्र सलिले विजहार। वेदा एव मार्गा भुक्तेर्मुक्तेश्च २।७।१२ (१३)

नरकहेतुहानार्थं कुर्म्ममाह, क्षीरोदधाविति॥ गोत्रं मन्दराद्रिम्। निद्रां क्षणयति क्षणवतीं लब्धावसरां करोतीति निद्राक्षणः। तत्करोतीति णिच्। “विन्मतो र्लुक्45”। अद्रेःपरिवर्त्तः सव्यापसव्य म्रमः। कषाणः। कषण् घर्षण सुखप्रदो यस्यां स। कण्डूर्यस्य स तथा॥ २।७।१३ (१४)

अरण्यभयहानार्थं नृसिंहावतारमाह। त्रैविष्टपेति। त्रैविष्टपा देवाः। तेषामुरुभयं हन्तीति तथा। भ्रमद्भृकुटीदंष्ट्रेण करालं रौद्रं वक्त्रम् यस्य स तथा। भृकुटिदंष्ट्रेणेति ‘प्राण्यङ्गत्वादेकवद्भावः’। आरात् समीसे। स्फुरन्तं स्वत्त्वोद्रेकेण २।७।१४॥ (१५)

**श्रुत्वा हरिस्तमरणार्थिनमप्रमेय-
श्चक्रायुधः पतगराजभुजाधिरूढः।
चक्रेण नक्रवदनं विनिपाठ्य तस्मा-
द्धस्तेप्रगृह्य भगवान् कृपयोज्जहार॥१६॥ **

**ग्राहात् प्रपन्नमिभराजममुञ्चदार्त्तम्,
संस्तुन्वतोऽव्धिपतितान् श्रमणान् ऋषींश्च।
शक्रञ्च वृत्रबधतस्तमसि प्रविष्टम्,
देवस्त्रियोऽसुरगृहे पिहिता अनाथाः॥१७॥ **

**वामनः। **

**ज्यायान् गुणैरवरजोऽप्यदितेः सुतानाम्,
लोकान् विचक्रम इमान् यदथाधियज्ञः। **

_________________________________________________________________

आर्त्तिहानार्थं हरिमाह, अन्तरिति। ग्राहोनक्रः २।७।१५ (१७)

तारणार्थिनं शरणार्थिनम्। पतगराजोगरुड़ः। विनिपाठ्य विदार्य्य २।७।१६॥ (१६)

ग्राहादिति। प्रपन्नं शरणागतं। संस्तुन्वतः संस्तुवतः। अधिपतितान् कश्यपस्य समिदाहरणे गोष्पदे मग्नान्। श्रमणान् ऊर्द्धरेतसो बालखिल्यान्। अपिहिता अवरुद्धाः। द्रुमिलो नेमिम्। ११।४।१८॥ (१७)

स्थलोपसर्गहानार्थं वामनमाह। ज्यायानिति। कुतो ज्यायान् यद् यस्मादिमान् लोकान् विचक्रमे। अथ प्रतिग्रहानन्तरम्। प्रतिग्रहश्च वामनरूपेण। अधियज्ञो विष्णुः। यज्ञाधिष्ठातृत्वात्। किमस्य

**क्ष्मां वामनेनजगृहे त्रिपदच्छलेन,
याञ्चामृते पथिचरन् प्रभुभिर्नचाल्यः॥१८॥ **

**नार्थोबलेरयमुरुक्रमपादशौच-
मापः शिखाधृतवतो विबुधाधिपत्यम्।
यो वै प्रतिश्रुतमृते नचिकीर्षदन्य-
दात्मानमङ्ग मनसा हरयेऽभिमेने॥१९॥ **

याचने कारणम्। यतः पथिचरण् स्वधर्म्मस्थः पुरुषः प्रकारान्तरेण न चाल्यो ‘न पदाद्भ्रं शनीयं, इति नीतिः २।७।१७॥ (१८)

बलेर्न पदभ्रंशः किन्तु अधिकपदलाभ इत्याह। नार्थ इति। अतस्तस्य नायं पुरुषार्थः। यद्विबुधाधिपत्यं। यतोऽसौ ऊरुक्रमपादशौचं या आपः ताः शिखायां शिरसि धृतवान्। यत आत्मानं प्रविश्रुतशेषपूरणत्वेन शिरसा अत्यादरेणाभिमेने अङ्गीकृतवान्। कथम्भूतमात्मानं यः प्रतिश्रुतं विना अन्यद् न चिकीर्षव् कर्त्तुं नेच्छत्। “बहुलं च्छन्दस्यमाञ्योगे46” इत्यड़भावः। यद्यपि गुरुणा वारितः शप्तश्च २।७।१८॥ (१९)

**हंसः। **

तुभ्यञ्च नारदभृशं भगवान् विवृद्ध-
भावेन साधुपरितुष्ट उवाच योगम्।
ज्ञानञ्च भागवतमात्मसतत्त्वदीपम्,
यद्वासुदेवशरणा विदुरञ्जसैव॥२०॥

मन्वन्तरेशः।

चक्रञ्च दिक्ष्ववहितं दशसु स्वतेजो-
मन्वन्तरेषु मनुवंशधरो विभर्त्ति।
दुष्टेषु राजसु दमं व्यदधात्स्वकीर्त्तिम्,
सत्ये त्रिपृष्ठ उशतीं प्रथयं श्चरित्रैः॥२१॥

धन्वन्तरिः।

धन्वन्तरिश्च भगवान् स्वयमेव कीर्त्ति-
र्नाम्नां नृणां पुरुरुजां रुज आशु हन्ति।
यज्ञे च भागममृतायुरवावरुन्धे (३)
आयुष्यवेदमनुशास्त्यवतीर्य लोके॥२२॥

मोहिनी।

धान्वन्तरं द्वादशमं त्रयोदशममेव च।
अपापयत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया॥२३॥

परशुरामः।

क्षत्त्रं क्षयायविधिनोपभृतं महात्मा,
ब्रह्मध्रुगुज्झितपथं नरकीर्त्तिलिप्सुः।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः,
त्रिःसप्तकृत्व उरुधारपरश्वधेन॥२४॥

स्त्याननाशस्य प्रहाणार्थं हंसावतारमाह। तुभ्यमिति। योगं भक्तियोगम्। सतत्त्वं तात्विकं रुपम् २।७।१९ (२०)

दुर्गोपसर्ग (दुर्गोपसर्ज) हानार्थं मन्वन्तरेशमाह। चक्रमिति। स्वमकृत्रिमस्तेजो यस्य तत् स्व तेजश्चक्रं विभर्त्ति। येन चक्रवर्त्तीति नाम। त्रयाणां लोकानां पृष्ठे यत् सत्यं तस्मिन् ब्रह्मसभायामित्यर्थः २।७।२० (२१)

व्याधिहानार्थं धन्वन्तरीति। नाम्नां कीर्त्तेः नामकीर्त्तनादित्यर्थः। वैद्यैरलभ्यं यज्ञे भागं अवरुन्धेऽलभत। कीदृशः अमृतायुः। सुखादुत्वादमृतम्। परिणामहितत्वादायुरायुःसाधनं वेदं वैद्यकम्, अनुशास्ति करोतीति लोकेऽवतीर्य काशिराजगृहे उत्पद्य (२) २।७।२१॥ (२२)

अविरतिहानार्थं मोहिनोमाह। धान्वन्तरमिति, धन्वन्तरिरूपं स्त्रीरूपञ्च सुरानपापयत्सुधामिति शेषः। अन्यान् सुरान्। मोहयन् केन रूपेणामृतानयनम्। पायनं मोहिनीस्त्रीरूपेणेत्यर्थः। सूतः शौनकम् १।३।१७॥ (२३)

_________________________________________________________________

(२) वैद्यके भावप्रकाश पूर्वखण्डं, एवं हरिवंशे हरिवंशपर्व्व २९अः। ९-१० श्लोः।

श्रीरामः।

**अस्मत्प्रसादसुमुखः कलया कलेश,
इक्ष्वाकुबंश अवतीर्यगुरोर्निदेशे।
तिष्ठन् वनं सदयितानुज आविवेश,
यस्मिन् विरुध्य दशकन्धर आर्त्तिमार्च्छत्॥२५॥ **

यस्मा अदादुद्धिरूढ़ भयाङ्गवेपो-
मार्गं सपद्यरिपुरं हरवद्दिधक्षोः।
दूरे सुहृन्मथितरोषसुशोणदृष्ट्या,
तातप्यमानमकरोरगनक्रचक्रः॥२६॥

**वक्षःस्थलस्परशरुग्नमहेन्द्रवाह-
दन्तैर्विड़म्बितककुजुषऊढ़हासम्।
सद्योऽसुभिः सह विनेष्यति दारहर्त्तु-
र्व्विस्फूर्ज्जितैर्धनुष उच्चरतोऽधिसैन्ये॥२७॥ **

**श्रीकृष्णः। **

**भूमे सुरेतरवरुथविमर्द्दितायाः,
क्लेशव्ययाय कलया सितकृष्णकेशः।
जातः करिष्यति जनानुपलक्ष्यमार्गः,
कर्म्माणिचात्ममहिमोपनिवन्धनानि॥२८॥ **

अद्रिकूटोपसर्गहाणार्थं जामदग्न्यावतारमाह। क्षत्त्रमिति। विधिना, दैवेन। उपभृतं समर्पितम् (सम्बर्द्धितम्)। क्षयाय मृत्यवे। असौ विष्णुः। त्रिःसप्तकृत्वः। एकविंशतिवारान्। परश्वधः परशुः २।७।२२॥ (२४)

प्रवासदुःखप्रहानार्थं रामावतारमाह। अस्मासु ब्रह्मादिषु प्रसादेन सुमुखः प्रहसितमुखः। कलेशोविष्णुः। सर्वशक्तिमयत्वात्। कलया अंशेन। गुरुः पिता। निदेशः आज्ञा। यस्मिन् विरुध्य वैरं कृत्वा। दशकन्धरो रावणः। आर्त्तिमार्च्छत् दुःखसम्प्राप्तः २।७।२३ (२५)

यस्मा इति। यस्मै रामाय उदधिर्मार्गमदात्। रूढः प्राप्तभयजनितसर्वाङ्गकोपो येन। स तथा॥ सपदि शीघ्रम्। कस्माद् भयं दिधक्षोः रामादेव। यथा त्रिपुरं हरो दिधक्षुः। दूरे सुहृदा सीतया मथितो विलोड़ितो यो रोषः। तेन सुशोणा अतिरक्ता या दृष्टिस्तया। चक्रं समूहः २\।७\।२४॥ (२६)

वक्षःस्थलेति। दारहर्त्तुर्द्दशाननस्यहासं गर्व्वम्। विनेष्यति

नाशयिष्यति। असुभिः प्राणैः सह। अधिसैन्ये वानरसैन्यमध्ये। उच्चरत उत्कर्षेण विचरतः। धनुषो विस्फुर्ज्जितैः उग्रशब्दैर्वानरान् विद्रावयत इत्यर्थः। रावणस्य वक्षःस्थलस्पर्शेन रुग्ना भग्ना ये महेन्द्रस्यैरावणस्य दन्ताः। तैर्व्विढड़म्बितो नटैरिवानुकृतः, ध्वनिरूपेण यः ककुभां दिशां जयस्तेन रूढो हासः। अहो मे अद्भूतं वीर्य्यमिति। विस्मयस्यानुभावो हासः। स च भग्नैरैरावतदन्तैः तत्र तत्राभिनीत इत्यर्थः २।७।२५॥ (२७)

अथ सर्वान्तराय प्रहाणार्थं सर्व्वकामसिद्ध्यर्थञ्च कृष्णावतारं भावयेदित्याह। भूमेरिति। वरूथः समूहः। कलया पूर्णरूपेण नत्वंशेन “कृष्णस्तु भगवान् स्वयम्47” इत्यनेन विरोधात्। सितं निर्म्मलं मुक्तिरूपम्। कृष्ण मलिनं (अनिर्म्मलम्) भुक्तिरूपम् यत् कं सुखं तस्येशः। केशव्याख्याने तु पूर्ववद् विरोधः। इत्थमेव। “उज्जहारात्मनः केशौ सितकृष्णौ महामुने!48” इति तन्त्रान्तरोक्तिरपि व्याख्येया। केशौ सुखस्वामिनौ। सितो रामः। आत्मनः स्वमूर्त्तेः सकाशादुज्जहारउद्धृतवान् कल्पितवान्। हरिवंशे हि भगवान् कस्यांञ्चिद्गिरिगुहायां स्वमूर्त्तिं निक्षिप्य गरुड़ञ्च तत्रावस्थाप्य ‘स्वयमत्रागत’ इत्युक्तम्। तदुक्तं हरिवंशे “स देवानभ्यनुज्ञाय विविक्ते त्रिदशालये। जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम्। तत्र वै पार्व्वतीनाम गुहादेवैः सुदुर्गमा। त्रिभिस्तस्यैव विक्रान्तैनित्यं पर्वसु पूजिता। पुराणं तत्र विन्यस्य देहं हरिरुदारधीः। आत्मानं योजयामास वसुदेवगृहे विभुः।” यैस्तु यथा श्रुतमेवेदं व्याख्यातम्। तेन सम्यग्दृष्टवन्तः। यतः सुरमात्रस्यापि निर्जड़त्वरूपप्रसिद्धौ अकालकलिते भगवति जरानुदयेन क्लेशशौक्ल्यानुपपत्तेः। न चास्य केशेषु नैसर्गिको सितकृष्णतेति प्रमाणमस्ति।

अतएव नरसिंहपुराणे कृष्णावतारप्रसङ्गे शक्तिशब्द एव प्रयुक्तो न तु केशशब्दः। तथाहि “वसुदेवाच्च देवक्यामवतीर्य्यमहीतले। सितकृष्णे च तच्छक्तीकंसाद्यान् घातयिष्यत”— इत्यादिना। अस्तु तर्हि अंशोपलक्षणः केशशब्दः (नोऽ) अविलुप्त सर्वशक्तित्वेन साक्षादादि पुरुषत्वस्यैव निश्चेतुं शक्यत्वात्। विष्णुकृष्णादिशब्दानामविशेषतः पर्य्यायत्व प्रतीतेश्च। नैवमवतारान्तरेषु कस्य वान्यस्य जन्मदिनं जयन्त्याख्ययातिप्रसिद्धम्। अतएवोक्तम् महाभारते “भगवान् वासुदेवश्व कीर्त्त्यतेऽत्र सनातनः। शाश्वतं ब्रह्मपरमं योगिध्येयम् निरञ्जनम्” इति। यत्तूक्तम् “ततो जगन्मङ्गलमच्युतांश49” मिति। तत्र बहुव्रीहिः। यच्च तत्रांशेनावतीर्णस्येति। तत्रांशेन सह इत्यर्थः अंशो बलभद्रः। एवं सर्वत्र। एते “मत्केशौ वसुधातलम्50” इत्यपि व्याख्यातम्। यत्तु ताविमौ वै भगवतो हरे रंशाविहागता”विति। तदन्य कल्पविषयम्। यद्वा अंशश्च अंशश्च अंशौ। तत्रैकोऽशशब्दो यथास्थितोऽर्ज्जुनविषयः। अन्यस्तु अंशाः सन्त्यस्येत्यंशः “अर्शाद्यच” प्रत्ययान्तो भगवद्विषयः। यत्राद्यभिन्न इत्यादि हि प्रागुक्त इत्यलमति प्रसङ्गेन। आत्मनः श्रीकृष्णस्य महिमा उपनिबध्यते। सम्बद्धो दृश्यते येषु कर्म्मसु तानि। अनन्य साध्यानीत्यर्थः २।७।२६॥ (२८)

तोकेन जीवहरणं यदुलूकिकाया-
स्वैमासिकस्य च पदा शकटोपवृत्तः।
यद्रिङ्गतान्तरगतेन दिविस्पृशो र्वा,
उन्मूलनं त्वितरथार्ज्जुनयोर्न भाव्यम्॥३९॥

यद्वैव्रजे व्रजपशून् विषतोयपीतान्,
गोपांस्त्वजीवयदनुग्रहदृष्टिदृष्ट्या।
तच्छुद्धयेऽतिविषवीर्य्यविलोलजिह्व-
मुच्चाटयिय्यदुरगं विहरन् ऋदिन्याम्॥३०॥

तत्कर्म्मदिव्यमिव यन्निशिनिःशयानम्,
दावाग्निना शुचिवने परिदह्यमाने।
उन्नेष्यति व्रजमतोऽवसितान्तकालम्,
नेत्रे पिधाप्य सवलोऽनधिगम्यवीर्य्यः॥३१॥

**गृहीतयद्यदुपबन्धममुस्यमाता-
शुल्वं सुतस्य न तु तत्तदमुष्य माति।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी,
संवीक्ष्यशंकितमनाः प्रतिवोधितासीत्॥३२॥ **

तानि च कुर्व्वतोऽस्य मार्गोजनैर्नोपलभ्यते। तान्येवाह, तोकेमेति। तोकोवालः। उलूकिका पूतना। पदा-पादेन। उपवृत्तः पर्य्यस्तीभूतः। रिङ्गताजानुभ्याम् गच्छता। अन्तरङ्गतेन मध्यं प्राप्तेन। दिविस्पृशोः अर्जुनयोः। उन्मूलनं एतत्कर्म्मत्रयम्। न भाव्यम्। यदि स्व महिमानं न दर्शयत् २।७।२७॥ (२९)

यद्वैद्व्रज इति। विषरूपे तोये पीतं पानं येषां ते तथा। तु शब्दस्वार्थे। तच्छुद्धये हृदिनी शुद्धये। उच्चाटयिष्यन् उच्चाटितवान्। अतीतमात्रे लुङ्। अतीतकल्पापेक्षया उन्नेष्यतीत्यादि भविष्यत्त्वम्। उरगं कालियम्। ह्रदिनी यमुना २।७।२८॥ (३०)

तत्कर्म्मेति। इवशब्दो वाक्यालङ्कारे। शुचिवने ग्रीष्मवने।

उन्नेष्यति उद्धरिष्यति। अतो दावाग्नेः अवसितो निर्णीतः। अन्तकालो मृत्युर्यस्य तत्तथा। नेत्रे पिधाय पिहिते कारयित्वा। स वलःभद्र। २।७।२८॥ (३१)

माता यशोदा। शुल्वंदाम नमाति यावदाबध्यते तारम्मानंनलभते। सम्बीक्ष्यदृष्ट्वा। प्रति वोधिता विष्णुरय मिति सञ्जातबोधा॥ २।७।३०॥ (३२)

नन्दञ्च मोक्ष्यति भयाद्वरुणस्य पाशा-
द्गोपान् विलेषु पिहितान् मयसूनुना च।
अह्व्यापृतं निशिशयानमतिश्रमेण,
लोकं विकुण्ठमुपनेष्यति गोकुलं स्म॥३३॥

**गोपैर्मखे प्रतिहते ब्रजविप्लवाय,
देवेऽभिवर्षति पशून् कृपया रिरक्षुः।
धर्त्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-
वर्षो महीध्रमनद्मैक करे सलीलम्॥३४॥ **

क्रीड़न् वने निशिनिशाकररश्मिगौर्य्याम्,
रासोन्मुखः कलपदायत मूर्च्छितेन।
उद्दीपितस्मररुजां व्रजभृद्वधूनाम्,
हर्त्तुरिष्यतिर्ह शिरो धनदानुगस्य॥३५॥

नन्दञ्चेति। पाशाद् भयं तस्मात्। मयसूनुर्व्योमः। आपूतंव्यापृतम्। बिकुण्ठे बैकुण्ठे। उपसमीपेनेष्यति॥ २।७।६१ (३३)

रिरक्षुः रक्षितुमिच्छुः। आर्षमणिट्त्वम्। ऊच्छिलीध्रं छत्राकारं वर्षासु भवति। (१)। महीन्धं गोवर्द्धनम्। हे अनघ। नारद। २।७।३२।३४॥

**येच प्रलम्बखरदर्द्दुरकेश्यरिष्ट-
मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः।
अन्ये च साल्वकपिबल्कलदन्तवक्र-
सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः॥३६॥ **

येवामृधे समितिशालिन आत्तचापाः,
काम्बोजमस्म्य कुरु शृञ्जयकैकयाद्याः।
यास्यन्त्यदर्षनमलं बलपार्थभीम-
व्याजाह्वयेन हरिणा निलयं तदीयम्॥३७॥

_________________________________________________________________

क्रीड़न्निति। गीर्य्यां शुक्लायाम्। रासोन्मुखः रासक्रीड़ायामासक्तः कलैर्म्मधुरेःपदैः आयतं आलापेन दीर्घतां नीतं यद् मूर्च्छ्रितंमूर्च्छनाख्यं गीतम्। तेनोद्दीपितो यः स्मरः। स एव रुग्मदनजपीड़ा यासां तास्तथा। धनदानुजः शङ्खचूड़ः २।७।३३॥ (३५)

ये चेति। प्रलम्बाद्याः रुक्मिपर्य्यन्ताः एकोनविंशतिः। कुजो भौमः। कपिर्द्विविदः। बल्वलो यो नैमिषे बलभद्रेण हतः। सप्तोक्षं सप्तबृषाः २।७।३४॥ (३६)

ये वेति। समितौ संग्रामे शालन्ते ते समितिशालिनः। हरिणा सह मृधे संग्रामे सति काम्बोजाद्याः तदीयं निलयं यास्यन्ति। न विद्यते दर्शनमलो रागादिर्यत्रनिलये म तथा। बलभीमपार्थव्याजाद्वयाः कपटनामानि यस्य तेन। तत्त्वतस्तु बलभद्रादयो हरिनामान एवं। २।७।३५॥ (३७)

_________________________________________________________________

(१) छत्राकारं छत्राकं शूरणम् इति केचिद्वदन्ति। तत्तु समक्षम्। तथाच स्मृतिः“छत्राकं ग्राम्य कुक्कुट अभक्ष्याणि द्विजातीना"मिति।

व्यासः।

**कालेन मीलितधियामवमृश्यनृृणाम्
स्तोकायुषां स्वनिगमो वतदूरपारः।
आविर्हितस्त्वनुयुगं सहि सत्यवत्याम्,
वेदद्रुमं विटपशो विभजिष्यतिस्म॥३८॥ **

**बुधः। **

**देव द्विषां निगमवर्त्म निनिष्टितानाम्,
पूर्भिर्मयेन रचिताभिरदृश्यतुर्भिः।
लोकान् घ्नतां मतिविमोहमति प्रलोभम्,
वेषं विधाय बहुभाष्यत औपधर्म्म्यम्॥३९॥ **

_________________________________________________________________

अशेषसन्देहहानार्थं व्यासावतारमाह। (*) कालेनेति। स्वनिगमः स्वकृतो वेदराशिः। वत अहो दूरपारः दूरस्थितपर्य्यन्तः। इत्यवमृश्य। आविर्हितः अवतीर्णः। अनुयुगं द्वापरे। विटपशः शाखाभेदेन २।७।३६-३७॥ (३८)

भ्रान्तिदर्शननिवृत्त्यर्थं बुद्धावतारमाह। देवेति। पूर्भिः पुरीभिः। अदृश्यतुर्भिरलज्ञितभ्रमणवेगाभिः। विमोहो गृहीतत्यजने शक्तिः। प्रलोभः (ऽन्या) त्यक्तार्थग्रहणे। भाष्यते उच्यते विष्णुना। औषधर्म्मा

_________________________________________________________________

(*) एवं हि वेदान्तकल्पतरुद्धृत पराशरोपपुराणवचनाज् ज्ञायते। तथाच “द्वापरे द्वापरे विष्णुर्व्याषरूपो महामुनिः। कृत्वा वेदं सुबहुधा कुरुते जगतो हितम्।” सूतसंहिताभाष्यप्रारम्भे चाम्येवमस्ति।” “नह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्।” अयमेव हि अष्टादशपुराणकर्त्ता। तथाच तत्रैव “अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः।” योगदर्शन भाष्यकृच्चायम्। तथाच सर्व्वतन्त्रापरतन्त्रश्रीमद्वाचष्पतिमिश्रः “नत्वा पतञ्जलिमृषिं वेदव्यासेन भाषिते” इति।

**कल्किः। **

यर्ह्यालयेष्वपि सतां न कथाहरेः स्युः,
पाषण्डिनो द्विजजना वृषला नृदेवाः।
स्वाहा स्वधा वषड़ितिस्म गिरा न यत्र,
शास्ता भविष्यति कलेर्भगवान् युगान्ते॥४०॥

**मन्वन्तरावताराः। यज्ञः। **

इति मन्त्रोपनिषदं (२) व्याहरन्तं समाहितम्।
दृष्ट्वाऽसुरायातुधाना जग्धुमभ्यद्रवन् क्षुधा॥४१॥

_________________________________________________________________

धर्म्माभासः। स्वार्थे (१) ष्यङ् २।७।३७॥ (३९)

कलिदोषनिरासार्थं कल्किनमाह। यर्ह्येति। यर्हि यदा पाषण्डिनो वेदवाह्याचाराः। नृदेवा राजानः। यदा बृषलाः। शूद्राः एषाञ्च फलोक्तिः। षष्ठस्याष्ट (नव) मेऽध्यायेऽनुक्ते तु लिङ्गैकं फलमुह्यम्। ब्रह्मा नारदम् २।७।३८॥ (४०)

एवं कल्पावतारानुक्ता मन्वन्तरावतारानाह। मन्वन्तरेति। स्वायम्भुवीये मन्वन्तरे जातं यज्ञमाह। यज्ञ इति। इति पूर्वोक्तप्रकारेण मन्त्रोपनिषदं “ईशावास्ये”ति रहस्यमन्त्रम् व्याहरन्तं जपन्तं स्वायम्भूवं जग्घुं खादितुं क्षुधाविष्टाः ८।१।१७॥ (४१)

_________________________________________________________________

अपरञ्च गीतायाम्भगवतो व्यासावतीर्णरूपेण वेदविभागकर्त्तृत्वं वेदान्तदर्शनप्रणेतृत्वञ्च। तथाहि “वेदान्तकृद्वेदविदेव चाह”मिति चतुर्व्यहावतारतत्त्वन्तु श्रीमच्छाङ्करभाष्ये यथा वासुदेवाद् भगवतो ह्येकस्मात् परमपुरुषाद् वासुदेवः सङ्घर्षणः प्रद्युम्नः अनिरुद्धाश्चत्वारः भवन्ति। वेदाः दः २।२।८।४२ सूः।

(१) पाणिनिः ५।४।२४ सूः।
(२) ईशोपनिषत् १।१।१ श्लोः।

**तांस्तथावसितान् वीक्ष्य यज्ञः सर्ब्बगतो हरिः।
यामैः परिवृतोदेवैः र्हत्वाऽशासत्त्विविष्टपम्॥४२॥ **

ऋषेस्तु वेदशिरसस्तुषिता नामपत्न्याभूत्।
तस्यां यज्ञे ततो देवो विभुरित्यभिविश्रुतः॥४३॥

अष्टाशीति सहस्राणि मुनयो ये धृतब्रताः।
अन्वशिक्षन् ब्रतं तस्य कौमाराद् ब्रह्मचारिणः॥४४॥

**सत्यसेनः धर्म्मः। **

**धर्मस्य सुनृतायान्तु भगवान् पुरुषोत्तमः।
सत्यसेन इति ख्यातो जातः सत्यब्रतैः सह॥४५॥ **

**सोऽनृतब्रतदुःशीलान् असतो यक्षराक्षसान्।
भूतद्रुहो भूतगणान् अबधीत् सत्यजित् सखः॥४६॥ **

_________________________________________________________________

अवसितान्। अवेति गतमित्यर्थे। सितं बन्धनं ततो बहुब्रीहिः। एतेनोच्छृङ्खलानित्यर्थः ८।१।१८॥ (४२)

स्वारोचिषीये (१) विभुमाह। ऋषेरिति।तस्यां तु(रु)षितायां ततो वेदशिरसः ८।१।२१॥ (४३)

तस्य विभोः कौमारात् कुमारत्वात्। ब्रह्मचारिणः ब्रतं आवाल्याद ब्रह्मचर्य्यम् ८।१।२२॥ (४४)

उत्तमे मन्वन्तरे (२) सत्यसेनमाह। धर्म्मस्येति। धर्म्मः पिता। सुनृता माता। सत्यब्रता देवाः भ्रातरः। सत्यजित्तदानीन्तन इन्द्रः ८।१।२५ (४५—४६)।

_________________________________________________________________

(१) “स्वारोविषेऽन्तरे पूर्वम्” इति मार्कण्डेय पुः, देवीमाहात्म्ये १।२॥ श्लोः।

(२) मार्कण्डेयपुराणं ५।३।६—८ श्लोः। देवीभागवतं १०।१—१३ श्लोः।

**हरिः। **

तत्रापि यज्ञे भगवान् हरिण्यां हरिमेधसः।
हरिरित्याहृतो येन गजेन्द्रोमोचितो ग्रहात्॥४७॥

**बैकुण्ठः। **

**पत्नीविकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः।
तयोः सकलया यज्ञे वैकुण्ठो भगवान् स्वयम्॥४८॥ **

**वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया॥४९॥ **

**तस्यानुभावः कथितो गुणाञ्च परमोदयाः।
भौमान् रेणून् सविममे यो विष्णोर्वर्णयेद्गुणान्॥५०॥ **

**अजितः। **

**तत्रापि देवसम्भू त्यां वैराजस्याभवत्सुतः।
अजितो नाम भगवान् अंशेन जगतीपतिः॥५१॥ **

_________________________________________________________________

तामसीये हरिमाह। तत्रापीति। हरिणीमाता। हरिमेधा पिता। शुकः राजानम् ८।१।३०॥ (४७)

रैवतीये वैकुण्ठमाह। पत्नीति। शुभ्रः पिता। तत्प्रियकाम्यया लक्ष्म्याः प्रियचिकीर्षया ८।५।४॥ (४८—५०)

चाक्षुषीयेऽजितमाह। अ(त)त्रापीति। षष्ठे मन्तरे संभूतिर्माता। वैराजः पिता ८।५।९॥ (५१)

कूर्म्मः।

**पयोधिं येन निर्म्मथ्य सुराणां साधिता सुधा।
भ्रममाणोऽम्भसि धृतः कूर्म्मरूपेण मन्दरः॥५२॥ **

**वामनः। **

**अत्रापि भगवज्जन्मकश्यपादितेरभूत्।
आदित्यानामवरजो विष्णुर्वामनरूपधृक्॥५३॥ **

**सार्ब्बभौमः। **

**देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः।
स्थानं पुरन्दराद् हृत्वा बलये दास्यतीश्वरः॥५४॥ **

**ऋषभः। **

**आयुष्मतोऽम्बु धारायां ऋषभो भगवान् किल।
भविता येन संराद्धां विलोकीं भक्ष्यते श्रुतः॥५५॥ **

_________________________________________________________________

येन अजितेन। शुकः राजानम् ८।५।१०॥ (५२)

वैवस्वतीये वामनमाह। अत्रापीति। अत्रापि सप्तमे मन्वन्तरे। आदित्याः अदितिपुत्राः। अवरजः कनिष्ठः ८।१३।६ (५३)

सावर्णीये51 सार्वभौममाह देवेति। सरस्वती माता। स्थानं इन्द्रपदम्। पुरन्दरो वर्त्तमान इन्द्रः ८।१३।१७॥ (५४)

दक्षसावर्णीये ऋषभावतारमाह। आयुष्मतेति। अम्बुधारा माता। श्रुतोऽनव इन्द्रः ८।१३।२० (५५)

**विष्वक्सेनः। **

**विष्वक्सेनो विसूच्यान्तु शम्भोः सख्यंकरिष्यति।
जातः स्वांशेन भगवन् गृहे विश्वजितो विभुः॥५६॥ **

**धर्म्मसेतुः। **

**आर्य्यकस्य सुतस्तत्र धर्म्मसेतुरिति स्मृतः। **

**स्वधामा। **

**वै धृतायां हरेरंशःत्रिलोकीं धारयिष्यति॥५७॥ **

**स्वधामाख्योहरेरंशः साधयिष्यति तन्मनोः।
अन्तरं सत्य सहसः सूनृतायाः सुतो विभुः॥५८॥ **

**योगेश्वरः। **

देवहोत्रस्य तनयः उपहर्त्ता दिवस्पतेः।
योगेश्वरो हरेरंशो वृहत्यां सम्भविष्यति॥५९॥

_________________________________________________________________

ब्रह्मसावर्णीये विष्वक्सेनमाह। विष्वगिति।शम्भुरिन्द्रः। विश्वजित्पिता ८।१३।२६ (५६)

धर्म्मसावर्णीये धर्म्मसेतुमाह। आर्य्यकस्येति। वैधृत इन्द्रः। ८।१२।२६॥ (५७)

भद्रसावर्णीये स्वधामानमाह। स्वधामेति। तस्य भद्रसावर्णेर्मनोः। अन्तरं मन्वन्तरम्। साधयिष्यति पालयिष्यति। सत्यसहाः पिता ८।१३।२९॥ (५८)

देवसावर्णीये योगेश्वरमाह। देवहोत्रस्येति। उपहर्त्ता अर्पयष्यति। दिवस्पतेरिन्द्रस्य। अर्थादिन्द्रपदम् ८।१३।३२॥ (५९)

**वृहद्भानुः। **

**सत्रायणस्य तनयो वृहद्भानुस्तदाहरिः।
वितानायां महाराज! क्रियातन्तून वितायिता॥६०॥ **

**युगावताराः। (तत्र शुक्लः) **

**कृते शुक्लश्चतुर्वाह्यर्जटिलो बल्कलाम्बरः।
कृष्णाजिनोपवीताक्षान् विभ्रद्दण्डकमण्डलु॥६१॥ **

**हंसः सुपर्णो वैकुण्ठो धर्म्मो योगेश्वरोऽमलः।
ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते॥६२॥ **

_________________________________________________________________

इन्द्रसावर्णीये वृहद्भानुमाह। सत्रायणेति। तदा चतुर्द्दशे मन्वन्तरेशानां कल्पावतारत्वं मन्वन्तरावतारत्वञ्च काकतालीय52 न्यायेन यौगपद्यासम्भवाद मन्वन्तरेशस्तु प्रागुक्तोऽप्यनुसन्धेयः। शुकः राजानम् ८।१३।३५॥ (६०)

युगावतारानाह। कृतेति। शुक्ल इति नामतो वर्णतश्च, अक्षः अक्षसूत्रम्, कृष्णाजिनादीनि विभ्रत्। ब्रह्मचारिवेश इत्यर्थः ११।५।२१॥ (६१)

तत्रामान्याह। हंस इति। हन्ति गच्छति जानाति सर्वमिति हंसः॥ हन्तेर्गत्यर्थस्य कर्त्तर्य्यौणादिकः सः। सुपर्णः परमात्मा। “द्वासुपर्णेति53” श्रुतेः। विकुण्ठा माया तामधितिष्ठतीति वैकुण्ठः “शैषिकोऽण्।54” धारयतीतिधर्म्मः। योगः समाधिः परमात्मा ब्रह्म ११।५।२३॥ (६२)

रक्तः।

**त्रेतायां रक्तवर्णोऽसौ चतुर्वाहु स्त्रिमेखलः।
हिरण्यकेशस्त्रय्यात्मा स्रुक् स्रुवाद्यु पलक्षणः॥६३॥ **

**विष्णुर्यज्ञः पृश्निगर्भः सर्ववेद उरुक्रमः।
वृषाकपिर्जयन्तश्च उरुगाय इतीर्य्यते॥६४॥ **

**पीतः। **

**द्वापरे भगवान् श्यामः पीतवासा निजायुधः।
श्रीवत्सादिभिरङ्कश्च लक्षणै रुपलक्षितः॥६५॥ **

**नमस्ते वासुदेवाय नमः सङ्कर्षणाय च।
प्रद्युम्नायानिरुद्धाय सर्वभूतात्मने नमः (१)॥६६॥ **

_________________________________________________________________

(त्रेतायामिति)। त्रिमेखलः। त्रिगुणा मेखला दीक्षाङ्गभूता यस्य स तथा। दीक्षितवेश इत्यर्थः। असौ विष्णुः ११।५।२४॥ (६३)

विष्णुरिति। पृश्निः सुतपसः प्रजापतेर्भार्य्या। तस्याः पुत्रः। सर्वेवेदा यस्मिन् स तथा। वर्षति पुण्य फलं आकम्पयति च पापफलं दानेनेति वृषाकपिः। जयत्येव सदेति जयन्तः। उरुर्महान् गायोगानं यस्य स तथा ११।५।२६॥ (६४)

निजानि चक्रानि। आदिशब्दाद् वज्रध्व जसरोज-यवाङ्कुशादीनि। सहजं चिह्नमङ्गः। आगन्तुकं लक्षणं कौस्तुभादिराजवेश इत्यर्थः ११।५।२७॥ (६५)

तन्नामान्याह, नम इति। वासुदेव-संकर्षण-प्रदुम्नानिरुद्धाः,

_________________________________________________________________

(१) ‘तुभ्य’ भगवते नमः’ ‘सात्वतां पतये नमः’ इत्येते पाठान्तरे स्तः। व्याख्याचानयोः भागवतटीकायामनुसन्धेया।

कृष्णः कलौ।

**कृष्णवर्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्र-पार्षदम्।
यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः॥६७॥ **

**नारायणाय ऋषये पुरुषाय महात्मने।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः॥६८॥ **

ध्येयं सदा परिभवघ्नमभीष्टदोहम्,
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम्।

_________________________________________________________________

महदहङ्कारमनोबुद्धीनां सङ्कल्पाभिमान-संशय-निश्चयहेतूनां अन्तःकरणानामधिष्ठातारः ११।५।२९॥(६६)

कृष्णः कलौ। त्विषा अकृष्ण’इन्द्रनीलोज्ज्वलम्। अङ्ग मुखादि। उपाङ्गं कर्णादि। अस्त्रं चक्रादि। पार्श्वदः सुनन्दादि। तैः सहितम्। वैषस्यच विशेषानिर्द्देशात् यथाभिमतत्वं गम्यते। यज्ञैर्द्दे वतार्च्चनैः आराधयन्तोत्यर्थः। संकीर्त्तनप्रायैः नामसंकीर्त्तनप्रधानैः। द्वापरे तु पूजायाः प्राधान्यम्। तदुक्तं (१) “ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन्। यदाप्नोति तदाप्नोति कलौ संकीर्त्त्य केशवम्।” इति ११।५।३२॥ (६७) (२)

कलो यत्किञ्चिन्महिमानुवर्णनं तत्सर्वं नामावृत्तितुल्यमिति सूचयितुं नामावसरे स्तुतिमाह। ध्येयमिति। हे प्रणतपाल! ते चरणारविन्दं वन्दे। तत् किम्? यथाराजादिसेवा लघुत्वापादिका तथास्याऽवनतिर्नेत्याह। महापुरुषेति। न च योगादिवत्तत्सेवा-

_________________________________________________________________

(१) विष्णुपुराणं ६।२।१७ श्लोः।

(२) भागवतं ११।५।३० संख्यक श्लोक-स्वामिपादटीकाऽनुसन्धेया। अत्रास्य टीकानास्ति।

भृत्यार्त्तिहं प्रणतपालभवाव्धिपोतम्,
वन्दे महापुरुष ते चरणारविन्दम्॥६९॥

**त्यक्त्वा सुदुस्त्यज सुरेस्मित राज्यलक्ष्मीम्,
धर्म्मिष्ठ आर्य्यवचसा यदगादरण्यम्।
मायामृगं दयितयेप्सितमन्वधाव-
द्वन्दे महापुरुष ते चरणारविन्दम्॥७०॥ **

_________________________________________________________________

यामायास इत्याह। ध्येयमिति। सुखहेतुतया सदाध्यातुमुचितम्। तदुक्तम् (१) “आयासः स्मरणे कोऽस्य स्मृतौ यच्छति यः शुभम्। पापक्षयश्च भवति स्मरतां तमहर्निशम्।” इति। तर्हि किन्तावदेवफलम्? नेत्याह, परीति। परिभवं हन्ति मनोरथं पूरयतीत्यर्थः। यद्यप्यन्यदेवता अप्येवं तथापि ता नाशेष पापक्षये क्षमा। इदन्तु क्षमत इत्याह। तीर्थेति। तीर्थं गङ्गा। आस्पदं आश्रयः। अतएव भवविरिञ्चिभ्यां अपिस्तुतम्। काबार्त्ताऽन्यदेवतानाम्। तस्मादाश्रयणयोग्यमित्याह। शरण्यमिति। महद्भिःसेव्यमानत्वाद् गम्भीरम्। ततश्च नगणयत्यल्पकानित्यपि नास्तीत्याह।भृत्येति। प्रसन्नगम्भीरञ्चेत्यर्थः। यथाचान्यैः समिताप्यार्त्तिः पुनरुदेति। न तथाऽत्रेत्याह। भवेति ११।५।३३॥ (६८-६९)

प्रसन्नगम्भीरता मेवाह। त्यक्त्वेति। अरण्यगमनमपि घटते प्रतिकूलपरिजनादुपक्षीणाद्वा राज्यादित्यत आह। सुदुस्त्यज सुरेप्सितेति। तर्हि किं नित्यपरिज्ञानाद् बलवद्भयाद्वा। नेत्याह। आर्य्येति। यथा पिता प्रस्थापयितुं शक्नोति तथा किमपि किं निगूढ़ं दूषणमस्ति। नेत्याह। धर्म्मिष्ठ इति। अनिच्छतोऽपि पितुः सत्यपालनायेत्यर्थः।

_________________________________________________________________

(१) विष्णुपुराणं १।१७।७८ श्लोः।

**स्वल्पावतारः। **

**सर्गे तपोऽहमृषयो नव ये प्रजेशाः,
स्थानेऽथधर्म्ममखमन्वमरावनीशाः।
अन्तेत्वधर्म्महरमन्युवशा सुराद्याः,
मायाविभूतय इमाः पुरुशक्तिभाजः॥७१॥ **

इति श्रीवोपदेवविरचिते मुक्ताफले विष्णोरवताराः।
समाप्तस्तृतीयोऽध्यायः॥

_________________________________________________________________

गाम्भीर्य्यमुक्त्वा। प्रसन्नतामाह। मायेति। मृगरूपं मारीचम्। दयिता सीता। धर्म्मिष्ठत्वादिको रामव्यापारः। तच्चरणे समारोप्यतेऽतिशयार्थम्। यथा “यामि मनोवाक्कायैः शरणं करुणात्मकं। जगन्नाथंजन्मजरामरणार्णवतारणतरिमुदाराङ्घ्रियुगम्” इति। करभाजनः निमिम् ११।५।३४॥ (७०)

स्वल्पावतारमाह सर्गेति। अहं ब्रह्मा, प्रजेशाः प्रजापतयः। स्थानं पालनम्। धर्म्मो यज्ञाधिष्ठातृदेवता। हरो रुद्रः। मन्युवशाः सर्पादयः। ब्रह्मा नारदम्प्रति २।७।३९॥ (७१)

एषाञ्च स्वल्पत्वेन युगमन्वन्तरकल्पावतारेषु क्रमादल्पत्वं महत्त्वं महत्तरत्वं महत्तमत्वञ्चेति गम्यते॥

इति हेमाद्रिविरचितायां कैबल्यदीपिकायां विष्णोरवतार रूपाणि। तृतीयोऽध्यायः॥३॥
———

अथ चतुर्थाऽध्यायः।

विष्णोरधिष्ठानरूपाणि द्वाविंशतिः।

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्।
अर्हयेद्दानमानाभ्यां मैत्र्याऽभिन्नेन चक्षुषा॥१॥

जीवाःश्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे।
ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः॥२॥

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः।
तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदोवराः॥३॥

———————————————————————————————————————————————

एवं योगान्तरायप्रतिघातार्थं भगवज्जन्मकर्म्मानुसन्धानमुक्त्वेदानीमभेदभावनया विक्षिप्तादि (१) चित्तभूमिकाजयार्थमेकाग्रतासम्पादनार्थञ्च भगवतोऽधिष्ठानान्याह। विष्णोरिति। विष्णोरधिष्ठितानि रूपाणि द्वाविंशतिः। तेषां पूज्यत्वमाह। अथेति। भूतानां देहे कृतालयं क्षेत्रज्ञम्। दानं दीनेषु। मानमुक्तमेषु (२) मैत्री समेषु। अभिन्नेन चक्षुषा सर्वात्मा विष्णुरिति तेषां बुद्ध्या ३।२९।२७॥(१)

जीवा इति। हे शुभे देवहूते! सजीवनिर्जीवयोः सजीवः श्रेष्ठः। प्राण्यप्राणिनोः सजीवयोः प्राणी। स चित्ताचित्तयोः प्राणिनोः स चित्तः। स्पर्शज्ञाऽस्पर्शनयोः स चित्तयोः स्पर्शज्ञः। रसज्ञारसज्ञयोः स्पर्शज्ञयोः रसज्ञः। गन्धज्ञागन्धज्ञयोरसज्ञयोर्गन्धज्ञः। शब्दज्ञा

———————————————————————————————————————————————

(१)योगदर्शनं १।२–३। सूः,—राजमार्त्तण्डः, तत्त्ववैशारदी।
(२)योगदर्शनं—“मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य विषयाणां भावनातश्चित्त प्रसादनम्”।१।३३ सूः।

**रूपभेदविदस्तत्र ततश्चोभयतोदतः।
तेषां बहुपदाः श्रेष्ठाश्चतुस्पादस्ततो द्विपात्॥४॥ **

**ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः।
ब्राह्मणेष्वपि वेदज्ञोह्यर्थज्ञोऽभ्यधिकस्ततः॥५॥ **

**अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वधर्म्मकृत्।
मुक्त्रसङ्गस्ततो भूयानदोग्धाधर्म्ममात्मनः॥६॥ **

तस्मान्मय्यर्पिताशेष-क्रियार्थात्मा निरन्तरः।

——————————————————————————————————————————————

शब्दज्ञयोर्गन्धज्ञयोः शब्दज्ञः। रूपज्ञारूपज्ञयोः शब्दज्ञयो रूपज्ञः। उभयतादन्तैकदन्तयोः रूपज्ञयोः उभयतोदतः। सपादाऽपादयोः उभययतोदन्तयोःसपादः। चतुस्पद बहुपदयोः सपादयो श्चतुस्पादः हस्तौभूतपादद्वयाऽहस्तीभूतपादद्वययोः चतुस्पाद(द्वय)योःहस्तीभूतपादद्वयः। वर्णावर्णयोर्हस्तीभूतपादयोर्वर्णः। ब्राह्मणाऽब्राह्मणयोर्बर्णयोर्ब्राह्मणः। वेदज्ञावेदज्ञयोर्ब्राह्मणयोर्वेदज्ञः। वेदार्थज्ञा वेदार्थज्ञयोर्वेदज्ञयोर्वेदार्थज्ञः॥ ३।२९।२७–२८ २९–३०–३१–(२–५)॥

संशयच्छ्रेद्यसंशयच्छेदिनोर्वेदार्थज्ञयोः संशयच्छेदी। स्वधर्म्मनिष्ठाधर्म्मनिष्टयोः संशयच्छ्रेदिनोः स्वधर्मनिष्ठःश्रेयान्। यथालाभसन्तुष्टाऽयथालाभसन्तुष्टयोः स्वधर्म्मनिष्ठः श्रेयान्।धर्म्मानुजीविधर्म्मोपजीविनोर्यथालाभसन्तुष्टयोः धर्म्मानुजीवी॥३॥२९।३२। (६)॥

विष्णुभक्ताऽविष्णुभक्तयोर्धर्म्मानुजीविनोर्विष्णुभक्तः। इन्द्रियवृत्तित्वं स्पर्शज्ञानादि सामान्यं न स्वतन्त्रम्। क्रिया उद्यमः अर्थस्तत्फलम्। आत्माकर्त्ता भोक्ताच। विष्णुप्रीत्यर्थमेवोद्यमः। फल-

**मय्यर्पितात्मनः पुंसो मयिसन्न्यस्त कर्म्मणः।
न पश्यामि परं भूतमकर्त्तुः समदर्शनात्॥७॥ **

**नाहं तथाद्मियजमानहविर्बिताने,
श्चोतद्द्वृतप्लुतमदन्हुतभुङ्मुखेन।
यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासम्,
तुष्टस्यमय्यवहितैर्निजकर्म्मपाकैः॥८॥ **

**येषांविभर्म्म्यकुण्ठविकुण्ठयोग-
मायाविभूतिरमलाङ्घ्रिरजःकिरीटैः।
विप्रान्नु कोनविषहेतयदर्हणाम्भः,
सद्यः पुनाति सहचन्द्रललामलोकान्॥९॥ **

———————————————————————————————————————————————

न्त्वानुषङ्गिकं विष्णुप्रीत्यर्थमेव फलंभोगः। आत्मतुष्टिस्त्वानुषङ्गिकीविष्णुप्रीत्यर्थमेवात्मधारणम्। मुक्तिस्त्वानुषङ्गिकीअर्पणशब्दार्थः। निरन्तरमस्याश्चित्तवृत्तेरखण्डता मप्यर्पितेति श्लोकषट्केन विष्णुभक्त प्रशंसा। परंश्रेष्ठम्। कपिलःदेवहूतिम् ३।२९।३३।॥(७)

हूतभूङ्मुखेन वितानेयज्ञे, अदन् अश्नन् तथा नाद्मि। किम्भूतं च्योतताक्षरता घृतेनप्लुतं आलोड़ितम्। यद् यथा ब्राह्मणस्य मुखेन चरतःअश्नतः अनुघासं प्रतिग्रासं अद्मि। (अभि) सन्तुष्टस्य मयि नारायणे अवहितैः अर्पितैः निजकर्म्मजपाकैः प्रारब्धकर्म्मजनितैः शुभाशुभैः। अर्पणञ्च नारायणायेति समर्पयेत्तदितिवक्ष्यति॥३।१६॥८।(८)

येषामिति। कः पुरुषः विप्रान् न विषहेत। तत्कृतं क्रोधं न सहेत। यैर्विप्रैः सत्यलोकवासिभिः त्रिविक्रमत्वे मच्चरणार्हणीकृतं पदं नभोगङ्गारूपम्। चन्द्रललामेन शिवेन सहत्रीन् लोकान्

ये मे तनुर्द्विजवरान् दुहतीर्मदीया,
भूतान्यलब्धशरणानि च भेदबुद्ध्या।
द्रक्ष्यन्त्यधक्षतदृशो ह्यहिमन्यवस्तान्,
गृध्रारुषा ममकुशन्त्यधिदण्डनेतुः॥१०॥

ये ब्राह्मणान् मयि धिया क्षिपतोऽर्च्चयन्त-
स्तुष्यद्वृदःस्मितसुधोक्षितपद्मवक्त्राः।
वाण्यानुरागकलयात्मजवद्गृणन्तः,
सम्बोधयन्त्यहमिवाहमुपाकृतस्तैः॥११॥

———————————————————————————————————————————————

अद्यापि सद्यः पुणाति। तथा येषाममलमङ्घ्रिरजोऽहं साहस्रैः किरीटैः बिभर्म्मि। अकुण्ठा अखण्डा देशकालाभ्याम्। विकुण्ठाख्य लोकरूपा योगमाया विभूतिर्यस्यसतथा॥३।१६।९।(९)

येम इति। द्विजवरान् ब्राह्मणान्। मदीया दुहतीर्दुहितॄःधेनूः। गावोहि सूर्य्यात् प्रसुताः सुर्य्यश्च विष्णुः। अलब्ध शरणानि रक्षकहीनानि भूतानि च। एता ममतनवः ममाधिष्ठानानि तानि। ये भेदबुद्ध्या अनधिष्ठानबुद्ध्याद्रक्ष्यन्ति विष्णुं भजन्तोऽपि तेषामपकारं करिष्यन्ति नोपकारम्। यद्यपि सर्वं विष्णोरधिष्टानं तथाप्यत्र कृतावुपकारापकारौ झटिति विष्णुं स्पृशतो ममत्वातिरेकात्। अधक्षतदृशःपापैरन्धीकृतदृष्टयः। अहिमन्यवः सर्पक्रोधाः। सर्पाखल्वेतेनैव क्रुध्यन्ति, न च क्रोधं त्यजन्ति। तान् पुरुषान् गृध्राः गृध्राकाराः यमदूताःकुशन्ति छिन्दन्ति घातयन्ति। ममरुषा प्रेरिताः। अहंहि दण्डनेतॄणां यमादीनामधिष्ठाता ३।१६।१०॥ (१०)

ये ब्राह्मणानिति। ये ब्राह्मणान् सम्बोधयन्ति तैरहमुपाकृतः कृतषोड़शोपचारः। मयि धिया अर्च्चयन्तः। विष्णुबुद्ध्यापूजयन्तः।

यस्यात्मबुद्धिःकुणपेत्रिधातुके,
स्वधीःकलत्रादिषु भौमइज्यधीः।
यत्तीर्थबुद्धिः सलिले न कर्हिचि-
ज्जनेष्वभिज्ञेषु स एव गोखरः॥१२॥

मनसैतानि भूतानि प्रणमेद्वहुमानयन्।
ईश्वरो जीवकलया प्रविष्टो भगवानिति॥१३॥

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा।
तमवज्ञाय मां मर्त्त्यः कुरुतेऽर्च्चा-बिड़म्बनम्॥१४॥

———————————————————————————————————————————————

क्षिपतः तिरस्कारान् कुर्व्वतोऽपि तुष्यद्हृदः प्रीयमाणचित्ताः। पापमयैरित्यतस्तिरस्कारादिति। पद्मोपमं ब्राह्मणवक्त्रं क्रोधाग्निना शुष्यत् सि(स्मि)तसुधयासिञ्चन्तः। आत्मजवत् पुत्रानिव गृणन्तः स्तुवन्तः। अहमिव अहं यथा सम्बोधयामि। भगवान् चतुःसनम् ३।१६।११॥ (११)

व्यतिरेकभङ्ग्यापि प्रशंसन्ति यस्येति। कूणपम्। निर्ज्जीवम् शरीरम्। त्रिधातुकं तेजोऽवन्नात्मकत्वात्। बातपित्तकफवद्धत्वाद्धास्वधीः। आत्मीयबुद्धिः। भौमे प्रतिमादौ इज्यधीः पूज्यबुद्धिः। यद्यस्य जले तीर्थबुद्धिः। नत्वभिज्ञेषु भक्तेषु। कर्हिचित् कदाचित्। गोखर इति अज्ञत्वे निन्द्यत्वे उक्ते।भगवान् कुरुक्षेत्रे मिलितान् मुनीन् १०।८४।१३॥(१२)

तत्त्वतस्तु सर्व्वंविष्णोरधिष्ठानमित्याह। मनसेति। भगवान् प्रविष्ट इति। मनसा बहुमानयन्।३।२९।३४॥(१३)

प्रतिमैकपूजकंनिन्दन्ति। (१) अहमिति। अर्च्चा प्रतिमा ३।२९।२१॥ (१४)

———————————————————————————————————————————————

(१) “ब्रह्मदृष्टिरुत्कर्षात्” । वेदान्तदर्शनं ४।१।५-६ सूः। “प्रतिमासु शीलाबुद्धिं” कुर्व्वाणो नरकं व्रजेत् मन्त्रशास्त्रे।

**यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्।
हित्वार्च्चां भजते मौढ्याद् भस्मन्येव जुहोति सः॥१५॥ **

**द्विषतः परकाये मां प्राणिनो भिन्नदर्शिनः।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति॥१६॥ **

**अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयाऽनघे।
नैवतुष्येऽर्च्चितोऽर्च्चायां भूतग्रामावमानिनः॥१७॥ **

**अर्च्चादावर्च्चयेत्तावदीश्वरं मां स्वकर्म्मकृत्।
यावन्नवेद स्वहृदि सर्वभूतेष्ववस्थितम्॥१८॥ **

————————————————————————————————————————————

योमामिति। सत्त्वं नित्यत्वम्। आत्मत्वान्निर्निमित्तप्रेमास्पदत्वम्। ईश्वरत्वात् फलदातृत्वम्। हित्वा त्यक्त्वा योऽर्च्चां प्रतिमां भजते सोऽग्निं हित्वा भस्मन्येव जुहोति ३।२९।२२॥ (१५)

भस्मवत्प्रतिमापूजनस्य निष्फलहेतुत्वमाह द्विषत इति। मनःशान्तिर्हि फलम्। साच द्वेषहानेः सा च सर्व्वात्मा विष्णुरिति दर्शनात्। तच्च प्रतिमैव विष्णुरिति पश्यतो नास्ति ३।२९।२३॥ (१६)

प्रतिमार्च्चनाद्विष्णुस्तुष्टिस्ततो मनः शान्तिरिति चेत् सापि नास्तीत्याह अहमिति। उच्चावचैर्व्विविधैः। क्रियया पूजया हे अनघेदेवहूते! द्रव्यैरुत्पन्नया न तु कर्त्तृगुणेन। स हि मां द्वेष्ट्यर्च्चयति च ३।२९।२४॥ (१७)

यस्तुनोद्वेष्टि किन्तु सर्वात्मा विष्णुरिति न जानाति। स यावन्नजानातितावदर्च्चादावर्च्चयेदित्याह। अर्च्चादाविति। आदिशब्दा-

————————————————————————————————————————————

“अप्सुदेवा मनुष्याणां रवौदेवामनीषिणाम्।
प्रतिमा स्वल्पबुद्धीनां योगिनां हृदये हरिः॥” आह्निकाचारतत्त्वेI

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्।
तस्यभिन्नदृशो मृत्युर्व्विदधे भयमूल्वणम्॥१९॥

इति श्रीमुक्ताफले विष्णोर्म्महिमा विष्णोरधिष्ठानानि च॥

विष्णोर्नुवीर्य्यगणनां कतमोर्हतीह,
यः पार्थिवान्यपि कविर्विममे रजांसि।
चस्कम्भ यः स्वरहसा स्खलता त्रिपृष्ठम्,
यस्मात्त्रिसाम्यसदना-दुरुकम्पयानम्॥१॥

——————————————————————————————————————————————

दुक्तेष्वधिष्ठानेषु। क्रमाद् विष्णुबुद्धिं कुर्व्वन् सर्व्वात्मा विष्णुरिति जानीयात् ३।२९।२५॥ (१८)

तज्ज्ञानं विना मृत्युभयं न निवर्त्तते। “उदरमन्तरं कुरुते अथ तस्य भयम्भवती”ति (१) श्रुतेः। तदेवाहात्मन इति। अन्तरं भेदं उदरम् अत्यल्पंभयं कालचक्रपरिभ्रमणं विदधे अहं सृजामि। मृत्योर्हिमद्रूपम्। कपिलःदेवहूतिम् ३।२९।२६॥ (१९)

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां मुक्ताफले विष्णोरधिष्ठानानि॥

एवं भगवतोऽधिष्ठानान्युक्त्वाइदानीं “यत् स्तूयते तद्विधीयत”(२) इति न्यायान्मुमुक्षोर्भगवति स्वातिरेकमनुरागं विधातुं भगवतोमाहात्म्यमाह। विष्णोरिति। अत्रापि श्लोकसप्तकेन पूर्व्वरङ्गं विधास्यन् सामस्त्येन महिमा ब्रह्मादिभिरपि दुर्व्विज्ञात इति द्वाभ्यामाह, विष्णोरिति। नु अहो इह एषु त्रैलोक्यस्थेषु कविषु मध्ये कतमः

———————————————————————————————————————————————

(१) मैत्रेय्युपः६।२६ श्लोः।

(२) मीमांसाभाष्यम्, (दः) १।२।

नान्तं विदाम्यहममीमुनयोऽग्रजास्ते,
मायावलस्य पुरुषस्य कुतोऽवरा ये।
गायन् गुणान् दशशतानन आदिदेवः,
शेषोऽधुनापि समवस्यति नास्यपारम्॥२॥

येषां स एव भगवान् दययेदनन्तः,
सर्व्वात्मनाश्रितपदो यदिनिर्व्यलीकम्।
ते दुस्तरामतितरन्ति च देवमायाम्,
नैषां ममाहमितिधीः श्वशृगालभक्ष्ये॥३॥

——————————————————————————————————————————————

किं जातीयः? योऽपि कविरतीन्द्रियदर्शी पृथ्वी परिभ्रमण संख्यातवान् सोऽपि नार्हति अन्यस्य का वार्त्ता। कोऽसौ विष्णुर्यस्त्रिपृष्ठम्, चस्कम्भष्धृतवान्। त्रयो लोकाः पृष्ठे यस्य तत्। त्रिपृष्ठं कालचक्रम्।स्वरहसा स्वेन बलेनास्खलता अप्रतिहतेन। यस्माद्विष्णोः महत्तत्वमासीत्। त्रयाणां गुणानां साम्यंमूलप्रकृतिः55 (१)। सदनमधिष्ठानं यस्य स तथा। कम्पयानं कम्पयमानम्। सर्वाणि वस्तूनि सर्वेषां सर्व्वचेष्टाप्रदमित्यर्थः २।७।४०॥(१)

नान्तमिति। अहं ब्रह्मा ते तव नारदस्य। अग्रजाः सनकादयः। व्यधिकरणे षष्ठी। अवरे इन्द्राद्याः। यतः शेषोऽपि नाद्यापि समवस्यति जानाति। स यद्यस्यादिदेवो दशशताननश्च २।७।४१॥(२)

एवमपि ज्ञेयत्वमुक्त्वाऽस्यभगवतः प्रसादतः सुज्ञाततामाह। येषामिति। स एव नान्योदययेद्दयां कुर्य्यात्। निर्व्यलीकं निष्कपटम्। चकाराद्विदन्ति च। एषां तीर्णमायानां श्वशृशालभक्ष्ये शरीरे तत्र स्व

वेदाहमङ्गपरमस्य हि योगमायाम्,
यूयं भवश्च भगवानथ दैत्यवर्य्यः।
पत्नीमनोः स च मनुश्च तदात्मजाश्च,
प्राचीनवर्हिरिभुरङ्ग उत ध्रुवश्च॥४॥

इक्ष्वाकुरैलमुचुकन्दविदेह गाधि-
रघ्वम्बरीषसगरा गयनाहुषाद्याः।
मान्धात्रलर्कशतधन्वनुरन्ति देवा,
देवव्रतो बलिरमूर्त्तरयो दिलीपः॥५॥

सौभर्य्युतङ्क शिविदेवलपिप्पलाद-
शारद्वतोद्धवपराशरभूरिषेणाः।
येऽन्येविभीषणहनुमदुपेन्द्रदत्त-
पार्थार्ष्टिषेण विदुरश्रुतदेववर्य्याः॥६॥

————————————————————————————————————————————————

शरीरेऽहं धीः परशरोरे ममधीः तीर्णमायत्वेऽविक्रमेदित्यर्थः २।७।४२ (३)

भगवत् प्रसादाज् ज्ञायत इत्यत्र निदर्शनान्याह। वेदाहमिति। अहं ब्रह्मा हे अङ्ग नारद!मणिमन्त्रादिभिर्व्विना या समाधि मात्रादाविर्भवति सा योगमाया। दैत्यवर्य्यः प्रह्लादः। मनुः स्वायम्भुवःतत्पत्नीशतरूपा। आत्मजा प्रियव्रताद्याः। उत अहो।२।७।४३। (४)

ऐलः पुरूरवाः विदेहो जनकः। नाहुषो ययातिः देवव्रतो भीष्मः २।७।४४। (५)

उत्तङ्को भगवतादर्शित विश्वरूपः। द्वितकारश्चायंशब्दः।

**तेवैविदन्त्यतितरन्ति च देवमायाम्,
स्त्रीशूद्र हूण शवरा अपि पाप जीवाः।
यद्यद्भुतक्रम परायण शील शिक्षा-
स्तिर्य्यग्जनाअपि किमु श्रुत धारणा ये॥७॥ **

**शश्वत् प्रशान्तमभयं प्रति वोधमात्रम्,
शुद्धं समं सदसतः परमात्मतत्त्वम्।
शब्दोनयत्र पुरुकारकवान् क्रियार्थो-
माया परैत्यभिमुखे च विलज्जमाना॥८॥ **

————————————————————————————————————————————————

आर्षो द्वितीयतकारलोपः। श्रुतदेवो भगवदातिथ्यकारी २।७।४५। (६)

तेवै इति। अद्भुतक्रमो विष्णुः। तत्परायणं यच्छीलं सद्वृत्तं तत्र शिक्षा येषां तेतथा। श्रुते गुरूपदेशे धारणा येषां ते तथा २।७।४६॥ (७)

एवं पूर्व्वरङ्गं कृत्वा प्राधान्यान्निराकारमहिमानन्तावदाह। शश्वदिति। शश्वन्नित्यं। कुतः यतः प्रशान्तं निष्क्रियम्। कुतः यतोऽभयम् भयञ्चद्वितीयात् (१)। तच्च प्रतिबोधमात्रम्। कुतः यतः शुद्धम्। शुद्धस्य ज्ञानस्य तस्य न कर्त्रादियोगः। न च तदसिद्धम्। यतः समम्। ज्ञानविशेषेषु सामान्यरूपेण स्थितम्।तच्च सदसतः परम्। नकार्य्यम् नापि कारणम्। विशेषस्यैव तथात्वात्। नचात्माह्यस्यद्वितीयः। यत आत्मरूपम्। तदुक्तं श्रीशङ्कराचार्य्यैः। “ज्ञानज्ञेयविहीनोऽपि सदाज्ञ”(२) इति।

————————————————————————————————————————————————

(१) बृहदारण्यकं- १।४।२।

(२) श्रीमच्छङ्कराचार्य्य ग्रन्थावल्यामस्ति।

तद्वैपदं भगवतः परमस्य पुंसो-
ब्रह्मेति यद्विदुरजस्रसुखं विशोकम्।
सध्र्यङ् नियम्य यतयो यमकर्त्तहेतिम्,
जह्युःस्वराड़िव निपानखनित्रमिन्द्रः॥९॥

स श्रेयसामपिविभुर्भगवान् यतोऽस्य,
भावस्य भावविहितस्य सतः प्रसिद्धिः।

——————————————————————————————————————————————

न च तत्ज्ञानशब्देन सद्वैतम् यतोऽ(य)त्र नो शब्दः। शब्दोहि कारकार्थः क्रियार्थोवा। न च तत्तद्रूपम्। नापि मनसाद्वैतम् मनोऽपिहि माया साच परैति दूरे गच्छति अभिमुखे स्थातुं विलज्जमानेव॥२।७।४७। (८)

तदेव ज्ञानं भगवतः पदं ब्रह्मेति प्रसिद्धं नच निष्प्रमाणकम्। यद्यतयोविदुः अनुभवन्ति। अजस्रसुखं विशोकञ्च। “यच्चित्ततोदः क्वपया” (१) इत्युक्तम्। शोकविहीनत्वात्। किंकृत्वाविदुः सध्र्यङ् सहचरंचित्तं नियम्य लयविक्षेपाभ्यां निर्वर्त्त्यसहाञ्चतीति सध्यक्। ततो यमकर्त्तहेतिं जह्युः त्यजन्ति। यमश्चित्तवृत्ति यमनप्रयत्नः (२)। स एव कर्त्तृ हेतिः। हृदयग्रन्थिच्छेदनशस्त्रम्। प्राप्तोपेया उपायन्त्यजन्तीत्यर्थः। स्वराड्दरिद्रः सहि स्वस्यराड् न तस्यभृत्योनस्वामी स-यदानिपानस्य जलाशयस्य खननार्थमुपात्तेन खनित्रेण जीवन् धनसञ्चयादिन्द्रः सम्पन्नोभवति। तदा निपान खनित्रं जहाति। एवं संसारी यममभ्यसन् यदा मुक्तो भवति। तदाच यमं जहाति।२।७।४८। (९)

——————————————————————————————————————————————

(१)भागवत २।२।२७। श्लोः।

(२) “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहायमाः—योगदर्शनं २।३० सूः।

देहे स्वधातु विगमेऽनुविशीर्य्यमाणे,
व्योमेव तत्र पुरुषो न विशीर्य्यतेऽजः॥१०॥

सोऽयन्तेऽभिहितस्तात! भगवान् विश्वभावनः।
समासेन हरेर्नान्यदन्यस्मात् सदसच्चयत्॥११॥

इदं भागवतं नाम यन्मे भगवतोदितम्।
संग्रहोऽयं विभूतीनां त्वमेतद्विपुलीकुरु॥१२॥

——————————————————————————————————————————————

यदेतदुक्तं पदं यच्च तस्योपार्जकः स भगवानित्याह। सश्रेयसामिति। योऽपि श्रेयसां पदसाधनानां विभुः सम्पादकः सोऽपि भगवान्। यतः कारणादस्य श्रेयसःप्रसिद्धिर्निष्पत्तिः। सतः सद्रूपात्। भावानां पदार्थानां खभावो ब्राह्मणत्वाद्यसाधारणरूपम्। तेन विहितस्य ब्राह्मणस्येदम् क्षत्रियस्येदमिति विभागेनोक्तस्य सद्रूपश्च स एव। सहि देहे विशीर्य्यमाणे नहिविशीर्य्यते। अजश्चजायमाने नहि जायते। व्योमेव स्वधातूनां देहकारणानां विगमे नाशे। २।७।४९॥(१०)

निराकार महिमानमुक्त्वोपसंहरति।सोऽयमिति।यत्सद् यच्चासत्। तत् सर्वं हरेरन्यन्नभवति।हरिस्तु अस्मादन्य एवेति संक्षेपः २।७।५०।(११)

साकार महिमानं ब्रुवन् चतुर्भिःपूर्वरङ्गमाह। इदमिति। यद् यस्माद्भगवतोक्तं तेन भागवतं प्रोक्तार्थेऽण् (१) विभूतयोलीलावताराःविपुलीकुरु विस्तारय।२।७।५१ (१२)

——————————————————————————————————————————————

(१) पाणिनिः ४।२।६४ सूः।

यथा हरौ भगवति नृणां भक्तिर्भविष्यति।
सर्वात्मन्यखिलाधार इति सङ्कल्प्यवर्णय॥१३॥

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः।
शृण्वतः श्रद्धयानित्यं माययात्मा नमुह्यति॥१४॥

नैवात्मनः प्रभुरयं निजलाभपूर्णो-
मानं जनादविदुषः करुणो वृणीते।
यद्यज्जनो भगवते विदधीत मानम्,
तच्चात्मने प्रतिमुखस्य यथामुखश्रीः॥१५॥

—————————————————————————————————————————————————

यथेति। अनेन वर्णितेन हरौनॄणां भक्तिर्भविष्यतीति सङ्कल्पंमनसि वि(नि)धाय भागवतं यथावद्वर्णय। अत्र हि हरेर्भगवत्त्वं सर्व्वात्मकत्वं सर्व्वाधारत्वञ्चवर्ण्यते। तञ्च भक्तिं द्रढ़यति २।७।५२। (१३)॥

ननुचिदेकरसेवस्तुनि लीलावतारादि मायाद्वारकम्। मायामयस्यच वर्णनेन समीहित सिद्धिः। नहि जलाभासात् पिपासा शाम्यतीत्यतआह मायामिति। अयमर्थः। यद्यपि चरित्रं मायामयं तथापि तच्छ्रद्धया वर्णितम्। श्रुतमनुमोदितं वा मायां निवर्त्तयति। तत्र हेतुःईश्वरस्येति। तथाच शाम्बः “त्वां स्तोष्यामीति” ब्रह्मा नारदम् २।७।५३॥ (१४)

नन्वीश्वरोऽपि चेत्स्वगुणवर्णनेन तुष्यति तर्हि राजादि तुल्यत्वं स्यादत आह। नैवेति। अयं विष्णुः मानं न वृणीते। कुतः निजस्य

**तत् पादशौचं कलिकल्मषापहम्,
स्वधर्म्मविन्मूर्द्ध्न्यदधात् सुमङ्गलम्।
यद्देवदेवो गिरिशश्चन्द्रमौलि-
र्द्दधारमूर्द्ध्नापरया च भक्त्या॥१६॥ **

———————————————————————————————————————————————

नित्य निरतिशयानन्दस्वरूपस्य लाभेन पूर्णत्वात्। पूर्णा अपि क्वचित् परोद्वेगेन उद्विग्ना दृश्यन्ते। अयन्तु न तथा इत्यत आह। करुण इति। तथापि लब्धनिर्वाहार्थमन्यापेक्षयाभाव्यम्। नेत्याह। प्रभुः ईशिता। अविदुष इति। जन एवाज्ञतया तं सापेक्षं मन्यत इत्युक्तम्। ननु सेव्यमानोऽप्ययमखण्डतातिशयश्चेत् किमर्थं सेव्यते इत्यत आह। यद्यदिति। भगवत इति चतुर्थ्याासङ्कल्पस्य तादर्थ्यमुक्तम्। भजनस्य कृतस्यातिशयस्य भगवत्यभावेऽपि तत् प्रीति बुद्ध्या कृतं आत्मनि फलतीत्यर्थः। अतएवविदधीतेत्युक्तम्। नतुविदध्यादिति। मानंपूजारूपम्। आत्मनेपदादेव क्रियाफलस्य कर्त्तृगामित्वे सिद्धे चतुर्थी निर्दोशोऽतिशयार्थः। नन्वन्यार्थंकृतं कथमन्यस्य स्यादिति तत्राह। प्रतीति। प्रतिमुखं मुखप्रतिबिम्बम्। युक्तञ्चेदम्। विष्ण्वात्मनोबिम्ब प्रतिबिम्बत्वात्। प्रह्लादः बालान् ७।९।११॥ (१५)

एवं पूर्व्वरङ्गंकृत्वा पादयोर्महिमानं द्वाभ्यामाह। तत्पादेति। तस्य वामनस्य चरण क्षालनमुदकं। कल्मषं पापं। स्वेषां पित्रादीनाम्। धर्म्मंविप्रपूजारूपं वेत्तीति स्वधर्म्मविद् वलिः। सुमङ्गलतामाह। यदिति। देवदेवत्वादप्राकृतत्वं। गिरिशत्वान्निरपेक्षत्वम्, चन्द्रमौलित्वात् सालङ्कारत्वम्। एवम्भूतोऽपि दधारेति वस्तुशक्तिः। तत् किमवज्ञया धृतवान्। नेत्याह मूद्ध्नेति। नापि व्यलीकेन इत्याह परयेति। शुकः राजानं ८।१८।३८। (१६)

यत्पादयोरशठधीःसलिलं प्रदाय-
दुर्वाङ्कुरैरपि विधासतींसपर्य्याम्।
अप्युत्तमां गतिमसौ भजते त्रिलोकीम्,
दाश्वान विक्लवमनाः कथमात्तिर्मृच्छत्॥१७॥

गायन्ति ते विशदकर्म्मगृहेषु देव्यो-
राज्ञां स्वशत्रुवधमात्मविमोक्षणञ्च।
गोप्यश्च कूञ्जरपतेर्जनकात्मजायाः,
पित्रोश्च लब्धशरणा मुनयो वयञ्च॥१८॥

यद्विश्रुतिः श्रुति नुतेदमलं पुनाति,
पादावनेजनपयश्च वचश्च शास्त्रम्।
भूःकाल भर्ज्जित भगापि यदङ्घ्रि, पद्म-
स्पर्शोत्थशक्तिरपि(भि)वर्षति नोऽखिलार्थान्॥१९॥

———————————————————————————————————————————————

यदिति। यस्य तव पादयोः सतींनिष्कामाम् सपर्य्यांपूजाम्। उत्तमागतिर्मोक्षः। असौ बलिः। पुनः त्रिलोकींदाश्वान् दत्तवान्। ऋच्छेत् प्राप्नुयात्। ब्रह्मा त्रिविक्रमम् ८।२३।२७॥(१७)

अथ चतुर्भिः कीर्तेर्महिमा गायन्तीति। देव्योदेवस्त्रियः। राज्ञ्योजरासन्ध बद्धराज्ञां पत्न्यः। शत्रुर्जरासन्धः आत्मनां आत्मभूतानाम् प्रेयसांविमोक्षणम्। तस्य च वर्त्तिष्यमाणत्वेऽप्यधुनैव गानम्। निष्पन्नत्वेनाध्यवसायात्। गोप्यश्च शत्रोः शङ्खचूड़स्य बधम्। कुञ्जरपतेर्गजेन्द्रस्यमोक्षणम्। सीतायाश्च। पित्रोर्वसुदेवदेवक्योः। उद्धवः श्रीकृष्णम् १०।७१।९॥(१८)

यदिति। यद् विश्रुतिर्यस्य श्रीकृष्णस्य विश्रुतिः कीर्त्तिः। इदं

तद्दशन स्परशानु पथ प्रजल्प-
शय्यासनासन सयौनसपिण्डबन्धः।
येषां गृहे निरय वर्त्मनि वर्त्ततां वः,
स्वर्गापवर्गविरमः स्वयमास विष्णुः॥२०॥

यस्यामलं दिवियशः प्रथितं रसायाम्,
भुमौच ते भुवनमङ्गल दिग्वितानम्।

————————————————————————————————————————————————

जगत्पुनाति विश्रुतिनुता वेदैस्तूता। पयोवचश्च जगत्पुनाति। वचः शास्त्रंश्रीभागवतं वेदरूपत्वेनवा हितोपदेशकत्वात्। भगो भजनीयत्वम्। यदङ्घ्रिपद्म स्पर्शेन उद्भूतशक्ति सर्व्वार्थान् वर्षति १०।८२।२९॥(१९)

तद्दर्शनेति। दर्शनं स्पर्शनञ्च अनुपथःअनुगतिश्च। प्रजल्पोगोष्ठीच शय्याशयनञ्च आसनञ्चअशनंभोजनञ्च। सयौनबन्धः विवाहसम्बन्धः, सपिण्डबन्धः दैहिकसम्न्धः। तेन श्रीकृष्णेनसह दर्शनाद्युपलक्षित सयौनसपिण्डबन्धो येषां वोऽस्ति किञ्च येषां वो यदूनां अनुपथःअनुगमनम्। सयौनं योनिसम्बन्धः। सापिण्ड्यंबन्धः सम्बन्धः येषां युष्माकं तस्य विष्णोर्दर्शनादिलक्षणः। गृहेस्थितानामप्यास, स्वर्गापवर्गयोर्विरामोयस्मात् सम्बन्धात्। स च स्वयं साक्षात् विष्णोवेरास नतु युष्मत् प्रयत्नात् कुरुक्षेत्रेमिलिता56 राजानः १०।८२।३०॥(२०)

मन्दाकिनीति दिवि भोगवतीतिचाधो-
गङ्गेतिचेह चरणाम्बु पुनाति विश्वम्॥२१॥

**इति श्रीवोपदेवविरचिते मुक्ताफले विष्णुप्रकरणं अधिष्ठानम् नाम प्रथमं समाप्तम्। **

**समाप्तश्चतुर्थोऽध्यायः॥ **

—————

———————————————————————————————————————————————

यस्येति। हे भूवनमङ्गल यस्य ते यशो मन्दाकिन्यादि व्याजेन जगत् पुनाति रसा पातालम्। वितानं उल्लोचः। नारदः श्रीकृष्णम् १०।७०।४४॥(२१)।*॥

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां विष्णुप्रकरणम् अधिष्ठानम् नाम
(प्रथमम् समाप्तम्)॥४॥

——————

पञ्चमोऽध्यायः।

अथ विष्णुभक्तिप्रकरणम्।

विष्णुभक्तेर्लक्षणं भेदाश्च।

तस्मात् केनाप्युपायेन मनः कृष्णो निवेशयेत्॥१॥

——————————————————————————————————————————————

एवं विष्णुं प्रपञ्च्य क्रमप्राप्तं भक्ति प्रकरणमारभते। अथेति वो गृहे विष्णोः विष्णुः स्वयमास आविरभूत्। निरय वर्त्मनि प्रवृत्तिमार्गे वर्त्तमानानां स्वर्गापवर्गाभ्यां विरमति। वितृष्णंकरोति। तथा स। ते युयं जन्मभाज इति। यद्वातदिति सामान्य निर्दे्दशः। स इत्यर्थः। स विष्णुः स्वयं येषां वो निरयवर्त्तनि संसारकारणे गृहे वर्त्तमानानां अपि बध्यते। सम्बध्यत इति सम्बन्धः। दर्शनादिभिः सम्बन्धः। सतु स्वर्गापवर्गविरमः।आस परमसुखप्रदो बभुव इत्यर्थः। इति श्रीधरी। तत्रापि भक्तेः सामान्य लक्षणं वक्तुमाह। तत्रेति। तत्र विष्णुभक्तेर्लक्षणंभेदाश्च। तस्मादिति। यस्मात् कृष्णएव कैवल्यप्रदः। यद्वातस्मादुपाय विशेषस्य विवक्षितत्वात्। केनापि विहितेन अविहितेन वा। उपायेन साध्य सिद्ध्यवधृत सामर्थ्येन “ननून्मादादिना कृष्णे सत्त्वोपाधौब्रह्मणि निवेशयेत् स्थिरीकुर्य्यात्। लिङ् निर्दे्दशस्यापि विवक्षितत्वात्। उपाय पूर्व्वं भगवति मनः स्थिरीकरणं भक्तिरिति लक्षणार्थः(१)। नतावदस्यासम्भवः-

——————————————————————————————————————————————

(१) “साचेश्वरे परानुरक्तिर्भक्तिः इति शाण्डिल्य सूः१।१।

—“चतुर्व्विधाभजन्तेमांजनाःसुकृतिनोऽर्ज्जुन” गीता ७। १६ श्लोः।

“पूज्यादिष्वनुराग” इति पाराशर्य्यः“कथादिष्विति गार्ग्यः”

“आत्मरत्या विरोधेनेति”शाण्डिल्यः, “नारदस्तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति”। नारदभक्तिसूत्रम् १६।१९।

सा द्वेधा। विहिता अविहिता च, तत्रविहिता-
देवानां गुणलिङ्गाना मानुश्रविक-कर्म्मणाम्।
सत्व एवैक मनसोवृत्तिः स्वाभाविकी तु या॥२॥

————————————————————————————————————————————————

प्रह्लादादौ सुप्रसिद्धत्वात्। न च कर्म्मक्षयार्थविधिसिद्ध्यर्थयोर्भक्त्योरव्याप्तिः। तयोरपि अन्तःकरणशुद्धिहेतुत्वेन मनोनिवेशहेतुत्वात्। नाप्युन्मादादावभक्तिभूतेहव्याप्तिः। तस्यानुपायत्वेन निरस्तत्वात्।

शुद्धायाम्भक्तावुपायानिर्द्देशादुपायेनेतिलक्षणेनान्तर्भूतमितिशक्यम्। श्रौताभावेऽप्यानुमानिकस्य सम्भवात्। तस्मादनवद्यं लक्षणम्। नारदःयुधिष्ठिरम् ७।२।३१॥ (१)

एवं सामान्य भक्तिं लक्षयित्वा इदानीमुपाय भेदात्तद्विशेषानाह। सेति। सा सामान्यरूपा विहिता वेदोक्ता। देवानिति। देवानां चक्षुराद्यधिष्ठातॄणां सूर्य्यादीनाम्। गुणाएव लिङ्गानि ज्ञापकानि येषां ते तथा। ग्राह्यत्वात् तद्यथा ‘रूप प्रतिपत्ति कारणपूर्व्विका क्रियात्वात् च्छिदिक्रियावद् (१) गुणा एव लिङ्गानि नतु गुणवन्तः। तेषां नाशे दुःखापत्तेः। गुणस्य न नाशः ततोऽन्यत्र भावात्। एवञ्च तत्तद्विशेषत्यागाद् महासामान्ये सत्वएववृत्तिः। आनुश्रविकानि वेदोक्तान्येव कर्म्माणि (२) येषां देवानाम्। तद्यथा चक्षुरादिभिर्विहिताएवरूपादयो ग्राह्या नतुसर्वे। आनुश्रविकान्येव कर्म्माणि नतुदृष्टानि। तेषां फलाभावे दुःखापत्तेः, इतरेषां नफलार्थत्वम्। तन्निवृत्त्यर्थत्वात्। यथोक्तम्

“परोक्षवादोवेदोऽयं बालानामनुशासनम्।
कर्म्ममोक्षाय कर्म्माणि विधत्ते ह्यगदं यथा।”

————————————————————————————————————————————————

(१) सांख्यतत्त्वकौमुदी ५ श्लोः टीः। इन्द्रियानुमानप्रसङ्गे तत्त्वकौमुदी टीका।

(२) गुरुमुखादनुश्रूयते इत्यनुश्रवो वेदःतत्र भवः आनुश्रविकः वेदोक्तकर्म्मकलापः। सांख्यकारिका ५ टीः।

**अनिमित्ता भागवतीभक्तिः सिद्धेर्गरीयसी।
जरयत्याशु या कोशं निगीर्णमनलो यथा॥३॥ **

सा द्वेधा, मिश्रा शुद्धा च। मिश्रा त्रेधा। कर्म्ममिश्रा।१। कर्म्मज्ञानमिश्रा।२। ज्ञानमिश्रा च।३। कर्म्ममिश्रा त्रेधा। राजसी, सात्विकी, तामसीच। तामसीत्रेधा। हिंसार्था, दम्भार्था, मात्सर्य्यार्था च॥४॥

———————————————————————————————————————————————

इति (१)। सत्वएव न रूपादौ। एकमनसः पुरुषस्य देवानाम्। एकत्रैव मनोयस्य नोभयत्र। अयमर्थः। यद्यपि देवानां सत्त्वे सत्वव्यङ्ग्ये च विष्णौ वृत्तिः तथापि मनसो विष्यावेव। सा च स्वाभाविकी स्वभावेन जाता नोन्मादादिना विकारेण ३।२५।३२॥ (२)

अनिमित्तेति। निमित्तेन ख्यातिलाभपूजादिना हीना। भागवतीभगवत इयं भजमान भज्यमानयोर्भगवत्त्वात्। यथोक्तं“सर्वभूतेषु यः पश्ये” (२) दित्यादिना सिद्धेर्गरीयसीकैवल्यादधिका। कैवल्येसुखत्वं। भक्तौतु सुखानुभवः। जरयति नाशयति। कोशं मायावरणम्। निगीर्णंभुक्तमन्नम् अस्याश्च विहितत्वे आनुश्रविक कर्म्मणामिति लिङ्गम्। कपिलः देवहूतिम् ३।२५।३३॥ (३)

अथ विहितायाः प्रभेदानाह, सेति। सा विहिता कर्म्मक्रिया धात्वर्थःज्ञानमात्म विषयः परोक्षोबोधः। हिंसा प्राणवियोजकःव्यापारः दम्भः परवञ्चना। मात्सर्य्यं परोत्कर्षासहिष्णुत्वम्। अभिसन्धायेति। अभिसन्धायोद्दिश्य संरम्भो सक्रोधः। भिन्नदृक्

——————————————————————————————————————————————

(१) भागवतं ११।३।४४ श्लोः।

(२) „ ११।२।४५ „।

**अभिसन्धाय यद्धिंसां दम्भमात्सर्य्यमेव वा।
संरम्भीभिन्नदृग्भावं मयि कुर्य्यात् स तामसः॥५॥
राजसीत्रेधा, विषयार्था, यशोऽर्था,
ऐश्वर्य्यार्था च। **

विषयानभिसन्धाय यश ऐश्वर्प्यमेव वा।
अर्च्चादावर्च्चयेद्योमां पृथग्भावः स राजसः॥६॥
सात्विकीत्रेधा। कर्म्मक्षयार्था, विष्णुप्रीत्यर्था,
विधिसिद्ध्यर्था च।

——————————————————————————————————————————————

मेदं सत्यं मन्यमानः। भावं भक्तिम्। एवं पृथग्भावः। तामसः। तामसभक्तियोगात्। एवं राजसः राजसभक्ति योगात्। एवं सात्विकश्च। भक्तस्वरूप कथनेन भक्तिर्लक्षिता। भक्तिप्रयुक्तत्वात्। भक्तशब्दस्य। तत्राभिसन्धानं कर्म्म। तस्य च हिंसादि विषयत्वात्तामसत्वम्।विहितत्वं (१) श्येनन्यायेन। राजसी त्रेधा। विषयार्था। यशोऽर्था। ऐश्वर्य्यार्थाच। ता एवाह विषयेति। यशः साधुवादः। ऐश्वर्य्यंअप्रतिहताज्ञत्वम्। अर्च्चादाविति तामसे सात्विके च ज्ञेयम् ३।२९।८॥(५।६)

सात्विकी त्रेधा। कर्म्मक्षयार्थाविष्णुप्रीत्यर्था, विधिसिद्ध्यर्था च। कर्म्मेति। कर्म्मपापं। निर्हारः क्षयः। परस्मिन्निति। यदीश्वरे भगवति कर्म्म ब्रह्मनि भावित” (२) मित्यत्रोक्ते भगवदादिरूपे तत्वे। अत्रहि भगवदादयः सत्वगुण त्रिगुणनिर्गुणानां वाचका इत्युक्तम् पर-

——————————————————————————————————————————————

(१) “श्येनेनाभिचरन् यजेत” इति शत्रुवधनिमित्तः अभिचाराख्योयागविशेषः। अर्थसंग्रहः १।१।
(२) भागवतं १।५।३२श्लोकः।

कर्म्मनिर्हारमुदिश्य परस्मिन् वा तदर्पणम्।
यजेद् यष्टव्य मिति वा पृथग्भावः स सात्विकः॥७॥

कर्मज्ञानमिश्रा त्रिधा। उत्तमा। मध्यमा अधमा च। सत्त्वतारतम्यात् तत्रोक्तम्।

———————————————————————————————————————————————

महंस प्रियायाम् (१) यजेत् पूजयेत्। यष्टव्यमिति विधौकृत्य प्रत्यय अयमर्थ चित्तंहि प्रख्या-प्रवृत्ति स्थिति शीलत्वात् त्रिगुणम्। (तत्र) प्रख्यारूपं (२) हि चित्तसत्त्वं भूयसा तमसा संसृष्टं हिंसाद्युपगं भवति। तथा रजसा संसृष्टमैश्वर्य्यादिप्रियं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमान मनुविद्धं रजोमात्रया भगवत्प्रियादिषु धर्म्मेषु प्रवर्त्तते॥” कपिलः देवहूतिम् ३।२९।१०॥ (७)

एवं कर्म्ममिश्रांनवभेदामुक्त्वाकर्म्म ज्ञानमिश्रां त्रिमेदामाह। कर्म्मेति। त्रित्वेहेतुमाह। सत्वेति। अयसर्थःज्ञानं हि सत्वादुत्पद्यते। “सत्वात् संजायते ज्ञान” मिति वचनात् (३)। अतः सत्वस्य प्रकर्ष साम्यापकर्षौ। ज्ञानस्य त्रिरूपत्वात् भक्तेस्त्रैविध्यम्। (४)। अथोक्तमा सर्वेति,सर्व्वभूतेषु स्थितस्यात्मनो जीवस्य भगवत्वत्त्वम्। उत्तमभक्तियोगात्। एवं मध्यम प्राकृतौ। अत्रयः पश्येत्। दर्शनंकुर्य्यादिति कर्म्मादर्शनस्य चात्म विषयत्वं ज्ञानम्। आत्मनश्च

———————————————————————————————————————————————

(१) एतन्नाम्नीश्रीमद्भागवतस्य वेदान्तसम्मता सुप्राचीना टीका। कैवल्यदीपिका च एतदनुसारिणी हेमाद्रीया। तदुक्तंकैवल्यदीपिकाप्रारम्भे चान्ते च हरिलीला-भाष्ये “टीको प्रियां परमहंसजनस्य दृष्ट्वे”ति।

(२) योदर्शनभाष्यं १।२ सूः।

(३) गीता १४।१७ श्लोः।

(४) गीता १४।१८।

**(उत्तमा) **

सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः॥८॥

**(मध्यमा) **

ईश्वरेतदधीनेषु बालिशेषु द्विषत्सु च।
प्रेममैत्री कृपोपिक्षा यः करोति स मध्यमः॥९॥

**(अधमा) **

अर्च्चायामेव हरये पूजां यः श्रद्धयेहते।
न तद् भक्तेषु चान्येषु सभक्तः प्राकृतः स्मृतः॥१०॥

———————————————————————————————————————————————

भगवत्त्वं भक्तिः। उत्तमत्वं चास्याः सर्व्वभूतस्थितैकात्मविषयेणज्ञानेन मिश्रत्वात् ११।२।४५॥ (८)

अथ मध्यमा। ईश्वरेति। अत्रेश्वरादीनां प्रेमादिभिः क्रमात् सम्बन्धः। ईश्वरे प्रेम्ना विषयरागः पराक्रियते। मैत्र्याईर्षा। कृपया गर्व्वः। उपेक्षया द्वेषः। ईश्वरो जगत्कारणं मायोपाधिः पुरुषः। तदधीना ईश्वरार्पितप्राणाः। बालिशा मूर्खाः। अत्रेश्वरस्य जगकारणत्वाद्यनुसन्धानं ज्ञानं तत्र प्रेमभक्तिः। तत्सिद्धये तदधीनादिषु मैत्र्यादिकरणं कर्म्म। अस्याश्च मध्यमत्वमीश्वरस्य सर्वात्मकत्वे नावगमात्॥ ११।२।४६ (९)

अथाधमा। अर्च्चायामिति। ईहतेकरोति।अत्रार्च्चायामेव हरिरस्तीति बोधोज्ञानम्। श्रद्धया तत्पूजनं भक्तिः। तद्भक्तेषु पूजाया अकरणं कर्म्म। अधमत्वञ्चास्यास्तुज्ञानमिश्रत्वात्। हरिः निमिम्॥११।२।४७ (१०)

**सद्गुण श्रुतिमात्रेण मयि सर्व्वगुहाशये।
मनोगतिरविच्छिन्नायथा गङ्गाम्भसोऽम्बुधौ॥११॥ **

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे॥१२॥

———————————————————————————————————————————————

एवं सगुणांभक्तिंनिरूप्य निर्गुणामाह। मदिति। सर्वगुहाशये सर्वात्मनि। गङ्गाम्भ्रोहिमपर्वतैः प्रतिबाध्यमानं मयि यथा समुद्रमेवाभिनिवेशते। तथा विषयैर्विच्छिद्यमानापि मनोवृत्तिस्तानतीत्य विष्णुमेवेति। अविच्छेदे दृष्टान्त उक्तः निर्गुणो ज्ञानमिश्रः।अत्र च निर्गुणत्वं प्रागुक्तानां गुणकार्य्याणामनुपलम्भात्॥ ऐकात्म्यविषयत्वे नोत्तमकर्म्मज्ञानमिश्रयासहाविशिष्टत्वमिति शङ्क्यम्। अत्र पश्येदितिवत् कर्म्मनिर्दे्दशाभावात्। नचात्रापि मनोगतिरिति मनोगमनं कर्म्म। यदृच्छोपस्थितगुणश्रुतिमात्रेण स्वभावत एव मनसः प्रवृत्त्या प्रयत्नेन प्रेषणाभावात्। अत्र मयि मनो गतिरिति भक्तिः। तत्रापि सर्वगुहाशये मयीति ज्ञानमिश्रत्वे बीजम् ॥३।२९। ११ (११)।

एवं मिश्रां भक्तिमुक्त्वाशुद्धामाह। शुद्धेति। अहैतुकीफलाकाङ्क्षारहिता (१)। अव्यवहिता निरन्तरा। अहैतुकोत्वमेवाह। सालोक्येति। यस्यां भक्तौ क्रियमाणायां तुष्टेन भगवता दीयमानमपि सालोक्यादिभक्त्या न गृह्णन्ति। सालोक्यं एकस्मिन् लोके अवस्थानम्। सामीप्यं समीपे अवस्थानम्। सारूप्यं तुल्यरूपप्राप्तिः। सार्ष्टिर्जगत्सृष्ट्यादि वर्ज्जंतुल्यप्रभावत्वम्। एकत्वंचतुर्भुजादिमूर्त्त्यधिष्ठात्रा पुरुषेण सालोक्यम्। उत अहो देवहूते!॥ ३।२९।१३ (१२)

———————————————————————————————————————————————

(१) गीता ५।१२—“युक्तः कर्म्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्” इति।

सालोक्य सार्ष्टिसामीप्य सारूप्यैकत्वमप्युत।
दीयमानं न गृह्नन्ति विना मत्सेवनं जनाः॥१३॥

स एव भक्तियोगाख्य आत्यन्तिकमुदाहृतः।
येनातिव्रज्य त्रिगुणान् मद्भावायोपपद्यते॥१४॥

————————————————————————————————————————————————

अयमात्यन्तिकः ततः परं प्रकारान्तराभावात्। अस्यैव भक्तियोग इत्याख्या इत्याह। (दीयमानमिति)। अन्वर्थत्वेन भक्तिशब्दस्यात्रैव मुख्यत्वात् इतरेषु हि फल एवानुरागो न विष्णौ। फललाभे भक्तित्यागात्। अस्याश्च शुद्धत्वं कर्म्मज्ञानाभ्याममिश्रत्वात्। अथास्य चतुर्द्दशविधस्यापि विहितभक्तियोगस्य फलमाह। येनेति। येन भक्तियोगेन। अतिव्रज्य अतीत्यत्रीन्गुणान् तामसत्वादि भावान्। मद्भावाय ब्रह्मसायुज्याय उपपद्यते योग्यो भवति। अधमभक्तियोगादुत्तमभक्तियोग्यत्वं अकाम्यमानमपि भवतीति सर्वेषामेकमेव फलम्। कालविलम्बकृतो विशेष इत्यर्थः। कपिलःदेवहूतिम्प्रति॥३।२९।१४ (१३)

एवं विहितां चतुर्द्दशभेदामुक्त्वाचतुर्भेदामविहितामाह। अविहितेति। कामोऽत्र परपरिगृहीताया अनूढ़ाया वा स्त्रिया परपुरुषे दुरभिसन्धिः। द्वेषोऽप्रीतिः। भयं त्रासः। स्नेहः कामातिरिक्तः सन्निकर्षाद्रिजः परस्परमकृत्रिमश्चित्तबन्धः। कामादित्यादि। यथा-विहितया भक्त्येश्वरे मनोनिवेश्य केचित्तद्गतिं गच्छन्ति। तथाऽविहितेनापि कामादिना बहवो गता इत्यर्थः। तद्दुरुच्छेदमपि अघं हित्वा त्यक्त्वा। तत्र हेतुरीश्वर इति हेतुगर्भो निर्द्देशः। अयमर्थः। ईश्वरो हि कृपाशालित्वात् प्रभुत्वाच्च कथमेष्वनिविष्टमन्तःकरणम्। अवेक्ष्य भक्तानां फलं प्रसूते। नतूपायविशेषेणैवेति गच्छन्तीत्यकृत्वा

अविहिता चतुर्द्धा। कामजा। द्वेषजा। भयजा।स्नेहजा च॥

कामाद्द्वेषाद्भयात् स्नेहाद् यथाभक्त्येश्वरे मनः।
आवेश्य तदघं हित्वा बहवस्तद्गतिङ्गताः॥१४॥

इति मुक्ताफले विष्णुभक्तेर्लक्षणं भेदाश्च।

———————————————————————————————————————————————

गता इति भूतत्वनिर्द्देशादविहितानुष्ठानेऽपि कृतार्थत्वमुक्तम्। तेनान्येषामिह प्रवृत्तिविशेष इत्यर्थः। अविहितत्वं तस्याः कामादेः स्वभावसिद्धत्वेन विधातुमशक्यत्वात्। अप्राप्तोह्यर्थोविधिगोचरः। (१) “विधिरत्यन्तमप्राप्तौ” इत्युक्तत्वात्। न च ‘मनः कृष्णेनिवेशये’दिति लिङ् प्रत्ययेन विहितत्वात् अविहितत्वंविप्रतिषिद्धमिति शङ्क्यम्। लिङ्निर्देशाविवक्षितत्वस्य दर्शितत्वात्। नापि बहवस्तद्गतिं गता इत्यर्थवादसामर्थ्या अत्रैव विधिकल्पनेति वाच्यम्। आर्थवादिकविधिकल्पनस्याप्यप्राप्तविषयत्वात्। नच गोप्यादिषु साध्यसाधनभावस्य दृष्टत्वाद् विहितत्वम्। न हि गोपीनामीश्वरत्वबोधेन भजनं किन्तु जारत्वेन भजमानानां तासां दैवात् तस्येश्वरत्वान्मुक्तिलाभः। तदुक्तम् (२) “मेव परमात्मानं जारबुद्ध्यापि सङ्गता। जहुर्गुणमयं देहं सद्यः प्रक्षी"बन्धना” इति। ननु यथा गोपादीनां भगवत्सन्निधानात् कामाद्युदयस्तथा चाधुनिकेषु सन्निकर्षा भावेन कामाद्युदयाभावाद्व्यर्थः तदुपदेशः। नैवं इदानीमपि विष्णुस्थूलमूर्त्त्यधिष्ठातरि भगवति कामाञ्चित स्त्रीणां भावबन्धस्य दृश्यमान

———————————————————————————————————————————————

(१) “विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते॥” विधिरसायने, अर्थसंग्रहे च।

(२) भागवतं १०।१६।११ श्लोः।

भक्तिष्वधिकारिणः।

गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो!॥१५॥

————————————————————————————————————————————————

त्वात्। एवमन्यत्र। तस्मात् सिद्धमस्याभक्ते अविहितत्वम्॥१४॥

इति कैवल्यदीपिकायां विष्णुभक्तेर्लक्षण भेदाश्च॥

एवं द्विरूपायामपि भक्तीनां स्वरूपं निष्कुष्य तास्वधिकारिणं कथयितुमाह। भक्तिष्विति। अवान्तरप्रकरणत्वाद् अथशब्दाभावः। तत्राप्युद्दिष्टक्रमानुसारेण विहिताधिकारिषु वाच्येषु प्रत्यासन्नत्वेन बुद्धिस्थत्वाद् अविहिताधिकारिण एव प्रथममाह। गोप्य इति॥ कामादिना गोप्यादयः। वयं नारदादयो भक्त्या विहितया तद्गतिं गता इति पूर्वेणैवान्वयः। नन्वत्र कामादीनां पञ्चानामुपलम्भात् कथमविहितायाञ्चातुर्व्विध्यम्? तत्राह। सम्बन्धादिति। सम्बन्धेन स्नेहोविशेषः। सम्यग् बन्धः चित्तस्य वशीकारो यस्मात् स्नेहात्। निरतिशयादित्यर्थः। यदिहि सम्बन्धस्नेहयोर्भिन्नविषयत्वमुच्येत तदा सम्बन्धस्य वृष्णिषु पाण्डवेषु च कृतार्थत्वात् स्नेहग्रहणानर्थक्यंस्यात्। स्नेहादित्येवोच्यमाने स्नेहाभासेति प्रसत्तिः। तदर्थं सम्बन्धविशेषणम्। यद्वास्नेहेनैव सम्बन्धोविशेषः। स्नेहोऽस्त्यतिशयेन यस्मिन् सम्बन्धे मत्वर्थीयाऽर्शआद्यच् प्रत्ययः(१)। सम्बन्धशब्दस्तु यथास्थितार्थः। अक्रियमाणेऽपि स्नेहग्रहणे दुर्य्योधनादिषु सम्बन्धसद्भावादतिप्रसत्तिः। सम्बन्धादयः स्नेहः। तस्मादिति तु व्याख्याने सम्बन्धग्रहणानर्थक्यम्। कथञ्चित् सम्बन्धस्य सर्व्वत्रसम्भवात्। तस्मात् सम्बन्धस्नेहयोर्विशेषणविशेष्यभावेनैकत्वाद्युक्तम्। चातु-

———————————————————————————————————————————————

(१) पाणिनि ५।२।१२७ सू०।

सम्बन्धात् स्नेहाद्वृष्णयो युयं चेत्येकभक्त्या विहितया वयमित्यत्र विभागः।

निर्व्विण्णानां ज्ञानयोगोन्यासिनामिह कर्म्मसु।
तेष्वनिर्व्विण्णस्मचित्तानां कर्म्मयोगस्तु कामिनाम्॥१६॥

यदृच्छया मत्कथादौ जातः श्रद्धस्तु यः पुमान्।
न निर्व्विण्णोनातिसक्तो भक्तियोगोऽस्य सिद्धिदः॥१७॥

——————————————————————————————————————————————

र्विध्यमेवमेवैतत्। योहि मन्यते। भक्तिव्यतिरेकेन पञ्चानामत्रोक्तिरिति। तन्मते “तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा। स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिद् नेक्ष्यते पृथक्।” (१) इत्येतद् विरुध्यते। अत्र हि निर्वैरशब्देन भक्तिनिर्देशात् भक्तिसहितानामेव पञ्चानामुक्तिः। अथ एवेदमपि युज्यते। (२) “कतमोऽपि न वेणः स्यात् पञ्चानां पुरुषं प्रति” इति। तस्माद् युक्तं व्याख्यातमाचार्य्येण सम्बन्धात् स्नेहात्। वृष्णयोयूयञ्चेत्येकमित्यादिना। नारदःयुधिष्ठिरम्॥७।१।३० (१५)

अथ विहितास्वधिकारिभेदमाह। निर्व्विण्णानामिति। न्यासिनां कर्म्मत्यागिनां मध्ये निर्व्विण्णानां वीतरागाणां (३) ज्ञानयोगःज्ञानमिश्राभक्तिः। तेषु न्यासिषु मध्ये अनिर्व्विण्णानां कर्म्मसु सत्सु ज्ञानयोगः। (कर्म्मज्ञानयोगः)। त्यक्तकाम्यकर्म्मणामप्यतीव्रवैराग्यानां कर्म्मज्ञानमिश्रा भक्तिरित्यर्थः। कामिनां काम्यकर्मासक्तानां तु कर्म्मयोगः कर्म्ममिश्रैवेत्यर्थः। शुद्धभक्त्यधिकारिण

——————————————————————————————————————————————

(१) भागवत ७।१।२५ श्लोः।

(२) भागवत ७।१।३१ श्लोः।

(३) “वीतरागजन्मादर्शनात्” न्यायसूः ३।१।२५ सू०

—“वीतरागभयक्रोधस्थितधीर्मुनिरुच्यते” गीता २।५६ श्लोः।

यएतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान्।
क्षुद्रान् कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते॥१८॥

स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्त्तितः।
विपर्य्ययस्तु दोषः स्याद् उभयोरेषनिश्चयः॥१९॥

एवं सति कर्म्ममिश्रानव गृहस्थानाम्। कर्म्मज्ञानमिश्रास्तिस्रोवनस्थानाम्। ज्ञानमिश्रैका भिक्षू-

——————————————————————————————————————————————

माह। यदृच्छयेति। यद्यपि निष्कामैः कर्म्मभिः शुद्धसत्त्वस्य भगवत्कथादौ श्रद्धास्थात् तथापि साधनसहस्रदुर्लभेति द्योतनाय यदृच्छयेत्युक्तम्। भक्तियोगः श्रद्धाभक्तिः। “स एव भक्तियोगाख्य”(१) इत्युक्तत्वात्॥११।२०।७८ (१६-१७)।

एवमधिकारि भेदं निरूप्य भक्तिहीनान्निन्दति। यत्रतानिति।मत्पथः मत्प्राप्त्युपायान्।भक्तीति। शुद्धाया भक्तिः। ज्ञानेति। ज्ञानमिश्रायाः। ज्ञानक्रियेति। कर्म्ममिश्राया ज्ञानक्रियेति। समस्तेन कर्म्मज्ञानमिश्रायाः कर्म्मज्ञानमिश्रायाः क्षुद्रास्तुच्छाः। कामा विषयाः। जुषन्तः सेवमानाः। संसरन्ति। संसरणं जन्ममृत्यु दुखानुभवः ११।२१।१०॥(१८)

भजमानेष्वपि स्वाधिकारप्राप्त-भूमिकात्यागेन भूमिकोत्तराधिष्ठाने दोषमाह। स्वे स्व इति। उभौ गुणदोषौ। भगवान् उद्धवम् ११।१९।२।(१९)

अथाधिकारि प्रघट्टकार्थं सुखग्रहणाय स्पष्टयति एवमिति। एवं अधिकारिनिर्णये सति तत्रापि प्रकृत्यानुरूपेण सात्त्विक्यादिविभागः

——————————————————————————————————————————————

(१) भागवतं ३।२९।१४ श्लोः।

णाम्।शुद्धैका सर्वेषाम्। उत्पन्नेऽनुरागे(ऽनु) उत्पाद्येऽनु यथासम्मिश्राः। अविहिताश्चतस्रो गोप्यादितुल्यानाम्। एवमष्टादशभेदाः।

**इति श्रीवोपदेवकृते मुक्ताफले भक्तेरधिकारिभेदनिर्णयो नाम पञ्चमोऽध्यायः॥ **

—————————————————————————————————————————————————

स्वयमुह्यः। गृहस्थेष्वपि निष्कामकर्म्मणां कर्म्मज्ञानमिश्रैव विदेह याज्ञवल्क्यादयोह्यत्र निदर्शनम्। भिक्षवोऽत्रपरमहंसाः। अन्येषां नैष्ठिकब्रह्मचारिणाञ्च कर्म्मज्ञानमिश्रैव। शुद्धेति। पूर्व्वपूर्व्वभक्त्यभ्यासबलात् रजस्तमः क्षये विशुद्धोर्ज्जिते सत्त्वोद्बले चेतसि भगवत्यनुरागोदये प्रयत्नमन्तरेण शुद्धा भक्तिराविर्भवतीत्यभिप्रेत्याह। उत्पन्ने तु राग इत्यादि। ततः परमदूरविप्रकृष्टा मुक्तिः। गोप्यादितुल्यानामिति। भगवति प्रभूतकामद्वेषभयोस्नेहासक्तानां अन्येषामित्यर्थः। तदेवं मिश्रास्त्रयोदश। शुद्धैका। अविहिताश्चतस्रः। इत्यभिप्रेत्य “भक्त्यष्टादशभेदया” (१) इति प्रागुक्तमित्याशयवानुपसंहरति एवमित्युक्तप्रकारेण॥

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां भक्तेर्लक्षणभेदाधिकारि-निर्णयोनाम पञ्चमोऽध्यायः॥

—————

—————————————————————————————————————————————————

(१) एतद् ग्रन्थे१।१ श्लोः।

षष्ठोऽध्यायः।

<MISSING_FIG href=”../books_images/U-IMG-1737652718Screenshot2025-01-23224804.png”/>

अथ विष्णुभक्तिमहिमा।

**यावन्नजायेत परावरेऽस्मिन्,
विश्वेश्वरे द्रष्टरि भक्तियोगः।
तावत् स्थवीयः पुरुषस्य रूपम्
क्रियावसाने प्रयतः स्मरेत॥१॥ **

नैष्कर्म्म्यमप्यच्युतभाववर्ज्जितम्,
न शोभते ज्ञानमलं निरञ्जनम्।

———————————————————————————————————————————————

एवं सपरिकरां भक्तिं निरूप्य तत्र मुमुक्षोः प्रवृत्तिविशेषार्थन्तन्माहात्म्यमाह। विष्णुभक्तीति। तत्राप्यष्टादशभिः पूर्व्वरङ्गंविधास्यन् प्रथमेन भक्तेर्गहन(त)त्वमाह। यावदिति। परावरे कार्य्यकारणरूपे अस्मिन् शास्त्रप्रसिद्धे विश्वेश्वरे विश्वस्य प्रथम कारणे द्रष्टरि साक्षित्वेन निष्पादितकार्य्ये भक्तियोगः। तल्लीलाश्रवणादिभिर्व्विना स्थातुमशक्तिः। स्थवीयः षोड़शकलं स्थूलत्वं नामरूपादिमत्त्वम्। तच्चान्यत्रान्यस्मादतिशयितमितीयसून् प्रत्ययः (१)। क्रियावसाने षोड़शोपचारपूजानन्तरम्। प्रयतः पूतचित्तः। एवम्भूतो शक्तियोग इयता प्रबन्धेन निष्पाद्यत इत्यस्य सहसा दुर्ल्लभत्वात् गहनत्वमित्यर्थः। शुकः राजानम्॥२।२।१४ (१)

———————————————————————————————————————————————

(१) पाणिनिः५।३।५७ सूः।

कुतः पुनः शश्वदभद्रमीश्वरे,
न चार्पितं कर्म्मयदप्यकारणम्॥२॥

जुगुप्सितं धर्म्मकृतेऽनुशासतः,
स्वभावरक्तस्य महान् व्यतिक्रमः।
यद्वाक्यतो धर्म्म इतीतरः स्थितो-
न मन्यते तस्य निवारणं जनः॥३॥

———————————————————————————————————————————————

अथ पञ्चभिः कर्म्मयोगाद् भक्तिमुत्कर्षयन् एकेन भक्तिहीनं कर्म्मनिन्दति(१)। नैष्कर्म्यमिति। नैष्कर्म्म्यंज्ञानयोगः। अच्युतभावो विष्णुभक्तिः। कुतो न शोभते यतोऽज्ञानमलम्। अज्ञानं मलो दोषो यत्र तत्तथा। तत्कुतः? यतो निरञ्जनम्। निर्गतमञ्चनं ब्रह्मणो व्यञ्जनं सत्वं यस्मात्तत्तथा। अयमर्थः। नैष्कर्म्म्यंहि ब्रह्मज्ञानं प्रधानम्। तच्च सत्त्वगुणे ब्रह्मण्युपासिते भवति। नेतरगुणे निर्गुणे वा। यदा भक्तिहीनं मनः नैष्कर्म्म्यमपि न शोभते तदा कर्म्मपुनः कुत शोभते न कुतोऽपीत्यर्थः। यतःशश्वदभद्रम्। अनुष्ठाने फले चामङ्गलम्। नचेश्वरेर्पित ‘नारायणाये’ति येनाभद्रत्वहानिः। ननु किं काम्यकर्म्मनिन्द्यते नेत्याह। यदप्यकारणं नित्यं नैमित्तिकञ्च कारणंकामना। नैष्कार्म्म्यमपीत्यपिशब्दात् कर्म्मनिन्दायां तात्पर्य्यम्॥१।५।१२। (२)।

मुमुक्षया जिज्ञासुमुपस्थितं शिष्यंप्रति भक्तेरन्यं वर्णयतो विश्रद्धवञ्चनदोषःस्यादित्याह। जुगुप्सितमिति। जुगुप्सितमधर्म्मसाधनम्। विषयसेवनम्। तत्रैव स्वभावेन रक्तस्य धर्म्मकृते धर्म्माय योऽनुशास्ति

———————————————————————————————————————————————

(१) “भक्त्यात्वनन्यया शक्यःअहमेवंविधोऽर्जुन!”। गीता ११।५४।

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-
र्भजन्नपक्वोऽथ पतेत्ततो यदि।
यत्रक्व वा भद्रमभूदमुष्य किम्,
कोवार्थ आप्तोऽभजतां स्वधर्मतः॥४॥

तस्यैव हेतोः प्रयतेत को विदो-
न लभ्यते यद् भ्रमतामुपर्य्यधः।

————————————————————————————————————————————————

तस्य महान् व्यतिक्रमः। यस्याप्तत्वेन गृहीतस्य वाक्यादधर्म्मोऽपि धर्म्मोऽयमिति निश्चित्य स्थितः। इतरःप्राकृतोजनः। तस्यान्यथा ग्रहणस्य निवारणमन्यैः क्रियमाणं नमन्यते। तस्योपदेष्टुरयंदोषः। तदुक्तम् “कामिनो वर्णयन् कामान् लोभंलुब्धस्य वर्णयन्। नरः किंफलमाप्नोति कूपेऽन्धमिव पातयन्” इति १।५।१५॥ (३)

कश्चिद्विष्णु लीला श्रवणादेःसाकारोपासनस्यान्तरङ्गस्य बहिरङ्गेनाग्निहोत्रादिना व्यवधानंमाभूदिति स्वधर्म्मंत्यजति। कश्चित्तु नित्याकरणे प्रत्यवायभयादीश्वरार्पणेत्वयथावत्कृतंस्यादिति च भक्तियोगं त्यजति। तयोः प्रथमः श्रेयानिति आह। त्यक्त्वेति। अपक्वःसाधकः। अन्त्यभूमिकामप्राप्तः। अथ नित्याकरण प्रत्यावायादनन्तरम्। ततः स्थानाद् यत्रक्वचन स्थाने यदिपतेत्। अमुष्यपतितस्य किमभद्रमभूत् न किमपीत्यर्थः। विष्णुभक्ति-वासना सद्भावादिति भावः। अभजता भक्तिहीनेन स्वधर्म्मतःकोवा अर्थःप्राप्तः नकोऽपीत्यर्थः। विषय सुखे प्राप्तेऽप्यनर्थत्वादित्यर्थः १।५।१७॥ (४)

अनर्थत्वमेवाह। तस्यैवेति। हेतोरिति। सप्तम्यर्थे षष्ठी।यत्स्वतः सुखं भ्रमद्भिर्नलभ्यते। कारकोऽस्य शेषत्वविवक्षायां

**तल्लभ्यते दुःखवदन्यतः सुखम्,
कालेन सर्वत्र गभीररंहसा॥५॥ **

**नवैजनो जातु कथञ्चनाव्रजे-
न्मुकुन्दसेव्यन्यवदङ्गसंसृतिम्।
स्मरन् मुकुन्दाङ्घ्युपगूहनं पुन-
र्विहातुमिच्छेन्नरस ग्रहोजनः॥६॥ **

श्रेयः सृतिं भक्तिमुदस्य ते विभो!
क्लिश्यन्ति ये केवलबोधलब्धये।!

——————————————————————————————————————————————

षष्ठी(१)। तदर्थं प्रयतेत। यत्त्वन्यतः विषयजन्यं मुखं तत् सर्व्वत्र लभ्यते। नहि दुखं केनापि प्रार्थ्यते। तत्र हेतुः काले नेति। गभीररंहसा दुर्लक्ष्यवेगेन १।५।१८॥ (५)

त्यक्त्वेति श्लोके स्वधर्म्म त्यागेन भजतः पतनमभ्युपेत्याभद्रत्वहानिमुक्त्वाइदानीं तु पतनमेव नास्तीत्याह। नवै इति। कदाचित्। प्रमादेनापि संसृतिं नाव्रजेत। अन्यवद् भक्तिहीन स्वधर्म्मनिष्ठवत्। स यथा स्खलित स्थानाच् च्यवते। तथा नायमिति व्यतिरेके दृष्टान्त। अङ्ग अहो व्यास। उपगूहनं मानसालिङ्गनम्। उपगूहनं मानसालिङ्गनम्। रसे रसवति वस्तुनि ग्रहो आग्रहो यस्य स तथा अतएव कथञ्चिद्विस्मृतमपि भक्ति सुखं पुनर्झटिति स्मरति। अतएव न च्यवते। नारदो व्यासम् १।५।१९॥ (६)

अथ पञ्चभिर्ज्ञानयोगाद् भक्तिमुत्कर्षयन् तत्रैकेन भक्तिं विना आत्मसाक्षात्कारो नभवतीत्याह श्रेयः सृतिमिति। श्रेयः सृतिं मुक्ति-

———————————————————————————————————————————————

(१) पाणिनिः २।१।५० सूः।

**तेषामसौ क्लोशल एव शिष्यते,
नान्यद् यथा स्थूलतुषावघातिनाम्॥७॥ **

**अथापि ते देवपदाम्बुजद्वय-
प्रसादलेशानुगृहीत एव हि।
जानाति तत्त्वं भगवन्महिम्नो-
न चान्य एकोऽपि चिरं विचिन्वन्॥८॥ **

**ज्ञाने प्रयासमुदपास्य नमन्त एव,
जीवन्ति सन्मुखरितां भवदीयवार्त्ताम्।
स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभि-
र्येप्रायशोऽजित-जितोऽप्यसितस्त्रिलोक्याम्॥९॥ **

———————————————————————————————————————————————

मार्गम्। उदस्य त्यक्त्वाक्लिस्यन्ति। शम दमादीन् अनुतिष्ठन्तः श्राम्यन्ति। केवलो बोधोब्रह्मज्ञानम्। क्लेशलः श्रम एव शिष्यते नतुज्ञानम् स्वार्थे लच् प्रत्ययः। मत्त्रर्खीयानामपि स्वार्थिकत्वं। (भु) द्रुमादिवत् १०।१४।४॥ (७)

ननु ज्ञानानामेव कार्त् स्न्येनानुष्ठानाज् ज्ञानं भविष्यति। किं भक्त्या उपाधिज्ञानाङ्गानुष्ठानेऽपि हि निश्चितं भक्तिस्तु(श्रु)ति मात्रम्। अन्यः भक्ति त्यागेनापि ज्ञानेप्सुः। “एकोविजनस्थः विचिन्वत् आत्मानं पश्यन्”अयमर्थः। तथा साकार भजनेऽनायासेन तत्त्वाधिगमो नैवंसहसा निराकारप्रवेशे। तस्य बहूक्लेशसाध्यत्वात्। तदुक्तम् “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्”57 इति। तस्मात् साधनान्तरे श्रमंहित्वा जिज्ञासुना भक्तिवेरानुसर्त्तव्येत्याह, ज्ञान

पुरेहभूमन् बहवोऽपि योगिन-
स्त्वदर्पितेहा निजकर्म्मलब्धया।
विबुध्यभक्त्यैव कथोपनीतया,
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम्॥१०॥

तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम्।
हृद्वाग्वपुर्भिर्व्विदधन्नमस्ते,
जीवेत यो मुक्तिपदे स दायभाक्॥११॥

———————————————————————————————————————————————

इति। ज्ञाने ज्ञानविषये प्रयासं श्रमाद्यनुष्ठानं हित्वा भवदीयानां विष्णुभक्तानां वार्तांकथां नम(य)न्तः (मानवाः) श्रवणादिभिराद्रियमाणा एव जीवन्ति। नान्यत्कुर्व्वन्ति सन्तोमुखरिता यया वाचंयमा अपि सन्तः कथासौन्दर्य्याद्वाचालतां भजन्तीत्यर्थः। स्थानएवस्थिताः। नतुतीर्थविशेषे। श्रुतिः “कर्णवेदश्चअस ——— इति संशय वचन मुक्ति विशेषार्थम्। यद्यपि तमन्यै रजितः। तथापि कथारूप मर्म्मज्ञानाद् भक्तैर्ज्जितो वशीकृतोऽसि— — ज्ञातोऽसीत्यर्थः १०।१४।३॥(९)

ऊक्तेऽर्थे सदाचारं प्रमाणयति। पुरेति। हेभुमन् व्यापिन् योगिनोऽपि इत्यपि शब्दाद् योगेन विलम्बितां सिद्धिमालोक्य भक्तिश्रिता इत्युक्तम्। त्वदर्पितेति विशेषणत्रयेण तत्तु वाङ्मनोभिरित्येतद्विवृतम्। तत्र ईहामनश्चेष्टेति। मनसो व्यापार उक्तः। निजकर्म्मेति कायस्य, कथेति वाचः। उपनीता निकटीकृता भक्त्यैव न साधनान्तरेण। विबुध्य ब्रह्माऽस्मीति निश्चयेन ज्ञात्वा।

केचित् केवलया भक्त्या वासुदेवपरायणाः।
अघंधुन्वन्ति कार्त्स्नेन नीहारमिव भास्करः॥१२॥

न तथाह्यघवान् राजन् पूयेत तप आदिभिः।
यथा कृष्णार्पित-प्राणस्तत्पुरुष-निषेवया॥१३॥

———————————————————————————————————————————————

अञ्जः सुखेन परां गतिं यतः परांगम्यं नास्ति। तेअच्युतस्य गतिम्। अच्युतस्थानम्॥१०।१४।५ (१०)

एवं ज्ञानयोगादुत्कर्षमुक्त्वोपसंहरति। तदिति। तत् तस्मादात्म कृतं स्वकर्म्मविपाकं विविधफलंभुञ्जान एव नत्वन्यान्यारभमाणः। दायभागिति वाचोयुक्त्या मुक्तेर्दायवदनपह्वुवनीयत्वाद् आवश्यकत्वमुक्तम्। ब्रह्मा श्रीकृष्णम्॥१०।१४।८ (११)

ननु किं भक्त्या प्रायश्चित्तैरेव पापक्षयात् सत्त्वशुद्धौ ज्ञानमुदेष्यतीति चेत्तत्राह। केचिदिति। केचित् केवला प्रायश्चित्तनिरपेक्षा कार्त्स्नेनेति। यथा प्रायश्चित्तभेदाद्भिन्न(भिन्न)पापक्षयःनैवमत्रेत्युक्तम्। भक्तिस्त्वैकैवसर्वपापक्षये क्षमेत्यर्थः। तदेव दृष्टान्तेन व्यङ्ग्या। व्यङ्गया। नीहारं हिमम्॥६।१।१५ (१२)

प्रायश्चित्तैःसावशेषाशुद्धिः(१)। भक्त्या तु पुनः पापप्रवृत्तिनिवारणादात्यन्तिकीत्याह। न तथेति। हे राजन् परीक्षित्! आदिशब्दाज् जनपदान् तीर्थादयः। प्राणो जीवनम्। तत्पुरुषेषु वैष्णवेषु निषेव्या। वैष्णवो हि मुख्यमधिष्ठानं विष्णोः। न चाधिष्ठानंविना भक्तिः॥६।१।१६ (१३)।

———————————————————————————————————————————————

(१) “प्रायश्चित्तानि पापक्षयमात्रसाधनानि चान्द्रायणादीनि”। वेदान्तसारः १।१।४।

सध्रीचीनोह्ययं लोके पन्थाः क्षेमोऽकुतोभयः।
सुशीलाः साधवो यत्रनारायण-परायणाः॥१४॥

प्रायश्चित्तानि चीर्णानि नारायण पराङ्मुखम्।
न निष्पुणन्ति राजेन्द्र! सुराकुम्भमिवापगाः॥१५॥

एतावतालमघनिर्हरणायपुंसाम्,
संकीर्त्तनं भगवतो गुणकर्म्मनाम्नाम्।
विक्रुश्य पुत्त्रमववान् यदजामिलोऽपि,
नारायणेति म्रियमाण इयाय मुक्तिम्॥१६॥

————————————————————————————————————————————————

किञ्च प्रायश्चित्तेभ्यो भक्तिरविघ्नेत्याह। सध्रीचीन इति। सध्रीचीनःयत्र भक्तिमार्गे साधवः साधन भूताः साधनवैगुण्याद्विघ्नः॥६।१।१७ (१४)

इतोऽपि तेभ्यो भक्तिर्विशिष्टेत्याह। प्राय इति। न निष्पुणन्ति। निश्चयेन न पवित्रयन्ति। नारायणपपाङ्मुखं यथा स्यात्तथा चीर्णानि। अयमर्थः। भक्तिहीनैःप्रायश्चित्तैर्ज्ञानपूर्वेषु पापेषु न कर्म्मक्षयः। किन्तु व्यवहार्य्यत्वमात्रम्। तत्सहितै स्तयैवादयमपीति भक्तेर्विशिष्टम्। अतएव बहिः शुद्धिः प्रायश्चित्तैरन्तःशुद्धिस्तु भक्त्यैवेति दृष्टान्तेन व्यञ्जितम्॥६।१।१८ (१५)

भक्त्यैव सर्व्वपापक्षय इत्यत्र निदर्शनमाह। एतावतेति। गुणाः सौन्दर्य्यादय। कर्म्माणिसृष्ट्यादीति। नामानि नारायणादीनि एषामन्यतमस्य संकीर्त्तनं पापक्षयाय समर्थं इत्येतावताऽनेनैव ज्ञातव्यम्। यदजामिलोपि मुक्तिमवाप। अजाभिं अकुलीनां स्त्रियं दासीं लाति गृह्नातीति अजामिलः। सोऽपीत्यपिशब्दार्थः। नारायणेति

प्रायेण वेद तदिदं न महाजनोऽयम्,
देव्याविमोहितमतिर्वतमाययालम्।
त्रय्यां जड़ीकृतमतिर्मधुपुष्पितायाम्,
वेतानिके महतिकर्म्मणि युज्यमानः॥१७॥

एवं विमृश्यसुधियो भगवत्यनन्ते,
सर्वात्मना विदधते खलु भावयोगम्।
ते मे न दण्डमर्हन्त्यथयद्यमीषाम्
स्यात्पातकं तदपि हन्त्युरुगायवादः॥१८॥

ते देवसिद्धपरिगीत पवित्रगाथा-
ये साधवः समदृशो भगवत्प्रपन्नाः।

————————————————————————————————————————————————

विक्रुश्य। सम्यक् कीर्त्तयित्वा तच्च पुत्त्रंविक्रुश्य न तु हरिम्। किञ्चाघवानशुचिरपि अस्वस्थचित्तोपि म्रियमानः॥६।३।२४ (१६)

नन्वेवञ्चेत् किमिति सर्वे भक्तिमेव नानुतिष्ठन्तीत्यत आह। प्रायेणेति। तदिदं भक्तिमाहात्म्यम्, मधुना मधुरेणार्थवादेन पुष्पिता फलाशामात्रदा न तु कदाचित् फलिता। वैतानिके (१) यज्ञसम्बन्धिनि महति बहुक्लेशे मायामोहितत्वेन श्रद्धाजाड्यादधर्म्मेषु प्रवर्त्तन्ते। न तु भक्तावित्यर्थः॥६।३।२५ (१७)

अमोहितास्तु भक्तिमेवानुतिष्ठन्ति इत्याह, एवमिति। भावो भक्तिः। सेयमस्य अथापि प्रमादेनेत्यर्थः। उरुगायो विष्णुः। वादः संकीर्त्तनम्॥६।३।२६ (१८)

————————————————————————————————————————————————

(१) आश्वलायन श्रौतसूत्रम् १।२।५।

तान्नोपसीदतहरेर्गदयाभिगुप्तान्,
नैषां वयं न च वयः प्रभवामदण्डे॥१९॥

तानानयध्वमसतो विमुखान् मुकुन्द-
पादारविन्दमकन्दरसादजस्रम्।
निष्किञ्चनैःपरमहंसकुलैरसङ्गै-
र्जुष्टाद् गृहे निरयवर्त्मनि बद्धतृष्णान्॥२०॥

जिह्वानवक्ति भगवद्गुण नामधेयम्,
चेतश्च न स्मरति तच्चणारविन्दम्।
कृष्णाय नोनमति यच्चिर एकदापि,
तानानयध्वमसतोऽकृत विष्णु कृत्यान्॥२१॥

**पानेन ते देव कथा सुधायाः,
प्रवृद्ध भक्त्या विशदाशयाये। **

———————————————————————————————————————————————

एवं पूर्वरङ्गं कृत्वा भक्तस्तुतिद्वारा भक्तिसामान्यं स्तौति। ते देवेति। नोपसीदत समीपं मागच्छत। भयं कालः॥६।३।२७ (१९)

तर्हि कान् प्रति प्रतिगन्तव्यमिति तानाह। तानानयध्वमिति। ताननुभूतान्। असकृदत्रागमनात्। अनुभूतवाची तच्छब्दोयच्छब्दं नापेक्षत इति प्रागुक्तम्। अजस्रं जुष्टात्॥६।३।२८ (२०)

वैमुख्यमेवदर्शयति। जिह्वेति। गुणं सत्त्वादिकमधिकृत्य प्रवृत्तंनाम यद्येषाम्। यमः स्व दूतान्॥६।३।२९(२१)

ननु सांख्ययोगाभ्यासबलाद् विविक्त प्रकृतिपुरुषस्य मृत्युभयं न भविष्यति किं भक्त्या तत्राह। द्वाभ्यां पानेनेति। प्रथमं कथा सुधापानम्। ततः कथानायके भक्तिः। ततोऽन्यत्र वैराग्यम्। ततः

वैराग्य सारं प्रति लभ्यबोधम्,
यथाञ्जसान्वीयु र्विकुण्ठ्यधिष्ण्यम्॥२२॥

तथापरेचात्म समाधियोग-
बलेन जित्वा प्रकृतिं बलिष्ठाम्।
तामेव धीराः पुरुषं विशन्ति,
तेषां श्रमः स्यान्न तु सेवया ते॥२३॥

अहो ममामीवितरन्त्यनुग्रहम्,
हरिं गुरुं यज्ञ भुजामधीश्वरम्।
स्वधर्मयोगेन यजन्ति मामका-
निरन्तरंक्षौणितले दृढ़व्रताः॥२४॥

—————————————————————————————————————

कथानायकस्वरूषज्ञानम्, ततः समाधिः। अविक्षिप्तचित्तत्वं तदर्थं योगः स्वपदः प्राप्तिः॥३।५।४६। (२२)
यथायं मार्ग (१) स्तथाऽन्योऽपीत्याह। आत्मनः (स्वस्य समाधिरविक्षिप्तचित्तत्वं तदर्थं योगो) यमनियमादिसेवा58। तद्बलेन प्रकृतिजयः। ततस्तद्रहित पुरुषप्राप्तिः।अनयोर्मार्गयोर्म्मध्ये द्वितीयेश्रमः। तत्त्वानि विष्णुम्॥३।५।४७। (२३)

एवं भक्ति सामान्यं स्तुत्वा तद्विशेषान् स्तुवानः सात्त्विकी स्तिस्रस्त्रिभिः स्तौति। अहो इत्यादिना। अहोसभ्याः, मम पृथोः।

—————————————————————————————————————

(१) “ विक्षिप्ते चेतसि विक्षेपोपसर्ज्जनीभूतः समाधिर्योग पक्षे नवर्त्तंते।” अतो योगोऽविक्षिप्त चित्तत्वं सन्ततं भगवदेकनिष्ठा इत्यर्थः। योगदर्शन १।२ सूःभाः ।

मन्ये धनाभिजनरूप तपः श्रुतीजः,
तेजः प्रभावः बलपौरूषबुद्धियोगाः।
नाराधनाय हि भवन्ति परस्य पुंसो-
भक्त्या तुतोष भगवान् गजयूथपाय॥२५॥

विप्राद् द्विषड़गुण युतादरविन्दनाभ-
पादारविन्दविमुखाच्छपचोवरिष्ठम्।
मन्ये तदर्पित मनोवचने हितार्थ-
प्राणं पुनाति सकुलं नतु भूरिमानः॥ २६ ॥

——————————————————————————————————————————————

अमीमहेशवासिनो यजन्ति पूजयन्ति। अत्र मध्वधर्म्मेति विधिसिद्ध्यर्थास्तुता पृथुः सभ्यान्॥४।२१।३६। (२४)

अभिजनः कुलम्। तपः कृच्छ्रादि। श्रुतं शास्त्रम्। ओजोमनः पाटवम्। तेजः कान्तिःप्रभावः शौर्योष्मा।बलं देहसौष्ठवम्।पौरुषं सम्भावना। वुद्धिर्म्मत्वशक्तिः। योग उद्यमः हि यस्मात् धनादिहीनाय गजयूथपाय गजेन्द्राय तुतोष। अत्रकर्म्मजयार्था। गजोहि कर्म्मक्षयार्थंस्तुतवान्॥७९।९।(२५)

हिषड् द्वादशगुणाः। धनाभिजनादयः। यद्वा (१)“शमोदमस्तपशौवं क्षान्त्यार्ज्जव विरक्तताः। मौन-विज्ञान सन्तोष सत्यास्तिक्येद्विषभ्गुणाः।” इत्यत्रोक्ताः। षड़गुणा इति पाठ यजनादयः(२)।श्वपचमन्त्यजम्। ईहितं कायचेष्टा अर्थः पश्वादि।

——————————————————————————————————————————————

(१) श्रीमद्भागवतसप्तमस्कन्धीय नवमाध्याय-दशमश्लोकटीकायां श्रीधरस्वामिधृतमहाभारतवचनम्।

(२)“अध्ययनमध्यापनं यजनं याजनन्तथा। दानं प्रतिग्रहञ्चैव षट्कर्म्मान्यराजन्मदानं॥” मनुसः १।८८।

देवर्षि भूताप्त नृृणां पितृणाम्,
न किङ्करोनाय मृणौ च राजन्!।
सर्व्वात्मना यः शरणं शरण्यम्,
गतो मुकुन्दं परिहृत्य कर्त्तम्॥२७॥

स्वपाद मूलं भजतः प्रियस्य,
व्यक्त्वान्यभावस्य हरिः परेशः।
विकर्म्म्य यच्चोत्प्रतितं कथञ्चि-
द्धुनोति सर्वं हृदि सन्निविष्टः॥२८॥

——————————————————————————————————

प्राणोजीवनम्। स श्वपचः। भूरिमानो बहुगर्व्वोविप्रः। अनेन विष्णु प्रीत्यर्था अवहि वाक्ये सर्व्वस्य भगवदर्पणे तात्पर्य्यम्। प्रह्लादोनृसिंहम्॥७।९।१०। (२६)

अथ कर्म्मज्ञानमिश्रां द्वाभ्यां स्तुवन् तत्कर्त्त विधि निषेधातीततां दर्शयति। देवेति। ….प्तनृणां अवसरे प्राप्तानामतिथीनामित्यर्थः। वैश्वदेव(१) ब्रह्मयज्ञ भूतबल्यतिथि पूजा नित्य श्राद्धाख्य पञ्च महायज्ञ करनेन देवादीनां नायमधीनःनाप्यकरने ॠणी। सर्वात्मना सर्वभूतेषु भगवद्भाव दर्शनेन कर्त्रभेदं ‘कृतीच्छेदने’ इत्यस्यरूपम्॥११।५।४१। (२७)

विध्यतीततामुक्त्वानिषेधातीता माह। स्वपादेति। अन्यभावो भेदबुद्धिः। विकर्म्मपापम्। उत्पतितं अकस्माद्घटितम्।

——————————————————————————————————

(१) “पाठो होमश्चातिथीनां सपर्य्या तर्पणं बलिः।
एतेपञ्चमहायज्ञा ब्रह्म यज्ञादि नामकाः॥” स्मृतिः। मनुः ३।७०॥

(२) “कृतीच्छेदने” इत्यस्माद्धातोः ‘कर्त्तम् इतिरूपम् (श्रीधरः)।

**शुद्धि नृणां नतथेड्य दुराशयानाम्,
विद्याश्रुताध्ययनदानतपक्रियाभिः।
सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध-
तच्छ्रद्धया श्रवण संभृतया यथास्यात्॥२९॥ **

**तेनाधीत श्रुतिगणा नोपासीत महत्तमाः।
अब्रतास्तप्त तपसः सत्सङ्गान्मामुपागताः॥३०॥ **

वाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः।
प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते॥३१॥

———————————————————————————————————

कथञ्चित् प्रमादेन। ननु निष्कामस्य भजनं नतु पापक्षयार्थं इत्यत आह हृदिसन्निविष्ट इति। वस्तुसामर्थ्यादित्यर्थः। करभाजनः निमिम्॥११।५।४२। (२८)

वस्तुसामर्थ्यमेवाह। शुद्धिरिति। हे ईड्यस्तुत्य! विद्या वैश्वानराद्युपासना।59 श्रुषं शास्त्रम्। अध्ययनं वेदाक्षर ग्रहणम् दानं हिरण्यादेः सत्पात्रेऽर्पणम्। जपोमन्त्रावृत्तिः। क्रिया अग्निहोत्रादि कर्म्म। सत्वात्मनां ऋषभः सात्त्विक श्रेष्ठः विशुद्धोर्ज्जित सत्त्वकारणात्। ब्रह्माद्याः श्रीकृष्णम्॥१२।६।९(२९)

उक्तेऽर्थे निदर्शन माह। तेनेति। ते दैत्यादयः। अब्रताश्चते अतप्त तपस च। श्रीकृष्णउद्धवम् ११।१२।७। (३०)

अस्याञ्चप्रवृत्तायां विषयाद्यनर्थश्च शाम्यतीत्याह। वाध्येति द्वाभ्याम्। भस्मसात् करोति कास्न्येन भस्मीकरोति। कृस्नशः स संस्काराणि ११।१४।१८। (३१)

यथाग्निः सुसमृद्धार्च्चिः करोत्यधांसि भस्मसात्।
तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः॥३२॥

न साधयति मां योगो न साङ्ख्यं धर्म्म उद्धव!।
न स्वाध्यायस्तपस्त्यागो यथाभक्तिममोर्ज्जिता॥३३॥

भक्त्याऽहमेकया ग्राह्यः श्रद्धयात्मा प्रियः सताम्।
भक्तिः पुनाति मन्निष्ठाश्वपाकानपि सम्भवात्॥३४॥

संसार सिन्धुमतिदुस्तरमुत्तितीर्षो-
र्नान्यः प्लवो भगवतः पुरुषोत्तमस्य।
लीलाकथा रस निषेवनमन्तरेण,
पुंसो भवेद्विविधदुःखदवार्द्दितस्य॥३५॥

——————————————————————————————————————————————————————————

  • *अथ ज्ञानमिश्रां त्रिभिः स्तौति। न साधयतीति। न साधयति न वशीकरोति। “योगः चित्तवृत्तिनिरोधः60” साङ्ख्यं प्रकृति-पुरुष-विवेकः61 धर्मो नित्यनैमित्तिकानुष्ठानम्। स्वाध्यायो मन्त्रजपः62तपः पराकादि। त्यासः सन्न्यासः ऊर्ज्जिता उत्कटाः ११।१४।२०। (३२)

अपि सम्भ्रवात्सम्भवादपि। सम्भूतमात्रापि पुनाति। किं पुनः प्रौढ़ा? श्वपाकोऽन्त्यजः। श्रीकृष्ण उद्धवः ११।१४।२१। (३३)

अन्तरेण विना। दावोवनवह्निः। अत्रोर्ज्जितैका लीलाकथेति

अकामः सर्वकामोवा मोक्षकाम उदारधीः।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम्॥३६॥

यत्पाद पङ्कज पलाश विलास भक्त्या,
कर्म्माशयं ग्रथित मुद्ग्रथयन्ति सन्तः।
तद्वन्नरिक्तमतयो यतयोऽपिरुद्धः,
स्रोतो गणास्तमरणं भज वासुदेवम्॥३७॥

नालं द्विजत्वं देवत्वं ऋषित्वं वाऽसुरात्मजाः।
प्रीण्णनाय मुकुन्दस्य नवृत्तं न बहुज्ञता॥३८॥

———————————————————————————————————————————————

पदानि ज्ञानमिश्रत्वेबीजम्। शुकः राजानम् १२।४।४०॥ (३४-३५)

अतःपरं शुद्ध भक्तिं स्तौति। अकाम इति। अकामोभक्तिमात्रकामः। सर्वेषु उक्तानुक्तेषु कामोयस्य। भक्तियोगः श्रद्धा-भक्तिः परं पुरुषं विष्णुम्। शुकः राजानम् २।३।१०। (३६)

मुक्तिकामस्तु विशेषतो भक्तिमेवाद्रियते इत्याह। यत्पादेति। पलाशं दलम्। अङ्गुल्या अवयवः। विलासः सौन्दर्य्यम्। कर्म्मण्याशेरतेऽस्मिन्निति कर्म्माशय श्चित्तम्। ग्रथितं गुम्फितम्। उद्ग्रथयन्ति त्रैगुणं ग्रन्थिं भिन्दन्ति। रिक्तमतयः सोऽस्मीति भावुकाः। स्रोतः इन्द्रियम्। तद्वन्नोद्ग्रथयन्ति। यद्वत्पूर्णमतयः तं प्रपद्य(न्तइति)। भावुकाः। भेदभावनायां ज्ञेयं पृथगस्तीतिमते; पूर्णत्वम्। अभेदभावनायान्तु ज्ञातैवेति रिक्तता। अरणं शरणम्। कुमाराः पृथुम् ४।२२।३९॥ (३७)

न चास्या मन्येष्विव वृत्तजात्याद्येव प्रयोजकमित्याह। नालमिति। हे असुरात्मजाः! दैत्यपुत्राः वृत्तं सदाचारः ७।८।५१॥ (३८)

न दानं न तपोनेज्या नशौचं न व्रतानिच।
प्रीयतेऽमलयाभक्त्या हरिरन्यद्विरम्बनम्॥३९॥

**रायः कलत्रंपशवः सुतादयो-
गृहामही कुञ्जर कोष भूतयः।
सर्वेऽर्थकामाः क्षणभङ्गुरायुषः,
कुर्व्वन्ति मर्त्तस्य कियत् प्रियञ्चलाः॥४०॥ **

एवंहि लोकाः क्रतुभिः कृता अमी,
क्षयिष्णवः सातिशया न निर्म्मलाः।
तस्माददृष्ट श्रुत दूषणं परम्,
भक्त्योक्तयेशं भजतात्म लब्धये॥४१॥

भयन्द्वितीयाभिनिवेशतः स्या-
दीशादपेतस्य विर्य्ययोऽस्मृतिः।
तन्माययातोबुध आभजेत्तम्,
भक्त्यैकयेशं गुरुदेवतात्मा॥४२॥

—————————————————————————————————————————

व्रतानि हरिदिनोपवासादीनि। अमला शुद्धा तया। विडम्बनं जीवनाय नटनम ७।८।५२॥ (३९)

ननु किं भगवत् प्रीत्या दृष्ट श्रुतविषयैरवात्म-प्रीतिर्भविष्यतीति तत्राह। द्वाम्यांराय इति। रायोधनानि। भूतिरैश्वर्य्यम्। कामाः कामसाधनानि। क्षणभङ्गुरायुषोमर्त्त्यस्य। यतश्चलाश्चपलाः (परोत्कर्षादसूयकाः)। प्रह्लादः बालान् ७।८।३९।४०। (४०-४१)

एकया इत्युक्तम्। तत्र हेतुमाह। भयमिति। द्वितीये

भक्तिःपरेशानुभवो विरक्ति-
रन्यत्रचैषत्रिकएककालः।
प्रपद्यमानस्य यथाश्नतःस्यु-
स्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम्॥४३॥

इत्यच्युताङ्ग्रिभजतोऽनुवृत्त्या,
भक्ति र्विरक्तिर्भगवत् प्रबोधः।
भवन्ति वै भागवतस्य राजन्!
ततः परां शान्तिमुपैति साक्षात्॥४४॥

—————————————————————————————————————

देहादावभिनिवेशाद् यद्भयं तत्तन्माययास्यात्। किन्तद्भयं इत्यत आह। ईश्वराद्युपाधिना पृथग्भूतस्य। विपर्ययः63संसारित्वम्। भ्रम ईश्वरत्वास्मृतिश्चेति। गुरौ देवताबुद्धिः ११।२।३७॥(४२)

यदाचैवं भक्तिर्जायते अतएव सगुणोपासनादुपास्य साक्षात्कारे सति तस्यात्मतया स्फुरणात्तत्रैवानुपाधिः प्र (प्रे) मा। अविद्यायाश्चावरकत्वनिवृत्तिरात्मकामता च भवतीत्याह। भक्तिरिति। भक्तिप्रेमात्मिका। यया विष्णुं विना क्षणमपि न वितिष्ठते। तत आत्मनोब्रह्मत्वानुभवः। तस्य च परमानन्द रूपतया अन्यत्र विरक्तिःअरुचिः। प्रपद्यमानस्य भक्त्यङ्गवर्गेण भजतः। एककालत्वे दृष्ठान्तः। यथेति। यया भुञ्जानस्य प्रतिग्रासं सुखलब्धिः क्षुधानिवृत्तयः स्युः ११।२।४२॥ (४३)

त्रिषु जातेषु कृतकृत्यतामाह। इतीति अनुवृत्तिरविच्छेदः। कविः निमिम् ११।२।४३॥ (४४)

एवं सुरासुर गणाः समदेशकाल-
हेत्वर्थ कर्म्ममतयोऽपि फलेविकल्पाः।
तत्रामृतं सुरगणा फलमञ्जुसापू-
र्यत्पादपङ्कज रजः श्रयणान्नदैत्याः॥४५॥

यद्युज्यतेऽसु वसु कर्म्ममनो वचोभि-
र्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात्।
तैरेव सत्भवति यत्क्रियतेऽपृथक्त्वात्,
सर्व्वस्य तद्भवति मूल निषेचनं यत्॥४६॥

न तेऽरविन्दाक्ष पदोपसर्पणम्,
मृषाभवेत् सर्व सुहृत् प्रियात्मनः।
यथेतरेषां पृथगात्मनां सता-
मदीदृशोर्यद्वपुरद्भुतं हिनः॥४७॥

———————————————————————————————————

भक्त्यैवफलावाप्ति रित्यत्र निदर्शनमाह। एवमिति। हेतुः साधनम्। अर्थः प्रयोजनम्। कर्म्मउद्यमः फले विकल्पाः। षष्ठीस्थाने योगेतिवद “संज्ञामामप्यलुक्”64 ६।३।८।")। अञ्जसा अक्लेशेन ८।९।२८॥(४५)

गृहे एवाशक्तस्यापि भगवत् प्रीत्या उपायमाह। यदिति। यज्युज्यते तत्परीभूयते। असवः प्राणाः। तैर्द्दैहादिभिः अपृथक्त्वात् सर्वात्मकविष्णाराधन बुद्ध्या। विष्णुर्हिमूलम्।शुकः ८।९।२९॥ (४६)

नच राजादिवद्विष्णु भजने फलविकल्प इत्याह, नते इति।

तस्मिन् भवन्तावखिलात्महेतौ,
नारायणे कारण मन्त्यमूर्त्तौ।
भावंविधत्ते नितरां महात्मन्!
किम्वावशिष्टं युवयोः सुकृत्यम्॥४८॥

यत्पाद सेवाभिरुचिस्तपस्विना-
मशेषजन्मोपचितं मलंधियः।
सद्यः क्षिणोत्यन्वह मेधतीसती,
यथा पदाङ्गुष्ठ विनिःसृता सरित्॥४९॥

नह्यतोऽन्यः शिवः पन्था विशतः संसृताविह।
वासुदेवे भगवति भक्तियोगा यतो भवेत्॥५०॥

——————————————————————————————————

सुहृत्त्वात् प्रत्युपकारमुपकारकत्वं प्रियत्वात् सुखसेव्यत्वम्। आत्मत्वान्निकढस्थत्वम्। यद्यस्मात् पृथगात्मनः भेदबुद्धीनामपि नोऽस्मान्। अद्भुतं मात्स्यं वपुरीदृशं दर्शितवानसि। वैवस्वतः भगवन्तम् ८।२४।३०॥ (४७)

भगवत् प्राकट्ये सति कृतार्थतामाह। अस्मिन्निति। आत्मतात्विकं रूपं हेतुनिर्मित्तम्। कारणेन सृष्ट्यादिना मूर्त्तिर्यस्य। तत्वतस्त्वमूर्त्तिः। भावं चित्तवृत्तिम्। हे महात्मन् नन्द युवयोः। यशोदानन्दयोः। उद्भवः नन्दयशोदे १०।४६।३३॥ (४८)

तस्मिन्नित्युक्तं स क इति तमाह। यत्पादेति। तपस्विनां तापत्रयासन्तप्तानां मलं कालुष्यम्। क्षिणोति नाशयति। एध तीवर्द्ध्वमाना विषय सौन्दर्य्यात्। सतीसाध्वी विषय विशुद्धत्वात्। पृथुः सभ्यान् प्रति ४।२१।३१॥ (४९)

शुद्धभक्तेरन्यमुपायं षड्भिर्निन्दति। वस्तुतो गहनत्वेन निरा-

धर्म्मःसत्यदयोपेतो विद्या वा तपसान्विता।
मद्भक्त्योपेतमात्मानं न सम्यक् प्रपुणाति हि॥५१॥

कथं विना रोमहर्षं द्रवता चेतसा विना।
विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयः॥५२॥

यथाग्निना हेममलं जहाति-
ध्मातं पुनःस्वं भजते च रूपम्।
आत्मा च कर्म्मानुशयं विधूय,
मद्भक्तियोगेन भजत्यथोमाम्॥५३॥

तापत्रयेणाभिहतस्य घोरे,
सन्तप्यमानस्य भवाध्वनीश।

————————————————————————————————————

कारत्वे प्रतिपत्तये पुनः पुनर्वचनं न दोषायेत्याह। न ह्यत इति। इहदृष्ट श्रुत सुखरूपायां संसृतौ। भगवतीति विशेषणंविषयसौन्दर्य्यादेव भक्ति निर्व्वाह इत्येवमर्थं शुकः २।२।३३॥ (५०)

धर्म्मइति। आत्मानञ्चित्तम् ११।१४।२२॥(५१)

पुतात्मनश्चिह्नान्याह। कथमिति। प्रत्येकं विनाशब्दस्य निर्द्देशाद् रोमहर्षादानां प्रत्येकं शुद्धिहेतुत्वम् ११।१४।२३॥ (५२)

भक्त्या सवासन चित्तशुद्धिरिति। दृष्टान्तेन स्पष्टयति यथेति। ध्यातं तप्तम्। कर्म्मानुशयोलिङ्गदेहम्65। भक्तियोगेन भजतीति भक्तिरेव भजनहेतुर्नफलाकाङ्खेत्युक्तम्।अतोशुद्ध्यनन्तरम्।भगवान् उद्धवम् ११।१४।२५॥ (५३)

पश्यामि नान्यच्छरणं तवाङ्गि-
द्वन्द्वातपत्रादमृाभिवर्षात्॥५४॥

मन्येऽकुतश्चिद् भयम च्युतस्य,
पादाम्बुजोपासन मत्र नित्यम्।
उद्विग्नबुद्धेरसदात्मभावाद्-
विश्वात्मना यत्र निवर्त्तते भीः॥५५॥

राजन् पतिर्गुरुरलं भवतां यदूनाम्,
दैंवंप्रियः कुलपतिः क्वच किङ्करोवः।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो-
मुक्तिं ददाति कर्हिचित्स्म नभक्तियोगम्॥५६॥

————————————————————————————————————

शरणमाश्रयः अस्मृतं सुधा मोक्षश्च। उद्धवः श्रीकृष्णम् ११/१९/९ (५४)

मन्ये इति। असति देहादावात्मभावादुद्वेगः। नन्वमरत्वमप्यकुतश्चिद्भयं नेत्याह। विश्वात्मना कार्स्नेन, अमरत्वन्तुसावधिकमित्यर्थः। “आभूत संप्लवं स्थानममृतत्वञ्च भास्यते” इति वचनात् कविः निमिम् ११/२/३३॥(५५)

शुद्ध भक्तिर्मुक्तेरपिदुर्लभा इत्याह, राजन्निति। राजन् हे परीक्षित्। पतिः दृष्टोपद्रवनिवारणात्। गुरुर्हितोपदेशात्। भवतां पाण्डवानाम्। दैवमदृष्टोपद्रव निवारणात्। प्रियः प्रीतिजननात्। कुलपतिः पोषणात्। किङ्करः आज्ञाकरणात्। कारणादेवमस्तु। मुकुन्दोमुक्तिं ददाति नतु भक्तिम्। भक्तिदाने हि भक्तस्य सम्बिधानं कार्य्यं न मुक्तिदाने। शुकः ५।६।१८॥ (५६)

यस्यास्ति भक्तिर्भगवत्यकिञ्चना,
सर्बैर्गुणै स्तत्र समासते सुराः।
हरावभक्तस्य कुतोमहद् गुणाः,
मनोरथेनासति धावतो वहिः॥५७॥

तस्माद्रजोराग विषादमन्यु-
र्मानस्पृहा भयदैन्याधि मूलम्।
हित्वा गृहं संसृति चक्रबालम्,
नृसिंहपादं भजताकुतोभयम्॥५८॥

न युज्यमानयाभक्त्या भगवत्यखिलात्मनि।
सदृशोऽस्ति शिवः पन्थायोगिनां ब्रह्मसिद्धये॥५९॥

इति वोपदेवविरचिते मुक्ताफले भक्तिमहिमा-
प्रकरणम्। षष्ठोऽध्यायः॥

————————————————————————————————————

भजमानः पुमान् देवैरप्याश्रियत इत्याह।यस्येति। आकिञ्चना शुद्धा सुराः इन्द्रादयः। गुणा ऐश्वर्य्यादयः। गुणैः समासते। गुणद्वारा सम्यग्वसन्तीत्यर्थः। महतामिन्द्रादीनां गुणा महद्गुणाः असति विषये ५।१८।१२॥ (५७)

शुद्ध भक्तिं स्तुत्वोपसंहरति तस्मादिति। रजो रजःकार्य्यंतृष्णादि। रागः स्नेहवशः। मन्युः क्रोधः मनोदर्पः। आधिर्म्मनोव्यथा। संसृतीनां दुरव (स्व, य) स्थानाम्। चक्रबालं मण्डलम् यस्मिन् गृहे। प्रह्लादः नृसिंहम् ५।१८।१४॥(५८)

किं बहूना भक्तिमेवैकामाद्रियध्वमिति आह, नेति। युज्यमाना क्रियमाना। ब्रह्मसिद्धिर्मोक्षः। कपिलः देवहूतिम् ३।२५।१९॥ (५९)

इति हेमाद्रिकृतायां कैवल्यदीपिकायां भक्तिमहिमाप्रकरणम्।

षष्ठोऽध्यायः॥

अथ विष्णुभक्त्यङ्गवर्गप्रकरणम्।
तत्र विष्णुभक्त्यङ्गवर्गलक्षणं भेदाश्च॥

कायेन वाचा मनसेन्द्रियैर्व्वा,
बुद्ध्यात्मना वानुसृतस्वभावात्।
करोति यद्यत् सकलं परस्मै,
नारायनायेति समर्पयेत्तत्॥१॥

————————————————————————————————————

तदेवं भक्ति प्रकरणमुपायत्वेनेत्यक्तम्। तत्रेतिकर्त्तव्यतां वक्तुमिदमारभ्यते। अथेति। तत्राप्यङ्ग सामान्यं लक्षयति। कायेनेति। मनसा संशयः। इन्द्रियैश्चक्षुरादिभिरूपोपलम्भादि बुद्ध्यानिश्चयः आत्मना अहङ्कारेणाभिमानः। वाशब्दश्चार्थे। तेनानुक्तस्य सङ्कल्पहेतोर्म्महत्तत्त्वस्य समुच्चयः। इन्द्रियैरित्येव सिद्धे कायाद्युक्तिरेकैकव्यापारस्याप्यङ्गत्वार्थम्। अतएव तुल्य कक्षाणां विकल्पार्थः प्रथमोवाशब्दः। यद्यदिति। वोप्सया सर्वस्य यावद्देहं क्रियमाणस्यार्पणमित्युक्तम्। तत् किं निषिद्धमप्यनुमतंनेत्याह। स्वभावमिति। स्वस्य भाव्यते प्राप्यते शास्त्रेनेति स्वभावम्। स्वविहितमित्यर्थः। तथापि किं विशिष्ट निस्तारबुद्ध्यापयेद् नेत्याह। अनुसृत इति। आत्मश्बरयोः स्व स्वामि भावानुसन्धान मनुसरणं परस्मै भगवदादिरूपाय। इति शब्दः प्रकारे। तेनेदं नारायणायेत्यनेन प्रकारेणापयेत्, नान्यथेत्यर्थः। अत्रहि चतुर्थी निर्देशात्तादर्थाऽवगमात् सङ्कल्प मित्यन्वयः। ततश्च भगवदर्थत्वेन सर्वस्य सत्कर्म्मणः करणं भक्त्यङ्गमिति लक्षणार्थः। कविः निमिम् ११।२।३६॥ (१)

स एकोनविंशतिधा। षड़्विंशवर्गः। त्रिंशद्वर्गः। षड़्विंशतिवर्गः। पञ्चविंशतिवर्गः। चतुर्व्विंशतिवर्गः। विंशतिवर्गः। एकोनविंशतिवर्गः। अष्टादशवर्गः। पञ्चदशवर्गः। त्रयोदशवर्गः। द्वादशवर्गः। एकादशवर्गः। दशवर्गः। नववर्गः। सप्तवर्गः। षड़्वर्गः। पञ्चवर्गः। चतुर्वर्गः। त्रिवर्गः। एते त्रयः यथोत्तरमन्तरङ्गाः॥

तव षड़्विंशवर्गः।

तस्माद् गुरुं प्रपद्येत जिज्ञासु श्रेय उत्तमम्।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्॥२॥

—————————————————————————————————————

एवं वर्गलक्षणमुक्त्वातद्भेदान् वक्तुमाह। स इति। स वर्गः। नन्वेकोनविंशतौवर्गेषु किमुत्तरोत्तरस्य पूर्व्वपूर्व्वबाधकत्वं किम्वा यवब्रीहिवत् सर्वेषां विकल्पः। आद्ये सर्वबाधकस्य व कथनेन चरितार्थत्वाद् अन्योक्त्यानर्थक्यम्। द्वितीये विषमशिष्टा विकल्पानुपपत्तिरितिचेत्तत्राह। एते चेति। अन्तरङ्गत्वञ्च पूर्व्व पूर्व्वस्माद्वर्गाद् उत्तरोत्तरस्मिन् सारभूतानामङ्गानां उपलम्भात्। वस्तुतस्त्वेकस्मिन्नेव सर्व्वं व (स) द्भावादेकवर्गत्वम्। अवस्थाभेदेन तत्तदङ्गपरित्यागाद्अनेकत्वम्। तत्र षड़विंशवर्गं दर्शयन् द्वाभ्यां पूर्व्वरङ्गमाह। तस्मादिति। तस्माल्लोकद्वयस्यापि सदोषत्वात् प्रपद्येत निर्विन्नः “समित् पाणिराचार्य्यमुपतिष्ठेत्”66 (१) श्रेय उत्तमम्। श्रेयःसु सत्कर्म्मेसु मध्ये उत्तमं भक्त्यङ्गाख्यम्। शाब्दे ब्रह्मणि वेद

तत्र भागवतान् धर्म्मान् शिक्षेद् गुर्व्वात्म दैवतः।
अमाययाऽनुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः॥३॥

सर्व्वतो मनसोऽसङ्गमादौ सङ्गञ्च साधुषु।
दयां मैत्रींप्रश्रयञ्च भूतेष्वद्धायथोचितम्॥४॥

शौचं तपस्तितिक्षाञ्च मौनं स्वाध्यायमार्ज्जवम्।
ब्रह्मचर्य्यमहिंसाञ्च समत्वं द्वन्द्वसंज्ञयोः॥५॥

————————————————————————————————————

तात्पर्य्यविचारेण। परे चापरोक्षानुभवेन, निष्णातं निष्ठाप्राप्तम्। उपशमाश्रयमित्यनेनैवशिष्यबात्सल्यादयोऽन्येऽपिगुणाः ज्ञेयाः ११।३।२१॥ (२)

तथेति। तत्रगुरुकुले। गुरुरेव आत्मा देवतञ्च यस्य। आत्मवद्देवञ्चगुरुं संस्कुर्य्यादित्यर्थः। गुरु भक्त्याहि सर्वं सफलं तदुक्तम्। “यस्यदेवे पराभक्तिर्यथा देवे तथागुरौ। तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मन” इति। माया कपटम्। अनुबृत्तिः शुश्रूषा। यैधर्म्मैर्हरिस्तुष्येत। ननु कथं ज्ञेया हरि तुष्ठिः। तत्राह। आत्मातुष्येत्। आत्मतुष्ट्या विष्णु-तुष्ठिरनुमेया। विष्ण्वात्मनोर्विम्बप्रतिविम्बत्वादित्यर्थः। ननु हरौ तुष्टे किं तत्राह। आत्मदइति ११।३।२२॥ (३)

अथाङ्गान्याह। सर्वत इति। सर्वत्र (तः) इहामुत्र भोगेषु। असङ्गं अनासक्तिम् (अ) शिक्षेदिति सर्वैद्वितीयान्तैसम्बध्यतेः। सङ्गः सान्निध्यं यथोचितमिति क्रमाद दुःखि सुखि पुण्यवत्सु ददातीति त्रीणि। प्रश्रयोविनयः। अद्धा तत्त्वतः ११/३/२३॥ (४)

शौचमिति। शौचं मुज्जलाद्यैर्वाह्यम्। रागद्वेषादिराहित्यमान्तरम्। तपः एकादश्युपवासादि स्वधर्म्मनिष्ठा वा॥ मौनं प्रभा-

**सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्।
विविक्तचौरवसनं सन्तोषं येन केनचित्॥६॥ **

**श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि।
मनो वाक्कर्म्मदण्डञ्च सत्यं शमदमावपि॥७॥ **

**श्रवणं कीर्त्तनं ध्यानं हरेरद्भूतकर्म्मणः।
जन्मकर्म्मगुणानाञ्च तदर्थेऽखिलचेष्टितम्॥८॥ **

इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम्।
दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम्॥

————————————————————————————————————

षणंमितभाषणं वा। —क्षमा स्वाध्ययोद्वादशाक्षरादि मन्त्र जपः। आर्ज्जवं सरलता—ब्रह्मचर्य्यंयस्य यथायोग्यम्।गृह स्थानां ऋतौ स्वदारगमनम्। अन्येषान्तु “स्मरणं कीर्त्तनं केलिः प्रोक्षणं गुह्यभाषणम्। सङ्कल्पोऽध्यवसायश्च क्रिया निर्वृतिरेवच” इति। अष्टाङ्ग मैथुनं र्वज्जं ब्रह्मचर्य्यम्। अहिंसा द्रोहाद्यकरणम्। द्वन्द्वसंज्ञयोर्मानापमानादिकयोः समत्वं तुल्य बुद्धित्वम्, ११।३।२४॥ (५)

सर्वत्रेति। सर्वभूतेषु आत्मनः आत्मनः ईश्वरत्वे नानुवृत्त्या दर्शनम्। कैवल्यमेकाकिता अनिकेततां स्थानाभिमानराहित्यम्। विविक्त चीरवसनं पूतबस्त्रखण्डपरिधानम्। यदृच्छालब्धेनालं बुद्धिः सन्तोषः ११।३।२५॥ (६-७)

श्रद्धामिति भगवत् प्रतिपादके शास्त्रे श्रद्धाम्। अन्यप्रतिपादकेचानिन्दामित्येकम्। दण्ड दुःसङ्कल्प पारुष्यचापलानां त्यागः। सत्यं मृषावादवर्ज्जनम्। शमः विषयेभ्योबुद्धेरुपरतिः॥ दमश्चक्षुरादीनाम्। च शब्दो भिन्नक्रमः ११।३।२६॥ (८)

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्।
परिचर्य्याञ्चोभयत्र महत्सु नृषु साधुषु॥१०॥

परस्परानुकथनं पावनं भगवद्यशः।
मिथोरतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः॥११॥

स्मरन्तः स्मारयन्तश्च मिथोऽधौधहरंहरिम्।
भक्त्या सञ्जातया भक्त्या विभ्रत्युत्पुलकां तनुम्॥१२॥

————————————————————————————————————

श्रवणमिति। हरेर्ज्जन्मादीनां श्रवणादित्रयम् तदर्थे हर्य्यर्थे सर्व्वचेष्टा ११।३।२७॥ (९)

इष्टमिति भावे क्तः। वृत्तमाचारतः प्राप्तस्याचरणम्। षष्ठी विषये द्वितीया। इष्ठादेर्द्दारादेश्च तादर्थ्यम्। परस्मै इन्द्रादयेसनिवेदनं समर्पणम्, यत्तस्यापि तादर्थ्यंशिक्षेत्। अत्राखिलचेष्टित शब्देन निर्द्देशात्। एकैकत्वं दारादीनां तादर्थ्यं शुर्श्रूषया ११।३।२८॥ (१०)

एवमिति। एवं यथाकृष्णेतथेत्यर्थः। कृष्णआत्मा नाथोधीर्येषां तेषु। सौहृदं अनिमित्तं बन्धुत्वम्। मनुष्येष्विति जाति विशेष विवक्षार्थम्॥ किन्तदुभयं तदाह। महत्स्विति। महान्त उत्कृष्टाः साधवः सदाचाराः उभय ग्रहणमभेदेन परिचर्य्यार्थम ११।३।२९॥ (११)

परस्परेति। अनु अनुवृत्त्या विच्छेदेन कथनं शिक्षेत्। किम्भूतं कथनं भगद्यशः भगवतोयशो यस्मिन् अनुकथने। किमिति परस्परं तत्राह मिथ इति। रतिर्भगवति इत्यर्थात् सिद्धम्। तुष्टिः सुखं। निवृत्तिरित्यर्थसिद्धम्। तुष्टिः सुखम्। निवृत्ति स्तापापगम इति द्वयमात्मनः। एतत्त्रयं परस्पर मनुकथनादे स्यात्। नैकाकीतयेति वक्तुं मिथः शब्दत्रयम् ११।३।३०॥ (१२)

क्वचिद्रूदन्त्यच्युतचिन्तया क्वचित्,
हसन्ति नन्दन्ति वदन्त्यलौकिकाः।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजम्,
भवन्ति तृष्णीं परमेत्यनिर्वृताः॥१३॥

इति भागवतान् धर्म्मान् शिक्षन् भक्त्या तदुत्थया।
नारायण परोमाया मञ्च स्तरति दुस्तराम्॥१४॥

** षट्त्रिंशद्वर्गः।**

सत्यंदया तपः शौचं तितिक्षेक्षा (ज्या) शमोदमः।
अहिंसा ब्रह्मचर्य्यञ्च त्यागः स्वाध्याय आर्ज्जवम्॥१५॥

————————————————————————————————————

स्मरन्त इति। स्वरन्तः स्वयम् ११।३।३१॥ (१२)

यतोऽन्येषां अथषट्त्रिंश वर्गानुष्ठानस्य फलमाह। भक्त्येति भक्तिरङ्गवर्ग भजनम्। तथा भक्तिः प्रेम। उत्पन्न भक्तेश्चिह्नान्याह। विभ्रतीति। उत्पुलकां उद्भूतरोमाञ्चाम्। क्वचिदिति रुदन्ति आनन्दाश्रूणि विमुञ्चन्ति। अलौकिकाः लोकव्यावृत्ताः। अजंविष्णुम्। नन्दन्ति सुखमनुभवन्ति। अनुशीलयन्तितल्लीलामभिनयन्ति। अतः परं विष्णुंएत्य साक्षात्कृत्य तूष्णीं भवन्ति। उपशाम्यन्ति। यतो निवृत्ताः समाप्तपरमानन्दाः ११।३।३२॥(१३)

कुतः पुनरेषामङ्गत्वमित्यत आह इतीति। तदुत्थया भागवत धर्मोत्थया भक्ते रङ्गत्वे लिङ्गमितिभावः। प्रबुद्धोनिमिम्। ११।३।३३॥ (१४)

त्रिंशद्वर्गमाह। सत्यमिति। इज्या भगवदुद्देशेन हविस्यागः त्यागः काम्यनिषिद्धकर्म्मणाम् ७।११।८॥ (१५)

सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः।
नृणां विपर्य्ययेहेक्षा मौनमात्म विमर्षणम्॥१६॥

अन्नाद्यादेः सम्बिभागो भूतेभ्यश्च यथार्हत।
तेष्वात्म देवताबुद्धिः सुतरां नृषु पाण्डव!॥१७॥

श्रवणं कीर्त्तनं चास्य स्मरणं महतां गतेः।
सेवेज्या-वनतिर्दास्यं सख्यमात्मसमर्पणम्॥१८॥

नृणामयं परोधर्म्मः सर्व्वेषां समुदाहृतः।
त्रिंशल्लक्षणवान् राजन् सर्वात्मायेनतुष्यति॥१९॥

————————————————————————————————————

सन्तोष इति। समदृशः रिपुमित्रोदासीनेषु तुल्य बुद्धयः। ग्राम्येहा विषयार्थं चेष्टा, नृणां विपर्ययेहेक्षा।स्वस्वार्थमिति। सुखार्थ प्रयत्नस्य दुःखफलत्वावेक्षणं। आत्मनोऽसङ्गोदासीनतयानुसन्धानम्। अन्नाद्यं भक्ष्य भोज्यादि। आदिशब्दात् फलमूलादेश्च।भूतेभ्यःश्वकाकातिथिजलचरादिभ्यो गृहस्थाद्यैर्विभागः।यथार्हत इति। यस्य यत्संविभागेऽर्हतातथा तस्येत्यर्थः। तेषु भूतेषु। आत्मनः ईश्वरत्वेन ज्ञानम्। विशेषतोमनुष्येषु। ज्ञानाधिक्यात्। हे पाण्डव युधिष्ठिर!। अस्येत्यभिनयेन पुरतः स्थं श्रीकृष्णम् निर्द्दिशति। महतां गतेर्गम्यस्य सेवा चित्तानुवृत्तिः। साचास्य श्रुति स्मृतिरूपज्ञानलङ्घनात् इज्यापूजा। अवनतिः। प्रणामः। दास्यं किङ्करत्वम्। सख्यम्। “अहितात् प्रतिषेधश्च हिते चैव प्रवर्त्तनम्। व्यसनेचापरित्यागः त्रिविध सखि-लक्षणम्॥” इत्यत्रोक्तस्य सखिधर्म्मस्य भगवत्तत्वेन भावनम्। अन्यानि तु स्वगतानि। आत्मसमर्पणं स्वशरीरेऽस्य स्वातन्त्र्यलचणसङ्गम्॥ येन धर्म्मेन साक्षाद्धर्म्मान्तरानुष्ठानाव्यव-

हंसे गुरौमयि भक्त्याऽनुवृत्त्या,
वितृष्णयाद्वन्द्वतितिक्षया च।
सर्वत्र जन्तोर्व्यसनावगत्या,
जिज्ञासया तपसेहा निवृत्त्या॥२०॥

मत्कर्म्मभिर्मत्कथयाच नित्यम्,
मद्देव सङ्गाद् गुणकीर्त्तनान्मे।
निर्वैरसाम्योपशमेन पुत्त्राः !
जिहासया देहगेहात्म बुद्धेः॥२१॥

अध्यात्मयोगेन विविक्त सेवया,
प्राणेन्द्रियात्माभि जयेन सध्र्यक्।
सत्श्रद्धया ब्रह्मचर्य्येण शश्वत्,
असम्प्रमादेन यमेन वाचाम्॥२२॥

————————————————————————————————————

धानेन। शेषं प्रागवत्। नारदः युधिष्ठिरम् ७।१।९-१०-११-१२ (१६-१७-१८-१९)

षड् विंशतिवर्गमाह। हंसेत्यादि। अनुवृत्तिः परिचर्य्या। सा च भक्त्या तात्पर्य्येण। नतु यथाकथञ्चित्। हंसे गृहमार्ज्जनादिका (१) गुरौ लब्धार्पणादिका (२) वितृष्णा दृष्ट श्रुत विषये वैतृष्णाम् (३) इन्द्रं शीतोष्णादि (४) सर्व्वत्र ब्रह्मपदादिषु व्यसनं कालभयम् (५) जिज्ञासा आत्मनः (६) तपः अयाचितादि (७) इहानिवृत्ति बर्ज चेष्ठा (यः) त्यागः (८) मत्कम्मभिर्मदर्पित कर्म्मभिः (९) मत्कथाकथन मन्यं प्रति (१०) अहं देवोयेषां तेमद्देवा विष्णु भक्ताः (११) कीर्त्तनं एकाकिना (१२) निर्वैरमहिंसा (१२) साम्यं

**सर्वत्रमद्भाव विचक्षणेन,
ज्ञानेन विज्ञान विराजितेन।
योगेन धृत्युद्दमसत्त्वयुक्तो,
लिङ्गं व्यपोहेत् कुशलोऽहमाख्यम्॥३३॥ **

स्वधर्म्माचरणं शक्त्या विधर्म्माच्च निवर्त्तनम्,
दैवालब्धेन सन्तोष आत्मविच्चरणार्च्चनम्॥२४॥

————————————————————————————————————

शत्रुमित्रोदासीनेषु तुल्यबुद्धिता (१४) उपशमी निरभिमानता (१५) हे पुत्रा देहेगृहेचाहं ममेतिबुद्धेर्हानेच्छया (१६) अध्यात्मयोगोमोक्षशास्त्राभ्यासः (१७) विविक्तमेकान्तः (१८) प्राणादीनामभिजयः क्रमात् प्राणायाम प्रत्याहार धारणादिभिः। अत्र प्राणायामादि बहुत्वेऽप्यभिजयस्यैकत्वादेकत्वम् (१८) सत्सुश्रद्धासम्यग् बुद्धिः (२०) ब्रह्मचर्य्यंप्राग्वत् (२१) समं प्रमादोभक्तिसाधनानामभावना (२२) वाचंयमोमीनम् (२३) सर्व्वत्र स्थिरचरेषु मद् भावो मत् सत्ता विज्ञायते दृश्यते येनतत्तथा। “सर्व्वं खल्विदं ब्रह्म”67 (१) त्याद्युपनि षदुत्थोबोधोज्ञानम् (२४) अनुभवो विज्ञानम् (२५) विराजित सुप वहितम्। योगोनिरोधसमाधिः (२६) धृतिः धैर्य्यफलसिद्धौविकल्पनाभावः। उद्यमोऽनलसत्वम्। सत्वं क्लेश सहनत्वम्। एतान्यधिकारि-विशेषणत्वादुपाङ्गानि। नत्वङ्गानि, अतएवैषां तृतीयययापञ्चस्यावाननिर्द्देशः। कुशलः प्रत्यहं विशेषद्रष्टुंनिपुणः। लिङ्गदेहं व्यपोहेद् मोक्तुं क्षमः। अहमहङ्कारः। ऋषभः पुत्रान् ५।५।१०।११।१२।१३॥ (२०-२१-२२-२३)

पञ्चविंश वर्गमाह। स्वधर्म्मेति। विधर्म्मोनिषिद्धः परधर्म्मश्च।

ग्राम्यधर्म्मनिवृत्तिश्चमोक्षधर्म्म रतिस्तथा।
मितमेध्याशनं शश्वद्विविक्तक्षेमसेवनम्॥२५॥

अहिंसा सत्यमस्तेयं यावदर्थ परिग्रहः।
ब्रह्मचर्य्यंतपः शौचं स्वाध्यायः पुरुषार्च्चनम्॥२६॥

मौनं सदासनजयः स्थैर्य्यं प्राणजयः शनैः।
प्रत्याहारश्चेन्द्रियाणां विषयान् मनसाहृदि॥२७॥

स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्,
बैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः॥२८॥

एतैरन्यैश्च पथिभिर्मनोदुष्टमसत्पथम्,
बुद्ध्या यु़ञ्जीतशनकैर्ज्जित प्राणोह्यतन्द्रितः॥२९॥

————————————————————————————————————

ग्राम्यधस्त्रीद्युतादि सेवा। मेध्यंभिक्षा हविष्यादि, मितन्तु68 “अर्द्धंसव्यञ्जनान्नस्य तृतीयमुदकस्य च। वायोः सञ्चरणार्थञ्च चतुर्थमवशेषयेत्॥” इति क्षेमं मशकाद्यनुपहतम् स्तेय मविधिना द्रव्यादानम्। पुरुषोविष्णुः। स्थैर्य्यमचञ्चलत्वम्। प्राणजयः प्राणायामः। शनैन्सहमा। आसनादिलक्षणम् जपोपायश्च पातञ्जले69। हृदिमनोऽधिष्ठाने। प्रत्याहारः प्रत्यानयनम्70।धिष्णपानां प्रागुक्तानां हृदयपुण्डरीकादिस्थानानाम्। एकदेशे विशिष्टा प्राणधारणाकार्य्या। प्राणित्यस्मादितिप्राणश्चित्तम्।“देशबन्ध -

**मल्लिङ्ग मद्भक्तजन दर्शनस्पर्शनार्च्चनम्।
परिचर्य्या स्तुतिःप्रह्वगुणकर्म्मानुकीर्त्तनम्॥३०॥ **

**मत्कथाश्रवणे श्रद्धामदनुध्यानमुद्भव!।
सर्वलाभोपहरणंदास्येनात्मनिवेदनम्॥३१॥ **

**मज्जन्मकर्म्मकथनं मम पर्व्वानुमोदनम्।
गौतताण्डववादित्र गोष्ठीभिर्मद्गृहोत्सवः॥३२॥ **

यात्राबलिविधानञ्च सर्ववार्षिकपर्वसु।
वैदिकीतान्त्रिकीदीक्षा मदीय ब्रतधारणम्॥३३॥

————————————————————————————————————

वित्तस्य धारणे”ति हि पातञ्जले। एकस्मिन् देशे चित्तं धार्य्यमित्यर्थः। लोलास्मितावलोकादि समाधानं ध्यातुर्भ्येयरूपेणावस्थानम्। एतैरिति। स्वधर्म्माचरणाद्यैजिंतप्राणैर्जितचित्तः। अन्यैः कामादिभिर्दुष्टं सदसन्मार्ग गमनो बुद्ध्या ज्ञानरूपेण सन्मार्गगमनबुद्ध्या (ज्ञानरूपेण सन्मार्गेणा) तन्द्रितः अनलसः। कपिलः देवहतिं प्रति॥ ३।२८।२-३-४-५-६-७। (२४-२५-२६-२७-२८-२९)

चतुर्विंशतिवर्ग माह। मल्लिङ्गेति मल्लिङ्गानि ये मद्भक्तास्तेषां दर्शनादि त्रयम्। येषान्दर्शनादहं स्फुरामीति ते तथा यथाश्रुते च लिङ्गं मद्भक्तविषयत्वेन दर्शनादेः षट्त्वाच्चतुर्विंशतित्वानुपपत्तिः। परिचर्य्या पुष्पगुम्फनादि। प्रह्वोनम्रता॥ ११।११।३४।(३०)

अनु अनुवृत्त्या॥ ११।११।३५ (३१)
पर्व्व जन्माष्टम्यादि॥ ११।११।३६ (३२)

यात्राद्वारकादिगमनम्। बलिविधानं पुष्पोपहारादि वार्षिकपर्व्वस्वितिविशेषनिर्द्देशः। तत्र फलाधिक्यादित्यर्थः। तन्त्रं71पञ्च-

ममार्च्चास्थापने श्रद्धा खतः संहत्य चोद्यमः।
उद्यानोपवनाक्रीड़पुरमन्दिरकर्म्मणि॥३४॥

**समार्ज्जनोपलेपाभ्यां सेकमण्डलवर्त्तनै-
र्गृहशुश्रूषणंमह्यं दासवद्यदमायया॥३५॥ **

**अमानित्वमदम्भित्वं कृतस्यापरिकीर्त्तनम्।
अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम्॥३६॥ **

**यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः।
तत्तन्निवेदयेन्मह्यंतदानन्त्याय कल्पते॥३७॥ **

————————————————————————————————————

रात्रम्। व्रतं देवतार्च्चनादिनियमः॥११।११।३७॥ (३३)

मम प्रतिमास्थापने उद्यानादिकरणे च श्रद्धा उद्यमश्चअसामर्थ्येतुसंहृत्य मिलित्वा उद्यानं पुष्पाणां। उपवनन्तु फलानाम्, आक्रीड़म् जलादिक्रीड़ास्थानम्॥ ११।११।३८ (३४)

सम्मार्ज्जनं अवकरनिरसनम्। उपलेपोगोमयादिना। सेकोजलसेचनम्। मण्डलवर्त्तनं (ञ्च) चतुस्करङ्गमालिकादि वा एतैरेवा कपटेन गृह शुश्रूषणम्॥११।११।३९॥(३५)

मानोदर्पः। दम्भः परवञ्चनम्। यत्रापिशब्दस्ततोऽन्यत्र तात्पर्य्यम्। यथा “अश्रीयाद्विषमप्युग्रं ब्रह्मस्वन्तु नकर्हिचित्।” इत्यादौ अतोदीपावलोकमपीत्यस्य देवाय स्वयम्। अन्येन दत्तं वस्तुदेवोपभोगमाच्छिद्यनोपयुञ्जीतेत्यत्र तात्पर्य्यम्। प्रसादबुध्या निवेदितं गृहीयात्। अन्यथा “निर्म्माल्य शिरसा धार्य्यंनैवेद्यमुदरे हरेः। तयोपभुक्तस्रग्गन्ध वासोऽलङ्कार चर्च्चिताः। उच्छिष्ट भोजिनोदासास्तवमायां जयेमहि।” इत्यादि (षु) वाक्यविरोधः दीपावलोक दोष परिहारार्थं देवस्याग्रे वर्त्तिद्वयेन दीपः कार्य्यंः॥ ११।११।४० (३६)

मदर्च्चांसंप्रतिष्ठाप्य मन्दिरं कारयेद्दृढम्।
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान्॥३८॥

**पूजादीनां प्रवाहार्थं महापर्व्वस्वथान्वहम्।
क्षेत्रापणपुरग्रामान् दत्त्वामत्सार्ष्टितामियात्॥३९॥ **

प्रतिष्ठाय सार्वभौमं सद्मना भुवनत्रयम्।
पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात्॥४०॥

विंशतिवर्गः।

**निषेवितानिमित्तेन स्वधर्म्मेण महीयसा।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः॥४१॥ **

————————————————————————————————————

सर्व्वलाभार्पणस्य फलमाह। यद् यदिति। इष्टं धर्म्मं साधनम्। श्रीकृष्ण उद्धवम्॥११।११।४०।(३७)

अर्च्चास्थापनादेः फलमाह। मदर्च्चामिति। आदिशब्दात् पूजकः नृत्य यात्रा प्रसादादीनाम् प्रवाहोनिर्व्वाहः। पूजा (प्रासादादीनाम्) तदर्थं पूजाद्याश्रितान् क्षेत्रादीन् नकारयेत्। तत्र पूज्यतेऽनेनेति पूजा पुष्पाणि। यात्रा यत्र नानादेश्याःसञ्चितानि वस्तुनि विक्रेतुं प्रत्यब्दं मिलन्ति सा। उत्सवः पूजाहर्षःक्षेत्रं केदारः आपनोहट्टः। पुरं पञ्चशतग्राममुख्यम्। ग्रामः केवल शूद्रवासः। साष्टिता समान प्रभावत्वम्। इयात् प्राप्नुयात् ११।२७।५०-५१। (३८-३९)

प्रतिष्ठा परकृते देवकुले जीर्णोद्धाररूपेण प्रतिमास्थापनं। सद्म परप्रतिष्ठित तत् प्रतिमायाः प्रासादमात्रकरणम्। ब्रह्मलोकं तदाधिपत्यं ब्रह्मत्वं। त्रिभिः स्वकृतैः प्रतिमाप्रासादपूजादिभिः। मत्साम्यतां मामेव। भगवान् उद्धवम्॥ ११।२७।५२। (४०)

**मद्विष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः।
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च॥४२॥ **

**महतां बहुमानेन दीनानामनुकम्पया
मैत्र्याचैवात्मतुल्येषु यमेन नियमेन च।
आध्यात्मिकानुश्रवणान्नामसंकीत्त नाच्च मे॥४३॥ **

**आज्जैविनार्य्यसंङ्गेन निरहङ्कृयया तथा।
मद्धर्म्मणो गुणै रेतैः परिसंशुद्ध आशयः॥४४॥ **

————————————————————————————————————

विंशतिवर्गमाह।निषेवितेनेति। अनिमित्तो निष्कामः। स्वधर्म्मो वर्णाश्रमधर्म्मः। महीयान् प्रथमकल्पानुष्ठितः “तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः72 तप उपवासादिकायिकं कर्म्म। स्वाध्यायो मन्त्रजपोवाचिकम्73ईश्वरप्रणिधानं विष्णुध्यानंमानसम्। तस्य त्रिविधस्य शस्तत्वम्। देशकालपुरुषवशाद् नाति हिंस्र (स) त्वं शरीरपीड़ाकरस्य त्यागात। उक्तञ्च पातञ्जलभाष्ये74 “तत्रचित्तप्रसादमवाधमानेना सेव्यमिति मन्यते” इति॥ ३।२९।१५। (४१)।

मद्विष्ण्यम् शालग्रामादि। तस्य दर्शनादि। सत्वमास्तिक्यम्।९।असङ्गमो निःसङ्गत्वम्॥३।२९।१६।(४२)

“अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहायमाः”। “शौचः सन्तोषतपः स्वाध्यायेश्वर प्रणिधानानि नियमाः।” आध्यात्मिकं मोक्षशास्त्रम् १६।॥३।३।१७-१८ (४३)

पुरुषस्याञ्चसाभ्येति श्रुतमात्रगुणं हि माम्॥४५॥

एकोनविंशतिवर्गः।

**सा श्रद्ध्या भगवद्धर्म्मचर्य्यया,
जिज्ञासयाध्यात्मिकयोगनिष्ठया।
योगेश्वरोपासनया च नित्यम्,
पुण्यश्रवः कथया पुण्यया च॥४६॥ **

अर्थेन्द्रियाराम सगोष्ठ्यतृष्णया,
तत्सम्मतानामपरिग्रहेण च।
विविक्तरुच्या परितोष आत्मनि,
विना हरेर्गुण-पीयूषपानात्॥४७॥

————————————————————————————————————

मद्धर्मो विष्णुभक्तिः। आशयोऽन्तःकरणम्॥ ३।२९।१९(४४)

श्रुतमात्रा न तु बस्तुतो दृष्टा गुणा य(स्य)स्मिन्। तं निर्गुणविषयं भवतीति भावः। कपिलः॥३।२९।२०।(४५)

एकोनविंशतिवर्गमाह। सच्छ्रद्ध्येति। अत्र प्रथमश्लोकोक्तंगृहस्थस्य। द्वितीयश्लोकोक्तं वानप्रस्थस्य। तृतीयश्लोकोक्तं यतेः। ततः परं नैष्टिकब्रह्मचारिणो विष्णुभक्तिवृद्धीकारणमिति श्लोकचतुष्टयार्थः। भगवद्धर्मो वार्त्ताकू-वर्ज्जानादि। जिज्ञासा अध्यात्मशास्त्राभ्यासः। अध्यात्मयोगनिष्ठातदर्थानुष्ठानम्। पुण्यश्रवकथा विष्णुकथा। पुष्पाविष्णुभक्तकथा।४।२२।२२ (४६)

अर्थेन्द्रियारामाः अर्थकामलुब्धाः तैः सहगोष्ठी। समानसभत्वम्। तत्र अतृष्णा तृष्णाया अप्यभावः। किं पुनः सेवायाः तत्सम्मताः स्रक्चन्दनादयः। विविक्तरुचिः विजनप्रोतिः। सा च

**अहिंसया पारमहंस्यचर्य्यया,
स्मृत्या मुकुन्दाचरिताग्र्यसीधुना।
यमैरकामैर्नियमैश्चाप्यनिन्दया,
निरीहया द्वन्द्वतितिक्षया च॥४८॥ **

हरेर्मुहुस्तत्परकर्णपुर-
गुणाभिधानेन विजृम्भमाणया।
भक्त्या ह्यसङ्गः सदसत्यनात्मनि,
स्यान्निर्गुणे ब्रह्मणि चाञ्जसारतिः॥४९॥

————————————————————————————————————

आत्मनः परितोषे सति। आत्मनि स्वरूपे परितोषः। सुखान्तरानपेक्षत्वं विना विविक्तरुचेर्मिथ्याचारत्वात्। तदुक्तं"कर्म्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरण्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते”75इति। स च परितोषो हरिकथां विना। हरिकथाकर्णनापेक्षात्वस्त्येवेत्यर्थः॥ ४।२२।२३ (४७)

अहिंसयेति। पारमहंस्यं परमहंसधर्म्मः। अस्मृत्या वासनोच्छेदकेन। विष्णुकथामद्यपानेन। मद्यं हि स्मृतिभ्रंशहेतुः। पूर्वं केवलकथापानम्। अत्र तु शास्त्रद्वारेणेति वा76।यमनियमाव्याख्याताः आनन्दा योगान्तरस्य निरीहा योगक्षेमार्थ चेष्टाराहित्यम्॥४।२२।२४। (४८)

हरेरिति। तत्परकर्णपूरा विष्णुभक्ताः कर्णालङ्कारभूता ये गुणाः ऐश्वर्य्यादयः तेषामभिधानम्। हरेर्गुणाभिधाने नेत्यसामर्थ्येऽप्यार्षत्वात्

अष्टादशवर्गाः।

**मयि भावेन सत्येन मत्कथा श्रवणेन च।
सर्व्वं भूतसमत्वेन निर्ब्बैरेणाप्रसङ्गतः॥५०॥ **

**ब्रह्मचर्य्येण मौनेन स्वधर्मेण महीयसा।
यदृच्छयोपस्थितेन सन्तुष्टोमित भुङ्मुनिः॥५१॥ **

**विविक्त शरणः शान्तो मैत्रः करुण आत्मवान्।
सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्॥५२॥ **

**ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च।
निवृत्तबुद्ध्यव स्थानो दुरौभूतान्य दर्शनः॥५३॥ **

उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक्।
मुक्तलिङ्गं सदाभास मसति प्रतिपद्यते॥५४॥

————————————————————————————————————

समासः। विजृम्भमाणयेति सर्वैस्तृतीयान्तैःसम्बध्यते। सदसति कार्य्यकारणरूपे। असङ्गोरतिश्चेति अनिष्टहानि रिष्टाप्तिश्चेतिद्वयमुक्तम्। सनत्कुमारः पृथुम्। ४।२२।२५ (४९)

अथ अष्टादश वर्ग माह। मयीति। मयि सत्यभावो निष्कामाभजन प्रवृत्तिः सर्वभूतेषु विष्णुरधिष्ठतिति समत्वम्। अप्रसङ्गोनिःसङ्गत्वम्। मुनिर्म्मननशीलः॥ शरणं आश्रयः आत्मवान् जितमनाः। अनुबन्धः पुत्रादिः। असदाग्रहोममाहम्भावः॥ दृष्टं प्रकृतिपुरुषयोस्तत्वं येन ज्ञानेन॥ बुद्ध्यवस्थानं जाग्रदादि अन्यदर्शनं आत्मव्यतिरिक्त ज्ञानम्॥३।२।७।६-७-८-९॥ (५०-५१-५२-५३)

उपलभ्येति। आत्मना जीवेन। आत्मानं परमात्मानम्। चक्षुषा इन्द्रियावच्छिन्नेन सूर्य्येण। अर्कं गगनस्थं सूर्य्यम्। आत्म-

सतोबन्धुमसच्चक्षुः सर्व्वानुस्यूत मद्वयम्॥५५॥

पञ्चदशवर्गाः।

श्र(शु)द्धामृत कथायां मेशश्वन्मदनु कीर्त्तनम्।
परिनिष्टा च पूजायां स्तुतिभि स्तवनं मम॥५६॥

आदरः परिचर्य्यायां सर्वाङ्गैरभि वन्दनम्।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः॥५७॥

मदर्थेष्वङ्गचेष्टा च वचसामद्गुणेरणम्।
मय्यर्पणञ्च मनसः सर्वकाम विवर्ज्जनम्॥५८॥

————————————————————————————————————

दृग् जीव स्वरूपम्। विमृशन् प्रथमम्। मुक्तलिङ्गं लिङ्ग शरीररहितम् । प्रतिद्यते जानाति । ततोऽसति असत्ये प्रपञ्चेस्थितस्य सतः सत्यरूपं परमात्मनः आभासकम्।३।२७।१०॥(५४)

(ततः) तस्यैव सतोबन्धुर्योऽसौ सोहऽमिति ज्ञानम्। ततोऽसतः प्रपञ्चस्य चक्षुर्मिथ्यात्म प्रकाशकम् तत् सर्वत्रात्मानुस्यूतम् व्याप्यस्थितम्। ततोऽद्वयम् सोऽस्माहमेवेति ज्ञानम्। तदुक्तं शङ्कराचार्य्यैः77“योऽसौ सोऽहं सोऽस्माहमेवेति विदुर्यमिति।” कपिलःदेबहूतिम्॥३।२७।११ (५५)

अथ पञ्चदश वर्गमाह शुद्धेति। अनुकीर्त्तनं नामोच्चारणम्। परिकर्य्या पुष्पचन्दनादि। सर्व्वाङ्गैरष्टभिः। तथाच दोर्भ्यां पद्भ्याञ्चजानुभ्यां उरसा शिरसादृशा। मनसावचसाचेतिप्रणामोऽष्ठाङ्ग ईरीत78ः”॥११।१९।२०।२१। (५६-५७)

**मदर्थेऽर्थ परित्यागो भोगस्य च मुखस्य च।
इष्टं दत्तं हुतं जप्तं मदर्थं मद्व्रतं तपः॥५९॥ **

एवं धर्मैर्मनुष्याणामुद्धवात्म निवेदिनाम्।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते॥६०॥

त्रयोदश वर्गाः।

**कुर्य्यात् सर्व्वाणि कर्म्माणि मदर्थं शनकैः स्मरन्।
मय्यर्पित मनश्चित्तो मद्धर्म्मात्ममनोरतिः॥६१॥ **

**देशान् पुण्यानाश्रयेत मद्भक्तैःसाधुभिः श्रितान्।
देवासुर मनुष्येषु मद्भक्ताचरितानि च॥६२॥ **

————————————————————————————————————

अङ्गचेष्टा सम्मार्ज्जनोपलेपादि। ईरणंउच्चारणम्॥ ११।१९।२२। (५८)

भोगोविषयार्ज्जनम्। सुखमुपभोगः। इष्टादेश्चमदर्थम्॥११।१८।१९।२३। (५९)

आत्मनिवेदनम् ज्ञानम्। आत्मनि वेदनमित्यलुक्। तद्यथास्यात्तथाभक्तिर्जायत इति क्रियाविशेषणम्। आत्मसमर्पणमिति व्याख्याने समर्पणञ्च (मय्यर्पणञ्च) मनन इत्यनेन पौनरुक्त्यम्। भगवान् उद्धवम्॥११।१९।२४।(६०)

अथ त्रयोदश वर्गमाह। कुर्य्यादिति। स्मरण मामेव मनः प्रवृत्ति निवृत्तिरूपम् मनः स्वच्छत्वादिरूपम् मद्धर्म्मे सुमद्धर्म्मानुष्ठातृषु महात्मसु मयिसमाविष्टेषु मनोरतिः मनोग्रहणम् मनः पूर्व्विकारतिरित्येवमर्थः॥११।२९।९।(६१)

देशपूतावासेन देवादिषु येमद्भक्ताः तच्चरितानि च पूजयेत् श्रवणादिभिः॥११।२८।१०।(६२)

**पृथक् सूत्रेण वामह्यं पर्व यात्रामहोत्सवान्।
कारयेद् गीतनृत्याद्यैर्महाराजविभूतिभिः॥६३॥ **

**मामेव सर्वभूतेषु वहिरन्तरपावृतम्।
ईक्षेतात्मनि चात्मानं यया ख ममलाशयः॥६४॥ **

इति सर्वाणि भूतानि मद्भावेन महाद्युते।
सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः॥६५॥

**ब्राह्मणे पृक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके।
अक्रूरे क्रूरके चैव समदृक् पण्डितोमतः॥६६॥ **

विसृज्य स्मयमानान् स्वान् दृशं ब्रीड़ाञ्च दैहिकीम्।
प्रणमेद्दण्डवद्भूमावाश्वचाण्डाल गोखरम्॥६७॥

————————————————————————————————————

सत्रेणान्यैर्म्मिलित्वा पर्व्वानि शयनबोधनद्वादश्यादौयात्रा महोत्सवाश्च। मह्यं मदर्थं विभूतयश्चामराद्याः सर्व्वभूतेषु आत्मनि चमामात्मानम् अपावृतम् प्रतिरोहितम्।वहिः कालरूपम्। अन्तरन्तर्यामिरूपम्। केवलं शुद्धं ज्ञानं प्रपञ्चस्याधिष्ठानमिति मन्यमानः। मद्भावेन मद्बुध्या सभाजनं सेवा॥११।२९।१३। (६३।६४।६५)

पुष्कसोऽन्त्यज विशेषः। ब्राह्मणो ब्राह्मण्य सहितः। ब्राह्मणादिष्वष्टसु द्वयोर्द्धयोः क्रमाज जातिक्रिया द्रव्यगुणकृतं वैषम्यं ज्ञेयम्। विषयेष्वपि समं मत्स्वरूपम् पश्यतीति समदृक्॥ ११।२९।१४। (६६)

स्वयं स्वरुच्यैव। स्वादृशं अहं बुद्धिम्। अन्यां ममबुद्धिम्। चकाराल्लोक ब्रीड़ाञ्च॥११।२९।१५। (६७)

**यावत् सर्वेषु भूतेषु मद्भावो नोपजायते।
तावदेवमुपासीत वाङ्मनः कायवृत्तिभिः॥६८॥ **

**नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात्।
स्पर्द्धाऽसूया तिरस्काराः साहङ्कारावियन्ति हि॥६९॥ **

द्वादशवर्गाः।

गुरुशुश्रूषया भक्त्या सर्वलाभार्पणेन च।
सङ्गेन साधुभक्तानामीश्वराराधनेन च॥७०॥

————————————————————————————————————

एतदनुष्ठानस्यावधिमाह। यावदिति। नोपजायते न साक्षाद्भवति॥११।२९।१६।(६८)

उपासनायाः फलमाह। नरेष्विति। मद्भावोमत्सत्ता नर शब्दउपलक्षणम्। सर्वभूतेष्वित्यर्थः। स्पर्द्धाधिकगुणैःसह साम्येच्छा। असुयागुणेषु दोषारोपः। तिरस्कारो मानभङ्गः। अहङ्कारोऽनात्मनि आत्मबुद्धिःगर्वोवा। वियन्ति विशेषाद् गच्छन्ति। संस्कारैः सहनश्यन्तीर्थः। हिस्फुटम्। नस्तुति मात्रम्। भगवान् उद्भवम्॥ ११।२९।१५।(६९)

अथ द्वादशवर्गमाह। गुरुशुश्रूषेति। भक्त्या तात्पर्य्येण शुश्रूषा अर्पण गुरावेव साधवश्च भक्ताश्च साधवःकेवल स्वधर्म्मनिष्ठाः, ईश्वरः79“क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषः”।तस्याराधनं80सर्व कम्मार्पणम्॥ ७।७।३०। (७०)

**श्रद्धया तत्कथायाञ्च कीर्त्तनेर्गुणकर्म्मणाम्।
तत्पदाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः॥७१॥ **

**हरिः सर्व्वेषु भूतेषु भगवानास्त ईश्वरः।
इति भूतानि मनसा कामैस्तैः साधुमानयेत्॥७२॥ **

**एवंनिर्ज्जितषड़ वर्गैः क्रियते भक्तिरीश्वरे।
वासुदेवे भगवति यथा संलभते रतिम्॥७३॥ **

**निशम्य कर्म्माणिगुणानतुल्यान्,
वीर्य्याणि लीलातनुभिः कृतानि।
यदातिहर्षोत्पुलकाश्रुगद्गदम्,
प्रोत्कण्ठ उद्गायति रौति नृत्यति॥७४॥ **

यदाग्रहग्रस्त इव क्वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम्।

————————————————————————————————————

कथायां श्रद्धाश्रवणेनेत्यर्थः, गुणाऐश्वर्य्यादयः। कर्म्माणि सृष्ट्यादीनि लिङ्गमधिष्ठानम् प्रतिमादि, ईक्षादर्शनम् अर्हणं पूजा नचादिशब्देनान्येषामप्युक्तत्वादुद्वादर्शवर्ग प्रतिज्ञाभङ्ग इति शङ्ख्यं, इह स्वशब्दनिद्दिष्टेरेवाङ्गैर्वा समाप्तेर्विवक्षितत्वात्॥७।७।३१। (७१)

हरिरास्त इति, मनसाकामैस्तत्तच्चित्तानुवर्त्तनैः साधु यथास्यात्॥७।७।३२।(७२)

एवं द्वादशवर्गानुष्ठानेन षड़ वर्गों “मनः षठानीन्द्रियाणि” ईश्वरे फलार्पण समर्थे भगवति भजनीय सौन्दर्य्यादिगुणेययाभक्त्या ७।७।३३। (७३)

**मुहुःश्वसन् वक्ति हरे जगत्पते!
नारायणेत्यात्ममतिर्गतत्रपः॥७५॥ **

तदा पुमान् मुक्तसमस्तबन्धनः,
स्वद्भावभावानुकृताशया कृतिः।
निर्द्दग्धवीजानुशयो महीयसा,
भक्तिप्रयोगेण समेत्यधोक्षजम्॥७६॥

————————————————————————————————————

लब्धरतेश्चिह्नान्याह। निशम्येति। निशम्यश्रुत्वा। कर्म्माणि सृष्ट्यादीनि। लीलावतारः कृतानि। लीलासाध्यानि॥७।७।३४।(७४)

आक्रन्दनं नारायणेत्यादि सातत्येन शब्दम्। आत्मनि स्वरूपेमतिर्यस्य नतु लोके। अतएव गतत्रपाः॥७।७।३५। (७५)

रतेः फलमाह। तदेति। बन्धनानि क्लेशकर्म्मविपाकाशयाः81तं विष्णुम्। भावयते प्राप्नोति इतितद्भाव स्तद्विषय इत्यर्थः। प्राप्त्यार्थोभूश्चुरादावस्ति। सचासौ भावो मनोविकारः। तस्मात् अनुकृते आशयाकृती (तीः) अर्थाद्विष्णोरेव येन पुंसा सतथा। आशयोऽन्तःकरणम्। आकृतिर्वेषः वर्हापोड़ादिः। विष्णु विषयेन भावेन विष्णोविरास्यसुप्रसन्नम्। चेतोवेषश्चतथास्यादित्यर्थः। वीजानि पुण्यपापानि। अनुशेरते अस्मिन्निति वीजानुशयो लिङ्गदेहम्। महीयान् साधनसहस्रैर्द्दल्लभः। समेति सङ्गतो भवति। अधः अक्षजं इन्द्रियजं ज्ञानमस्य तं अबाङ्मनसगोचरम्।रूपं प्राप्नोतीत्यर्थः। प्रह्लाद बालान्॥७।७।२६ (७६)

एकादशवर्गाः।

सवैमनः कृष्णपदारविन्दयो-
र्वचांसिवैकुण्ठ गुणानुवर्णने।
करौ हरेर्म्मन्दिर मार्ज्जनादिषु,
श्रुतिञ्चकाराच्युत सत्कथोदये॥७७॥

मुकुन्दलिङ्गालयदर्शने दृशौ,
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम्।
ध्राणञ्च तत्पादसरोजसौरभे,
श्रीमत्तुलस्यारसनां तदर्पिते॥७८॥

पादौ हरेः क्षेत्र पदानुसर्पणे
शिरो हृषीकेश पदाभिवन्दने।
कामञ्चदास्ये नतु काम काम्यया,
यथोत्तमःश्लोकजनाश्रया रतिः॥७९॥

————————————————————————————————————

अथैकादशवर्ग माह। सवै इति। स अम्वरोषः अच्युतस्य सतां भक्तानां कथा ॥९।४।१८। (७७)

लिङ्गं प्रतिमा। आलयोऽधिष्ठानम्। चशब्दो भिन्नक्रमः तुलस्याश्च सौरभे। तत्पादसरोजेति। तत्पादकल्पित सरोज सौरभ इति ज्ञेयम्। रूपकपक्षेऽपिसाम्यमात्रम्। नतु गन्धसद्भावः। तदर्पितेनैवेद्ये ॥९।४।१९। (७८)

क्षेत्रं द्वारकादि। पदं विरजादि। काममभिलाषम्। दास्ये नतु स्त्यादिसेवायाम। कामेनहिरतिः साध्या साचात्र विष्णुजनाश्रया

** दशवर्गाः। **

**आयुर्हरतिवैयुं सामुद्यन्नस्तञ्चयन्नसौ।
तस्यर्त्तेयत् क्षणोनीत उत्तमः श्लोकवार्त्त या॥८०॥ **

**तरवः किं न जीवन्ति भस्त्राःकिं न श्वसन्त्युत।
न खादन्ति नमेहन्ति किं ग्रामपशवोऽपरे॥८१॥ **

**श्वविड् वराहोष्ट्रखरैःसंस्तुतः पुरुषः पशुः।
नयत्कर्ण पथोपेतो जातुनाम गदाग्रजः॥८२॥ **

विलेवतोरुक्रमविक्रमान् ये
न शृण्वतःकर्णपुटे नरस्य।

————————————————————————————————————

यथा येन दास्यकामेन। तत्र पायुवर्जानामिन्द्रियाणां शिरश्च व्यापारैरेकादशाङ्गानि। शुकः॥ ९।४।२०। (७९)

एवमन्वयमुखेन प्राग्वर्गानुक्त्वा व्यतिरेकमुखेन दर्शयन्नाह। आयुरिति। उद्यन् उदयन्। अस्तं पश्चिमाद्रिञ्चयन् गच्छन्। असावभिनयेन सूर्य्यंदर्शयति। तस्यर्त्ते तस्यायुर्विना यद्येन। हृतमपि तस्यायुः सफलत्वादहृतवदित्यर्थः। अत्रवार्त्तयेत्यन्यम्प्रति गुणाभिधानमेकमङ्खमित्यभिप्रेतम्। उत्तरत्र गाथोपगान मेकाकिनः॥ २।३।१७। (८०)

ननु कथमायुषोवैयर्थ्यंभोगसद्भावादित्यत आह। तरव इति। उत अहो ॥२।३।१८।(८१)

विड्वराही ग्राम्यशू (सू) करः। शादिभिः सहसंस्तुतः तत् प्रस्तावे गृहीतनामा ॥२।३।१९।(८२)

(विलेति)। विलेच्छिद्रे नत्विन्द्रिये। वत कष्ठम् न शृण्वत इति नर विशेषणम्। अत्र कर्णपथोपेत इति न शण्वतोये (इति च)

जिह्वासतीदार्द्दूरिकेवसूत!
नचोपगायत्युरगायगाथाः॥८३॥

भारः परं पट्ठकिरीट जुष्ट-
मप्युत्तमाङ्गं न नमेन्मुकुन्दम्।
शावौ करौ नो कुरुतः सपर्य्याम्,
हरेर्लसत् काञ्चन कङ्कणौवा॥८४॥

वर्हायिते ते नयने नराणाम्
लिङ्गानिविष्णोर्न निरीक्षतो ये।
पादौ नृणांतौद्रुमजन्मभाजौ,
क्षेत्राणि नानु ब्रजतो हरेर्यौ॥८५॥

जीवञ्छवी भागवताङ्घ्रिरेणून्
नजातु मर्त्त्योऽभिलभेत यस्तु।
श्रीविष्णुपद्यामनुजस्तुलस्याः
श्वसञ्छवोयस्तु नवेद गन्धम्॥८६॥

————————————————————————————————————

कथा श्रवण मुक्तम्। दर्द्दूरो मण्डूकः। चशब्दश्चेदर्थे गाथाः कथा२।३।२०।(८३)

पट्टं पट्टवस्त्रम् शवस्येमौशावौ। वा शब्दो यद्यर्थे॥२।३।२१।(८४)

वर्हं मयुरपिच्छम्। द्रुम जन्म वृक्षमूलत्वम्॥ २।३।२२। (८५)

नाभिलभेत न स्पृशेत। श्रीशब्दोनाम्नः पूजार्थः। विष्णोः

**तदश्मसारं हृदयं वतेदम्,
यद्गृह्यमाणै र्हरिनामधेयैः।
न विक्रियेताथ यदाविकारो-
नेत्रेजलं गात्ररुहेषुहर्षः॥८७॥ **

नववर्गाः।

श्रवण कीर्त्तनं विष्णोः स्मरणंपादसेवनम्।
अर्चनं वन्दनं दास्यंसख्यमात्मनिवेदनम्॥८८॥

इति पुं सार्पिताविष्णौ भक्तिश्चेन्नवलक्षणा।
क्रियेत भगवत्यद्धातन्मन्येऽधीत मुत्तमम्॥८९॥

सप्तवर्गाः।

अनिमित्तं निमित्तेन स्वधर्म्मेणमलात्मना।
तीब्रयामयि भक्त्याच श्रुतसम्भृतयाचिरम्॥९०॥

————————————————————————————————————

पादौ एति गच्छति इति विष्णुपदो विष्णुचरणस्थेत्यर्थः। इलकान्तावितिदीर्घोऽप्यस्ति अदादी॥२।३।२३।(८६)

अश्मसारं पाषाणवद्लोहवद्वाकठिनम्। विकृतं कथं लक्ष्यं विक्रियायोगात्। यदाविकार स्तदा अश्रूणि रोमहर्षश्च शौनकः स्तम्॥२।३।२४। (८७)

अथ नववर्गमाह। श्रवणमिति। पादसेवनं पादयोः सेवनम् नमनमित्यर्थः। वन्दनं स्तुतिः। सख्यं प्राग्वत् ॥७।५।२३।(८८)

नवलक्षणा नवाङ्गा। प्रह्लादः पितरम्॥७।५।२४।(८९)

सप्तवर्गमाह। अनिमित्तेति। अनिमित्तं निमित्तत्वाभावः।

ज्ञानेन दृष्टतत्त्वेन बैराग्येण बलीयसा।
तपो युक्तेन योगेन तीव्रेणात्मसमाधिना॥९१॥

प्रकृतिः पुरुषस्येह दह्यमानात्वहर्निशम्।
तिरोभवित्रीशनकैरग्नेर्योनिरिवारणिः॥९२॥


निमित्तं प्रयोजकं यस्य तेन82।“एवं नृणां क्रियायोगाः सर्व्वेसंसृतिहेतवः। तएवात्म विनाशाय कल्पन्ते कल्पिताः परे” इत्युक्तेनअमल आत्मा चित्तं यस्मात्तेन। शुद्धमन्त्रद्रव्यात्मकेनेत्यर्थः। श्रुतं कथाश्रवणम् तेन संभृता उपचिता॥३॥२७।२१।(९०)

दृष्ठतत्वेन सत्वपुरुषान्यताख्याति रूपेण। वैराग्येण गुणसङ्गजनितरागरूपमलापनुत्या। बलीयसा वशोकार संज्ञा83लक्षणेन। योगोध्यानम्84“योगः सन्नहनोपायःध्यानंसङ्गतियुक्तिषु” इतिनानार्थात्। ध्यानमेव “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधि85”रिति समाधिलक्षणम्॥३।२७।२२ (९१)

अत्र स्वधर्म्मादिभिःषड्भिः तीव्रया श्रुतसम्भृतया च भक्त्यादह्यमाना प्रकृतिस्तिरोभवितीति प्रतिपत्तव्यम्। यथा श्रुते तुस्वधर्म्मादिवद्भक्तेरप्यङ्गकोटिनिविष्टत्वानुपपत्तिः, प्रक्रान्तं चाङ्गित्वम्।भवित्रीतिसाधुकारिणि तृन्। यत्र न पुनराविर्भावः स साधुः नतिरोभावः, यथाह्यरणिरग्निमुत्पाद्य तत्तेजसा नश्यति। तथा प्रकृतिभक्तिमुत्पाद्य प्रकटीकृत्य तत्तेजसा नश्यतीत्यर्थः। कपिलः॥३॥२७॥२३। (९२)

षड़्वर्गाः

वाणीगुणानुकथने श्रवणौ कथायाम्,
हस्तौ च कर्मसु मनस्तवपादयोर्नः।
स्मृत्यां शिरस्तवनिवासजगत्प्रणामे,
दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम्॥९३॥

पञ्चवर्गाः।

शृण्वतां गदतां शश्वदर्च्चतां त्वाभिवन्दताम्।
नॄणां संवदतामन्तर्हृदिभास्यमलात्मनाम्॥९४॥

चतुवर्गाः।

तस्मादेकेन मनसा भगवान् सात्त्वतां पतिः86
श्रोतव्यः कीर्त्तितव्यश्च ध्येयः पूज्यश्च नित्यदा॥९५॥

________________________________________________________________________

षड़विंश वर्गमाह। वाणीति। पादयोः स्मृत्यां मनः शिरःप्रणामे हि निवास जगद् जगद्निवासो यस्येति निवास शब्दस्यसप्तमीविशेषणे बहुब्रीहाविति पूर्व्व निपातः। नलकूवरः श्रीकृष्णम्॥१०।१०।३८ (९३)

पञ्चवर्गमाह। शृण्वतामिनि। श्रुतदेवः श्रीकृष्णम्॥१०॥८६।४६। (९४)

चतुर्ब्बर्गमाह तस्मादिति। यस्मात् सर्व धर्म्माणां विष्णुभक्तिःफलम्। सात्वतां सत्ववताम्। सच्छब्देन सत्वमुच्यते। सुतःशौनकम्॥१।२।१४।(९५)

त्रिवर्गाः।

तस्माद् भारत सर्वात्मा भगवान् हरिरीश्वरः।
श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्छताऽभयम्॥९६॥

तस्मात् सर्व्वात्मना राजन् हरिः सर्व्वत्रसर्व्वदा।
श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यो भगवान्नॄणाम्॥९७॥

पुनर्वचनं त्रिवर्गस्यान्तरङ्गतमत्वख्यापनार्थम्।

इति वोपदेव विरचिते मुक्ताफले विष्णुभक्त्यङ्गवर्ग
लक्षणं भेदाश्च। इति सप्तमोऽध्यायः।

__________________________________________________________

त्रिवर्गमाह। तस्मादिति। तस्माद् यस्मादन्येषां सदोषत्वात्सर्व्वात्मत्वादात्मीयत्वं भगवत्त्वाद्रमणीयत्वम् ईश्वरत्वाद्वरदत्वम्।श्रवणादि प्रवृत्तिहेतुः। अभयं मोक्षम्। शुकः राजानम्॥२।१।५ (९६)

तस्मादिति। तस्माद् यस्माद् भक्तावेव वेदस्य तात्पर्यम्। सर्वात्मना सर्वावस्थेनापि सर्वदेशेषु सर्वकालेषु च शुकः॥२।२।३६।(९७)

ननु वर्गान्तराणि सकृदेवोक्तानि त्रिवर्गस्तु किमर्थं पुनरुच्यतेइत्यत आह। पुनर्व्वचनमिति। मतवर्थोह्यतिशयः। स चान्य सव्यपेक्ष्य(इत्यर्थः) इत्यर्थात् पूर्वस्य वर्गनवकस्यान्तरङ्गतरत्वम्। तत्पूर्वस्यत्वन्तरङ्गत्वमित्युक्तंभवति॥

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां विष्णुभक्ताङ्ग
लक्षणं भेदाश्च। इति सप्तमोऽध्यायः॥

<MISSING_FIG href=”../books_images/U-IMG-1737716167Screenshot2024-12-26191338.png”/>

अष्टमोऽध्यायः।

अथ विष्णु श्रवणम्।

कानामतृप्येद्रसवित्कथायाम्,
महत्तमैकान्त परायणस्य।
नान्तं गुणानाम गुणस्य जग्मु-
र्योगेश्वराये भवपाद्ममुख्याः॥१॥

तन्नो भवान् बैभगवत् प्रधानो,
महत्तमैकान्त परायणस्य।

________________________________________________________________________

एवं भक्त्यङ्गान्युक्त्वातेषु सर्व्वशः स्तोतव्येषु प्राधान्यात्त्रिवर्गमेवस्तौति। वर्गस्येति। महिमेति शेषः। तेष्वपि श्रवणमाहात्म्यमाहअथेति। कोनामेति। महत्तमाः एकान्तेन नियमेन परायणं परमआश्रयो यस्य स तथा। महत्तमैः कथ्यमानः प्रत्यक्षइव भवतीतिभावः। अन्तं निश्चयं इदं रूपम्ईदृशं रूपं इत्थञ्चमत्करोतीत्यादि।अगुणस्य गुण सुखाधिकस्वरूपसुखलुब्धत्वाद् अगृहीत गुणस्यस्वरूप सुखमेव गुणेष्वभिव्यक्तमन्यान् सुखयति। अभिव्यक्तितारतम्यात् मुखतारतम्यम्। भवोरुद्रः। पाद्मो ब्रह्मा। मुख्यशब्दात्सनकादयः योगस्य समाधेः।ईश्वरावशोकृत समाधयः।समाधिवलात् कलित सकल पदार्था अपि विष्णुगुपान्न कलयन्तीत्यर्थः॥१।१८।१५। (१)

तत इति। भगवत् प्रधान इति बहुब्रीहिः। महत्तमेति तत्-

हरे रुदारं चरितं विशुद्धम्,
शुश्रूषतान्नोवितनोतु विद्वन्॥२॥

कोनाम लोके पुरुषार्थ सारवित्-
पुरा कथानां भगवत् कथासुधाम्।
आपीयकर्णाञ्जलिभिर्भवापहा-
महोविरज्येत विना नरेतरम्॥३॥

निवृत्ततर्षैरुपगीयमाना-
द्भवौषधाच्छ्रोत्रमनोरभिरामात्।
क उत्तमः श्लोक गुणानुवादात्,
पुमान् विरज्येत विनाऽपशुघ्नात्॥४॥

कस्तृप्नुयात्तीर्थ पदोऽभिधानात्,
सत्रेषु वः सूरिभिरीड्यमानात्।
यः कर्णनाडींपुरुषस्य यातो-
भवप्रदां गेहरतिं छिनत्ति॥५॥

_______________________________________________________________________

पुरुषः। विशुद्धं कर्त्रन्तरासंङ्कीर्णम्। शौनकः सूतम्॥१।१८।१५। ( २ )

कोनमिति। पुराकथानाम् मध्ये।नरेतरं पशुं। मैत्रेयःविदुरम्॥३।१८।५०।(३)

तर्षो विषयेच्छा। अनुवादाद् अन्यैःक्रियमानादित्यर्थः।निवृत्ततर्षादिभिस्त्रिभिर्मुक्त मुमुक्षु सकामा नात्र विरज्यन्त इत्युक्तंपशुघ्नो हिंसानिरतः। राजा शुकम्॥१०।१२।४।( ४ )

कस्तृप्नुयादिति। तीर्थपादो विष्णुः। सत्रेषु पुराणेषु। विष्णु-

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः।
शुद्धिकामो न शृणुयाद् यशः कलिमलापहम्॥६॥

वयन्तु न वितृप्याम उत्तमःश्लोकविक्रमे।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे॥७॥

श्रुतस्य पुंसां सुचिरश्रमस्य,
नन्वञ्जसा सूरिभिरीड़ितोऽर्थः।
तत् तद्गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम्॥८॥

पिवन्ति ये भगवत आत्मनः सताम्,
कथामृतं श्रवणपुटेषु संभृतम्।

__________________________________________________________

महिम्नः साकल्येन वक्तुमशक्यत्वात् पुराणानां सूचना रूपेन सूत्रत्वम्।कर्णनाड़ीं कर्णमूलम्। विदुरः मैत्रेयम्॥३।५।११ (५)

एतेहि श्लोकाः शुश्रूषोर्व्वचसा। श्लोकः कीर्त्तिः। ईड्यं स्तुत्यम्॥१।१।१६।(६)

वयन्त्विति। यद्येविक्रमाः। स्वादु स्वादु स्वादवः स्वादवः।उभय सुपांसुलुक् पूर्व्व सवर्णेति सुलुक्87 पदे पदे च क्षणे क्षणे।शौनकः सूतम्॥१।१।१९(७)

श्रुतस्येति। मुकुन्द पादारविन्दं येषां हृदयेषु तत्तेभ्यस्तस्यमुकुन्दस्य गुणान् श्रवणं श्रुतश्रमस्यफलम्। विदुरः मैत्रेयम्॥३।१३।४।(८)

पुनन्ति ते विषयविदूषिताशयम्,
ब्रजन्ति तच्चरणसरोरुहान्तिकम्॥९॥

ज्ञानं यदा प्रतिनिवृत्तगुणोर्म्मिचक्रम्,
आत्मप्रसाद उभयत्र गुणेष्वसङ्गः।
कैवल्यसम्मतपथस्त्वथभक्तियोगः,
को निर्वृतो हरिकथासु रतिं न कुर्य्यात्॥१०॥

तस्मिन्महन्मुखरिता मधुभिच्चरित्र-
पीयूषशेष सरितः परितः श्रवन्ति।
ता ये पिवन्त्यवितृषो नृपगाढ़कर्णै-
स्तान्नस्पृशन्त्यशनतृड्भयशोकमोहाः॥११ ॥

________________________________________________________________________

पिवन्तीति।सतामात्मनः सद्भिरात्मत्वेन ज्ञातस्य।शुकःराजानम्॥२।२।३७।(९)

ज्ञानमिति। हरि कथासु कोननिर्वृतः कोवारतिं न कुर्य्यात्।यद् यस्मात् तास्वेव ज्ञानादयोगुणाः। आइति स्मरणे। भागवत सङ्गं शुकः स्मरति। प्रतिनिवृत्तं यत्रोदितं तत्रैव लीनम्। गुणोर्म्मिचक्रम्। महदादिपरः पूरोयेन ज्ञानेन तत्तथा।आत्मप्रसादःशुद्धसत्वात्मकत्वम्। उभयत्रगुणेष्वसङ्गइहामूत्रभोगविरागः। कैवल्यमित्येव संमत पन्थाः फलसाधनत्वेपि फलरूपत्वात् शर्करादिव्यञ्जनवत्शुकः॥२।३।१२।(१०)

तस्मिन्निति। तस्मिन् भागवत सदसि महद्भिर्मुखरिता वाचालीकृतास्वयमेवात्मानं यथा प्रकाशयन्ति तयोच्चारिताःमहम्मनोह्लादापुरणस्यतदवस्यत्वाच्चेशत्वम्।परितः सर्व्वान् श्रोत्तृन्प्रति।

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम्।
महार्त्ता यातयामानां न बन्धाय गृहा मताः॥१२॥

कुतोऽशिवंत्वच्चरणाम्बुजासवम्,
महन्मनस्तो मुखनिःसृतं क्वचित्।
पिवन्ति ये कर्णपुटैरलं प्रभो!
देहं भृतां देहकृदस्मृतिच्छिदम्॥१३॥

विभ्य्वस्तवामृतकथोदवहास्त्रिलोक्याः,
पादावनेजसरितः शमलानि हन्तुम्।
आनुश्रवं श्रुतिभिरङ्घ्रिज मङ्गसङ्गै-
स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति॥१४॥

________________________________________________________________________

अवितृषःविविधतृष्णारहिताः। तदेकाभिलाषा इत्यर्थः। अशनं क्षुद्भयम्88। जरामरणञ्चेतिषड़ूर्म्मयः। “मनसःशोकमोहौ चप्राणस्य च तृषा क्षुधा। जरामृत्यू शरीरस्यषड़ूर्मिरहितः शिवः"इति वचनात्। नारदः प्राचीनवर्हिषम्॥४।२९।४०।(११)

गृहेति। आवेशःस्थितिः। कुशलं विहितम्। वार्त्तायाश्रुतातया। यातोनीतः यामः प्रहरो यैः। भगवान् प्रचेतसम्॥४।३०।१९(१२)

कुत इति। आसवः पुष्परसः कीर्त्तिश्च।महतांमनस्तोमुखान्निःसृतम्। मनस्त इति प्रथमार्थेतसि ततः समासः। मनःशुद्ध्यामहद्भिर्व्वर्णित मित्यर्थः। क्वचित् कदाचित्। देहंभृतामित्यार्षोनुमागमः। संसारापादिका या स्मृतिः स्वरूपाज्ञानम्।कुरुक्षेत्रे मिलिता सुहृदः श्रीकृष्णाम्॥१०।८३\।३।(१३)

विभ्व्यइति। विभ्व्यःप्रगल्भाः। अमृतं सुधा। उदवहानद्यः।

यस्तूत्तमःश्लोकगुणानुवादः,
सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः।
तमेव नित्यं शृणुयादभीक्ष्णम्,
कृष्णोऽमलां भक्तिमभीप्समानः॥१५॥

ये तु त्वदीयचरणाम्बुजकोशगन्धम्,
जिघ्रन्तिकरकर्णविवरैः श्रुतिवातनीतम्।
भक्त्या गृहीतचरणः परयाच तेषाम्,
नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम्॥१६॥

__________________________________________________________

सरितोगङ्गात्रयम्। अतएव त्रिलोक्या इत्युक्तम्। शमलानिपापानि। अनुश्रूयत इत्यनुश्रवं कथातीर्थम्। श्रुतिभिः श्रवणावृत्त्या अङ्घ्रिजं गङ्गाऽङ्गसङ्गैःस्नानादिभिः। शुचौ सीदन्तीतिशुचिषदः। उपस्पर्श आचमनम्। सामीप्येन सेवा च। तीर्थद्वयोपस्पर्श साध्यस्य शुचिषत्त्वस्य सिद्धवन्निर्देशः कार्य्यकारणयोः पौर्ब्बापर्य्यरूपातिशयोक्तिरियम्। ये उपस्पृशन्ति तेशुचयः स्युरित्यर्थः। ब्रह्माद्या श्रीकृष्णम्॥११।६।१९। (१४)

यस्त्विति। अमङ्गलघ्नत्वेन गीयते। प्रतिवाक्यंसातत्यार्थम्शब्दत्रयम्। गानश्रवणाभीप्सानां प्रकर्षार्थं शुकः॥१२।३।१५। (१५)

ये त्विति। गन्धःक्रीर्त्तिरामोदश्च।कोषोभाण्डारागारम्।कुट्मलपक्षेहि गन्धाभावः। श्रुतिर्वेदः89। चरणग्रहणं कीर्त्त्यैकदेशस्यैव श्रुतिगोचरत्वम्। न सर्वकीर्त्तेरिति विज्ञापनार्थं भक्त्या प्रणय पर रसनया। नापैषि नापयासि। ये च कीर्त्तिश्रवणनिष्ठास्तेषां मनो न त्यजसीत्यर्थः। ब्रह्मा विष्णुम्॥३।९।५\। (१६)

यइत्थं परस्य निजधर्म्मरिरक्षयात्त,
लीलातनोस्तदनुरुपविड़म्बनानि।
कर्माणि कर्म्मकषणानि यदूत्तमस्य,
श्रूयादमुष्यपदयोरनुवृत्तिमिच्छन्॥१७॥

इति विष्णुश्रवणम्।

अथ विष्णु-कीर्त्तनम्।

अयं हि कृतनिर्वेशो जन्मकोट्यंहसा मपि।
यद्व्याजहारविवशो नामस्वस्त्ययनं हरेः॥१८॥

__________________________________________________________

श्रवणस्य माहात्म्यविषय (दिश) मुक्त्वाउपसंहरति। इत्थमिति।परो निराकारः। रिरक्षा रक्षितुमिच्छा। आर्ष मनिदत्वम्।तस्यानुरूपविडम्बनानि। अनुचितानि।तत्स्वरूप माहात्म्यपर्यालोचने त्वसदृशानीत्यर्थः। जगत्सृष्ट्यादि कर्त्तुर्हि कंसादिकीट निरसने कियत् कौतुकम्। कर्म्मपापम्। कषणं हिंसा।श्रूयाद्भवानितिराज्ञः। आशीः। अनुवृत्तिं भक्तिम्। शुकः॥१०।९०।४९\। (१७)

श्रवणं स्तुत्वाकीर्त्तनं स्वौतीत्ययमिति। अयमजामिलः।निर्वेशः प्रायश्चित्तम्90॥६।२।७। (१८)

एतेनैव ह्यघोनोऽस्य कृतं स्यादधनिष्कृतम्।
यदा नारायणायेति जगाद चतुरक्षरम्॥१९॥

स्तेनः सुरापो मित्रध्रुक् ब्रह्महा गुरुतल्पगः91
स्त्री राज पितृगोहन्ता ये च पातकिनोऽपरे॥२०॥

सर्वेषामप्यधवतामिदमेव सुनिष्कृतम्।
नामव्याहरणं विष्णोर्यतस्तद्विषयामतिः॥२१॥

न निष्कृतेरुदितैर्ब्रह्यवादिभि-
स्तथाविशुद्ध्यत्यवान्व्रतादिभिः।
यथा हरेर्नामपदैरुदाहृतै-
स्तदुत्तमः श्लोकगुणोपलम्भकम्॥२२॥

________________________________________________________________________

एतेनेति। अघोनः मघवच्छब्दवद्रूपम्। यदा यस्मिन्नेव काले।एतेनैव कालेन।निमेषत्रयमात्रेण। किं द्वादशाब्देन यतो नामव्याहरणाद् मद् विषयामतिर्भवति॥६।२।८। (१९)

तदितरैःप्रायश्चित्तैस्तुल्यं पापक्षयमात्रफलत्वात्। इति चेन्नतत्रार्हः न निष्कृतैरिति।

निष्कृतं प्रायश्चितम्। पदग्रहणं सुसंस्कृतेषु नामसु शक्त्यतिशयार्थम्। यत् पुनरुत्तमःश्लोकगुणोपलम्भकं व्याहर्त्तुंविष्णुगुणज्ञानंकरोति। तदितरेभ्योऽधिकं पुनः पापप्रवृत्तिनिवारणात्॥६\।२।११। ( २०-२२ )

नैकान्तिकं तद्धि कृतेऽपि निष्कृते,
मनःपुनर्धावति चेदसत्पथे।
तत्कर्म्मनिर्हारमभीस्पतां हरे-
र्गुणानुवादः खलु सत्त्वभावनः॥२३॥

साङ्केत्यंपारिहास्यं वा स्तोभंहेलनमेव वा।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥२४॥

पतितः स्खलितो भग्नः संदष्टस्तप्त आहतः।
हरिरित्यवशेनाह पुमान्नार्हति यातनाः॥२५॥

__________________________________________________________

[नैकान्तिकमिति] तस्मात्तत् प्रायश्चित्तं नैकान्तिकं नावश्यकम्। हि यस्माद् असत्यर्थे (असत्पथे) धावति। भुक्त्यर्थं काम्यंकर्म्मकरोति। तत् तस्मान्निर्हारम्अत्यन्त्यनाशम्। गुणानुवादःविष्णोर्गुणान् अनुवबृत्त्या। नैरन्तर्येण वादयति यद् नामव्याहरणम्तत्तेभ्योऽधिकं।काम्यकर्म्मप्रवृत्तिनिवारणात्। मत्वं भावयतिविशुद्धोर्ज्जितसत्वंस्वन्तःकरणंकरोति॥६।२।१२ (२३)

ननु अजामिलेन पुत्रनामगृहीतं न तु विष्णुनामेति चेत्तत्राहसाङ्गेत्यमिति। साङ्केत्यमन्यत्रपुत्रादी सङ्केतितम्। पारिहास्यंविष्णुरसीति परिहासेनारोपितम्। स्तोमं गीतालापपरिपूरणार्थं गृहीतम्। हेलनं किं विष्णुनेति निन्दार्थं। विष्णोरिदं नामेतिज्ञानञ्चेत् तात्पर्य्यंविनापि फलप्रदमित्यर्थः॥६।२।१४ (२४)

यद्यपि विष्णुनामैव पुत्त्रनामज्ञातञ्च तथापि सम्भ्रमादज्ञातमितिचेत्तत्राह,- पतित इति। अवशेन सङ्कल्पं विना व्यथावेगाद्यैर्निर्गता वर्णास्ते देवाद् विष्णुनामरूपा जाता इत्यर्थः। तथापियातनां नार्हति। पापक्षयात् कीर्त्तनं हि तत्र निष्पन्नम्। श्रवणन्तु

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन्।
ततः सद्यो विमुच्येत यद् विभेति स्वयम्भयम्॥२६॥

न यद्वचश्चित्रपदं हरेर्यशो-
जगत् पवित्रंप्रगृणीत कर्हिचित्।
तद्वायसंतीर्थमुशन्ति मानसा-
न यत्रहंसानिरमन्त्युशिक्क्षयाः॥२७॥

तद्बाग्विसर्गोजनताघविप्लवो
यस्मिन् प्रतिश्लोकमवद्धवत्यपि।

_________________________________________________________

निष्पणमेवान्यकीर्त्तितनामवद् यस्यान्त्ववस्थायां सङ्कल्पंविना कीर्त्तयति न च तच्छृणोति तस्यां न पापक्षयः। अतिप्रसङ्गात्। चकारोहि प्रसिद्धंविष्णुनाम। तद् यथा कथञ्चिद्येन कीर्त्तितं श्रुतं(स्मृतं) वा स कोऽपि नास्ति। तस्मादिदं विष्णु नाम तच्च मयाकीर्त्तितं श्रुतं स्मृतञ्चेति यस्य ज्ञानं तस्यैव पापक्षयः इत्यङ्गीकर्त्तव्यम्। विष्णु दूता यमदूतान्॥६५ (२५)

आपन्न इति। गुणान् कीर्त्तयन्। सूतम्॥१।१।१४।(२६)

यदित्यादि। वचो वाक्यं चित्रानिपदानि यत्र तत्तथा।जगत् पवित्रं यस्मात् तत्तथा। कर्हिचिदुशन्ति मन्यन्ते मानसाहंसाः। ब्रह्म मनसि भवाः शनकादयः। विरमन्ति विशेषाद्रमन्ते।उशिक् उत्तमः क्षयो निवासो येषां ते तथा। काकतीर्थपक्षेमानससरोवरस्थाः॥१।५।१०। (२७)

विष्णु महिम्नाशून्यं वाक्यंनिन्दितत्वात् तत् सहितं स्तौति।

नामान्यनन्तस्य यशोऽङ्कितानियत्,
शृण्वन्ति गायन्ति गृणन्ति साधवः॥२८॥

इदं हि पुंसस्तपसः श्रुतस्य वा,
स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः।
अविच्युतोऽर्थःकविभिर्निरूपितो-
यदुत्तमः श्लोकगुणानुवर्णनम्॥२९॥

प्रायेण मुनयो राजन् निवृत्ता विधिसेधतः।
नैर्गुण्यस्था रमन्तो स्मगुणानुकथने हरेः॥३०॥

_________________________________________________________

तद्वागिति। वाग्विसर्गो वाक्यप्रयोगः।जनता जनसमूहस्तस्याअर्धं पापं तस्य विप्लवो विनाशहेतुः कोऽसौ यस्मिननन्तस्य नामानिअवद्धं दुष्टं पदं यद् यस्मात् तंवाग्विसर्गं साधवः वक्तरि सति शृण्वन्ति।श्रोतरिसति गुणन्ति। उभयाभावे स्वयं गायन्ति॥१।५।११। (२८)

इदंइति। सर्व्वस्य सत्कर्मणोविष्णुभजनं फलमितिश्लोकार्थः। सूक्तं सदुपदेशः। तस्य ग्रहणं श्रुतं (तस्यार्थावधारणाद्बुद्धम्) तस्यानुध्यानं स्विष्टम्। दन्तं तपश्च। अविच्युत अविनाशो। नारदः व्यासम्॥१।५।२२।(२९)

प्रायेणेति। नैर्गुण्यं परंब्रह्म92 शुकः॥२।१।७ (३०)

यन्नामश्रुतमनुकीर्त्तयेदकस्मात्,
आर्त्तोवा यदि पतितः प्रलम्भनाद्वा।
हन्त्यं हः सपदि नृणामशेषमन्यम्,
कंशेषाद्भगवतः आश्रयेन्मुमुक्षुः॥३१॥

एतन्निर्विद्यमानानामिच्छतामकुतोभयम्,
योगिनां नृपनिर्णीतं हरेर्नामानुकीर्त्तनम्॥३२॥

पतितः स्खलितश्चार्त्तःक्षुत्त्वा वा विवशोब्रुवन्।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात्॥३३॥

संकीर्त्त्यमानो भगवाननन्तः,
श्रुतानुभावो व्यसनं स्वपुंसाम्।
आविश्यचित्तं विधुनोत्यशेषम्,
यथा तमोऽर्कोऽभ्रमिवातिवातः॥३४॥

__________________________________________________________

यन्नामेति। यस्यनामश्रुतंसनृनृणां अंहःपापंहन्ति। यश्चानुकीर्त्तयेत् तस्यापि आर्त्तोरोगो। प्रलम्भनं परिहासः। ततःशेषादनन्तात्। अन्यं कं मुमुक्षुराश्रयेत् शुकः॥५।२५\।११।(३१)

पतदिति। योगिनः समाहिताः। शुकः॥२\।१\।११\। (३२)

पतित इति। क्षुत्वाक्षुतं कृत्वा॥ ११।१२।४७।(३३)

संकीर्त्त्यमानेति। अनुभावो महिमा। व्यसनं मलम्।तच्चेद्द्वेधा मायिकं कार्य्यञ्च। तत्रोभयोरपि निर्वर्त्त्यविवक्षया क्रमात्तयो(भ्रमयो) रूपादानम्। सुतः॥११।१२।४८। (३४)

मृषागिरस्ताह्यसतीरसत्कथा,
न कथ्यते यद् भगवानधोक्षजः।
तदेव सत्यं तदुहैव मङ्गलम्,
तदेव पुण्यं भगवद् गुणोदयम्॥३५॥

तदेव रम्यं रुचिरं नवं नवम्,
तदेव शश्वद् मनसो महोत्सवम्।
तदेव शोकार्णव शोषणं नृणाम्,
यदुत्तमःश्लाकयशोऽनुगीयते॥३६॥

कलेर्दोषनिधे राजन्नस्तिह्येको महान् गुणः।
कीर्त्तनादेव कृष्णास्य मुक्तबन्धः परं ब्रजेत्॥३७॥

यन्नामधेयं म्रियमाण आतुरः,
पतन् स्खलन् वा विवशोगृणान् पुमान्।

__________________________________________________________

मृषेति। मृषा असत्याः।वाच्यस्य मिथ्या भूतत्वात्। असतीः अमङ्गलाः। असत्कथा अपुण्यरूपाः यद् याभिः॥ उ अहोहप्रसिद्धम्।भगवतां श्रीमतां गुणानामुदयो यस्मात्तत्तथा। कास्तर्हि समीक्ष्याह तदेवेति॥१२\।१२\।४९(३५)

(तदेवेति)। रुचिरंप्रीतिवर्द्धनम्। तदेवरम्यं आयतीसुन्दरम्।अतोनवं नवं शश्वत् आपद्यनापदि च। शोक शोषकम् महोत्सवञ्चयस्मिन्। सूत शौनकादीन्॥ १२।१२।५०।(३६)

कलेरिति। परं वैकुण्ठम् शुकः॥१२।३।५१।(३७)

यदिति। आतुरः सरोगः। कर्म्मपापम्। उत्तमागतिर्मोक्षः।

विमुक्तकर्म्मार्गल उत्तमां गतिम्,
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः॥३८॥

इत्थं हरेर्भगवतो रुचिरावतार-
वीर्य्याणि बालचरितानि च शन्तमानि।
अन्यत्रचेह च श्रुतानि गृणन् मनुष्यो-
भक्तिं परां परमहंस गतौ लभेत॥३९॥

इति श्रीवोपदेवकृते मुक्ताफले विष्णुकीर्त्तनमहिमानामाष्टमोऽध्यायः। इत्यष्टमोऽध्यायः॥८॥

__________________________________________________________

नोयक्ष्यन्ति न पूजयन्ति। शुकः राजानम्॥१२।३।४४।(३८)

उपसंहरति-

इत्थमिति।रुचिरेति। प्रौढ़चेष्टितानामुक्तिः। सन्तमानिमुख्यात्मकानि सृतानि प्रसृतानि। चकारद्वयमुभयत्र प्राधान्यार्थम्।परां प्रेमात्मिकाम्। शुकः राजानम्॥११।३१।२८ (३९)

इति श्रीहेमाद्रिविरचितकैवल्यदीपिकायां विष्णुकीर्त्तनमहिमानामाष्टमोऽध्यायः॥८॥

समाप्तोऽष्टमोऽध्यायः।

<MISSING_FIG href=”../books_images/U-IMG-1737817094Screenshot2024-12-26191338.png”/>

नवमोऽध्यायः

अथ विष्णु-स्मरणम्।

तस्मिन् प्रविष्टेऽसुरकूटकर्म्मजा,
मायाविनेशुर्महिना महीयसः>
स्वप्नो यथाहि प्रतिबोध आगते,
हरेः स्मृतिः सर्वविपद्विमोक्षणम्॥१॥

एतावान् सांख्ययोगाभ्यां स्वधर्म्मपरिनिष्ठया।
जन्मलाभः परं पुंसामन्ते नारायणस्मृतिः॥२॥

यशः श्रियामेवपरिश्रमः परा-
वर्णाश्रमाचार तपः श्रुतादिषु।

__________________________________________________________

तस्मिन् विष्णौ कुटकर्म्ममाया प्रदर्शनम्। महिनामाहात्म्येन।हिशव्दो भिन्नक्रमः। हरेस्मृतिर्हीत्यर्थान्तरन्यासः। शुकः राजानम्॥८।१०।५५। (१)

एतावानिति। सांख्यं प्रकृतिपुरुष-विवेकः।योगश्चित्त वृत्तिनिरोधः93। स्वधर्म्मपरिनिष्ठा नित्य नैमित्तिकानुष्ठानम्। एभिस्त्रिभि रेतावान् परोजन्म लाभः। जन्मनःसाफल्यम् यदन्ते नारायणस्मृतिः। शुकः राजानम्॥२।१।६।(२)

यश इति। यशसांश्रीणाञ्च सम्बन्धिषु यशोनिमित्तेषुश्रीनिमित्तेषु आचारादिषु यःपरः केवलः परिश्रमः क्लेश एव नतु

गुणानुवाद श्रवणादरादिभि-
रविस्मृतिः कृष्णपदारविन्दयोः॥३॥

अविस्मृतिः श्रीधरपादपद्मयोः,
क्षीणोत्यभद्राणि च सन्तनोति।
सत्त्वस्य शुद्धिं परमाञ्चभक्तिम्,
ज्ञानञ्च विज्ञानविरागयुक्तम्॥४॥

विद्या तपो प्राण निरोधमैत्री-
तीर्थाभिषेक ब्रतदानजप्यैः।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा,
यथा हृदिस्थे भगवत्यनन्ते॥५॥

_________________________________________________________

फलम्। यद्भगवत् पादयोरविस्मृतिः। सा चगुणानुवादादिभिः॥१२।१२।५४।(३)

ननुकिमविस्मृत्येति तत्राह। अविस्मृतिरिति। क्षिणोतिहिनस्ति। अभद्राणि दुर्व्वासनाः शंसुखम्। सत्वशुद्धिनीरुजकता।ततो भगवति प्रेम।ततोऽन्यत्र विरागः। ततः परोक्षबोधः। ततः साक्षात्कारइत्यर्थः। सूतः शौनकम्॥१२।१२।५५।(४)

विद्या वैराजोपासना (वैश्वानराद्युपासना94)। प्राण निरोधःप्राणायामः। जप्यं प्रणवादि नान्यत्95॥१२\।३\।४८।(५)

तस्मात् सर्वात्मना राजन् हृदिस्थंकुरु केशवम्।
म्रियमाणो ह्यवहितस्ततो यासि पराङ्गतिम्॥६॥

म्रियमाणैरभिध्येयो भगवान् परमेश्वरः।
आत्मभावं नयत्यङ्ग सर्वात्मा सर्व्वसम्भवः॥७॥

इति श्रीवोपदेवकृते मुक्ताफले विष्णुस्मरणं नाम
नवमोऽध्यायः॥९॥

________________________________________________________________________

तस्माद यस्मात्। ततो हरिः स्मरणात्। पुरुषः पराङ्गतिंयाति शुकः राजानम्॥१२\।३\।४९\। (६)

म्रियमाणैरिति। आत्मभावं स्वरूपप्राप्तिम्। सर्व्वात्मनासुलभत्वम्। सर्व्वात्मत्वात् सर्व्वसम्भवत्वात्। भक्तस्य विष्णुविवर्त्तत्वात् सद्भावापत्तिः। शुकः राजानम्॥१२।३।५०।(७)

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां विष्णुस्मरणंनाम
नवमोऽध्यायः॥८॥ इति नवमोऽध्यायः।

<MISSING_FIG href=”../books_images/U-IMG-1737818532Screenshot2024-12-26191338.png”/>

दशमोऽध्यायः

अथ विष्णुश्रवणकीर्त्तने।

एकान्तलाभं वचसोऽनुपुंसाम्,
सुश्लोकमौलेर्गुणवादमाहुः।
श्रुतेश्चविद्वद्भिरूपाकृतायाम्,
कथासुधायायभिसम्प्रयागम्॥१॥

शृण्वतःश्रद्धया नित्यं गृणतश्च स्वचेष्टितम्।
कालेन नातिदीर्घेण भगवान् विशते हृदि॥२॥

यथायथात्मा परिमृज्यतेऽसौ,
मत्पुण्य गाथा श्रवणाभिधानैः।
तथातथा पश्यति तत्त्वसूक्ष्मम्,
चक्षुर्यथैवाञ्जन संप्रयुक्तम्॥३॥

एतन्मुहुःकीर्त्तयतोनु शृण्वतो
न रिष्यते जातु समुद्यमः क्वचित्।

__________________________________________________________

एवं प्रत्येकं श्रवणादिभिः स्तुत्या व्यतिषङ्गेणस्तोतुमाह।एकेति। नु श्चाहो। उपकृता निरूपिता मैत्रेयो विदुरम्॥३।६\।३६। (१)

शृण्वत इति। नाति दीर्घोऽत्यल्पः ब्रह्मा नारदम्॥२।८।४।(२)

यथेति। तत्तेषु प्रकीर्त्यादिषु सूक्ष्मं पुरुषाख्यम्। श्रीभगवान्उद्धवम्॥११।१४।२६ (३)

यदुत्तमः श्लोकगुणानुवर्णनम्,
समस्त संसार परिश्रमापहम्॥४॥

इति वोपदेव विरचिते मुक्ताफले
विष्णुश्रवण कीर्त्तने॥

<MISSING_FIG href=”../books_images/U-IMG-1737818845Screenshot2024-12-26191338.png”/>

अथ विष्णु स्मरण कीर्त्तने।

वयन्त्विह महायोगिन् भ्रमन्तः कर्म्मवर्त्मसु।
त्वद्वार्त्तया तरिष्याम स्तावकैर्द्दुस्तरंतमः॥५॥

स्मरन्तः कीर्त्तयन्तस्ते कृतानि गदितानि च।
गत्युस्मितेक्षण क्ष्वेलिर्यन्नृलोक विडम्बनम्॥६॥

अथ विष्णु-श्रवण-कीर्त्तन-स्मरणानि।

अशेष संक्लेश शमंविधत्ते

__________________________________________________________

एतदिति।एतद्विष्णुयशः। नोरिष्यते नोनश्यति। यत्यस्मात् अनुवर्णनमिति। पक्षेद्विर्निजन्तम्। तथाच सति अन्यस्मिन् वक्तरि स्वस्य श्रवणम्। स्वार्थनिजन्तपक्षेतु कीर्त्तनमिति इयमपि स्तुतम्। शुक्रः राजानम्॥ ८।१२।४६ (४)

इति कैवल्यदपीपिकायाम् विष्णुश्रवण कीर्त्तने॥

अथ विष्णुस्मरणकीर्त्तने। (वयन्त्विहेति) त्वद्वार्त्तया। अनुसंहितया। कीर्त्तितयावा। अन्यथास्येहपाठश्चिन्त्यः। तावकैर्भक्तैःसहतरिष्यामः॥११।६।४८ (५)

स्मरन्त इति। तस्मिन् उत्तमं हास्यम्। क्ष्वेलिः परिहासः।“द्वन्द्वैकत्वारपुंसकत्वम्”। उद्धवःश्रीकृष्णम्॥११।६।४९ (६)

अथ विष्णु श्रवण-कीर्त्तन-स्मरणानि। अशेषेति।अशेष

गुणानुवादश्रवणं मुरारेः।
किम्बा पुनस्तच्चरणारविन्द
पराग सेवारति रात्म लब्धा॥७॥

अयातयामास्तस्यासन् यामाःस्वान्तर यापनाः।
शृण्वतोध्यायतो विष्णोः कुर्व्वतोब्रुवतः कथाम्॥८॥

श्रवणात् कीर्त्तनाद्ध्यानात् पूयन्तेऽन्तेवसायिनः।
तव ब्रह्ममयस्येशकिसुतेक्षाभिमर्शिनः॥९॥

मर्त्त्यस्तया ननु समेधितया मुकुन्द-
श्रीमत्कथा श्रवण कीर्त्तण चिन्तयैति।

__________________________________________________________

संक्लेशाः। “अविद्याऽस्मितारागद्वेषाभिनिवेशाः”। अनुवादःकीर्त्तनम्। सेवामनसःसन्निधानम्। तत्ररतिः प्रीतिः। आत्मलब्धास्वाभाविकी। मैत्रेयो विदुरम्॥ ३।७।१४ (७)

अयातेति। तस्य स्वायम्भुवस्य। यात यामाः उपभुक्ताः। तद्विपरीता अयातयामाः। पुनः पुनरूपभुज्यमानाऽप्यपूर्ववदुपभोग्येत्यर्थः। यावद्भिर्याभैर्मन्वन्तरं समाप्तं तावन्तो यामाः। विष्णुकथासम्बन्धादुत्तरोत्तरम् रमणोयाजाता इत्यर्थः। कुर्व्वतः स्ववाक्यैर्ब्रुवतः। मैत्रेयः॥३।२२।३५ (८)

श्रवणादिति। अन्तेवसायिनोऽन्त्यजाः। ब्रह्ममयो ब्रह्मरूपः।ईक्षादर्शनम्। अभिमर्शःस्पर्शः। तौ विद्येते येषां ते तथा। नारदःश्रीकृष्णम्॥१०।७०।४३ (९)

मर्त्त्यइति। तया ब्रह्मसभादो प्रसिद्धयाश्रवणकीर्त्तनचिन्तयेति। द्वन्द्वैकत्वेऽपि नपुंसकत्वमिति कीर्त्त्यजयेति अत्रोक्तम्।

तद्धाम दुस्तर कृतान्तजवापवर्गे
ग्रामाद्वनं क्षितिभुजोपिययुर्यदर्थाः॥१०॥

यानीह विश्व विलयोद्भववृत्तिहेतुः
कर्म्मास्यनन्यविषयाणि हरिश्चकार।
यस्त्वङ्ग गायति शृणोत्यनुमोदतेवा
भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे॥११॥

तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं
यत्स्थंन कर्म्म गुणकाल रजः स्पृशन्ति।
यद्वैस्तुवन्ति निनमन्ति जपन्त्यभीक्ष्णं-
ध्यायन्ति वेद-हृयदामुनयस्तदाप्त्यै॥१२॥

__________________________________________________________

तद्धाम वैष्णवं स्थानम्। कृतान्तस्य यवो वेगः। अपवर्ज्जनं निबृत्तिर्यस्मिन् तत्। अकालकलितमित्यर्थः। यदर्थामद्धामाभिलाषाः।शुकः॥१०।९०।५० (१०)

यानीति। वृत्तिः स्थितिः।अनन्यविषयाणि अनन्यसाध्यानिगानं कीर्त्तनम्। अनुमोदनम् मानसस्वीकारः। स च स्मरणपूर्ब्बकः। शुकः॥१०।६९।४५ (११)

तस्येति। अवितुः रक्षकस्य ईशितुः स्रष्टुः। संहर्त्तुश्चाङ्घ्रिमूलम्। तदुत्तरश्लोकस्थेन भजामीत्यनेनान्वयः। यत्स्थं यत्रस्थितम् कर्म्म। पुण्यपापे। गुणारजप्रभृतयः। कालोमृत्युः। तएवविकारापादकत्वात् रुजो रोगाः। एते स्पृशन्त्यपिनो-दूरे वाधवार्त्ताः।स्तुतिर्ब्बाचा गुणकीर्त्तनम्। जपो मनसा। “जपकृदुच्चार” इति धातुसूत्रात्। निनमन्ति शृणस्ति। उपसर्गयोगादयमर्थः। “धात्वर्थ-

मनसोवृत्तयोनःस्युः कृष्णपादाम्बुजश्रियाः।
वाचाभिधायिनीनाम्नां कायस्तत् प्रह्वणादिषु॥१३॥

कर्मभिर्भ्राम्यमाणानां यत्रक्वापीश्वरेच्छया।
मङ्गलाचरितैर्दानैरतिर्नःकृष्ण ईश्वरे॥१४॥

इति श्रीवोपदेवविरचितेते मुक्ताफले विष्णुभक्त्यङ्ग
वर्गप्रकरणंनाम दशमोऽध्यायः॥*॥

इति दशमोऽध्यायः॥१०॥

________________________________________________________________________

वाधते कश्चित् कश्चित्तमनुवर्त्तते” इत्युपसर्गवृत्तौ। वेदो हृदये येषां तेतथा॥ तदाप्त्यैविष्णुप्राप्तये। मार्कण्डेयः नारायणम्॥१२।८।४२ (१२)

मन इति। अभिधायिनोः अभिध्यायिन्यः। तेषु नामसु।प्रह्वणम् नम्रता। सा च कीर्त्तनस्य पृथगुक्तत्वात्। श्रवणादरेणेत्यर्थ सिद्धम्। आदिशब्दात् तालस्वरादि॥१०।४७।६६ (१३)

कर्म्मभिरिति। मनसो वृत्तय इत्येव सिद्धे सति न इति पुनर्व्वचनं त्रिवर्गमध्येऽपि स्मरणस्यान्तरङ्गतां वक्तुं एतान्येव हि शास्त्रेषुश्रवणमनननिदिध्यासनशब्दैरुच्यन्ते। नन्दादय उद्धवम्॥१०।४७\।६७ (१४)

इति हेमाद्रिविरचितायां कैवल्यदीपिकायां
विष्णुभक्त्यङ्गवर्गप्रकरणम्।

[इति दशमोऽध्यायः। समाप्तं पूर्वार्द्धम्॥]

<MISSING_FIG href=”../books_images/U-IMG-1737820376Screenshot2024-12-26191338.png”/>

एकादशोऽध्यायः

अथ विष्णु-भक्तप्रकरणम्।

तत्र विष्णुभक्तस्य लक्षणंभेदाश्च।

सकृन्मनः कृष्णपदारविन्दयो-
र्निवेशितं तद्गुणरागियैरिह।
नते यमं पाशभृतश्च तद्भटान्-
स्वप्नेऽपि पश्यन्तिहिचीर्णनिष्कृताः॥१॥

__________________________________________________________

एवमियता प्रवन्धेन “विष्णुं पञ्चात्मकम्96” इत्यस्य पादत्रयम्विविच्यशिष्टं व्याख्यातुमिदमारभ्यते। अथेति।तत्रापि “नागृहीतविशेषण बुद्धिर्ब्बिशेष्ये चोपजायते” (विशेषणयुपसंक्रामतीति) इति न्यायात् सामान्यपरिहारेण विशेषप्रतिपत्त्यसम्भवात्भक्त सामान्य लक्षणमवतारयितुमाह तत्रेति। सकृदिति। सकृदित्यादिषु अपिशब्दः प्रत्येकं [सम्बध्यते]। सकृदपि किंपुनःअभ्यासेन। मनः संगयात्मकमन्तः करणम्। किं पुनर्निश्चयात्मिकाबुद्धिः। पदारविन्दयोरपि किं पुनः सर्व्वमुर्त्तौनिवेशितम् वलादपि। किंपुनः स्वतोनिविष्टम्। तदगुणेष्वपि रागि किंपुनः तद्स्वरूपे।यैरिहेति सामान्य वाचिभ्यां मर्ष्वनामभ्यां मनोनिवेशने जातिदेशविशेषानपेक्ष्येति गम्यते। यैर्निवेशितं ते वलादपि ते भक्ता इतिशेषः। तेषां फलमाह। नेति चकाराद्यमञ्च पाशभृतं पाशग्रहणमन्यस्यापि कराल दंष्ट्रत्वादेः भीषणस्योपलक्षणं यममपि न पश्यन्तिकिम्पुनर्निरयम्। स्वप्नेऽपि किंपुनः प्रत्यक्षेण न पश्यन्ति किंपुन-

** **स नवधा भक्तः नवविधत्वे हेतुमाह भक्तीति। भक्तिर्विहिताविहिता च।

** **भक्तिरसस्यैव हास्य-शृङ्गार-करुणरौद्र-भयानक-वीभत्स-शान्ताद्भत-वीररूपेनानुभवात्।

** इति मुक्ताफले भक्तानां लक्षणं भेदाश्च॥**

व्यासादिभिर्वर्णितस्य विष्णोर्विष्णु-

भक्तानाम्बाचरित्रस्यनवरसात्मकस्य श्रवणादिनाजनितश्चमत्कारो भक्तिरसः॥

तत्रहास्यरसे गोप्यः। स च त्रेधा। वत्सान्

मुञ्चन् क्वचिद् समये क्रोश सञ्जातहासः
स्तेयं स्वाद्वत्त्यथदधिपयः कल्पितः स्त्रे योगं॥

मर्क्कान्मोक्ष्यन् विभजति सचेन्नात्तिभाण्डं भिनत्ति
द्रव्यालाभे स्वगृह कुपितो यात्युपक्रोश्यतोकान्॥२॥

__________________________________________________________

स्तर्ज्जनादि। कुत एतद् हि यस्मात् चीर्णनिस्कृता आचरितप्रायश्चित्ताः। पापोपप्लुतानां हि यमदर्शनादि, भक्त्या च सर्ब्बपापक्षय इत्यसक्वदुक्तम्। ततश्च भगन्निविष्टचित्तो भक्त इति लक्षणार्थः।शुकः॥६।१।१९(१)

एवं भक्त सामान्य लक्षण भुक्त्वा तद् विशेषमाह। सभक्तःनवविधत्वे हेतुमाह।भक्तीति। भक्तिर्विहिताविहिता च। सैवपरां प्रकष रेखामापन्ना रसः। यदाहुः"भावाएवाति सम्पन्नाःप्रयान्तिरसताममी"ति भक्तिरसानुभवाच्च भक्तः। यथा तृप्त्यनुभवात् तृप्तइत्युच्यते। सचानुभवो नवधा। हास्यादि भङ्गि भेदेन,

हास्यादय एवहि भगवति प्रयुज्यमाना। “तस्मात् केनाप्युपायेनमनः कृष्णेनिवेयेदिति97”। भक्ति लक्षणाक्रान्तत्वाद् भक्तिरस पदवीभासाधयन्ति इति भावः। हास्यादि लक्षणन्तु वक्ष्य ते ते वामीनवापि सुख दुःख महात्मक त्रैगुण्य व्यतिकरोद्भवाः। तथाहिप्रथमे त्रयो रजोमूलाः। मध्यास्तुतमोमूलाः। चरमे सत्वमूलाइति। हास्यदयोहि रजः प्रभृतीनां विकार इत्युक्त मेकादशस्यपञ्चविंशाध्याये तथापि प्रथमेषु त्रिषुक्रमात् सत्त्व संमिश्रम्। तमःसंमिश्रम्। सत्त्वतमः संमिश्रञ्च। रजोमूलं मध्येषु रजोमिश्रंसत्त्वमिश्रं रजःसत्त्वमिश्रञ्च तमः। चरमेषु तमोमिश्रं रजस्तमोमिश्रञ्चसत्त्वंहेयाभिधान क्रमेण चैष रौद्रादीनां तामसत्वेनामङ्गलत्वात्प्रथम मनभिधानम्। ननु तथापि काणिस्य स्पृहनीयत्वेन सर्व्वंप्राणीनामत्यन्त परिचितत्वात्98“शृङ्गारीनायकोरसः” इतिनाट्याचार्य प्रसिद्धेः। शृङ्गार प्राधान्य मियर्त्तिप्रप्नोतीति व्युत्पत्तेश्च।रसेषु शृङ्गारस्य प्राधान्य मितिगम्यते। ततश्च तस्यैव धुरिनिवेशनमुचितम्। किमिति हास्यरसोऽभिनिवेशितः। सत्यं किन्तुनात्रकैवल्यपरे शास्त्रे भक्तिपरः शृङ्गारः प्रधानमिति द्योतयितु माचार्य्येण नैषःप्रथम मुक्तः। एवं सति कस्मिन्नपि प्रथम मभिधातव्येहास्यरसस्याल्प परिकरत्वात् सएवोक्तः। स्थायिभावादय श्चैषांभरतादावुक्ताः। तथाहि “हासारति शाकरोषभो-जुगुप्ना-शमस्मय-उत्साहश्च क्रमादेषु “स्थायिभावा रसेश्वमो99"। तत्र वाग्वेषादि वैकृतेश्चेतीविकाशोहासः। परस्पर मास्थाबन्धोरतिः।

इष्टनाशादि प्रभवं चित्तस्य वैधुर्य्यंशोकः। प्रतिकूलेषु तैक्ष्ण्यस्यप्रबोधः क्रोधः। रौद्रशक्त्यादि जनितं त्रीणिच प्रकृतिः क्वचित्तस्यवैक्लव्यंभयम्। दोषदर्शनादिभिः पदार्थानां गर्हणाजुगुप्सा।पदार्थेषु तृष्णाक्षयः शमः। तेष्वेव लोकसीमातिक्रमस्य दर्शनात्चित्तस्य विस्मृति र्विस्मयः। कार्य्यारम्भेषु संरम्भः स्थेयानुत्तमप्रकृतिरुत्साहः। ‘तथा’ सितःश्यामः कपोतश्च रक्तः कृष्णश्चनीलकः।विशदः पीत गौरौचेत्येषु वर्णाः क्रमादमी100”। तदुपयोगस्तु"चित्रे ध्याने च ध्याता च ते मुखरोगं निर्हरन्ती” त्यभिनवगुप्तपादाः। “प्रथमौ मन्मथयमौरुद्रकालौ यथाक्रमम्। महाकालाजितौ ब्रह्म महेन्द्रास्तेषु देवताः101"।एव मेवग्विधहास्यादिनवक भङ्ग्या भक्तिरसोऽनुभूयते। ननु कथं भक्ते रसत्वं रसलक्षणाभावात्।तत्र दशरूपकादौ102“विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः। आनीयमानः स्वाद्यत्वं स्थायिभावोरसः स्मृतः103

एतद्विवृण्वते।वक्ष्यमाणस्वभावैर्बिभावादिभिः काव्योपात्तैरभिनयोपदर्शितैर्ब्बा श्रोतृप्रेक्षकानामन्त र्विपरिवर्त्तमानो रत्यादिस्थायि स्वादगोचरतां निर्भरानन्द सम्बिदात्मतां नीयमानो रसस्तेनरसिकाःसामाजिकाः। काव्यन्तु तथाविधानन्द सम्बिदुम्मीलनहेतुत्वेन रसवत्। “आयुर्घृतमिति वद्104“विभावादि लक्षणन्तु“कारणान्यथ कार्य्याणि सहकारीणि यानि च। रत्यादौस्थायिनो लोके तानिचेन्नाट्य काव्ययोः॥” विभावा अनुभावास्ते

कथ्यन्ते व्यभिचारिणः105॥” विभावाद्वेधा केचिदालम्वनरूपाः।तथा शृङ्गारे गोप्योगोविन्दश्च। केचिदुद्दीपका यथात्रैव चन्द्रतपादयः।अनुभावास्तु कटाक्षादयः। “पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः। सत्त्वादेव समुत्पत्तेस्तच्च वद्भाव भावनम्॥”ते च “स्तम्भ प्रलय रोमाञ्चा स्वेदोवैवर्ण्यवेपथुः। अश्रुवैस्वर्यमित्यष्टोस्तम्भोऽस्मिन्विक्रियाङ्गतः। प्रलयोनष्टसंज्ञत्वंशेषाः स्युर्व्यक्तलक्षणाः॥ विशेषादाभिमुख्येन चरन्तोव्यभिचारिणः। स्थायिन्युन्मग्ननिमग्नाः कल्लोलाइव वारिधौ॥” ते च “निर्वेद-ग्लानि-शङ्काऽमर्ष धृति जड़ता हर्षदैन्योग्रचिन्ता, त्रासेर्य्यामर्षगर्ब्बाःस्मृतिमरणमदाःसुप्तिनिद्रावरोधः। ब्रीड़ापस्मार मोहाः समतिरलसता वेगतर्कावहित्था, वाध्युम्मादौ विषादोत्सुकचपलता त्रिंशदेतेत्रयश्च॥” “विशुद्धैरविशुद्धैर्व्वा भावै र्विच्छिद्यतेनयः। आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः106॥”एवम्बिधविभावादिसंयोगाद्रसो निष्पद्यते। तस्य च मुख्ययाबृत्त्या रामादावनुकार्य्येवृत्तिः। नटरूपवलादित्येकः पक्षःअनुकर्त्तर्य्येवेति द्वितीयःसामाजिकेष्विति तृतीयः। रससंविद उभयतोदत्तपादत्वादनुकर्त्तरि सामाजिकेषु चेति चतुर्थ107ःस च रसः कार्य्य इति केचित् ज्ञाप्यइत्येके भोग्यइतन्ये व्यङ्ग्य इत्यपरे सुधीभिस्तु तत्रैवानुसन्धेयाः ग्रन्थ गोरव भयान्नेति प्रतन्यते।

तस्माद्विभावादि रससामग्री विरहान्नभक्तेरसत्वम्। अतएवायमन्यैरेवं भक्तावपिवाच्यमिति वदद्भिप्रत्यादिष्टः। अत उत्तरं पठतिव्यासदिभिरिति वर्णितस्य चरित्रस्य विष्णुभक्तागोप्यादयः श्रवणादिनेत्यादि शब्दाद्दर्शन कीर्त्तन स्मरणाभिनयाः। चमत्कारःसामाजिकानां हि यस्मादेवं सामग्रीको भक्तिरसस्तस्मात् अनपङ्कवनीय इत्यर्थः। तत्रैषा —सामग्री केनाप्युपायेन मनोनिवेशः स्थायी।चरित्र श्रवणादय उद्दीपन विभावाः। विष्णु भक्ताश्चालम्बनमनुभावास्तु स्तम्भादयो वक्ष्यमाणा यथायोग्यं धृत्यादि व्यभिचारिणश्च।उपायस्तुरति हास्यादि कविभिवर्णितस्येत्यनेन महाकवि प्रबन्ध समर्प्यमाणेष्वेव रसव्यवहारो नान्यत्रेत्युक्तम्। एवमेवैतत्अनुकार्य्येषु हि जानकीराम भद्रादिषु रत्यादिमात्रम् नतु रसत्वंतस्य लोकोत्तर चमत्कार रूपत्वात्। चमत्कारैश्च यद्यपि शृङ्गारादौक्वचिदस्ति तथापि भयानकादावनुलम्भान्न तत्र स व्यवहारः। अतएवच तानिचात्राद्य काव्ययो रित्यादि विशेषणाणि। अभिनयैरूपदर्श्यमाणादपि सन्दर्भे समर्प्यमाणोरसोऽतिश्वदते। अतएवोक्तं “कविवागभिनेयञ्च तदुपायोद्विधैष्यते। वस्तुशक्ति महिम्नातु प्रथमोऽत्रविशिष्यत” इति108। यस्त्वभिनव गुप्त हेमचन्द्राभ्या मेवं भक्तावपि वाच्यमित्युक्तम्109। तदसत् रसत्वस्य दर्शितत्वात्।सामग्रीसद्भावेऽपि प्रत्याख्यान मरोचकतामात्र शरणम्। नवसङ्गकूमानोऽप्ययं असर्व्वविषयत्वाद्रसत्वात्च्यवतामिति चोद्यम्। तथासति सार्वरसोच्छेदापातात्। तथाहि श्रोत्रियजरम्मीमांसकादयो हि

नाट्यमण्डपान्त अपि चमत्काराभावात् मौलिक प्राया एव। एवंप्रशान्त ब्रह्मचारि प्रभृतयः शृङ्गार रसास्वादे बहिरङ्गागाढ़ रागाणाञ्चशान्तरस चर्व्वणानभिज्ञत्वम्। अननुभूत शोक स्पर्शाणां च करुणरसास्वादावसरे पाषाण प्रख्यत्वम्। तस्मात् सवासनस्यैव रसचर्व्वणेति सर्वथा निस्तूषं भक्तिरसदर्शनम्॥ ननु तथाप्यल्पमिदमुच्यते। सनवधेति। सत्येव हि रसान्तराण्यपि110भोजराजादिभि र्दर्शितानि। तथाहि स्नेहः स्थायिभावः। प्रेयान्यथा “यदेव रोचते मह्यं तदेव कुरुते प्रिया। इतिवेति न जानातितत् प्रियं यत् करोति सा॥” अत्रवत्सल प्रकृते र्धीर लतितनायकस्य प्रियालम्वन विभावो विषयः। सौन्दर्य्याद्युद्दीपन विभावो,मोहमति धृति स्मृत्यादि व्यभिचारो। स्नेहः प्रेयानिति प्रतीयते।तथा सतिस्थायिभावादुदात्तः। यथा111“साधारणो निरातङ्कःकन्यामन्योपि याचते। किंपुनर्जागतां जेता प्रप्रौत्रः (प्रयोक्तुः)परमेष्ठिनः॥” अत्र हिरामस्योदात्त प्रकृतेः सौतेयं मम स्वीकारयोग्येत्येवं रूपेण प्रवृत्तामतिः। रावण प्रार्थना लक्षण प्रोत्साहनाभ्यामुद्दीप्यमाना जायमान चित्तवितर्क ब्रीड़ाऽवहित्थास्मृत्यादिभिःकालोचितोत्तरानुमीयमानैश्चविवेक चातुर्य्य धैर्य्योदार्य्यादिभिः संसृज्यमाणोदात्त रसरूपेन निष्पद्यते। गर्व स्थायिभाव उद्धतः। यथा"धृतायुधोयावदहं तावदन्यैःकिमायुधैः। यद्वाणसिद्धमन्त्रेणमम तत्केनसेत्स्यति112 इति। सैवं मौलिकस्य स्थायिन एवात्रसद्भावात् स्नेहादयो हि व्यभिचारिषु तैवेर पठिताः। “गर्व स्नेहोधृतिर्व्रीड़े"त्यादिना। व्यभिचारिणः स्थायिनश्चेतितु ‘मम

माताबन्ध्ये’ति वत् विप्रतिसिद्धे वचसि एवमप्यूच्यमाने ब्यभिचारिसंख्ययारससंख्यापत्तिःस्यात्। अतएवेदेमस्पृष्ठं भरतादिभिः।एतेन गर्व स्थायिभावो लोल्यनामाऽपरः रस इत्यपि प्रत्यु(यु)क्तम्।तस्माद्युक्त मुक्तंआचार्य्यस्य स नवधेति॥

भक्तिरस113 एव रसस्यादिरूपेन नवधानुभूयत इत्युक्तम्। तत्रनिदर्शनानि ब्रुवानो हासःस्थायिभावे। विकृतवेषालङ्कार धार्ष्ट्यलौल्य कुहकाः सत्प्रलाप व्यङ्गदर्शन दोष उदाहरणादि विभावेनाऽसावष्ट (स्व) कपोल स्यन्दन दृष्ठि व्याकोशाकुञ्चन स्वेदास्यराग पार्श्वग्रहणाद्यनुभावेऽपि अवहित्थालस्य तन्द्रात्रपा स्वप्नादि सञ्चारिणि।हास्यरसेगोप्योभक्ता इत्यादि (ह)। तत्रेति। सचत्रेधा। उत्तममध्यमाधमेषु स्मितादिभेदात्। यदाह भरतः114। “ईषद्विकसितैर्गण्डैःकटाक्षै सौष्ठवान्वितैः। अलक्षित द्विजंधीर मुत्तमानांस्मितं भवेत्। आकुञ्चिताक्षिगण्डंयत् श्वसनं मधुरं तथा।कालागतं साम्यरागं तद्वैविहसितम्भवेत्। अस्थान हसितं यत्तुसाश्रुनेत्रं तथैव च। उत्कम्पितांसकशिरः तच्चापहसितं भवेत्।तत्रापि त्रीणि च115।प्रकृतावेव भूविष्टं दृश्यते रसः इति भरतवचनाद्यशोदादिषु तमाह। वत्सानिति। क्रोशे मामेत्याक्रोशे।स्तेयं चौर्य्यलभ्यंनतु दत्तम् दधिपयश्च। योगै रूपायैः। मर्कान्मर्कटान्। भोक्ष्यन् भोक्ष्यमाणः सन्। वैशब्दश्चेदर्थे। उपक्रोश्यरोदयित्वातोकान् वालान्॥ १०।८।२९(२)

हस्ताग्राह्येरचयतिविधिं पीठकोलूखलाद्यै
श्छिद्रं ह्यन्तर्निहित वयुनः शिक्यभाण्डेषु तद्वित्।
ध्वान्तागारेधृतमणिगणं साङ्गभर्थ प्रदीपं
काले गोप्योयर्हिगृहकृत्येषु सुव्यग्र चित्ताः॥३॥

एवं ध्यार्ष्ट्यान्युशति कुरुतेमेहनादीनिवास्तौ
स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते-
इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः।
व्याख्यातार्थाप्रहसितमुखीनह्युपालब्धु मैच्छत्॥४॥

__________________________________________________________

हस्तेति। विधिरूपाय। अन्तर्निहितस्य नवनीतादेः। वयुनेज्ञानेसति। अर्थप्रदीपं अर्थ प्रकाशकम्। स्वाङ्गं रचयति।यरहीति रेफ हकारयोर्विश्लेषःछन्दोहनुरोधात्॥१०।८।३० (३)

एवमिति। स कृष्णः। उशति कमनीये वस्तुनि। वास्तुर्वेश्मभूः। विरचितक्कतिः कृतकार्यः। सुप्रतीकः शोभनावयवः।नैश्चल्यलक्षण सभ्यत्व नाट्यात् सभये भयविलोल नयने।यस्मिन् श्रीमति भगन्मुखे तदालोकिनीभिः व्याख्यातः अर्थो वत्स्यमोचनादिर्यस्य सा यशोदा। उपालब्धुं तर्ज्जितुम्। अत्र यशोदायाउत्तम प्रकृतिकत्वात् उत्तम हास्यम्। प्रहसितमुखी अतएवप्रकर्षार्थः प्रशब्दादेव आलम्बनम्। वत्समोचनादिधार्ष्ट्यम्विभावः। अनुभावः यशोदायां रसाभिव्यक्तिः। सञ्चारिणस्तुत्वाः।१०।८।३१॥ (४)

कृष्णस्य गोप्योरुचिरं रीक्ष्य कौमार-चापलम्।
शृण्वत्याः किलतन्मातुरिति होचुः समागता॥५॥

गोपकन्याः।

तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः।
ब्रीड़िताः प्रेक्ष्यचान्योन्यं जातहासाननिर्ययुः॥६॥

इति मुक्ताफले हास्यरसः॥

__________________________________________________________

कृष्णस्येति श्लोको वक्तृकथनार्थः। गोप्यो यशोदा।१०।८\।२८\। (५)

मध्यम हास्यमाह। तस्येति। तस्यश्रीकृष्णास्य। तद्वस्त्रादान रूपम् क्ष्वेलनं परिहासचेष्टा।ब्रीड़िता नग्नत्वात्।न निर्ययुर्जलाशयात्। अत्र दैव आलम्बनम्। क्ष्वेलनं विभावः।अन्योन्य प्रेमलक्षणमनुभावः। ब्रीड़ासञ्चारी। न चात्र शृङ्गारएव हास्याङ्गभूतोवेतिवाच्यम्। अद्यापितासां कौमारानपगमात्।शृङ्गारोहि युवप्रकृतिः। अतएवाचार्येण ‘गोपकन्या’ इत्युक्तम्।तासाञ्च यशोदापेक्षयामध्यमत्वेन हास्य मध्यमत्वं तृतीयं स्वयंस्वसंज्ञेयम् शुकः।१०।२२।१२॥(६)

इति हेमाद्रि विरचितायां कैवल्यदीपिकायां हास्यरसः॥

<MISSING_FIG href=”../books_images/U-IMG-1737876494Screenshot2024-12-26191338.png”/>

शृङ्गाररसो द्विविधः। सम्भोगोविप्रलम्भश्च।तत्रसम्भोगशृङ्गारे कौरवेन्द्र पुरस्त्रियः॥

सवै किलायं पुरुषः पुरातनो
य एक आसीदविशेष चात्मनि।
अग्रे गुणेभ्यो जगदात्मनीश्वरे
निमीलितात्मन् निशिसुप्तशक्तिषु॥७॥

__________________________________________________________

अथरति स्थायिन मुज्ज्वल वेषात्मक मुक्तम् युवप्रकृतिकं स्त्रीपुंसहेतुकं माल्य-ऋतु-शैल- पुर-हर्म्य-नदी चन्द्रोपवन-दीर्घिका जल-क्रीड़ादि श्रूयमानानुभूयमान विभावंजुगुप्सालस्यौष्टवर्जसञ्चारिणं गुणं दीर्घापाङ्गस्मिताद्युनुभावं शृङ्गारं सप्रभेदमाह।शृङ्गारेति। स्त्रीपुंसयोः सम्बन्धतया भोगः सम्भोगः। स च सम्बन्धचतुर्धा। परस्पर दर्शन स्पर्शन संजल्प सम्प्रयोगभेदात्।भेदान्तराणां तत्रैवान्तर्भावः। तथाहि कुसुमावचयदर्शने।चुम्वनालिङ्गना केशग्रहादयो हि स्पर्शने। चन्द्रोदय वर्णनादयस्तु संजल्पे संसक्ततयापानं संस्पर्शने। एवमक्षजलक्रीड़ादीनां सम्प्रयोगस्यतु स्पर्शरूपत्वेऽपि प्राधान्यात् पार्थक्यम्।विप्रकर्षेण लम्भः प्राप्ति विप्रलम्भः। स च विप्रकर्षचतुर्द्धेतिवक्ष्यते। तत्रापि सम्भोगपूर्बको विप्रलम्भ इति सम्प्रयोगस्यप्रागुक्तिः। स च सुखमय धृति-स्मृति मति हर्षादि सञ्चारी। रोमाञ्च खेदकम्पाश्रुमेखला-स्खलन श्वसित साध्वसकेशवन्धन वस्त्रसंयमन वस्त्राभरण माल्यादि सम्यङ् निवशेन विचित्रेक्षण गुणवर्णनचाटु प्रभृति वाचिक कायिक व्यापारानुभावः। विभावास्तुप्रागुक्ताः तत्र नायक प्रयुक्तादपि सम्भोगादनुराग प्राचुर्य्येण नायिका

स एव भूयो निजवीर्य्य चोदितां
स्वजीवमायां प्रकृतिं सिसृक्षतीं।
अनामरूपात्मनिरूपनामनी
विधित्समानोऽनुससार शास्त्रकृत्॥८॥

_________________________________________________________

प्रयुक्त एव प्रकृष्यत इति तं दर्शयन् दर्शनसम्भोगमवतारयति। तत्रेतिकौरवेन्द्र पुरं हस्तिना पुरम्। सवै इत्यादि। वैशब्दः स्मरणे।किलशव्दस्तूत्प्रेक्षायाम्। उत्प्रेक्षाच दुर्निरूप्यत्वात् य एकोऽद्वितीयः पुरुषः सोऽयं कृशाः पुरातनः। आद्यःकदा एकः। आत्मन्यविशेषे भेदहेतूपाधि रहिते स्वरूपे तदपिकदाअग्रेगुणेभ्यः गुण स्वीकारात् पूर्वम् तथानिशि गुणस्त्यागादनन्तरम्।कदागुणत्यागः जगदित्यादि। प्रपञ्चाकारेण दर्शितमात्मानं यदान दर्शयति। तथासुप्तशक्तिषु चिच्छक्त्यादयः शक्तयो यदा सुप्ताभवन्ति। आत्मनित्य116त्र सपांसुलुक् पूर्ब्बसवर्णेति सप्तम्यालुक्(१)। १।१०।२१॥ (७)

निराकारमुक्त्वासाकारं निरूपयति। स एवेति। स एवनिराकार एव। प्रकृति मनुससार। अधिष्ठितवात्। भूयः सृष्टिप्रवाहास्यानादित्वात्। निजवीर्य्य-चोदितां कालप्रेरिताम्। अतएवस्वजीवमायां सिसृक्षतींस्वस्मिन्नीश्वरे जीवमायां असत्यं जीव त्वंस्रष्टुमिछन्ती। अरुपस्य रूपाणि, अनाम्नोनामानि, सञ्चित्यानुसंसार।तानिचान्ये जानन्विति। शास्त्रकृत् शास्त्रं वेदः॥१।१०।२२ (८)

स वाऽयं यत्पदमत्र सूरयो
जितेन्द्रिया निर्ज्जितमातरिश्वनः।
पश्यन्ति भक्त्युत्कलितामलात्मना
नन्वेष सत्त्वंपरिमार्ष्टुमर्हति॥९॥

__________________________________________________________

दुर्ल्लभस्य सुलभतां निरूपयन्ति सवाऽयमिति। यत्तुरीयपदंसमाधौसूरयः पश्यन्ति सोऽयं भक्त्या उत्कलितः अमलश्च यःआत्मा तेनात्रात्मनि जितमातरिश्वन इति व्यत्ययात् प्रथमार्थेद्वितीया। नु अहो एष कृष्णः सत्वं प्रत्यक्षत्वं। परिमार्ष्टुंनाशयितुं अर्हति।देशान्तरगमनेनाप्रत्यक्षो माभूत् सदैवास्मद्दृहृग्गोचरौ भूयादिति भावः। एतदेव दर्शनसम्भोगो द्योतकम्। नचात्र परमार्थनिरूपणादेः प्रशान्त इति मन्तव्यम्। भगवति सकामत्वेन तासां तृष्णाक्षयरूप शमस्याभावात्। अतएव “नन्वेष सत्वमि"त्यत्र व्याख्यान्तरं नाद्रियते। रतिरेव स्थायीत्युत्तरश्लोकेषु सुव्यक्तम्।नापि “निहु अरमणा स्मिलो अणवहस्सि पड़ि अगुरुणा मज्जस्मि सअल परिहार हियया वणगमणं चेय यह इवहु” इत्यादौसकलपरिहारवनगमनयोः शान्तानुभावयो रिवात्रास्तित्व प्रतिपादनस्यशान्तविभावत्वेन शृङ्गारविरुद्धत्वात् प्रतिकूलविभावादिग्रहलक्षणो रसदोषःप्रसज्यत इति चोद्यम् रत्युत्कर्षभङ्गादिदोषत्वम्। ‘मुख्यार्थ इति दोषःप्रसज्यत इति वचनात्।साचात्र भगवद्गुणानुवादेन पुष्यतीति न दोषत्वं। पुरुषान्तरालम्बनत्वे तु (वि) भावादि प्रातिकूल्यं दोष एव वा यथा “प्रसादेवर्त्तस्वप्रकटय सुदं सन्त्यजरुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव तेसिञ्चतु वचः। निधानं सौख्यानां क्षणमभिमुखंस्थापयमुखम्। न

स वाऽयं सख्यनुगीतसत्कथो
वेदेषु गुह्येषु च वेदवादिभिः।
य एक ईशो जगदात्मलीलया
सृजत्यवत्यत्ति न तत्र सज्जते॥१०॥

यदा ह्यधर्मेण तमोधियो नृपाः
जीवन्ति तत्रैष हि(सा) सत्त्वतः किल।
धत्ते भगं सत्यमृतं दयां यशो
भवाय रूपाणि दधद्युगे युगे॥११॥

अहो अलं श्लाघ्यतमं यदोः कुलं
अहो अलं पुण्यतमं मधोर्व्वनम्।

__________________________________________________________

मुग्धेप्रत्येतुं प्रभवति गतः कालहरिणः॥” इत्यत्र “(गतः) कालहरिण” इत्यनित्यता प्रकाशनं शान्तानुभावः॥१।१०।२३ (९)

उत्तमःश्लोकत्वं निरूपयति इत्यादि। स इति यो वेदवादिभिःअनुगीत सत्कथः सोऽयं गुह्येषु वेदान्तेषु वेदवेदान्तरहस्य प्रतिपादनकुशलैरित्यर्थः। कोऽसौ सत्कथः य एक ईशः आत्मलीलयाजगत्सृष्ट्यादि करोति न च तत्र सज्जते इत्येवं रूपः॥१।१०।२४ (१०)

अवताररूपं निरूपयति यदेति। सात्त्वतःकृष्णा। रूपाणिदधत् जगदादीनिधत्ते। भगं भजनीयत्वं। सत्यं सत्यप्रतिज्ञात्वंऋतं सत्योपदेशकत्वम्। दयां भक्तानुकम्पाम्। यशोऽद्भुतकर्म्मत्वम्।भवाय स्थित्यै॥१।१०।२५ (११)

कृष्णसङ्गमस्पृहां निरूपयन्ति। अहो इत्यादि। अहो आश्चर्य्यम्। अलं अत्यर्थम्। मधोर्व्वनंमथुरा, यत्कुलं वनञ्चस्वजम््म

यदेष पुंसा मृषभः श्रियः पतिः
स्वजन्मना चङ्क्रमणेन चाञ्चति॥१२॥

अहीवत स्वर्यशसस्तिरस्करी
कुशस्थली पुण्ययशस्करी भुवः।
पश्यन्ति नित्यं यदनुग्रहेषितं
स्मितावलोकं स्वपतिं स्म यत् प्रजाः॥१३॥

नूनं व्रतस्नानहुतादिनेश्वरः
समर्च्चितो ह्यस्य गृहीतपाणिभिः।
पिवन्ति याः सख्यधरामृतं मुहु-
र्व्रजस्त्रियःसम्मुमुहूर्यदाशया॥१४॥

__________________________________________________________

चंक्रमणाभ्यां अञ्चति गच्छति। पूजयति मानयति च। पुंषांऋषभः। श्रियः प्रिय इत्याभ्यां स्त्रीणां स्पृहणीयं चिरललितञ्चउक्तम्॥१।१०।२६ (१२)

अहो इति। अहो वत अहो आश्वर्य्यम्। कुशस्थली द्वारका।यच्छब्दाभ्यां सैव स्मितयुक्त अवलोको यस्य तं। स्वपतिं कृष्णम्।स एव हि स्वस्यात्मनः पतिः। अन्यदेहस्य।यदुकुलादीनि धन्यानि।नत्वत्रान्यस्य कस्यचित् कुलमेतत् परं वा। यदीदृशेन नायकरत्नेनालङ्कृतमिति भावातिशयः॥१।१०।२७ (१३)

स्पर्शसम्भोगमाह नूनमित्यादि। नूनं शब्दो वितर्के कृष्णस्यगृहीतपाणिभिः पत्नीभिः ईश्वरोऽर्च्चितः। पूर्वजन्मसु अयमितिवाच्यं ईश्वरोक्तिर्ल्लोकदृष्ट्या।यस्याधरामृतस्याशया अभिलाषेण

या वीर्य्य शुल्केन हृता स्वयम्बरे
प्रमथ्य चैद्यप्रमुखान् विशुष्मिणः।
प्रद्युम्नशाम्बाम्बसुतादयो परा
याश्चा हृता भौमवधे सहस्रशः॥१५॥

एताः परंस्त्रीत्वमपास्तपेशलं
निरस्त शौचं वत साधुकुर्ब्बते।
यासां गृहात् पुष्करलोचनःपति-
र्नजात्वपैत्याहृतिभिर्हृदिस्पृशन्॥१६॥

__________________________________________________________

ब्रजस्त्रियः संमुमुहुः।ब्रजस्त्रीणां पुरस्त्रीत्वात्। स्वधर्म्मत्यागात्सम्मोहाख्य नवमस्मरदशोत्पतेश्च पुरुषोत्कर्षः॥१\।१०।२८ (२४)

या इति। विशुष्णिणो वलिष्ठान् प्रद्युन्नसूता रुक्मिणी। साम्बसूताजाम्बवती।जाम्बसुता नाग्नजितो। भौमो नरकासुरः।सहस्रशः। सहस्रं सहस्रं यावत् षोड़श॥१।१०।२९(१५)

एता इति। एताः परं केवलं स्त्रीत्वम्। साधुकुर्व्वते। पेशलंप्रियम्बदत्वम्। शौचं शुचित्वम्। आहृतिभिः पारिजातादि प्रियवस्तुनामाहरणैः।हृदिस्पृशन् उत्कण्ठां जनयन्। न च पुरस्त्रीणां। सकामत्वेऽपि भगवतो निरपेक्षत्वेन परस्परानुभावात्रसाभासानुवादात्। रसाभासोऽयमिति वाचम्। “एवम्बिधां वदन्तीनां सगिरः पुरयोषिताम्। निरीक्षणेनाभिनन्दन् सस्मितेन ययौहरिः117” इत्युत्तरत्रभगवतोऽपि स्वभावत्वानुवादात्। सुतशौनकम्॥१\।१०।३० (१६)

इत्थं रमापतिमवाप्यपतिं स्त्रियस्ता
ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम्।
भेजुर्मुदा विरत मेधितयानुराग
हासावलोक नवसङ्गमजल्पलज्जाः॥१७॥

प्रत्युद्गमासनवरार्हण पादशौच
ताम्बूलविश्रमण वीजनगन्धमाल्यैः।
केशप्रसारशयन स्नपनोपहार्य्यैः-
र्द्दासीशता अपि विभो र्विदधुःस्म दास्यम्॥१८॥

मनांसि तासामरविन्दलोचनः
प्रगल्भलीलाहसितावलोकनः।
जहारमत्तद्विरदेन्द्रविक्रमो
दृशान्ददच्छ्रीरमणात्मनोत्सवम्॥१९॥

________________________________________________________________________

इत्थमिति। पदवीं सार्गम्। एधितया भजनेनानुरागेण हासावलोकोनवसङ्गमाच्च जल्पलज्जा यासाम् तास्तथा। सङ्गमः सन्निधानम्॥१०।५९।४४ (१७)

भजनमेवाह। प्रत्युद्गमेति। प्रत्युद्गमः प्रत्युत्थानम्। आसनंस्वासने उपवेशनम्। अर्हणमुपायनम्। पादयोः शौचम् प्रक्षालनम्।विश्रम्यतेऽनेनेति विश्रामणम्। अङ्गसम्बाहनम्। प्रसारः प्रसाधनम्।स्वयं पचनम्। परिवेषणञ्च। दासीनां शतानि सन्ति यासाम्। स्मशब्दो वाक्यपूरणार्थः॥१०।५८।४५ (१८)

स्पर्शनान्तरत्वात् अनन्तरं सम्प्रयोगमाह।मनांसीति।माथुरेति। तासां मथुरास्त्रीणाम्। प्रगल्भप्रौढ़ालीलाविदग्धचेष्टा

दृष्ट्वामुहुःश्रुतमनुद्रुतचेतसस्तं
तत्प्रेक्षणोत्स्मित सुधीक्षणलव्धमानाः।
आनन्दमूर्त्तिमुपगुह्यदृशात्मलव्धम्
हृष्यत्त्वचा जहुरनन्तमरिन्दमाधिम्॥२०॥

पुण्यावत व्रजभुवो यदयं नृलिङ्ग-
गूढ़ःपुराणपुरुषो वनचित्रमाल्यः।
गाः पालयन् सहवलं क्वणयंश्च वेणूं
विक्रीड़याञ्चतिगिरित्ररमार्च्चिताङ्घ्रिः॥२१॥

__________________________________________________________

विक्रमो गमनं गतिः। शक्तिर्वा दृशां दृष्टीनाम् श्रीरमणात्मनालक्ष्मीमुपभुञ्जानेन शरीरेण, उत्सवं प्रीतिम्॥१०।४१।२७ (१९)

दृष्ट्वेति।मुहुर्ब्बारं वारं श्रुतम्। श्रीकृष्णं दृष्ट्वा अनुद्रुतचेतसः।गच्छन्तं श्रीकृष्णम्। चित्तेनानुगच्छन्त्यः तत् किं अभ्युपहताएवनेत्याह। तदिति। तत्तथाविधं भावाववोधनक्षमं यत्प्रेक्षणमुत् कृष्टञ्च स्मितं। तदेव निर्वापकत्वात् सुधा तयोक्षणं सेचनं तेनलव्धमानाः कृतस्वीकाराः। उपगूहनं आलिङ्गनम्। तत् किं प्रकाशमेव नेत्याह। दृशा आत्मना बुद्ध्यालब्धम् प्राप्तमेव मादावन्तर्वहिरिह प्रयोज्यमित्यादि कामतन्त्रानुसारेण वाह्यान्तरमुक्त्वाआधिंजहुरित्यन्तरमाह। आधिं तदप्राप्तिदुःखम्। अनन्तं चिरंसञ्चितम्।यद्वाअनन्तं यथा स्यात् तथा जहुः॥१०।४१।२८ (२०)

अत्रैव सात्त्विकानुभावमाह। हृष्यत्त्वचेति। प्रगल्भलीलादयउद्दीपनविभावाः। सञ्चारिणः स्वयमुह्याः। स एव भगवता पुरस्त्रीबुद्धिकामिनीनाम् संश्लेषरूपः कविना मानसः सम्प्रयोग उक्तः। शरीरन्तु पशुधर्म्मत्वेन ग्राम्यत्वात् एतत् प्रकर्षत्वात् विशिष्टदेवताविषय-

गोप्य स्तपः किमचरन् यदमुष्यरूपं
लावण्यसारमसमोर्द्धमनन्य सिद्धम्।
दृग्भिः पिवन्त्यनुसवाभिनवं दुरापं
एकान्त धामयशसः श्रिय ऐश्वरस्य॥२२॥

__________________________________________________________

त्वेन वर्णनीयत्वाच्च नोक्तः।रत्यादिशव्दवाच्यत्वेनाचारत्वात्हृष्यत्वच इत्यनुभव द्वारैवोक्तः। हे अरिन्दम! परीक्षित्। अरयोऽत्रकामादयः षड्वर्ण्यमान शृङ्गारनिर्भरचित्तो माभूदयमिति उचितम्। सम्बोधनम्। शुकः॥ दीर्घसम्प्रयोगस्य स्मृहया तं प्राप्तवतीर्गोपीःस्तुवन्ति पुण्या इत्यादि। वत विस्मये। पुण्याः पुण्याधिकाः।ब्रजभुवो गोप्यः। नृलिङ्गेन मर्त्त्यमूर्त्या गूढ़ंगूढ़तामेवाह। वनचित्रेति। त्रिभिः वनमाल्यैश्चित्र इत्यर्थः। यत् या गोपी अञ्चतिगच्छति। उपभुङ्क्तेविक्रीड़या विविधक्रीड़या। विचित्रैः कामकरणैरित्यर्थः। गिरित्रो रुद्रः। रमा लक्ष्मीः। अनेन सकामविचित्रैःकामैरयमेव सेव्य इत्युक्तम्॥१०।४४।१३ (२१)

आस्तामनेन सह सम्प्रयोगो दर्शनमप्यस्य दुर्लभमित्याहुर्गोप्यइति। यद् यस्मात् अमुष्य पुरुषरत्नस्य लावण्यसारम् अशेषलावण्येन गृहीतसारात्मकम्। लावण्यरूपयो रभेदप्रतिपत्तिः। सामान्याधिकरण्ये व्यङ्ग्यम्। अतएव असमोर्द्धंअविद्यतुल्याधिकम्। तच्चस्वभावसिद्धम्। न तु केनचित् कर्त्रानिर्मितम्। अतएवाभिनवंसर्वक्षणःप्रतिदर्शनेन नवं नवं अकृततपोभिः एकान्तधामश्चावभिचारि स्थानम्। ऐश्वरः ऐश्वर्य्यम्। एतेन दुर्भगत्व दुर्ब्बिधत्वदुर्व्वलत्वानि भर्त्तुर्द्दोषाः। स्त्रीणां वैराग्यहेतवोऽत्र न सन्ति इत्युक्तम्॥१०।४४।१४ (२२)

यादोहनेऽवहनने मथनोपलेप
प्रेङ्खेङ्खनार्भरुदितोक्षणमार्ज्जनादौ
गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो
धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः॥२३॥

प्रातर्ब्रजाद्ब्रजतआविशतश्च सायं
गोभिः ससं क्वणयतोऽस्य निशम्य वेणुम्।
निर्गम्य तूर्णमवलाः पथिभूरि पुण्याः
पश्यन्ति सम्मितमुखं सदयावलोकम्॥२४॥

मैवं विभोऽर्हति भवान् गदितुंनृसंशम्
सन्त्यज्य सर्वविषयान् तव पादमूलम्।
भक्त्या भजस्वदुरवग्रहमात्यजास्मान्
देवो यथादि पुरुषो भजते मुमुक्षून्॥२५॥

__________________________________________________________

या इति।या एनम् दौहनादौ गायन्ति चकारात् पश्यन्ति।अवहनने कण्डने। प्रेङ्खेङ्क्षनंहिन्दोलनम्। मार्ज्जनं अवकरनिरासः॥१०।४४।१५ (२३)

प्रातरिति। प्रविशतः आगच्छतः निर्गम्यगृहद्वारि स्थित्वेत्यर्थः। शुकः॥१०।४४।१६ (२४)

संजल्पसम्भोगमाह गोप्य इति। गोप्यः हे विभो! स्वामिन्एवं “तद्यातमाचिरंघोष"मित्येवं रूपं नृशंसं कठिनं भक्ता भजनंकर्त्तुमारब्धाः “आदिकर्म्मणि क्तः कर्त्तरि च118” दुरवग्रहः दुरा-

यत् पत्यपत्य सुहृदामनुवृत्तिरङ्ग-
स्त्रीणां स्वधर्म्मइति धर्म्मविदा त्वयोक्तम्।
अस्त्वेवमेतदुपदेशपदे त्वयीशे
प्रेष्ठो भवांस्तनुभृतां किलवन्धुरात्मा॥२६॥

कुर्व्वन्तिहि त्वयिरतिं कुशलाः स्म आत्मन्
नित्यप्रिये पतिसुतादिभिरार्त्तिदैः किम्।
तन्नः प्रसीदवरदेश्वरमास्मच्छिन्द्या
आशां भृतां त्वयिचिरादरविन्दनेत्र!॥२७॥

__________________________________________________________

राध्यः। यद्यपि वयं तवाननुरूपाः तथापि सर्व्वं स्व त्यागेन भजतःसर्व्वस्यापि स्वीकार एवसत्पुरुषधर्म्मइति दृष्टान्ते व्यङ्ग्यम्॥१०।२९।३१ (२५)

ननु किं मद्भजनेन भर्त्तुःशुश्रूषणमित्युक्तम्। स्वधर्म्म एवाद्रियतामिति चेत्तत्राहुःयत्पत्येति। हे अङ्ग! यत्पत्याद्यनुवृत्तिः स्त्रीणां निजधर्म्म इति।यत्त्वयोक्तंतत्त्वय्येवास्तु। न तुप्राकृते पत्यादौ किल यस्मात्त्वं प्रेष्ठः। नान्यवत् प्रियमात्रत्वम्।तनुभृतां प्रेष्ठो नान्यवद् द्वित्राणां। बन्धुः सुहृत्। आत्मेति। त्वद्भजनादपत्यं भजनमेव भविष्यति। आत्मैवह्य(यद) पत्यरूपः। त्वञ्चसर्व्वात्मा। न चैवं विशेषात् पत्यादि भजनमेव कार्य्यमितिवाच्यम्। त्वंहि धर्म्मवित् यथास्थितं धर्मं वेत्सि। उपदेशपदंगुरुः। यथाज्ञानं कथयसीत्यर्थःईशः कथितुंकर्तुमकर्त्तुं चयोग्यः फलदाने क्षम इत्यर्थः। पत्यादयस्त्वमेवं रूपाः। तस्माल्लाघवेनैव फलसिद्धौ किं गौरवेण इत्यर्थः॥१०।२९।३२ (२६)

किञ्चातोऽपि त्वद्भजनमेव श्रेय इत्याहुः। कुर्व्वन्तीति।

चित्तं सुखेन भवतापहृतं गृहेषु
यन्निर्विशत्युतकरावपिगृह्यकृत्ये।
पादौ पदं न चलतस्तवपादमूलाद्
यामः कथं ब्रजमथोकरवाम किंवा॥२८॥

सिञ्चाङ्ग नस्त्व दधरामृतपूरकेण
हासावलोककलगीतजहृच्छ्याग्निम्।
न चेद्वयं विरहजाग्न्युपयुक्तदेहा
ध्यानेन याम पदयोः पदवींसखे ते॥२९॥

__________________________________________________________

कुशला दीर्घदर्शिनः।स्वेवन्धौ स्वादिभिः (त्रिभिः) सप्तम्यन्तैःपत्यादयः त्रय उक्ताः। “हे नित्य त्वं नित्यः” पत्यादयस्तु अनित्यत्वादार्त्तिदा। ततस्तैः किं नो किमपि इत्यर्थः।तत्तस्मादन्यभजनस्यस दोषत्वात्। त्वद्भजनस्थ सुगमत्वाच्च। आसामङ्गमङ्गस्मृहाम्।चिरात् अशरीरग्रहणात्। अरविन्दनेत्रत्वात् आशावरदेश्वरत्वेऽप्यस्मदाशाच्छेदनमकीर्त्तिकरमिति भावःएवमपि गमनादेशे गन्तुमपिन शुक्यत इत्याहुः॥

चित्तमित्यादि। सुखेन सुखरूपेण। निर्व्विशति। व्यापिपर्त्ति।उत अहो यौकरौ निर्व्विशतः। तावपिहृतो। आस्तां तावत् गृहगमनवार्त्ता। गृहप्राप्तिरप्यशक्या इत्याहुः॥१०।२९\।३४ (२८)

अतः कथं यामः। अतो न यामश्चेत्किं करवाम तवस्वीकारंविनेति भावः। करवामेति संप्रश्नेलोट्। तस्मादयमस्मत् प्रणयोमान्य इत्याहुः।१०।२९।३३ (२७) सिञ्चेति। अङ्ग अहो। अमृतंसुधापू रकः प्रवाहो हृच्छयाग्निं कामाग्निम्। वासादिभिरिन्ध-

यर्ह्यम्बुजाक्षतव पादतलं रमाया
दत्तक्षणं क्वचिदरण्यजनप्रियस्य।
अस्पाक्ष्मतत्प्रभृति नान्य समक्षमङ्ग
स्थातुं त्वयाभिरमितावत पारयामः॥३०॥

श्रीर्यत् पदाम्बुजरजश्चकमे तुलस्या
लव्ध्वापि वक्षसि पदं किलभृत्यजुष्टम्।

__________________________________________________________

नैरुद्दीपितम्। कलं मधुरं। अधरसुधां पाययस्वेत्यर्थः। नोचेन्नसिञ्चसिचेत् तत्राहुः। उपयुक्तं दार्ढ्यं(दग्धं) शाब्द्यमात्रम् तवावशेक्ष्यति। वयन्तु तत्पादसन्निकृष्टा भविष्याम एवेत्यर्थः॥१०।२९।३५ (२९)

तथाप्यज्ञानरक्तेषु जनेषु प्रसङ्गोऽनुचित इव तत्राहुः।यर्हीति।दत्तक्षणं दत्तावसरम्। क्वचित् कस्मिन्नपि संकेतस्थाने अस्प्राक्ष्मःपृष्टवत्यः। त्वत्तोऽन्यंन जानीम इत्यर्थ कृतदिव्याः। अरण्यगन(जन) इत्यात्मानं निर्दिशन्ति। एते (न) रमारमणस्यापि ते स्वानुरागमवेक्ष्येदमस्मामिर्द्दिव्यंकृतम्। न स्वरुचिमात्रेणेत्युक्तम्।तत्प्रभृति अन्येषां पतीनां समक्षं स्थातुमपि न पारयामः न शक्नुमःकिं पुनरन्तुम्। अञ्जसा स्वारस्येन वलादुपभुञ्जते ते वतनिश्चितम्। अतस्त्वय्येवानुराग इत्यर्थः॥१०।२९\।३९(३०)

आस्तामङ्गसङ्गः तत्पादशुश्रूषणमप्यनुमन्यस्वेत्याहुः। श्रीरिति।यत् यस्मात् श्रीरपि पादरज एव चकमे।वक्षसि स्थानं लब्धापिकिम्भूतं रजः भू(भृ)त्यैर्जुष्टम्। तथा तुलस्याः सम्वन्ध्यपि किलप्रसिद्धौ। यस्याः श्रियः उतेत्यपि अर्थे।अन्ये ब्रह्मादयः।

यस्याः स्ववीक्षण उतान्य सुरप्रयास
स्त द्वदयञ्च तव पादरजः प्रपन्नाः॥३१॥

तन्नः प्रसीदवृजिनार्द्दन तेऽङ्घ्रिमूलं
प्राप्ता विसृज्यवसतीस्तदुपासनाशाः।
त्वत् सुन्दरस्मितनिरीक्षण तीब्रकाम
तप्तात्मनां पुरुषभूषणदेहिदास्यम्॥३२॥

वीक्ष्यालकावृतमुखं तव कुण्डलश्री
गण्डस्थलाधरसुधं हसितावलोकम्।
दत्ताभयञ्च भुजदण्डयुगं विलोक्य
वक्षः श्रियैकरमणञ्च भवाम दास्यः॥३३॥

_______________________________________________________________________

प्रयासःतपः क्लेशः। तद्वत् श्रीवत्। वक्षसि स्थितापि श्रीः। भृत्योपभुक्तंसपत्नीसम्बन्ध्यपि पादरज एव चकम इति अतिशयः॥१०।२९।३७ (३१)

तन्न इति। तत् तस्मात् श्रियापि काम्यमानत्वात्। हे बृजिनार्द्दन! दुःखनाशक वसतीर्गृहान् तवसुन्दराभ्यां स्मितनिरीक्षणाभ्यां य स्तीव्रःकामः तेन तप्त चित्तानामस्माकम्॥१०।२९।३८ (३२)

ननु सन्त्यत्र पुरुषान्तराणीति किं ममैव प्रार्थनयेति चेत्त्तत्राहुःवीक्ष्येति। अलकाश्चूर्णकेशाः कुण्डलश्रीश्च गण्डस्थलञ्चाधरसुधाचेति द्वन्द्वैक्यम्। हरिञ्चावलोकश्च श्रिया एक रमणम्। आर्षोऽवर्णागमः सन्धिर्वा। अन्यान्यपेक्षं वचः श्रीप्रलोभकमित्येकशब्दार्थः। भवाम इत्याशिषि लोट्॥१०।२९।३९(३३)

का स्त्र्यङ्ग ते कलपदामृत वेणुगीत
सम्मोहितार्य्यचरितान्नचलेत्त्रिलोक्याम्।
त्रैलोक्यसौभगमिदञ्च निरीक्ष्यरूपं
यद्गोद्विजद्रुममृगाः पुलकान्यविभ्रन्॥३४॥

व्यक्तं भवान् ब्रजभयार्त्तिहरोभिजातो
देवो यथादिपुरुषः सुरलोकगोप्ता।
तन्नो निधेहि करपङ्कजमार्त्तवन्धो
तप्तस्तनेषु च शिरःसु च किङ्करीणाम्॥३५॥

इति श्रीवोपदेवकृते मुक्ताफले विष्णुभक्तानां
सम्भोगशृङ्गारो नाम एकादशोऽध्यायः॥११॥

_________________________________________________________

तथापि परपुरुषप्रसङ्गाच्च सन्मार्गातिक्रमोऽनुचित इति चेत्तत्राहुः।कास्त्रीति। कलैर्म्मधुरैः पदैरमृतम् सुधीभूतं यद् वेणुगीतम्। तेन सन्मोहिता उत्पन्नसम्मोहाख्यनवम स्मरदशाः त्रैलोक्यस्य सौभगं सौभाग्यं जनप्रियत्वंयस्मिन् रूपे यत् यस्मात वेणुगीताद्रूपाद्वागवादयः पुलकानविभ्रन् नितरां धृतवन्तः। द्विजाःपक्षिणः। अयोग्येष्वपीति। मंक्षुभावाविर्भावात्। का कथाऽस्माकम् स्मरवैवस्यादिदं चेष्टितं स्यादिति भावः॥१०।२९।४० (३४)

व्यक्तमिति। व्यक्तं स्पष्टम्। भयं परहेतुकम्। आर्त्तिर्मनःपीड़ा। अभेदेऽपि देवो यथेति भेदोपमया सम्मोहितत्त्वं विवृतं।तत् तस्मात्।शब्दद्वयमुभयत्र प्राधान्यदोतनार्थम्। गोप्यःश्रीकृष्णम्॥१०।२९।४१ (३५)

इति श्रीहेमाद्रिविरचितायां कैवल्यदीपिकायां विष्णुभक्तानां
सम्भोगशृङ्गार नाम एकादशोऽध्यायः॥११॥

]


  1. “कुमारसम्भवः ६।५ श्लोः।” ↩︎

  2. “पाणिनिः १।३।२४६ सूः।” ↩︎

  3. “पाणिनिः ६।२।१२७ सूः। " ↩︎

  4. “पाणिनि-लिङ्गानुशासनम् २।३६ सूः।” ↩︎

  5. “भामती - १।१।४ मूः(वेदान्ते ↩︎

  6. " छान्दग्योपनिषद् - ६।२।१। " ↩︎

  7. “अद्वैतसिद्धौप्रयोग एवमस्ति।” ↩︎

  8. “पाणिनिः २।३।४६४ सूः।” ↩︎

  9. “कुसुमाञ्जलिः ( न्याय ↩︎

  10. “भागवतं २/१०/८ श्लोः।” ↩︎

  11. “भागवतं १०/३/२०श्लोः। " ↩︎

  12. “भागवतं १०/३/४२श्लोः।” ↩︎

  13. “प्रह्लादसंहिता द्वारकामाहात्म्येस्कान्दं। " ↩︎

  14. “स्कन्दपुराणीय प्रभासखण्डस्य, हिमवत्खण्डं, ८।९८ योगिणीतन्त्रं ४४।२। कूर्म्मपुः - ३४।४१। " ↩︎

  15. " नृसिंहपुराणं ३५।२०। " ↩︎

  16. " गीता १८/४० श्लोः।” ↩︎

  17. “पूरिस्थलशरीरेशेते इति पुरुषः। तत्त्वकौमुदी।” ↩︎

  18. “सांख्यमतेऽन्तःकरणानि त्रीणि, वेदान्तनये तानि चत्वारि।” ↩︎

  19. “प्रकृतिबुद्ध्यहङ्कारतन्मात्रैकादशेन्द्रियपञ्चभूतानि पुरुषश्चेति पञ्चविंशतितत्त्वम्।” ↩︎

  20. “भागवतं १९।१९।३७।” ↩︎

  21. “भागवतं ११।१९।३८।” ↩︎

  22. “गीता १०।२२। श्लोः।” ↩︎

  23. “पाणिनिः ७।१।३९।” ↩︎

  24. “विष्णुसहस्रनामभाष्येएकसप्ततितमश्लोकोद्धृतवचनम्।” ↩︎

  25. “हयशीर्षपञ्चरात्रः वामदक्षिणोर्द्ध्वगदादीनि अस्त्राणि सन्ति।” ↩︎

  26. “तद्द्विविधं करण्डमुकुटं किरीटमुकुटमिति शिल्पशास्त्रे प्रसिद्धम्।” ↩︎

  27. “सम्यग्विवेकेनात्मकथनं सांख्यं सिद्धर्षिकपिलप्रोक्तम्। चित्तवृत्तिनिरोधो योगः अनन्तावतार-पतञ्जलिप्रोक्तः।” ↩︎

  28. “पाणिनिः २।१।६० सूः।” ↩︎

  29. “प्रस्थानभेदे, चरणव्यूहभाष्ये च।” ↩︎

  30. “वसिष्टविश्वामित्रादिप्रोक्ताः।” ↩︎

  31.  ↩︎
  32.  ↩︎
  33. “श्वेताश्वतरोपनिषत् २।२२ श्लोः।” ↩︎

  34. “रामायणे कैष्किन्ध ५।१५ श्लोः।” ↩︎

  35. “भागवतं १।२।२७ श्लोः।” ↩︎

  36. “पातञ्जलं १।२६। सूः” ↩︎

  37. “पाणिनिः १।२।२७ सूः।” ↩︎

  38. “योगदर्शनं १।२१–२२।” ↩︎

  39. “महाभाष्ये १।१।१।” ↩︎

  40. “(१ ↩︎

  41. “‘मृद्मध्याधिमात्रत्वात्ततीऽपि विशेषः’ योगदर्शनं १।२२ सूः।” ↩︎

  42. " (१ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  43. " (२ ↩︎

  44. " (३ ↩︎

  45. “पाणिनिः ५।३।६५ सूः।” ↩︎

  46. " पाणिनिः ६।४।७५ सूः।” ↩︎

  47. “भागवत १।३।२४ श्लोः।” ↩︎

  48. “विष्णुपुराणं ५ अंश; १म अः, ५९ श्लोः।” ↩︎

  49. “भागवत १०।२।१८। श्लोः। " ↩︎

  50. “भागवत ४।२।५९ श्लोः। " ↩︎

  51.  ↩︎
  52. “काकागमनकाले तालपतनमिव इति काकतालीयम्। एतदाख्योन्यायः।” ↩︎

  53. “मुण्डक उः ३।१।१ " ↩︎

  54. “पाणिनीये " ↩︎

  55. ““मूले मूलाभावादमूलम्” सांख्यदः १।६६ सूः। " ↩︎

  56. “कुरुक्षेत्रम् परमषूततीर्थम, तथाहि—“इदं वैकुरुक्षेत्रंदेवानांदेव यजनं सर्व्वेषां भूतानां ब्रह्मसदनम्” “अविमुक्तं वै कुरुक्षेत्रम्” * ***इति जाबालोपनिषत् १।२।१।४श्लोकः।” ↩︎

  57. “गीता १२।५ श्लोः।” ↩︎

  58. “अयमधिकपाठः कुत्रचित् पुस्तकेऽस्ति।” ↩︎

  59. ““सम्प्रतीमात्मानं वैश्वानरमध्येति” छान्दोख्ये ५/११/२।” ↩︎

  60. " योगदर्शनं १।१।१ सूः।” ↩︎

  61. “सांख्यशास्त्रोक्त-प्रकृतेः सत्त्वाद्वापुरुषो भिन्नः पुरुषात् प्रकृतिभिन्नावेत्यवं रूपो मोक्षीपायः सत्वपुरुषाण्यताख्यातिर्ज्ञानमिति।” ↩︎

  62. " “तपः स्वाधायेश्वर प्रणिधानानि नियमाः” इत्यत्र सूत्रे व्याख्यातम्— —“स्वाध्यायः प्रणवादि परित्राणां मन्त्राणां जप” इति।” ↩︎

  63. “विपर्य्ययो मिथ्याज्ञानमतद्रूपप्रविष्ठम्, योगदर्शनम् १।१।७ सूः।” ↩︎

  64. “पाणिनिः (९६५ ↩︎

  65. “ज्ञानेन्द्रियपञ्चकं कर्म्मेन्द्रियपञ्चकं पञ्चप्राणाः, बुद्धिमनसी एतैः संघटितो देहः।” ↩︎

  66. “सुण्डकोपलिवत् १।२।११॥” ↩︎

  67. “छान्दोग्य १।१४।१” ↩︎

  68. “द्वौ भागौ पूर्वयेदन्नेस्तोयेनैकं प्रपूरयेत्। वायूनां परिचारार्थंचतुर्थ-मवशेषयेत्॥ वैद्यके।” ↩︎

  69. “घोः दः ३।१ सूः। “तव्जपस्तदर्थभावनम्” - जपः प्रणवादिमन्त्राणां द्वादशाक्षरषड़क्षरमन्त्राणां वा।” ↩︎

  70. ““स्वविषयाऽसाम्प्रयोगे चित्तस्य स्वरुपानुकार इवेन्द्रियाणां प्रत्याहारः” २१५४ सुः।” ↩︎

  71. “हयशीर्ष-पञ्चरात्रम्, नारदपञ्चरात्रम्, कपिलपञ्चरात्रम्, गणेशपञ्चरात्रम, इत्यादि वैष्णवागमाः। अभिव्युना संहितादीनां एष्वन्तर्भावः।” ↩︎

  72. “योगदर्शन १।२३ सूः। तत्रैव २।१ सूः। " ↩︎

  73. “प्रणिधानं “तस्मिन्परमगुरौ भगवति सर्वक्रियाणां समर्पणम्।” योगदर्शनव्याख्या १।२३ सूः।” ↩︎

  74. “योगदर्शने वैयासिकं भाष्यम्।” ↩︎

  75. “भगवद्गीता ३।५ श्लोकः।” ↩︎

  76. “योगदर्शनम् २।२९-३० सूः।” ↩︎

  77. “शङ्कराचार्य ग्रन्थाबल्याम्। " ↩︎

  78. “तन्त्रसार शब्दकल्पद्रुम प्रणाम शब्देऽस्यत् सर्व्वम्।” ↩︎

  79. “योगदर्शनम् १।२४ सूः।” ↩︎

  80. “तत् कुदस्य मदर्पणम् गीता - ९।२७। श्रीः। योगदर्शन १।२३, -२।४५ सूः।” ↩︎

  81. “योगदर्शनम् १।२४ सूः। अविद्यादय क्लेशाः विपच्यन्ते इति विपाकाः जात्यायुर्भीगा, शुभाशुभं कर्म्मादृष्टंवा, आफलविपाकात् चित्तभूमीशेरते इत्याशया वासनास्य संस्काराः तत्रैवभाष्ये।” ↩︎

  82. “भागवतं १/५/३४ श्लीः।” ↩︎

  83. “योगदर्शनं १।१५ सूः।” ↩︎

  84. “अमर-नानार्थं कोषः।” ↩︎

  85. “योगदर्शनं ३।३ सूः।” ↩︎

  86. “सात्त्वतां पतिर्गोपानामधीश्वरः। एवं सात्त्वतसंहितायाम्।” ↩︎

  87. ““सुपांसुलुक् पूर्वसवर्णस्य” पाणिनिः ७।१।३९ सूः।” ↩︎

  88. “शेषदर्शनकारिका स्पन्ददीपिका व्याख्या च।” ↩︎

  89. “श्रुतिः - श्रूयतेऽनादिकालतो गुरुपरम्परयाऽलौकिकार्थो न तु केनापि क्रियत इत्यर्थः।” ↩︎

  90. ““प्रयतत्वाद्दीपचित्तं नाशयती"ति प्रायश्चित्तम्। “प्रायश्चित्तानि पापक्षयमात्रसाधनानि चान्द्रायणादीनि”। वेदान्तसारः १।३।५। “प्रायश्चित्तैरपैत्ये नो यदज्ञानकतम्भवेत्। प्रायश्चित्ततत्त्वम्। कामतोऽव्यवहार्य्यस्तु वचनादिह ज्ञायते”॥ याज्ञवल्क्य स्मृतिश्च।” ↩︎

  91. ““स्तेनो हिरण्यत्व सुरां पिवंश्च गुरोस्तल्पमावसन् ब्रह्महा पतन्ति चैतेचत्वारः पञ्चमश्चाचरन् तैः।” छान्दोग्ये - ५।१०।९” ↩︎

  92.  ↩︎
  93. “पातञ्जलदर्शनं १।१।१ सूः।” ↩︎

  94. “छान्दोग्ये - ५।१३।१।” ↩︎

  95. ““तज्जप्यस्तदर्थभावनम्” पातञ्जलदर्शने १।१।२८ सूः।” ↩︎

  96. “मुक्ताफलम् १।१।श्लोकः।” ↩︎

  97. “भागवतम् ७।१।३१ श्लोकः।” ↩︎

  98. “भरतप्रणीतनाट्यशास्त्रे शृङ्गाररसनिरुपणम्।” ↩︎

  99. “भरतमुनि-प्रणीतनाट्यशास्त्रं, भरतप्रणीतामरटीकायां, भक्तिरसामृतसिन्धौदक्षिणभागेप्रथमलहर्य्यां साहित्यदर्पण-तृतीयपरिच्छेदेविशेषतोऽस्ति।” ↩︎

  100. “अमरटीकायां भरतः। भरतमुनेः प्रणीतनाट्यशास्त्रं च।” ↩︎

  101. “भरतसूत्रव्याख्याने परमभट्टारकाभिनवगुप्तपादाचार्य्याः।” ↩︎

  102. “दशरूपके” ↩︎

  103. “उज्ज्वलनीलमणौभक्तिरसामृतसिन्धौकाव्यप्रकाशे च।” ↩︎

  104. “ब्रह्म संहिता प्रथम श्लोकटीकायां श्रीजीव गोस्वामी।” ↩︎

  105. “काव्य प्रकाशे, - “विभावाअनुभावाश्च कथ्यन्ते व्यभिचारिणः।” ↩︎

  106. “भावस्त्रिविधः। स्थायि व्यभिचारि सात्त्विकाः। रतिहास शोक क्रोध उत्साह भय कुगुप्सा विस्मयादयः स्थायिभावाः। निर्वेदग्लानि शङ्का असूयादयः व्यभिचारिणः। स्वेद स्तम्भ रोमाञ्च स्वरभङ्गादयः सात्त्विकाः इत्यमरटीकायां भाव शब्दे भरतः उज्वल नीलमणौ अनुभावविवृति प्रकरणे।” ↩︎

  107. “दशरूपके नाट्यसूत्रव्याख्याने च।” ↩︎

  108. “श्रीमदभिनवगुप्तपादाचार्य्येण भरतमुनेर्नाट्यशास्त्रस्य धन्यालोकस्य सुविस्तृतं व्याख्यानं कृतंतत्रतत्रसर्वं विशदमस्ति। तेन शेवदर्शने गीतायां अन्यस्मिं श्चानेके सन्दर्भाविरचिताः।” ↩︎

  109. “सूरि हेमचन्द्राचार्य्योऽनेनालङ्कारचूडामणौसर्वमुक्तम्। केषाञ्चिनयेऽयं केनावार्य्यो नृपतिकुमारपालस्यगुर्जराधिपस्य गुरुरिति।” ↩︎

  110. “श्रीमद्भोजराज प्रणीत सरस्वतीकण्ठाभरणे, साहित्य दर्पणे चन्द्रालोके च।” ↩︎

  111. “भरत प्रणीतामरव्याख्यायां, अलङ्कार कौस्तुभे च क्रविकर्णपुरीये।” ↩︎

  112. “उज्वलनीलननौ व्यभिचार भावप्रकरणे।” ↩︎

  113. “अभिनव गुप्तपादाचार्य्येन नाट्यसूत्र वाख्याने।” ↩︎

  114. “नाट्यसूत्रे तद्व्याख्याने च।” ↩︎

  115. “भरत प्रणीत नाट्य शास्त्रे अमरटीकायां भरत कृतायाञ्च। भक्तिरसामृत सिन्धूत्तव विभागे प्रथम लहर्य्याम्। साहित्य दर्पणे तृतीय परिच्छेदे। गरुड़ पुराणे ६६ अः, ५७ श्लोकः।” ↩︎

  116. “पाणिनिः७।१।३९सूत्रम्” ↩︎

  117. “भागवतं १ ।१०।३१ श्लोकः।” ↩︎

  118. “पाणिनिः ३।४।७१ सूत्रम्।” ↩︎