श्रीकृष्णः शरणं मम तत्र श्री श्रीराधाकृष्णाभ्यां नमः महर्षिवेदव्यासप्रणीतं श्रीमद्भागवतमहापुराणम् श्रीधरखामिविरचित-भावार्थदीपिका, श्रीवंशीधरकृत- भावार्थदीपिकाप्रकाशः, श्रीमद्वीरराघवाचार्यभावित- भागवतचन्द्रिका, श्रीमद्विजयध्वजतीर्थरचित-पदरस्नावली, श्रीमजीवगोस्वामिनिष्पादित-क्रमसंदर्भः, श्रीमद्विश्वनाथचक्रवर्तिसाधित-सारार्थदर्शिनी, श्रीमच्छुकदेवनिवर्तित-सिद्धान्तप्रदीपः, गोस्वामिश्रीगिरिधरलालविहित- बालप्रबोधिनी, श्रीभगवत्प्रसादाचार्यप्रणीत- भक्तमनोरञ्जनी, इत्येताभिर्व्याख्याभिः भाषानुवादेन समलङ्कृतम् । पञ्चमः स्कन्धः १९६६] सम्पादकः श्रीदलसुखरामात्मजः कृष्णशङ्करः शास्त्री ‘अभिनवशुकः’ वेदान्ताचार्यः साहित्यतीर्थः श्रीभागवतसुधानिधिः । प्रकाशकाः कृष्णशङ्करः शास्त्री कृष्णराजभाई ठाकरसी जयराजभाई द्वारकादासः (श्रीविद्याहितनिधिसदस्याः ) [वि. सं. २०२३ अध्याये १. प्रियव्रतचरितम् । श्रीमद्भागवतमहापुराणपञ्चमस्कन्धस्थविषयानुक्रमः विषयाः २. आग्नीध्रचरितम्, आग्नीश्रात् पूर्वचित्त्यां नवपुत्रोत्पत्तिः । ३. नाभेश्चरितम् - यज्ञ दत्तवरस्य भगवतो नाभेर्मेरु देव्यामृषभदेवाख्यावतारग्रहणम् । ४. ऋषभदेवस्यालौकिकचरितम् । ५. ब्रह्मावर्ते स्वपुत्रेभ्य ऋषभस्य ज्ञानोपदेशः स्वयमवधूत वृत्तिग्रहणं च । ६. ऋषभदेवस्य देहत्यागः । ७. भरतोपाख्यानं भरतस्य पुलहाश्रमगमनं तपश्चरणं च । … ८. भरतस्य मृगशावकमोहान्मृगयोनौ जन्म शालग्रामतीर्थे मृगशरीरोत्सर्गश्च । … … … … ९. भरतस्य ब्राह्मणकुले जन्म तत्र जडवदाचरणं बलिप्रदानार्थ नीतस्य जडभरतस्य भद्रकाल्या रक्षणं च । १०. शिविकावहने नियुक्तस्य तस्य विज्ञानमयं वचो निशम्य तं ब्रह्मविदं मत्वापराधभीतस्य रहूगणस्य क्षमाप्रार्थनम् । ११. रहूगणाय जडभरतस्य ज्ञानोपदेशः – तत्र संसार मिध्यात्ववर्णनम् । १२. रहूगणसंशयस्य समाधानम् - सत्समागमप्रशंसा, स्वपूर्वजन्मवृत्तकथनं च । १३. भवाटवीवर्णनम्, रहूगणसंशयनिवृत्तिश्च । १४. भवावीतिरूपकेणोक्तस्यार्थस्य सुस्पष्टीकरणम् । १५. भरतवंशवर्णनम् । १६. भूगोलवर्णनम् । १७. भागीरथी वर्णनमिलावृते वर्षे शङ्करकृतसंकर्षण स्तवनं च । १८. विभिन्नवर्षाणां तत्रत्योपासनानां च वर्णनम् । … १९. किम्पुरुषभारतवर्षयोर्वर्णनं देवगीतं भारतस्य श्रेष्ठयम् उपद्वीपवर्णनं च । २०. प्रक्षादिषद्वीपानां लोकालोकपर्वतस्य च वर्णनम् । २१. खगोलविवरणं रखे रथस्य तद्गतेश्च वर्णनम् । २२. चन्द्रादिग्रहाणां स्थितेर्गतेश्च वर्णनम् । २३. विष्णुपदस्य शिशुमारचक्रस्य च वर्णनम् । २४. राह्वादिस्थितैरतलादिसप्तभूविवराणां च विवरणम् । २५. सङ्कर्षणदेवस्य संस्थितिस्तदीयं स्तवनं च । २६. विभिन्ननरकगतीनां वर्णनम् । परिशिष्टम् - १ सावरणभङ्गप्रकाशतत्त्वार्थदीप निबन्धः ( पञ्चमस्कन्धीयः ) परिशिष्टम् - २ हरिलीलामृतम् (पञ्चमस्कन्धीयम् ) … … … … … … …. … … … … पृष्ठाङ्काः १ ४३ ६३ ८० ९३ … १२७ … १४५ …. १५९ १७९ १९७ २२३ … … २४४ २६२ २८४ … … ३१७ … ३२७ ३४७ ३६९ … ४१० … ४४१ … … ४७१ ४९१ ५०४ … … ५१३ ५३९ ५५२ … … … परिशिष्टम्-३ पञ्चमस्कन्धी यश्लोकानुक्रमणिका तत्र श्री श्रीमद भागवतं श्रीकृष्णः शरणं मम तत्सत् श्रीगणेशाय नमः श्रीमद्भागवतमहापुराणम् अनेकव्याख्यासमलङ्कृतम् पञ्चमः स्कन्धः अथ प्रथमोऽध्यायः ॐ नमो भगवते वासुदेवाय राजोवाच प्रियव्रतो भागवत आत्मारामः कथं मुने गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १ ॥ न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ । गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥ । महतां खलु विप्रर्षे उत्तमश्लोकपादयोः । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ॥ ३ ॥ संशयोऽयं महान् ब्रह्मन्दारागारसुतादिषु । सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥ श्रीशुक उवाच बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥ * * अन्वयः - मुने आत्मारामः भागवतः प्रियव्रतः गृहे कथम् अरमत यन्मूलः कर्मबन्धः पराभषः ॥ १ ॥ द्विजर्षभ तादृशानाम् मुक्तसंगानाम् पुंसाम् अयम् गृहेषु अभिनिवेशः नूनम् भवितुम् न अर्हति ॥ २ ॥ विप्रर्षे खलु उत्तमश्लोकपादयोः छायानिर्वृतचित्तानाम् म महताम् कुटुंबे स्पृहामतिः न ॥ ३ ॥ * ॐ ब्रह्मन् दारागारसुतादिषु सक्तस्य सिद्धिः कृष्णे च अच्युता मतिः अभूत् यत् अयम् महान् संशयः ॥ ४ ॥ * बाढम् उक्तम् भगवतः उत्तम- श्लोकस्य श्रीमच्चरणारविंदमकरंदरसे आवेशितचेतसः भागवतपरमहंसदयितकथाम् किंचिदंतरायविहताम् स्वाम् शिवतमाम् पदवीम् प्रायेण न हिन्वंति ।। ५ ।। * १. २. श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका श्रीगणेशाय नमः [ स्कं. ५ अ. १ इलो. १-५ नमः श्रीमत्परमहंसास्वादितचरणकमलचिन्मकरंदाय भक्तजनमानसनिवासाय श्रीरामाय । अथातः पंचमस्कंधव्याख्याऽनेकविशेषवान् । प्रियव्रतान्वयो यत्र सप्रपंचः प्रपंच्यते ॥ १ ॥ षड्विशत्याऽधुनाऽध्यायैः पंचमे स्थानमीर्यते । लोकद्वीपादिमर्यादापालनाख्यमनेकधा ॥ २ ॥ पृथिव्युपर्यधोलोकैर्मर्यादा त्रिविधा मता । पुनश्चैकैकशस्तेषु मर्यादा बहुधा मता ॥ ३ ॥ भुवि द्वीपादिमर्यादाः पाल्यते राजभिः पृथक् । भूमेरुपरि देवाद्यैस्ततञ्चाधोऽसुरादिभिः ॥ ४ ॥ तत्राध्यायैस्तु विंशत्या प्रियव्रतपुरःसरैः । मुवि द्वीपादिमर्यादाः पालिता इति वर्ण्यते ॥ ५ ॥ त्रिभिः सूर्यादिभिर्ज्योतिश्चक्रादिष्विति कीर्त्यते । अतलादिषु दैत्याद्यैः पालनं च ततस्त्रिभिः ॥ ६ ॥ तत्र तु प्रथमेऽध्याये ज्ञानिनो राज्यनिर्वृतिः । पुनश्च ज्ञाननिष्ठेति प्रियव्रतकथाऽद्भुता ॥ ७ ॥ “वंशं प्रियव्रतस्यापि निबोध नृपसत्तम ।। EPIS 1 यो नारदादात्मविद्यामधिगम्य पुनर्महीम् । भुक्त्वा विभव्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥” इति पूर्वस्कंधांते प्रियव्रतस्य प्रथममात्मविद्या ततो गृहाश्रमस्ततः सर्वसंगत्यागेन मोक्ष इत्युक्तम् । तत्र विस्मितः पृच्छति प्रियव्रतो भागवतोऽत एवात्मारामो गृहे कथमरमत । ननु रमतां को दोष इति चेदत आह । कर्मणा बंधः पराभवश्च स्वरूपतिरस्कारो यन्मूलो भवति यद् गृहं मूलं कारणं यस्य ॥ १ ॥ * * गृहेषु रतिश्व तत्राभिनिवेशात्स्यात्स व भागवतानामात्मारामाणां न संभवतीत्याह । न नूनमिति ॥ २ ॥ * गृहासक्तिर्हि कुटुंबादिस्पृहया भवति । सा च तेषां नास्तीत्याह । महता मिति । उत्तमश्लोकपादयोरछाया कामादिसंतापहारिणी तया निर्वृतं चित्तं येषां तेषां स्पृहायुक्ता मतिर्नास्ति ॥ ३ ॥ * * दाराद्या- सक्तस्य तु मोक्षः श्रीकृष्णेऽस्खलिता मतिश्चाभूदिति यदयं च महान्संशय इत्याह । संशय इति ॥ ४ ॥ * * अंगीकृत्य परि- हरति । बाढमभिनिवेशादिकं नास्तीति सत्यमेव, तथापि विघ्नवशेन तेषां प्रवृत्तिः पूर्वाभ्यासबलेन पुनर्निवृत्तिश्व संगच्छत इत्याह । भगवतः श्रीमच्चरणारविंदमकरन्दरूपो यो रसस्तस्मिन्नावेशितं चेतो यैस्तेऽपि केनचिदंतरायेण विघ्नेन विहतामपि स्वां शिवतमां पदवीं मार्ग न हिन्वंति न त्यजति । काम् ? भागवता एव परमहंसास्तेषां दयितस्य प्रियस्य श्रीवासुदेवस्य कथाम् ।। ५ ।। ||: ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः ॐ । श्रीगणपतये नमः यशोदानन्दनं देवं वृषभानुसुतापतिम् । नत्वा पञ्चमभावार्थदीपिका विवृतिं ब्रुवे ॥ १ ॥ ॥ ६ ॥ त्रैलोक्यं रचितं येन सपरिच्छदमात्मना । तथा तत्पालितं येन नानारूपैरनेकधा ॥ २ ॥ || वंदे तं परमात्मानं गोपिकाप्राणवल्लभम् । अनेकार्थावबोधाय विरुद्धार्थावहानये ॥ ३ ॥ । अथेति मंगले | अतः चतुर्थस्कंधव्याख्यानोत्तरम् । पञ्चमस्कंधस्य व्याख्या प्रपंच्यते विस्तार्य्यते । यत्र पञ्चमस्कंधे अनेके विशेषा भेदा यस्मिन्सोनेकविशेषवान् प्रियव्रतस्यान्वयो वंशः सविस्तारः प्रपंच्यत इति देहलीदीपकन्यायैनोभयत्रान्वेति ( १ ) अधुना इदानीम् । स्थानं भागवत तृतीयलक्षणम् । आदिना वर्षादिग्रहः ( २ ) तेषु पृथिव्यादिषु । एकैकश एकैकस्मिन्नपि ( ३ ) देवाद्यैः, इहादिना सूर्यरथसंबंधियक्षादिग्रहः । असुरादिभिः, इहादिना नागादिग्रहः ( ४ ) तत्र षड्विंशेषु (५) आदिना चन्द्रादिग्रहः । द्वितीया- दिनाऽजवीध्यादिग्रहः । आदिना वितलादिग्रह: ( ६ ) तत्र विंशेषु । राज्यानंदः । अद्भुता आश्चर्यजनिका (७) तत्र प्रियव्रतवृत्ते । अत एव भागवतत्वादेव | संदर्भस्तु - आत्मारामत्वे गृहारामत्वं न संभवति कुतस्तरां भागवतत्त्वे । अत्राक्षिपति - नन्विति । मुन इति । त्रिकालज्ञत्वात्त्वमेतद्वृत्तं जानास्येवेति भावः ॥ १ ॥ तत्र गृहेषु । अभिनिवेशोऽत्यंतरागः । द्विजर्षभेति । गृहाभिनिवेशा- ॥ ॐ भावादेव भवान् द्विजोत्तमतां लेभे गृहासक्त्या तु द्विजत्वमपि यथावन्न तिष्ठति कुतो द्विजर्षभत्वमिति भावः ॥ २ ॥ कै छाया कांतिराश्रयो वेति स्पृहा तावन्नास्त्येव मतिस्तदनुसंधानञ्च नास्तीत्यर्थः । संदर्भ:-येषां चित्तं सदा भगवच्चरणानुगामीति ध्यानमुक्त स्पृहा सैवामतिरज्ञानमिति वा छेदः । विप्रर्षे इति । विप्रर्षीणामिदमेवोचितमत एव भवान्हर्यत्रिध्यानरतत्वात्कुटुंबादिस्पृहाहीनोस्तीति भावः ॥ ३ ॥ * * ब्रह्मन्निति । साक्षाद्वेदरूपोसीत्यतो मत्संशयं छेत्तु समर्थोऽसीति भावः । सिद्धिर्भगवत्सामीप्यादिरूपा । न केवलं तस्यामेव संशयः, अपि तु साधनरूपायां तन्मतावपीत्याह-कृष्णे चेति । कथंचिदपराधवशाद् ग्रहासक्तिसत्त्वेपि तस्य सिद्धिः कृष्णासक्तिश्वेति कथमिति भावः । अच्युता च्युतिवर्जिता ॥ ४ ॥ * बाढमित्यर्द्धांगीकारेऽव्ययम् । आत्मारामस्य गृहारामता । ।। 8 । गृहारामस्य च कृष्णासक्तिरित्युभे न संभवत इति सत्यमेव तदप्यत्तिमहतां दुर्वितर्त्यचरितानां कापि कादाचित्की विषयासक्तिस्तया क. १ अ. १ श्लो. १-५1 अनेकव्याख्यासमलङ्कृतम् न विश्वसनीयेत्याह-भगवत इति । आवेशितचेतसो जना भागवती भगवत्संबंधिनी चासौ परमहंसानां दयिता प्रियतमा च या कथा तां किंचिन्मात्रेणांतरायेण विघ्नेन विहतां स्थगितीकृतां न प्रायेण हिन्वन्ति न त्यजति । कीदृशीं स्वां शिवतमां पदवीमिति तत्कथैव भक्तानां पदवी सुखमयं वर्त्म तयैव गम्यो भगवानित्यर्थः । संदर्भस्तु-शिवतमामंतरायेष्वपि भगवचित्तापादनेन परमकल्याणरूपा- मित्याह । ननु “त्वयाभिगुप्ता विचरति निर्भया विनायकानीकपमूर्द्धसु प्रभो” इत्यायुक्तेर्भक्तानामंतरायो नास्त्येव । सत्यम् । काल- कर्मादिहेतुकोसौ नास्त्येव, किं त्वंतरायो हि भक्तानां द्विविधः महदपराधहेतुको भगवदिच्छाहेतुकञ्च । तत्र महदपराधो हि समुचित- कष्टभोगेन चिरकालत एव तस्यैव महतः कृपया सद्य एव च शाम्यति यथा द्विविदादीनां रहूगणादीनाञ्च । भगवदिच्छा स्वभक्तसदा- चारशिक्षणार्थ, तदुत्यो विघ्नस्तु प्रेमवर्द्धनार्थ एव यथा भरतादीनाम् । तत्र प्रियव्रतस्यापराधाभावाद्भगवदिच्छानिबंधन एवं विघ्नोयं तत्र गुणबुद्धद्यापि भक्तैः कापि ममता न कर्त्तव्येति । यथा भरतस्य मृगपोषणप्रदर्शनया स्वभक्ता भगवता शिक्षितास्तथा महदाज्ञा हि भक्तानुपयोगिन्यपि भक्तैः प्रतिपालनीयैवेति प्रियव्रतकर्तृकब्रह्माज्ञाप्रतिपालनप्रदर्शनया शिक्षिता इति ज्ञेयम् ॥ ५ ॥ श्रीमद्वीरराघवव्याख्या तृतीये “स्वायम्भुवस्यापि मनोर्वंशः परमसम्मतः । कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य च । धर्मं जुगुपतुः सप्तद्वीपवतीं महीम्” इति पृष्टं स्वायम्भुववंशं प्रक्रम्य तद्दुहितृवंशः ज्येष्ठपुत्रोत्तानपाद- वंशश्च कथितः प्रजाः सृजेत्यादिना चतुर्थस्कन्धान्तेन ग्रन्थेन । तावतैव शुश्रूषितं सर्वं श्रुतप्रायमिति मन्वानेन क्षत्त्रा प्रियव्रतचरित्रं न पृष्टं तत्र चतुर्थस्कन्धान्ते ‘यो नारदादात्मविद्यामधिगम्य पुनर्महीं भुक्त्वेत्यधिरातात्मविद्यस्यापि प्रियव्रतस्य पुनर्भोगानुभव उक्तः । तदिदमघटमानं पृच्छति राजा प्रियव्रत इत्यादिना चतुर्भिः । हे मुने! प्रियव्रतो भागवतः भगवद्धर्मनिष्ठः मुमुक्षुः आत्मारामः प्रकृतिविमुक्तब्रह्मात्मकस्वात्मयाथात्म्यानुभवनिष्ठः कथं गृहेऽरमत । गृहशब्दो देहापत्यकलत्रादीनामुपलक्षणमेवंभूतः कथं गृहासक्तोऽभूत् । भागवत आत्मारामोऽपि रमतां गृहे को विरोध इति चेत्तत्राह । कर्मबन्धः कर्मरूपो बन्धः तेन पराभवस्तिरस्कारः ज्ञानसङ्कोचश्च यन्मूलः या गृहासक्तिर्मूलं यस्य सः कर्मबन्धान्मुमुक्षोः कर्मबन्धहेतुभूतगृहासक्तिर्विरुद्धा तथासङ्कुचितज्ञानात्मयाथात्म्यनिष्ठस्य ज्ञानसङ्कोचकर्मबन्धनिमित्ता च गृहासक्तिर्न घटत इति भावः ॥ १ ॥
गृहादिष्वासक्तिर्हि तेषां प्रीतिविषयतयाऽदोषदर्शनरूपा तत्त्यागपूर्वकं निरतिशयप्रियस्वात्मपरमात्मस्वरूपमनुभवतां तेषु पुनः कुतः प्रीतिरित्याह नेति । हे द्विजर्षभ ! तादृशानां भागवतानामात्मारामाणां मुक्तसङ्गानां दुःखहेतुत्वानुसन्धानेन त्यक्तवेदापत्यकलत्राद्यभिनिवेशानां पुंसां पुनगृहेष्वभिनिवेशः पूर्वदोषदर्शनेन त्यक्ताभिनिवेशः भवितुं नार्हति नूनं निश्चयः ॥ २ ॥
दोषहेतुत्वेऽपि तादात्विकसुखहेतुत्वादस्त्वभिनिवेश इति चेत्तत्राह महतामिति । हे विप्रर्षे ! उत्तमश्लोकस्य भगवतः पादयोरच्छायायाश्छायावृत्तापत्रयनिरसनद्वारानन्दहेतुत्वादनुभूतिः छायाशब्देन विवक्षिता । भगवत्पादाब्जानुभूत्या निर्वृतं सुखितं चित्तं येषां महतां कुटुम्बे स्पृहारूपा मतिर्न सम्भवति । निरतिशयानन्दरूपभगवच्चरणानुभवसुखितचित्तानां दुःखमिश्रात्यल्पसुखहेतुषु बन्धनिमित्तेष्वभिनिवेशो न सम्भवतीत्यर्थः ॥ ३ ॥
अस्तु वात्मारामस्य प्राक्तनबलप्रतिबन्धवशाद् गृहासक्तिः तथापि पुनर्गृहासक्तस्य भगवद्भक्तिस्ततो मुक्तिश्च कथं घटत इत्याह संशय इति । हे ब्रह्मन्नयं महान्संशयः कोऽसावित्यत्राह । दारगृहसुतधनादिष्वासक्तस्य कृष्णे मतिर्भक्तिस्ततो गार्हस्थ्यधर्मैरविच्छिन्ना या मुक्तिश्च कथमभूदिति यदयं महान्संशय इत्यर्थः ॥ ४ ॥
- एवमापृष्टो बादरायणिः सत्यमात्मारामस्य गृहासक्तिर्गृहासक्तस्य च पुनर्भक्तिश्च न घटत इति । आत्मारामस्य भागवतस्यापि उपाधिवशाद् गृहासक्तत्वेऽपि प्राचीननिवृत्तिधर्मानुष्ठानबलात्पुनः भक्तियोगोपसंहारः संभवत्येवेत्याह बाढमुक्तमिति । सत्यमुक्तमित्यर्थः गृहासक्तस्य भक्तियोगासम्भव इत्यत्रानङ्गीकारः, आत्मारामस्य पुनः गृहाद्यभिनिवेश इत्यत्राङ्गीकारः प्रियव्रतस्य स्वायंभुवः स्वयंभ्वादिप्रार्थनया गृहाश्रमपरिग्रहः न तु स्वाभिनिवेशेनेत्यात्मारामस्य गृहाद्यभिनिवेशो नास्त्येवेत्यभिप्रायः । ज्ञानिनोऽपि गृहाद्यभिनिवेशो नास्तीति तु सम्यगुक्तमपि तु गृहासक्तस्य पुनर्भक्त्युपसंहारो न घटत इत्यप्युक्तमित्याह किं त्विति । उत्तमैर्ब्रह्मादिभिः श्लोक्यतेस्तूयते इत्युत्तमश्लोकः उत्तमः श्लोकः स्तवो यस्येति वा तस्य भगवतः श्रीमतोः श्रिया सेव्यमानयोश्चरणारविन्दयोररविन्दवत्सौगन्ध्यसौकुमार्यलावण्यादिशोभायुक्तयोश्चरणयोर्यो मकरन्दः मकरन्दवत्प्रवाहः सुखरूपो भक्तिरसः तस्मिन्नावेशितं चेतो यैस्ते कथंचिदन्तरायेण विघ्नेन विहतां विच्छिन्नामपि कथंचिदित्यनेन भागवतैर्भक्तेरविचाल्यत्वं व्यष्यते, भागवता ये परमहंसा नितरां विशुद्धान्तःकरणाः तेषां दयितस्य प्रीतिविषयस्य भगवतः कथां कथाश्रवणादिजन्यां भक्तिं शिवतमां पदवीं मोक्षमार्गभूतां न हिन्वन्ति न त्यजन्ति, किन्तु पूर्ववासनया तामेवानुतिष्ठन्तीत्यर्थः । तथा चोक्तम् भगवता “पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।” इत्यादिना “तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः” इत्यनेन । अत्र प्रायशोन्तरायविहतामित्यन्वयः, भक्तियोगस्य विघ्नबहुलत्वात् न तु प्रायेण न हिन्वन्तीत्यन्वयः “जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्त्तते । प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः ॥ अनेकजन्मसंसिद्धस्ततो याति परां गतिम्” इति ब्रह्मजिज्ञासायत्नवत्त्वमात्रेणापि भक्त्यत्यागाभिधानात् उपक्रान्तभक्तियोगानां कचिदपि तत्त्यागायोगात् ॥ ५ ॥
MT । श्रीमद्भागवतम् mus y श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली जगदेतद्यत्कदाक्षेक्षणेन स्थितयति यदुपेक्षालेशतो गतमगतमभिज्ञा जानते यस्य वृत्तं शरणमिममयेऽहं कालसंज्ञं प्रभवति [ स्कं. ५ अ. १ श्लो. १-५ नाशमेति । मुकुन्दम् ॥ १ ॥ गद्यहे माश्मगहनपञ्चमस्कन्धपर्वतम् । आम्नायज्ञा महान्तो मे प्रीयन्तामारुरुक्षवे ॥ २ ॥ स्वस्वविहितधर्मसाधनसामग्र्या समुद्भूतेन ज्ञानेन स्वस्वयोग्या मुक्तिर्भवतीत्येतस्मिन्नध्याये निरूप्यते । तत्र विशेष- विवित्सया परीक्षिच्छुकं पृच्छति प्रियव्रत इति । जीवात्मनः पराभवः स्वपरमात्माज्ञानलक्षणः यन्मूलः यदहंकलत्रादिलक्षणं मूलं यस्य सः कस्मादित्यत उक्तम् । कर्मेति । दुष्कर्मनिमित्त इत्यर्थः । एतादृशे गृहे कथमरमतेत्यन्वयः ॥ १ ॥ न केवलमस्यै- । । ॥१॥ * * वायुक्तं गृहे रमणमन्येषामप्येतादृशानां न युक्तमित्याह न नूनमिति । मुक्तसङ्गानां फलाभिसन्धिरहितानाम् ॥ २ ॥ * अत्र हेतुमाह । महतामिति । ज्ञानलक्षणया छायया संसारसन्तापं परिहरन्त्या आहादं जनयन्त्या निर्वृतं प्रमानन्दं चित्तं येषां ते तथा तेषां कुटुम्बे स्पृहया युक्ता मतिर्न भवतीत्यन्वयः ॥ ३ ॥ * * सामान्यमुक्त्वा विशिनष्टि संशय इति । ज्ञानविरोधिषु दारागारादिषु सक्तस्य प्रियव्रतस्य कृष्णे अच्युता निरन्तरमनुवर्तमाना मतिरुपासनलक्षणा च तया सिद्धिमुक्तिलक्षणा चाभूदिति यद्यस्मात्तस्मात्संशयः कुटुम्बासक्तस्य सिद्धावच्युतमतिः प्रयोजिका “उत गृहस्थोऽपि विमुच्यते” इति स्मृतेः “कुटुम्बी शुचौ देशे स्वाध्यायमधीयानः” इति श्रुतेश्च चेतसः कुटुम्बभरणलक्षणासक्तिः आहोस्विदुभयमथवा निवृत्तिमार्गानुपमर्देन तत्सक्तिरविरोधिनीति ॥ ४ ॥ - * तत्र तुरीयपक्षमङ्गीकृत्य परिहरति बाढमिति । उक्तं बाढमोमिति किं तदाह भगवत इति । सकलसौभाग्यनिधेः सदा निर्दोषयशसो हरेः सकलसम्पत्कर पदकमलमधुरसे आदित आवेशितचेतसो जन्मप्रभृति संस्थापितान्तःकरणस्य पुरुषस्य गृहस्थाश्रमो निवृत्तिमार्गविरोधी न स्यात् इति यत्तदिति शेषः । तर्हि कस्य संस्थापितान्तःकरणस्य ह । पुरुषादमिति । विरोध इति चतुर्थाश्रमिण इत्याह । बाढमिति । वेदशिरस्त्वेनोत्तमश्लोको वेदान्तलक्षणो यस्य स तथा तस्य श्रीमश्ञ्चरणारविन्दमकरन्दरसे निरन्तररतिलक्षणास्वादनोत्सुकान्तःकरणस्य भगवतः सर्वपूज्यस्य संन्यासिनः । “स्त्रीभूहिरण्य- पशवो यतेर्यस्य परिग्रहाः । तादृशं कश्मलं दृष्ट्वा सचैलो जलमाविशेत् ॥” इति यन्निन्दावचनं तद्वाढमिति वा, सिद्धाव- च्युतमतिः प्रयोजिकेति ते यत्तत्रापीदमेवोत्तरं बाढमिति । तर्हि कुटुम्बासक्तिर्विरुणद्धीति तत्राह । भगवत इति । वायोर्विषमिव हरिचरणैकशरणस्य पुंसः कुटुम्बाभिनिवेशो न मुक्तिपदवीपरिपन्थी किन्तु भूषणमेवेत्यभिप्रायः ‘गृहस्थोऽपि विमुच्यते’ इत्यत्र भगवदर्पणबुद्धया यदि कर्म करोति तर्हि ज्ञानजननद्वारा मुक्तिसाधनमन्यथानर्थ इत्यङ्गीकारश्चेदिदमेवोत्तरं बाढमिति ‘नैष्कर्म्यमप्य- च्युतभाववर्जितमिति स्वोक्तेः । अनेन तृतीयपक्षोऽपि व्याख्यातः, अत्रापि भगवत इत्युक्तिरेव हेतुः कुटुम्बभरणव्यासक्तस्य वित्तैषणादि- विधनैः भगवदुपासना लक्षणपरिचर्याया विहतिरवश्यम्भाविनीति तत्राह । भागवतेति । भागवतश्च परमहंससमाजश्च भागवतपारम- हंस्यः तस्य दयितः प्रियो जनः स्वां स्वविहितां शिवतमां शुभतमां पदवीं निवृत्तिलक्षणां वित्तैषणाद्यन्तरायैर्विहतां विच्छेदमुखीमपि प्रायेण बहुलं न हिन्वन् न त्यजन् ह्येवास्त इत्यन्वयः । अत्यागे कारणं भागवतेति । अथवा भगवत उत्तमश्लोकस्येत्येतदत्रापि हेतुत्वेन सम्बध्यते समावेशितचेतस्त्वादिति भगवतः प्रियं परमहंसाश्रमं दयितः प्राप्तोऽपि “दय दानगतिशोषणादिषु” इति धातुः । अत्रापि पूर्वोक्त एव हेतुः ॥ ५ ॥ श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः श्रीकृष्ण कृष्णचैतन्य संसनातनरूपक । गोपाल रघुनाथाप्त ब्रजजीवक पाहि माम् ॥ पचमक्रमसन्दर्भे सन्दर्भाणां समाहृतिः । क्रियते यन्निदेशेन स मेऽनन्यगतेर्गतिः ॥ अथ पञ्चमस्कन्धस्य क्रमसन्दर्भः । स्वामिपादैर्न यद्वयक्तं यद्वयक्तं चास्फुटं कचित् । तत्र तत्रैव लेख्योऽयं सन्दर्भः क्रमनामकः ॥ वैष्णवा परितोषः स्याद्यत्र यत्र ततस्ततः । लेख्यं वैष्णवसिद्धान्तदाक्षिण्येनैव किञ्चन ॥ भागवत आत्माराम इति भगवदादिवदात्मारामेष्वपि भागवत इत्यर्थः । मुक्तानामपीत्यादिः, अत एवाग्रेऽप्यस्य मुख्यं भागवतत्वमेवानुवदिष्यते न तु गौणात्मारामत्वं ततश्वात्मारामत्वेऽपि गृहारामत्वं न संभवति कुतस्तरां भागवतत्वेऽपीत्याह । कथं मुन इति । ततश्च सुतरां मोक्षोऽपि न संभवतीत्याह । यन्मूल इति । कर्म्मणा बन्धः पराभवश्च स्वरूपतिरस्कारो यतो भवति यद्गृहं मूलं यस्य ॥ १ ॥ * * तदेव स्पष्टयति । न नूनमित्यादि ॥ २ ॥ * * छाया आश्रयः कान्तिर्वा स्पृहा तावन्नास्त्येव मतिस्तद्नुसन्धानञ्च नास्तीत्यर्थः ॥ ३ ॥ * * सिद्धिर्भगवत्सामीप्यादिरूपा न केवलं तस्यामेव संशयः अपितु तत्साधनरूपायां तादृशतन्मतावपीत्याह कृष्णे चेति ॥ ४ ॥ * * भागवता ये परमहंसा इति पूर्ववत् । शिवतमामन्तरायेष्वपि भगवञ्चित्तता- पादनेन परमकल्याणरूपामित्यर्थः ॥ ५ ॥ स्कं. ५ अ. १लो. १-५ अनेकव्याख्यासमलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी प्रणम्य श्रीगुरुं भूयः श्रीकृष्णं करुणार्णवम् । लोकनार्थं जगचक्षुः श्रीशुकं तमुपाश्रये ॥ । ।। गोपरामा जनप्राणप्रेयसेति प्रभूष्णवे । ददे || प्रभूष्णवे । तदीयप्रियदास्याय मां मदीयमहं त्रिभिः प्रियव्रतानीधनाभीनां चरितं क्रमात् । आर्षभं त्रिभिरध्यायैर्भरतस्य तथाष्टभिः ।। गयोपाख्यानमेकेन चतुर्भिर्जम्बुसंज्ञितः । द्वीपो निरूप्यते द्वीपान्तर शैलनगादिकम् ।। एकेन ज्योतिश्चक्रादि द्वाभ्यां ध्रुवपदं ततः । एकेन द्वाभ्यां सूर्य्याधः अशेषस्थानमुच्यते ।। एकेन नरकचैव पञ्चमस्कन्धसंग्रहः । अत्र स्थानं तच्च देवादिभिः पालनमुच्यते ॥ देवासुरनरादीनामूर्ध्वाधोमध्यवर्त्तिनाम् । तत्र तु प्रथमे ब्रह्मा गिरं सम्मानयन् व्यधात् ॥ राज्यं प्रियव्रतः पश्चाद्विरज्यावाप माधवम् । “वंशं प्रियव्रतस्यापि निबोध नृपसत्तम ! ॥ यो नारदादात्मविद्यामधिगम्य पुनर्महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥” इति पूर्वस्कन्धान्ते प्रियव्रतस्य प्रथममात्मारामत्वं ततो विषयभोग इति श्रुत्वा विस्मितः पृच्छति प्रियव्रत इति । भागवत इत्यात्मा त्वेऽपि भवानिवातिविशिष्ट इत्यर्थः । यन्मूलः गृहासक्तिहेतुकः कर्म्मबन्धो भवति स च शुद्धः शुद्धजीवस्य तस्य पराभवप्रदत्वात् पराभवः ॥ १ ॥ ॐ * भागवतत्वे सत्यन्यत्रासक्तिन सम्भवतीत्याह न नूनमिति ॥ २ ॥ * भगवत्यासक्तेर्हेतुमाह महतामिति । छाया संसारसन्तापनिवर्त्तिका तयेति येषां चित्तं सदा भगवच्चरणानुगामीति ध्यानमुक्तं भवति स्पृहा सैवामतिरज्ञानम् ॥ ३ ॥ * * भवतु वा कथञ्चिदपराधवशात् किन्तु तत्रापि तस्य सिद्धिः कृष्णासक्तिश्च न च्युतेत्ति कथम् ॥ ४ ॥ * * अङ्गीकृत्य परिहरति बाढमिति । आत्मारामस्य गृहारामता गृहासक्तस्य च कृष्णासक्तिरित्युभे न सम्भवत इति सत्यमेव, तद्ध्यतिमहतां दुर्वितर्यचरितानां कापि कादाचित्की विषयासक्तिस्त्वया न विश्वसनीयेत्याह भगवत इति । आवेशितचेतसो जनाः भागवती भगवतः सम्बन्धिनी चासौ परमहंसानां दयिता प्रियतमा च या कथा तां किचिन्मात्रेण अन्तरायेण विघ्नेन विहतां स्थगितीकृतां न प्रायेण हिन्वन्ति न त्यजन्ति, कीदृशीं स्वां शिवतमां पदवीमिति तत्कथैव भक्तानां पदवी सुखमयवर्त्म तयैव गम्यो भगवानित्यर्थः । ननु “त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्द्धसु प्रभो !” इत्याद्युक्तेः भक्तानामन्तरायो नास्त्येव । सत्यं कालकम्र्मादिहेतुकोऽसौ नास्त्येव, किन्त्वन्तरायो हि भक्तानां द्विविधः महदपराधहेतुको भगव दिच्छाहेतुकश्च । तत्र महदपराधो हि समुचितकष्टभोगेन चिरकालत एव तस्यैव महतः कृपया सद्य एव च शाम्यति । यथा द्विविदादीनां रहूगणादीनाञ्च । भगवदिच्छा च स्वभक्तसदाचारशिक्षणार्था । तदुत्थो विघ्नस्तु प्रेमबर्द्धनार्थ एव यथा भरतादीनाम् । तत्र प्रियव्रतस्यापराधाभावाद्भगवदिच्छानिबन्धन एव विघ्नोऽयं, तत्र गुणबुद्धद्यापि भक्तैः कापि ममता न कर्त्तव्येति यथा भरतस्य मृगपोषणप्रदर्शनया स्वभक्ता भगवता शिक्षिताः तथा महदाज्ञा हि भक्त्यनुपयोगिन्यपि भक्तैः प्रतिपालनीयैवेति प्रियव्रत- कर्तृकब्रह्माज्ञाप्रतिपालनप्रदर्शनया शिक्षिता इति ज्ञेयम् ॥ ५ ॥
श्रीमच्छुकदेवकृतः सिद्धांत प्रदीपः श्रीहंसं श्रीकुमारं च देवर्षि निम्बभास्करम् । श्रीश्रीनिवासमाचाय्र्यं भाष्यकारं महामुनिम् ॥ सर्वेश्वरं नमस्कृत्य श्रीगुरुं तत्पदाश्रयम् । सिद्धान्तद्योतको दीपः पञ्चमे क्रियतेऽधुना ॥ अथ क्रमप्राप्तं स्थानं षडिशाध्यायैर्निबद्धेन पञ्चमस्कन्धेन वर्ण्यते । यदुक्तमतिक्रान्तस्कन्धान्ते ‘यो नारदादात्मविद्यामधि- गम्य पुनर्महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदमिति तत्र प्राप्तात्मविद्यस्य गृहेष्वभिनिवेशो गृहस्थस्य च पुनस्त- त्यागेन मोक्ष इत्यघटमानं मत्वा पृच्छति प्रियव्रत इति चतुर्भिः । हे मुने प्रियत्रतो राजर्षिः भागवतः भगवद्भक्तः, अत एव आत्मारामः आत्मा परमेश्वरः तत्स्वरूपगुणशक्तिचिन्तनरसासक्तः यद्गृहं मूलं यस्य सः कर्मभिर्बन्धः ज्ञानभक्तिसङ्कोचरूपेण पराभवश्च भवति तस्मिन् गृहे कथं केन हेतुना अरमत अभिनिवेशमकरोत् । गृह इत्युपलक्षणं दारापत्यादीनाम् ॥ १-२ ॥ * उत्तमश्लोकस्योत्तमकीर्तेर्विष्णोः पादयोः सर्वार्थप्रदत्वगुणयोगात् चरणकल्पद्रुमयोः शरणीक्रियमाणयोः कामादितापहारित्वगुण- योगादनुस्मृतिश्छाया तया निर्वृतं सुखितं चेतो येषां तेषां स्पृहायुक्ता मतिर्नास्ति ॥ ३ ॥ * * हे ब्रह्मन् ! दारादिषु सक्तस्य कृष्णे अच्युता दारादित्यागेन निर्विघ्ना मतिः तया सिद्धिः श्रीकृष्णसाधर्म्यरूपा मुक्तिश्चाभूदिति यत् अयं महान् संशयः प्राप्त- विद्यस्यापि यदा दाराद्यासक्तिस्तदा अल्पसंशयः, अनादिबद्धस्य जीवस्य मायामोहादिसम्भवात् दाराद्यासक्तस्य तत्त्यागपूर्वक- परमेश्वरभक्तिर्मुक्तिश्चेति तु महान् संशय इति भावः ॥ ४ ॥ * * उत्तरमाह बाढमित्यादिना । यद्यपि प्राप्तपरमात्मविद्यस्य गृहासक्तिः गृहासक्तस्य तत्त्यागेन कृष्णे अच्युता मतिमुक्तिश्च संशयं जनयतीति भवदुक्तं सर्व बाढं सत्यमेव, तथापि भगवतः षाड्गुण्यनिधेः उत्तमाः श्रुतिस्मृतिरूपाः प्रतिपादकाः श्लोका यस्य तस्य श्रीयुक्तचरणपद्ममकरन्दभूतो यो रसः तत्रावेशित चेत सोऽपि उत्तममार्गस्था अपि किश्चिदन्तरायेण केनचिद् विघ्नेन विहता उत्तममार्गाचालिता अपि भागवता एव परमहंसाः ॥ श्रीमद्भागवतम् [ स्कं. ५ अ. १लो. १-५ हेयोपादेयविदस्तेषां दयितस्य प्रियस्य भगवतः कथां स्वां शिवतमां पदवीं मार्ग न हिन्बन्ति किन्तु गृह्णन्त्येव । प्रायग्रहणेन कामात्मा कलत्रापत्यकिङ्करः कृपणः अतिमन्दोऽधिकारी किचित्कालं हिनोतीति द्योत्यते । उत्तमाधिकारिणस्तु गार्हस्थ्यं प्रथमत एव न स्वीकुर्वन्ति ‘किं प्रजया किं धनेन त्यागेनैकेनामृतत्वमानशुरि त्यादिश्रुतेः । मध्यमाधिकारिणस्तु गार्हस्थ्यं स्वीकृत्यापि त्यजन्त्येव ‘यदहरेव विरजेत्तदहरेव प्रत्रजेदिति श्रुतेः ॥ ५ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी श्रीकृष्णाय नमः ॥ - ब्रह्मादिनर्त्तको यस्तु गोपीभिः सह नृत्यति । सर्वबुद्धिनियन्ता च स एव शरणं मम ॥ १ ॥ एकत्रिंशद्भिरध्यायैर्विसर्गो विनिरूपितः । षड्विशत्या पञ्चमे तु स्थानलीला निरूप्यते ॥ २ ॥ स्थान तु द्विविधं प्रोक्तमात्मदेशविभेदतः । तदवान्तरभेदोऽपि तत्र तत्र निरूपितः ॥ ३ ।। षभिश्चैवाष्टभिचैव ह्येकेन पञ्चभिस्तथा । त्रिभिश्चापि त्रिभिश्चापि क्रमतः प्रक्रियाः स्थिताः ॥ ४ ॥ · एवं चतुर्थस्कन्धे एकत्रिंशद्भिरध्यायैः पुरुषकारलक्षणो विसर्गो निरूपितः । इदानीं पञ्चमस्कन्धे क्रमप्राप्तं स्थानं निरूप्यते । तत्र ‘स्थितिर्वैकुण्ठविजयः’ इति वाक्याद्विजयस्य स्वाधीनीकरणरूपत्वात् भगवता तत्तत्पदार्थमर्यादया तत्तत्पदार्थस्थापनं स्थानमित्यर्थः सिद्धयति । यत्तु ‘वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नृणां तंत्र कामाचोदनयाऽपि वा’ इति द्वादशस्कन्धे भगवत्कृता प्राणिनां जीविकैव वृत्त्यपरपर्यायस्य स्थानस्य लक्षणमुक्तं तस्यापि भगवत्कृतमर्यादाधीनत्वात्तद्विजयेऽन्तर्भाव एव । तथा च प्रकृतानां पदार्थानां चतुर्विंशतिविधत्वादात्मनश्च जीवब्रह्मभेदेन द्विविधत्वात् तेषां विजयोऽपि षड्विंशतिविध एवेति ज्ञापनाय पविशतिभिरभ्यायैः स्थानं निरूप्यते । तत्रापि स्थितिर्द्विविधा स्वरूपस्थितिर्देशस्थितिश्च । तत्र स्वरूपस्थितिरपि त्रिविधा, कृष्णेन स्वरूपस्थितिः योगेन स्वरूपस्थितिः ज्ञानेन स्वरूपस्थितिश्च । देशस्थितिरपि त्रिविधा, भूमिस्थितिः तदूर्ध्वस्थितिः तदधःस्थितिश्च । तत्र कृष्णस्य षड्गुणत्वात् षड्भिरध्यायैस्तेन स्वरूपस्थितिनिरूपणम् । योगस्याष्टाङ्गत्वादष्टभिरध्यायैस्तेन स्वरूपस्थितिनिरूपणम् । ज्ञानस्यैकविधत्वादेकेनाध्यायेन तेन स्वरूपस्थितिनिरूपणम् । भूमौ च पञ्चमहाभूतप्राधान्यात् पञ्चभिरध्यायैर्भूमिस्थितिनिरूपणम् । ऊर्ध्वाधोलोकयोस्त्रिगुणप्राधान्यात् त्रिभिस्त्रिभिरध्यायः तत्स्थितिनिरूपणमित्येवं पञ्चमे षड्विंशतिभिरध्यायैः पट्प्रकरणानि शेयानि । तत्र तु वीर्यमैश्वयं भगवद्भक्तियोगतः । प्रियत्रतेन यत्प्राप्तं प्रथमे तन्निरूप्यते ॥’ ‘वंशं प्रियव्रतस्यापि निबोध नृपसत्तम । यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ॥ भुक्त्वा विभव्य पुत्रेभ्य ऐश्वरं समगात् पदम्’ इति पूर्वस्कन्धान्ते प्रियव्रतस्य प्रथमं आत्मविद्या ततो गृहाश्रमः ततः सर्वसङ्गत्यागेन भगवत्प्राप्तिरित्युक्तं तत्र विस्मितो राजा पृच्छति-प्रियत्रतेति । मुनित्वेन सर्वज्ञो भवान् सर्व जानातीति सूचयन् सम्बोधयति हे मुने ! प्रियत्रतो भागवतो भगवद्भक्तोऽत एव भगवत्प्रेरितात् महाभागवतान्नारदात् प्राप्तात्मविद्यत्वात् आत्मारामो गृहे कथमरमतेत्यन्वयः । ननु गृहे रमतां को दोष इत्याशङ्कयाह-यदिति । यद् गृहरमणं मूलं कारणं यस्य तादृशः कर्मणा बन्धः पराभवः स्वस्वरूपतिरस्कारश्च भवति ॥ १ ॥ * * ननु गृहेष्वभि- निवेशादेव तत्र रमणं भवतीति प्रसिद्ध एव तत्र हेतुरित्याशङ्कयाह - नेति । हे द्विजर्षभ, नूनं निश्चितमेवैतत् सर्वतो मुक्तसङ्गानां दुःखहेतुत्वानुसन्धानेन विषयेभ्यो विरक्तानां तादृशानां प्रियव्रतसदृशानां भगवद्भक्तानां आत्मारामाणां पुंसां अयमज्ञजनप्रसिद्धो गृहेष्वभिनिवेश आसक्तिः न भवितुमर्हतीत्यन्वयः । भवतामाचारेणैवमेव निश्चीयते इति सम्बोधनाभिप्रायः ॥ २ ॥ ननु तादृशानामपि कुटुम्बेच्छया गृहासक्तिर्भविष्यतीत्याशङ्कयाह - महतामिति । हे विप्रर्षे उत्तमः अज्ञाननिवर्त्तकः श्लोको यशो यस्य तस्य पादयोः छाया संसारसंतापहारिणी तया निर्वृत्तमानन्दितं चित्तं येषां तेषां महतां खलु निश्वयेन कुटुम्बे स्पृहावती मतिर्न भवति निरतिशयानन्दरूपभगवश्चरणाद्यनुभवसुखितचित्तानां दुःखमिश्रात्यल्पसुखहेतुषु बन्धननिमित्तेषु अभिनिवेशो न सम्भवतीत्यर्थः । अत्रापि भवानेव दृष्टान्त इति सम्बोधनेन सूचयति ॥ ३ ॥ * संशयान्तरमाह संशय इति । ॐ । दारागार सुतादिषु प्रसक्तस्य प्रियव्रतस्य पुनः कृष्णे अच्युता अस्खलिता मतिर्भक्तिः सिद्धिर्मोक्षसिद्धियाभूदित्ययमपि महान् संशयोऽस्ति । तदपि त्वमेव च्छेत्तुमईसीत्यभिप्रायेण सम्बोधयति - हे ब्रह्मन्नितिः ॥ ४ ॥ * * राशोकमङ्गीकृत्य परिहरति- बाढमिति | भगवद्भक्तानां आत्मारामाणां गृहादिष्वभिनिवेशस्तत्राभिनिविष्टस्य भक्त्यादिकं च न सम्भवतीति बाढं भवता सत्यमुक्तं तथापि भगवत ऐश्वर्यादिगुणपूर्णस्य अत एवोत्तमश्लोकस्य सर्वानर्थमूलाज्ञाननिवर्त्तकय शसस्तस्य श्रीमतोः श्रिया सेव्यमानयोश्चरणारविन्दयोः अरविन्दवत् सौगन्ध्यसौकुमार्य लावण्यादिशोभायुक्तयोः श्रीमच्चरणारविन्दयोर्मकरन्दरूपो रसः सर्वसन्तापनिरासपूर्व कातिशयानन्दोत्पादकलावण्यातिशयात्मकः तस्मिन्नावेशितं चेतो थैस्तेऽपि भागवता एव सत्यासत्यविवेकित्वात् परमहंसास्तेषां दयितस्य प्रियस्य सच्चिदानन्दात्मकस्य भगवतः कथां कथाश्रवणादिजन्यां भक्ति शिवतमां संसारतापनि। सपूर्वक- भगवत्प्रापिकां स्वां स्वकीयां पदवी मोक्षमार्गभूतां विघ्नबहुलत्वात् प्रायेण किश्चिदन्तरायेण विहतां विधिनतामपि न त्यजन्ति, किन्तु पूर्ववासनया तामेवानुतिष्ठन्तीत्यन्वयः । ‘पूर्वाभ्यासेन तेनैव हियते यवशोऽपि सः’ इति वाक्यात् कदाचिच्छापादिवशात् * इ. ५. अ. १ श्लो. १५] अनेकव्याख्यासमलंकृतम् पश्वादिजन्मान्तरं प्राप्नोति । तत्रापि गजेन्द्रप्रह्लादादिवद्भजनमेव पूर्वाभ्यासवशात् करोति नान्यदिति प्रायग्रहणेन दर्शितम् । उच्छति तमः अज्ञानं यस्मात्स उत्तमः, उत्तमः श्लोको यशो यस्य स उत्तमश्लोकस्तस्येत्यनेन यदि यशश्श्रवणमात्रेण सर्वानर्थमूलाज्ञाननिवृत्तिस्तदा किं वक्तव्यं तच्चरणारविन्दध्यानेन तन्निवृत्तिरिति । तथा चोक्तं तृतीये-‘अशेषसंक्लेशशमं विधत्ते गुणानुवादभवणं मुरारेः । कुतः पुनस्तच्चरणारविन्दपरागसेवा रतिरात्मबद्धा’ इति । तथा च प्रियव्रतस्य विघ्नवशादेव भगवद्भजनं हित्वा गृहे प्रवृत्तिः पूर्वाभ्यासाच पुनस्ततो विरक्त्या तत्त्यक्त्वा भगवद्भजनं मोक्षश्चेति सूचितम् ॥ ५ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी श्रीस्वामिनारायणाय नमः श्रीस्वामिनारायणाय नमः जयति जगति देहिनो य ईशं प्रकटनराकृतिमाश्रिता भवेयुः । झटिति भवसमुद्रपारगास्ते वृषतनयः स पितामहो हरिमें ॥ १ ॥ यद्वीक्षणक्षणसुसंक्षुभिताखिलस्य लोकस्य कारणमसौ प्रकृतिर्विचित्रा | सत्त्वादिभिर्निजगुणैः सृजति प्रसिद्ध विश्वं स धर्मतनयो मम बुद्धिदः स्तात् ॥ २ ॥ गद्यहे महषदद्रिसमानः पञ्चमो भवति भागवतस्य स्कन्ध आक्रमितुमिच्छव एष तं हरिर्बलमलं तनुतान्मे || ३ | 11 स्कन्धस्य पञ्चमस्याथ व्याख्या चेक्रीयतेतराम् । यत्र यतो वंशोऽनेकभेदः प्रपचितः ॥ ४ ॥ ॥ अध्यायैः पञ्चमे स्थानं विंशत्या समीरितम् । लोकद्वीपादिमर्यादात्राणाख्यं यदनेकधा ॥ ५ ॥ स्वर्भूम्यधः स्थितैर्लोकैर्मर्यादास्ति त्रिधा मता । तेष्वेकैकस्य नानात्वाद्बहुधा सास्ति संमता ।। ६ ।। द्वीपादे राजभिर्भूमौ ताः पाल्यन्ते पृथक् पृथक्। उपरिष्टात्तु देवाद्यैर्भूमेश्चाधोऽसुरादिभिः ॥ ७ ॥ अध्यायैस्तत्र विंशत्या प्रियव्रतमुखैर्नृपैः । भूमिस्थद्वीपमर्यादा वर्ण्यते पालिता इति ॥ ८ ॥ त्रिभिः संकीर्त्यते ज्योतिश्चक्रादावर्क मुख्यकैः । दैत्याद्यैरतलाद्येषु त्रिभिस्तत्पालनं तथा ।। ९ ।। अध्याये प्रथमे तत्र ज्ञानिनो राज्यसौख्यता । ज्ञाननिष्ठा पुनश्चेति प्रयत्रत्यद्भुता कथा ॥ १० ॥ तृतीयस्कन्धे ‘स्वायंभुवस्यापि मनो:’ इत्यादिना क्षत्रा पृष्टं स्वायंभुवं वंशं प्रक्रम्य तद्दुहितृवंशः ज्येष्ठपुत्रोत्तानपादवंशश्च चतुर्थस्कन्धान्तेन ग्रन्थेनाभिहितस्तत्र तत्पृष्टार्थं बहुत्वेऽपि शुश्रूषितं तावतैव श्रुतप्रायं मत्वाऽनेन प्रियव्रतचरित्रं न पृष्टं तत्र चतुर्थ- स्कन्धान्ते ‘वंशं प्रियव्रतस्यापि निबोध नृपसत्तम । यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ॥ भुक्त्वा विभव्य पुत्रेभ्य ऐश्वर समगात्पदम्’ इत्यभिहितं तत्र प्रथमं संप्राप्तात्मविद्यस्य प्रियव्रतस्य गृहाश्रमस्वीकृतिपूर्वं पुनस्तद्गतभोगानुभव उक्तः, ततः सर्वसङ्ग परित्यागेन मोक्षोऽप्युक्तः, तदिदमघटमानं मत्वा विस्मितो राजा पृच्छति प्रियव्रत इत्यादिचतुर्भिः । हे मुने, भागवतः भगव- द्धर्मनिष्ठत्वान्मुमुक्षुः, तत्रापि आत्मारामः प्रकृतिवियुक्तब्रह्मात्मकस्वात्मयाथात्म्यानुभवनिष्ठः, एवंभूतः सन्नपि प्रियव्रतः गृहे कथं अरमत । अत्र गृहशब्दों देहापत्यकलत्रादीनामुपलक्षणम् । नन्वेवंभूतः सन्नपि तत्र रमणमाचरतां, कस्तत्र दोष इत्यत्राह । कर्मबन्धः कर्मणा बन्धः कर्मरूपो वा बन्धः, पराभवः स्वरूपतिरस्कारः ज्ञानसंकोच इति यावत् । या गृहासक्तिर्मूलं यस्य सः यन्मूलः, कर्मबन्धान्मुमुक्षोः कर्मबन्धनहेतुभूतं गृहासञ्जनं यदा विरुद्धं, तदा असंकुचितज्ञानयाथात्म्यनिष्ठस्य ज्ञानसंकोच- हेतुभूतं गृहासब्जनं तु सुतरामघटमानमिति भावः ॥ १ ॥ * गृहादिषु रतिश्च गृहादावभिनिवेशतः स्यात् सोऽभि- निवेशस्तु आत्मारामाणां भागवतानां नैव संभवतीत्याह न नूनमिति । हे द्विजर्षभ, मुक्तसङ्गानां दुःखहेतुत्वानुसंधानेन परि- त्यक्तदेहापत्यकलत्राद्यभिनिवेशानां तादृशानां भागवतानामात्मारामाणां च पुंसां गृहेषु अयं अभिनिवेशः भवितुं न अर्हति नूनम् । पूर्वं दोषदर्शनेन संत्यक्ते गृहादौ, भूयो योऽभिनिवेशः, स आत्मारामभगवब्जनानां नूनं भवितुमनई एवेत्यर्थः ।। २ ।। * * या गृहादावासक्तिः सा हि कुटुम्बादिस्पृहया भवति सा तु तेषां नास्त्येवेत्याह महतामिति । हे विप्रर्षे, उत्तम- श्लोकस्य भगवतो यौ पादौ तयोः छाययाऽनुभूत्या निर्वृतं सुखितं चित्तं येषां तेषां, अत्र छायाशब्देन छायावन्तापत्रयनिरसन- द्वारानन्दहेतुत्वादनुभूतिर्विवक्षिता । महतां महानुभावभगवज्जनानां कुटुम्बे स्पृहामतिः स्पृहारूपा बुद्धिः न खलु न संभवति नूनम् । निरवधिका तिशयानन्दात्मक भगवच्चरणकमलानुभवसुखितचित्तानां दुःखमिश्रात्यल्पसुखहेतुषु बन्धननिमित्तेषु अभि- निवेशः कदाचिदपि न संभवतीत्यर्थः ॥ ३ ॥ * अस्तु वैवंभूतात्मारामस्यास्य प्राक्तनकर्मबलप्रतिबन्धवशात् गृहाद्या-
- सक्तिः, तस्यां सत्यां दाराद्यासक्तस्य श्रीकृष्णेऽस्खलिता मतिश्व तया मोक्षच कथं घटेतेत्याह संशय इति । हे ब्रह्मन्, दारागार- सुतादिषु स्त्रीगृहपुत्रधनादिषु सक्तस्यासक्ति प्राप्तस्य, कृष्णे अच्युता मतिः भक्तिः सिद्धिमर्हस्थ्यधर्मैरविच्छिन्ना मुक्तिश्च अभूत् यत् अयं महान् संशयः ॥ ४ ॥ एवं राज्ञा संपृष्टो बादरायणिः आत्मारामस्य गृहासक्तिः गृहासक्तस्य च पुनर्भक्ति- मुक्तिश्व न घटते इति सत्यं त्वयोक्तं परं त्वात्मारामस्य भागवतस्याप्युपाधिवशतया गृहासक्तत्वेऽपि प्राचीननिवृत्तधर्मानुष्ठान- आत्मारामः “प्रकृतिवियुक्त प्रहात्मक स्वात्मवाधास्यानु उस्थिभूतः सेनाप
श्रीमद्भागवतम् [ स्कं. ५ अ. १ श्लो. ६-१० बलात् पुनर्भक्तियोगाद्युपसेवनतः सर्वं संभवत्येवेति तदुक्ताङ्गीकरणपूर्वं परिहरति बाढमिति । बाढमुक्तं त्वया सत्यमुक्त- मित्यर्थः । किं तु परं तु, उत्तमैर्ब्रह्मादिभिः श्लोक्यते स्तूयते इत्युत्तमश्लोकः, उत्तमः श्लोकः स्तवो यस्येति वा । तस्य भगवतः परमेश्वरस्य, श्रीमतोः श्रिया सेव्यमानयोश्चरणारविन्दयोः अरविन्दवत्सौगन्ध्यसौकुमार्यलावण्यादियुक्तयोश्चरणयोर्यो मकरन्दः मकरन्दप्रवाहवत्सुखरूपो भक्तिरसस्तस्मिन् आवेशितं चेतो यैस्ते एवंभूता भगवन्जनाः किंचिदन्तरायविहताः केनचिद्विध्नेन विघ्निताः सन्तोऽपि, पाठान्तरे पदव्या विशेषणम्, भागवता भगवदेकान्तिकोपासकाः परमहंसास्तेषां दयितोऽतिप्रियो भगवां- स्तस्य कथां कथारूपां स्वामात्मीयां शिवतमामतिमङ्गलरूपां पदवीं मोक्षमार्गभूतां प्रायेण न हिन्वन्ति न परित्यजन्ति पूर्ववासन नया तामेवानुतिष्ठन्तीत्यर्थः । उपक्रान्तभक्तियोगानां कचिदपि तत्त्यागायोगान्न कथंचनाप्यभद्रमिति भावः । तथा चोक्तं भगवता ‘पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते’ इत्यादिना ‘तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम्। यतते च ततो भूयः संसिद्धौ कुरु- नन्दन || पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः’ इत्यन्तेन ॥ ५ ॥ भाषानुवादः प्रियव्रत चरित्र राजा परीक्षित ने पूछा- मुने ! महाराज प्रियव्रत तो बड़े भगवद्भक्त और आत्माराम थे। उनकी गृहस्थाश्रममें कैसे रुचि हुई, जिसमें फँसने के कारण मनुष्यको अपने स्वरूपकी विस्मृति होती है। और वह कर्मबन्धनमें बँध जाता है ॥ १ ॥ * * बिप्रवर ! निश्चय ही ऐसे निःसङ्ग महापुरुषोंका इस प्रकार गृहस्थाश्रममें अभिनिवेश होना उचित नहीं है ॥ २ ॥ * * इसमें किसी प्रकार सन्देह नहीं कि जिनका चित्त पुण्यकीर्ति श्रीहरिके चरणोंकी शीतल छायाका आश्रय लेकर शान्त हो गया है, उन महापुरुषोंकी कुटुम्बादिमें कभी आसक्ति नहीं हो सकती ॥ ३ ॥ ४ * ब्रह्मन् ! मुझे इस बातका बड़ा सन्देह है कि महाराज प्रियव्रतने स्त्री, घर और पुत्रादिमें आसक्त रहकर भी किसी प्रकार सिद्धि प्राप्त कर ली और क्योंकर उनकी भगवान् श्रीकृष्ण में अविचल भक्ति हुई १ ॥ ४ ॥ * * श्रीशुकदेवजीने कहा- राजन् ! तुम्हारा कथन बहुत ठीक है। जिनका चित्त पवित्रकीर्ति श्रीहरिके परम मधुर चरणकमल-मकरन्दके रसमें सराबोर हो गया है, वे किसी विघ्न-बाधाके कारण रुकावट आ जानेपर भी भगवद्भक्त परमहंसोंके प्रिय श्रीवासुदेव भगवान् के कथाश्रवणरूपी परम कल्याणमय मार्गको प्रायः छोड़ते नहीं ॥ ५ ॥ यहि वाव ह राजन् स राजपुत्रः प्रियत्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थ- सतत्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितलपरिपालनायाम्नातप्रवरः गुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तद- धिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६ ॥ अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय आत्मयोनि- रखिल निगमनिजगणपरिवेष्टितः स्वभवनादवततार ॥ ७ ॥ स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनु- पथममरपरिवृढेर ‘भिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य चारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणी- मवभासयन्नुपससर्प ।। ८ ।। तंत्र ह वा एनं देवर्षिर्हसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्था- यार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ।। ९ ।। भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदित- गुणगणावतार सुजयः प्रियव्रतमादिपुरुषस्तं सदयहासाव लोक इति होवाच” ॥ १० ॥ अन्वयः — राजम् बाब ह यहि सः परमभगवतः राजपुत्रः प्रियव्रतः नारदस्य चरणोपसेवया अंजसा अवगतपरमार्थ- सतत्त्वः ब्रह्मसत्रेण दीक्षिष्यमाणः आम्नातप्रवरगुणगणैकान्तभाजनतया अवनितलपरिपालनाय स्वपित्रा उपामंत्रितः भगवति वासुदेवे एव अव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापः यद्यपि तत् अप्रत्याम्नातव्यम् तदधिकरणे असतः
१. प्रा० पा० – परमात्मतत्त्वो । २. प्रा० पा० - ३. प्रा० पा० - ४. ५. प्रा० पा० ६. प्रा० पा० - ७. प्रा० पा० ८. प्रा० पा० ९. १०. ११. प्रा० पा०स्कं. ५ अ. १लो. ६-१० ] अनेकव्याख्यासमलङ्कृतम् अपि आत्मनः अन्यस्मात् पराभवम् अन्वीक्षमाणः न एव अभ्यनंदत् ॥ ६ ॥ अथ ह एतस्य गुणसर्गस्य परिबृं- हणानुध्यानसकलजगदभिप्रायः आत्मयोनिः अखिलनिगम निजगणपरिवेष्टितः भगवान् आदिदेवः स्वभवनात् अवततार ॥ ७ ॥ * * तत्र तत्र गगनतले उडुपतिः इव अनुपथम् विमानावलिभिः अमरपरिवृढैः अभिपूज्यमानः पथि पथि वरूथशः सिद्धगंधर्वसाध्य चारणमुनिगणैः उपगीयमानः च गंधमादनद्रोणीं अवभासयन् उपससर्प ॥ ८ ॥ * * तत्र ह हंसयानेन एनम् भगवंतम् हिरण्यगर्भम् पितरम् उपलभमानः पितापुत्राभ्याम् सह देवर्षिः सहसा एव अर्हणेन उत्थाय अवहितांजलिः उपतस्थे ।। ९ ।। * भारत तदुपनीतार्हणः सूक्तवाक्येन अतितराम् उदितगुणगणावतारसुजयः आदिपुरुषः भगवान् अपि सदयहा सावलोकः प्रियव्रतम् इति ह आह ॥ १० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका प्रियव्रतस्य ब्रह्मा शैवांत रायरूपा बभूवेति सप्रसंगमाह यहींत्यादिना विमुक्तसंग: प्रकृति भजस्वेत्यंतेन । यहि बाब ह । यदा हि वावेति प्रसिद्धयादा ह इति च । स स्वपित्रा मनुनाऽवनितलपरिपालनायोपामंत्रितो नियुक्तो नैवाभ्यनंदन्नैच्छत् । अथ ह तदेव भगवानादिदेवो ब्रह्मा स्वभवनादवततारेत्यन्वयः । उपामंत्रणे हेतुः । आम्नाता राज्ञां शास्त्रेणोक्ता ये प्रवराः श्रेष्ठा गुणास्तेषां गणस्यै- कांतभाजनतया नियताश्रयत्वेन । अनिच्छायां हेतुः । परमार्थसतत्त्वमात्मयाथात्म्यमवगतं तद्येन स तथा । अतो ब्रह्मसत्रेणात्म- ध्यानेन कार्येण दीक्षिष्यमाणो नियमं ग्रहीष्यन् । प्रागपि वासुदेव एव निरंतरसमाधियोगेन चित्तैकाग्र्येण समावेशितः समर्पितः सकलकारकाणामिंद्रियाणां याः क्रियास्तासां कलापो येन सः । यद्यपि तत्पित्रोक्तं न प्रत्याख्येयं तथापि तदधिकरणे राज्याधिकारेऽस- तोऽपि मिथ्याभूतादपि राज्यप्रपञ्चादात्मनः पराभवमालोचयन्नाभ्यनन्दत् ॥ ६ ॥ * गुणविसर्गस्य गुणसृष्टेः परिबृंहणं समृद्धिस्तदनुचितया व्यवसितः सकलजगतामभिप्रायो येन सः । यथा राज्ञा चारैर्मण्डलेश्वराणामभिप्रायो निश्चीयते तद्वत् । अखिलै- निगमैर्भूर्तिमद्भिर्वेदैर्निजगणैश्च मरीच्यादिभिः परिवृतः सत्यलोकादवतीर्णः ॥ ७ ॥ स च ब्रह्मा तत्र तत्रोडुपतिश्चन्द्र इव प्रकाशमानो गन्धमादनस्य द्रोणी दरीमवभासयन्नुपससर्पेत्यन्वयः । अमरपरिवृढैर्देवेन्द्रादिभिः ॥ ८ ॥ ॐ हंसयानेनोपल- क्षणेनैनं पितरमुपलभमानो मत्पिताऽयमिति लक्षयन्पितापुत्राभ्यां मनुप्रियव्रताभ्यां सह नारदः कृताञ्जलिः सन्सहसैवाभ्युत्थायार्हणेन पूजया सहोपतस्थे तुष्टाव । प्रियव्रतं तदा मन्दरद्रोण्यां नारद उपदिशति मनुश्च तं नेतुमागतोऽस्तीति ज्ञातव्यम् ॥ ९ ॥ * * भारत भगवानादिपुरुषो ब्रह्माऽपि तं प्रियव्रतमिति होवाचेत्यन्वयः । तेन नारदेनोपनीतमहणं यस्य सः । सूक्तवाक्येन यथोचित- वाक्येन अतिशयेनोदिता वर्णिता गुणगणा अवताराः सुजयाः सर्वोत्कर्षाश्च यस्य ॥ १० ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः 8 प्रियव्रतस्यात्मारामत्वमौत्पत्तिकमेव । श्रीनारदकृपया परमभागवतत्वं श्रीब्रह्माज्ञया गार्हस्थ्यं चाह-यहत्यादिना । अतः अवगतपरमार्थसतत्वात् । ब्रह्मसत्रेण दीक्षिष्यमाण इतः परं भगवत्तत्वमेव परस्परं विचार्य नान्यत्किमपि कार्यमिति नियमं कर्तुमुद्यत इत्यर्थः । समर्पणं च ‘यत्करोषि यदश्नासि’ इत्यादि ‘ब्रह्मार्पणं ब्रह्म हविः’ इत्यादि-श्रीगीतोक्तप्रकारेण ज्ञेयम् राजपुत्र इति नववयस्त्वं ज्ञापितम् 1 संदर्भ:- स्वभावत एव परमभागवतः ततो नारदेत्यादि, ततो भगवति वासुदेवेत्यादि, ततो ब्रह्मसत्रेणेत्यादि, ततोऽवनितलपरिपालनायेत्यदि ततो नैवाभ्यनंददित्यादि योज्यम् ॥ ६ ॥ भूतलमिति शेषः प्रियव्रतं प्रत्युपदेष्टव्ये धर्मे प्रमाणीकरणार्थं सत्यलोकादवतीर्ण इत्यर्थः । तत्र प्रियव्रतं बाल्यमारभ्यैव विरक्तं गृहान्निर्विद्य वन एव कृतवासं ज्ञात्वा तदाज्ञया कनिष्ठोप्यत्तानपादो राज्यं चकार । तद्वश्याश्च प्रचेतःपर्यंत यथासमयं राज्यं चक्रुरेवं च स्वायंभुवमन्वंतरस्यार्द्धादप्यधिकः कालो गतवान् प्राचेतसो दक्षश्च स्वायंभुवमन्वंतर एव लब्धजन्मा पौर्वभाविकैश्वर्यकामनया तपसे जगाम । ततश्चाराजकं वीक्ष्य मनुरुपायांतर मलभमानो विरक्तमपि प्रियव्रतं वनादानि- नीषन्नप्यानेतुं यदा न शशाक तदा ब्रह्मैवागत्य प्रियव्रतं राज्ये प्रवर्त्तयामास । ततश्च पञ्चममन्वंतरपर्यन्तं क्रमेण प्रियव्रतस्य तद्वंश्यानां च राज्याधिकारः तृतीयचतुर्थपञ्चममनूनामुत्तमतामसरैवतानां प्रियव्रतपुत्रत्वात् । द्वितीयमनोः स्वारोचिषस्यापि तदंतःपातात् तत्तन्मनु- पुत्रपौत्राद्यास्तु प्रयव्रता एव राज्येऽखंडमंडलेश्वररूपा राजानो बभूवुः । ततश्च षष्ठस्य चाक्षुषमन्वंतरस्याप्यारंभे तपसो निवृत्तेन दक्षेण प्रजासृष्टिस्तत्रैव तस्य साम्राज्यश्च यदुक्तं “चाक्षुषे त्वंतरे प्राप्ते प्राक्सर्गे कालविद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवनोदितः” इति चाक्षुषस्य मनोरुत्तानपादवंश्यत्वात्तन्मन्वंतरपर्यंतमेव स्वायंभुवमनोरधिकार इति ज्ञेयम् । स्वारोचिषस्य गांधर्वत्वेपि तन्मध्यपति- तस्तद्ग्रहणेन गृह्यते क्षीरांबुवत्’ इति न्यायेन स्वायंभुवमनुतत्पौत्रोत्तमयोरतर्गतत्वात्स्वायंभुवत्वमेवेति । तस्य गांधर्वत्वं तु मार्कडेयमनु- वर्णनोपाख्यानादवसेयम् ॥ ७ ॥ ॐ भूतलं प्रति तस्यावतरणे शोभामाह-तत्र तत्र लोके देशे वांतरिक्षस्य अमराणां परिवृढैः प्रभुभिः “प्रभौ परिवृढः” इति निपातनात् । विमानानामावलयः पंक्तयो येषां तैः । द्रोणी पर्वतांतरालभूमिः ||८|| तदा नारदस्तत्र मंदर- द्रोण्यां गंधमादनस्य नामान्तरं मन्दरमपि ‘मंद गंधमादनः’ इत्यभिधानात् ॥ ९ ॥ हे भारतेति । त्वं तु साक्षादाकाशवानूप- ? श्रीमद्भागवतम् [ स्कं. ५ अ. १ श्लो. ६-१० भगवत्समर्पितराज्यभरतकुले जातोसीत्यतोऽत्र राज्यदानार्थं ब्रह्मागमने विस्मयं मा कुर्विति भावः । यद्वा-तैर्नारदमनु प्रियत्रतैरुपनीत- मर्हणमध्यादि यस्य स तथा । यद्वा-सूक्तवाक्येन “हिरण्यगर्भः समवर्तताम्रे भूतस्य जातः पतिरेक आसीत्” इत्यादिवैदिकसूक्तेन । गुणानां वात्सल्यौदार्यादीनां गणः । विश्वनाथस्तु-उदितो वर्णितो गुणगणः स्वप्रजासु वात्सल्यादिस्तत एव हेतोरवतारः सत्यलोकाद- वतरणं तत एव सुजयोऽत्युत्कर्षो यस्य स तथा । सदयेति । तस्याभिवांछितभक्तिज्ञानवैराग्याणामहमेव प्रतिबंधकोऽभूवं तद्रार्हस्थ्ये- ऽप्यस्य भक्तिर्वर्द्धतामेवेत्याशीव्र्व्याजकः सदयावलोकः । अहं राज्यं न करोमीति तव प्रौढिः । त्वामहं राज्यं कारयामीति मम प्रौढिस्तत्र पश्यामः कस्याद्य प्रौढिस्तिष्ठतीति नप्तरि प्रियत्रते सहा सावलोकञ्च यस्य सः ॥ १० ॥ श्रीमद्वीराघवव्याख्या जमीन
यदुक्तं स्वात्मपरमात्मयाथात्म्यानुभवनिष्ठस्य कथं गृहाद्यभिनिवेश इति तत्परिजिहीर्षुस्तस्य प्रथमं निवृत्तिधर्मनिष्ठां स्वायम्भुवस्वयंभू प्रार्थनया गृहाश्रमपरिग्रहं चाह यर्हित्यादिना । वावेति निपातसमुदायः प्रसिद्विद्योतकः । यदा हि राज्ञः मनोः पुत्रः स प्रियव्रतः सर्वोत्कृष्टभागवतधर्मनिष्ठः नारदस्य गुरोश्चरणसेवयाञ्जसा सुखेनैव तत्त्वेन सहितः सतत्त्वः तत्त्वग्रहणं हितस्याप्युपलक्षणम्, अधिगतः परमपुरुषार्थः सतत्त्वः तत्त्वहिताभ्यां युक्तः येन अधिगततत्त्वहितपुरुषार्थ इत्यर्थः । अवगतपरमपुरुषार्थतत्त्व इति पाठेऽध्ययमेवार्थः पुरुषार्थतत्त्वग्रहणस्य उपायस्याप्युपलक्षणत्वात् । ब्रह्मसत्रेण ज्ञानयज्ञेन दीक्षिष्यमाणः स्वपरयाथात्म्यविज्ञाननिष्ठो भवेयमिति कृतसंकल्पः भगवति वासुदेव एवाविच्छिन्नध्यानयोगेन समाधियोगेनेति हेत्वर्थे तृतीया, हेतुरिह फलमध्ययनेन वसतीतिवत् अव्यवधानसमाधियोगार्थं समावेशितः ‘ब्रह्मार्पणं ब्रह्महविरि’ति न्यायेन भगवति समर्पितः सकलकारकाणि कर्त्रादीनि षट् तेषां क्रियास्तद्वयापारास्तासां च कलापः समूहो येन कर्तृकरणत्वादिकं ब्रह्मण एवानुसंदधत् कारकव्यापाराणां ब्रह्माराधनरूपतां चानुसंदधानः भक्तियोगानुग्राहकत्वेन फलासङ्गकर्तृत्वत्यागपूर्वकमीश्वराराधनैकवेषस्ववर्णाश्रमोचितधर्मानुष्ठानपर इत्यर्थः । स्वपित्रा स्वायंभुवमनुना उपामन्त्रणकर्ता आम्नाता राज्ञां गुणत्वेन नीतिशास्त्रेषु कथिता ये श्रेष्ठाः गुणास्तेषामेकान्तभाजनतया नियताश्रयत्वेन हेतुनाऽवनितलपालनाय उपामन्त्रित उपच्छन्दितोऽपि प्रार्थितोऽपि नैवाभ्यनन्दन्नैच्छत् अवनितलपालनमिति विभक्तिव्यत्ययेनानुषङ्गः । ननु “एतावदेव शुश्रूषा कार्या पितरि पुत्रकैः । वाढमित्यनुमन्येत सादरं यद्गुरोर्वचः ॥” इत्यादिशास्त्रार्थं जानन् सद्गुणाश्रयः कथं नैच्छदित्याशङ्कय समाधत्ते यद्यपीति । तत्पित्रोक्तं यद्यपि न प्रत्याख्येयं तथापि तदधिकरणे राज्याधिकरणे सर्वात्मनः अन्यस्मादसतः प्रकृतिपरिणामरूपाद्देहात्तत्प्रयुक्तरागादेश्च पराभवं ज्ञानसंकोचमन्वीक्षमाणः निरूपयन्नाभ्यनन्ददित्यनुषङ्गस्तेनैवान्वयो वा ॥ ६ ॥
अथ पितृप्रार्थनानभिनन्दनानन्तरं हवावेति पूर्वप्रसिद्धिद्योतको निपातसमुदायः देवानामाद्यो भगवानात्मयो निर्ब्रह्मा गुणपरिणामरूपस्यैतस्य जगतः परिबृंहणं ज्ञानेन परितो व्याप्तिरनुध्यानमनुचिन्तनं ताभ्यामवसितः सकलजगदभिप्रायो येन सः स्वधर्मभूतज्ञानेनाभितो व्याप्य तद्बुद्धिविषयं साक्षात्कृत्य एवंविधोऽस्य लोकस्याभिप्राय इति कृतनिश्चय इत्यर्थः । अखिलैर्निगमैर्मूर्त्तिमद्भिर्वेदेर्निजगणैर्मरीच्यादिभिश्च परिवृतः स्वभावनात्सत्यलोकादवतीर्णः ॥ ७ ॥
अवतरन्तं ब्रह्माणं विशिषन्प्रियव्रतसमीपं जगामेत्याह तत्रेति । तत्र तत्र लोकेऽर्वाचीने गगनतले उडुपतिश्चन्द्र इव प्रकाशमानः अनुपदं पदे पदे प्रतिक्षणमित्यर्थः । अमरश्रेष्ठैर्देवेन्द्रादिभिरभितः कार्त्स्न्येन पूज्यमानः प्रतिमार्गं वरूथशः संघीभूतैः सिद्धानां गणैः प्रत्येकं सिद्धादिसङ्घाभिप्रायेण गणशब्दः प्रयुक्तः, अतो न पौनरुक्त्यमुप समीपमेत्य गीयमानस्य गंधमादनस्य गिरेर्द्रोणीं प्रकाशयन्नुपससर्प समीपं गतः ॥ ८ ॥
तत्रह देवर्षिर्नारदः एनमवतरन्तं हंसवाहनेनोपलक्षणेन पितरं भगवन्तं चतुर्मुखमुपलभमानः हिरण्यगर्भोऽयमिति जानन् स आश्वेव पितापुत्राभ्यां मनुप्रियव्रताभ्यां सहोत्थायार्हणेन पूजया सह कृताञ्जलिर्बद्धाञ्जलिरुपतस्थे तुष्टाव । तदा मन्दरद्रोण्यां प्रियव्रतस्य ज्ञानोपदेशाय नारद आगत्य स्थित इति बोध्यम् ॥ ९ ॥
हे भारत ! उपनीतं कृतमर्हणं पूजनं यस्य सम्यगुक्तेन वाक्येन समीचीनस्तुतिरूपेण वाक्येन नितरामुदितः वर्णितः गुणगणावतारः सत्यलोकादवरुह्य पृथिव्यामागमः तत्सम्बन्धिसुजयः सर्वोत्कर्षः स्वागतमिति यावत्, चतुर्मुखरूपेण भगवदावेशावतारस्तत्सम्बन्धी सुजयो वा यस्य सदयः दयायुक्तोऽवलोको यस्य सः तं प्रियव्रतमिति वक्ष्यमाणं वाक्यमुवाच ॥ १० ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली दारादिषु संक्तस्य प्रियव्रतस्य कृष्णविषयाच्युतमत्या सिद्धिः कथमभूदिति प्रश्नपरिहारः कथमागत इति तद्वत्तुमुपक्रमते यहीति । प्रियव्रतोऽप्येष्वेक इति कृत्वा तच्चरितं वक्तुमुपक्रमते इत्यतो वाह, यहति । यद्दि यदा स राजपुत्रः प्रियव्रतो भुवन- रक्षणाय स्वपित्रा स्वायम्भुवेनोपामन्त्रितो नियोजितोऽपि राज्यरक्षणलक्षणं पितृवचनं नैवाभ्यनन्दन्नाङ्गीकृतवान् वाब किल अथ तदा- त्मयोनिर्ब्रह्मा स्वभवनादवततार हेत्यन्वयः । अनभिनन्दने किङ्कारणमित्यत उक्तं ब्रह्मेति । ब्रह्मसत्रेण संन्यासेन दीक्षिष्यमाणः संन्यास- दीक्षां प्राप्नुयामिति मन्वानः । ननु अज्ञाततत्त्वस्य संन्यासाधिकारः कथमस्य सम्भवतीत्यत उक्तमवगतेति अवगतं परमार्थसत्तस्वं स्क. ५ अ. १ श्लो. ६-१०
अनेकव्याख्यासमलङङ्कृतम् येन सोऽवगतपरमार्थसत्तत्त्वः कालत्रयेप्यबाधितब्रह्माख्यतत्त्वज्ञानीत्यर्थः । अलौकिकस्य वस्तुनो विशेषज्ञानं गुरुकटाक्षं विना न घटत इत्यत उक्तं चरणेति । गुरोरिति शेषः । एवंविधस्य समग्रानुग्रहकर्ता गुरुः कः येन तत्त्वज्ञानं स्यादित्यत उक्तं नारदस्येति । नन्वयोग्यश्चेत्तत्त्वज्ञानग्रहणं कथं सम्भाव्यत इत्यत उक्तं परमभागवत इति । इदं चानभिनन्दने कारणमित्याह भगवतीति । अव्यवधानो व्यवधानरहितोऽप्रतिबद्धो यः समाधियोगश्चित्तैकाग्रता लक्षणस्तेन वासुदेवे भगवत्येव सम्यगावेशितः समर्पितः सकलानां कारकाणां चक्षुरादीन्द्रियाणां क्रियाकलापो व्यापारसमूहो येन स तथा जीवस्य ब्रह्माधीनत्वनिरीक्षणलक्षणसमाधियोगेन संन्यस्तार्ह कर्तृत्वादिसमुदायो वा । नन्वज्ञवत् पित्रादेशमुदलङ्घन्यत्कथमयमिति तत्राह यदपीति । राज्यं कुर्विति यत्पित्रोक्तं तद्वचनमप्रत्याम्नातव्यं न करोमीति निराकर्तुमयुक्तं यदपि यद्यपीति जानाति तथापि तदधिकरणे राज्यरक्षणाधिकारे असतो- ऽप्रशस्तादन्यस्माच्छब्दादेर्विषयादात्मनो मनआदेः पराभवं पुनः पुनः संसारप्राप्तिलक्षणं पराजयमन्वीक्षमाणः सम्यक् पश्यन् गुरुवचनं चात्मस्नेहे निमित्तमिति संपश्यमानः अनेन गुर्वादेशोलङ्घनदोषोऽपि पर्यहारीति द्रष्टव्यम् । नन्वेवंविधश्चेत्किमिति पित्रोपमन्त्रित इति तत्राह आम्नातेति । आम्नाता नीतिशास्त्रेण परिपठिताः प्रवराः उत्तमा राज्ञां गुणा अभिगम्यादयो ये तेषामेकान्तभाजनतया नियतपात्रत्वात् ॥ ६ ॥ नन्वतर्किताभ्यागमने कि कारणमिति तत्राह : एतस्येति । सत्त्वादिगुणैर्विविधः सर्गो यस्य तत्तथा तस्यैतस्य जगतः परिबृंहणं वृद्धिस्तस्यानुध्यानं सदा सचिन्तनं तेन व्यवसितो निश्चितोऽखिलजगदभिप्रायो येन स तथा । परिबृंहणं सृष्टिः तदनन्तरकालीनानुध्यानेन परोक्षीकृत इष्टानिष्टप्राप्तिपरिहारोपाय लक्षणो जगदभिप्रायो येनेति वा, अखिलैर्मूर्तिमद्भिर्निगमै र्वेदादिशास्त्रैर्मरीच्यादिनिजगणैश्च परिवृत इत्यनेन श्रुतशास्त्रस्य प्रियव्रतस्यात्मयोनिवचनेऽतिविश्वासजननायोक्तमिति दर्शितम् ॥ ७ ॥ * * तद्वचनस्य ग्राह्यत्वे तन्माहात्म्यमाह तत्र तत्रेति । उडुपतिश्चन्द्र इवेति दृष्टान्तः सौम्यत्वे अमरपरिवृढैर्देवश्रेष्ठैरनुपथमिति वीप्सायां गन्धमादनस्य पर्वतस्य द्रोणों निम्नं नितम्बप्रदेशं प्रियव्रततपःस्थानं प्रकाशयन्नुपससर्प प्राप । बाढमित्याद्येकं वाक्यं वा, महान् संशयो म इति यदुक्तं तद्वाढं सत्य- मित्यर्द्धाङ्गीकारः कथं मन्दानां सन्देहावकाशो न विदुषाम् । तथा हि प्रियव्रतस्य प्रथमशरीरग्रहणमारभ्य हरिचरणारविन्दमकरन्द- रसास्वादनैकचित्तत्वात् कुटुम्बासक्तिर्मुक्तिपरिपन्थिनी न स्यात् त्रिजगद्गुरुवर चतुर्मुखाज्ञाकारित्वेन गुणकरी च एतत्कुत इति तत्राह भगवतेति । शेषं पूर्ववत् ॥ ८ ॥ * हवा इत्येतौ निपातौ गद्यवाक्यालङ्कारार्थी इतिहास श्रद्धातिशयजननार्थी वा । तत्र तस्यामवस्थायां हंसयानेन लक्षणेन स्वपितरं चतुर्मुखमुपलभमानः पश्यन्नारदः शिष्यशिक्षणाय पूर्वमुपविष्टः सहसैव झटित्येव पितापुत्राभ्यां नाम्ना स्वायंभुवप्रियत्रताभ्यां सह बद्धाञ्जलिरुपतस्थे उत्थानसेवामकरोत् ॥ ९ ॥ * * तेन प्रियव्रतेन मनुना चोपनीतमर्पित मर्हणमर्घ्यपाद्यादिपूजनं यस्मै स तथा “हिरण्यगर्भः समवर्तताग्रे” इत्यादिसूक्तवचनेन स्वागतमुपविशासनमित्यादि- प्रियवाक्येन वा नितरामतिशयेनोदितौ प्रकाशितौ गुणावतारो गुणविस्तारश्च शोभनो विजयश्च यस्य स तथा दयया सहितो हासः तादृशेन युक्तोऽवलोको यस्य स तथा एवंविध आदिपुरुषश्चतुर्मुखस्तं प्रियत्रतमिति वक्ष्यमाणप्रकारेणोवाच । हकिल प्रत्यारम्भे प्रसिद्धौ च “वार्तासम्भाव्ययोः किल” इति यादवः । सूक्तवाक्येन हितोपदेशसहितवाक्येन वा ॥ १० ॥ श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः राजपुत्र इति नववयस्त्वं ज्ञापितं तंत्र स्वभावत एव परमभागवतः ततो नारदस्येत्यादि । ततो भगवति वासुदेव इत्यादि ततो ब्रह्मसत्रेणेत्यादि ततोऽवनितलपरिपालनायेत्यादि । ततो नैवाभ्यनन्ददिति योग्यम् । तत्र परमार्थसतस्त्वं भगवत्तत्त्वं कारणानि । । । स्वाभाविकेन्द्रियचेष्टाः क्रियाकलापाश्च शास्त्रोक्ताः तेषां समर्पणच ‘यत् करोषि यदश्नासी’ त्यादि ‘ब्रह्मार्पणं ब्रह्म हविरि त्यादि श्रीगीतोक्तप्रकारेण ज्ञेयम् । ब्रह्मसत्रेण इतः परं भगवत्तत्त्वमात्रं परस्परं विचारयितव्यम्, नान्यत् किमपि कर्त्तव्यमिति सङ्कल्पेन दीक्षिष्यमाणो नियमं कर्तुमुद्यत इत्यर्थः ।। ६-१० ॥ 1 श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी प्रियव्रतस्यात्मारामत्वमौत्पत्तिकमेव श्रीनारदकृपया परमं भागवतत्वं श्रीब्रह्माज्ञया गार्हस्थ्यञ्चाह यहीँत्यादिना । वावेत्येवार्थे यह्येव प्रियंव्रतः स्वपित्रा अवनितलप्रतिपालनाय उपामन्त्रितो नियुक्तोऽपि तत् नैवाभ्यनन्दत् तदा ब्रह्मा स्वभवनादव- ततारेत्यन्वयः । अञ्जसा शीघ्रं सतत्त्वं तत्त्वं ब्रह्मसत्रेण आत्मध्यानेन दीक्षिष्यमाणः दीक्षां प्राप्स्यन् अतः परं सच्चिदानन्दमात्रं तद्वस्तु तदेवानुभवनीयं न तु प्राकृतं किमपीति सङ्कल्पेन नियमं कर्तुमुद्यत इत्यर्थः । तत्क्षण एवं पित्रा मनुना आम्नाता राज्ञां शास्त्रेणोक्ता ये प्रवरा गुणास्तेषां गणस्य एकान्तभाजनतया नियताश्रयत्वेन हेतुना हे प्रियव्रत ! सम्प्रति त्वमवनिं पालय इत्युपाम- न्त्रितस्तन्नाभ्यनन्दत् स्वस्याभद्रममन्यतेति नैच्छदित्यर्थः । कुतः भगवति अव्यवधानसमाधियोगेन निरन्तरचित्तैकायेण सम्यक निवेशितः सकलानां कारकाणामिन्द्रियाणां व्यापारसमूहो येन सः । यद्यपि तत् पित्रोक्तमप्रत्याम्नातव्यमप्रत्याख्येयम्, तदपि नाही राज्यं करोमीति प्रत्याख्यातवानेवेत्यर्थः । कुतः तदधिकरणे राज्याधिकारे आत्मनः स्वस्य अंशतः असाधुभूतादपि कामक्रोधादेः १२ श्रीमद्भागवतम् [ स्क. ५ अ. १ श्लो. ६-१० सकाशात् पराभवं पर्यालोचयन् ॥ ६ ॥ * * अथ ह ततश्चादिदेवो ब्रह्मा गुणविसर्गस्य जगत्सृष्टेः परिबृंहणं समृद्धिस्तद- नुचिन्तया व्यवसितः सकलजगतामभिप्रायो येन सः । यथा राज्ञा चारैः मण्डलेश्वराणामभिप्रायो निश्चीयते तद्वत् अखिलैः निगमैः मूर्त्तिमद्भिर्वेदैः निजगणैश्च मरीच्यादिभिश्च परिवृतः इति प्रियव्रतं प्रत्युपदेष्टव्ये धर्मे प्रमाणीकरणार्थं सत्यलोकादवतीर्णः भूतलमिति शेषः । तत्र प्रियव्रतं बाल्यमारभ्येव विरक्तं गृहान्निर्विद्य वन एव कृतवासं ज्ञात्वा तदाज्ञया कनिष्ठोऽप्यत्तानपादो राज्यं चकार । तद्वंश्याश्च प्रचेतःपर्य्यन्तं यथासमयं राज्यं चक्रुरेवश्च स्वायम्भुवमन्वन्तरस्यार्द्धादप्यधिकः कालो गच्छति स्म । प्राचेतसो दक्षस्तु स्वायम्भुवे मन्वन्तर एव लब्धजन्मा पौर्वभविकैश्वर्य्यकामनया तपसे जगाम । ततश्चाराजकं वीक्ष्य मनुरुपायान्तरमनालोच्य विरक्तमपि प्रियव्रतं वनादानिनीषन्नप्यानेतुं यदा न शशाक तदा ब्रह्मैवागत्य प्रियव्रतं राज्ये प्रवर्त्तयामास । ततश्च पश्चममन्वन्तर- पर्यन्तं क्रमेण प्रियव्रतस्य तद्वंश्यानां राज्ञावाधिकारः, तृतीयचतुर्थंपञ्चममनूनामुत्तमतामसरैवतानां प्रियत्रतपुत्रत्वात् द्वितीयमनोः स्वारोचिषस्यापि तदन्तःपातात् तत्तन्मनुपुत्रपौत्राद्यास्तु प्रयव्रता एव राज्येऽखण्डमण्डलेश्वररूपा राजानो बभूवुः । ततश्च षष्ठस्य चाक्षुषमन्वन्तरस्याप्यारम्भे तपसो निवृत्तेन दक्षेण प्रजासृष्टिस्तत्रैव तस्य साम्राज्यश्च यदुक्तं “चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे काल- विप्लुते । यः ससर्ज प्रजा इष्टाः स दक्षो देवचोदितः ॥” इति । चाक्षुषस्य मनोरुत्तानपादवंश्यत्वात्तन्मन्वन्तर पर्यन्तमेव स्वायम्भुव- मनोरधिकार इति ज्ञेयम् ॥ ७ ॥ भूतलं प्रति तस्यावतरणे शोभामाह । स ब्रह्मा परिवृढैर्मुख्यैः कीदृशैः विमानानामा- वलिर्येषां तैः ॥ ८ ॥ * * हंसयानोपलक्षणेन पितापुत्राभ्यां मनुप्रियव्रताभ्याम् ॥९॥ * तदा नारदस्तत्र प्रियव्रत- मुपदिशति । मनुस्तं नेतुमागतोऽस्तीति ज्ञेयम् । भगवान् ब्रह्मापि प्रियव्रतमुवाच तैर्नारदमनुप्रियव्रतैरुपनीतमर्हणं यस्मै सः । उदितो वर्णितो गुणगणः स्वप्रजासु वात्सल्यादिस्तत एव हेतोरवतारः सत्यलोकादवतरणं तत एव सुजयः अत्युत्कर्षो यस्य सः । सदयेति अस्याभिवाञ्छितभक्तिज्ञानवैराग्याणा महमेव प्रतिबन्धकोऽभूवं तद्रार्हस्थ्येऽप्यस्य भक्तिर्वर्द्धतामेवेत्याशीर्व्यञ्जकः सदया- वलोकः । अहं राज्यं न करोमीति तव प्रौढिः त्वामहं राज्यं कारयामीति मम प्रौढिस्तत्र पश्यामः कस्याद्य प्रौढिस्तिष्ठतीति नप्तरि प्रियव्रते सहासावलोकच यस्य सः ॥ १० ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः प्रियव्रतस्तु ब्रह्मणैव गार्हस्थ्ये किंचित्कालं नियोजितस्तदाज्ञां पालयित्वा पुनर्निवृत्त इत्याह यहत्यादिना नारदस्य पदवीं पुनरेवानुससारेत्यन्तेन । वावह इति निपातसमुदायो वाक्यालंकारार्थः । यहि यदा सः प्रियव्रतः नारदस्य चरणोपसेवया अञ्जसा सुगमेनैव यत्नेन अवगतपरमार्थसतत्त्वः अवगतमुपलब्धं परमार्थसतत्त्वं परमात्मखरूपगुणादियाथात्म्यं येन सः । अत एव परमभागवतः अत एव ब्रह्मसत्रेण बृहत्स्वरूपगुणादिभगवद्विषयकज्ञानयज्ञेन भगवत्स्वरूपादिश्रवणमनननिदिध्यासनव्यापारेण दीक्षिष्यमाणः पित्रा मनुना आम्नाता राजनीतौ प्रोक्ता ये प्रवराः गुणास्तेषां गणस्यैकान्तभाजनतया अवनितलपरिपालनाय उपामन्त्रितः अनुज्ञातः, यद्यपि यत्पितुर्वचनमप्रत्याम्नातव्यमप्रत्याख्येयं तथापि नाभ्यनन्दत् न प्रशशंस नाङ्गीचकारेत्यर्थः । तत्र हेतुमाह तदधिकरणे इत्यादिना । तदधिकरणे अवनिपालनाधिकारे आत्मनः जीवस्वरूपतः अन्यस्मान्मनसः असतः असाधुतः ★बन्धकारणात् पराभवमन्वीक्षमाणः वासुदेवे एव निरन्तर समाधियोगेन समावेशितः सम्यगर्पितः सकलकारकाणामिन्द्रियाणां याः क्रियास्तासां कलापो येन सः, अथानन्तरमेव एतस्य विश्वस्य गुणविसर्गस्य गुणविसृष्टेः परिबृंहणानुध्यानेन व्यवसितः सकल- जगदभिप्रायो येन सः, अखिलैर्निगमादिभिः परिवेष्टितः स्वभवनादवततार ।। ६-७ ।। * * स ब्रह्मा अनुपथं पथि पथि विमानावलिभिरुपलक्षितैः देवश्रेष्ठैः अभिपूज्यमानः पथि पथि च वरूथशः पुञ्जभूतैः सिद्धादिगणैरुपगीयमानः उडुपतिरिव गन्धमादनस्य द्रोणी दरीमवभासयन्नुपससार समीपं गतः ॥ ८ ॥ * * देवर्षिः एनं पितरं हंसयानेनोपलक्षणेन पितैवायमि- त्युपलभमानः पुत्राभ्यां पितापुत्राभ्यां मनुप्रियव्रताभ्यां सह कृताञ्जलिः अर्हणेन पूजया सहोपतस्थे तुष्टाव ॥ ९ ॥ * * तेन देवर्षिणा उपनीतं संपादितमर्हणं पूजनं यस्य सूक्तवाक्येन सूक्तानि सुष्ठु उक्तानि वाक्यानि यस्मिंस्तेन स्तोत्रेण अतितरामुदिताः प्रकाशिता गुणगणाः अवताराः शोभना जयाः सर्वोत्कर्षाश्च यस्य सः प्रियव्रत ह स्फुटमुवाच ।। १० ।। ازیار गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी प्रियव्रतस्य तु भगवदिच्छेव ब्रह्माज्ञाद्वाराऽन्तरायरूपा जातेति सप्रसङ्गमाह-यहत्यादिना ‘विमुक्तसङ्गः प्रकृति भजस्व’ इत्यन्तेन । यहि यदा, वाव एव, ह प्रसिद्धमेतत् । राज्ञां राज्याभिनिवेशस्त्वया ज्ञायते एवेति मनोरभिनिवेशं सूचयन् सम्बोधयति- हे राजन्निति । यदैव हि स राजपुत्रः राज्ञो मनोः पुत्रः प्रियव्रतः स्वपित्रा मनुना अवनितलपरिपालनाय राजासन स्वीकाराय उपामन्त्रितो नियुक्तोऽपि नैवाभ्यनन्दत् नैवैच्छत्-अवनितलपरिपालनमिति शेषः-अथ ह तदैव स्वभवनाद्भगवानादिदेवो ब्रह्माऽवततारेत्यन्वयः । मनुना नियोगे हेतुमाह - आम्नातेति । आम्नाता राज्ञां शास्त्रेणोक्ता ये प्रवराः श्रेष्ठा गुणास्तेषां गणस्य समूहस्यैकान्तभाजनतया नित्याश्रयतयेत्यर्थः । प्रियत्रतस्य राज्यानिच्छायां हेतुं सूचयंस्तं विशिनष्टि - परमभागवत इति, सर्वोत्कृष्ट- स्क. ५अ. १ श्लो. ६-१०] अनेकव्याख्यांसमलङ्कृतम् भागवतधर्मनिष्ठ इत्यर्थः । तत्र हेतुमाह नारदस्य चरणोपसेवया शरणागमनेन अञ्जसा अनायासेनैव तत्कृपयाऽवगतं ज्ञातं परमार्थं परमपुरुषार्थसाधनं भगवद्भजनप्रकारं सतत्त्वं भगवद्याथार्थ्येन सहितं येन सः तथा ब्रह्मसत्रेण भगवत्परत्वेन कार्येण दीक्षिष्यमाणः सङ्कल्पं करिष्यन् । एवं नियमकरणात् प्रागपि भगवति वासुदेवे एवाव्यवधानं निरन्तरं समाधिर्योगेन चित्तैकाग्र्येण समावेशितः समर्पितः सकलकारकाणां सर्वेन्द्रियाणां क्रियाकलापः श्रवणकीर्तन दर्शन स्मरणादिक्रियासमूहो येन सः । न ह्येवंभूतस्य राज्यादीच्छा भवतीति भावः । ननु तथापि ‘एतावदेव शुश्रूषा कार्या पितरि पुत्रकैः । बाढमित्यनुमन्येत सादरं यद्गुरोर्वचः’ इति शास्त्रं जानन् सन् सद्गुणाश्रयः प्रियव्रतः पितृवाक्यं कथमुल्लङ्घितवानित्याकाङ्गायामाह यद्यपीति । यद्यपि तत्पितृवाक्यमप्रत्याम्नातव्यं न प्रत्याख्येयं तथापि तदधिकरणे राज्याधिकारेऽसतो मिथ्याभूतादप्यहम्ममाभिमानात् अन्यस्माच्च स्त्रीपुत्रादेः पुरुषार्थभूतस्याप्यात्मनः पराभवं तिरस्कारमन्वीक्षमाण आलोचयन्नाभ्यनन्दत् ॥ ६ ॥ ननु मनुवाक्यं प्रियव्रतो नाङ्गीकरोतीति श्रह्मणा कथं ज्ञातमित्याकांक्षायामाह - एतस्येति । गुणविसर्गस्य त्रिगुणकार्यस्यैतस्य प्रपञ्चस्य परिबृंहणं समृद्धिस्तदनुध्यानेन निरन्तरं तच्चिन्तनेन व्यवसितो निश्चितः सकलजगतां प्राणिनामभिप्रायो येन स तथा । ननु विश्ववृद्धि- चिन्तनमात्रेण अतिदूरस्थस्य सर्वप्राण्यभिप्रायज्ञानमपि कथं सम्भवतीत्याशङ्कयाह-भगवानिति, तथाविधज्ञानैश्वर्यादिमानित्यर्थः । ननु तथाविधस्तु हरिरेव प्रसिद्ध इत्याशङ्कयाह - आत्मयोनीति | ‘आततत्त्वाच्च मातृत्वादात्मा हि परमो हरिः’ इति वाक्यादात्मा हरिर्नारायणो योनिः कारणं पिता यस्य स इत्यर्थः । भगवत्पुत्रत्वात्सोऽपि तत्कृपया भगवानित्यर्थः । अत एव वेदादयोऽपि तद्वशवर्तिन इत्याह-अखिलेति । अखिलैः सबैनिंगमैर्वेदेर्मूर्तिमद्भिर्निजगणैः मरीच्यादिभिश्व परिवेष्टितः परिवृतः स्वभवनात् सत्यलोकाद्वतता- रावतीर्णः ॥ ७ ॥ * * स ब्रह्मा तत्र गगनतले आकाशमार्गे उडुपतिश्चन्द्र इव दिशोऽवभासयन् विमानानामावलयो येषां तैरमरपरिवृढैः देवश्रेष्ठैरिन्द्रादिभिस्तारादिस्थानीयैः अनुपथमभिपूज्यमानः तथा पथि पथि च वरूथशः संघीभूतैः सिद्धगन्धर्वा- द्विगणैरुपगीयमानः स्तूयमानो गन्धमादनपर्वतस्य द्रोणीं प्रियव्रतस्थितिस्थानं उपससर्प आजगामेत्यन्वयः । तत्र प्रत्येकं सिद्धादि- सङ्घाभिप्रायेण गणशब्दप्रयोगोऽतो न पौनरुक्त्यं वरूथशः गणैरिति पदाभ्यामिति ज्ञेयम् । तत्र हि तदा प्रियव्रतमेकान्ते नारदो विद्यामुपदिशति मनुश्च तमनुनेतुमागतोऽस्तीति ज्ञेयम् ॥ ८ ॥ * * तत्र हवा तस्मिन्नेव तु स्थाने हंसेन यानेन वाहनेन आयान्तमेनं हिरण्यगर्भ ब्रह्माणमुपलभमानः पश्यन् देवर्षिः पितापुत्राभ्यां मनुप्रियव्रताभ्यां सहावहिताञ्जलिः सन् सहसैवाभ्युत्थाय अर्हणेन पूजया सह उपतस्थे तुष्टावेत्यन्वयः । एवमर्हणस्तुतियोग्यतार्थं विशेषणद्वयं पितरं भगवन्तमिति ॥ ९ ॥ * * हे भारत भगवानादिपुरुषो ब्रह्माऽपि तत्तेन नारदेनोपनीतं समर्पितमर्हणं पूजा यस्य सः, तथा सूक्तवाक्येन यथोचितमधुरवाक्येन अतितरां उदिता वर्णिता गुणगणा अवताराः सुजयाः सर्वोत्कर्षाश्च यस्य सः, अत एव सदयहासपूर्वकोऽवलोको यस्य स तं प्रियव्रतं इति वक्ष्यमाणं ह स्फुटं उवाचेत्यन्वयः । एवमाज्ञायां सामर्थ्य सूचनायाह-भगवानिति । प्रजापालनार्थोद्यमोऽपि तस्यावश्यक इति सूचनायाह-आदिपुरुष इति । श्रेष्ठवंशे जातस्य तव सावधानतया श्रोतव्यमेतदिति सम्बोधनाभिप्रायः ।। १० ।। র%%%%, সা ॥ … श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी यदुक्तं स्वात्मपरमात्मयाथात्म्यानुभवनिष्ठस्य कथं गृहाद्यभिनिवेश इति तत्परिजिहीर्षुस्तस्य प्रथमं निवृत्तिधर्मनिष्ठत्वेऽपि स्वायंभुवस्वयंभू निदेशस्यानतिक्रमणीयत्वेन गृहाश्रमस्वीकृतित्वतो न बाध इत्याह । यहत्यादिना विमुक्तसङ्गः प्रकृतिं भजस्वेत्यन्तेन । वावहेति निपातसमुदायः प्रसिद्धिद्योतकः । यद्वा हेति हीत्यर्थे । यहि ह यदा हि वा व प्रसिद्धौ । हे राजन् राजपुत्रः राज्ञो मनोः सुतः, सः प्रियत्रतः, यतः परमभागवतः सर्वोत्कृष्टभागवतधर्मनिष्ठः, नारदस्य स्वगुरोर्देवर्षेः, चरणोपसेवया ङ्घ्रिद्वयसं सेवनेन, अञ्जसा सुखेनैव, अवगतमधिगतं परमार्थ परमपुरुषार्थ रूपं सत्तत्त्वं सत्यतत्त्वरूपो भगवान् येन सः, पाठान्तरे अधिगतं परमार्थ- सतत्त्वं परमात्मयाथात्म्यं येन सः, ब्रह्मसत्रेण ज्ञानयज्ञेन दीक्षिष्यमाणः, स्वपरयाथात्म्यविज्ञाननिष्ठो भवेयमिति कृतसंकल्प इत्यर्थः । भगवति वासुदेवे, एव अव्यवधानसमाधियोगेन अविच्छिन्नध्यानयोगेन हेत्वर्थे तृतीयेयमध्ययनेन वसतीतिवत् । अव्यवधानसमाधियोगार्थमित्यर्थः । समावेशितः समर्पितः सकलकारकाणां सकलेन्द्रियाणां याः क्रियास्तासां कलापो येन सः, अत एव स्वपित्रा स्वायंभुव मनुना, आनाता राज्ञां गुणत्वेन नीतिशास्त्रेषु कथिताः ये प्रवराः श्रेष्ठा गुणगणास्तेषामेकान्तभाजनतया नियताश्रयत्वेन हेतुना, अवनितलपरिपालनाय, उपामन्त्रित उपच्छन्दितोऽपि संप्रार्थितः सन्नपीत्यर्थः । अवनितलपरिपालनं, नैव अभ्यनन्दत् नैच्छत् । अवनितलपरिपालनायेति पदमवनितलपरिपालनमिति विभक्तिव्यत्ययं विधायानुषञ्जनीयम् । ननु ‘एतावदेव शुश्रूषा कार्या पितरि पुत्रकैः । बाढमित्यनुमन्येत सादरं यद्गुरोर्वचः’ इत्यादिशास्त्रार्थं जानन् सद्गुणाश्रयः प्रियत्रतः कथं नैच्छदित्याशङ्कय समाधत्ते । यद्यपि तत्पित्रोक्तमवनितलपरिपालनं अप्रत्याम्नातव्यं न प्रत्याख्येयं भवति, अपि तथापि तदधि- करणेऽवनितलपरिपालनात्मक राज्यस्वीकरणे, आत्मनः सर्वात्मनो भगवतः, अन्यस्मादितरस्मात्, अतः, असतः प्रकृतिपरिणाम- रूपत्वतो मिथ्याभूतादेव राज्यप्रपञ्चात्, पराभवं ज्ञानसंकोचं, अन्वीक्षमाणः सन्नाभ्यनन्ददित्यनुषङ्गः ॥ ६ ॥ * अथ हेति । हेति प्रसिद्धौ । अथ पितृप्रार्थनानभिनन्दनानन्तरं यद्वा अथ ह तदेव, आदिदेवो देवानामाद्यः, भगवान् जगत्सर्जनाद्यैश्वर्य- श्रीमद्भागवतम् 3 [स्कं. ५ अ. १ श्लो. ११-२० वान्, आत्मयोनिर्ब्रह्मा, एतस्य गुणविसर्गस्य सत्त्वादिगुणात्मकसृष्टेः, परिबृंहणं समृद्धिस्तस्य अनुध्यानमनुचिन्ता तेन व्यवसितः निश्चितः सकलजगतामभिप्रायो येन सः, यथा राज्ञा चारैर्मण्डलेश्वराणामभिप्रायो निश्चीयते तद्वत् । अखिला ये निगमा मूर्त्तिमन्तो वेदास्ते च निजगणा मरीच्यादयस्ते च तैः परिवेष्टितः परिवृतः सन् स्वभवनात्सत्यलोकात् अवततार अवतीर्णवान् ॥ ७ ॥ * * अवतरन्तं ब्रह्माणं विशिषन् स प्रियव्रतसमीपे आजगामेत्याह स तत्रेति । स ब्रह्मा तत्र तत्र अर्वाचीने लोके, गगनतले, उडुपति- चन्द्र इव प्रकाशमान इति शेषः । अनुपथं पथि पथि, अनुपदमिति पाठे पदे पदे प्रतिक्षणमित्यर्थः । विमानानामावलयः श्रेणयो येषां तैः अमरपरिवृढैः, विमानावस्थितदेवेन्द्रादिभिरित्यर्थः । अभिपूज्यमानः अभितो विहितपूजनः पथि पथि च, प्रतिपथमपि, । वरूथशः संघीभूतैरित्यर्थः । सिद्धाश्च गन्धर्वाश्च साध्याश्च चारणाश्च मुनिगणाश्च तैः । उपगीयमानः गन्धमादनद्रोणीं गन्धमादना- द्रिगुहां अवभासयन् प्रकाशयन् संश्च, उपससर्प प्रियव्रतसमीपमाजगामेत्यर्थः ।। ८ ।। * * तत्रेति । अत्र ह वा इत्येतौ निपातौ गद्यालंकरणार्थी इतिहासश्रवणश्रद्धातिशयजननार्थो वा । तत्र मन्दरद्रोण्यां, देवर्षिर्नारदः, एनमवतरन्तमाकारविशेषवन्तं, हंसयानेन हंसवाहनवत्त्वोपलक्षणेन, भगवन्तं जगत्सर्गाद्यैश्वर्यवन्तं हिरण्यगर्भ पितरं, उपलभमानः, महेश्वर्यसंपन्नश्चतुराननोऽयं मम पितेति जानन्सन्नित्यर्थः । सहसा एव अकस्मादेवेत्यर्थः । पितापुत्राभ्यां मनुप्रियव्रताभ्यां सह उत्थाय अर्हणेन सह, पूजनार्थंक- वस्तुना सहेत्यर्थः । अवहिता अलिबद्धाञ्जलिः सन्, उपतस्थे तुष्टाव । तदा तत्र प्रागेव समायातो नारदः प्रियव्रतमुपदिशति स्म, मनुश्च तं स्वपुत्रं प्रियव्रतं नेतुमागतः सन् गृहागमाय बोधितवान् नारदोपदेशजमहाबोधवान् प्रियत्रतो मनुवचनं नाङ्गीचकार । तद्वृत्तं स्वचरैर्ज्ञात्वा सर्वपूज्यो ब्रह्मा तां द्रोणीं संरक्ष्योपससर्पेति बोध्यम् ॥ ९ ॥ * * भगवानपीति । हे भारत आदिपुरुषः प्रथमपुरुषरूपः, भगवान् हिरण्यगर्भः अपि तेन नारदेन उपनीतं कृतमर्हणं यस्य सः, सूक्तवाक्येन समीचीनतयोदितस्तुतिरूप- वाक्येन, यद्वा ‘हिरण्यगर्भः समवर्तताग्रे’ इत्यादिसुक्तवचनेन यद्वा इदमासनं समुपविशेत्यादि प्रियवाक्येन नितरामतिशयेन उदिता वर्णिताः गुणगणाः अवताराः सुजयाः सर्वोत्कर्षाच यस्य सः, यद्वा उदिताः गुणगणाच अवतारः सत्यलोकादवरुह्य पृथिव्या- मागमश्च सुजयस्तत्संबन्धी सर्वोत्कर्षश्च यस्य सः । यद्वा गुणानां गणा यस्मिंस्तथाभूतो भगवांस्तस्यावतार आवेशस्तत्संबन्धी यः सुजयः, उदितः स यस्य सः । दयया युक्तो हासस्तत्सहितोऽवलोको यस्य तथाविधः सन् तं प्रियत्रतं इति वक्ष्यमाणप्रकारेण, ह स्फुटं यथा तथा उवाच ॥ १० ॥ । । भाषानुवादः राजन् ! राजकुमार प्रियव्रत बड़े भगवद्भक्त थे, श्रीनारदजीके चरणोंकी सेवा करनेसे उन्हें सहज में ही परमार्थतत्त्वका बोध हो गया था। वे ब्रह्मसत्रको दीक्षा- निरन्तर ब्रह्माभ्यासमें जीवन बितानेका नियम लेनेवाले ही थे कि उसी समय उनके पिता स्वायम्भुव मनुने उन्हें पृथ्वीपालन के लिये शास्त्रमें बताये हुए सभी श्रेष्ठ गुणोंसे पूर्णतया सम्पन्न देव राज्यशासनके लिये आज्ञा दी । किन्तु प्रियव्रत अखण्ड समाधियोगके द्वारा अपनी सारी इन्द्रियों और क्रियाओंको भगवान् वासुदेवके चरणों में ही समर्पण कर चुके थे । अतः पिताकी आज्ञा किसी प्रकार उल्लङ्घन करनेयोग्य न होनेपर भी यह सोचकर कि राज्याधिकार पाकर मेरा आत्मस्वरूप स्त्री-पुत्रादि असत् प्रपञ्चसे आच्छादित हो जायगा -राज्य और कुटुम्बकी चिन्ता में फँसकर मैं परमार्थ- तत्वको प्रायः भूल जाऊँगा, उन्होंने उसे स्वीकार न किया ॥ ६ ॥ * * आदिदेव स्वयम्भू भगवान् ब्रह्माजीको निरन्तर इस गुणमय प्रपनकी वृद्धिका ही विचार रहता है। वे सारे संसार के जीवोंका अभिप्राय जानते रहते हैं। जब उन्होंने प्रियव्रतकी ऐसी प्रवृत्ति देखी, तब वे मूर्तिमान् चारों वेद और मरीचि आदि पार्षदोंको साथ लिये अपने लोकसे उतरे ॥ ७ ॥ * आकाशमें जहाँ-तहाँ विमानोंपर चढ़े हुए इन्द्रादि प्रधान प्रधान देवताओंने उनका पूजन किया तथा मार्ग में टोलियाँ बाँधकर आये हुए सिद्ध, गन्धर्व, साध्य, चारण और मुनिजनने स्तवन किया। इस प्रकार जगह-जगह आदर-सम्मान पाते वे साक्षात् नक्षत्रनाथ चन्द्रमाके समान गन्धमादनकी घाटीको प्रकाशित करते हुए प्रियव्रतके पास पहुचे ॥ ८ ॥
-
- प्रियत्रतको आत्मविद्याका उपदेश देनेके लिये वहाँ नारदजी भी आये हुए थे। ब्रह्माजीके वहाँ पहुँचनेपर उनके वाहन हंसको देखकर देवर्षि नारद जान गये कि हमारे पिता भगवान् ब्रह्माजी पधारे हैं-अतः वे स्वायम्भुव मनु और प्रियत्रतके सहित तुरंत खड़े हो गये और सबने उनको हाथ जोड़कर प्रणाम किया ॥ ९ ॥ * * परीक्षित्! नारदजीने उनकी अनेक प्रकारसे पूजा और सुमधुर वचनोंसे उनके गुण और अवतारकी उत्कृष्टताका वर्णन किया । तब आदिपुरुष भगवान ब्रह्माजीने प्रियव्रतकी ओर मन्द मुसकानयुक्त दयादृष्टिसे देखते हुए इस प्रकार कहा ।। १० ।। काफी श्रीभगवानुवाच निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम् । वयं भवस्ते तत एष महर्षिर्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥ 02 10 १. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० – ४. एकं. ५अ. १ लो. ११-२०] अनेकत्र्याख्यासमलङ्कृतम् न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा । नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् ।। १२ ।। भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दुःखाय च देहयोगमव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३ ॥ यद्वाचि ‘तन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः । ** सर्वे वामो बलिमीश्वराय प्रोता नसीब द्विपदे चतुष्पदः ॥ १४ ॥ ॥ ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात् । आस्थाय तत्तद्यदयुक्त नाथचक्षुष्मतान्धा इव नीयमानाः ।। १५ ।। मुक्तोऽपि तावद्विभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्यः । यथानुभूतं प्रतियातनिद्रः किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥ भयं प्रमत्तस्य वनेष्वपि स्याद् यतः स आस्ते सहषट् सपत्नः । जितेन्द्रियस्यात्मर तेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७ ॥ यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । ‘अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित् ।। १८ ।। त्वं त्वब्जनाभाङ्घ्रिसरोजकोशदुर्गाश्रितो निर्जितषट् सपत्नः । भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्गः प्रकृतिं भजेख ।। १९ ।। श्रीशुक उवाच इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह || २० ॥ कृतम् विहंतुम् तपसा वा विद्यया न विभूयात् अंग जनता भवाय नाशाय च कर्म कर्तुम् अन्वयः—तात इदम् ऋतम् ब्रवीमि निबोध अप्रमेयम् देवम् असूयितुम् मा अर्हसि भवः ते ततः एषः महर्षिः वयम् सर्वे विवशाः यस्य दिष्टम् बहाम ॥ ११ ॥ * * कश्चित् तनुभृत् तस्य योगवीर्येण वा मनीषया न अर्थधर्मैः स्वतः वा परतः न एव ॥ १२ ॥ * * शोकाय मोहाय सदा भयाय सुखाय दुःखाय च अव्यक्तदिष्टम् देहयोगम् धत्ते ॥ १३ ॥ * * वत्स वयम् यद्वाचि तन्त्याम् सुदुस्तरैः गुणकर्मदामभिः सुयोजिताः सर्वे नसि प्रोताः चतुष्पदः द्विपदे इव ईश्वराय बलिम् वहामः ॥ १४ ॥ * हि अंग नाथः यत् अयुङ्क तत् तत् आस्थाय ईशाभिसृष्टम् गुणकर्मसंगात् सुखम् वा दुःखम् चक्षुष्मता नीयमानाः अंधा इव अव- रुध्महे ॥ १५ ॥ * * यथा अनुभूतम् प्रतियातनिद्रः अभिमानशून्यः आरब्धम् अश्नन् तावत् स्वदेहम् बिभृयात् किंतु अन्यदेहाय गुणान् न वृक्ते ॥ १६ ॥ * * प्रमत्तस्य वनेष्वपि भयम् स्यात् यतः सः सहषट्सपत्नः आस्ते जितेंद्रियस्य आत्मरतेः बुधस्य गृहाश्रमः नु किं अवद्यम् करोति ॥ १७ ॥ * * यः षट्सपत्नान् विजिगीषमाणः पूर्वम् गृहेषु निर्विश्य यतेत विपश्चित् दुर्गाश्रितः ऊर्जितारीन् अत्येति क्षीणेषु कामम् विचरेत् ॥ १८ ॥ * * त्वं तु अब्जनाभांघ्रिसरोजकोश- दुर्गाश्रितः निर्जितषट्सपत्नः इह पुरुषातिदिष्टान् भोगान् भुंक्ष्व विमुक्तसंग: प्रकृति भजस्व ।। १९ ।। * * इति समभिहितः महाभागवतः त्रिभुवनगुरोः भगवतः अनुशासनम् आत्मनः लघुतया अवनतशिरोधरः बाढं इति सबहुमानम् उवाह ॥ २० ॥ । १. प्रा० पा० २. ३. प्रा० पा० ४. १६ श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका v [ स्कं. ५ अ. १ ली. ११-२० प्रवृत्तिनिष्ठं मद्वाक्यं प्रतिकूलं मत्वा मय्यसूयां करिष्यतीति शंकमानो नाहमेवं वदामि किं तु मन्मुखेन हरिरेव त्वामाज्ञा- पयतीति वदन्प्रवृत्तिनिवृत्तिरहस्यमाह निबोधेति नवभिः । ऋतं सत्यम् अप्रमेयं देवमसूयितुं दोषारोपेण द्रष्टुं नार्हसि । ते तव ततस्तात एष एष त्वद्गुरु महर्षिः दिष्टमादिष्टमाज्ञां विवशा अस्वतंत्राः संतो वहामः ॥ ११ ॥ * * विवशत्वमेवाह चतुर्भिः नेति । तस्य कृतं तेन निर्मितं तनुभृज्जीवस्तपआदिभिर्विहतुमन्यथा कर्तुं न विभूयात्प्रभुर्न भवेत् । मनीषया सामादिबुद्धिबलेन । परतो बलवदाश्रयात् ।। १२ ।। * * तत्र देहयोगे तावत्पारतंत्र्यं मसिद्धमित्याह भवायेति । भवो जन्म । भवाद्यर्थमव्यक्तेने श्वरेण दिष्टं दत्तं देहयोगं जनता जीवसमूहः सदा धत्ते न त्वन्यथा कर्तुं शक्नोति । अंग हे प्रियव्रत ॥ १३ ॥ * कर्मकर- णेऽपि पारतंत्र्यमाह यद्वाचीति । यस्य वाचि वेदलक्षणायां तंत्यां दामन्यां गुणाः सत्त्वादयस्तत्पूर्वकाणि च यानि कर्माणि तन्निब- न्धनैर्दामभिर्ब्राह्मणादिशब्दैः सुदुस्तरैः सुदृढैर्हे वत्स वयं सर्वे सुयोजिता निबद्धाः संतस्तस्मै ईश्वराय बलिं वहामस्तदिच्छया कर्म कुर्मः नसि नासिकायां प्रोता बद्धाः सन्तश्चतुष्पदो बलीवर्दा यथा द्विपदे पुरुषाय ।। १४ ।। भोगेषु पारतंत्र्यमाह । ईशा ईश्वरेणाभिसृष्टं दत्तमेवांग हे प्रियव्रतावरुध्महे स्वीकुर्मः । यथा स्वामिना दत्तमेव कणिशादि बलीवर्दा भक्षयंति न स्वेच्छया तद्वत् । न चैवं वैषम्यमीश्वरस्य यतो गुणकर्मसंगान्नाथो यद्यद्देवतिर्यगादिलक्षणं देहमयुक्त योजितवांस्तत्तदास्थाय स्वीकृत्य यथांधाश्चक्षुष्मता छायामातपं वा नीयमानाः संतस्तत्रैव गच्छति तद्वत् ॥ १५ ॥ नन्वेतत्सर्वमविदुष एव न त्वात्मविद इत्याशंक्याह । मुक्तोऽपीति यावत्प्रारब्धं कर्म तावत् । यथा स्वप्नेऽनुभूतं प्रतियातनिद्रो गतनिद्रोऽभिमानशून्य एवानुस्मरति । तर्हि भोगवा पुनर्जन्म भवेत्तत्राह किंतु देहांतरारंभकान्गुणान्कर्माणि वासनाश्च न वृक्ते न संभजते ॥ १६ ॥ ननु गृहे वर्तमानस्य भोगान् भुंजानस्य कुतोऽभिमानाभावो मोक्षो वा अतस्तत्त्यागेन वनवास एवं युक्तस्तत्राह । भयं संसारः स्यादेव प्रमत्तस्याजितेंद्रियस्य वनेष्विति । संगभिया वनाद्वनांतरं गच्छतोऽपीत्यर्थः । सहैव षट् सपत्नाः शत्रवो मनोबुद्धींद्रियाणि च यस्य स तथाभूत एव वनेष्वपि यत आस्ते बुद्धत्वेन जितेंद्रियत्वादात्मर तेरात्मारामस्यावद्यं रागादिदोषं किं नु करोति न करोत्येव ।। १७ ॥ * * ननु गृहे वसतः पुरुषस्य रागादयः संभवति न तु वन इत्याशंक्याह य इति । यः षड्वैरिणः विजिगीषमाणः स पूर्व गृहेषु स्थित्वा तेषामत्यन्तं निरोधमकुर्वन् जेतुं यतेत । क्षीणेष्वरिषु कामं गृहेऽन्यत्र वा विचरेत् । यतो लोके ऊर्जितारीन्दुर्गाश्रितएवात्येति जयति पश्चाद्दुर्गे वाऽन्यत्र वा वर्तेत । युद्धचेतेति पाठे प्रहरेदित्यर्थः ।। १८ ।। इदं च गृहदुर्गाश्रयणं प्राकृतानाम् । त्वं त्वब्जनाभ- स्यांघ्रिसरोजकोश एवं दुर्गं तदाश्रितोऽत एव निर्जितपट्सपत्नश्च तथापि पुरुषेणेश्वरेणातिदिष्टान्तत्तान्भोगांस्तावद् भुंक्ष्व । पश्चाद्वि- मुक्तसंगः सन्प्रकृतिं स्वरूपं भजस्व । आत्मनिष्ठशे भवेत्यर्थः ॥ १९ ॥ ** आत्मनस्ततो लघुतयाऽल्पतया तच्छासनमंगीचकार । यद्वा आत्मनो यदनुशासनं तदलघुतया गौरवेण बाढं तथा करिष्यामीत्यवनतकंधरः सञ्जग्राह ।। २० ।। । । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः निबोध स्वबुद्ध्यैवेदं परामृशेत्यर्थः । हे तातेति । नाहं तव शत्रुर्यत्त्वां दुःखयामीति भावः । ऋतं सत्यमेव न तु त्वामहं प्रतारयामीति भावः । ब्रवीमीत्यहं ब्रह्मा न तु स्वपितेवाहमप्रमाणीकर्त्तव्य इति भावः । किं सत्यं तत्राह वयमिति । तातो मनुः स खलु यस्मै यस्मै हृदा यद्यदादिशति तथैव चेष्टते इति तदाज्ञयैव त्वामहं राज्ये प्रवर्त्तयामीति भावः । यमहं सर्वात्मना भजे स प्रभुरेव मां संसार सिंधौ निमज्जयतीति स्वेष्टदेवेपि दोषदर्शी मा भूरित्याह- मासूयितुमिति । अमेयं प्रमातुमशक्यं कमपि संसारेऽपि प्रवर्त्य उद्धरति । कमपि वनेऽपि प्रस्थाप्य नोद्धरतीति कस्तस्य चरितं वेदेति भावः ॥ ११ ॥ न चात्र स्वहठं रक्षितुमात्मनस्तपोविद्या- योगबलं प्रदर्शयितव्यमित्याह - ननु त्वद्वारा मां राज्ये प्रभुः प्रवर्त्तयति यथा तथा नारदद्वारा मां राज्यात्प्रव्राजयति चेति किमत्र निश्चिनोमीति चेद् बुद्धिबलेन मा परमेश्वरं विजिगीषस्वेत्याह-मनीषया वेति । तेनोत्तरमपि भगवदादिष्टं मत्वा राज्यं कुर्वन्नेव तत्रानासक्त्या प्रव्रज्यामपि कुर्विति भावः । न च यथेष्टव्यदानतः स्वप्रतिमूर्त्तिकल्पनेन राज्यं चिकीर्षस्व नापि मां विपदं बहुधर्मेर्बल- वदाश्रयेण वा स्वबाहुबलेन वोत्तितीर्षेत्याह- नैवार्थेति ॥ १२ ॥ * * तत्र संसारे । अंगेति स्नेहाधिक्यद्योतनाय । नात्र किमपि शोचनीयं यतो देहधारिण ईश्वराधीना भद्रमभद्रं वा स्वेच्छया परेच्छया वा सर्व सहत एवेत्याह-भवायेति । भवनाशौ पुनःपुनर्जन्म- मृत्यू तदाद्यर्थं धत्ते स्वकर्मोपार्जितमपि देहमीश्वराज्ञां विना न प्राप्नोति यथा साध्वसाधुक्रियाद्युपार्जितमपि शालिक्षेत्र कारागारादिक नृपाज्ञां विना प्रजा न प्राप्नोति, नृपः खल्वन्यथापि कुर्यादित्यतो हेतोः ।। १३ ।। * देहधारणे पारतंत्र्यमिव कर्मकरणेपि पारतंत्र्यमाह तन्निबंधनैः कर्महेतुकैः ते बलीवर्दा यथा मनुष्यदत्तस्य भारस्यावहने गमनागमनक्रियादिषु स्वातंत्र्ये च दंडं प्राप्नुवंति तथा वयमपीति भावः । हे वत्सेति । यद्यस्माभिर्बलीवर्दायमानैस्तदायत्तत्वमंगीकृतं तदा यं त्वं वत्सायमानो नांगीकरिष्यसीति भावः ॥ १४ ॥ गुणेति । तमआदिगुणनिबंधनानि यानि कर्माणि तेषु संगादासक्तत्वात् । यथा स्वीयत्वात्समेष्वपि बलीवर्देषु मध्ये साध्वसाधुकर्मकरणतारतम्यानुरूपमेव केभ्यश्चिदुत्तमगृहाभ्यंतरस्थापितेभ्यः सघृतदुग्धौदनादिकं तत्स्वामी दत्ते केभ्यश्चन रूक्ष- बंधिचणकमाषादिकं केभ्यश्चन कणिशघासादिकं केभ्यश्चन नीहारातपपंकादिमति बहिःस्थले स्थापितेभ्यः साक्रोशदंडप्रहारं विरसं एकं. ५ अ. १लो. ११-२०] अनेकव्याख्यासमलङ्कृतम् दलपलालादिकमिति किं कृत्वोपरुध्महे नाथः स्वामी यद्यदयुंक्त भद्रमभद्रं वा फलं ददौ तत्तदास्थाय अस्मद्वैगुण्यसाद्गुण्यानुरूपमेव ददाति स्वामिनः को दोष इति मनसि विश्वस्येत्यर्थः । प्रत्युत परमेश्वरस्यात्र गुण एव द्रष्टव्य इति दृष्टांतेनाह-चक्षुष्मतेति । शीतलमा- तपतप्तं वा वर्त्म नीयमानास्तंत्र कदाचिच्छीतले वर्त्मनि कंटककूर्पादिकं दृष्ट्वा यदा तप्तं वर्त्म नीयन्ते तेन किमधैश्चक्षुष्मानु- पालभ्यतेऽपि तु हितकृदयमिति विश्वस्य प्रशस्यत एवेति भावः ॥ १५ ॥ अत्राक्षिपति-नन्विति । अविदुषः सकर्मणः एव न तु कर्मप्रथित उत्तीर्णस्यात्मज्ञानिनः। पुनराक्षिपति तहींति ॥ १६ ॥ * * पुनराक्षिपति नन्विति-अतः मोक्षाभावात् । इत्यर्थ इति । न ह्यजितेंद्रियस्य वनवासादिना मोक्षं सेत्स्यति मृगादीनां मोक्षापत्तेरिति भावः । तथाभूत एव पडिंद्रियशत्रुसहित एव । जितेंद्रियस्य तत्राप्यात्मारामस्य तत्रापि बुधस्य वनगृहयोस्तारतभ्याभावं बुध्यमानस्य ॥ १७ ॥ * * पुनराक्षिपति - नन्विति । अजितेंद्रियो जितेंद्रिय इंद्रियजयेप्सुरित्यत्र लोके त्रिविधो जनस्तत्राद्ययोर्गृहाश्रमो न दोष इत्युक्तम् । अंत्यस्य तु प्रत्युत गुण एवेत्याइ यो विजिगीषमाणः विजेतुमिच्छति । इत्यर्थ इति । युधधातोः संप्रहारार्थत्वादिति भावः ॥ १८ ॥ * त्वं तु त्रिषु मध्ये न कोपीत्याह - त्वमिति । तुर्भिन्नोपक्रमे । अब्जनाभेति । न त्वन्यप्राकृत- बद् गृहदुर्गाश्रितः न चान्यवब्जितेंद्रियश्च यतो निर्जितेति जितषट्सपत्नेभ्यो निर्गतः तब षडिद्रियाणि भगवत्सौंदर्येष्वा- सक्तानि परममित्राण्येव न तु शत्रवः | अतः पुरुषेण स्वप्रभुणैवातिशयेन दिष्टान्दत्तान् भोगानिति कर्मजन्यानामेव भोगानां बंधकत्वं न त्वीश्वरदत्तानामिति भावः । इत्यर्थ इति । राज्यभारं स्वपुत्रे न्यस्य वने तिष्ठेतीयमेव प्रकृतिः सर्वराजन्यानामिति भावः ।। १९ ।। * * अल्पतया तत्पौत्रत्वादित्यर्थः । स्वस्य लघुता तु प्रसिर्द्धब न केवलं तदभिप्रायेणैव तदंगीचकार किं तु भगवता ‘पश्चात्प्रकृतिं भजस्व’ इति यदुक्तं तदभिप्रायेणैव तदुररीचकारेत्याह-यद्वेति ।। २० ।। श्रीमद्वीरराघवव्याख्या उक्तमेवाह निबोधेति नवभिः । भगवच्छासनमेवाहमुपदेक्ष्याम्यतो मदुपदेशरूपं भगवच्छासनमुल्लङ्घ्य त्वया भगवान्नासूयितव्य इत्याह निबोधेति । हे तात ! प्रियव्रत ! इदमृतं तथ्यं वचः कथयामि तन्निबोधावधानेन शृणु, अप्रमेयं प्राकृतकरणजन्यप्रमित्यविषयमतीन्द्रियमित्यर्थः । अपरिच्छिन्नमिति वा, देवं दीव्यमानं निरस्तसमस्तदोषं भगवन्तमसूयितुं दोषबुद्धया ग्रहीतुं नार्हसि कोऽसावप्रमेयस्तत्राह । यस्य भगवतो दिष्टमादिष्टं शासनं विवशास्तदधीनाः सन्तो भगवान् ते तव ततस्तातः पिता मनुरेष महर्षिर्नारदः वयं मत्प्रभृतयो मरीच्यादय इत्येते सर्वे वद्दाम कुर्म इत्यर्थः । वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः निरस्तनिखिलदोषो भगवान्सर्वस्य वशी सर्वस्येशानः त्वयास्माभिश्च सर्वैरनुल्लङ्घयः ॥ ११ ॥
तथा च श्रूयते “एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्यादिकेति भावः । एतदेव उपपादयति नेति । कश्चित्तनुभृद्देहभृत्तनुशब्दः करणानामप्युपलक्षणं यद्दत्तकरणकलेवरभृज्जीवः तस्य भगवतः कृतं भावे क्तः कृतिं प्रशासनात्मिकां कर्मणि वा क्तः तस्येति कर्त्तरि षष्ठी कृतं शासनमित्यर्थः । तपआदिभिरुपायैर्विहन्तुमन्यथा कर्त्तुं न विभूयान्न समर्थो भवेत् तपसाऽनशनादिना विद्यया शास्त्रीयज्ञानेन योगवीर्येणाणिमादियोगबलेन मनीषया विचारक्षमया बुद्ध्यार्थैर्द्धनैधर्मैर्यज्ञादिभिः परतः बलवदाश्रयणेन स्वतः तपआदिव्यतिरिक्तेन केनचित्सम्भावनीयेन स्वीयेनोपायेन वा ॥ १२ ॥
तनुभृदित्यनेन जीवस्य भगवत्संकल्पायत्तं देहभृत्त्वमुक्तं तदेव विवृण्वंस्तद्दत्तैतल्लील्लोपकरणैस्तन्वादिभिस्तच्छासनानुवर्तित्वमेव स्वरूपानुगुणमन्यथा दण्ड एव स्यादिति सद्दष्टान्तमाह भवायेति द्वाभ्याम् । अङ्ग हे प्रियव्रत ! जनता जनसमूहः अव्यक्तदिष्टं प्राकृतैश्चक्षुरादिभिर्नं व्यज्यते इत्यव्यक्तो भगवान् तेन दिष्टमादिष्टं तत्संकल्पायत्तमित्यर्थः । देहसम्बन्धं धत्ते । किमर्थमसावीश्वरो देहयोगमादिशति तत्राह भवायेति । भवाद्यर्थं कर्म कर्तुमुत्तरोत्तरं जन्मनाशादेर्निमित्तं कर्म कर्तुं प्राक्तनकर्मानुसारेण देहयोगमादिशतीत्यर्थः । यद्वा भवाद्यर्थं कर्म च कर्तुमव्यक्तदिष्टं देहयोगं धत्ते तत्र भवो जन्म नाशो मरणं शोकः प्रियार्थविच्छित्तिनिमित्तं दुःखं मोहो देहात्मभ्रमस्वतन्त्रात्मभ्रमादिरूपः भयमागामिदुःखदर्शनजं ज्ञानं सुखदुःखे इष्टानिष्टविषयके अनुकूलप्रतिकूलात्मके प्राचीनकर्मानुसारेण भवाद्यर्थमुत्तरभवादेर्निमित्तं कर्म च कर्तुमव्यक्तदिष्टमित्यर्थः । सदा अभयायेति च छेदः मुक्तये इत्यर्थः । स्वसाशनानुवर्त्तिनामनुग्रहार्थं तदतिवर्त्तिनां निग्रहार्थं च सत्त्वादिप्रचुरदेहयोगमादिशतीति भावः ॥ १३ ॥
हे वत्स ! यस्य भगवतो वाचि वेदादिकायां तन्त्यां दामन्यां रज्जौ गुणकर्मदामभिः गुणाः सत्त्वादयः कर्माणि सात्त्विकादिभेदेन भिन्नानि स्वस्ववर्णाश्रमोचितानि कर्माणि तान्येव दामानि नामभिरिति पाठे वर्णाश्रमनामानि एव निगडबन्धनग्रन्थियुतरज्जवः तैर्दृढतरैः सर्वे वयं सुयोजिता निबद्धाः सन्तः तस्मै ईश्वराय भगवते बलिं पूजां वहामः कुर्मः । यथा नसि नासिकायां छिन्नायां प्रोता बद्धरज्जवश्चतुष्पदो बलीवर्द्दाद्विपदे मनुष्याय कुर्वन्ति तद्वत् ॥ १४ ॥
किंच न वयमिष्टानिष्टप्राप्तिपरिहारसाधकावबोधनतदुपसंहारसमर्था इत्याह । ईशावसृष्टमिति । अङ्ग ! हे प्रियव्रत नाथ ईश्वरो यद्यदयुङ्क्त योजितवान् तत्तद्वर्णो ! श्रमादिकं जात्यादिकं चास्थाय स्थिता वयं तत्तदीश्वरादिष्ट देवतिर्यगादिशरीरमास्थाय स्थिता वयमिति वा गुणकर्मणां सात्त्विकादिभिन्नानां कर्मणां संगात्संबन्धान्निमित्तात्तत्तत्कर्मानुरूपमित्यर्थः, अनेनेश्वरस्य वैषम्याभाव उक्तः, ईशेन भगवताभिसृष्टं दत्तं सुखं दुःखं चाऽवरुन्ध्महे प्राप्नुमः । ईश्वरस्य हिताहितज्ञत्वे अन्येषामनभिज्ञत्वे चक्षुष्मतेति च दृष्टान्तमाह यथा चक्षुष्मताऽविप्लुतचक्षुरिन्द्रियेण पुरुषेण छायामातपं वा नीयमानाः प्राप्यमाणाः अन्धाः प्राप्नुवन्ति तद्वत् । अतोऽस्माभिरीश्वरादिष्टैः प्रवृत्तिधर्म एवानुरोद्धव्य इति भावः ॥ १५ ॥
ननु देहात्माभिमानिनः संसारिणो जीवस्य प्रवृत्तिधर्मानुवृत्तिर्युक्ता, अहं त्वधिकृतात्मविद्यो मुमुक्षुः कथं प्रवृत्तिधर्ममनुरुणध्मि बन्धकत्वादित्याशङ्कायां तावन्मुमुक्षोरप्यामुक्तेर्देहधारणमावश्यकं तदनुबन्धितया प्राप्तेषु केषुचित्प्रवृत्तोऽपि न बध्यत इत्याह मुक्तोऽपीति । प्रतियातनिद्रः निवृत्ताज्ञानः पुमान् यथानुभूतमनुभूतवज्ज्ञानोदयात् पूर्वमनुभूतकर्मवदज्ञानदशायां कर्मानुभवादिति यावत् ज्ञानोदयानन्तरमप्यारब्धं सुखदुःखादिफलप्रदानाय प्रवृत्तं पुण्यापुण्यरूपं कर्माश्नन्ननुभवन्नपि तत्राभिमानशून्यः सुखदुःखाद्यनुभवप्रयुक्तदेहगतस्थूलकार्श्याद्यभिमानमात्मन्यकुर्वाणः यावन्मुक्तो भवेत्तावत्स्वदेहं बिभृयादेव देहात्माभिमानरहितः आरब्धमश्नन्नपि यावन्मुक्तस्तावत्स्वदेहं बिभृयादिति वान्वयः । प्रारब्धस्य कर्मणोऽधिगतात्मविद्येनाप्यनुभाव्यत्वात्प्रारब्धायत्तत्वाच्छरीरस्य तद्धारणमवर्जनीयमित्यर्थः । तर्ह्यज्ञाज्ज्ञानिनः को विशेषस्तत्राह किंत्विति । अयं प्रतियातनिद्रः अन्यदेहाय देहान्तरारम्भाय निमित्तभूतानि सत्त्वादिगुणप्रयुक्तकर्माणि न वृङ्क्ते न भजति । प्रारब्धानुभवो देहधारणं चेत्युभयं तुल्यं पुनर्देहान्तरनिमित्तबन्धककर्माकरणं तु ज्ञानिनो विशेष इति भावः ॥ १६ ॥
अस्तु मुमुक्षोरपि देहधारणं प्रारब्धानुभवश्चेति वन्यैरपि देहधारणसम्भवाद्वन एवाहं वत्स्यामि गृहाश्रमस्य संसृतिहेतुत्वात्तत्राह भयमिति । प्रमादाप्रमादावेव हि भयाभयहेतू । अतः प्रमत्तस्य स्वपरयाथात्म्यविस्मरणेन देहेन्द्रियपारवश्यस्य वनेष्वपि अपि- शब्दाद्गृहेषु च वसतो भयं संसारः स्यादेव । ननु वने वसतो देहानुबन्धिनां कलत्रादीनां प्रसह्य प्रवर्त्तयतां ज्ञाननिष्ठाविरोधिनामभावात्सा प्रतिष्ठिता स्याद्गृहे तु विपरीतेत्यत्राह । यतः यस्मात्सः वनवासी सह षट्सपत्नः सहैव षट्सपत्नाः शत्रवो मनःसहितानि ज्ञानेन्द्रियाणि यस्य तथाभूत एव वने आस्ते “वोपसर्जनस्यः” इति वाग्रहणात्सहस्य सभावाभावः । “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” इति समनस्केन्द्रियवर्गस्य विषयप्रवणस्य ज्ञाननिष्ठाविरोधित्वाद्वनाश्रमिणोऽपीन्द्रियवर्गस्य सहैव विद्यमानत्वाद्भयं स्यादेव । अत इन्द्रियवर्ग एव नियन्तव्यः यद्येवं तर्हि किमपराद्धं ग्रहाश्रमेणेत्याह । जितेन्द्रियस्यात्मरतेः प्रकृतिविविक्तात्मानुभवशीलस्य बुधस्य ब्रह्मनिष्ठस्य पुंसः गृहाश्रमः किन्ववद्यं दोषं न करोति न कमपि दोष करोतीत्यर्थः ॥ १७ ॥
ननु यदीन्द्रियपारवश्यरूपप्रमाद एव भयहेतुस्तर्हि इन्द्रियाणि ज्ञाननिष्ठाविरोधीनि वन एव वसन् जेष्यामीत्यत्राह य इति । सपत्नान् ज्ञाननिष्ठाविरोधित्वेन शत्रुतुल्यानि षडिन्द्रियाणि यो विजिगीषमाणः विजेतुमिच्छन्सः पूर्वं प्रथमं गृहेषु निर्विश्य गृहाश्रम एव स्थित्वा यतेत इन्द्रियजयार्थं यतेत । तथा हि लोके यः कञ्चन शत्रून्विजिगीषमाणः विजेतुमिच्छन्प्रथमं दुर्गमाश्रित ऊर्जितान् बलिष्ठान् शत्रूनत्येति जयति ततः क्षीणेषु शत्रुषु बलहीनेषु सत्सु कामं यथेष्टं दुर्गेऽन्यत्र वा विचरेदेवं विपश्चिदपीत्यर्थः ॥ १८ ॥
सत्यं प्रथमं दुर्गाश्रित एवारीनत्येति अहमपि भगवच्चरणारविन्दरूपं दुर्गमाश्रितः शत्रून् जेष्यामि न त्वतिहेयान् गृहानित्यत्राह त्वं त्विति । यद्यपि त्वमब्जनाभस्य भगवतश्चरणकमलकोशदुर्गाश्रितः यथा कमलकोशान्तर्गतभ्रमरं बाह्यातपवर्षादयो न बाधन्ते तद्वद्भगवञ्चरणारविन्दसमावेशितमनस्कमिन्द्रियाणि न बाधन्त इति ज्ञापनाय कोशशब्दः प्रयुक्तः । निर्जितः ज्ञानयोगविरोधिवहिरिन्द्रयवर्गो येन तथापि पुरुषेण परमपुरुषेणादिष्टान् भोगान् इह लोके भुक्त्वा ततो विमुक्तसङ्गः भगवद्भक्त्या प्रकृतिं स्वभावमाविर्भूतापहतपाप्मत्वादिगुणाष्टकस्वभावं भजस्वेति यावत् ॥ १९ ॥
इतीत्थं ब्रह्मणा सम्यगभिहितः उक्तः महाभागवतः त्रिभुवनहितोपदेष्टुर्भगवतश्चतुर्मुखस्यानुशासनमात्मनः स्वस्य लघुतया हेतुना भोगाननुभवत एव पुनर्मुक्त्युपायप्रदर्शनात्मकत्वात्तच्छासनस्य सुकरत्वं यद्वा आत्मनो यदनुशासनं तदलघुतया गौरवेण बाढं करिष्यामीत्यवनतकन्धरः सन् सः प्रियव्रतः बहुमानं यथा भवति तथा उवाह जग्राहानुष्ठितवानिति यावत् ॥ २० ॥
॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ऋतं शास्त्रविहितं किं तत्तदाह मासुयितुमिति । देवेन श्रीहरिणा स्वधर्मो दुष्टदमनं धर्मज्ञानानुपालनमित्यादि खोक्ति- लक्षणाज्ञा राज्ञां विहिता । तदाज्ञामुल्लङ्घय निवृत्तिमार्गाङ्गीकारे तद्वक्त्तरि हरौ दोषाविष्कारलक्षणासूयारोपेण तव महादोषित्वेनाधः पातो दुष्परिहरः स्यादिति देवमसूयितुं माईसीत्यन्वयः । स्वामेयत्ववत्तद्वाक्याभिप्रायस्याप्यमेयत्वं सूचितममेयमिति, तेन तद्वाक्या- भिप्रायापरिज्ञानेन भ्रान्तवद्वर्तसे इत्यर्थोऽपि लभ्यते । इयमपि क्रीडैव न तु प्राप्तव्य प्रयोजनार्थितयेति सूचनाय देवमिति । ते तब ततस्तातो मनुः वेर्विष्णोर्वशः “विः पक्षिपरमात्मनोः” इति यादवः । दिष्टमाज्ञाम् ॥ ११ ॥ * * ननु तपआदिसामर्थ्यो- पेतैस्तदाज्ञोल्लङ्घनं सुशकं स्यादवाह न तस्येति । तस्य हरेराज्ञालक्षणं कृतं शास्त्रात्मना विहितं स्वधर्म विहन्तुं उल्लङ्घय स्वविहितं कर्तुं न विभूयात् समर्थो न भवेदित्यन्वयः । परतः सहायैः स्वतः सहायमन्तरेण ॥ १२ ॥ ॐ विवशा इत्युक्तं स्पष्टमाह भवायेति । अङ्गेयं जनता भवाद्यर्थमव्यक्तेन हरिणा हरिप्रेरितजडप्रकृत्या वा दिष्टं दत्तं स्वकर्मफलभोगाय कल्पितं निर्मित वा देहयोगं धत्ते पुष्णाति कर्मभिरिति शेषः । “भवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मसु” इति यादवः ॥ १३ ॥ * * हरेराज्ञालङ्घने विध्यतिक्रमदोषेण प्रत्यवायोऽपि स्यादित्याशयेनाह यद्वाचीति । यस्य हरेर्वाचि वेदाख्यायां तन्त्यां गोवृषबन्धनदीर्घरज्ज्वां तत्त- द्योग्यगुणैर्ब्राह्मणादियोग्यकर्मभिर्ब्राह्मणक्षत्रियादिनामभिश्च गुणकर्मनिमित्तनामभिर्वा स्वदामभिह स्वपाशैः सुष्ठु योजिता बद्धाः ॥स्क. ५ अ. १ श्लो. ११-२० अनेकव्याख्या समलङ्कृतम् यथा वयमीश्वराय बलिं वहाम ब्रह्मापर्णत्वेन तत्तद्वेदवाक्यविहितं कर्म कुर्म इत्यर्थः । कथमिव नसि नासिकायां प्रोताश्चतुष्पदो गावो द्विपदे मनुष्याख्यस्वामिने गोण्यादिकं वहन्ति यथा तथेति पारतन्त्र्यमात्रे दृष्टान्तोऽयं न तु बुद्धिपूर्वकर्तृत्वे ॥ १४ ॥ कारणमीश्वराधीनं तथा फलं च तदधीनमित्याह ईशेति । ईशावसृष्टं श्रीहरिणा दत्तं यच्छरीरमयुङ्क्त अचीक्लपत् तत्तच्छरीर- मास्थायावरुन्ध्महे अङ्गीकृत्य भुंक्ष्महे कथमिव चक्षुष्मता नीयमाना अन्धा इव चक्षुष्मद्दर्शितमार्गमभ्युपेत्य तद्दत्तमेव भुब्जते यथा तथेति ।। १५ ।। * * उत्पन्नज्ञानस्यापि चरमदेहिनो देहपातपर्यन्तं स्वविहितकर्म कर्तव्यमित्याह मुक्तोऽपीति । यथोपयातं दैवतः प्राप्तं तदपि प्रारब्धं फलदानायोपक्रान्तं कर्मफलमश्नन्नभिमानशून्यो देहाभिमानरहितः प्रतियातनिद्रः निवृत्ताज्ञानान्यथाज्ञानो जीवन्मुक्तोऽपि यावत्प्रारब्धकर्मनाशः तावत्स्वदेहं विभृयात् । तत्र विहितं राज्यादिपालनकर्म च कर्तव्यमित्यर्थः । तर्हि विद्वदविदुषोः विशेष इति तत्राह किन्त्विति । ज्ञान्यज्ञानिवदन्यदेहाय शरीरान्तरारम्भकान् रागादिलक्षणान्न वृङ्क्ते न स्वीकरोति । तादृशकर्माणि न करोतीत्यर्थः ॥ १६ ॥ * * ननु कर्दमाक्रान्तस्य कर्दमलेपवत् गृहाश्रमरतस्य तन्निमित्तभवभयमापद्यत एवातो वनाश्रम एव श्रेयानिति तत्राह भयमिति । प्रमत्तस्य विस्मृतस्वकार्यस्य वनेषु निर्जनप्रदेशेषु स्थितस्यापि पापाद्भयं स्यात् कुत इति तत्राह यत इति । षट् सपत्नाः षडिन्द्रियाख्याः शत्रवः सह वसन्त इति यतोऽत इति शेषः । तर्हि कथंकारं भवभयाभावः स्यादिति तत्राह जितेन्द्रियस्येति । अवद्यं दोषं बुधस्य कर्तव्यं जानतः वशीकृतेन्द्रियग्रामस्येन्द्रियजयः कथं ज्ञायत इति तत्राह आत्मेति । आत्मनि हरौ रतिरुपासना लक्षणा यस्य स तथा तस्य ॥ १७ ॥ तहींन्द्रियजयोपायः कथमत्राह य इति । इन्द्रियाख्यषट्शत्रून जेतुकामो यः सः पूर्व गृहस्थाश्रमेषु स्थित्वा तदुपभोगेन निर्विद्यालम्बुद्धि प्राप्य यतेत यतनप्रकारं वक्ति युध्येतेति । भगवन्निष्ठालक्षणदुर्गाश्रितः ऊर्जितारीन्विषयभोगेषु सन्नद्धेन्द्रियांख्यशत्रून युध्येत विषयगमनं निरुध्यात्माधीनान्कुर्यात् । पुनः क्षीणेषूपरतविषयप्रचारेष्विन्द्रियेषु सत्सु विपश्चित्कामं निर्भयो विचरेदित्यन्वयः । विपश्विदित्यनेन ‘न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवमेव भूय एवाभिवर्धते ।।’ इत्येतन्निरस्तम् ॥ १८ ॥ * * बालापैरलं किमधुना कर्तव्यमत्राह त्वमिति । तुना प्रियव्रतस्यान्यस्माद्विशेषं सूचयति तमेवाह अब्जनाभेति । पुरुषातिसृष्टान् श्रीनारायणप्रसादोपनतान् विमुक्तसङ्गः पुत्रादिस्नेहलक्षणसङ्गरहितः सत्त्वं प्रकृतिं सच्चिदानन्दलक्षणस्वभावं संन्यासा- श्रमेण मोक्षो नान्याश्रमेणेत्ययं बुद्धिव्यामोह एव “विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना । तेन मुक्तिर्भवेत्तस्य तं गुरुर्वेद । सर्ववित्” इति स्मृतेस्तव विहितेन प्रजापालनलक्षणधर्मेण स्वयोग्यमुक्तिरिति विदित्वा तत्र विमुखं त्वामुद्बोध्य तत्कर- णायायासिषमित्यतस्तत्कुर्वित्येतद्वा तुनाह ॥ १९ ॥ * * अथ प्रियव्रतस्य शिष्टजनशिक्षणाय विरश्वस्याज्ञाग्रहणप्रकारमाह इतीति । विरवादात्मनः स्वस्य लघुतया मितमहिमत्वाद्वनतशिरोधरः प्रणतकण्ठः ।। २० ।। མ་་༣་་ མག་ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी १२ प्रयस इति शेषः । प्रवृत्तिनिष्ठं मद्वाक्यं स्वासह्यं मत्वा मय्यसूयां मा कृथाः भोः प्रियव्रत ! अहन्तु त्वत्प्रभोरेवाधीनस्तस्यैवाभिप्रेतं वच्मी- त्याह । निबोध स्वबुद्धयैवेदं परामृशेत्यर्थः । हे तातेति नाहं तव शत्रुर्यत्त्वां दुःखयामीति भावः । ऋतं सत्यमेव न तु त्वामहं प्रतारयामीति भावः । ब्रवीमीत्यहं ब्रह्मा न तु स्वपितेवाहमप्यप्रमाणीकर्त्तव्य इति भावः । किं सत्यं तत्राह वयमिति । भवो रुद्रोऽपि ते तव ततस्तातो मनुर्महर्षिर्नारदोऽयं तव गुरुरित्येते वयं यस्य दिष्टमाज्ञामेव वहामः । स खलु यस्मै यस्मै हृदा यद्यदादि- शति तथैव चेष्टते इति तदाज्ञयैव त्वामहं राज्ये प्रवर्त्तयामीति भावः । यमहं सव्र्व्वात्मना भजे स प्रभुरेव मां संसारसिन्धौ निमज्जयतीति स्वेष्टदेवेऽपि दोषदर्शी मा भूरित्याह मासूयितुमिति । अप्रमेयं प्रमातुमशक्यं कमपि संसारेऽपि प्रवर्त्य शीघ्र- मुद्धरति कमपि वनेऽपि प्रस्थाप्य नोद्धरतीति कस्तस्य चरितं वेदेति भावः ।। ११ ।। * * न चात्र स्वहठं रक्षितुमात्मन- स्तपोविद्यायोगबलं प्रदर्शयितव्यमित्याह नेति । तस्य कृतं तेन निर्मितं तपआदिभिर्विहन्तुमन्यथा कर्तुं तनुभृज्जीवो न विभूयात् न प्रभवेत् । ननु त्वद्द्द्वारा मां राज्ये प्रभुः प्रवर्त्तयति यथा तथा महर्षिद्वारा मां राज्यात् प्रव्राजयति चेति किमत्र निश्चिनोमीति चेत् बुद्धिबलेन मां परमेश्वरं विजिगीषस्वेत्याह मनीषया वेति । तेनोभयमपि भगवदादिष्टं मत्वा राज्यं कुर्वन्नेव तत्रा- नासक्त्या प्रव्रज्यामपि कुव्विति भावः । न च यथेष्टद्रव्यदानतः स्वप्रतिमूर्त्तिकल्पनेन राज्यं चिकीर्षस्व नापीमां विपदं बहुधम्मै- बलवदाश्रयेण वा स्वबाहुबलेन वोत्तितीर्षेत्याह नैवात्मेत्यादि ।। १२ ।। * नात्र किमपि शोचनीयं यतो देहधारिण ईश्वरा- घीना भद्रमभद्रं वा स्वेच्छया परेच्छया वा सव्वं सहन्त एवेत्याह भवायेति । भवनाशौ पुनःपुनर्जन्ममृत्यू तदाद्यर्थं जनता जीवसमूहः अव्यक्तेनेश्वरेण दिष्टं दत्तं देहयोगं सदा धत्ते स्वकम्र्म्मोपार्जितमपि देहमीश्वराज्ञां विना न प्राप्नोति यथा साध्वसाधु- क्रियाद्युपार्जितमपि शालिक्षेत्रकारागारादिकं नृपाज्ञां विना प्रजा न प्राप्नोति नृपः खल्वन्यथापि कुर्य्यादित्यतो हेतोः ॥ १३ ॥ * * देहधारणे पारतन्त्र्यमिव कर्मकरणेऽपि पारतन्त्र्यमाह । यस्य वाचि वेदलक्षणायां तन्त्र्यां दामन्यां गुणाः सत्त्वादय- स्तदुचितानि कर्माणि तन्निबन्धनैर्नामभिर्ब्राह्मणादिशब्देः सुदुस्तरैः सुदृढैः हे वत्स ! वयं सर्व्वे सुयोजिताः निबद्धाः तस्मै ईश्वराय बलि हाम तदादिष्टं कर्म कुर्म्मः । अत्र दृष्टान्तः नसि नासिकायां प्रोता बद्धाः सन्तः चतुष्पदो बलीवर्दा द्विपदे मनुष्याय । ते श्रीमद्भागवतम् [ एक. ५ . १लो. ११-२० * यथा मनुष्यदत्तस्य भारस्यावहने गमनागमनक्रियादिषु स्वातन्त्र्ये च दण्डं प्राप्नुवन्ति तथा वयमपीति भावः ॥ १४ ॥ * * कर्मफलभोगेऽपि पारतन्त्र्यमाह । ईशा ईश्वरेण अभिसृष्टं दत्तमेव अङ्ग प्रियव्रत ! अवरुन्ध्महे प्राप्नुमः दुःखं सुखं वेति न चात्र वैषम्यमीश्वरस्येत्याह गुणेति । तमआदिगुणनिबन्धनानि यानि कर्माणि तेषु सङ्गादासक्कत्वात् यथा स्वीयत्वात् समेष्वपि बली- वहेषु मध्ये साध्वसाधुकर्मकरणतारतम्यानुरूपमेव केभ्यश्चिदुत्तमगृहाभ्यन्तरे स्थापितेभ्यः सघृतदुग्धौदनादिकं तत्स्वामी दत्ते केभ्यश्चन रूक्षबन्धिचणकमाषादिकं केभ्यश्चन कणिशघासादिक केभ्यश्चन नीहारातपपङ्कादिमति बहिःस्थले स्थापितेभ्यः * साक्रोशदण्डप्रहारं विरसं दलपलालादिकमिति किं कृत्वा अवरुन्ध्महे । नाथः स्वामी यद्यदयुक्त अभद्रं भद्रं वा फलं ददौ तत्त दास्थाय अस्मद्वैगुण्यसाद्गुण्यानुरूपमेव ददाति स्वामिनः को दोष इति मनसि विश्वस्येत्यर्थः । प्रत्युत परमेश्वरस्यात्र गुण एव द्रष्टव्य इति दृष्टान्तेनाह चक्षुष्मतेति । शीतलमातपतप्तं वा वर्त्म नीयमानास्तत्र कदाचित् शीतले वर्त्मनि कण्टककूर्पादिकं दृष्ट्वा यदा तप्तं वर्त्म नीयन्ते तेन किमन्धैश्चक्षुष्मानुपालभ्यते अपि तु हितकृदयमिति विश्वस्य प्रशस्यत एवेति भावः ॥ १५ ॥ नन्वेतत् सर्व्वमविदुषः कर्मिण एव न तु कर्म्मग्रन्थित उत्तीर्णस्यात्मज्ञानिन इत्याशङ्कयाह मुक्तोऽपीति । यावत्प्रारब्धं कर्म तावत् यथा स्वप्नेऽनुभूतं प्रतियातनिद्रो गतनिद्रोऽभिमानशून्य एवानुस्मरति तर्हि भोगवासनया पुनर्जन्म स्यात्तत्राह किन्तु अन्यदेहाय देहान्तरं प्राप्तुं गुणान् कर्माणि वासनाय न वृङ्के न संभजते ॥ १६ ॥ ननु तदपीश्वराधीनत्वेऽपि मम सांप्रतिकाद्वनवासात् भाविनी गृहे स्थितिरपकारं करिष्यत्येवेत्याशङ्कयाह । भयं संसारः सहषट्सपत्नः षडिन्द्रियशत्रुसहितः * जितेन्द्रियस्य तत्राप्यात्मरतेरात्मारामस्य तत्रापि बुधस्य वनगृहयोस्तारतम्याभावं बुद्धयमानस्य किमवद्यं रागादिदोषम् ।। १७ ।। * * अजितेन्द्रियो जितेन्द्रियः इन्द्रियजयेच्छुरित्यत्र लोके त्रिविधो जनस्तत्राद्ययोगृहाश्रमो न दोष इत्युक्तम् । अन्त्यस्य तु प्रत्युत गुण एवेत्याह । यो विजिगीषमाणः विजेतुमिच्छति स पूर्वं गृहेषु स्थित्वा तेषामत्यन्तनिरोधमकुर्वन् जेतुं यतेत । यतो लोक ऊर्जितान् बलिष्ठानरीन् दुर्गाश्रित एवात्येति जयति ततश्च क्षीणेष्वरिषु कामं गृहेष्वन्यत्र वा विचरेत् । युध्येतेति पाठे प्रहरेदित्यर्थः ॥ १८ ॥ * स्वन्तु तेषु ।
- त्वन्तु तेषु त्रिषु मध्ये न कोऽपीत्याह त्वमिति । तुर्भिन्नोपक्रमे, अन्जनाभेति नत्वन्यप्राकृतवद् गृहदुर्गाश्रितः न चान्यवज्जितेन्द्रियश्च यतो निर्जितेति जितषट् सपत्नेभ्यो निर्गतः तव षडिन्द्रियाणि भगवत् सौन्दर्यादिष्वासक्तानि परममित्राण्येव न तु शत्रवः । अतः पुरुषेण स्वप्रभुणैवातिशयेन दिष्टान् दत्तान् भोगान् इति कर्म्मजन्यानामेव भोगानां बन्धकत्वं न त्वीश्वरदत्तानामिति भावः । प्रकृतिं भजस्वेति पश्चाद्राग्यभार स्वपुत्रे विन्यस्य वनेऽपि गत्वा तिष्ठ ॥ १९ ॥ आत्मनः स्वस्य लघुतया तत्पौत्रत्वादित्यर्थः ।। २० • श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः । हे तात! पौत्र ! ते ततः तातः मनुः एष देवर्षिः ते गुरुः भवः वयमिति मरीच्याद्यभिप्रायेण बहुवचनमेते सर्वे विवशाः यस्य दिष्टमाज्ञां वाम । अयमर्थः ज्ञानेन वयसा च त्वत्तोऽधिका वयं यत्र नियोजितास्तत्पराः सन्तः तस्य दुर्ज्ञेयत्वदुर्लभत्वादि- कमनादृत्य तमद्यैव द्रक्ष्यामः अद्यैव प्राप्स्याम इत्येवं नासूयाम इति, अतोऽविपककषायस्त्वम् अप्रमेयं निखिलैः प्रमाणैः साकल्येन प्रमातुमशक्यमसूयितुम् अविपक्ककषायाधिकारिसाध्यत्वदोषारोपेण द्रष्टुं नाईसीत्यर्थः ॥ ११ ॥ * * यत्र यस्तेन नियोजित- स्तत्स्वीकुर्वन् आत्मपरयोर्नियम्यनियन्तृभावमवधार्य शनैः शनैर्मुक्तो भवेदित्याह न तस्येति पञ्चभिः । तस्य तेन परमेश्वरेण कृतं विहन्तुमन्यथाकर्तुं न विभूयात् न प्रभुर्भवेत् ॥ १२ ॥ *
-
- अभवाय अभवाय मोक्षाय च अव्यक्तदिष्टं दुर्लक्ष्यपरमेश्वरदत्तं देहयोगे जनता मुमुक्षुबुभुक्षुजनसमूहः धत्ते । अव्यक्त एवं भोगं मोक्षं च यथाधिकारं यथाकालं जनतायै ददाति तदर्थमातुरो भवेदिति भावः ॥ १३ ॥ * * आतुरत्वं तु न पुरुषार्थसाधकमित्याशयेनाह यदिति द्वाभ्याम् । यस्य भगवतः बाचि तन्त्यां वेदरूपायां दामनि गुणकर्मनामभिः सत्त्वादिगुणैः पुण्यादिकर्मभिः देवादिनामभिः सुदुस्तरैदुर्निवाय्यैः सुयोजिताः वयं तस्मै बलिं बहामः । तत्र दृष्टान्तः नसि नासायां प्रोताश्चतुष्पदो बलीवर्दा यथा द्विपदे कर्षकाय बलिं वहन्ति तद्वत् ॥ १४ ॥ * * गुणकर्मयोगात् अस्माभिः सत्त्वादिगुणवशात्कृतानि यानि कर्माणि तद्योगात् नाथः यद्यदेहादिकमयुक्त योजितवान् तत्तदास्था- याङ्गीकृत्य ईष्ट इतीट् तेनेशा नियन्त्रा दुःखं सुखं वा अभिसृष्टं दत्तम् अवरुन्ध्महे स्वीकुर्मः । तथा च मन्त्रः “ईशावास्यमिदं सर्व यत्किञ्चिज्जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्” इति ॥ १५ ॥ * * एवं सामान्यतः सर्वेरेवेश्वर- दत्तमिष्टमनिष्टं वा पारवश्यात्स्वीकाय्यैमेव अथ मुमुक्षुणापि पारवश्यात्प्रारब्धकर्मफलं स्वीकर्तव्यमेवेत्याह । प्रतियातनिद्रः प्रतिबुद्धः मुमुक्षुः यथानुभूतं शरीरं तादृशाय अन्यदेहाय गुणान् “ऊर्ध्वं गच्छन्ति सत्त्वस्थाः” इत्यादिनोक्तान् स्वर्गादिप्रदान सत्वादीन न वृक्ते न भजति किन्तु यावन्मोक्षः तावत्प्रारब्धमश्नन् देहं बिभृयादेव ॥ १६ ॥ * ननु गृहे वसतः पुना रागायुत्पत्त्या संसारभयं स्यादाभयमित्यादिना । सदैव षट् एकं मनः पक्ष ज्ञानेन्द्रियाणि च सपत्नाः शत्रवो यस्य सः ॥ १७ ॥ * * अत्येति जयति ।। १८ ।।
- अत्येति जयति ।। १८ ।। पूर्व भोगान् भुङ्क्ष्व पुनर्जितषट्सपत्नः विमुक्तसङ्गः त्यक्तकलत्रादिः सन् प्रकृतिं विश्वहेतुं “कारणं तु ध्येम्” इति श्रुतेः । अनेनाजितेन्द्रियत्वात्तत्वाधुना न वैराग्याधिकार इति सूचितम् ।। १९-२० ।। sistan स्क. ५ म. १ श्लो. ११-२० ] अनेकन्याख्यासमलङ्कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी इति प्रवृत्तिरहस्यपराणि ब्रह्मवाक्यान्येव दर्शयति-निबोधेति नवभिः । हे तातेति सम्बोधनं स्नेहसूचकम् । इदं वक्ष्यमाणमहं । ऋतं सत्यं यथार्थ ब्रवीमि तत् त्वं सावधानतया निबोध अवधारय, त्वं देवमसूयितुं नार्हसि मद्वाक्यस्य प्रवृत्तिविधायकत्वेन तत्र दोषारोपेण द्रष्टुं नार्हसि । यतो नाहमेवं वदामि किन्तु मद्द्द्वारा देवः विश्वोत्पत्त्यादिक्रीडाकर्ता वासुदेवो भगवानेवैवं वदति, अतो मद्वाक्यानादर । त्तदनादर एव स्यात्, तदनादरश्च सर्वानर्थकारणं यतः स अप्रमेयः, यश्च प्रमाविषयो भवति स रुष्टश्रेदुपायेन पुनः प्रसादयितुं शक्यते, अयं तु न तथा, अत एव अहं ब्रह्मा भवो रुद्रः ते तब ततः पिता मनुरेष महर्षिर्नारदस्तव गुरुरन्ये च सर्वे वयं विवशाः यद्धीनाः सन्तो यस्य दिष्टमादिष्टमाज्ञां बहाम पालयामेत्यन्वयः । वाङ्मनसापरिच्छेद्यस्वरूपो निरस्त निखिलदोषो भगवान् सर्वस्य वशी सर्वस्येशानः त्वयाऽस्माभिश्च सर्वैरनुल्लङ्घयः । तथाच श्रूयते - “एतस्य वा अक्षरस्य प्रशासने गार्गि । श्रूयते-“एतस्य सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्यादीति भावः ॥ ११ ॥ * * ननु युष्माकं तपआदिप्रभाववतां कथं तद्वशवर्तित्व- मित्याशङ्कयाह - नेति । तस्य कृतं तेन निर्मितं तनुभृद्देहधृग्जीवः कोऽपि तपआदिभिः विहन्तुं अन्यथाकर्तुं न विभूयात् समर्थो नैव भवतीत्यन्वयः । तपसा पचाग्नितापादिना । विद्यया शास्त्राभ्यासेन । योगवीर्येण प्राणायामादियोगजनितैश्वर्यादिना । मनीषया बुद्धिनैपुण्येन । अर्थेन धनादिना, धर्मैर्यज्ञानुष्ठानादिभिः । परतः बलवत्सहायेन । स्वतः स्वतस्सिद्धप्रभावेण ॥ १२ ॥ * * सर्वस्य भगवदधीनत्वमेव प्रपश्यन् प्रथमं देहग्रहण एवं पारतन्त्र्यं दर्शयति भवति । हे सम्बोधनेन अस्मदीय- भवायेति । स्त्वमतोऽत्र न किञ्चिदन्यथा वदामि सर्वजनप्रसिद्धमेवैतदिति सूचयति । भवाद्यर्थमव्यक्तेनेश्वरेण दिष्टं निर्मितं देवमनुष्यादि- देहयोगं जनता जीवसमूहः सदा धत्ते, नतु तदन्यथा कर्तुं शक्नोतीत्यन्वयः । भवः जन्म । नाशो मरणम् । कर्म लौकिक वैदिक च। शोक इष्टवियोगजा पीडा । मोहो भ्रमः । भयमनिष्टप्रापकादुद्वेगः । सुखमिष्टम् । दुःखमनिष्टम् ।। १३ ।। नच देहलाभस्य स्वकृतकर्माधीनत्वात् कथमीश्वराधीनत्वमिति शङ्कथं, यतः कर्ममार्गप्रवृत्तेरपि भगवदधीनत्वमेवेत्याह- यद्वाचीति । यस्य भगवतो वाचि वेदलक्षणायां तन्त्यां दामन्यां गुणकर्मदामभिः गुणाः सत्त्वादयः कर्माणि च तत्पूर्वकाणि तन्निबन्ध- नैर्दामभिः ब्राह्मणादिनामभिः प्रग्रहस्थानीयैः सुदुस्तरैः सुदृढैर्वयं सर्वे सुयोजिताः निबद्धाः सन्तस्तस्मै ईश्वराय बलिं वहामः तदाज्ञया तदाराधनार्थं स्वाधिकारप्राप्तं कर्म कुर्मः । अन्यथा दण्डभागित्वं स्यात् । हे वत्सेति प्रीत्या सम्बोधनेनात्र विश्वासः कर्त्तव्य इति सूचयति । तत्र दृष्टान्तः प्रोता इति । यथा नसि नासिकायां रज्जुप्रोता बद्धाः सन्तश्चतुष्पदो बलीवर्दा द्विपदे पुरुषाय यदि बलि भारं वहन्ति तदेव खादनपानादिना सुखिनो भवन्ति, अन्यथा तु दण्डभागिन एव भवन्ति तथेत्यर्थः ।। १४ ।। * नन्वेवं
- भोगायतनस्य विचित्रभोगे हेतोरुच्चनीचदेहस्य प्राप्तिरपि भगवदधीना चेत्तर्हि तस्यापि वैषम्यमागतमेवेत्याशङ्कय तस्या अपि गुणप्रयुक्तास्मत्प्रारब्धप्रयुक्तत्वेन न तस्य वैषम्यमिति सूचयन् मोगेऽपि भगवत्पारतन्त्र्यमेवेति दर्शयति- ईशेति । गुणाः सत्त्वाद- यस्तदनुरूपाणि यानि अस्मत्कर्माणि तत्सङ्गात् तत्सम्बन्धात् तदनुरूपं यत् यद् देवतिर्यगादिलक्षणं देहं नाथः स्वामी अयुक्त योजितवान् तत्तदास्थाय स्वीकृत्य तेनैव ईशा ईश्वरेण अभिसृष्टं दत्तं दुःखं सुखं वा वयमवरुन्ध्महे हि निश्वयेन स्वीकुर्म एव, न तु यथेष्टमित्यन्वयः । यथा स्वामिना दत्तमेव कणिशयवसादिकं बलीवर्दा भक्षयन्ति, न यथेष्टमिति भोगपारतन्त्र्ये दृष्टान्तो बोध्यः । उच्चनीचयोनिप्राप्तौ पारतन्त्र्ये दृष्टान्तमाह-चक्षुष्मतेति । यथा चक्षुष्मता नीयमाना अन्धाः पुरुषाः यंत्रैव शुभाशुभस्थाने स चक्षुष्मान्नयति तत्रैव ते गच्छन्ति न स्वातन्त्र्येण तथेत्यर्थः । हे अङ्गेति सम्बोधनेन तस्मिन् स्वाभेदं ज्ञापयंस्तव हितमुपदिशामीति सूचयति ।। १५ ।। * एवं भगवन्निर्मितो देहसम्बन्धः प्रारब्धभोगश्च ज्ञानिनोऽपि दुस्त्यजः, अन्यस्य तु का वार्त्तेत्याह- मुक्तोऽपीति । यावत्प्रारब्धं सुखदुःखादिप्रदं पुण्यपापरूपं कर्मास्ति तावत्तदश्मन मुक्तो जीवन्मुक्तोऽपि स्वदेहं विभृयात् बिभत्त्यैवेत्यन्वयः । ननु तविदुषस्तस्य को विशेष इत्यपेक्षायामाह - अभिमानशून्य इति । किन्तु ज्ञानेनाविद्यानिरासेन तत्कार्यस्याहम्ममाभिमानस्य निवृत्तत्वात् । अन्यदेहाय देहान्तरारम्भकान् गुणान् वासनाः कर्माणि च न वृङ्क न सम्भजते । ननु भोगान् भुञ्जनस्य कथमभिमानाभाव इत्याशङ्कय दृष्टान्तेन साधयति-यथेति । यथा स्वप्ने अनुभूतं वस्तु प्रतियातनिद्रो गतनिद्रः पुरुषोऽभिमानशून्य एवानुस्मरति तद्वदित्यर्थः ॥ १६ ॥ ॐ अतो भगवदनुग्रहरहितस्येन्द्रियपरतन्त्रस्य विषयासक्तस्य तु गृहत्यागेन वनं गतस्यापि न निस्तारः, भगवदनुग्रहेण जितेन्द्रियस्य तु गृहे वसतोऽपि न कश्चिदोष इत्याह- भयमिति । प्रमत्तस्य स्वकर्तव्यभगवदाराधनविमुखस्य विषयासक्तस्य वनेषु सङ्गभयेन वनाद्वनान्तरं गच्छतोऽपि भयं नरकसंसारादिप्राप्तिलक्षणं स्यादेव कुतः ? यतः स वनवासी सहैव षट् सपत्नाः शत्रवो मनःपञ्चज्ञानेन्द्रियलक्षणा यस्य स तथाभूत एव तत्रास्ते । बुधस्य विवेकिनो भगवद्भकस्य तु तदनुग्रहेण जितेन्द्रियस्य अत एव आत्मरतेरात्मारामस्य गृहाश्रमः अवयं नरकादिहेतुदोष किं नु करोति ? नैव करोतीत्यर्थः ॥ १७ ॥ * ॐ अतो यः षट् सपत्नान् विजेतुमिच्छन् विजिगीषमाणः ज्ञाननिष्ठाविरोधित्वेन स पूर्व गृहेषु निर्विश्य स्थित्वा शनैस्तेषां निरोधं कुर्वन् जेतुं यतेत, तेष्वरिषु क्षीणेषु वशीकृतेषु सत्सु पश्चात् विपश्चिदात्मारामः सन् कामं यथेष्टं गृहे वने वा विचरेदित्यन्वयः । तत्र दृष्टान्तः अत्येतीति । लोकेऽपि राजा यथा दुर्गाश्रित एवं ऊर्जितान् अरीन अत्येति जयति पश्चात् दुर्गे वाऽन्यत्र वा वर्तते प्रथमतो दुर्गान्निस्सरणे शत्रुभयं स्यात्तथेत्यर्थः । गृहे कथचिद्विषयभोगेऽपि दोषाभावात् शनैर्निरोद्ध २२. श्रीमद्भागवतम् [स्कं. ५ अ. १. ११-२० शक्यत्वाच्च तस्य दुर्गत्वं बोध्यम् ॥ १८ ॥ * * एवं दुर्गाश्रयणं तु साधारणानां त्वं त्वब्जनाभस्यायिसरोजकोश एव दुर्गं तदाश्रितोऽत एव तत्प्रसादेन निर्जितषट् सपत्नः । अतो यद्यपि गृहे वने वा तव भयं नास्ति तथापि पुरुषेण भगवता आदिष्टान् अधिकारप्रापितान् भोगान् इह राज्याधिकारे स्थितो भुंक्ष्व । अन्यथा भगवदवज्ञया विघ्नाभिभूतो भविष्यसीति भावः । यथा कमलकोशान्तर्गतं भ्रमरं बाह्यान्तरवर्षादयो न बाधन्ते तद्वद्भगवच्चरणारविन्दसमावेशितचेतसां इन्द्रियाणि न बाधन्ते इति ज्ञापनाय कोशशब्दः प्रयुक्तः । अधिकारसमाप्त्यनन्तरं तयक्त्वा विमुक्तसङ्गः सन् प्रकृतिं सर्वकारण भगवन्तं भजस्व ॥ १९ ॥ * & एवं ब्रह्मवाक्यनिरूपणेन यदाराधितो भगवान् स्वल्पेऽपि प्रसन्नः सन् स्वधर्मान् संस्थापयति तदा सोsपि ब्रह्मादिप्रार्थनीयो भवतीति सूचितम् इदानीं ब्रह्मवाक्याङ्गीकारेण तस्य राज्यप्रवृत्ति दर्शयति- इतीति । इत्येवं समभिहितः सम्यगादरपूर्वकं ब्रह्मणा प्रार्थितो महाभागवतः प्रियव्रत आत्मनः स्वस्य ततो लघुतया अल्पतया हेतुना त्रिभुवनगुरोः सर्वपूज्यस्य भगवतो ब्रह्मद्वारकं अनुशासनमाज्ञामवनतशिरोधरो नमत्कन्धर एव बाढं तथा करिष्यामीत्येवं सबहुमानं यथा भवति तथा ह अङ्गीकृतवान् ।। २० ।। उवाह श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी कर्म अयं चातितरां निवृत्तिनिष्ठस्ततः प्रवृत्तिनिष्ठं मद्वाक्यं प्रतिकूलं मत्वा नूनं मय्यसूयां करिष्यतीति स्वहृदि शङ्कमानः सन्नाहमेवं त्वामुपदिशामि किं तु मन्मुखद्वारा स्वयं त्वदाराधनीयः श्रीहरिरेव त्वामाज्ञापयतीति ब्रुवाणः प्रवृत्तिनिवृत्तिरहस्य माह नवभिः निबोधेति । हे तात प्रियव्रत, इदं ऋतं तथ्यं वचः ब्रवीमि कथयामि । तत् निबोध अवधानेन शृणु । अप्रमेयं प्राकृत– करणजन्यप्रमित्यविषयं, अतीन्द्रियत्वाल्लौकिकप्रमाणागम्यमित्यर्थः । देवं दीप्यमानं, निरस्तसमस्तदोषं भगवन्तमित्यर्थः । असूयितुं दोषारोपेण निरीक्षितुं मा नैव, अर्हसि । कोऽसावप्रमेयस्तत्राह यस्य भगवत्तः, दिष्टमादिष्टं शासनमिति यावत् । विवशाः अस्व- तन्त्रास्तदधीनाः सन्त इत्यर्थः । ते तव, एषः ततस्तातः, त्वत्पिताऽयं मनुरित्यर्थः । एष त्वद्गुरुः महर्षिर्नारदः, भवः स्वयं शिवः, वयं मत्प्रभृतयो मरीच्यादयश्च सर्वेऽप्येते, बहाम करवाम इत्यर्थः । वाङ्मनसाऽपरिच्छेद्यस्वरूपस्वभावो निरस्तनिखिलदोषो सर्वस्य वशी सर्वस्येशानः भगवान् त्वयाऽस्माभिः सर्वैरनुल्लङ्घ्यो भवतीति भावः ॥ ११ ॥ सर्वेषां तद्वश्यत्वमेवाह चतुर्भिः नेति । कश्चित् तनुभृद्देहभृत्, तनुशब्दः करणानामप्युपलक्षणम्। यदत्तकरणकलेवरो जीव इत्यर्थः । तस्य भगवतः कृतं तेन भगवता निर्मितमित्यर्थः । तपसा अनशनादिना, विद्यया शास्त्रीयज्ञानेन, वा योगवीर्येण अणिमादियोगजसिद्धिबलेन, मनीषया विचारेक्षया, सामादिबुद्धिबलेनेत्यर्थः । वा अर्थधर्मः, अथैर्धनैः, धर्मेर्यज्ञादिभिश्चेत्यर्थः । परतः बलवज्जनाश्रयणतः, स्वतः आत्मीय- बलतः वा विहन्तुमन्यथा कर्तुं न विभुयात् प्रभुनं भवेदेवेत्यर्थः ॥ १२ ॥ * * तनुभृदित्यनेन जीवस्य भगवत्संकल्पा- यत्तदेहभृत्त्वमुक्तं तदेव विवृण्वन् देहयोगे पारतन्त्र्यं तावत्प्रसिद्धमित्याह भवायेति । अङ्ग हे प्रियव्रत, भवाय नाशाय च, कर्तुं जन्मनाशादिनिमित्तभूतकर्म विधानार्थमित्यर्थः । यद्वा भवाय भवानुभवार्थ, नाशाय नाशानुभवार्थ, कर्म कर्तुं च तदुद्वारा, शोकाय मोहाय सुखाय दुःखाय च, शोकाद्यनुभवितुमित्यर्थः । सदा अभयाय मुक्तये व, अव्यक्तदिष्टमव्यक्तो भगवांस्तदादिष्ट - मित्यर्थः । देहयोगं ‘बुद्धीन्द्रियमनः प्राणान् जनानामसृजत्प्रभुः’ इत्युक्तं देहसंबन्धं जनता जनसमूहः धत्ते, न त्वन्यथाकर्तुं शक्नोति स्वशासनानुवर्त्तिना मनुग्रहार्थं तदतिवर्त्तिनां च निग्रहार्थं सत्त्वादिप्रचुर देहयोगमादिशतीति भावः । अनुग्रहोऽत्र तन्मुक्ति- विधानरूपः ॥ १३ ॥ * * कर्म कर्तुमिति यदुक्तं तस्मिन्कर्मकरणेऽपि पारतन्त्र्यमाह यद्वाचीति । हे वत्स प्रियव्रत, यद्वाचि तन्त्यां यस्य भगवतो वाग्रूपवेदलक्षणायां दामन्यामित्यर्थः । सुदुस्तरैः सुदृढैः, गुणाः सत्त्वादयस्तत्पूर्वकाणि कर्माणि तान्येव दामानि तैः, नामभिरिति पाठे वर्णाश्रमनामानि तैः, ‘यस्य वाक्तन्तीर्नामानि दामानि’ इति श्रुतेः । सुयोजिताः निबद्धाः सर्वे वयं, नसि छिन्नायां नासिकायां, प्रोताः नस्प्रोतरज्जव इत्यर्थः । चतुष्पदो बलीवर्दा इव द्विपदे मनुष्याख्यस्वामिने, गोण्यादिकं वहन्तीति शेषः । तथा ईश्वराय भगवदाख्यस्वामिने, बलि पूजोपहारं बहाम तदिच्छया कर्म कुर्मः । प्रोता नसीवेति पारतन्त्र्यमा दृष्टान्तः न तु बुद्धिपूर्व कर्तृत्वे ॥ १४ ॥ * किं च न वयमिष्टानिष्टप्राप्तिपरिहारसाधनावबोधवन्तः, अतो भोगेऽपि पारवन्त्र्यमित्याह ईशेति । अङ्ग हे प्रियव्रत, नाथ ईश्वरः, गुणकर्मसङ्गात्, गुणाः सत्त्वादयश्च तत्पूर्वकाणि कर्माणि च तेषां सङ्गः संबन्धस्तस्मान्निमित्तात् तत्तत्कर्मानुरूपमित्यर्थः । अनेनेश्वरस्य वैषम्यपरिहारः कृतः । यत् यत् अयुत योजितवान् तत् तत् वर्णाश्रमादिकं जात्यादिकं च यद्वा देवतिर्यगादिशरीरं आस्थाय स्वीकृत्य वर्त्तमानाः वयं, ईशा परमेश्वरेण, अभिसृष्टं दत्तं सुखं वा दुःखं, अवरुन्ध्महे प्राप्नुमः हि । कथमिव चक्षुष्मता अविप्लुतचक्षुरिन्द्रियेण पुरुषेण छायामातपं वेति शेषः । नीयमानाः प्राप्यमाणा अन्धा इव तत्तच्छायादिकं प्राप्नुवन्ति तद्वत् ॥ १५ ॥ ननु प्रवृत्तिधर्मानुवृत्तिस्तु देहात्माभिमानिनः संसारिणो जीवस्य युक्ताऽहं तु अधिकृतात्मविद्यत्वानि वृत्तिधर्मनिष्ठो मुमुक्षुर्भवामि, ततः कथं प्रवृत्तिधर्ममनुरुणध्मि तस्य बन्ध- कत्वादित्याशङ्कायां तावन्मुमुक्षोरप्यामुक्तेर्देहधारणमावश्यकं तदनुबन्धितया वर्त्तमानस्य महदाज्ञया प्राप्तेषु केषुचित्प्रवृत्तिधर्मेषु स प्रवृत्तः सन्नपि न बध्यत इत्याह मुक्तोऽपीति । मुक्तः अपि, मुक्तभाव प्राप्तोऽपि जनः, आरब्धं अभन्नेव यावत्प्रारब्धं कर्म
क. ५ अ. १ श्लो. ११-२०] * अनेकव्याख्या समलङ्कृतम् 1 २३ तावत्, अभिमानशून्यः सन्नेव स्वदेह बिभृयात् । कथमिव प्रतियातनिद्रः, अनुभूतं स्वप्नेऽनुभूतं राज्यसुखादिकं यथा, तथा गतनिद्रः स्वप्नानुभूतं राज्यसुखादि, यथा तदभिमानवर्जित एव स्मरन् देहं बिभत्ति तद्वदित्यर्थः । तर्हि भोगवासनया पुनर्जन्म भवेत्तत्राह । किंतु अन्यदेहाय गुणान् न वृङ्क्ते देहान्तरारम्भकान् गुणान् कर्माणि वासनाश्च न संभजते इत्यर्थः । प्रारब्धानुभवो देहधारणं चेत्युभयं मुक्तामुक्तयोरुभयोरपि तुल्यमेव परं तु देहान्तरनिमित्तबन्धककर्माकरणं यत्तदेव ज्ञानिनोऽज्ञानिनः सकाशाद्वि- शेषतावबोधकमिति भावः ॥ १६ ॥ भवतु मुमुक्षोरपि देहधारणं प्रारब्धानुभवश्च वन्येनापि तद्वयसंभवाद्वने एवाहं वत्स्यामि गृहाश्रमस्य संसृतिहेतुत्वात्तत्राह भयमिति । प्रमत्तस्यानवधानस्य, प्रमादाप्रमादावेव हि भयाभयहेतू । अतः स्वपर- याथात्म्यविस्मरणेन देहेन्द्रियपरवशः प्रमत्तस्तस्येत्यर्थः । वनेष्वपि अपिशब्दाद् गेहेषु च वसतः भयं संसारः स्यादेव । ननु वने वसतस्तु, प्रसह्य गृहकर्मणि प्रवर्त्तयतां ज्ञाननिष्ठा विरोधिनां देहानुबन्धिनां कलत्रादीनामभावात्तत्र ज्ञाननिष्ठा प्रतिष्ठिता स्यात्, गृहे तु तद्विपरीतता तत्राह । यतः यस्मात् स वनवास्यपि, सहवर्त्तमानाः षट् सपत्ना यस्य सः तथाभूतः आस्ते । मनः सहितानि ज्ञानेन्द्रियाणि एव षट् शत्रवः, ‘बोपसर्जनस्य’ इति वाग्रहणात्सहस्य सभावाभावः । ‘इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते’ इति समनस्केन्द्रियवर्गस्य विषयप्रवणस्य ज्ञाननिष्ठा विरोधित्वाद्वनाश्रमिणोऽपीन्द्रियवर्गस्य सहैव विद्यमानत्वाद्भयं स्यादेवात इन्द्रिय- वर्ग एव सर्वथा नियन्तव्यः । यद्येवं तर्हि किमपराद्धं गृहाश्रमिणेत्याह । जितेन्द्रियस्य विजितसमनस्कज्ञानेन्द्रियस्य, आत्मरतेः प्रकृतिविविक्तात्मानुभवशीलस्य, बुधस्य ब्रह्मनिष्ठस्य पुंसः, गृहाश्रमः किं नु किं वा अवयं दोषं करोति । न कमपि दोषं करो- तीत्यर्थः ॥ १७ ॥ ननु इन्द्रियपरवशतारूपः प्रमाद एव यदा भयहेतुस्तर्हि ज्ञाननिष्ठाविरोधीनीन्द्रियाणि वने वसन्नेव विजेष्यामीत्यत्राह य इति । विपश्चित् यः, षट् षटसंख्याकान् सपत्नान् ज्ञाननिष्ठाविरोधित्वेन शत्रुतुल्यानि षडिन्द्रियाणी- त्यर्थः । विजिगीषमाणः विजेतुमिच्छन्, भवेत् सः पूर्व प्रथमं गृहेषु निर्विश्य, गृहाश्रमे स्थित्वैवेत्यर्थः । यतेत इन्द्रियजयार्थं प्रयतेत । तथा हि लोके यः कश्चन विपश्चित् अरीन् विजिगीषमाणः भवेत्सः प्रथमं दुर्गाश्रितः दुर्गमाश्रित्य वर्त्तमानः सन्नेवेत्यर्थः । ऊर्जितारीन् बलिष्टशत्रून् अत्येति जयति । ततः क्षीणेषु शत्रुषु बलहीनेषु जातेषु सत्सु, कामं यथेष्टं दुर्गेऽन्यत्र वा विचरेत् । एवं विपश्चिदपीति भावः ।। १८ ॥ * * सत्यं प्रथमं दुर्गाश्रित एवारीनत्येतीति अहमपि भगवञ्चरणारविन्द रूपदुर्गमाश्रित्यान्तः शत्रून् जेष्यामि, न त्वतिहेयान् गृहानित्यत्राह त्वं त्विति । यद्यपि, त्वं तु अब्जनाभो भगवांस्तस्य योऽङ्घ्रिसरोजकोशस्तदेव दुर्गं तदाश्रितः, यथा कमलकोशान्तर्गतं भ्रमरं बाह्या वातातपवर्षादयो न बाधन्ते तथा भगवच्चरणकमलकोशसमावेशितमनसं त्वाम- पीन्द्रियवर्गरूपा वातादयो न बाधं करिष्यन्तीति ज्ञापनाय कोशशब्दः प्रयुक्तः । निर्जिताः पट् सपत्ना येन स एवंभूतः असि, तथापि पुरुषातिदिष्टांस्त्वदुपास्यत्वदिष्टेनैवार्पितान् भोगान् इह लोके भुङ्क्ष्व । ततः विमुक्तसङ्गः सन् प्रकृति भगवद्भक्तोत्तम- स्वभावमाविर्भूतापहतपाप्मत्वादिगुणाष्टकस्वभावं वा भजस्व अत्यात्मनिष्ठो भवेत्यर्थः ॥ १९ ॥ * * इतीति । इतीत्थं समभि- हितः ब्रह्मणा सम्यक्कथितः, महाभागवतः परमैकान्तिको भगवदुपासकः प्रियव्रतः भगवतः त्रिभुवनगुरोः गुरुत्वान्त्रयाणां भुवनानां हितोपदेष्टुर्ब्रह्मणः, अनुशासनं राज्यस्वीकृतिरूपामाज्ञां आत्मनः स्वस्यं लघुतया तदग्रेऽल्पताहेतुना, यद्वा आत्मनः प्रति यदनुशासनं तदलघुतया गौरवेण हेतुना, बाढं तथा करिष्यामि इत्युक्त्वा अवनता शिरोधरा यस्य स एवंभूतः सन्, सबहुमानं यथा स्यात्तथा उवाहाशिषमिव मूदूर्ध्ना तदाज्ञां जमाहेत्यर्थः ॥ २० ॥ । s भाषानुवादः । ततः श्रीब्रह्माजीने कहा- बेटा ! मैं तुमसे सत्य सिद्धान्तकी बात कहता हूँ, ध्यान देकर सुनो। तुम्हें अप्रमेय श्रीहरिके प्रति किसी प्रकारकी दोषदृष्टि नहीं रखनी चाहिये। तुम्हीं क्या—हम, महादेवजी, तुम्हारे पिता स्वायम्भुव मनु और तुम्हारे गुरु ये महर्षि नारद भी विवश होकर उन्हींकी आज्ञाका पालन करते हैं ।। ११ ।। उनके विधानको कोई भी देहधारी न तो तप, विद्या, योगबल या बुद्धिबलसे, न अर्थ या धर्मकी शक्तिसे और न स्वयं या किसी दूसरेकी सहायतासे ही टाल सकता है ॥ १२ ॥ * * प्रियवर ! उसी अव्यक्त ईश्वरके दिये हुए शरीरको सब जीव जन्म, मरण, शोक, मोह भय और सुख-दुःखका भोग करने तथा कर्म करनेके लिये सदा धारण करते है ॥ १३ ॥ * वत्स ! जिस प्रकार रस्सीसे नथा हुआ पशु मनुष्यों का बोझ ढोता है, उसी प्रकार परमात्माकी वेदवाणीरूप बड़ी रस्सीमें सत्त्वादि गुण, सात्त्विक आदि कर्म और उनके ब्राह्मणादि वाक्योंकी मजबूत डोरीसे जकड़े हुए हम सब लोग उन्हीं के इच्छानुसार कर्म में लगे रहते हैं और उसके द्वारा उनकी पूजा करते हैं ॥ १४ ॥ हमारे गुण और कर्म के अनुसार प्रभुने हमें जिस योनिमें डाल दिया है उसीको स्वीकार करके, वे जैसी व्यवस्था करते हैं उसीके अनुसार हम सुख या दुःख भोगते रहते हैं। हमें उनकी इच्छाका उसी प्रकार अनुसरण करना पड़ता है, जैसे किसी अंधेको आँखवाले पुरुषोंका ।। १५ ।। * * मुक्त पुरुष भी प्रारब्धका भोग करता हुआ भगवान् की इच्छा के अनुसार अपने शरीर को धारण करता ही है; ठीक वैसे ही जैसे मनुष्यकी निद्रा टूट जानेपर भी स्वप्न में अनुभव किये हुए पदार्थोंका स्मरण होता है। इस अवस्था में भी उसको अभिमान नहीं होता और विषय-वासना के जिन संस्कारों के * २४ ’’ श्रीमद्भागवतम् [ स्कं. ५अ. १ श्लो. २१-३० कारण दूसरा जन्म होता है, उन्हें वह स्वीकार नहीं करता ।। १६ ।। - 8 जो पुरुष इन्द्रियोंके वशीभूत है, वह वन-वनमें विचरण करता रहे तो भी उसे जन्म-मरणका भय बना ही रहता है, क्योंकि बिना जीते हुए मन और इन्द्रियरूपी उसके छः शत्रु कभी उसका पीछा नहीं छोड़ते। जो बुद्धिमान् पुरुष इन्द्रियोंको जीतकर अपनी आत्मामें ही रमण करता है, उसका गृहस्थाश्रम भी क्या बिगाड़ सकता है ? ॥ १७ ॥ * जिसे इन छः शत्रुओंको जीतनेकी इच्छा हो, वह पहले घरमें रहकर ही उनका अत्यन्त विरोध करते हुए उन्हें वशमें करनेका प्रयत्न करे । किलेमें सुरक्षित रहकर लड़नेवाला राजा अपने प्रबल शत्रुओंको भी जीत लेता है। फिर जब इन शत्रुओंका बल अत्यन्त क्षीण हो जाय, तब विद्वान् पुरुष इच्छानुसार विचर सकता है ।। १८ ।। * * तुम यद्यपि श्रीकमलनाभ भगवान के चरणकमलकी कलीरूप किलेमें आश्रित रहकर इन छहों शत्रुओंको जीत चुके हो, तो भी पहले उन पुराणपुरुषके दिये हुए भोगोंको भोगो; इसके बाद निःसङ्ग होकर अपने आत्म- स्वरूप में स्थित हो जाना ।। १९ ।। * श्रीशुकदेवजी कहते हैं—जब त्रिलोकीके गुरु श्रीब्रह्माजीने इस प्रकार कहा, तो परमभागवत प्रियव्रतने छोटे होनेके कारण नम्रतासे सिर झुका लिया और जो आज्ञा’ ऐसा कहकर बड़े आदरपूर्वक उनका आदेश शिरोधार्य किया ।। २० ॥ * भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियत्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थान- मवाङ्मनसं क्षयमव्य’ वहतं प्रवर्तयन्नगमत् ।। २१ ।। मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिलधरा मण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ।। २२ ।। इति ह वाव स जगतीपतिरीश्वरेच्छया विनिवेशित- कर्माधिकारोऽखिलजगन्यध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धित- कषायाशयोsवदातोऽपि मानवर्धनो महतां महीतलमनुशशास ।। २३ ।। अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम । तस्यामु ह वाव आत्म जानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसी- मूर्जस्वती नाम ॥ २४ ॥ आग्नीध्मजिह्वयज्ञवाहुमहावीर हिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ।। २५ ।। एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥ तस्मिन्नु’ ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविस्तस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावि तान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः ॥ २७ ॥ अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः ॥ २८ ॥ एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसार- सम्भृतदोर्दण्डयुगलापीडितमोर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिन मेघमानप्रमोद “प्रसरणयौषिण्य- ‘व्रीडाप्रमुषितहासावलोकरुचिरवेन्यादिभिः पराभूयमानविवेक” इवानवबुध्यमान इव महामना बुभुजे ॥ २९ ॥ “यावदवभासयति सुरगिरिमनुपरिक्रामन भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषत्रमा वस्तदनभिनन्दन समजवेन रथेन ज्योतिमयेन रजनीमपि दिन करिष्यामीति सप्तकृत्वस्तरणिमनुपर्य क्रामद् द्वितीय इव पतङ्गः ॥ ३० ॥ अन्वयः - मनुना यथावत् उकल्पितापचितिः भगवान् अपि प्रियव्रतनारदयोः अविषमम् अभिसमीक्षमाणयोः अवा- ङ्मनसम् अव्यवहृतम् क्षयम् प्रवर्तयन् आत्मसमवस्थानम् अगमत् ॥ २१ ॥ * एवम् परेण प्रतिसंधितमनोरथः १. प्रा० पा० - २. प्रा० पा०– ३. प्रा० पा०- ४. प्रा० पा० ५. ६० प्रा० पा० ७. ८. प्रा० पा० - ९. प्रा० पा०– १० प्रा० पा०- ११. प्रा० पा० - १२. प्रा० पा० - १३, प्रा० पा० -
स्कं/ ५ अ. १ श्लो. २१-३० ] * अनेकव्याख्यासमलङ्कृतम् मनुः अपि सुरर्षिवरानुमतेन आत्मजम् अखिलधरामंडलस्थितिगुप्तये आस्थाप्य स्वयम् अतिविषयविषजलाशयाशायाः उपरराम ।। २२ ।। * * इति ह वाव सः जगतीपतिः ईश्वरेच्छया अधिनिवेशितकर्माधिकारः अखिलजगद् धध्वंसनपरों- नुभावस्य भगवतः आदिपुरुषस्य अड्मियुगलानवरतध्यानानुभावेन परिरंधितकषायाशयः अवदातः अपि महताम् मानवर्धनः महीतलं अनुशशास || २३ ॥ * * अथ च बर्हिष्मती नाम विश्वकर्मणः प्रजापतेः दुहितरम् उपयेमे तस्याम् उ ह वाव आत्म- समानशीलगुणकर्मोदारान् दश आत्मजान् च यवीयसीम् ऊर्जस्वतीम् नाम कन्याम् भावयांबभूव ॥ २४ ॥ * * आग्नी- धेध्मजिह्वयज्ञबाहुमहावीर हिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवयः इति सर्व एव अग्निनामानः ।। २५ ।। एतेषाम् कविः महावीरः सवनः इति त्रय ऊर्ध्वरेतसः आसन् ते अर्भभावात् आरभ्य आत्मविद्यायाम् कृतपरिचयाः पारमहंस्यम् आश्रमम् एव अभजन् ।। २६ ॥ * तस्मिन् उ ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भीतानाम् शरणभूतस्य भगवतः वासुदेवस्य श्रीमच्चरणारविंदाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितांतर्हृदयाधिगते `भगवति सर्वेषाम् भूतानाम् आत्मभूते प्रत्यगात्मनि एव अविशेषेण आत्मनः तादात्म्यम् समीयुः ॥ २७ ॥ * * अन्यस्याम् ॥ जायायाम् अपि उत्तमः तामसः रैवतः इति मन्वंतराधिपतयः त्रयः पुत्राः आसन् ॥ २८ ॥ अथ एवम् स्वतनयेषु उपशमायनेषु महामनाः जगतीपतिः अव्याहताखिलपुरुषकार सारसंभृतदोर्द डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षः अनुदिनम् बर्हिष्मत्याः एधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुदितहासावलोकरुचिरक्ष्वेल्या दिभिः पराभूयमानविवेकः इव च अनव- बुध्यमानः इव जगतीम् परिवत्सराणाम् एकादश अर्बुदानि बुभुजे ॥ २९ ॥ * * भगवान् आदित्यः सुरगिरिम् अनुपरिक्रमन् वसुधातलं यावत् अवभासयति तावत् अर्धेन एव प्रतपति अर्धेन अवच्छादयति तदाहि भगवदुपासनोपचितातिपुरुषप्रभावः तत् अनभिनंदन समजवेन ज्योतिर्मयेन रथेन रजनीम् अपि दिनम् करिष्यामि इति द्वितीयः पतंगः इव सप्तकृत्वः तरणिम् अनुपर्यक्रामत् ॥ ३० ॥ avit श्रीधरस्वामिविरचिता भावार्थदीपिका मनुना संतुष्टेनोपकल्पिता पूजा यस्य । प्रियव्रतस्य योगभ्रंशान्नारदस्य च शिष्यनाशात्कुटिलमीक्षणं संभवति तत्तु नास्तीत्याह । अविषमं यथा तथा तयोरभिसमीक्षमाणयोः सतोरात्मनः सम्यगवस्थानमवाङ्मनसं वाङ्मनसयोर विषयं क्षयं निवासं जगाम । पाठांतरे अवाग्वाचामगोचरं कथंचिन्मनसः क्षयं विषयमतोऽव्यवहृतं व्यवहारशून्यं ब्रह्मनिवृत्तं प्रवर्तयन् । व्यवहाराद्विषण्णः सन् व्यवहारातीतं स्वरूपं चिंतयन्नंतर्हित इत्यर्थः ।। २१ ।। पुत्रं राज्येऽभिषिच्य वनं यास्यामीत्येवं यो मनोरथः स परेण ब्रह्मणैव प्रतिसंधितः संपादितो यस्य सः । नारदस्यानुमतेन राज्ये स्थापयित्वाऽतिविषमो दुस्तरो यो विषयविषजलाशयो गृहं तस्याशा दिक् प्रवृत्तिवासना भोगेच्छा वा तस्या उपरतोऽभूत् ॥ २२ ॥ * * यत्पृष्टं गृहे कथमरमत तत्रोक्तमुत्तरमुपसंहरति । इति ह वाव इत्थमेव हि । अधिनिवेशितः प्रापितः कर्माधिकारो यस्य । अखिलस्य जगतो बंधध्वंसनः परोऽनुभावो यस्य तस्य यदंघ्रियुगलं तस्यानवरतं ध्यानं तदनुभावेन परिरंधितकषायो दग्धरागादिमल आशयो यस्य । अतोऽवदातः शुद्धोऽपि महतां ब्रह्मादीनामाज्ञा- पालनेन मानवर्धनः || २३ ॥ * * उ इति विस्मये । ह इति प्रसिद्धौ । वावेति निश्चये । आत्मनः समानैः शीलादिभिरुदा- रान्महतो दश पुत्रान् जनयामास ।। २४ ।। * तानाह । आग्नीध्र इध्मजिह्नो यज्ञबाहुर्महावीरो हिरण्यरेता घृतपृष्ठः सवनो मेधातिथिर्वीतिहोत्रः कविश्वेत्यग्नीनां नामानि येषां ते ॥ २५ ॥ अर्भभावाद्वात्सल्यादारभ्य ।। २६ ।। * * तस्मिन्पा- रमहंस्याश्रमे श्रीमच्चरणारविंदयोरविरत स्मरणेनाविगलितोऽखंडितो यः परमो भक्तियोगस्तस्यानुभावेन विशोधितांतः करणे प्रतीतो यो भगवांस्तस्मिन्नात्मनस्त्वंपदार्थस्य तादात्म्यविशेषेण विशेषो देहाद्युपाधिस्तदपोहेन प्रापुः ।। २७-२८ ॥ * * उपशमाश्रयेषु सत्सु । दशकोटिभिरेकमर्बुदम् । एतादृशानि वर्षाणामेकादशार्बुदानि जगतीं बुभुज इत्यन्वयः। राज्ञो धर्मपालनविषयभोगप्रभावै- र्भाव्यम् । तत्रानायासेनैव धर्मपालनमाह । अव्याहता अखिलाः पुरुषकाराः पौरुषाणि यस्मात्तेन सारेण बलेन संभृतौ पूर्णो दोदडी तयोर्युगलं तेनापीडित आकृष्टो मौर्वीगुणस्तस्य स्तनितं टंकारस्तेनैव युद्धं विना विरमिता निरस्ता धर्मप्रतिपक्षा येन । भोगातिशयमाह बर्हिष्मत्याः स्वभार्याया अनुदिनमेधमानैः प्रमोदादिभिः पराभूयमानविवेक इवात एव विषयासक्त्यात्मानमनवबुध्यमान इव बुभुजे । तत्र प्रमोद आयांतं पतिं दृष्ट्वा हर्षस्ततः प्रसरणमभ्युत्थानादिलीला ततो यौषिण्यं योषित्स्वभावकृतशृंगारानुभावप्रकाशनं ततो व्रीडया प्रमुषिताः संकुचिता हासावलोकास्ततो रुचिरवेल्यादयः परिहासवाक्यादीनि तैः ॥ २९ ॥ * प्रभावातिशयमाह यावद्व- सुधातलं लोकालोकपर्यंतमवभासयति मेरु प्रदक्षिणीकुर्वन्नादित्यस्तस्मिन्नधेनैवोपलक्षितं प्रतपति प्रकाशयत्यर्धेन चावच्छादयति तमसावृणोति तदा द्वितीयः पतंगः सूर्य इव पर्यक्रामत् न चेदमसंभावितम् । यतो भगवदुपासनेनोपचितोऽतिपुरुषः पुरुषानतिक्रांतः प्रभावो यस्य ॥ ३० ॥ * श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः यथावदिति । तत्कालदेशोचित सपर्ययेत्यर्थः । वाङ्मनसयोः प्राकृतयोरविषयं सर्वनिवासस्थानत्वात्क्षयमाश्रयत्वमित्यर्थः । पाठांतरे ‘अवाङ्मनसः क्षयम्’ इति पाठे । न विद्यते वाचस्त्रैगुण्यविषया विधिनिषेधात्मिकाः श्रुतयो यत्र तथाभूतं यन्मनस्तस्य क्षय श्रीमद्भागवतम् * [ स्कं. ५ म. १ स्लो. २१-३० निबैगुण्यमनोविषयमित्यर्थः । यद्वा-अव्यवहृतं प्रियव्रतं व्यवहारे प्रवर्त्तयन्क्षत्रं सत्यलोकमगमत् । कीदृशमात्मनः खस्य सम्यगवस्थानं यत्र तत् । प्रियव्रतं कीदृशम् अवाङ्मनसमात्माराममहाभागवतत्वात्प्राकृतवाङ्मनसशून्यमित्यर्थः । यद्वा वासुदेवे वाङ्मनसं यस्य सम् । यद्वा तयोर्नारदप्रियव्रतयोरात्मसमवस्थानं ब्रह्म प्रवर्त्तयन् जगामेत्यर्थः । इत्यर्थ इति । सर्वसुखानां ब्रह्मानन्देन्तर्भूतत्वादिति भावः ।। २१ ।। * * स्थितिगुप्तये मर्यादापालनाय । संदर्भ:-मनुरपीत्यादिवाक्येन प्रियव्रतस्य राज्यं पूर्वमिति गम्यते तथैव विष्णुपुराणेऽपि दृश्यते तथैव च तत्पुत्राणां तृतीयचतुर्थपञ्चममनुत्वमुत्तानपादवंशजस्य तु चाक्षुषस्य षष्ठमनुत्वं तद्वशांतिमस्य प्राचेत- सस्य दक्षस्य च षष्ठमन्वंतरे राज्यं घटतेऽन्यथा परिवेत्तृत्त्वादिकमापद्येत । न च तयोज्येष्ठानुक्रमेणैव राज्यं किं तु वंशेषु कदाचित्क स्यचित्साम्राज्यमिति वेनमृत्यौ प्रचेतसां तपस्यायां चाराजकत्वसंभवात् । किं तूत्तानपादस्य चिरकालेनैव सुतोत्पत्तिरिति गम्यते । यत्तु चतुर्थे “प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदंतरम् ॥” इति । तदपि तद्वंशस्य मनूनामपि तद्ग्रहणेन गृहीतत्वात् । स्वारोचिषस्यापि तदंतःपातात् । यच श्री पृथुं प्रति ब्रह्मवचनं “न वध्यो भवतामिन्द्रो यद्यज्ञो भगवन्तनुः” इति यज्ञस्ये- 14 न्द्रत्वेन तद्राव्यस्य स्वायंभुवसमकालत्वं बोधयति । अत्रापि तदादरायैव तदभेदनिर्देशो ज्ञेयः । तदंशावेशेनैवान्यथासिद्धत्वात् । शब्दार्थस्तु तत्रैव दर्शितः । तत्र प्रायः प्रियव्रतादिराज्यं तृतीयमन्वंतरा वसानमुत्तानपादादिराज्यं तु षष्ठावसानं प्रियव्रतवंश्ययोस्तामस- रैवतयोस्तु मनुत्वं राजत्वं चातीतचरमावस्थायां ज्ञेयं चाक्षुषवत् । तस्मात्सर्वमेव समंजसमतः कथन एव विपर्यासो न कथनीये यथा दशमे कुरुक्षेत्र यात्रादाविति ॥ २२ ॥ अतो रागादिदोषराहित्यात् ॥ २३ ॥ अथातो राज्याद्धेतोरेब ।। २४-२५ ।। * -* तादात्म्यमैक्यं तत्साम्यं वा । अपोहेन निराकरणेन ।। २६-२८॥ अर्बुदं कोटिपर्याय तथैव ह्यष्टमस्कंधे बलेः स्वर्गविजये व्याख्यातं तथामरकोशे क्षीरस्वामिधृतं प्रमाणवचनं “दशशतसहस्राण्ययुतं प्रयुताख्यलक्षमथ नियुतम् । अर्बुदकोदिन्यर्बुदपद्मे खवं निखर्वमिति दशभिः ॥ गुणनान्महाशंखसमुद्रमध्यान्तमथ परार्द्धकं च । स्वहतं परार्द्धममिल तत्स्वहतं भूर्य्यतोऽसंख्यम् ॥” इति प्रयुताख्यलक्षमिति तयोरेकपर्यायत्वमित्यर्थः । एवमर्बुदकोट्योरपि अर्बुदाख्य कोटिरिति मध्यपदलोपी समासः । तथा च माध्यंदिनशाखायाम् “इमा मेऽग्नय इष्टिका धेनवः संत्येकादश च शतं च सहस्रं च सहस्रायुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रं मध्यं वांतश्च परार्द्ध च” इत्यादिश्रुतेः कोटिरेवार्बुदमित्यर्थः । दोदंडौ भुजदंडौ । तत्र प्रमोदादिषु । आदिना स्वांगावरणविवर्त्तनस्थानांतरगमनादिग्रहः शृंगारानुभावप्रकाशनम् - अपांगचालननासामुक्तोन्नयनकर्णकंडूयनादि स्वयं दूत्यं ततः पत्युरौत्सुक्यमालक्ष्य संकोचिता हासावलोकाः । अत्रेवशब्दद्वयेन तस्य विवेकज्ञानयोः संक्षुब्धयोरपि वैषयिकलोकै दुर्गमत्वं व्यंजित तत्र हेतुर्महामना विषयासक्तितद्भावयोर्योगपद्येन सद्भावाद् दुस्तर्कमनस्तत्त्व इत्यर्थः ॥ २९ ॥ * तदा हि प्रियव्रतराज्या- धिकारसमये इत्यर्थः । तदनभिनंदन् अर्द्धेनावच्छादनमप्रशंसन् तरणिं सूर्यमनुलक्षीकृत्य तरणेरस्ताचलावरोहसमये स्वयमुदयाचल- मारोहन्नित्यर्थः । पतंगः सूर्यः पर्यक्रामत्परिक्रांतवान् । प्रजाभ्यः सुखदानेच्छयैव न तु सूर्यस्पर्द्धया तेन ज्येष्ठादिमासेषु प्रियव्रताख्य- सूर्यस्य चंद्रादप्यतिशीतलत्वं मार्गादिमासेषु तु सूर्यादपि प्रातःसायंकालयोरौष्ण्यमधिकमिति ज्ञेयम् । एवञ्च प्रियव्रतस्य सौभर्यादेवि योगबलेनैव राजत्वसूर्यत्वे कायद्वैधेनैवेति ज्ञेयम् । ‘पतंगः पक्षिसूर्ययोः’ इति विश्वः । ‘धुमणिस्तरणिर्मित्त्रः’ इत्यमरः । सप्तावृत्तिरथ- करणानंतरं तद्वारणं च पुना रथकरणप्रवृत्तस्य ब्रह्मणा कृतमिति ज्ञेयम् । तदाज्ञयैव तस्य राज्ये प्रवृत्तिश्रवणात् । अत्रेदं ज्ञेयं समुद्राणां सप्तसंख्यत्वाद्रथा अपि सप्तैव स्वयोगबलकल्पिता एकचक्राः सूर्यरथादप्युच्चतराः मंडलावृत्तिरीत्या भ्राम्यमाणा ज्ञेयाः । तत्र च बहिर्बहि- मंडलानामधिक प्रमाणत्वाद्रथा अपि क्रमेणाधिकप्रमाणा अवगम्यंत इति संदर्भः । मदीयो दूरस्थोऽपि रथ आर्यावर्तगतमदीयराज - धानीस्थप्रजानां दृष्टिगोचरीभवत्वितीच्छया पूर्वपूर्वरथाद्द्विगुणोश्चताविशालताक उत्तरोत्तरो रथः कृत इत्यन्ये प्राहुः । अत एव रथ- ‘चक्राप्राणामधिकाधिक प्रमाणत्वात्तत्तत्परिखाताः समुद्रा अप्यधिकप्रमाणा दृश्यंते । तेषु चोत्तरोत्तराधिकप्रमाणेषु सप्तसु रथेषु मध्ये पञ्चविंशत्या दिनैः सार्द्धपंचचत्वारिंशद्बटिकाधिकैकरथस्यारोहणमेवं सूर्य्यस्येव दक्षिणायनस्योपक्रममारभ्य प्रियव्रतस्योत्तर देशती दक्षिणदेशगमनं पौषपर्यंत पुनरुत्तरायणस्योपक्रममारभ्य परिसमाप्तिपर्यंतं तावत्संख्याक दिनैव्युत्क्रमेण पुनरपि तत्तद्रथारोहणम् । एवं दक्षिणदेशत उत्तरदेशगमनमाषाढपर्यंतं किं तु स्वगत्या मेरुं वामावर्त्तेनैव परिक्राम्यतोऽपि सूर्यस्य ज्योतिश्चक्राधीनैरेव प्रदक्षिणीकृत्य क्रमेण शीघ्रगमनैर्दक्षिणायने दिनानि मासि मासि हसति उत्तरायणे तु क्रमेण मंदगमनैर्दिनानि वद्धते प्रियव्रतस्य तु सूर्यकृतरात्रि- लोपार्थं स्वेच्छयैव मेरु प्रदक्षिणीकृत्य परिक्रामतः स्वेच्छयैव मंदीकृतैर्गमनैरुत्तराणि दिनानि वर्द्धते दक्षिणायने तु स्वेच्छाधीनया - शीघ्रगत्या दिनानि हसतीति ज्ञेयम् । रथानां योगप्रभावत्वाद्यथासमयं प्राकट्याप्राकटये च ज्ञेये । तेषां सप्तसंख्यत्वेनैव सप्तकृत्व इति पूर्वमुक्तं ज्ञेयं, व्याख्येयं सप्तदिनानंतरं प्रियव्रतस्य स्वयं निवृत्त्यनौचित्यादन्येन केनाध्यनिवर्तनश्रवणाञ्च नासमंजसा ॥ ३० ॥ श्रीमद्वीरराघवव्याख्या ततो भगवान् ब्रह्मापि मनुना स्वायम्भुवेन यथाविधि कृतपूजः प्रियव्रतस्य योगभ्रंशान्नारदस्य शिष्याभावात् कुटिलमीक्षणं सम्भवेत्तत्तु नास्तीत्याह । अविषममकुटिलं यथा भवति तथा प्रियव्रतनारदयोरपि समीक्षमाणयोः सतोरवाङ्मनसक्षयं वाकूच मनश्च वाङ्मनसे “अचतुरविचतुरे"त्यादिना निपातनात् समासान्तोऽच्प्रत्ययः तयोः क्षयं वेद्यं “क्षि निवासगत्योः” इति गत्यर्थ- त्वाद्गत्यर्थस्य ज्ञानार्थत्वाद्वाङ्मनसक्षयमनेनार्वाचीनलोकापेक्षया वैचित्र्यं विवक्षितं, विचित्रान्तरमाह इदमवाङ्मनसगोचरमिति लोके प्रयोगो दृश्यते । युक्तं चैतत्परब्रह्मस्वरूपगुणानामेवापरिच्छिन्नत्वेन वाङ्मनसयोरविषयत्वात्कार्य्यवर्गस्य वाङ्मनसविषयत्वात्सत्यलोकस्यापि कार्यत्वादव्यवहितं द्विपरार्द्धावसानपर्यन्तं तत्रत्यानां जन्मजरामरणाद्यभावेन नष्टं जीर्णमित्यादिव्यवहाराविषयम्, तथा चोक्तं द्वितीये “यद्वै परार्थ्यं तदु पारमेष्ठयं न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग” इत्येवंविधमात्मनः समवस्थानं निवासस्थानं सत्यलोकमगमत् ॥ २१ ॥
मनुः स्वायंभुवोऽपि परेण ब्रह्मणैवं प्रतिसन्धितः सम्पादितः मनोरथः राज्ये पुत्रमभिषिच्य वने यास्यामीत्येवंरूपो मनोरथो यस्य तथाभूतः सन् सुरर्षिवरो नारदस्तस्यानुमतेनानुमत्या भावे क्तः आत्मजं पुत्रं प्रियव्रतं निखिलभूमण्डलमर्यादारक्षणाय स्थापयित्वातिविषमा दुस्तरा ये विषयाः शब्दादयस्त एव विषजलाशयाः विषोदकाशयास्तद्रूपं यद्गृहं तस्मिन्नाशा भोगेच्छा तत उपरतोऽभूत् ॥ २२ ॥
इति ह वावेत्थं हि स जगतीपतिः प्रियव्रतः प्रथममात्मनः स्वस्येच्छया अभिनिवेशितः प्रापितः कर्माधिकारः भगवदाराधनरूपकर्माधिकारः यस्य सः, अखिलस्य जगतः बन्धनध्वंसनः बन्धननिवर्त्तकः, अत एव उत्कृष्टः अनुभावः प्रभावो यस्य तस्य भगवतः कृत्स्नजगदुद्यविभवलीलस्य यदङ्घ्रियुग्मं तस्य यदवच्छिन्नं ध्यानं तस्य प्रभावेण परिरन्धितकषायः दग्धरागादिमलः आशयोऽन्तःकरणं यस्यात एवावदातः निर्मलोऽपि महतां ब्रह्मादीनामाज्ञापालनेन मानवर्द्धनः भूमण्डलमनुशिष्टवान् ॥ २३ ॥
अनुशासनप्रकारमेव विवक्षुस्तावद्दारपरिग्रहमपत्यानि चाह अथेति । अथ चतुर्मुखादेशानन्तरं निवृत्तिनिष्ठोऽपि प्रवृत्तोऽभूदिति विस्मयते हीति । विश्वकर्मणः विश्वकर्मनाम्नः प्रजापतेर्ब्रह्मणो बर्हिष्मती नाम दुहितरमुपयेमे उदवोढ । उ इति विस्मये हवविति प्रसिद्धौ, तस्यां बर्हिष्मत्यामात्मसमानैः स्वतुल्यैः शीलादिभिर्गुणैरुदारान्महतः, औदार्यानिति पाठे आत्मसमाः शीलादयो येषामिति बहुव्रीहिः, तत्र शीलं स्वभावः सहृत्तिश्च गुणाः शौर्यादयः कर्मव्यापारः रूपं सौन्दर्यं वीर्यं पराभिभवसामर्थ्यं शौर्यं रणमध्ये स्वगृह इव प्रवेशसामर्थ्यमौदार्यं वदान्यता एवंविधान् दशात्मजान् भावयाम्बभूव उत्पादयामास तथा यवीयसीं दशानामात्मजानामनुजामूर्जस्वतीं नाम कन्यां भावयाम्बभूवेति पूर्वेणास्वयः ॥ २४ ॥
पुत्रान्निर्दिशति आग्नीध्रेति । आग्नीध्रादीनामितरेतरयोगे द्वन्द्वः, सर्वेऽग्नीनां नामानि येषां तथाभूता ये तेषां दशानां पुत्राणां मध्ये कविर्महावीरः सवन इति त्रय ऊर्ध्वरेतसः जितेन्द्रिया आसन् । ते कव्यादयः त्रयः बाल्यादारभ्यात्मविद्यायां कृतः परिचयो यैस्ते पारमहंस्यं परमहंसाः शुद्धान्तःकरणाः तेषां संबन्धिनमाश्रममभजन् । केवलं निवृत्तिधर्मपरायणा अभवन्नित्यर्थः ॥ २५-२६ ॥
तस्मिन्नु ह वा पारमहंस्याश्रमे हि वर्तमानाः उपशम इन्द्रियनिग्रह एवं शीलं येषां ते अत एव परमर्षयः, सकलजीवानां निकामः समूहः स आवासः शरीरं यस्य निकायस्याधारस्तस्येति वा मृत्युभयं संसृतिभयं तेन भीतानां शरणभूतस्य रक्षणोपायभूतस्य रक्षितुश्च भगवतो वासुदेवस्य श्रीमतोश्चरणारविन्दयोर्यदविच्छिन्नं स्मरणं तेनाविगलितः अविच्छिन्नः अत्युत्कर्षरूपो यः परमभक्तियोगः तस्य प्रभावेण उपचयेन वा परिभावितं निरस्तरागादिकं निर्वासितमिति यावत् यदन्तर्हृदयं मनस्तस्मिन्नधिगते साक्षात्कृते सर्वेषां भूतानामात्मभूते अन्तः प्रविश्य शासनेन धारके प्रत्यगात्मनि प्रत्यग्जीवः आत्मा शरीरं यस्य तस्मिन् प्रतीचः आत्मनीति वा प्रत्यगात्मशरीरक इति वा भूतानामात्मभूते इत्यचैतन्यशरीरकत्वमुक्तं प्रत्यगात्मनीति जीवशरीरकत्वमेवंभूते भगवत्येव वर्तमानस्य भगवदपृथक्सिद्धविशेषणतया साक्षात्कृतस्यात्मनः स्वस्य तादात्म्यं तत्स्वभावतां साधर्म्यमित्यर्थः । अविशेषेण जगद्व्यापारवर्जं कार्त्स्न्येन समीयुः मुक्ता बभूवुरित्यर्थः । अविशिष्टाः सप्तपुत्राः पित्रधीनाः स्थिता इति भावः ॥ २७ ॥
तथा अन्यस्यामपि भार्यायां त्रयः पुत्राः जातास्तान् तदधिकारं च निर्दिशति । उत्तम इति ॥ २८ ॥
एवमुपशमायनेषु उपशमो गुणान्तराणामप्युपलक्षणमात्मसमानशीलेति पूर्वमुक्तत्वात् सद्गुणाश्रयेषु सत्स्वित्यर्थः । अथ जगतीपतिः प्रियव्रतः अर्बुदः कोटिः, अन्ये तु दशकोटिमर्बुदमित्याहुः, वत्सराणामेकादशार्बुदानि जगतीं बुभुज इत्यन्वयः । राज्ञां धर्मपरिपालनविषयभोगप्रभावैर्भाव्यं तत्रानायासेनैव धर्मपरिपालनमाह । अव्याहता अखिलाः पुरुषकाराः पौरुषाणि यस्य तेन सारेण बलेन संभृतौ पूर्णौ यौ दोर्दण्डौ तयोः युगलं तेनापीडित आकृष्टो यो मौर्वीगुणस्तस्य स्तनितं टङ्कारस्तेनैव युद्धं विना विरमिता निरस्ता धर्मविरोधिनो येन । भोगातिशयमाह बर्हिष्मत्यां स्वभार्यायामनुदिनमेधमानैः प्रमोदादिभिः पराभूयमानविवेक इवात एव विषयरुच्यानवबुद्धधमानः स बुभुजे । तत्र प्रमोदः पतिं दृष्ट्वा हर्षः ततः प्रसरणमभ्युत्थानादिलीलाः ततो यौषिण्यं योषित्स्वरूपकृतशृङ्गारादिभावप्रकाशनं ततो व्रीडया मुषिताः सङ्कोचिताः हासावलोकाः ततो रुचिरक्ष्वेल्यादयः मृदुतरपरिहासवाक्यादीनि तैः ॥ २९ ॥
प्रभावातिशयमाह यावदिति । भगवानादित्यः सूर्यः सुरगिरिं मेरुमनुभ्रामन्परिक्रमन्प्रदक्षिणीकुर्वन् वसुधातलं भूमण्डलं यावदवभासयति अद्धेनैव प्रतपत्यर्द्धमेव प्रकाशयत्यर्धमाच्छादयति मेरोश्छायातस्तमसाच्छादयति मेरोः पार्श्वान्तरमवभासयन्नपि पार्श्वान्तरं न प्रकाशयतीत्यालोच्य तद्वसुधातलार्द्धावसानमनभिनन्दन्नसमीचीनं मन्वानः रजनीमपि दिवसं करिष्यामीति यत्सूर्येणानवभातं वसुधातलार्द्धं तदप्यवभासयामीति कृतसङ्कल्पः भगवदुपासनेनोपचितोऽतिपुरुषप्रभावः अमानुषप्रभावः यस्य समजवेन सूर्यसमान वेगेन तद्वत्प्रकाशबहुलेन च रथेन द्वितीयः पतङ्गः अपरः सूर्य इवातस्तरणिं सूर्यमनुसृत्य यथा तरणिर्गच्छति तथा मेरो परितः आक्रामति यदा मेरोर्दक्षिणस्यां दिशि सूर्य्योऽवभासते तदा स्वयमुत्तरस्यां यदा स उत्तरस्यां तदा स्वयं दक्षिणस्यामित्येवमचीचकासदित्यर्थः । अयमप्यस्यः प्रभावविशेषः सूर्योऽन्तरिक्षे चरन्नवभासयति अयं तु भूम्यां चरन्नुपर्यधश्चाचीचकासदिति ॥ ३० ॥
श्रीमद्भागवतम् श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली र "” [ स्कं. ५ अ. १ श्लो. २१-३० स्वाज्ञाग्रहणात्प्रियव्रताय तुष्यन्विरिवः सत्यलोकमापेत्याह भगवानपीति । मनुना यथावदुपकल्पिता अपचितिः पूजा यस्मै सः अनिमिषमिति क्रियाविशेषणं पक्ष्म विवृत्य आत्मसमवस्थानं स्वस्थानं सत्यलोकं वाङ्मनसयोः वाचो मनसश्च क्षयं विषयी- कर्तुमशक्यमव्यवहितं सतामिति शेषः रागादिदोषरहितत्वात् ॥ २१ ॥ * स्वायम्भुवमनोरपि संसारत्यागप्रकार माह मनुरपीति । परेण विरिचेन सुरर्षिवरानुमतेन देवर्षीणां मध्ये वरः श्रेष्ठः नारदः तस्यानुमतेन गुप्ती रक्षा, . अतिविषमविषय एव विषं तदेव जलाशयो हृदस्तस्मात् ।। २२ ।। * प्रियव्रतस्य यथा विरिनोपदेश क्षितिरक्षणप्रकारं ब्रवीति इति हेति । इतिशब्दो हेत्वर्थः । यस्माद् गुरूणामनुशासनमनुलङ्घनीयमत इति बन्धध्वंसनपरोऽनुभावः प्रभावः सामर्थ्यं यस्य स तथा तस्य ध्यानानुभावेन ध्यानसामर्थ्येन ध्यानादुत्पन्नज्ञानेन वा कषायः पापं ‘रधि-दाहे’ रन्धितं दग्धमपि सम्भावितमिति ।। २३ ।। ** वानप्रस्थाश्रमस्थ एवायं राज्यमपालयद्विरक्तत्वान्न तु गृहाश्रमस्थ इति शङ्कां परिहर्तुमाह अथेति । साप्युभयकुलशुद्धिकरीत्याशयेनाह तस्यामिति । उहवा इति निपाताः प्राक्पुत्रानुत्पत्तौ सन्तापं पश्चात्सन्तोष तत्र प्रसिद्धिं सूचयन्ति भावयाम्बभूवोत्पादया- मास ।। २४ ।। ऋ * तेषां नामान्याह आनीति । यज्ञबाहोरनुजो महावीरः घृतपृष्ठानुजः सवनः वीतिहोत्रानुजः कविः ।। २५ ।। ऊर्ध्वरेतसो ब्रह्मचर्याख्यव्रतधारिणः अर्भकभावाद्वाल्यात्प्रभृति आत्मविद्यायां परविद्यायां कृतपरिचयाः पूर्णाभ्यासाः । एवशब्देन मानसपरमहंसाश्रमं व्यावर्तयति ॥ २६ ॥ ४ तस्मिन्नाश्रमे वर्तमानाः स्वयोग्यगुणोपसंहारेण मुक्तिः स्यादिति दर्शयितुं सकलजीवेत्यादिगुणविशिष्टत्वं हरेरुक्तं नतु गुणानामियत्तया । अविरतस्मृत्या विगलितस्य तैलधारायितस्य परमभक्तियोगस्यानुभावेन परिभाविते वशीकृतेऽन्तह दयेऽधिगते ज्ञाते आत्मभूते अतिप्रिये प्रत्यगात्मनि स्वबिम्बेऽतर्यामिण अविशेषेण पार्थिवदेहत्यागेन तादात्म्यं तद्रूपसाम्यमेवापुः । सर्वे चतुर्बाहव इत्यादेः भगवतीति सप्तमीनिर्देशान्नैक्यमत्रोच्यते तदधीनत्वं तत्स्वामित्वं वा तदेकचित्तत्वं वा तत्कामितकामित्वं वा विशेषेण स्वातन्त्र्यमन्तरेणेति च ।। २७ ॥ न केवलमस्यैकैव पत्नी किन्तु द्वितीयाप्यस्ति सापि प्रयोजकपु त्रप्रसूरित्याह अन्यस्यामपीति । तत्कृत्यमुक्तं मन्वन्तराधिपतय इति ॥ २८ ॥ * * स प्रियत्रतो राजा कियन्तं कालं राज्यमभुङ्क् ति तत्कालावधिमाह एवमिति । उपशमायनेषु संन्यस्तेषु भगवतोऽधिकनिष्ठेवायनमाश्रयो येषां ते तथा तेष्विति वा परिवत्सराणामेकादशार्बुदानि मौर्वीगुणो ज्याख्यरज्जुस्तस्य स्तनितेन विस्फूर्जितेन प्रमोदप्रसरणमानन्दप्रवाहस्तस्य पोषणं प्रबर्धनं तेन च ब्रीडया च विशिष्टचेष्टालक्षणया च प्रमुषितहास ईषत्तिरस्कृतहासनं तेन युक्तोऽवलोको यस्तेन रुचिरा क्ष्वेलना नर्मवागेवंपूर्वैः पराभूयमानविवेकोऽनाविर्भूतविवेकज्ञानत्वादनवबुध्यमान इवाज्ञतुल्यः न त्वज्ञ इत्यर्थः । महामना इत्युक्तेः ॥ २९ ॥ * * नन्वत्रास्य विषमविषयभोगविशेष एवोक्तो न तु माहात्म्यविशेष इत्यतस्तमाह यावदिति । अयमादित्यो भगवा- न्सुरगिरिमनुक्रामन्यावदवभासयतीत्युक्तमेव विवृणोति वसुधातलमिति । प्रतपति प्रकाशयति पुरुषमानमतिक्रम्य वर्तमानः प्रभावो यस्य स तथा तदादित्यप्रवर्तनमात्मराज्यान्धकार करणं समजयेन सूर्यरथसदृशवेगेन रजनीं रात्रिमपि दिनं प्रकाशवत् व्यवहारयोग्यं करिष्यामीति मत्वा तरणिमन्वादित्यस्य पृष्ठतः सप्तवारं पर्याक्रामत् मेरोः परिसरभूमिमिति शेषः । पतङ्गः सूर्यः ।। ३० ।। EK REC श्रीमज्जीव गोस्वामिकृतः क्रमसन्दर्भः अवाङ्मनसं क्षयमिति पाठे क्षयं निवासं ब्रह्मलोकमगमदित्यन्वयः । अवाङ्मनस इत्यादिकं त्वात्मसमवस्थानमित्यस्यैव विशेषणम् । तच भगवत्स्वरूपस्फूर्त्तिः तत्प्रियव्रतनारदयोः प्रवर्त्तयन् अगमत् स्वं निवासम् ॥ २१ ॥ मनुरपीत्यादि- वाक्येन प्रियव्रतस्य राज्यं पूर्वमिति गम्यते तथैव श्रीविष्णुपुराणेऽपि दृश्यते तथैव च तत्पुत्राणां तृतीयचतुर्थ पञ्चममनुत्वमुक्त्तान- पादवंशजस्य तु चाक्षुषस्य षष्ठमनुत्वं तद्वंशान्तिमस्य प्राचेतसस्य दक्षस्य च षष्ठमन्वन्तरे राज्यं घटते, अन्यथा परिवेत्तृत्वादिकमा- पद्येत । न च तयोज्येष्ठानुक्रमेणैव राज्यं किन्तु वंशेषु कदाचित् कस्यचित् साम्राज्यमिति वेनमृत्यौ प्रचेतसां तपस्यायां चाराज- कत्वासम्भवात् किन्तूत्तानपादस्य चिरकालेनैव सुतोत्पत्तिरिति गम्यते । यत्तु चतुर्थे “प्रियत्रतोत्तानपदो मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम्” इति तदपि तदृश्यस्य मनूनामपि तद्ग्रहणेन गृहीतत्वात् स्वारोचिषस्यापि तदन्तःपातात् । यच्च श्रीपृथुं प्रति ब्रह्मवचनम् “न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः” इति यज्ञस्येन्द्रत्वेन तद्राज्यस्य स्वायम्भुवसमकाल बोधयति । अत्रापि तदादरायैव तदभेदनिर्देशो ज्ञेयः, तदंशावेशेनैवान्येषामिन्द्रत्वात् शब्दार्थस्तु तचैव दर्शितः । तत्र प्रायः प्रियव्रतादिराज्यं तृतीयमन्वन्तरावसानमुत्तानपादादिराज्यन्तु षष्ठावसानम् प्रियत्रतवंश्ययोस्तामसरैवतयोस्तु मनुत्वं राजत्वमतीत्य चरमावस्थायां ज्ञेयं चाक्षुषवत् । तस्मात् सर्व्वमेव समञ्जसमतः कथन एव विपर्य्ययो न तु कथनीये । यथा दशमे कुरुक्षेत्र- यात्रादौ ।। २२ ।। * * रागादिदोषराहित्येन शुद्धोऽपि महीतलमनुशशास । महतां मानवर्द्धनः सन् । तत्रापि तदर्थ- मेवेत्यर्थः ॥ २३ ॥ * * अथ अतो हेतोः राज्याद्धेतोरेव ।। २४-२६ ॥ * तादात्म्यं तत्साम्यम् ।। २७-२८ ॥ * * अर्बुद कोटिपर्य्यायं न्यर्बुदमेव तु दशकोटिः । तथैव षष्ठस्कन्धे बलेः स्वर्गविजये तैर्व्याख्यातम् । तथा चामरकोषे क्षीरस्वामिधृतं प्रमाणवचनम् “एकं दशशतसहस्राण्ययुतं प्रयुताख्यं लक्ष्यमथ नियुतम् । अर्बुदकोटिन्यर्बुदपद्मे खर्व्वं निखर्व्वमिति दशभिः ॥ A.स्क. ५ अ. १ श्लो. २९-३०] अनेकयाख्या समलङ्कृतम् २९ गुणनाम महाशङ्खसमुद्रमध्यान्तमथ परार्द्धन । स्वहतं परार्द्धममितं तत् स्वहतं भूतोऽसङ्ख्यमिति । प्रयुताख्यलक्षमिति तयोरेक पर्यायत्वमित्यर्थः । एवमर्बुदकोट्योरपि अर्बुदाख्यकोटिरिति मध्यपदलोपी समासः । तथा च माध्यन्दिनशाखायाम् ‘इमा मेऽग्नयः इष्टका धेनवः सन्त्येकादश च शतञ्च सहस्रञ्च सहस्रायुतं चायुतवार्बुदन न्यर्बुद समुद्रमध्यं वान्तश्च परार्द्धने त्यादि ॥ २९ ॥ * * यावदिति प्रजाभ्यः सुखदानेच्छयैव न तु स्पर्द्धयेति ज्ञेयम् । गद्यान्ते एवं कुब्र्वाणं प्रियत्रत- मागत्य चतुराननस्तवाधिकारो नास्तीति निवारयामासेत्यधिकं कचित् ॥ ३० ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी यथावदिति तत्कालदेशोचितसपर्थ्यया इत्यर्थः । अत्र प्रियव्रतस्य योगभ्रंशात् नारदस्य च शिष्यगतमनोरथध्वंसात् कुटिलमीक्षणं सम्भवति तत्तु नास्तीत्याह । अविषमं यथा स्यात्तथा तयोरभिसमीक्षमाणयोः सतोः आत्मनः परमात्मनः सम्यगव- स्थानं स्वरूपं स्वहृदि प्रवर्त्तयन स्मरन् कीदृशं वाङ्मनसयोः प्राकृतयोरविषयं क्षयं सर्व्वनिवासस्थानत्वादाश्रयतस्त्वमित्यर्थः । पाठान्तरे अवाक् न विद्यन्ते वाचस्त्रैगुण्यविषया विधिनेषधात्मिकाः श्रुतयो यत्र तथाभूतं यन्मनस्तस्य क्षयं निबैगुण्यमनो- विषय मित्यर्थः । अव्यवहृतं व्यवहारशून्यं यद्वा अव्यवहृतं प्रियव्रतं व्यवहारे प्रवर्त्तयन् क्षयं सत्यलोकमगमत् कीदृशम् आत्मनः स्वस्य सम्यगवस्थानं यत्र तत् । प्रियव्रतं कीदृशमवाङ्मनसम् आत्माराममहाभागवतत्वात् प्राकृतवाङ्मनसशून्यमित्यर्थः ॥ २१ ॥ ** परेण ब्रह्मणैव प्रतिसन्धितः सम्पादितो मनोरथो यस्य सः स्थितिगुप्तये मर्यादापालनाय विषमविषय एव विषजलाशयः विषसमुद्रस्तत्र या आशा प्रवृत्तिवासना तस्याः सकाशात् ॥ २२ ॥ * * गृहे कथमरमतेत्यस्योत्तरमाह । इति हवाव इत्थमेवेत्यर्थः । बन्धध्वंसन एवं परानुभावः प्रकटप्रभावो यस्य तस्य परिरन्धितकषायो दग्धरागादिमलः आशयो यस्य सः अत एवावदातः परमशुद्धोऽपि महतां ब्रह्मादीनामाज्ञापालनेन मानमादरं वर्द्धयतीति सः ।। २३ ।। * * शीलादिभिरुदारान भावयाम्बभूव उत्पादयामास ।। २४-२६ ।। * * तस्मिन्नु ह वै पारमहंस्याश्रम एव अविगलितो निश्चलो यः परमभक्तियोगः तस्यानुभावेन प्रभावेण परिशोधितं यदन्तर्हृदयं तत्राधिगतः प्रतीतो यो भगवान् तस्मिन् आत्मनस्त्वंपदार्थस्य तादात्म्यं लयम- विशेषेण विशेषो देहाद्युपाधिकृतपृथग्भावस्तदपोहेन ।। २७-२८ ।। * * उपशमाश्रयेषु सत्सु दशकोटिभि रेकमर्बुदमिति श्रीस्वामिचरणाः । अर्बुद कोटिपर्य्यायमिति सन्दर्भः । एकादशार्बुदानि परिवत्सरान् जगतीं बुभुजे इत्यन्वयः । राज्ञां खलु परियशःसु प्रतापविषयभोगप्रभावेष्वावश्यकेषु मध्ये प्रथमं तस्य प्रतापातिशयं वर्णयति । अव्याहताः अखिलाः पुरुषकाराः पौरुषाणि यस्मात्तेन सारेण बलेन संभृतं पूर्णं यद्दोर्दण्डयुगल तैन आपीडितः आकृष्टो मौव्वगुणस्तस्य स्तनितं टङ्कारः तेनैव युद्धं विनैव विरमिता निरस्ता धर्मप्रतिपक्षाः शत्रवो येन सः । भोगातिशयं वर्णयति बर्हिष्मत्याः स्वभार्य्याया अनुदिनमेधमानैः प्रमोदादिभिः पराभूयमानविवेक इव । तत्र प्रमोद आयान्तं पतिं दृष्ट्वा हर्षः ततः प्रसरणमभ्युत्थानस्वाङ्गवरणविवर्त्तनस्थानान्तरगमनादि ततो यौषिण्यं योषित्स्वाभाविकधम्र्मोऽपाङ्गचालननासामुक्तोन्नमनकर्णकण्डूयनादिस्वयं दूत्यम् । ततः पत्युरौत्सुक्यमालक्ष्य व्रीडया प्रमुषिताः सङ्कोचिता हासावलोका स्ततो रुचिराः क्ष्वेत्यादयः परिहासवाक्यादीनि तैः, अत एव विषयासक्तचा आत्मानमनव- बुद्धधमान इव, अत्र इवद्वयेन तस्य विवेकज्ञानयोः सम्पूर्णयोरक्षुण्णयोरपि वैषयिकलोकैर्दुर्गमत्वं व्यञ्जितं तत्र हेतुर्महामनाः विषयासक्तितदभावयोर्यौगपद्येन सद्भावाद् दुस्तर्कमनस्तत्त्व इत्यर्थः ॥ २९ ॥ ॐ प्रभावातिशयं वर्णयति । यावद्वसुधातलं लोकालोकपर्थ्यन्तमादित्योऽवभासयति मेरुं प्रदक्षिणीकुर्वन् तत्र अर्द्धन अर्द्धावर्त्तेन प्रतपति प्रकाशयतीति दिवा भवति । अर्द्धन अपरार्द्धावर्त्तेन आच्छादयतीति तमसा रात्रिर्भवति तदा हि प्रियव्रतराज्याधिकारसमय इत्यर्थः । भगवदुपासनेन उपचितः अति- पुरुषः पुरुषानतिक्रान्तः प्रभावो यस्य सः तदनभिनन्दन् अर्द्धेनाच्छादनमप्रशंसन् तरणिमनुलक्ष्यीकृत्य तरणेरस्ताचलावरोहसमये स्वयमुदयाचलमारोहन्नित्यर्थः । पतङ्गः सूर्य्यः पर्य्यक्रामत् परिक्रान्तवान् प्रजाभ्यः सुखदानेच्छयैव न तु सूर्य्यस्पर्द्धया । तेन ज्येष्ठादिमासेषु प्रियव्रताख्यसूर्य्यस्य चन्द्रादप्यतिशीतलत्वं मार्गशीर्षादिमासेषु तु सूर्यादपि प्रातः सायङ्कालयो रौष्ण्यमधिकमिति ज्ञेयम् । एवञ्च प्रियव्रतस्य सौभयदेवि योगबलेनैव राजत्वसूर्य्यत्वे कायद्वैतेनैव ज्ञेये ।। ३० ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः प अभिसमीक्षमाणयोः सतोर्मनुना उपकल्पिता अपचितिः पूजा यस्य स अविषमं सर्वदैकरसमवाङ्मनसं वाङ्मनसयोः कात्स्न्र्त्स्न्येनाविषयमव्यवहृतं लौकिकव्यवहारातीतम् आत्मसमवस्थानमात्मनि उपासके सम्यगवस्थानं यस्य तमन्तर्यामिणं प्रवर्त्तयन् चिन्तयन् क्षयं स्वस्थानमगमन् ।। २१ ।। * * अतिविषमः मुमुक्ष्वननुरूपो यो विषयजलाशयः गृहं तस्य आशा दिक तस्याः अपि सकाशात् सुरर्षिवरस्य योगाधीशस्य अनुमतेन उपरराम ।। २२॥ * अधिनिवेशितः प्रवर्तितः कर्माधिकासे यस्य सः परिरन्धितकषायः दग्धरागादिमलः आशयोऽन्तः कारणं यस्य सः महतां ब्रह्ममन्वादीनां मानवर्द्धनः तदाज्ञा- पालनात् ।। २३-२४ ॥ * * अग्नीनां नामानि येषां ते तथा ।। २५-२६ ।। श्रीमच्चरणारविन्दयोर विरतस्मरणेन ३० श्रीमद्भागवतम् [ स्कं. ५ अ. १ श्लो. २१-३० निरन्तरध्यानेन अविगलितः अस्खलितों यः परो ध्रुवानुस्मृतिरूपो भक्तियोगस्तस्यानुभावेन परिभाषिते योग्यतां नीते अन्तर्हृदये- ऽधिगते आविर्भूते भगवति सर्वेषां भूतानामचेतनानामात्मभूते आश्रयरूपे प्रत्यगात्मनि प्रतीचां चेतनानां चात्मनि आश्रये चिद- चिच्छक्तिमतीत्यर्थः । आत्मनस्तादात्म्यम् अंशत्वेन भिन्नस्वरूपस्यापि जीवात्मनः अंशिभिन्नावस्थानाभावादभिन्नत्वं सर्वे अविशेषेण समीयुः ।। २७-२८ ।। * * उपशमायनेषु सत्सु ‘एकदशसहस्रायुतं लक्ष्यप्रयुतकोटीः क्रमशः अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्क- वस्तस्मात् । जलधिश्चान्त्यं मध्यपरार्द्धमिति दशगुणोत्तराः संज्ञाः’ संख्याया व्यवहारार्थं यथा कृताः पूर्वैरिति संख्यावचनात् दशकोटि- खुदं भवति एवंविधानि परिवत्सराणामेकादशार्बुदानि जगतीपतिः बर्हिष्मत्या अनुदिनमेधमानमनुदिनं प्रसरणमभ्युत्थानादिव्यापारेण यौषण्येन योषित्स्वभावानुरूपगुणप्रकाशनेन ब्रीडाप्रमुषितैः लज्जासङ्कोचितैः हासावलोकैः रुचिरैः क्ष्वेत्यादिभिच पराभूयमानविवेक इव अनवबुध्यमान इव च जगतीं बुभुजे । कथम्भूतः अव्याहताः अखण्डिताः अखिलपुरुषकाराः समग्रपौरुषाणि यस्मात्तेन सारेण बलेन सम्भृतयोः पूर्णयोर्दोर्दण्डयोर्युगलेन आपीडितस्य मौर्वीगुणस्य स्तनितेन टङ्कारेणैव विरमिताः त्यक्ताः धर्मव्यापाराः धर्मप्रतिपक्षा अधार्मिका येन सः ॥ २९ ॥ * * आदित्यः सुरगिरिमनुपरिक्रमन् यावत् वसुधातलमवभासयति प्रकाशयति तत्र अर्द्धन उपलक्षितं यदा प्रतपति अवशिष्टेनाद्धेनोपलक्षितं तु अवच्छादयति दूरीभूतस्वतेजोऽभावेन तमसा पूरयतीत्यर्थः, तदाहि तद्वसुधा- तलस्य अर्द्धभागं तमोव्याप्तमनभिनन्दन् रजनीमपि दिनं करिष्यामीति बुद्धधा द्वितीयः पतङ्गः आदित्य इव सप्तकृत्वः सप्तवारान् तरणिमनुपर्थ्यक्रामत् यतो भगवदुपासनेनोपचितः सुसमृद्धः अतिपुरुषः पुरुषानतिक्रान्तः अतिपुरुषः, तथाभूतः प्रभावो यस्य सः ।। ३०-३१ ॥ । गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ॥ भगवान् ब्रह्माऽपि स्वक्षयं स्वनिवासं सत्यलोकमगमदित्यन्वयः । एवं प्रियव्रतानुनयेन मनोरतिसन्तोषो जात इति सूचयन् विशिनष्टि-मनुनेति । मनुना सन्तुष्टेन यथावत् सम्यक उपकल्पिता समर्पिता अपचितिः पूजा यस्य स तथा तत्र प्रियव्रतस्य भजनप्रतिबन्धेन नारदस्य चोपदेशप्रयास वैयर्थ्येन चोभयोर्वैषम्येक्षणं सम्भवति तन्नासीदित्याह-प्रियत्रतेति । प्रियव्रतनारदयोरविषमं यथा भवति तथाऽभिसमीक्षमाणयोः सतोः । एवं भगवद्भजनाद्वद्यावत् स्वकार्ये सृष्टधुपबृंहणे प्रियव्रतस्य प्रवर्त्तने ब्रह्मणोऽपि वैमनस्यं जातमतो मनसः समाधानार्थमात्मनः स्वस्य समवस्थानं सम्यगाश्रयभूतं वामनसं वाङ्मनसयोरविषयं अव्यवहृतं सर्वव्यवहारातीतं भगवन्तं प्रवत्तयन् चिन्तयन् उच्चारयन् वाऽगमत् ॥ २१ ॥ मनुरपि परेण ब्रह्मणा एवं प्रतिसन्धितः सम्पादितः मनोरथः पुत्रं राज्येऽभिषिच्य भगवदाराधनार्थं वनं गमिष्यामीत्येवंरूपो मनोरथो यस्य सः सुरर्षिवरो नारदः तदनुमतेन आत्मजं प्रियव्रतं अखिलधरामण्डलस्य स्थितिगुप्तये मर्यादापालनाय राज्ये आस्थाप्य स्वयमतिविषमोऽतिदुस्तरी यो विषया एव विषजलानि तेषामाशयः स्थानं गृहं तस्य आशा भोगेच्छा तस्या उपरराम उपरतोऽभूत् ॥ २२ ॥ * * यदुक्तं ‘आत्मारामो गृहे कथमरमत’ इति तत्रोक्तमुत्तरमुपसंहरति- इतीति । इति ह वाव एवमेव हि ईश्वरस्येच्छया अधिनिवेशितः प्रापितः कर्माधिकारो यस्य स प्रियत्रतो जगतीपतिः पृथिवीपतिः भगवतो यदम्रियुगलं तस्यानवरतं निरन्तरं ध्यानं तस्यानुभावेन परिरन्धितकषायो दग्धरागादिमल आशयोऽन्तःकरणं यस्य स तथा अत एव अवदातः शुद्धोऽपि महीतलमनुशशास पालयामासेत्यन्वयः । भगवदङ्प्रिध्यानस्य शुद्धिहेतुत्वं कथमित्याशङ्कय तं विशिनष्टि - आदिपुरुषस्येति । यद्वा औपचारादिकं भगवन्त्वमन्यत्राप्यस्ति तद्वारणाय विशेषणं आदिपुरुषस्येति । तदप्रध्यानस्य शुद्धिहेतुत्वे कैमुत्यन्यायं सूचयंस्तं विशिनष्टि- अखिलेति, अखिलस्य जगतो बन्धध्वंसने परोऽनुभावः प्रभावो लीला यस्य सः । परोऽनुभावः प्रभावो लीला यस्य सः । यस्य लीलाश्रवणमात्रेणापि चित्तशुद्धया बन्धध्वंसो यदि भवति तदा किं वक्तव्यं निरन्तरं तच्चरणध्यानेन तद्भवतीति भावः । एवं शुद्धस्यापि राज्यप्रवृत्तौ हेतुमाह- मानेति, महतां ब्रह्मादीनां मानवर्द्धनः सन्मानकर्त्ता, ब्रह्मवाक्याद्राज्ये प्रवृत्त इत्यर्थः । न च भक्तस्य सर्वं भगवदिच्छानुसारेण कर्त्तुमुचितमिति तदिच्छां विचार्य मनुवाक्यत एव कुतो न राज्यमङ्गीकृतवानिति शङ्कयम्, पूर्व राज्यभोगाभिनिवेशेन भगवद्भजनरसाभिघातशङ्कयाऽप्रवृत्तोऽपीदानी ब्रह्मद्वारा भगवद्वाक्यं श्रुत्वा तगौरवात्प्रवृत्तः, अन्यथा तदुल्लङ्घने भगवद्भजनमेव न सिद्धयेत् कुतस्तद्रसानुभवः ? तथा चोभयभ्रंशः स्यात्, पुष्टिमार्गे हीच्छायाः प्राबल्यं, मर्यादामार्गे तु वाक्यस्यैव, अतः …स्वमर्यादामार्गीयत्वान्नेच्छाविचारे या प्रवृत्तिस्तद्वाक्यं श्रुत्वा तु प्रवृत्तिः । न च वाक्यादपि प्रवृत्तौ भजनरसविघातः प्रसक्त एव कथं प्रवृत्तिरिति शङ्कनीयम्, तद्वाक्यात् प्रवृत्तौ राज्यावस्थायामग्रे च तत्कृपया भजनरसस्य निश्चयात् । न च " यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इति श्रुत्या विरक्तस्य संन्यास एवाधिकारबोधनात् प्रियव्रतस्य विरक्तत्वात् कथं तद्वाक्यविरोधि - भगवद्वाक्येन गृहे प्रवृत्तिरिति शङ्कनीयम्, अस्यापि ब्रह्ममुखनिस्सृतभगवद्वाक्यत्वेन श्रुतेदुर्बलत्वाभावात् विशेषतः स्वविषयकत्वेन समानविषयकश्रुतेः प्रबलत्वाच्च तेन गृहप्रवृत्तौ न कश्चिदोष इति बोध्यम् ।। २३ ॥ * * तस्य विवाहपूर्वक पुत्रोत्पत्तिमाह- अथेति । अथ राज्याङ्गीकारानन्तरं प्रजापतेर्विश्वकर्मणो बर्हिष्मतीं नाम दुहितरं कन्यामुपयेमे व्यूढवान् । उ इति एवं विरक्तस्यापि भगवदिच्छया पुत्रा जाता इति विस्मयं दर्शयति । ह इति प्रसिद्धमेतत् । वावेति नात्र सन्देहः । तस्यामात्मना समानैः शीलादि- भिरुदारान् महतो दशात्मजान् पुत्रान् भावयाम्बभूव उत्पादयामास । तत्र शीलं स्वभावः, गुणाः शौर्यादयः, रूपं सौन्दर्यम्, " * एकं. ५ अ. १ श्लो. २१-३०] * अनेकव्याख्यासमलङ्कृतम् ३१ वीर्य पराभिभवसामर्थ्यम्, शौर्य रणमध्ये स्वगृह इव प्रवेशः, औदार्यं वदान्यता । यवीयसीं कनिष्ठां ऊर्जस्वतीं नाम कन्यांच भावयाम्बभूव ॥ २४ ॥ * * तान् पुत्रान्निर्दिशति आग्नीधः इध्मजिह्नः यज्ञबाहुः महावीरः हिरण्यरेताः घृतपृष्ठः सचनः मेधातिथिः वीतिहोत्रः कविश्वति सर्वे एव अग्नीनां नामानि येषां ते ।। २५ ॥ एतेषां पुत्राणां मध्ये कविः महावीरः सवन इति त्रयः पुत्रा ऊर्ध्वरेतसोऽकृतविवाहाः स्त्रीसम्बन्धरहिता जितेन्द्रिया आसन् । यतस्ते अर्भभावात् बाल्यादारभ्य आत्म- विद्यायामेव कृतपरिचयाः कृताभ्यासाः, अतः पारमहंस्यमाश्रममेव अभजन् स्वीकृतवन्तः ॥ २६ ॥ * * उ अपि ह हेती, वै निश्चयेन । तस्मिन् पारमहंस्याश्रमेऽपि भगवतः श्रीमच्चरणारविन्दयोः अविरतं निरन्तरं स्मरणेन अविगलितोऽखण्डितो यः परमो । भक्तियोगः तस्यानुभावेन परिभाविते संशोधितेऽन्तर्हृदये हृदयमध्येऽधिगतः प्रतीतो यो भगवांस्तस्मिन् सर्वेषां भूतानां आत्मभूतेऽत एव प्रत्यगात्मनि स्वरूपभूते आत्मनः स्वस्य तादात्म्य मैक्यमेव अविशेषेण देहायहन्ताममतानिरासेन समीयुः प्रापुरित्यन्वयः । औपचारिकं भगवत्त्वं ब्रह्मादीनामप्यस्तीति तद्वारणायाह-वासुदेवस्येति । न केवलं नाममात्रमेतत्किन्तु योगेनार्थतोऽपि तथैवेत्याह-सकलेति, सकलजीवनिकाया आवसन्त्यस्मिन्निति तथा तस्य । तथा च वसन्त्यस्मिन्निति वासुः, स एव दीव्यति विश्वसर्गादिना क्रीडति देवः, स च स चेति वासुदेवस्तस्येत्यर्थः । अत एव संसाराद्भीतानां शरणभूतस्य रक्षक- स्येत्यर्थः ॥ २७ ॥ * * प्रियव्रतस्य अन्यस्यामपि भार्यायां उत्तमादयस्त्रयः पुत्रा आसन् जाताः, ते च क्रमेण मन्वन्तरा- धिपतयो मनवः, बभूवुरिति शेषः ।। २८ ।। * एवमुक्तप्रकारेण स्वतनयेषु कव्यादिषु त्रिषु उपशमायनेषु संन्यासाश्रमेषु गतेषु अथ तदनन्तरं जगतीपतिः पृथिवीपतिः प्रियत्रतः परिवत्सराणां वर्षाणां एकादशार्बुदानि तावत्कालपर्यन्तं जगतीं पृथिवी बुभुजे इत्यन्वयः । तत्र पृथिवीभोगो नाम यथास्थितधर्ममर्यादया प्रजापालनं विषयभोगश्च । तत्र धर्ममर्यादायाः तत्प्रतिपक्ष्यधर्म- हेतुनिरासपूर्वकत्वात् तन्निरासोऽपि तस्यानायासेनैव जात इत्याह-अव्याहतेति । अव्याहताः अखिलाः पुरुषकाराः पौरुषाणि यस्मात् तेन सारेण बलेन सम्भृतौ दोर्दण्डौ भुजदण्डौ तयोर्यत् युगलं तेनापीडित आकृष्टो यो मौर्वीगुणः धनुषः प्रत्यचा तस्य स्तनितेन युद्धं विनैव टङ्कारमात्रेण विरमिता निरस्ता धर्मप्रतिपक्षा येन स तथा । भोगातिशयमप्याह-बर्हिष्मत्या इति । बर्हिष्मत्या स्वभार्यायाश्च अनुदिनमेधमानैः प्रमोदादिभिः पराभूयमानविवेक इव । अत एव विषयासक्त्या आत्मानमनवबुध्यमान इव । इवशब्दाभ्यां वस्तुतस्तु भगवदनुकम्पयाऽन्यवत् तस्य विवेकराहित्यं आत्माज्ञानं च नास्तीति सूचितम् । किन्तु यावता राज्यनिर्वाहो भोगसिद्धिश्च भवेत्तावद्भगवत्सम्पादितं तदाभासमात्रमस्ति, अन्यथा तदेव न सिद्धयेदिति ज्ञेयम् । अत एव महामना हर्षितमना इति । तत्र प्रमोदः पतिं दृष्ट्वा हर्षः, प्रसरणमभिगमनं योषिण्यं योषित्स्वभावकृतं शृङ्गारानुभावप्रकाशनम् । ततो व्रीडया प्रमुषिताः सङ्कोचिता ये हासावलोका रुचिराः क्ष्वेडादयः परिहासवाक्यादीनि च तैः । अत्र ‘अर्बुदं कोटिरित्याहुः’ इति निबन्धोक्तेः, ‘अर्बुद कोटिपयार्यम्’ इति सन्दर्भोक्तेः वेदेपि “नियुतं च प्रयुतं चार्बुदं च” इति प्रयुतानन्तर निर्देशाच एकादशार्बुदानीत्येकादश कोटय इत्यर्थो ग्राह्यः । एवं च ध्रुवादारभ्य शतजित्पर्यन्ते मनुवशे तत्र तत्रोक्ता राज्यसम्बन्धिन्यः संवत्सरसङ्ख्याः स्वायम्भुवे मन्वन्तरे एवावकाशं लभन्ते । अन्यथा अर्बुदं दशकोटय इति श्रीधरीयव्याख्यानाङ्गीकारे तु तासां मन्वन्तरसाङ्कर्येण ‘स्वं स्वं कालं मनुर्भुक्ते साधिकां ह्येकसप्ततिम् । स एव स्वान्तरं निन्ये युगानामेकसप्ततिम्’ इति तृतीय स्कन्धो- क्तविरोधापत्तेरिति ध्येयम् ।। २९ ।। तस्य प्रभावातिशयं दर्शयति- यावदिति । सुरगिरिं मेरुमनुपरिक्रमन् प्रदक्षिणीकुर्वन् भगवानादित्यः सूर्यो यावलोकालोका चलपर्यन्तं वसुधातलं अवभासयति तस्मिन्नर्द्धनोपलक्षितं प्रतपति प्रकाशयति अर्द्धेन च अवच्छा- दयति तमसावृतं करोति तदा तत् अन्धकारावरणं अनभिनन्दन् अरोचयन् प्रियव्रतः रजनीमपि दिनं करिष्यामीत्यभिप्रायवान् सूर्यरथसमानवेगवता ज्योतिर्मयेन अत्युत्तुङ्गेन रथेन द्वितीयः पतङ्गः सूर्य इव सप्तवारान् तर णिमनु सूर्यस्य पृष्ठतः पर्यक्रामत् मेरुं प्रदक्षिणीकृतवानित्यन्वयः । एवं कालमन्यथयितुमन्यस्य जीवस्याशक्यत्वेऽपि तस्य तथा सामर्थ्य हेतुमाह-हीति । हि यस्मात् भगवत उपासनेन उपचितोऽतिपुरुषः पुरुषानतिक्रान्तः प्रभावो यस्य सः ॥ ३० ॥ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी भगवानपीति । मनुना स्वकार्य संसाधनप्रीतेन स्वायंभुवेन यथावदुपकल्पितापचितिः यथाविधिविहितपूजनः, भगवान् स्वाज्ञया प्रवृत्तिप्रवृत्तस्यापि स्वाज्ञापालकजनस्य निवृत्तिमार्ग प्रवणताविधानत्वरूपैश्वर्यवान् ब्रह्मा अपि, प्रियव्रतनारदयोः, अविषमम- कुटिलं यथा तथा, अभिसमीक्षमाणयोः सतोः, प्रियव्रतस्य योगभ्रंशान्नारदस्य च शिष्यनाशात्कुटिलमीक्षणं संभवेत्तत्त्वेतयोर्नास्तीति सम्यक् प्रतक्र्येत्यर्थः । वाक् च मनश्च वामनसे तयोः क्षयं विषयं न भवतीत्यवाङ्मनसक्षयं अव्यवहृतं व्यवहारातीतं परमात्म- रूपं प्रवर्त्तयन्, व्यवहाराद्विषण्णत्वात्संस्मरन्सन्नित्यर्थः । आत्मसमवस्थानं स्वनिवासस्थानभूतं सत्यलोकं अगमत् ॥ २१ ॥ मनुरिति । मनुः स्वायंभुषः अपि परेण ब्रह्मणा एव, प्रतिसंधितः मनोरथो यस्य स तथाभूतः सन् सुरर्षिवरो देवर्षिश्रेष्ठो नारदस्त - स्यानुमतमनुमतिस्तेन, भावे क्तः । आत्मजं प्रियव्रतं स्वपुत्रं अखिलं सममं च तद्धरामण्डलं च तस्य स्थितिगुप्तिर्मर्यादारक्षणं तस्यै, आस्थाप्य स्थापयित्वा स्वयं अतिविषमो दुस्तरो यो विषयविषजलाशयः क्ष्वेडहृदस्तद्रूपं गृहमित्यर्थः । तस्मिन्नाशा भोगेच्छा तस्या ३२ ह शासन श्रीमद्भागवतम् m ぶ सवनश्च [ स्कं. ५ अ. १ श्लो. २१-३० उपरराम उपरतोऽभूत् ॥ २२ ॥ * * राज्ञा यत्पृष्टं गृहे कथमरमत तत्रोक्तमुत्तरमुपसंहरति इतीति । इति हवा व इत्थमेव । हि, जगतीपतिः पृथिव्या एकनाथः, सः प्रियव्रतः, ईश्वरेच्छया परमेश्वरसंकल्पेन, अधिनिवेशितः प्रापितः, कर्माधिकारः प्रवृत्त- क्रियाधिकारो यस्य सः, एवंभूतः सन्नपि, अखिलानां जगतां बन्धध्वंसनः बन्धननिवत्र्त्तकः परोऽनुभावो महिमा यस्य तस्य, भगवतः आदिपुरुषस्य अङ्घ्रियुगलं चरणद्वयं तस्यानवरतमविच्छिन्नतया यत् ध्यानं तस्य योऽनुभावस्तेन परिरन्धितकषायो दग्धरागादिमल आशयोऽन्तःकरणं यस्य सः । अवदातो निर्मलः सन्नपि महतां ब्रह्मादीनां मानवर्द्धनश्च सन् महीतलं भूमण्डलं अनुशशास • अनुशिष्टवान् ॥ २३ ॥ 3 विवक्षुस्तावत्तस्य दारपरिग्रहं तत्रोत्पादितापत्यानि चाह अथेति । अथ चतुर्मुखकृता देशानन्तरं चकारः पादपूरणार्थः समुच्चयार्थो वा । विश्वकर्मणः विश्वकर्मनाम्नः प्रजापतेः बर्हिष्मती नाम बर्हिष्मतीति संज्ञाप्रसिद्धामित्यर्थः । दुहितरं उपयेमे उदवोढ । उ इति विस्मये । स च निवृत्तिनिष्ठोऽपि प्रियव्रतः प्रवृत्तिनिष्ठोऽभूदिति ६ इति प्रसिद्धौ वा वेति निश्चये । तस्यां बर्हिष्मत्यां, आत्मसमानैः स्वतुल्यैः शीलादिभिः पञ्चभिरुदारा महान्तस्तान्, तत्र शीलं सद्वृत्तं, गुणाः सच्छास्त्रनैपुण्यादयः, कर्माणि प्रजापरित्राणप्रभृतीनि, रूप स्वाकारता, बीर्यं शारीरबलं, दशदशसंख्याकान् आत्म- जान, भावयांबभूव उत्पादयामास । यवीयसीं कनिष्ठां ऊर्जस्वती नाम ऊर्जस्वतीनाम्ना प्रसिद्धां कन्यां च भावयांबभूव । केचित्तु आत्मसमानशीलगुणकर्म रूपवीर्यशौयौदार्यानिति गद्यं पठन्ति । तत्र शीलं सत्स्वभावः, गुणाः शौर्यादयः, कर्म व्यापारः, रूपं सौन्दर्य, वीर्यं पराभिभवसामर्थ्य, शौर्यं रणमध्ये स्वगृह इव प्रवेशसामर्थ्य, औदार्यं वदान्यता इति व्याख्यायन्ते च ।। २४ ।। * पुत्रान्निर्दिशति आग्नीध्रेति । आग्नीध्रव इष्महिश्र यज्ञबाहुव हिरण्यरेताश्च महावीरच घृतपृष्ठश्च सवनश्व मेधातिथिश्च वीतिहोत्र कविश्च ते, इत्येते सर्वे अग्निनामान एव, एतेषां दशानां मध्ये कविः, महावीरः, सवनः, इत्येते त्रयः ऊर्ध्वरेतसः जितेन्द्रिया आसन् । ते कव्यादयस्त्रयः अर्भभावात् बाल्यात् आरभ्य, आत्मविद्यायां परविद्यायां, कृतः संपादितः परिचयः पूर्णाभ्यासो यैस्तथाभूताः सन्तः, परमहंसाः शुद्धान्तःकरणास्त्या गिजनास्तेषामयं पारमहस्यस्तं आश्रमं एवं अभजन् । केवलं निवृत्तिधर्मपरायणा अभवन्नित्यर्थः ।। २५ ।। ४ ॐ तस्मिन्निति । तस्मिन्नु ह वा तस्मिन् पारमहंस्याश्रमे एव हि वर्त्तमानास्ते त्रयोऽपि, उपशम इन्द्रियनिग्रह एवं शीलं येषां ते परमर्षयः सन्तः, सकलाच ते जीवाश्च तेषां निकायः समूहः स आवासः शरीरं यस्य तस्य, भीतानां संसृतिभयभीतिमतां शरणभूतस्य रक्षणोपायभूतस्य, स्वशरणागतरक्षकस्येत्यर्थः । भगवतः पूर्णषाड्गुण्यभ्य, वासुदेवस्य, श्रीमतोराश्रयकारकमुक्तिविधानलक्ष्मीमतीश्चरणारविन्दयोर्य दविरतमविच्छिन्नं स्मरणं तेन अविगलितोऽखण्डितः यः परमभक्तियोगस्तस्यानुभावेनोपचयेन परिभावितं निरस्तरागादिकं यदन्तर्हृदयं मनस्तस्मिन्नधिगतः साक्षात्कृतस्तस्मिन् सर्वेषां भूतानामात्मभूते अन्तः प्रविश्य प्रशासनेन धारके, प्रत्यगात्मनि प्रत्यग् जीवः आत्मा शरीरं यस्य तस्मिन् सर्वभूतात्मभूतपदेन अचैतन्यशरीरत्वमुक्तम् । प्रत्यगात्मनीत्यनेन चैतन्यवर्गशरीरत्वमुक्तम् । एवं चिज्जडशरीरिणि भगवति, आत्मनः तादात्म्यं साधर्म्यं, अविशेषेण जगद्व्यापारवज्रं कात्स्न्येन, समीयुः मुक्ता बभूवुरित्यर्थः । एवं अवशिष्टाः सप्त पुत्राः पित्रधीनाः स्थिता इति भावः ।। २६ ।। * अन्यस्यामपीति । अन्यस्यां बर्हिष्मत्या अन्यस्यां अपि, जायायां भार्यायां उत्तमः, तामसः, रैवतः इत्येतन्नामानः त्रयः पुत्राः आसन् । ते च मन्वन्तराधिपतयः आसन् । मार्कण्डेयपुराणे उत्तमादीनां प्रियव्रतपुत्रत्वतोऽन्यथोक्तिः कल्पान्तर- विषया बोध्या ।। २७ ।। * * एवमिति । एवमुक्तप्रकारेण स्वतनयेषु अथ कात्स्र्त्स्न्येन, उपशमायनेषु सद्गुणाश्रयेषु सत्सु, जगतीपतिः पृथ्वीपतिः प्रियव्रतः, परिवत्सराणां वर्षाणां एकादश अर्बुदानि, एकादशार्बुदवत्सरपर्यन्तमित्यर्थः । अर्बुदं केषांचिन्मते कोटिरिति केषांचिन्मते दशकाटिरिति । वस्तुतस्तु बहुवर्षपर्यन्तमित्यर्थः । जगतीं पृथिवीं बुभुजे इत्यन्वयः । तत्र राज्ञा धर्मपरि- पालनविषयभोगप्रभावैर्भाव्यं तत्र तं विशिषन्ननायासेनैव धर्मपरिपालनमाह । अव्याहताः अखिलाः पुरुषकाराः पौरुषाणि यस्मात्तेन सारेण बलेन संभृतौ पूर्णौ यो दोर्दण्डौ तयोः युगलं तेन आपीडित आकृष्टो मौर्वीगुणो ज्या तस्य स्तनितं टंकारस्तेनैव युद्धं विना विरमिता निरस्ता धर्मप्रतिपक्षा धर्मविरोधिनो येन सः, भोगातिशयमाह । बर्हिष्मत्याः स्वभार्यायाः अनुदिनं प्रतिदिन- मेधमानाः ये प्रमोदादयस्तैः, तत्र प्रमोदः पतिं दृष्ट्वा हर्षश्च ततः प्रसरणमभ्युत्थानादिलीला च ततः योषिण्यं योषित्स्वभावकृत- शृङ्गारानुभावप्रकाशनं च ततः व्रीडाप्रमुषिता लज्जया संकोचिता हासावलोकाः सहासेक्षणानि च ततः रुचिरक्ष्वेत्यादयः परिहास - वाक्यानि च तैरित्यर्थः । पराभूयमानः विवेको यस्य स इव, अनाविर्भूतविवेकज्ञान इवेत्यर्थः । अत एव अनवबुद्धधमान इव आत्मानं, विषयासक्तिप्रदर्शन तो तत्त्वज्ञमिव प्रदर्शयन्नित्यर्थः । एवंभूतः महामनाः सन् जगतीं बुभुजे इति संबन्धः ॥ २८ ॥ * * प्रभावातिशयमाह यावदिति । भगवान् आदित्यः, वसुधातलं लोकालोकाचलान्तर्वर्त्तिभूमण्डलं, यावत्साकल्येन, अवभासयति खल । परं तु सुरगिरिं मेरु, अनु परितः भ्राम्यन् परिक्रमन् सन्, अर्द्धेन एव प्रतपति । अर्द्धेनैवोपलक्षितं यथा स्यात्तथा प्रकाशय- * तीत्यर्थः । अद्वेनैव च अवच्छादयति । तमसा आवृणोतीत्यर्थः । तदा हि रविरयं सुमेरोः पार्श्वान्तरं प्रकाशयन्नपि पार्श्वान्तरं न प्रकाशयतीत्यालोच्येति शेषः । भगवदुपासनेन उपचितः समृद्धि प्राप्तः अतिपुरुषः पुरुषानतिक्रान्तः, प्रभावः अमानुषो महिमा यस्य सः प्रियव्रतः, तद्रविकृतं वसुधातलार्द्धस्यानवभासनं अनभिनन्दन्नसमीचीनं मन्वानः सन्, रजनीमपि दिनं करिष्यामि इत्येवं कृतसंकल्पः सन्निति शेषः । समजवेन सूर्यरथसमान वेगेन, ज्योतिर्मयेन तद्वत्प्रकाशबहुलेन च रथेन स्यन्दनेन द्वितीयः । सूर्य इव सप्तकृत्वः सप्तवारान्, तरणि सूर्य, अन्वनुसृत्य, पर्यक्रामत् । यथा तरणिर्गच्छति तथा मेरोः परितः स 1 अपर: प । . ५ अ. १ श्लो. ३१-३५] अनेकव्याख्यासमलङ्कृतम् ३३ चाप्याक्रमति । यदा मेरोर्दक्षिणस्यां दिशि सूर्योऽवभासयते, तदा स्वयमुत्तरस्यां दिशि अवभासयते यदा सूर्य उत्तरस्यां तदा स्वयं दक्षिणस्यामचीचका सदित्यर्थः । सूर्योऽन्तरिक्षे चरन्नवभासयत्ययं तु भूमौ विचरन्नुपर्यधश्चाचीचका सदित्यपरस्तदतिरिक्तोऽयमस्य प्रभावातिशय इति भावः ।। २९ ।। एवं कुर्वाणं प्रियव्रतमागत्य चतुराननस्तवाधिकारोऽयं न भवतीति निवारयामासेति गद्यमत्र कचिदीक्ष्यते तथापि बहुत्रादर्शनात्र व्याख्यातम् । प्रभावान्तरमप्याह । ये वा उ हेति । ये वै उ ह अतिप्रसिद्धाः, तस्य प्रियव्रतस्य यो रथस्तस्य चरणां चक्रं तस्य नेमयो धारास्तत्कृताः ये परिखाताः, तत्स्यन्दनचक्राग्रकृताः गर्ता इत्यर्थः । ते सप्त सिन्धवः, आसन् । यतः यैरेव सिन्धुभिः कृताः सप्त सप्तसंख्याकाः भुवः द्वीपाः आसन् । द्वीपानां समुद्रान्तर्वर्त्तित्वात्समुद्राणां सप्तत्वात्त- दन्तर्वर्त्तिनो द्वीपा अपि सप्तैवासन्निति भावः । अत्र ये वा इति वाशब्दस्तु समुद्राणां पूर्वसद्भावप्रसिद्धिं गमयति, अयं तु तेषां स्थौल्यमेव कृतवानिति च । तथा चोक्तम् ’ पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्के प्रियज्ञतः । समुद्रांस्तेन तत्कर्त्तेत्याहुरेनं प्रियत्रतम्’ इति ॥ ३० ॥ भाषानुवादः कृ तब स्वायम्भुव मनु ने प्रसन्न होकर भगवान् ब्रह्माजीकी विधिवत् पूजा की। इसके पश्चात् वे मन और वाणीके अविषय, अपने आश्रय तथा सर्वव्यवहारातीत परब्रह्मका चिन्तन करते हुए अपने लोकको चले गये। इस समय प्रियव्रत और नारदजी सरल भावसे उनकी ओर देख रहे थे ॥ २१ ॥ * * मनुजीने इस प्रकार ब्रह्माजीकी कृपासे अपना मनोरथ पूर्ण हो जाने- पर देवर्षि नारदकी आज्ञासे प्रियव्रतको सम्पूर्ण भूमण्डलकी रक्षाका भार सौंप दिया और स्वयं विषयरूपी विषैले जलसे भरे हुए गृहस्थाश्रमरूपी दुस्तर जलाशय के भोगेच्छा से निवृत्त हो गये ।। २२ ।। * अब पृथ्वीपति महाराज प्रियव्रत भगवानकी इच्छासे राज्यशासन के कार्य में नियुक्त हुए। जो सम्पूर्ण जगत्को बन्धनसे छुड़ाने में अत्यन्त समर्थ हैं, उन आदि पुरुष श्रीभगवान्के चरणयुगलका निरन्तर ध्यान करते रहनेसे यद्यपि उनके रागादि सभी मल नष्ट हो चुके थे और उनका हृदय भी अत्यन्त शुद्ध था, तथापि बड़ोंका मान रखनेके लिये वे पृथ्वीका शासन करने लगे || २३ ॥ * तदनन्तर उन्होंने प्रजापति वि उन्होंने प्रजापति विश्वकर्माकी पुत्री बर्हिष्मतीसे विवाह किया। उससे उनके दस पुत्र हुए। वे सब उन्हींके समान शीलवान्, गुणी, कर्मनिष्ठ, रूपवान् और पराक्रमी थे। उनसे छोटी ऊर्जस्वती नामकी एक कन्या भी हुई ॥ २४ ॥ * पुत्रोंके नाम आमीन, इध्मजिह्व, यज्ञबाहु, महावीर, हिरण्यरेता, घृतपृष्ठ, सवन, मेधातिथि, वीतिहोत्र और कवि थे। ये सब नाम अनिके भी हैं ।। २५ ।। * * इनमें कवि, महावीर और सवन ये तीन नैष्ठिक ब्रह्मचारी हुए। इन्होंने बाल्यावस्थासे आत्मविद्याका अभ्यास करते हुए अन्तमें संन्यास आश्रम ही स्वीकार किया ।। २६ ।। इन निवृत्तिपरायण महर्षियोंने संन्यासाश्रममें ही रहते हुए समस्त जीवोंके अधिष्ठान और भवबन्धनसे डरे हुए लोगों को आश्रय देनेवाले भगवान् वासुदेवके परम सुन्दर चरणारविन्दों का निरन्तर चिन्तन किया। उससे प्राप्त हुए अखण्ड एवं श्रेष्ठ भक्तियोगसे उनका अन्तःकरण सर्वथा शुद्ध हो गया और उसमें श्रीभगवान्का आविर्भाव हुआ । तब देहादि उपाधिकी निवृत्ति हो जानेसे उनकी आत्माकी सम्पूर्ण जीवोंके आत्मभूत प्रत्यगात्मामें एकीभावसे स्थिति हो गयी ॥ २७ ॥ * * महाराज प्रियव्रतकी दूसरी भार्यासे उत्तम, तामस और रैवत- ये तीन पुत्र उत्पन्न हुए, जो अपने नामवाले मन्वन्तरों के अधिपति हुए ।। २८ । इस प्रकार कवि आदि तीन पुत्रोंके निवृत्तिपरायण हो जानेपर । में ॥ * राजा प्रियव्रतने ग्यारह अर्बुद वर्षोंतक पृथ्वीका शासन किया। जिस समय वे अपनी अखण्ड पुरुषार्थमयी और वीर्यशालिनी भुजाओंसे धनुषकी डोरी खींचकर टङ्कार करते थे, उस समय डरके मारे सभी धर्मद्रोही न जाने कहाँ छिप जाते थे । प्राणप्रिया बर्हिष्मतीके दिन-दिन बढनेवाले आमोद-प्रमोद और अभ्युत्थानादि क्रीड़ाओंके कारण तथा उसके स्त्रीजनोचित हाव-भाव, लज्जासे सङ्कुचित मन्दहास्ययुक्त चितवन और मनको भानेवाले विनोद आदिसे महामना प्रियव्रत विवेकहीन व्यक्तिकी भाँति आत्मविस्मृतसे होकर सब भोगोंको भोगने लगे । किन्तु वास्तवमें ये उनमें आसक्त नहीं ये ॥ २९ ॥ ॐ एक बार इन्होंने जब यह देखा कि भगवान् सूर्य सुमेरुकी परिक्रमा करते हुए लोकालोकपर्यन्त पृथ्वीके जितने भागको आलोकित करते हैं, उसमेंसे आधा ही प्रकाशमें रहता है और आधे में अन्धकार छाया रहता है, तो उन्होंने इसे पसंद नहीं किया। तब उन्होंने यह संकल्प लेकर कि मैं रातको भी दिन बना दूंगा;’ सूर्यके समान ही वेगवान एक ज्योतिर्मय रथपर चढ़कर द्वितीय सूर्यकी ही भाँति उनके पीछे-पीछे पृथ्वीकी सात परिक्रमाएँ कर डालौं । भगवानकी उपासनासे इनका अलौकिक प्रभाव बहुत बढ़ गया था ॥ ३० ॥ ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो दीपाः ॥ ३१ ॥ जम्बुष्ठक्षशान्मलिकुशक्री शाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुण मानेन बहिः समन्तत उपक्लृप्ताः ॥ ३२ ॥ क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः सप्त जलधयः सप्त द्वीपपरि खा १. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ३४ श्रीमद्भागवतम् [ स्कं. ५ अ. १लो. ३१-३५ इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्व सप्तस्वपि बहिद्वपेषु पृथक्परित’ उपकल्पितास्तेषु जम्ब्वादिषु बर्हि- ष्मतीपतिरनुव्रतानात्मजानाग्नी चेष्म जिह्वयज्ञ’ बाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथासंख्येनैकैकस्मिन्नेक- मेवाधिपतिं विदधे ।। ३३ ।। दुहितरं चोर्जस्वतीं नामोशन से प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥ नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ घिरजसा जितषडुणानाम् । चित्रं विदूरविगतः सकृदाददीत यन्नामधेयमधुना स जहाति बन्धम् || ३५ अन्वयः - वा उ ह ये तद्रथचरणनेमिकृतपरिखाः ते सप्त सिंधवः आसन् यतः एवं भुवः सप्त द्वीपाः कृताः ॥ ३१ ॥ * जंबूप्लक्षशाल्मलि कुशक्रौंचशाकपुष्करसंज्ञाः तेषाम् परिमाणम् पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः यथासंख्यम् बहिः द्विगुणमानेन समंततः उपक्लृप्ताः ॥ ३२ ॥ * क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमंडोदशुद्धोदाः सप्त जलधयः सप्त- द्वीपपरिखाः इव अभ्यंतरद्वीपसमानाः एकैकश्येन यथानुपूर्वं सप्तसु द्वीपेषु अपि बहिः पृथक् परितः उपकल्पिताः तेषु जंब्वादिषु बर्हिष्मतीपतिः अनुव्रतान् आग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् आत्मजान् यथासंख्यम् एकैकस्मिन् एकम् एव अधिपतिम् विदधे ॥ ३३ ॥ * * ऊर्जस्वतीम् नाम दुहितरम् च उशनसे प्रायच्छत् यस्याम् देवयानी नाम काव्य- सुता आसीत् ॥ ३४ ॥ * * तदंघ्रिरजसा जितषड्गुणानाम् पुंसाम् एवंविधः पुरुषकारः चित्रम् न यत् विदूरविगतः उरु- क्रमस्य नामधेयम् सकृत् आददीत सः अधुना बंधं जहाति ।। ३५ ।।
श्रीधरखामिविरचिता भावार्थदीपिका ४६ ये वै उह अतिप्रसिद्धास्तस्य रथचक्राग्रकृताः परिखाता गर्ताः । यतो यैरेव कृताः ॥ ३१ ॥ * * तानाह जब्बिति । तेषां परिमाणं - शृण्वति शेषः । पूर्वस्य यद्विस्तारमानम् उत्तरस्ततो द्विगुणेन विस्तारमानेनेत्येवं सिंधुभ्यो बहिः समंतत उपक्लृप्ता रचिताः ।। ३२ ।। * * यथा सिंधुभ्यो बहिरेकैकशो द्वीपा एवं द्वीपानामपि बहिः सिंधव इत्याह । क्षारोदेति । दधिमंडो मथितं दधि । एते सप्त जलधयः सप्तद्वीपानां परिखा इवाभ्यंतरे तैः संवेष्टिता ये द्वीपास्तैः समाना विस्तारतः । बहिनतः पृथगसं- कीर्णतया ।। ३३-३४ ॥ * * अहो आश्चर्यं राज्ञः सामर्थ्यमिति परीक्षिदभिप्रायज्ञो भगवान्बादरायणिराह नैवमिति । जिताः षड्गुणा इंद्रियाणि षर्मयो वा यैस्तेषाम् । एवंविधः पुरुषकार इति न चित्रं नासंभावितम् । यतो विदूरविगतोऽत्यजोऽपि यस्योरुक्रमस्य नाम सकृदुच्चारयेयः सोऽधुना तत्क्षणमेव बंध संसारम् । तत्त्वमिति पाठेऽप्ययमेवार्थः । पाठांतरे तत्त्वं चांडालत्वम् । जहाति शुद्धो भवतीत्यर्थः ।। ३५ ।। श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः * यतो येभ्यसिधुभ्य एव हेतुभ्यः । तीर्थस्तु वा इत्यनेन समुद्राणां पूर्वसद्भावप्रसिद्धिं ध्वनयति । अयं तु तेषां स्थौल्यं कृतवानिति । “पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियव्रतः । समुद्रांस्तेन तत्कर्त्तेत्याहुरेनं प्रियव्रतम्” इति । एवशब्दः प्रधानभूतः । सप्तैवान्येऽवांतरद्वीपा बहवः संतीति विशेषबोधनार्थः ॥ ३१ ॥ तान् द्वीपान् । तेषां द्वीपानां समंततः सर्व- दिक्षु ॥ ३२ ॥ * * एकस्मिन्नेकस्मिन्नित्येकैकस्मिन् एकमेकमित्येकैकम् “एक बहुव्रीहिवत्” इति द्विरुक्त एकशब्दो बहुव्रीहि- वत्स्यात्तेन सुब्लोपपुंवद्भावौ, इह द्वयोरपि सुपोलुकि सति बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् ॥ ३३ ॥ पारिबर्हदाने सुतानां मिथो विवादः स्यादिति कृत्वा कन्यादानमपि स्वयं चकारेत्याह- दुहितरमिति । उशनसे शुक्राय “उशना भार्गवः कविः” इत्यमरः । तत्पुत्र्यपि राजकुलवृद्धिकर्यभूदित्याह यस्यामिति ॥ ३४ ॥ * * एवंविधः समुद्रद्वीपादिकरणरूपो माहात्म्य- । विशेषः । गुणाः कामादयः मनसा सह शब्दादयो वा । अंधिरजसापि यैरतीव दुर्जया गुणा जिता इति विरोधः यतो विदूरेति । विप्राद् विशेषः । गुणाः दूरो विदूरः पृषोदरादित्वाद्विप्रस्य विरादेशः शूद्रस्तस्मादपि विप्रकृष्टं दूरं गतः विगतश्चांडालोंऽत्यजोपीत्यत्रापिना गृहीतश्चांडालादिरपि तन्वं तनुं तत्क्षणे तनुत्यागादर्शनात्तन्वारंभकं कर्मेति तेन प्रारब्धकर्मक्षय उक्तः । तत्त्वं महदादिपृथिव्यंतं स्थूलसूक्ष्मदेहावित्यर्थः । तदापि तद्देहस्थितिरिति नाम्न एवाचित्यप्रभावत्वादिति ध्येयं गत्यंतराभावात् । स्वामिचरणैरतत्त्वं चांडालत्वमिति यद्वयाख्यातं तत्तच्छब्दस्य बुद्धपर्शित्वाभिप्रायेणैवेति ध्येयम् । इत्यर्थ इति । श्रश्वादपि सद्यः सवनाय कल्पते’ इत्याद्युक्ते रिति भावः ॥ ३५ ॥ १. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - ६. प्रा० पा० - ७. प्रा० पा० - एक. ५ अ. १ श्लो. ३१-३५] अनेकव्याख्या समलङ्कृतम् श्रीमद्वीरराघवव्याख्या
प्रभावान्तरमप्याह य इति । ये हि सप्त तस्य प्रियव्रतस्य यद्रथचक्रं तस्य नेमिना कृताः परितो गर्ताः त एव सप्त सिन्धवः सप्तसमुद्रा आसन् यतः यैरेव सिन्धुभिः कृताः सप्तसंख्यकाः भुवो द्वीपाः, केऽमी द्वीपा के वा सप्त सिन्धवः इति विवित्सायां तावत् द्वीपान्निर्दिशति जम्ब्विति । तेषां द्वीपानां परिमाणं श्रृण्विति कथयामीति वा शेषः, पूर्वस्मात् लक्षयोजनादिपरिमाणविशिष्टाज्जम्ब्वादिपूर्वपूर्वात्तद्वीपादुत्तरोत्तरः प्लक्षादिद्वीपः यथासंख्येन द्विगुणेन द्विलक्षेण परिमाणेनेत्येवं बहिः पूर्वपूर्वद्वीपाद्बहिः परित उपक्लृप्ताः कल्पिताः ॥ ३१-३२ ॥
अथ सिन्धून्निर्दिशंस्तेषां परिमाणं चाह क्षारोदेति । दधिमण्डो मथितं दधि एते सप्त सिन्धवः सप्तद्वीपानां परिखा इव दृश्यन्ते अभ्यन्तरद्वीपसमानाश्चाभ्यन्तरद्वीपास्तत्समुद्रवेष्टिता द्वीपास्तैस्तत्परिखावद्वर्तमानाः समानपरिमाणाः सप्तद्वीपेषु यथापूर्वमेकैकशः बहिर्नान्तः पृथगसङ्कीर्णमुपकल्पिता इत्यर्थः । अयमर्थः प्रथमजम्बूद्वीपो लक्षयोजनविस्तारस्तत्परिखाभूतः क्षारोदोऽपि लक्षयोजनविस्तारः । ततः प्लक्षद्वीपो हि लक्षयोजनविस्तारः तत्परिखाभूतेक्षुरसोदश्च द्विलक्षयोजनविस्तारः ततः शाल्मलिश्चतुर्लक्षयोजनः सुरोदोऽपि चतुर्लक्ष इत्यादिना । नन्वल्पपरिमाणो ह्यधिकपरिमाणेन वेष्टितेन समपरिमाणेन कथमेतदुच्यते विस्तारसाम्येऽपि दैर्ध्याधिक्यादुपपत्तिः । तेषु जम्ब्वादिषु द्वीपेषु बर्हिष्मतीपतिः प्रियव्रतः अनुवर्तिनः आग्नीध्रादिसंज्ञकान् सप्तात्मजानेकस्मिन्नेकस्मिन् द्वीपे जम्ब्वादौ यथासंख्येन ज्येष्ठादिक्रमेण एकमेकमेवाधिपतिं विदधे चकार । ऊर्ज्जस्वतीं नाम दुहितरमुशनसे शुक्राय प्रादात्, यस्यामूर्ज्जस्वत्यां काव्यस्योशनसः सुता देवयानी नाम कन्यका आसीदुत्पन्नाभूत् ॥ ३३-३४ ॥
- एवमतिमानुषप्रियव्रतप्रभावं श्रुतवतो राज्ञस्तत्प्रभावविषयासम्भावनामाशङ्क्य न केवलमुक्त एव तस्य प्रभावः किन्त्वन्येऽपि सन्तीति वदन्ननन्तविविधविचित्रशक्तिं भगवन्तं सर्वात्मनोपासीनानां विचित्रभक्तीनां प्रभावो नासम्भवनीय इत्याह नैवमिति । उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानां पुरुषकारः पुरुषव्यापार एवंविध उक्तविधः चित्रमसम्भावनीय इति न, किन्तूक्तविधा अन्येऽपि प्रभावाः सम्भाव्यन्ते एवेति भावः । तत्र हेतुः उरुक्रमस्य त्रिलोकीं पदत्रयेणाक्रान्तवतो विचित्रशक्तेर्भगवतः पुंसां भक्तानां तस्योरुक्रमस्याङ्घ्रिरजसा जिताः षड्गुणाः अशनायापिपासाशोकमोहजरामृत्यवो यैस्तेषामिति त्रिलोक्याक्रमणादिरूपानितरसाधारणप्रभावशीलं भगवच्चरणारविन्दमुपासीनानामनितरसाधारणप्रभावसम्भावना न कार्येति द्योतनयोरुक्रमस्य तदङ्घ्रिरजसेत्युक्तं किं वक्तव्यं तञ्चरणप्रभावोऽनितरसाधारण इति यतस्तन्नामप्रभावो न वाङ्मनसगोचर इत्याह । विदूरविगतः सत्पथादपेतः, अन्ये तु विदूरविगतः दूरतः परित्याज्योऽत्यज इति व्याचक्षते । यस्य भगवतो नामधेयं सकृदप्याददीताभिदध्यात् स विदूरविगतः । अधुना तत्क्षणमेव बन्धं संसारं विजहाति मुक्तो भवतीत्यर्थः, एवं सामान्येन नामस्मरणस्य मुक्तिसाधनत्वप्रतिपादकमेवंविधं वचनजातमन्तिमस्मरणस्य मुक्तिसाधनत्वपरं द्रष्टव्यं, “जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः । नामानि येऽसुविगमे विवशा गृणन्ति । ते नैकजन्मशमलं सहसैव हित्वा संयान्ति” इति वचनान्तरानुरोधात् । अन्यथा “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते” इति वेदनातिरिक्तोपायान्तरनिषेधश्रुतिविरोधापत्तेः । अन्तिमस्मरणं तु वेदनरूपतामापन्नं तत्साधनं भवतीति न विरोधः । ननु वेदनं हि नाम ज्ञानकर्मयोगानुगृहीताऽहरहरभ्यासाधेयातिशयमाप्रायणादनुवर्तमानमसकृदावृत्तिकं विजातीयप्रत्ययान्तराव्यवहितं प्रत्यक्षतापन्नं प्रीतिरूपात्मकं ज्ञानं तत्कथमन्तिमनामस्मरणमात्रमुक्तविधवेदनात्मतामापन्नं भवतीति उच्यते, नोक्ताकारा अपि वेदनशब्दवाच्याः, किन्तु परमात्मविषयं स्मरणात्मकं ज्ञानमेवान्तिमप्रत्ययरूपं तत्र प्रबलप्रतिबन्धानभ्यासविच्छेदव्यासङ्गान्तरद्वेषोऽपेक्षादिभिरन्तकाले कदाचिन्नाभूदित्यसम्भवपरिहारोपायतया ज्ञानकर्मयोगानुग्रहादय आकारा उपासनप्रकरणेषु कीर्त्तिताः । तत्र भगवत्प्रसादवशाज्जायमानस्वविषयस्मरणात्मकज्ञानस्य नोक्ताकारा अपेक्षिताः । अत एव हि रागद्वेषभयाद्यात्मकमपि भगवद्विषयमन्तिमं ज्ञानं मुक्तिसाधनमिति वक्ष्यति ‘गोप्यः कामाद्भयात्कंसः’ इति ॥ ३५ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अद्य दृश्यमानं तल्लक्षणं किन्तदिति तत्राह यो वा इहेति । अत्र वा इत्यादिनिपाताः अस्य प्रन्थस्य वेदतुल्यत्वद्योतनाय, अत एव संहितायामिति प्रत्यध्यायमुक्तिरिति । इह भूतले तस्य प्रियव्रतस्य रथचरणस्य रथचक्रस्य नेमेर्याः प्रान्तधारास्ताभिः कृताः परिखा दीर्घिकास्ताः सप्तपरिखाः सप्तसिन्धव आसन्नित्यन्वयः । वा इत्यनेन समुद्राणां पूर्वसद्भावप्रसिद्धिं ध्वनयति, अयं तु तेषां स्थौल्य कृतवानिति तदुक्तम् “पूर्वसृष्टान् रथावृत्त्या स्थूलांश्चक्रे प्रियत्रतः । समुद्रांस्तेन तत्कर्तेत्याहुरेनं प्रियव्रतम् ॥” इति । यतो येभ्यः समुद्रेभ्यः सीमाभूतेभ्यः एव भुवः सप्तद्वीपाः कृताः । यद्वा एवशब्दः प्रधानभूताः सप्तेवान्येऽवान्तरद्वीपा बहवः सन्तीति विशेषद्योत- नार्थः, ते सिन्धवः सप्तेति शेषः ॥ ३१ ॥ * * तेषां नामान्याह जम्ब्वित्यादिना । तेषां द्वीपानां परिमाणं शृण्वति शेषः । । किमित्यत उक्तं पूर्वस्मादिति पूर्वस्मात्पूर्वस्मादुत्तरोत्तर इत्यान्तरादान्तरात् बाह्यो बाह्य इत्यन्तर्बहिर्भावेन वर्तमानाः द्वीपा यथासंख्यं द्विगुणेन बहिः समन्तत उपक्लृप्ताः ।। ३२ ।। सिन्धुनामान्याह लवणेति । अभ्यन्तर द्वीपसमाना इति जम्बूद्वीपसमानो लवणोदधिः प्लक्षद्वीपसमान इक्षुरसोदधिरित्येव संख्येयम् । तत्राराजकत्वे तत्रत्यानां जनानां मिथो विवादेन विनाशः स्यादिति ३६ । श्रीमद्भागवतम् [ स्कं. ५ अ. १ श्लो. ३१-३५ कृत्वामीघ्रादिसप्तपुत्रांस्तत्पतींश्चक्र इत्याह । तेष्विति ॥ ३३ ॥ * * पारिबर्हदाने सुतानां मिथो विवादः स्यादिति कृत्वा कन्यादानमपि स्वयमेव चक्र इत्याह दुहितरमिति । “उशना शुक्रः काव्य” इति हलायुधः, तत्पुत्र्यपि राजकुलवृद्धिकरीति भावेन तत्सुतामाह । यस्यामिति ॥ ३४ ॥ * * एषां विक्रमस्योरुक्रमसम्बन्धित्वान्मुमुक्षुणा श्रवणादिनावश्यमभ्यसनीय इति भावेनाभिष्टौति नैवंविध इति । हरेः पुंसां भक्तानामेवंविधः पुरुषकारो माहात्म्यविशेषश्चित्रं न भवतीति कुत इति तत्राह तदङ्घ्रिरजसेति । निषेवितेनेति शेषः, षड्गुणाः कामादयो आरामादयो वा अशनादयो वा मनसा सह शब्दादयो वा यैरेते जितास्ते तथोक्ताः । इतोऽपि चित्रं नेत्याह विदूरेति । विप्रविवक्षया विदूरः शूद्रस्तस्मादपि विगतश्चण्डालः यस्य हरेर्नारायणादि नामधेयं सकृदाददीत सोऽधुना सद्य एव संसारलक्षणं बन्धं जहाति त्यजतीत्यन्वयः । तस्योरुक्रमस्येति । यद्वा विदूरविगतः दूराद् दूरङ्गती दोषनिमित्ताद्वहिष्कृतोऽपि बन्धं दोषलक्षणमिति ॥ ३५ ॥ + श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः ये वै इति । रथोऽयमेकचक्रस्तदिच्छापरिमाणञ्च ज्ञेयः ॥ ३१ ॥ अतो बहिर्बहिर्मण्डलस्याधिक्यान्तादृश- तदिच्छया समुद्राणामुत्तरोत्तराधिक्यम् ॥ ३२ ॥ * * बहिर्बहिर्गमनं चान्त ॥ ३२ ॥ * * बहिर्बहिर्गमनं चान्तरान्तरावकाशनाशाशङ्कया ज्ञेयम् ।। ३३-३८ ।। श्रीमद्विश्वनाथ चक्रवर्तिकृता सारार्थदर्शिनी ये वै उह अतिप्रसिद्धास्तस्य रथचक्राप्रकृताः परिखाता गर्त्ताः अत्र समुद्राणां सप्तसत्यत्वाद्रथा अपि सप्तैव स्वयोग- बलकल्पिता एकचक्राः सूर्यरथादप्युचतराः मण्डलावृत्तिरीत्या भ्राम्यमाणा ज्ञेयाः । तत्र च बहिर्बहिर्मण्डलानामधिकप्रमाणत्वाद्रथा अपि क्रमेणाधिकप्रमाणा अवगम्यन्ते इति सन्दर्भः । मदीयो दूरस्थोऽपि रथ आर्यावर्त्तगतमदीयराजधानीस्थप्रजानां दृष्टिगोचरी- भवत्वितीच्छया पूर्वपूर्व्वरथाद्विगुणोश्चत्ताविशाल ताक उत्तरोत्तरो रथः कृत इत्यन्ये प्राहुः । अत एव रथचक्राप्राणामधिका- धिकप्रमाणत्वात्तत्तत्परिखाताः समुद्रा अप्यधिकप्रमाणा दृश्यन्ते । तेषु चोत्तरोत्तराधिकप्रमाणेषु सप्तसु रथेषु मध्ये पञ्चविंशत्या दिनैः सार्द्धपञ्चचत्वारिंशद्घटिकाधिकैकरथस्यारोहणमेव सूर्य्यस्येव दक्षिणायनस्योपक्रममारभ्य प्रियव्रतस्योत्तरदेशतो दक्षिणदेशगमनं पौषपर्यन्तं पुनरुत्तरायणस्योपक्रममारभ्य परिसमाप्तिपर्यन्तं तावत्स यकदिनैयुत्क्रमेण पुनरपि तत्तद्रथारोहणम् । एवं दक्षिणदेशत उत्तरदेशगमनमाषादपर्यन्तं किन्तु स्वगत्या मेरुं वामावर्त्तनैव परिक्राम्यतोऽपि सूर्य्यस्य ज्योतिश्चक्राधीनैरेव प्रदक्षिणीकृत्य क्रमेण शीघ्रगमनैर्द क्षिणायने दिनानि मासि मासि हसन्ति, उत्तरायणे तु क्रमेण मन्दगमनैर्दिनानि वर्द्धन्ते । प्रियव्रतस्य तु सूर्य्यकृत रात्रिलोपार्थ स्वेच्छयैव मेरुं प्रदक्षिणीकृत्य परिक्रामतः स्वेच्छयैव मन्दीकृतैर्गमनैरुत्तरायणे दिनानि वर्द्धन्ते दक्षिणायने तु स्वेच्छाधीनया शीघ्रगत्या दिनानि हसन्तीति ज्ञेयम् । रथानां योगप्रभावत्वाद्यथासमयं प्राकट्याप्राकट्ये च ज्ञेये । तेषां सप्तसङ्घय- त्वेनैव सप्तकृत्व इति पूर्वमुक्तं ज्ञेयं व्याख्येयं सप्तदिनानन्तरं प्रियव्रतस्य स्वयं निवृत्त्यनौचित्यादन्येन केनाप्यनिवर्त्तनश्रवणाश्च नासमञ्जसा, यतो येभ्यः सिन्धुभ्य एव हेतुभ्यः ॥ ३१ ॥ * परिमाणं शृण्वति शेषः । द्विगुणविस्तारमानेन एकैकस्मात् सिन्धोर्वहिः समन्ततः चतसृष्वेव दिक्षु ॥ ३२ ॥ यथैवैकैकशः सिन्धो बहिरेकैको द्वीपस्तथेकै कस्माद् द्वीपाद्वहिरेकैकः सिन्धुरित्याह क्षारोदेति । दधिमण्डो मथितं दधि अभ्यन्तरे वर्त्तमाना ये द्वीपास्तैः समानो विस्तार एव एकैकश्येनेति एकस्मा- हरेक सिन्धुरित्येवं सप्तस्वपि द्वीपेषु यथानुपूर्व मानुपूर्वेण पृथगसङ्कीर्णतया बहिर्बहिरेव नान्तः ॥ ३३-३४ ।। ४ एवंविधः पुरुषकारः पौरुषः प्रभावो न चित्रं तदप्रिरजसेति । रजसापि येदुर्जयानि षडिन्द्रियाणि जीयन्ते इति विरोधः, यतो विदूरविगतोऽन्त्यजोऽपि अधुना नामोच्चारणक्षण एवं बन्धं तन्वं तत्त्वमिति त्रय एव स्वामिसम्मताः पाठास्तत्र बन्धं कर्मबन्धं तन्वं तनुं तत्क्षण एव तनुत्यागादर्शनात् तन्वारम्भकं कम्मेति प्रारब्धकर्मक्षय उक्तः, तत्त्वं महदादिपृथिव्यन्तं स्थूलसूक्ष्मदेहावित्यर्थः, तदापि वदेहस्थितिर्नाम्न एवाचिन्त्यप्रभावत्वादिति ज्ञेयं गत्यन्तराभावात् ॥ ३५ ॥ Men Bishal སྦྲེབ स्वार श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीप 1 तेषां द्वीपानां परिमाणं वदामीति शेषः । पूर्वस्मात् पूर्वस्मालक्षयोजनपरिमाणकजम्ब्वादेः उत्तरोत्तराः प्रक्षादिर्यथासङ्ख्यं द्विगुणमानेन बोध्यः इत्येवं समन्ततः जम्बूबहिर्भूतक्षारोदादिभ्यो वहिरुपक लप्ताः रचिताः ॥ ३२ ॥ ॐ * एवं जम्ब्वादिभ्यो बहिः विस्तारतो जम्ब्वादिसमानाः क्षारोदादयः रचिता इत्याह क्षारोदेति । अभ्यन्तरद्वीपसमानाः द्वीपेषु बहिः परितः पृथक् न त्वहिकुण्डलानीवोपकल्पिता इत्यर्थः ।। ३३-२४ ।। * चित्रमद्भुतं न भवति, एतदेव कैमुत्यिकन्यायेन दृढीकरोति विदूरं विगतः परित्यान्योऽन्त्यजोऽपि संसारमधुनैव शीघ्रमेव जहाति त्यजति मुक्तो भवति ॥ ३५ ॥ क स्वस्वावृतद्वीपसमानाः सप्तस्वपि एवंविधः पुरुषकारः पौरुषं सकृदप्याददीत यः समबन्धं FIPEVERE एक. ५ अ. १ लो. ३१-३५ वै अनेकव्याख्यासमलङ्कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी इत्यवधारणे । उ इति विस्मये । ह इति प्रसिद्धी । ये तस्य प्रियव्रतस्य रथचरणनेमिकृताः परिखाताः परितो गर्ताः सप्त ते एव प्रसिद्धा अत्याश्चर्यभूताः सप्त सिन्धवः आसन् । यतो यैरेव सिन्धुभिः सप्तभिः परिखाभूतैः भुवः सप्त द्वीपा आसन् ॥ ३१ ॥ * * तान् द्वीपान् दर्शयति-जम्ब्विति । जम्बूः पृक्षः शाल्मलिः कुशः क्रौञ्चः शाकः पुष्करः इति सञ्ज्ञा येषां ते तथा । तेषां द्वीपानां परिमाणं श्रृण्विति शेषः । पूर्वस्य यन्मानं विस्तारः ततस्तत उत्तरो यथासङ्ख्यं द्विगुणेन मानेन युक्त इत्येवं समुद्रेभ्यो बहिः समन्तत उपक्लृप्ताः प्रियव्रतेन रचिताः ।। ३२ ।। * * समुद्रान् निर्दिशति-क्षारोद इति । क्षारः उद उदकं यस्मिन् स क्षारोदः, इक्षुरस एवोदो यस्मिन् स इक्षुरसोदः, सुरा एव उदो यस्मिन् स सुरोदः, धृतमेवोदो यस्मिन् स घृतोदः, क्षीरमेवोदो यस्मिन् स क्षीरोदः, दधिमण्डो मथितं दधि तदेवोदो यस्मिन् स दधिमण्डोदः, तैः संवेसिन्स शुद्धोदः - एते सप्त जलधयः सप्तद्वीपानां परिखा इव यथानुपूर्व सप्तस्वाप द्वापषु एकैकशोऽभ्यन्तरे । तैः संवेष्टिता ये द्वीपाः तैर्विस्तारतः समानाः पृथक् पृथगसङ्कीर्णाः बहिर्बहिः परित उपकल्पिताः रचिताः । तेषु जम्ब्वादिषु द्वीपेषु बर्हिष्मतीपतिः प्रियव्रतः अनुव्रतान् स्वाज्ञानुसारिणः आत्मजान् पुत्रान् आग्नीधादिसञ्ज्ञान् सप्त यथासङ्घयेन यथोक्तक्रमेण एकैकस्मिन् द्वीप एकैकमेवाविवादाय पतिं विदधे इत्यन्वयः । ऊर्जस्वतीं नाम दुहितरं कन्यां च उशनसे शुक्राय प्रायच्छत् ददौ, यस्यामूज॑स्वत्यां देवयानी नाम काव्यस्य शुक्रस्य सुताऽऽसीत् जाता । अत्र समुद्राणां पूर्वपूर्वापेक्षयोत्तरस्योत्तरस्य द्विगुणविशालत्वोक्त्या रथस्यापि पूर्वस्मात् पूर्वस्मात् उत्तरस्योत्तरस्य द्विगुणविशालैकचक्रत्वं ज्ञेयम् । सूर्यरथस्य चक्रवशगतिमत्त्वेऽपि प्रियव्रतरथस्य स्वेच्छया रचितत्वात् स्ववशगतिमत्त्वं सूर्यरथसमानोञ्चत्वं च ज्ञेयम् ॥ ३३ ॥ अहो आश्वर्य प्रियव्रतस्य सामर्थ्य येनैवं द्वीपसमुद्रादयः परिकल्पिता इति राज्ञोऽभिप्रायमाज्ञायाह-नैवमिति । उरुक्रमस्य स्थानादिलीलया बहुधा क्रीडतो भगवतः पुंसां भक्तानाम् अत एव तस्याङ्घिरजसा जिताः षड्गुणाः पञ्चज्ञानेन्द्रियाणि एकं मनश्च यैस्तेषां एवंविधः वर्णित प्रकारकः पुरुषकारः द्वीपसमुद्रादिरचनसामर्थ्यं चित्रमाश्चर्यमसम्भावितं न भवतीत्यन्वयः । तत्र हेतुमाह-विदूरेति । यस्मात् विदूरं बिगतोऽ- न्त्यजादिनीचयोनिं प्राप्तोऽपि सकृदेकदाऽपि विवशावस्थायामपि यस्य भगवतो नाम आददीत गृह्णीयात् उच्चारयेत् यदि तदा सोऽपि अधुना तत्क्षणमेव बन्धनादिपरम्परागत संसारहेतुमविद्यां जहाति त्यजति । अतो निरन्तरं भजतां किं दुर्लभमिति भावः ॥ ३४ ॥ * * एवं प्रियव्रतस्य प्रवृत्तिप्रकारमुक्त्वा निवृत्तिप्रकार माह- स एवमिति । स प्रियव्रत एवमपरिमित- बलपराक्रमोऽपि देवर्षिचरणयोरनुशयनमुपसन्त्तिः शरणगमनेन विद्याग्रहणं तदनुपतितो यो गुणविसर्गो राज्यादिप्रपञ्चस्तस्य संसर्गेण आत्मानमनिर्वृतमनानन्दितमिव मन्यमानः यत आत्मनि मनसि निर्वेदो यस्य सः एकदा त्विदं वक्ष्यमाणमात्मनिन्दापरं वचनमाह विषयसम्बन्धमहिम्ना किनिदा सक्तिरप्यस्तीत्याह- इवेति ।। ३५ ।। अकअप पनि श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी केऽमी द्वीपाः, के वा सप्तसिन्धव इति विवित्सायां तावत् द्वीपान्निर्दिशति जम्विति । जम्बूच प्रक्षन शाल्मलिश्र कुशश्च क्रौञ्चश्च शाकश्च पुष्करश्च ते संज्ञा येषां ते, संज्ञाशब्दस्य द्वन्द्वान्तत्वाज्जम्बूसंज्ञ इत्यादि बोध्यम् । तेषां जम्ब्वादीनां परिमाणं शृण्विति शेषः । पूर्वस्मान् पूर्वस्मात्, लक्षयोजनादिपरिमाणविशिष्टाज्जम्ब्वादिपूर्वात् पूर्वात् द्वीपात् उत्तरोत्तरः लक्षादिद्वीपः, यथासंख्यं द्विगुणेन मानेन द्विलक्ष्क्षमदिविस्तारपरिमाणेन, बहिः पूर्वपूर्वद्वीपाद्बहिर्बहिः, समंततः परितः उपक्लृप्ताः कल्पिताः । प्रथमो जम्बूद्वीपो लक्षयोजनपरिमाणस्तदुत्तर वर्त्तिलक्षो द्विलक्षयोजनपरिमाण इत्येवं यथोत्तरं बोध्यम् ॥ ३१ ॥ * * अथ सिन्धून्निर्दिशंस्तेषां परिमाणं चाह क्षारेति । क्षारोदश्व इक्षुरसोदश्च सुरोदश्च घृतोदय क्षीरोदश्व बधिमण्डोदश्च शुद्धोदय ते, दधिमण्डो मथितं दधि, एते सप्त जलधयः सिन्धवः, सप्तद्वीपपरिखाः इव दृश्यन्ते इति शेषः । ते च अभ्यन्तरद्वीपसमानाः, यथा क्षारोदाभ्यन्तरवर्त्तिजम्बूद्वीपो लक्षयोजन प्रमाणस्तथा तत्परिखाभूतः क्षारोदोऽपि लक्षयोजनपरिमाणः, एवं इक्षुरसोदाभ्यन्तर- बर्त्तिप्लक्षद्वीपो द्विलक्षयोजनपरिमाणस्तथा तत्परिखाभूत इक्षुरसोदोऽपि द्विलक्षयोजनपरिमाणः, एवं यथापूर्व एकैकशः एकैकः समुद्रः सप्तस्वपि द्वीपेषु, बहिः सप्तभ्योऽपि द्वीपेभ्यो बहिर्बहिरेव, पृथगसंकीर्ण, परितः उपकल्पिताः । नन्वल्पपरिमाणः हि अधिक- परिमाणवता वेष्टयते न समपरिमाणेनातः कथमेतत्संगच्छते इति चेद्विस्तारतः साम्येऽपि दैर्ध्याधिक्यतः संगच्छते इति न बाधः । तेषु जम्ब्वादिषु द्वीपेषु, स बर्हिष्मतीपतिः प्रियव्रतः, अनुव्रतान् स्वानुवर्त्तिनः, आमीश्व इध्मजिह्वा यज्ञबाहुश्च हिरण्यरेताश्च घृतपृष्ठश्च मेधातिथिश्व वीतिहोत्रश्च ते संज्ञा येषां तान् आत्मजान्पुत्रान् यथासंख्येन ज्येष्ठादिक्रमेण तान् आत्मजान्पुत्रान्, यथासंख्येन ज्येष्ठादिक्रमेण एकैकस्मिन् द्वीपे, एकमेकमेव, अधिपतिं विदधे चकार । ऊर्जस्वती नाम ऊर्जस्वतीति नाम्ना प्रसिद्धामित्यर्थः । दुहितरं पुत्रीं च, उशनसे शुक्राय प्रायच्छत् प्रादात् । यस्यामूर्जस्वत्यां, देवयानी नाम देवयानीनाम्ना प्रसिद्धा, काव्यसुता उशनसः कन्या, आसीदुत्पन्नाभूत् ॥ ३२ ॥ एवमतिमानुषं प्रियव्रतप्रभावं श्रुतवतो राज्ञस्तत्प्रभावविषयासंभावनामाशङ्कथ न केवलमुक्तमात्र एव तस्य प्रभावः किं त्वन्येऽपि सन्ति तदीयाः प्रभावा इति वदन्ननन्तविविधविचित्रशक्तिं भगवन्तं सर्वात्मनोपासीनानां विचित्रभक्तीनां भागवतानां
३८ श्रीमद्भागवतम् [ स्कं. ५ अ. १ श्लो. ३६-४१ प्रभावा नासंभावनीय इत्याह नैवमिति । तदङ्घ्रिरजसा उरुक्रमाङ्घ्रिरजः सेवा प्रभावतः, जिताः षड्गुणाः समनस्कानि ज्ञानेन्द्रि- याणि षर्मयो वा यैस्तेषां उरुक्रमस्य पुंसां एवंविध उक्तप्रकारः पुरुषकारः पुरुषव्यापारः, चित्रमसंभावनीयः न । किं तूक्तप्रकारा अन्येऽपि प्रभावाः संभाव्यन्त एवेति भावः । विदूरविगतः सत्पथादपेतः, अन्त्यजो वापि, यन्नामधेयं यस्योरुक्रमस्याभिधानं, सकृदेकवारं, आददीतोच्चारयेत् यः, सोऽपि अधुना तत्क्षणमेव बन्धं संसारं, जहाति । मुक्तो भवतीत्यर्थः । अत्र केचित्तु सकृदाद- दीतान्तकाले एकवारमप्युच्चारयेदित्याहुः । तदुपरि ‘जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः’ । ‘नामानि येsसुविगमे विवशा गृणन्ति’ इत्यादीनि वाक्यानि चोदाहरन्ति । परं तु तत् ‘मधुरमधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्लीसत्फलं चित्स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर नरमात्रं तारयेत्कृष्णनाम’ इति वैष्णवचिन्तामण्यादावन्त कालपदानुपादानात्सामान्यं बोध्यम् । भूमौ प्रत्यक्षतया भगवति विद्यमाने सकृदपि तन्नामोच्चरणपरमेतदिति तु वयम् । अत्र बहुविधपाठान्तराणि प्रयोजना- भावान्नोदाहृतानि ।। ३३ ।। * * तदीयपराक्रममुपसंहरन्निवृत्तिक्रममाह स एवमिति । एवमुक्तप्रकारेण । अपरिमिता - वपारौ बलपराक्रमौ यस्य सः सः प्रियव्रतः, एकदा एकस्मिन् काले तु देवर्षिर्नारदस्तस्य चरणयोरनुशयनं सेवा तद्नुपतितस्ततः पश्चात्संप्राप्तः यः गुणविसर्गो राज्यादिप्रपञ्चस्तस्य संसर्गः प्रवृत्तिमार्गसंबन्धस्तेन, आत्मानं अनिर्वृतमसुखितं इव, मन्यमानः, इव- शब्देन तदितरदुर्लभेष्वपि तेषु भौमभोगेषु तस्य निरयौपम्यं च सूच्यते । तथा चोक्तम् ‘एते वै निरयास्तात स्थानस्य परमात्मनः’ इति । ‘वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्’ इति । अत एव, आत्मनि निर्वेदो वैराग्यं यस्य सः, एवंभूतः सन्, इदं वक्ष्यमाणं आहोवाच ॥ ३४ ॥ * अहो इति । अहो इति निर्वेदद्योतको निपातः । मया असाधु असमीचीनं, अनुष्ठितं आचरितं यदसाध्वनुष्ठितं तत्किं तत्राह । अहं प्रथमं केवलनिवृत्तिधर्मपरोऽहं, इन्द्रियैः प्रमाथिभिरक्षैः, अविद्यारचिताः प्रकृतिपरिणामरूपत्वादज्ञानमूल्या भोग्यतमबुद्धया रचिताः संपादिताः विषमाः परिणामविषोपमत्वाद्धेया ये विषयाः शब्दादयः त एवान्धकूपस्तृणावृतः प्रहिः तस्मिन् अभिनिवेशितः पातित इति यत्, तत्ततः, अलमल, अतः पर मयेन्द्रियपरतन्त्रेण न भाव्यमिति भावः । एतावत्कालपर्यन्तमिति शेषः । अमुष्याः वनिताया बर्हिष्मत्याः, विनोदमृगं क्रीडामर्कट, मां धिक् धिक् इति, गर्हयांचकार । स्वं निन्दयामासेत्यर्थः ।। ३५ ।। *है ॥ भाषानुवादः । उस समय इनके रथके पहियोंसे जो लीकें बनीं, वे ही सात समुद्र हुए; उनसे पृथ्वी में सात द्वीप हो गये ॥ ३१ ॥ * * उनके नाम क्रमशः जम्बू, पृक्ष, शाल्मलि, कुश, कौन, शाक और पुष्कर द्वीप हैं। इनमेंसे पहले- पहलेकी अपेक्षा आगे-आगे द्वीपका परिमाण दूना है और ये समुद्रके बाहरी भागमें पृथ्वी के चारों ओर फैले हुए हैं ।। ३२ ।। * * सात समुद्र क्रमशः खारे जल, ईखके रस, मदिरा, घी, दूध, मट्ठ और मीठे जलसे भरे हुए हैं। ये सातों द्वीपोंकी खाइयोंके समान हैं और परिमाणमें अपने भीतरवाले द्वीपके बराबर हैं। इनमेंसे एक-एक क्रमशः अलग-अलग सातो द्वीपोंको बाहर से घेरकर स्थित है ! बर्हिष्मतीपति महाराज प्रियत्रतने अपने अनुगत पुत्र आमीध, इध्मजिह्न, यज्ञबाहु, हिरण्यरेता, घृतपृष्ठ, मेधातिथि और वीतिहोत्रमेंसे क्रमशः एक-एकको उक्त जम्बू आदि द्वीपोंमेंसे एक-एकका राजा बनाया || १३ || ॐ उन्होंने अपनी कन्या ऊर्जस्वतीका विवाह शुक्राचार्य कन्या ऊर्जस्वतीका विवाह शुक्राचार्यजीसे किया, उसीसे शुक्रकन्या देवयानीका जन्म हुआ ।। ३४ ॥ राजन् ! जिन्होंने भगवञ्चरणारविन्दोंकी रजके प्रभावसे शरीरके भूख-प्यास, शोक-मोह और जरा-मृत्यु - इन छः गुणोंको अथवा मनके सहित छः इन्द्रियोंको जीत लिया है, उन भगवद्भक्तोंका ऐसा पुरुषार्थं होना कोई आश्चर्य की बात नहीं है; क्योंकि वर्णबहिष्कृत चाण्डाल आदि नीच योनिका पुरुष भी भगवान्के नामका केवल एक बार उच्चारण करनेसे तत्काल संसारबन्धनसे मुक्त हो जाता है ॥ ३५ ॥ * स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह || ३६ || अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषयान्धकूपे तदलमलममुष्या ॥३७॥ पुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ।। ३७ ।। परदेवताप्रसादाधिगतात्मप्रत्य’ वम-
- इनका क्रम इस प्रकार समझना चाहिये-पहले जम्बूद्वीप है, उसके चारों ओर क्षार समुद्र हैं। वह प्लक्षद्वीपसे घिरा हुआ है, उसके चारों ओर ईखके रसका समुद्र है । उसे शाल्मलिद्वीप घेरे हुए है, उसके चारो ओर मदिराका समुद्र है। फिर कुशद्वीप है, वह घीके समुद्र से घिरा हुआ है । उसके बाहर क्रौञ्चद्वीप है, उसके चारों ओर दूधका समुद्र है। फिर शाकद्वीप है, उसे मह का समुद्र घेरे हुए है। । उसके चारों ओर पुष्करद्वीप है, वह मीठे जलके समुद्रसे घिरा हुआ है। १. प्रा० पा० - ०स्कं. ५ अ. १ श्लो. ३६-४१ ] अनेक व्याख्यासमलङङ्क्षतम् ३९ शैनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमवहाय स्वयं निहित निर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३८ ॥ तस्य ह वा एते श्लोकाः- प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् । यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥ ३९ ॥ भूसंस्थानं कृतं येन सरिद्धि विनादिभिः । सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ४० ॥ भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् । यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४१ ॥ । इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १ ॥ अन्वयः— एवम् अमितबलपराक्रमः स एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेण आत्मानम् अनिर्वृतम् इव मन्यमानः आत्मनिर्वेदः इदं आह ।। ३६ ।। * * अहो असाधु अनुष्ठितम् यत् अहम् इंद्रियैः अविद्यारचितविषमविषया- न्धकूपे अभिनिवेशितः तत् अलम् अलम् अमुष्याः वनितायाः विनोदमृगम् माम् धिक् धिक् इति गर्हयांचकार ।। ३७ ।। * * परदेवता प्रसादाधिगतात्म प्रत्यवमर्शेन स्वयम् निहितनिर्वेदः हृदि गृहीतहरिविहारानुभावः अनुप्रवृत्तेभ्यः पुत्रेभ्यः इमाम् यथादायम् विभज्य च सहमहाविभूतिम् भुक्तभोगाम् महिषीम् मृतकम् इव अपहाय भगवतः नारदस्य पदवीम् एव पुनः अनुस- सार ।। ३८ ।। * * तस्य ह वा एते श्लोकाः- प्रियव्रतकृतम् कर्म ईश्वरम् विना कः नु कुर्यात् यः छायाम् घ्नन् नेमिनिम्नैः सप्त वारिधीन् अकरोत् ।। ३९ ।। * * येन सरिद्भिरिवनादिभिः भूसंस्थानम् कृतम् भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः सीमा च ।। ४० ।। ऋ ऋ यः पुरुषानुजनप्रियः भौमम् दिव्यम् मानुषम् च कर्मयोगजं महित्वम् निरयौपम्यम् चक्रे ॥ ४१ ॥ इति पञ्चमे प्रथमोऽध्यायः ॥ श्रीधर स्वामिविरचिता भावार्थदीपिका तस्य पराक्रममुपसंहरन्निवृत्तिक्रममाह स एवमिति । देवर्षिचरणयोरनुशयनमुपसत्तिस्तदनुपतितो यो गुणविसर्गो राज्यादि- प्रपञ्चस्तत्संसर्गेण आत्मनि मनसि निर्वेदो यस्य ||३६|| * * तमाह । मयाऽसाध्वनुष्ठितं यद्यतोऽभिनिवेशितः तत्ततः अलमलं विषयैः विनोदमृगं मर्कटम् ।। ३७ ।। परदेवताया हरेः प्रसादेनाधिगतः प्राप्तो य आत्म प्रत्यवमर्शो विवेकस्तेन नारदस्य पदवीं तदुप- दिष्टमार्गमेव पुनरनुससारेत्यन्वयः । किं कृत्वा अनुगतेभ्यः पुत्रेभ्य इमां पृथ्वीं विभज्य । भुक्तः भोगो यस्यास्तां भार्यां महाविभूतिः साम्राज्यसंपत्तत्सहितां महिषी मृतशरीरमिव परित्यज्य । तत्र हेतुः । हृदि निहितो निर्वेदो येन । हृदीत्यस्योत्तरत्राप्यन्वयः । हृदि गृहीतो निश्चितो हरिविहारस्तेनानुभावस्त्यागसामर्थ्य यस्य ॥ ३८ ॥ * तस्य महिमोपनिबंधनश्लोकाः पूर्वसिद्धाः कथ्यते । यथा वेदे “तदप्येष श्लोको भवति” इति तद्वदुक्तिरियम् । को नु को नाम कुर्यात् छायां घ्नन् तमो निरस्यन् ।। ३९ ।। ** भूसंस्थानं द्वीपः कृतम् । सरिद्भिरिवनादिभिः सीमा च येन कृता । भूतानां निर्वृत्यै सुखायाविवादाय ॥ ४० ॥ ॐ भौमं पातालजं दिव्यं स्वर्गजं मानुषं मर्त्यलोकजं महित्वं वैभवं यो निरयतुल्यं मेने । पुरुषानुजना विष्णुभक्तास्त एव प्रिया यस्येति ॥ ४१ ॥ इति पञ्चमे टीकायां प्रथमोऽध्यायः ॥ १ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । तस्य प्रियव्रतस्य । गुणानां संध्यादीनां विसर्गः “संधिश्व विग्रहश्चैव यानमासनमेव च । द्वैधीभावं संश्रयं च गुणान्पट कवयो विदुः ||” इत्युक्तेर्नीतिशास्त्रोक्तेः । गुणानामिंद्रियाणां विसर्गो विषयप्रपञ्चो वा । “गुणो मौर्यामप्रधाने रूपादौ सूद इंद्रिये । त्यागशौर्यादिसत्त्वादिसंध्याद्यावृत्तिरज्जुषु ||” इति मेदिनी । इदं वक्ष्यमाणम् ।। ३६ ।। * * तं निर्वेदम् । धिग्धिगिति आत्मानम् ॥ ३७ ॥ * * अनुगतेभ्यो भक्तिश्रद्धादिनाऽनुसृतेभ्यः । तत्र त्यागे ॥ ३८ ॥ * तस्य प्रियव्रतस्य । ह वै प्रसिद्धा एते श्लोकाः श्लोकलक्षणलक्षितानि वाक्यानि यशांसि वा ‘श्लोकः पद्ये यशस्यपि’ इत्यभिधानात् । “श्लोके पष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम् । द्विचतुष्पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥” इति लोकलक्षणोक्तेः । श्लोकस्य वेदेपि वर्णितत्वादस्य श्रीभागवतस्य साक्षाद्वेदरूपत्वात् । वेदे यथा ‘तदप्येष श्लोको भवति’ इति वर्णितं तथात्राप्युक्तं तस्य वा एते इलोका इति । नेमिनिम्नै रथचक्रा- कृतैर्गत्तैः । तमो निरस्यत्रात्रिं विलोपयन्नित्यर्थः ॥ ३९ ॥ * संस्थानं रचनाविशेषः । भूतानां ग्रामजनपदाद्यधि- पानाम् ।। ४० ।। * * निरयतुल्यं त्यान्यत्वेनेत्यर्थः । तत्र हेतुः पुरुषेति ॥ ४१ ॥
इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे प्रथमोऽध्यायः ॥ १ ॥ १४ प्रा० पा० - २. श्रीमद्भागवतम् श्रीमद्वीरराघवव्याख्या
यदप्युक्तं कथंचिदन्तरायविहताः स्वां शिवतमां पदवीं न प्रायेण हिन्वन्तीति तत्प्रियव्रतदृष्टान्तेन स्पष्टयितुं तस्य तावन्निर्वेदं वदति स इति । एवमपारौ बलपराक्रमौ यस्य सः प्रियव्रतः देवर्षेर्नारदस्य चरणयोरनुशयः सेवा तदनु पश्चात्पतितः प्राप्तगुणविसर्गसंसर्गः प्रकृतिमार्गसम्बन्धस्तेन स्वात्मानमनिर्वृतमसुखितमिव मन्यमानः । इवशब्देन तद्भौमभोगानां दुर्लभत्वं तेषु तस्य निरयौपम्यं च सूच्यते । तथा चोक्तं “एते वै निरयास्तात स्थानस्य परमात्मनः” इति । “वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्” इति । अत एवात्मनि मनसि निर्वेदः परितापो यस्य स इदं वक्ष्यमाणमाह ॥ ३६ ॥
अहो इति निर्वेदद्योतको निपातः । मयाऽसाध्वसमीचीनमनुष्ठितमाचरितं किन्तद्यदसाध्वनुष्ठितं तत्राह । अहं प्रथमं केवलं निवृत्तिधर्मपरोऽहमिन्द्रियैः प्रमाथिभिरविद्यारचिता प्रकृतिपरिणामरूपा अज्ञानमूलया भोग्यतमबुद्ध्या रचिताः सम्पादिताः विषयाः परिणामविषोपमाः हेया ये विषयाः शब्दादयस्त एवान्धकूपः तृणावृतकूपः तस्मिन्नभिनिवेशितः पातित इति यत् तत्ततः अलमलं, विषयानुभवेन अमुष्या वनिताया बर्हिष्मत्या विनोदमृगं क्रीडामृगं मां धिग्धिगिति निन्दयामास आत्मानं निन्दितवान् ॥ ३७ ॥
ततः परदेवतायाः भगवतः प्रसादेन “नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमपि” इत्यायुक्तप्रकारेण महाप्रभावशीलोपक्रान्तिमात्रनिवृत्तिधर्माराधितभगवत्प्रसादेनाधिगतं प्राप्तमात्मनः स्वात्मनः परमात्मनश्च यत्प्रत्यवमर्शनं यथावस्थितस्वरूपचिन्तनं तेन परिनिर्वृतः निरस्ततापत्रयः नितरां सुखितः अनुगतेभ्यः स्वानुवर्त्तिभ्यः पुत्रेभ्यः इमां सप्तद्वीपात्मिकां भूमिं यथादायं यथायोग्यं भागं विभज्य यद्वा दायं पितृक्रमागतं यथावद्विभज्याग्नीधादिप्रतिपुत्रं जम्ब्वादिप्रतिद्वीपं विभज्येत्यर्थः । भुक्तो भोगो यस्यास्तां पञ्चम्यर्थे बहुव्रीहिः महिषीं भार्यां बर्हिष्मतीं मृतकमिव शवभिव मन्यमान इति शेषः । महाविभूतिं महदैश्वर्यमपहाय महाविभूत्या सहितां महिषीं मृतकमिवापहायेति वा स्वयमुपदेशमन्तरेणैव विहितः कृतः निर्वेदः परितापो यस्य हृद्गृहीताः परिशीलिताः हरेर्भगवतः विहाराणां प्रभावाः यस्य सः भगवतो नारदस्य पदवीं पुनरप्यनुससार गन्धमादनद्रोण्यां श्रीनारदमेव सेवमानः सिद्धिं गत इत्यर्थः ॥ ३८ ॥
तस्य प्रियोव्रतस्यैते श्लोकाः तन्महिमोपनिबन्धने पूर्वप्रसिद्धा एव श्लोकाः कथ्यन्ते यथा वेदे ‘तदप्येष श्लोको भवती’ति । के ते श्लोकाः तत्राह प्रियव्रतेति प्रियव्रतेन कृतं ईश्वरं विनाऽन्यः को नाम कुर्यात् यः प्रियव्रतः छायां तमः घ्नन्निरस्यन् रथनेमिनिम्नैरेव सप्त वारिधीन् समुद्रानकरोत् ॥ ३९ ॥
येन प्रियव्रतेन भूसंस्थानं द्वीपैर्भुवः संस्थानमवयवविन्यासः कृतं तथा द्वीपे द्वीपे भूतनिर्वृत्त्यै भूतानां कृत्यै सुखाय वा सरिदादिभिः विभागशः असङ्करेण सीमा च कृता ॥ ४० ॥
यः भौमं पातालजं दिव्यं स्वर्गजं मानुषं मृत्युलोकजं सुखं योगरूपकर्मजमणिमादिसिद्धिरूपं महित्वं माहात्म्यं योगस्य मनोव्यापाररूपत्वेन कर्मत्वव्यपदेशः । “वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥” इति मनुनापि मानसैः कर्मदोषैरिति मनोव्यापारे कर्मशब्दः प्रयुक्तः । निरयौपम्यं नरकसदृशं चक्रे अनुसंहितवान् “एते वै निरयास्तात स्थानस्य परमात्मनः” इत्यादिवचनार्थोऽत्रानुसन्धेयः । निरयौपम्यकृतौ कारणमाह । पुरुषस्य परमपुरुषस्यानुजना अनुचरा भक्ता एव प्रिया यस्य सः तेषां हि प्रिय इति वा ॥ ४१ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां प्रथमोऽध्यायः ॥ १ ॥
sha HERE * श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली इदानीं पूर्वानुवादपूर्वकं वैराग्येण तस्य संसारानिन्दाप्रकारं कथयति स एवमिति । अनुपतितो यदृच्छया प्राप्तो गुणविसर्गः । “संन्धि च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणान् कवयो विदुः ।।” इत्यादि गुणप्रयोगो गुणकार्य- विषयप्रपचो वा तस्य संसर्गेण सम्बन्धेन आत्तनिर्वेदः प्राप्तवैराग्यः ॥ ३६ ॥ *
-
- किमाहेत्यत्राह अहो इति । विनोद- मृगम् ॥ ३७ ॥ * * तस्य संसारविरक्त्या संन्यासप्रकारं वक्ति परदेवतेति । परदेवता नारायणः तस्य प्रसादेनाधिगतं प्राप्तमात्म प्रत्यवमर्शनं प्राप्तपरमात्मज्ञानं तेन परिनिर्वृतो नष्टलब्धचिन्तामणिरिव परमानन्दमाप्तः यथादायं यो योग्यः पितृधनस्य तस्य तथा मृतक शवमिव महती विभूतिर्यस्याः सा तथा तां नारदस्य पदवी निवृत्तिमार्गः संन्यासलक्षणः, ताम् ॥ ३८ ॥ प्रियव्रत चरितश्रवण स्मरणादेरनायासेन मुक्तिसाधनत्वान्नित्यजयाय श्लोकरूपेण संक्षिप्य तचरितं कीर्तयति तस्येति । रथचक्रनेमि- कृतनिम्नैः छायां रात्रिकृताम् ॥ ३९ ॥ * भूसंस्थानं भुवोऽवयवविशेषनामभूतनिवृत्त्यै प्राणिनां सुखाय ॥ ४० ॥ ॥ ** महित्वं माहात्म्यं योगकर्मजं योगसामर्थ्यजातं निरयौपम्यं निरयसुखसमम् ॥ ४१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजकृतपदरत्नावल्यां प्रथमोऽध्यायः ॥ १ ॥ श्रीमज्जीवगोरखामिकृतः क्रमसन्दर्भः रथस्याकाशमार्गेणेव तन्मण्डलगामित्वं ज्ञेयम् ।। ३९-४१ ॥ इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे प्रथमोऽध्यायः ॥ १ ॥ स्कं. ५ अ. १ श्लो. ३६-४१ ] 1 अनेकव्याख्या समलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्दिता सारार्थदर्शिनी म भोगप्रभावमुपसंहरस्तस्य वैराग्यप्रभावमाह स एवमिति । देवर्षिचरणयोरनुशयनानि गुरुत्वेन दण्डवत प्रणामास्ताननुपतित एव गुणविसर्गो राज्यादिपस्तत्संसर्गेण अनिर्वृतमिवेति । यद्यपि राज्येऽप्यना सक्त्यैवान्तर्निवृत्तिरासीत्तदपीत्यर्थः ||३६|| * विनोदमृगं मर्कटम् ॥ ३७॥ परदेवतायाः ह प्रसादेनाधिगतः प्राप्तो य आत्मप्रत्यवमर्शो विवेकस्तेन नारदस्य पदवीं तदुपदिष्टमार्गमेव पुनरनुससारेत्यन्वयः । किं कृत्वा अनुप्रवृत्तेभ्यः अनुगतेभ्यः । इत्यादि हृदि गृहीतो यो हरेर्विहारो लीला- विलासस्तेनानुभावा अनुपुलकादयो यस्य सः ।। ३८ ।। * श्लोकाः पूर्वसिद्धा एव कथ्यन्ते छायां रात्रिम् ॥ ३९ ॥ भुवः संस्थानं द्वीपैः कृतं सरिदादिभिः सीमा च भूतानां जनपदमासाद्यधिपतीनां निर्वृत्त्यै निर्विवादसुखाय ।। ४० ।। भौमं पातालजं दिव्यं स्वर्गजं मानुषं मर्त्यलोकजं महित्वं वैभवम् ॥ ४१ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः एवं महदाशया प्रवृत्तिमार्गे प्रविष्टस्य कर्माण्युक्त्वाथ स प्रवृत्तिमार्गानिवृतोऽभूदिति वक्तुमाह स इति । देवर्षिचरणयो- रनुशयनमनुवर्त्तित्वं तदनुप्रतितो यो गुणविसर्गः गुणानां प्रारब्धकर्मफलानां विसर्गो विस्तारः साम्राज्याद्यैश्वय्यं तत्संसर्गेणात्मनि मनसि निर्वेदो यस्य सः, अनिवृत्तमिव वनितादावसक्तमिव । अनिर्मितमिति पाठेऽसुखितसिव ॥ ३६ ॥ असाध्वनुष्ठितुं मयेति शेषः । यत् यस्मिन् अविद्यया अचेतनया भगवच्छक्त्या रचिते विषमा मुमुक्षुजनानह विषया यस्मिन् ततथाभूतं गृहं तदेवा- न्धकूपस्तस्मिन् प्रवेशितः तत्तेन गृहेण अलं पय्र्याप्तम् । किश्व बनितायाः विनोदमृगं क्रीडामर्कटं मां धिग् धिगित्यात्मानं गर्हयाश्च- कार ||३७|| परदेवता प्रसादात्प्राप्तेन आत्मविचारेण नारदस्य स्वगुरोः पदवीं निवृत्तिमार्ग पुनरनुससार । कथंभूतः हृदि गृहीतो यो हरिविहारस्तेनानुभावः सर्वपरित्यागपूर्वकहरिशावण्यं यस्य सः । अत एव हृदि निहितनिर्वेदः ॥ ३८ ॥ पूर्वगता 8 / इति शेषः, छायां रात्रिरूपां घ्नन् निरस्यन् ॥ ३९ ॥ * * येन भूसंस्थानं द्वीपविभागरूपं सरिदादिभिः द्वीपे द्वीपे सीमा च भूतसुखाय कृता ॥ ४० ॥ * यः पुरुषानुजनाः वैष्णवाः प्रिया यस्य स भौमं भूविवरस्थं तामसं मानुषं राजसं दिव्यं सात्त्विकं योगजमणिमादिरूपं महित्वं वैभवं कर्म च तत्तत्साधनं काम्यलक्षणम् एतत्साध्यं साधनं च सर्व निरयौपम्यं चक्रे । तस्य माहात्म्यं किमन्यदवशिष्यते इति भावः ॥ ४१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे प्रथमाध्यायार्थप्रकाशः ॥ १ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी याकार नाम तद्दर्शयति-अहो इति । अहो आश्चर्य विवेकिनाऽपि मया असाध्वनुष्ठितम्, यद्यस्मादविद्ययाऽहम्ममात्मिकया रचिताः शोभनतया प्रकाशिताः विषमा दुःखदा विषया यस्मिंस्तस्मिन्नन्धकूपे अन्धकूपवनिष्फले दुर्निष्क्रमणगृहे इन्द्रियैरह निवेशितः तत्तस्मादलमलम् । विषयभोगैरमुष्या वनिताया विनोदमृगं वानरतुल्यं मा धिग्धिगित्यात्मानं निन्दितवान् ॥ ३६ ॥ * * एवमात्मानं निन्दित्वा च अनुप्रवृत्तेभ्यः स्वाज्ञानुसारिभ्यः स्वपुत्रेभ्य इमां पृथ्वीं यथादाय यथायोग्यं विभज्य विभागेन दत्त्वा तथा सहमहाविभूति महाविभूतिः साम्राज्यलक्ष्मीस्तत्सहितां मुक्तो भोगो यस्यास्तां महिषीं भार्यां च मृतकशरीरमिव अपहाय परित्यज्य स्वयं भगवतः परमभागवतस्य नारदस्य पदवीं तदुपदिष्टमार्गमेव पुनरनुससार ‘शालग्रामं महापुण्यं मैत्रेय तपसे ययौ’ इति वैष्णववचनात्तत्र गत्वा भगवद्भजनमेव निरन्तरं कृतवानित्यन्वयः । अनेन नारद वत्तस्यापि मुक्तिरुक्तेति ज्ञेयम् । एवं गृहे प्रसक्तस्य कथं वैराग्यं मोक्षो वेति यच्छङ्कितं तत्रापि भगवत्प्रसादादेवेत्युत्तरम् । त्यागे सामर्थ्यत्वेनाह-परेति, परदेवता भगवान् तस्य प्रसादेनाधिगतः प्राप्तो य आत्मप्रत्यवमर्श आत्मसाक्षात्कारस्तेन हृदि निहितः स्थितो निर्वेदो विषय वैतृष्ण्यं यस्य सः अत एव हृदि गृहीतो निश्चितो भगवलीलानुस्मरणेनैव परमपुरुषार्थं सिद्धिर्नान्यथेत्येवं हरिविहारानुभावो येन स इत्यर्थः ॥ ३७ ॥ * * एवं प्रियव्रतस्य द्वीपसमुद्रनिर्माणादिमोक्षपर्यन्तं दुर्घटं चरितमुक्तं तच्च न भगवदावेशं विना सम्भवति, तदपि दोषाभावं विना न सम्भवति, सोऽपि भगवद्भक्ति विना न सम्भवति, अत एव कर्दमात्रि- दक्षप्रचेतःप्रभृतयो महान्त आदौ भगवद्भजने एव प्रवृत्ताः, अत एव सर्वज्ञो नारदोऽपि प्रथमं प्रियव्रताय भगवद्भजनमेवोपदिदेश, सोऽपि मनुपुत्रत्वेन राज्याधिकार्यपि तदनादृत्य पूर्वं तद्भजन एवं प्रवृत्तः, पश्चात्तदावेशे जाते सर्वं कृतवानित्यत्र प्रियव्रतमहिमोप- निबन्धनाः पूर्वसिद्धा एवैते त्रयः श्लोकाः सन्तीत्याह-तस्येति । तानेव श्लोकान् दर्शयति- प्रियत्रतेति । प्रियव्रतेन कृतं कर्म ईश्वरं बिना को न कुर्यादित्यन्वयः । अतो नूनं भगवानेव तत्र प्रविष्ट एतत्कृतवानिति भावः । तत्कर्मैव दर्शयति-य इति सार्द्धाभ्याम् यश्छायां घ्नन् तमो निरस्यन् रजनीं विलोपयन् रथचक्रनेमिनिम्नैः सप्त वारिधीन् समुद्रान् अकरोदित्यन्वयः ।। ३८ ।। * * येन प्रियव्रतेन भूतनिर्वृस्यै प्राणिनां निर्विवादेन सुखलाभाथ तैः सिन्धुभिर्भूसंस्थानं द्वीपरचनात्मकं कृतम् । तथा द्वीपे द्वीपे विभागशः सरिद्भिरिवनादिभिः सीमा मर्यादा च कृतेत्यन्वयः ॥ ३९ ॥ * * यश्व भौमं पातालभवं दिव्यं स्वर्गभवं मानुषं मनुष्य- springs vasun mi ક્રૂર श्रीमद्भागवतम् [ स्के. ५ अ. १ श्लो. ३६-४१ लोकभवं च कर्म योगजं कर्मानुष्ठानजं महित्वमैश्वयं तत्त्वेन नश्वरत्वाद्बन्धहेतुत्वाच्च निरयौपम्यं नरकतुल्यं चक्रे मेने । ननु वस्तुत- स्तथात्वादन्ये कुतो न तथा मन्यन्ते इत्याशङ्कयाह-पुरुषेति । पुरुषानुजना भगवद्भक्ताः नारदादयस्तेषां प्रियः । नारदाद्यनुग्रहेणोत्पन्न- विवेकत्वात्तथा मेनेऽन्ये तु विवेकाभावान्न तथा मन्यन्ते इति भावः । यच्छन्दानां तस्य कर्म को. नु कुर्यादित्यन्वयः । एवमुपक्रमे ऐश्वर्य- मूलरागप्रश्नेनान्ते ऐश्वर्यवीर्ययोरुपसंहाराञ्च तयोरेवाध्यायार्थत्वं भक्तिज्ञानादिवर्णनं तु तद्धेतुत्वेनानुषङ्गिकमेवेति बोध्यम् ॥४० इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ । ॥ रचिता पञ्चमे तत्र कृष्णेन स्थितिरूपणे । विवृतः प्रथमोऽध्याय ऐखर्यादिनिरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । FOR PEIR E F ॥ परदेवतेति । परदेवतायाः श्रीहरेः, प्रसादोऽनुग्रहस्तेनाधिगतः प्राप्तो य आत्मप्रत्यवमर्शः स्वात्मपरमात्मनोर्यथावस्थितस्वरूप- चिन्तनं तेन परिनिर्वृतो निरस्ततापत्रयतया नितरां सुखितः, अनुगतेभ्यः स्वानुवर्त्तिभ्यः पुत्रेभ्यः, इमां सप्तद्वीपात्मिकां भूमिं यथा- दायं यथायोग्यभागं यथा तथा विभज्य भुक्ता भोगा यस्यास्तां पचम्यर्थे बहुव्रीहिः । महिषीं बर्हिष्मती भार्यां चापि, मृतकमिव शववत्, मन्यमान इति शेषः । स प्रियत्रतः महाविभूतिं साम्राज्यसम्पदम्, ह स्फुटमेव । अपहाय परित्यन्य, यद्वा । सहमहाविभूतिं विभूत्या सहिता महिषीं मृतकमिवापहायेति । स्वयमुपदेशमन्तरेणैव विहितः कृतः निर्वेदः परिताप यस्य सः, हृदि हृदये गृहीताः ‘संशीलिताः हरेः भगवतः विहाराणामनुभावाः प्रभावा येन सः, यद्वा हृदि गृहीतो निश्चितो यो हरिविहारस्तेनानुभावस्त्यागसामर्थ्यं यस्य सः, एवंभूतः सन्, भगवतो नारदस्य पदवीं, पुनः पुनरपि, अनुससार एव । गन्धमादनद्रोण्यां श्रीनारदं सेवमानः सन्नेव सिद्धि गत इत्यर्थः ॥ ३६ ॥ तस्येति । तस्य प्रियव्रतस्य, हवा महिमोपनिबन्धनतया प्रसिद्धाः एते पूर्वसिद्धाः श्लोकाः, कथ्यन्ते इति शेषः । वेदे यथा ‘तदप्येष श्लोकः’ इतिवत् ।। ३७ ।। * * प्रियव्रतेति । प्रियव्रतकृतं प्रियत्रतेन विहितं कर्म चरित्रं, ईश्वरं विना अपरः को तु को नाम कुर्यात् । यदि कुर्यात्तश्वर एव कुर्यान्नान्यः कश्चनात्र समर्थः । यः प्रियत्रतः छायां तमः घ्नन्निरस्यन्, नेमिनिम्नैः रथनेमिनिम्नैः एव, सप्त ‘वारिधीन समुद्रान् अकरोत् ॥ ३८ ॥ भूसंस्थानमिति । येन प्रियत्रतेन भूसंस्थानं कृतं द्वीपैर्भुवोऽवयवविन्यासः कृत इत्यर्थः । तथा द्वीपे द्वीपे भूतनिर्वृत्यै भूतानां सुखाय, सरिद्भिरिवनादिभिः, सीमा च विभागशः असंकरेण कृता ।। ३९ ।। ܀ । भौममिति । यः प्रियव्रतः भौमं पातालजं बिटस्वर्गजमित्यर्थः । दिव्यं द्युलोकस्थं स्वर्गगतमित्यर्थः । मानुषं भारतेतरखण्डावस्थित- मित्यर्थः । कर्मयोगजं च, महित्वं वैभवं च तत्र कर्मजं यागविधानादिलभ्यं, योगजमणिमादिसिद्धिरूपं, पुरुषानुजनप्रियो भगवदे- कान्तिकजनप्रीतिमान् तेषां प्रियो वा सन्, निरयौपम्यं मोक्षधर्मोक्तनिरयसमानं, चक्रे गणयामासेत्यर्थः ।। ४५-४१ ।। | इति श्रीधर्मधुरंधरश्रीधर्मात्मज प्रत्यक्षपुरुषोत्तमहजानन्दस्वामिसुतश्रीरघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्त मनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे प्रथमोऽध्यायः ।। १ ।। । भाषानुवादः इस प्रकार अतुलनीय बल-पराक्रमसे युक्त महाराज प्रियव्रत एक बार, अपनेको देवर्षि नारदके चरणोंकी शरणमें जाकर भी पुनः देववश प्राप्त हुए प्रपश्र्चमें फँस जानेसे अशान्त-सा देख, मन-ही-मन विरक्त होकर इस प्रकार कहने लगे ॥ ३६ ॥ * * ‘ओह बड़ा बुरा हुआ ! मेरी विषयलोलुप इन्द्रियोंने मुझे इस अविद्याजनित विषम विषयरूप अन्धकूप में गिरा दिया । बस ! बस ! बहुत हो लिया । हाय ! मैं तो खीका क्रीडामृग ही बन गया ! उसने मुझे बंदरकी भाँति नचाया ! मुझे धिक्कार है ! धिक्कार है!’ इस प्रकार उन्होंने अपनेको बहुत कुछ बुरा-भला कहा ॥ ३७ ॥ * * परमाराध्य श्रीहरिकी कृपासे उनकी विवेकवृत्ति जाग्रत हो गयी । उन्होंने यह सारी पृथ्वी यथायोग्य अपने अनुगत - पुत्रोंको बाँट दी और जिसके साथ उन्होंने तरह-तरह के भोग भोगे थे, उस अपनी राजरानी को साम्राज्यलक्ष्मी के सहित मृतदेहके समान छोड़ दिया तथा हृदयमें वैराग्य धारणकर भगवान्को लीलाओंका चिन्तन करते हुए उसके प्रभावसे श्रीनारदजीके बतलाये हुए मार्गका पुनः अनुसरण करने लगे || ३८ ॥ * * महाराज प्रियव्रतके विषय में निम्नलिखित लोकोक्ति प्रसिद्ध है- ‘राजा प्रियव्रतने जो कर्म किये, उन्हें सर्वशक्तिमान् ईश्वरके सिवा और कौन कर सकता है ? उन्होंने रात्रिके अन्धकारको मिटानेका प्रयत्न करते हुए अपने रथ के पहियों से बनी हुई लीकोंसे ही सात समुद्र बना दिये ।। ३९ ॥ * * प्राणियोंके सुभीतेके लिये ( जिससे उनमें परस्पर झगड़ा न हो ) द्वीपोंके द्वारा पृथ्वीके विभाग किये और प्रत्येक द्वीप में अलग-अलग नदी, पर्वत और वन आदिसे उसकी सीमा निश्चित कर दी ॥ ४० ॥ * * वे भगवद्भक्त नारदादिके प्रेमी भक्त थे । उन्होंने पाताल लोकके, देवलोकके, मृत्युलोक के तथा कर्म और योगकी शक्तिसे प्राप्त हुए ऐश्वर्यको भी नरकतुल्य समझा था || ४१ || Prem इति पञ्चमे प्रथमोऽध्यायः ॥ १ ॥ X ble 1 अथ द्वितीयोऽध्यायः gi श्रीशुक उवाच Topreferen एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्रीधो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत् ॥ १ ॥ स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृत- परिचयपकरण आत्मैकाग्र्येण तपस्व्याराधयाम्बभूव ॥ २ ॥ तदुपलभ्य भगवानादिपुरुषः सदसि गायतीं पूर्वचितिं नामाप्सरसमभियापयामास || ३ || सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिवि टपनिकरसंश्लिष्टपुरट- लतारूढ स्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिल कुक्कुट कारण्डवकलहंसादिभिर्विचित्रमुप कूजितामल- जलाशय कमलाकरमुपबभ्राम ||४|| तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणा- भरणखनमुपाकर्ण्य नरदेवकुमार: समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विक चय्य व्यचष्ट ॥ ५ ॥
अन्वयः - एवम् पितरि संप्रवृत्ते तदनुशासने वर्तमानः आनीयः धर्मावेक्षमाणः जंबूद्वीपौकसः प्रजाः औरसवत् पर्यगोपायत् ॥ १ ॥ * सः च कदाचित् पितृलोककामः तपस्वी आभृतपरिचर्योपकरणः सुरवरवनिता क्रीडाचलद्रोण्याम् भगवन्तम् विश्वसृजाम् पतिम् आत्मैकाग्र्येण आराधयांबभूव ॥ २ ॥ * * तत् उपलभ्य भगवान् आदिपुरुषः सदसिं गायंतीम् पूर्वचित्तिम् नाम अप्सरसम् अभियापयामास ॥ ३ ॥ सा च अतिरमणीयम् विविधनिबिडविटपिविटपनिकर- संग्लिष्टपुरटलता रूढस्थलविहंगममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिल कुक्कुटकारण्डवकलहंसादिभिः विचित्रम् उपकूजि- तामलजलाशय कमलाकरम् तदाश्रमोपवनम् उपबभ्राम ॥ ४ ॥ * * सुललितगमनपदविन्यासगतिविलासायाः तस्याः चं अनुपदम खणखणायमानरुचिर रुचिरचरणाभरणस्वनम् उपाकर्ण्य नरदेवकुमार: समाधियोगेन आमीलितनयनन लिनमुकुलयुगलम् ईषत् विकचय्य व्यचष्ट || ५ श्री श्रीधरखामिविरचिता भावार्थदीपिका द्वितीये प्रोक्तमाग्नीधचरित्रं स्त्रैणसंमतम् । पत्न्यां हि पूर्वचिन्त्यां यो नाभिमुख्यानजीजनत् ॥ १ ॥ अस्मिन्वंशे प्रसिद्धोऽयमाग्नीधः स्त्रैणपुंगवः । विहसन्नित तस्येदं चरितं मुनिरब्रवीत् ॥ २ ॥ । जंबूद्वीपमोको यासां ताः प्रजाः पुत्रवत्पालयामास । धर्मावेक्षमाणः धर्ममवेक्षमाणो धर्मेणेत्यर्थः ॥ १ ॥ * * पितृलोककामः पुत्रकामः । सुरवराणां वनितास्तासामाक्रीडाचलो मंदरस्तस्य द्रोण्याम् । आभृतानि संपादितानि । परिचर्योपकरणानि पुष्पादीनि येन ॥ २ ॥ तदुपलभ्य ज्ञात्वा ब्रह्माऽभियापयामास संभोगार्थ प्रस्थापयामास ॥ ३ ॥ * * सा च तदाश्रमोपवनमुपबभ्रामेत्यन्वयः । रमणीयत्वमेवाह । विविधाश्च निविडाश्च ये विटपिनस्तेषां विटपाः शाखास्तेषां निकरास्तैः संश्लिष्टाः पुरटलताः स्वर्णवल्ल्यस्तास्वारूढाः स्थलविहंगमा मयूरादयस्तेषां मिथुनैः प्रोच्यमानाभिः श्रुतिभिरुच्चार्यमाणैः षड्जादिस्वरैः प्रतिबोध्यमाना ये सलिलकुक्कुटादयस्तैर्विचित्रं यथा तथोपकूजिता नादिता अमला जलाशयास्तेषु कमलानि तेषामाकर- मुपवनम् ॥ ४ ॥ * सुललिते गमने ये पदविन्यासास्तैर्गतौ विलासो यस्याः । चकारस्तस्याश्चेत्येकवाक्यत्वाय। अनुपदं प्रतिपदम् । खणखणेति ध्वनिं कुर्वतो रुचिरस्य चरणाभरणस्य स्वनम् । आमीलिते नयने एव नलिनमुकुले तयोर्युगल मीषद्विकचय्य किंचिदुन्मील्य व्यचष्ट ददर्श ॥ ५ ॥ bus :MBE
• १. २. ३. प्रा० पा० - ४. ५. प्रा० पा० - ६. प्रा० पा० - ७. ८. प्रा० पा० - । ५४ श्रीमद्भागवतम् श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः [ स्कं. ५ अ. २ श्लो. १-५ स्त्रैणाः स्त्रीवशवर्त्तिनस्तेषां सम्मतमङ्गीकृतम् ( १ ) स्त्रैणपुंगवः स्त्रैणशिरोमणिः । मुनिः श्रीशुकः । इवशब्देन कामिषु नादद्भुतं तदित्युक्तम् ( २ ) संप्रवृत्ते सम्यग्नारदोपदिष्टप्रकारेण भगवद्भजने प्रवृत्ते सति । यद्वा- सम्यक्प्रवृत्तं प्रवृत्तिर्हरिभजने यस्य स संप्रवृत्तस्तस्मिन् । औरसो ब्राह्मप्राजापत्यार्षविवाहविधिगृहीतभार्योत्पन्नपुत्रः । इत्यर्थं इति । धर्मशब्दो नान्तोप्यस्ति । 1. यद्वा - द्वितीयातत्पुरुषः कार्योऽत्राऽऽर्ष इति भावः ॥ १ ॥ * * विश्वसृजां पतिं ब्रह्माणम् ॥ २ ॥ * * तत् पुत्रकामनया तपः ॥ ३ ॥ * * सा पूर्वचित्तिः । निविडाः सांद्राः । विटपिनो वृक्षाः । ‘पुरटं हेम दुर्वर्णम्’ इति । आदिना शुकादिग्रहः । आदिना मध्यमादिग्रहः । आदिना सारसादिग्रहः । आकरः खनिः ॥ ४ ॥ खनिः ॥ ४ ॥ * * मुकुलमविकसितपुष्पम् ॥ ५ ॥ PIEDE FEIFEND FEK ÚP in श्रीमद्वीरराघवव्याख्या *JOTPREIP SERVE. TER & किfteeramania
- / एवं श्रावितप्रियव्रतचरित्रो मुनिस्तत्पुत्राणां चरित्रं विवक्षुस्तावदाग्नीधचरित्रमाह एवमिति । एवमुक्तविधज्ञानपूर्वकं पितरि प्रियव्रते संवृत्ते मुक्ते सति तस्य प्रियव्रतस्यानुशासने अनुपूर्वः शास्तिर्विविच्य ज्ञापने वर्तते, तदुपदिष्टहिताहितविवेके वर्तमानः आग्नीध्रः धर्ममवेक्षमाणः धर्मसञ्चयमेव कर्तुमुद्यतः जम्बूद्वीपे ओकः स्थानं यासां ताः प्रजा औरसवत्स्वपुत्रवत् परितः सर्वतः सर्वेभ्य उपद्रवेभ्योऽगोपायदरक्षत् । जम्बूद्वीपस्य स्वभागत्वाज्जम्बूद्वीपौकस इत्युक्तम् ॥ १ ॥
सः आग्नीध्रः कदाचित्पितृलोककामः सन्तानार्थं पितृलोकस्य सन्तानवता प्राप्यत्वात् पितृलोककाम इत्युक्तम् । पितृलोकप्रापकसन्तानार्थीत्यर्थः । “पित्तरो हि प्रजया पितृभ्यः” इति श्रुत्युक्तरीत्या सन्तानाय कृतर्णैः प्राप्यन्ते सुराणां वनिताः तासामाक्रीडाचलो मन्दरः आक्रीडन्त्यस्मिन्नित्याक्रीडः ततोस्त्वचलपदेन कर्मधारयः, तेन सुरवनितापदेन षष्ठीसमासस्तस्य द्रोण्यामाहृतानि सम्पादितानि परिचर्योपकरणानि पूजासाधनानि पुष्पादीनि येन कायिकव्यापारोऽनेनोक्तः, चित्तैकाग्र्यरूपेण तपसा विश्वसृजां पतिं ब्रह्माणमाराधयाम्बभूव ॥ २ ॥
तदाराधनमुपलभ्य ज्ञात्वा भगवानादिपुरुषो ब्रह्मा स्वसदने गायन्तीं गानं कुर्वन्तीं पूर्वचित्तिं नाम पूर्वचित्त्याख्यामप्सरसमभियापयामास भोगार्थं प्रस्थापितवान् । सन्तानार्थमप्सरःप्रेषणं न तु तपोविघ्नार्थम् ॥ ३ ॥
सा च पूर्वचित्तिस्तस्याग्नीध्रस्याश्रमे यदुपवनं तदुपबभ्राम समीपे चचार । आश्रमोपवनं विशिनष्टि । अतिरमणीयं तदेव प्रपञ्चयति । विविधाश्च निबिडाः सान्द्राश्च ये विटपिनः वृक्षास्तेषां विटपाः शाखास्तेषां निकराः समूहास्तैः संश्लिष्टाः पुरटलताः स्वर्णवर्णा वल्ल्यस्तास्वारूढाः स्थिता विहङ्गमाः मयूरादयस्तेषां मिथुनैः स्त्रीपुंसद्वन्द्वैः प्रोच्यमानाभिः उच्चार्य्यमाणाभिः श्रुतिभिः षड्जादिस्वरैः करणभूतैः प्रबोध्यमाना ये सलिलकुक्कुटादयस्तैर्विचित्रं यथा भवति तथोपकूजिता नादिता अमला जलाशयास्तेषु कमलानि पङ्कजानि तेषामाकरमुपवनम् ॥ ४ ॥
तस्या इति सुललिते गमने सुन्दरगतौ ये पदविन्यासास्तैर्गतिविलासा यस्यास्तस्याः पूर्वचित्त्याः खणखणेति ध्वनिं कुर्वतो रुचिरस्य चरणाभरणस्य स्वनं ध्वनिमुपाकर्ण्य श्रुत्वा नरदेवस्य प्रियव्रतस्य कुमारः आग्नीध्रः समाधियोगेन आमीलिते नयने एव नलिनमुकुले तयोर्युगलमीषद्विकचय्य किञ्चिदुन्मील्य व्यचष्ट ददर्श ॥ ५ ॥
I FERTME । Dear prinus श्रीमद्विजयध्वजतीर्थकृता पदरलावली * स्त्रीसङ्ग परिहरतः पुंसः करतलस्थैव मुक्तिरित्यभिप्रेत्य तस्यापरिहारार्थत्वं प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादावाग्नीधस्य राज्यलक्षणप्रकारमाह एवमिति । औरसवदात्मपुत्रवत्पर्यगोपायदरक्षत् । झुपू रक्षणे ॥ १॥ * * विश्वसृजां पतिं प्रह्माणं पितृलोककाम इत्यनेन सन्तानार्थित्वं लक्षयति “सोऽयं मनुष्यलोकः पुत्रेण जेयः” इति श्रुतेः सुपुत्रेण पितुः पितृलोकप्राप्तिश्रवणात् आक्रीडः क्रीडास्थानमात्मनोऽन्तःकरणस्यैकाग्र्यं यस्मिंस्तत्तथा तेनात्मैकविषयेण वा ।। २ ।। ४ अभियापयामास प्रेषया- मास ॥ ३ ॥ * * अतिरमणीया विविधाश्च निविडाच संघटिताच विटपिनो वृक्षास्तेषां विटपाः शाखास्तेषां निकटपुटेषु समीपभागेषु या लतास्तासां कुटिलेषु वक्रभागेषु रूढा आरूढाश्च स्थलविहङ्गमाः मयूरकोकिलादयस्तेषां मिथुनैः प्लाव्यमाना श्रुतिः धनुर्मण्डलमात्रप्रदेशव्यापिनी ध्वनिसन्वतियेषां तानि तथा तैः प्रबोध्यमानैः प्रतिनादोन्मुखीकरणायेति शेषः । जलकुक्कुटादिभि- विचित्रं यथा तथोपकूजिते निर्मलजलाशये रूढः कमलाकरो यस्मिन् तत्तथा ॥ ४ ॥ * * सुहितो ललितपदविन्यासः कोमलपदविक्षेपो यया सा ललितपदविन्यासा च गतिर्गमनं तस्या विलासेन शृङ्गारलक्षणशोभयानुपदं प्रतिचरणविक्षेपं खणखणाय- माने सिजितध्वनिविशेषं कुर्वाणे रुचिरे शोभने चरणाभरणे नूपुरे ये तयोर्ध्वनिमाकर्ण्य स राजकुमारः समाधियोगेन निमित्तेना- मिलितौ नयननलिनमुकुलौ यौ तयोर्युगलमीषदल्पं विकचय्य विकासं कृत्वा अचष्ट अद्राक्षीत् ॥ ५ ॥ श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भ सहकारी पितृलोककाम इति तस्य स्त्रिया वन्ध्यात्वं गम्यते ॥ १-११ ॥ VIES IF ६. ५ म. २ श्लो. १-५] अनेकव्याख्यासमलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी * द्वितीये तपसा प्राप्य पूर्वचित्तिमजिज्ञपत् । आग्नीधो निजलाम्पढ्यं पुत्रांश्चास्यामजीजनत् ॥ धर्म्म एव अवेक्षणं यस्य सः ॥ १ ॥ ॐ पितृलोककामः पुत्रकामः विश्वसृजां पतिं ब्रह्मणिमाभृतानि संपादितानि परिचर्योपकरणानि पुष्पादीनि येन सः ॥ २-३ ॥ * सा च तदाश्रमोपवनमुपबभ्रामेत्यन्वयः । विविधाश्च निविडाश्च ये विटपिनस्तेषु विटपाः स्कन्धाः यासां तासु निकटस्थपुर ढलती आरूढाः ॥ स्थलविहङ्गी कोकिलादयस्तेषां मिथुनैः प्रोच्यमानाभिः श्रुतिभिरुच्चार्य्यमाणैः पचमादिखरैः प्रतिबुद्धयमाना ये सलिलकुक्कुटादयस्तैर्विचित्रं यथा स्यात्तथा उपकूजिता नादिता अमला जलाशया वाप्यादयः कमलाकराः कासाराश्च यस्मिंस्तत् ॥ ४ ॥ तस्यां सुललिते गमने ये पदयोर्विन्यासास्तैरेव गतिश्रेष्ठा VFIE BYE EFF FIRE FRIPSI FF FERRITE FISH FIVE विलासश्च सर्व्वाङ्गगतो यस्याः ॥ द इसी माह म ५ ॥ ती hepati श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः श्री द्वितीये प्रियव्रतपुत्रस्य आग्नीध्रस्य भार्यालाभोऽपत्योदयश्च वर्ण्यते एवमिति । संप्रवृत्ते प्रजापालनान्निवृत्ते सति आग्नीध्रः धर्मावेक्षमाणः राज्ञां प्रजापालनमेव धर्म इत्येवं धर्ममवेक्षमाणः जम्बूद्वीपमोको बासस्थानं यासान्ताः प्रजाः औरसव- ।। ।। डास त्पुत्रवत् परितः क्षुत्तृड्भ्यो वृत्तिदानेन शत्रुभ्यो रक्षणेन च अगोपायत अरक्षत् ॥ १ ॥ स आग्नीधः पितृलोक कामः ‘पुत्रेण लोकान् जयती ‘ति पितृलोकजयार्थं पुत्रमभिलषन्नित्यर्थः । आभृतानि संगृहीतानि परिचय्र्योपकरणानि पूजासाधनानि येन सः ॥ २ ॥ * * आदिदेवः विश्वसृड्भ्यः पूर्वो ब्रह्मा तदाराधनमुपलभ्य ज्ञात्वा अभियापयामास पुत्रोत्पादनार्थ प्रस्थापया- मास || ३ || * * सा च पूर्वचित्तिः तदाश्रमोपवनमुपबभ्राम । कथम्भूतम् ? अतिरमणीयम् । तद्रमणीयत्वं प्रपञ्चयति । विविध- निबिडविटपिनां बहुजातिसघनद्रुमाणां विटपनिकरैः स्कन्धसमूहैः संश्रिष्टासु पुरटलतासु स्वर्णवल्लीषु आरूढानां स्थलविहङ्गाना मयूरादीनां मिथुनैः स्त्रीपुरुषद्वन्द्वः प्रोच्यमानाभिः श्रुतिभिः षड्जर्षभादिवरैः प्रतिबोध्यमाना ये सलिलकुक्कुटादयस्तैर्विचित्रं यथा भवति तथोपकूजितेषु नादितेषु अमलजलाशयेषु यानि कमलानि तेषामाकरमालयम् ॥ ४ ॥ * * नरदेवस्य कुमारः, अनेना- दृढसमाधित्वे हेतुरुक्तः, आमीलिते नयने एवं मुकुले तद्युगलमीषत् किश्चिद्विकचय्योन्मील्य तस्या अनुपदं प्रतिपदम् । खणखणाय- मानस्य रुचिरचरणाभरणस्य स्वनमुपाकर्ण्य व्यचष्ट ददर्श तामिति शेषः । कथम्भूतां सुललिते गमने ये पदविन्यासास्तैर्गति- विलासो यस्याः ॥ ५ ॥ फ pre PISSFER गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी । & Chote ones BRIDE MEE प्रियव्रतसुतस्यानीधस्य कृष्णप्रसादतः । अध्यायेऽत्र द्वितीये तु श्रीप्राप्तिर्विनिरुध्यते ॥ १ ॥ "”
प्रियव्रतस्य स्वभक्तत्वादेवान्येषामपि गणानां स्थापन तद्वशे एव भगवान् कृतवांस्तत्प्रर्शयन्नादौ तत्र पुत्रस्याग्नीधस्य श्रीप्राप्तिं निरूपयति । तत्र तस्य स्वधर्मनिष्ठामाह - एवमिति । एवं पूर्वोक्तप्रकारेण पितरि प्रियंत्रते भगवद्भजने सम्प्रवृत्ते सति तस्या- नुशासने आज्ञायां वर्त्तमानोऽत एव धर्मावेक्षमाणः धर्ममेवाक्षमाणः न केवल धनाद्यर्थ जम्बूद्वीपमोको यार्सा ताः प्रजा औरसक्त् पुत्रवत् पर्यगोपायत् पालयामासेत्यन्वयः ॥ १ ॥ * * सच आग्नीध्रः पितृलोककामस्तस्य कर्माधीनत्वात् कर्मानुष्ठानस्य च पत्नीमन्तरेणासम्भवात् पत्नीलाभार्थमाभृतानि सम्पादितानि परिचर्योपकरणानि पुष्पादीनि येन सः । तथा तपस्वी स्नानाहारा- दियमनियमासनप्राणायामप्रत्याहारादिसाधनसम्पन्नः सन् सुरवरवनितानां क्रीडाचलस्य मेन्ट मन्दरस्य द्रोण्यां स्थित आत्मकाम्येण ध्यानेन भगवन्तं विश्वसृजां पर्ति ब्रह्माणं आराधयाम्बभूवेत्यन्वयः । अत्रेदं बोध्यम्- अस्त्यशत्रयं प्रियव्रते, वैराग्यसहिता भगवद्भक्तिः, ब्रह्मवाक्यतः सर्वविषयकः कामः, मनुपुत्रत्वं च । तथा च तेन तेनांशेन तत्तत्कार्यार्थ तादृशास्तादृशाः पुत्रा जातास्तत्र भक्त्यंशेन जाताः कव्यादयस्त्रयो मुक्ताः, राजशिन जातत्वादिध्मजिहादीनां द्वीपाधिपतित्वम् । आग्नीधस्य तु राजांशत्वेऽप्युत्कटकामावस्थायां जातत्वादुत्कटकामात्मकत्वमत एवं स्त्र्यर्थमेव प्राराधनमिति ॥ २॥ तदुत्कटकामेन स्त्र्यर्थं स्वाराधनमुपलभ्य ज्ञात्वा भगवान्सर्वज्ञ आदिपुरुषः सृष्टिकर्ता ब्रह्मा । सृष्टिवृद्धयर्थं तत्कामस्यात्युत्कटत्वेन तत्पूर्वेली किक्या विवाहिताया निकृष्टत्वेन पूर्णरसाभावात् कलु मशक्यत्वात् तत्पूथ च स्वसदसि गायन्ती पूर्वचिन्ति नाम अप्सरसमभियापयामास प्रस्थापयामास ॥ ३॥ * सा च तत आगत्य तस्याग्नीधस्य अतिरमणीयमाश्रमोपवनं उपबभ्रामेत्यन्वयः । रमणीयत्वमेव स्पष्टयति- विविधाश्च निविडाश्च ये विटपिनस्तेषां विटपाः शाखास्तेषां निकरास्तैः संश्लिष्टाः पुरटलताः स्वर्णवल्ल्यस्ता स्वारूढाः ये स्थलविहङ्गा “ये स्थलविहङ्गा मयूरादयस्तेषां मिथुनैः स्त्रीपुरुषद्वन्द्वः प्रोच्यमानाभिः श्रुतिभिः उच्चार्यमाणैः षट्जादिखरैः प्रतिबोध्यमाना ये सलिल कुक्कुटादयस्तैर्विचित्रं यथा भवति तथा उपकूजिता नादिता ये अमला जलाशयास्तेषु यानि कमलानि तेषामाकरमिति तत्र - ‘षड्जर्षभौ च गान्धारो मध्यमः पचमसथा। उचैवतश्च निषादश्च || श्रीमद्भागवतम् [ स्कं . ५ अ. २ श्लो. १-५ सर्व । मयूरचातकच्छागकौन स्युः श्रुतिसम्भवाः । मयूरचात कच्छाग कौन कोकिलदर्दुराः ॥ पतङ्गाश्च क्रमेणादुः स्वरानेतान् सुदुर्गमान्’ इति स्वरभेदा ज्ञेयाः ॥ ४ ॥ * * सुललिते गमने ये पदविन्यासास्तैर्गतौ विलासो यस्यास्तस्याश्च अनुपदं खणखणेति ध्वनिं कुर्वतोः रुचिरयोश्चरणाभरणयोनू पुरयोः स्वर्न शब्दमाकर्ण्य नरदेवकुमार आग्नीधः समाधियोगेन आमीलिते नयने एव नलिनमुकुले तयोर्युगलमीषद्विकचय्य किञ्चिदुन्मील्य व्यचष्ट ददर्श ॥ ५ ॥ क fertion श्रीभगवत्प्रसादाचार्यविरचिता भक्कमनोरञ्जन एडी RS PER RomiSy ॥ आग्नीधचरितं प्रोक्तं द्वितीये स्त्रैणसंमतम् । पूर्वचित्त्यङ्गनायां योऽजीजनन्नाभिमुख्यकान् ।। १ ।। । स्त्रैणानां पुंगवः ख्यात आग्नीधोऽत्रान्वये यतः । हसन्निव मनाक् तस्य चरितं मुनिराह तत् ॥ २ ॥ शुभ । , एवं विश्रावितप्रियव्रतचरित्रो मुनिस्तत्पुत्राणां चरित्र विवक्षुस्तावदाग्नीधचरित्रमाह एवमिति । एवमुक्तविधज्ञान- पूर्वकं पितरि प्रियव्रते संनिवृत्ते मुक्तभावं प्राप्ते सति, तस्य प्रियव्रतस्य अनुशासनं तस्मिन् अनुपूर्वः शास्तिधातुः विविच्य ज्ञापनरूपेऽर्थे वर्त्तते । ततस्तदुपदिष्टहिताहितविवेके इत्यर्थः । वर्त्तमानः आग्नीधः, धर्मापेक्षमाणः धर्मसंचयमेव कर्तुमुद्यतः सन्नित्यर्थः । जम्बूद्वीप ओको निवासस्थान यासां ताः, प्रजाः औरसवत् स्वपुत्रवत्, परि परितः सर्वेभ्य उपद्रवेभ्य इति यावत् । अगोपायदरक्षत् । धर्मावेक्षमाण इति पाठे धर्ममेवावेक्षमाण इत्यर्थः ॥ १ ॥ * * स इति । स आग्नीधः, कदाचित् पितृ- लोककामः पुत्रकामः सन् इत्यर्थः । पितृलोकस्य संतानवता प्राप्यत्वात्पितृलोककाम इत्युक्तं, ततः पितृलोकप्रापकसंतानार्थीति भावः । सुरवराणां वनिता अप्सरसस्तासामाक्रीडाचलो मन्दरस्तस्य द्रोणी तस्यां, तपस्वी प्रशस्ततपोनिष्ठः आभृतान्याहतानि परिचर्योपकर- णानि पुष्पादीनि येन तथाभूतः सन्, भगवन्तमैश्वर्यवन्तं, विश्वसृजां मरीच्यादीनां पतिं ब्रह्माणं, आत्मैकाग्येण चित्तैकाप्रतया, आराधयांबभूव ॥ २ ॥ * * तदुपलभ्येति । तत्तत्कृतं स्वाराधनं, उपलभ्य मदप्सरः प्राप्त्यर्थमयं मदाराधनं चरतीति ज्ञात्वे- त्यर्थः । भगवान् आदिपुरुषः ब्रह्मा सदसि स्वसभायां गायन्तीं गानं कुर्वन्तीं, पूर्वचित्ति नामाप्सरसं पूर्वचिन्त्याख्यामप्सरसं, अभियापयामास संभोगार्थं प्रस्थापितवान् । इदमप्सरःप्रेषणं संतानार्थकं न तु तपोविघ्नार्थम् ॥ ३॥ सा चेति सा च सा पूर्वचित्तिरपि, विविधा नैकप्रकाराश्च निबिडाः सान्द्राश्च ये विटपिनो वृक्षास्तेषां विटपाः शाखास्तेषां निकराः समूहास्तैः संश्लिष्टा आसक्ताः याः पुरटलताः स्वर्णवल्लयस्तास्वारूढाः स्थिता ये स्थलविहङ्गा मयूरकोकिलादयस्तेषां मिथुनानि तैः प्रोच्यमा- नाभिरुच्चार्यमाणाभिः श्रुतिभिः षड्जादिस्वरैः करणैः, प्रतिबोध्यमानाः प्रतिनादोन्मुखीकरणाय विहितबोधाः, ये सलिलकुक्कुटा जलकुक्कुटाश्च कारण्डवा जलनील्यङ्कराशिनो विहङ्गाश्च कलहंसाः कादम्बाश्च ते आदयो येषां तैः विचित्रं यथा भवति तथा उपकूजिता नादिता ये अमला जलाशयास्तेषु कमलानि पङ्कजानि तेषामाकरः समूहो यस्मिंस्तत्, अत एव अतिरमणीयं तदाश्र- मोपवनमाग्नीध्राश्रमारामं, नगरान्नातिदूरेण यः सद्भिरुपरोपितः, ‘तरुषण्डः स आरामस्तथोपवनमुच्यते’ इति हलायुधः । उप- बभ्राम । आश्रमान्तिकें परितो भ्रमणमाचचार ॥ ४ ॥ ४ । तस्या इति । सुललितं च तद्गमनं च तत्र ये पदविन्यासास्तैर्गती बिलासो यस्यास्तस्याः, तस्याः पूर्वचित्तेः, चकारो वाक्यालंकाराय, अनुपदं प्रतिपदं, खणखणायमानस्य खणखणेति ध्वनिं कुर्वतः रुचिरस्य चरणाभरणस्य स्वनो ध्वनिस्तं, उपाकर्ण्याश्रुत्य, नरदेवस्य प्रियव्रतस्य कुमार आग्नीध्रः, समाधियोगेन ध्यानयोगेन, आमीलिते, नयने नेत्रे एव नलिनमकुले कमलकोशौ तयोर्युगलं युग्मं ईषदल्पमात्र, विकचय्य किंचिदुन्मील्य, व्यचष्ट ददर्श ॥ ५ ॥ । 30000. fe 2M गहरी आनी चरित्र ॥१॥ श्रीशुकदेवजी कहते हैं-पिता प्रियव्रतके इस प्रकार तपस्या में संलग्न हो जानेपर राजा आग्नीध्र उनकी आज्ञाका अनुसरण करते हुए जम्बूद्वीपकी प्रजाका धर्मानुसार पुत्रवत् पालन करने लगे ॥ १ ॥ * * एक बार वे पितृलोककी कामनासे सत्युत्रप्राप्ति के लिये पूजाकी सब सामग्री जुटाकर सुर-सुन्दरियों के क्रीडास्थल मन्दराचलकी एक घाटीमें गये और तपस्या में तत्पर होकर एकाग्र चित्तसे प्रजापतियोंके पति श्रीब्रह्माजीकी आराधना करने लगे ॥ २ ॥ आदिदेव भगवान् ब्रह्माजीने उनकी अभिलाषा जान ली । अतः अपनी सभाकी गायिका पूर्वचित्ति नामकी अप्सराको उनके पास भेज दिया ॥ ३ ॥ आमीधजी के आश्रमके पास एक अति रमणीय उपवन था । वह अप्सरा उसीमें विचरने लगी। उस उपवनमें तरह-तरहके सघन तरुवरोंकी शाखाओं पर स्वर्णलताएँ फैली हुई थीं। उनपर बैठे हुए मयूरादि कई प्रकारके स्थलचारी पक्षियोंके जोड़े सुमधुर बोली बोल रहे थे। उनकी षड्जादि खरयुक्त ध्वनि सुनकर सचेत हुए जलकुक्कुट, कारण्डव एवं कलहंस आदि जलपक्षी भाँति-भाँति से कूजने लगते थे। इससे वहाँ के कमलवनसे सुशोभित निर्मल सरोवर गूंजने लगते थे ॥ ४ ॥ * * पूर्वचित्तिकी विलासपूर्व सुललित गतिविधि और पादविन्यासकी शैलीसे पद-पदपर उसके चरणन पुरोकी झनकार हो उठती थी। उसकी मनोहर ध्वनि * सुनकर राजकुमार आम्रीधने समाधियोगद्वारा मूँदे हुए अपने कमल-कलीके समान सुन्दर नेत्रोंको कुछ-कुछ खोलकर देखा तो पास ही उन्हें वह अप्सरा दिखायी दी ॥ ५ ॥ ie ghume लोक
स्क. १ अ. २ श्लो. ६-१० ] अनेकव्याख्यासमलङ्कृतम् ४७ तामेवा विदुरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजम नोनयनाहाद दुधैगतिविहार ब्रीडाविनया- बलोकसुस्वराक्ष रावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमु खविगलितामृतासवसहासभाषणामोदमदान्धमधु- करनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥ ६॥ a का त्वं चिकीर्षसि च किं मुनिवर्य शैले मायासि कापि भगवत्परदेवतायाः । विज्ये विभर्षि धनुषी सुहृदात्मनोऽर्थे किं वा मृगान्मृगयसे विपिने प्रमत्तान् ॥ ७ ॥ बाणाविमौ भगवतः शतपत्रपत्री शान्तावपुरुचिरावतितिग्मदन्तौ । कस्मै युयुङ्गसि वने विचरन्न विद्मः क्षेमाय नो जडधियां तब विक्रमोsस्तु ॥ ८ ॥ शिष्या इमे भगवतः परितः पठन्ति गायन्ति साम सरहस्यमेजस्रमीशम् युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः सर्वे भजन्त्यषिगणा इव वेदशाखाः ।। ९ ।। वाचं परं चरणपञ्जर तित्तिरीणां ब्रह्मन्नरूपमुखरां श्रणवाम तुभ्यम् लब्धा कदम्बरुचिरङ्कविङ्कबिम्बे यस्यामलातपरिधिः क च वल्कलं ते ॥ १० ॥ | अन्वयः – तदवलोकनेन विवृतावसरस्य भगवतः मकरध्वजस्य वशम् उपनीतः अविदूरे एव ताम् मधुकरीम् इव सुमनसः उपजिघ्रन्तीम् दिविजमनुजमनोनयनाहाददुधैः गतिविहारी डा विनया व लोकसुखराक्षरावयवैः नृणाम् मनसि कुसुमायुधस्य विवरम् विदधतीम् निजमुखविगलितामृतासवसहासभाषणामोदमदांधमधुकर निकरो परोधेन द्रुतपदविन्यासेन वल्गुस्पंदनस्तनकलशकबर- भाररशनाम् देवीम् जडवत् इति ह उवाच ।। ६ ।। * मुनिवर्य त्वम् काच शैले किम् चिकीर्षसि भगवत्परदेवतायाः का अपि माया असि सुहृत् विन्ये धनुषी आत्मनः अर्थे बिभर्षि किम वा विपिने प्रमत्तान् मृगान् मृगयसे ॥ ७ ॥ * * भगवतः इमौ शतपत्रपत्री शांती अपुंखरुचिरो अतितिग्मदंतौ बाणौ वने विचरन् कस्मै युयुक्षसि न विद्मः तव विक्रमः जडधियाम् नः क्षेमाय अस्तु ॥ ८ ल
-
- इमे शिष्याः भगवतः परितः पठति अजस्रम् ईशम् सरहस्यम् साम गायंति सर्वे युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः ऋषिगणाः वेदशाखाः इव भजति ॥ ९ ॥ * * ब्रह्मन् तुभ्यम् चरणपंजरतित्तिरीणाम् अ अरूपमुखराम् परम् वाचम् शृगवाम अंकविटंकबिंबे कदंबरुचिः लब्धा यस्याम् अलातपरिधिः ते वल्कलम् क च ॥ १० ॥ daarish श्रीधरस्वामिविरचिता भावार्थदीपिका Rexam तामेव देवीं मकरध्वजस्य वशमुपनीतः सन् जडवदिति ह वक्ष्यमाणान्दश श्लोकानुवाच । जाड्यानुकरणं च वैदग्ध्यैन तद्वशीकारार्थम् | दिविजानां देवानां मनुजानां च यानि मनांसि नयनानि च तेषामाह्लाददुधैर्गत्यादिभिर्नृणां मनसि कामस्य विवरं प्रवेशद्वारं विदधतीम् । गतिश्च विहारश्च व्रीडाविनययुक्तोऽवलोकश्च सुखराण्यक्षराणि चावयवाश्च नेत्रादयस्तैर्निजमुखा- द्विगलितममृतमिव व स्वादु आसव इव मादकं च यत्सहासं भाषणं तस्मिन्नामोदो निःश्वासगन्धस्तेन मदांधा ये मधुकर निकरास्तै- रुपरोध आवरणं तेन भयाद् द्रुतः शीघ्रो यः पदविन्यासस्तेन वल्गुस्पंदनं किंचिञ्चलन स्तनकलशयोः कबरभारे रशनायां च * का त्वं शैले गिरावस्मिन्कि चिकीर्षसि । यस्यास्ताम् । तस्या अवलोकनेन विवृतावसरस्य दत्तावकाशस्य ॥ ६ ॥ * मुनिवर्येत्यादि पुंस्त्वेन सम्बोधनादि जाड्यानुकरणार्थम् । हे मुनिवर्य नूनं भगवतः परदेवताभूत्तस्य मायाऽसि । ध्रुवावालक्ष्याह । हे सुहृत्सखे विज्ये निर्गुणे धनुषी बिभर्षि किमात्मनोऽर्थे तवैवाभ्य किं कार्यमस्ति । किं वा प्रमत्तानजितेन्द्रियान्मृगतुल्यान- स्मदादीन्मृगयसे । तान्वशीकर्तुं धनुषी धारयसीत्यर्थः ॥ ७ ॥ * * कटाक्षावालक्ष्याह । बाणाविमौ शतपत्रे नेत्रकमले ते एव पत्राणि पिच्छानि ययोः । शान्तौ विभ्रमेण मंथरौ पुंखाभ्यां विनापि रुचिरौ पत्रतया कल्पितनेत्राभ्यां परभागस्य पुंखस्थानीयस्याभावात् । अतितिग्मौ तीक्ष्णौ दन्तावग्रभागौ ययोस्ती कस्मै प्रयोक्तुमिच्छसीति न विद्मः, अतो भयादेतावत्प्रार्थयामहे तवायं विक्रमोऽस्माकं क्षेमायास्तु ।। ८ ।। * * तदङ्गपरिमललोभेनानुगच्छतो भ्रमरानालक्ष्याह शिष्या इति । अजस्रं सन्ततं युष्मच्छिखातो विलुलिता विगलिताः सुमनसामभितो वृष्टीर्गलितानि कुसुमानि भजन्तीत्यर्थः । शुद्धत्वेनोपमा वेदशाखा इवेति ॥ ९ ॥ * * नूपुरस्वनमाकर्ण्याह वाचमिति । तुभ्यं तव चरणगतपअर योन पुरयोस्तित्तिरीणामन्तर्गतरत्नानां १. प्रा० पा० - २. ३. ४. प्रा० पा० - ५. प्रा० पा० - ६. प्रा० पा०
४८ श्रीमद्भागवतम् [ स्कं. ५.अ. २. ६-१० परं केवलं वाचं शृणुमः । कथंभूताम्। अरूपा अदष्टवक्तृका मुखरा अतिप्रकटा च तां च तां च । पीतं परिधानवस्त्रं नितम्ब- कान्तित्वेन प्रकल्प्याह । कदम्बकुसुमस्य रुचिदप्तिरङ्कविटङ्कबिंबे नितम्बस्य सुन्दरमण्डले क लब्धा । पाठान्तरे अङ्गेति सम्बोधनम् । मेखलामा लक्ष्याह । यस्यामलातपरिधिर्वर्तते । वस्त्रं नितम्बकान्तित्वेन प्रकल्प्य वस्त्रमदृष्टुं व पृच्छति । क च ते वल्कलमिति ॥ १० ॥ FI श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः instars g वैदग्ध्येन चातुर्येणाप्सरोमोहनार्थम् । आाददुधैरानन्दपुरकैः । कबरभारे केशसमूहे । रशना क्षुद्रघण्टिका । रसना रशना चोभे क्षुद्रघण्टिकाजिह्वारज्जुषु वर्त्तते इति । भगवतः भगो योनिर्विद्यते निवासत्वेनास्येति भगवांस्तस्य ‘भगे हिं स्मरमन्दिरे’ इति कोशान्तरोक्तः ।। ६ ।। का त्वमित्युक्त बल्यमारभ्य तपस्यतः स्त्रीपुंविशेषज्ञानं नास्तीति द्योतयन्नाह मुनिवर्येति । अहमिव त्वमपि तपोर्थमेवात्र तिष्ठसि किमिति भावः । किञ्च त्वं मुनिवर्यो भूत्वा मुनिं मां यन्मोहयस्यत्र किं कारणमिति क्षणं विभाव्य ‘आ’ ज्ञातमित्याह- मायासीति । भगवानेव परदेवता तस्या मायैव मुनिवर्यरूपेणात्र वर्त्तस इति भावः । वस्तुतस्तु — मुनिरहं वर्यो वरणीयो यस्येति मुनिवयसि त्वं मद्वरणार्थमेवात्राऽऽगतोसीति भावः । यद्वा-शीलमेव शैलं मुनिवर्यं शैलं यस्यास्सा मुनिवर्यशैला तत्सम्बुद्धौ तथा । अप्सरसां मुनिवरणशीलत्वं स्वत एव प्रसिद्धमतस्तन्नान्यथा कार्यमिति भावः । काप्यनिर्वचनीया कृपासीति भावः । इत्यर्थं इति । वयं तु स्वत एव त्वद्वशवर्त्तिन इति भावः ॥ ७ ॥ * यदि प्रयोक्ष्यसे तर्ह्यनयोज्वलिया नैव जीविष्याम इति भावः ॥ ८ ॥ हस्तवारणलक्षणशिक्षा योग्यत्वाच्छिष्या इति भगवत इति पुंस्त्वनिर्देश: पूर्ववत् । ईशमीश्वरप्रतिपादकं बृहद्रथन्तरादि नाम। केचित्वीशेति सम्बुद्धिमाहुः । तत्र मन्मनोरथसम्पादन- समर्थोसीति सम्बुद्धद्यभिप्रायः ॥ ९ ॥ * पाठान्तरे ‘रुचिरङ्गविटंक’ इति पाठे “विटंकः सुन्दरे पक्षिनिवासेऽनंबुपर्वते” इति निरुक्तिः । “तित्तिरिन् पुरान्तस्थरत्न पक्षिविशेषयोः । वक्रमार्गे यजुर्वेदशाखायामपि कथ्यते ॥” इति तीर्थः । “वल्कं वल्कल- मस्त्रियाम्” इत्यभिधानात् । तुभ्यं त्वामानन्दयितुम् । मुखरों पारस्परिककलहमयीम् । ब्रह्मन्निति । तब तपोयोगबलविलसित- मेवैतदिति भावः । यस्यां पीतकान्तौ अलातपरिधिर्ज्वलदङ्गारमण्डलमही ते तपस्तीव्रतेति भावः । च वल्कलं ते इति किं स्वाश्रम एव वल्कलं भ्रमादेवापहाय मन्निकटं नग्न एवायासीति भावः । भंग्या सुरतप्रार्थना च द्योतिता ॥ १० ॥ PPP * कर श्रीमद्वीरराघवव्याख्या fisit freeteers finite fleepree तामेव देवीमप्सरसं तदवलोकनेन विवृतावसरस्य प्रसक्तावकाशस्य भगवतो मकरध्वजस्य मन्मथस्य वशमुपनीतः प्राप्तः जडवत्स्त्रीणामनभिज्ञ इव इति वक्ष्यमाणश्लोकानुवाचेत्यन्वयः । जाडयानुकरणं वैदग्ध्येन तद्वशीकरणार्थं तदभिप्रायज्ञापनार्थं देवीं विशिनष्टि । अविदूरे समीपे मधुकरीं भ्रमरीमिव सुमनसं पुष्पमुपजिघ्रन्तीं गन्धमुपाददतीं दिविजानां मनुजानां च यानि मनांसि नयनानि च तेषामाह्लाददुघैः सुखकरैर्गत्यादिभिः नृणां मनसि कामस्य विवरं प्रवेशद्वारं विदधतीं गतिश्च वीडाविलासाभ्यां युक्तोऽवलोकश्च सुस्वराण्यक्षराणि चावयवाश्च नेत्रादयस्तैर्निजमुखाद्विगलितममृतमिव स्वादु आसवमिव मादकं यत्सुहासं सम्भाषणं तस्मिन्नामोदो निश्वासगन्धस्तेन मदान्धा ये मधुकराणां निकुरास्तैरुपरोध आवरणं तेन भयाद् द्रुतं शीघ्रो यः पदविन्यासस्तेन वल्गु सुन्दरं किश्चिच्चलनं स्तनयोः कबरभारे रशनायां यस्यास्ताम् ॥ ६ ॥
तद्वचनमेवाह का त्वमिति । हे मुनिवर्य्य ! पुंस्त्वेन सम्बोधनं जात्यानुकरणं का त्वं कथञ्जातीया शैले गिरौ अस्मिन् किञ्चिकीर्षसि कर्तुमिच्छसि नूनं । भगवतः परदेवतारूपस्य मायासीति कृत्स्नां व्यक्तिमालक्ष्य भगवन्मायात्वेन निरूपयति । अथ भ्वाद्यवयवान् प्रत्येकमालक्ष्य धनुरादित्वेन रूपयति तत्र भ्रुवावालक्ष्याह । विज्ये निर्गुणे धनुषी बिभर्षि किं सुहृदः मादृशस्य आत्मनो वा अर्थे प्रयोजनाय आभ्यां किं कार्यमस्ति । किञ्चाप्रमत्तानजितेन्द्रियान् मृगान् मृगतुल्यानस्मदादीन् मृगयसे कान् विजेतुं किं धनुषी धारयसीत्यर्थः ॥ ७ ॥
कटाक्षावालक्ष्य तद्विवक्षया प्राह बाणाविमौ । शतपत्रे नेत्रकमले ते एव पत्राणि पिच्छानि ययोः शान्तौ विभ्रमेण मन्थरावपुङ्खरुचिरौ पुङ्खाभ्यां विनापि रुचिरौ सुन्दरौ पत्रतया कल्पितनेत्राभ्यां परभागस्य पुङ्खस्थानीयस्याभावादपुङ्खरुचिरावित्युक्तमतितिग्मौ तीक्ष्णौ दन्तावग्रभागौ ययोस्तौ यद्वा शतपत्रपत्रौ इति नेत्रविवक्षा अपुङ्खरुचिराविति कटाक्षविवक्षा । वने चरन्कस्मै युयुङ्क्षसि प्रयोक्तुमिच्छसीति न विद्मः । अतो भयादेतत्प्रार्थयामः तवायं विक्रमो जडधियामस्माकं क्षेमायास्तु ॥ ८ ॥
तदङ्गसौरभ्येनानुगच्छतो भ्रमरानालक्ष्य तद्विवक्षयाह शिष्या इति । इमे परितः अनुगच्छन्तः इति शेषः, भगवतस्तव शिष्या भ्रमरध्वनिमाश्रुत्य तद्विवक्षयाह । सरहस्यं सोपनिषत्सामाजस्रमविच्छेदेन पठन्ति । ईशेति पुंस्त्वनिर्देशः पूर्ववत् । शिखातो विलुलितपुष्पसंश्लिष्टभ्रमरानालक्ष्याह । युष्मच्छिखातो विलुलिताः गलिताः सुमनसामभितो वृष्टीः सर्वे तव शिष्याः भजन्ति । तत्र शुद्धत्वेनोपमा ऋषिगणा वेदशाखा इवेति ॥ ९ ॥
नूपुरादिचरणाभरणान्तर्गतमणिस्वनमाकर्ण्य तद्विवक्षयाह वाचमिति । तुभ्यं तव विभक्तिव्यत्यय आर्षः । पञ्जराकारस्थानीयचरणालङ्कारान्तर्गतानां तित्तिरीणामिति चरणाभरणरत्नविवक्षया तित्तिरीशब्दः पक्षिवक्तृजात्यापन्नयजुर्वेदप्रवरऋषिवचनः स चाभेदोपात्तमणिपरः तेषां वाचं परं केवलं शृणुमः । कथंभूतामरूपमुखरामदृश्यमानवक्तृकां मुखरीमुद्भूतां यद्वा चरणपञ्जरतित्तिरीणामिति नूपुरादिचरणाभरणविवक्षैव । अस्मिन्पक्षे अरूपमुखरामित्यस्यानभिव्यक्तवर्णध्वन्यात्मनोद्भूतामित्यर्थः । हे ब्रह्मन् ! नितम्बं परिधानवस्त्रं नितम्बकान्तित्वेन प्रकल्प्याह । कदम्बकुसुमस्य रुचिर्दीप्तिरङ्कविटङ्कबिम्बे अङ्कयोश्च विटङ्कविम्बयोः सुन्दरतरनितम्बयोश्च तेषां समाहारः प्राण्यङ्गत्वादेकवद्भावः, तस्मिन् क्व लब्धा । पाठान्तरे अङ्गेति सम्बोधनं, नितम्बमण्डले कदम्बरुचिः क्व लब्धेत्यर्थः । मेखलामालक्ष्याह । यस्यां कदम्बरुच्यामलातपरिधिः वर्तते अलातः साङ्गारकाष्ठं तद्भ्रमणनिमित्तेन वलयाकाररेखाकृतिमापन्नोऽग्निपरिधिः । वस्त्रं नितम्बकान्तित्वेन परिकल्प्य वस्त्रमदृष्ट्वैव पृच्छति । क्व च ते वल्कलमिति । जात्यानुकरणनिमित्तऋषित्वव्यपदेशाभिप्रायेण वल्कलशब्दप्रयोगः ॥ १० ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली हा ततः किं तत्राह तामिति । एवशब्देनान्यदर्शनं निवारयति अन्यदर्शनाभावे निमित्तमाह अविदूर इति । सुमनसः पुष्पाणि दिविजादीनां मनोनयनानामाह्लादं दुहन्तीति मनोनयनाहाददुधास्तैर्गतिश्च विहारश्च विनयश्च विलोकनं च सुखराक्षराणि चावयवाश्व ते तथा तैः कुसुमायुधस्य कामस्य विवरमवकाशम् ॥ ६ ॥ निजमुखाद्विगलितः स्रुतः मदजनकासवः तस्यामोदाज्जातेन मदेनान्धा मधुकर निकरा ये तैरुत्पन्नेन उपरोधेन निवारणक्लेशेन द्रुतपदविन्यासेन वल्गु शोभनं स्पन्दनमीषचलन येषां स्तनकलशादीनां ते तथा वहगुस्पन्दनाः स्तनकलशादयो यस्याः सा तथा तां पूर्वचित्तेरवलोकनेन बुद्धिभ्र शविशेषोऽनेन प्राप्त इत्याह तदिति । भगवतः योनिलक्षणप्रशस्तस्थानगतस्य सर्वजनसम्भाव्यस्य वा मकरध्वजस्य कामस्य जडवद्वस्तुविचारपरिज्ञान- शून्य इव इति वक्ष्यमाणप्रकारेण हशब्देन “प्रभवति मनसि विवेको विदुषामपि शास्त्रसम्भवस्तावत् । प्रपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम” इत्यादिप्रसिद्धिं दर्शयति जडत्वमेव दर्शयति । का त्वमिति । मुनिवर्येति पुलिन सम्बोध्य का त्वमिति स्त्रीलिङ्गन प्रश्न इत्यादिविवेकाभावे लिङ्ग, शैले गिरौ किं कर्तुमिच्छसि । परदेवतायाः मायासि किं तत्रापि का मायासि नारी देवी मान्धर्वीत्यादिषु विज्ये मौर्वीरहिते धनुषी भ्र लक्षणे सुहृदात्मनोऽर्थे सुहृदात्मनो वशीकरणाय कस्यचित्सुहृद आत्मनो वा पालन- प्रयोजनविषये वा बिभर्षि अर्थान्तरमाह । किचेति । भ्रूयुगलधनुर्धृत्वा मृगान्मृगयसे किं वेत्यन्वयः ॥ ७ ॥ नयनलक्षणौ शतपत्रपत्री पद्मदलसदृशपक्ष्मयुतौ शान्तौ स्निग्धी अपुरुचिरौ पुङ्ख’ विना शोभमानौ अतितिग्मदन्तौ अतितीक्ष्ण- कटाक्षलक्षण एवंविधौ कस्मै पुंसे युयुङ्क्षसि प्रयोक्तुमिच्छसि ॥ ८ ॥ * हस्तवारणलक्षणशिक्षा योग्यत्वाच्छिष्या इति भृङ्गा युष्मच्छिखाविलुलिता युष्माकं केशपाशच्युताः सुमनोऽभिवृष्टीः पुष्पवृष्टीः ॥ ९ ॥ * * हे बह्मन् ! तुभ्यं तव चरणपङ्कज- तित्तिरीणां चरणपद्मनूपुरान्तर्गतरत्नाख्योपलानां वाचं शब्दमात्रं परं न तु व्यक्तार्थं कथंभूतां रूपं विनापि मुखरी शब्दवादनशीला- मित्यरूपमुखरीं “तित्तिरिनू पुरान्तस्थरत्नपचिविशेषयोः । वक्रमार्गे यजुर्वेदे सिल्यामपि च कथ्यते” इत्यभिधानं, कदम्बपुष्प- वदुचिरस्य सुन्दरस्याङ्कस्य सामीप्यात् कटिप्रदेशस्य विटङ्कबिम्बे उन्नतमण्डले शृङ्गारविशेषयुक्तमण्डले वा वर्तमाना ते तव वल्कला पटः क लब्धा यस्यां वल्कलायां अलातपरिधिः अलातमेवालातः तद्वत्स्थिता परिधिः परिवेषः काञ्जीलक्षणा च “वल्कं वल्कल- मस्त्रियाम्” इत्यभिधानाज्जडत्वालिङ्गव्यत्यासः, तथा च यस्य वल्कलस्योपर्यलातपरिधिरस्तीत्यन्वेतव्यम् ॥ १० ॥ * श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी बाणी तामेव देवीं मकरध्वजस्य वशमुपनीतः सन् जडवदिति वक्ष्यमाणां दशश्लोकीमुवाच । जाड्यानुकरणश्च वैदग्ध्यविशेष- द्योतनार्थं विवरं मनोऽन्तः प्रवेशद्वारं विदधतीं निजमुखाद्विगलितममृतमिव स्वादु आसव इव मादकं यत् सहासं भाषणं तस्मिन् सति य आमोदो गन्धस्तेन मदान्धा मधुकर निकरास्तैरुपरोध आवरणं तेनं भयात् द्रुतः शीघ्रो यः पदविन्यासस्तेन वल्गु स्पन्दनं किविचलनं स्तनकलशयोः कबर भारो रसनायाञ्च यस्यास्ताम् ॥ ६ ॥ * * का त्वमित्युक्त्वा ससम्भ्रममतिबाल्यमारभ्यैव तपस्यतो मम स्त्रीपुंविशेषज्ञानं नास्तीति द्योतयन्नाह हे मुनिवर्य्येति । अहमिव त्वमपि तपोऽर्थमेवात्र तिष्ठसि किमिति भावः । किश्च त्वं मुनिवर्यो भूत्वा मुनिं मां यन्मोहयस्यत्र किं कारणमिति क्षणं विभाव्य ज्ञातमित्याह मायासीति । भगवानेव परदेवता तस्याः मायैव त्वं मुनिवर्य्यरूपेणात्र वर्त्तसे इति भावः । किञ्च भ्रुवावालक्ष्याह । विज्ये निर्गुणे धनुषी किमात्मनोऽर्थे स्वस्य कृते तवैताभ्यां किं कार्य्यमस्ति किं वा मृगानस्मदादीनिति गूढोऽर्थः ॥ ७ ॥ * कटाक्षावालक्ष्याह के बिभषि हे सुहृत् ! सखे ! बाणौ शतपत्रे नेत्रकमले एव पत्रे ययोस्तौ शान्तौ विभ्रमेण मन्थरौ पुङ्खाभ्यां विनापि रुचिरौ अतितिग्मौ तीक्ष्णौ दन्ताग्रभागौ ययोस्तौ क्षेमायेति यद्यस्मान् प्रतियोक्ष्यसे तर्ह्यनयोर्व्वालिया नैव जीविष्याम इति भावः ॥ ८ ॥ * * तस्याः सौरभ्यलोभेना- नुगच्छतो भ्रमरानालक्ष्याह । शिष्या भ्रमराः ॥ ९ ॥ नूपुरस्वनमाखाद्याह वाचमिति । तुभ्यं त्वामानन्दयितुं तव
- चरणस्थयोः पञ्जरयोरन्तर्गतास्तित्तिरिपक्षिणो वर्त्तमाना अनुमीयन्ते यस्मादरूपामदृष्टवक्तृकां मुखरी पारस्परिक कलहमयीं वाचं शृणवाम । हे ब्रह्मन्निति तव तपोयोगबलविलसितमेवैतदिति भावः । परिधानीयातिसूक्ष्मपीतवस्त्रस्य नितम्बलग्नत्वे लावण्यमा स्वाद्याह । अङ्कविम्बे नितम्बस्य सुन्दरमण्डले कदम्बरुचिः पीतकान्तिर्लब्धा । श्यामस्यापि तव नितम्बः पीत इत्याश्चर्य्यम् । अङ्गनितम्बबिम्बे इति पाठे अङ्गेति सम्बोधनम् । रत्नमेखलां निर्वर्ण्याह । यस्यां पीतकान्तौ अलातपरिधिर्व्वलदङ्गारमण्डल अहो ते तपस्तीव्रतेति भावः
- ५०
- श्रीमद्भागवतम्
- [ स्कं. ५ अ. २ श्लो. ६-१०
- कच वल्कलं ते इति किं स्वाश्रम एव वल्कलं भ्रमादेवापहाय मन्निकटं नग्न एवायातोऽसीति भावः । भङ्ग्या सुरतप्रार्थना च योतिता ॥ १० ॥
- श्रीमच्छुकदेवकृतः सिद्धांत प्रदीपः
- *
- र्ष किमात्मनोऽर्थे स्वभोजनार्थं वाशब्देन वृथा मांसभक्षणस्य निन्दितत्वापयित्वाह ।
- 1
- तां नयनगोचरां देवीमविदूरे निकटे सुमनसः उपजिघ्रन्तीं मधुकरीमिव जडवदिति उवाच । कथम्भूतः तदवलोकनेन तस्या अवलोकनेन विवृतावसरस्य दत्तक्षणस्य मकरध्वजस्य वशमुपनीतः । कथम्भूताम् ? दिविजादिमनोनयना ह्राददुधैर्गत्यादिभिर्नृणां मनसि कुसुमायुधस्य विवरं छिद्रं विदधतीं निजमुखाद्विगलितममृतवत् स्वादु आसववन्मादकं यत्सहासं मन्दहसितसहितं सम्भाषणं तस्मात् य आमोदः बहिर्निःसृतो गन्धस्तेन मदान्धमधुकर निकरैरुपरोध आवरणं तेन भयाद् द्रुतेन शीघ्रेण पदविन्यासेन वल्गु स्पन्दनं किञ्चिञ्चलनं स्तनकलशयोः कबरभारे रसनायां च यस्याः ॥ ६ ॥ तद्वचनमेवाह का त्वमिति दशभिः । मुनिवर्येत्यादि पुंस्त्वेन सम्बोधनं ध्वादीनां धनुष्ट्वादिकल्पनं च स्वात्मनस्तद्वश्यत्वद्योतकं तस्याः वशीकरणार्थं च भगवतां ब्रह्मादीनां परदेवता उपास्यभूत्ता या देवता तस्याः कापि काचित् मायाऽसि किम् ? भ्रुवौ धनुष्ट्वेन कल्पयित्वाह । हे सुहृत् । विज्ये ज्यारहिते । श्राद्धाद्यर्थमप्रमत्तान् अनवहितानस्मद्विधान् मृगयसे ॥ ७ ॥ * * कटाक्षौ बाणत्वेन कल्पयित्वाह बाणाविति । शतपत्रे नेत्ररूपेण संस्थिते कमले ते एव पत्राणि पिच्छानि ययोः अपुङ्खरुचिरौ पुङ्खभ्यां दीर्घशलाकारूपाभ्यां विनापि रुचिरौ अतितिग्मदन्तौ अतितीक्ष्णाग्रभागौ कस्मै युयुङ्खसि प्रयोक्तमिच्छसीति न विद्मः । स्वस्य तल्लुब्धत्वं ज्ञापयन् प्रार्थयते तव विक्रमः अत्र प्रचारः नोऽस्माकं क्षेमायेष्टसिद्धयै अस्तु ।। ८ * * तदङ्गसौरभलोभेन परितो भ्रममाणान् ध्वनिं कुर्वतः मधुकरान् तच्छिष्यत्वेन कल्पयित्वाह शिष्या इति । सरहस्यं साङ्गं साम पठन्ति अजस्रं सन्ततमीश्वरं गायन्ति च । मूर्ख मत्वा यक्ष्यतीति शङ्कया तथ्येन मधुकरानेवाह । ऋषिगणाः वेदशाखा इव सुमनोऽभिवृष्टीर्भजन्ति अर्थादेते पुष्पपरिमल्लब्धा मधुकरा इत्यर्थः ॥ ९ ॥ नूपुरादीन् पञ्जरादित्वे कल्पयित्वाह वाचमिति । हे ब्रह्मन् ! तुभ्यं तव चरणस्थपञ्जरयोः नूपुरयोः तित्तिरीणामन्तर्गतरत्नानाम् अरूपमुखरामरूपा अदृष्टवक्तृका मुखरा प्रकटा तां च वाचं परं केवलं शृणवाम शृणुमः । पीतं पटं तत्र कान्तित्वेन कल्पयित्वा पृच्छति अङ्कविटङ्कबिम्बे नितम्बस्य सुन्दरे मण्डले कदम्बकुसुमस्य रुचिः कान्तिः क लब्धा कुत्र प्राप्ता । काञ्चनीं मेखलाम् अलातपरिधिं प्रकल्प्याह । यस्यां कदम्बरुच्यामलात- परिधिरस्ति नितम्बकान्तित्वेनोक्तां नग्नां प्रकल्प्य पृच्छति च पुनस्ते वल्कलं के ति ॥ १० ॥
- 4
- गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी
- तां पूर्वचित्तिमविदूरे स्वसमीपे एवं मधुकरीं भ्रमरीमिव सुमनसः पुष्पाणि उपजिघ्रन्तीं दिविजानां मनुजानां च यानि मनांसि नयनानि च तेषामाहाददुधैरानन्दजनकैः गतिर्गमनं च विहारः क्रीडा च विनयपूर्वकोऽवलोका सुस्वराक्षराणि मधुर भाषणानि च अवयवाः मुखकर्णनेत्रादयश्च तैर्नृणां पुरुषाणां मनसि कुसुमायुधस्य कामस्य विवरं प्रवेशद्वारं विदधतीम् । निजमुखाद्विगलितं यद्मृतमिव स्वादु आसव इव च मादकं सहासं भाषणं तस्मिन् य आमोदो निश्श्वासगन्धस्तेन मदान्धा ये मधुकरनिकरास्तैर्य उपरोध आवरणं तेन भयाद्यो द्रुतः शीघ्रः पदविन्यासस्तेन वल्गु मनोहरं स्पन्दनं किञ्चिञ्चलनं स्तनकलशयोः कबरभारे रशनायां वस्त्रे च यस्यास्तां देवीं देदीप्यमानामवलोक्य तदवलोकनेन विवृतावसरस्य लब्धप्रवेशावकाशस्य भगवतो जगद्विमोहकस्य मकरध्वजस्य कामस्य वशमुपनीतः सन् जडवत् इति वक्ष्यमाणान् दश श्लोकान् ह स्फुटमुवाच । जडवदुक्तयैव स्त्रीषु रसः प्रादुर्भवति तदा वा वशीभवन्तीति तां वशीकत्तु जाड्यानुकरणमात्रं, न तु वस्तुतस्तथेति द्योतयितुं वतिप्रयोगः ॥ ६ ॥ * * तद्वचनादि दर्शयति- का त्वमिति दशभिः । त्वं का किंनामासि ? शैलेऽस्मिन् गिरिवरे च किं चिकीर्षसि कर्तुमिच्छसि ? एवं स्त्रीत्वेन निर्दिष्टायाः पुनर्हे मुनिवर्येत्यादिपुंस्त्वेन सम्बोधनादि सर्वत्र जाड्यानुकरणार्थम् । भगवतः परदेवतायाः परमेश्वरस्यानन्तमायाशक्तेः काऽपि मायासि किम् ? अस्माकं मुनीनामपि मोहकरस्वरूपत्वात् । श्रवावा- लक्ष्याह - विजये इति । हे सुहृत् विज्ये ज्यारहिते द्वे धनुषी बिभर्षि तत्किमात्मनोऽर्थे तवैव ताभ्यां किचित्कार्यमस्ति किंवा विपिने संसाराटव्यां प्रमत्तान् अजितेन्द्रियत्वेन विषयभोगासक्तान् कर्त्तव्यभगवद्भजनविमुखान् मृगान् मृगतुल्यान् विवेकहीनानस्मदादीन् मृगयसे अन्वेषयसि तान् वशीकर्तुं धनुषी बिभर्षि । तव शूरत्वेऽपि सुहृद एवं दीनेषूद्योगो न युक्त इत्यपि जाड्यानुकरणार्थमेव सम्बोधनेन सूचयति ॥ ७ ॥ * * कटाक्षावालक्ष्याह-बाणाविति । भगवतस्तवेमौ बाणौ शतपत्रे नेत्रकमले ते एव पत्राणि पिच्छानि ययोस्तौ शान्तौ विभ्रमेण मन्थरौ अपुङ्खरुचिरौ पुङ्खाभ्यां विनापि रुचिरौ । पत्रतया कल्पिताभ्यां नेत्राभ्यां पूर्वभागस्य पुङ्खस्थानीयस्याभावादपुङ्खत्वमतितिग्मौ तीक्ष्णौ दन्तो अग्रभागौ ययोस्तौ कस्मै युयुंक्षसि योक्तुमिच्छसि वने विचरन्निति न विद्मः । अतो भयादेतावदेव प्रार्थयामहे तवायं विक्रमो नोऽस्माकं जडबुद्धीनां क्षेमायास्त्विति ॥ ८ ॥ * * तदङ्गपरिमललोभेनानु- गच्छतो भ्रमराना लक्ष्याह-शिष्या इति । भगवतः सर्वज्ञस्य तवेमे शिष्याः परितः सर्वतः पठन्ति तथा सरहस्यं मन्त्रादिसहितं साम गायन्ति । कथम्भूतं सामेत्यत आह- ईशमिति । ‘वेदो नारायणः साक्षात्’ इति वाक्याद्भगवद्रूपमित्यर्थः । अत एवाजस्रं
- स्क. ५ अ. २ श्लो. ६-१०
- अनेकव्याख्या समलङ्कृतम्
- नित्यमित्यर्थः । यद्वा ईशं त्वां परितः पठन्तीत्यन्वयः । अजस्त्रमिति निरन्तरमिति पाठगानयोर्विशेषणमनुस्वाररहितपाठे हे ईश इति संबोधनम् । युष्मच्छिखातो विलुलिता विगलिताः सुमनसां पुष्पाणामभितो वृष्टीः सर्वे भजन्ति गृह्णन्ति । तत्र शुद्धत्वेनादरेण ग्रहणे दृष्टान्तमाह ऋषिगणा यथा वेदशाखा गृह्णन्ति तथेत्यर्थः ॥ ९ ॥ * * नूपुरशब्दमाकर्ण्याह-वाचमिति । हे ब्रह्मन् इति सम्बोधनं जाड्या नुकरणार्थमेव । तुभ्यं तव चरणगतपञ्जरयोस्तित्तिरीणां परं केवलं वाचं शृणवाम शृणुमः । पञ्जरशब्देन नूपुरयोर्ग्रहणं, तित्तिरिशब्देन तदन्तर्मणीनां ग्रहणम् । कथम्भूतां वाचमित्यपेक्षायां तां विशिनष्टि -अरूपा अदृष्टवक्तृका मुखरा अतिप्रकटा तां च तां चेति तथा ताम् । पीतं परिधानवस्त्रं नितम्बकान्तित्वेन प्रकल्प्याह- लब्धेति । कदम्बकुसुमस्य रुचिर्दीप्तिः: अङ्कस्य नितम्बस्य विटङ्कबिम्बे मनोहर मण्डले क लब्धेत्यन्वयः । मेखलामा लक्ष्याह-यस्यां रुच्यामलातपरिधिः मण्डलाकारोल्मुक+ वह्निर्वर्तते इति शेषः । वस्त्रस्य नितम्बरुचित्वेन कल्पितत्वाद्वस्त्रमदृष्ट्व पृच्छति - ते तव वल्कलं क गतमिति शेषः । चकारः कशब्दस्योभयत्रान्वयबोधार्थः ॥ १० ॥
- श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- तामिति । मधुकरीं इव सुमनसः पुष्पाणि, उपजिघ्रन्तीं, दिविजा देवाश्च मनुजा मनुष्याश्च तेषां यानि मनांसि च नयनानि च तेषामाह्लाददुधैः सुखकरैः, गतिर्गमनं च व्रीडा लज्जा च विलाससहितोऽवलोकञ्च सुस्वरश्च अक्षराणि संभाषितवर्णाश्च अवयवाः समाननेत्रादिप्रतीकाश्च तैः, नृणां मनसि, कुसुमायुधस्य कामस्य, विवरं प्रवेशद्वारं, विदधतीं, निजमुखात्स्वीयास्याद्वि- गलितममृतवत्स्वादु आसववन्मादकं यत्सहासं भाषणं तस्मिन्नामोदो निश्वासगन्धस्तेन मदान्धा ये मधुकरास्तेषां निकरास्तै- रुपरोध आवरणं तेन द्रुत उभयतः शीघ्रो यः पदविन्यासस्तेन, वल्गु सुन्दरं स्पन्दनं किंचिश्ञ्चलनं स्तनकलशयोः कबरभारे केश- कलापे रशनायां कटिमेखलायां च यस्यास्तां, देवीं द्योतमानां तामप्सरसमेव अविदूरे स्वसमीपवर्त्तिनि प्रदेशे दृष्ट्वेति शेषः । तदवलोकनेन तस्यास्तथाविधत्वसमीक्षणेन विवृतावसरस्य प्रसक्तावकाशस्य, भगवतः शिवब्रह्मादीश्वरजेतुः, मकरध्वजस्य मन्मथस्य, वशं परतन्त्रत्वं, उपनीतः प्राप्तः । अत एव जडवत् स्त्रीणामनभिज्ञो यथा वदति तद्वदित्यर्थः । इति वक्ष्यमाणप्रकारेण ह स्फुटं यथा
- । स्यात्तथेत्यर्थः । उवाच ॥ ६ ॥ * * जडत्वमेव दर्शयति । का त्वमिति । हे मुनिवर्य, पुस्त्वेनेत्थं संबोधनं जाड्यानुकरणार्थ, का त्वं भवती किंजातीयास्ति । शैले अस्मिन् गिरौ, किं चिकीर्षसि कर्त्तुमिच्छसि च । भगवांश्चासौ परदेवता च तस्याः परदेवता- रूपस्य भगवत इत्यर्थः । काप्यनिर्वचनीया माया असि । नारीदेवीगान्धर्वीषु कथंचिद्बोधगोचरासु सतीष्वबोधविषयत्वात्वं तु । भागवती कापि मायासीति भावः । एवं तदीयां दूरतः कृत्स्नां व्यक्तिमना लक्ष्यादौ भगवन्मायात्वेन निरूप्याथ किंचिदासन्नत्वे तदवयवान्प्रत्येकमालक्ष्य तद्द्भवादिकं धनुरादित्वेन निरूपयति तत्र भ्रुवावालक्ष्याह । विज्ये विज्ये निर्गुणे प्रत्यचारहिते इति यावत् । धनुषी बिभर्षि किम् । मादृशस्तु संज्जमेव धनुर्बिभर्ति भवांस्त्वतथेति महदाश्चर्यमिति भावः । हे सुहृत्सखे इति यावत् ।
। एतदेवंविधधनुर्द्धारणं स्वप्रयोजनायाथवान्यप्रयोजनाय वास्ति, तदभावे तवास्यां किं वा कार्यमस्तीति भावः । वाथवा, विपिनेऽस्मि - न्कानने, प्रमत्तानजितेन्द्रियान् मृगान् मृगतुल्यानस्मदादीन, मृगयसे मृगसमानानस्मान्विजेतुं किं धनुषी धारयसी- त्यर्थः ॥ ७ ॥ * * कटाक्षावालक्ष्याह बाणाविति । भगवतः इमौ बाणौ शतपत्रे नेत्ररूपे कमले ते एव पत्राणि ययोस्ती, शान्तौ विभ्रमेण मन्थरौ, अपुङ्खौ च तौ रुचिरौ च पुङ्खाभ्यां विनापि सुन्दरौ नेत्राभ्यां पत्रतया कल्पिताभ्यां सद्द्भ्यां पुङ्खस्थानी- यस्य परभागस्याभावादपुङ्खत्वम् । अतितिग्मावतितीक्ष्णौ दन्तावप्रभागौ ययोस्तो, एवंविधौ भवतः, तौ च वने विचरन् त्वं कस्मै युयुङ क्षसि प्रयोक्तुमिच्छसि । न विद्मस्तदेतन्न जानीमः । अतो भयादेतावत्प्रार्थयामहे । तब अयं विक्रमः जडधियां मन्दमतीना- मस्माकं, क्षेमाय अस्तु इति ॥ ८ ॥ - * तदङ्गसुगन्धलोभेनानुगच्छतो भ्रमरानालक्ष्याह शिष्या इति । हे ईश शिष्य- शासनसमर्थ, भगवतः गुरुत्वात्पूज्यस्य तव इमे शिष्याः परितः, अनुगच्छन्तो दृश्यन्ते इति शेषः । एवं भ्रमरान् शिष्यत्वेन परिकल्प्योक्त्वा तदुध्वनिमाश्रुत्याह । सरहस्यमुपनिषदात्मकरहस्ययुक्तं सामापि साममन्त्रानपीत्यर्थः । अजस्रं पठन्ति गायन्ति । गीतिसहितान्साममन्त्रानप्यविच्छेदेन गायन्तीत्यर्थः । ईशमिति द्वितीयान्तपाठे सामसरहस्यं सामभिः सरहस्यत्वेन वर्णितमीशम- जब गायन्तीति योजना । शिखाविगलत्पुष्पसंश्लिष्टभ्रमरानालक्ष्याह । युष्मच्छिखाविलुलिताः भवदीयशिखातो गलिताः सुमनोऽभि वृष्टीः पुष्पसंबन्धिनीः परितो जायमानाः वृष्टीः, सर्वे तमेवे शिष्याः, ऋषिगणाः वेदशाखाः इव, सुमनसां शुद्धत्वे इयमुपमा, भजन्ति ॥ ९ ॥ * * नूपुरादिचरणाभरणान्तर्गतमणिस्वनमाकर्ण्याह वाचमिति । हे ब्रह्मन् तुभ्यं तव विभक्तिव्यत्यय आर्षः । चरणपञ्जरतित्तिरीणां पञ्जरस्थानीयचरणालंकारान्तर्गततित्तिर्याख्यपक्षिविशेषस्थानीयरत्नानां, अरूपा अदृष्टवक्तृका चासो मुखरा च तां वक्तुरहितत्वेऽप्यतिप्रकटामित्यर्थः । वाचं, परं केवलं शृणवाम । पीतवर्णं परिधानवस्त्रं नितम्बकान्तित्वेन प्रकल्प्याह । कदम्बरुचिः कदम्बकुसुमस्य दीप्तिः, अङ्कविटङ्कबिम्बे नितम्बयोः सुन्दरमण्डले, व लब्धा अस्ति । पाठान्तरे अङ्गति संबोधनम् । मेखलामालक्ष्याह । यस्यां कदम्बरुच्यां, अलातपरिधिः, वर्त्तते । अलातः प्रज्वलत्काष्ठ तद् भ्रमणनिमित्तवशतो वलयाकार रेखा- कृतिमापन्नोऽग्निपरिधिः, वस्त्रं नितम्बकान्तित्वेन परिकल्प्य वस्त्रमदृष्ट्ये व पृच्छति । ते तव वल्कलं क च क वा गतम् ॥ १० ॥ ५४ 1 7 श्रीमद्भागवतम् himar Rahभाषानुवादः [ स्कं. ५ अ. २ श्लो. ११-१५ वह भ्रमरीके समान एक-एक फूलके पास जाकर उसे सूँघती थी तथा देवता और मनुष्योंके मन और नयनोंको आह्लादित करनेवाली अपनी विलासपूर्ण गति, क्रीडा-चापल्य, लज्जा एवं विनययुक्त चितवन, सुमधुर वाणी तथा मनोहर अङ्गावयवोंसे पुरुषोंके हृदयमें कामदेवके प्रवेशके लिये द्वार-सा बना देती थी। जब वह हँस-हँसकर बोलने लगती, तब ऐसा प्रतीत होता मानो उसके मुखसे अमृतमय मादक मधु झर रहा है। उसके निःश्वासके गन्धसे मदान्ध होकर भौंरे उसके मुख कमलको घेर लेते, तब वह उनसे बचनेके लिये जल्दी-जल्दी पैर उठाकर चलती तो उसके कुचकलश, वेणी और करधनी हिलनेसे बड़े ही सुहावने लगते। यह सब देखनेसे भगवान् कामदेवको आमीघ्रके हृदयमें प्रवेश करनेका अवसर मिल गया और वे उनके अधीन होकर उसे प्रसन्न करनेके लिये पागलकी भाँति इस प्रकार कहने लगे - ॥ ३-६ ॥ * ‘मुनिवर्य ! तुम कौन हो, इस पर्वतपर तुम क्या करना चाहते हो ? तुम परमपुरुष श्रीनारायणकी कोई माया तो नहीं हो ? [ भौंहोंकी ओर संकेत करके - ] सखे! तुमने ये बिना डोरीके दो क्या इनसे धनुष क्यों धारण कर रक्खे हैं ? तुम्हारा कोई अपना प्रयोजन है, अथवा इस संसारारण्य में मुझ जैसे मतवाले मृगोंका शिकार करना चाहते हो ? ।। ७ ।। * * [ कटाक्षोंको लक्ष्य करके - ] तुम्हारे ये दो बाण तो बड़े सुन्दर और पैने हैं । अहो ! इनके कमलदल के पंख हैं, देखने में बड़े शान्त है और हैं भी पंखहीन । यहाँ वनमें विचरते हुए तुम इन्हें किसपर छोड़ना चाहते हो ? यहाँ तुम्हारा कोई सामना करनेवाला नहीं दिखायी देता । तुम्हारा यह पराक्रम हम जैसे जडबुद्धियोंके लिये कल्याणकारी हो ॥ ८ ॥ * * [ भौरोंकी ओर देखकर - ] भगवन् ! तुम्हारे चारों ओर जो ये शिष्यगण अध्ययन कर रहे हैं, वे तो निरन्तर रहस्ययुक्त सामगान करते हुए मानो भगवान्की स्तुति कर रहे हैं और ऋषिगण जैसे वेदकी शाखाओंका अनुसरण करते हैं; उसी प्रकार ये सब तुम्हारी चोटीसे झड़े हुए पुष्पोंका सेवन कर रहे हैं ॥ ९ ॥ * * [ नूपुरोंके शब्दकी ओर संकेत करके-] ब्रह्मन् ! तुम्हारे चरणरूप पिंजड़ोंमें जो तीतर बंद हैं, उनका शब्द तो सुनायी देता है; परन्तु रूप देखने में नहीं आता । [ करधनीसहित पीली साड़ी में अङ्गकी कान्तिकी उत्प्रेक्षा कर - ] तुम्हारे नितम्बोंपर यह कदम्ब कुसुमोंकी-सी आभा कहाँ से आ गयी ? इनके ऊपर तो अंगारोंका मण्डल-सा भी दिखायी देता है। किन्तु तुम्हारा वल्कल - वस्त्र कहाँ है ? ॥ १० ॥ Use को । ।
- किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते मध्ये कुशो वहसि यत्र दृशिः श्रिता मे । पक्कोऽरुणः सुरमिरात्मविषाण ईहग् येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११ ॥ लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्य इत्थमुरसावयवावपूर्वी । अस्मद्विधस्य मनउन्नयनौ’ विभर्ति बहद्भूतं सरसराससुधादि वक्त्रे ॥ १२ ॥ का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिरासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १३ ॥ योऽसौ त्वया करसरोजहतः पतङ्गो दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी में स्व मुक्त न ते स्मरसि वक्रजटावरूथं कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४ ॥ रूपं तपोधन तपश्चरतां तपोधनं ह्येतत्तु केन तपसा भवतो पलब्धम् । । चर्तुं तपोऽर्हसि मया सह मित्र मह्यं किं वा प्रसीदति स वै भवभावनो में ।। १५ । B * अन्वयः - द्विज ते रुचिरयोः शृङ्गयोः किम् संभृतम् मध्ये कृशः वहसि यत्र मे दृशिः श्रिता सुभग आत्मविषाणे ईदृक् सुरभिः अरुणः पंकः येन मे आश्रमम् सुरभीकरोषि ॥ ११ ॥ सुहृत्तम मे तावकम् लोकम् प्रदर्शय यत्रत्यः इत्थम् अस्मद्विधस्य मनउन्नयनौ अपूर्वी अवयवी उरसा बिभर्ति वक्त्रे बहु अद्भुतम् सरसराससुधादि ॥ १२ ॥ * * अंग आत्मवृत्तिः का वा अदनात् हविः वाति विष्णोः कला असि ते कर्णौ अनिमिषोन्मकरौ च मुखम् उद्विग्नमीनयुगलम् द्विजपंक्तिशोचिः आसन्नभृंगनिकरम् सर इव ॥ १३ ॥ * * यः असौ त्वया कासरोजहतः पतंगः दिक्षु भ्रमन् भ्रमतः मे अक्षिणी एजयते मुक्तम् वक्रजटावरूथम् न स्मरसि कष्टः एषः लपटः अनिलः नीवीम् हरति ॥ १४ ॥
-
- तपोधन तपः चरताम् तपोधनम् एतत् रूपम् तु भवता केन तपसा उपलब्धम् मित्र मामू मया सह तपः चर्तुम् अर्हसि मे सः भवभावनः वै प्रसीदति किंवा ॥ १५ ॥ १. प्रा० - । पा० - २. प्रा० पा० - २. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - ६. प्रा० पा० - ७. प्रा० पा० - । - बाणका पिछला हिस्सा । ५. २.११-१५ । अनेकव्याख्यांसमलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका ५३ स्तनावा लक्ष्याह । शृङ्गयोः स्तनयोः किं संभृतं किं पूर्णमस्ति । मनोहरं किंचिदस्तीत्येतावन्तु जानामि । यतो मध्ये कृशोऽपि त्वं कृच्छ्रेण वहसि धारयसि । यत्र च मे दृशिदृष्टिः श्रिता संलग्नास्ति । अन्यथेदं द्वयं न घटत इति भावः । स्तनगतं कुंकुममा लक्ष्याह । पॅकोऽरुण आत्मनस्तव विषाणे शृङ्गे ईदृगत्यपूर्वः कुत इत्यत आह । येन पंकेनाश्रमं सुरभीकरोषि सुगन्धयुक्तं करोषीति ।। ११ ।।
- लोकं स्थानम् । यत्रत्यो जन उरसा इत्थमपूर्वावयवो बिभर्ति । मनस उन्नयनौ क्षोभको । पाठान्तरे " इत्थंभूतलक्षणे” तृतीया । वक्त्रे च बह्वदद्भुतं बिभर्ति । किं तदाह । रसो मधुरालापो रासो विलासस्ताभ्यां सहिता सुधा अधरामृतमादिशब्दात्स्मितनर्मादिः ॥ १२ ॥ * * का वा तव लोके आत्मनो देहस्य वृत्तिराहारः । अंग हे सखे अदमाच्चर्वणाद्धविरिति तत्सम्बन्धी गन्धो वात्यागच्छति इति ताम्बूलाभिप्रायम् । अदनाद्वहिरंग भातीति पाठे मम तावद्भोजना- हिर्भूतैव वृत्तिर्भातीत्यर्थः । यतस्त्वं विष्णोः कलाऽसि विष्णुश्च नाश्नाति “अनश्नन्नन्यो अभिचाकशीति” इति श्रुतेः । विष्णोः कलासीत्यत्र हेतुः । तव च कर्णौ विष्णोरिवानिमिषोन्मकरी अनिमिषौ रत्ननेत्रत्वेन निमेषशून्यावुल्लसन्तौ मकरौ तदाकारे कुण्डले ययोस्तौ । किं च तव मुखं सर इत्सर इव । तदेवाह । उद्विग्नं चंचलं मीनयुगलमिव नेत्रद्वयं यस्मिन् । द्विजा दन्तास्तेषां पंक्त्या शोचिः शोभा यस्मिन् । सरसि तु द्विजा राजहंसाः । आसन्नो भृङ्गनिकर इव केशस्तोमः परिमललुब्धभृङ्गस्तोमो वा यस्मिन् ।। १३ ।। * * पतंगः कंदुको भ्रमतो भमच्चित्तस्य मेऽक्षिणी एजयते चञ्चलतां नयति । वक्रकेशसमूहं मुक्तबन्धनं न । स्मरसि न सम्भावयसि किम् । कष्टो धूर्तोऽनिलो नीवीं हरत्येतन्न स्मरसि किम् ॥ १४ ॥ * * उपलब्धं प्राप्तम् । मह्यं मम । हे मम मित्र मया सह तपश्चर्तुमर्हसि । किञ्च स वै भवभावनः संसृतिविस्तारको ब्रह्मा मे प्रसीदति । त्वां भार्यां कल्पयतीत्यर्थः ॥ १५ ॥ । श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः अन्यथा मनोहरत्वाभावे । इत्यर्थ इति । कष्टेन धारणमप्यनर्घवस्तुन एव भवति दृष्टिरपि सुन्दरवस्तुन्येव पततीति द्वयमेवान्यथा न सम्भवतीत्याशयः । अत्र विश्वनाथ:– हे द्विज शृङ्गयोः किं संभृतं किमद्भुतं बहुमूल्यरत्नं धृतं वर्त्तते यद्यस्मान्मद्- दृष्टिपातसमय एव मुहुराच्छादयसीति भावः । ब्राह्मणो भूत्वापि शृङ्गद्वयं धत्से तत्रापि रक्षसि तत्रापि मनोहरमेव वस्तु धत्से यतो मध्ये कृशोपि कृच्छ्रेणापि वहसि यत्र मद्द्दष्टिर्लग्ना मद्दष्टिरेवात्र प्रमाणमिति भावः । तेनाच्छादनमुद्वाट्य स्वयमेव दर्शयित्वा मत्संदेहमपाकुरु किं वा आज्ञापयसि चेत्सौहार्द्दनाहमेवोद्घाटयामि तपस्विनो मम वस्तुनि प्रयोजनं नास्ति केवलं दर्शन एवेति भावः । स्तनस्य शृंगत्वं तुश्चतातिशयविवक्षयैव । स्तनगत कुंकुममा लक्ष्याह- आत्मनः स्वस्य विषाणे श्रृंगे ईदृक् पंको धृतः कस्य सरोवरस्य सुरभिररुणश्च पंकस्तमहमपि वक्षसि धित्सामीति भावः ॥ ११ ॥ अस्मदेशे मनुष्योऽपि वक्षसि श्रृंगद्वयं धत्त इति चेत्तत्रैव गत्वा तपश्चिकीर्षामीत्याह -लोकमिति । हे सुहृन्तमेति सौहार्देनैवेति भावः । नन्वेते शृंगे न भवत इत्यत आह - यत्रत्यो जनः इत्थमुरसा वक्षसा । मनसोन्नयनाविति पाठे च तृतीयेत्थंभूतलक्षणे ज्ञेया ॥ १२ ॥ * * तांबूलगंधमनुभूतं व्यंजयन्नाह—हविरिति । इत्यर्थं इति । अन्नभुजां हि वलिपलितदौर्गध्यादिकमस्ति तव तदभावात्तन्नास्तीति भावः । तत्र हेतुमाह- यतस्त्वमिति । अन्य ईश्वरः । अभिचाकशीति देदीप्यते इत्यर्थः । अन्यदाह - किश्चेति । इदित्यव्ययमिवार्थे । तदेव सरस्तुल्यत्व- मेवाह ।। १३ ।। * * न स्मरसि किमेतावस्तव कंदुकक्रीडायाम कंदुकक्रीडायामावेश इति भावः ॥ १४ ॥ * * तपस्विनो मम तपस्विसंगोऽपेक्षित एवेत्याह-रूपमिति । हे मम मित्रेति ‘नहि भार्यासमं मित्रमित्यभिप्रेत्योक्तम् । इत्यर्थ इति । विना भार्यां सृष्टि- वृद्धेरदृष्टत्वादिति भावः । तपोधनेति । मनस्संतापजननमेव तव धनमिति भावः ।। १५ ।। ।।
श्रीमद्वीरराघवव्याख्या स्तनावालक्ष्याह । हे द्विज ! सुन्दरयोः शृङ्गयोः किं सम्भृतं किम्पूर्णमस्ति मनोहरं किश्चिदस्तीत्येतावत्तु जानामि यतो मध्ये मध्यकाये कृशोऽपि त्वं कृच्छ्रेण शृङ्गद्वयं वहसि । अत्र शृङ्गयोर्मे दृशिराश्रिता संलग्नास्ति अन्यथेदं वहनं मम दृश्यासञ्जनं च न घटत इति भावः । स्तनगतं कुङ्कममालक्ष्याह । पङ्कोरुणः सुरभिरात्मनस्तव विषाणे स्तने ईदृगत्यपूर्वः, लिप्त इति शेषः । कुतः येन पङ्केन सुभगं ममाश्रमं सुरभीकरोषि ॥ ११ ॥
हे सुहृत्तम ! तावकं त्वत्सम्बन्धिनं लोकं स्थानं मे मह्यं प्रदर्शय यत्रत्यः यः तावकलोकस्थः जनः अस्मद्विधस्य मादृशस्य मनउन्नयन्नौ मनःक्षोभको उल्लासकरौ वा । रुत्वयत्वयलोपाः, यलोपस्यासिद्धत्वान्न गुणः । इत्थं ईदृशावपूर्वावयवौ श्रृंगरूपौ स्तनौ उरसा बिभर्त्ति वक्त्रे च बह्वद्भुतं बिभर्त्ति किं तत्सरसराससुधादि सरसो मधुरालापः रासो विलासस्ताभ्यां सहिता सुधा अधरामृतमादिशब्देन स्मितादिसंग्रहः ॥ १२ ॥
तव लोके आत्मनो देहस्य वृत्तिराहारः का वा ? अङ्ग ! हे सखे ! अदनाश्चर्वणाद्वहिः भक्षणव्यतिरेकेण भक्षणं विनैव तवात्मवृत्तिर्जीवनं संभवतीति भाति । सा कीदृशी । अदनाद्धविर्वातीति पाठे हविःशब्दस्तद्वन्धे उपचाराद्वर्तते अदनाचर्वणाद्धविः सम्बन्धिगन्धो वात्यायातीति ताम्बूलाभिप्रायं पूर्वोक्तपाठ एवं साधुः । विष्णोः कलासीति हेतूक्तेः, तथाहि तस्मिन्पाठे तव भोजनाद्वहिर्भूतैव वृत्तिरित्यवभातीत्यर्थः । कुतः यतस्त्वं विष्णोः कलांशोऽसि । विष्णुर्नाश्नाति “अनश्नन्नन्यो अभिचकाशीति” इति श्रुतेः विष्णोः कलासीत्यत्र हेतुः तव कर्णौ विष्णोरिवानिमिषोन्मकरावनिमेषौ रत्नश्रेष्ठत्वेन निमेषशून्यौ उल्लसन्तौ । मकरौ तदाकारे कुण्डले ययोस्तौ । किं च तव मुखं सर इत्सर इव तदेवाह । उद्विग्नं चञ्चलमीनयुगलमिव नेत्रद्वयं यस्मिन् द्विजाः दन्तास्तेषां पङ्कयोः शोचिः शोभा यस्मिन्, शोचिः शब्दः सान्तः, सरसि तु द्विजाः हंसाः आसन्नो भृङ्गनिकर एवं केशस्तोमः परिमल्लुब्धभृङ्गस्तोमो वा ॥ १३ ॥
त्वया करसरोजेन हतः योऽसौ पतङ्गः कन्दुकः दिक्षु भ्रमन् भ्रमतः भ्रमितचित्तस्य मेऽक्षिणी एजयते चञ्चलतां नयति । वक्रकेशसमूहं मुक्तबन्धनं न स्मरसि न बध्नासि किं, कष्टो धूर्त्तः लम्पटो लालसः एष अनिलो वायुः नीवीं हरत्यधराम्बरं हरति एतच्च न स्मरसि किम् ॥ १४ ॥
हे तपोधन ! तपश्चरतां तपोविघ्नकरमेतद्रूपं भवता केन तपसोपलब्धं प्राप्तं हे मित्र ! मया सहितस्तपश्चर्तुमर्हसि । भवभावनः विश्वस्रष्टा स वै अजो ब्रह्मा किं वा मह्यं प्रसीदति त्वां भार्यां कल्पयतीत्यर्थः ॥ १५ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली मध्येकृश इत्यलुक्, कृशमध्यस्त्वं यौ वहसि ते तव तयोः रुचिरयोः शृङ्गयोः शृङ्गवदुन्नतयोः स्तनयोः संभृतं किं चूचुक- लक्षणनीलरत्नमिति शेषः । यत्र ययोः द्विजेति सम्बोधनं जडत्वात् कुङ्कुमाद्यङ्गरागाभिप्रायेणाह पङ्क इति । आत्मविषाणे तव स्तनद्वयेऽरुणः पङ्कः कुङ्कुमाद्यङ्गरागः इहगीदृशगुणोपेतः कथमत्राह । येनेति ॥ ११ ॥ * * यत्रत्यः यस्मिन् देशे भूतस्त्व- मुरसा अपूर्वी नूतनौ अवयवौ स्तनलक्षणौ बिभर्षि । किंविशिष्टावस्मद्विधस्य मनउन्नयनौ मनस उत्कर्षप्रदौ स त्वं तावकं लोकं प्रदर्शयेत्यन्वयः । अन्यदपीत्याह बह्निति । किं तदत्राह । सरसेति वक्त्रे रसेन सह वर्तमानः सरसो हासः मन्दहासः तेन युक्तां सुधामधरामृतं च विभर्षि पानेन सरसहासक्रीडाकरी सुधामिति वा ॥ १२ ॥ * * अङ्ग ! तवात्मवृत्तिर्देहयात्रा का, अन्नं चेत्तत्राह अदनादिति । अदनाद् बहिर्भोजनं विनेति मे भाति । अन्नभक्षणेनैव वलीपलितदौर्गन्ध्यादिकं स्यात्तत्तव नास्तीति भावना कल्प्यत इति भावः । किं च त्वं विष्णोः कलासीति मन्ये अशनाद्यभावात्, लक्षणान्तरं चास्तीत्याह । अनिमिषोन्मकराविति । अनिमि- षन्तावुन्मीलन्तौ मकरौ मकरमत्स्यलक्षणौ कर्णौ कुण्डलाख्याकल्पौ विष्णुत्वे लक्षणमिति शेषः । इदं चास्मन्मनोहर मित्याह । उद्विग्न- । मीनेति । ते तव मुखं सरः मुखाख्यं सरः उदुत्कृष्टमित्यन्वयः । कथमुद्विग्नं संचलितं मीनयोर्नेत्रयोर्युगलं यस्मिंस्तत्तथा अनवस्थितिलक्षण- व्यभिचारान्नेत्रस्थाने मीनग्रहणं सरःपदोपादानाश्च । द्विजानां दन्तवन्निविडतया स्थितानां पक्ष्मणां पक्तिभिः शोभि आसन्नो भृंगाणां निकरो यस्मिन् तत्तथा उभयत्र समं, द्विजपङ्क्तिशोचिरिति केचित्पठन्ति ॥ १३ ॥ त्वया करसरोजेन हतो योऽसौ पतङ्गः कन्दुकः दिक्षु भ्रमन् भ्रमतः तवाक्षिणी एजयते चालयतीत्यन्वयः । लम्पटो रागी अत एव कृष्ण एषः अनिलो वायुः वरो वरणीयच वक्रः कुटिलश्च जटानां वरूथः समूहस्ते तव तं हरति नीवीं वस्रबन्धं च हरतीत्येतन्न युक्तमित्यन्वयः ।। १४ ।। * * हे तपोधन ! तव यद्रूपं तपः चर्वाणानां पुंसां तपोधनं तपोविघ्नकरमेतद्रूपमिह तपोराशौ केन तपसा त्वया लब्धमित्यन्वयः । हे मित्र ! मया सह तपः कर्तुमर्हसीत्यन्वयः । “तप ऐश्वर्य” इति धातोः ऐश्वर्यनिमित्तं विषयभोगलक्षणमानन्द गमयितुमिति वा । चरतेर्गत्यर्थत्वात्, मह्यं मे त्वं प्रसीदसि किं वा तहींति शेषः कुत इति तत्राह । स इति । स भवान्मे भवभावनः सम्पत्करो वा इत्यन्वयः ।। १५ ॥ श्रीमज्जी वगोस्वामिकृतः क्रमसन्दर्भः * . लोकमिति । उन्नयनैरिति पाठे क्षोभणैरपूर्व्वत्वप्रकारं प्राप्तावित्यर्थः ॥ १२ ॥ * * ननु निराहार एवाऽहं तत्राह । अदनाच्चर्वणाद्धेतोः हविर्यज्ञियद्रव्यमिव परमपवित्रं किमपि वाति तत्सम्बन्धिगन्धः प्रसरतीत्यर्थः । पूर्व्वपाठे विष्णोः कलासीति हेतुत्वं तु विष्णोर्यज्ञभोक्तृत्वादिति ज्ञेयम् । इदित्यव्ययमेवार्थे एवार्थश्चात्र सादृश्यमिति ज्ञेयम् । उदिति तु कल्पितमेव ।। १३-१७ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ५ एव स्तनावालक्ष्याह । हे द्विज ! शृङ्गयोः किं संभृतं किमद्भुतं बहुमूल्यरत्नं वस्तु घृतं वर्त्तते मुहुराच्छादयसीति भावः । ब्राह्मणो भूत्वापि शृङ्गद्वयं धत्से तत्रापि वक्षसि तत्रापि मनोहरमेव वस्तु धत्से । यतो मध्ये कृशोऽपि कृच्छ्रेणापि वहसि यत्र दृशिर्मदृष्टिः श्रिता लग्नेति मदृष्टिरेवात्र प्रमाणमिति भावः । तेनाच्छादनमुद्वाट्य स्वयमेव दर्शयित्वा मत्- सन्देहमपाकुरु किं वा आज्ञापयसि चेत् सौहार्द्दनाहमेवोद्घाटयामि तपखिनो मम वस्तुनि प्रयोजनं नास्ति केवलं दर्शन एवेति भावः । स्तनस्य शृङ्गत्वं तुङ्गत्वातिशयविवक्षया ज्ञेयं स्तनगतं कुङ्कुममा लक्ष्याह । आत्मनः स्वस्य विषाणे शृङ्गे ईहक पङ्को धृतः । कस्य सरोवरस्य सुरभिररुणश्च पङ्कस्तमहमपि वक्षसि धित्सामीति भावः ॥ ११ ॥ * * अस्मद्देशे मनुष्योऽपि वक्षसि शृङ्गद्वयं धत्त इति चेत्तत्रैव गत्वा तपश्चिकीर्षामीत्याह लोकमिति । हे सुहृत्तमेति सौहाद्देनैवेति भावः, नन्वेते शृङ्गे न भवत इत्यत आह । यत्रत्यो जन इत्थमुरसा वक्षसा मनस उन्नयनौ क्षोभको उन्नयनैरिति पाठे उत्कर्षेण ग्रहणैः वक्त्रे च बह्वद्भुतं बिभर्त्ति स्कं. ५ अ. २ श्लो. ११-१५] अनेकव्याख्या समलङ्कृतम् ५५ किन्तदाह । सरसो मधुरालापः रासो विलासः ताभ्यां सहिता सुधा अधरामृतम् आदिशब्दादा मोदमकरन्दादिकं स्मितनम्मदि ॥ १२ ॥ * ४ का वा तव लोके आत्मनो देहस्य वृत्तिर्जीविका । ताम्बूलगन्धमनुभूतं व्यञ्जयन्नाह हविरिति । अदनात् भक्षणाद्धेतोः हविरिति तत्सम्बन्धी गन्धो वाति आगच्छति देशान्तरे ये लोका हविर्भोजिनः श्रूयन्ते तस्मादेव हविष एव गन्धोऽ- नुमीयत इति ताम्बूलहविषोः स्वापरिचितत्वं व्यञ्जितम् । अदनाद्भविरङ्ग भातीति पाठे भोजनाद्वहिर्भूतैव वृत्तिर्भातीत्यर्थः । यतस्त्वं विष्णोः कलासि विष्णु नाश्नाति ‘अनश्नन्नन्यो अभिचाकशीति” इति श्रुतेः । अत्र लिङ्गं विष्णोरिवानिमिषोन्मकरौ रत्ननेत्रत्वेन निमेषशुन्यौ उत्कृष्टमकरौ कुण्डलाकारौ ययोस्तौ । किञ्च एवं मुखं सर इत् सर इव उद्विग्नमीनयुगलमिव नेत्रद्वयं यत्र तत् द्विजाः हंसा दन्ताश्च तेषां पङ्कया शोचिः शोभा यस्मिंस्तत् आसन्नो भृङ्गनिकर इवालकसमूहो यस्मिंस्तत् ॥ १३ ॥ * * कन्दुक- क्रीडामालक्ष्याह । पतङ्गः कन्दुकः भ्रमतः भ्रमचित्तस्य मे अक्षिणी एजयते चञ्चलीकरोति । वक्रं जटावरूथं केशसमूहं मुक्तं मुक्तबन्धनं न स्मरसि कष्टो धूर्त्तः नीवीं हरति एतच्च न स्मरसि ? किमेतावांस्तव कन्दुकक्रीडायामावेश इति भावः ।। १४ ।। * * तपस्विनो मम तपस्विसङ्गोऽपेक्षित एवेत्याह रूपमिति । हे तपोधन ! उप आधिक्येन लब्धं मह्यं मां सुखयितुं मया सह तपश्चरितुमर्हसि मे मां पूर्णमनोरथीकर्तुं भवभावनो ब्रह्मा ।। १५ ।। 1 + श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः स्तनौ शृङ्गयुग्मत्वेन प्रकल्प्य पृच्छति हे द्विज ! ते त्वया शृङ्गयोः किं रत्नादिक सम्भृतं निहितं यतो मध्ये कृशोऽपि त्वं वहसि यत्र शृङ्गयोभृते वस्तुनि शृङ्गद्वये वा मे दृशि दृष्टिः श्रिता आश्रिता न पराक्रष्टुं शक्या इत्यर्थः । स्तनस्थकुङ्कुमं पङ्कत्वेन परिकल्प्याह । आत्मविषाणे भवदीयशृङ्गे अरुणः सुरभिश्च ईदृक् पङ्कोऽस्ति येन पङ्केन आश्रमं सुरभीकरोषि सुगन्धव्याप्तं करोषि ॥ ११ ॥ हे सुहृत्तम ! तावकं त्वदीयं लोकं स्थानं मे मह्यं प्रदर्शय यत्रत्यो जन इत्थमपूर्वावयवौ विषाणरूपी उरसा बिभर्त्ति । मनस उन्नयनौ हर्षकरौ वक्त्रे च रसस्य मृदुभाषणस्य यो रासः प्रवर्त्तनं तेन सहितं सुधादि अधरामृतदन्तकान्ति अमन्द- स्मितादि बहु अद्भुतं बिभर्ति ।। १२ ।। * * हे अङ्ग ! मित्र ! आत्मनस्तव का वा वृत्तिः आहारदिरूपा जीविका अदनाद् भक्षणात हविः वाति गन्ध आगच्छति गुणगुणिनोरभेदात् । किञ्च विष्णोः कलासि किं च ते अनिमिषोन्मकरौ कर्णौ भवतः नेत्राकारमणिद्वययुक्ततया निमिषरहितौ उज्ज्वलौ मकरौ तत्सदृशौ कुण्डले ययोस्तौ भवतः । किञ्च ते मुखं सर इत् मीनहंस भ्रम- रादिश्रीयुक्तसर इवास्ति । यतः उद्विग्नं चपलं मीनयुगलमिव नयनयुगलं यस्मिन् द्विजपङ्कया दन्तपंक्त्या शोची रोचिर्यस्मिन् आसन्नो गन्धलोभेन निकटगो भृङ्गनिकरो यस्य तत् ॥ १३ ॥ * * भ्रमतः सोद्वेगस्य मुक्तं गतबन्धनं वक्रजटावरूथं न स्मरसि कष्टः धूर्त्तः लम्पटः त्वय्यासक्तः नीवीं वस्त्रं हरति तन्न स्मरसि किम् ॥ १४ ॥ * * हे मित्र ! स ब्रह्मा ।। १५ ।। ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी بریار स्तनावालक्ष्याह-किमिति । हे द्विज ते तव रुचिरयोर्मनोहरयोः शृङ्गयोः किं सम्भृतं पूर्णमस्ति ? किञ्चिदत्यपूर्वं मनोहरं वस्तु सम्भृतमस्तीत्येतावत्तु तावज्जानामि तत्र ज्ञापकद्वयमाह-मध्य इति । यतस्त्वं मध्ये कृशो दुर्बलोऽपि कष्टेन वहसीति । यत्र । च शृङ्गयोर्मे मम दृष्टिः श्रिता संलग्ना न प्रचलति । अन्यथेदं द्वयं न स्यादिति भावः । स्तनगतं कुङ्कुममालक्ष्याह-पङ्क इति । आत्मनस्तव विषाणे शृङ्गे अरुणः पङ्कः ईदृगत्यपूर्वोऽस्ति । अपूर्वत्वमेवाह-येन पङ्केन मे ममाश्रमं त्वं सुरभीकरोषि । एवमत्यपूर्व- पुरुषो भवानेव दृष्ट इत्यभिप्रायेण सम्बोधयति - हे सुभग इति ॥ ११ ॥ हे सुहृत्तम इति सम्बोधनेन तस्याः स्वच्छान्तः-
- करणत्वं वदन् स्वस्मिन् प्रीतिप्रार्थनां द्योतयति । हे सुहृत्तम तावकं लोकं स्थानं मे प्रदर्शयेत्यन्वयः । स्वस्य तल्लोकदर्शनोत्साहे हेतुं द्योतयंस्तं विशिनष्टि-यत्रत्येति । यत्रत्यः यन्निवासी जनः अस्मद्विधस्य कामिपुरुषस्य मनस उन्नयनौ क्षोभको अपूर्वाववयवों इत्थमुरसा बिभर्त्ति वक्त्रे च बह्वद्द्भुतं बिभर्त्ति । किं तदित्यपेक्षायामाह - सरसेति । रसो मञ्जुभाषणं रासो विलासस्ताभ्यां सहिता सुधा अधरामृतम् | आदिपदेन स्मितादि ॥ १२ ॥ * * ताम्बूलादिसुगन्धमा लक्ष्याह का वेति । हे अङ्ग इति सम्बोधनेन तस्यां स्वप्रीतिं द्योतयति । तवात्मनो देहस्य वृत्तिः आहारः का वेत्यन्वयः । यस्यादनात् भक्षणात् हविर्वाति तत्सम्बन्धी गन्ध आगच्छति । अनेनाहारा पूर्वत्वादेव तव देहस्याप्यपूर्वावयवत्वमिति प्रतिभातीति सूचितम् । ‘अदनाद्बहिरङ्ग भाति’ इति पाठान्तरे तु मम तावद्भक्षणाद्बहिः भोजनं विनैव तव देहस्य वृत्तिः स्थितिर्भाति । तत्प्रसन्नतार्थं विष्ण्वंशत्वेन स्तौति विष्णोः कलाऽसीति । तत्र हेतुमाह-अनिमिषेति । यत्तश्च तवापि कर्णौ विष्णोरिवानिमिषोन्मकरी रत्नमयत्वेन निमिषरहिते उत्कृष्टमकराकारे कुण्डले ययोस्तथाभूतावित्यर्थः । किञ्च ते तव मुखं च सर इत् सर इव । सरस्सादृश्यमेव विशद्यति - तत्र नेत्रद्वयमालक्ष्याह-उद्विग्नं भीत्या चञ्चलं मीनयुगलं यस्मिंस्तत् । द्विजा दन्ता एव पक्षिस्थानीयास्तेषां पंक्त्या शोचिः शोभा यस्मिंस्तत् । आसन्नो भृङ्गनिकर इव केशस्तोमः परिमल्लुब्धभृङ्गस्तोम एव वा यस्मि तत् ॥ १३ ॥ * * योऽसौ त्वया करसरोजेन हतः पतङ्गः कन्दुकः- स दिक्षु भ्रमन् सन् भ्रमतो भ्रमचित्तस्य मे अक्षिणी एजयते चालयति, अहं त्वेवं त्वय्यासक्तमनास्त्वं च क्रीडासक्ता सती ते तव वक्रजटावरूथं वक्रकेशसमूहमपि मुक्तं मुक्तबन्धनं न स्मासि न सम्भावयसि । तथा एष कष्टो धूर्तोऽनिलस्ते नीवीं वस्त्रं हरति तच्चापि । श्रीमद्भागवतम् [ स्कं. ५ अ २ श्लो. ११-१५ न स्मरसि, अतः सावधानतया मदुक्तमवधारयेति शेषः । धूर्त्तत्वमेव स्फोटयति । लम्पट इति, त्वय्यासक्त इत्यर्थः ||१४|| ॐ * हे तपोधन तपश्चरतां मादृशां तपोध्नमेतद्रूपं तु भवता केन तपसोपलब्धं प्राप्तं तद् ब्रवीत्विति शेषः । अस्मत्तपोनाशकमेतत् । नात्र सन्देह इत्यवधारणार्थो हिशब्दः । अतो हे मित्र मह्यमध्यनुग्रहार्थं मया सह त्वं तपश्चर्तुमर्हसि येन त्वत्सदृशतपश्चरणेन अहमपि त्वत्सदृशरूपवान् स्यामिति भावः । एवं तां पुरुषत्वं प्रकल्प्योक् वेदानों स्त्रीं मत्वाऽऽह- किं वेति । अथवा किं स प्रसिद्धो भवभावनः सृष्टिकर्ता ब्रह्मा मे प्रसीदति त्वां भार्या सम्पादयतीत्यर्थः ॥ १५ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
1 स्तनावालक्ष्याह किं संभृतमिति । हे द्विज ते तव रुचिरयोः सुन्दरयोः शृङ्गयोः कुम्भिकुम्भसमयोर्वक्षोऽवस्थित- विषाणयोः, कि संभृतं पूर्णम् अस्ति । मनोहारि किंचित्त्वस्तीति जानामि । यतः, मध्येकृशः कृशमध्यः, अलुक्समासः । सन्नपि, वहसि । कृशमध्यः सन्नपि भवान् यदि कृच्छ्र ेणापि स्थूलटङ्गद्वयं वहसि, तदा तदन्तः किमपि सुन्दरमस्तीति वेद्मीत्यर्थः । यत्र शृङ्गद्वयोः, मे मम, दृशिर्हष्टिः श्रिता संलग्नास्ति । अमनोहरत्वे त्विदं द्वयं न घटते इति भावः । स्तनगतं कुङ्कुममालक्ष्याह । आत्मविषाणे तव विषाणद्वये, ईदृगत्यपूर्वः सुरभिः शोभनगन्धोपेतः, अरुणो रक्तवर्णः पङ्कः लिप्त इति शेषः । कथमेवंविधोऽयं पङ्क इति त्वया ज्ञातमित्यत्राह । हे सुभग, येनानेन शृङ्गगतपङ्क ेन, मे मम आश्रमं सुरभीकरोषि सुगन्धयसि ॥ ११ ॥ * लोकमिति । हे सुहृत्तम, तावकं त्वत्संबन्धिनं लोकं स्थानं मे मह्यं प्रदर्शय । यत्रत्यः यस्य तव लोकस्थः जनः, अस्मद्विधस्य मादृशस्य, मनउन्नयनौ मनःक्षोभजनको उल्लासकारौ वा । रुत्वयत्वयलोपेषु कृतेषु यलोपस्यासिद्धत्वान्न गुणः । अपूर्वी अवयवौ, इत्थं उरसा बिभर्ति । वक्त्रे मुखे, रसो मधुरालापः रासो विलासश्च ताभ्यां सहिता सुधा अधरामृतमादिर्यस्य तत्, आदिशब्दात् स्मितनर्मादि बह्वनेकं अद्भुतं बिभर्त्ति । अतोऽत्यपूर्वोऽस्ति तब लोक इति भावः ॥ १२ ॥ केति । अङ्ग हे सखे, तब लोके इति शेषः । आत्मनो देहस्य वृत्तिराहारः का वा, अदनात् बहिः भाति । भक्षणं विनैव तव जीवनमस्तीति प्रतीयत इत्यर्थः । हविरङ्ग वातीति पाठे, हविःशब्द उपचारात्तद्रन्धे वर्त्तते । अदनाश्चर्वणात् हविर्हविः संबन्धी गन्धः, वात्यायाति । एतत्तत्कृतताम्बूलचर्व- णाभिप्रायम् । कथमेवं यतः त्वं विष्णोः, कला असि । विष्णुर्नाश्नाति त्वं च नाश्नासि ‘अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेरेवं बुध्यते इति भावः । विष्णुकलात्वे पुनर्हेतुं प्रदर्शयति । तव कर्णौ श्रवणौ विष्णोरिव, अनिमिषोन्मकरौ अनिमिषौ रत्नश्रेष्ठत्वेन निमेषशून्यौ उल्लसन्तौ मकरौ तदाकारे कुण्डले ययोस्तथाविधौ भवत इत्यर्थः । ते तव मुखं सरवत्सरोवरमिव, भातीति शेषः 1 ।
शोचिः उभयोस्तुल्यत्वे विशेषणानि । उद्विग्नं चञ्चलं मीनयुगलमिव नेत्रद्वयं यस्मिंस्तत्, द्विजा दन्ता हंसपक्षिणो वा तेषां पङ्कया शा शोभा यस्मिंस्तत् । शोचिः शब्दः सान्तः । आसन्नो भृङ्गनिकर इव केशस्तोमः यस्मिन् तत्, समानधर्मेक्षया त्वन्मुखं सरोभाव गमयसीति भावः ।। १३ ।। * * योऽसाविति । त्वया करसरोजहतः, पाणिपद्मताडितः, यः असौ, पतङ्गः कन्दुकः, दिक्षु भ्रमन्सन, भ्रमतो विभ्रमितचित्तस्य, मे मम अक्षिणी नयने, एजयते चञ्चलतां नयति । ते तव मुक्तं मुक्तबन्धनं वक्रजटावरूथं वक्रतोपेतकेशसमूहं न स्मरसि किम् । संभाव्य किमिति न बध्नासि कष्टो धूर्त्तः, लम्पटो लालसः पटो लालसः, एषः अनिलो वायुः, नीवीं हरति । एतच्च किं न स्मरसीत्यर्थः ॥ १४ ॥ * * रूपमिति । हे तपोधन, तपः चरतां कुर्वतां तपोधनं तपोविघ्नकर, एतत् रूपं भवता केन तपसा उपलब्धं प्राप्तम् । महां मम, हे मित्र, मत्सख इत्यर्थः । मया सह मत्सहभावं प्राप्तः सन् तपः चर्तु कर्तुम् अर्हसि वै भवभावनः विश्वस्रष्टा स पितामहत्वेन प्रसिद्धो ब्रह्मा, मे मम प्रसीदति । किं वा त्वां मद्भार्यां कल्पयति किं वेत्यर्थः ।। १५ ।। भाषानुवादः [ कुङ्कुममण्डित कुचांकी ओर लक्ष्य करके-] द्विजवर ! तुम्हारे इन दोनों सुन्दर सींगोंमें क्या भरा हुआ है ? अवश्य ही इनमें बड़े अमूल्य रत्न भरे हैं, इसीसे तो तुम्हारा मध्यभाग इतना कृश होनेपर भी तुम इनका बोझा ढो रहे हो । यहाँ जाकर तो मेरी दृष्टि भी मानो अटक गयी है। और सुभग ! इन सींगोंपर तुमने यह लाल-लाल लेप-सा क्या लगा रक्खा ? इसकी गन्धसे तो मेरा सारा आश्रम महक उठा है ॥ ११ ॥ * * मित्रवर! मुझे तो तुम अपना देश दिखा दो, जहाँ के निवासी अपने वक्षःस्थलपर ऐसे अद्भुत अवयव धारण करते हैं, जिन्होंने हमारे जैसे प्राणियों के चित्तोंको क्षुब्ध कर दिया है तथा मुखमें विचित्र हाव-भाव, सरस भाषण और अधरामृत जैसी अनूठी वस्तुएँ रखते हैं ॥ १२ ॥ * प्रियवर ! तुम्हारा भोजन क्या है, जिसके खानेसे तुम्हारे मुखसे हवन सामग्रीकी-सी सुगन्ध फैल रही है ? मालूम होता है, तुम कोई विष्णु भगवान् की कला ही हो; इसीलिये तुम्हारे कानों में कभी पलक न मारनेवाले मकरके आकारके दो कुण्डल हैं। विष्णुभगवान् तुम्हारा मुख एक सुन्दर सरोवरके समान है। उसमें तुम्हारे चञ्चल नेत्र भयसे काँपती हुई दो मछलियोंके समान, दन्तपंक्ति हंसों के समान और घुँघराली अलकावली भौरोंके समान शोभायमान है ॥ १३ ॥ * * तुम जब अपने करकमलोंसे थपकी एक. ५ अ. २ ली. १६-२० ] अनेकव्याख्या समलङ कृतम् a मारकर इस गेंदको उछालते हो, तब यह दिशा विदिशाओंमें जाती हुई मेरे नेत्रोंको तो चञ्चल कर ही देती है, साथ-साथ मेरे मनमें भी खलबली पैदा कर देती है। तुम्हारा बाँका जटाजूट खुल गया है, तुम इसे सँभालते नहीं ? अरे, यह धूर्त वायु कैसा दुष्ट है जो बार-बार तुम्हारे नीवी-वस्त्रको उड़ा देता है ॥ १४ ॥ तपोधन ! तपस्वियोंके तपको भ्रष्ट करनेवाला
-
- यह अनूप रूप तुमने किस तपके प्रभावसे पाया है ? मित्र ! आओ, कुछ दिन साथ रहकर तपस्या करो। अथवा, कहीं विश्वविस्तार की इच्छा से ब्रह्माजीने ही तो मुझपर कृपा नहीं की है ।। १५ ॥ न त्वां त्यजामि दयितं द्विजदेवदत्तं यस्मिन्मनो हगपि नो न वियाति लग्नम् । मां चारुशृङ्गयर्हसि नेतुमनुवतं ते चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६ ॥ श्री शुक उवाच इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधं विबुधमतिर धिसभाजयामास ॥ १७ ॥ सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपाय : श्रियौदार्येण पराक्षिप्तमनास्तेन सहायुता युतपरिवत्सरोपलक्षणं काल जम्बूद्वीपपतिना भौम’ स्वर्गभोगान् बुभुजे ॥ १८ ॥ तस्यामु ह वा आत्मजान् स राजवर आग्नीधो नाभि- किम्पुरुषहरिवर्षेलावृत’’ रम्यकहिरण्मय कुरुभद्राश्वकेतुमालसंज्ञानव पुत्रानजनयत् ।। १९ ।। सा सूत्वाथ सुतान्भवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २० ॥ i अन्वयः – द्विज देवदत्तम् दयितम् त्वाम् न त्यजामि यस्मिन् नः लग्नम् मनः हग् अपि न वियाति चारुशृंगि ते चित्तम् यतः अनुव्रतम् माम् नेतुम् अर्हसि शिवाः सचिव्यः प्रतिसरंतु ॥ १६ ॥ * * इति ललनानुनयातिविशारदः विबुधमतिः ग्राम्यवैदग्ध्यया परिभाषया ताम् विबुधवधूम् अधिसभाजयामास ।। १७ ।। * ततः च वीरयूथपतेः तस्य बुद्धिशील रूपवयः श्रियौदार्येण पराक्षिप्तमनाः सा तेन जंबूद्वीपपतिना सह अयुतायुतपरिवत्सरोपलक्षणम् कालम् भौमस्वर्गभोगान बुभुजे ।। १८ ।। सः राजबरः आग्नीध्रः तस्याम् उह वा नाभिकिंपुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरु भद्राश्वकेतु- मालसंज्ञान् नव आत्मजान् पुत्रान् अजनयत् ॥ १९ ॥ अथ सा पूर्वचिन्तिः अनुवत्सरम् नव सुतान् सूत्वा गृहे एव अपहाय भूयः देवम् अजम् एव उपतस्थे || २० ||
श्रीधरस्वामिविरचिता भावार्थदीपिका द्विजदेवेन ब्रह्मणा दत्तम् । दृक् मनव लग्नं सन्नापयाति । हे चारुशृंगि यतस्ते चित्तं तत्र मां त्वदधीनं नेतुमर्हति । सचिव्यस्तव सख्योऽपि शिवा अनुकूलाः सत्यो मां प्रतिसरत्वनुवर्तन्ताम् । यद्वा एतावत्पर्यतं मे याः सचिव्यः सख्यः शिवाः फेरवस्ताः प्रतिसरंतु निर्यांतु । यद्वा वनवासे सहचर्यो हरिण्यः शिवाः प्रतिसरंतु प्रदक्षिणं गच्छंतु ॥ १६ ॥ * * ग्राम्येषु वैदग्ध्यं यस्यास्तया परिभाषया वाचा । सभाजयामास पूजयामास संमुखीचकारेत्यर्थः ॥ १७ ॥ * * बुद्धयादीनां द्वंद्वैक्यम् ।। १८-१९ ।। * सूत्वा प्रसूय । उपतस्थेऽभजत् ।। २० ।। श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः ननु त्वया मम किं फलं तदितो यामीति तत्राह न त्वामिति । हे चारुशृ गीति । उन्नतस्तनीति स्त्रीलिंगेन संबोधन- मतिका मवैवइयेनावहित्थाया नाशं द्योतयति । यतो यत्र देशे । ननु शिवानां तत्र किमानुकूल्यं तासामतीव विकृतध्वनित्वेन भय- हेतुत्वादिति चेत्तत्राह - यद्वेति । निर्यातु आसां समक्षमपि त्वां भोक्तुं नाहमुत्सह इति भावः । सखीनां समक्षमपि भोगे सति दोपत्ये न दोषस्तदेव न जातमतः पुनराह - यद्वेति । प्रदक्षिणं गच्छन्तु मदभीष्टसाधकशकुनं कुर्वत्विति भावः ।। १६ ।। * ललनानां युवतीनामनुनयेऽनुकूलीकरणेऽतिनिपुणः ग्राम्येषु विषयभोगेषु वाक्येषु वैदग्ध्यं पाटवं यस्या वाचस्तया तामप्सरसमधि- सभाजयामासानुकूलीचकार ॥ १७ ॥ * * ततो नृपत्यानुकूल्योत्तरम् । श्रियेत्यत्रेयङार्षः । पराक्षिप्तमना आकृष्टचेताः । १. प्रा० पा० - २. ३. प्रा० पा० - ४. ५. ६. ७. प्रा० पा० - ८. ९. प्रा० पा० - १०. ५८ श्रीमद्भागवतम् [ स्कं. ५ अ. २ श्लो. १६-२० तस्यां विप्रचित्त्याम् ।। १९ ।। * तेन राज्ञा । अयुतायुतं न्यर्बुदं भौमभोगान् नृपत्वे । स्वर्गभोगान्देवत्वे ।। १८ ।। अनुवत्सरं प्रतिवत्सरं, गृहे राज्ञो भवन एवापहाय अप्सरस्त्वात्तेषु वात्सल्यमपि पूर्वकृतं त्यक्त्वा ॥ २० ॥ श्रीमद्वीरराघवव्याख्या । , हे द्विज ! देवेन ब्रह्मणा दत्तं त्वां न त्यजामि, यस्मिंस्त्वयि नोऽस्माकं दृख्यानश्च लग्नं सन्न वियाति न ततो गच्छति हे चारुशृङ्गि ! यतस्ते चित्तं ततो मां त्वदधीनं नेतुमर्हसि । सचिव्यस्तव सख्योऽपि शिवा अनुकूलाः मां प्रतिसरन्त्वनुवर्त्तन्तां, यद्वा एतावत्पर्यन्तं मे याः सचिव्यः शिवा फेरवस्ताः प्रतिसरन्तु निर्यान्तु । यद्वा वनवासेन सह वसन्त्यो हरिण्यः शिवाः प्रतिसरन्तु प्रदक्षिणं गच्छन्तु । सरण्य इति पाठे सरन्तीति सरण्यो रात्रयः शिवाः मङ्गलरूपाः सरन्तु गच्छन्तु ॥ १६ ॥
इतीत्थं ललनानुनये ताः स्वाधीनाः कर्तुमित्यर्थः । अतिनिपुणो ग्राम्येषु वैदग्ध्यं कौशलं यस्यास्तया परिभाषया तां विबुधवधूमप्सरसं मोहितचित्तः अधिसभाजयामास सबहुमानं तामनुकूलामकरोदित्यर्थः ॥ १७ ॥
सा च पूर्वचित्तिः तस्य वीरयूथपतेः वीराणां यूथाः तेषां पतेराग्नीध्रस्य बुद्ध्यादीनां द्वन्द्वैक्यं तेन पराक्षिप्तमासक्तं मनो यस्याः सा जम्बूद्वीपपतिना तेनाग्नीध्रेण सह बहुकालं भौमस्वर्गाः नवखण्डाः तेषु ये भोगास्तान् बुभुजे ॥ १८ ॥
ततः स राजश्रेष्ठः आग्नीधः तस्यां पूर्वचित्त्यां नाभिप्रभृतीन्नवात्मजान् पुत्रानजनयत् पुमाख्यान्नरकान्त्रायत इति पुत्त्र इत्यवयवार्थावगमाय पुत्त्रशब्दः प्रयुक्तः, अतो न पौनरुक्त्यम् ॥ १९ ॥
सा पूर्वचित्तिः प्रतिवत्सरमेकैकं पुत्रमिति नव सुतान् सूत्वा गृह एवापहाय विहाय पुनरजं देवं ब्रह्माणमुपतस्थेऽभजत् ॥ २० ॥
j श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ! हे द्विज ! देवेन विधिना दत्तं यस्मिंस्त्वयि लग्नं मनो लग्ना हगपि दृष्टिर्वा न वियात्यन्यत्र न गच्छति हे चारुशृङ्ग सुंदरस्तन ! त्वं मां नेतुमर्हसि कुतः मम चित्तं ते तवानुव्रतमनुगतमिति यतः मुग्धो ग्राम्यकाम इवाह प्रतिसरन्त्विति । इमाः शिवाः शुभाः सचिव्यो दासीवद्वर्तमाना मधुकर्यः प्रतिसरन्त्वपसरन्तु दूरं गच्छन्तु अधुनाहं त्वां संभोक्तुकाम इति शेषः । यद्वा सचिवीवद्वर्तमानाः शिवाः शृगालस्त्रियः प्रतिसरन्तु प्रदक्षिणं गच्छन्त्विति स्वकार्यसिद्धये शकुनं प्रार्थयत इति । नन्वत्र कथं विषये इत्यादावनर्था वाणी संगच्छत इति चेदुच्यते परिहासादिषु दर्शनात्तदुक्तम् ‘परिहास प्रलापादिष्वनर्था वाग्भवेत्कचिदि’ति । तस्मादाग्नीधः कामार्तत्वादेवंविधानि वाक्यानि प्रालपदिति युक्तम् ।। १६ ।। * * विरागिणां श्रोतॄणां कर्णदुःसहायाः इह शाब्दिका नामपहासहेतोरिव स्थिताया ग्राम्यकथाया अथापि समाप्तिर्नास्तीति मन्वान इवोत्तर- कथाप्रसंगमाह इतीति । इतिशब्द आदिवचनः समाप्तिवचनो वा । ग्राम्ये विषयभोगकथायां वैदग्ध्यं पाटव्यं यस्याः सा तथा ॥ १७ ॥ ‘अस्य तथा तया परिभाषया संज्ञालक्षणवाण्या ॥ १७ ॥ * यद्यनया परिभाषया वशीकृता स्यात्तर्हि अस्य तत्र वैदग्ध्यमस्तीति वक्तुं युक्तं तत्कथमत्राह सा चेति । अनया विषयभोगात्सिद्धं वशीकरणम् ॥ १८ ॥ * * न केवलमियं भोगखी किं तु संतानकरीति भावेनाह । तस्यामिति पुत्रोत्पत्त्यनन्तरं पूर्वचिन्त्या किमकारीति तत्राह सा सूत्वेति । अजं देवं ब्रह्माणम् ।। १९-२० ।। श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः अयुतायुतं न्यर्बुदम् । नृपत्वे भौमभोगान् देवत्वे स्वर्गभोगांश्च ।। १८-२१ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी i ननु त्वया मम किं फलं तदितो यामीत्याशङ्कयाह न त्वमिति । यतो द्विज देवेन ब्रह्मणा यस्मिंस्त्वयि लग्नं न वियाति न विगतं भवति हे चारुशृङ्गि ! उन्नतस्तनीति स्त्रीलिङ्गेन सम्बोधनमतिका मवैवश्येनावहित्थाया नाशं द्योतयति । यतः यत्र देशे तव चित्तं तत्रैव सचिव्यस्तव सख्योऽपि शिवाः अनुकूलाः सत्यः मां प्रतिसरन्तु अनुवर्त्तन्ताम् ।। १६ ।। * * ग्राम्याणा- मिव वैदग्ध्यं यस्यां तया ॥ १७ ॥ * * बुद्धयादीनां द्वन्द्वैक्यं गालवमते यकारः, अयुतायुतं न्यर्बुदम् || १८-१९ ॥ * गृहे राज्ञो भवन एवापहाय अप्सरस्त्वात्तेषु वात्सल्यमपि पूर्वकृतं त्यक्त्वा ॥ २० ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः 7 ** हे द्विज ! चारुशृङ्गि ! यतः यत्र ते चित्तं तत्र त्वं मां नेतुमर्हसि सचिव्यस्तव परिवारिकाः शिवाः कल्याण्यः अनुव्रतं भवदीयपरिचर्यायां समासक्तं प्रतिसरन्तु अनुसरन्तु ॥ १६ ॥ ग्राम्येषु वैदग्ध्यं वैशारद्यं यस्यास्तया सभाजयामास आदृतवान् ॥ १७-१९ ॥ ॐ उपतस्थेऽभजत् ॥ २० ॥ ।।कै. ५ अ. २ श्लो. १६२० ] अनेकव्याख्या समलङ्कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी यवं तर्हि द्विजदेवेन ब्रह्मणा दत्तं त्वां न त्यजामि । तत्र हेतुमाह - दयितमिति, प्रियमित्यर्थः । प्रियत्वमेव स्पष्टयति- यस्मिन्निति, यस्मिंस्त्वयि मनो दृक् नेत्रं च लग्नं संसक्तं सन्न वियाति वियुक्तं न भवति । त्वमप्येवमनुव्रतं स्वानुसारिणं मामुपेक्षितुं नार्हसि, किन्तु यतो यत्र ते चित्तं तत्र नेतुमर्हसि । हे चारुशृङ्गि मनोहरस्तनि इति सम्बोधयंस्तव रूपसौष्ठवेन अत्यन्तं त्वद्व- शीकृतोऽहमिति सूचयति । अतः सचिव्यस्तव सख्योऽपि शिवाः मदनुकूलाः सत्यः मां प्रतिसरन्तु अनुवर्त्तन्ताम् । यद्वा एतावत्पर्यन्तं मे याः सचिव्यः सख्यः शिवाः फेरवः शृगाल्यस्ताः प्रतिसरन्तु गच्छन्तु । यद्वा वनवासे मे सचिव्यः सहचारिण्यो हरिण्यः शिवा अनुकूलाः सत्यः प्रतिसरन्तु शुभसूचकशकुनार्थ प्रदक्षिणं गच्छन्त्वित्यर्थः ॥ १६ ॥ विबुधानां देवानामिव निपुणा मतिर्यस्य सः अत एव ललनानां अनुनये वशीकरणे अतिविशारदोऽतिचतुर आग्नीध्र इत्येवं पूर्वोक्तया ग्राम्येषु विषयभोगेषु वैदग्ध्यं नैपुण्यं यस्यास्तया परिभाषया विबुधवधूमप्सरसं तां पूर्वचित्ति अधिसभाजयामास सत्कारपूर्वकं स्ववशी- कृतवान् ॥ १७ ॥ तस्यास्तद्वशवर्त्तित्वमेव दर्शयति - सेति । सा च पूर्वचित्तिरपि तस्य वीरयूथपतेर्बुद्धयादिभिः पराक्षिप्तमनाः मोहितचित्ता सती ततः प्रभृति तेन जम्बूद्वीपपतिना सह अयुतानां अयुतपरिवत्सरोपलक्षणं कालं भौमस्वर्गभोगान् बुभुजे इत्यन्वयः । बुद्धद्यादीनां द्वन्द्वैक्यम् ॥ १८ ॥ * * स च राजवर आग्नीध्रस्तस्यां नाभिरित्यादिः संज्ञा येषां तान्नव पुत्रानजयदित्यन्वयः । तस्या देवभोग्यत्वादन्यतः पुत्रोत्पत्तिशङ्कां वारयितुमाह - आत्मजानिति । उ आश्चर्यम् । ह प्रसिद्धौ । वै अवधारणे । आश्चर्यमेतत् यद्देवस्त्रियां मनुष्येण पुत्रोत्पादनं तथापि प्रसिद्धमेवैतन्नात्र सन्देह इति भावः ।। १९ ।। सा च पूर्वचित्तिः प्रकृत्यात्मिका स्वगुणानां न्यूनाधिक्यमिश्रभावेन नवविधत्वादनुवत्सरं नव पुत्रान् सूत्वा प्रसूय तान् गृह एवापहाय स्वयं भूयोऽजं देवं ब्रह्माणमेव उपतस्थेऽभजत् ॥ २० ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी A * न त्वामिति । हे द्विज, देवदत्तं ब्रह्मणार्पितं दयितं मम प्राणप्रियं, त्वां न त्यजामि नैव त्यक्ष्यामि । यस्मिंस्त्वयि लग्नं नोऽस्माकं मनः, लग्नेति लिङ्गव्यत्ययः, दृक् दृष्टिश्व अपि न वियाति । त्वां परित्यज्यान्यत्र न गच्छतीत्यर्थः । अतः हे चारुशृङ्गि सुस्तनि यतः यत्र, ते तव, चित्तं यत्र तव गमनेच्छास्तीत्यर्थः । तत्र अनुत्रतं त्वामनुसृत्यैव वर्त्तमानं मां नेतुं अर्हसि । सचिव्यः इमास्तव सख्योsपि, शिवा अनुकूलाः सत्यः मां प्रतिसरन्तु अनुवर्त्तन्ताम् । यद्वा एतावत्कालपर्यन्तं वनवासे मे या इति शेषः । सचिव्यः सचिववदनुकूलाः शिवाः फेरवः आसन्, ताः प्रतिसरन्तु निर्यान्तु । यद्वा सचिव्यो मम वनवासे मया सहैव वसन्त्यः हरिण्यः शिवाः प्रतिसरन्तु शकुनविधानाय प्रदक्षिणं गच्छन्तु ॥ १६ ॥ इतीति । इतीत्थं ललनानां स्त्रीणामनुनये ।। ।। * स्वाधीनीकरणे अतिविशारदो बहुनिपुणः आग्नीध्रः, विबुधमतिः अतिनिपुणमतिः, अत एव प्राम्येषु विषयभोगकथासु वैदग्ध्यं पाटवं यस्यास्तया, परिभाषया संभाषणचातुर्येण, तां विबुधवधूमप्सरसं, अतिसभाजयामास विबुधमतित्वात्तां बहुमानेनानुकूला- मकरोदित्यर्थः ।। १७ ।। * * सा चेति । ततः सा च पूर्वचित्तिरपि, वीराणां यूथानि तेषां पतिस्तस्य तस्याग्नीधस्य बुद्धिश्च शीलं च रूपं च वयश्च श्रीश्च औदार्यं च तत्समाहारस्तेन, पराक्षिप्तं मनो यस्यास्तथाभूता सती, जम्बूद्वीपपतिना तेनाग्नीध्रेण सह अयुतानामयुतानि ये परिवत्सराः, ते तूपलक्षणं यस्य तं, कालं बहुकालपर्यन्तमित्यर्थः । भौमस्वर्गा अभारता अष्टौ खण्डास्तेषु ये भोगास्तान् बुभुजे, यद्वा भौमा अजनाभखण्डभवाः स्वर्गास्तदतिरिक्ताष्टखण्डभवाश्चैवं नवखण्डभोगान्बुभुजे इत्यर्थः ॥ १८ ॥ * * तस्यामिति । ततः राजपुत्रः प्रियव्रतसूनुः सः आग्नीधः, तस्यां पूर्वाचित्त्यामप्सरसि उ ह वेत्यवधारणे । पूर्वचिन्त्या- मेवेत्यर्थः । नाभिश्च किंपुरुषश्च हरिवर्षश्च इलावृतश्च रम्यकश्च हिरण्मयश्च कुरुश्च भद्राश्वश्व केतुमालश्चेति संज्ञा येषां ताम्, नव आत्मजान्स्वात्मन एव जातान् पुत्रानं, अजनयदजीजनत् ॥ १९ ॥ सेति । अथ सा पूर्वचित्तिः, अनुवत्सरं प्रथमा- त्मजोत्पत्त्यनन्तरं प्रतिसंवत्सरमेकैकमिति नव सुतान् सूत्वा प्रसूय, गृहे एव अपहाय अनेनाप्सरसां स्त्र्यन्तर बत्स्नेहाभावः सूचितः, भूयः पुनरपि, अजं देवं, एव ब्रह्माणमेवेत्यर्थः । उपतस्थे समभजत् ॥ २० ॥ भाषानुवादः सचमुच तुम ब्रह्माजीकी ही प्यारी देन हो; अब मैं तुम्हें नहीं छोड़ सकता । तुममें तो मेरे मन और नयन ऐसे उलझ गये हैं कि अन्यत्र जाना ही नहीं चाहते । सुन्दर सींगोंवाली ! तुम्हारा जहाँ मन हो, मुझे भी वहीं ले चलो; मैं तो तुम्हारा अनुचर हूँ और तुम्हारी ये मङ्गलमयी सखियाँ भी हमारे ही साथ रहें’ ॥ १६ ॥ * * श्रीशुकदेवजी कहते हैं-राजन ! आग्नीध देवताओंके समान बुद्धिमान और स्त्रियोंको प्रसन्न करनेमें बड़े कुशल थे। उन्होंने इसी प्रकारकी रतिचातुर्यमयी मीठी-मीठी बात से उस अप्सराको प्रसन्न कर लिया ।। १७ ।। वीर समाजमें अग्रगण्य आमीधकी बुद्धि, शील, रूप, अवस्था, लक्ष्मी और उदारता से आकर्षित होकर वह उन जम्बूद्वीपाधिपतिके साथ कई हजार वर्षोंतक पृथ्वी और स्वर्गके भोग भोगती ६० श्रीमद्भागवतम् [ एक. ५ अ. २ श्लो. २१-२३ * रही ।। १८ ।। * * तदनन्तर नृपवर आग्नीधने उसके गर्भसे नाभि, किम्पुरुष, हरिवर्ष, इलावृत, रम्यक, हिरण्मय, कुरु, ॐ भद्राश्व और केतुमाल नामके नौ पुत्र उत्पन्न किये ॥ १९ ॥ * * इस प्रकार नौ वर्षमें प्रतिवर्ष एकके क्रमसे नौ पुत्र उत्पन्न कर पूर्वचित्ति उन्हें राजभवनमें ही छोड़कर फिर ब्रह्माजीकी सेवा में उपस्थित हो गयी ॥ २० ॥ आग्नीधसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथा भागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१ ॥ आग्नीधो राजा तृप्तः कामानामप्सरसमेवानुदिनमधिमन्य मानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते ॥ २२ ॥ सम्परेते पितरि नव भ्रातरो मेरुदुहितर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमि तिसंज्ञा नवो दवहन् ॥ २३ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमं स्कन्धे आग्नीधवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ * • अन्वयः - ते मातुः अनुग्रहात् औत्पत्तिकेन एव संहननबलोपेताः आग्नीध्रसुताः यथाभागम् पित्रा विभक्ताः आत्मतुल्य- नामानि जंबूद्वीपवर्षाणि बुभुजुः ॥ २१ ॥ कामानाम् अतृप्तः अनुदिनम् अप्सरसम् एव अधिमन्यमानः आग्नीधः राजा श्रुतिभिः तस्याः सलोकताम् अवारुन्ध यत्र पितरः मादयंते ।। २२ ।। पितरि संपरेते नव भ्रातरः मेरुदेवीम् प्रतिरूपाम् उग्रदंष्ट्रीं लताम् रम्याम् श्यामाम् नारीम् भद्राम् देववीतिम् इति संज्ञा नव मेरुदुहितुः उद्वहन् ।। २३ ।। 3 इति द्वितीयोऽध्यायः ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका औत्पत्तिकेनैव खभावेन संहननं दृढांगत्वम् ॥ २१ ॥ भिर्वेदोक्तः कर्मभिः अवारुंध प्राप । मादयंते मोदन्ते ॥ २२ ॥ । &
-
- कामानां भोगैः अध्यधिकं मन्यमानः । श्रुति- इत्येवंभूता संज्ञाः यासां ताः परिणीतवन्तः ॥ २३ ॥ ।। ।। इति पंचमस्कंधे टीकायां द्वितीयोऽध्यायः ॥ २ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः अनुग्रहान्तदीयस्तनपानात् । आत्मतुल्यनामानि स्वतुल्यनामाक्षराणि । ‘वर्ष खंडान्दयोर्वृष्टौ ’ इत्यभिधानात् ॥ २१ ॥ सलोकतां समानलोकताम् । यत्र लोके तत्र पितॄणामधिकारित्वमस्तीति गम्यते । मादयन्ते ‘मदी-हर्षे’ अतः स्वार्थिकणिचि लटस्तङ् । अप्सरोलोक एव पितृलोक इति तीर्थः ॥ २२ ॥ संपरते मृते । मेरुसंज्ञप्रजापतेः पुत्रीः । देवदीधितिमिति क्वचित्पाठः ॥ २३ ॥ mpsc इति श्रीमद्भागवत भावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥ श्रीमद्वीरराघवव्याख्या नाभ्यादयः आग्नीध्रसुता मातुरनुप्रहादौत्पत्तिकेन स्वभावतः संहननं दृढाङ्गत्वं बलं च ताभ्यामुपेताः पित्रा आग्नीध्रेण विभक्ता विभागमनतिक्रम्य आत्मतुल्यनामान्यात्मभिः सह तुल्यनामानि जम्बूद्वीपवर्षाणि बुभुजुः । भारतवर्षस्यापि भरतसम्बन्धात्पूर्वमजनाभमिति व्यवहारादात्मतुल्यनामानीत्यस्य न विरोधः ॥ २१ ॥
आग्नीधो राजाऽतृप्तकामस्तामेवाप्सरसं पूर्वचित्तिमधिमन्यमानः तत्सङ्गनिमित्तान्तरमधिकं कामयमानः श्रुतिभिः श्रुत्युक्तसाधनैः कर्मभिस्तस्याः सलोकतामवरुन्धे प्राप कोऽसौ लोकस्तत्राह । यत्र लोके प्राप्ताः पितरो मोदन्ते ॥ २२ ॥
पितर्याग्नीध्रे सम्परेते मृते सत्यनन्तरं नव भ्रातरः नाभिप्रभृतयः सुमेरोर्दुहितृर्मेरुदेवीप्रभृतीः नव उदवहन् विवाहितवन्तः ॥ २३ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृत भागवतचन्द्रचन्द्रिकायां द्वितीयोऽध्यायः ॥ २ ॥
१. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ५. ६. प्रा० पा० - ७. प्रा० पा० - स्क. ५ अ. २ श्लो. २१-२३] अनेकव्याख्या समलङ्कृतम् श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली संहननं देहपुष्टिः आत्मतुल्यनामानि आत्मनामाक्षरतुल्यनामाक्षराणि । जम्बूद्वीपे विद्यमानानि वर्षाणि खण्डानि " खण्डोs - स्त्री खण्डिते त्रिषु” इति यादवः ।। २१ ।। * आग्नीधण पुनः किमकारीत्यत्राह आग्नीध्र इति । तामभिमन्यमान इति तया सह सुरतोत्सवसुखं चिन्तयन्नित्यर्थः । समानलोकतामवरुन्धन्नाप्तुकामः श्रुतिभिः श्रुतिविहितैः साधनैरीजे श्रीहरिमिति शेषः । यद्वा एवंविधसाधनेनैव यजन्नप्सरः समानलोकतां श्रुतिभिराकर्णनैरवरुन्धन् लोकं विशिनष्टि यत्रेति मादयन्ते हृप्यन्ति । अनेन पितृलोक एवाप्सरसो लोक इति ध्वनितम् ॥ २२ ॥ * * सम्परेते मृते मेरो दुहितुः पुत्रीः ।। २३ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्यां द्वितीयोऽध्यायः ॥ २ ॥ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः यत्र पितर इति तत्र पितृणामधिकारित्वं वर्त्तत इति ज्ञेयम् ॥ २२ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजीवगोस्वामिकृत कम सन्दर्भे द्वितीयोऽध्यायः ॥ २ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी मातुरनुग्रहात्तदीयस्तनपानात् औत्पत्तिकेनैव स्वाभाविकेन संहननं दृढाङ्गत्वं बुभुजुः पालयामासुः ॥ २१ ॥ ** कामानां कामैः श्रुतिभिः श्रुत्युक्ततादृशकर्मभिः अवारुन्ध प्राप मादयन्ते मोदयन्ते मोदन्ते ।। २२-२३ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । द्वितीयः पञ्चमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥ २ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः औत्पत्तिकेन स्वाभाविकेनैव गुणेन ॥ २१ ॥ काम्यन्ते इति कामाः विषयास्तैर तृप्तस्तृतीयार्थे षष्ठी, अनुदिनं प्रतिदिनमधि अधिकं मन्यमानः श्रुतिभिर्वेदैरुपायबोधकैः अवारुन्ध प्राप यत्र प्राप्तं पुरुषं पितरो मादयन्ते ॥ २२ ॥ * इति उदाहृताः संज्ञा यासां ताः उदवहन् परिणीतवन्तः ॥ २३ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे द्वितीयाध्यायार्थप्रकाशः ॥ २ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी औत्पत्तिकेन स्वभावेनैव संहननं दृढाङ्गत्वं बलं च ताभ्यामुपेता युक्ताः । पित्रा विभक्ताः । पृथक् पृथक् भूमिविभागेन राज्ये स्थापिता आत्मना स्वेन तुल्यानि सदृशानि नामानि येषां तानि जम्बूद्वीपस्य वर्षाणि खण्डानि यथाभागं निर्विवाद बुभुजुः ॥ २१ ॥ * आग्नीधो राजा कामानां विषयाणां भोगैरतृप्तः अतोऽनुदिनं निरन्तरं तामप्सरसमेव अधि अधिकं पुरुषार्थ मन्यमानः श्रुतिभिः श्रुत्युक्तकर्मभिः तस्याः सलोकतामवारुन्ध प्राप । तल्लोकमेव निर्दिशति-यत्र लोके पितरो मादयन्ते मोदन्त इत्यर्थः । यद्वा यत्र लोके प्राप्तं पुरुषं पितरो हर्षयन्तीत्यर्थः । आद्यन्तयोर्मुक्तिकनादस्यापि सन्दशन्यायेन पितृलोकाद्विरक्तस्य मुक्तिर्ज्ञेया, अन्यथा स्वरूपस्थितिप्रकरणे कामकथनस्याङ्गत्वापत्तेः । नच ‘न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवत्मैव भूय एवाभिवर्द्धते’ इति वाक्यात्तस्य पितृलोकेऽपि विरक्त्यसम्भवान्न मोक्ष इति शङ्कथम्, घृतबिन्दुभिः कृष्णवर्त्मनः शान्त्यभावेऽपि हविषाऽतिपूरणे तच्छान्तिदर्शनात् अस्याप्यप्सरसां लोके भोगातिशयेन ततो विरक्त्या मोक्षसम्भवात् । पितृलोक- गमनेन तत्रत्यभोगनिरूपणं तु भगवद्दत्त श्रीनिरूपणमेव । अतोऽत्र उपक्रमोसंहारयोः श्रीनिरूपणाच्छ्रीनिरूपणमेव अध्यायार्थं इत्यपि ज्ञेयम् ॥ २२ ॥ * * एवं पितरि सम्परेते सम्यक् पितृलोकं गते सति नाभ्यादयो नव भ्रातर इत्येवम्भूता मेरुदेव्यादयः सञ्ज्ञा यासां ता नव मेरुदुहितुरुद्वहन् विवाहितवन्त इत्यन्वयः । तत्र नाभ्यादीनां मेरुदेव्यादयो यथोक्तक्रमेणैव भार्या इति ज्ञेयम् ।। २३ ।। पादसेवाधिकारिणा ॥ १ ॥ बालप्रबोधिनी ॥ २ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका रचिता पञ्चमे तत्र कृष्णेन स्थितिरूपणे । द्वितीयो विवृतोऽध्यायः श्रीप्राप्तिविनिरूपकः ॥ ३ ॥ श्रीमद्भागवतम् श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी [ स्क. ५ अ. २ श्लो. २१-२३ आग्नीध्रेति । ते आग्नीधसुताः मातुः अनुग्रहात्, औत्पत्तिकेन सहजभावेनैव मातुर्देवत्वात्तत्प्रकृतिकत्वेनैवेत्यर्थः । संहननं सुदृढाङ्गत्वं च बलं दैहिकसामर्थ्यं च ताभ्यामुपेता युक्ताः । पित्राग्नीध्रेण विभक्ताः विभज्य प्रदत्तखण्डादिभागा इत्यर्थः । एवंभूताः सन्तः, आत्मतुल्यनामानि स्वनामसमानसंज्ञानि जम्बूद्वीपवर्षाणि यथाभागं स्वस्वभागमनतिक्रम्य बुभुजुः ।। २१ ।। आग्नीध्र इति । राजा नवखण्डाधिपतिः आग्नीधः, अतृप्तकामः कामभोगतस्तृप्तिमनापन्नः, अत एव तां पूर्वचिन्त्याख्यां, अप्सर समेव अनुदिनं, अधिमन्यमानः अधिकं कामयमानः सन् श्रुतिभिर्वेदोक्तैः कर्मभिः, तस्या अप्सरसः, सलोकतां समानलोकभाव अवरुन्वे प्राप । यज्ञादिकर्मभिस्तल्लोकमगादित्यर्थः । कोऽसौ स लोको यत्रासौ गतस्तत्राह । यत्र लोके, गतं पितरः मादयन्ते तत्र - त्यानन्दमनुभावयन्तीत्यर्थः । यद्वा यत्र पितरः मादयन्ते मोदन्ते स इत्यर्थः ॥ २२ ॥ संपरेत इति । पितर्याग्नीध्र, संपरेते मृते सति, नव भ्रातरः नाभिप्रभृतयो नव बन्धव इत्यर्थः । मेरुदेवीं, प्रतिरूपां, उग्रदंष्ट्री, लतां, रम्यां श्यामां नारीं, भद्रां, देववीतिं, इतिसंज्ञा इत्थंविधाभिधानाः, नव मेरुदुहितृः उदवहन् । नाभिर्मेरुदेवीं, किंपुरुषः प्रतिरूपां, हरिवर्ष उग्रदंष्ट्रों, इलावृतो लतां, रम्यकः रम्यां हिरण्मयः श्यामां कुरुर्नारी, भद्राश्वो भद्रां, केतुमालो देववीतिं यथाक्रममुदवहन्नित्यर्थः ।। २३ ।। इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दस्वामिसुतश्रीरघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥ भाषानुवादः ये आग्नीधके पुत्र माताके अनुग्रहसे स्वभावसे ही सुडौल और सबल शरीरवाले थे । आग्नीधने जम्बूद्वीपके विभाग करके उन्हींके समान नामवाले नौ वर्ष (भूखण्ड ) बनाये और उन्हें एक-एक पुत्रको सौंप दिया। तब अपने-अपने वर्षका राज्य भोगने लगे ।। २१ ।। 8 महाराज आग्नीध्र दिन-दिन भोगोंको भोगते रहनेपर भी उनसे अतृप्त ही रहे । वे उस अप्सराको ही परम पुरुषार्थ समझते थे । इसलिये उन्होंने वैदिक कर्मों के द्वारा उसी लोकको प्राप्त किया, जहाँ पितृगण अपने सुकृतोंके अनुसार तरह-तरह के भोगों में मस्त रहते हैं ।। २२ ।। पिताके परलोक सिधारनेपर नाभि आदि नौ भाइयोंने मेरुकी मेरुदेवी, प्रतिरूपा, उग्रदंष्ट्री, लता, रम्या, श्यामा, नारी, भद्रा और देववीति नामकी नौ कन्याओंसे विवाह किया ।। २३ ।। इति द्वितीयोऽध्यायः ॥ २ ॥ * अथ तृतीयोऽध्यायः श्रीशुक’ उवाच नाभिरपत्य कामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमव हितात्मायजत ॥ १ ॥ तस्य ह वाव’ श्रद्धया विशुद्धभावेन यजतः प्रवर्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थं विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयना- नन्दनावयवाभिराममाविश्वकार || २ || अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधर- मुरसि विलसच्छ्रीवत्सललामं दरवरवन रुहवन मालाच्छूर्य मृत मणिगदादिभिरुपलक्षितं स्फुटकिरणप्रवर मुकुटकुण्डलकटक- कटिहारकेयूरन पुराद्यङ्गभूषण विभूषितमृत्विक्सद स्वगृहपतयोऽघना इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण उपतस्थुः ॥ ३ ॥ ॠ त्विज ऊचुः अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुणव्यतिकर- मतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम् ॥ ४ ॥ सकलजननिकायवृजिन- निरसन शिवतमप्रवरगुणगणैकदेशकथनादृते ॥ ५ ॥ परिजनानुरागविरचितश बलसंशब्दसलिलसित किसलयतु लसिका- दूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परम परितुष्यसि ॥ ६ ॥ अथानयापि न " भवत इज्ययोरु भारभरया समुचित- मर्थमिहोपलभामहे ॥ ७ ॥ आत्मन एवानुसवनम असाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ८ ॥ अन्वयः—–अपत्यकामः नाभिः अप्रजया मेरुदेव्या अवहितात्मा भगवन्तम् यज्ञपुरुषम् अयजत ॥ १ ॥ * * श्रद्धया विशुद्धभावेन ह वाव यजतः तस्य प्रवर्येषु प्रचरत्सु द्रव्यदेशकालमंत्रत्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमः अपि सुप्रतीकः निजजनाभिप्रेतार्थंविधित्सया गृहीतहृदयः भगवान् भागवतवात्सल्यतया हृदयंगमं मनोनयनानंदनावयवाभिरामम् अपराजितम् आत्मानम् आविवकार || २ ॥ * * अथ ह ऋत्विक्सदस्यगृहपतयः तम् आविष्कृभुजयुग लद्वयम् कपिशकौशेयांबरधरम् उरसि विलसच्छ्रीवत्सललामम् दरवरवनरुहवनमालाच्छूर्य मृतमणिगदादिभिः उपलक्षितम् स्फुटकिरणप्रवरमुकुट कुंडल कटककटि- सूत्रहारकेयूरनू पुराद्यंगभूषण विभूषितम् हिरण्मयम् पुरुषविशेषम् अधनाः उत्तमधनम् इव उपलभ्य अर्हणेन सबहुमानम् अवनत - शीर्षाणः उपतस्थुः ।। ३ ।। * अर्हत्तम अनुपथानाम् अस्माकम् अर्हणम् मुहुः अर्हसि नमो नमः इति एतावत् सदुपशिक्षितम् कः प्रकृतिगुणव्यतिकरमतिः अनीशः पुमान् अर्वाक्तनाभिः नामरूपाकृतिभिः परस्य ईश्वरस्य प्रकृतिपुरुषयोः रूपनिरूपणम् अर्हति ॥ ४ ॥ * * सकलजन निकाय वृजिननिरसन शिवतमप्रवरगुणगणैकदेशकथनात् ऋते ।। ५ ।। परम परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलयतुलसिकादूर्वाङ्करैः संभृतया सपर्यया किल परितुष्यसि ।। ६ ।। * अथ अनया उरुभारभरया इज्यया अपि अनुसवनम् अंजसा अव्यतिरेकेण बोभूयमानाशेषपुरुषार्थ- स्वरूपस्य आत्मन एव भवतः इह समुचितम् अर्थम् न उपलभामहे किंतु नाथ आशिषः आशासानानाम् एतत् अभिसंराधन- मात्रम् भवितुम् अर्हति ॥ ७-८ ॥ अपि १. २. ३. प्रा० पा० - ४. प्रा० पा० - ५. ६. ७. प्रा० पा० - ८. ९. प्रा० पा० - १०. प्रा० पा० - ११. प्रा० पा०- १२. प्रा० पा० - ક श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका [ स्कं. ५ अ. ३ श्लो. १-८ तृतीये चरितं नाभेः परं मंगलमीर्यते । यस्य यज्ञे प्रतीतः सन्पुत्रोऽभूदृषभो हरिः ॥ १ ॥७५ * 1 । । नाभिराग्नीसुतः । अपुत्र्या मेरुदेव्या भार्यया सह ॥ १ ॥ * * प्रवर्ग्यसंज्ञकेषु कर्मसु क्रियमाणेषु । द्रव्यादयः सप्त ये योगा उपायास्तेषामुपपत्त्या संपत्त्या दुरधिगमो दुष्प्रापोऽपि भागवतेषु कृपालुतया सुप्रतीकः शोभनावयवः सन्नात्मानमावि - श्र्चकार । अपराजितं स्वतंत्रम् । निजभक्तानां येऽभिप्रेतार्थास्तेषां विधित्सया गृहीतमाकृष्टं हृदयं चित्तं यस्य । हृदयंगमं सुखकरम् । यतो मनोनयनान्यानंदयंति येऽवयवास्तैरभिरामं सुंदरम् ॥ २ ॥ * * अथहेत्यादिनिपातबाहुल्यं वाक्यालंकाराय । आविष्कृतं भुजानां युगलद्वयं चतुष्टयं येन । हिरण्मयं तेजोमयम् । पुरुषेषु विशिष्यत इति तथा । पुरुषोत्तममित्यर्थः । अर्हणेनार्येण सहोपतस्थु- रभजन्नित्यन्वयः । विलसम् श्रीवत्स एव ललामं चिह्नं यस्य । दरवरः शंखश्रेष्ठः । वनरुहं पद्मम् । अच्छूरि चक्रम् | अमृतमणिः कौस्तुभः । । । । एवमादिभिरुपलक्षितम् । स्फुटकिरणा ये प्रवरा मणयस्तन्मयानि यानि मुकुटादीन्यंगानां भूषणानि तैर्विभूषितम् । बहुमाने दृष्टान्तः- अघना इवोत्तमधनं निधिम् ॥ ३ ॥ अर्हसीत्यादिना निगदेन स्तुवंति । हे अर्हत्तम परिपूर्णोऽपि त्वमनुपथानां भृत्याना - मस्माकमर्हणं मुहुः स्वयमेव स्वीकर्तुमर्हसि न तु वयं स्तोतुं शक्ता इत्याहुः । नमो नम इत्येतावदेवास्माकं सद्भिरुपशिक्षितं त्वद्रूपस्य दुर्ज्ञेयत्वात् । तदेवाहुः कोऽर्हतीति । प्रकृतिगुणानां व्यतिकरः प्रपंचस्तस्मिन्नेव मतिर्यस्यात एवानीशः । प्रकृतिपुरुषयोः परस्यात एवेश्वरस्यार्वाक्तनाभिस्त्वामस्पृशंतीभिः प्रपंचांतर्गताभिर्नाम च रूपं चाकृतिश्चाकारस्ताभिस्तव रूपनिरूपणं कर्तुं को नाम पुमानर्हति ॥ ४ ॥ * * स ह्येतन्मात्रमेवार्हति नाधिकमित्याहुः । सकलजननिकायस्य वृजिनं निरस्यंतीति तथा शिवतमाः प्रवराश्च ये गुणगणास्तेषामेकदेशस्तस्य कथनाद्विनाऽधिकं नार्हति ॥ ५ ॥ * * वाङ्मनसाऽगोचरोऽपि त्वं भक्तानां सुखा- राध्य एवेत्याहुः परिजनेति । हे परम परिजनैरनुरागेण विरचिता ये शबलसंशब्दा गद्दाक्षरस्तुतयः सलिलं च सितकिसलयाश्च शुद्धपल्लवाः । शिलेति पाठे शिलं कुशादिमंजरी । एवमादिभिः संभृतया संपादितया पूजया परितुष्यसि ॥ ६ ॥ * * अथेति प्रकारांतरे । अन्यथा त्वनयेज्यया यागेनाप्युरुभारभरयाऽनेकांगसमृद्धयाऽपि भवतः समुचितमपेक्षितं प्रयोजनं नैव पश्यामः ॥ ७ ॥ अत्र हेतुः । आत्मनः स्वत एवानुसवनं सर्वदांजसा साक्षादव्यतिरेकेण समन्वयेन बोभूयमाना अतिशयेन भव॑तो येऽशेषाः पुरुषार्थास्ते स्वरूपं यस्य परमानंदस्य । न चैवं सत्यपि यागानर्थक्यमित्याहुः किं त्विति । सकामानामस्माकमेवैत- दुपपद्यते न तवेत्यर्थः ॥ ८ ॥ । प्रतीतः प्रकटः ( १ ) ।। १ ॥ । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः द्रव्यादयो विधानांताः सप्त ॥ २ ॥ अथाविर्भावानंतरम् । इत्यर्थ इति । क्षराक्षरातीतस्वरूपमिति भावः । श्रीवत्सस्यैव मुख्यचिह्नत्वम् “आत्मतुल्यैः षोडशभिर्विना श्रीवत्स कौस्तुभौ ” इति वक्ष्यमाण- त्वात् । ‘ललामं चिह्नभूषयोः’ इति धरणिः । अत्तीत्यत् ‘शूरः शूरिरुभौ शूरे’ इति कोशोक्तेः । शूरीणामत् अच्छूरि कीबत्वम्पूर्व- त्वचाम् | अमृतेन सहोद्भूतो मणिरमृतमणिर्मध्यपदलोपी समासः । आदिना रमांकादिग्रहः । कपिशेति । श्यामवर्णमिति बुध्यते ‘पीतांशुकं वक्षसि लक्षितं श्रिया’ इत्यत्र पीतांशुकपदेन ध्वन्यते श्यामवतामृतोक्तेः । नूपुरं मंजीरम् ॥ ३ ॥ * अर्हत्तमेति । यज्ञे त्वदितरामराणां पूज्यत्वेपि मुख्यपूज्यत्वं तवैवेति भावः । अत्र विश्वनाथः यथा भक्तियोगस्तमनुवर्त्तमानानामनुपथानां न तु साक्षात्प्राप्तानां सकामत्वात् । तथाभूता ये येऽनुपथास्तेषामपि पूजां मुहुरर्हसि स्वीकर्तुं योग्योसि । तव कृपालुत्वादेव न तु वयं योग्या इति भावः । अस्माकमनुपथत्वेप्येतावदेव लक्षणमस्ति नाधिकमित्याहुः । नमो नम इति । सतां सकाशाच्छिक्षितं न तु पूजापरिचर्या- स्तुत्यादिकं जानीम इति भावः । ननु विद्वांसो मद्भक्ताश्च यूयं सर्वं जानीथैव तत्किं स्तोतुं संकुचथेति तत्राहुः - कोर्हतीति । मुखाद्यंगानां चंद्राद्युपमाभिस्तुतिर्भवति तव त्वर्वाक्तनाभिः प्रपंचांतर्गताभिर्नाम इंद्रनीलमण्यादिरूपं तच्छयामताकृतिस्तत्प्रतिमा ताभी रूपस्य निरूपणमपि कर्तुं कोर्हति स्तुतेर्वाक्यं तु दूरे वर्त्ततामित्यर्थः । तव कीदृशस्य प्रकृतिपुरुषयोरपि परस्य नहि प्रकृतिपुरुषातीतं रूपं प्राकृतेन्द्रनीलमण्यादिभिः सदृशीकत्तुमुचितं न त्वप्राकृतपदार्थैरेव मद्रूपमुपमीयतां तत्राहुः - गुणव्यतिकरेति । प्राकृतजीवलोकस्या- प्राकृतपदार्थेषु बुद्धिप्रवेशासंभवादिति भावः । अत एवं भक्तवात्सल्यगुणानां केनाप्यंशेन कीर्त्तनमात्रं कर्तुमर्हती- त्याहुः ॥ ४-५ ॥ * हे परमेति । ति । न हि परा सर्वोत्कृष्टा मा लक्ष्मीर्यस्य तस्य तवानल्पोपचारापेक्षास्तीत्यभि- प्रायः ॥ ६ ॥ * * अस्माकं तु भक्तिर्नास्तीत्यतः कथं ते परितोषो भविष्यतीत्याहुः । अन्यथा तु भक्ति विना तु ॥ ७ ॥ अत्र प्रयोजनाभावे । व्यतिरेको विच्छेदस्तदभावोऽव्यतिरेकस्तेनेति वा । इत्यर्थं इति । अस्माकं तु सकामत्वेन पूजने प्रयोजनमस्ति तव सर्वथा परिपूर्णस्य पूजनं नापेक्षितमिति भावः ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या । एवं प्रियव्रताग्नीध्रचरितमभिधायाग्नीध्रापत्यचरित्रमभिधित्सुस्तावन्नाभिचरितमाह नाभिरिति तृतीयेन । अपत्यकामः सन्तानार्थी नाभिराग्नीध्रपुत्रः अप्रजयाविद्यमानसन्तानया मेरुदेव्या भार्यया सह समाहितचित्तः यज्ञपुरुषं यज्ञाराध्यं परमपुरुषमयजत् यज्ञैराराधितवानित्यर्थः ॥ १ ॥
श्रद्धया कर्त्तव्यविषयत्वरया विशुद्धान्तःकरणेन च तस्य नाभेर्यजतः सतः प्रवर्ग्यनामकेषु यागेषु प्रचरत्सु प्रवर्त्तमानेष्वनुष्ठीयमानेषु द्रव्यादयः सप्तयोगाः उपायास्तेषामुपपत्त्या सम्पत्त्या दुरधिगमो दुष्प्रापोऽपि भगवान् द्रव्यं हविर्देशः समे यजेतेति विहितः कालो वसन्तादिरूपः विधानं विधिरनुष्ठानप्रकारः भागवतेषु वात्सल्यं यस्य तस्य भावः तत्ता तया, वत्सलतयेति पाठे भागवतेषु दयालुतया, निजजनानां भक्तजनानामभिप्रेतार्थविधित्सयाभिमतार्थनिष्पादनेच्छया हेत्वर्थे तृतीया ‘अध्ययनेन वसती’तिवत् गृहीतहृदयः कृतसङ्कल्पः शोभनाः प्रतीका अवयवा यस्मिन्, तदेव प्रपञ्चयति हृदयङ्गमं चित्तापहारिणं तत्र हेतुः मनसां नयनानां च आनन्दयन्तीत्यानन्दनाः नन्द्यादित्वात्कर्त्तरि ल्युः, तैरवयवैरभिरामं सुन्दरमपराजितमकर्मवश्यमात्मानं दिव्यविग्रहमाविश्वकार प्रकटीचकार ॥ २ ॥
अथानन्तरं हेति विस्मये, तमाविर्भूतं भगवन्तं कथम्भूतमाविष्कृतं भुजानां युगलद्वयं चतुष्टयं येन हिरण्मयं प्रकाशबहुलं पुरुषेषु विशिष्यते इति पुरुषविशेषस्तं पुरुषोत्तममित्यर्थः । कपिशं पिशङ्गं कौशेयं कृमिकोशोत्थं जन्तुजन्यमम्बरं बिभ्रतमुरसि विलसच्छ्रीवत्स एव ललामं चिह्नं यस्य सः दरवरः शङ्खः वनरुहं पद्मं अछूरि चक्रममृतमणिः कौस्तुभः एवमादिभिरुपलक्षितं स्फुरत्किरणा ये प्रवरा मणयः तन्मयानि यानि मुकुटादीन्यङ्गानां भूषणानि तैर्भूषितमुपलभ्य दृष्ट्वा ऋत्विजः सदस्या गृहपतिर्यजमानस्तेषामितरेतरयोगे द्वन्द्वः ते निर्धना इवोत्तमं धनमुपलभ्य यथा बहुमानयन्ति तथा अर्हणेन पूजापुरःसरमवनतशीर्षाणः नम्रशिरसः कृतप्रणामा इत्यर्थः । उपतस्थुः समीपमेत्य स्तुतवन्तः धातूनामनेकार्थत्वात्तिष्ठति-धातुरत्र स्तुतौ वर्त्तते, मन्त्रकरणकत्वाभावान्नोपान्मन्त्रकरण इत्यात्मनेपदम् ॥ ३ ॥
स्तुतिमेवाह अर्हसीत्यादिना । परममङ्गलायनगुणकथनोऽसीत्यन्तेन निगदेन त्वदीयाहणग्रहणोत्सुकमपरिपूर्णं मां कथं स्तुथेति शङ्कामपनुदन्त आहुः । हे अर्हत्तम ! परिपूर्णोऽप्यनुपथानां भृत्यानामस्माकमर्हणं मुहुः स्वयमेव स्वीकर्तुमर्हसि परिपूर्णस्य तव नास्मदर्हणग्रहणेन न्यूनतेति भावः । न वयं कार्त्स्न्येन भवदीयगुणकथने प्रभवामः किन्त्वेकदेशकथन एवेति वदन्तः स्तुवन्ति नमो नम इत्यादिना ऋत इत्यन्तेन । नमो नम इत्यादि तावदेवास्माकं सद्भिरुपशिक्षितं त्वत्स्वरूपस्वभावयोरानन्त्यात्कार्त्स्न्येन तत्कथनायोगात्केवलं नमो नम इत्येव कथनीयमिति सद्भिरुपशिक्षिता वयमित्यर्थः ॥ ४ ॥
एतदेवाहुः कोऽर्हतीति । प्रकृतेर्गुणाः सत्त्वादयः तेषां व्यतिकरः परिणामः शब्दादिरूपः तद्विषया मतिर्यस्य अत एवानीशः कर्मपरवशः अर्वाक्तनाभिः स्वकार्यभूताभिर्नामादिभिरुपलक्षितः तत्र नाम देवमनुष्यादिनामधेयं रूपं संस्थानमाकृतिस्तद्द्रव्यजातिः प्रकृतिपुरुषयोः परस्य विलक्षणस्येश्वरस्य तव स्वरूपनिरूपणं स्वरूपशब्दः स्वभावादेरप्युपलक्षणः, कर्तुं को नाम पुमानर्हति स ह्येतावन्मात्रमेवार्हति नाधिकमित्याह । सकलजनानां निकायः समूहस्तस्य वृजिनं पापं निरस्यन्तीति तथा शिवतमाः प्रवराश्च ते गुणास्तेषामेकदेशस्तस्य कथनाद्विना गुणलवकथनमेवार्हति न तु स्वरूपनिरूपणं स्वरूपस्वभावादीनामानंत्यादिति भावः ॥ ५ ॥
यद्यपि समस्तपुरुषार्थस्वरूपस्य नित्यतुष्टस्य तव नानेन योगेनार्थस्तथापि “पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति” इति भक्तिपूर्वकाराधनस्य किञ्चिन्मात्रस्यापि त्वत्प्रीतिकरत्वं त्वयैव गीतमितीदं यजनं सूर्याय दीप इव किञ्चिदाराधनमात्रमित्याहुः परिजनेत्यादिना अर्हतीत्यन्तेन । परिजनैरनुरागेण विरचिताः शबलसंशब्दा गद्गदाक्षराः स्तुतयः सलिलं विशुद्धं जलं शिलं व्रीह्मादिमञ्जरीखण्डः, सितेति पाठे सितकिसलयाः शुद्धपल्लवाः एवमादिभिः सम्भृतया सम्पादितया पूजया परितुष्यसि किल ॥ ६ ॥
तस्मादन्योऽर्थो नानयेत्याहुः । अनया इन्यया उरुभारभरयानेकाङ्गसम्भृतया भगवतस्तव समुचितं संमतमपेक्षितमर्थं प्रयोजनं न वै पश्यामः । अत्र हेतुं वदन्तो विशिषन्ति आत्मनः स्वत एवानुसवनं सर्वदा अञ्जसा साक्षाद्बोभूयमाना अतिशयेन भवन्तो येऽशेषाः पुरुषार्थास्ते स्वरूपेण यस्य नापेक्ष्यार्थोऽस्ति । किन्त्विदमाराधनमात्रमित्याहुः किन्त्विति । हे नाथ ! आशिषः पुरुषार्थानाशासानानामभीप्सतामस्माकमेतद्यजनं त्वदीयाराधनमात्रं भवितुमर्हति त्वत्सन्तोषजननद्वारास्मदुपयोग्येवेति भावः । मात्रचा मगवतोऽननुरूपत्वं विवक्षितम् । अननुरूपाराधनप्रकृत्या परमकारुणिकत्वं च व्यञ्जितम् ॥ ७-८ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली स्वभावतोऽव्यक्तोऽपि भगवान् भक्तवत्सलतया प्रत्यक्षोऽपि भवतीत्यतो हरौ भक्तिरेव कर्त्तव्येति विधीयतेऽस्मिन्नध्याये | तत्र नाभिनाम्नो राज्ञोऽपत्यार्थ हरियजन प्रकार माह नाभिरिति । न प्रजा अपत्यं यस्याः सा तथा तया सह ॥ १ ॥ * * शुद्धभावेन शुद्धान्तःकरणेन शुद्धकर्मणा वा प्रवर्येषु कर्मविशेषेषु प्रचरत्सु प्रवर्तमानेषु सत्सु दुरधिगमो दुर्ज्ञेयोऽपि द्रव्यदेशादीना- मुपपत्त्या सम्पत्त्या भागवतेषु स्नेहातिशयेन च सुप्रीतो भगवान् गर्भवासादिदुः खैरपराजितं हृदयङ्गमं मनोहरं मनोनयनसुखकरं चारुतर करचरणाद्यवयवोपेतमात्मानमाविश्वकार प्रत्यक्षीचकारेत्यन्वयः । किङ्कार्यो भगवानित्यत उक्तम् निजेति । योगो ध्यानम् || 2 ||
- निराकारं चेत्कथं ध्यानास्पदं स्यादित्यत आह अथेति । आविष्कृतभुजयुगलद्वयं स्पष्टीकृत चतुर्भुजं हिरण्मयं सुवर्णवर्णं “कौशेयं कृमिकोशोत्थम् इत्यभिधानम् बिलसन् श्रीवत्स एव ललामं चिह्न यस्य स तथा तं स्फूर्जामृतमणिगणप्रवराः स्फूर्जा: शाणोलीदा अमृतवद्भवलाश्च मणिगणश्रेष्ठाः एत एवादिर्येषां ते तथा तैः दरवरादिभिः शाणतेजितधवलमणिगणश्रेष्ठा+ दिभिश्चोपलक्षितं विशिष्टं मुकुटं शिरस्त्राणं किरीटं मौलिः स्फुटकिरणानि फुल्लरश्मीनि प्रवराणि मणिमयानि मुकुटकिरीटा- दीनि स्फुट किरणप्रवर मणिमय मुकुटकिरीटादीनि श्रीमद्भागवतम् [ स्कं. ५ अ. ३ श्लो. १-८ एतैरङ्गभूषणैर्भूषितमलङ्कृतमधना दरिद्रा उत्तमं धनं रत्नमुपलभ्य * सबहुमानमर्हणेन पूजासाधनेन ॥ ३ ॥ * अर्हसि मुहुरित्यारभ्येति निगदेनेत्यतः पूर्वतनो ग्रन्थ उपस्थानमन्त्रः । हे अर्हत्तम ! अनु अनुपथानां भृत्यानां नोऽर्हणं त्वमर्हसि ग्रहीतुमिति शेषः । मुहुरित्यनेनार्हणस्य भूयस्त्वं सूचयति । किन्तदर्हणं तदाह नम इति । तत्र दोषलेशो नास्तीत्याह सदिति । तत्र दोषलेशो नास्तीत्याह सदिति । सद्भयः पुरुषेभ्यः उपशिक्षितत्वात्सत्प्रशस्तं नमो नम इत्यतेद्व्यतिरिक्तनामादिकीर्तनस्मरणाद्यहणं किन्न क्रियत इति तत्राह कोऽर्हतीति । नामरूपादिवेदनस्य श्रुत्यादिसिद्धत्वात्तत्कथमाक्षिप्यते इति तत्राह प्रकृतीति । प्रकृतिगुणैः शब्दादिभिः व्यतिरेकः भ्रंशो यस्याः सा तथा तादृशी मतिर्यस्य स तथा अत एवार्वाक्तनमतिः बहिर्बुद्धिः तत्र कारणमनीश इति सर्वेश्वरस्य तव संवित्तौ सामर्थ्या- भावात्वदीश्वरत्वमनुपहतमिति भावेनाह प्रकृतीति ॥ ४ ॥ * * तर्हि किमपि नार्हतीत्यत उक्तं सकलेति । सकलजनानां निकायस्य वृजिनं दुःखं निरस्यन्तीति वृजिननिरसनाच शिवतमा मङ्गलतमाश्च प्रवराश्च ये गुणगणास्तेषामेकदेशकथन- मन्तरेणान्यत्किमपि नार्हतीत्यर्थः ॥ ५ ॥ 8 गुणगणकथनासक्तस्य हरिपरितोषः कया विधया स्यादत्राह परिजनेति । हे परम ! परिजनैर्भृत्यजनैरनुरागेण विरचितः स्तवः स्तोत्रं तस्य लवः लेशस्तस्य संशब्दः कथनं सलिलं जलं किसलयः पल्लव- स्तुलसी च दूर्वाङ्कुरश्च ते स्तवलवादयस्तैः सम्भृतया सम्पादितया पूजया परितोषं यास्यसि किलेत्यन्वयः ॥ ६ ॥ * * नित्यतुष्टस्य कदाचित्परितोषो भक्तानुकम्पोन्मुखत्वं न त्वप्राप्तप्राप्तिलक्षणम् इत्याह अथेति । उरुसम्भारलक्षणो भारो यस्याः सा तथा तया सम्भारः साधनं भरः समूहः ॥ ७ ॥ * * कुतोऽमुष्य नार्थ इति तत्राह । आत्मन इति । स्वत एवानुसवनं सर्व- दाअसा मुख्यतो व्यतिरेकेणाभेदेनानुबोभूयमानोऽत्यन्तमनुभूयमानोऽशेषः पूर्णः पुरुषार्थः सुखमनुबोभूयमानपुरुषार्थः स एव स्वरूपं यस्य स तथा तस्य । तर्हि किमर्थमाराधनं क्रियत इति तत्राह किन्त्विति । किन्तु तवार्थो नास्त्येव तथापि हे नाथ ! आशिषः आशासानानां कामयमानानामेतत्कर्मलक्षणं यजनं तवाभिसंराधनमात्रं केवलमनुग्रहलक्षणसिद्धिसाधनं भवितुमर्हति ॥ ८ ॥
।। * श्रीमजीवगोखा मिकृतः क्रमसन्दर्भः
तु पितृलोककाम इति तस्य स्त्रिया वन्ध्यात्वं गम्यते ॥ १ ॥ * * वक्ष्यमाणमनोनयनानन्दनावयवाभिरामत्वेऽपि भागवतवत्सलतया सुप्रतीकः परमसुन्दरः ॥ २-३ ॥ अर्हसीत्यादिगद्यानामिति निगदेनाभिष्ट्यमान इति त्रयोदश- गद्येनान्वयः । टीकायां निगदेन गद्यात्मकस्तोत्रेण स्तुवन्ति न तु वयं स्तोतुं शक्ता इति येन च स्तवेन तदङ्गीकुर्य्यास्तमपि कर्तुमित्यर्थः । पन्थानं भक्तिमार्गमनुगतास्तत्सामीप्यमागताः न तु तमेव साक्षात् प्राप्ताः सकामत्वात् । तथाभूता ये तेऽनुपथास्तेषामपि पूजां मुहुरर्हसि स्वीकर्तुं योग्योऽसि तव कृपालुत्वादेव न तु वयं योग्या इति भावः । तवोत्कर्षे विचार्यमाणे तु सर्व्व एवायोग्या इत्याहुः नमो नम इति ॥ ४ ॥ 88 तर्हि मदुत्कर्षोऽपि वर्ण्यतां तत्राहुः कोऽर्हतीति । अव्यक्तनाभिः प्रपञ्चान्तर्गतसादृश्येन स्फुरन्तीभिरित्यर्थः, नाम च रूपन्न आकृतिश्च जातिः ताभिस्तव रूपनिरूपणं याथार्थेन प्रतिपादनं कर्तुं को नाम पुमान् अर्हति तत्र हेतुः प्रकृतिगुणेति । प्रकृतिगुणानां व्यतिकर आसङ्गः तदीयमानादीनां तदतीतत्वे हेतुः । ईश्वरस्य परस्येति । ननु तादृशत्व- मनुसन्धायैव निरूप्यताम् तत्राहुः । अनीश इति । रूपनिरूपणं याथार्थ्येन प्रतिपादनं तर्हि तादृशेन जनेन तन्निरूपणं कीदृशं किं माहात्म्यं वा तत्राहुः । एकदेशत्वं यत् किञ्चित्त्वं तदाभास इति यावत् तादृशत्वेऽपि सकलेत्यादिमाहात्म्योऽसावित्यर्थः । तस्मादृत इति । तदेव निरूपयितुमर्हतीत्यर्थः । अथवा अर्वाक्तनाभिः स्वल्पप्रमाणाभिः । अनन्तानां स्फुरणासंभवात् रूपनिरूपणं सम्यक स्वरूपप्रतिपादनं किं तर्हि तत्राहुः सकलेति । यद्वा अवक्तिनाभिरिति कम्र्म्मोपासनादौ तत्तदेवतासम्बन्धिनीभिरित्यर्थः तर्हि केन निरूपणं स्यात् । तत्राहुः सकलेति ।। ५-७ ।। अव्यतिरेकेण विच्छेदराहित्येन बोभूयमाना अतिशयेनावि- भवन्त इत्यर्थः ॥ ८ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी तृतीये नाभिष्टोऽभूद्यज्ञे तुष्टोऽस्य नन्दनः । त्वत्समो मे सुतोऽस्त्वेतद्वरं श्रुत्वा हरिः स्वयम् ॥ नाभिराग्नीधस्य प्रथमः पुत्रः ॥ १ ॥ * * प्रवर्ग्यसंज्ञकेषु कर्मसु प्रचरत्सु संपद्यमानेषु द्रव्यादिभिः सप्तभिः शुद्धः सह योगः भक्तियोगस्तस्य उपपत्त्या निष्पत्त्या सुप्रतीकः सुन्दराङ्गः आत्मानं स्वदेहमा विश्वकार । अपराजितं अन्यैर्वशीकर्तुमशक्यमपि गृहीतहृदय आकृष्टचित्तः मनोनयनानन्दनैरवयवैः श्रीमुखाब्जादिभिरभिराममतिरमणीयम् ॥ १ ॥ ॐ हिरण्मयं प्रकाश- बहुलं पुरुषेषु विशिष्यत इति पुरुषोत्तम इत्यर्थः । कपिशेति तेन श्यामवर्णमिति बुद्धयते । पीतांशुकं वक्षसि लक्षितं श्रियेत्यत्र पीतांशुकपदेनात्र ध्वन्यते श्यामवर्णतेति भागवतामृतोक्तेः । दरवरः शङ्खः वनरुहं पद्ममच्छूरि चक्रममृतमणिः कौस्तुभः ॥ २ ॥ * * अर्हसीत्यादिगद्यानामिति निगदेनाभिष्टुयमान इत्यनेनान्वयः । त्वं परिपूर्णोऽप्यस्माकमप्यर्हणमङ्गीकर्तुमर्हसि । तत्र हेतुः अनुपथानां पन्था भक्तियोगस्तमनुवर्त्तमानानां न तु साक्षात्तं प्राप्तानां सकामत्वात् तदपि तव भक्तिसम्बन्धगन्धवत्यपि वात्सल्यादेवेति स्क. ५ अ. ३ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् भावः ॥ ३ ॥ * * अस्माकमनुपथत्वेऽप्येतावदेव लक्षणमस्ति नाधिकमित्याहुः नमो नम इति । सद्भयः सकाशात् शिक्षितं न तु पूजापरिचर्यास्तुत्यादिकं जानीम इति भावः ॥ ४ ॥ * ६ ननु विद्वांसो सद्भक्ताश्च यूयं सर्व्वं जानीथैव तत् किं स्तोतुं सकुंचथेति तत्राहुः कोऽर्हतीति । लोके हि मुखाद्यङ्गानां चन्द्राद्युपमाभिः स्तुतिर्भवति । तव तु अर्वाक्तनाभिः प्रपञ्चान्तर्ग- ताभिः नाम इन्द्रनीलमण्यादिरूपं तच्छयामताकृतिस्तत्प्रतिमा ताभिः रूपस्य निरूपणमपि कर्तुं कोऽर्हति स्तुतेर्वार्ता तु दूरे वर्तता- मित्यर्थः । तव कीदृशस्य प्रकृतिपुरुषयोरपि परस्य नहि प्रकृतिपुरुषातीतं रूपं प्राकृतेन्द्रनीलमण्यादिभिः सदृशीकर्तुमुचितमिति भावः । नन्वप्राकृतपदार्थैरेव मद्रूपमुपमीयतां तत्राहुः । गुणानां यो व्यतिकरः प्रपञ्चः तस्मिन् एवं मतिर्यस्य सः प्राकृतजीवलोकस्याप्राकृत- पदार्थेषु बुद्धिप्रवेशासम्भवादिति भावः । अतस्तव भक्तवात्सल्यगुणानां केनाप्यंशेन कीर्तनमात्रं कर्तुमर्हतीत्याहुः सकलेति । भक्तवात्सल्यमेवाहुः ।। ५ ।। * * परिजनैर्भक्तजनैरनुरागेण विरचिता शवलसंशब्दा गद्दाक्षरस्तुतयश्च सलिलादयश्च तैरपि सम्पादितया शिलेति पाठे शिलं मञ्जरी, हे परम ॥ ६ ॥ * अस्माकन्तु भक्तिर्नास्तीत्यतः कथं ते परितोषो भविष्य- तीत्याहुः । इज्यया यागेन उरुभारभरया अनेकाङ्गसमृद्धयापि भवतः समुचितमपेक्षितं प्रयोजनं नोपलभामहे ॥ ७ ॥ * * तत्र हेतुः आत्मनः स्वत एवानुषवणं प्रतिक्षणमेव अञ्जसा साक्षादेव अव्यतिरेकेण व्यतिरेकं विच्छेदं विनैव बोभूयमाना अतिशयेन भवन्तो येऽशेषाः फलभूता आनन्दास्ते स्वरूपं यस्य न चैवं सत्यपि यागानर्थक्यमित्याहुः किन्त्विति । सकामानामस्माकमेतदेव संराधनमात्रमिति अस्मत्कर्तृकमेव न तु वस्तुतो भवत्कर्म्म कमित्यर्थः ॥ ८ ।। * श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः आनो पुत्रस्य नाभेः यज्ञपुरुषाराधनरूपं कर्म भगवद्रूपं पुरुषं च दर्शयति तृतीयेन नाभिरिति ॥ १ ॥ * * तस्य नाभेः विशुद्धेन भक्तिभावितेन भावेनान्तःकरणेन यजतः सतः प्रवर्ग्याख्येषु कर्मसु प्रचरत्सु क्रियमाणेषु द्रव्याद्युपपत्त्या- दुरधिगमोऽपि दुष्प्रापोऽपि भगवान् भागवतवत्सलतया स्वानन्यजनहितकारित्वेन निजजनाभिमतार्थविधित्सया गृहीतहृदय आकृष्टचित्तः सुप्रतीकः शोभनावयवः सन् अपराजितमभक्तैर्बहुभिः साधनबलैर्द्रष्टुमनमपि मनोनयनान्यानन्दयन्ति ये अवयवास्तै- रभिरामं सुन्दरं हृदयङ्गममात्मानमाविश्चकार ॥ २ ॥ * * अथेति मङ्गलं हेति हर्षे । आविष्कृतं भुजानां युगलं येन हिरण्म- यमप्राकृतज्योतिर्मयं पुरुषेषु विशिष्यते इति पुरुषविशेषस्तं पुरुषोत्तमं कपिशकौशेयाम्बरधरं कपिशं पीत कौशेयार बरं बिभ्राण- मुरसि विलसत् श्रीवत्स एव ललामं चिह्न यस्य तं दरवरः शङ्खः वनरुह पद्ममच्छूरि चक्रम् अमृतमणिः कौस्तुभः एवमादिभि- रुपलक्षितम्, स्फुटकिरणा ये प्रवराः श्रेष्ठाः मणयस्तन्मयानि यानि मुकुटादीन्यङ्गभूषणानि तैर्विभूषितमधना उत्तमधनं चिन्तामणि- मित्र उपलभ्य निकटं प्राप्य ऋत्विगादयः अर्हणेन अध्र्येण सह बहुमानं यथा तथावनतशीर्षाणः कृतप्रणामाः उपतस्थुः तुष्टुवुः ।। ३ ।। * हे अर्हत्तम ! अनुपथानामनुवर्त्तिनाम् अर्हणमध्ये मुहुः अर्हसि स्वीकर्तुं योग्योऽसि । तव स्वरूप- गुणादीनां दुर्ज्ञेयत्वात्सद्भिर्नमो नम इत्येतावदेवोपशिक्षितं तदेवोपपादयन्ति कोऽर्हतीति । प्रकृतिगुणानां व्यतिकरः संसार- स्तस्मिन् मतिर्यस्य सः अर्वाक्तनाभिः प्रकृतिगुणकार्य भूताभिः नामरूपाकृतिभिरुपलक्षितः अत एव अनीशः प्रकृतिपुरुषयोः माया- जीवयोः परस्य तव स्वरूपनिरूपणं कर्तुं कोऽर्हति न कोऽपीत्यर्थः । रूपस्येयत्ताशून्यत्वात् तर्हि गुणा एव वर्णनीया अत आहुः । सकलानां देवमनुष्यादीनां जनानां निकायस्य समुदायस्य वृजिनानि पापानि निरस्यन्तीति तथा ते शिवतमाः मङ्गलतमाः प्रवराः श्रेष्ठाश्च ये गुणगणास्तेषामेकदेशः लेशमात्रं तस्य कथनादृते तव स्वरूपनिरूपणं च कर्तुं कोऽपि नार्हतीति यावत् ।। ४-५ ।। * एवमनन्तस्वरूपगुणस्त्वं स्वरूपतो गुणतश्च ज्ञातुमशक्योऽपि परिजनैर्भक्तः अनुरागेण विरचिताः शबलसंशब्दाः गद्दाक्षराः सम्यक् शब्दाः त्वत्पराणि वाक्यानि सलिलानि च सिताः शुद्धाः किसलयाः पल्लवाश्च एवमादिभिः संभृतया संपादितया संपर्थ्यया पूजया परितुष्यसि भक्तहितार्थं पूजां गृह्णासि । स्वप्रयोजनार्थी तु तादृशपूजया कोधादिकं कुर्यादिति भावः । “पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥” इति श्रीमुखवचनमन्त्रानुसन्धेयम् ॥ ६ ॥ प्रकारान्तरे उक्तप्रकारादन्यप्रकारे प्रयोजनार्थं पूजा ग्रहणपक्षे तु भवतः आत्मनः स्वत एव अनुसवनं सर्वदा अञ्जसा साक्षादेव तत्रापि व्यतिरेकेण असाङ्कय्र्येण बोभूयमानाः अतिशयेन भवन्तो ये अशेषाः पुरुषार्थास्तेषां स्वरूपस्य कारणस्य अनया इज्यया उरुभारभरया अनेकाङ्गसमृद्धयापि समुचितमपेक्षितमर्थं प्रयोजनं नैव पश्यामः ॥ ७ ॥ * * किन्तु आशिषः पुरुषार्थान् आशासानानामभीप्सताम् एतत्कर्म अभिसंराधनमात्रमभितः सम्यक् त्वदाराधनमात्रं सर्वपुरुषार्थदातुस्तवानुग्रहे निमित्तमात्रं भवितुमर्हति न तव प्रयोजनार्थमित्यर्थः ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी आनीपुत्रनाभेस्तु तृतीये यश उच्यते । यस्य हरिः प्रसन्नः सन् पुत्रत्वं समगात्स्वयम् ॥ १ ॥ अथेति एवमानस्य श्रीप्राप्तिं निरूप्येदानीं नाभेर्यशो निरूपयंस्तच्चरितमाह - नाभिरिति । नाभिरपत्यकामः अप्रजया अपत्य- रहितया मेरुदेव्या स्वभार्यया सह अवहितात्मा सावधानचित्तो भगवन्तं यज्ञपुरुषं यज्ञाधिष्ठातारं अयजदित्यन्वयः ॥ १ ॥ * * ६८ * श्रीमद्भागवतम् [ स्कं. ५ अ. ३ श्लो. १-८ तस्य वाव नाभेरेव श्रद्धया सर्वमपि दुर्लभं फलं भगवतो भवतीति विश्वासेन विशुद्धभावेन सर्वोत्तमो भगवानेव सेव्य इत्यभिप्रायेण यजतो यागं कुर्वतः प्रवर्येषु प्रचरत्सु प्रवर्ग्यसंज्ञेषु कर्मसु क्रियमाणेषु द्रव्यादयो ये सप्त योगा अङ्गानि तेषामुपपत्त्या सम्पत्त्या दुरधिगमो दुष्प्रापोऽपि भगवान् सुप्रतीकः शोभनमूर्त्तिः सन् हृदयङ्गमं परमानन्दजनकत्वेन मनोहरं आत्मानमाविश्वकारेत्यन्वयः । हृदयङ्गमत्वे हेतुत्वेनोक्तं सुप्रतीकत्वमेव विवृणोति – मन इति, मनो नयनानि चानन्दयन्ति येऽवयवास्तैः अभिराममतिसुन्दर- मित्यर्थः । दुरधिगमत्वे हेतुमाह- अपराजितमिति, अपरतन्त्रमपीत्यर्थः । ननु तर्हि द्रव्याद्यङ्गसम्पत्त्येति कथं हेतुरुक्त इत्याशङ्कय न केवलं तावन्मात्रं हेतुः किन्तु भक्तभजनेन तत्र कृपापरवशत्वमेव मुख्यं हेत्वन्तरमित्याह– भागवतेषु वात्सल्यतया कृपालुतया निजजनानां भक्तानामभिप्रेता अर्थाः फलानि तेषां विधित्सया गृहीतं वशीकृतं हृदयं चित्तं यस्य सः । न हि स्वेच्छयाऽऽविर्भवतः पारतन्त्र्यं भवतीति भावः ॥ २ ॥ अथ ह भगवदाविर्भावानन्तरमेव अवनतानि शीर्षाणि येषां त ऋत्विगादयो बहुमानं यथा भवति तथाऽर्हणेन अध्र्येण सह तमुपतस्थुः तुष्टुवुरित्यन्वयः । गृहपतिर्यजमानो नाभिः । न केवलं स्वरूपावयवैरेव हृदयङ्गमत्वं किन्त्वायुधभूषणादिभिरपीत्यभिप्रेत्य भगवन्तं विशिनष्टि । आविष्कृतं भुजानां युगलद्वयं चतुष्टयं येन तम् । हिरण्मयं तेजोमयत्वेन प्रकाशमानं पुरुषेषु विशिष्यते इति पुरुषविशेषं पुरुषोत्तमम् । कपिशे पीते कौशेये कीटकोशजनितसूत्रनिर्मिते अम्बरे धारयतीति तथा तम् । उरसि विलसन् श्रीवत्सः रोमावर्त्तविशेष एव ललामं चिह्नं यस्य तम् । दरबरः शङ्खश्रेष्ठः, वनरुहं कमलं, वनमाला विचित्र पुष्पप्रथिता माला, अच्छूरि चक्रं अमृतमणिः सर्वजीवतत्त्वत्वात्कौस्तुभः, गदा कौमोदकी, शङ्खादिभिरुपलक्षितं युक्तम् । तथा स्फुटकिरणा ये प्रवराः श्रेष्ठा मणयः तन्मयानि यानि मुकुटादीन्यङ्गानां भूषणानि तैर्विभूषितम् । बहुमाने दृष्टान्तमाह - अधना इति । निर्धनाः पुरुषा उत्तमधनं निधिं प्राप्य यथा तस्य बहुमानं कुर्वन्ति तथेत्यर्थः ॥ ३ ॥ * * स्तुतिमेव दर्शयति- अर्हसीत्यादिना । हे अर्हत्तम यद्यप्यलं परिपूर्णस्त्वं न तव काचिदपेक्षा तथाऽप्यस्माकमर्हणं पूजां मुहुः स्वीकर्तुमर्हसीत्यन्वयः । अवश्याङ्गीकारे हेतुमाह–अनुपथानामिति, त्वदाज्ञानुसारिणां पूजां त्वं नाङ्गीकरिष्यसि चेत्तर्हि तेषां किं फलं स्यादित्यर्थः । वयं तु त्वयि न किञ्चित्कर्तुं समर्थास्त्वत्कृपां विनेत्याशयेनाहुः । नमो नम इत्येतावदेव भगवते कर्त्तव्यं नाधिकमित्यस्माकं सद्भिरुपशिक्षितमिति ॥ ४ ॥ * * अन्यथा प्रकृतिपुरुषयोरपि परस्य कारणस्य अत एवेश्वरस्य सर्वनियन्तु स्तव ये सकलजननिकायस्य वृजिनानि पापानि निरस्यन्तीति तथाभूताः शिवतमा मङ्गल्लकारिण एव प्रवराः सकलसाधन श्रेष्ठा गुणगणास्तेषां एकदेशस्तस्य कथनादृते ततोऽधिकमर्वाक्तनाभिस्तव स्वरूपमस्पृशन्तीभिः नाम च रूपं च आकृतिराकारश्च ताभिस्तव रूपनिरूपणं कर्तुं कः पुमानर्हतीत्यन्वयः । यद्वाऽर्वाक्तनाभिः कार्यभूताभिरुपलक्षितः कः पुमानित्यन्वयः ! नाम देवादि । रूपं श्यामादि । तत्र हेतुमाह प्रकृतीति । प्रकृतिगुणै रजस्तमआदिभिः व्यतिकरा विक्षिप्ता मतिर्यस्य अत एवानीशः गुणाधीनत्वे- नासमर्थः सकलजनेत्यादिविशेषणेन गुणानामनन्तत्वेऽपि यथामति कथनमावश्यकमिति सूचितम् ॥५॥ * * हे परमेति सम्बोधयन् स्वत एव पूर्णत्वं सूचयत्ति—एवं दुर्निरूपः स्वतः पूर्णोऽपि त्वं परिजनैः सेवकजनैरनुरागेण विरचिता ये शबलसंशब्दाः प्रेम्णा स्खलिताक्षरस्तुतयः सलिलं च सितकिसलयाः कोमलपल्लवाञ्च तुलसिश्च दूर्वा च अङ्कुरा यवाङ्कुराश्च तैः सम्भूतया सम्पादितया सपर्यया पूजया परितुष्यसि । ‘पत्रं पुष्पं फलं तोयं’ इत्यादिशास्त्रप्रसिद्धं सूचयति - किलेति ॥ ६ ॥ * * अथ अन्यथा न त्वनयाऽस्मत्सम्पादितया उरुभारभरया अनेकसाधनसम्पन्नयाऽपीज्यया यागेन भवतः समुचितमपेक्षितमर्थं प्रयोजनमिह यागेनोपलभामहे नैव पश्याम इत्यन्वयः । अनपेक्षायां हेतुमाह आत्मन इति । स्वत एवानुसवनं निरन्तरमञ्जसा साक्षात् बोभूयमाना अतिशयेन भवन्तो ये अशेषाः सर्वे पुरुषार्थास्ते स्वरूपं यस्य परमानन्दस्वरूपस्य तस्येत्यर्थः ॥ ७ ॥ * * ननु यदि परमानन्दस्वरूपत्वेन मम न किश्चिदपेक्षितमस्ति तदा किमर्थमेवं मत्पूजादिकमित्याशङ्कय समादधति–किन्त्विति । यद्यपि पूजादिना भगवत उपकाराभावात्तदपेक्षा नास्ति तथापि हे नाथ स्वामिन् आशिषो भोगान् आशासानानां कामयमानानां अस्माक- तत्पूजादिकं भवदभिसंराधनमात्रं भवितुमर्हति । भवत्सन्तोषद्वारा अस्मन्मनोरथ पूर्त्तये भवत्येवातो न व्यर्थमित्यर्थः ॥ ८ ॥ ।। । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी परमं मङ्गलं नाभेस्तृतीये चरितं शुभम् । यज्ञे प्रतीतो यस्याभूद्धरिः पुत्र इतीरितम् ॥ १ ॥ नाभिरिति । अपत्यकामः संतानार्थी, नाभिर्ज्येष्ठ, आनीधपुत्रः, अप्रजया अविद्यमानसंतानया, मेरुदेव्या भार्यया सह, अवहितात्मा समाहितचित्तः सन् भगवन्तं स्वीयदिव्यैश्वर्यसंपन्नं, यज्ञपुरुषं यज्ञाराध्यपरमपुरुषं, अयजद्यज्ञेराराधितवा- नित्यर्थः ॥ १ ॥ * * तस्येति । ह वेति निपातद्वयं वाक्यालंकारे । श्रद्धया कर्त्तव्यविषयत्वरया, विशुद्धभावेन विशुद्धान्तःकरणेन च, तस्य नाभेः यजतः सतः, प्रवर्येषु प्रवर्ग्यसंज्ञकेषु यागेषु प्रचरत्सु प्रवर्त्तमानेषु सत्सु द्रव्यं हविश्व देशः ‘समे यजेत’ इत्यादिना विहितो विषयश्च कालो वसन्तादिरूपश्च मन्त्रास्तत्र तत्रोचिता मनवश्च ऋत्विजोऽध्वर्युप्रभृतयो याजकाश्च दक्षिणा द्विजानां दक्षतासंपादकदक्षिणादानं च, विधानं विधिरनुष्ठानप्रकारश्च तेषां सप्तानां योगा उपायास्तेषामुपपत्ति: संपत्तिस्तया, भागवतेषु वात्सल्यं यस्य तस्य भावस्तत्ता तया, निजजनानां भक्तजनानां याऽभिप्रेतार्थविधित्सा अभिमतार्थनिष्पादनेच्छा तया च, गृहीतमाकृष्टं हृदयं चित्तं यस्य, भगवान दुरधिगमो दुष्प्रापः सनपि, सुप्रतीकः शोभनावयवः सन्नेव, मनश्च नयनानि चस्क. ५ अ. ३ श्लो. १-८1 अनेकव्याख्यासमलङ्कृतम् आनन्दयन्तीति तथाभूता येऽवयवास्तैरभिराममतिसुन्दरं, अत एव हृदयंगमं प्रेक्षक चित्तापहारकं, अपराजितमकर्मवश्यं आत्मानं दिव्यविग्रहं, आविश्वकार प्रकटीचकार ॥ २ ॥ * * अथेति । अथानन्तरं हेति वाक्यालंकाराय । आविष्कृतं भुजानां । युगलद्वयं चतुष्टयं येन तं हिरण्मयं बहुप्रकाशं, पुरुषेषु विशिष्यते पुरुषविशेषः पुरुषोत्तमस्तं, कपिशं पिशङ्गवर्णं कौशेयं कृमिकोशभवं यदम्बरं तस्य धरो धर्त्ता तं, उरसि वक्षसि विलसच्छोभमानं श्रीवत्सो दक्षिणस्तनान्तिकवर्त्तिरोमावतं एव ललामं चिह्नं यस्य स तं, दरवरः शङ्खश्च वनरुहं पद्म च वनमाला वनभवपुष्पस्रजश्च अच्छूरि चक्रं च अमृतमणिः कौस्तुभच गदा कौमोदकी च आदिर्येषां शार्ङ्गवरादीनां तैः, उपलक्षितम् । स्फुटाः किरणा येषां ते ये प्रवस मणयश्च तन्मयानि यानि मुक्कुटश्च कुण्डले च कटकानि कटिसूत्रं च हाराः स्वर्णमुक्तास्रजश्च केयूरे स्वर्णाङ्गदे च नूपुरौ मञ्जीरे च तदादीन्यङ्गभूषणानि तैर्विभूषितस्तं, भगवन्तं उपलभ्य निरीक्ष्य, ऋत्विजो याजकाच सदस्याः सभ्याश्च गृहपतिर्नाभिनृपश्च ते, अधना निर्धनाः उत्तमधनं निधि, उपलभ्य इव यथा, तत्प्राप्य बहु मानयन्तीत्यर्थः । तथा सबहुमानं यथा भवति तथा अर्हणेन अर्ध्यादिपूजोपहारेण, सह अवनतशीर्षाणः नम्रशिरसः, कृतप्रणामाः सन्त इत्यर्थः । उपतस्थुः समीपमेत्य स्तुतवन्तः । धातूनामनेकार्थत्वात्तिष्ठतिधातुरत्र स्तुत्यर्थो बोध्यः । मन्नकरणत्वाभावात् ‘उपान्मन्त्रकरणे’ इत्यात्मनेपदं न ॥ ३ ॥ स्तुतिमेवाह अईसीत्यादिना परममङ्गलायनगुणगण- कथनोऽसीत्यन्तैन निगदेन । त्वदीयार्हणग्रहणोत्सुकतया सर्वैरपूर्णवदेव ज्ञायमानं मां कथं परिपूर्णवत् ज्ञात्वा स्तुवीथेति शङ्काम- पनुदन्त आहुः । अर्हसीति । हे अहंत्तम, परिपूर्णोऽपि त्वमिति शेषः । अनुपथानां भृत्यानां अस्माकं, अर्हणं मुहुः ग्रहीतुमिति शेषः । पुनः पुनः स्वयमेव स्वीकर्तुमिति तदर्थः । अर्हसि । परिपूर्णस्य तव नास्मदर्हणग्रहणेनापरिपूर्णता स्यादिति भावः । किं च न वयं कार्त्स्न्येन भवदीयगुणकथने प्रभवामः, किं त्वेकदेशकथन एवेति वदन्तः स्तुवन्ति नमो नम इत्यारभ्य ऋते इत्यन्तेन । नमो नम इत्येतावदेव, अस्माकं सदुपशिक्षितं सद्भिरुपशिक्षितं त्वत्स्वरूपस्वभावयोरानन्त्यात्कात्स्न्येन तत्कथनायोगात्केवलं नमो नम इत्येव कथनीयमिति सद्भिरुपशिक्षिता वयमित्यर्थः ॥ ४ ॥ * * एतदेवाहुः कोऽर्हतीति । प्रकृतेर्मायायाः गुणाः सत्त्वादयस्तेषां व्यतिकरः शब्दादिरूपः परिणामस्तद्विषया मतिर्यस्य सः, अत एव अनीशः कर्मपरवशः अस्मादृशो जनः, प्रकृति- पुरुषयोः प्रकृतिपुरुषाभ्यामित्यर्थः । परस्य विलक्षणस्य, ईश्वरस्य तव अर्वाक्तनाभिस्त्वामस्पृशन्तीभिः, नाम देवमनुष्यादिनामधेयं च रूपं संस्थानं च आकृतिस्तद्वयङ्गया जातिराकारो वा ताभिः स्वरूपनिरूपणं, स्वरूपशब्दः स्वभावादेरप्युपलक्षणम् । कर्तुं कः पुमान् अर्हति । स ह्येतावन्मात्रमेवार्हति नाधिकमित्याह । सकलाश्च ते जनाश्च तेषां निकायः समूहस्तस्य वृजिनं वृजिनं पापं निरस्यन्तीति तथाभूताः शिवतमा निरवधिकातिशयसुखकराः प्रवराः सर्वोत्तमा ये गुणगणास्तेषां य एकदेशस्तस्य कथनं तस्मात्, ऋते विना, अधिकं नार्हतीत्यर्थः । गुणगणलवकथनमात्रमेवार्हति न तु याथातथ्येन त्वत्स्वरूपादिनिरूपणं स्वरूपस्वभावादीनामानन्त्यादिति भावः ॥ ५ ॥ * * यद्यपि समस्त पुरुषार्थरूपस्य नित्यतुष्टस्य तव नानेन यागेनार्थस्तथापि ‘पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति’ इति भक्तिपूर्वकाराधनस्य किंचिन्मात्रस्यापि त्वत्प्रीतिकरत्वं त्वयैव गीतमस्तीदं यजनं दीप इव किंचिदाराधन- मात्रमित्याहुः परिजनेत्यादिनार्हतीत्यन्तेन । परिजनैर नुरागेण विरचिताः शबलसंशब्दा गद्दाक्षराः स्तुतयश्च सलिलं विशुद्धजलं च शिलं व्रीह्मादिमञ्जरीखण्डइच किसलयाः शुद्धपलवाश्च ‘सितकिसलया’ इति पाठे श्वेता यवाधङ्कराच तुलस्यो वृन्दामञ्जर्यश्च दुर्वाडुराश्च तैरेवमादिभिरपि संभृतया संपादितया, सपर्यया पूजया, हे परम परितुष्यसि किल ॥ ६ ॥ * * अनया तस्मादन्योऽर्थो नेत्याहुः । अथेति । अथेति प्रकारान्तरे । अन्यथा तु उद्यमारभरया अनेकाङ्गसमृद्धयापि, अनया इज्यया, आत्मनः स्वत एव अनुसवनं सर्वदा, अञ्जसा साक्षात् अव्यतिरेकेणा विच्छिन्नतया, बोभूयमाना अतिशयेन भवन्तः येऽशेषाः पुरुषार्थास्ते स्वरूपं यस्य तस्य भगवतस्तव समुचितं संमतमपेक्षितमिति यावत् । अर्थ प्रयोजनं इह लोके, न उपलभामहे नैव पश्यामः । न चैवं सत्यपि यागानर्थक्यमित्यत्राहुः । किं तु तथापि, तव नानयेष्टचाऽर्थोऽस्ति तथापीत्यर्थः । हे नाथ आशिषः पुरुषार्थान्, आशासानानामभीप्सतामस्माकं एतद्यजनं, अभिसंराधनमात्रं केवलत्वदनुग्रहलक्षणार्थसिद्धिसंसाधनरूपं भवितुं अर्हति । सकामानामस्माकमेवैतदुपपद्यते न तवेत्यर्थः ॥ ७ ॥ एतदेव स्पष्टयन्त आहुः । तद्यथेति । परैर्योगिभिर्मीयते सर्वदा चिन्त्यते इति परमस्तत्संबुद्धिः । परमः सर्वोत्तमश्चासौ पुरुषश्च परमपुरुषस्तत्संबुद्धिः । तत्तदा आराधनसमये एवेत्यर्थः । नापचितः अनुरूपमनाराधित एव, प्रकर्षकरुणया प्रकृष्टदयया, स्वमहिमानं स्वमहिमरूपं अपवर्गाख्यं आविर्भूतगुणाष्टक संपत्तिसंज्ञ मोक्षमित्यर्थः । चकारादन्यदप्यस्य समीहितं चापि, उपकल्पयिष्यन्निवर्त्तयिष्यन्, स्वयं त्वं, इतरवत् परिपूर्णोप्यपरिपूर्ण इव, आत्मनः स्वस्य, परमुत्कृष्टं श्रेयः पुरुषार्थं स्वयं अविदुषां अत एव बालिशानां, बालिशैरस्माभिरित्यर्थः । इह यागे, यथा यथावदेव, उपलक्षितः दृष्टः असि ॥ ८ ॥ । ४ भाषानुवादः राजा नाभिका चरित्र श्रीशुकदेवजी कहते हैं- राजन् ! आग्नीधके पुत्र नाभिके कोई सन्तान न थी, इसलिये उन्होंने अपनी भार्या मेरुदेवी के सहित पुत्रकी कामनासे एकाग्रतापूर्वक भगवान् यज्ञपुरुषका यजन किया ॥ १ ॥ यद्यपि सुन्दर अङ्गोंवाले श्रीभगवान् $: ।
श्रीमद्भागवतम् [ स्कं. ५अ. ३ श्लो. ९-१५ द्रव्य, देश, काल, मन्त्र, ऋत्विज, दक्षिणा और विधि—इन यज्ञ के साधनों से सहज में नहीं मिलते, तथापि वे भक्तोंपर तो कृपा करते ही हैं। इसलिये जब महाराज नाभिने श्रद्धापूर्वक विशुद्ध भावसे उनकी आराधना की, तब उनका चित्त अपने भक्तका अभीष्ट कार्य करनेके लिये उत्सुक हो गया। यद्यपि उनका स्वरूप सर्वथा स्वतन्त्र है, तथापि उन्होंने प्रवर्ग्यकर्मका, अनुष्ठान होते समय उसे मन और नयनोंको आनन्द देनेवाले अवयवोंसे युक्त अति सुन्दर हृदयाकर्षक मूर्ति में प्रकट किया ॥ २ ॥ * * उनके श्रीअङ्गमें रेशमी पीताम्बर था, वक्षःस्थलपर सुमनोहर श्रीवत्सचिह्न सुशोभित था; भुजाओंमें शङ्ख, चक्र, गदा, पद्म तथा गले में वनमाला और कौस्तुभमणिकी शोभा थी । सम्पूर्ण शरीर अङ्ग प्रत्यङ्गकी कान्तिको बढ़ानेवाले किरणजालमण्डित मणिमय मुकुट, कुण्डल, कङ्कण, करधनी, हार, बाजूवन्द और नूपुर आदि आभूषणोंसे विभूषित था । ऐसे परम तेजस्वी चतुर्भुजमूर्ति • पुरुषविशेषको प्रकट हुआ देख ऋत्विज, सदस्य और यजमान आदि सभी लोग ऐसे आह्लादित हुए जैसे निर्धन पुरुष अपार धनराशि पाकर फूला नहीं समाता । फिर सभीने सिर झुकाकर अत्यन्त आदरपूर्वक प्रभुकी अर्घ्यद्वारा पूजा की और ऋत्विजोंने उनकी स्तुति की ॥ ३ ॥ * * ऋत्विजोंने पूज्यतम ! हम आपके अनुगत भक्त हैं, आप हमारे पुनः पुनः पूजनीय ! हम् हैं । किन्तु हम आपकी पूजा करना क्या जानें ? हम तो बार-बार आपको नमस्कार करते हैं- इतना ही हमें महापुरुषोंने सिखाया है । आप प्रकृति और पुरुषसे भी परे हैं। फिर प्राकृत गुणों के कार्यभूत इस प्रपश्र्चमें बुद्धि फँस जानेसे आपके गुण-गान में सर्वथा समर्थ ऐसा कौन पुरुष है जो प्राकृत नाम, रूप एवं आकृतिके द्वारा आपके स्वरूपका निरूपण कर सके ? आप साक्षात् परमेश्वर हैं ॥ ४ ॥ * * आपके परम मङ्गलमय गुण सम्पूर्ण जनताके दुःखोंका नाश करनेवाले हैं। यदि कोई उन्हें वर्णन करनेका साहस भी करेगा, तो केवल उनके एकदेशका ही वर्णन कर सकेगा ॥ ५ ॥ * * किन्तु प्रभो ! यदि आपके भक्त प्रेम- गुद्रद वाणीसे स्तुति करते हुए सामान्य जल, विशुद्ध पल्लव, तुलसी और दूबके अङ्कुर आदि सामग्रीसे ही आपकी पूजा करते तो भी आप सब प्रकार सन्तुष्ट हो जाते हैं ॥ ६ ॥ * * हमें तो अनुरागके सिवा इस द्रव्य-कालादि अनेक अङ्गोवाले यज्ञसे भी आपका कोई प्रयोजन नहीं दिखलायी देता ।। ७ कि आपसे स्वतः ही क्षण-क्षणमें जो सम्पूर्ण ॥ * * पुरुषार्थीका फल-स्वरूप परमानन्द स्वभावतः ही निरन्तर प्रादुर्भूत होता रहता है, आप साक्षात् उसके स्वरूप ही हैं। इस प्रकार यद्यपि आपको इन यज्ञादिसे कोई प्रयोजन नहीं है, तथापि अनेक प्रकारकी कामनाओंकी सिद्धि चाहनेवाले हमलोगों के लिये तो मनोरथसिद्धिका पर्याप्त साधन यह होना चाहिये ॥ ८ ॥ ।। तद्यथा बालिशानां स्वयमात्मनः श्रेयः परमविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं चापवर्गाख्यमुप- कल्पयिष्यन् स्वयं नापचित एवेतरवदिहोपलक्षितः ॥९॥ अथायमेव वरो ह्यर्हत्तम यहिं बर्हिषि राजर्षेर्वरदर्षभो भवान्निज- पुरुषेक्षणविषय आसीत् ।। १० । असङ्गनिशितज्ञानानलविधृताशेष मलानां भवत्स्वभावानामात्मारामाणां मुनीनामनव- रतपरि गुणित गुणगणपरममङ्गलायन गुणगणकथनोऽसि || ११ || अथ कथञ्चित्स्खलन क्षुत्प तनजृम्भणदुरवस्थानादिषु विव- शानां नः स्मरणाय ज्वर मरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ।। १२ ॥ किश्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् ।। १३ ।। को वा इह तेऽपराजितोऽपराजितया माययानवसितपदव्यानावृतमतिर्विषय- विषरयाना वृतप्रकृतिरनुपासितमहच्चरणः || १४ || यदु ह वाव तव पुनरदकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवासि साम्येन सर्वान् " प्रतिवोढुमविदुषाम् ।। १५ ।। ક अन्वयः – तत् यथा परमपरमपुरुष आत्मनः लयम् च परम् श्रेयः अविदुषाम् बालिशानाम् प्रकर्षकरुणया अपवर्गाख्यम् स्वमहिमानम् उपकल्पयिष्यन् स्वयम् एव नापचितः इतरवत् इह उपलक्षितः ॥ ९ ॥
-
- अथ हि अर्हत्तम यहि वरदर्षभः भवान् राजर्षे बर्हिषि निजपुरुषेक्षणविषयः आसीत् हि अयम् एव वरः ॥ १० ॥ ॥ १० ॥ * * अनवरतपरिगुणितगुणगणकथनः असंगनिशि तज्ञानानलविधूताशेषमलानाम् भवत्स्वभावानाम् आत्मारामाणाम् मुनीनाम् परममंगलाय नगुणगणकथनः असि ॥ ११ ॥ अथ सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि कथंचित् स्खलनक्षुत्पतनज भणदुरवस्थानादिषु ज्वरमरणदशायाम् अपि विवशानाम् नः स्मरणाय वचनगोचराणि भवंतु ॥ १२ ॥ * * किंच अयम् प्रजायाम् अर्थप्रत्ययः
१. २. ३. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - ६. प्रा० पा० — ७. प्रा० पा० - ८. प्रा० पा० - ९. प्रा० पा० - १०. प्रा० पा० - स्क. १ अ. ३ श्लो.. ९-१५ ] अनेकव्याख्यासमलङ्कृतम् ७१ अपत्यकामः भवादृशीम् प्रजाम् आशासानः राजर्षिः आशिषाम् स्वर्गापवर्गयोः अपि ईश्वरम् भवंतम् फलीकरणम् अधनः धनदम् इव उपधावति ।। १३ ।। * * इह अनुपासितमहच्चरणः कः वा ते अनवसितपदव्या अपराजितया मायया अपराजितः अनावृतमतिः विषयविषरयानावृतप्रकृतिः ॥ १४ ॥ * * यत् उह वाव अदभ्रकर्तः देवदेव इह पुनः समाहूतः तत्र अर्थधियाम् मंदानाम् अविदुषाम् नः यत् देवहेलनम् तत् सर्वान् तव साम्येन प्रतिवोढुम् अर्हसि ।। १५ ।। ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका * स्वोपयोगमेव प्रदर्शयति तद्यथेति । परमेभ्योऽपि हे परमपुरुष प्रकर्षयुक्तया करुणया । उपकल्पयिष्यन्संपादयिष्यन् चकारात्कामितं च । नापचितोऽपूजित एव पूजाऽनपेक्षत्वात्स्वयमेवोपलक्षितो दृष्टोऽसि इतरवत्सापेक्षवत् ॥ ९ ॥ * * यद्यपि त्वं वरान्दातुमाविर्भूतोऽसि । तथापि हे अर्हत्तम राजर्षेर्बर्हिषि यज्ञे निजपुरुषाणां त्वद्भक्तानामस्माकमीक्षणविषयो भवान् यर्हि यदा आसीत्तदा ह्ययमेव वरः संजातः ॥ १० ॥ * * दर्शनस्य दुर्लभतामाहुः । असंगेन वैराग्येण निशितं यज्ज्ञानं स एवानलस्तेन विषूता अशेषा मला येषाम् अतो भवत इव स्वभावो येषाम् । तानेवाहुः । आत्मारामाणामेवंभूतानां मुनीनामपि परममंगलायनं गुणगणकथनमेव न तु दर्शनं यस्य अतस्तैरनवरतं परिगुणिता अभ्यस्ता गुणगणा यस्येति संबोधनम् ॥ ११ ॥ * * दर्शनेनैव कृतार्था अपि वरमेकं प्रार्थयते अथेति । स्मरणाय विवशानां त्वां स्मर्तुमशक्तानां नः ॥ १२ ॥ * अन्यच्च प्रार्थनीयमस्ती- त्याहुः किं चेति । आशिषामैहिकानां स्वर्गापवर्गयोरपीश्वरं त्वामुपधावति । प्रजायामेव पुरुषार्थ इति प्रत्ययो यस्य । अधनो यथा फलीकरणं तुषकणादिकमाशासानो धनदमुपधावति ।। १३ ।। * * इदं च नातिचित्रमित्याहुः । इह संसारे तेऽपराजितया माययाऽनवसितपदव्याऽलक्षितमार्गयाऽपराजितः को वै न कोऽपि । अतस्तयाऽनावृतमतिः कः । अत एव विषय एव विषं तस्य रया वेगास्तैरनावृता प्रकृतिर्यस्य । स कः यश्चानुपासितमहञ्चरणः । अतस्त्वन्मायया मोहितस्यैवमाशंसा घटत इत्यर्थः ॥ १४ ॥ * * अभ्रकर्तः हे बहुकार्यकारिन् अल्पीयसे कार्याय त्वं यद्यस्मादिह समाहूतोऽसि तत्र प्रजायामर्थे धीर्येषां मंदानां तेषां नो यदेवहेलन- मवज्ञानं तत्सर्वान्प्रति तव साम्येन हेतुना प्रतिवोदु सोढुमर्हसि ।। १५ ।। श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः ननु तर्हि कथं संतुष्टोऽहं युष्मत्प्रत्यक्षीभूतोस्मोति तत्राहुः- तत्तस्माद्यथा बालिशानामज्ञानामपि समीपमनाहूतोप्यपूजितोपि विज्ञः कृपावशात्तानुद्धर्तुमायाति तथैव त्वं परमेभ्योपि विज्ञेभ्योऽपि परमः प्रकृष्टः पुरुषः प्रकर्षयुक्तया निरुपाधिकया करुणया स्वमहिमानं स्वमहैश्वर्यं तदनुभवमित्यर्थः । अपवर्ग इत्याख्या यस्य तं चकारात्कामितं वस्तु चोपकल्पयिष्यन्दास्यन्स्वयं नापचित एवास्मद्भक्त्यभावादपूजित एवेतरवद्यज्ञ कौतुकदर्शीतरजन इव ॥ ९ ॥ * * यथा तथा भवतु तथापि यूयं वरं वृणुथेति चेत्तत्राहु:- अथायमिति । निजपुरुषाणां भक्तानामीक्षणविषयोपि राजर्षेर्यज्ञेष्वाविरभूदयमेव वर इति । हे अर्हत्तमेति । अहो महन्त्वमिति भावः ।। १० ।। * * सर्वैरतिदुर्लभात्त्वद्दर्शनादप्यधिको वरो वरणीय इति मूढानामेव मतं न तु विज्ञानामित्याहुः । यद्वा- विधुताशेषसकामत्वमलानां भवत्वेव स्वीयो भावो येषामत एवात्मनि त्वय्येव रममाणानाम् । अतो दर्शनाभावात्तै- मुनिभिः ॥ ११ ॥ * * अस्माकं त्वस्थिरमनसामेतावत्त्वं भवत्वित्याहुः । अथेति । दर्शनानन्तरम् । स्खलनमकस्मात्पत्तनम् । क्षुतं छिका । पतनमुच्च स्थलादधः पातः । जु भणमालस्येन गात्रस्फोटनपूर्वकं मुखप्रसारणम् । दुःखस्थानानि सिंहादियुतवनादीनि । आदिना दुःखनिमित्तादिग्रहः । गुणा वात्सल्यादयः । कृतानि कंसहननादीनि । नामानि नारायणादीनि । यद्वा-गुणैर्वात्सल्यादिभिः कृतानि नामानि भक्तवत्सलदीनदयात्रियादीनि वचनगोचराणि कथनविषयाणि ।। १२ । निवेदयितुमयोग्यो प्यावश्यकत्वेनैवैकं निवेदयाम एवेत्याहुः । किचेति । अयमस्मद्यजमानो राजर्षिरपत्यकामोऽपत्यं तु देवतांतरयजनेनापि भवति तदपि त्वां भगवन्त- मुपधावति । ननु तदप्यहं स्वर्गापवर्गादिकमपि दास्यामीत्याशंक्याहुः । आशिषामैहिकानां स्वर्गापवर्गयोरीश्वरमप्युपधावति । अतः च प्रजायामेवार्थः पुरुषार्थः इति प्रत्ययो यस्य न त्वपवर्गादिषु यस्य स इति मौढचम् । न च तावतैव स्थितिः किन्तु भवादृशीमिति धाष्टर्थञ्च पश्येति भावः ॥ १३ ॥ इदं पुत्राद्याशासनं च । अतः पराजितत्वात् । अत एव आवृतमतित्वादेव । प्रकृतिः स्वभावः । अतः अनुपासितमहच्चरणत्वात् । इत्यर्थ इति । राजर्षिरयमपि तादृश एवेति भावः । यद्वा पराजित इति विशेषणम् । ‘महतः परमव्यक्तम्’ इत्युक्तेः परां मायां जयति तत् पराजित् तस्य, किबंतं रूपम् ॥ १४ ॥ * * यजनस्य सकामत्वलक्षणमपराधं क्षमापर्यंतः स्तोत्रमुपसंहरति-यदुहेति । अभ्रकर्त्तरिति । ब्रह्मादिदुर्लभमपि त्वद्दर्शनं सकामेभ्योप्यस्मभ्यमदा इति भावः । देवस्य तव हेलनं, सहने हेतुः सर्वान्प्रति यत्तव साम्यं तेन । देवदेवेति । देवानां देवत्वात्तत्वातीव महत्त्वम् । “महांतो हि क्षमावतः क्षुद्राः क्रोधादिसंयुताः” इत्याद्युक्तेरित्याह ।। १५ ।। श्रीमद्वीरराघवव्याख्या इत्यस्य तदेव स्पष्टयन्त आहुः । तदिति । हे परमपुरुष ! तत्तदा आराधनसमय एव नापचित एवानुरूपमनाराधित एव प्रकृष्टकरुणया स्वमहिमानं महत्तयैश्वर्यादिरूपं मोक्षाख्यमाविर्भूतगुणाष्टकसम्पत्तिरेव हि मोक्षश्चकारादस्मत्समीहितं च फलमुपकल्पयिष्यन्निर्वर्त्तयिष्यन् त्वमितरवत्परिपूर्णोऽप्यपरिपूर्ण इव नोऽस्माभिरिह यागे यथा यथावदुपलक्षितः दृष्टोऽसि । नः कथम्भूतानामात्मनः स्वस्य परमुत्कष्टं श्रेयः पुरुषार्थमविदुषामत एव बालिशानाम् ॥ ९ ॥
परमकारुणिकात्समस्तपुरुषार्थस्वरूपाद्भगवतो राज्ञा प्रार्थनीयस्य पुत्रस्य क्षुद्रपुरुषार्थतामाविष्कर्तुमतिदुर्लभस्य भगवद्दर्शनस्यैव कैमुत्यनयेन निरतिशयपुरुषार्थतामाहुः अथेति । अर्हत्तम राज्ञोऽभिमतान् दातुं यद्यप्याविर्भूतोऽस्यथाप्ययमेव वरः सञ्जातः कोऽसावित्यत्राहुः । यर्हि वाव । यदा हि राजर्षेर्बर्हिषि यज्ञे वरदश्रेष्ठो भवान्निजजनानां पुरुषाणां त्वद्भक्तानामस्माकमीक्षणविषयः आसीदिति यत् असङ्गेन वैराग्येण निशितं यज्ज्ञानं तदेवानिलस्तेन विधूता अशेषा मलाः येषामात्मारामाणां प्रकृतिविविक्तब्रह्मात्मकस्वात्मयाथात्म्यानुसन्धानपराणां भगवत्स्वभावानां भगवत्समानधर्माणां मुनीनां-कर्त्तरि षष्ठी-मुनिभिरनवरतं सर्वदा परिगुणिताः गुणगणाः यस्य तस्य सम्बोधनमीदृशस्य तव गुणगणकथनमेव परममङ्गलायनं निरतिशयश्रेयःसाधनं किमु त्वद्दर्शनमित्यर्थः ॥ १०-११ ॥
यतः त्वद्गुणकथनं परममङ्गलायनमतस्तदैवायुक्तास्वपि दशासु नो भूयादिति प्रार्थयन्त आहुः । अथेति । अथ ननु भगवतः क्षुदादिष्वयुक्तदशासु तत्र तत्र स्खलनं चलनं पतनस्योक्तत्वात् दुरवस्थानं दुःखित्वेनावस्थानमादिशब्देनाशुचित्वाद्यवस्थान्तरसङ्ग्रहः तथा ज्वरदशायां मरणदशायां च परवशानामस्माकं श्रीमतस्तव चरणारविन्दस्मरणाय चरणारविन्दं स्मत्तु सकलानां कश्मलानां निरसनानि निवर्त्तकानि गुणकृतनामानि नामधेयानि कल्याणगुणप्रवृत्तिनिमित्तकानि तव नामानि वचनगोचराणि उच्चारणविषयाणि भवन्तु ॥ १२ ॥
इदमिदानीं राज्ञा प्रार्थनीयमस्तीत्यावेदयन्त आहुः । किञ्चेति । अयं राजर्षिर्नाभिः पुत्रं कामयमानः तत्रापि भवादृशीं त्वत्सदृशीं प्रजामाशासानः आशिषामैहिकपुरुषार्थानां स्वर्गापवर्गयोश्चेश्वरं प्रदातारं भगवन्तं षाड्गुण्यपूर्णं त्वां प्रजायामेव पुरुषार्थ इति प्रत्ययो यस्य सः उपधावति अनुवर्तते भजतीत्यर्थः । तत्र दृष्टान्तः यथाधनो दरिद्रः फलीकरणं तुषकणादिकमाशासानो धनदं कुबेरमुपधावति ॥ १३ ॥
इदं च नातिचित्रमित्याहुः । इह संसारेऽनुपासितमहच्चरणो यदि भवेत् उपासितमहच्चरणं जनं विनेत्यर्थः । तया अपराजितया कर्मवश्यैरनभिभूतया अनवसितपदव्या अलक्षितमार्गया सत्पथतिरोधायिकया अलक्षितः को वै न कोऽप्यतस्तयानावृतमतिकः अत एव विषया एवं विषं तस्य रयो वेगः तेनानावृता प्रकृतिर्यस्य सः अतस्त्वन्मायामोहितस्यैवमाशंसा घटत इत्यर्थः ॥ १४ ॥
- अतिदुर्लभसमस्तपुरुषार्थभूतेस्तव स्वपुत्राशंसार्थमाह्वानं हेलनमिवातस्तत् क्षन्तुमर्हसीति विज्ञापयन्त आहुः । यदुह वावेति । हे अदभ्रकर्त्तः ! बहुकार्यनिष्पादक ! उदारव्यापारकारिन्नवितथकर्तः सत्यसङ्कल्प इति वार्थः, हे देवदेव देवानां ब्रह्मादीनामपि देव हे सर्वात्मन्नल्पीयसे प्रयोजनाय यद्यस्मादेवाहूतोऽसि ततस्तदर्थधियां तत्र प्रजायामर्थधीः पुरुषार्थबुद्धिर्येषामत एवं मन्दानां नोऽस्माकं देवहेलनं देवस्य तव हेलनमाह्वानरूपमवज्ञानं तव साम्येन हेतुना प्रतिवोढुं सोदुमर्हसि ॥ १५ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ! यथा ܀ ।। तत्कथमत्राह तदिति । हे परमपुरुष ! यत्तत्प्रमेयं यथा तथा प्रतिपादयामस्तथाहि परं परमं श्रेयोऽविदुषामजानतामत एवं बालिशानां शिशुवत्स्थितानां नः सम्बन्धिन्या प्रकृष्टया कृपया चशब्द एवार्थे अपवर्गाख्यं संसारमोक्षलक्षणं महिमानमुपकल्प- यिष्यन् समर्थयमानः स्वयत्नोपचितः स्वानुग्रहलक्षणयत्नायत्त एव इतरवत्पर प्रयत्नोपचितवदुपलक्षितः प्रकाशित इति यस्मात् ॥ ९ ॥ * * अथ तस्मात् हे अर्हत्तम ! परं फलप्राप्त्यनन्तरमपि त्वामहंयामः त्वद्विषयामहणक्रियां प्रार्थयामहे कस्मादेतत्प्रार्थनमित्याशङ्कय फलदर्शनादित्याहुः । यहति । स्वभक्तानां दृष्टिविषय आसीदिति यर्हि यस्मात्तस्मादिति शेषः । बर्हिषि यज्ञे ।। १० ।। * * मुनीनामिति षष्ठी तृतीयार्थे मुनिभिर्नित्यं परिगणितानां गुणगणानां परममङ्गलायतनं स्वरूपसुख विषयं कथनं कीर्तनं यस्य स तथा असङ्गेन निशितं तेजितं यज्ज्ञानं तदेवानलोऽग्निस्तेन विधूतानि निर्मूलितानि समस्तरागादिमलानि येषां ते तथा तेषां भगवत्स्वभावानां सात्त्विकानाम् ॥ ११ ॥ * * किमत इति तत्राह अथेति । यत एवममितमाहात्म्य- समुद्रोऽथ तस्मादस्माकं तव गुणकृतनामधेयानि श्रीमच्चरणारविन्दस्मरणाय वचनगोचराणि भवन्त्वित्यन्वयः । ज्ञानानन्दादिगुणाः कंसहननादिकृतानि नारायणादिनामानि च सदा असम्भवेऽप्येषु सर्वथेति भावेनाहुः । स्खलनेति । न केवलं तात्कालिक- फलदानि किन्तु पारत्रिक फलदानीत्याशयेनोक्तम् । ज्वरेति । दुरितसद्भावे कथं पारत्रिकफलदानि स्युरित्यत उक्तम् । सकलेति । दुःखस्थानं प्रवासादिकम् ।। १२ ।। * * अन्यच्च प्रयोजनमस्तीति विज्ञापयन्ति किञ्चेति । ऐहिकीनामाशिषामीश्वरं न केवलमासामीश्वरं किन्तु स्वर्गापवर्गयोरपीति उपधावति । शरणमाप्नोति पुरुषार्थप्रदं त्वां प्राप्य प्रजालक्षणं तुच्छफलमाकाङ्क्षितं कथमिति तत्राह । प्रजायामिति । अर्थप्रत्ययः पुरुषार्थंबुद्धिः अत्र दृष्टान्तमाह । धनदमिति । फलीकरणं क्षुद्रकणं पललं वा न कोऽपि याचत इत्यर्थः ॥ १३ ॥ * * तर्हि कीदृश ईहत इति तत्राह अपराजितेति । हे अपराजित ! ‘हरेः प्रसादं विना त्यपराजितया मायया मोहकशक्त्यानवसितमनिश्चितं यत्पदं स्वरूपं तत्त्वलक्षणं तस्य ध्याने व्यावृत्ता मतिर्यस्य स तथा कुतस्तत्राह अनुपासितेति । तत्रापि कारणमाह विषमेति । प्रकृतिः स्वभावः एवंविध ईहत इत्यर्थः, अधनो दरिद्रः धनमपेक्षिताशेषपुष्टिं ददातीति धनदः ॥ १४ ॥ * * तं मुनयः स्वोक्तमधिकमिति मन्वाना भगवत्क्षमां प्रार्थयन्ते यदुहेति । हे अभ्रकर्तर- नल्पकर्तः । दूर्वाङ्कुरार्चितस्य हरेरनाद्यनन्तकालीननिर्दोषानन्दरूपमुक्तिदत्त्वाद्देवदत्तदत्तमेरुस्वर्णस्य विष्णुमित्रस्य काकिणिका धनद- । स्कं. ५ म. ३. लो. ९-१५] अनेकव्याख्यासमलङ्कृतम् ७६ त्वदर्शनाच्चेति राज्ञः पुत्रार्थमेवेह समाहूत इति यत्तदर्थधियां तत्प्रयोजनबुद्धीनां मन्दानां स्तुत्यादावपटूनां राज्ञोऽर्थे यत्तवाहानं विष्णवायाहीति तद्वेलनमवज्ञानं साम्येन तत्तद्वस्तुयोग्यतादर्शनेन प्रतिवोदु क्षन्तुमईसीत्यन्वयः । ज्ञानपूर्वाह्नानचेत्कथं क्षान्तिवचन- मित्यत उक्तमविदुषामिति ॥ १५ ॥ स्वस्य श्रीमज्जीव गोस्वामिकृतः क्रमसन्दर्भः स्य महिमानमैश्वर्य्यसम्पत्तिम् अपवर्गाख्यमिति तस्यैवापवर्ग इति संज्ञेत्यर्थः । उपकल्पयिष्यन् साक्षात्कारयिष्यन् नाप- चित एवेति । पूजासम्पादकभक्त्यभावादिति भावः ॥ ९ ॥ * * अथायेत्यत्र अथ हायेति क्वचित्, निजपुरुषेक्षणविषयोऽपि भवानिह बर्हिषि यज्ञमात्रे यर्हि यदासीदयमेव वर इत्यर्थः ॥ १०-११ ॥ * * गुणकृतानि च लीलानामधेयानि च ॥ १२ ॥ * ॐ यजमानस्य स्वापराधमपि निवेदयितुं सङ्कचन्तः परमात्मीयत्वेनाभिप्रायेण च तन्निवेदनीयमेव निवेदयन्ति । किचेति । प्रथमं तावत् प्रजामाशासानः आशिषामैहिकीनां स्वर्गापवर्गयोरपीश्वरं त्वामुपधावति यथा फलीकरणमाशासानो धनदमुपधावति तद्वदिति परममौढ्यं न च तावतैव स्थितिः, किन्तु भवादृशीमाशासान इति धाष्टयं चेत्यर्थः ॥ १३ ॥ * * अनुपासितमहञ्चरण इति सम्प्रति तेनोपास्यमानं स्वमपि तुच्छीकुर्वन्ति ॥ १४-१९ ॥ श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी ननु तर्हि कथं सन्तुष्टोऽहं युष्मत्प्रत्यक्षीभूतोऽस्मीति तत्राहुः । तत्तस्मात् यथा बालिशानामज्ञानामपि समीपमाहूतोऽप्य- पूजितोऽपि विज्ञः कृपावशात्तानुद्धर्तुमायाति तथैव त्वं परमेभ्योऽपि परमः पुरुषः प्रकर्षयुक्तया निरुपाधिकया करुणया स्वमहि- मानं स्वमहैश्वर्यं तदनुभवमित्यर्थः । अपवर्ग इत्याख्या यस्य तं चकारात् कामितं वस्तु च उपकल्पयिष्यन् दास्यन् स्वयं नापचित एवास्मद्भक्त्यभावादपूजित एव इतरवत् यज्ञकौतुकदर्शी इतरजन एव ॥ ९ ॥ * * यथा तथा भवतु यूयन्तु वरं वृणुथेति चेत् तत्राहुः । अथ हायमिति । निजपुरुषाणां स्वभक्तानामीक्षणविषयोऽपि भवान् यहि यदा राजर्षेर्बर्हिषि यज्ञेऽप्यासीत् आविर- भूदयमेव वर इत्यन्वयः ॥ १० ॥ सव्र्वैरतिदुर्लभात् त्वद्दर्शनादप्यधिको वरो वरणीय इति मूढानामेव मतं न तु विज्ञानामित्याह । असङ्गेन वैराग्येण निशितं यज्ज्ञानं स एवानलस्तेन निर्धूताशेषस कामत्वमलानां भवत्येव स्वीयो भावो दास्यादिर्येषामत एवात्मनि त्वय्येव आसम्यगेव रममाणानां मुनीनां परममङ्गलायनं गुणगणकथनमेव न तु दर्शनं यस्य अतस्तै- रनवरतं परिगुणिता अभ्यस्ता गुणगणा यस्येति सम्बोधनम् ॥ ११ ॥ * अस्माकं त्वस्थिरमनसां मन्दानामेतावत्तु भव- त्वित्याहु:- अथेति त्वद्दर्शनप्राप्यनन्तरमित्यर्थः, स्मरणाय विवशानां त्वां स्मर्तुमसमर्थानाम् ॥ १२ ॥ * * किञ्चेति । निवेदयितुमयोग्यमप्यावश्यकत्वेनैकं निवेदयाम एवेत्यर्थः, अयमस्मद्यजमानो राजर्षिरपत्यकामः, अपत्यं तु देवतान्तरयजनेनापि भवति तदपि त्वां भगवन्तमुपधावति । ननु तदप्यहं स्वर्गापवर्गादिकमपि दास्यामीत्याशङ्कायामाहुः । आशिषामैहिकीनां स्वर्गापवर्गयोरीश्वर- मप्युपधावति । अथ च प्रजायामेव अर्थः पुरुषार्थः इति प्रत्ययो न त्वपवर्गादिषु यस्य स इति मौढ्यम् अधनो यथा फलीकरणं तुषकणा- दिकमाशासानो धनदमुपधावतीति तत्रापि प्रजां भवादृशीमाशासान इति धाष्टर्यन पश्येति भावः ॥ १३ ॥ * * न चास्य दोष इत्याहुः । को वा इति । इह संसारे अपराजितया केनापि पराजेतुमशक्यया अनवसितपदव्या केनाप्यलक्षितमार्गया मायया को वा अनावृतमतिः न कोऽपीत्यर्थः, ते तव कीदृशस्य पराजितः मायां पराजयत इति पराजित् किवन्तम् तस्य । अनुपासितेत्युपासित- महच्चरण एवैको मायां निस्तरति राजर्षिरयन्तु न तादृश इति भावः ॥ १४ ॥ * * यजनस्य सकामत्वलक्षणमपराधं क्षम- यन्तः स्तोत्रमुपसंहरन्ति यदि हेति । हे अभ्रकर्त्तः ! अनल्पकारिन् ब्रह्मादिदुर्लभं त्वद्दर्शनमपि सकामेभ्योऽप्यस्मभ्यमदा इति भावः । यत् त्वमिह समाहूतस्तत्तेन अर्थधियां सकामानामस्माकं यद्देवस्य तव हेलनमवज्ञानं तत् प्रतिव्योढुं सोढुमर्हसि । तत्र हेतुः हे देवदेव सर्व्वान् प्रति यत्तव साम्यं तेन ॥ १५ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः अतोऽस्मदाराधनं निमित्तीकृत्य अस्मत्प्रयोजनार्थमाविर्भूतोऽसीत्याहुः । तद्यथेति । हे परम ! परमपुरुषः पुरुषोत्तमः भवान् परं मोक्षाख्यं श्रेयोऽविदुषामतो यथा यथावत् बालिशानामसुखे सुखमानिनां बुभुक्षूणामप्यस्माकं तत्तस्मादाराधनमात्रत आत्मनः प्रकृष्टया करुणया अपवर्गाख्यं स्वमहिमानं स्वज्ञानं स्वसाधर्म्यं चकारात्कामितं च स्वयमुपकल्पयिष्यन् सम्पादयिष्यन् नापचितः अस्माभिरनुपकृतः एवेतरवदुपकृतवदुपलक्षितो दृष्टोऽसि ॥ ९ ॥ * * तत्र मुख्यकामितं त्वद्दर्शनमित्याहुः । अथायमिति ॥ १० ॥ * भगवद्दर्शनस्य दौर्लभ्यमाहुः । असङ्गेति । हे अनवरतपरिगुणितगुणगण ! अनवरतैर्नित्योद्युक्तः परिगुणिता अभ्यस्ता गुणगणा यस्य एवम्भूत! असङ्गेन कुटुम्बादिसङ्गत्यागेन निशितं यज्ज्ञानं तदेवानलस्तेन विधूताशेषमलाना भवति भजनीये स्वभावोऽनन्यनाथत्वलक्षणो येषां तेषामत एवं आत्मनि त्वयि भजनीये रमणशीलानामेवंविधानां मुनीनामपि ॥ 80 । श्रीमद्भागवतम् [ स्कं. ५ अ. ३ इलो, ९९५ परममङ्गलायनं गुणगणकथनमेव न तु दर्शनं यस्य सोऽसि ॥ ११ ॥ * * हरिनामकीर्तनादीनां भक्तिभेदानां दुर्लभत्वं सूचयन्तो हरिनामकीर्तनरूपां भक्ति प्रार्थयन्ते । अथ कथमिति ॥ १२ ॥ * * प्रस्तुतं कामितं प्रार्थयन्ते । किञ्चेति । आशिषामैहिककामानां धनधान्यादीनां स्वर्गापवर्गयोश्वेश्वरं दातारं त्वामुपधावति प्रजायां पुत्रे अर्थः पुरुषार्थः इति प्रत्ययो यस्य सः फलीकरणं तुषकणादिकमाशासानोऽधनो यथा धनदमुपधावति तद्वत् ॥ १३ ॥ * * त्वन्मायया मोहितानां पुत्रादावर्थ- प्रत्ययो युक्त एवेत्याहुः क इति । अनवसितपदव्या दुर्गममार्गया ते मायया गुणमय्या शक्तया कः अनावृतमतिः अनावृतज्ञानः, अत एव अपराजितश्च इति कारणेनावरणो दर्शितः, कार्येणावरणं दर्शयति विषयः शब्दादिरेव विषं तस्य रयैवेंगैरनावृता प्रकृतिर्यस्य स च कः । उपासितमहश्चरणं विना न कोऽपीत्यर्थः ॥ १४ ॥ अल्पीयसि प्रयोजने समाह्वानं तव हेलनं कृतं तत्क्षम-
-
- स्वेत्याहुः । हे अदभ्रकर्त्तः ! अनल्पकारिन् ! अल्पीयसे प्रयोजनाय यद्यस्मादिह यज्ञे समाहूतोऽसि तत्र अर्थधियामर्थे पुत्रनाम्नि धीर्येषां तेषां नोऽस्माकं यद्देवहेलनं तत्सर्वान् प्रति तव साम्येन हेतुना हे देवदेव ! प्रतिवोढुमर्हसि ॥ १५ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी । । न चात्र कश्चित्सन्देहः फलस्य प्रत्यक्षत्वादित्याशयेनाहुः - तदिति । तत् तस्मात्पूर्वोक्तहेतोरेव स्वयमात्मनः स्वस्य परं श्रेयो मोक्षाख्यं अविदुषामजानता मचिन्तयतामपि परमेभ्य उत्कृष्टेभ्यो ब्रह्मादिभ्योऽपि परमः पुरुषः पुरुषोत्तमो भवान् प्रकर्षयुक्तया करुणया अपवर्गाख्यं स्वमहिमानं निजानन्दमुपकल्पयिष्यन् सम्पादयिष्यन् चकारात् कामितं च सम्पादयिष्यन् स्वयं नापचितः पूजापेक्षारहित एव इतरवत् सापेक्षवदिह यज्ञ उपलक्षितः दृष्टो जातः । तत्र दृष्टान्तमाह-यथेति । यथा बालिशानां बालकाना- मात्मनः श्रेयोऽनभिज्ञानामपि पिता स्वयमेव तच्छ्रयः सम्पादयति तथेत्यर्थः ॥ ९ ॥ * * हि यस्मात् भवान् वरदर्षभः वरदानां ब्रह्मादीनां मध्ये श्रेष्ठोऽतो नूनं यद्यपि वरान् दातुमेव आविर्भूतः अथ तथापि हे अर्हत्तम पूज्यतम यहि राजर्षेर्नाभेर्बहिंषि यज्ञे निजपुरुषाणां खसेवकानामस्माकमीक्षणविषयो भवानासीत् तदाऽयमेव भवद्दर्शनलाभ एवास्माकं वरः सञ्जातः । वयं त्वतितुच्छा ब्रह्मादिपूज्ये त्वयि न किञ्चित्कर्तुं शक्ता इति सम्बोधनाभिप्रायः ।। १० ॥ सर्ववरस्य संसारभोगान्तः पातित्वात् तदपेक्षया संसारतापनिवारकत्वात् तव दर्शनमेव दुर्लभं अत एव महान्तः सर्वभोगान् हित्वा तदर्थं भवद्गुणगानं कुर्वन्तीत्याश- शयेनाहु:– असङ्गेति । असङ्गेन सर्वतो वैराग्येण निशितं तीक्ष्णीकृतं यज्ज्ञानं स एवानलस्तेन विधूताः निरस्ता अशेषाः सर्वे मला रागलोभादयो येषां अत एव भवत इव शान्तः स्वभावो येषां अत एवात्मनि रमणं येषां एवम्भूतानामपि मुनीनां परममङ्गलायनं परमानन्दजनकं गुणगणकथनमेव यस्य तथाभूतोऽसि । दर्शनं तु तेषामपि दुर्लभमेवेति भावः । अत एव तैरनवरतं निरन्तरं परिगुणिता अभ्यासेन वर्णिता गुणगणा यस्येति तस्य सम्बोधनम् ।। ११ ।। * एवं दुर्लभं भगवद्दर्शनं लब्ध्वाऽपि भगव- दन्तर्धानानन्तरं पुनर्भोगासक्त्या दुरदृष्टसम्भवात्तन्निरासार्थं भगवन्नामसङ्कीर्तनं प्रार्थयन्ते - अथेति । यद्यपि भगवद्दर्शनेनैव वयं कृतार्थाः, अथ तथापि स्खलनादिस्थानेषु ज्वरमरणदशायां च स्मरणाय त्वां स्मर्तुं विवशानामपि नोऽस्माकं तव गुणकृतनामधेयानि कथचिद्वचनगोचराणि उच्चारणविषयाणि भवन्त्वित्यन्वयः । गुणकृतानि भगवान् भक्तवत्सलः दीनबन्धुरित्यादीनि उपलक्षणमेतत् जन्मकृतानि मत्स्यकूर्म वाराहनृसिंहहयग्रीववामनादीनि । कर्मकृतानि गोवर्धनोद्धरणकंसनिकन्दनमधुसूदनादीन्यपि ज्ञेयानि । एवं प्रार्थनायां स्वसकलदोषनिरासार्थत्वं हेतुं सूचयन्तो विशेषणमाहुः - सकलेति, सकलानि कश्मलानि पापानि निरस्यन्तीति तथा तानि ।। १२ ।। * अन्यदपि किञ्चित्प्रार्थनीयमस्तीत्याहुः - किश्चेति । अयं राजर्षिरपत्यकामो भवादृशीं प्रजां भवत्सदृशं पुत्रं आशासान आकाङ्क्षमाण आशिषामैहिकभोगानां स्वर्गापवर्गयोरपीश्वरं स्वामिनं सर्वं दातुं शक्तमपि त्वां उपधावत्याराधयति । दानसामर्थ्य हेतुमाहुः भगवन्तमिति । एवं सर्वदानसमर्थादपि स्वर्गादि हित्वा प्रजामात्रप्रार्थनायां हेतुमाहुः प्रजायामिति, प्रजायामेवार्थप्रत्ययः पुरुषार्थबुद्धिर्यस्य सः । तत्र दृष्टान्तमाहुः - धनदमिति, यथा अधनः फलीकरणं तुषकणादिकमाशासानो धनदं धनाढ्यमुपधावति तथेत्यर्थः । धनाढ्यमाराधनेन प्रसाद्य तत उत्तमवस्तुप्राप्तियोग्यतायामपि भाग्यं विना मौर्यादेव फलीकरणं याचते तथाऽयमपि मूर्ख इति भावः ।। १३ ।। * * ननु कथमेवमयं भ्रान्तो युष्माभिर्वा कथं न शिक्ष्यते । तत्राहुः को वा इति । ते तव मायया अनावृतमतिः अमोहितचित्तः अत एवापराजित इन्द्रियादिपारवश्यमनापादितः अत एव विषय एव विषं तस्य यो वेगस्तेन अनावृता प्रकृतिः स्वभावो यस्य सः इह संसारे को वै ? न कोपीत्यन्वयः । मायायाः प्राबल्यमाहुः - अपराजितयेति । ब्रह्मादीनां महतामपि कामादिमोहोत्पादनान्न कापि सा पराजितेति भावः । तत्र हेतुमाहुः - अनवसितेति, न अवसिता अवलक्षिता पदवी कुत आगतेति मार्गो यस्यास्तयेत्यर्थः । यदि प्रथमतस्तन्मार्गो ज्ञातः स्यात्तदा तत्प्रतिरोधोपायं कुर्यादिति भावः । ननु ‘महत्सेवां द्वारमाहुर्विमुक्तेः’ इत्यादी महत्सेवकानां मायया मोहाभावश्रवणात् कथमेवं सामान्यत उच्यते को वा अनावृतमतिरित्याशङ्कय महत्सेवकव्यावर्त्तकं विशेषणमाहुः - अनुपासितमहञ्चरण इति । अतोऽस्यापि तथात्वान्न स्वतोऽथवा परतो विवेकोत्पत्तिरिति भावः ॥ १४ ॥ * * भवादृशीं प्रजामित्युक्त्या मत्सदृशस्य अन्यस्याभावाच्छलेन, मामेव पुत्रत्वेनैते वृण्वन्तीति मत्वा भगवतः क्रोधसम्भवात्तं क्षमापयन्ति यदिति । उ इति तुशब्दार्थे । ह इति प्रसिद्धौ । वावेत्येवकारार्थे । तवेति यदपि तस्य साम्येनेति । ह सम्बन्धः । पुनरित्यप्यर्थे । हे देवदेव मन्दानां मन्दमतीनां नोऽस्माकं तु यत् देवस्य तव हेलनमवज्ञानं जातं तत्प्रतिवोदु सोढुमर्ह- । । । स्कं. ५ अ. ३ श्लो. ९-१५ 1 अनेकव्याख्या समलङ्कृतम् सीत्यन्वयः । तत्र हेतुमाह - सर्वान् अज्ञसर्वज्ञान् प्रति साम्येनेति । अन्यथा वैषम्यं स्यादिति भावः । कुतो हेलनं जातमित्यपेक्षाया- माहुः - हेति, प्रसिद्ध एव तत्र हेतुरित्यर्थः । तमेव दर्शयन्ति यत् यस्मात् हे अभ्रकर्त्तः महत्कार्यकारिन् त्वमेवम्भूतोऽपि इह यज्ञेऽल्पीय से पुत्रप्राप्तिकार्यायैव अस्माभिः समाहूतोऽसीति । न ह्येतद्युक्तमतोऽवज्ञानं जातमेवेति भावः । हे देवदेवेति सम्बोधनेन महत्कार्यकारित्वे हेतुः सूचितः । स्वमन्दमतित्वज्ञापकमाहुः - तत्रेति, तत्रापत्ये एव परमार्थघीर्येषां तेषामित्यर्थः । तत्रापि हेतु- माहुः अविदुषामिति, परमार्थमजानतामित्यर्थः ॥ १५ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी परमकारुणिकात्समस्तपुरुषार्थस्वरूपाद्भगवतो राज्ञा प्रार्थनीयस्य पुत्रस्य क्षुद्रपुरुषार्थतामाविष्कर्तुमतिदुर्लभस्य भगवद्दर्शन- स्यैव कैमुत्यन्यायेन निरतिशयपुरुषार्थतामाहुः । अथेति । हे अर्हत्तम, यद्यपि त्वं राज्ञोऽभिमतं वरं प्रदातुमाविर्भूतोऽसि अथाऽथापि, यर्हि वा यदा हि, राजर्षेर्नाभेः, बर्हिषि यज्ञे, वरदर्षभः वरप्रदातिश्रेष्ठः भगवान् भवान्, निजा आत्मीया ये पुरुषा जनास्त्वद्भक्ता इत्यर्थः । तेषामस्माकमीक्षणविषयो नयनगोचरः, आसीत् यत्, अयमेव वरः संजातः । हि यतः असङ्गो वैराग्यं तेन निशितं यत् ज्ञानं तदेवानलस्तेन विधूता गता अशेषा मनोमला मानसदोषा येषां तेषां, आत्मारामाणां प्रकृतिविविक्तब्रह्मात्मक स्वात्म- याथात्म्यानुसंधानपराणां, भगवत्स्वभावानां भगवत्समानधर्माणां ‘भवत्स्वभावानामिति पाठे भवत इव स्वभावो येषां तेषां मुनीनां, कर्त्तरि षष्ठी । मुनिभिरपीत्यर्थः । अनवरतं सर्वदा परिगुणिता गुणगणा यस्य तस्य सम्बोधनम् । परममङ्गलायनं गुणगणकथनमेव, न तु दर्शनं यस्य तथाभूतः, असि ॥ ९ ॥ * * यतस्त्वद्गुणकथनं परममङ्गलाय नमस्त्यतस्तदेवास्माकमयुक्तास्वपि दशासु भूयादिति प्रार्थयन्त आहुः । अथेति । अथातः, स्खलनं कुतश्चन प्रदेशाचलनं च क्षुच्छिकातिशयः कासातिशयो वा । सा च पतनं प्रोवस्थानादधः पतनं च जृम्भणं विवृतास्यतापूर्वं जृम्भाचरणं च दुस्वस्थानं प्रवासावस्थानं च तान्यादयो येषामशुचित्वाद्य- वस्थानानां तेषु तथा ज्वरेण युक्ता या मरणदशा तस्यां च अपि, श्रीमतः तव चरणारविन्दस्मरणाय चरणारविन्दस्मरणं कर्तुमित्यर्थः । विवशानामशक्तानां नः अस्माकं सकलानि यानि कश्मलानि तेषां निरसनानि निवर्त्तकानि, तव गुणकृतनामधेयानि कल्याणगुणप्रवृत्तिनिमित्तकानि भवदीयनामानि कथंचिद्येन केन प्रकारेणापि वचनगोचराणि समुच्चारणविषयाणि भवन्तु ॥ १० ॥ * * इदमिदानीं राज्ञा प्रार्थनीयमस्तीत्यावेदयन्त आहुः । किं चेति । अयं राजर्षिर्नाभिः, अपत्यकामः पुत्रं कामयमानः तत्रापि भवादृशीं त्वत्सदृशीं, प्रजां आशासानः सन्, आशिषामैहिकपुरुषार्थाना, स्वर्गापवर्गयोश्चापि, ईश्वर प्रदातार भगवन्तं षाड्गुण्यपूर्ण त्वां प्रजायामेवार्थः पुरुषार्थ इति प्रत्ययो यस्य तथाभूतः संश्च यथा अधनो दरिद्रः, फलीकरणं तुषकणादिकं आशासानः सन् धनदं कुबेरमुपधावति तथा, उपधावति अनुवर्त्तते । त्वां भजतीत्यर्थः । इदं च नातिचित्रमित्याहुः । इह संसारे, अनुपासितमहञ्चरणः उपासितमहश्चरणं जनं विनेत्यर्थः । अपराजितया कर्मवश्यैरनभिभूतया, अनवसितपदव्या अलक्षितमार्गया सत्पथतिरोधायिकया इत्यर्थः । ते तव मायया अपराजितः पराभवं न गमितः को वा न कोऽप्यस्ति । तथा तया अनावृतमतिरपि, को वा । अत एव विषया एव विषं तस्य रयो वेगस्तेन अनावृता प्रकृतिर्यस्य सः, को वा, अतस्त्वन्मायामोहितस्यैवमाशंसा घटते इत्यर्थः ॥ ११ ॥ * * * अतिदुर्लभसमस्तपुरुषार्थमूर्त्तेस्तव स्वपुत्राशंसार्थमाह्वानं हेलनमिवातस्तत्क्षन्तुमर्हसि इति विज्ञापयन्त आहुः । यदु ह वा वेति । हे अभ्रकर्त्तः बहुकार्यनिष्पादक, वा अवितथकर्त्तः वा सत्यसंकल्प हे देवदेव विध्यादीनामपि देव, हे सर्वात्मन्, यद्यस्मात्, अल्पीयसे कार्याय त्वमिति शेषः इह समाहूतः तत्तस्मात् अर्थधियां प्रजायामेवार्थबुद्धीनां, अत एव मन्दानां, अविदुषां नोऽस्माकं, अर्थबुद्धित्वान्मन्दमतिभिरस्माभिर्विहितमित्यर्थः । हे देव, तव पुनः भवतस्त्वित्यर्थः । यत् । हेलन माह्रानरूपमवज्ञानं तत् उ ह वा व तदेवाह्वानं त्वित्यर्थः । साम्येन हेतुना, तव यतः साम्यमस्ति तेन हेतुनेत्यर्थः । प्रतिवोढुं तस्यापराधस्य सहनं कत्तु मित्यर्थः । अर्हसि योग्यो भवसि ॥ १२ ॥ इतीति । इति निगदेन, गद्यात्मकेनैवंविधसूक्ते - । नेत्यर्थः, अभिष्ट्यमानः विहितस्तुतिः, भगवान् षाड्गुण्यपूर्णः, अनिमिषर्षभः देवोत्तमः श्रीहरिः, वर्षंधराभिवादितौ खण्डाधि- पतिनाभिनृपतिकृताभिवन्दनौ ऋत्विग्भिश्चाभिवन्दितौ चरणौ यस्य तथाभूतः सन् सदयं यथा तथा, इदं वक्ष्यमाणगणं वाक्यम् आह ।। १३ ।। * * अहो इति । अहो इति सम्बोधने । हे ऋषयः, अवितथगीर्भिः सत्यवाग्भिः भवद्भिः असुलभं दुर्लभं वरं प्रति, अहं अभियाचितः प्रार्थितः बताश्चर्ये । कोऽसावत्र दुर्लभो वरस्तत्राह । अमुष्य नृपस्य आत्मजः पुत्रः, मया सदृशः भूयात्, इति यत् इत्येषः । ननु कथमेतस्य वरस्य दौर्लभ्यं तत्राह । केवलस्यैकस्य भावः कैवल्यं तस्मात् प्रकृतिपुरुषविलक्षण- स्वरूपस्वभावादेर्ममै कत्वाद्धेतोरित्यर्थः । मम अहं एव अभिरूपः ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति च श्रुत्युक्तरीत्या प्रकृतिपुरुषविलक्षणस्य समाभ्यधिकर हितस्य मम सदृशान्तराभावान्मत्सदृशात्मज रूपो वरोऽति- दुर्लभ इत्यर्थः । यद्यप्ययं वरोऽतिदुर्लभोऽस्त्यथापि, हि यस्मात् यत् द्विजा ब्राह्मणा एव देवास्तपोविद्यादिगुणैद्यतमानास्तेषां कुलं तत् ममैव मुखं, ततः ब्रह्मवादः मन्मुखभूतस्य ब्रह्मकुलस्य वचः, मृषा मिध्या भवितुं नैव अर्हति । ततः आत्मतुल्यं मत्सदृशं अनुपलभमानोऽन्यमदृश्यमानोऽहमेव अंशकलया अंशत्वप्रदर्शनयुक्त्या आग्नीधीये नाभिसम्बन्धिक्षेत्रभूतमेरुदेच्या मित्यर्थः । ७६ श्रीमद्भागवतम् [स्क. ५ अ. ३ श्लो. १६-२० अवतरिष्यामि ॥ १४ ॥ अभिधायोक्तत्वा, भगवान् यज्ञपुरुषः, अन्तर्द्दधे अन्तर्हितवान् ।। १५ ।। इतीति । इत्येवं मेरुदेव्याः निशामयन्त्याः शृण्वत्याः सत्याः पतिं तत्स्वामिनं नाभिनृपं प्रति, भाषानुवादः आप ब्रह्मादि परम पुरुषोंकी अपेक्षा भी परम श्रेष्ठ हैं। हम तो यह भी नहीं जानते कि हमारा परम कल्याण किसमें है, और न हमसे आपकी यथोचित पूजा ही बनी है; तथापि जिस प्रकार तत्त्वज्ञ पुरुष बिना बुलाये भी केवल करुणावश अज्ञानी पुरुषोंके पास चले जाते हैं, उसी प्रकार आप भी हमें मोक्षसंज्ञक अपना परमपद और हमारी अभीष्ट वस्तुएँ प्रदान करनेके लिये अन्य साधारण यज्ञदर्शकोंके समान यहाँ प्रकट हुए हैं ॥ ९ ॥ * * पूज्यतम ! हमें सबसे बड़ा वर तो आपने यही दे दिया कि ब्रह्मादि समस्त वरदायकों में श्रेष्ठ होकर भी आप राजर्षि नाभिकी इस यज्ञशाला में साक्षात् हमारे नेत्रोंके सामने प्रकट हो गये ! अब हम और वर क्या माँगें ? ॥ १० ॥ * * प्रभो! आपके गुणगणोंका गान परम मङ्गलमय है । जिन्होंने वैराग्यसे प्रज्वलित हुई ज्ञानाग्निके द्वारा अपने अन्तःकरणके राग-द्वेषादि सम्पूर्ण मलोंको जला डाला है, अतएव जिनका स्वभाव आपके ही समान शान्त है, वे आत्माराम मुनिगण भी निरन्तर आपके गुणोंका गान ही किया करते हैं ॥। ११ ॥ * * अतः हम आपसे यही वर माँगते हैं कि गिरने, ठोकर खाने, छींकने अथवा जँभाई लेने और सङ्कटादिके समय एवं ज्वर और मरणादिकी अवस्थाओं में आपका स्मरण न हो सकनेपर किसी प्रकार आपके सकलकलिमलविनाशक ‘भक्तवत्सल’, ‘दीनबन्धु’ आदि गुणद्योतक नामोंका हम उच्चारण कर सकें ।। १२ ।। इसके सिवा, कहने योग्य न होनेपर भी एक प्रार्थना और है । आप साक्षात् परमेश्वर हैं; स्वर्ग अपवर्ग आदि ऐसी कोई वस्तु नहीं है, जिसे आप न दे सकें । तथापि जैसे कोई कङ्गाल किसी धन लुटानेवाले परम उदार पुरुषके पास पहुँचकर भी उससे भूसा ही माँगें, उसी प्रकार हमारे यजमान ये राजर्षि नाभि सन्तानको ही परम पुरुषार्थ मानकर आपके ही समान पुत्र पानेके लिये आपकी आराधना कर रहे हैं ।। १३ ।। * * यह कोई आश्चर्य की बात नहीं है। आपकी मायाका पार कोई नहीं पा सकता और न वह किसीके वशमें ही आ सकती है। जिन लोगोंने महापुरुषोंके चरणोंका आश्रय नहीं लिया, उनमें ऐसा कौन है जो उसके वशमें नहीं होता, उसकी बुद्धिपर उसका परदा नहीं पड़ जाता और विषयरूप विषका वेग उसके स्वभावको दूषित नहीं कर देता ? ॥ १४ ॥ * * देवदेव ! आप भक्तोंके बड़े-बड़े काम कर देते हैं । हम मन्दमतियोंने कामनावश इस तुच्छ कार्यके लिये आपका आवाहन किया, यह आपका अनादर ही है। किन्तु आप समदर्शी हैं, अतः हम अज्ञानियोंकी इस घृष्टताको आप क्षमा करें ॥ १५९ ।। ।।
- श्रीशुक उवाच इति निगदेनाभिष्ट्रयमानो भगवाननिमिषर्षभो वर्ष धराभिवादिताभिवन्दितचरणः सदयमिदमाह ।। १६ ।। श्रीभगवानुवाच अहो बतामृषयो भवद्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति ममाह- मेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम् ।। १७ ।। तत आग्नीध्रीयॅड- शकल यावतरिष्याम्यात्मतुल्यमनुपलभमानः ॥ १८ ॥ श्रीशुक उवाच इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान् ।। १९ ।। बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने मेरु देव्यां धर्मान्दर्शयितुकामो वात रशनानां श्रमणानामृषीणा- मूर्ध्वमन्थिनां शुक्लया तनुवावततार ॥ २० ॥ • इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः ॥ ३ ॥ ॐ अन्वयः - इति निगदेन अभिष्टूयमानः वर्षधराभिवादिताभिवंदितचरणः अनिमिषर्षभः भगवान् सदयम् इदम् आह ।। १६ ।। * * अहो ऋषयः बत अवितथगीर्भिः भवद्भिः अहम् अमुष्य मया सदृशः आत्मजः भूयात् इति असुलभम्
१६-१९ गद्यभागव्याख्यानमस्यां टीकायामत्रैव यत् तदपादात्मकपद संघातस्य विच्छेदसंख्यांकनभेदादिति मन्तव्यम् - सं० ।
१. २. प्रा० पा० - ३. ४. प्रा० पा० - ५. प्रा० पा० - ६. ७. प्रा० पा० - स्क. ५ अ. ३ श्लो. १६-२० 1 अनेकव्याख्यासमलङ्कृतम् वरम् अभियाचितः यत् कैवल्यात् मम अभिरूपः अहम् एव अस्मि अथ अपि ब्रह्मवादः मृषा भवितुम् न अर्हति यत् हि द्विजदेव- कुलम् मम एव मुखम् ॥ १७ ॥ * * ततः आत्मतुल्यम् अनुपलभमानः अंशकलया आग्नीधीये अवत- रिष्यामि ॥ १८ ॥ * भगवान् निशामयंत्याः मेरुदेव्याः पतिम् इति अभिधाय अंतर्दधे ।। १९ ।। * * विष्णुदत्त तस्मिन् एव बर्हिषि परमर्षिभिः प्रसादितः भगवान् वातरशनानाम् श्रमणानाम् ऊर्ध्वमंथिनाम् ऋषीणाम् धर्मान् दर्शयितुकामः नाभेः प्रियचिकीर्षया तदवरोधायने मेरुदेव्याम् शुक्लया तनुवा अवततार ॥। २० ।। यस्य ॥ १६ ॥ * * इति तृतीयोऽध्यायः । ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका इति निगदेन गद्यात्मकस्तोत्रेण । वर्षधरो भारतवर्षपतिर्नाभिस्तेनाभिवादिता ये ऋत्विजस्तैरभिवंदितौ चरणौ असुलभत्वे हेतुः । ममाहमेवाभिरूपः सदृशः कैवल्यादद्वितीयत्वात् । द्विजेषु देवा इव ये ब्राह्मणास्तेषां आग्नीधीये नाभौ ॥ १८ ॥ * * पतिं नाभिम् ॥ १९ ॥ * * हे विष्णुदत्त तस्यावरो- घायनेंतःपुरे मेरुदेव्यां शुक्रया शुद्धसत्त्वरूपया मूर्त्याऽवततार । केषां धर्मान् । वातरशनानां दिग्वाससाम् । पाषंडिव्या वृत्त्यर्थमाह । श्रमणानां तपस्विनाम् । ऋषीणां ज्ञानिनाम् । ऊर्ध्वमंथिनां नैष्ठिकब्रह्मचारिणाम् || २० || कुलम् ॥ १७ ॥ * * इति श्रीमद्भागवते पञ्चमस्कन्धे टीकायां तृतीयोऽध्यायः ॥ ३ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः “निगद्मपरिमितवर्णमाख्यातांतमनेकधा ज्ञेयम् । मुक्तकचूर्णकवृत्तगंधौत्कलिकादिभेदतो विज्ञैः ॥” इत्युक्तलक्षणेन निगदेन । अनिमिषर्षभो देवश्रेष्ठो हरिः । इदं वक्ष्यमाणम् ।। १६ ।। * * अहो बतेति अद्भुतम् । अवितथगीर्भिर- मोघवाग्भिः । “ब्राह्मणोस्य मुखमासीत्” इति श्रुतेः ॥ १७ ॥ ॥ * ततो द्विजदेवोक्तेः ।। १८-१९ ।। * * यद्वा-शुचं शोकं लापयति नाशयतीति शुक्ला शुकं ज्ञानं लाति ददातीति वा शुक्ला ‘शुक- गतौ’। वातो वायुस्स एव रशना कटिसूत्रं येषां ते तथा । श्राम्यंति तपतीति श्रमणाः । ‘श्रमु-तपसि खेदे च’ ऊर्ध्वमुपस्थोर्ध्वदेशे मंथति रुन्द्धति रेतो न तूपस्थदेश इत्यूर्ध्वमंथिनस्तेषां येषामुपस्थदेशे रेतः कदापि नायातीति भावः ॥ २० ॥ इति श्रीमद्भागवतभावार्थदी पिकाप्रकाशे पञ्चमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥ श्रीमद्वीरराघकयाख्या इत्येवं निगदेन गद्यात्मकसूक्तेनाभिष्टूयमानो भगवान् देवोत्तमः वर्षधरः भारतवर्षधारको नाभिस्तेनाभिवादितैः ऋत्विग्भिरभिवन्दितौ चरणौ यस्य सः सदयं दयासहितमिदं वक्ष्यमाणं वाक्यमाह ॥ १६ ॥
अहो ऋषयः अवितथगीर्भिः सत्यवाग्भिर्भवद्भिरसुलभं दुर्लभं वरं प्रत्यहमभियाचितः प्रार्थितः । बतेत्याश्चर्ये, कोऽसौ दुर्लभो वरस्तत्राह । मया सदृशः आत्मजो भूयादिति कथं तस्य वरस्य दौर्लभ्यं तत्राह । ममाहमेवाभिरूपः सदृशः कुतः कैवल्यात्प्रकृतिपुरुषविलक्षणस्वभावात् “न तत्समश्चाभ्यधिकश्च दृश्यते, नत्वत्समोस्त्यभ्यधिकः कुतोऽन्यः” इत्युक्तरीत्या प्रकृतिपुरुषविलक्षणसमाभ्यधिकरहितस्य सदृशान्तराभावान्मत्सदृशरूपो वरोऽतिदुर्लभ इत्यर्थः । यद्यप्ययं वरोऽतिदुर्लभस्तथापि हि यस्माद् द्विजदेवकुलं द्विजा एव देवास्तपोविद्यादिभिर्दोव्यमानास्तेषां कुलं ममैव हि मुखं “ब्राह्मणोऽस्य मुखमासीदिति” उक्तरीत्या मुखं ततो ब्रह्मवादः ब्रह्मकुलस्य मन्मुखभूतस्य वादो वचः मृषा मिथ्या न भवितुमर्हतीत्यहमेव मत्सदृशमन्यमनुपलभमानः कलयांऽशेनाग्नीध्रीये नाभिसम्बन्धिनि क्षेत्रे मेरुदेव्यामवतरिष्यामीत्येवं मेरुदेव्याः निशामयन्त्याः शृण्वन्त्याः सत्याः तत्पतिं नाभि प्रत्यभिधायोक्त्वा भगवान् यज्ञपुरुषोऽन्तर्दधेऽन्तर्हितवानित्यर्थः ॥ १७-१९ ॥
हे विष्णुरात ! राजन् तस्मिन् बर्हिषि यज्ञे एवं महर्षिभिः प्रसादितः आराधितो भगवान्नाभेः प्रियमिष्टं कर्तुं निर्वर्त्तितुमिच्छया तदवरोधायने नाभेर्भार्यायां मेरुदेव्यां शुक्लया सत्त्वप्रधानया तन्वावततार । किं कर्तुकामः वातरशनानां दिग्वाससां पाषण्डिव्यावृत्त्यर्थमाह । श्रमणानां तपस्विनामृषीणां ज्ञानिनामूर्ध्वमन्थिनां नैष्ठिकब्रह्मचारिणां धर्मान् दर्शयितुकामः । अयमंशावतारः कपिलः तावन्मात्रकृत ईश्वरत्वव्यपदेशः ॥ २० ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां तृतीयोऽध्यायः ॥ ३ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली निगदेन महिमाविष्कतॄणां स्तुतिवचनेन अनिमिषाणामृषभो देवानां श्रेष्ठः वर्षधराभिवन्दितचरणः नाभिवन्दित- श्रीपादः ।। १६ ।। * * किमाहेति । तत्राह । अहो इति । अहो विस्मयोऽयं बत तुष्टोऽहं “अहो हि विस्मये” इति यादवः G श्रीमद्भागवतम् [ एक. ५ अ. ३ श्लो. १६-२० “बताभिमन्त्रणे भूते तोषे खेदे कृपायां चेति” च । हे ऋषयः ! अवितथगीर्भिः सत्यवचनैः भवद्भिर्मया सदृशः आत्मजो भूयादिति य वरमभियाचित इति यदेतदसुलभं तत्कुतोऽत उक्तम् । ममेति । अभिरूपः एतदपि कुत इत्यत उक्तम् कैवल्यादिति । अद्वितीयत्वात् नन्वेषामृषित्वं मुनित्वं च गतमेतदद्वितीयत्वज्ञानाभावादिति चेन्न, भगवदुक्त्या लोकज्ञापनपरत्वादर्थनायाः न त्वद्वितीयत्वा- ज्ञानात्तदुक्तम् । “नास्ति विष्णोः समम्” इति जानन्तोऽप्यृषयः सदा तज्ज्ञापनाय लोकानामन्ये च प्रार्थयन् सममिति अन्ये कश्यपादयोऽपि हरिणा समं पुत्रमर्थयन्त इत्यर्थः । एवं चेद्भगवदुक्तमपि विद्वदङ्गीकृतमपहासकमिति तत्राह । अथापीति । कर्तव्यत्वे हेतुमाह । ममैवेति । द्विजदेवानां ब्राह्मणश्रेष्ठानाम् ।। १७-१८ ।। * * निशामयन्त्याः पश्यन्त्याः ॥ १९ ॥ * * बर्हिषि यज्ञे हे विष्णुरातः ! हे विष्णुदत्त ! परीक्षित्तस्य ! नाभेरवरोधजने भार्य्याजने वातरशनानां वायुवस्त्राणां दिगम्बराणा- मित्यर्थः । श्रमणानां परमहंसानां परमहंसाश्रमानुष्ठानवताम् ऊर्ध्वमन्थिनामूर्ध्वरेतसामृषीणां धर्मान् दर्शयितुकामो हरिः शुक्लया शुचं लोपयति नाशयति शुकं ज्ञानं लाति रातीति वा “शुक-गतौ” इति धातुः गतिर्ज्ञानमतिशयितसुखज्ञानत्वाद्वा शुक्ला तया तनुवा देहेन ।। २० ।। इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपद रत्नावल्यां तृतीयोऽध्यायः ॥ ३ ॥ श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः वातवसनानां संन्यासिनां श्रमणानां वानप्रस्थानामृषीणां तत्तन्मन्त्रदर्शनमययाज्ञिकानां गृहस्थानामित्यर्थः, ऊर्ध्वमन्थिनां ब्रह्मचारिणामपि तच्चरिते तस्य तस्य दर्शयिष्यमाणत्वात् ॥ २० ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे तृतीयोऽध्यायः ॥ ३ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी निगदेन गद्यात्मकस्तोत्रेण वर्षधरो भारतवर्षपतिर्नाभिस्तेनाभिवादिता ये ऋत्विजस्तैरभिवन्दितौ चरणौ यस्य अवितथगीर्भिरमोघवाग्भिः ।। १६ ।। * अभिरूपः सदृशः कैवल्यादिति अहं खलु जगदीश्वरः न हि जगदीश्वरोऽन्यः कश्चिदस्तीत्यर्थः । द्विजेषु देवा इव ब्राह्मणास्तेषां कुल ॥ १७ ॥ * * आग्नीधीये आग्नीधपुत्रे ॥ १८-१९॥ * * हे विष्णुदत्त ! तदवरोधायने तदन्तःपुरस्थले या मेरुदेवी बातबसनानां दिग्वाससा दिग्वाससो बाला अपि भवन्तीत्यत आह । श्रमणानां तपस्विनां तथाभूताः पाषण्डिनोऽपि भवन्तीत्यत आह । ऋषीणां शास्त्रोक्तज्ञानवतां तेषां ब्रह्मचर्य्यादभ्रंशमाह । ऊर्ध्वमन्थिनामूर्ध्वरेतसां शुक्लया शुद्धसत्वरूपया तनुवा तन्वा ।। २० ।। ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमस्य तृतीयोऽयं सङ्गतः सङ्गतः सताम् ॥ ३ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः इत्येवम्भूतेन निगदेन गद्यात्मकस्तवेन अभिष्टूयमानो वर्षधरेण भारतवर्षपतिना नाभिना अभिवादितैः ऋत्विग्भिर- भिवन्दितौ चरणौ यस्य स भगवान् सदयमिदमाह ।। १६ ।। * ॐ कैवल्यात् निःसमानातिशून्यत्वात् द्विजेषु त्रैवर्णिकेषु देवा इव द्विजदेवाः विप्रास्तेषां कुलम् ॥ १७ ॥ * * ततो हेतोः आग्नीध्रीये वंशे अवतरिष्यामि ।। १८ ।। इति भगवद्वचनं निशामयन्त्याः शृण्वन्त्याः पतिं नाभिम् अभिधायोक्त्वा ॥ १९ ॥ हे विष्णुदत्त ! परीक्षित्! बर्हिषि यज्ञे परमर्षिभिर्भागवतैः ऋत्विग्भिः प्रसादितः तदवरोधायने नाभेरन्तःपुरे मेरुदेव्यां शुक्लया शुद्धया तनुवा तन्वा अवततार । किं । कर्तुकामः वातरशनानां दिग्वाससां. पाषण्डिव्यावृत्त्यर्थमाह । श्रमणानां वेदोक्ततपोनिष्ठानाम् ऋषीणां ज्ञानिनाम् ऊर्ध्वमन्थिनां नैष्ठिकब्रह्मचारिणां धर्मान्दर्शयितुकामः || २० | इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे तृतीयाध्यायार्थप्रकाशः ॥ ३ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी इत्येवं निगदेन गद्यात्मकेन स्तोत्रेण अभिष्टूयमानः वर्षधरो भारतवर्षपतिर्नाभिस्तेन अभिवादिता ये ब्राह्मणास्तैरभि- वन्दितौ चरणौ यस्य स भगवान् अत एवानिमिषाणां देवानामप्यृषभः पालकः सदयं यथा भवति तथेदं वक्ष्यमाणमाहेत्यन्वयः ।। १६ ।। * * भगवद्वाक्यमेव दर्शयति अहो इति । हे ऋषयः, अत एव अवितथगीर्भिः सत्यवाग्भिर्भवद्भिः असुलभं दुर्लभमेव वरमहं अभियाचित इत्यन्वयः । अहो इति आश्चर्यमेव कृतमित्यर्थः । तद्वरमेव दर्शयति-यदिति । अमुष्य नाभेर्मया सदृश आत्मजः पुत्रो भूयादिति यदित्यन्वयः ।। १७ ।। * * कुतोऽस्य वरस्य दुर्लभत्वमिति हेत्वपेक्षायामाह - ममेति । ममाभिरूपः सदृशोऽ- हमेवेत्यन्वयः । तत्रापि हेतुमाह- कैवल्यादिति, मम सदृशस्य द्वितीयस्याभावादित्यर्थः । एवं श्रुत्वा स्ववचनस्य वितथत्वं शङ्कमानान् प्रत्याह- अथापि वरस्य दुर्लभत्वेऽपि ब्रह्मवादो ब्राह्मणानां युष्माकं वचनं मृषा भवितुं नार्हति । तत्र हेतुमाह - ममैवेति । हि ।स्कं. ५ अ. ३ श्लो. १६-२० ] ॥ अनेकव्याख्या समलङ्कृतम् ७९ यस्मात् द्विजेषु ब्राह्मणक्षत्रियवैश्येषु देवा इव प्रकाशमाना मान्या ये ब्राह्मणास्तेषां कुलं ममैव मुखमित्यन्वयः । तथाच युष्मद्वचना- न्यथात्वे मम मुखस्यैव अनृतवादित्वापत्तेरिति भावः । एतेन स्वभक्तब्राह्मणवाक्यस्य सत्यत्वं विधातुं भगवान्नाभिपुत्रो जातो न यज्ञादिप्रभावेणेति स्पष्टमेव ज्ञेयम् ॥ १८ ॥ * * तर्हि भवत्सदृशस्याभावात् कथमस्मद्वचनस्य सत्यता भविष्यतीत्यपेक्षाया- माह - तत इति । ततस्तस्माद् ब्राह्मणवचनस्य वितथत्वस्यायुक्तत्वात् आत्मतुल्यं ऐश्वर्यादिभिः स्वसदृशमन्यं अनुपलभमानोऽपश्यन्नह- मेव अंशकलया’ स्वांशेन आग्नीधीये आग्नीधपुत्रे नाभौ अवतरिष्याम्येतत्पुत्रो भविष्यामीत्यन्वयः ॥ १९ ॥ * मेरुदेव्याः नाभेर्भार्यायाः निशामयन्त्याः सत्यास्तस्याः पतिं नाभि इत्येवमभिधाय उक्त्वा भगवानन्तर्दधे इत्यन्वयः । मेरुदेव्या निशामयन्त्या इत्यनेन भगवतः स्वपुत्रत्वाङ्गीकारश्रवणेन तस्या अपि महानानन्दो जात इति सूचितम् । भगवानित्यनेनैव सर्वज्ञो नाभेरभिप्रायं जानन्नपि प्रसन्नतया वरदानार्थं कृपया प्रादुर्बभूव, एवं पुत्रत्वाङ्गीकारेऽपि तस्य स्वातन्त्र्यभङ्गाभावः, भगवानप्यस्य पुत्रत्वमङ्गीकृत- वानिति नाभेर्यशश्चेत्यादि सर्वं सूचितम् ॥ २० ॥ * * हे विष्णुदत्त तस्मिन् बर्हिषि नाभेर्यज्ञे एवमुक्तेन प्रकारेण परमर्षिभिः प्रसादितो भगवान् नाभेः प्रियचिकीर्षया तस्यावरोधायनेऽन्तःपुरे मेरुदेव्यां शुक्रया शुद्धसत्त्वात्मिकया तनुवा मूर्त्या अवतता रेत्य- न्वयः । सम्बोधनेन कृपापरवशस्य भगवतो भक्तान्प्रति न किञ्चिददेयं न वा किञ्चिदकार्यं न वा किञ्चित्कर्तुमशक्यमस्तीति तु त्वया मातुर्गर्भ एव दृष्टमिति नाश्वर्य कार्यमिति सूचितम् । ननु नाभेः पुत्रकामस्य पुत्रप्रदानेनैव कामपूर्तिसम्भवात् किमर्थं स्वयं पुत्रो जातः ? न च नाभेर्भगवत्सदृशपुत्रस्यैव कामनाऽतो नाल्पपुत्रदाने तत्पूर्तिरिति वाच्यम्, तत्कामनायास्तथात्वेऽपि मत्सदृशोऽन्यो नास्तीति प्रत्याख्यानेनैव तस्य निरुत्तरत्वसम्भवात् तादृशकामनाया अपि भगवतोऽन्तर्यामिण इच्छां विना असम्भवात् । अतोऽ- वतारस्य कार्यान्तरमप्यवश्यं वक्तव्यमित्यपेक्षायामाह - धर्मानिति । ऋषीणां विवेकिनां सर्वतो विरक्तानां धर्मान् दर्शयितुकामः स्वाचारेण लोके प्रचारयितुकाम इत्यन्वयः । अवतारं विना तदसम्भवादिति भावः । ननु विरक्तत्वे किं लिङ्गमित्याकाङ्क्षायां सर्व- विरक्तिशिरोमणि स्त्री सम्भोगराहित्य मेवेत्याशयेनाह - ऊर्ध्वमन्थिनामिति । कथमेवं स्त्रीसंसर्गराहित्यमित्याकाङ्क्षायां देहाद्यनुसन्धा- नाभावादित्याशयेनाह — वातरशनानामिति, दिग्वाससामित्यर्थः । एवं विरक्तताऽपि कथं तत्राह — श्रमणानामिति, अनेकजन्मसु — । — तपस्स्वाध्यायसंयमध्यानादिषु कृतश्रमाणामित्यर्थः ।। २१ ।। इति THPE एडीएमए महावी श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र कृष्णेन स्थितिरूपणे । तृतीयो विवृतोऽभ्यायो यशःप्राप्तिनिरूपकः ॥ ३ ॥ श्रीमद्भिरिधराख्येन श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी बर्हिषीति । हे विष्णुरात परीक्षिद्राजन्, तस्मिन्नाभिनृपकृते, बर्हिषि यज्ञे, एवमुक्तप्रकारेण, परमर्षिभिः प्रसादितः समाराधितः, भगवान् श्रीहरिः, नाभेः प्रियचिकीर्षया प्रियं कत्तु मिच्छया, तदवरोधायने नाभेर्भार्यायां मेरुदेव्यां, वातरशनानां दिग्वाससां, पाषण्डिव्यावृत्त्यर्थमाह । श्रमणानां तपस्विनां, ऋषीणां ज्ञानिनां ऊर्ध्वमन्थिनां नैष्ठिकब्रह्मचारिणां धर्मान् दर्शयितुकामः, शुक्लया सत्त्वप्रधानया तनुवा तन्वा अवततार ।। १६ ।। इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दस्वामिसुत श्रीरघुवीराचार्य सुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥ हैं—राजन् ! भाषानुवादः * पूर्वो श्रीशुकदेवजी कहते हैं— राजन् ! वर्षाधिपति नाभिके पूज्य ऋत्विजोंने प्रभुके चरणोंकी वन्दना करके जब पूर्वोक्त स्तोत्रसे स्तुति को, तब देवश्रेष्ठ श्रीहरिने करुगावश इस प्रकार कहा-॥ १६ ॥ श्रीभगवानने कहा – ऋषियों ! बड़े असमंजसकी बात है । आप सब सत्यवादी महात्मा हैं, आपने मुझसे यह बड़ा दुर्लभ वर माँगा है कि राजर्षि नाभिके मेरे समान पुत्र हो । मुनियो ! मेरे समान तो मैं ही हूँ, क्योंकि मैं अद्वितीय 1. तो भी ब्राह्मणोंका वचन मिथ्या नहीं होना चाहिये, द्विजकुल मेरा ही तो मुख है ॥ १७ ॥ इसलिये मैं स्वयं ही अपनी अंशकलासे आग्नीधनन्दन नाभिके यहाँ अवतार लूँगा, क्योंकि अपने समान मुझे कोई और दिखायी नहीं देता ।। ई और दिखायी नहीं देता ।। १८ ।। श्रीशुकदेवजी कहते. है— महारानी मेरुदेवीके सुनते हुए उसके पतिसे इस प्रकार कहकर भगवान् अन्तर्धान हो गये ॥ १९ ॥ * * विष्णुदत्त परीक्षित् ! उस यज्ञमें महर्षियोंद्वारा इस प्रकार प्रसन्न किये जानेपर श्रीभगवान् महाराज नाभिका प्रिय करने के लिये उनके रनिवास में रनिवास में महारानी मेरुदेवीके गर्भसे दिगम्बर संन्यासी और ऊर्ध्वरेता मुनियोंका धर्म प्रकट करनेके लिये विग्रहसे प्रकट हुए ।। २० ॥ इति तृतीयोऽध्यायः ॥ ३ ॥ * शुद्धसत्वमय अथ चतुर्थोऽध्यायः श्रीशुक उवाच अथ ह इ तमुत्पस्यैवाभिव्यज्यमानभगवलक्षणं ‘साम्योपशमवैराग्यैश्वर्य महाविभूतिभिरनुदिनमेघमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्वावनितलसमवनायातितरां जगृधुः ॥ १ ॥ तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छू- लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ॥ २ ॥ तस्य’ हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्मयोग मायया स्ववर्ष मजनाभं नामाभ्यवर्षत् || ३ || नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसं धर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः ॥ ४ ॥ र विदितानुरागमापौरप्रकृति जनपदों राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप ॥ ५ ॥ यस्य ह पाण्डवेय श्लोकावुदाहरन्ति- को नु तत्कर्म राजर्षेर्नाभेरवाचरेत्पुमान् । अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६॥ ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः । यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७ ॥ अथ ह भगवानृषभदेवः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरु कुलवादो लब्धवरैर्गुरुभिरनुज्ञातो गृह- मेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म समाम्नाया " नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ॥ ८ ॥ अन्वयः – अथ ह प्रकृतयः प्रजाः ब्राह्मणाः देवताः उत्पत्त्या एवं अभिव्यज्यमानभगवल्लक्षणम् साम्योपशम वैराग्यैश्वर्य- महाविभूतिभिः अनुदिनम् एधमानानुभावम् तम् अतितराम् अवनितलसमवनाय जगृधुः ॥ १ ॥ * * तस्य ह वा इत्थम् वरीयसा बृहच्छ्लोकेन वर्ष्मणा च बलेन ओजसा श्रिया ओजसा श्रिया यशसा च वीर्यशौर्याभ्यां पिता ऋषभः इति इदम् नाम न ववर्ष तत् चकार ॥ २ ॥ * * हि तस्य स्पर्धमानः भगवान् इंद्र: वर्षे अवधार्य भगवान् योगेश्वरः ऋषभदेवः प्रहस्य आत्म योगमायया अजनाभम् नाम स्ववर्षम् अभ्यवर्षत् ॥ ३ ॥ * नाभिः तु यथाभिलषितम् सुप्रजस्त्वम् अवरुध्य अतिप्रमोदभरविह्वलः गद्गदाक्षरया गिरा स्वैरम् गृहीतनर लोकसधर्मम् भगवन्तम् पुराणपुरुषम् मायाविलसितमतिः वत्स तात इति सानुरागम् उपलालयन् पराम् निर्वृतिम् उपगतः ॥ ४ ॥ * * जनपदः नाभिः राजा आपौरप्रकृति विदितानुरागम् आत्मजम् समयसेतुरक्षायाम् अभिषिच्य ब्राह्मणेषु उपनिधाय मेरुदेव्या सह विशालायाम् प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यम् भगवन्तम् वासुदेवम् उपासीनः कालेन तन्महिमानम् अवाप ॥ ५ ॥ * * पांडवेय यस्य ह श्लोको यस्य ही १. २. प्रा० पा० – ३. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - ६. ७. प्रा० पा० - ८. प्रा० पा० - ९ प्रा० पा० - १० प्रा० पा० - ११. १२. प्रा० पा० - १३.
स्कं. ५ अ. ४ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् उदाहरंति राजर्षेः नाभेः तत् कर्म कः पुमान् तु अन्वाचरेत् यस्य शुद्धेन कर्मणा हरिः अपत्यताम् अगात् ॥ ६ नाभेः अन्यः ब्रह्मण्यः कुतः यस्य बर्हिषि मंगलपूजिताः विप्राः ओजसा यज्ञेशम् दर्शयामासुः ॥ ७ ॥ * * अथ ह स्ववर्षम् कर्मक्षेत्रम् अनुमन्यमानः प्रदर्शितगुरुकुलवासः लब्धवरैः गुरुभिः अनुज्ञातः गृहमेधिनाम् धर्मान् अनुशिक्षमाणः भगवान् ऋषभदेवः समाम्नायाम्नातम् उभयलक्षणम् कर्म अभियुंजन इंद्रदत्तायाम् जयंत्याम् आत्मसमानानाम् आत्मजानाम् शतम् जनयामास || ८ | श्रीधरखामिविरचिता भावार्थदीपिका चतुर्थादित्रिभिः प्रोक्तमृषभस्येहितं महत् । लोकार्थं येन सत्कर्म नैष्कर्म्यं च निदर्शितम् ॥ १ ॥ चतुर्थे शतपुत्रस्य राज्यं तस्योपवर्ण्यते । यस्य राज्ये जनः सर्वः सन्तोषामृतनिर्वृतः ॥ २ ॥ वर्धमान प्रभावम् । प्रकृतयो पादतलादिपु वस्त्रांकुशादीनि यस्य । महाविभूतिः सर्वसम्पत्तिः । साम्यादिभिः सह ।। ।। * www.y । अभिव्यज्यमानानि । । वर्धमानप्रभावम् । प्रकृतयोऽमात्यादयः । जगृधुर भिकांक्षन्ति स्म ॥ १ ॥ * * वर्ष्मणा देहेन । तस्य विशेषणद्वयम् । वरीयसा श्रेष्ठतमेन । बृहन्तः श्लोकाः पद्यानि कवीनां यस्मिंस्तेन च । ओजस्तेजः । वीर्य प्रभावः । शौर्यमुत्साहः । एतैर्गुणैरति- श्रेष्ठत्वादृषभः श्रेष्ठ इति नाम चकार ॥ २ ॥ * * तस्य वर्षे मण्डले ॥ ३ ॥ अवरुध्य प्राप्य । स्वैरमिच्छया गृहीतो नरलोकसमानधर्मो मनुष्याकारों येन तम् । अत एव मायया स्वपुत्र इति विलसिता मतिर्यस्य ॥ ४ ॥ * * आपौर- प्रकृति पौरान्प्रकृतीचाभिव्याप्य विदितोऽनुरागो यस्मिन् । कथंभूतो नाभिः । जनपदः जनाः पौरादयः पदं प्रमाणं यस्य सः । आत्मजं धर्ममर्यादारक्षणार्थमभिषिच्य । ब्राह्मणानामुत्संगे निधाय विशालायां बदरिकाश्रमे । प्रसन्नं परानुद्वेजक निपुणं तीव्रं च तेन । उपासीनः सेवमानः कालेन तन्महिमानं जीवन्मुक्तिमवाप ॥ ५ ॥ * * नाभेस्तत्प्रसिद्धं कर्म । अनु तदनन्तरं को नु पुमानाचरेत् । न कोऽपीत्यर्थः ॥ ६ ॥ * मंगलैर्दक्षिणाभिः पूजिताः सन्तः ओजसा मन्त्रबलेन ॥ ७ ॥ * अन्येषां ७ । * ग्रहणाय प्रदर्शितो गुरुकुलवासो येन । अनुशिक्षमाणो ऽनुशिक्षयन् उभयविधं श्रुतिस्मृतिलक्षणं कर्मविधिमभियुजन्ननुतिष्ठन् जयंत्यां भार्यायामात्मजानां शतं जनयामास ।। ८-९ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः Pin महत् श्लाघ्यम् । सत्कर्म वैदिकं कर्म ( १-२ ) । अभिव्यज्यमानानि प्रकटीभूतानि । आदिना ध्वजशंखादिग्रहः । अमात्यादयः “स्वाम्यमात्यसुहृत्कोशराष्ट्र दुर्गबलानि च । राज्यांगानि प्रकृतयः” इत्यमरः । उपशमः बाह्यांन्तरिन्द्रियनिग्रहः ॥ १ ॥ * वर्ष्मणादिहेतुना पिता यद्यपि ‘उत्तरस्थः स्मृतः श्रेष्ठः’ इति मेदिन्युक्तः केवलर्षभशब्दस्य श्रेष्ठवाचकत्वं नास्ति, तथाप्यत्रार्थमार्गेण तादृश एव भवति । यथोक्तं वर्ष्मणार्षभः । अत्रार्थे क्रियमाणे वर्षभ ओजऋषभ इत्यादिनामैव जायते इति । आत्वात्केवलोपि वा श्रेष्ठार्थाभिधायीति ॥ २ ॥ * इन्द्रस्पर्द्धा तु शतयज्ञविधायित्वादेव ‘क्रतुभिः शतकृत्व इयाज’ इति वक्ष्यमाणत्वात् । अजऋषभो नाभिस्तत्पिता ताभ्यां रक्षितमजनाभमिति । वृद्धिस्तु पाक्षिकत्वान्न ॥ ३ ॥ * * “सुप्रजा- स्त्वमंगिरसो वो अस्तु प्रतिगृह्णीत मानवं सुमेधस इति । रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय” इति च श्रुतौ प्रसिद्धोऽयं प्रयोगोऽतोऽत्रा शुद्धिन शक्येति । मायया पुत्रज्ञानेन विलसिता विकसिता मतिर्यस्य सः । ‘स्यान्माया शांबरीबुद्धयोः” इति त्रिकाण्ड- प्रयोगोऽतोऽत्राशुद्धिर्नाशंक्येति । शेषः ॥ ४ ॥ * * प्रमाणं राज्याभिषेक एव “पदं व्यवसितित्राणस्थानलक्ष्मांघिवस्तुषु” इत्यमरः । समयानां सदाचाराणां या मर्यादा तस्या रक्षणे ब्राह्मणानामुत्कृष्टसंगे शास्त्रश्रवणादिरूपे निधाय त्वया हे पुत्र सर्वदा शास्त्रविद्ब्राह्मणसँग: कार्य इत्युक्त्वा “विशालेन नृपतिना यतस्तप्तं विशेषतः । अतो विशाला सा प्रोक्ता बदरीवनमेदिनी ॥” इति वाराहे । “समयः शपथाचार सिद्धांतेषु तथा धियि” इति मेदिनी । “सेतुः स्याद्वालमर्यादाजललंघनसाधने” इति कोशात् । स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन्निति पूर्वाध्याय ऋत्विगाद्युक्तस्तन्महिमानं मोक्षम् । यद्वा ‘मदीयं महिमानं परं ब्रह्मेति शब्दितम्” इति श्रीमत्स्योक्त: । परं ब्रह्मावा- पेत्यर्थः । उभयथैक एवार्थः सम्पद्यते परब्रह्मावाप्तेरेव मोक्षत्वात् ॥ ५ ॥ * * यस्य नाभेः सम्बन्धिना । इत्यर्थं इति । तत्तुल्यस्यान्यस्याभावादिति भावः । शुद्धेन कर्मणा भक्तियोगेन । पाण्डवेयेति । त्वमप्यतिप्रसिद्धसुकर्मपाण्डु वंशोद्भूतत्वात्तादृश एवेति भावः ॥ ६ ॥ * * ‘मंगलं भगवान्विष्णुः’ इत्यायुक्तेर्मङ्गलत्वेन विष्णुधिया पूजिताः । मंगलमिति भावप्रधान - निर्देशः । यद्वा – “हिरण्यं दधि रत्नानि गावो भूमिश्च कन्यकाः । लाजास्तिला हरिद्रा च रोचनागुरुकुंकुमाः ॥ मंगलार्था इमे शब्दास्सितदूर्वा च मंगले ||” इत्यभिधानाद्, दक्षिणा स्तुतिपाठादिभिरर्चिता ओजसा तपोबलेन ‘नासाध्यं तपसा किश्चित्’ इत्युक्तेः । यज्ञेशं यज्ञफलदं विष्णुं तनेत्रगोचरीचक्रुः । तत्र हेतुमाह - विप्रा इति । विशेषेण प्रान्ति निजार्चकाभीष्टं पूरयन्तीति विप्राः, विपूर्वकात् प्रा पूरण इति धातोः “आतश्चोपसर्गे” इति कः। समीहितार्थार्पणकामधेनवः’ इति स्मृतेः ॥ ७ ॥ * * अन्येषां ग्रहणाय शिक्षणाय यद्यहं गुरुसेवापूर्वक शास्त्राध्ययनं करिष्ये तदान्येपि तथा करिष्यन्तीति बोधनायेत्यर्थः, लब्धवरैः प्राप्तदक्षिणैः “विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्नाः कर्मणा वा धनैर्वा । तेषां पापं भ्रूणहत्याविशिष्टं तेभ्यो लोके पापकृन्नैव चान्यः ॥ ११ श्रीमद्भागवतम् [ स्क..५ अ. ४ श्लो. १८ भारतो तेर्विना गुरुदक्षिणादानं गृहे न गन्तव्यमिति भावः । सम्यगाम्नायेन ब्राह्मणोपदेशेनाम्नातमभ्यस्तम् । “आम्नायो निगमेपि च । उपदेशेषि” इति मेदिनी ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या
एवं नाभेश्चरित्रमुपवर्णितमुपसंहरंस्त्रिभिरध्यायैर्नाभेः पुत्रस्य ऋषभस्य चरित्रमुपवर्णयति । अथेति । अथ हावतारानन्तरमुत्पत्त्यैव जन्मनैवाभिव्यज्यमानानि भगवल्लक्षणानि पादतलादिषु वज्राङ्कुशादीनि यस्य साम्यं सर्वभूतेषु समत्वमुपशमः अन्तर्बाह्येन्द्रियनियमः वैराग्यं विषयेष्वनासक्तिः ऐश्वर्यं सर्वभूतनियन्तृत्वं महाविभूतिः सर्वसम्पत्तिः साम्यादिभिः सह वर्द्धमानः अनुभावः प्रभावो यस्य तं निशाम्य दृष्ट्वा प्रकृतयोऽमात्यादयः प्रजा जना ब्राह्मणा देवताश्च गोबलीवर्दन्यायेन ब्राह्मणदेवता इत्युक्तमवनितलसमवनाय भूमण्डलपरिपालनायातितरां भृशं जगृधुरैच्छन् ॥ १ ॥
तस्य जातस्य पुत्रस्य इत्थं सत्त्वप्रधानेन वरीयसा श्रेष्ठेन वर्ष्मणा देहेन बृहत्श्लोकेन विपुलगुणप्रथया ओजसा इन्द्रियबलेन बलेन देहबलेन श्रिया सम्पदा यशसा विपुलचरित्रप्रथया वीर्यं पराभिभवसामर्थ्यं शौर्य्यं रणमध्ये स्वगृहे इव प्रवेशसामर्थ्यं ताभ्यां चातिशयितप्रभावत्वेन श्रेष्ठत्वादृषभ इति नामधेयं पिता नाभिश्चकार ॥ २ ॥
ऋषभशब्दप्रवृत्तिनिमित्तं प्रभावातिशयमेव संग्रहेणाह । यस्य हीति । यस्य ऋषभस्य वर्षे राज्ये भारतवर्षे स्पर्द्धमानः ऋषभेण विरोधमाचरन्निन्द्रः न ववर्षं वृष्टिं निरुद्धवान् । तदिन्द्रकर्तृकमवर्षणमवधार्य निश्चित्येन्द्रकृत्यः प्रहस्य भगवानृषभदेवो योगेश्वरः आत्मीयविचित्रशक्त्या स्वयमेवाजनाभवर्षं भारतवर्षस्य प्राक्तनं नामाजनाभमित्यवर्षत् ॥ ३ ॥
नाभिस्तु यथाभिलषितं स्वेच्छानुरूपं सुप्रजस्त्वं शोभना प्रजा यस्य सः सुप्रजाः “नित्यमसिच्प्रजामेधयोः” इत्यसिच्, तस्य भावः सुप्रजस्त्वं सुपुत्रत्वमवरुध्य प्राप्य निरतिशयप्रमोदेन विह्वलः गद्गदया गिरा मायया भगवन्मायया स्वपुत्र इति विलसिता मतिर्यस्य सः । हे वत्स ! तातेति सानुरागं पुत्रमुपलालयन् परां निर्वृतिमानन्दमुपगतः प्राप्तः । कथंभूतं पुत्रं स्वैरं स्वेच्छया गृहीतः नरलोकसधर्मः मनुष्याकारो येन भगवन्तं षाड्गुण्यपूर्णं पुराणं पुरुषं पुरापि नवः पुराणः तं पुरुषं पुरुषशब्दवाच्यं तत्ततो राजा नाभिरापौरप्रकृतिजनपदं पौरान्प्रकृतीर्देशवासिनश्चाभिव्याप्य विदितोऽनुरागो यस्मिन्, जनपद इति पाठे आर्षत्वात् प्रयोगस्य “नाव्ययीभावादतोऽमित्य” मभावः “अव्ययादाप्सुपः” इति लुगभावश्च । नाभिरात्मजं समयसेतवः वर्णाश्रमधर्ममर्यादास्तेषां रक्षायामभिषिच्य राज्याभिषिक्तं कृत्वेत्यर्थः । ब्राह्मणानामुत्सङ्गेऽङ्के निधाय विशालायां बदरिकाश्रमे मेरुदेव्या स्वभार्यया सह प्रसन्नेन परानुद्वेजकेन निर्विण्णेन विघ्नानुपहतेन समाधिना साङ्गेन भक्तियोगेन भगवन्तं नारायणाख्यं वासुदेवमुपासीनः कालेन प्रारब्धावसानकालेन तस्य वासुदेवस्य महिमानमवाप प्राप्याविर्भूतगुणाष्टकोऽभून्, मुक्तोऽभवदिति यावत् ॥ ४-५ ॥
नाभेश्वरित्रं निगमयन् तत्प्रभावप्रतिपादकौ श्लोकावुदाहर्तुं तयोः सर्वपरिगृहीतत्वमाह यस्येति । हे पाण्डवेय ! यस्य नाभेः श्लोकौ “लोपः शाकल्यस्य” इति वस्य लोपे तस्यासिद्धत्वात्स्वरसंध्यभावः, उदाहरन्ति आर्या इति शेषः तावाह । कोनु इति । राजर्षेर्नाभस्तत्प्रसिद्धं कर्म को नु पुमानाचरेत्कुर्यान्न कोऽपीत्यर्थः, यस्य नाभेः शुद्धेन कर्मणा भगवानपत्यतां पुत्रतामगात्प्राप्तः ॥ ६ ॥
नाभेरन्यः कुतो ब्रह्मण्यः को ब्रह्मण्य इत्यर्थः । प्रथमार्थे तसिरार्षः । यस्य नाभेर्बर्हिषि यज्ञे मङ्गलैर्निजार्जितधनादिभिः पूजिता विप्राः ओजसा मन्त्रबलेन यज्ञेशं दर्शयामासुः प्रदर्शितवन्तः ॥ ७ ॥
अथ राज्याभिषेकानन्तरं भगवानृषभदेवः स्ववर्षमजनाभं वर्षं कर्मक्षेत्रं स्वर्गापवर्गसाधनकर्मानुष्ठानयोग्यं स्थानं मन्यमानः अन्येषां ग्रहणाय प्रदर्शितो गुरुकुलावासो येन उपलब्धाः वरा यैस्तैर्गुरुभिरनुज्ञातः गृहमेधिनां गृहाश्रमिणां धर्माननुशिक्षमाणः अनुशिक्षयितुमित्यर्थः । समाम्नातं विहितमुभयविधं प्रवृत्तिनिवृत्तिलक्षणं श्रौतस्मार्त्तरूपं वा कर्माभियुञ्जन्ननुतिष्ठन् इन्द्रेण दत्तायां जयन्त्यां भार्यायामात्मजानां शतं जनयामास । येषामात्मजानां मध्ये भरतो नाम ज्येष्ठः पुत्रः श्रेष्ठगुण आसीत्, येन भरतेन भरतसम्बन्धेन इदमजनाभं वर्षं भारतमिति व्यपदिशन्ति व्यवहरन्ति ॥ ८-९ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ऋषभनाम्नो हरेर्गार्हस्थ्यधर्म प्रदर्शनव्याजेन देवादीनामवन्यवतारे तत्प्रवर्तकप्रकारो दरीदृश्यतेऽस्मिनध्याये । तत्रादौ तस्मिल्लोकानुरागप्रकारं कथयति अथेति ॥ १ ॥ * * अथ पिता तद्गुणानुविशिष्टं नाम चकारेत्याह तस्येति । इत्थं विचिन्त्य कथम् “ऋष ज्ञाने भा दीप्तौ” इति धातुद्वयार्थत्वेन वरीयसा श्रेष्ठेन वर्ष्मणा देहेन ज्ञानप्रकाशदेहत्वादृषभ इति ‘ऋटुरषाणां मूर्धे’ ति स्थानसाम्याटकारेण णकारो लक्ष्यते, तेन णकारषकाराभ्यामोजोबले गृह्येते “णकारो बलं षकारः प्राण आत्मा” इति श्रुतेः, बृहता लोकेन ग्रन्थनिबद्धेन यशसा किंवदन्तीति लक्षणेन सामान्यविशेषात्मना वा श्रौतस्मार्त कर्मानुष्ठाननिमित्तप्रसिद्ध- लक्षणदीप्त्या वा श्लोकेन यशसा श्रिया कान्या सर्वमेतद्भकारेण गृह्यते ऋषभ इति समस्तेन वीर्यशौर्ये गृह्येते “ऐश्वर्यस्य समग्रस्य” इति वचनात् शश्वत् षगुणवत्त्वाद्वा ऋषभ इति वलिभ इतिवन्मत्वर्थे भः, ईटकू नाम ईटक गुणविशिष्टं नाम ॥ २ ॥ * * अस्माद्धेतोश्चैवेदं नामास्येति भावेनाह यस्येति । योगमायया स्वरूप सामर्थ्येन अभ्यवर्षदृष्टियुक्तमकार्षीत् । अत्र इन्द्रशब्देनेन्द्रपदे ॥ रक. ५ अ. ४ श्लो. १-८ 1 अनेकव्याख्या समलङ्कृतम् स्थितः यज्ञनामा हरिर्गृह्यते । तदुक्तम् “दुष्टानां मोहनार्थाय यज्ञ इन्द्रपदे स्थितः । पस्पर्ध ऋषभेणैव स्वरूपेण हरिः मानवं सुमेधसः” इति श्रु श्रुतेः, स्वयम् ॥” इति ॥ ३ ॥ * * सुप्रजस्त्वं तत्पुत्रत्वं “सुप्रजस्त्वमङ्गिरसो वोऽस्तु प्रतिगृभ्णात स्वैरं स्वेच्छया गृहीतों नरलोकधर्मो मेहनादिः काकपक्षादिर्वा चौलादिर्वा वक्ष्यमाणगुरुकुलवासादिर्वा येन स तथा मायया प्रकृत्या विलसिता वशीकृता मतिर्यस्य स तथा । मायाविलासमेव वक्ति वत्सेति । पौरादीनां पुत्रे योऽनुरागः स विदितो येन स तथा समयसेतुरक्षायां “समयस्तु क्रियाकारे सङ्केते चरिते सताम् । सिद्धान्ते शपथे काले” इत्यभिधानोक्तार्थरक्षणे विशालायां बदरिकाश्रमे नगरीग्रहणं नरनारायणाख्यमित्युक्तिं विरुणद्धि । कालेन ज्ञानादिसामग्री लक्षितेन तस्य हरेर्महिमानं जरामरणादिराहित्य- लक्षणं न तु स्रष्टृत्वादिलक्षणम् ॥ ४-५ ॥ * हे पाण्डवेय ! ओजसा तपोजनितेन ।। ६-७ ॥ * उपलब्ध- दक्षिणाख्यवरैः उभयलक्षणं प्रवृत्तिनिवृत्तिलक्षणं समाम्नायाम्नातं समीचीनेषु निर्दोषेषु आम्नायेषु देवेष्वाम्नातमभ्यस्तमभि- युञ्जन्प्रयुञ्जानः कुर्वाण इत्यर्थः, आत्मसमानानां लक्षणैरिति शेषः ॥ ८ ॥ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः 2 साम्यादिभिः पूर्वस्यैवान्वयः, वर्मादिभिः ऋषभः श्रेष्ठ इति हेतोरिदमृषभ इत्येतन्नाम चकार ॥ १-४ ॥ समयसेतुरक्षायां न तु राजत्वे इति ज्ञेयं, तदाहि तदुचितगार्हस्थ्याश्रमपरिग्रहाभावात् राज्याभिषेकस्तु पश्चात् ब्राह्मणैरेव कर्तव्य इति ज्ञेयम् ।। ५-६ ।। मङ्गलमंत्र सुखभावः ।। ७-१३ ॥ ५ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी * बृहन्तः श्लोकाः कवीनां चतुर्थे पुत्रशतकं भरतप्रवरं प्रभुः । जनयित्वा व्यधाद्राज्यं प्रजानां सार्वकामिकम् ॥ १ ॥ जगृधुरभिचकाङ्क्षुः ।। १ ॥ * * वर्ष्मणा देहेनेत्यस्य ॥ ॐ 8 वर्ष्मणा देहेनेत्यस्य विशेषणद्वयम् वरीयसा श्रेष्ठेन बृहन्तः यस्मिन् तेन वीर्यं प्रभावः शौर्यमुत्साहः । ऋषभ इति श्रेष्ठत्वादित्यर्थः ॥ २ ॥ * अजः श्रीऋषभदेवः नाभिस्तत् पिता ताभ्यां रक्षितत्वादजनाभसंज्ञमित्यर्थः । वृद्वयभाव आषः ॥ ३ ॥ * अवरुद्वय प्राप्य मायया पुत्रज्ञानेन विलसिता मतिर्यस्य सः “स्यान्माया शाम्बरीबुद्धयोः” इति त्रिकाण्डशेषः ॥ ४ ॥ * आपौरप्रकृति पौरान प्रकृतीचाभिव्याप्य विदितोऽनुरागो यस्मिंस्तं कथंभूतो नाभिः जनपदः जनाः पौरादय एवं पदं आत्मजाभिषेके प्रमाणं यस्य सः । समयानां सदाचाराणां या मर्यादास्तद्रक्षणाय विशालायां बदरिकाश्रमे प्रसन्नेन सर्वत्र प्रसादवता सर्वसुखदेनेत्यर्थः । निपुणेन फलसाधनसामर्थ्येन तस्यैव महिमा यत्र तं वैकुण्ठम् ॥ ५ ॥ शुद्धेन कर्मणा भक्तियोगेन ॥ ६ ॥ ॥ 8
-
- मङ्गलं यथा स्यात्तथा दक्षिणादिभिः प्रसादिता भक्तत्वान्मङ्गलेनैव कर्त्रा पूजिता इति वा ओजसा भक्तिबलेन ॥ ७ ॥ * अनुमन्यमानो जानन् प्रदर्शितेत्यन्येषां ग्रहणायेत्यर्थः । लब्धवरैर्लब्धदक्षिणैः अनुशिक्षमाणः शिक्षयन् उभयविधं श्रुतिस्मृतिलक्षणमुभयलक्षणमिति पाठः । सम्यगाम्नायेन ब्राह्मणोपदेशेनाम्नातमभ्यस्तमभियुञ्जन् अनुतिष्ठन् “आम्नायो निगमेऽपि च । उपदेशेऽपि” इति मेदिनी ।। ८-९ ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः अथेत्याद्यध्यायन्त्रयेण ऋषभचरित्रं वर्णयति । उत्पत्त्यैव जन्मनैव अभिव्यव्यमानानि भगवलक्षणानि यस्य तम, प्रकृतयः मन्त्रिप्रभृतयः अवनितलस्य सम्यगवनाय जगृधुः अभिकाङ्क्षन्ति स्म ॥ १ ॥ * * वरीयसा अतिशयतो वरेणोत्कृष्टेन बृहन्तः उपादेयत्वेन श्रेष्ठाः श्लोकाः कवीनां यस्मिन् तेन वर्ष्मणा देहेन ओजआदिभिश्चातिश्रेष्ठत्वादृषभः श्रेष्ठ इति नाम चकार ॥२॥ * तस्य वर्षे अजनाभाख्ये मण्डले ॥ ३ ॥ नाभिर्यथा अभिलषितं कामितं तथैव सुप्रजस्त्वं सुपुत्रत्वम् अवरुध्य प्राप्य अतिप्रमोदभरेण विह्वलः स्वैरं स्वेच्छया गृहीतो नरलोकसधर्मः नरलोकसमानो धर्मः वेदोक्तमार्गो येन तम् भगवन्तं वत्स ! तातेति गिरा उपलालयन् परां निर्वृतिमुपगतः प्राप्तः । यतो मायया भगवत्कृपया विलसिता मतिर्यस्य सः ॥ ४ ॥ * * नाभिः जनपदः जनाः पौरादयः पदं प्रमाणं यस्य सः पौरादिलक्षणे तन्मतानुसारीत्यर्थः । अतः समयसेतुरक्षायां वेदोक्तप्रजापालनादिधर्ममर्यादारक्षायाम् आपौरप्रकृति पौरान् मन्त्र्यादिरूपान् प्रकृतीश्चाभिव्याप्य विदितः अनुरागो यस्मिन् तम् अभिषिच्य ब्राह्मणेषु हेयोपादेय रूपसकलव्यवहारशास्तृषु उपनिधाय विशालायां नरनारायणाश्रमे प्रसन्ननिपुणेन प्रसन्नं सात्त्विकं निपुणं सुदृढं च तेन तपसा समाधियोगेन भगवत् समाधिरूपेण योगेनोपायेन वासुदेवमुपासीनः
-
- तत्प्रसिद्धं कर्म ॥ ६ ॥ तन्महिमानं तत्साधर्म्यमवाप ॥ ५ ॥ येते अथेहार्थ प्रदर्शि* मङ्गलेन श्रद्धाजवादिना पूजिताः ॥ ७ ॥
-
- उपनयनादारभ्य तच्चरित्रं वर्ण्यते अथेति । लोकसंग्रहार्थं प्रदर्शितो गुरुकुलवासो येन अनुशिक्षमाणः अनुशिक्षयन् उभयलक्षणं जायापतियुग्मानुरूपं समाम्नायाम्नातं ‘सहोभौ धर्ममाचरतामित्यादि वेदप्रोक्तम् अभियुञ्जन् जयन्त्यां पुत्रशतं जनयामास ।। ८॥ ८४ श्रीमद्भागवतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी [ स्कं. ५ अ. ४ श्लो. १.८ Here i अवतीर्णस्य नाभेर्हि मेरुदेव्यां कृपानिधेः । ऋषभस्य चतुर्थे तु धर्माचारो निरूप्यते ॥ १ ॥ भगवदवतारत्वात् तस्मिन् अमात्यादीनामनुरागातिशयो जात इत्याह- अथेति । अथावतारानन्तरं अवनितलसमवनाय भूतलपरिपालनाय प्रकृत्यादयस्तमेवातितरां जगृधुः, अयमेव भूतलराज्यं करोत्वित्यभिकाङ्क्षन्ति स्मेत्यन्वयः । प्रकृतयोऽमात्यभृत्यादयः । एवमाकाङ्क्षायां हेतुगर्भविशेषणद्वयं हेतुमाह – उत्पत्त्या स्वत एव अभिव्यन्यमानानि भगवतो लक्षणानि पादतलादिषु वज्राङ्कुशादीनि चिह्नानि यस्य तम् । तथा साम्यादिभिः सह अनुदिनमेधमानोऽनुभावो यस्य तम् । साम्यं स्वपरपक्षपात राहित्यम्, उपशमः शान्तता । वैराग्यं विषयवैतृष्ण्यम् । ऐश्वर्यमलौकिकसामर्थ्यम् । महाविभूतिः सर्वसम्पत्तिः । अनुभावस्तेजोतिशयः ।। १ ।। * हेति प्रसिद्धौ वै इति निश्चये । इत्थं पूर्वोक्तैरन्यैश्च लोकप्रसिद्धैर्गुणैर विश्रेष्ठत्वनिश्चयान्तस्य पिता ऋषभ इतीदं नाम चकारेत्यन्वयः । अन्यान् गुणानेव दर्शयति- वरीयसा श्रेष्ठतमेन वर्ष्मणा देहेन । देहस्यातिश्रेष्ठत्वमेव दर्शयति- बृहदिति, बृहन्तः श्लोकाः पद्यानि कवीनां यस्मिंस्तेनेत्यर्थः । ओजसा इन्द्रियसामध्येंन । श्रिया शोभातिशयेन । यशसा कीर्त्त्यतिशयेन । वीर्येण प्रभावातिशयेन । शौर्येण मनसः सामर्थ्येन । चकारावनुक्तसर्वशुभगुणसमुच्चयार्थी ॥ २ ॥ तस्य प्रभावातिशयमाह - तस्येति । स्पर्द्धमानो विरोधमाचरन् इन्द्रो यदा तस्य वर्षे अजनाभखण्डे न ववर्ष तदा तद्वधार्य इन्द्रकृतमवर्षणं ज्ञात्वा ऋषभदेवः स्वस्मिन् सामर्थ्यस्य विद्यमानत्वेन इन्द्रकृतस्याकिश्चित्करत्वं मत्वा प्रहस्य आत्मयोगमायया स्वभक्त्या अजनाभं नाम अजः ऋषभदेवः नाभिस्तस्य पिता ताभ्यां रक्षितत्वादजनाभसञ्ज्ञं स्ववर्षमभ्यवर्षत् यदा यस्मिन् क्षेत्रे यावज्जलमपेक्षितं तदा तस्मिंस्तावद्ववर्षेत्यन्वयः । गर्वं विना स्पर्द्धया परापकारे प्रवृत्त्यसम्भवात् गर्वस्य च सामर्थ्याधीनत्वात् सामर्थ्य हेतुं सूचयन्विशिनष्टि – भगवानिति । भगवदवताररूपो यज्ञस्तदानीन्तन इन्द्र इत्यर्थः । ऋषभस्यापि वर्षंणसामध्यें हेतुं सूचयंस्तं विशिनष्टि - योगेश्वर इति । योगिनोऽप्यचिन्त्यं कार्यं कर्तुं । शक्ताः, अयं तु तेषामपि सामर्थ्यदोऽतस्तत्र तथाकरणे न काचिदनुपपत्तिरिति भावः । योगेश्वरत्वे हेतुमाह-भगवानिति । हिशब्देन उभयोरवतारत्वप्रसिद्धेस्तयोः सामर्थ्ये न सन्देह इति सूचयति । न चेन्द्रस्याप्यवतारत्वान्न स्पर्द्धा युक्तेति शङ्कनीयम्, यज्ञस्य मन्वन्तररक्षार्थ अवतीर्णत्वेन क्रियाशक्तेराविर्भावेऽपि तदुपयुक्ताधिकज्ञानशक्त्यनाविर्भावात्, निवृत्तिमार्गप्राकटचार्थ अवतीर्णस्य प्रवृत्तिपरत्वमप्यस्ति न वा, लोकेऽलौकिक स्ववीर्यं प्रकटयिष्यति न वा, यदि प्रवृत्तिपरत्वेन स्ववीर्यं प्रकटयेत्तदाऽस्मै स्वकन्या देयेति कन्यां दातुं परीक्षार्थमपि वृष्टिप्रतिरोधकरणसम्भवाञ्च । न च परीक्षार्थवृष्टिप्रतिरोधे स्पर्धमान इत्युक्त्यनुपपन्नेति शङ्कनीयम्, लोकप्रतीत्यभिप्रायेण तथोक्तरपि सङ्गतत्वात् ॥ ३ ॥ * * भगवति लौकिकोऽपि भावः संसाराद्विमोचकः, किं पुनरलौकिक इत्यभिप्रायेण नाभेः पुत्रत्वेन भजनं परमानन्दप्राप्तिं च दर्शयति-नाभिस्त्विति । नाभिस्तु यथाभिलषितं स्वाभिलाषानुरूपं सुप्रजस्त्वं भगवदवताररूपं सत्पुत्रमवरुध्य प्राप्य प्रमोदभरविह्वलः प्रहर्षातिशयेन अनवस्थितचित्तो हे वत्स हे त तातेत्येवं गद्गदाक्षरया स्वतवर्णया गिरा भगवन्तमुपलालयन् परां निर्वृतिमुपगतः परमानन्दं प्राप्त इत्यन्वयः । औपचारिकं भगवत्त्वं नारदादिष्वप्य- स्तीति तद्वारणाय विशिनष्टि - पुराणपुरुषमिति, सनातनं पुरुषोत्तममित्यर्थः । न च भगवदवतारे कथमेवं प्राकृतवदुपलालनादि सङ्गच्छते इति शङ्कयम्, भगवतैव स्वनिष्ठो नाभिनिष्ठश्चेति हेतुद्वयसम्पादनात् । तत्र भगवन्निष्ठं हेतुमाह - स्वैरमिति । स्वैरं स्वेच्छया गृहीतो नरलोकसमानधर्मो मनुष्यव्यवहारो येन तमित्यर्थः । नाभिनिष्ठहेतुमाह – मायेति । मायया विलसिता मम पुत्रोऽयमिति विमोहिता मतिर्यस्य स इत्यर्थः ॥ ४॥ क मुक्तिर्जातेत्याह - विदितेति । विषय- • भोगादिर को राजा नाभिः समयसेतुरक्षायां समयानुरूपधर्ममर्यादापालनार्थ आत्मजमृषभमभिषिच्य राज्येऽभिषेकं कृत्वा तं ब्राह्मणेषु निधाय ब्राह्मणवशवर्त्तिनं कृत्वा स्वयं मेरुदेव्या स्वभार्यया सह विशालायां बदरिकाश्रमे प्रसन्नं हिरण्यकशिप्वादितप इव परोद्वेगाजनकं निपुणमव्यवच्छिन्नं यत्तपः प्रतीकारचिन्तामन्तरेण त्रिविधतापसहनलक्षणं वानप्रस्थधर्मस्तेन तथा मनसः समाधियागेन च नारायणाख्यं भगवन्तमुपासीनः ध्यायमानः कालेन बहुकालाभ्यासेन तन्महिमानमवाप भगवत्साम्यमवाप जीवन्मुक्तो जात इत्यन्वयः । गौणभगवत्त्वव्यावृत्त्यर्थमाह-वासुदेवमिति । ननु प्रजापालनस्य राज्ञः परमधर्मत्वात् कथं तेन तत्त्यागः कृतस्तथा- करणे जन वैमनस्यसम्भवादित्याशङ्कयाह - जनपद इति, जनाः पौरादयः पदं प्रमाणत्वेनाश्रयो यस्य स तथेत्यर्थः । तथा च जनानामनुमतेनैवार्षभं राज्ये आस्थाप्य गतोऽतो न कस्यापि व्याकुलतेति भावः । एतदेव स्फोटयन्नृषभं विशिनष्टि - विदितेति । आपौरप्रकृति पौरान प्रकृतीचाभिव्याप्य विदितोऽनुरागो यस्मिंस्तम् । न च पूर्वाध्यायान्ते ऋषीणां धर्मान् दर्शयितुकाम इत्यस्या- वतारस्य निवृत्तिधर्मप्राकटयार्थत्वनिरूपणात्तस्य राज्यादिनिरूपणं तद्विरुद्धमिति शङ्कनीयम्, तत्रैव नाभेः प्रियचिकीर्षयेत्यप्यु- ‘क्तत्वात्, तत्कामनया श्रेष्ठत्वेन प्रवृत्तिमर्यादारक्षार्थं च राज्यादौ प्रवृत्तेर्युक्तत्वात् । न च स्वहितार्थं स्वगृहे भगवानवतीर्णचेतर्हि तंत्र तद्भजनेनापि मुक्तिसम्भवात्कथं तमपहाय वनं गत्वा तत्स्वरूपान्तरभजनं कृतवानिति शङ्कनीयम् । मायाविलसितमतिरित्यनेन । तस्य भगवति पुत्रभावनात्त्वेन भगवद्भावनातिरोधानस्योक्तत्वात् । मर्यादामार्गे तु गृहं हित्वा भजतो भजनदाढर्थेन मुक्तिरिति निश्वयागृहं हित्वा वनं गतः । न च मर्यादायां स्त्रियास्त्यागविधानात् न तथाऽस्य भवेद्बन्धः क्लेशो वेत्युक्त्या तत्सन्निधाने derstand प्रतिबन्धसम्भवात् कथं तया सह गमनमिति शङ्कनीयम्, नेदं प्रव्रजनरूपं गमनं परमहंसधर्माणामधुना लुप्तत्वात्, किन्तु वान- एवं पुत्रभावेन भजतोऽपि मा । स्व. ५ म. ४ श्लो. १-८] अनेकव्याख्यासँमलङ्कृतम् प्रस्थरीत्यैव गमनं तत्र स्त्रिया सह गमनस्यादोषत्वात् । तथा च प्रियव्रतस्य ब्रह्मचर्याश्रम एव मुक्तिः पुनर्नारदस्य पदवीमनुससारेत्युक्त- त्वात्, आनीधस्य तु गृहस्थाश्रमे, नाभेस्तु वानप्रस्थाश्रमे मुक्तिरिति बोध्यम् ॥ ५॥ हे पाण्डवेय यत्र नाभियशो- वर्णनप्रसङ्गे पुराविदो द्वौ श्लोकावुदाहरन्ति पठन्तीत्यर्थः । पाण्डवेयेति प्रपितामहनामगर्भिसम्बोधनेन भवत्प्रपितामहादीनामपि महान यशोविस्तारो भगवता कृत इति राजानमाश्वासयति । तावेव लोकौ दर्शयति को निवति । तत्तस्य राजर्षेर्नाभः कर्म अनु तदन्तरं को नु पुमानाचरेत् कर्तुं शक्नुयात् ? न कोपीत्यर्थः । दुर्लभफलकत्वेन तत्कर्मणोऽशक्यानुष्ठानत्वमेव स्फुटयति- अपत्य- तामिति । यस्य शुद्धेन कर्मणा भक्त्या यज्ञानुष्ठानेन हरिः स्वयमेव अपत्यतामगादित्यन्वयः । न च पूर्व भागवतवात्सल्य तथा निजजनाभिप्रेतार्थविधित्सया गृहीत हृदय आत्मानमाविश्वकारे ति भक्तिरेव तस्य पुत्रत्वे हेतुरित्युक्त्वाऽत्र कथं कर्मणस्तद्धेतुत्वमुच्यते इति शङ्कनीयम्, भक्तेरेव हेतुत्वेऽपि स्थूलदृष्ट्या लोके कर्मण एव हेतुतया प्रसिद्धेस्तदनुवादमात्रमेव शुकेन कृतमिति न विरोधः ॥ ६ ॥ * * नाभेरन्यस्तत्सदृशो ब्रह्मण्यो ब्राह्मणभक्तः कुतः कुत्रास्ति ? यस्य बर्हिषि यज्ञे मङ्गलैर्दक्षिणादिभिः ॥ पूजिताः सन्तः विप्रा ओजसा तपोभक्त्यादिप्रभावेण यज्ञेशं भगवन्तं दर्शयामासुरित्यन्वयः ॥ ७ ॥ * एवं नाभिचरित- मुक्त्वा ऋषभचरितमाह अथेति । अथ पितरि प्रस्थिते सति भगवान् ऋषभदेवः स्वबर्षमजनाभखण्डं कर्मक्षेत्रं स्वर्गापवर्गसाधन कर्मानुष्ठानभूमिं अनुमन्यमानो गृहमेधिनां गृहस्थानां धर्माननुशिक्षमाणोऽनुशिक्षयन् अत एवान्यसङ्ग्रहाय प्रदर्शितो गुरुकुले चासो येन सः लब्धवरैः प्राप्तदक्षिणैर्गुरुभिर्गार्हस्थ्यार्थमनुज्ञातः समाम्नायाम्नातं शास्त्रविहितमुभयलक्षणं श्रौतं स्मार्तं च कर्माभियुञ्जन्न अनुतिष्ठन् इन्द्रदत्तायां तत्कन्यायां जयन्यां स्वभार्यायां आत्मसमानानां स्वयोग्यानां आत्मजानां शतं जनयामासेत्यन्वयः ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ऋषभस्येहितं प्रोक्तं चतुर्थादित्रिभिर्मह्त् । येन सत्कर्म. लोकार्थं निष्कर्मत्वं च दर्शितम् ॥ १ ॥ वर्ण्यते शतपुत्रस्य तस्य राज्यं चतुर्थके । राज्ये यस्य जनः सन्तोषामृतेनैव निर्वृतः ॥ २ ॥ । एवमुपवर्णितं नाभेश्वरित्रमुपसंहरन्नाभिपुत्रस्य ऋषभस्य तदुपवर्णयति अथेति । अथ श्रीहर्यवतारानन्तरं, उत्पत्त्या जन्मनैव, अभिव्यन्यमानानि भगवल्लक्षणानि पादतलादिषु वज्राङ्कुशादीनि यस्य तं साम्यं सर्वभूतेषु समत्वं च उपशमोऽन्त- बथेन्द्रियनियमा, वैराग्यं विषयेष्वनासक्तिश्व, ऐश्वर्यं सर्वभूतनियन्तृत्वं च महाविभूतिः सर्वसंपत्ति, ताभिः सह अनुदिनं प्रतिदिनं, एधमानो वर्द्धमानोऽनुभावः प्रभावो यस्य तं तं नाभिसूनुं, निशाम्य दृष्ट्वा, प्रकृतयोऽमात्यादयः, प्रजा जनाः, ब्राह्मणा भूदेवाः देवताश्च, अवनितलस्य भूमण्डलस्य समवनं पालनं तस्मै, अतितरामतिशयेन जगृधुरैच्छन् ॥ १ ॥ * * तस्येति । इत्थं ह वै स्फुटं जातस्य तस्य पुत्रस्य, वरीयसा श्रेष्ठेन, वर्ष्मणा देहेन, बृहत् श्लोकेन विपुलगुणप्रथया, ओजसा इन्द्रियबलेन, बलेन देहबलेन, श्रिया सम्पदा, यशसा विपुलचरित्रप्रथया, वीर्यं पराभिभवसामर्थ्यं च शौर्य रणमध्ये स्वगृह इव प्रवेशसामर्थ्यं च ताभ्यां च एवं सर्वातिशयितप्रभावत्वेन श्रेष्ठत्वात्, ऋषभः इति इदं नाम नामधेयं पिता नाभिः चकार ॥ २ ॥ * * ऋषभशब्दप्रवृत्तिनिमित्तं प्रभावातिशयमेव संग्रहेणाह यस्य हीति । यस्य ऋषभस्य, वर्षे अजनाभवर्षे । स्पर्द्धमानः ऋषभेण विरोधमाचरन् इन्द्रः, न ववर्ष हि । वृष्टिं रुद्धवानेवेत्यर्थः । तद्वर्षंणप्रतिबन्धविधानरूपमिन्द्रकृतं कर्म, अवधार्य इदमिन्द्रकृतमेवेति निश्चित्य, प्रहस्य अहो महत्तेश्वर्यस्यास्येदं दुश्चेष्टितमिति परिहासं कृत्वा, भगवान् षाड्गुण्यपूर्णः ऋषभदेवः, यतः स्वयं योगेश्वरः, अतः आत्मयोगमायया आत्मीयविचिन्त्रयोगशक्त्या, अजनाभं नाम स्ववर्ष स्वकीयं खण्डं, अभ्यवर्षन् । तस्मिन्स्व- योगेनैव स्वयं वृष्टिं व्यधादित्यर्थः ॥ ३ ॥ * * नाभिस्त्विति । नाभिर्नाभिनृपस्तु यथाभिलषितं स्वेच्छानुरूपं, शोभना प्रजा यस्य सः सुप्रजाः, ‘नित्यमसिच् प्रजामेधयोः’ इत्यसिच्, तस्य भावः सुप्रजस्त्वं सत्पुत्रत्वं, अवरुध्य प्राप्य, अतिप्रमोदो निरति- शतिप्रमोदस्तस्यापि भरोऽतिशयता तेन विह्वलः सन् मायया भगवन्मायया विलसिता खपुन्न इति विलासवती मतिर्यस्य तथाभूतः संव, गद्दानि गलगतप्रेमाश्रुतया गद्दाक्षरवन्त्यक्षराणि यस्यास्तया, गिरा वाचा, स्वैरं स्वेच्छया, गृहीत उपात्तः नरलोकसधर्मो मनुष्यसमानाकारो येन तं भगवन्तं षाडगुण्यपूर्ण, पुराणपुरुषं, आत्मजं स्वकीयपुत्रं, मत्वा हे वत्स, हे तात, इत्येवं सानुरागं गाढानु- रागसहितं यथा स्यात्तथा, उपलालयन्सन्, परां सर्वोत्तमां निर्वृतिं उपगतः । ततः राजा नाभिः, आपौरप्रकृतिजनपदं, पौरान प्रकृतीः देशवासिनश्चाभिव्याप्येत्यर्थः । विदितोऽनुरागो यस्मिंस्तं, जनपद इति प्रथमान्तपाठे आपौरप्रकृति इति पृथक् पदम् । पौरान प्रकृतीचाभिव्याप्येत्यर्थः । जनाः पौरादयः पदं प्रमाणं यस्येति राज्ञो विशेषणम् । आत्मजमीदृशं पुत्रं, समयसेतवो वर्णाश्रमधर्म- मर्यादास्तेषां रक्षा प्रतिपालनं तस्यां अभिषिच्य राज्याभिषिक्तं कृत्वेत्यर्थः । ब्राह्मणेषु ब्राह्मणानामुत्सङ्ग उपनिधाय, विशालायां बदरिकाश्रमे, मेरुदेव्या स्वभार्थया सह, असनः परानुद्वेजकचासौ निपुणः विघ्नानुपहता तेन, समाधियोगेन, भगवन्तं परमेश्वर, नरनारायणाख्यं वासुदेवं, उपासीनः सेवमानः सन् कालेन प्रारब्धावसानसमयेन, तस्य वासुदेवस्य महिमानं अवाप प्राप । तत्कृपाविर्भूतापहतपाप्मत्वादिगुणाष्टकत्वान्मुक्तोऽभवदित्यर्थः ॥ ४ ॥ * * नामेश्चरित्र निगमयंस्तत्प्रभावप्रतिपादकौ श्लोका- बुदाहर्तुं तयोः सर्वपरिगृहीतत्वमाह यस्येति । हे पाण्डवेय परीक्षिन्नृपते, यस्य नाभेः, श्लोकौ उदाहरन्ति हि । आर्या इति शेषः । ८६ j श्रीमद्भागवतम् [ स्कं. ५भ. ४ लो. ९-१६ तावाह । क इति । राजर्षेः नाभेः, तत्प्रसिद्धं कर्म, को नु को वा पुमान्, अन्वाचरेत् कुर्यात् । न कोऽपीत्यर्थः । यस्य नाभेः, शुद्धेन सुतरां शुद्धिमता, कर्मणा हरिः स्वयं भगवान्, अपत्यतां पुत्रत्वं अगात्प्राप्तः ॥ ५ ॥ * * ब्रह्मण्य इति । नाभेः अन्यः ब्रह्मण्यः, कुतः कोऽन्यो ब्रह्मण्योऽस्तीत्यर्थः । अत्र प्रथमार्थे तसिल् । यस्य नाभेः, बर्हिषि यज्ञे, मङ्गलैर्निजार्जितधनादिभिः पूजिताः सत्कृताः विप्राः, ओजसा मन्त्रबलेन, यज्ञेशं भगवन्तं दर्शयामासुः प्रदर्शितवन्तः ॥ ६ ॥ अथेति । अथ राज्याभिषेकानन्तरं ह
- स्फुटं यथा तथा भगवान् ऋषभदेवः, स्ववर्षमजनाभवर्षं, कर्मक्षेत्र स्वर्गापवर्गसाधनकर्मानुष्ठानयोग्यं स्थानं अनुमन्यमानः, प्रदर्शितः अन्येषां ग्रहणाय दर्शितः गुरुकुलावासो येन सः, लब्धा वरा यैस्तैः गुरुभिः अनुज्ञातः, गृहमेधिनां गृहाश्रमिणां, धर्मान् सदाचारान्, अनुशिक्षमाणः अनुशिक्षयितुमित्यर्थः । समाम्नायो वेदस्तेनाम्नातं विहितं, उभयलक्षणं प्रवृत्तिनिवृत्तिलक्षणं, श्रौतस्मार्त्तरूपं वा कर्म, अभियुञ्जन्ननुतिष्ठन्सन, इन्द्रेण दत्ता वापराधक्षमापनाय दत्ता तस्यां, जयन्त्यां जयन्तभगिनीतया जयन्तीसंज्ञायां भार्यायां, आत्म- समानानां आत्मजानां शतं जनयामास । येषामात्मजानां मध्ये, महायोगी भरतः नाम ज्येष्ठः पुत्रः, श्रेष्ठा गुणा यस्य तथाभूतः, आसीत् । येन भरतेन यदीयसंबन्धेनेत्यर्थः । इदमजनाभं वर्ष, भारतं भरतवर्षं इति व्यपदिशन्ति व्यवहरन्ति खलु ॥ ७ ॥ * * तमिति । तं भरतं अनु पश्चात् कुशावर्त्तः, इलावतः, ब्रह्मावर्त्तः, मलयः, केतुः, भद्रसेनः, इन्द्रस्पृक्, विदर्भः, कीकटः, इति एवं- विधनामानः, नव नवसंख्याकाः सुताः, नवतिप्रधानाः नवतेः श्रेष्ठाः तत्र नवतिपुत्राणां मध्ये कविः, हरिः, अन्तरिक्षः, प्रबुद्धः, पिप्पलायनः, आविर्होत्रः, अथ दुमिलः, चमसः करभाजनः इत्यभिधानाः नव, भागवतधर्मदर्शका भागवतधर्मप्रकाशकाः, महा- 4. भागवता भगवद्धर्मनिष्ठाः अभवन् । तेषां कव्यादीनां, भगवतो यो महिमा तेनोपबृंहितं वर्द्धितं भगवन्महिम्ना युक्तमित्यर्थः । सुचरितं ज्ञानित्वादिमहागुणगमकं शोभनं चरितं, उपरिष्टादेकादशे स्कन्धे वसुदेवनारदसंवादे, वर्णयिष्यामः कथयिष्यामः ॥ ८ ॥ भाषानुवादः ऋषभदेवजीका राज्यशासन
श्रीशुकदेवजी कहते हैं— राजन् ! नाभिनन्दनके अंग जन्मसे ही भगवान् विष्णुके वस्त्र - अङ्कुश आदि चिह्नोंसे युक्त थे । समता, शान्ति, वैराग्य और ऐश्वर्य आदि महाविभूतियोंके कारण उनका प्रभाव दिनोंदिन बढ़ता जाता था। यह देखकर मन्त्री आदि प्रकृतिवर्ग प्रजा, ब्राह्मण और देवताओंकी यह उत्कट अभिलाषा होने लगी कि ये ही पृथ्वीका शासन करें ॥ १ ॥ उनके सुन्दर और सुडौल शरीर, विपुल कीर्ति, तेज, बल, ऐश्वर्य, यश, पराक्रम और शूरवीरता आदि गुणोंके कारण महाराजा भने उनका नाम ‘ऋषभ’ ( श्रेष्ठ ) रक्खा ॥ २ ॥ एक बार भगवान् इन्द्रने ईर्ष्यावश उनके राज्य में वर्षा नहीं की । तब योगेश्वर भगवान् इन्द्रकी मूर्खतापर हँसते हुए अपनी योगमायाके प्रभावसे अपने वर्ष अजनाभखण्ड में खूब जल बरसाया ॥ ३ ॥ * * महाराज नाभि अपनी इच्छा के अनुसार श्रेष्ठ पुत्र पाकर अत्यन्त आनन्दमग्न हो गये और अपनी ही इच्छा से मनुष्यशरीर धारण करनेवाले पुराणपुरुष श्रीहरिका सप्रेम लालन करते हुए, उन्होंके लीलाविलाससे मुग्ध होकर ‘वत्स ! तात !’ ऐसा गद्गदवाणीसे कहते हुए बड़ा सुख मानने लगे ॥ ४ ॥ * जब उन्होंने देखा कि मन्त्रिमण्डल, नागरिक और राष्ट्रकी जनता ऋषभदेवसे बहुत प्रेम करती है, तो उन्होंने उन्हें धर्ममर्यादाकी रक्षाके लिये राज्याभिषिक्त करके ब्राह्मणोंकी देख-रेख में छोड़ दिया। आप अपनी पत्नी मेरुदेवीके सहित बदरिकाश्रमको चले गये । वहाँ अहिंसावृत्तिसे, जिससे किसीको उद्वेग न हो ऐसी कौशलपूर्ण, तपस्या और समाधियोगके द्वारा भगवान् वासुदेवके नर-नारायाणरूपकी आराधना करते हुए समय आनेपर उन्हीं के स्वरूप में लीन हो गये ॥ ५ ॥ * * पाण्डुनन्दन ! राजा नाभिके विषय में यह लोकोक्ति प्रसिद्ध है— राजर्षि नाभिके उदार कर्मोंका आचरण दूसरा कौन पुरुष कर सकता है— जिनके शुद्ध कर्मोंसे सन्तुष्ट होकर साक्षात् श्रीहरि उनके पुत्र हो गये थे ॥ ६ ॥ * * महाराज नाभिके समान ब्राह्मणभक्त भी कौन हो सकता है - जिनकी दक्षिणादिसे सन्तुष्ट हुए ब्राह्मणोंने अपने मन्त्रबलसे उन्हें यज्ञशाला में साक्षात् श्रीविष्णुभगवान् के दर्शन करा दिये ॥ ७ ॥ * * भगवान् ऋषभ- देवने अपने देश अजनाभखण्डको कर्मभूमि मानकर लोकसंग्रहके लिये कुछ काल गुरुकुलमें वास किया। गुरुदेवको यथोचित दक्षिणा देकर गृहस्थाश्रम में प्रवेश करनेके लिये उनकी आज्ञा ली। फिर लोगोंको गृहस्थधर्मकी शिक्षा देनेके लिये देवराज इन्द्रकी दी हुई उनकी कन्या जयन्तीसे विवाह किया तथा श्रौतस्मार्त्त दोनों प्रकारके शास्त्रोपदिष्ट कर्मोंका आचारण करते हुए उसके गर्भ से अपने ही समान गुणवाले सौ पुत्र उत्पन्न किये ॥ ८ ॥ है। · ! ‘येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्ष भारतमिति व्यपदिशन्ति ॥ ९ ॥ तमनु कुशा- वर्त इलावत ब्रह्मावतों मलयः केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः ॥ १० ॥ कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिल श्वमसः करभाजनः ॥ ११ ॥
- गद्यखण्डस्य संख्याङ्कन भेदात् अत्राग्रिमांशः समाविष्टः एवमन्यत्रापि सं० । १. प्रा० पा० - एषां । २. प्रा०पा० - . एक. . ५. म. ४ श्लो. ९-१६ अनेकव्याख्यासमलङ्कृतम् ८७ इति भागवतधर्मदर्शना नवं महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमा यनमुपरिष्टाद्वर्णयिष्यामः ॥ १२ ॥ यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभ्रुवुः || १३ || भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवला - नन्दानुभव ईश्वर एवं विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्न तद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशः प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ १४ ॥ यद्यच्छीर्षण्याचरितं तत्तदनु- वर्तते लोकः ।। १५ ।। यद्यपि स्वविदितं सकलधर्म ब्राह्म गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनता- मनुशशास ॥ १६ ॥
अन्वयः - येषाम् खलु महायोगी ज्येष्ठः श्रेष्ठगुणः भरतः आसीत् येन इदम् वर्षम् भारतम् इति व्येपन दिशंति ॥ ९ ॥ * तम् अनु कुशावर्तः इलावर्त : ब्रह्मावर्तः मलयः केतुः भद्रसेनः इंद्रस्पृक् विदर्भः कीकटः इति नव पुत्राः नवतिप्रधानाः ॥ १० ॥ कविः हरिः अंतरिक्षः प्रबुद्धः पिप्पलायनः उ पिप्पलायनः आविर्होत्रः द्रुमिलः चमसः अथ करभाजनः ।। ११ ।। * * इति नव भागवतधर्मप्रधानाः इति नव भागवतधर्मप्रधानाः महाभागवताः तेषाम् भगवन्महिमोपबृंहितम् वसुदेव- नारदसंवादम् उपशमायनम् सुचरितम् उपरिष्टात् वर्णयिष्यामः ।। १२ ।। * * यवीयांसः जायतेयाः यवीयसः जायतेयाः एकाशीतिः पितुः आदेशकर : महाशालीनाः महाश्रोत्रियाः यज्ञशीलाः कर्मविशुद्धाः ब्राह्मणाः बभूवुः ।। १३ ।। * * भगवान् स्वयम् आत्मतंत्रः नित्यनिवृत्ता- नर्थपरंपरः केवलानंदानुभवः ईश्वरः एव विपरीतवत् कर्माणि आरभमाणः अतद्विदाम् कालेन अनुगतम् धर्मम् उपशिक्षयन् समः प्रजानंदामृतावरोधेन नियमयत् ॥ १४ ॥ * * यत् यत् उपशांतः मैत्रः कारुणिकः ऋषभसंज्ञः गृहेषु लाकम् धमार्थयपि सकलधर्मम् गुह्यम् ब्राह्मम् स्वविदितम् ब्राह्मणैः दर्शितमार्गेः शीर्षण्याचरितम् तत् तत् लोकः अनुवर्तते ।। १५ ।। सामादिभिः उपायैः जनताम् अनुशशास || १६ | श्रीधरस्वामिविरचिता भावार्थदीपिका तं भरतमनु कुशावर्तादयो नव पुत्रा नवतेः प्रधाना ज्येष्ठाः ॥ १०-११ ।। * भागवतधर्मप्रदर्शकाः । वसुदेवनारदयोः संवादो यस्मिन् । उपरिष्टादेकादशस्कन्धे ।। १२ ।। * * ॥ १३ ॥ * * केवलः शुद्धः । विपरीतवदनीश्वरवत्कर्माणि कुर्वन् । नियमयत् नियमितवान् । कर्मकरणे णे हेतुः । अनुगतमुत्सन्नं धर्मं स्वयमाचरणेनातद्विदामुपशिक्षयन् । कथम् । धर्मादीनामवरोधेन अमृतं मोक्षः ॥ १४ ॥ * * शीर्षण्यः श्रेष्ठस्तेनाचरितम् । तत्तदनुवर्त्तते यतः ।। १५ ।। ब्राह्मं गुह्यं वेद रहस्यम् । यद्यपि स्वेनैव विदितम् । तथाऽपि ब्राह्मणान् पृष्ट्वैव करोतीत्यर्थः ।। १६ ।। श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः तदनंतरं कविप्रमुखा नव महाशालीना अतिविनीताः पाठान्तरे नितरामरमयत् । संप्रहेण आनन्दो भोगः । सकलो धर्मो यस्मिंस्तद्- येषां शतानां मध्ये येन भरतेनाधिकृतत्वाद्भारतनाम्ना कथयन्ति ॥ ९ ॥ * * कुत्रचित् ब्रह्मावर्ताद आर्यावर्त इति पाठमंगीकृत्य मलयकेतुरित्येकं नामेत्युक्तम् । पूर्वत्र तु भेदेन नामद्वयमुक्तं तत्कल्पभेदेन ध्येयम् ॥ १०-१२ ॥ * * ब्राह्मणा यजनयाजनाध्यापनादिविप्रकर्मनिष्ठत्वेन तच्छब्दवाच्याः । वस्तुतो ब्राह्मणप्रसादावाप्तब्राह्मणभावाः । यद्वा – युगान्तरे ब्राह्मणकर्मणा क्षत्रियादेरपि ब्राह्मणता भवति “कलौ ब्राह्मणता वीर्यात्तपश्चर्यादिना न हि” इति वारतन्तव्युक्तेः । यवीयांसः कनिष्ठाः “युवाल्पयोः कनन्यतरस्याम्” इति कनादेशाऽभावे “स्थूलदूरयुवह स्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः” इति पाणिनिशासनात् ॥ १३ ॥ * * पाठान्तरे न्यरमयदिति पाठे । अतद्विदामिति द्वितीयार्थं षष्ठी । धर्ममविदुष इत्यर्थः ।। १४-१५ ।। * इत्यर्थ इति । “योऽपृष्ट्वा ब्राह्मणं धर्मं कुरुते तद्भवेन्मुधा” इति स्मृतिसिद्धयर्थं ब्राह्मणमवृष्ट्वा न किञ्चिद्धर्मादि कार्यमिति लोकशिक्षणार्थं वेति भावः ॥ १६ ॥ श्रीमद्वीरराघवव्याख्या तं भरतमनुपश्चात्कुशावर्त्तादयो नवसङ्ख्याकाः नवतिप्रधानाः प्रथमपुत्रदशके भरतः प्रधानः इतरेषु नवसु दशकेषु प्रत्येकं कुशावर्तादयः प्रधानाः स्वव्यतिरिक्तनवापेक्षया प्रधानाः ज्येष्ठाः कुशावर्त्तादयो नव भरतमनुजाताः तमेवानुसृत्य स्थिता इति वार्थः ॥ १०-११ ॥
तत्र नवतिपुत्राणां मध्ये कव्यादयो नव भागवतधर्मप्रकाशका महाभागवता भगवद्धर्मनिष्ठा अभूवम् । तेषां कव्यादीनां सुचरितं भगवन्महिम्नोपबृंहितं वर्धितं भगवन्महिम्ना युक्तमित्यर्थः । अत एवोपशमायनं चित्तशान्तिहेतुकमुपरिष्टादेकादशस्कन्धे वसुदेवनारदसंवादे वक्ष्यामः कथयिष्याम इत्यर्थः ॥ १२ ॥
यवीयांस एकाशीतिसङ्ख्याकाः जायन्तेया जयन्तीपुत्राः पित्राज्ञानुवर्त्तिनो महाशालीना गार्हस्थ्यसम्पत्समृद्धा महाश्रोत्रिया अधीतसाङ्गवेदाः यज्ञानुष्ठानशीलाः कर्मणा सदाचारेण विशुद्धा ब्राह्मणा बभूवुः ॥ १३ ॥
अथ ऋषभसंज्ञो भगवानात्मतन्त्रः स्वतन्त्रः अकर्मवश्यः अत एव नित्यं निवृत्तकर्मायत्ताः सुखदुःखाद्यनर्थपरम्परा यस्य सः केवलदुःखासम्भिन्नो य आनन्दः स्वरूपानन्दः तस्यानुभावो यस्य सः स्वयमीश्वर एवं सन् इतरवत्प्राकृतवत्कर्माण्यारभमाणः वर्णाश्रमधर्मरूपाणि कर्माणि कुर्वाणः किं कुर्वन्कालेनानुगतं प्रलीनं धर्ममाचारेणातद्विदां धर्मतदनुष्ठानादिकमजानताम् उपशिक्षयन् किमर्थं धर्माद्यविरोधेन धर्मादिप्राप्त्या हेत्वर्थे तृतीया, फलं चात्र हेतुः धर्मादिप्राप्तिरूपफलायेत्यर्थः, प्रजानन्दः प्रजार्थो भोगः अमृतमेवं पुरुषार्थचतुष्टयसंग्रहः सर्वभूतसमः उपशान्तः रागाद्यकलुषितचित्तः मैत्रः अपकृष्टेष्वपि भूतेषु स्वसाम्यबुद्धिः कारुणिकः परदुःखासहिष्णुः गृहेषु गृहाश्रमेषु लोकान्नियमयन् नियमयन्नभूदित्यर्थः । नियमयदिति वा पाठः आर्षत्वादभावो वा ॥ १४ ॥
आचारेणोपशिक्षयन्नियमदित्यत्र हेतुः । यद्यदिति । शीर्षण्यः श्रेष्ठः तेन यद्यदाचरितं तत्तदेव हि यस्माल्लोकोऽनुवर्त्ततेऽनुतिष्ठति । तथा चोक्तम् “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥” इति लोकसंग्रहार्थमाचारेणोपाशिक्षयदित्यर्थः । तथा सकलो धर्मो यस्मिंस्तद् ब्रह्मगुह्यं वेदरहस्यं यद्यपि स्वेनैव विदितं तथापि ब्राह्मणान् पृष्ट्वा तैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतां जनसमूहमनुशशास । द्रव्यादिभिरुपचितैः सर्वैर्यज्ञैर्यथाविधि शतकृत्व इयाज इष्टवान् । तत्र द्रव्यं हविर्देशः ‘समे यजेते’त्युक्तो देशः, कालः वसन्तादिः, वयः ‘जातपुत्रः कृष्णकेशोऽग्नीनादधीते’त्युक्तं वयः, श्रद्धा कर्त्तव्यविषया त्वरा, विविध उद्देशः इतिकर्त्तव्यता ॥ १५-१७ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली येन भरतेनाधिकृतत्वाद्भारतमिति नाम्ना कथयन्ति ॥ ९ ॥ mege GP D * तं भरतमन्वनन्तरं नवतिभ्यः प्रधानाः ॥ १०-११ ॥ * * भागवतधर्मान् दर्शयन्तीति भगवतो महिम्नोपबृंहितं पूरितमुपरिष्टादेकादशस्कन्धे उपशमायनं भगव- निष्ठाप्रकारदर्शकम् ॥ १२ ॥ * जायन्तेया जयन्तीपुत्राः महाशालीनाः महाशालाः कलमान्नभोजिनो वा गार्हस्थ्यधर्म- ॥ ॥ || प्रदर्शका वा वा ब्राह्मणाः यजनयाजनाध्ययनादिविप्रकर्मनिष्ठितत्वेन तच्छब्दवाच्याः ॥ १३ ॥ * ॐ विपरीतवत् प्राकृतजनवत्
- आचारेण स्वयमनुष्ठानेन अतद्विद्वांसं ब्रह्माज्ञानिनं लोकमिति शेषः । धर्मार्थादीनामविरोधेनानुकूल्येन शीर्षण्येन श्रेष्ठेन " यद्यदा- चरति श्रेष्ठः” इति स्मृतेः ।। १४-१५ इति स्मृतेः ।। १४-१५ ॥ यदपि यद्यपि स्वेन विदितं तथापि ब्राह्मणैर्देर्शितमार्गेण प्रकारेण सकलधर्म जनतामनुशशासेत्यन्वयः ।। १६-१७ ।। far श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भ शो कालेन संहारकेण अनुगतमुत्सन्नमित्यर्थः ।। १४-१९॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे चतुर्थोऽध्यायः ॥ ४ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी तं भरतमनुभरतस्य कनिष्ठा इत्यर्थः । नवतिप्रधानाः नवतेर्ज्येष्ठा इत्यर्थः । पुंस्त्वमार्षम् ।। १०-११ ॥ * * उप- रिष्ठादेकादशस्कन्धे ।। १२ ।। * * महाशालीना अतिविनीताः ॥ १३ ॥ * * विपरीतवत् अनीश्वरो जीव इव अत- द्विदां द्वितीयार्थे षष्ठी, धर्ममविदुष इत्यर्थः, धर्म्मादीनामवरोधेन प्राप्त्या हेतुना न्ययमयत् नियमितवान् । न्यरमयदिति च पाठः ॥ १४ ॥ * * शीर्षण्यः श्रेष्ठः ॥ १५ ॥ * * सकला धर्म्मा यस्मिन् तद् ब्राह्मं गुह्यं वेदोक्तं रहस्यं यद्यपि स्वेनैव विदितं २. तदपि ब्राह्मणैर्दर्शितेनैव ॥ १६ ॥ ।। । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
नवतेः प्रधानाः श्रेष्ठाः ॥ १० ॥ अवशिष्टेषु नवतिसङ्ख्याकेषु नव कविप्रभृतयः भागवतधर्मप्रदर्शका इत्याह । कविरिति ॥ ११ ॥ * * तेषां वसुदेवनारदयोः संवादो यस्मिन् तच्छोभनं चरितमुपरिष्टादेकादशे वर्णयिष्यामः ।। १२ ।। * * महाशालीना विनीततमाः ।। १३ ।। * नित्यनिवृत्ता रागद्वेषादिरूपा अनर्थपरम्परा यस्मात्सः केवलानन्दस्य साधन- रक्षणाद्युपकरणापेक्षस्य स्वरूपानन्दस्यानुभवो यस्य स स्वयमीश्वरः इतरवत्प्राकृतवत् कर्माण्यारभमाणः कालेनानुगतमुत्सन्नं धर्म- माचरणेन अतद्विदां धर्माचरणतत्प्रयोजनानभिज्ञानामुपशिक्षयन् धर्माद्यवरोधेन संग्रहेण ‘अध्ययनेन वसतीतिवत् तृतीया, मग, धर्मादि-स्कं. ५ अ. ४ इलो. ९-१६ ] अनेकव्याख्या समलङ्कृतम् 1 प्राप्त्यर्थमित्यर्थः, गृहेषु सन्तं लोकं मुमुक्षं बुभुक्षु च न्ययमयत् नियमितवान् । तत्र गृहस्थेन बुभुक्षुणा धम्र्म्मार्थयशः प्रजानन्द प्राप्त्यर्थं मुमुक्षुणामृतार्थं कर्म कर्तव्यमिति लोकं नियमितवानित्यर्थः ॥ १४ ॥ * * शीर्षण्येन श्रेष्ठेनाचरितमनुष्ठितम् ।। १५ ।। * * किञ्च सकलो धर्मो यस्मिन् तद्द्ब्राह्मं गुह्यं वेदरहस्यं यद्यपि स्वविदितं स्वतोऽनुभूतं तथापि ब्राह्मणैर्देर्शितमार्गेणैव जनसमूह सामादिभिरनुशशास ।। १६ ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी येषां पुत्राणां मध्ये श्रेष्ठाः प्रजानुरञ्जका गुणा यस्य सः तथा महायोगी आत्मज्ञानित्वेन प्रसिद्धः भरतो ज्येष्ठ आसीदि- त्यन्वयः । तस्य श्रेष्ठगुणत्वादिप्रसिद्विद्योतकः ख रुशब्दः । तत्प्रसिद्धिमेव स्पष्टयति-येनेति । येन तस्य श्रेष्ठगुणत्वेन पूर्वमजनाभ- नाम्ना प्रसिद्धमपीदं वर्षमिदानीं जना भारतमिति व्यपदिशन्ति ॥ ९ ॥ * तं भरतमनु कुशावर्त्तादयो नव पुत्राः नवतेनं वतिसङ्ख्याकेभ्यः पुत्रेभ्यः प्रधानाः ज्येष्ठा इत्यर्थः ॥ १० ॥ ॐ * तदनन्तरं कव्यादयो नव पुत्रा जाताः । तेषां वंशव न जातो यतस्ते जन्मत एव महाभागवता भगवदेकनिष्ठाः भागवतधर्मदर्शनाः अन्येषामपि संसारोद्धारार्थं भगवत्प्रसादजनकधर्म- प्रदर्शनपराः । तर्हि तेषामपि चरितं वर्णनीयमिति राज्ञोऽभिप्रायमालक्ष्याह - तेषामिति । तेषां सुष्ठु चरितं भागवतधर्मप्रदर्शन - लक्षणं अत एव भगवन्महिम्नोपट हितं शोभमानम् अत एवोपशमायनं श्रोतृचित्तशान्तिकरं वसुदेवनारदयोः संवादो यस्मिंस्तदुपरिष्टा- देकादशस्कन्धे वर्णयिष्यामः ॥ ११ ॥ * * ततो यवीयांसः कनिष्ठा एकाशीतिसङ्ख्याका जयन्तीपुत्राः पितुरादेशकारिण आज्ञानुसारिणो महाशालीनाः नम्रतादिगुणैरतिशोभमानाः महाश्रोत्रिया अध्ययनतोऽर्थतश्च वेदे निपुणाः यज्ञे शीलं स्वभावो येषां ते तथा अत एव यज्ञादिकर्मानुष्ठानेन विशुद्धान्तःकरणा बभूवुः । अत्रापि पितुरादेशकारिण इत्यनेन भगवत ऋषभस्य कर्ममार्गोऽपीष्ट एवातस्तेषामधिकारानुसारेण तत्रैवाज्ञा दत्तेति सूचितम् ॥ १२ ॥ * * एवं पुत्रोत्पत्तिं प्रदर्श्य तस्य लोकशिक्षणार्थं ॥ धर्माचरणं दर्शयति-भगवानिति । एवकारोऽप्यर्थे । ऋषभसज्ञो भगवान् स्वयमात्मतन्त्रः कर्मानधीनो यत ईश्वरः सकलनियन्ता यतः केवलानन्दानुभवः सच्चिदानन्दरूपोऽत एव नित्यं निवृत्ता अनर्थपरम्परा जन्ममरणधर्माधर्म सुखदुःखाद्यनर्थपरम्परा यस्मात्स तथा अत एव उपशान्तः रागलोभादिदोषरहितोऽत एव समः सर्वप्राणिपक्षपातरहितः कारुणिकः सर्वेषु करुणावान् परदुःखप्रहाणेच्छा करुणा, न केवलेच्छामात्रं किन्तु मैत्रः सर्वेषां हिताचरणे प्रयत्नवान् । एवम्भूतोऽपि विपरीतवत्प्राकृतजीववत् कर्माण्यारभमाणः कुर्वन् कालेनानुगतमुच्छिन्नं धर्मं स्वयमाचरणेनातद्विदां - षष्ठी द्वितीयार्थे - धर्माचारमजानत उपशिक्षयन् धर्मादीनामवरोधेन सङ्ग्रहेण लोकं गृहेषु नियमयत् स्वेच्छाचारान्निवर्त्य शास्त्राचारे नियमितवानित्यर्थः । अडभाव आर्षः । तत्र धर्मः श्रुतफलजनक- मदृष्टमर्थः धनादिसम्पत्तिः यशः सत्कीर्तिः प्रजापुत्रादिसन्ततिरानन्दः विषयभोगजनितसुखममृतं मोक्षः ।। १३ ।। * * नन्वृषभस्य धर्माचरणेनान्येषां कथं तत्र नियमनमित्याशङ्कयाह – यद्यदिति । यद्यत् शुभमशुभं वा कार्यं शीर्षण्येन श्रेष्ठेनाचरितं तत्तदेव लोक इतरोऽपि जनः अनुवर्त्तते करोति । तथा च ऋषभस्य श्रेष्ठत्वात्तदाचारेऽन्येषामपि प्रवृत्त्या युक्तमेव नियमनमिति भावः ।। १४ ।। * यद्यपि ब्राह्म वेदप्रतिपादितं सकलो धर्मो यस्मिंस्तत् गुह्यं रहस्यं स्वेनैव विदितं तथापि ब्राह्मणैर्दर्शित- मार्गेण तान् पृष्ट्वैव सामादिभिरुपायैर्जनतां जनसमूहमनुशशास शिक्षितवान् ॥ १५ ॥ द्रव्यादिभिरुपचितैः सर्वैरपि क्रतुभिर्यज्ञैर्यथोपदेशं यथाविधि शतकृत्वः यज्ञेशमियाज पूजितवान् । द्रव्यं ब्रीह्यादि । देशः पुण्यस्थलविशेषः । कालो वसन्तादिः । वयो यौवनं, ‘युवैव धर्ममन्विच्छेदिति वाक्यात् । विविधोद्देशाः नाना देवतो देशाः ।। १६ ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी यवीयांस इति । यवीयांसः कनीयांसः, एकाशीतिरेकाधिकाशीतिसंख्याकाः, जायन्तेया जयन्तीपुत्राः पितुः आदेशकराः पित्राज्ञानुवर्त्तिनः, महाशालीनाः, अतिनिपुणाः, गार्हस्थ्यधर्म प्रदर्शका वा । महाश्रोत्रियाः अधीतसाङ्गवेदाः, यज्ञशीलाः यज्ञानुष्ठान- शीलाः, कर्मणा सदाचारेण विशुद्धाः ब्राह्मणाः बभूवुः ॥ ९ ॥ * * भगवानिति । अथ भगवान् षाड्गुण्यपूर्णः, ऋषभ इति संज्ञा यस्य सः, आत्मतन्त्रः स्वतन्त्रोऽकर्मवश्यश्च, अत एव नित्यं निवृत्ता अनर्थपरंपरा कर्मायत्तता सुखदुःखाद्यनर्थपरंपरा वा यस्य सः, केवलः दुःखासंपृक्तः य आनन्दः स्वरूपानन्दस्तस्यानुभवो यस्य सः, स्वयं ईश्वरः सन् विपरीतवत्प्राकृतवत् कर्माणि वर्णाश्रमधर्मरूपाणि कर्माणि आरभमाणः कुर्वाणः, कालेन अनुगतं प्रलीनं, धर्मं, आचरणेन, अतद्विदां धर्मतदनुष्ठानादिकमजानतां, उपशिक्षयन् उपशिक्षयितुमित्यर्थः । समः सर्वभूतेषु प्राकृतभावेक्षया समबुद्धिः, उपशान्तः रागाद्यकलुषितचित्तः, मैत्रः अपकृष्टेष्वपि भूतेषु स्वसाम्यबुद्धिः, कारुणिकः परदुःखासहिष्णुः सन्नेव, गृहेषु गृहाश्रमेषु धर्मश्व अर्थश्च यशश्च प्रजानन्दः प्रजार्थो भोगच अमृतं मोक्षश्च तेषामविरोध आनुकूल्यं तेन, लोकं न्ययमयत् नियमितवान् । पाठान्तरे नितरामरमयत् ॥ १० ॥ * * आचरणेनोपशिक्षयन्नत्र हेतुमाह यद्यदिति । यत् यत् शीर्षण्यः श्रेष्ठः तेन, आचरितं तत् तत् एव लोकः अनुवर्त्ततेऽनुतिष्ठति । तथा चोक्तं ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्त्तते’ इति । अतो लोके संग्रहार्थं स्वयमादाबाचर्य समुपशिक्षयन्निति भावः । तथा सकलो धर्मो यस्मिंस्तत्, ब्राह्मं वेदसंबन्धि, गुह्यं रहस्यं, यद्यपि स्वेन विदितमेव अस्ति, तथापि १२ " श्रीमद्भागवतम् [ स्कं. ५ अ. ४ श्लो. १७-१९ ५.अ. ब्राह्मणैः दर्शितमार्गेण ब्राह्मणान् पृष्ट्वैवेत्यर्थः । सामादिभिः उपायैः जनतां जनसमूह, अनुशशास । द्रव्यं हविश्व देशः समे यजेतेत्य- भिहितश्च कालो वसन्तादिश्च वयः ‘कृष्णकेशोऽग्नीनादधीत’ इत्युक्तं च श्रद्धा कर्त्तव्यविषया त्वरा च ऋत्विज अध्वर्युप्रभृतयो याजकाश्च तैः, विविधा उद्देशा इतिकर्तव्यताः नानादेवतोदेशा वा, तैरुपचिता वृद्धि गमितास्तैः सर्वैः क्रतुभिर्यज्ञैः यथोपदेशं यथाविधि, शतकृत्वः शतवारान् इयाजेष्टवान् ॥ ११ ॥ * * भगवतेति । एतस्मिन् वर्षे भगवता ऋषभेण, परिरक्ष्यमाणे सति, कश्चन पुरुषः भर्त्तरि ऋषभे, अनुसवनं शश्वत्, विजृम्भितो वृद्धिं प्राप्तः यः स्नेहोऽनुरागस्तस्यातिशयस्तं, अन्तरेण विना, आत्मनः स्वस्य, अविद्यमानं इव, इदं मम नास्तीत्यविद्यमानवन्मत्वेत्यर्थः । अन्यस्मात् पुरुषान्तरात्, कर्हिचित्कदाचित् कथंचन केनचित् प्रकारेणाऽपि किमपि कंचिदपीत्यर्थः । अन्यं पुरुषार्थं, न अपेक्षते स्वार्थमिति शेषः, न वाञ्छति । अन्यार्थमिति शेषः । भगवदनुग्रहेण सर्वार्थपरिपूर्णत्वाद विद्यमानत्वाभावाद्भर्त्तरि प्रतिक्षणोल्लसितस्नेहातिशायितामृतेऽन्यत्किमपि न वाञ्छतीत्यर्थः ॥ १२ ॥ * * स कदाचिदिति । सः भगवान्, ऋषभः कदाचित्, अटमानः संचरन्, ब्रह्मावर्त्तगतः ब्रह्मावर्त्त प्राप्तः सन्, ब्रह्मर्षिप्रवरसभायां ब्रह्मर्षिश्रेष्ठानां मुनीनां सदसि, प्रजानां निशामयन्तीनां शृण्वन्तीनां सतीनां, अवहितात्मनः समाहितचित्तान्, प्रश्रयो विनयश्च प्रणयः स्नेहश्च तयोर्भरोऽतिशयश्च तेन सुयन्त्रिता वशीकृतास्तान् अपि आत्मजान् उपशिक्षयन, इति वक्ष्यमाण- प्रकारेण, ह स्फुटं यथा तथा उवाच ॥ १३ ॥ इति श्रीधर्मधुरंधर श्री धर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दस्वामिसुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचितायाम- स्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥ भाषानुवादः उनमें महायोगी भरतजी सबसे बड़े और सबसे अधिक गुणवान थे । उन्हींके नामसे लोग इस अजनाभखण्डको ‘भारतवर्ष’ कहने लगे ॥ ९ ॥ उनसे छोटे कुशावर्त, इलावर्त, ब्रह्मावर्त, मलय, केतु, भद्रसेन इन्द्रस्पृक्, विदर्भ और कीकट - ये नौ राजकुमार शेष नब्बे भाइयोंसे बड़े एवं श्रेष्ठ थे ॥ १० ॥ * उनसे छोटे कवि, हरि, अन्तरिक्ष, प्रबुद्ध, पिप्पलायन, आविर्होत्र, द्रुमिल, चमस और करभाजन- ये नौ राजकुमार भागवतधर्मका प्रचार करनेवाले बड़े भगवद्भक्त थे । भगवानकी महिमासे महिमान्वित और परम शान्तिसे पूर्ण इनका पवित्र चरित हम नारद-वसुदेवसंवादके प्रसङ्ग आगे ( एकादश स्कन्धमें ) कहेंगे ।। ११-१२ ॥ इनसे छोटे जयन्तीके इक्यासी पुत्र पिताकी आज्ञाका पालन करनेवाले, अति विनीत, महान वेदज्ञ और निरन्तर यज्ञ करनेवाले थे । वे पुण्यकर्मीका अनुष्ठान करनेसे शुद्ध होकर ब्राह्मण हो गये ये ॥ १३ ॥ **** भगवान् ऋषभदेव, यद्यपि परम स्वतन्त्र होनेके कारण स्वयं सर्वदा ही सब प्रकारकी अनर्थपरम्परा से रहित, केवल आनन्दानुभव- स्वरूप और साक्षात् ईश्वर ही थे, तो भी अज्ञानियोंके समान कर्म करते हुए उन्होंने कालके अनुसार प्राप्त धर्मका आचरण करके उसका तत्त्व न जाननेवाले लोगों को उसकी शिक्षा दी । साथ ही सम, शान्त, सुहृद् और कारुणिक रहकर धर्म, अर्थ, यश, सन्तान भोग-सुख और मोक्षका संग्रह करते हुए गृहस्थाश्रममें लोगोंको नियमित किया ॥ १४ ॥ महापुरुष जैसा जैसा आचरण
-
- करते हैं, दूसरे लोग उसीका अनुकरण करने लगते हैं ॥ १५ ॥ * यद्यपि वे सभी धर्मों के साररूप वेदके गूढ रहस्यको जानते थे, तो भी ब्राह्मणोंकी बतलायी हुई विधिसे साम-दानादि नीतिके अनुसार ही जनताका पालन करते थे ॥ १६ ॥ द्रव्यदेशकालवयः श्रद्धविंग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ।। १७ ।। भग- वर्ष ‘भेण परिरक्ष्यमाण एतस्मिन् वर्षे न कथन पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्ष ते भर्तर्यनुसवनं विजृम्भितस्नेहातिशयमन्तरेण ॥ १८ ॥ स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ।। १९ ।। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥ अन्वयः — द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशेोपचितैः इयाज ॥ १७ ॥ ॥ meyers सर्वैः कतुभिः अपि यथोपदेशम् शतकृत्वः भगवता ऋषभेण परिरक्ष्यमाणे एतस्मिन् वर्षे अन्यस्मात् कर्हिचित् कथंचन कश्चन पुरुषः आत्मनः किमपि अविद्यमानम् इव भर्तरि अनुसवनम् विजृ भितस्नेहातिशयम् अंतरेण न वाव्च्छति अपेक्षते ।। १८ ।। * * सः १. प्रा० पा० - भगवता ऋषभेण । २. प्रा०पा० - ३. प्रा० पा० - ४. प्रा० पा० - एक. ५ अ. ४ श्लो. १७-१९1 अनेकव्याख्या समलङ्कृतम् कदाचित् अटमानः ब्रह्मावर्तगतः भगवान् ऋषभः ब्रह्मर्षिप्रवरसभायाम् निशामयन्तीनाम् प्रजानाम् अवहितात्मनः प्रश्रयप्रणयभर - सुयंत्रितान् अपि आत्मजान् उपशिक्षयम् इति ह उवाच ॥ १९ ॥ masing इति चतुर्थोऽध्यायः । pho श्रीधरस्वामिविरचिता भावार्थदीपिका । द्रव्यादिभिरुपचितैर्यज्ञैरिष्टवान् । तत्र वयो यौवनम् । ‘युवैव धर्ममन्विच्छेदिति वचनात् । विविधोद्देशा नानादेवतो- देशाः । यथोपदेशं यथाविधि ॥ १७ ॥ * * अन्यस्मात्सकाशादात्मनः कश्चिदपि किमपि कथंचनापि न वाञ्छति । इच्छानुदये दृष्टान्तः अविद्यमानं खपुष्पादिकमिव । न चान्यदीयमवेक्षतेऽपीत्यर्थः । भर्तरि ऋषभदेवे प्रतिक्षणमुल्लसित- स्नेहोद्रेकं विनाऽन्यन्न वाञ्छति ॥ १८ ॥ अवहितात्मनः संयतचित्तानपि प्रजानुशासनार्थमुपशिक्षयन्निति ह वक्ष्य- माणमुवाच ।। १९ ।
इति श्रीमद्भागवते महापुराणे पंचमस्कन्धे भावार्थदीपिकायां टीकायां चतुर्थोऽध्यायः ॥ ४ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः द्रव्याणि ब्रीह्मादीनि । देश आर्यावर्त्तादिः । कालो वसन्तादिः ।। १७-१८ ।। * * अटमानोऽटितुकामः । । । शानजत्र ताच्छीलिकार्थः । निशामयन्तीनां शृण्वन्तीनाम् । प्रश्रयो नम्रता । प्रणयः स्नेहस्तयोर्भरेणाधिक्येन सुयन्त्रितान्वशी- कृतानपि ।। १९ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥ श्रीमद्वीरराघवव्याख्या भगवता ऋषभेणैतस्मिन् वर्षे भारते परिरक्ष्यमाणे सति कश्चन पुरुषो भर्त्तरि ऋषभे अनुसवनं शश्वद्विजृम्भितो यः स्नेहोऽनुरागः तस्यातिशयमन्तरेण विनान्यं पुरुषार्थमात्मनः स्वस्याविद्यमानमन्यस्मात्पुरुषान्तरात्कदाचिदपि किञ्चिदपि केनापि निमित्तेन नापेक्षते ॥ १८ ॥
स भगवानृषभदेवः कदाचित्सञ्चरन् ब्रह्मावर्त्तगतः ब्रह्मर्षिश्रेष्ठानां सभायां प्रजानां निशामयन्तीनां शृण्वन्तीनां सतीनामात्मजान् अवहितात्मनः समाहितचित्तान् प्रश्रयो विनयः प्रणयः स्नेहस्ताभ्यां यत्सुखं तेन यन्त्रितान् वशीकृतानुपशिक्षयन्निति वक्ष्यमाणप्रकारेणोवाच ह ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतायां श्रीभागवतचंद्रचंद्रिकायां चतुर्थोऽध्यायः ॥ ४ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अविद्यमानमिव न वाञ्छति आत्मनोऽन्यस्मात् पुंसः किमपि नापेक्षत इत्यन्वयः । तर्ह्यपेक्ष्यमाणं किन्तत्राह । भर्तरीति ॥ १८ ॥ * * अटमान इति शानच् ताच्छीलिकार्थः, अटितुकामः प्रत्रजिष्यन्नित्यर्थः, निशामयन्तीनां शृण्वन्तीनामवहिता- त्मनः उक्तग्रहणनिरतमनसः प्रश्रयादिगुणैः सुयन्त्रितान् सुष्ठु बद्धान् इति वक्ष्यमाणप्रकारेण ॥ १९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कंधे श्रीमद्द्विजयध्वजतीर्थकृतपदरत्नावल्यां चतुर्थोध्यायः ॥ ४ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी द्रव्यादिभिरुपचितैः वयो यौवनं ‘युवैव धर्म्ममन्विच्छेदिति वचनात् विविधोद्देशा नानादेवतोद्देशाः ।। १७ ॥ * * कञ्चन कश्चिदपि पुरुषोऽविद्यमानं खपुष्पमिव कमपि आत्मनः स्वस्य अन्यस्मात् सकाशात् न वाञ्छति भर्त्तरि ऋषभदेवे स्नेहाति - शयं केवलमवेक्षते अन्तरेणान्तरात्मना “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादयें । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च” इत्यमरः ।। १८-१९ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमस्य चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥ ४ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः किन द्रव्यादिभिरुपचितैः सर्वैर्यज्ञैर्यथोपदेशं यथाविधि शतकृत्व इयाज इष्टवान् । तत्र द्रव्यं पुरोडाशादि देशः पुण्य- तीर्थादिः कालो वसन्तादिः वयो यौवनम् । श्रद्धाभिरुचिः ऋत्विजः बहुशः कृतानुष्ठानाः विविधोद्देशाः भगवतः सर्वयज्ञभोक्तुः सर्व- श्रीमद्भागवतम् [ स्कं. ५ अ. ४ श्लो. १७-१९ श्रेष्ठस्य सर्वात्मनः अंशभूताः नाना या देवताः वेदे प्रोक्तास्तत्तद्वारेण कृताः “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति かし श्रीमुखोक्तेः ॥ १७ ॥ * * अविद्यमानं खपुष्पादिकमिव कश्चिदपि अन्यस्मात् किमपि न वाञ्छति न चान्यदीयमवेक्षते ॥ १८ ॥ * * इति वक्ष्यमाणमुवाच ॥ १९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे चतुर्थाध्यायार्थप्रकाशः ॥ ४ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी 1 एवं भगवतर्षभेण स्वाचारेण प्रवर्तितस्य धर्मस्यानुष्ठानेन तत्प्रजानां चित्तशुद्धया रागलोभादिनिवृत्तिलक्षणं फलमपि जातं तद्दर्शयति – भगवतेति । भगवता ऋषभेण परिरक्ष्यमाण एतस्मिन् वर्षेऽजनाभखण्डे कश्चनान्त्यजादियोनिं प्राप्तोऽतिनीचोऽपि पुरुष आत्मनोर्थे अन्यस्मात्सकाशात्किमपि अत्युत्कृष्टमपि वस्तु कर्हिचित् कस्मिंश्चिदपि काले कथचन केनापि प्रकारेण न वाञ्छति नेच्छतीत्यन्वयः । नन्वन्येषां विभवं दृष्ट्वा कथं नेच्छा स्यादित्याशङ्कयाह-अवेक्षत इति, न चान्यदीयं विभवमवेक्षते पश्यतीत्यर्थः । पूर्वकारस्यैवात्रापि सम्बन्धः । उभयत्र दृष्टान्तमाह- अविद्यमानमिवेति, अविद्यमानं खपुष्पादिकं यथा कश्चिदपि कदाचिन्न पश्यति नच वाञ्छति तथेत्यर्थः । एवं सर्वतो विरक्तानां भगवतोऽपि विमुखता स्यादित्याशङ्कयाह — भर्त्तरीति । भर्तरि सर्वलोकपोषके भगवति अनुसवनं प्रतिक्षणं विजृम्भितो वर्द्धमानो यः स्नेहस्यातिशय उत्कटता तदन्तरेण ततोऽन्यत् न किमपि वाञ्छतीत्यन्वयः । अनेन पुष्टिमार्गीयसंमतायाः स्नेहलक्षणाया भक्तेरन्यपुरुषार्थेभ्य उत्कृष्टत्वं दर्शितम् ॥ १७ ॥ एवं स्वाचारेण धर्मप्रवर्त्तनेऽप्युपदेशवचनं विना स्वाभिप्रायाज्ञानात्तस्य दृढता न स्यात् तथाच पुनस्तल्लोपेन जडत्वप्रसक्त्या विनाशः स्यादतः स्ववचनेनापि शास्त्ररहस्यमुपदिदेशेत्याह - स इति । स भगवानृषभः कदाचिद्भूमिमटमानो ब्रह्मावर्त गतो ब्रह्मर्षिप्रवर- सभायामात्मजान् स्वपुत्रानुपशिक्षयन्निति वक्ष्यमाणं तत्त्वजातं ह स्फुटतया सर्वेषां श्रवणं यथा भवति तथोवाचेत्यन्वयः । श्रेष्ठानां मध्ये निरूपितं तैरनुमोदितं सर्वेषां प्रमाणीभवतीति ब्रह्मर्षीणां मध्ये ये प्रवराः श्रेष्ठास्तेषां सभायामुवाच । प्रजानां निशामयन्तीनां शृण्वतीनामित्यनेन पुत्रान् पुरस्कृत्य प्रजार्थमेवानुशासनमिति ज्ञेयम्, अत एव पुत्रान् कृतार्थत्वेन विशिनष्टि - अवहितात्मन इति, संयतचित्तानपीत्यर्थः । अत एव प्रश्रयप्रणययोर्नम्रतास्नेहयोर्भरेण सुयन्त्रितान् वशीकृतानपीत्यर्थः ॥ १८ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्थेयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र कृष्णेन स्थितिरूपणे । चतुर्थी विवृतोऽध्यायो धर्माचारनिरूपकः ॥ ३॥ भाषानुवादः उन्होंने शास्त्र और ब्राह्मणोंके उपदेशानुसार भिन्न-भिन्न देवताओंके उद्देश्यसे द्रव्य, देश, काल, आयु, श्रद्धा और ऋत्विज आदिसे सुसम्पन्न सभी प्रकारके सौ-सौ यज्ञ किये ॥ १७ ॥ * भगवान् ऋषभदेवके शासनकाल में इस देशका कोई भी पुरुष अपने लिये किसीसे भी अपने प्रभुके प्रति दिन-दिन बढ़नेवाले अनुरागके सिवा और किसी वस्तुकी कभी इच्छा नहीं करता था। यही नहीं, आकाशकुसुमादि अविद्यमान वस्तुकी भाँति कोई किसीकी वस्तुकी ओर दृष्टिपात भी नहीं करता था ॥ १८ ॥ * * एक बार भगवान् ऋषभदेव घूमते-घूमते ब्रह्मावर्तदेशमें पहुँचे। वहाँ बड़े बड़े ब्रह्मर्षियों की सभा में उन्होंने बड़े-बड़े प्रजाके सामने ही अपने समाहितचित्त तथा विनय और प्रेमके भारसे सुसंयत पुत्रोंको शिक्षा देनेके लिये इस प्रकार कहा ।। १९ ।। इति चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः ऋषभ उवाच 3 । नायं देहो देहभाजां नृलोके कष्टान् कामानर्हते विड्भुजां ये । तपो दिव्यं पुत्र’ का येन सत्त्वं शुद्धयेद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ॥ १ ॥ महत्सेवां द्वारमाहुर्विमुक्तस्तमोद्वारं योषितां सङ्गिसङ्गम् । महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ २ ॥ ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु । गृहेषु जायात्मजरा तिमत्सु न प्रीतियुक्ता यावदर्थाथ लोके ॥ ३ ॥ नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रियप्रीतय आपृणोति । न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः || ४ || पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् । यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ॥ ५ एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने । प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥ ६ ॥ यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् । गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः ॥ ७ ॥ पुंसः स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः अतो गृहक्षेत्रसुताप्तविचैर्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥ आहुः अन्वयः - नृलोके देहभाजाम् अयम् देहः ये विड्भुजाम् कष्टान् कामान् न अर्हते पुत्रका दिव्यम् तपः येन सत्त्वम् शुद्धयेत् यस्मात् तु अनन्तम् ब्रह्मसौख्यम् ॥ १ ॥ * * महत्सेवाम् विमुक्तेः द्वारम् योषिताम् संगिसंगम् तमोद्वारम् ये समचित्ताः प्रशांताः विमन्यवः सुहृदः साधवः ते महान्तः ।। २ ।। * * ये वा ईशे मयि कृत सौहृदार्थाः देहभरवार्ति- केषु जनेषु जायात्मजरातिमत्सु गृहेषु न प्रीतियुक्ताः च लोके यावदर्थाः ते महान्तः ॥ ३ ॥ * * यत् इंद्रियप्रीतये आपृणोति प्रमत्तः नूनम् विकर्म कुरुते यतः अयम् आत्मनः असन् अपि क्लेशदः देहः आस साधु न मन्ये ॥ ४ ॥ * * यावत् आत्मतत्त्वम् न जिज्ञासते तावत् अबोधजातः पराभवः यावत् क्रियाः तावत् वै मनः कर्मात्मकम् येन शरीरबंधः ।। ५ ।। * * एवम् अविद्यया आत्मनि उपधीयमाने मनः कर्मवशं प्रयुङ्क्ते यावत् वासुदेवे मयि प्रीतिः न तावत् देहयोगेन न मुच्यते ॥ ६॥ * * यदा स्वार्थे प्रमत्तः विपश्चित् गुणेहाम् अयथा न पश्यति तत्र अज्ञः सहसा गतस्मृतिः मैथुन्यम् अगारम् आसाद्य तापान् विंदति ॥ ७ ॥ * * एतम् पुंसः स्त्रियः मिथुनीभावम् तयोः मिथः हृदयग्रन्थिम् आहुः अतः गृहक्षेत्रसुताप्तवित्तैः जनस्य अहम् मम इति अयम् मोहः ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका पञ्चमे मोक्षधर्मोपदेशैः पुत्रानुशासनम् । उक्त पारमहंस्यं च तस्य द्वंद्वतितिक्षया ॥ १ ॥ विड्भुजामपि ये सन्ति तान्कष्टान्दुःखदान्कामान्विषयान्नार्हति तद्योग्योऽयं मनुष्यदेहो न भवति । दिव्य- मुत्कृष्टम् । येन तपसा । यस्माच्छुद्धात्सत्त्वादनन्तं ब्रह्मसुखं भवति ॥ १ ॥ * * मोक्षबन्धयोर्निदानमाह महत्सेवामिति । १. २. प्रा० पा० - ३. प्रा० पा० - ४. ५. प्रा० पा० - ६. प्रा० पा० - ७. प्रा० पा० - * । श्रीमद्भागवतम् જી [ स्कं. ५ अ. ५ लो. १-८ तमसः संसारस्य द्वारं योषितां ये संगिनस्तेषां संगम् । महतां लक्षणमाह सार्धेन महान्त इति । साधवः सदाचाराः ॥ २ ॥ * * मयि ईशे कृतं सौहृदमेवार्थः पुरुषार्थो येषाम् । वाशब्देनान्यनिरपेक्षस्यैवास्य लक्षणत्वं दर्शयति । देहं बिभर्तीति देहम्भरा विषयवार्तेव न धर्मविषया येषु तेषु जनेषु जायादियुक्तेषु गृहेषु च । रातिर्मित्रं धनं वा पाठान्तरे जायादिप्रदेषु । यावदर्थाश्च यावदर्थमेवार्थो येषामिति मध्यमपदलोपी समासः । देहनिर्वाहाधिकस्पृहाशून्या इत्यर्थः ॥ ३ ॥ * * कामान्नार्हतीति यदुक्तं तदुपपादयति नूनमिति । यद्यदा इन्द्रियप्रीतये आवृणोति व्याप्रियते तदा प्रमत्तः सन्विकर्म पापं नूनं कुरुते । यतो विकर्मणः प्राचीनादयम् असन्नपि नश्वरोप क्लेशदो देहो जातस्तस्यैव पुनःकरणं साधु न मन्ये ॥ ४ ॥ * * देहादेर्नश्वरत्वात्कियानयम- नर्थ इत्याशंक्याह । पराभवो देहादिना स्वरूपाभिभवोऽज्ञानकृतस्तावद्भवति । तत्र हेतुः - यावत्क्रियाः स्युस्तावदिदं मनो हि कर्मस्वभावमेव स्यात् । येन कर्मात्मकेन मनसा ॥ ५ ॥ ॐ * उक्तमुपसंहरति । एवं पूर्वकृतं कर्म कर्तृभूतं मनः कर्मभूतं वशं प्रयुक्ते पुनः कर्मनिष्ठं करोतीति । जीवन्मुक्तकर्मव्यावृत्त्यर्थमाह अविद्ययेति । अविद्यया आत्मनि उपधीयमाने आच्छाद्यमाने सति । एवं मनः कर्तृ पुरुषं कर्मवशं प्रयुक्त इति वा ॥ ६ ॥ * * न केवलं देहयोगमात्र मनर्थान्तरं चेत्याह । यदा गुणानामिन्द्रियाणामीहां चेष्टामयथा मिथ्या आत्मीया न भवतीति विपश्चिद्विबेकी सन्न पश्यति । पश्यति’ इति पाठे अयथा आत्मीयत्वेनेत्यर्थः । तत्र तदा सहसा गतस्मृतिः स्वरूपस्मृतिशून्यः सन्नज्ञो मूढो मैथुनसुखप्रधानं गृहं प्राप्य तापान्विन्दति ॥ ७ ॥ * * ननु यथोपयोगं स्त्रिया मिथुनीभूय सुखमात्रमनुभवतः कुतस्तापाः स्युस्तत्राह पुंस इति । प्रत्येकं तयोरकैको हृदयग्रन्थिरस्त्येव । एतं मिथः परस्परं स्थूलमन्यं हृदयग्रन्थि दुर्भेदं वदन्ति । कुत इत्यत आह । अतोऽस्मान्मिथुनीभावात् । प्रत्येकं हृदयग्रन्थिना तु देहेन्द्रियमात्रेऽहममेति मोहोऽस्मात्तु गृहादिभिर्विषयभूतैर्महान्मोहो भवेदित्यर्थः ॥ ८ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः ब्रह्मख्यातम्’ तस्यर्षभस्य ( १ ) । पुत्राणां तत्त्वोपदेशव्याजेन लोकहिताय सकलशास्त्रसारभूतं तत्त्वं निरूपयत्यस्मिन्नध्याये । तत्रादौ विषयसेवा मुमुक्षुणाऽवश्यं वर्जनीयेन्याशयेनाह - नायमिति । कामान् योषिदर्शनस्पर्शादीन् । कुतो नार्हते ये विडभुजां श्वशूकरा- दीनामपि सन्ति कामात्वे तु मनुष्यदेहशू कर देह योस्तुल्यतापत्तेरिति भावः । तेन शूकरादिदेहेन यन्न लभ्यते तदेव मनुष्यदेहेन लब्धुं यतनीयं तदेव मनुष्यत्व चिह्नं तत्किं तत्राह–तप इति । तच्चानाहारवर्षातप सहनादिकं वृक्षादीनामपि वर्त्तते तद्वयावृन्त्यर्थमाह दिव्यमप्राकृतं भगवत्सम्बन्धीत्यर्थः । हे पुत्रका इति कृपायां कन् । कृपाविषयत्वायुष्मानहं शास्मीति भावः । ‘सत्त्वं द्रव्ये गुणे जीवे धैर्येन्तःकरणे सति’ इति निरुक्तिः ॥ १ ॥ * मनुष्यदेहादेवोद्धारोऽधः पातश्च भवतीति तयोः कारणमपि मनुष्य- देहेस्तीत्याह - महदिति । विमुक्तेर्विविधमुक्तेः । ‘ब्रह्मसौख्यं ह्यनन्तम्’ इति पूर्वोक्तेर्ब्रह्मसौख्यस्य च निर्विशेषसविशेषब्रह्मसम्बन्धित्वेन द्वैविध्यान्मुक्तिरपि सायुज्यं भक्तिमत्पार्षदत्वं चेति द्विविधा विशब्दाद् व्याख्येया । महान्तोऽपि द्विविधा ब्रह्मोपासका भगवदुपासकाश्च । तेषां लक्षणं तन्त्रेणैवाह - समचित्ता अभेददर्शिनः अकुटिलचित्ताश्च । मा लक्ष्मीस्तया सहितः समो नारायणस्तत्र चित्ता इति वा । प्रशान्ताः प्रशमादियुक्ताः प्रकृष्टं शं येन स प्रशो भक्तियोगस्तत्रान्तो निश्चयो येषां ते तथा वा । ‘यद्वा मन्निष्ठता बुद्धेः’ इत्युक्तेर्भग- वन्निष्ठधिय इत्यर्थः । विमन्यव इत्यादिविशेषणत्रयमुभयत्र तुल्यार्थम् । साधवः परदोषाग्राहिणः || २ || * * उत्तरेषाम- । साधारण लक्षणं पुनराह य इति । मत्प्रीतेरन्यद्वस्तु ये पुरुषार्थं न मन्यन्ते इत्यर्थः । ये पुरुषार्थं न मन्यन्ते इत्यर्थः । देहम्भराणां भोजनपानाद्यासक्तानां या वार्त्ता जीविका कथा वा ताभिरेव ये दीव्यन्ति तेषु जनेषु वा । पाठान्तरे ‘रातिदेषु’ इति पाठे । ननु तर्हि किमर्थं तेषु तिष्ठन्ती- त्यत्राह - यावद्भिरेव धनादिभिरर्थो मत्पादसेवात्मिका भक्तिर्भवेत्तावन्त एवोपादेया येषां ते तावदादिपदानां वृत्तावन्तर्भावस्तेन तावदुपादेय इत्यादेर्लोपोपि सिद्ध इति । इत्यर्थं इति । तथा च तेषां गृहवासो न दोषाय “नैनः प्राप्नोति वै विद्वान्यावदर्थपरिग्रहः’ इति श्रीवामनोक्तरिति भावः ।। ३ ।। * तमोद्वारं योषितां संगिसंगाद्दहिन एवाधःपातः स्यात्तं दर्शयति-शोचते च । विकर्म परदारादिग्रहणं, देहः कीदृश आत्मनो जीवस्यासन्नपि मिथ्याभूतोऽपि । “असंगो ह्ययं पुरुषः” इति श्रुतेः ॥ ४ ॥ * तर्हि पुण्यं कर्त्तव्यमिति चेन्न तस्यापि संसारहेतुत्वेन क्लेशदत्वात् । तस्मात्पुण्यपापयोर्निरासकं ज्ञानमेवाभ्यसनीयमित्याह - पराभवः कर्मपारतन्त्र्यं तदेव जीवस्य बन्धः स चाज्ञानकृतस्तावदेव भवति यावन्न जिज्ञासत इति । “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽ- र्जुन” इति श्रीगीतोक्तेः । यावच्च ज्ञानं नोद्भवेत् तावत्कर्माणि न नश्यन्ति यावत्क्रियाः पुण्यपापकर्माणि स्युस्तावदिदं मनः कर्मात्मकं कर्मस्वभावमेव स्यात् ॥ ५ ॥ * * येन प्रकारेण मनः कर्मात्मकं स्यात्तमाह- कर्म प्राचीनमर्वाचीनं वा । एवमनेन प्रकारेण मनः कर्मात्मकं स्यात् यद्वस्तु यदधीनं स्यात्तच्च तदात्मकमेव भवेदित्यर्थः । आत्मनि जीवे उपधीयमाने युज्यमाने सति । उपधि- रुपाधिलिंगं तदध्यासात्तद्रूपीक्रियमाण इत्यर्थः । किं च सर्वकर्मनिर्मूलीकरणी भक्तिरेवेत्याह प्रीतिरिति । स्नेहलक्षणा भक्तिः प्रीतिः ॥ ६ ॥ * * इत्यर्थ इति । गुणचेष्टामात्मीयां पश्यतीति भावः । अत्र विश्वनाथः एवं च भक्तिमिश्रस्य ज्ञानस्य परिपाक दशायामेव नैष्कर्म्यं न त्वपरिपाकदशायामित्याह - यदा गुणेषु शब्दादिष्वर्थेषु । ईहां वाञ्छाम् अयथामनर्थरूपाम् । विपश्चित् ज्ञानवानपि न पश्येत् । ‘यदानुपश्यति’ इति पाठे गुणानामिन्द्रियाणामीहां चेष्टामयथा ममात्मन एव चेष्टेत्यर्थः । तत्र तदा सहसा स्कं. ५ अ. ५ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् गतस्मृतिः संस्तापान्विन्दति मैथुनाईमगारं प्राप्य त्वतितापानित्यर्थः ॥ ७ ॥ * इन्द्रियचेष्टानामात्मीयत्वाभिमनन सद्भावेऽपि स्वकुटुम्बसंगवतो यथा मोहस्तथा तद्रहितस्य नेत्याह-पुंस इति । प्रत्येकं तयोरेकैकं प्रन्थिर्यथा ममेयं स्त्रीत्ये कोयं ग्रन्थिस्तदुपरि ममायं पतिरिति द्वितीयो ग्रन्थिस्तेन पुंसा वैराग्येण त्यक्तुमिष्टोऽपि स्त्री न तं त्यजतीति बन्धस्य गाढत्वम् । उपलक्षणमेतत्पितृपुत्रा- देरपीति । कुटुम्बराहित्ये तु वस्त्रासनपात्रादिष्वात्मीयत्वेनाभिमानसद्भावेऽपि मिथो ग्रन्ध्यभावान्न तादृशो बन्ध इति भावः । इत्यर्थ इति । अहं गृही मम गृहमित्येवं महामोहो भवेदिति भावः । यन्तु कुटुम्बी शुचौ देशे इत्याद्युक्त्वा ‘न स पुनरावर्त्तते’ इति श्रुत्या कुटुम्बिनोऽपि पुनरनावृत्तिलक्षणमुक्तिरुता तत्प्रायिकाभिप्रायेण । “ब्रह्माद्या याज्ञवल्क्याचा मुक्ताः स्युः स्त्रीसहायिनः । बध्यन्ते केचनैतेषां विशेषं च विदो विदुः ॥” इति तीर्थोक्तेः ।। ८-९ ।। । श्रीमद्वीरराघवव्याख्या उक्तमेवाह ऋषभ इति । तद्वन्मुक्त्युपायत्वेन भगवदुपासनमुपदेक्ष्यमाणो वैराग्यं विना उपदिष्टोऽपि भक्तियोगो न सम्यक् प्रतितिष्ठतीति तदुत्पत्तये कामान्निन्दति नायमित्यर्द्धेन । देहभृतां मध्ये यो नृलोकः मनुष्यस्तस्मिन्सत्ययं मनुष्यदेहः कष्टान्कृच्छ्रसम्पाद्यानन्ततो दुःखरूपान् कामान् यज्ञादीन् प्रति नार्हति कामाननुभवितुं नार्हतीत्यर्थः, कामोपभोगार्थो नायं नृदेह इत्यर्थः । कुतः ये कामा विड्भुजामपि सूकरादीनामपि सन्ति किन्तु हे पुत्रकाः ! दिव्यं देवस्य विष्णोराराधनरूपं तपश्चर्तुमर्हति किं तत्तपः यदर्हति तत्राह । यस्मात्तपसः शुध्येन्निरस्तसंसारो भवेत् येन च ब्रह्मसुखमपारं भवेत् । कामोपभोगेन संसृतिः, एवं कामोपभोगः संसृतिहेतुः, भगवदुपासनं मोक्षहेतुरित्युक्तम् ॥ १ ॥
एवं भोगोपासनयोर्बन्धमोक्षहेतुत्वमभिधाय तयोर्निदानमाह । महतां सेवां विमुक्तेर्द्वारं मूलं कारणमाहुः तथा योषितां स्त्रीणां ये सङ्गिनः तेषां सङ्गं तमसः संसारस्य द्वारमाहुरित्यनुषङ्गः । के ते महान्तः यत्सेवा विमुक्तेर्द्वारं तत्राह सार्द्धेन । ये समचित्तत्वादिगुणयुक्तास्ते महान्त इत्यन्वयः । समचित्ताः सुखदुःखादिष्वविक्रियमाणचित्ताः सर्वस्य ब्रह्मात्मकत्वज्ञानात् प्रशान्ताः जितबाह्यान्तःकरणाः विमन्यवः तितिक्षवः सुहृदः सर्वभूतहितैषिणः साधवः परोपकारनिरताः ॥ २ ॥
मयीशेऽस्मच्छरीरकेऽस्मदन्तरान्मनि सर्वेश्वरे शास्त्रदृष्टया स्वात्मनो भगवदात्मकत्वादेव मुक्तिः यथाह प्रह्लादः “सर्वगत्वादनन्तस्य स एवाहमवस्थितः” इति । यद्वा क्षेत्रज्ञशक्त्यभिभवाद्भगवदंशोद्भवादेव मुक्तिः कृतं सौहृदं प्रीतिरेवार्थः प्रयोजनं येषां ते देहंभरवार्तिकेषु देहधारणा वार्त्तैव न धर्मविषया वार्त्ता येषु जनेषु गृहेषु च । कथंभूतेषु जाया कलत्रमात्मजाः पुत्राः रातिर्मित्रं धनं वा तद्वत्सु प्रीतियुक्ता न भवन्ति, ये च लोके यावदर्थाः देहधारणापेक्षामात्रग्राहिणः देहनिर्वाहकाधिक्यार्थस्पृहाशून्या इत्यर्थः ॥ ३ ॥
कामान्नार्हतीति यदुक्तं तदुपपादयति नूनमिति । प्रमत्त आत्मभ्रान्त्या देहपरवशः अत एव दीनः यदिन्द्रियप्रीतये कर्म आपृणोति व्याप्रियते करोतीति यावत् तत् कर्म साधु समीचीनं न मन्यते कुतः यतः यस्मादिन्द्रियप्रीत्यर्थात्कर्मणः असन्नप्यस्थिरोऽप्ययं क्लेशदो देहः आस बभूव प्राप्त इति तस्यैव पुनः करणं साधु न मन्य इत्यर्थः ॥ ४ ॥
ननु देहस्यास्थिरत्वात्कियानयमनर्थ इत्याशङ्क्याह पराभव इति । यावदात्मनः प्रकृतिविलक्षणस्यात्मनः तत्त्वं याथात्म्यम् यावन्न जिज्ञासते ज्ञातुं नेच्छति न जानातीत्यर्थः तावदबोधजातः आत्मस्वरूपतिरोभावः आत्मयाथात्म्याज्ञाननिमित्तपराभवः यावच्च पराभवस्तावदिन्द्रियप्रीतये क्रियाः प्रवर्तन्ते यावच्च क्रियास्तावदिदं मनः कर्मात्मकं कर्मप्रवणं न तु ज्ञानप्रवणं येन कर्मात्मकेन मनसा भूयोऽपि शरीरबन्धः, शरीराणां नश्वरत्वेऽपि पुनःपुनस्तत्सम्बन्धोऽविच्छिन्न इति तन्निमित्तानर्थपरम्पराप्यविच्छिन्नेति भावः ॥ ५ ॥
एतदेवाह एवमिति । अविद्यया देवमनुष्याद्यौपाधिकदेहविशिष्टत्वेनाहङ्कारममकाररूपयोपधीयमाने कर्मवासनामूलया संसृत्यभाने सत्यात्मनि मनः कर्मवशं प्रयुङ्क्तं व्यापारयति पुरुषमिति शेषः । अतो यावद्वासुदेवे मयि प्रीतिः प्रीतिरूपा भक्तिर्न स्यात्तावद्देहयोगेन न मुच्यते ॥ ६ ॥
न केवलं देहयोगमात्रमपि त्वनर्थान्तरसत्त्वं चेत्याह । यदेति स्वार्थे स्वस्य पुरुषार्थभूते स्वात्मपरमात्मयाथात्म्यानुसंधानेऽप्रमत्तः सन् गुणेहां शब्दादिगुणविषयामिन्द्रियाणां प्रवृत्तिम् यथा आत्मनः स्वाभाविकी न भवति किं तु देहसंबन्धप्रयुक्तेति विपश्चिद्विवेकी सन् यदा सहसा न पश्यति तदासौ पुमान् गतस्मृतिः स्वात्मपरमात्मस्मृतिरहितः अत एवाज्ञः मैथुन्यं मैथुनसुखप्रधानं गृहं प्राप्य तत्र तापान् विन्दति प्राप्नोति । एतदुक्तं भवति अनादिकर्मवासनयाहङ्कारममकाररूपाविद्या, अविद्यया च देहसंबन्धः, देहसंबन्धेन पुनः पुनः कर्म कर्मणस्तापः, तापानुभवेन कर्मणो विनाशेऽपि तद्वासनाया अनिवृत्तौ पुनरविद्या, अविद्यया च देहसंबन्धद्वारा तापानुभव इत्येवं चक्रवत्परिवृत्तिरिति ॥ ७ ॥
एवं रूपसंसारस्य निदानं वासनैव तन्निवृत्तिरेव मुक्तेर्निदानमिति प्रतिपादयितुं तावद्वासनापि मिथुनीभावमूलेत्याह पुंस इति । पुंसः स्त्रिया सह योऽयं मिथुनीभावस्तं प्रत्येकं तयोर्ह्लदयग्रन्थिमाहुः । हृन्मनः तद्रता कर्मवासना दुर्भेद्यत्वाद् ग्रन्थिरित्युच्यते । मिथुनीभावं हृदयग्रन्थिकारणमाहुरित्यर्थः । कोऽसौ हृदयमन्थिर्यं मिथुनीभावमाहुस्तत्राह । यतः हृदयग्रन्थिहेतोः गृहादिभिर्विषयभूतैरहं-ममेत्यविद्यारूपो मोहो जनस्य भवेत् ॥ ८ ॥
- ।।
- "
- तथा ॥ ३ ॥
- १५
- श्रीमद्भागवतम्
- श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
- [ स्कं. ५ अ. ५ श्लो. १-८
- पुत्राणां तत्त्वोपदेशव्याजेन लोक हिताय सकलशास्त्रसारभूतं तत्त्वं निरूपयत्यस्मिन्नध्याये । तत्रादौ विषयसेवा मुमुक्षुणा अवश्यं वर्जनीयेति भावेनाह नायमिति । नृलोके देहभाजां शरीरिणामयं देहः स्रक्चन्दनादिभोगाय न भवति किन्तु तपश्चरणा- येति शेषः । सोऽपि पुरुषार्थेष्वेकत्वेन विहितत्वात्कर्तव्य इति तत्राह क इति । ये कामा विड्भुजां च सूकरादीनामपि सन्ति
- ● को विवेकी तत्कामान् काम्यन्त इति कामाः विषयास्तान्विषयानर्हति न कोऽपीति शेषः । तर्हि अनेन किं विधेयमत्राह तप इति । तपोऽर्हथ कर्तुमिति शेषः, इदमेव प्रयोजनं नान्यत् पूर्वतनैः साधितत्वादितीममर्थं हिशब्देन वक्ति, येन तपसा सत्त्वमन्तःकरणं शुद्धचेत्, ततः किन्तत्राह यस्मादिति । यस्माच्छुद्वान्तःकरणादनन्तमन्तत्रयविधुरं सुखं सुष्ठु निर्दोषं खं ज्ञानात्मक- मिन्द्रियं यस्य तत्तथा तद्ब्रह्म सिध्यतीति शेषः । हि यस्मात्तस्मात्तपश्चरणमेव देहधृतिप्रयोजनमित्यर्थः । हिना मय्यनन्तगुण इति वाक्यं
- • स्मारयतीति वा ॥ १ ॥ * * अन्वयव्यतिरेकमुखेनेममर्थं द्रढयति महत्सेवामिति । योषितां सङ्गिभिः सह सङ्गमित्यनेन कैमुत्यन्यायो दर्शित इति ज्ञातव्यम् । निषिद्धेत्युपपदं योज्यमन्यथा योषिन्मात्रस्यापि हेयत्वं प्रसज्येत तच्चानुपपन्नं “न कानन स्त्रियं परिहरेत्” इति श्रुतेरिति भावः । द्वे नित्यमुक्ती तत्रानन्तसुखलक्षणैका नित्यदुःखलक्षणान्येति बोद्धव्यं, महलक्षणे ज्ञाते तत्सेवायां श्रद्धा- तिशयः स्यादिति तल्लक्षणमाह महान्त इति । ये समचित्तत्वादिगुणवन्तस्ते महान्त इत्यन्वयः “मन ज्ञान” इति धातुर्विशेषेण ज्ञानशीलाः, ‘मन-व्यवहारपणे’ चेति धातोर्विशिष्टव्यवहारशीला इति वा, समे ब्रह्मणि चित्तं येषां ते तथा समं तत्तद्योग्यतानुसृतं चित्तं येषां ते तथेति वा साधवः रागादिदोषविधुराः ॥ २ ॥ * चार्थे वाशब्दः, ये च ईशे मयि कृतं सौहृदमेवार्थः प्रयोजनं यैस्ते तथा देहभराणां देहपोषण एव रतानामुक्तानुक्तदुरुक्तचिन्तालक्षणं वार्तिकं वार्तासमुदायो वा येषां ते तथा तेषु जाया चात्मजाश्च रातिर्मित्रं रा अर्थश्च येषां ते तथा तेषु न प्रीतियुक्तास्ते महान्तः । किञ्च लोके जने यावाञ्छरीरयात्रादिलक्षणोऽर्थो येषां ते
- इदानीं देहम्भरवृत्ति कथयति । नूनमिति । जन इन्द्रियाणां शब्दाद्यनुभवलक्षणप्रीतये यत्कर्म कुरुते नूनं निश्चयेन दीनः क्षीणः प्रमत्तोऽज्ञः तत्कर्मावृणोति स्वीकरोति कुत इत्यत उक्तम् यत इति । असन्नश्वरत्वादमङ्गलोऽपि विण्मूत्रादिपात्र-
- । त्वेन जुगुप्सितोऽयं देहो यतः कर्मण आत्मनः कर्तुः क्लेशदः संसाराख्यक्लेशद आसेति यतस्तस्मात्कर्म साधु श्रेयः साधनमिति न मन्ये । नूनमिदानीं प्रमत्तः कर्तव्यतामूढोऽत एव दीनोऽयं जनः इन्द्रियप्रीतये तत्कर्म कुरुते यत्कर्मात्मानमेवावृणोत्याच्छादयति । कथमा- वृणोतीति तत्राह यत इति । यतो यस्मात्कर्मण उत्पन्नोऽसन्नपि असाधुरेवायं देहः आत्मनः क्लेशद आस तस्मादेतत्कर्मकरणं साधु न मन्य इति वा । नूनं प्रायः कर्म कुरुते अत एव दीनः कथमिन्द्रियप्रीतये आवृणोतीति यत्तदपि कुत इत्यत्राह यत इति । आत्मनः क्लेशद आसेति यतस्तस्मान्न साधु मन्य इति वा ॥ ४ ॥ * * तस्माज्ज्ञानमेव संसारनिवृत्तिसाधनमित्यभिप्रेत्य तन्निवृत्त्य- वधिमाह पराभव इति । यावदात्मतत्त्वं न जिज्ञासते तावत्पराभवः क्लेशः किम्विशिष्टोऽबोधजातः आत्मानात्मतत्त्वाज्ञानोत्पन्नः क्रियाः क्रियाफलं च तावद्येन कर्मात्मकेन मनसा शरीरबन्धः स्यात्तत्कर्मवशं बाह्यान्तःकरणलक्षणं मनश्च तावदित्य- न्वयः ॥ ५ ॥ * शरीरबन्धारिकं करोतीत्याह एवमिति । अत्रात्मपदेन जीवपरावुभावपि गृह्येते एवमात्मानात्मतत्त्वा- ज्ञानिनः अविद्यया जीवपरयोः स्वरूपाच्छादिकया मायया आत्मनि जीवपरयोः स्वरूपेऽवधीयमाने आच्छाद्यमाने सति कर्मवशं मनो जीवं विषयेषु प्रायुक्त इत्यन्वयः । एवं संसरणं कियन्तं कालमन्त्राह प्रीतिरिति । प्रीतिः स्नेहलक्षणा भक्तिः ॥ ६ ॥ * * कालतो वा प्रारब्धकर्मनाशतो वा देहवियोगेनानन्दानुभवलक्षणा मुक्तिः स्यात् किं भक्त्येत्याशङ्क्य बन्धध्वंसि भगवत्प्रसादान्तरङ्ग- भक्ति विना न कदाप्यभिमतमुक्तिः स्यात्प्रत्युतानादिकर्मपरम्परया विषयानुध्यानहेतुभूतया तृणजलूकवत्प्रवर्तमानस्य सन्ताप एव स्यादित्याह यदेति । स्वतो विपश्चिज्ज्ञानात्मा यदा यथा गुणेहां स्वाभिमतविपरीतेन्द्रिय प्रवृत्तिमनुकूलां पश्यति ममेदं हितमित्यङ्गी- करोति तदा सहसा गतस्मृतिर्नष्टशास्त्रानुसन्धानः स्मरणरहितो वा अत एव स्वार्थे प्रमत्तोऽत एवाज्ञः पुरुषो मैथुन्यं स्त्रीपुंसबन्धयोग्य- मगारं गृहमासाद्य तत्र गृहे तापान्विन्दतीत्यन्वयः ॥ ॥ केचिदेवंविधसंसारो मिथ्येति सङ्गिरन्ते तत्राह पुंस इति । पुंसः स्त्रिया सहषः मिथुनीभावः तयोः स्त्रीपुंसयो हृदयग्रन्थि मनोबन्धपाशमा हुरित्यर्थः, अर्थक्रियारूपत्वान्न मिथ्येति शेषः । सकल- तापानामेतदेव मूलमित्यतो वाह पुंस इति । सुखसाधानान्वेषणायासेन तापा एव स्युरित्यर्थः । हृदयग्रन्थिविकारप्रकारमाह यत इति । अत एव दुःखं स्यादित्यर्थः । मिथुनीभावस्य तापहेतुत्वे कुटुम्बी ‘शुचौ देशे’ इत्याद्युक्त्या “न च पुनरावर्तते” इति कुटुम्बिनोऽपुनरा- वृत्तिलक्षणमुक्तिवचनात् कथं स निन्दामर्हतीति चेन्न, प्रायिकत्वात्तस्य " ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्रीसहायिनः । बध्यन्ते केचनैतेषां विशेषं च विदो विदुः ॥” इति वचनात् ॥ ८ ॥
- …..
- श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः
- महदिति युग्मकम् । तत्र ब्रह्म सौख्यस्य निर्विशेषसविशेषता भेदेन द्वैविध्यप्रतिपादकं महतां द्वैविध्यमाह । समचित्ताः अभेद- दर्शिनः । तेषां साधनान्याह प्रशान्ता इत्यादिना । उत्तरेषामपि साधनान्याह जनेष्वित्यादिना । यावानर्थो मत्सौहृदमयभक्तिस्तावान् तदनुरूप एव न त्वधिकन्यूनः अर्थो धनं येषां ते ॥ १-३ ॥ * * विकर्म्मात्र काम्यं कर्म्म । देहोऽपि मनुष्यदेह
- एक. ५.अ. ५ क्लो. १-८ ]
- अनेकव्याख्या समलङ्कृतम्
- एव ।। ४-५ ।। * * उपधीयमाने युज्यमाने यद्यप्येवमात्मतत्त्वबोधान्त एव बोधस्तथापि मत्प्रीति विना सोऽपि न सिद्धय- तीत्याह प्रीतिरिति ॥ ६-
- ॥
- श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- स्वभक्ति स्वानुपादिश्य विधाय भरतं नृपम् । प्रब्रज्य पञ्चमे देवो जडचर्य्यामदीदृशत् ॥ १.
- उपशिक्षयन्नुवाचेत्युक्तं तत्र भक्तियोगे प्रवर्त्तयितुं प्रथमं मनुष्यदेहस्य पुरुषार्थसाधनत्वं विषयभोगानौचित्यचाह नाय- मिति । कष्टान् कष्टप्रदान् कामान् योषिदर्शनस्पर्शनादीन नाहते नैवार्हति इति कुतः ये विड्भुजामपि सन्ति । कामात्वे मनुष्य देह- शूकरदेहयोस्तुल्यत्वापत्तेरिति भावः । तेन शूकरदेहादिभिर्यन्न लभ्यते तदेव मनुष्यदेहेन लब्धुं यतनीयं तदेव मनुष्यत्वचिह्नं किं तत्राह तप इति । तच्चानाहारवर्षातपसहनादिकं वृक्षादीनामपि वत्र्त्तत इति तद्वयावृत्त्यर्थमाह । दिव्यमप्राकृतं भगवत्सम्बन्धीत्यर्थः । हे पुत्रकाः ! अनुकम्पायां कन्, सत्त्वमन्तःकरणम् ॥ १ ॥ * * मनुष्यदेहादेवोद्धारोऽधःपातश्च भवतीति तयोः कारणमपि मनुष्यदेहेऽस्तीत्याह महदिति । विमुक्तेर्विविधमुक्तेः ब्रह्मसौख्यं ह्यनन्तमिति पूर्वोक्तेर्ब्रह्मसौख्यस्य च निर्विशेषसविशेषब्रह्मसम्बन्धि- त्वेन द्वैविध्यान्मुक्तिरपि सायुज्यं भक्तिमत्पार्षदत्वचेति द्विविधा विशब्दाद्वयाख्येया । महान्तोऽपि द्विविधा ब्रह्मोपासका भगवदुपा- सकाश्च तेषां लक्षणं तन्त्रेणैवाह । समचित्ताः अभेददर्शिनः अकुटिलचित्ताच प्रशान्ताः प्रशमादियुक्ताः भगवन्निष्टबुद्धयश्च शमो - मन्निष्ठता बुद्धेरिति भगवदुक्तेः । विमन्यव इत्यादिविशेषणत्रयमुभयत्र तुल्यार्थं साधवः परदोषाग्राहिणः ॥ २ ॥ * * उत्तरेषा- मसाधारणं लक्षणं पुनराह । मयि ईशे कृतं सौहृदं प्रीतिरेव अर्थः पुरुषार्थो येषां मत्प्रीतेरन्यद्वस्तु ये पुरुषार्थं न मन्यन्त इत्यर्थः । वाशब्देनान्यनिरपेक्षस्यास्यैव लक्षणत्वं दर्शयतीति श्रीस्वामिचरणाः । देहम्भराणां भोजनपानाद्यासक्तानां या वार्त्ता आजीविकाः कथा वा ताभिरेव ये दीव्यन्ति तेषु जनेषु जायावियुक्तेषु गृहेषु च विद्यमानेष्वपि न प्रीतियुक्ताः । सतिर्धनं ननु तर्हि किमर्थं तेषु गृहेषु तिष्ठन्तीति तत्राह । यावद्भिरेव धनादिभिरर्थो मत्पादसेवनाद्यात्मिका भक्तिर्भवेत्तावन्त एवोपादया येषां ते तावदादिपदानां वृत्ता- वन्तर्भावः ॥ ३ ॥ * * तमोद्वारात् योषित्सङ्गिसङ्गात् देहिन, एवमधःपातः स्वादिति तं दर्शयति शोचति च नूनमिति । विकर्म्म परदारादिग्रहणपापम् आवृणोति विकर्म्मण्येव व्यापृतो भवति यतो विकर्म्मणः प्राचीनादयं क्लेशदो देहो जातः तस्यैव पुनः करणं न साधु मन्ये । देहः कीदृशः, आत्मनो जीवस्य असन्नपि वस्तुतो न वर्त्तमानोऽपि “असङ्गो हायं पुरुष” इति श्रुतेः ॥ ४ ॥ * * तर्हि पुण्यं कर्त्तव्यमिति चेन्न, तस्यापि संसारहेतुत्वेन क्लेशहेतुत्वात् तस्मात् पुण्यपापयोर्निरासकं ज्ञानमेवाभ्यसनीयमेवेत्याह । परा- भवः कर्मपारतन्त्र्यं तदेव जीवस्य बन्धः स चाज्ञानकृतस्तावदेव भवति यावन्न जिज्ञासत इति “ज्ञानाग्निः सर्व्वकर्माणि भस्मसात् कुरुतेऽर्ज्जुन” इत्युक्तेः । यावज्ज्ञानं नोद्भवेत् तावत् कर्माणि न नश्यन्ति यावत् क्रियाः पुण्यपापकर्माणि स्युस्तावदिदं मनो हि
- । कम्र्मात्मकं कर्मस्वभावमेव स्यात्, येन कम्र्म्मात्मकेन मनसा ॥ ५ ॥ * केन प्रकारेण मनः कर्मात्मकं स्यात्तमाह एवमिति । कर्म प्राचीनमर्वाचीनं वा कर्तृ मनः कर्मभूतं वशं प्रयुङ्क्ते पुनः कर्मनिष्ठं करोति, एवमनेन प्रकारेण मनः कम्र्मात्मकं स्यात्, यद्वस्तु यदधीनं स्यात् तच्च तदात्मकमेव भवेदित्यर्थः । जीवन्मुक्तकर्मव्यावृत्त्यर्थमाह अविद्ययेति । आत्मनि जीवे उपधीयमाने युज्यमाने सति उपधिरुपाधिर्लिङ्गं तदध्यासात्तद्रूपीक्रियमाण इत्यर्थः । किन सर्व्वकर्मनिर्मूलीकरणी भक्तिरेवेत्याह, प्रीति- रिति ॥ ६ ॥
- 8 एवञ्च भक्तिमिश्रस्य ज्ञानस्य परिपाकदशायामेव नैष्कर्म्यं न त्वपरिपाकदशायामित्याह । यदा गुणेषु शब्दा- दिष्वर्थेषु ईहां वाच्छाम् अयथा अनर्थरूपां विपश्चित् ज्ञानवानपि न पश्येत्, यदानुपश्यतीति पाठे गुणानामिन्द्रियाणामीहां चेष्टां अथवा समात्मन एवेयं चेष्टेत्यर्थः, तत्र तदा सहसा गतस्मृतिः सन् तापान् विन्दति मैथुनाई मगारं प्राप्य व्वतितापानित्यर्थः ॥ ७ ॥ * * इन्द्रियचेष्टानामात्मीयत्वाभिमनन सद्भावेऽपि स्वकुटुम्बसङ्गस्ततो यथा मोहस्तथा तद्रहितस्य नेत्याह पुंस इति । मिथो हृदयग्रन्थि ममेयं स्त्रीत्येकोऽयं ग्रन्थिस्तदुपरि ममायं पतिरिति द्वितीयो ग्रन्थिस्तेन पुंसा वैराग्येण त्यक्तुमिष्टापि स्त्री न तं जहातीति बन्धस्य गाढत्वम्, उपलक्षणमेव पितापुत्रयोरपि ज्ञेयम् । कुटुम्बराहित्ये तु बस्नासनपात्रादिष्वात्मीयत्वेनाभिमानसद्भावेऽपि मिथो मन्ध्यभावान तादृशो बन्ध इति भावः । अतो मिथो हृदयग्रन्थितो हेतोः गृहादिभिरहं गृही मम गृहमित्येवं मोहो भवति ।। ८ ।।
- hi bp
- *
- श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
- पत्रादीप्रति मोक्षधर्मान्निरूप्य गृहादिभ्यो विरक्तोऽभूदृषभ इति वर्ण्यते । तत्र तावद्विषयासक्तिर्बन्धहेतुः भगवत्सम्बन्धितपआसक्तिर्मोक्षहेतुरित्याह नायमिति । कष्टान् दुःखोदर्कान् कामान् विषयान् दिव्यं पर देवसम्बन्धि तत्प्रावण्यरूपम् । येन तपसा सत्वं शुद्धयेत् भुवस्मृत्यहं भवेत् यस्मात् ध्रुवस्मृत्यर्थात् सत्त्वात् ब्रह्मसौख्यं ब्रह्मसाम्यं भवेत् ॥ १ ॥ तपोरुच्युत्पादनद्वारा महत्सेवां विमुक्तेर्द्वारम् । विषयरुच्युत्पादनद्वारा योषितां सङ्गिसङ्गं तमसः संसारस्य द्वारम् आहुर्बन्धमोक्षविद इति शेषः । महल्लक्षणमाह महान्त इति सार्द्धन । कृतं सौहृदमेवार्थः प्रयोजनं येषा ते देह बिभ्रतीति देहभराः कलत्रापत्याद- यस्तत्परा वार्ता येषां तेषु जनेषु जाया आत्मजाः रातिर्मित्रं धनं वा तद्वत्सु गृहेषु च न प्रीतियुक्ताः यावदर्थाः यावदर्थमेवार्थी
- ९८
- श्रीमद्भागवतम्
- [ एक. ५ अ. ५ लो. १८ येषामिति “शाकपार्थिवादीनामुत्तरपदलोपश्च” इत्यनेन समासः । देहनिर्वाहो यावता भवेत्तावन्मात्रग्राहिण इत्यर्थः ।। २-३ ।। * महत्सेवां मुक्तद्वारं योषितां सङ्गिसङ्ग संसारद्वारं चाहुरित्युक्तम् । अथात्र पञ्चभिः संसारप्रकारं तदनन्तरं षद्भिर्मुक्तिप्रकारं च प्रपञ्चयति । यद्यदा असत्सङ्गादिना नूनं निश्चितं प्रमत्तः इन्द्रियप्रीतये आपृणोति व्याप्रियते तदा विकर्म पापं कुरुते । यतो विकर्मणः पूर्वकृतात् अयं असत् हरिसेवानह: अत एव क्लेशदो देहो जातः तस्यैव विकर्मणः पुनः करणं न साधु मन्ये ॥ ४ ॥ * * पराभवो जन्ममरणप्रवाहलक्षणं संसारप्राप्तिः अबोधः आत्मानात्मपरमात्माविवेकस्तस्माज्जातः आत्मनः यद्विज्ञानेन सर्वं विज्ञातं स्यात्तस्य भगवतस्तत्त्वं यावन्न जिज्ञासते, तत्र हेतुः यावत्क्रियाः विकर्मव्यापाराः तावत्कर्मात्मकं कर्मस्वभावमेव मनः स्यात्, येन कर्मात्मकेन मनसा शरीरैः पुनः पुनर्जायमानैर्बन्धो यद्वा शरीरादिबन्धाः बन्धनानि यस्मिन् सः संसारः जन्ममरणप्रवाहलक्षणः संसार एव स्यात् ॥ ५ ॥ * * एवमविद्यया आत्मानात्म परमात्माविवेकेन आत्मनि जीवे उपधीयमाने आच्छाद्यमाने सति मनः उपधीयमानमात्मानं कर्मवशं प्रयुक्ते पुनःपुनरात्मानं कर्मनिष्ठं करोति । एवंविधस्य वासुदेवे यावत्प्रीतिर्न तावन्न देहयोगेन मुच्यते संसारन्मुक्तो न भवति ॥ ६ ॥ * अविपश्चिदविवेकी स्वार्थे मोक्षमार्गे अप्रमत्तः गुणेही मायागुणकारितामीहा- मयथामनिष्ठां संसारप्रापिकाम् ॥ ७ ॥ * पुंसः स्त्रिया सह मिथुनीभावं तयोः स्त्रीपुंसयोः हृदयग्रन्थि हृदयग्रन्थिमूलमाहुः । अतो हृदयग्रन्थितः अहं भोगीत्यादिमोहो गृहादिभिश्च बाह्यैर्गृहादयो ममेत्यादिमोहश्च भवति ॥ ८ ॥
- ।
- 8
- गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी
- पचमे पञ्चमेऽध्यायें सम्प्रदायप्रवृत्तये । ज्ञानं त्वत्र विनिर्दिष्टमृषभेणेति वर्ण्यते ॥ १ ॥
- ল
- गु
- "
उपदेशवचनान्येव दर्शयति–नायमिति सार्द्धंः सप्तविंशतिभिः । अप्रतारणां सूचयन् स्नेहेन सम्बोधयति — हे पुत्रकाः । नृलोंके देहभाजां प्राणिनां मध्ये अयं मनुष्यदेहः कष्टान् कष्टहेतुत्वेन निन्दितान् कामान् विषयभोगान्नार्हते तद्योग्यो न भवती- त्यन्वयः । निन्दितत्वमेव दर्शयति- विड्भुजां श्वशूकरादीनामपि ये कामाः सन्तीति विषयासक्तौ शूकरादितुल्यत्वं स्यादिति भावः । तर्हि किमर्हति तत्राह - - तप इति । दिव्यमुत्कृष्टं तपोऽर्हति, येन तपसा सत्त्वमन्तःकरण शुद्धयेत् । यस्माच्च शुद्धात्सत्त्वात् अनन्त- मविनाशि ब्रह्मसौख्यं ब्रह्मानन्दो भवति । हीति निश्चितमेवैतत् नात्र सन्देह इत्यर्थः । अत्र दिव्यमित्यादिना नाहारसङ्कोचवर्षा- वातातपसहनादिरूपं केवलं वृक्षादिसाधारणं, किन्तु योन्यन्तरेष्वलभ्यं भगवद्धयानपूजादिपुरस्कृतं मनुष्यासाधारणमेवेति सूचितम् ॥ १ ॥ इदं रहस्यं तु महदनुग्रहणमन्तरेण न ज्ञायते इति सूचयन् मोक्षबन्धयोर्निदानमाह - महत्सेवामिति । शिष्टाः महतां सेवां संसारविमुक्तेर्द्वारमाहुः । तथा योषितां ये सङ्गिनस्तेषां सङ्ग तमसोऽविद्याकार्यस्य तिर्यङ्नरकादियोनिप्रवेश- लक्षणस्य संसारस्य द्वारमा हुरित्यनुषङ्गः । के ते महान्तो येषां सङ्गो मोक्षहेतुरित्यपेक्षायां तेषां लक्षणमाह- महान्त इति सार्द्धेन । ये साधवः पुरुषार्थसाधनदक्षाः सदाचारनिष्ठा अत एव शुद्धान्तःकरणत्वेन प्रशान्ताः कामलोभादिदोषरहितान्तः करणाः, अत एव विमन्यवः कामस्य क्रोधहेतुत्वात्तद्राहित्येन क्रोधरहिता इत्यर्थः, अत एव समाः सर्वप्राणिषु समचित्ताः मित्रारिभावरहिताः सुहृदः सर्वेषां हितचिन्तकास्ते महान्त इत्यन्वयः ॥ २ ॥ * * मुख्यं लक्षणान्तरमाह-ये वेति । ये मयि ईशे कृतं सौहृदं प्रेमैव अर्थः पुरुषार्थो येषां ते तथाभूतास्ते महान्त इत्यन्वयः । वाशब्देन अस्यान्यनिरपेक्षस्यैव महलक्षणत्वं दर्शयति । ननु गृहादिष्वा सक्तस्य कथमेवं भगवति प्रेम सम्भवतीत्याशङ्कयाह-जनेष्विति । देहं बिभर्तीति देहम्भरा धनार्जनादिविषयैव न भगवन्मा- हात्म्यविषया वार्त्ता येषु तेषु तथा जाया स्त्री आत्मजाः पुत्राः रातिर्धनं तद्वत्सु गृहेषु च न प्रीतियुक्ताः । नन्वेवं सर्वथा विरक्तत्वे देहस्य भगवदर्चनादेव निर्वाहः कथं स्यादित्याशङ्कयाह-यावदिति । यावदर्थं प्रयोजनमेवार्थो येषामिति मध्यमपदलोपी समासः । लोके भगवदर्चनादिदेहनिर्वाहाधिकस्पृहारहिता इत्यर्थः ॥ ३ ॥ तत्र स्त्रीसङ्गिसङ्गेन विषयभोगप्रसक्त्या बन्ध उक्तस्तदेवोपपादयति- नूनमिति पञ्चभिः । यत् यदा दुस्सङ्गावस्थायामिन्द्रियप्रीतये आपणोति व्याप्रियते तदा नूनं निश्चित प्रमत्तः कर्त्तव्याकर्त्तव्यानुसन्धानरहितः सन् विकर्म पापमेव कुरुते तत्तु अहं साधु न मन्ये, यतः यस्मात् पापाचरणादेव आत्मनः क्लेशदः अत एवासन दुष्टोऽयं देह आसेत्यन्वयः ॥ ४ ॥ * * तव देहादिना आत्मनस्तिरस्कारः किम्पर्यन्त इत्यपेक्षायां तदवधिं दर्शयति — पराभव इति द्वाभ्याम् । यावदयमात्मतत्त्वं स्वयथार्थरूपं सच्चिदानन्दात्मकत्वं न जिज्ञासते न विचारयति
- । । विचारेण न प्रत्यक्षं करोति तावदबोधजातः अविद्यया जातः । देहेन्द्रियादावात्माध्यासेनात्मनः पराभवस्तिरस्कारो भवतीति सम्बन्धः । ननु देहादेर्नश्वरत्वात् तत्त्यागानन्तरं तस्याभावात् कथं तदध्यासः सम्भवति येन पराभवः स्यादित्याशङ्कयाह- यावदिति । यावदज्ञानं तावन्न क्रियाव्यवच्छेदः, यावत्क्रियास्तावदिदं मनः कर्मात्मकं प्रवृत्तिस्वभावमेव भवति । येन प्रवृत्ति- *स्वभावेन मनसा पुरुषस्य शरीरबन्धः शरीरप्राप्या संसारबन्धो भवति । तथा च प्रारब्धसमाप्तौ स्थूलदेहपातेऽपि सूक्ष्मदेहस्य नाशाभावात् पुनः स्थूलस्य देहस्य च अवश्यम्भावात् यावदात्मसाक्षात्कारेण नाविद्यानिवृत्तिः तावद्देहाद्यभ्यासेन आत्मनः पराभव इत्यर्थः ॥ ५ ॥ एवमात्मसाक्षात्कारे विचारो हेतुरुक्तः । पुनश्वोक्त्तानुवादपूर्वकं तत्रैव मुख्यं भक्तिलक्षणं हेत्वन्तरमाह- एवमिति । एवमुक्तप्रकारेण अविद्ययाऽऽत्मनि उपधीयमाने देहेन्द्रियाद्यध्यासेन आच्छाद्यमाने सति प्रवृत्तिस्वभावं मनः पुरुषं कर्मवशं ॥ =स्कं. ५अ. ५श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् … प्रयुङ्क्ते अवश्यं कर्म कारयति । अतो यावत्यपि वासुदेवे पुरुषस्य प्रीतिर्न जायते तावन्न मदिच्छां विना विचारे प्रवृत्तिः, प्रवृत्तावपि न तत्त्वज्ञगुरुलाभः, विचारतोऽपि नात्मतत्त्वसाक्षात्कारः, नञ्च तं विनाऽविद्यानिवृत्तिः, न च तां विना कर्माभावः, न च तं विना देह- योगेन विमुच्यते, तथाच भगवद्भक्तिं विना न कथचिदपि संसाराद्विमुक्तिः, साधनान्तरस्य भक्तिसापेक्षत्वाद्भक्तेस्तन्निरपेक्षत्वाद्भक्तिरेव सर्वसाधनेभ्यः श्रेयसीति सिद्धम् ॥ ६ ॥ * * स्त्रीसम्बन्धस्यैव बन्धे प्राबल्यं दर्शयति-यदेति द्वाभ्याम् । यदा स्त्रीसजि- सङ्गान्तैः प्रोत्साहितः सन् गुणानां रजस्तमआदीनामीहां तत्तदिन्द्रियाणां तत्तद्विषयोन्मुखतया प्रेरणलक्षणां चेष्टामयथा तापहेतुरिति पुरुषो न पश्यति तदा सहसा झटिति गतस्मृतिः स्वरूपस्मृतिशून्यः सन् मैथुन्यमगारं मैथुनसुखप्रधानं गृहमासाद्य प्राप्य तत्र गृहे तापान् विविधानि दुःखानि विन्दतीत्यन्वयः । न च तत्र तापोपशमोपायं लभते इत्याह-स्वार्थेति, स्वस्यार्थे परमपुरुषार्थे भगवद्भजने प्रमत्तः अदत्तचित्त इत्यर्थः । न चान्योपदेशं शृणोति यतः विपश्चिदिति, स्वस्य विवेकित्वाभिमानवानित्यर्थः । ननु चेतन एवं कथं विमोहितो भवतीत्याशङ्कय सर्वदोषमूलादज्ञानादेवेत्याह- अज्ञ इति । अज्ञानाभिभूतस्वरूप इत्यर्थः ॥ ७ ॥ * * ननु दुःखप्राप्तिः पापाचरणादेव तत्र शास्त्रमर्यादानुसारेण लिया सह भोगान् भुञ्जानस्यापि पापाभावात् कथं तापानुभव इत्याश- क्याह-पुंस इति । पुंसः स्त्रियाश्च यो मिथुनीभावः परस्परमात्मत्वाभिनिवेशस्तमेनं तयोर्द्वयोमिथः परस्परं हृदययोर्मन्थिमाहुर्विवेकिन इति शेषः । कथं तयोर्मिथुनीभावस्य हृदयग्रन्थित्वं तत्राह - अत इति । अतः अस्मान्मिथुनीभावाज्जनस्य गृहादिभिर्निमित्तभूतै- रहम्ममेत्ययं मोहो भवति । यद्यपि प्रत्येकमपि तयोर्हृदयग्रन्थिरस्त्येव तेनापि परस्पर सम्बन्धर हितयोरपि अहम्ममेति मोहो दृश्यते एव, अत एव पराभवस्तावदबोधजात इत्युक्तम् । तथापि परस्परात्मत्वाभिमानेन परस्परसम्बन्धिष्वपि स्वकीयत्वाभिमानाधिक्यात् परस्परं हृदययोरयमतिरिक्तो महामोहकरो प्रन्थिरिति दर्शितम् । न चैवं तर्हि स्त्रीसङ्गस्यैव बन्धहेतुत्वमागतं कथं तत्सङ्गिसङ्गस्य बन्धहेतुत्वमुक्तमिति शङ्कनीयम्, स्त्रीसङ्गस्य प्रोत्साहोद्योगप्रेरणादिभिः स्त्रीसङ्गिसङ्गमूलकत्वस्य लोके प्रसिद्धतरत्वात्तथोक्तमिति ज्ञेयम् । तथा चैवं दृढं निबद्धस्य परवशस्य स्त्रीपुत्रादीननुसरतो न शास्त्रानुसारिताऽस्ति, येन पापोत्पत्त्यभावेन तापानुभवो न स्यादिति भावः ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी मोक्षधर्मोपदेशस्तु पचमे पुत्रशासनम् । तितिक्षयास्य द्वन्द्वस्य प्रोक्तं पारमहंस्यकम् ॥ १ ॥ मुक्युपायत्वेन भगवदुपासनमुपदेश्यमाणो वैराग्यं विनोपदिष्टोऽपि भक्तियोगो न सम्यक् प्रतितिष्ठति, ततो वैराग्यो- त्पत्तये कामान्निन्दति नायमिति । हे पुत्रकाः देहभाजां देहभृतां मध्ये, नृलोके देहधारिणां मध्ये यो मनुष्य देहस्तस्मिन् सतीत्यर्थः । अयं देहः एष मनुष्य देहस्तु इत्यर्थः । कष्टान् कृच्छ्रसंपाद्यान् तत्राप्यन्ततो महादुःखरूपान् कामान् विषयान् न अर्हते । वयं सर्वेषां बन्धनकारिणः स्मः अस्मान्मा सेवतेत्येवं स्वाभिधानेनैव सर्वान् बोधयतो विषयाननुभवितुं योग्यो न भवतीत्यर्थः । ननु कामोऽपि पुरुषार्थेष्वेकतमः पुरुषार्थो भवति, ततः सेव्य एव किमिति कामोपभोगार्थो नायं देह इत्युच्यते तत्राह । ये कामास्ते तु, विड्भुजां वशूकारादीनामपि सन्ति । श्वशूकराद्युपभोगा कामे पुरुषार्थत्वोक्तिस्तु धत्तरस्य कनकनामोक्तिवद्बोध्या । नन्वेवं चेदनेन देहेन किं कर्त्तव्यं तत्राह । दिव्यं देवस्य विष्णोराराधनरूपं तपः, भगवदाराधनार्थकतपश्चरणार्होऽयं देहोऽस्तीति भावः । किं तत्तपः यच- रितुमयमर्हति तत्राह । यस्मात्तपसः सत्त्वं शुद्ध्येत्, यत्संशीलनतो निरस्तसंसारः स्यात्तथाविधं ‘कामत्यागस्तपः स्मृतमि’ ति भगवदुक्तलक्षणं तप एव चरणाई तत एव सत्त्वशुद्धिरिति भावः । येन तपसा तु च, अनन्तमपारं ब्रह्मसौख्यं ब्रह्मात्मना भगवत्सेवा- संप्राप्तिलक्षणं सुखमित्यर्थः भवेत् । एवमनेन कामोपभोगः संसृतिहेतुः, भगवदुपासनं परमसुखरूपमोक्षहेतुरित्यु- क्तम् ॥ १ ॥। ४ * * इत्थं कामभोगभगवदुपासनयोर्बन्धमोक्षहेतुत्वमभिधाय तयोर्निदानमाह महदिति । महतां सेवा महत्सेवा तां विमुक्तेः द्वारं मूलकारणं, आहुः । योषितां स्त्रीणां सङ्गिनस्तेषां सङ्गस्तं, तमसः संसारस्य, द्वारं आहुः । ननु योषि- सङ्गिनो जनाः सर्वे गृहिणस्तत्सङ्गस्तु सर्वथा सर्वेषां वर्त्तते एव, स कथं तमोद्वारमित्युच्यते इति चेदत्रोच्यते । ‘आत्यन्तिकं ब्रह्म- चर्यमाश्रमत्रयवासिनाम्। स्वदारनियमात्सम्यग्ब्रह्मचारी गृहाश्रमी’ इति स्मृतौ गृहिणां द्विजाग्न्यादिसंनिधिपरिणीताङ्गनानियमो विहितः । तदितराङ्गनासङ्गे प्रायश्चित्ती च जायतेऽतः सर्वेषामेकपत्नीव्रतता युक्ता, ततश्च्युतप्रसङ्गहेयतां योषितामिति पदगतं बहुवचनं व्यनक्ति । ननु परिणीतद्वित्र्यादिपत्नीकप्रसङ्गो हेय उपादेयो वेति चेत्तथाविधस्य प्रायश्चित्तानुक्तेन सोऽत्रोपादेय इत्य- प्रासङ्गिकोपादानेनालम् । के ते महान्तः यत्सेवा मुक्तद्वार तत्राह सार्द्धेन । ये समचित्ताः सुखदुःखादिष्वविक्रियमाणचित्ताः, प्रशान्ताः विजितबाह्याऽऽन्तरकरणत्वात्कामभोगेच्छोदयरूपान्तःक्षोभरहिततया प्रकृष्टशान्तिमन्तः, विमन्यवः यत्र कामोदयस्तत्र तत्प्रतिरोधके मन्युरिति सति कामोदयाभावात्तत्प्रतिरोधकविधेयमन्युवर्जिताः, सुहृदः सर्वभूतहितैषिणः, साधवः परोपकार- निरताः ॥ २ ॥ * * ये बेति । ईथे परमेश्वरे मथि, कृतं सौहृदमेवार्थः पुरुषार्थो येषां ते, देहूं बिभर्तीति देहभरा देह- पोषणपरा विषयवार्त्ता एव, न धर्मविषया येषु तेषु जनेषु, जाया कलत्रं च आत्मजाः पुत्राश्च रातिर्मित्रं धनं वा एतानि सन्ति येषु, गृहेषु च प्रीतियुक्ताः न भवन्ति । वा किं च, ये लोके यावदर्थमेवार्थो येषामिति मध्यमपदलोपी समासः । देहनिर्वाहाधि- कार्थस्पृहाशून्या इत्यर्थः । ते महान्त इति संबन्धः ॥ ३ ॥ * * एवं महल्लक्षणमभिधायेदानीं कामान् नाईते इति यदुक्तं श्रीमद्भागवतम् १०० [स्क. ५ अ. ५ श्लो. १८ तदुपपादयति नूनमिति । अयं जनः, यद्यदा, इन्द्रियप्रीतये तत्तद्वान्छितविषयप्रदानपूर्व तानि तानि प्रीणयितुमित्यर्थः । आपृणोति इत्यर्थः, तदा प्रमत्तोऽनवहितः सन् विकर्म पापमेव, कुरुते नूनम् । यतः प्राचीनात् विकर्मणः, असन्नस्थिरः सन्नपि, अयं देहः, आत्मनो जीवस्य, क्लेशदः पुरुदुःखप्रदः, आस जातः । तेन पुनर्विकर्मण एव करणमिति शेषः । साधु समीचीनं, न मन्ये । पुनर्देहः पुनर्विकर्मेति अनवस्थाप्रसङ्गात् ॥ ४ ॥ ॐ ॐ ननु पाञ्चभौतिकस्यास्य देहस्य नश्वरत्वेना स्थिरत्वात्कि- यमनर्थ इत्याशङ्क्याह पराभव इति । यावत् यावत्कालपर्यन्तमित्यर्थः । जनः आत्मतत्त्वं प्रकृतिविलक्षणस्यात्मनो याथात्म्यं, न जिज्ञासते ज्ञातुं नेच्छति न जानातीत्यर्थः । तावत्तावत्कालपर्यन्तं, अबोधजातः आत्मयाथात्म्याज्ञानहेतुकः, पराभवः आत्म- स्वरूपगतधर्मभूतज्ञानतिरोभावः, यावच पराभवस्तावदिन्द्रियप्रीतये क्रियाः, प्रवर्त्तन्ते इति शेषः । यावत् क्रियाः तावत् इदं मनः कर्मात्मकं कर्मप्रवणं वै, न तु ज्ञानप्रवणमित्यर्थः । येन कर्मात्मकेन मनसा, शरीरबन्धः, भूयोऽपीति शेषः । शरीराणां नश्वरत्वेऽपि पुनः पुनः तत्संबन्धोऽविच्छिन्नस्तथात्वे च तन्निमित्तानर्थपरंपराप्यविच्छिन्नेति भावः ॥ ५॥ उपसंहरन्न तदेवाह * एवमिति । एवममुना प्रकारेण, आत्मनि ज्ञानस्वरूपे ज्ञानधर्मिणि च जीवात्मनि, अविद्यया देवमनुष्याद्योपाधिकदेहविशिष्टत्व- तस्तत्राहंकारममकारविधापिकया माययेत्यर्थः । उपधीयमाने आच्छाद्यमाने, कर्मवासनामूलया प्रकृत्या संसृज्यमाने सतीत्यर्थः । कर्म पूर्वकृतं कर्म कर्तृ, मनः कर्म, पुरुषस्येति शेषः । वशं प्रयुङ्क्ते करोति । पुनः कर्मनिष्ठं करोतीत्यर्थः । अतः, वासुदेवे सर्वान्त- रात्मनि मयि यावत् प्रीतिः, सम्यक्प्रीतिरूपा भक्तिः न स्यात्, तावत् देहयोगेन न मुच्यते । दुःखददेहसंबन्धाद्विमुक्तो न भवतीत्यर्थः ॥ ६ ॥ न केवलं देहयोगमात्रममथन्तिरप्राप्तिश्चापीत्याह यदेति । स्वस्यार्थः स्वार्थस्तस्मिन्, स्वस्य पुरुषार्थभूते स्वकीयात्मयाथात्म्यानुसंधाने, प्रमत्तोऽनवहितः सन् गुणेहा शब्दादिगुणविषयामिन्द्रियाणां प्रवृत्ति, अयथा मिथ्या आत्मनः स्वाभाविकी न भवति, किं तु देहसंबन्धप्रयुक्तेतीत्यर्थः । विपश्चिद्विवेकवान्सन, यदा न पश्यति, यदोक्तविधविवेकरहितो जायते इत्यर्थः । तदा, असौ पुमान्, सहसाऽकस्मादेव, गतस्मृतिः स्वात्मपरमात्मस्मृतिरहितः, अत एव अज्ञः मैथुन्यं मैथुनसुख प्रधानं, अगारं गृहं आसाद्य प्राप्य, तत्र गृहे, तापान् विन्दति प्राप्नोति । एतदुक्तं भवति अनादिकर्मवा सनयाऽहंकार मेमकाररूपाऽविद्या- विद्यया च देहसम्बन्धः, देहसंबन्धेन पुनः पुनः कर्म, कर्मणस्तापः, तापानुभवेन कर्मणो विनाशोऽपि तद्वासनाया अनिवृत्तौ पुनर- विद्याऽविद्यया च देहसंबन्धद्वारा तापानुभव इत्येवं चक्रवत्परिवृत्तिरिति ॥ ७ ॥ ॥ ७ ॥ * * ननु
सुखमात्रमनुभवतः कुतस्तापाः स्युरिति चेदुक्तस्वरूपस्य संसारस्य निदानं वासनैव तन्निवृत्तिरे योगं स्त्रिया मिथुनीभूय मुक्तेर्निदानमिति गूढं हृदि निधायाह पुंस इति । तयोः स्त्रीपुंसयोः, अयं देहेऽहंभावरूपः, सूक्ष्मः प्रत्येकमेकैको हृदयग्रन्थिः, अस्त्येवेति शेषः । अन्यं, पुंसः लिया सह यः अयं मिथुनीभावः, तमेतं मिथुनीभावं, मिथः परस्परनिष्ठं, स्थूल, हृदयग्रन्थि, आहुः । हृन्मनस्तदयते वासनात्मना दुर्भेद्यतया प्राप्नोतीति हृदयः स वासी ग्रन्थिरिति हृदयग्रन्थिशब्दार्थः । मिथुनीभावमेवान्य हृदयग्रन्थि कारणमाहुरित्यर्थः । कुत इत्यत आह । यतः यस्मात् स्थूलहृदयग्रन्ध्यात्मकमिथुनीभावाद्धेतोः, गृह च क्षेत्र च सुताश्च आप्ताश्च वित्तं च तैः जनस्य, मम इत्येवंविधाविद्यारूपः मोहः भवेत् । प्रत्येक हृदयग्रन्थिना तु देहेन्द्रियमात्रेऽहमिति मोहः अस्मान्तु गृहादिभिर्विषयभूतैर्महान्मोहो भवेदित्यर्थः ।। ८ ।। भाषानुवादः TOP MA TET TRE ऋषभजीका अपने पुत्रोंको उपदेश देना और स्वयं अवधूतवृत्ति ग्रहण करना * श्रीऋषभदेवजीने कहा- पुत्रों इस मर्त्यलोकमें यह मनुष्य शरीर दुःखमय विषयभोग प्राप्त करनेके लिये ही नहीं है। ये भोग तो विष्ठाभोजी सूकर- कूकरादिको भी मिलते ही हैं। इस शरीरसे दिव्य तप ही करना चाहिये, जिससे अन्तःकरण शुद्ध हा ; क्योंकि इसीसे अनन्त ब्रह्मानन्दको प्राप्ति होती है । शास्त्रोंने महापुरुषोंकी सेवाको मुक्तिका और स्त्रीसंगी कामियोंके सङ्गको नरकका द्वार बताया है। महापुरुष है। महापुरुष वे ही हैं जो समानचित्त, परमशान्त, क्रोधहीन, सबके हितचिन्तक और सदाचारसम्पन्न हों ॥ २ ॥ * *
- अथवा मुझ परमात्माके प्रेमको ही जो एकमात्र पुरुषार्थ मानते हों, केवल विषयोंकी ही चर्चा करनेवाले लोगों में तथा स्त्री, पुत्र और धन आदि सामग्रियोंसे सम्पन्न घरोंमें जिनकी अरुचि हो और Mantar जो लौकिक कार्यों में केवल शरीरनिर्वाहके लिये ही प्रवृत्त होते हों ॥ ३॥ मनुष्य अवश्य प्रमादवश कुकर्म करने लगता है, उसकी वह प्रवृत्ति इन्द्रियोंको तृप्त करनेके लिये ही होती है। मैं इसे अच्छा नहीं समझता, क्योंकि इसीके कारण Suryansजबतक जीवको आत्मतत्वकी जिज्ञासा नहीं आत्माको यह असत् और दुःखदायक शरीर प्राप्त होता है ॥ ४ ॥ * * होती, तभीतक अज्ञानवश देहादिके द्वारा उसका स्वरूप छिपा रहता है। जबतक यह लौकिक-वैदिक कर्म में फँसा रहता है, तबतक मनमें कर्मकी वासनाएँ भी बनी ही रहती हैं और इन्हींसे देह बन्धकी प्राप्ति होती है ।। ५ ॥ ॥ * * इस प्रकार अविद्याके द्वारा आत्मस्वरूपके ढक जानेसे कर्मवासनाओंके वशीभूत हुआ चित्त मनुष्यको फिर कमोंमें ही अतः जबतक उसको मुझ वासुदेवमें प्रीति नहीं होती, तबतक वह देहबन्धसे छूट नहीं सकता ॥ ६ ॥ * जीव जबतक विवेकदृष्टिका आश्रय लेकर इन्द्रियोंकी चेष्टाओंको मिथ्या नहीं देखता, तबतक आत्मस्वरूपकी स्मृति खो बैठनेके || सं प्रवृत्त करता है । स्वार्थमें पायल एक. ५ म. ५ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् | १०१ कारण वह अज्ञानवश विषयप्रधान गृह आदिमें आसक्त रहता है और तरह-तरहके क्लेश उठाता रहता है ॥ ७ ॥ स्त्री और पुरुष - इन दोनोंका जो परस्पर दाम्पत्यभाव है, इसीको पण्डितजन उनके हृदयकी दूसरी स्थूल एवं दुर्भेद्य प्रन्थि कहते हैं । देहाभिमानरूपी एक-एक सूक्ष्म ग्रन्थि तो उनमें अलग-अलग पहलेसे ही है । इसीके कारण जीवको देहेन्द्रियादिके अतिरिक्त घर, खेत, पुत्र, स्वजन और धन आदिमें भी ‘मैं’ और ‘मेरे’ पनका मोह हो जाता है ॥ ८ ॥ यदा ‘मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ त । तदा जनः सम्परिवर्ततेऽस्माद् मुक्तः परं यात्यविहाय हेतुम् ।। ९ ।। हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च । सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिष्टच्या ॥ १० ॥ मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद् गुणकीर्तनान्मे निर्वैरसाम्योपशमेन पुत्रा जिहा सया देहगेहात्मबुद्धेः ॥ ११ ॥ अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रि यात्माभिजयेन सध्यक् । सच्छ्रद्धया ब्रह्मचयण शश्वद् असम्प्रमादेन यमेन बाचाम् ॥ १२ ॥ सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञान विराजितेन । योगेन धृत्युद्यमन्युक्तो लिङ्ग व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥ कर्माशयं । “हृदयग्रन्थि बन्धमविद्ययाऽऽसादितमप्रमत्तः । अनेन योगेन यथोपदेशं सम्यग्व्यपोद्योपरमेत योगात् ॥ १४ ॥ पुत्रांथ शिष्यांथ नृपो गुरुर्खा मल्लोककामो मदनुग्रहार्थः इत्थं विमन्युरनुशिष्यादतज्ज्ञान् न योजयेत्कर्मसु कर्ममू ढान् । 1 योजयन्मनुजोऽर्थ लभेत निपातयन्नष्टदृशं हि गर्ते ।। १५ ।। लोकः स्वयं श्रेयसि नष्ट दृष्टियोंऽर्थान् समीहेत निकामकामः । अन्योन्यत्रैरः सुखलेश’ हेतोरनन्तदुःखं च न वेद मूढः ॥ १६ ॥ अन्योन्यबैरः सुखलेश’ हेतोरनन्तदुःखं feren FOR अन्वयः - यदा कर्मानुबद्धः दृढः मनोहृदयग्रन्थिः आस्थेत तदा जनः अस्मात् संपरिवर्तते मुक्तः हेतुम् अतिहाय परं याति ॥ ९ ॥ * * हंसे गुरौ मयि भक्त्या अनुवृत्त्या वितृष्णया द्वंद्वतितिक्षया च सर्वत्र जंतोः व्यसनावगत्या जिज्ञा- सया तपसा हालिया ॥ १० ॥ * * पुत्राः च नित्यम् मत्कर्मभिः मत्कथया मद्देवसंगात मे गुणकीर्तनात निर ईहानिवृत्त्या साम्योपशमेन देहगेहात्मबुद्धेः जिहासया ॥ ११ ॥ * * अध्यात्मयोगेन विविक्तसेवया सम्यक् प्राणेंद्रियात्माभिजयेन सच्छ्रद्धया ब्रह्मचर्येण शश्वत् असंप्रमादेन वाचां यमेन ॥ १२ ॥ * सर्वत्र मद्भावविचक्षणेन विज्ञानविराजितेन ज्ञानेन योगेन धृत्युद्यमसत्त्वयुक्तः कुशलः अहमाख्यं लिंगम् व्यपोहेत् ॥ १३ ॥ * * अप्रमत्तः यथोपदेशम् अनेन योगेन अवि- द्यया आसादितम् कर्माशयम् हृदयग्रन्थिबन्धम् सम्यक् व्यपोह्य योगात् उपरमेत ॥ १४ ॥ मल्लोककामः च मदन- प्रहार्थः नृपः वा गुरुः पुत्रान् च शिष्यान् इत्थम् विमन्युः अनुशिष्यात् अतज्ञान् कर्मसूढान् कर्मसु न योजयेत् हि नष्टदृशम् गर्ते निपातयन् योजयन् मनुजः कम् अर्थम् लभेत ।। १५ ॥ * * यः निकामकामः लोकः अन्योन्यवैरः अर्थात् समीहेत स्वयम् श्रेयसि नष्टदृष्टिः गूढः सुखलेशहेतोः अनन्तदुःखम् न वेद || १६ | सिमी respons ।। न श्रीधरस्वामिविरचिता भावार्थदीपिका
-
कदा तर्हि तस्य निवृत्तिरत आह । यदाऽस्य जनस्य कर्मभिरनुबद्धो दृढो मनोरूपों हृदयग्रन्थिः शिथिलो भवेत्तदाऽ- स्मान्मिथुनीभावान्निवर्तते । ततश्च हेतुमहंंकारं त्यक्त्वा मुक्तः सन्परं पदं याति ॥ ९ ॥ * * हेतुमतिहायेत्युक्तं तत्र पंच-
१. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा०पा० - ५. प्रा० पा० - ६. ७. प्रा० पा० - ८. ९. प्रा० पा० - १०. ११. १२. १३. प १०२ श्रीमद्भागवतम् [ स्कं. ५ अ. ५ श्लो. ९-१६ विंशतिसाधनान्याह चतुर्भिः । हंसे मयि गुरौ भक्तिः सेवा । अनुवृत्तिस्तत्परता । विगततृष्णया । सर्वत्र लोकान्तरेऽपि व्यसनाव- - गत्या दुःखानुसन्धानेन । ईहानिवृत्त्या काम्यकर्मत्यागेन ।। १० ।। मदर्थैः कर्मभिः । अहमेव देवो येषां तैः संगात् । हे पुत्राः देहगेहयोरात्मबुद्धेरहं ममेति बुद्धेः ॥ ११ ॥ * * अध्यात्मयोगेनाध्यात्मशास्त्राभ्यासेन सायक् सम्यगिति सर्वत्र सम्बन्धः । असम्प्रमादेन कर्तव्यस्यापरित्यागेन ॥ १२ ॥ सर्वत्र मद्भावो मद्भावना तत्र विचक्षणेन निपुणेन विज्ञान- विराजितेनानुभवपर्यन्तेन ज्ञानेन योगेन समाधिना धृत्युद्यमसत्त्वयुक्तो धैर्यप्रयत्नविवेकैर्युक्तः सन्नहंकाराख्यमुपाधिं व्यपोहेन्निर- स्येत् ॥ १३ ॥ * * कर्माण्याशेरते यस्मिन् । योगेनोपायेन । यद्यपि फले सिद्धे साधनोपरमः सिद्ध एव । तथापि यावद्देहपातं तदभ्यासशंकावारणायोक्तम् ॥ १४ ॥ * * किं च । पुत्रान्पिता शिष्यान्वा गुरुर्नृपश्च प्रजा एवमनुशिक्षयेत् मम लोकं यः कामयते । यद्वा मदनुग्रह एवार्थो यस्य । विमन्युः शिक्षितस्याकरणेऽपि कोपशून्यः । अतज्ज्ञांस्तत्त्वमविदुषः । श्रेयोबुद्धधा कर्मसु मूढान् । अन्यथोपदेशे प्रत्यवायमाह । मनुजः काम्यकर्मसु पुरुषं योजयन् गर्ते संसारकूपे तं पातयति स मनुजः कमर्थं पुरुषार्थं लभेत । न कमपीत्यर्थः ॥ १५ ॥ * * न योजयेदित्येतदुपपादयति लोक इति त्रिभिः । नष्टदृष्टित्वे हेतुः । य इति । निकाममतिशयेन कामो यस्य ॥ १६ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः भक्तिमिश्रज्ञानेन लिंगभंगमुक्त्वा ज्ञानमिश्रया च भक्त्या पंचविंशत्यङ्गया लिंगमाह चतुर्भिः । तत्रापि शुद्धभक्तानां केवलयैव भक्त्या पंचदशांगया लिंगभंगमाह प्रथमद्वाभ्याम् । हंसे परमहंसस्वरूपे । जिज्ञासया भक्तेर्भजनीयेश्वरस्य वेति शेषः । तपसा एकादशीकार्त्तिकादिव्रतलक्षणेन विष्णुवैष्णव सेवानिबन्धनस्वीय भोजनशयनादिसंकोचलक्षणेन वा “आत्मनो विहितं कर्म वर्जयित्वान्यकर्मणः । काम्यस्य वा परित्यागो निरीहेत्याहुरुत्तमाः ॥” इति तीर्थोक्तिमालक्ष्योक्तं काम्यकर्मपरित्यागेनेति ॥ १० ॥ * * अहं देव उपास्यो येषां तैः संगात्। निर्वैरमद्वेष्टृत्वम् । साम्यमन्यस्य सुखदुःखयोः स्वसुखदुःखसाम्य- भावना । उपशमः क्रोधाद्यभावः । देहगेहादिष्वात्मीयत्वबुद्धित्यागासामर्थ्येपि त्यागेच्छया । एतादृशकर्मभिरेव पूर्वपावनरूपपुत्र- ॥ शब्दार्थश्चरितार्थो भवतीत्यभिप्रायेणाह - हे पुत्रा इति ।। ११-१२ ॥ * ॥ अनुभवजनकत्वमेव ज्ञानस्य विराजनमिति भावः ।। १३ ।। * * ततः अहमाख्योपाधिनिवृत्तेरनन्तरम् । साधनात् लिंगभंगसाधनात् । यथोपदेशं योगेन गुरूपदेश- मनतिक्रम्य यो योग उपायस्तेन न तु पाण्डित्यबलात् । पुस्तकदर्शनमात्रादेव खोत्प्रेक्षितेन विरमेदिति लिंगव्यपोहनार्थमेव विरमेत् न तु तत्पदार्थज्ञानार्थमित्यर्थः । तदर्थं तु भक्तिं कुर्वीतैव । तदुक्तं “ब्रह्मभूतः प्रसन्नात्मा न शोचति न कांक्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् || भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।।” इति । तत्पदार्थानुभवसिद्धेऽपि भक्तेः सर्वथैवात्यागः । ‘आत्मारामाच मुनयः’ इत्यादिप्रमाणाद् व्याख्येय एवेत्यतो भक्तिभिन्नादुपायादुपरमेदिति केचिदाहुः ॥ १४ ॥ * * एवं भक्तेर्गुणभावमन्त्रभूतं कैवल्यं चोक्त्वा भक्तेरुपदेष्टापि कृतार्थः स्यादित्याह पुत्रानिति । कर्मैव कुरुतेति नोपदिशेत् । ‘जोषयेत्सर्व- कर्माणि विद्वान्युक्तः समाचरन्’ इति तु ज्ञानोपदेष्टविषयं न तु भक्त्युपदेष्टृविषयमिति ज्ञेयम् । विहितकर्माचरणाधीनचित्तशुद्धिं विना ज्ञानानुत्पत्तेस्तत्र कर्मकरणस्यावश्यकत्वं भक्तेषु स्वत एव चित्तशोधन हेतुत्वान्न तत्र कर्मापेक्षेति तत्त्वम् । यद्वा-अथ वा मल्लोककामनया मदनुग्रहप्रयोजनेन वेत्यर्थः । इत्यर्थं इति । प्रत्युत ज्ञानचक्षूरहितस्याधःपातहेतुकाम्यकर्मोपदेष्टृत्वेन स्वस्यापि नरकपातः स्यादिति भावः ॥ १५ ॥ * * अर्थान् भोग्यपदार्थान्दृष्टानदृष्टांश्च । न केवलं पुरुषार्था नवाप्तिरपि तु दुःखावाप्तिश्च स्यादित्याह — अन्योन्येति ।। १६-१७ ।। श्रीमद्वीरराघवयाख्या हृदयग्रन्थिशैथिल्यमेव मुक्तिहेतुरित्याह यदेति । अस्य पुरुषस्य दृढो दाढर्थयुक्तः कर्मानुबन्धः कर्म अनुसृत्य बध्यते सम्बन्ध्यते इति कर्मानुबन्धः कर्मणि क्रियमाणे तत्पृष्ठभागेन प्राप्तमित्यर्थः । यद्वा कर्मानुबध्यते प्राप्यते येन स कर्मानुबन्धः यस्मिन् सति नान्तरीयकं कर्म स कर्मानुबन्ध इत्यर्थः, एवंभूतो मनोहृदयग्रन्थिः मनोरूपं यदन्तःकरणं हृदयशब्दस्य हृदयस्थानपरत्वशङ्कानिवृत्तये मन इत्युक्तं तद्गतो ग्रन्थिर्वासनारूपः । यद्वा हृदयग्रन्थिशब्दो वासनायां रूढः, मनसो यो हृदयग्रन्थिर्यदा श्लथेत शिथिलो भवेत्तदा जनः अस्मात्सम्परिवर्त्ततः संसारान्मुक्तेः हेतुं कर्मरूपहेतुमतिहाय पुण्यपापे विधूयेत्यर्थः । परं परमपुरुषं याति ॥ ९ ॥
इदानीं हृदयग्रन्थिशैथिल्ये साधनान्याह चतुर्भिः । हंसेऽविद्यादोषगन्धरहिते गुरौ हितोपदेष्टरि मयि यद्वा मद्रूपे गुरौ भक्त्या गुरुभक्तेः प्रथमकारणत्वात् अनुवृत्त्या सेवया तत्परतया शब्दादिषु विगततृष्णया द्वन्द्वानां शीतोष्णादीनां तितिक्षया सर्वत्रेहामुत्र च जन्तोर्व्यसनावगत्या दुःखानुसन्धानेन जिज्ञासया हेयोपादेययोर्ज्ञानेच्छया तपसा नाशकेन तपसा ईहानिवृत्या वृथाकाङ्क्षानिवृत्त्या ॥ १० ॥
मत्कर्मभिर्मदाराधनरूपैर्वर्णाश्रमोचितकर्मभिः भगवत्कथया चाहमेव देवो येषां ते भागवतास्तेषां सङ्गात् मद्गुणकीर्त्तनात् निर्वैरादीनां समहारद्वन्द्वः निर्वैरादिभिः हे पुत्राः ! देहगेहयोरात्मीयबुद्धेर्जिहासया त्यागेच्छया ॥ ११ ॥
अध्यात्मयोगेन प्रकृतिविलक्षणात्मयाथात्म्यानुभवयोगेन विविक्तसेवया । विशुद्धाहारेण सम्यक् प्राणेन्द्रियमनसां जयेन सच्छ्रद्धया सदुपायविषयश्रद्धया ब्रह्मचर्येण स्त्रीसङ्गादिराहित्येन शश्वत् सर्वदासम्प्रमादेन कर्तव्यस्यापरित्यागेन वाचां यमेन नियमेन ॥ १२ ॥
सर्वत्र भूतेषु मद्भावविचक्षणेन ब्रह्मात्मकत्वप्रदर्शनेन विज्ञानं शास्त्रं तेन विराजितेन उद्दीपितेन ज्ञानेन ध्यानात्मकेन योगेन समाधियोगेन न च धृत्युद्यमसत्त्वयुक्तो धैर्यप्रयत्नव्यवसायैर्युक्तः सत्त्वशब्दो व्यवसायपरः, उक्तसाधनकलापे तत्साध्ये च व्यवसायस्ततः प्रयत्नस्तत्र धैर्यमेवमुक्तेन साधनज्ञानेन कुशलः सन्नहमाख्यं देहाहङ्काराख्यं लिङ्गं बन्धहेतुं यद्वाहङ्कारगोचरं देहेऽहंशब्दो लक्षणया वर्ततेऽहंबुद्धिविषयं लिङ्गं देहं व्यपोहेदपनुद्यात् । उक्तसाधनकलापोपचितया भगवद्भक्त्या हृदयग्रन्थिशैथिल्यापादनद्वारा देहसम्बन्धं व्यपोहेदिति भावः ॥ १३ ॥
तदेवाह । कर्माशयं कर्मवासनारूपं हृदयग्रन्थिबन्धं कथम्भूतमविद्ययाहङ्कारादिरूपाविद्यया कर्मद्वारा आसादितं प्रमादरहितः यथोपदेशमुपदेशप्रकारमनतिक्रम्यानुष्ठितेन योगेन सम्यग्व्यपोह्य योगादुपरमेत् यावत्कर्माशयव्यपोहं योगोऽनुष्ठेय इत्यर्थः ॥ १४ ॥
एवं संसारैकभेषजं योगमुपदिश्य हितोपदेशस्तस्मिन्नेव योगे लोको नियोज्य इत्याह पुत्रांश्चेति । मल्लोकं मत्सारूप्यं कामयमानः मदनुग्रहो यस्यार्थः प्रयोजनतयाभिमतः स मदनुग्रहार्थः पिता पुत्रान् गुरुः शिष्यान्नृपः प्रजाः विमन्युः शिक्षितस्याकरणें कोपशून्यः अतज्ज्ञानुक्तयोगमज्ञातान् इत्थमनुशिक्षयेत् न तु कर्ममूढाननादिपुण्यापुण्यरूपकर्मणा मूढानज्ञान् पुनः कर्मसु योजयेत् ॥ १५ ॥
एतदेवोपपादयति लोक इति त्रिभिः । लोकः स्वयं श्रेयसि नष्टदृष्टिस्तत्साधनज्ञानशून्यः तत्र हेतुः यो लोकः निकाममतिशयेन कामो यस्य तथाभूतः सन्नर्थ न शब्दादिविषयानेव समीहतेऽनर्थावहार्थसाधनकर्माण्येव कुरुते, अतः श्रेयसि नष्टदृष्टिरिति भावः । अर्थानामनर्थगर्भत्वेन तत्प्रसाधनं श्रेयोऽनभिज्ञतामूलमित्याह अन्योऽन्येति । सुखलेशानां शब्दादीनामर्थहेतोः कर्मणः अन्योऽन्यवैरं ततः अनन्तदुःखं च न वेदातो मूढः श्रेयसि लोक इत्यर्थः ॥ १६ ॥
श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली सर्वदुःखनिवृत्तौ किं कारणमित्यतो हृदयग्रन्थिविनाश एवेत्याह यदेति । कर्मणामनुबन्धः परम्परा यस्य स कर्मानुबन्धः संसारहेतुं हृदयग्रन्थिमतिहाय परं ब्रह्म यातीत्यन्वयः ॥ ९ ॥ * * भक्त्यादिसाधनसम्पत्त्या सत्यस्यापि बन्धस्य निवृत्तिः सुघटा गरुडध्यानेन विषनिवृत्तिवदित्यभिप्रेत्य तत्साधनमोह हराविति । हरौ मथि गुरौ स्थिते हरौ मयीति वा अनुवृत्त्या निरन्तरसेवया सर्वत्र योनिषु व्यसनावगत्या विविधक्लेशोऽस्तीति ज्ञानपूर्वकविचारेण जिज्ञासया वेदान्तवाक्यविचारेण पश्चाग्निमध्यस्थित्यादितपसा ईहानिवृत्त्या आत्मविहितकर्मव्यतिरिक्तकर्मपरित्यागेन । तदुक्तम् “आत्मनोऽविहितं कर्म वर्जयित्वान्यकर्मणः । कामस्य वा परित्यागो निरीहेत्याहुरुत्तमाः ॥” इति मत्कर्मभिर्मदाराधनलक्षणैः मम पादः स्वरूपं येषु ते मत्पादास्तेषां महतां सङ्गात् मम प्रतिमासेवालक्षणसङ्गाद्वा देवकीनन्दननन्दकुमारेत्यादिगुणनामसङ्कीर्तनात् ॥ १० ॥ भूतेषु निर्वैरेण साम्येनोपशमेन च देहात्मगेहात्मबुद्धेर्जिहासया हानेच्छया अध्यात्मयोगेन नाडीशोधनादिलक्षणेन प्राणस्येन्द्रियाणा- मात्मनो मनसचाभिजयेन वशीकरणेन ॥ ११ ॥ ॐ सत्या प्रशस्तया श्रद्धया असम्प्रमादेन इतिकर्तव्यताया अविस्मृत्या वाचामिति पुनर्वागिन्द्रियग्रहणं दुःशास्त्राभ्यासनिवृत्त्यर्थं सर्वदा मौनकरणार्थं वा मद्भावविचक्षणेन सर्वत्र मम सत्तालक्षणव्याप्ति- दर्शनेन येन मुक्तिः स्यात्तद्विज्ञानं तेन विराजितेन तेजितेन प्रतिजीवं विष्णुः सर्वस्मादुत्तम इति यत्तेन ज्ञानेन, तदुक्तम् “सर्वस्मादुत्तमो विष्णुरिति ज्ञानमुदाहृतम् । प्रतिजीवं येन मुक्तिस्तद्विज्ञानं विदां मतम् ॥” इति यद्वा यद्विष्णोरुत्तमत्वज्ञानं तदेव प्रतिपुरुषं विशेषविषयं तद्विज्ञानं तेन विराजितेन विशेषितेन ज्ञानेन अनयोर्विशेषं च सर्वज्ञो गुरुर्जानाति, तदुक्तम् “ज्ञानं विष्णोरुत्तमत्वे तदेव प्रतिपूरुषम् । विशेषेण तु विज्ञानं तच्च जानाति सर्ववित् ॥” इति च स्वस्वयोग्यतानुसारेण सर्वेषामपि सर्वज्ञत्वेन तज्ज्ञानमपि विज्ञानं स्यादित्यतो व्यावृत्तलक्षणं वक्तव्यं तत्किमिति चेदुच्यते द्वात्रिंशलक्षणाद्युपेत एव सर्वज्ञ इत्युच्यते न तु स्वयोग्यतानुसारेण विद्वान्, तदुक्तम् “द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णदंष्ट्रश्च सौम्यदृक् । घोररुक् चेति पुरुषः सर्वज्ञः स उदाहृतः ।। " इति सर्वज्ञस्य गुरोः प्रत्यक्षलक्षणान्यपि शास्त्रैर्निरूप्यते “पण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः । सप्तपादश्चतुर्हस्तः स देवैरपि पूज्यते ॥” इत्यादी न्यग्रोधपरिमण्डलो बाहुद्वयमण्डलमण्डितः “न्यग्रोधमण्डलो व्यामो बाहुर्न्यग्रोध उच्यते” इति वचनात् ॥ १२ ॥ * * योगेन ध्यानेन जिह्वोपस्थेन्द्रियजयो धृतिः वैष्णवसिद्धान्तादचलनं वा उद्भवसत्त्वं स्पष्टीकृतसत्त्वगुणः ताभ्यां युक्तः धृत्या उद्भवेन उत्कृष्टजन्मना सत्त्वेन ब्रह्मकल्पावध्यनशनेऽप्य- म्लानेन युक्त इति वा अहमाख्यमहङ्कारशब्दवाच्या लिङ्ग शरीरं व्यपोहेत् त्यजेत् । किंविशिष्टं लिङ्गं कर्माण्याशेरतेऽ- स्मिन्निति कर्माशयं हृदयग्रन्थिं मिथुनीभावलक्षणं बध्नातीति हृदयग्रन्थिबन्धमविद्यया ज्ञानेन प्राप्तम् ।। १३ ।। * अनेनो- तेन योगेन व्यपोहा निरस्य पश्चाद्योगादुपरमेत ‘प्रासादात् प्रेक्षते’ इतिवत्पश्चाद्योगमुपगम्य क्रीडत इत्यर्थः । उक्तमतिदिशति पुत्रानिति । शिक्षाफलमाह मदनुग्रहार्थं इति । ममानुग्रह एवार्थः प्रयोजनं यस्य स तथा मत्प्रसादलभ्यो मोक्षो यस्येति वा ॥ १४ ॥ * विमन्युर्ज्ञानशीलः विगतपापो वा निरस्तक्रोधो वा अतज्ज्ञानब्रह्मज्ञान, ननु कर्मकरणप्रेरणायां गुरुत्वेन पूजादिलाभात् किमिति न योजयेदित्युच्यते इति तत्राह कं योजयमिति । प्रवृत्तिकर्मणि प्रेरयन कमर्थं लभते न कमपि प्रत्युत ज्ञानचक्षूरहितस्याधः पातहेतुत्वेन स्वस्यापि नरकपातः स्यादित्यभिप्रेत्याह निपातयन्निति ।। १५ ।। * * मा भूत्परोपदेश- * । २०४ श्रीमद्भागवतम् [ स्कं.. ५.अ. ५ श्लो. ९-१६ स्तथापि स्वयमेव प्रवर्तमानो जनोऽर्थान् लभतामत्राह लोक इति । नितराङ्कामकामो विषयभोगेच्छा यस्य स तथा अत एव श्रेयसि नष्टशास्त्रदृष्टिः स्वयमुपदेशं विना यो लोको ‘जनोऽर्थानापादयितुं समीहेत इच्छेत्स जनस्तेषामर्थानां मध्ये कं पुरुषार्थं लभते न कमपीति पूर्वेणान्वयः । न केवलं पुरुषार्थानवाप्तिरपि तु बहुदुःखावाप्तिश्च स्यादित्याह । अन्योऽन्येति सुखलेशहेतोरन्योऽन्यवैर- मनन्तदुःखं च मूढो न वेद ।। १६ ।। । श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः · Sharpe rope-mata हेतुमतिहायेत्युक्तम् । तत्र च प्रीतिरेव कारणमुक्तं सा च तत्र द्विधा प्रवर्तते स्वमात्रपुरुषार्थानां स्वद्वारा मुमुक्षूणान्तु ज्ञानद्वारेति किन्त्वन्येच्छुत्वात् प्रीत्याभास एवैषां ज्ञेयः तत्रोभयत्रापि गुरुभक्तिरपेक्ष्यत इत्याह हंस इति चतुष्केण । तत्र पूर्वेषां साधनान्याह वितृष्णयेति पञ्चपद्या ॥ १० ॥ * * अपरेषामाह निर्वैरेति द्वाभ्याम् । अतो लिङ्ग व्यपोहेदिति पूर्वे- रुत्तरैव पृथग् योज्यम् । योगेन धृत्युद्यमसत्त्वयुक्त इति तुभयत्रैव वितृष्णया तृष्णाविगमेनेत्यर्थः । जिज्ञासया शाखाद्भगवत्तत्त्व- विचारेण तपसा भगवत्प्रीणनस्वधर्मेण ईहानिवृत्त्या ऐहिकपारलौकिकक मनान्तरनिवर्त्तनेन ततश्च नित्यं सत्कर्मभिर्मदर्शन- पादसेवनलक्षणैरित्यादिब्रह्मचर्येण कायमनोवाग्गतेन ॥ ११-१२ ॥ * अत्र प्रीतिबीजं विन्यस्यति सर्वत्र मद्भावेति । योगेन उपायेन धृत्यादियुक्तः सन् ॥ १३ ॥ * * अभिनिवेशार्थं तदेव संक्षिप्य पुनराह कम्र्मेति । अनेन पूर्वोक्तेन योगेन उपायैकतरेण तेन च न पुस्तकदर्शनमात्रस्योत्प्रेक्षितेन अपितु यथोपदेशं श्रीगुरुशिक्षितप्रकारेणैवेत्यर्थः । उपरमेतेति । प्रीति- पुरुषार्थिना अनुसंगमात्रेण तद्वयपोहिकायाः प्रीतेरेव स्वयं सिद्धेः मुमुक्षूणां तद्वयपोहातिरिक्तसाध्याभावात् ।। १४- १७ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
। कदा तर्हि मुक्तिरत आह । यदा मनोरूपो हृदयग्रन्थिरस्य जनस्य कर्मभिरनुबद्धोऽपि ज्ञानवैराग्याभ्यासेन शिथिलो भवेत्तदा अस्मान्मिथुनीभावान्निवर्तते ततश्च हेतुमहङ्काराख्यमुपाधिं त्यक्त्वा मुक्तः सन् परम्पदं याति ॥ ९ ॥ भक्ति- मिश्रज्ञानेन लिङ्गभङ्गमुक्त्वा ज्ञानमिश्रया च भक्त्या पञ्चविंशत्यङ्गया लिङ्गभङ्गमाह चतुर्भिः । तत्रापि शुद्धभक्तानां केवलयैव भक्त्या पञ्चदशाङ्गया लिङ्गभङ्गमाह प्रथमद्वाभ्याम् । हंसे परमहंसस्वरूपे मयि गुरौ भक्त्येत्यादिभिः अहमाख्यं लिङ्गं लिङ्ग- देह व्यपोहेदित्यन्वयः । वितृष्णया निष्कामतया जिज्ञासया भक्तेर्भजनीयेश्वरस्य चेति शेषः । तपसा एकादशीकार्त्तिकादित्रतलक्षणेन विष्णुवैष्णव सेवानिबन्धनस्वीयभोजनशयनादिसङ्कोचलक्षणेन च । ईहानिवृत्त्या व्यापारान्तरराहित्येन अहमेव देवः प्रभुर्येषां तैः संगात् निर्वैरमद्वेष्टृत्वम् । साम्यमन्यस्य सुखदुःखयोः स्वसुखदुःख साम्यभावना उपशमः क्रोधशोकादेस्तेषां द्वन्द्वैक्यं तेन देहगेहादि- स्वात्मीयत्वबुद्धेस्त्यागासामर्थ्येऽपि त्यागेच्छया असंप्रमादेन कर्त्तव्यस्यापरित्यागेन मद्भावविचक्षणेन मदीयसत्तादर्शनेन विज्ञान- विराजितेन विज्ञानजनकेनेत्यर्थः । अनुभवजनकत्वमेव ज्ञानस्य विराजनमिति भावः । योगेनाष्टांगेन सत्त्वमुत्साहं व्यपोहेत् निरस्येत् ॥ १०-१३ ॥ * * ततश्च लिङ्गभङ्गार्थक साधना दुपरमेदित्याह कर्मेति । यथोपदेशं योगेन गुरूपदेशमनतिक्रम्य ।। यो योग उपायस्तेन न तु पाण्डित्यबलात पुस्तकदर्शनमात्रादेव स्वोत्प्रेक्षितेन कम्र्माण्याशेरते यस्मिंस्तं बन्धं व्यपोहा निरस्य योगा- दुपायात् विरमेदिति लिङ्गव्यपोहनार्थमेव विरमेत् न तु तत्पदार्थज्ञानार्थमित्यर्थः । तदर्थस्तु भक्तिं कुर्वीतैव । यदुक्तम् “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्व्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।” इति तत्पदार्थानुभवसिद्धेऽपि भक्तेः सर्व्वथैवात्यागः ‘आत्मारामाच मुनयः’ इत्यादिप्रमाणाद्वयाख्येय एवेत्यतो भक्तिभिन्नादुपाया- द्विरमेदिति केचिदाहुः ॥ १४ ॥ * * एवं भक्तेर्गुणभावमन्तर्भूतकैवल्यञ्चोक्त्वा भक्तेरुपदेष्टापि कृतार्थः स्यादित्याह पुत्रानिति । विमन्युः शिक्षितस्याकरणेऽपि कोपशून्यः कर्मसु न योजयेत् कम्मैव कुरुतेति नोपदिशेत् । “जोषयेत् सर्व्वकर्माणि विद्वान् युक्तः समाचरन्” इति तज्ज्ञानोपदेष्टृ विषयं न तु भक्त्युपदेष्टृ विषयमिति ज्ञेयम् ॥ १५ ॥ * * एतदेवोपपादयति । लोक इति त्रिभिः । अर्थान् भोग्यपदार्थान् दृष्टानदृष्टांश्च निकाममतिशयेन काम एव यस्य सः ॥ १६ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः + * । * मुक्तिप्रकारं प्रपञ्चयति यदेत्यादिना । यदा मनोहृदयग्रन्थिः आस्थेत शिथिलो भवेत् तदा अस्मात् संसारात् अवोध- जात हेतुमबोधं पूर्वोक्तमतिहाय संपरिवर्तते मुक्तो भवति मुक्तश्च परं परमात्मसाधर्म्य याति च ॥ ९ ॥ * तत्र साधना- न्याह हंसेत्यादिना । हंसे परमहंसे गुरौ मयि च ॥ १० ॥ अहं देवो येषां तेषां सङ्गात् ॥ ११ ॥ ४ 3 सध्यक् सम्यक् ॥ १२ ॥ * * सर्वत्र मद्भावे विचक्षणेन सुद्दढेन योगेन ध्यानाभ्यासेन धृत्युद्यमसत्त्वयुक्तः धैर्यसाधिते- नोद्यमेन साधनावृत्त्यात्मानात्मपरमात्मबोधयुक्तः अहमाख्यं लिङ्ग तदुपलक्षितं संसारं व्यपोहेत् त्यजेत् ॥ १३ ॥ * * एतदेवाह कर्माशयमिति । कर्माणि संसारप्रदान्याशेरते यस्मिन् तत् अनेन योगेन साधनयोगेन सम्यग्व्यपोह्य निरस्य योगात् युव्यते इति योगः जन्ममरण प्रवाहलक्षणः संसारस्तस्मात् ॥ १४ ॥ अतिदिशति । इत्थं यथा मया पुत्रादयः शिक्षिताः स्कं. ५.अ. ५ श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् १०५ तथा अन्योऽपि पिता पुत्रान् गुरुः शिष्यान् नृपः नृन् अनुशिष्यात् अनुशिक्षयेत् कर्ममूढान्कर्मसु न योजयेत् । ननु कर्मसु यस्तान् योजयेत्स स्वर्गं गच्छेत्त्वत्प्राप्तिमार्गोपदेशतः किं स्यादत्राह । मल्लोककामः मदनुग्रह एवार्थः प्रयोजनं यस्य सः ॥ १५ ॥ ऋ कर्मसु न योजयेदिति यदुक्तं तदेव द्रढयति द्वयेन । निकामकामः अत्यन्तः कामो यस्य सः ।। १६-१७ ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी 3 " एवं स्त्रीसङ्गिसङ्गस्य बन्धहेतुत्वं यदुक्तं तत्प्रतिपाद्य महत्सङ्गस्य विमुक्तिहेतुत्वं यदुक्तं तत्र स्वस्यापि महत्त्वात् स्वसङ्गेनापि विमुक्तेरवश्यम्भावित्वं, अन्यथा स्ववचनविरोधापत्तेरिति मत्वा तैरना पृष्टोऽपि स्वयमेव तत्त्वमुपदिशति । तत्र अहन्ताममतयोरनर्थहेतुत्वं यदुक्तं तत्रापि ममताया अहन्ता पूर्वकत्वात् सुषुप्त्यादौ अहङ्काराभावेन समताया अदर्शनात् सर्वानर्थ- मूलमहङ्कार एव अतोऽहङ्कारनिवृत्तिरेव परपुरुषार्थ हेतुरित्याह-यदेति । यदाऽस्य जनस्य मनोलक्षणो हृदयग्रन्थिः आस्थेत शिथिलो भवेत्तदा जनोऽस्मात् मिथुनीभावादिसंसारात् सम्परिवर्त्तते विमुखो भवति, ततश्च हेतुमनर्थकारणं अहङ्कारमतिहाय त्यक्त्वा अनर्थाद्विमुक्तः जीवन्मुक्तः सन् परं पदं यातीत्यन्वयः । प्रयत्नाधिक्यं विधेयमिति सूचयन् ग्रन्थे त्वमाह — दृढ इति । तत्र हेतुमाह- कर्मेति, यतोऽनेकजन्मसचितैः कर्मभिरनुबद्ध इत्यर्थः ।। ९ ।। * * तदेवमहङ्कारनिवृत्तौ कानि साधनानी- त्यपेक्षायां तान्याह-हंसे इति चतुर्भिः । हंसे हंसवद्विवेकवति गुरौ तथा तथा मयि भगवति च भक्त्या स्नेहेन, अनुवृत्त्या सेवया च, वितृष्णया विषयभोगाभिलाषत्यागेन, द्वन्द्वतितिक्षया सुखदुःखादिद्वन्द्वसहनेन इहामुत्र सर्वत्र जन्तोर्जीवस्य व्यसनावगत्या दुःखानुसन्धानेन, जिज्ञासया तत्त्वातत्त्वविचारणेन, तपसा व्रतोपवासाहारादिनियमेन, ईहानिवृत्त्या काम्यकर्म- त्यागेन ॥ १० ॥ * * मयि समर्पितैः कर्मभिः, मत्कथया मम कथाश्रवणेन । नित्यं निरन्तरमित्यस्य सर्वत्रान्वयः, अहमेव देव आराधनीयो येषां मद्भक्तानां तेषां सङ्गात् मे मम गुणानां कीर्तनात्, निर्वैरेण प्राणिषु वैरत्यागेन, साम्येन सर्वेषां सुख- दुःखादिसमानदर्शनेन, उपशमेन चित्तशान्त्या, देहेऽहमिति गेहे ममेति च याऽऽत्मनः स्वस्य बुद्धिस्तस्याः जिहासया त्यागेच्छया । पुत्राः ! इति सम्बोधनेन पुत्रत्वात्स्नेहेन यथार्थमेव वदामि नात्र किञ्चिदन्यथेति सूचयति ॥ ११ ॥ * * अध्यात्मयोगेन अध्यात्मशास्त्राभ्यासेन, विविक्तसेवया निर्जनदेशवासेन, प्राणस्य प्राणायामैः इन्द्रियाणां प्रत्याहारैः आत्मनो मनसो धारणयाऽभि- जयेन वशीकरणेन । सम्यक् सम्यक् इत्यस्यापि सर्वत्र सम्बन्धः । सच्छ्रद्वया शास्त्रविहितानुष्ठानश्रद्धया, ब्रह्मचर्येण यस्य यादृग्ब्रह्मचर्य विहितं तेन यथा गृहस्थस्य ऋतुभार्यागमनं ब्रह्मचर्यमेव, शश्वत् सर्वदा असम्प्रमादेन कर्त्तव्यस्य अपरित्यागेन, वाचां यमेन व्यर्थालापवर्जनेन || १२ || * * सर्वत्र मद्भावना तत्र विचक्षणेन अतिनिपुणेन । विज्ञानविराजितेन अनुभवपर्यन्तेन ज्ञानेन । योगेन भगवद्ध्यानेन । धृतिधैर्यं उद्यमः प्रयत्नः सत्त्वं विवेकस्तैर्युक्तः अत एव कुशलो निपुणः पुरुषोऽहमाख्यं लिङ्ग संसारकारणभूतं व्यपोहेत् निरस्येदित्यर्थः ॥ १३ ॥ * * अहन्ताममतानिवृत्तिपर्यन्तं पुरुषेण प्रयतितव्यं तन्निवृत्तावस्य कृतार्थता ततोऽग्रे कर्तव्यता नास्तीत्याह-कर्मेति । कर्माण्याशेरते यस्मिंस्तं हृदयग्रन्थिलक्षणं आत्मनो बन्धमविद्यया देहेन्द्रिया- द्यध्यासलक्षणया आसादितं प्रापितं अनेन पूर्वोक्तेन योगेनोपायेन यथोपदेशमनुष्ठितेन सम्यक् निर्वासनं व्यपोह्य निरस्य योगात् विमुक्त्युपायादुपरमेदित्यन्वयः । “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ इति श्रुतेर्जीवन्मुक्तस्य तस्य ततोऽग्रे कर्त्तव्यत्वस्फुरणाभावात् स्वतस्सिद्धस्यैवोपरमस्य अनुवादमात्रं न विधिः, भगवद्भजनं तु ‘ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥’ ‘आत्मारामाश्च मुनयो निर्मन्था अप्युरुक्रमे । कुर्वन्त्य हैतुकीं भक्तिमित्थम्भूतगुणो हरिः’ इत्यादिवचनेभ्यः स्वत एव सिद्धमिति ज्ञेयम् ॥ १४ ॥ * * एवं स्वयमुपदिश्या- न्यैरपि सुविज्ञैरेवमेवाज्ञा उपदेष्टव्या इत्यन्यानप्याज्ञापयति – पुत्रानिति सार्द्धंश्चतुर्भिः । पुत्रान् पिता शिष्यांश्च गुरुः नृपश्च प्रजा इत्थमेव यथा मयोपदिष्टं तथाऽनुशिष्यादनुशिक्षयेदित्यन्वयः । अतज्ज्ञानुपदिष्टपरमपुरुषार्थसाधनं अजानतोऽत एव तत्साधनबुद्धया कर्मसु मूढान् मौढथेन प्रवृत्तान् पुनस्तत्र कर्मस्वेव न योजयेत् न प्रेरयेदित्यन्वयः । अतज्ज्ञान् कर्ममूढानिति विशेषणद्वयं पुत्रादीनां सर्वेषामिति ज्ञेयम् । एवं शिक्षिता अपि यदि कर्मसु संस्कारप्राबल्येन आग्रहवशात्ते न प्रबुद्धधेरन् स्वोपदेशं नाङ्गीकुर्युस्तदापि कोपो न कार्यः, किन्तु पुनः पुनः प्रतिबोधनीया एव । अन्यथैतत्सम्प्रदायप्रवृत्तिनं स्यादित्याह - विमन्युरिति, क्रोधरहित इत्यर्थः । इदमपि विशेषणं पित्रादीनां सर्वेषामिति ज्ञेयम् । एवं शिक्षाकर्तुः फलमाह - मदनुग्रहार्थं इति । मदनुग्रह एवार्थो यस्य सः । एवमनुशासितरि ममानुग्रहो भवतीति भावः । भवदनुग्रहेण किमित्यपेक्षायामाह - मल्लोककाम इति, मदनुग्रहेण जन्ममरणादि- दुःखविवर्जितस्य मल्लोकस्य प्राप्तिर्भवतीत्यर्थः । काम्यकर्मसु प्रवर्तने दोषमाह- कमिति । काम्यकर्मसु योजयन् मनुजः किमर्थं किं फलं लभेत, न किंचित्, प्रत्युत पापभाग्येव स्यादित्यर्थः । तत्र दृष्टान्तमाह-निपातयन्निति । यथाऽन्धं गर्तमार्गे गच्छन्तं अयमेवेष्टमार्गोऽनेनैव गच्छेति प्रेरणया गर्ते पातयन्न किञ्चित्फलं लभते, किन्तु प्रत्युत पापमेव लभते । हीति निश्चितमेतत्तथे- त्यर्थः ।। १५ ।। * ॐ उक्तमेव स्पष्टयति लोके इति द्वयेन । लोकः लोकव्यवहारापन्नः प्राणी स्वयं श्रेयसि श्रेयस्साधने नष्टदृष्टिर्ज्ञानशून्यः । तत्र हेतुमाह य इति । यो नितरां कामकामः भोगाभिलाषी अत एव अन्योन्यं वैरं यस्य सः तथाभूतः सन् १०६ श्रीमद्भागवतम् [ स्कं. ५ अ. ५ श्लो. ९-२६ परद्रोहेणार्थान् भोग्यान् विषयान् समीहेत इच्छति । सुखस्य लेशार्थं परद्रोहजनितमनन्तं महत् नरकपातादिदुःखं न वेद, यतो मूढः अविद्यया मोहित इत्यर्थः ॥ १६ ॥ ।। ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी हृदयग्रन्थिशैथिल्यमेव मुक्तिहेतुरित्याह यदेति । यदा अस्य जनस्य, कर्मानुबद्धः कर्मभिरनुबद्धः, दृढः अशिथिलः, मनः मनोरूपः, हृदयग्रन्थिः, आश्लथेत महापुरुषसे क्या शिथिलो भवेत, तदा जनः अस्मान्मिथुनीभावात् संपरिवर्तते सम्यग् निवर्त्तते । ततः हेतुमहंकार, अतिहाय त्यक्त्वा, मुक्तः सन् परं परं पदं परमपुरुषं वा, याति । संपरिवर्त्ततोऽस्मादिति पाठे तु संपरिवर्त्ततश्चक्र- वत्परिभ्रमतः अस्मात्संसारात्, मुक्तः इति योजना ॥ ९ ॥ * इदानीं हृदयग्रन्थिशैथिल्यापादकानि पञ्चविंशति- साधनान्याह चतुर्भिः हंस इति । हंसे अविद्यादोषगन्धरहिते, गुरौ हितोपदेष्टरि, मयि भक्त्या, अनुवृत्त्या निष्कपटकृतानुवृत्त्या- त्मकसेवया, वितृष्णया शब्दादिविषयेषु तृष्णारहितत्वेन, द्वन्द्वतितिक्षया शीतोष्णादिद्वन्द्वसहनेन, सर्वत्र इहामुत्र च जन्तोः प्राणिनः व्यसनावगत्या दुःखानुसंधानेन, जिज्ञासया हेयोपादेययोर्ज्ञानेच्छया, आत्मपरमात्मस्वरूपावबोधेच्छया वा, तपसा अनशनादिना, ईहानिवृत्त्या वृथाकाङ्क्षानिवृत्त्या, काम्यकर्मत्यागेन वा, एवमस्मिन् श्लोकेऽष्टौ साधनान्युक्तानि ॥ १० ॥ । || मत्कर्मभि- रिति । है पुत्राः, मत्कर्मभिः मदाराधनरूपैर्वर्णाश्रमोचितैः कर्मभिः, मत्कथया मदात्मकभगवत्कथया च नित्यं अहमेव देव इष्ट- देवो येषां भागवतानां तेषां सङ्गस्तस्मात् । मे मम गुणकीर्त्तनात्सर्वकाल मद्गुणानामेव कीर्त्तनविधानात्, निर्वैरं वैराभावश्च साम्यं सुखदुःखयोः साम्येनानुवर्तनं च उपशम इन्द्रियविक्षेपराहित्यं च तत्समाहारस्तेन, देहश्व गेहं च तयोरात्मबुद्धिरात्मीयतामतिस्तस्याः जिहासया त्यागेच्छया, एवमस्मिन् श्लोके पूर्वार्द्धे चत्वारि, निर्वैरादीनि त्रीणि एका देहादावात्मबुद्धिजिहासेत्यष्टौ साधनानि संप्रोक्तानि ॥ ११ ॥ * * अध्यात्मेति । अध्यात्मयोगेन प्रकृतिविलक्षणात्मयाथात्म्यानुभवात्मक योगेन अध्यात्मशास्त्रा- ॥ । भ्यासेनेति वा । विविक्तसेवया विशुद्धाहारेण निरुपद्रवस्थलसंसेवनेन वा, सभ्य सम्यक्, एतस्य सर्वत्र संबन्धः । प्राणश्च इन्द्रियाणि च आत्मा मनश्च तेषामभिजयस्तेन प्राणेन्द्रियमनसां समीचीनतया जयेनेत्यर्थः । सच्छ्रद्धया सदुपायविषयक श्रद्धया, संसाध्यार्थसंसाधनविषयकत्वरया वा, ब्रह्मचर्येणाष्टधा स्त्रीसङ्गराहित्येन शश्वत्सर्वदा असंप्रमादेन कर्त्तव्यस्यापरित्यागेन, वाचां यमेन नियमेन, एवमस्मिन् श्लोके सप्त साधानान्युक्तानि ॥ १२ ॥ * * सर्वत्रेति सर्वत्र
- सर्वत्रेति सर्वत्र सर्वेषु मद्भावविचक्षणेन ब्रह्मात्मकत्वदर्शन- रूपेण, विज्ञानं शाखं तेन विराजितमुद्दीपितं तेन ज्ञानेन । योगेन समाधियोगेन । एवमत्र त्र्यक्षराधिकार्द्धश्लोकेन द्वे साधने उक्ते । एवमुक्तेन पञ्चविंशतिसाधनजातेन, धृत्युद्यमसत्त्वयुक्तः धैर्यप्रयत्नविवेकैर्युक्तः, अत एव कुशलः सन् अहमाख्यं देहाहंकारसंज्ञ- मित्यर्थः । लिङ्ग बन्धहेतुं, अहंबुद्धिविषयं लिङ्गदेहं वा व्यपोहेन्निरस्येदपनुद्यादित्यर्थः । उक्तसाधनकला पोपचितया भगवद्भक्त्या हृदयग्रन्थिशैथिल्यापादनद्वारा देहसंबन्धं व्यपोहेदित्यर्थः ॥ १३ ॥ * * एतदेवाह कर्माशयमिति । कर्माण्याशेरतेऽस्मि निति कर्माशयस्तं, कर्मवासनारूपमित्यर्थः । अविद्यया अहंकारादिरूपयाऽविद्ययेत्यर्थः । आसादितं कर्मद्वारा संप्रापितं, हृदयग्रन्थि- बन्धं, अप्रमत्तः प्रमादरहितः सन् यथोपदेशमुपदेशप्रकारमनतिक्रस्य, अनुष्ठितेनेति शेषः । अनेन पूर्वोक्तेन योगेन, सम्यक् व्यपोह्य, योगात्, उपरमेत यावत्कर्माशयव्यपोहं योगोऽनुष्ठेय इत्यर्थः ॥ १४ ॥ * * एवं संसारैकभेषजं योगमुपदिश्य हितोपदेष्ट्राऽ- स्मिन्नेव योगे लोको नियोज्य इत्याह पुत्रांश्चेति । मम लोके मल्लोकस्तं कामयते इति मल्लोककामः, मत्सारूप्यं कामयमान इत्यर्थः । ममानुग्रहो मदनुग्रहः स एवार्थः अभिमतप्रयोजनं यस्य स मदनुग्रहार्थश्च पिता पुत्रान् गुरुश्च शिष्यान् नृपः वा प्रजाः, विमन्युः शिक्षितस्याकरणेऽपि कोपशून्यः सन् अतज्ज्ञान् उक्तयोगमहिमानमजानतः, ज्ञात्वा इत्थं, अनुशिष्यात् अनुशिक्षेत । कर्ममूढानज्ञां- स्तान्, पुनः कर्मसु न योजयेत् । इदमेव श्रेयोऽस्तीति बुद्धेदृढतापादनेन न तांस्तत्रैव प्रवर्त्तयेदित्यर्थः ।। १५ ।। * * न योजये- दित्येतदुपपादयति लोक इति त्रिभिः । लोकः स्वयं स्वत एव, श्रेयसि नष्टदृष्टिस्तत्साधनज्ञानशून्यः, भवति । तत्र हेतुमाह यो लोकः, निकाममतिशयेन कामो यस्य तथाभूतः सन् अर्थान् शब्दादिविषयानेव, समीहेत समीहतेऽनर्थावहार्थसाधनकर्माण्येव कुरुते । अतः श्रेयसि नष्टदृष्टिरिति भावः । अर्थानामनर्थगर्भत्वात्तत्प्रसाधनमेव श्रेयोऽनभिज्ञतामूलमित्याह । सुखलेशहेतोर्मधुलवा स्वादजाल्पसुख- समानशब्दाद्यर्थसंप्राप्तिहेतोः कर्मणः सकाशात्, अन्योन्यवैरं ततः अनन्तदुःखं च तत् मूढः, न वेद । अतो लोकः श्रेयसि मूढ इत्यर्थः ॥ १६ ॥ भाषानुवादः , जिस समय कर्मवासनाओंके कारण पड़ी हुई इसकी यह दृढ़ हृदय-प्रन्थि ढीली हो जाती है, उसी समय यह दाम्पत्यभावसे निवृत्त हो जाता है और संसारके हेतुभूत अहंकारको त्यागकर सब प्रकारके बन्धनोंसे मुक्त हो परमपद प्राप्त कर लेता है ।। ९ ।। पुत्रों ! संसारसागर से पार होनेमें कुशल तथा धैर्य, उद्यम एवं सत्त्वगुणविशिष्ट पुरुषको चाहिये कि सबसे आत्मा और गुरुस्वरूप मुझ भगवान में भक्तिभाव रखनेसे, मेरे परायण रहनेसे, तृष्णाके त्यागसे, सुख-दुःख आदि द्वन्द्वोंके सहनेसे, ‘जीवको सभी योनियोंमें दुःखही उठाना पड़ता है’ इस विचारसे, तत्त्वजिज्ञासासे, तपसे, सकाम कर्मके त्यागसे, स्क. ५ अ. ५ श्लो. १७-२०1 अनेकव्याख्यांसमलंकृतम्
मेरे ही लिये कर्म करनेसे, मेरी कथाओंका नित्यप्रति श्रवण करनेसे, मेरे भक्तोंके सङ्ग और मेरे गुणोंके कीर्तनसे, वैरत्यागसे, समतासे, शान्तिसे और शरीर तथा घर आदिमें मैं मेरेपन के भावको त्यागनेकी इच्छा से, अध्यात्मशास्त्र के अनुशीलनसे, एकान्त- सेवनसे, प्राण, इन्द्रिय और संमनके यमसे, शास्त्र और सत्पुरुषोंके वचनमें यथार्थ बुद्धि रखनेसे, पूर्ण ब्रह्मचर्यसे, कर्तव्यकमों में निरन्तर सावधान रहनेसे, वाणीके संयमसे, सर्वत्र मेरी ही सत्ता देखनेसे, अनुभवज्ञानसहित तत्त्वविचारसे और योगसाधनसे अहङ्काररूप अपने लिङ्गशरीरको लीन कर दे ।। १०-१३ ॥ * * मनुष्यको चाहिये कि वह सावधान रहकर अविद्यासे प्राप्त इस हृदयग्रन्थिरूप बन्धनको शास्त्रोक्तरीतिसे इन साधनोंके द्वारा भलीभाँति काट डाले; क्योंकि यही कर्मसंस्कारोंके रहनेका स्थान है । तदनन्तर साधनका भी परित्याग कर दे ॥ १४ ॥ * जिसको मेरे लोककी इच्छा हो अथवा जो मेरे अनुग्रहकी प्राप्तिको ही परम पुरुषार्थ मानता हो वह राजा हो तो अपनी अबोध प्रजाको, गुरु अपने शिष्यों को और पिता अपने पुत्रोंको ऐसी ही शिक्षा दे । अज्ञानके कारण यदि वे उस शिक्षा के अनुसार न चलकर कर्मको ही परम पुरुषार्थ मानते रहे, तो भी उनपर क्रोध न करके उन्हें समझा-बुझाकर कर्म में प्रवृत्त न होने दे। उन्हें विषयासक्तिसंयुक्त काम्यकमों में लगाना तो ऐसा ही है, जैसे किसी अंधे मनुष्यको जान-बूझकर गढ़में ढकेल देना । इससे भला, किस पुरुषार्थ की सिद्धि हो सकती है || १५ ॥ * अपना सथा कल्याण किस बात में है, इसको लोग नहीं जानते; इसीसे वे तरह-तरहकी भोग-कामनाओं में फँसकर तुच्छ क्षणिक सुख के लिये आपसमें वैर ठान लेते हैं और निरन्तर विषयभोगोंके लिये ही प्रयत्न करते रहते हैं। वे मूर्ख इस बातपर कुछ भी विचार नहीं करते कि इस वैर-विरोधके कारण नरक आदि अनन्त घोर दुःखोंकी प्राप्ति होगी ॥ १६ 1 १६ ॥ कस्तं स्वयं तदभिज्ञो विपश्चिद् अविद्यायामन्तरे वर्तमानम् । । दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् ॥ १७ ॥ गुरुने स स्यात्स्वजनो न स स्यात् पिता न स स्याज्जननी न सा स्यात् । दैव’ न तत्स्यान्न पतिथ स स्थान मोचयेद्यः समुपेतमृत्युम् ॥ १८ ॥ इदं शरीरं मम दुर्विभान्यं सचं हि मे हृदयं यत्र धर्मः । पृष्ठे कृतो मे यदधर्म आराद् अतो हि मामृषभं प्राहुर्याः ।। १९ ।। तस्माद्भवन्तो हृदयेन जाताः सर्वे सर्वे महीयांसममुं सनाभम् । अक्लिष्टबुद्धया भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥ २० ॥ अन्वयः—कः स्वयम् तदभिज्ञः विपश्चित् सघृणः तम् कुबुद्धिम् अविद्यायाम् अन्तरे वर्तमानम् दृष्ट्वा पुनः तम् यथा उत्पथगम् अन्धम् प्रयोजयेत् ॥ १७ ॥ * * यः समुपेतमृत्युम् न मोचयेत् सः गुरुः न स्यात् सः स्वजनः न स्यात् सः पिता न स्यात् सा जननी न स्यात् तत् देवम् न स्यात् च सः पतिः न स्यात् ॥ १८ ॥ इदम् मम शरीरम् दुर्विभाव्यम् हि
- मे हृदयम् यत्र धर्मः सत्त्वम् यत् मे अधर्मः पृष्ठे आरात् कृतः अतः हि आर्याः माम् ऋषभम् आहुः ॥ १९ ॥ * $ भवंतः हृदयेन जाताः तस्मात् यूयम् सर्वे अमुम् महीयांसम् सनाभम् भरतम् अक्लिष्टबुद्धया भजध्वम् तत् शुश्रूषणम् प्रजानाम् भरणम् ।। २० ।। श्रीधरस्वामिविरचिता भावार्थदीपिका तमीदृशं कुबुद्धिं दृष्ट्वा तत्रैव कस्तं प्रवर्तयेन कोऽपि । उत्पथेन गच्छन्तमन्धं यथा तेनैव गच्छेति को ब्रूयात् ॥ १७ ॥ * * समुपेतः संप्राप्तो मृत्युः संसारो येन तम् । ततो भक्तिमार्गोपदेशेन यो न मोचयेत्स गुर्वादिर्न भवतीत्यर्थः । यद्वा यस्तं मोचयितुं न शक्नुयात्स तस्य गुर्वादिर्न स्यादिति निषेधः । ततश्च पिता न स्यादिति पुत्रोत्पत्तौ यत्नो न कार्य इत्यर्थः । देवं देवता न स्यादिति पूजा न प्राह्येत्यर्थः । एवमन्यदपि द्रष्टव्यम् ॥ १८ ॥ * एवं मोक्षधर्मानुपदिश्य भ्रातृशुश्रूषण- लक्षणं धर्म स्पर्धादिनिवृत्तये तेषां जन्मकथनपूर्वकमाह द्वाभ्याम् । इदं मनुष्याकारं शरीरं मम दुर्विभाव्यमवितयं मदिच्छा- विलसितम् । न त्वहं प्राकृतो मनुष्य इत्यर्थः । मे हृदयं तु सत्त्वम् । किं तद् हृदयम् । यत्र धर्मस्तत् शुद्धं सत्त्वमित्यर्थः । कुतः । यद्यस्मान्मयाऽधर्मो दूरादेव पृष्ठे कृत उत्सारितः अत एव मामृषभं श्रेष्ठं प्राहुः ॥ १९ ॥ * * भवन्तश्च हृदयेन शुद्धसत्त्वमयेन जातास्तस्मान्मत्सरं हित्वा महत्तमं सनाभं सोदरं भजध्वम् । ननु त्वत्पुत्रत्वात्त्वां वयं भजेम राजपुत्रत्वात्प्रजाश्च पालयेमेति चेदत आह । तदेव मे शुश्रूषणं प्रजानां च पालनम् । भरतानुवृत्त्यैव सर्वं कृतं स्यादिति भावः ॥ २० ॥ १. २. प्रा० पा० - १०८ ** श्रीमद्भागवतम् श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः … [स्क. ५ अ. ५ श्लो. १७-२० क J एवं भक्तरुपदेष्टारमभिनन्द्य तदनुपदेष्टृणां गुरुत्वबन्धुत्वाद्यभावं तद्धेतुकं तेषां त्यागं चाभिव्यञ्जयति-गुरुनेंति । इत्यर्थ इति । तं त्यजेदित्यर्थः । ननु गुरुं कृत्वा पुनस्त्यागेऽपि दोष एव । वस्तुतस्तु — परमार्थानुपदेष्ट्गुरुत्यागे दोषो नास्ति तथापि “अन्ते रण्डाविवाहश्चेदादावेव कुतो न सः” इति न्यायेन तादृशो गुरुरेव न कार्य इत्याह-यद्वेति । इत्यर्थ इति । नाहं पुत्रोद्धरण- समर्थ इति विमृश्येति भावः । इत्यर्थं इति । यो देवोप्यसमर्थो मोचने तं न पूजयेदिति भावः । अन्यत्स्वजनजनन्यपि मोचना समर्थ स्वजनं मातरं च तथाविधां स्वजनबुद्धया मातृबुद्धया च नाश्रयेदिति भावः । अत्र विश्वनाथः —यो न मोचयेद्भक्तिमार्गोपदेशेन स गुर्वादिनं भवेत् । बलिः शुक्रमिव तं गुरुं त्यजेदेव, तस्य प्रणत्यनुवृत्त्याद्यभावेऽपि न प्रत्यवायी स्यादिति भावः । एवं विभीषणो रावणमिव तं स्वजनम् । प्रह्लादो हिरण्यकशिपुमिव तं पितरम् । श्रीभरतः कैकेयीमिव तां जननीम् । खट्वांग इन्द्रादिकमिव तद्दैवम् । याज्ञिकब्राह्मणी याज्ञिकविप्रमिव तं पतिं च त्यजेदेवेत्यर्थः । यद्वा—स्यादिति विधिलिङा यस्तं मोचयितुं न शक्नुयात्स तस्य गुर्वादिर्न स्यात्प्रणत्यनुवृत्त्यादिकं न गृह्णीयाद्यदि गृह्णीयात्तर्हि प्रत्यवायी स्यादिति तेन च यदि मोचयितुं न शक्नुयात्तर्हि गुरु- भवितुमन्यं शिष्यं न कुर्यात् । स्वजनो भवितुं बन्धुतां न दध्यात् । पिता भवितुं पुत्रोत्पत्तौ न यतेत, जननी भवितुमन्यं गर्भे न । । दुध्यात्, दैवं भवितुं पूजां न गृह्णीयात् पतिर्भवितुं पाणिं न गृह्णीयादिति द्योतितम् ॥ १८ ॥ यस्य भक्तिः कर्त्तव्या स क भगवांस्तथा भक्तिप्राप्त्यर्थं भागवतसेवा चापेक्षणीयेति क्क वा स भागवत इति युष्माकमल्पोपि प्रयासो नास्ति यतो गृहे एव भगवानहं वः पिता तथैव गृह एव भागवतोऽयं वो भ्राता वर्तत इत्याह- इदमिति । इत्यर्थं इति । चिद्वस्तुनस्तत्त्वस्य यन्मूर्त्तत्व- मेतदेव दुर्विभाव्यत्वमन्येषां पृथिव्यादीनां तत्त्वानां दुर्विभाव्यत्वाभावादिति भावः । हि निश्चितं यत्र मे धर्मः मत्प्रापको भक्तियोगस्तत्रैव मे हृदयं मनः ‘साधवो हृदयं मह्यम्’ इति मदुक्तेः । मे अधर्मो मद्धर्मभिन्न इत्यर्थः । आराद्दूरत एव पृष्ठे कृतः ततः पराङ्मुखोऽहं तत्र न मे मन इत्यर्थः । अतो हेतोर्द्धर्मस्वीकाराधर्मत्यागरूपाद्धेतोः ॥ १९ ॥ * * हृदयेन उरसा जाता अत एव पुत्रा औरसा उच्यन्ते भरतं भजध्वम् । ननु जायात्मजरातिमत्सु न प्रीतियुक्ता इत्यनेन सम्बन्धिभक्तिस्त्याजितैव, सा पुनः कथमुपदिश्यते तत्राह - महीयांसमिति । ‘महत्संगं द्वारमाहुः’ इत्यादिना महतां संग उपदिष्टस्तेषामपि मध्ये श्रेष्ठमित्यर्थः । अक्लिष्टबुद्धयेति । भ्रातृत्वेन तुल्यैरस्माभिः कथमयं भजनीय इति व्यवहारदृष्टिर्न कार्येति भावः । अत्राक्षिपन्ति – नन्विति । भक्ति- हेतुत्वेन नारदादीन्महतः सेबेमहि । इति भाव इति । ज्येष्ठानुवृत्त्या राष्ट्रभेदाद्यभावेन मस्तं शुश्रूषद्भिर्भवद्भिरपि प्रजापालनमनुष्ठितं । । मम शुश्रूषणं च कृतमित्याशयः ॥ २० ॥ Tum Bratent. श्रीमद्वीरराघवव्याख्या SPIETER in । ।
एवमविद्यायामन्तरे वर्तमानमज्ञानान्तरे वर्तमानं कर्ममार्ग एव वर्तमानमिति वा तं श्रेयसि नष्टदृष्टिः पुरुषं दृष्ट्वा स्वयं तदभिज्ञः श्रेयस्तत्साधनाभिज्ञः अत एव विपश्चिद्धेयोपादेयविभागज्ञः सुहृच्चेत्कः पुमान् कुबुद्धिं तत्र कर्मणि पुनः प्रयोजयेत् शत्रुश्चेत्कर्मणि प्रयोजयेदित्यर्थः । तत्र दृष्टान्तः यथोत्पथेन गच्छन्तमन्धं तेनैव गच्छेति यो ब्रूयात्तद्वदिति ॥ १७ ॥
वस्तुक्तभक्तियोगोपदेशेन संसारान्न मोचयेत्तस्य गुरुत्वादिकमेव नास्तीत्याह गुरुरिति । यः गुर्वादिर्हिताद्युपदेष्टापि समुपेतः संप्राप्तो मृत्युः संसारो येन तं पुमांसं योगोपदेशेन संसारान्न मोचयेत्स गुर्वादिरेव न भवतीत्यर्थः ॥ १८ ॥
एवं तावन्मोक्षधर्मानुपदिश्य भ्रातृशुश्रूषालक्षणं धर्मं स्पर्द्धादिनिवृत्तये तेषां जन्मकथनपूर्वकमाह द्वाभ्याम् । ममेदं शरीरं दुर्विभाव्यमितरसजातीयत्वेन विभावयितुमशक्यमित्यर्थः । कुतः हि यस्मात् सत्त्वं मे हृदयं हृद्यं सत्त्वप्रचुरं ममेदं शरीरं रजस्तमःप्रचुरमिति सजातीयत्वेन दुर्विभाव्यमित्यर्थः । किन्तत्सत्त्वं यद्धृदयं म इत्युक्तं तत्राह । यत्र सत्त्वे धर्मः अग्रे कृतः यत्र चाधर्म आरात् दूरात् पृष्ठे कृतः, भागवतधर्मरोचकं प्रवृत्तिधर्मारोचकं यत्तत्सत्त्वमित्यर्थः । यतः सत्त्वप्रचुरं मच्छरीरमतो मामार्या ऋषभं श्रेष्ठं प्राहुः ॥ १९ ॥
हृदयेन सत्त्वप्रधान हृदयेनोपलक्षिताः तस्मात् मच्छरीराज्जाताः भवन्तः सर्वे सत्त्वप्रचुराः, अतः सनाभं सोदरं महीयांसं भवतां पूज्यममुं भरतमक्लिष्टबुद्ध्या निष्कपटभावेन भजध्वम् । ननु त्वत्पुत्रत्वात्वां वयं भजेम राजपुत्रत्वाच्च प्रजाश्च पालयाम इति तत्राह । तदेव मे शुश्रूषणं प्रजानां च पालनं भरतभजनेनैव तदुभयं कृतं स्यादिति भावः ॥ २० ॥
- श्रीमद्विजयध्वजतीर्थकृत्ता पदरतावली आि
- तह्य मूढो वेत्तीत्यायातं तदस्तु ततः किं तत्राह कस्तमिति । स्वयं तदभिज्ञः प्रवृत्तिधर्मादनन्तदुःखावाप्तिमभिजानन् । को विपश्चित् ज्ञानी पुरुषः अविद्यायामन्तरे अज्ञाननिमित्तसंसार बिले वर्तमानं कुबुद्धिं तं दृष्ट्वा सघृणो दयालुः पुनरपि तं पुरुषं प्रवृत्तिधर्मे प्रयोजयेत् न प्रयोजयतीत्यर्थः, कथमिव उत्पथगं मार्ग विहाय गच्छन्तमन्धं यथा कुमार्गे न योजयति तथेत्यर्थः ॥ १७ ॥ * * इतोऽपि प्रवृत्तिधर्मस्योपदेष्टृणां गुरुत्वादिकमपि न स्यादित्याह गुरुरिति । समुपेतमृत्युमज्ञानाद- बाप्त संसारं प्रवृत्तिधर्मस्योपदेष्टरि शिष्येण गुर्वादिबुद्धिरपि न कर्तव्येत्यतो वाह गुरुरिति । गुरुरिति पूज्यो न स्यादित्या-एक. ५ म.५ श्लो. १७-२०]
- अनेकव्याख्यासमलङ्कृतम्
- १०९
- पुक्तम् ॥ १८ ॥ अतो गुर्वादिना हरेः स्वरूपमुपदेष्टव्यमित्याशयवानाह इदं शरीरमिति । दुर्विभाव्यं दुर्निरूप्यम् अपरिच्छिन्नत्वादभौतिकत्वात् ज्ञानात्मकत्वाच्च व कुत इत्यत्राह सत्त्वमिति । मे सत्त्वं बलं ज्ञानसमाहारलक्षणं वस्तुहृदयं हि यस्मात्तस्मात् ज्ञानपूर्वमनुष्ठित एव धर्मः न त्वन्य इत्यभिप्रेत्याह यत्रेति । यत्र यस्मिन् ज्ञानात्मके हृदये धर्मः स्थितः । अनेन ज्ञानपूर्वानुष्ठितो धर्मः नित्यफलप्रद इत्युक्तं भवति प्रसङ्गादधर्मस्थानमाह पृष्ठ इति । मे पृष्ठे भूत्वा अधर्म आरात्कृतो दूरीकृत इति
- । यद्यस्मात्तस्माज्ज्ञानरूपत्वाद्धर्मादिस्थितिहेतुत्वाच्च ऋषभमाहुः ज्ञानपूर्वकमनुष्ठितं धर्मं हृदये बिभतींति के आर्याः शब्दतत्त्वार्थवेदिन इति ॥ १९ ॥ * * उक्तार्थमुपसंहरन्नेषां योग्यगुणविशिष्टं हरिमुपदिशति तस्मादिति । भवन्तः सर्वे मम हृदयेन जाता इति यस्मात्तस्माद्यूयं महीयांसं महतोऽपि महान्तं भरतं प्रजाभरणरतं सुनाभं सर्वाधारं हरिमक्लिष्टबुद्धया भजध्वं “नाभिरित्यथ नाम स्याद्धरेः सर्वाश्रयो यतः” इति वचनाद्धरेरिदं यौगिकं नाम अनेन भरतो येषां पूज्य इति ध्वनयति भवच्छुश्रूषणेन भवत्प्रीत्या मुक्तिः करतलगता स्यात् ज्येष्ठानुवर्तनशुश्रूषणलक्षणेन किमित्याशङ्क्य भवद्भिरनुवर्तितेन भरतेन यत्प्रजानां भरणं तत्रस्थस्य मम शुश्रूषणं भवतीत्याह शुश्रूषणमिति । ज्येष्ठानुवृत्त्या राष्ट्रभेदाभावेन भवद्भिरपि प्रजाभरणमनुष्ठितमिति । अतो भरतं शुश्रूषद्भिर्भव- द्भिरपि मम शुश्रूषणं कृतमिति ज्ञातव्यम् ॥ २० ॥
- श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः
- क
- व्यावहारिकगुर्वादिपरित्यागेऽपि परमार्थपथिकानां न दोष इत्याह । गुरुर्न स स्यादित्ति टीकायां पुत्रोत्पत्तौ यत्नो न कार्य इत्यत्र तेनेति शेषः, यत्नं न कुर्य्यादित्यादिकं तु वक्तव्यं कर्तृप्रधानेनैव विवक्षितत्वात् ।। १८ ।। * आवेशावतारतया प्रतीतस्य श्री ऋषभदेवस्यापि विग्रह एवं युज्यते । इदं शरीरमिति । इदं मनुष्याकारं मम शरीरं हि निश्चितं दुर्विभाव्यं दुर्वितक्यं यत्तत्त्वं तदेव यत्रैव धम्र्मो भागवतलक्षणः तत्रैव मे हृदयं मनः यद्यस्मात्तद्विपरीतादिलक्षणो धम्र्मो मया पृष्ठे कृतः ततः पराङ्मुखोऽहमित्यर्थः । अत एव वक्तुरस्य श्रीऋषभदेवस्य सव्र्वान्तिमलीलापि व्याजेनान्तर्धापनमेव प्राकृतलोकप्रतीत्यनुसारेणैव तु तथा वर्णितम् आत्मारामतारीतिर्दर्शनार्था, तदुक्तं योगिनां साम्परायविधिमनुशिक्षयन्निति । अतः स्वकलेवरं जिहासुरित्यत्र कलेवरशब्दस्य प्रपञ्च एवार्थः उपासनाशास्त्रे तस्य तथा प्रसिद्धेः ।। १९ ।। * * ननु जायात्मजरातिमत्सु न प्रीतियुक्ता इत्यनेन स्वसम्बन्धिभक्तिः परित्याजितैव पुनः कथमुपदिश्यते तवाह महीयांसमिति । महत्सङ्गं द्वोरमाहुरित्यादिना तेषां महतां सङ्ग उपदिष्टः तेषामपि मध्ये श्रेष्ठमित्यर्थः, अत एवालिष्टबुद्धया सुखमेव मत्वेत्यर्थः ॥ २० ॥
- श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- RIPE REF
- श
- तमेतादृशं कुबुद्धिं दृष्ट्वा तत्रैव करतं प्रवर्तयेत् न कोऽपि उत्पथेन गच्छन्तमन्धं कः खलु तेनैव गच्छेति वदेत् ॥ १७ ।। * * एवं भक्तेरुपदेष्टारमभिनन्द्य तदनुपदेष्टृणां गुरुत्वबन्धुत्वाद्यभावं तद्धेतुकं तेषां त्यागं चाभिव्यञ्जयति । समुपेतः सम्प्राप्तो मृत्युः संसारो येन तं जनं भक्तिमार्गोपदशेन यो न मोचयेत् स गुर्व्वादिर्न भवेत् न भवति बलिः शुक्रमिव तं गुरुं त्यजेदेव तस्य प्रणत्यनुवृत्त्याद्यभावेऽपि न प्रत्यवायी स्यादिति भावः । एवं विभीषणो रावणमिव तं स्वजनं प्रह्लादो हिरण्यकशिपुमिव तं पितरं श्रीभरतः कैकेयीमिव तां जननीं खट्वाङ्ग इन्द्रादिमिव तथैव याज्ञिकब्राह्मणी याज्ञिकविप्रमिव तं पतिं त्यजेदेवेत्यर्थः यद्वा स्यादिति विधिलिङा यस्तं मोचयितुं न शक्नुयात् स तस्य गुर्वादिनं स्यात् प्रणत्यनुवृत्त्यादिकं न गृह्णीयाद्यदि गृह्णीयात्तर्हि प्रत्यवायी स्यादिति । तेन च यदि मोचयितुं न शक्नुयात् तर्हि गुरुभवितुमन्यं न शिष्यं कुर्यात् स्वजनो भवितुं बन्धुतां न दध्यात् पिता भवितुं पुत्रोत्पत्तौ न यतेत जननी भवितुमन्यं गर्भे न दध्यात् दैवं भवितुं पूजां न गृह्णीयात् । पतिर्भवितुं पाणि न गृह्णीयादिति द्योतितम् ।। १८ ।। * * यस्य भक्तिः कर्त्तव्या स क भगवांस्तथा भक्तिप्राप्त्यर्थं भागवतसेवा चापेक्षणीयेति क वा स भागवत इति युष्माकमल्पोऽपि प्रयासो नास्ति यतो गृह एव भगवानहं वः पिता तथैव गृह एव भागवतोऽयं वो भ्राता वर्त्तत इत्याह इदमिति द्वाभ्याम् । इदं शरीरमिति इदं मनुष्याकारं शरीरं हि निश्चितं दुर्विभाव्यं दुर्वितयं यत्तत्त्वं चिदानन्दरूपं तदेव नत्वहं प्राकृतो मनुष्य इत्यर्थः । चिद्वस्तुनस्तत्त्वस्य यन्मूर्त्तत्वम् एतदेव दुर्विभाव्यत्वम्, अन्येषां पृथिव्यादीनां तत्त्वानां दुर्विभाव्यत्वाभावादिति भावः, हि निश्चितं यत्र मे धर्मः मत्प्रापको भक्तियोगस्तत्रैव मे हृदयं मनः “साधवो हृदयं मह्यम्” इति मदुक्तः, मे अधर्मः मद्धर्मभिन्नोऽर्थः आराद् दूरत एव कृतः पराङ्मुखोऽहं तत्र मे न मन इत्यर्थः । अतो हेतोर्मामृषभं सर्वश्रेष्ठम् ॥ १९ ॥ हृदयेन उरसा जाताः अत एब पुत्रा औरसा उच्यन्ते इत्यर्थः । सनाभं सोदरं भरतं भजध्वं ननु गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता इत्यनेन कलत्रपुत्र भ्रात्रा- दिष्वासक्तिं निषिद्धद्यापि पुनस्तां किमित्युपदिशसीत्यत आह । महीयांसं महत्स्वपि श्रेष्ठं महत्सेवां द्वारमाहुर्विमुक्तेरित्यादिना भक्तिहेतुत्वेन महत्सेवाया मयैवोक्तत्वात्, अक्लिष्टबुद्धयेति भ्रातृत्वेन तुल्यैरस्माभिः कथमयं भजनीय इति व्यवहारदृष्टिर्न कार्येति भावः । ननु तव परमेश्वरत्वात् पितृत्वाच्च त्वां वयं भजामः भक्तिहेतुत्वेन नारदादीन् महतः सेवेमहि महाराजपुत्रत्वात् प्रजाश्च पालयाम इति चेत्तत्राह । तदेव मे शुश्रूषणं प्रजानां च पालनं भरतानुवृत्त्यैव सर्वं कृतं स्यादिति मन्मत- मिति भावः ॥
- ॥२०॥ Ei
- ११०
- श्रीमद्भागवतम्
- श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
- [स्क. ५.५ श्लो. १७-२०
- अथ यः यं जीवं भगवत्प्राप्तिमार्गोपदेशादिना संसारान्मोचयितुं न शक्नुयात् स तं जीवं शिष्यादिकं न कुर्यादित्याह । यः समुपेतमृत्युं समुपेतः संप्राप्तः मृत्युः संसारो यं यद्यदि संसारान्न मोचयेत् स गुरुर्न स्यात् शिष्यं न कुर्यात् एवमग्रेऽपि बोध्यम् ॥ १८ ॥ * * अथ भरतानुवृत्तिर्ब्राह्मणभक्तिः सर्वभूतेषु वासुदेवदृष्टिश्च भवद्भिः कर्त्तव्या दुर्लङ्घयशासनस्येश्वरस्य ममाज्ञयेति पुत्रशिक्षार्थं स्वस्येश्वरस्येश्वरत्वमाह । न तु स्वमाहात्म्यसूचनार्थमिदमिति । इदं मम शरीरं तावद्दुर्विभाव्यं दुर्ज्ञेयं मम स्वरूपस्य तु का कथा मे हृदयमन्तःकरणश्च तत्त्वं शुद्धं यथार्थव्यवहारनिष्ठमित्यर्थः । यत्र धर्मो वसतीति शेषः । यद्येन मे मम हृदयेन अधर्मः दूरात्पृष्ठे कृतः अतो मामृषभं श्रेष्ठ प्राहुः ॥ १९ ॥ हृदयेनोक्तलक्षणेन तस्मादुक्तलक्षणाच्छरीरा-
- *
- जाताः ।। २०-२१ ॥
- -· गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी तमविद्यायामन्तरे वर्त्तमानं मायामोहितं अत एव कुबुद्धिं परद्रोहोपार्जितविषयेण स्वसुखमिच्छन्तं दृष्ट्वा पुनस्तं तत्रैव लौकिका लौकिकाम्यकर्मसु कः प्रयोजयेत् ? न कोऽपीत्यन्वयः । ननु लोके बहवः प्रयोजका दृश्यन्ते इत्याशङ्कयाह - स्वयमिति । एवं तुच्छसुखहेतोः परपीडानृतभाषणादेरनन्तं दुःखं भवतीति स्वयं जानन्नित्यर्थः । तथा च ते प्रयोजका अपि तादृशा अज्ञा एवातो न प्रयोजकत्वं दुर्घटमिति भावः । ननु बहवः पण्डिता अपि प्रयोजका दृश्यन्ते इत्याशङ्कयाह - विपश्चिदिति, विवेकीत्यर्थः । लोके पण्डितत्वेन प्रसिद्धा अपि पूर्णविवेकवैराग्याद्यभावेन तत्त्यक्तुमशक्ताः, अतः स्वप्रतिष्ठार्थं स्वदोषं लोपयितुमन्यानपि तत्र प्रवर्त्तयन्तीति तद्दोषभागित्वान्न ते विवेकिन इति भावः । ननु कचिद्विवेकिनोऽप्यन्यथोपदेष्टारो दृश्यन्ते यथा भगवदवतारोऽपि बुद्धोऽसुरानन्यथो- पदिष्टवान्नित्याशङ्क्याह सघृण इति । भगवतस्तत्र घृणाभावात् । एवमन्योऽपि कश्चिद्विवेक्यभिप्रायान्तरेण प्रवर्त्तयेत्तत्र तथास्तु सघृणो विवेकी चेत्तदा कथं प्रवर्त्तयेदिति भावः । तत्र दृष्टान्तमाह-उत्पथगमिति, यथा उत्पथगं गर्त्तमार्गे गच्छन्तमन्धं सघृणो विवेकी को वाऽनेनैव गच्छेति प्रवर्त्तयेत्तथेत्यर्थः ॥ १७ ॥ * * ननु लोके पित्रादयो भवदुक्तं तत्त्वं नोपदिशन्ति प्रत्युत धनार्ज नादिकाम्यकर्मस्वेव प्रवर्त्तयन्ति तत्र किं कर्तव्यमित्यपेक्षायां भगवद्विमुखास्ते त्याज्या एव । तद्वचनं नाङ्गीकर्तव्यमित्याह-गुरु- रिति । समुपेतः सम्प्राप्तो मृत्युः जन्ममरणादिलक्षणः संसारो येन तं भक्तिमार्गोपदेशेन ततो यो न मोचयेत् स गुर्वादिर्न स्यात् गुर्वादिरूपेण न मन्तव्य इत्यर्थः । तत्र यथा- ‘गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते’ इति स्मृतेः । बलिना वामनाय मही न देयेति वदतः शुक्रस्य वाक्यं नाङ्गीकृतम्, पितुर्हिरण्यकशिपोर्गुर्वोश्च शण्डामर्कयोर्वाक्यं प्रह्लादेन नाङ्गीकृतम्, जनन्याः कैकेय्या राज्याङ्गीकारविषयकं वाक्यं भरतेन नाङ्गीकृतम्, देवतानां वाक्यं वरविषयकं खट्वाङ्गेन नाङ्गीकृतम्, स्वजनानां वाक्यं बहुभिर्मुमुक्षुभिगृहस्थितिविषयकं नाङ्गीकृतमिति ज्ञेयम् ॥ १८ ॥ * * एवं मोक्षधर्मानु- पदिश्य भ्रातृभजनं विधातुं प्रथमं स्वस्वरूपमाह - इदमिति । इदं मनुष्याकारं मम शरीरं दुर्विभाव्यमवितर्क्यं स्वेच्छया गृहीतं, न तु प्राकृतपुरुषवत्कर्माधीनम् । हि यस्मात्तत्त्वं परमार्थभूतं सच्चिदानन्दात्मकमेव मे हृदयम्, यत्र मम हृदये धर्मस्तिष्ठति । यत् यस्मात् मे मया अधर्म आरात् दूरादेव पृष्ठे कृत उत्सारितः । अत एव आर्याः वृद्धाः पित्रादयो मामृषभं श्रेष्ठं प्राहुः ॥ १९ ॥ * * भ्रातृभक्ति विधत्ते तस्मादिति । तस्मात् मम सर्वश्रेष्ठत्वाद्भवन्तश्च सर्वे मम हृदयेन धर्मस्थानेन जाताः शुद्धान्तः- करणाः, अतः अक्लिष्टबुद्धया शुद्धबुद्धया मत्सरादिदोषं हित्वा सनाभं सोदरममुं भरतं भजध्वम् । अन्यान् हित्वा भरतभजनस्यैव विधाने हेतुं सूचयन्विशिनष्टि — महीयांसमिति, सद्गुणैर्महत्तममित्यर्थः । ननु सर्वथा भरतभजनपरतायां प्रजापालने शक्यता न स्यादित्याशङ्कयाह — शुश्रूषणमिति, ज्येष्ठत्वेन राजासने स्थितस्य भरतस्य शुश्रूषणमेव प्रजानां भरणं पालनम्, भरतानुगुणतयैव प्रजा- पालनं कर्त्तव्यं न स्वातन्त्र्येणेति भावः ॥ २० ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी कस्तमिति । एवं अविद्यायां अन्तरे, वर्त्तमानं तं श्रेयसि नष्टदृष्टिं पुरुषं दृष्ट्वा, स्वयं तदभिज्ञः श्रेयस्तत्साधनाभिज्ञः, अत एव, विपश्चित् हेयोपादेयविभागज्ञः सघृणो दयालुः, स्याच्चेत् कः पुमान्, कुबुद्धि तं पुरुषं, उत्पथगं कुमार्गगामिनं, अन्धं यथा, तथा, तत्र कर्मणि, पुनः प्रयोजयेत् अपि तु नैव प्रयोजयेदिति । स सुहृत्कुबुद्धिमिति पाठे यः प्रयोजकः, स सुहृच्चेन्न प्रयोजयेच्छत्रु- श्वेत्प्रयोजयेदित्यर्थः ॥ १७ ॥ * * दृष्टान्तपूर्वमुक्तार्थमेव प्रकारान्तरेणाह गुरुरिति । यः समुपेतः । संप्राप्तः संप्राप्तः मृत्युः संसारो येन तं पुमांसं न मोचयेत्, योगोपदेशेन संसाराद्विमुक्तं न कुर्यादित्यर्थः । सः गुरुः न स्यात् । सः स्वजनः न स्यात् । सः पिता न स्यात् । सा जननी, न स्यात् । तत् देव देवता न स्यात् । सः पतिः न स्यात् । यद्वा यः तं मोचयितुं न शक्नुयात्, अतः गुर्वादिर्न स्यात् । तेन गुरुणा न भाव्यम् । तेन स्वजनेन न भाव्यम् । तेन पित्रा न भाव्यम् । तया जनन्या न भाव्यम् । तेन दैवेन न भाव्यम् । तेन पतिना न भाव्यम् । गुरुणा शिष्यविधाने, स्वजनेन स्वजनताविधाने, पित्रा पुत्रोत्पत्तौ, जनन्या प्रजाप्रसूती, एकं ५ अ. ५ श्लो. २१-२४ ] अनेकव्याख्या समलङ्कृतम् १११ देवेन पूजा ग्रहणे यत्नो न कार्य इत्यर्थः ॥ १८ ॥ * * एवं तावन्मोक्षधर्मानुपदिश्य भ्रातृशुश्रूषालक्षणं धर्म स्पर्द्धादिनिवृत्तये तेषां जन्मकथनपूर्वकमाह द्वाभ्याम् इदमिति । मम सत्त्वं शुद्धसत्वात्मकं, इदं मनुष्यसमा नाकारतया प्रतीयमानं शरीरं, दुर्वि- भाव्यम् । इतरसजातीयत्वेन विभावयितुमशक्यमित्यर्थः । कुतः । हि यस्मात् मे मम शुद्धसत्त्वात्मकं शरीरमिति शेषः । हृदयं हृद्यं, शुद्धसत्त्वप्रचुरं ममेदं शरीरमितरशरीरवद्रजस्तमः प्रचुरतया रजस्तमोऽभिभूतसत्त्वप्रचुरतया चासंभाव्यत्वात् । दुराकलनीयमस्तीति विभाव्यमित्यर्थः । यत्र शुद्धसत्त्वात्मके मच्छरीरे धर्मः जगद्धारको वृषः, तिष्ठति । स मयाऽग्रे कृतोऽस्तीति शेषः अधर्मः यत्, योऽयमधर्मोऽस्ति, सत्वित्यर्थः । मे मया पृष्ठे कृतः, तत्रापि आरादतिदूरे एवोत्सारितोऽस्तीत्यर्थः । हि यतः, सत्त्वप्रचुरं मच्छरीर- मस्त्यतः, मां आर्याः, ऋषभं प्राहुः । सर्वश्रेष्ठं वदन्तीत्यर्थः ॥ १९ ॥ तस्मादिति । भवन्तः हृदयेन जाता उक्तविध- मच्छरीरत उत्पन्नाः । तस्मात् सर्वेऽपि, सनाभं सोदरं, महीयांसं भवतां पूज्यं, अमुं भरतं, अक्लिष्टबुद्धया निष्कपटभावेन, भजध्वम् । ननु त्वत्पुत्रत्वात्त्वां वयं भजेम राजपुत्रत्वात्प्रजाश्च पाल्याम इति चेत्तत्राह । तदेव भरतभजनमेव, मे शुश्रूषणं, प्रजानां भरणं पालनं च, भरतभजनेनैव सर्व कृतं स्यादिति भावः ॥ २० ॥ । भाषानुवादः
गढ़में गिरनेके लिये उलटे रास्ते से जाते हुए अंधे मनुष्यको जैसे आँखवाला पुरुष उधर नहीं जाने देता, वैसे ही अज्ञानी मनुष्यको अविद्या में फँसकर दुःखोंकी ओर जाते देखकर कौन ऐसा दयालु और ज्ञानी पुरुष होगा, जो जान-बूझकर भी उसे उसी राहपर जाने दे, या जानेके लिये प्रेरणा करे ॥ १७ ॥ जो अपने प्रिय सम्बन्धीको भगवद्भक्तिका उपदेश देकर मृत्युकी फाँसीसे नहीं छुड़ाता, वह गुरु गुरु नहीं है, स्वजन स्वजन नहीं है पिता पिता नहीं है, माता माता नहीं हैं, इष्टदेव इष्टदेव नहीं है और पति पति नहीं है ॥ १८ ॥ मेरे इस अवतार शरीरका रहस्य साधारण जनोंके लिये बुद्धिगम्य नहीं है। शुद्ध सत्त्व ही मेरा हृदय है और उसीमें धर्मकी स्थिति है, मैने अधर्मको अपनेसे बहुत दूर पीछेकी ओर ढकेल दिया है, इसीसे सत्पुरुष मुझे ‘ऋषभ’ कहते हैं ॥ १९ ॥ तुम सब मेरे उस शुद्ध सत्त्वमय हृदयसे उत्पन्न हुए हो, इसलिये मत्सर छोड़कर अपने बड़े भाई भरतकी सेवा करो । उसकी सेवा करना मेरी ही सेवा करना है और यही तुम्हारा प्रजापालन भी है ॥ २० ॥ * * । ४ ॥ भूतेषु वीरुदुद्भ्य वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोध’निष्ठाः । ततो मनुष्याः प्रथमास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ।। २१ ।। देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् । भवः परः सोऽथ विरिश्ववीर्यः स मत्परोऽहं द्विजदेवदेवः ॥ २३ ॥ न ब्राह्मणैस्तुलये भूतमन्यत् पश्यामि विप्राः किमतः परं तु । यस्मिन्नभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे ।। २३ ।। धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च पवित्रम् । यत्र ॥ २४ ॥ अन्वयः - भूतेषु वीरुद्भयः ये सरीसृपाः तेषु सबोधनिष्ठाः ततः मनुष्याः ततः प्रथमाः गंधर्वसिद्धाः विबुधानुगाः उदुत्तमाः ।। २१ ।। * असुरेभ्यः मघवत्प्रधानाः देवाः तेषाम् तु ब्रह्मसुताः दक्षादयः सः विरिचवीर्यः भवः परः अथ सः मत्परः अहम् द्विजदेवदेवः ।। २२ ।। * * विप्राः ! ब्राह्मणैः अन्यत् भूतम् न तुलये तु अतः परम् किम् पश्यामि नृभिः यस्मिन् श्रद्धा प्रहुतम् अहम् कामम् अश्नामि तथा अग्निहोत्रे न ॥ २३ ॥
- येन येन ॥ यत्र परमम् पवित्रम् सत्त्वम् शमः दमः सत्यम् अनुग्रहः तपः तितिक्षा अनुभवः च ।। २ इह मे उशती पुराणी तनूः धृता च श्रीधर स्वामिविरचिता भावार्थदीपिका इदानीं ब्राह्मणाश्च सेव्या इत्याशयेन तेषां सर्वेभ्यः श्रेष्ठ्यमाह पश्चभिः । भूतेषु चेतनाचेतनेषु । विरोहन्तीति वीरुधः स्थावरा यदुच्चैरतिशयेनोत्तमाः तेभ्योऽपि ये सरीसृपाः सर्पन्तीति जंगमास्ते उदुत्तमा इति सर्वत्रानुषंगः । तेष्वपि सबोधा निष्ठा स्थितिर्येषां पश्वादीनां ते कीटकादिभ्यः । ततस्तेष्वपि मनुष्याः । ततोऽपि प्रमथा भूतप्रेतादयः । ततोऽपि गन्धर्वाः । ततः सिद्धाः । ततोऽन्ये विबुधानुगाः किन्नरादयः ।। २१ ।। * * तेभ्योऽसुराः । देवा असुरेभ्यः । सन्धिरार्षः । देवाश्च मघवत्प्रधानाः । १. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - । ।
११२ श्रीमद्भागवतम् [ स्कं. ५ अ. ५ लो. २१-२४ देवेभ्य इन्द्रः श्रेष्ठ इत्यर्थः । ततोऽपि ब्रह्मसुता दक्षादयः । तेषां मध्ये भवः परः श्रेष्ठः । स भवो विरिवकीर्यो विरिवो वीर्य शक्तिः कारणं यस्य स विरिञ्चवीर्यः अतस्तज्जनकत्वाद्विरिवस्ततः पर इत्यर्थः । स विरिवो मत्परः अहं परो यस्य । द्विजदेवाः ब्राह्मणा एव देवाः पूज्या यस्य सोऽहम् ॥ २२ ॥ ब्राह्मणैरन्यद्भूतं न तुलये समं न पश्यामि । अतो ब्राह्मणात्परं तु भूतं किं पश्यामि न किंचित् । विप्रा इति तत्रत्यानां ब्राह्मणानां सम्बोधनम् । समस्यैवाभावादधिकं कुतस्त्यमित्यर्थः । तत्र हेतूनाह सार्धाभ्याम् । यस्मिन् ब्राह्मणे श्रद्धया प्रकर्षेण हुतमन्नादि कामं यथेच्छमहमश्नामि ॥ २३ ॥ * * मे तनूर्मूर्तिर्वेदाख्या येन ब्राह्मणेनेह लोके धृता यत्र च ब्राह्मणे सत्वादयोऽष्टौ गुणाः सन्ति ततः परं किं पश्यामीत्यन्वयः ॥ २४ ॥ | डीएफ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः तेष्वपि जंगमेष्वपि । ततस्तदनु । तेषु पशुष्वपि । भूतादयो रुद्रगणत्वात । गन्धर्वा देवगायकत्वात् सिद्धा देवकार्य- साधकत्वात् । किन्नरादयोऽद्भुतमूर्त्तित्वात् ॥ २१ ॥ * * तेभ्यः किन्नरादिभ्यः । असुरास्तपोनिष्ठतया ब्रह्माराधकत्वात् । इत्यर्थ इति । देवराजत्वादिति भावः । अतो विरिञ्चवीर्यत्वात् । इत्यर्थ इति । ततो रुद्राद् ब्रह्मा श्रेष्ठस्तत्पितृत्वादिति भावः । अत्र द्विजेषु दीव्यन्ति तपआदिना द्योतन्ते इति द्विजदेवा विप्रास्त एव देवा देववत्पूजनीया यस्य स तथा मत्तोपि ब्राह्मणाः पूज्या इत्यर्थः ।। २२ ।। * 8 अन्यद्भूतं स्थावरजंगमादिशरीरम् । तत्रत्यानां सभाशालागतानाम् । इत्यर्थ इति । सर्वेश्वरस्यापि मम पूज्यदेवत्वात् " ब्रह्म दैवं परं हि मे” इति सनकादीन्प्रति मदुक्तेरिति भावः । तत्र ब्राह्मणाधिक्ये । यस्मिन्त्राह्मणे इति । ब्राह्मणद्वारैव मत्तृप्तिः स्यान्नान्यथेति “विप्राशितं देवा अश्नन्ति विप्राशितं पितरोऽश्नन्ति विप्राशितं देवदेवो विष्णुरश्नाति " इति श्रुतेः । तत्रापि श्रद्धया पादशौचासनार्चनादिकपूर्वयाऽन्यथा “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते । पार्थ न च तत्प्रेत्य नो इह” इति गीतोक्तेः । कर्मानर्थक्यं स्यादिति ॥ २३ ॥ ननु “ब्राह्मणोऽग्निश्च विष्णोः सर्वदेवात्मनो मुखम्” इत्युक्तेरग्नेरपि तादृक्त्वात्को विशेषो ब्राह्मणे तत्राह - वृतेति । पुराणी अनादिनिधना । परमं पवित्रं सत्त्वं शुद्धं सत्त्वमित्यर्थः । सत्यं यथार्थ भाषणं समदर्शनं वा, अनुग्रहः परदुःखप्रहाणेच्छा, अनुभवो भगवद्रूप- साक्षात्कारः ।। २४ ॥ एन एकश्रीमद्वीरराघवव्याख्या । इदानीं भगवताश्च सेव्या इति वक्तुं तेषां सर्वेभ्यः श्रेष्ठ्यमाह पञ्चभिः । भूतेषु चेतनाचेतनेषु विरोहन्तीति वीरुधः वीरुद्भ्यः ये उत्तमाः सरीसृपा जङ्गमास्तेषु सबोधनिष्ठाः बोधेन सहिता स्थितिर्येषां पश्वादीनां ते कीटादिभ्यः उत्तमाः तेभ्यो मनुष्यास्तेभ्योऽपि प्रथमास्ततो गन्धर्वाः किन्नरादयः ॥ २१ ॥
तेभ्यः असुरास्तेभ्योऽपि मघवत्प्रधाना इन्द्रप्रभृतयो देवाः । देवासुरेभ्य इत्यत्र सन्धिरार्षः । तेभ्योऽपि दक्षादयो ब्रह्मसुताः तेभ्योऽपि भवो रुद्रः परः श्रेष्ठः स भवः विरिञ्चवर्यः विरिञ्चः ब्रह्मा वर्यः श्रेष्ठो यस्मात्तथा भवस्य जनको विरञ्चो भवाच्छ्रेष्ठ इत्यर्थः । विरिञ्चवीर्य इति पाठे विरिञ्चस्य वीर्यं शक्तिः कारणं यद्विरिञ्चवीर्यः तज्जनकत्वाद्विरिञ्चस्ततः पर इत्येवार्थः । स विरिञ्चः मत्परः अहं परो यस्य तथाभूतः । अहं द्विजदेवा ब्राह्मणश्रेष्ठा एव देवा यस्य तथाभूतः । उत्कर्षकाष्ठाभूता द्विजदेवा इति भावः ॥ २२ ॥
तदेवाह नेति । हे विप्राः ! इति तत्रत्यब्राह्मणानां सम्बोधनं ब्राह्मणैरन्यद्भूतं न तुलये सममेव न पश्यामि अतो ब्राह्मणेभ्यः परमुत्कृष्टं भूतं किं पश्यामि न किञ्चित्समस्यैवाभावादधिकं कुत इत्यर्थः । तत्र हेतूनाह सार्द्धेन - यस्मिन् ब्राह्मणाग्नौ श्रद्धया प्रकर्षेण हुतमन्नादिकं कामं यथेच्छमहमश्नामि यथा ब्राह्मणान्तर्यामित्वेनाश्नामि तथाग्निहोत्रे नाश्नामि । अग्निहोत्रशब्दः कर्मनामधेयवैदिककर्मोपलक्षकः । तत्राग्निहोत्रे नाश्नामीत्यर्थः ॥ २३ ॥
किं च तनूशब्दः शमादिगुणपरः वेदपरो वा पुराणी चिरन्तना मे तनूर्मूर्तिर्वेदाख्या येन ब्राह्मणेनेह लोके धृता शमादिगुणपरत्वे तु शमो दम इत्यादिस्तत्प्रपञ्चः यत्र ब्राह्मणे निरतिशयपवित्रं सत्त्वं प्रतिष्ठितमिति शेषः, तथा यत्र ब्राह्मणे शमादयः प्रतिष्ठितास्तत्र शमोऽन्तःकरणनिग्रहः बाह्येन्द्रियनिग्रहो दमः अनृतराहित्यं भूतहितं च सत्यम् अनुग्रहः भूतानुग्रहः तप अनशनादिस्तितिक्षा द्वन्द्वसहिष्णुता अनुभवः स्वात्मपरमात्मयाथात्म्यानुभवः ॥ २४ ॥
TITLE श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली तारतम्यज्ञानमेव मुक्तिसाधनं नान्यदिति भावेन तदाह भूतेष्विति । भूतेषूत्पन्नेषु प्राणिषु मध्ये वीरुद्भ्यः स्तम्बेभ्यो ये सरीसृपा जङ्गमास्त उदुत्तमा उत्कृष्टतमा इति ज्ञेयाः । तेषु सरीसृपेषु ये सुबोधनिष्ठाः ज्ञानयुक्तास्ते पश्वादय उत्तमा इति सर्वत्र योन्यम् ॥ २१ ॥ * * ये दक्षादयो ब्रह्मसुताः सनकादयश्च तेषां सकाशाद्रिन्द्रः प्रधान इत्यर्थः । अथ इन्द्रानन्तरं विरिचवीर्यो विरिपुत्रो यो भवः स रुद्र उत्तमः । स विरिवस्तस्मादुद्रात्परः तस्मादहमेव परो नान्य इत्यत उक्तं मत्पर इति । अहमेव परो यस्य स तथा । अनेन मुख्यप्राणस्य विरिवसमत्वं सूचयति । राजभिर्ब्राह्मणभक्तिविंशेषतोऽनुष्ठेयेति वेदयितुमाह अहं द्विजेति । अनेकव्याख्यासमलङ्कृतम् ११३ स्क. ५ अ. ५ लो. २१-२४ ] द्विजदेवानां देवः ।। २२ ।। क्षत्रादीनामैश्वर्यमदेन ब्राह्मगतिरस्कारसम्भवेन कुलनाशः स्यात्स चानुपपन्न इति तेषु श्रद्धातिशयजननार्थमाह न ब्राह्मगैरिति । ज्ञानपात्रत्वादत्तः विशात्परमुत्तमं मम सन्निधानपात्रं किन्तु न किमपीत्यर्थः । कुत एतदत्राह यस्मिन्निति । सम तृप्तिहेतुत्वादित्यर्थः । नन्वन्यादेः सम्भवात्किं विशिष्योच्यत इति तत्राह न तथेति ॥ २३ ॥ * * अग्न्यादेर्गुणवैशिष्टया दित्याह धृतास्तनूरिति । पवित्रं सत्त्वं शमादिगुणा अनुभवो ज्ञानं च यत्र येषु ब्राह्मणेषु सन्ति ते ब्राह्मणा मे पुराणीरुशती: शुद्धास्तनूर्मत्स्यादिलक्षणा वेदाख्या वा धृता धारयन्तीति येन तस्मात् ब्राह्मणेभ्यः परं न किमपीति भावः । यद्वा येन ब्राह्मणकुलेनापौरुषेयत्वेन निर्मलाः पुराणीः अनादिनिधनाः मे तनुस्तनवो वेदलक्षणा धृता यत्र ब्रह्मकुले सत्त्वादिगुणाः सन्ति तस्मात्परमुत्तमं न किमपीति ।। २४ । श्रीमजीवगोस्वामिकृतः क्रमसन्द भूतेष्वित्यादिकमुत्तरोत्तरशक्तिभैष्ठयात् द्विजदेवतानान्तु खादरणीयत्वाच्छ्रेष्ठयं विवक्षितं तच खोपकारित्वमननेन तथैवाह यस्मिन्निति । तद्द्वारैव मम तृप्तिः स्यादित्यर्थः ।। २१-२३ ।। सा च कुतस्तत्राह । धृतेति । तद्द्वारेणैव कारणं सत्त्वमिति । सत्त्वमन्तः करणं पवित्रं विशुद्धमनुग्रहो भूतदया तपः स्वधर्मः, अनुभवः श्रीभगवतः ।। २४ ।। ि । श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । T इदानीं ब्राह्मणाश्च सेव्या इत्याशयेन तेषां सर्वेभ्यः श्रेष्ठयमाह चतुर्भिः । भूतेषु मध्ये विरोहन्तीति वीरुधः स्थावरा उत्तमा उच्चैरतिशयेनोत्तमाः तेभ्योऽपि सर्पन्तीति सरीसृपा जङ्गमाः तेष्वपि सबोधनिष्ठा स्थितिर्येषां ते पश्वादयः विबुधानुगाः किन्नरादयः तेभ्योऽसुरा देवाः असुरेभ्यः । सन्धिरार्षः । देवाश्च सघवत्प्रधानाः देवेभ्य इन्द्रः श्रेष्ठ इत्यर्थः । ततः इन्द्रादपि ब्रह्मसुता दक्षादयः तेषां मध्ये भवः परः श्रेष्ठः स च विरिनवीर्यः ब्रह्मपुत्रः पुंस्त्वमार्ष तज्जनकत्वात्ततो ब्रह्मा श्रेष्ठ इत्यर्थः । अत्र ब्राह्मणभक्तेः प्रक्रान्तत्वात् ब्राह्मण्येनैवांशेन भवाद्विरिवस्य श्रेष्ठयं वैष्णवतया ऐश्वर्येण च भवस्यैव तस्मात् श्रेष्ठयमिति ज्ञेयम् । स ब्रह्मा मत्परः अहं परो यस्येति ब्रह्मतोऽप्यहं श्रेष्ठ इत्यर्थः । द्विजेषु दीव्यन्तीति द्विजदेवा विप्रा एवं देवा यस्य सः मत्तोऽपि पूज्या ब्राह्मणा इत्यर्थः ।। २१-२२ ४ ४ ब्राह्मणैरन्यद् भूतं न तुलये हे विप्राः ! अतो ब्राह्मणेभ्यः परं किं पश्यामि नैव पश्यामीत्यर्थः । तत्र हेतुमाह । यस्मिन्निति सार्द्धेन ॥ २३ ॥ * * मम तनूर्वेदाख्या येन इह लोके घृता यत्र च ब्राह्मणे सत्त्वादयोऽष्टौ गुणाः सन्ति ततः परं किं पश्यामीत्यन्वयः ।। २४ ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ब्राह्मणैरन्यद्भूतं न तुलये द्विजदेवा देवा यस्य सः तथा ॥ २२ ॥
। समं न गणयामि । अतो ब्राह्मणात् यस्मिन् ब्राह्मणे ॥ २३ ॥ परं श्रेष्ठं तु अन्यद्भूतं किं पश्यामि न किञ्चित् । हे विप्रा इति तत्रत्यानां मुनीनां सम्बोधनं येन ब्राह्मणेन मे तनूर्मूर्तिः वेदरूपा इह लोके धृता यत्र ब्राह्मणे सत्वादयो गुणाः सन्तिः ततः परं किं पश्यामीत्यनुषङ्गः ।। २४ ।। | < गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी एवं भरतभक्तिं विधाय ब्राह्मणानां सर्वेभ्यः श्रेष्ठ्यनिरूपणपूर्वकं तद्भक्ति विधत्ते भूतेष्विति पञ्चभिः । भूतेषु चेतना- चेतनेषु मध्ये विरोहन्तीति वीरुधः वृक्षादयस्ते मृत्पाषाणादिभ्य उत् उच्चैः अतिशयेनोत्तमाः, तेभ्योऽपि ये सरीसृपाः जङ्गमास्ते उदुत्तमा इति सर्वत्र सम्बन्धः । तेष्वपि संबोधा निष्ठा स्थितिर्येषां प्रश्वादीनां ते कीटादिभ्य उदुत्तमाः । ततस्तेष्वपि मनुष्या उदुत्तमाः । ततोऽपि प्रमथा भूतप्रेतादयो देवयोनित्वादुत्तमाः । ततोऽपि गन्धर्वाः, ततः सिद्धाः, ततोऽन्ये विबुधानुगा ये किन्नरा- दयस्ते उत्तमाः ॥ २१ ॥ * तेभ्योऽसुराः उत्तमाः, असुरेभ्यो देवा उत्तमाः । अत्र सन्धिरार्षः । देवाश्च मघवत्प्रधानाः मघवानिन्द्रः प्रधानः उत्तमः येषां ते, देवेभ्य इन्द्र उत्तम इत्यर्थः । ततोऽपि ब्रह्मसुता दक्षादय उत्तमाः । तेषां ब्रह्मपुत्राणां मध्ये तु भवो महादेवः परः श्रेष्ठः । स भवो विरिवो वीर्य कारणं यस्य स विरिश्वबीर्यः, तज्ज्ञनकत्वा ततो विरिवः श्रेष्ठ इत्यर्थः । स विरिवो मत्परः अहं परः श्रेष्ठः पूज्यो यस्य सः, ततोऽहं श्रेष्ठ इत्यर्थः । अहं च द्विजदेवदेवः द्विजेषु देवाः पूज्याः द्विज- देवाः ब्राह्मणा एव देवा यस्य सः, मम पूज्यत्वाद् ब्राह्मणा मत्तोऽपि श्रेष्ठा इत्यर्थः ॥ २२ ॥ ब्राह्मणैरन्यद्भूतं न तुलये ॥ * तुल्यमेव न गणयामि । अतो ब्राह्मणात् परं भूतं किं पश्यामि ? न किञ्चित् । चकारस्तुशब्दार्थे । तत्रत्यानां ब्राह्मणानां सन्तोषार्थं हे विप्रा इति सम्बोधनम् । ब्राह्मणानां श्रेष्ठत्वादेव तेषां सेवया मम महान् सन्तोष इत्याह यस्मिन्निति । रहस्यज्ञैर्नृभिर्यस्मिन् ब्राह्मणमुखे श्रद्धया प्रहुतं भोजितमन्नादिकमहं यथाकामं यथेष्टं सन्तोषपूर्वकमश्नामि तथाऽग्रिहोत्रे यज्ञादौ प्रहुतं नानामीत्य- न्वयः ।। २३ ।। * * ननु के त एवं श्रेष्ठा ब्राह्मणाः येषां सेवया भवान् परमेश्वरस्तुष्यति, कथं वा तेषां श्रेष्ठत्वमित्यपेक्षायां तेषां श्रेष्ठत्वे हेतुं लक्षणत्वेन दर्शयति — धृतेति द्वाभ्याम् । इह प्राणिसमुदायमध्ये येन पुराणी चिरन्तनी उशती सर्वोपकारित्वेन अति- १५ જી श्रीमद्भागवतम् [ स्कं. ५ अ ५ श्लो. २५-३० कमनीया वेदाख्या मे तनूः मूर्तिः अध्ययनादिना धृता, यत्र च सत्त्वादयोऽष्टौ गुणाः सन्ति, स श्रेष्ठो ब्राह्मणो ज्ञेयः । सत्त्वं गुणः तस्य ज्ञानहेतुत्वात् ज्ञानस्य सर्वकर्मदोषनिवर्त्तकत्वात् पवित्रत्वम् । अत एव रजस्तमोभ्यां परमत्वं श्रेष्ठत्वम् । शमोऽन्तःकरण- निग्रहः । दमो बाह्येन्द्रियनिग्रहः । सत्यं यथार्थभाषणम् । अनुग्रहः परदुःखनिवृत्तिप्रयत्नः । तपः आहारादिनियमः । तितिक्षा त्रिविधतापसहनम् । अनुभवो वेदार्थज्ञानं भगवद्वधानं च ।। २४ ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी इदानी भागवता ब्राह्मणाश्र सेव्या इत्याशयेन तेषां सर्वेभ्यः श्रेष्ठयमाह पञ्चभिः भूतेष्विति । भूतेषु चेतनाचेतनेषु, बिरोहन्तीति वीरुधः स्थावराः अतिशयेन उत् उच्चैः इति उत्तमाः उदतिशयेनोत्तमा उदुत्तमा अतिशयेन श्रेष्ठा इत्यर्थः । ताभ्यो बीरुद्धयः, ये अतिशयेन सर्पन्तीति सरीसृपाः जङ्गमाः । ते उदुत्तमाः इति सर्वत्रानुषञ्जनीयम्। तेष्वपि, सबोधनिष्ठाः सबोधा संज्ञाना निष्ठा स्थितिर्येषां पश्वादीनां ते, कीटादिभ्य उदुत्तमाः, ततः मनुष्याः, तेभ्यो मनुष्येभ्योऽपि, प्रमथाः । ततः गन्धर्वसिद्धाः प्रमथादिभ्यो गन्धर्वाः श्रेष्ठाः, तेभ्यः श्रेष्ठाः तेभ्यः सिद्धाः श्रेष्ठा इत्यर्थः । ततः ये विबुधानुगाः किंनरादयस्ते श्रेष्ठाः ॥ २१ ॥ देवेति । तेभ्यः किंनरादिभ्यः असुराः श्रेष्ठाः तेभ्योऽसुरेभ्योऽपि मघवत्प्रधाना इन्द्रप्रभृतयः, देवाः । देवासुरेभ्य इत्यत्र संधिरार्षः । तेभ्यो देवेभ्योऽपि, दक्ष आदिर्येषां ते ब्रह्मसुता ब्रह्मणः पुत्राः तेषां मध्ये तु भवो रुद्रः । विरिः वीर्य शक्तिः कारणं यस्य सः तज्जनकत्वाद्विरिवस्ततः पर इत्यर्थः । अक्षादिभ्यः शिवः श्रेष्ठ इत्यर्थः । स भवोऽपि, स far अहं परो यस्येति मत्परः, अह च ।। द्विजदेवाः श्रेष्ठा ब्राह्मणा एव देवाः पूज्या यस्य तथाभूतः, उत्कर्षपराकाष्ठाभूता द्विजदेवा इति भावः ।। २२ ।। * * तदेवाह नेति । हे विप्राः, विप्रा इति तत्रत्यानां ब्राह्मणानां संबोधनम् । ब्राह्मणैः अन्यत् भूतं न तुलये। सममेव न पश्यामि । अतः । ब्राह्मगात् परमधिकं अन्यत् भूतं किं पश्यामि न च नैव पश्यामि । समस्यैवाभावादधिकं कुतः पश्यामीत्यर्थः । तत्र हेतूनाह सार्द्धद्वाभ्याम्। यस्मिन्ब्राह्मणाग्नौ नृभिः, श्रद्धया प्रकर्षेण हुतमन्नादिकं, कामं यथेच्छं यथा अहं अनामि, तथा अग्निहोत्रे न अनामि, यथा ब्राह्मणान्तर्यामितयानामि तथाग्निहोत्रे नानामीत्यर्थः । अग्निहोत्रशब्दो वैदिककर्मोपलक्षकः ॥ २३ ॥ * * धृतेति । उशती शुद्धा कमनीया वा । पुराणी चिरंतना मे मम, तनूर्वेदाख्या मूर्त्तिः, येन ब्राह्मणेन, इह लोके, धृता यत्र ब्राह्मणे, परमं निरतिशयं, पवित्रं सत्त्वं प्रतिष्ठितमिति शेषः । तथा यत्र शमोऽन्तःकरणनिग्रहः, दमो बाह्येन्द्रियनिग्रहः सत्यमनृतराहित्यात्मकं भूत- हितात्मकं च, अनुग्रहो भूतानुग्रहः, तपोऽनशनादिरूपं, तितिक्षा द्वन्द्वसहिष्णुता, अनुभवः स्वात्मपरमात्मयाथात्म्यानुभवश्च, एवमेकं सत्त्वं शमादयः सप्तेत्येतेऽष्टौ गुणा यत्र प्रतिष्ठिताः सन्ति ततः परं किं पश्यामीत्यन्वयः ॥ २४ ॥ भाषानुवादः अन्य सब भूतोंकी अपेक्षा वृक्ष अत्यन्त श्रेष्ठ हैं, उनसे चलनेवाले जीव श्रेष्ठ हैं और उनमें भी कीटादिकी अपेक्षा ज्ञानयुक्त पशु आदि श्रेष्ठ हैं, पशुओं से मनुष्य, मनुष्योंसे प्रमथगण, प्रमथोंसे गन्धर्व, गन्धवसे सिद्ध और सिद्धोंसे देवताओंके अनुयायी किन्नरादि श्रेष्ठ हैं ।। २१ ॥ उनसे असुर, असुरोंसे देवता और देवताओं से भी इन्द्र श्रेष्ठ हैं। इन्द्रसे भी ब्रह्माजीके पुत्र दक्षादि प्रजापति श्रेष्ठ हैं । ब्रह्माजीके पुत्रों में रुद्र सबसे श्रेष्ठ हैं । वे ब्रह्माजीसे उत्पन्न हुए हैं, इसलिये ब्रह्माजी उनसे श्रेष्ठ हैं। वे भी मुझसे उत्पन्न हैं और मेरी उपासना करते हैं, इसलिये मैं उनसे भी श्रेष्ठ हूँ । परन्तु ब्राह्मण मुझसे भी श्रेष्ठ हैं, क्योंकि मैं उन्हें पूज्य मानता हूँ ।। २२ ।। * * [सभानें उपस्थित ब्राह्मणोंको लक्ष्य करके ] विप्रगण ! दूसरे किसी भी प्राणीको मैं ब्राह्मणों के समान भी नहीं समझता, फिर उनसे अधिक तो मान ही कैसे सकता हूँ। लोग श्रद्धापूर्वक ब्राह्मणोंके मुखमें जो अन्नादि आहुति डालते हैं, उसे मैं जैसी प्रसन्नता से ग्रहण करता हूँ वैसे अग्निहोत्र में होम की हुई सामग्रीको स्वीकार नहीं करता ॥ २३ ॥ * * जिन्होंने उस लोक में अध्ययनादिके द्वारा मेरी वेदरूपा अति सुन्दर और पुरातन मूर्तिको धारण कर रक्खा है तथा जो परम पवित्र सत्त्वगुण शम, दम, सत्य, दया, तप तितिक्षा और ज्ञानादि आठ गुणोंसे सम्पन्न हैं- उन ब्राह्मणोंसे बढ़कर और कौन हो सकता है ।। २४ ।। मत्तोऽप्यनन्तात्परतः परस्मात् स्वर्गापवर्गाधिपतेर्न किञ्चित् । । येषां किमु स्यादितरेण तेषामकिश्चनानां मयि भक्तिभाजाम् ।। २५ । सर्वाणि मद्धिष्ण्यतया भवद्भिश्वराणि भूतानि सुता ध्रुवाणि । सम्भावितव्यानि पदे पदे वो विविक्तग्भिस्त दु हार्हणं मनोवचोकरणेहितस्य साक्षात्कृत मे परिवर्हणं १. प्रा० पा० मे ॥ २६ हि । । स्क. १ अ. ५ श्लो. २५-३० 1 अनेकव्याख्यासमलङङ्कृतम् विना पुमान् येन महाविमोहात् कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७ ॥ ‘श्रीशुक उवाच ११५ एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थ महानुभावः परमसुहद्भगवानृषभापदेश उपशम- शीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्टं परमभागवतं भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र परिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्मावर्तात्प्रवव्राज ॥ २८ ॥ जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभि- भाग्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ।। २९ ।। तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरत्रजघोषसार्थ- विना श्रमादिष्वनु पथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवन ग्रावशकृद्रजः- प्रक्षेपपूतिवातदुरुक्तैस्तदविगणयन्नेव सत्संस्थान एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थाने- नासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवीमेकचरः परिबभ्राम ॥ ३० ॥ अन्वयः - येषाम् परतः परस्मात् स्वर्गापवर्गाधिपतेः अनंतात् मत्तः अपि न किंचित् तेषाम् मयि भक्तिभाजाम् अकिंच- नानाम् इतरेण किम् उ || २५ ॥ सुताः वः सर्वाणि चराणि ध्रुवाणि भूतानि पदे पदे मद्विष्ण्यतया संभावितव्यानि तत् उ ह विविक्तदृग्भिः भवद्भिः मे अर्हणम् ॥ २६ ॥ हि मे परिबृंहणम् मनोवचोहकरणेहितस्य साक्षात्कृतम् पुमान् येन विना महाविमोहात् कृतान्तपाशात् विमोक्तुम् न ईशेत् ॥ २७ ॥ * * महानुभावः परमसुहृत् भगवान् ऋषभापदेशः स्वयं लोकानुशासनार्थम् अनुशिष्टान् अपि आत्मजान् एवम् अनुशास्य उपशमशीलानाम् उपरतकर्मणाम् महामुनीनाम् भक्तिज्ञान- वैराग्यलक्षणम् पारमहंस्यधर्मम् उपशिक्षमाणम् स्वतनयशतज्येष्ठम् परमभागवतम् भगवज्जनपरायणम् भरतम् धरणिपालनाय अभि- षिच्य स्वयम् भवने एव उर्वरितशरीरमात्रपरिग्रहः उन्मत्तः इव गगनपरिधानः प्रकीर्णकेशः आत्मनि आरोपिताहवनीयः ब्रह्मावर्तात् प्रवब्राज ॥ २८ ॥ * * अवधूतवेषः अभिभाष्यमाणः अपि जनानाम् जडान्धमूकबधिरपिशाचोन्मादृकवत् गृहीतमौनव्रतः तूष्णीम् बभूव ॥ २९ ॥ * * तत्र तत्र पुरप्रामाकरखेटवाटखर्वट शिबिरव्रजघोषसार्थगिरिवनाश्रमादिषु अनुपथम् अवनि- चरापसदेः तर्जनताडनावमेहनष्ठीवनप्रावशकृद्रजः प्रक्षेपपूतिवातदुरुक्तैः वनगजैः मक्षिकाभिः इव परिभूयमानः तदविगणयन् एव असत्संस्थाने एतस्मिन् सदपदेशे देहोपलक्षणे उभयानुभवस्वरूपेण स्वमहिमावस्थानेन असमारोपिताहं ममाभिमानत्वात् अविखंडित- मनाः एकचरः पृथिवीम् परिबभ्राम ॥ ३० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका * निःस्पृहत्वमाह । मत्तोऽपि येषां न किंचित्प्रार्थनीयमस्ति तेषामितरेण राज्यादिना किमु स्यान्न किमपि ।। २५ ।। तदेवं ब्राह्मणसम्मानं विधायेदानीं सर्वभूतसम्मानं विधन्ते सर्वाणीति । हे सुताः सर्वाणि जंगमानि स्थावराणि च भूतानि मदधिष्ठान- तया वो युष्माभिः सम्माननीयानि । पदे पदे क्षणे क्षणे । विविक्ता पूता मत्सरादिरहिता दृष्टियेषां तैः । तदेव ममाईणम् ॥२६॥ * * सर्वकर्मणामीश्वरार्पणं विधत्ते । मनोवचोदृशामन्येषां च करणानामीहितस्य व्यापारस्य मे परिबर्हणमाराधनमेव साक्षात्कृतं फलम् । येन परिबर्हणेन विना कालपाशाद्विमोक्तुं न ईशेत् न समर्थो भवेत् ॥ २७ ॥ स्वत एव सुशिक्षिता-
- नपि लोकानुशासनार्थमनुशास्य मुनीनां पारमहंस्यधर्म सुपशिक्षयिष्यन्भरतमभिषिच्य ऋषभ इत्यपदेशो नाम यस्य स भगवान् ब्रह्मावर्तात्स्वदेशात्प्रवत्राजेत्यन्वयः । उर्वरितोऽवशिष्टः शरीरमात्रपरिग्रहो यस्य ॥ २८ ॥ * * अभिभाष्यमाणोऽपि जनानां मध्ये जडादिवद्वर्तमानस्तूष्णीं बभूव । अवधूतस्येव वेषो यस्य ॥ २९ ॥ तत्र तत्र पुरादिष्वनुपथं मार्गे मार्गेऽवनिचरा- पसदैर्दुर्जनैस्तर्जनादिभिः परिभूयमानोऽपि तदविगणयन्ने वैकचर एकाकी पृथिवीं परिबभ्रामेत्यन्वयः । तत्र पुरं पत्तनम् । ग्रामा हहीनाः । आकरः खनिः । खेटः कृषीवलग्रामः । वाटः पुष्पादिवाटिका । खर्वटः पर्वतप्रान्तग्रामः । शिविरं सेनायाः वासस्थानम् । जो गवां स्थानम् । घोषो गोपानां स्थानम् । सार्थो यात्रिकजनसंघातः । आश्रमः ऋषीणाम् । तर्जनं भयजननम् । वाडनं प्रहारः । अवमेहनमुपरि मूत्रणम् । ष्ठीवनं फूत्कृत्य श्लेष्मप्रक्षेपः । प्राव्णां शकृतो रजसश्व प्रक्षेपः । पूतिवातोऽधोवायुः । दुरुक्तं शापः एतैः । अगणने दृष्टान्तः मक्षिकाभिरिवेति । तत्र हेतुः । असति मिथ्याभूते संस्थाने संनिवेशे देह इत्युपलक्षणमाकारो यस्य । सादित्य - पदेशमात्रं यस्य तस्मिन् । निरभिमानत्वात्। केन हेतुना । उभयोः सदसतोर्योऽनुभव स्तत्स्वरूपेण यत्स्वमहिम्न्यवस्थानं तेन । अत एवाविखंण्डितं मनो यस्य स परिबभ्राम ॥ ३० ॥ १. २. ३. प्रा० पा० - श्रीमद्भागवतम् श्रीवंशीधरकृती भावार्थदीपिका प्रकाश 溺 । [ स्कं. ५ अ. ५ श्लो. २५-३० द्विजदेवत्वे कारणविशेषमाह - मत्त इति । येषां ब्राह्मणानां मद्भक्ति विना न किञ्चिदपेक्षणीयमित्याह - ओ वासुदेव एवं किञ्चन येषां तेऽकिञ्चनास्तेषामत एवं मयि भक्तिं कुर्वताम् । यद्वा - अहन्तास्पद्ममतास्पदयोर्मामेव दत्तत्वान्न विद्यते किञ्चनापि येषां मयि भक्तिः प्रेमा तामेव भजतां प्रतिक्षणं प्राप्नुवतामित्यर्थः । अत एव ते नित्यं तथा बुभूषुभिराराध्या इति भावः ।। २५ ।। * * स्पर्द्धावज्ञादिदोषशान्त्यर्थं सर्वभूतसम्मानमपि विधत्ते । चराणि जंगमानि ध्रुवाणि स्थावराणि । हे सुता इति । पुत्रत्वाद्भवद्भथ इदमतिगुह्यमुक्तमिति भावः । तदेव मम मुख्य पूजनं न तु केवलप्रतिमादिपूजनं “सर्वभूतेषु मद्भावो मनोवाक्कायकर्मभिः । इदं ममार्चनं मुख्यं न प्रतीकादिपूजनम्” इति भगवदुक्तेः ॥ २६ ॥ * * समासेन भक्तेर्लक्षणं 11 तान विना निस्ताराभाववोपपादयन्नुपसंहरति-मन इति । यद्वा - मे साक्षात्कृतं साक्षान्मत्सम्बन्धित्वेन यत्करणं प्रवृत्तिस्तदेव मे परिबर्हणमाराधनमित्यर्थः ।। २७ ॥ * * गगनपरिधानो दिगम्बरः । आत्मनि स्वस्मिन्नेवारोपित आहवनीयोऽग्निविशेषो येन स तथानेन प्रव्रज्या लक्ष्यते । “आत्मन्यग्नीन्समारोप्य न्यस्ताग्निः प्रव्रजेत्ततः” इत्युक्तः ।। २८-२९ ॥ * तत्र पुरादिषु । तत्रैवागणत एव । असत्संस्थान इत्यादिकं लोकशिक्षणाय व्यञ्जनमात्रम् । इदं शरीरं मम दुर्विभाव्यं तत्त्वम्” इत्याद्युक्तेरिति सन्दर्भः । किन—–ऋषभदेवदेहस्य वक्तृपरोक्षत्वादेतच्छब्दवाच्यत्वं न घटेत तस्मादेवं व्याख्येयम् । एतस्मिन् जगति नश्वरत्वाद- सत्संस्थाने समष्टित्वेन देहमुपलक्षयतीति जगदपि प्राकृतं स्वदेहस्तस्मिन्निरभिमानत्वादिति । तर्जनादिकृज्जनसमुदायवतो जगतः स्वदेहत्वेनाभिमाने हन्त हन्त एतादृशमहद पर राधदोषदुष्टो जगदात्मको मदेह इति खेदेन मनः खण्डितं स्यात् । अतः स्वमहिम्नि चिन्मयानन्दे यदवस्थानं तेन हेतुना । तत्र देहे निरभिमानत्वात् । कीदृशेन उभयोश्चिच्छक्तिमाया शक्त्योः स्वीयस्वरूपाखरूपत्वाभ्यां योनुभवस्तेन यत्स्वमहिमावस्थानं तेन ॥ ३० ॥ । ।।
श्रीमद्वीरराघवव्याख्या T तथा च निःस्पृहा च यत्रास्तीत्याह मन्त इति । परस्माद् ब्रह्मादेरपि परतः परस्मात्स्वर्गापवर्गयोरधिपतेर्मत्तोऽपि प्रार्थनीयं येषां ब्राह्मणानां न किञ्चिदस्ति, एषामकिञ्चनानां नास्ति किञ्चन प्रार्थनीयं येषां तेऽकिञ्चनाः तेषामपि भक्तिं कुर्वताम् इतरेणैहिकपुरुषार्थेन किमु स्यान्न किमपीत्यर्थः ॥ २५ ॥
एवं भागवतभक्तिं विधायेदानीं सर्वभूतानां ब्रह्मात्मकत्वभावं विधत्ते सर्वाणीति । हे सुताः ! चराणि ध्रुवाणि स्थावराणि च सर्वाणि भूतानि मद्धिष्ण्यतया मच्छरीरतया प्रकृतिपुरुषेश्वराणां परस्परवैलक्षण्यबुद्धिमद्भिः भवद्भिः पदे पदे क्षणे क्षणे सम्माननीयानि तद्भूतसम्भावनमेव ममार्हणं मदाराधनम् ॥ २६ ॥
मदाराधनमेव निरतिशयफलसाधनमित्याह मन इति । मनोवचोदृशामन्येषां च करणानाम् ईहितस्य व्यापारस्य साक्षात्कृतं दृष्टं फलं मत्परिबर्हणं मदाराधनमेव । येन मत्परिबर्हणेन विना पुमान् कालपाशरूपात् महाविमोहात् विमोक्तुं नेशेत् न शक्नुयात् । मदाराधनमेव मुक्तिसाधनं मदाराधनं च सर्वभूतानां ब्रह्मात्मकतया सम्भावनमेवेति भावः ॥ २७ ॥
एवमिति । स्वयमनुशिष्टान् हेयोपादेयविभागज्ञानमप्यात्मजान् लोकानुशासनार्थं लोकस्य विविच्य ज्ञापनार्थमेवमनुशास्य स महाप्रभावः सर्वभूतसुहृद्भगवान् ऋषभ इत्यपदेशो व्यवहारों यस्य सः परमहंसाः ब्रह्मविदस्तेषां धर्म भक्त्यादिरूपमुपशिक्षयिष्यन् भरतं भूमण्डलपालनायाभिषिच्य ब्रह्मावर्तात् स्वदेशात्प्रवव्राजेत्यन्वयः । केषासुपशिक्षयिष्यन्मुनीनां शुभाश्रयमननशीलानां कथम्भूतानामुपरतकर्मणां निवृत्तप्रवृत्तिधर्माणामुपशमशीलानां बाह्यान्तःकरणनियमनशीलानां, कथंभूतं भरतं स्वस्य तनयानां पुत्राणां शतव्येष्टं भगवज्जना भागवतास्त एव परायणा भजनीया यस्य तमत एव परमभागवतं भागवतश्रेष्ठ भगवद्भक्तैः भागवतपर्यन्तत्व एव पूर्तेः, स्वयं कथम्भूतः प्रवव्राज गृह एव उर्वरितः अवशिष्टः शरीरमात्रपरिग्रहो यस्य सः परित्यक्तवस्त्रभूषणादिदेहानुबन्ध इत्यर्थः, उन्मत्त इवोपलक्षितः गगनमाकाश एव परिधानं यस्य सः दिगम्बर इत्यर्थः । प्रकीर्णाः विक्षिप्ताः केशा येन सः आत्मन्यारोपितः आहवनीयो वैदिकोऽग्निर्येन सः । उन्मत्त इवेत्यादिना न शास्त्रातिलङ्घित्वमुच्यते, किन्तु “जनेनावमतो योगी योग सिद्धिं विन्दति” इति न्यायेन योगवर्द्धकावमानादिफलकव्रतविशेषा उच्यन्ते ॥ २८ ॥
अभिभाष्यमाणोऽपि जनानां मध्ये जडादिवद्वर्तमानः अवधूतवेषः सर्वैः परिभाव्यो वेषो यस्य सः गृहीतं मौन व्रतं येन सः तूष्णीं बभूव जडाद्यारभ्य नाभाषतेत्यर्थः ॥ २९ ॥
तत्र तत्र पुरादिष्वनुपदं मार्गे मार्गे अवनिचरापसदैः दुर्जनैस्तर्जनादिभिः परिभूयमानः मक्षिकाभिर्वनगज इव तदविगणयन्नेव एकचरः एकाकी सन्पृथिवीं परिबभ्रामेत्यन्वयः । तत्र पुरं पत्तनं ग्रामो हट्टरहितः आकरः खनिः खेटः कृषीवलग्रामः खर्वटः निषादादिग्रामः वाटी पुष्पादिवाटिका शिविरं सेनाया आवासस्थानं व्रजो गोनिवासस्थानं घोषो गोपानामावासस्थानं सार्थो यात्रिकजनसङ्घातः आश्रमः ऋषीणामाश्रमस्थान तर्जनं भयजनकव्यापारः ताडनं प्रहारः मेहनमुपरिमूत्रणं निष्ठीवनं स्वात्कृत्य श्लेष्मप्रक्षेपण ग्राव्णां पाषाणानां शकृतो मलस्य रजसश्च क्षेपः पूतिवातोऽपानवायुः दुरुक्तं शापः-एतैः अविगणने दृष्टान्तः-मक्षिकाभिरिव वनगज इति । तत्रैव हेतुः असत्संस्थाने सततपरिणामिनोऽचिद्द्रव्यस्य परिणामरूपे सन्निवेशे देहोपलक्षणे देहाकारे सदपदेशे देहात्मभ्रान्तिमतामात्मत्वव्यपदेशविषये शरीर इत्यर्थः, उभयानुभवः स्वात्मपरमात्मयाथात्म्यानुभवः स्वरूपेण स्वमहिम्नः अवस्थानेन स्वस्य स्वात्मनो महिमा स्वभावः तस्मिन्नवस्थानेन उभयानुभवरूप एव ह्यात्मनः स्वस्वभावत्वेनावस्थितिरित्येवमुक्तं स्वमहिमावस्थानेन हेतुना देहे तदनुबन्धिनि चानारोपिताहंममाभिमानो येन तस्य भावस्तत्त्वं तस्माद्देहविलक्षणस्वात्मयाथात्म्यानुभवरूपभावावस्थित्या निरस्तदेहात्माभिमानत्वादित्यर्थः, अत एवाखण्डितमनाः सर्वात्मब्रह्मसाक्षात्कारेणैकरूपा मतिर्यस्य ॥ ३० ॥
FIRIN NE FUE AF Esp) श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ब्राह्मणेष्वपि विशेषोऽस्तीत्याह मत्त इति । येषां मत्तोऽपि न किचित्प्रयोजनमस्ति तेषामितरेण स्वर्गाद्याशीर्लक्षणेन पुरुषार्थेन किमु स्यान्न किमपीत्यन्वयः । स्ववचोविश्वासार्थमनन्तादित्यादिविशेषणं भक्तिमन्तरेणान्यन्न किमप्यपेक्षणीयमिति प्रकटनायाकिञ्चनानां भक्तिभाजामिति विशेषणद्वयम् ।। २५ ।। * * इदानीं चराचरभूतानि स्वनिवासहेतुत्वेन सम्भाव्या- नीत्याह सर्वाणीति । हे सुताः ! भवद्भिः सर्वाणि भूतानि मद्धिष्ण्यतया मम निवासस्थानत्वेन ध्रुवाणि निश्चितानि सम्भावित- व्यानीत्यन्वयः । ननु मम धिष्ण्यतया मम विग्रहत्वेन स्वरूपत्वेन सम्भावितव्यानीत्यर्थः । किं न स्यादित्याशङ्कय तस्य तस्य तदपूजनत्वादित्याह पदे पदे इति । या पदे पदे अनुक्षणं विविक्तदृष्टिः जीवानां धिष्ण्यतया परमेश्वरस्य भेददृष्टिः भेददर्शनं तदुत तदेव मे अर्हणं भवति प्रीतिजनकं नान्यदित्यर्थ इति । यद्वा भेददर्शनमेव नार्हणमपि तु भेदप्रतिपादनम प्युतार्थ इति । तदुक्तम् “उपपादयेत्परात्मानं जीवेभ्यो यः पदे पदे । भेदेनैव न चैतस्मात्प्रिया विष्णोस्तु कश्चन ॥ " इति “यो हरेश्चैव जीवानां भेदवक्ता हरेः प्रियः” इति च । अनेन भेददर्शनात्तत्प्रतिपादनस्य फलाधिक्यं भवतीति ध्वनितमिति ॥ २६ ॥ * भेददर्शनस्य मोक्षसाधनत्वान्नायमर्थं इति तत्राह मनोवच इति । करणैः कर्मभिः यन्मन- आदिना जीव परयोर्भेददर्शनादिकं यस्य तस्य साक्षात्कृतं मुख्यतः पूर्णं तस्य तद्धि तदेव मे परिबर्हणं पूजनं भवति । भवदर्हणेन किं फलमित्यतो वाह मनोवच इति । मनआदिसाधनैर्य न्मदणं तत्साक्षात्कृतं साक्षात्कारफलं भवति येनार्हणेन विना पुमान्महाविमोहकृतांतपाशादज्ञानलक्षणसंसाराद्विमोक्तुमीशः समर्थो न स्यादित्यन्वयः ॥ २७ ॥ * यावत्प्रयोजनमनु- शासनं चेत्समाप्तमतः परं हरिणा किमकार्यथापि हरिकथया श्रुतयालम्बुद्धिर्न जायतेऽतः सा वक्तव्येत्यस्य शारीरलक्षणज्ञो मुनिस्तचरितशेषमुक्कमा हत्य वक्ति स एवमनुशास्येति । ऋषभापदेश ऋषभनामा भवन एव सर्वं परित्यज्येति शेषः, उर्वरित- शरीरमात्रपरिग्रहः अवशिष्टशरीर मात्र परिकरः गगनमेव परिधानं वस्त्रं यस्य स तथा दिगम्बर इत्यर्थः ॥ २८-२९ ॥ * * -गृहात्संन्यस्तस्य उत्तरस्थितिप्रकारं कथयति तत्र तत्रेति । खर्पटं वस्त्रोत्पादनस्थलं कुविन्दाश्रयः व्रजो गोकुलं घोष आभीरपल्ली सार्थः परिषज्जनः अवनिचरापसदेः भूमिचरेषु दुर्वृत्तैर्नीचैरित्यर्थः, निष्ठीवनं थूत्कारः पूतिवातोऽधोवायुः तत्तज्जनादिकर्माविगण- यंस्तृणप्रतिप्रत्तिमपि अकुर्वन्नेव स्थितः । कुत इति तत्राह असदिति । असताममङ्गलानां क्लेशानां संस्थानं यस्मिंस्तस्मिन्नेतस्मिन् देहोपलक्षणे असन्नस्वतन्त्र इत्यपदेशः शब्दो यस्य स तथा तस्मिन् जडशब्दवाच्ये देहे अभयानुभवस्वरूपेण सर्वभयशून्यज्ञानख- रूपेण स्वमहिमावस्थानं यस्मिंस्तेनासमवरोपिताममाभिमानत्वात्यक्ता हं ममाभिमानत्वादखण्डितः अपरिच्छिन्न इति यस्मादिति शेषः । यद्वा असतो ब्रह्मणः संस्थानं यस्मिंस्तथा तस्मिन् तर्हि देहदेहिनोर्भेदापत्त्या “नेह नानास्ति किञ्चन” इति श्रुतिव्याकोपः स्यादत्राह असदिति । असद्ब्रह्मेत्यपदेशो यस्य देहस्य स तथा देहोऽपि ब्रह्म एवेत्यर्थः “विज्ञानमानन्दं ब्रह्म” इति श्रुतिः । अस्मिन् अत्रैव तदभेदः सूच्यत इत्याह समवरोपितेति । समवरोपितः सम्यक् ज्ञातः अहम्ममाभिमानस्तस्य भावः समवरोपिता- - हम्ममाभिमानत्वं तस्मात् “तद् ब्रह्म वेदाहं ब्रह्मास्मि” इति श्रुतिश्च तर्हि स्वपरिच्छद्यत्वेन खण्डितत्वमत्राह अखण्डित इति । अखण्डितस्य खण्डितत्वेन ज्ञानान्न तत्र तर्कावसर इत्यर्थः । एकचर इत्यनेनादावन्ते चाप्येक एव चरतीत्यर्थोऽपि गृह्यते इत्यभिप्राये- पोक्तमिति ज्ञायते ॥ ३० ॥ । श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः द्विजदेवत्वे कारणविशेषमाह मत्त इति । मत्तोऽपि सकाशात् ।। २५ ।। तदुह तदपीत्यर्थः ।। २६ ।। साक्षात् कृतं पुरतः करणं समपर्णमित्यर्थः ॥ २७ ॥ एवमिति । भक्तिशिक्षात्र भरतद्वारा ज्ञेया ।। २८-२९ ।। * असत् संस्थानमित्यादिकं लोकशिक्षणाय व्यञ्जनमात्रम ‘इदं शरीरं मम दुर्विभाव्यं तत्त्वमित्याद्युक्तेः ॥ ३०-३४ ॥ ६ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ह। ततो मद्भक्ताः श्रेष्ठास्ते सर्वत एवाधिक्येनाराधनीया इत्याह । मत्तः सकाशाद्येषां न किञ्चित् प्रयोजनं प्रार्थनीय मस्ति अनन्तादित्यत एवानन्तैश्वर्यमाधुर्यगुणोऽहमेव प्रभुर्येषां प्रयोजनत्वेन वर्त्ते इति भावः । इतरेण ब्रह्मादिना अकिञ्चनानामहन्तास्पद- ममतास्पदयोर्मामेव दत्तत्वान्न विद्यते किवनापि येषामित्यर्थः । मयि भक्तिः प्रेमा तामेव भजतां प्रतिक्षणं प्राप्नुवतामित्यर्थः । अत ११८ श्रीमद्भागवतम् * * [ स्कं. ५ अ. ५ श्लो. २५-३० एव तथा बुभूषुभिस्ते नित्यमाराधनीया इति भावः । तृतीयोऽपि ब्राह्मणेभ्योऽपि सकाशाद्भक्ताः श्रेष्ठा उक्ताः श्रीकपिलदेवेन यथा " तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः । मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः । न पश्यामि परं भूतमकर्तुः समदर्शनात्” इति ।। २५ ।। * * स्पर्द्धावज्ञादिदोषशान्त्यर्थं सर्वभूतसम्माननं विधत्ते । सर्वाणि भूतानि मद्धिष्ण्यतया मदधिष्ठानतया है सुताः ! ध्रुवाणि स्थावराणि च भवद्भिः सम्भावितव्यानि । ध्येयानि विविक्ता मत्सरादिदोषरहिता दृग्दृष्टिर्येषां तैः तदेव हित्वा युष्माभिर्ममार्हणमिति पृथग्वाक्यमतो य इत्यस्य न पौनरुक्त्यम् ॥ २६ ॥ समासेन भक्तेर्लक्षणं तां च विना निस्तारा- भावं च वदन्नुपसंहरति । मनोवचोदृशामन्येषाञ्च करणानां यथावदीहितस्य देहव्यापारस्य च मे साक्षात् कृतं साक्षान्मत्सम्बन्धि- त्वेन यत् करणं प्रवृत्तिस्तदेव मे परिबर्हणमाराधनमित्यर्थः । येन परिबर्हणेन विना ।। २७ ।। * उपशिक्षमाणः उपशिक्षयि- ध्यन् उर्वग्तिोऽवशिष्टः शरीरमात्रपरिग्रहो यस्य सः ।। २८-२९।। * * तत्र पुरं पत्तनं ग्रामा हट्टहीनाः आकरः खनिः खेटः कृषीवलग्रामः खर्वटः गिरितटग्रामः वाटः पुष्पादिवाटिका शिविरं सेनाया वासस्थानं ब्रजो गवां घोषो गोपानां सार्थो यात्रिक- जनसङ्घातः आश्रमा ऋषीणामवनिचरापसदैः मनुष्याधमैः । तर्ज्जनं भयजननं ताडनं प्रहारः मेहनमुपरिमूत्रणं ष्ठीवनं फूत्कृत्य श्लेष्म- प्रक्षेपः ग्रावशकृद्रजसां शिलाविड्यूलीनां प्रक्षेपः पूतिवातोऽधोवायुः दुरुक्तं शापस्तैः परिभूयमानस्तत् परिभवनमगणयन् असति अनित्ये संस्थाने संनिवेशे देह इत्युपलक्षणमाकारो यस्य सदित्यपदेशमात्रं यस्य तस्मिन्निरभिमानत्वात् इति स्वामिचरणाः, असत् संस्थानमित्यादिकं लोकशिक्षणाय व्यञ्जनामात्रमिदं शरीरं मम दुर्विभाव्यं तत्त्वमित्याद्युक्तेरिति सन्दर्भः । किञ्च श्रीऋषभदेवदेहस्य वक्तृपरोक्षत्वादेतच्छब्दवाच्यत्वं न घटते । तस्मादेवं व्याख्येयम्-एतस्मिन् जगति नश्वरत्वादसत्संस्थाने समष्टित्वेन देहमुपलक्ष्यतीति जगदपि प्राकृतः स्वदेहस्तस्मिन्निरभिमानत्वादिति तर्ज्जनादिकज्जनसमुदायवतो जगतः स्वदेहत्वेनाभिमाने हन्त हन्त एतादृशमहद्- पराधदोषदुष्टो जगदात्मको मद्देह इति खेदेन मनः खण्डितं स्यात् । अतः स्वमहिम्नि चिन्मयानन्दे यदवस्थानं तेन हेतुना तत्र देहे निरभिमानत्वात् कीदृशेन उभयोश्चिच्छक्तिमायाशक्त्योः स्वीयस्वरूपास्वरूपत्वाभ्यां योऽनुभवस्तेन यत् स्वमहिमावस्थानं तेन ॥ ३० ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः येषां मत्तोऽपि किञ्चित् स्वर्गादिरूपमपि प्रार्थनीयं नास्ति, इतरेण दात्रा तद्दत्तेन वा राज्यादिना किमु स्यात् ॥ २५ ॥ * * मद्धिष्ण्यतया मदाश्रिततया मदुपादानतया ध्रुवाणि कारणानन्यानि “सदेव सौम्येदमग्र आसीत्, सन्मूलाः सौम्येमाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” इत्यादिश्रुतेर्वा युष्माभिः पदे पदे प्रतिक्षणम् सम्भावितव्यानि सम्माननीयानि तदेव सर्वभूतसम्माननमेव मम अर्हणं पूजनम् || २६ ।। * भ्रात्रादिशिष्टजनभक्ति ब्राह्मणभक्ति सर्वभूतसन्मानं च साधन- मुक्त्वाथ सर्वसाधनफलं मन आदिव्यापार फलं च मदाराधनमित्युपदिशति मन इति । मनोवचोदृक्सहितानां करणानां श्रोत्रादी- नामीहितस्य व्यापारस्य मे परिबर्हण ममाराधनं साक्षात्कृतं फलं येन परिबर्हणेन विना कालपाशात् जनो विमोक्तुमात्मानं विमोचयितुं नेशन्न समर्थो भवेत् ॥ २७ ॥ * * अथ गार्हस्थ्यं त्यक्त्वा जनसङ्ग्रहार्थं विरक्तोऽभूदित्याह स एवमित्यादिना । स्वयमनु- शिष्टानपि लोकानुशासनार्थमेवमनुशास्य मुनीनां मननशीलानां मुमुक्षूणां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यं देहगेहादिविस्मृतिपूर्वक- भगवत्प्रावण्ययुक्तः परमहंसस्तस्यानुष्ठेयं पारमहंस्यमुपशिक्षयिष्यन् भरतमभिषिच्य ऋषभ इत्यपदेशो नाम यस्य स भगवान् ब्रह्मा- वत्तत्प्रवब्राज । उर्वरितोऽवशिष्टः शरीरमात्रं परिग्रहो यस्य सः । ननु दण्डादि आश्रमचिह्नापरिग्रहे कोऽभिप्राय इति चेच्छृणु, द्विविधा हि आश्रमिणः लोकप्राप्तिकामाः भगवज्ज्ञानभक्तिसम्पन्ना भगवत्प्राप्तिकामाश्च । तत्राद्याः “अन्तस्त्रिलोक्यां त्वपरो गृहमेधो ऽबृहतः । लोकत्रयो बहिश्वासन्नप्रजानां य आश्रमाः” इति द्वितीये स्कन्धे सूचिताः । तेषां लोकप्राप्तिकामानां स्वलोकसिद्धये आश्रमचिह्न - धारणमावश्यकमेव । ज्ञानभक्तिसम्पन्नानां तुच्छीकृत ब्रह्मलोकपर्यन्तफलानां भगवदनुरागिणां धृतोर्ध्वपुण्ड्र मुद्रादिवैष्णवचिह्नानां परमभागवतानां निरभिमानानां दण्डाद्याश्रमचिह्नघरत्वमनावश्यकम् । “ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गाना- श्रमांस्त्यक्त्वा चरेदविधिगोचरः” इति वक्ष्यमाणादिति दिक् ॥ २८ ॥ * अभिभाष्यमाणोऽपि जनानां मध्ये गृहीतमौनव्रतः जडादिवत्तूष्णीं बभूव ।। २९ ।। * * पुरादिषु अनुपथं प्रतिमार्गम् अवनिचरेष्वपसदैरधर्मैः मक्षिकाभिर्वनगज इव परिभूय- मानोऽपि तदविगणयन् एकचर एकाकी पृथिवीं परिबभ्रामेत्यन्वयः । तत्र पुरं पत्तनं ग्रामो हट्टहीनः आकरो मण्याद्युत्पत्तिस्थानम् । खेटः कर्षकग्रामः वाटः पुष्पादिवाटिका शिविरं सेनास्थानम् । व्रजो गवां घोषो गोपानां साथ यात्रिकसमूहः आश्रम ऋषीणाम् । कथंभूतः एतस्मिन् संसारे असतां बाह्याभ्यन्तरचारिणां विरोधानां सम्यक् स्थानं यस्मिन् सत्कार्य मपदेशो नाम यस्य तस्मिन् देहोप- लक्षणे देह अनित्य उपलक्षणमनित्यतादिदोषद्योतको यस्य तस्मिन् उभययोः हेयोपादेययो: अनुभवों यस्मिन् तेन स्वरूपेण स्वमहिम्नि अवस्थानेन असमारोपितः अहं सम्राट् सर्वं ममेति अहंममाभिमानो येन स तस्य भावस्तत्त्वं तस्मात् अखण्डितमनाः || ३० ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी तेषां वैराग्यातिरेकमाह-मन्त इति । अनन्तात् अनन्तशक्तियुक्तात् अत एवं परतो ब्रह्मरुद्रादिभ्योऽपि परस्मादुत्कृष्टात् अत एव स्वर्गापवर्गाधिपतेर्भोगमोक्षदाने समर्थान्मत्तोऽप्यकिञ्चनानां भोगसम्पत्तिहीनानामपि येषां न किश्चित्प्रयोजनमस्ति तेषा-एक. ५ अ. ५ श्लो. २५-३० ] अनेकव्याख्यासमलङङ्कृतम् * ।। ११९ मितरेण राज्यादिना किमु प्रयोजनं स्यात् ? न किमपीत्यन्वयः । एवं निरस्पृहत्वे हेतुमाह-मयि भक्तिभाजामिति, मद्भजनेनैव पूर्णमनोरथत्वादित्यर्थः । अतो मत्सन्तोषार्थमेवम्भूतानां ब्राह्मणानां सम्मानं विधेयमिति भावः ॥ २५ ॥ * * एवं ब्राह्मण- सन्मानं विधाय सर्वभूतसन्मानं विधत्ते - सर्वाणीति । पुत्रानुद्दिश्योपदिष्टे रहस्ये श्रेष्ठत्वबुद्धया अन्येषामपि श्रद्धा भवतीति तदर्थं तान् सम्बोधयति — हे सुता इति । वो युष्माभिः तथा भवद्भिश्च सभास्थजनैः सर्वैरेव विविक्तदृग्भिः विविक्ता शुद्धा उत्कर्षा- पकर्षमत्सरादिदोषरहिता दृक् दृष्टिर्ज्ञानं येषां तथाभूतैः चराणि जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतानि मद्धिष्ण्यतया मम भगवतोऽधिष्ठानतया पदे पदे अवसरे अवसरे सम्भावितव्यानि सन्माननीयानि । तदुदाहरणमेतत् सर्वभूतसन्माननं उ एवं मे मम ह यथावत् अर्हणं पूजनम्, न केवलं प्रतिमादिपूजनमित्यन्वयः ॥ २६ ॥ नन्वेवं त्वदाराधनं विनाऽपि क्रमान्नरे- स्तत्तत्फलं स्यादेव को वा त्वदाराधनेऽतिशय इत्याशङ्कयाह-मन इति । मनोवचोदृशामन्येषां च करणानामिन्द्रियाणामीहितस्य व्यापारस्य मे परिबर्हणं मदाराधनमेव साक्षात्कृतं फलं, हि यस्मात् येन मदाराधनेन विना कृतान्तस्य कालस्य पाशात् महतो विमोहात् अहम्ममत्त्वात्मकात् आत्मानं विमोक्त पुमान्नैवेशेन्नैव समर्थो भवेत् । अतः कर्मफलस्य नश्वरत्वाद् बन्धहेतुत्वाच संसार- विमोचक मदाराधनमेव युक्ततममिति भावः ॥ २७ ॥ * * ऋषभ इत्यपदेशो नाम यस्य स भगवान् स्वयमनुशिष्टान् स्वतः सुशिक्षितानपि आत्मजान् लोकानुशासनार्थं लोकस्याधिकारिजनस्य शिक्षार्थमेवं गृहस्थधर्माननुशास्य महामुनीनां भक्तिज्ञान- वैराग्यलक्षणं पारमहंस्यसंज्ञकं धर्ममुपशिक्षमाण उपशिक्षयिष्यन् धरणिपालनाय भरतं राज्येभिषिच्य ब्रह्मावर्त्तात् स्वदेशात् प्रवब्राज निर्जगामेत्यन्वयः । मुनीनां पारमहंस्यधर्माधिकार प्रयोजक विशेषेण दर्शयति-उपशमेति, उपशमे इहामुष्मिक- फलत्यागे शीलं येषां अत एव उपरतानि निवृत्तानीहामुष्मिकफलानि कर्माणि येषां तेषामित्यर्थः । भरतस्य राज्याभिषेक योग्यतां प्रदर्शयन् विशिनष्टि - स्वतनयशते ज्येष्ठमिति । परमभागवतं भगवद्भजनपरम्, भगवज्जनपरायणमिति भगवज्जनाः भगवद्भक्ता एव परमयनमाश्रयो यस्येति तथा । आभ्यां तत्प्रजानां भोजनाच्छादनादिक्लेशाभावो भगवद्भजनानन्दश्च सूचितः । ज्ञानस्य मुख्यमङ्गं तत्कृतं त्यागं दर्शयति-भवन इत्यादिना । भवने एवं सर्वत्यागात् उर्वरितः अवशिष्टः शरीरमात्र परिग्रहो यस्य सः, अत एव गगनपरिधानः नग्नः प्रकीर्णाः केशा यस्य सः केशबन्धनेऽप्यनुसन्धानरहितः, आत्मन्येव आरोपितः चिन्तया स्थापितः आहवनीयः अग्निर्येन सः, अत एव उन्मत्त इवेति । एवं सर्वस्वत्यागे परशिक्षायां च सामर्थ्यं सूचयन् विशिनष्टि-महानुभाव इति । एवं हठेन सर्वधर्मशिक्षायां हेतुमाह — परमसुहृदिति, सर्वप्राणिहितचिन्तक इत्यर्थः । तत्रापि हेतुर्भगवानिति ।। २८ ।। एवं पारमहंस्यधर्मशिक्षार्थं गृहान्निस्सृतस्य साङ्ख्यमार्गाचरणं दर्शयति — जडान्धेत्यादिना । अवधूतस्येव मृदाद्यवगुण्ठितो वेषो यस्य सः । जनान मध्ये जडादिवद्वर्त्तमानस्तैर्भाष्यमाणो वाच्यमानोऽपि गृहीत मौनव्रतस्तूष्णीमेव बभूवेत्यन्वयः ।। २९ ।। * * तत्र तत्र पुरादिषु अनुपथं मार्गे मार्गे अवनिचरापसदैः पुरुषाधमैस्तर्जनादिभिः परिभूयमानोऽपि तत् तं परिभवं अगणयन्नेव maar marat पृथिवीं परिवभ्रामेत्यन्वयः । तंत्र पुरं पत्तनं राजस्थान, ग्रामो हट्टहीनो, आकरः खनिः, खेटाः कृषीवलग्रामाः, एकचर एकाकी वाटः पुष्पादिवाटिका, शिविरं सेनाया वासस्थानं, व्रजो गवां वासस्थानं, घोषो गोपानां वासस्थानं, सार्थो यात्रिकजनसङ्घातः, गिरयः पर्वताः, आश्रमाः ऋषीणां स्थानं, तेषु तर्जनं वाचा हस्तादिना च भीषणं, ताडनं प्रहारः, अवमेहनमुपरि मूत्रणं, ष्ठीवनं नाच थूत्कृत्योपरि श्लेष्मप्रक्षेपः, ग्राव्णां पाषाणानां शकृतो विष्ठायाः रजसश्चोपरि प्रक्षेपः, पूतिवातः अधोवायुः तस्य तदुपर्युत्सर्गः, दुरुक्तं शाप एतैः । अगणने दृष्टान्तः - मक्षिकाभिरिति, यथा मक्षिकाभिः परिभूयमानो वनस्थो गजः परिभवं न गणयति तथेत्यर्थः । तत्र हेतुमाह - अविखण्डितेति, यतः अक्षुभितचित्त इत्यर्थः । तत्रापि हेतुमाह-उभयेति, उभययोः स्थूलसूक्ष्मयोः सदसतोर्वा चिदचितोर्वा योऽनुभवस्तत्स्वरूपेण यत्स्वमहिम्नि ईश्वरत्वेऽवस्थानं स्वरूपनिश्चयः तेन एतस्मिन् कार्यकारणसङ्घाते शरीरे अनारोपि- ताहम्ममाभिमानत्वादित्यन्वयः । तत्रात्यन्ताविवेकिनां तत्राहमित्यभिमानः, पृथगात्मविवेकवतामपि तत्र ममेत्यभिमानः, तत्तूभय- मपि न सङ्गच्छते । आत्मनस्तस्यात्यन्तभिन्नत्वादपकृष्टत्वाच्चेत्यभिप्रेत्य विशिनष्टि असदिति । असति विण्मूत्रादिपूर्णत्वेन अप- कृष्टे संस्थाने सन्निवेशे देह इत्युपलक्षणमाकारो यस्य तस्मिन् अविद्ययाऽभिमानमात्रेण ब्राह्मणादिशरीरं सदुत्कृष्टमित्यपदेशमात्रं यस्य तस्मिन् । यद्यपि ऋषभदेवस्य देहो नैवम्भूतः प्राकृतो दुर्विभान्यत्वस्योक्तत्वात्तथापि लोकशिक्षार्थानुकरणस्य अनुवाद- मात्रमेतदिति ज्ञेयम् ॥ ३० ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी तथा निःस्पृहत्वं चापि यत्रास्तीत्याह मत्त इति । परस्माद् ब्रह्मादेरपि परतः परस्मात् स्वर्गश्चापवर्गो मोक्षश्च तयोरधिप- तिस्तस्मात्, अनन्तान्महिमैश्वर्याद्यन्तवर्जितात्, मत्तः सकाशादपि, प्रार्थनीयमिति शेषः । येषां ब्राह्मणानां किंचिन्मात्रमपि, न अस्ति । एवंविधानां अकिंचनानामपि, मयि भक्तिभाजां मद्भक्तिं कुर्वाणानां तेषां ब्राह्मणानां, इतरेणैहिकपुरुषार्थेन, किमु स्यात् न किमपीत्यर्थः । येषां मत्तोऽपि किंचित्प्रार्थनीयं नास्त्यात्मारामाणां तेषां मदितरराज्यादिप्राप्तिसंकल्पः स्वप्नेऽपि किं स्यान्नैवेति भावः ।। २५ ।। तदेवं भागवत ब्राह्मणानां संमानपूर्विकां भक्तिमभिधायेदानीं सर्वभूतानां ब्रह्मात्मकत्वं बोधयितुं तत्संमानं विधत्ते सर्वाणीति । हे सुताः, चराणि जङ्गमानि, ब्रुवाणि स्थावराणि, सर्वाणि भूतानि, मद्धिष्ण्यतया मच्छरीरतया, विविक्तदृग्भिः १२० श्रीमद्भागवतम् [ स्कं. ५ अ. लो. २५-३० प्रकृतिपुरुषेश्वराणां परस्परवैलक्षण्यबुद्धिमद्भिः भवद्भिः पदे पदे क्षणे क्षणे, संभावितव्यानि संमाननीयानि, तद्भूतसंभावनमेव, वो युष्माभिः कृतमिति शेषः । यद्वा वो युष्माकं भवत्कृतमित्यर्थः । मे मम, अर्हणं उह, मदाराधनमेवेत्यर्थः ॥ २६ ॥ * * सर्वकर्मणां यदीश्वरार्पणताविधानं तथाभूत्ततया यन्मदाराधनं तदेव निरतिशयफलसाधनमित्याह मन इति । मनश्च वचश्च दृशौ च तासां करणानामन्येषां बहिरन्तरेन्द्रियाणां च यदीहितं व्यापारस्तस्य, साक्षात्कृतं प्रत्यक्ष फलरूपं, मे मम परिबर्हणमाराधनं, हि येनेत्थंभूतेन मदाराधनेन विना, पुमान् महाविमोहात्, कृतान्तपाशात्, विमोक्तुं न ईशेत् समर्थो न भवेत् ।। २७ ।। * * एवमिति । स्वयं स्वत एव, अनुशिष्टान् हेयोपादेयविभागज्ञान् अपि, आत्मजान् खसुतान, लोकानुशासनार्थं सर्वलोकस्य विविच्या व- बोधोदयार्थ, एवमुक्तप्रकारेण, अनुशास्य शिक्षां कृत्वा महानुभावः महामहिमोपेतः, परमसुहृत् सर्वभूतानामत्युत्तमसुहृद्रूपः, भगवान् पूर्णषाड्गुण्यः, सः ऋषभ इत्यपदेशो नाम यस्य सः, ऋषभनाम्ना व्यवहार्यः, स्वयं परमेश्वरः उपरतकर्मणां निवृत्तप्रवृत्त- धर्माणां, उपशमशीलानां बाह्यान्तःकरणनियमनशीलानां महामुनीनां शुभाश्रयमननशीलानां महाभागवतानां, संबन्धिनं, भक्ति, ज्ञानवैराग्यलक्षणं, परमहंसा ब्रह्मविदस्तेषामयं पारमहंस्यस्तं, धर्मं भगवद्भक्तिविधानादिरूपं वृषमित्यर्थः । उपशिक्षयमाणस्तदधि- कारिभ्य उपशिक्षयिष्यन् सन्, स्वतनयानां शतं तत्र ज्येष्ठस्तं, भगवज्जना भागवतास्त एव परायणा भजनीया यस्य तं, अत एव परमभागवतं भगवदेकान्तिकभक्तश्रेष्ठं भरतं भरतनामानं पुत्रं, धरणीतलपालनाय भूमण्डलपरिपालनाय, अभिषिच्य स्वयं भवने गृहे एव उर्वरितः अवशिष्टः शरीरमात्रपरिग्रहो यस्य सः, स्वभवन एवं परित्यक्तवस्त्रभूषणादिदेहानुबन्ध इत्यर्थः । उन्मत्त इव उपलक्षितः, गगनमाकाश एवं परिधानं यस्य सः, दिगम्बर इत्यर्थः । प्रकीर्णा विक्षिप्ताः केशा मूर्द्धजा येन सः, आत्मनि आरोपित आहवनीयो वैदिकोऽग्निर्येन सः । इत्थंभूतः सन् ब्रह्मावर्त्तात् प्रवब्राज प्रत्रजितवात् । उन्मत्त इवेत्यादिना न शस्त्रातिलङ्घित्व- भुच्यते, किं तु ‘जनेनावमतो योगी योगसिद्धिं च विन्दति’ इति न्यायेन योगवर्द्धकावमानादिफलक व्रतविशेषा उच्यन्ते ॥ २८ ॥ तच्चर्यामाह जडेति । अभिभाष्यमाणः सन्नपि, जनानां मध्ये, जडोऽज्ञश्च अन्धो नेत्रविकलञ्च बधिरः श्रोत्रविकलश्च पिशाचः पिशाचाविष्टश्च उन्मादकश्चित्तविकलश्च स इवेति तद्वत् । वर्त्तमान इति शेषः । अवधूतः सर्वपरिभाव्यस्तस्येव वेषो यस्य सः, गृहीतं मौनव्रतं येन सः, इत्थंभूतः सन्, तूष्णीं बभूव ।। २९ ।। * तत्रेति । तत्र तत्र तेषु तेषु, पुराणि पत्तनानि च
- । ग्रामा हट्टवन्तश्च आकराः खनयश्च खेटाः कृषीवलग्रामाश्च खर्वटा निषादादिप्रामाश्च वाट्यः पुष्पादिवाटिकाश्च शिबिराणि सेनाया आवासस्थानानि च ब्रजा बल्लवरचितगवां स्थानानि च घोषा गोपानामावासस्थानानि च साथ यात्रिकजनसंघाताश्च गिरयः पर्वताश्च वनानि काननानि च आश्रमा ऋषीणामावासस्थानानि च ते आदयो येषां गुहादीनां तेषु, अनुपथं मार्गे मार्गे, अवनि- चरापसदै दुर्जनैः तर्जनं भयजनकव्यापारश्च ताडनं प्रहारश्च अवमेहनमुपरि मूत्रणं च ष्ठीवनं थूत्कृत्य श्लेष्मप्रक्षेपश्च प्राणां पाषाणानां शकृतो मलस्य रजसश्च प्रक्षेपश्च पूतिवातोऽधोवायुश्च दुरुक्तं शापश्च तैः, मक्षिकाभिः दंशीभिः, दंशनादिभिः, सुतरामर्दित इति शेषः । वनगज इव परिभूयमानः सन्नपि, तत्तत्कृतं स्वाईनं अविगणयन्सन् एव असत्संस्थाने सततपरिणामिन्यनुचितरचना- विशेषात्मके संनिवेशे, देह इत्युपलक्षणमाकारो यस्य तस्मिन्, सदित्यपदेशमात्रं यस्य तस्मिन्, देहात्मभ्रान्तिमतामात्मत्वव्यपदेश- विषयके इत्यर्थः । एतस्मिन् शरीरे, उभयोः स्वात्मपरमात्मनोरनुभवः याथात्म्यानुभवनं तत्स्वरूपेण स्वस्यात्मनो महिमा स्वभावस्त- स्मिन्नवस्थानं तेन हेतुना, असमारोपितः देहे तदनुबन्धिनि च अनारोपितः अहंममाभिमानो येन तस्य भावस्तत्वं तस्मात्, देह- विलक्षणस्वात्मयाथात्म्यानुभवरूपतयावस्थित्या निरस्तदेहाभिमानत्वादित्यर्थः । अविखण्डितमनाः सर्वात्मब्रह्मसाक्षात्कारेणैकरूप- मानस इत्यर्थः । एकचर एकाकितया विचरन्सन्, पृथ्वीं परिवभ्राम ॥ ३० ॥ भाषानुवादः पो मैं ब्रह्मादिसे भी श्रेष्ठ और अनन्त हूँ तथा स्वर्ग-मोक्ष आदि देनेकी भी सामर्थ्य रखता हूँ; किन्तु मेरे अकिञ्चन भक्त ऐसे निःस्पृह होते हैं कि वे मुझसे भी कभी कुछ नहीं चाहते; फिर राज्यादि अन्य बस्तुओंकी तो वे इच्छा ही कैसे कर सकते हैं ? ।। २५ ।। २५ ॥ * * पुत्रो ! तुम सम्पूर्ण चराचर भूतोंको मेरा ही शरीर समझकर शुद्ध बुद्धिसे पद-पदपर उनकी सेवा करो, यही मेरी सच्ची पूजा है ॥ २६ ॥ * मन, वचन, दृष्टि तथा अन्य इन्द्रियोंकी चेष्टाओंका साक्षात् फल मेरा इस प्रकार का पूजन ही है । इसके बिना मनुष्य अपनेको महामोहमय कालपाशसे छुड़ा नहीं सकता ।। २७ ।। * * श्रीशुकदेवजी कहते हैं- राजन् ! ऋषभदेवजीके पुत्र यद्यपि खयं ही सब प्रकार सुशिक्षित थे, तो भी लोगोंको शिक्षा देनेके उद्देश्यसे महाप्रभावशाली परम सुहृद् भगवान ऋषभने उन्हें इस प्रकार उपदेश दिया । ऋषभदेवजीके सौ पुत्रोंमें भरत सबसे बड़े थे । वे भगवान् के परम भक्त और भगवद्भक्तों के परायण थे । ऋषभदेवजीने पृथ्वीका पालन करनेके लिये उन्हें राजगद्दी पर बैठा दिया और स्वयं उपशमशील निवृत्तिपरायण महामुनियोंके भक्ति, ज्ञान और वैराग्यरूप परमहंसोचित धर्मोकी शिक्षा देनेके लिये बिल्कुल विरक्त हो गये । केवल शरीरमात्रका परिग्रह रक्खा और सब कुछ घरपर रहते ही छोड़ दिया। अब वे वस्त्रोंका भी त्याग करके सर्वथा दिगम्बर हो गये । उस समय उनके बाल बिखरे हुए थे । उन्मत्तका-सा द्वेष था । इस स्थितिमें आहवनीय (अग्निहोत्रकी ) अग्नियों को अपने में ही लीन करके संन्यासी हो गये और ब्रह्मावर्त देशसे बाहर निकल गये ।। २८ ।। 8 8 वे सर्वथा मौनी हो गये थे, कोई बात 1 स्कं. ५ अ. ५ श्लो. ३१-३५] करना चाहता तो बोलते नहीं थे। अनेकव्याख्यासमलङ्कृतम् १२१ जड़, अंधे, बहरे, गूंगे, पिशाच और पागलोंकी-सी केष्टा करते हुए वे अवधूत बने जहाँ तहाँ विचरने लगे ॥ २९ ॥ * * कभी नगरों और गाँवोंमें चले जाते तो कभी खानों, किसानोंकी बस्तियों, बगीचों, पहाड़ी ।। ६ गाँवों, सेनाकी छावनियों, गोशालाओं, अहीरोंकी बस्तियों और यात्रियोंके टिकनेके स्थानोंमें रहते। कभी पहाड़ों, जंगलों और आश्रम आदि में विचरते । वे किसी भी रास्ते निकलते तो जिस प्रकार वनमें विचरनेवाले हाथीको मक्खियाँ सताती हैं, उसी प्रकार मूर्ख और दुष्टलोग उनके पीछे हो जाते और उन्हें तंग करते । कोई धमकी देते, कोई मारते, कोई पेशाब कर देते, कोई थूक देते, कोई ढेला मारते, कोई विष्ठा और धूल फेंकते, कोई अधोवायु छोड़ते और कोई खोटी-खरी सुनाकर उनका तिरस्कार करते। किन्तु वे इन सब बातोंपर जरा भी ध्यान नहीं देते। इसका कारण यह था कि भ्रमसे सत्य कहे जानेवाले इस मिथ्या शरीर में उनकी अहंता-ममता तनिक भी नहीं थी । वे कार्य कारणरूप सम्पूर्ण प्रपञ्चके साक्षी होकर अपने परमात्मस्वरूपमें ही स्थित थे, इसलिये अखण्ड चित्तवृत्तिसे अकेले ही पृथ्वीपर विचरते रहते थे ॥ ३० ॥ 1 अतिसुकुमारकर चरणोरः स्थलविपुलबाहंसग’ लवदनाद्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहाससुमुखो नव- नलिनदलायमानशिशिरतारारुणायतनय नरुचिरः सदृशसुभग कपोलकर्णकण्ठनासो विगूढस्मितवदनमहोत्सवेन पुरवनि- तानां मनसि कुसुमशरासनमुपदधानः परागवलम्बमानकुटिलजटिल ‘कपिश केश भूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥ ३१ ॥ यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रिया कर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हद ति स्म चेष्टमान उच्चरित आदिग्धोद्देशः || ३२ || तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात् सुरभिं चकार ।। ३३ || एवं गोमृगकाकचर्यया वर्जस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४ ॥ इति नानायोगचर्याचरणो भगवान् कैवल्यपतिर्ऋषभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽ- व्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायत्र वैशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ।। ३५ ।। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः ॥ ५ ॥ अन्वयः - अतिसुकुमारकर चरणोरःस्थलविपुलबाह्वंसगलवदनाद्यावयवविन्यासः प्रकृतिसुंदर स्वभावहाससुमुखः नवनलि- नदलायमान शिशिरतारारुणायतनयनरुचिरः सदृशसुभगकपोलकर्णकंठनासः विगूढस्मितवदनमहोत्सवेन पुरवनितानाम् मनसि कुसुमशरासनम् उपदधानः परागवलंबमानकुटिलजटिलकपिशकेशभूरिभारः अवधूतमलिननिजशरीरेण ग्रहगृहीतः इव अदृश्यत ।। ३१ । * यर्हि वाव सः भगवान् इमम् लोकम् अद्धा योगस्य प्रतीपम इव आचक्षाणः तर्हि तत्प्रतिक्रियाकर्म बीभत्सितम् इति आजगरम् व्रतम् आस्थितः शयानः एवम् अश्नाति पिबति खादति अवमेहति हदति स्म उच्चरति चेष्टमानः बीमत्सितम् इति आजगरम् श्रताप हि बाब सः भगवा आदिग्धोद्देशः ॥ ३२ ॥ * * तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुः तम् देशम् समंतात् दशयोजनम् सुरभिम् चकार ।। ३३ ।। * * एवम् गोमृगकाकचर्यया व्रजन् निष्ठन् आसीनः शयानः काकमृगगोचरितः पिबति खादति अवमेहति स्म ॥ ३४ ॥ * * नृप इति नानायोगचर्याचरणः भगवान् कैवल्यपतिः ऋषभः अविरतपरममहानंदानुभवः सर्वेषाम् भूतानाम् आत्मनि आत्मभूते भगवति वासुदेवे आत्मनः अव्यवधानानंतरोदरभावेन सिद्धसमस्तार्थपरिपूर्णः वैहायसमनोजवांत- धनपर काय प्रवेशदूर ग्रहणादीनि अंजसा यदृच्छया उपगतानि योगेश्वर्याणि हृदयेन न अभ्यनंदत् ॥ ३५ ॥ इति पञ्चमोऽध्यायः श्रीधरस्वामिविरचिता भावार्थदीपिका स च तदा ग्रहगृहीत इवादृश्यत । तत्र हेतुः । पराक् पुरतोऽवलंबमानाश्च ते कुटिलाश्च ते जटिलाच कपिशाश्च केशास्तेषां भूरिभारो यस्य सः । अवधूतमनादृतमत एव मलिनं निजशरीरं तेन । कथंभूतोऽप्येवमदृश्यत । अतिसुकुमाराणि कर- चरणोरःस्थलानि तथा विपुला बाह्रादयस्त एवावयवास्तेषां विशिष्टो न्यासः संनिवेशो यस्य सः । तथा प्रकृत्यैव सुन्दरः स्वभाव- १. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ५. ६. ७. प्रा० पा० - ८. प्रा० पा० - १६ १२२* श्रीमद्भागवतम् [ स्कं. ५ अ. ५ श्लो. ३१-३५ सिद्धो हासस्तेन शोभनं मुखं यस्य । तथा नवनलिनदलवदाचरती ये शिशिरतारे तापहारिकनीनिके अरुणे आयते नयने ताभ्यां रुचिरः । तथा सदृशा अन्यूनाधिकाः सुभगाश्च कपोलकर्णकण्ठनासिका यस्य । तथा विगूढस्मितं यद्वदनं तस्य महोत्सवेन विभ्रमेण पुरांगनानां मनसि काममुद्दीपयन् । एवंभूतोऽपि तथादृश्यतेत्यन्वयः || ३१ ॥ * यर्हि यदा लोकं जनं योगस्य प्रतिपक्ष - माचक्षाणः पश्यन्बभूव । तस्य प्रतिक्रियाकरणं कर्म च निन्दितमित्याचक्षाणस्तदाऽऽजगरं व्रतमास्थितः सन् शयान एवाश्नाति स्मेत्यन्वयः । आजगरं व्रतं नाम एकत्रैव स्थित्वा प्रारब्धकर्मोपभोगः । अवमेहति मूत्रयति । हृदति पुरीषमुत्सृजति । उच्चरिते पुरीषे चेष्टमानो विलुठन् तेनैवादिग्धा आलिप्ता उद्देशा देहप्रदेशा यस्य सः ॥ ३२ ॥ * बीभत्समिवाशंक्याह तस्येति । पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य स वायुः ॥ ३३ ॥ * एवं गवादिचर्यया पानादि करोति स्म तदेवाह व्रजन्नित्यादिना । काकमृगगवामिवान्यदपि चरितं वृत्तिर्यस्य ॥ ३४ ॥ * नानायोगचर्या आचरतीति तथा । लोकयात्रा- परिहाराय योगिभिरेवं वर्तितव्यमिति प्रदर्शनाय तथा कृतवान् । वस्तुतस्तु भगवान्यतोऽविरतः परममहानुत्तरोत्तर शतगुणत्वेनोक्तो य आनन्दस्तदनुभवस्वरूपः । किं च वासुदेवे आत्मनोऽव्यवधानेनाभेदेन न विद्यतेऽन्येषामिवान्तरा मध्ये उदरस्य देहोपाधेर्भाव- स्तेन । नित्यनिवृत्तोपाधित्वेनेत्यर्थः । स्वत एव सिद्धेः समस्तैरर्थैः फलैः परिपूर्णत्वाद्योगैश्वर्याणि नाभ्यनन्दत् । वैहायसं खेचरत्वम् । मनोजवं मनस इव देहस्य वेगम् । दूरग्रहणं दूरदर्शनम् । हे नृप हृदयेन मनसा ।। ३५ ।। इति श्रीमद्भागवते पञ्चमे टीकायां पञ्चमोऽध्यायः ॥ ५ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः स च ऋषभदेहः तत्र ग्रहगृहीततुल्यत्वे । कुटिला वक्राः । जटिला प्रथिताः । कपिशाः श्यावाः । अत एवानादृतत्वादेव ॥ ३१ ॥ * * इमं देहम् । प्रतीपं क्षुत्पिपासालोकोपद्रवाद्यैर्विक्षेपकारणैः प्रतिकूलम् । इवेत्यारूढयोगानां प्रायः प्रातिकूल्या- । । भावात् । एकत्रेति । एकत्रावस्थाने सति परिचितत्वादेर्लोकोपद्रवाद्यधिकं न स्यादिति भावः । यद्वा-योगस्य समाध्यादेः प्रतिपक्षं लोकानामागमने वार्त्तालापादिना योगभ्रंशो भविष्यतीति विचार्य पुनस्तस्य लोकागमनादेः अन्यकर्तृकप्रतिकूलाचरणस्य वा प्रतिक्रियाकरणं तद्वारणं यथैतेऽत्र नागच्छेयुस्तश्च कर्म बीभत्सितं भ्रष्टाचरणरूपं निन्दितमेव तत्स्वीकारेणैते स्वयमेव मत्पाइव नागमिष्यन्ति निन्दिताचारवानयमेतत्पार्श्वे न गन्तव्यमित्यामृश्येतीत्यत एतदेव मया स्वीकार्यमित्याचक्षाणः पश्यन्नाजगरं व्रतमास्थितवानिति भावः ॥ ३२ ॥ तस्य चिन्मयशरीरस्यैतदतिबीभत्सितमेवेति चेद्वस्तुतस्तन्नास्तीत्याह — तस्येति । किं च - यद्यपि " मलमूत्रादिरहिताः पुण्यश्लोकाः प्रकीर्त्तिताः” इत्युक्तेर्भगवत ऋषभस्य पुरीषोत्सर्गाद्येवासंभावितं तथापि योगभ्रंश- प्रतीकारार्थमेव तदा तथा दर्शितम् । न वस्तुतस्तस्मिंस्तदस्तीति ज्ञेयम् । ननु सौगन्ध्ये बीभत्सता न संभवति, कथमुक्तं बीभत्सित- मिति चेदत्रेदं बोध्यम् – सौगन्ध्येऽपि पुरीषस्यास्पृश्यत्वादिना बीभत्सतैवेति । सुगन्धिस्तु तत्र समागतसिद्धिपरित्यागादिनाऽमत्यय- त्वादिति ज्ञेयम् । अत्र व्याख्याने इवशब्दस्यानुल्लेखादिवशब्दरहित एव पाठः स्वामिसम्मत इति भातिः दृश्यते च सर्वत्रेवशब्दः, स च स्वरूपावस्थितस्यान्य कर्त्तृ कप्रतिकूलाचरणं वस्तुतो न संभवतीति सूचनार्थः । यद्वा-प्रतिक्रियाकरणं बीभत्सितं निन्दितं योग- शास्त्रनिषिद्धमिति यावत् । विक्षेपजनकत्वादिति भावः ॥ ३३ ॥ ।
- अन्यदपि गमनशब्दादिरूपं चरितम् ॥ ३४ ॥ * * । ।। ॥ “शतगुणत्वेन तस्यैवानन्दस्य मात्रामुपजीवन्ति” इत्यादिश्रुतावुक्तो य आनन्दस्तत्साक्षात्कारविग्रहः । कैवल्यपतिरित्यन्येभ्योपि कृपया यः कैवल्यं ददाति तस्येयं लीला ध्येयैव न तु चिकीर्षणीयेति । अन्यदद्भुतमाह – किं चेति । भगवानपि भगवति वासुदेवे वसुदेवनन्दने तस्यैव सर्वावताराणामाराधनीयत्वात् । यदुक्तं भीष्मेण “अस्यानुभावं भगवान्वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षाद्भगवान्कपिलो मुनिः ।।” इति ईश्वरबाहुल्यं वारयति - आत्मनीति । स्वस्यांशित्वात्स्वस्मिन्नेवेत्यर्थः । इत्यर्थं इति । देहस्य । । भेदो हि प्रातीतिक एव न वस्तुत इति भावः । यद्वा - आत्मनः स्वस्याव्यवधानः साक्षाद्भूतः । अनन्तोऽपारः । रोदो रोदनमथु राति आददातीति रोदरो भावः प्रेमा तेनैव सिद्धेः समस्तैरर्थैः परिपूर्णः | अंजसा साक्षादुपगतानि । नृपेति । नृपाणामेतद् दुर्लभमित्याह ॥ ३५ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥ श्रीमद्वीरराघवव्याख्या अतिसुकुमाराणां करचरणाद्यवयवानां विशिष्टो न्यासः सन्निवेशो यस्य सः तथा प्रकृत्यैव सुन्दरः स्वभावसिद्धो हासः तेन सुन्दरं मुखं यस्य नवनलिनवदाचरती शिशिरतारे तापहारिकनीनिके ययोस्ते अरुणे आयते नयने ताभ्यां रुचिरस्तथा सदृशा अन्यूनाधिकाः शोभना कपोलादयो यस्य तथा विगूढं स्मितं यद्वदनं तस्य महोत्सवेन विभ्रमेण पुराङ्गनानां मनसि कुसुमशरासनं काममुपदधानः उद्दीपयन्नेवम्भूतोऽपि पराक् परित अवलम्बमानाश्च ते कुटिलाश्च कपिशाश्च केशास्तेषां भूरिभारो यस्य अवमतं दुजनैरिति शेषः, अत एव मलिनं च यन्निजशरीरं तेन ग्रहगृहीत इव पिशाचग्रस्त इवादृश्यतालक्ष्यत जनैरिति शेषः ॥ ३१ ॥
यर्हि यदा स भगवानृषभः लोकं जनं योगस्याद्धा साक्षात्प्रतीपं विरोधमाचरन्तमाचक्षाणः पश्यन् बभूव तस्य प्रतिकूलं प्रतिक्रियाकरणं च बीभत्सितं निन्दितमित्याचक्षाणः प्रतिक्रियाकरणस्य लोकानर्थावहत्वादिति भावः, तदा आजगरं व्रतमेकत्र स्थित्या प्रारब्धोपभोगरूपं व्रतमाश्रितः सन् शयान एवाश्नाति खादति अशनं भोजनं धानादिचर्वणं खादनं मेहति मूत्रयति स्म हदति पुरीषमुत्सृजति स्म उच्चरितमूत्रमलमुच्चरिते पुरीषे चेष्टमानो विलुठन् तेनैवादिग्धा आलिप्ताः तद्देशा देहप्रदेशा यस्य सः बीभत्सितमिदमित्याशङ्क्याह तस्येति । तस्य ऋषभस्य पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य स वायुः समन्ताद्दशयोजनं देशं सुरभीचकार । पुरीषस्य सौगन्ध्योक्तिः योगप्रभावातिशयज्ञापनार्था ॥ ३२-३३ ॥
एवं गवादिचर्यया यानादि करोति स्म तदेवाह व्रजन्नित्यादिना । काकमृगगवामिवान्यदपि चरितं वृत्तिर्यस्य इतीत्थं नानायोगचर्याचरणः योगिभिरेवं कर्तव्यमिति प्रदर्शनाय नानाविधयोगवृत्तानि कुर्वाणः कैवल्याधिपतिः मोक्षाधिपतिः परमात्मदृष्टयेदं विशेषणं भगवानृषभः आत्मनि स्वात्मशरीरके तथा सर्वेषामात्मभूते च भगवति वासुदेवे परमात्मदृष्टयेदं वासुदेवे आत्मनि स्वस्मिन्नित्यव्यवधानानन्तरोदरभावेन व्यवधीयतेऽनेनेति व्यवधानं तिरोधायकं कर्म अव्यवधानेन तिरोधायकाभावेन निमित्तेनायमनन्तरोदरभावः तेनान्तरं भेदः उच्छब्दोत्राप्यर्थः अरशब्दोऽल्पे वर्त्तते ईषदपि भेद इत्यर्थः ततो नञ्समासः स्वरूपतिरोधायकाभावादभ्यन्तरभूतगणाद्भेदविरहेण तस्याब्रह्मात्मकस्वतन्त्रवस्तुभेदज्ञानस्य किंचिन्मात्रस्याप्यभावेनेति यावत्, आत्मनः स्वस्य सिद्धाः समस्तार्थाः तैः परिपूर्णः, अत एव यदृच्छयानिच्छयापि योगप्रभावादेवानुषङ्गिकतया प्राप्तान्यपि वैहायसादीनि खेचरत्वादीनि योगैश्वर्याणि हे नृप ! हृदयेन मनसा नाभ्यनन्दत् मनोजवो मनस इव देहस्य वेगो दूरदर्शनं दूरस्थवस्तुग्रहणं वैहायसादीनां संसृतिनिमित्तत्वेन मुक्तिविरोधित्वात्तानि न परिगृहीतवानित्यर्थः ॥ ३४-३५ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां पञ्चमोऽध्यायः ॥ ५ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अतिसुकुमारेत्येतद्विशेषणं सर्वत्रानुगमयितव्यं सदृशेत्येतत् न नयनयोः सादृश्यं कपोलादीनामुक्तं किन्तु कपोलकर्ण- योस्तथा चान्योऽन्यसदृशौ कपोलौ कर्णौ चेत्यर्थः सम्पद्येत सुभगत्वं कर्णादीनामपि ग्राह्यं, विगूढमीषत्स्पष्टं स्मितं यस्य तत्तथा कुसुमशरं कामं परागर्धः ॥ ३१ ॥ * * यहि वाव स भगवान् ऋषभदेव इति मत्वा अजगरस्य विद्यमानं व्रतमास्थितस्तदा शयान एवाश्नात्यशनादिकं करोतीत्यन्वयः । इमं लोकं योग्यस्य ध्यानापरपर्यायस्योपासनस्याप्रतीपमप्रतिकूलमिवाचक्षाणः पश्यन्निवशब्दात्प्रतिकूलाप्रतिकूललक्षणस्योभयस्य साधनं पश्यन्नित्यर्थः । तस्यावमेहनादेः प्रतिक्रियां प्रक्षालनादिकं कर्म बीभत्सितं योगशास्त्रनिषिद्धमिति उच्चरितेन पुरीषेणादिग्धः उपलिप्तः उद्देशः देहप्रदेशो यस्य सः पुरीषसुरभिगन्धेन सौगन्ध्यं यस्य स तथा ॥ ३२-३४॥ लोकशिक्षार्थं योगचर्यान्तरमाह एवमिति । आत्मभूते आधारभूते आत्मनि स्वामिनि अव्यव- धानेनानन्तरोदरभावेन निर्भेदब्रह्मभावेन नित्यसिद्धेः समस्तैरर्थैः पुरुषार्थैः परिपूर्णः वैहायसमनोजवादीनि योगेश्वर्याण्यञ्जसा दर्शयितुं नैवाभ्यनन्ददित्यन्वयः । वैहायसमाकाशगमनं दूरग्रहणं दूरस्थितग्रहणं ज्ञानं यदृच्छया स्वेच्छया सहसा वा ।। ३५ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्यां पञ्चमोऽध्यायः ॥ ५ ॥ आत्मनि निजांशिनि ॥ ३५ ॥ श्रीमज्जीव गोखामिकृतः क्रमसन्दर्भः इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोरखामिकृतक्रमसन्दर्भे पञ्चमोऽध्यायः ॥ ५ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी सदृशा अन्यूनातिरिक्ताः अत एव सुभगा मनोहराः कपोलादयो यस्य सः ॥ ३१ ॥ ॐ * प्रतीपं क्षुत्पिपासा लोफोपद्रवाचैर्विक्षेपकारणैः प्रतिकूलम् । इवेत्यारूढयोगानां प्रातिकूल्याभावात् आजगरं व्रतं नामैकत्रैव स्थित्वा प्रारब्धकर्मोपभोगः एकत्रावस्थाने सति परिचितत्वादेर्लोकोपद्रवाद्यधिकं न स्यादिति भावः । अवमेहति मूत्रयति हृदति पुरीषमुत्सृजति उच्चरिते पुरीषे चेष्टमानो विलुठन् तेनैव दिग्धा आलिप्ता उद्देशा देहप्रदेशा यस्य सः ॥ ३२ ॥ तस्य चिन्मयशरीरस्यैतद्वीभ- त्सितमित्याशङ्कयाह तस्येति । पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य सः वायुः ॥ ३३ ॥ * ॥ ॥
- काकमृगाणां पशुतुल्य- लोकानां गोचरितः तादृशस्वभावत्वेन दृष्टिविषयीभूत इत्यर्थः ॥ ३४ ॥ * कैवल्यपतिरित्यन्येभ्योऽपि कृपया यः कैवल्यं ददाति तस्येयं योगिजनशिक्षणार्था लीला ध्येयैव नतु अनुचिकीर्षणीयेति भावः, भगवानपि भगवति वासुदेवे वसुदेवनन्दने तस्यैव सर्वावताराणामप्यारधनीयत्वात् । यदुक्तं भीष्मेण " अस्यानुभावं भगवान् वेद्गुह्यतमं शिवः । देवर्षिर्नारदः साक्षाद्भगवान् श्रीमद्भागवतम् s ૨૪ [ स्क. ५ अ. ५ श्लो. ३१-३५ कपिलो मनुः” इति । ईश्वरबाहुल्यं वारयति आत्मनि स्वस्यांशित्वात् स्वस्मिन्नेवेत्यर्थः । आत्मनः स्वस्याव्यवधानः साक्षाद्भूतः अनन्तः अपारः रोदं रोदनमथु राति आददातीति रोदरो भावः प्रेमा तेनैव सिद्धैः समस्तैरर्थैः परिपूर्ण वैहायसं खेचरत्वं मनोजवं मनस इव देहस्य वेगं दूरदर्शनं हे नृप ! हृदयेन ॥ ३५ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ५ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः । अतिसुकुमारा ये करादयोऽवयवास्तेषां विशिष्टो न्यासः सन्निवेशो यस्य सः प्रकृत्या सुस्वभावेनैव सुन्दरः स्वभावसिद्धेन हासेन शोभनं सुखं यस्य सः नवनलिनदलवदाचरती ये शिशिरतापहारिकनीनिके ययोस्ते अरुणे आयते नयने ताभ्यां रुचिरः सदृशाः समानाः सुभगाश्च कपोलकर्णकण्ठनासिकाः यस्य सः । विगूढस्मितवदनस्य महोत्सवेन विलासेन पुरवनि- तानां मनसि कुसुमशरासनमुपदधानः एवंभूतोऽपि पराक् परितः अवलम्बमानाश्च ते कुटिलाश्च जटिलाच कपिशाश्च केशास्तेषां भूरिभारो यस्य सः अवधूतं तपोयुक्तम् यथेष्टभोजनवस्त्राभरणशय्यासनोन्मर्द्दनापि सकलसुखवर्जितमित्यर्थः । अत एव मलिनम - संस्कृतमणिवत् गूढप्रकाशं निजशरीरं तेन ग्रहगृहीत इवादृश्यत ॥ ३१ ॥ * स ऋषभो भगवान् यहि लोकं जनं योगस्य अद्धा साक्षात्प्रतीपमिवाचक्षाणः पश्यन् बभूव तत्तस्य लोकस्य प्रतिक्रियाकरणं च बीभत्सितं गर्हितमित्याचक्षाणः तदा आजगरं व्रतमास्थितः सन् शयान एवाश्नाति भोजनं करोति पिबति च खादति चणकादीनां चर्वणं करोति अवमेहति मूत्रयति हदति पुरीष- मुत्सृजति उच्चरिते पुरीषे चेष्टमानो विलुण्ठन् तेनैवादिग्धा उद्देशाः शरीरावयवा यस्य सः ॥ ३२ ॥ * * तस्य भगवतः पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य स वायुः समन्तात् दशयोजनं तं देशं सुरभीचकार ॥ ३३ ॥ * * किन गवादि- चया पिबति खादत्यवमेहति स्म काकमिव मृगगवामिवान्यदपि चरितं यस्य सः ॥ ३४ ॥ * इति एवं नानायोगचर्या आचरतीति तथा अविरतः अखण्डः परममहानन्दानुभवो यस्य सः आत्मनि परमात्मनि वासुदेवे सर्वावतारमूले आत्मनः अवतार- भूतस्य अव्यवधानः अव्युच्छिन्नः, न विद्यते अन्तरे मध्ये उदरं फलाभिसन्धिलक्षणं छिद्रं यस्य स चासौ स च तेन भावेन ध्यानेन सिद्धः समस्तैरथैः फलैः परिपूर्णैः योगैश्वय्र्याणि हे नृप ! हृदयेन मनसा नाभ्यनन्दत् ॥ ३५ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे पञ्चमाध्यायार्थप्रकाशः ॥ ५ ॥ गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी स भूमिं पर्यटन् विगूढस्मितं यद्वदनं तस्य महोत्सवेन विभ्रमेण पुरवनितानां मनसि कुसुमशरासनं काममुपधानः उद्दीपयन्नपि अवधूतमनाद्दतं अत एव मलिनं निजशरीरं तेन प्रहगृहीतः पिशाचाद्याविष्ट इवादृश्यतेत्यन्वयः । पुराङ्गनानां कामो- ature तुगर्भाणि विशेषणान्तराण्याह- अतिसुकुमाराणि करचरणोरस्स्थलानि विपुलानि बाह्रसयुगलानि च वदनं च एते येऽवय- वास्तेषां विशिष्टो न्यासः सन्निवेशो यस्य सः, तथा प्रकृत्यैव सुन्दरः तथा स्वभावसिद्धो यो हासस्तेन शोभनं मुखं यस्य सः, तथा नवनलिनदलवदाचरती ये शिशिरतारे तापहारिकनीनिके अरुणे रक्ते आयते दीर्घे नयने नेत्रे ताभ्यां रुचिरः मनोहरः, तथा सदृशाः अन्यूनाधिकाः सुभगाश्च कपोलकर्णकण्ठनासा यस्य सः । ग्रहगृहीतसादृश्ये हेतुगर्भविशेषणान्तरमाह - परागिति । पराक् पुरतोऽवलम्बमानाश्च ते कुटिलाः वक्राश्च ते जटिलाच ते कपिशाः पिशङ्गाश्च ये केशास्तेषां भूरिभारो यस्य सः । एवं साङ्ख्यमार्गस्य ज्ञानप्रधानस्याचारो दर्शित इति बोध्यम् ॥ ३१ ॥ * * इदानों योगमार्गेण तदाचारं दर्शयति-यर्हीति । यहि वाव यदा तु स भगवानृषभ इमं लोकं जनसमूहं योगस्य भगवद्धयानलक्षणस्याऽद्धा साक्षात् प्रतीपं प्रतिपक्षं नाशकमिवा- चक्षाणः पश्यन् बभूव तत्प्रतिक्रियाकर्म तस्य लोकस्य योगविरुद्धाचारनिराकरणं च बीभत्सितं विवादग्रस्तत्वाश्चित्तोद्वेगकरत्वाच्च निन्दितमिति पश्यन् बभूव तदा आजगरं व्रतमास्थितो जातः । तद्व्रतमेव दर्शयति । उच्चरिते पुरीषे चेष्टमानो विलुण्ठन् तेनैव आदिग्धा आलिप्ता उद्देशाः देहप्रदेशा यस्य स एकत्र शयान एवाश्नाति प्रारब्धवशात् प्राप्तमन्नादिकं भुंक्ते स्म जलं पिबति स्म फला- दिकं खादति स्म अवमेहति मूत्रयति स्म हदति पुरीषमुत्सृजति स्मेति । यदेकत्रैव स्थित्वा प्रारब्धकर्मोपभोगस्तदाजगरं व्रतमिति दर्शितम् । तस्य स्वरूपावस्थितस्यान्यैः प्रतिकूलाचरणं वस्तुतो न सम्भवतीति सूचयितुमिवशब्दप्रयोगः || ३२ ॥ * * तर्ह्यवं पुरीषे विलुण्ठनमपि बीभत्स मेवेत्याशङ्कय योगप्रभावात्तस्य न तथेत्याह-तस्येति । तस्य पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य स एवम्भूतो यो वायुः स समन्तात्सर्वतो दशयोजनपर्यन्तं देशं सुरभि चकारेत्यन्वयः । अनेनैवम्प्रभावं विना तचेष्टां कुर्वन्तो मूर्खा ज्ञेया इति सूचितम् ॥ ३३ ॥ * * न केवलमाजगरं व्रतमेव चचार किन्तु यथैव जनानादरेण योगभ्रंशो न स्यात् तथाऽन्येषामपि मृगादीनां चर्यां चचारेत्याह - एवमिति । एवमाजगरव्रतमिव काकमृगगवामिव चरितं यस्य स गोमृगकाकचर्यया व्रजन् गच्छन् तिष्ठन्नासीनः शयान एव पिबति खादत्यवमेहति स्मेत्यन्वयः ॥ ३४ ॥ * इत्येवं मुमुक्षुभिर्योगविघ्नकर्तृ- जनसङ्घर्षपरिहारार्थमेव वर्तितव्यमिति शिक्षार्थ नाना योगचर्या आचरतीति तथा स ऋषभो यदृच्छया सङ्कल्पं विनैव अञ्जसा स्क. ५ अ. ५ श्लो. ३१-३५ ] अनेकव्याख्यासमलङ्कृतम् १२५ साक्षात्प्रत्यक्षतयोपगतानि प्राप्तान्यपि योगैश्वर्याणि हृदयेन मनसा नाभ्यनन्दत् नाङ्गीचकारेत्यन्वयः । कानि तानीत्यपेक्षायां तानि दर्शयति — वैहायसं खेचरत्वं, मनोजवः मनस इव देहस्य वेगः, अन्तर्द्धानं परकाये प्रवेशः, दूरग्रहणं दूरस्थवस्तुदर्शनम् । आदिपदे- नैकादशस्कन्धोक्तानामवशिष्टानामणिमादीनां सङ्ग्रहः । मोक्षे विघ्नरूपत्वात्त्वयाऽपि तत्र मनो न देयमित्यभिप्रायेण सम्बो- धयति — हे नृपेति । तदनङ्गीकारे तस्य हेतुद्वयं भगवद्रूपत्वं भगवद्वयानेन परिपूर्णत्वं च दर्शयति । यतो भगवान् अतः अविरतः निरन्तरः परममहान् गणनातीतो यः आनन्दस्तदनुभवस्वरूपः । अत एव कैवल्यपतिः अन्येषामपि मोक्षदाता । एवम्भूतोऽपि सर्वेषां भूतानामात्मभूते अत एवात्मनि सर्वव्यापके अत एव वासुदेवे सर्वजगदाधारभूते भगवति ऐश्वर्यादिगुणपूर्ण आत्मनः स्वस्य अव्यव- धानेन अभेदेन न विद्यते जीवानामिव अन्तरा मध्ये उदरस्य देहोपाधेर्यो भावस्तेन निरस्तदेहाद्युपाधित्वेनैव सिद्धैः समस्तैरथैः परिपूर्णः । यद्यपि वस्तुतो जीवानां भगवदंशत्वात्तद्रूपत्वमस्त्येव तथापि मुमुक्षुभिस्तत्परत्वेन भवितव्यमिति प्रदर्शनाय तस्योभय- विधत्वं दर्शितमिति ज्ञेयम् ॥ ३५ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्भिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २॥ रचिता पञ्चमे तत्र कृष्णेन स्थितिरूपणे । पञ्चमो विवृतोऽध्यायः श्रीप्राप्तिविनिरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । अतीति । अतिसुकुमारं अतिमृदुतोपेतं यत्करौ पाणी च चरणावङ्घ्री च उरःस्थलं च विपुलं यद्वाहू च अंसौ च गलः कण्ठश्च वदनं च तद्रूपा ये अवयवास्तेषां विशिष्टो न्यासः संनिवेशो यस्य सः तथा प्रकृत्यैव सुन्दरः, स्वभावः स्वभावसिद्धो यो हासस्तेन सु सुन्दरं मुखं यस्य सः, नवनलिनदलवदाचरत इति नवनलिनद्लायमाने, शिशिरतारे तापहारिकनीनिके, अरुणे आयते ये नयने, ताभ्यां रुचिरोऽतिसुन्दरः । तथा सदृशं अन्यूनाधिकं, सुभगं शोभनं च, कपोलौ च कर्णौ च कण्ठश्च नासे च तद्यस्य सः। तथा विगूढं स्मितं यस्मिंस्तद्यद्वदनं तस्य महोत्सवो विभ्रमस्तेन, पुरवनितानां पुराङ्गनानां मनसि, कुसुमशरासनं कामं उपदधान उद्दीपयन् एवंभूतः सन्नपि, पराक् परितोऽवलम्बमानाश्च ते कुटिलाश्च कपिशाश्च केशाः तेषां भूरिर्भारो यस्य सः, अवमतं दुर्जनैस्तिर- स्कृतमत एव मलिनं यन्निजशरीरं तेन, अवधूतेति पाठे अवधूतमनादृतं अतो मलिनं यन्निजशरीरं तेनेत्यर्थः । ग्रहगृहीतः पिशाच- ग्रस्त इव, अदृश्यतालक्ष्यत । जनैरिति शेषः ।। ३१ ।। * * यहति । यर्हि वा व यदैव हि भगवान्, स ऋषभदेवः, इमं लोकं जनं योगस्य अद्धा साक्षात् प्रतीपं प्रतिपक्षरूपं इव, आचक्षाणः संपश्यन्, बभूव । तत्प्रतिक्रियाकरणं च बीभत्सितं निन्दित- क्रिया इति आचक्षाणः, बभूव । तदा आजगरं व्रतं आस्थितः, आजगरं व्रतं नामैकत्रैव स्थित्वा प्रारब्धकर्मोपभोगस्तमाश्रितः सन्नित्यर्थः । शयान एव अश्नाति । देवोपलब्धमन्नादीति शेषः । पिबति जलमिति शेषः । खादति धानादिचर्वणं विदधाति । अव- मेहति मूत्रयति, हदति पुरीषमुत्सृजति, स्मेति संबन्धनीयं सर्वत्र । उच्चरिते पुरीषे, चेष्टमानः विलुण्ठन्, आदिग्धास्तेनैव लिप्ता उद्देशा देहप्रदेशा यस्य सः, बीभत्सितमिदमित्याशङ्क्याह । तस्य ऋषभस्य, यः, पुरीषस्य सुरभिणा गन्धेन सौगन्ध्यं यस्य स चासौ वायुश्व सः, समंतात् सर्वतः दशयोजनं तं देशं, ह स्फुटं यथा तथा, सुरभीचकार । पुरीषस्य सौगन्ध्योक्तिः योगप्रभावातिशय- ज्ञापनार्था ।। ३२ ।। * * एवं गवादिचर्यया पानादिकमपि करोति स्मेत्याह एवमिति । एवं गौर्वृषभच मृगो हरिणश्च काको वायसश्च तेषां चर्या विचरणादिरीतिस्तया, व्रजन गच्छन्, तिष्ठन्नवस्थानं कुर्वन् आसीनः उपविशन्, शयानः शयन माचरन्सन्, काकश्च मृगश्च गौश्च तेषामिवान्यदपि चरितं वृत्तिर्यस्य स तथाभूतः संच, पिबति खादति अवमेहति स्म । इतीत्थं, नाना योगचर्याचरणः योगिभिरेवं कर्त्तव्यमिति प्रदर्शनाय नानाविधयोगव्रतानि सम्यक्कुर्वाणः कैवल्यपतिर्मोक्षैकाधिपतिः, अविरतः अखण्डितः परममहान्सर्वोत्तमः, आनन्दानुभवः स्वस्वरूपानुभवो यस्य सः, भगवान् ऋषभः आत्मनि स्वात्मशरीरके, तथा सर्वेषां भूतानां आत्मभूते भगवति, वासुदेवे आत्मनः अव्यवधानानन्तरोदरभावः, व्यवधानाभावजो भेदाभावस्तेन नित्यनिवृत्तो- पाधित्वेनेत्यर्थः । सिद्धाः स्वतः सिद्धिं प्राप्ताः ये समस्ता अर्थास्तैः परिपूर्णः, अत एव यदृच्छया अनिच्छयापि, उपगतानि योग- प्रभावादेवानुषङ्गिकतया संप्राप्तान्यपि, वैहायसं खेचरत्वं च मनोजवो मनस इव वेगश्च अन्तर्द्धानं तिरोभवनं च परकायाप्रवेशः परशरीरान्तः प्रवेशनं च दूरग्रहणं देशान्तर पतितवस्तुन उपादानं च तान्यादयो येषां तानि, योगैश्वर्याणि, हे नृप हृदयेन मनसा, अञ्जसा तत्त्वतः, न अभ्यनन्दत् । वैहायसादीनां संसृतिनिमित्तत्वेन मुक्तिविरोधित्वात्तानि न परिगृहीतवानित्यर्थः ॥ ३३ ॥ इति श्रीधर्मधुरंधर श्री धर्मात्मज प्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्त मनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥ १२६ श्रीमद्भागवतम् भाषानुवादः [स्क. ५ अ. ५ लो. ३१-३५ यद्यपि उनके हाथ, पैर, छाती, लंबी-लंबी बाँहें, कंधे, गले और मुह आदि अङ्गोंकी बनावट बड़ी ही सुकुमार थी; उनका स्वभावसे ही सुन्दर मुख स्वाभाविक मधुर मुसकानसे और भी मनोहर जान पड़ता था; नेत्र नवीन कमलदलके समान बड़े ही सुहावने, विशाल एवं कुछ लाली लिये हुए थे, उनकी पुतलियाँ शीतल एवं संतापहारिणी थी। उन नेत्रोंके कारण वे बड़े मनोहर जान पड़ते थे । कपोल, कान और नासिका छोटे-बड़े न होकर समान एवं सुन्दर थे, तथा उनके अस्फुट हास्ययुक्त मनोहर मुखारविन्दकी शोभाको देखकर पुरनारियोंके चित्तमें कामदेवका सवार हो जाता था, तथापि उनके मुखके आगे जो भूरे रंगकी लंबी-लंबी घुँघराली लटें लटकी रहती थीं, उनके महान् भार और अवधूतोंके समान धूलिधूसरित देहके कारण वे ग्रहग्रस्त मनुष्य के समान जान पड़ते थे । ३१ ॥ * * जब भगवान् ऋषभदेवने देखा कि यह जनता योगसाधन में विघ्नरूप है और इससे बचने का उपाय बीभत्स वृत्तिसे रहना ही है, तब उन्होंने अजगरवृत्ति धारण कर ली। वे लेटे-ही-लेटे खाने-पीने, चबाने और मल-मूत्र त्याग करने लगे ! वे अपने त्यागे हुए मलमें लोट- लोटकर शरीर को उससे सान लेते ॥ ३२ ॥ * * ( किन्तु ) उनके मलमें दुर्गन्ध नहीं थी, बड़ी सुगन्ध थी । और वायु उस सुगन्धको लेकर उनके चारों और दस योजनतक सारे देशको सुगन्धित कर देती थी ॥ ३३ ॥ * * इसी प्रकार गौ, मृग और काकादिकी वृत्तियोंको स्वीकार कर वे उन्हीं के समान कभी चलते हुए, कभी खड़े-खड़े, कभी बैठे हुए और कभी लेटे-लेटे ही खाने-पीने और मल-मूत्रका त्याग करने लगते थे ॥ ३४ ॥ परीक्षित्! परमहंसोंको त्यागके आदर्शकी शिक्षा देनेके लिये इस प्रकार मोक्षपति भगवान् ऋषभदेवने कई तरहकी योगचर्याओंका आचरण किया । वे निरन्तर सर्वश्रेष्ठ महान् आनन्दका अनुभव करते रहते थे । उनकी दृष्टिमें निरुपाधिकरूपसे सम्पूर्ण प्राणियों के आत्मा अपने आत्मस्वरूप भगवान् वासुदेवसे किसी प्रकारका भेद नहीं था । इसलिये उनके सभी पुरुषार्थ पूर्ण हो चुके थे । उनके पास आकाशगमन, मनोजवित्व (मनकी गतिके समान ही शरीरका भी इच्छा करते ही सर्वत्र पहुँच जाना ), अन्तर्धान, परकायप्रवेश ( दूसरे के शरीर में प्रवेश करना ), दूरकी बातें सुन लेना और दूर के दृश्य देख लेना आदि सब प्रकार की सिद्धियाँ अपने आप ही सेवा करनेको आयों; परन्तु उन्होंने उनका मनसे आदर या ग्रहण नहीं किया ।। ३५ ।। इति पञ्चमोऽध्यायः ॥ ५॥ अथ षष्ठोऽध्यायः राजोवाच न नूनं भगव’ आत्मारामाणां योगसमीरितज्ञानाव भर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १ ॥ ऋषिरुवाच सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २ ॥ तथा चोक्तम्- न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विश्रम्भाच्चिराच्चीर्ण चस्कन्द तप ऐश्वरम् || ३ || नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः । योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥ कामो मन्युर्मदो लोभः शोकमोहभयादयः । कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद् बुधः ॥ ५ ॥ 7. " अथैवमखिललो कपालललामोऽपि विलक्षणैर्जंड वदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां साम्पराय विधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपर- राम || ६ || तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावास " नया देह इमां जगतीमभिमानाभासेन संक्रममाणः कोङ्क’ वेङ्ककुटकान्दक्षिणकर्णाटकान्देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्यकृताश्म कवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७ ॥ अथ समीर वेगविधृतवेणुविकर्षणजातो ग्रदावानलस्तद्वनमालेलिहान : सह तेन ददाह ॥ ८ ॥ अन्वयः - भगवः योगसमीरितज्ञानावभर्जितकर्मबीजानाम् आत्मारामाणाम् यदृच्छया उपगतानि ऐश्वर्याणि पुनः नूनम् क्लेशदानि भवितुम् न अर्हति ॥ १ ॥ * सत्यम् उक्तम् किंतु इह वै एके अनवस्थानस्य मनसः विश्रभम् अद्धा शठकिरातः इव न संगच्छंते ॥ २ ॥ * * तथाच उक्तम् अनवस्थिते मनसि कर्हिचित् सख्यम् न कुर्यात् हि यद्विभात् चिरात् चीर्णम् ऐश्वरम् तपः चस्कंद ॥ ३ ॥ * * कृतमैत्रस्य योगिनः कामस्य तम् अनु ये अरयः पत्युः पुं पुंश्चली जाया इव नित्यम् छिद्रम् ददाति ॥ ४ ॥ * * कामः मन्युः मदः लोभः शोकमोहभयादयः च कर्मबंधः यन्मूलः तत् कः बुधः नु स्वीकुर्यात् ॥ ५ ॥ * * अथ एवम् अखिललोकपालललामः अपि जडवत् विलक्षणैः अवधूतवेषभाषाचरितैः अविलक्षित- भगवत्प्रभावः योगिनाम् सांपरायविधिम् उपशिक्षयन् स्वकलेवरम् जिहासुः आत्मनि आत्मानम् असंव्यवहितम् अनर्थांतरभावेन अन्वीक्षमाणः उपरतानुवृत्तिः उपरराम ॥ ६ ॥ * ह वा एवम् मुक्तलिंगस्य तस्य भगवतः ऋषभस्य देहः अभिमानाभासेन इमाम् जगतीम् संक्रममाणः कोकवेंककुटकान् दक्षिणकर्नाटकान् देशान् यदृच्छया उपगतः कुटकाचलोपवने आस्यकृताश्मकवलः उन्मादः इव मूक्तमूर्धजः असंवीतः एव विचचार ॥ ७ ॥ * * अथ समीर वेगविधूतवेणुविकर्षणजातोप्रदावानलः तद्वनम् आलेलिहानः तेन सह दाह ॥ ८ ॥
… १. प्रा० पा० - २. प्रा० पा० - ३. ४. ५० प्रा० पा० - ६. प्रा० पा० - ७. प्रा० पा० – ८. ९. प्रा० पा० - १० प्रा० पा० - ११. प्रा० पा० - १२. प्रा० पा० - १३. १४. प्रा० पा० - *— १२८ श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका । [ स्कं. ५ अ. ६ श्लो. १-८ षष्ठे लीनाभिमानस्य देहत्यागक्रमाभिधा । प्रदहन्तं दवाग्निं यः पश्यन्नपि न पश्यति ॥ १ ॥ योगैश्वर्याणि नाभ्यनन्ददित्युक्तं तत्र पृच्छति नेति । भगव हे भगवन् योगेन समीरितमुद्दीपितं यज्ज्ञानं तेनावभर्जितानि दग्धानि कर्मबीजानि रागादीनि यैस्तेषां यदृच्छया प्राप्तानि योगैश्वर्याणि पुनः क्लेशदानि भवितुं नार्हन्ति । अतः किमिति नाभ्यनन्ददित्यर्थः ॥ १ ॥ * * अंगीकृत्य परिहरति सत्यमिति । एके बुद्धिमन्तोऽनवस्थानस्य चंचलस्य मनसो विश्वासं न संगच्छन्ते न सम्यक् प्राप्नुवन्ति । शठः किरातो यथा धृतेष्वपि मृगेषु । शठे किराते यथा मृगा इति सप्तम्यन्तं वा । पाठान्तरे शठो वंचकः किरातो वणिग्व्यवहर्तरि यथा तस्मिन्वा व्यवहर्ता विश्वासं न यातीत्यर्थः । पाक्षिकोऽपि दोषो वर्जनीय इत्युपदेष्टुं नाभ्यनन्ददिति भावः ॥ २ ॥ * * तत्र हेतुः । यद्विश्रम्भाद्यस्य मनसो विश्वासाच्चिराचीर्णं बहुकालसंचितं तपश्चस्कन्द सुलाव | ऐश्वरं विष्णोर्मोहिनी रूपदर्शनेन । यद्वा ईश्वराणां समर्थानामपि सौभरिप्रभृतीनां तपः ॥ ३ ॥ * * नित्यमिति । तविश्वासो यो योगी तदीयं मनः कामस्य तमनु येऽरयस्तेषां च छिद्रमवकाशं ददाति । यथा कृतविश्वासस्य पत्युः पुंश्चली जाया जाराणामवकाशं दत्त्वा पतिं घातयति तथा मनोऽपि कामादिभिर्योगिनं भ्रंशयतीत्यर्थः ॥ ४ ॥ * * अरीन्कथयन्नुप- संहरति काम इति । यन्मूलो यन्निमित्तो भवति तन्मनः को नु बुधः स्वीकुर्यात्स्वाधीनमिति मन्येत ॥ ५ ॥ * * प्रासंगिकं समाप्य प्रस्तुतमाह अथेति । अखिलानां लोकपालानां ललामो मण्डनभूतोऽप्युपरता बाधितानुवृत्तिर्यस्मात्स उपरराम देहाभिमानं जहाँ । विलक्षणैरनेक प्रकारैरवधूतवेषादिभिः । न विलक्षितो भगवत्प्रभावो यस्मिन् । सांपरायविधि देहत्यागप्रकार म् । आधाराधेयभावव्यावृत्त्यर्थमाह । अनर्थान्तरभावेनाभेदेन । । । उपासनाव्यावृत्त्यर्थमाह । असंव्यवहितम् ॥ ६ ॥ * * मनसा स्वयन्त्यक्तेऽप्यभिमाने केनापि संस्कारेण देहः प्रचलति यथा कुलालचक्रं सोऽयमभिमानाभासस्तेन । स च जीवन्मुक्ता- नामविद्यावासनया भवतीति ततो विशेषमाह । योगमायावासनयेति । कोकादीन् देशान्गतः सन्कयापि वासनयाऽऽस्ये कृतोऽश्मकवलो येन । असंवीतो नग्नः ॥ ७ ॥ * * समीरवेगेन विधूतानां कंपितानां वेणूनां संघर्षणेन जात उम्रो दावानलः । आलेलिहानः सर्वतो प्रसन् ॥ ८ ॥
श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । । ऋषभः (१) । हे भगव इत्यार्षो नलोपः । योगेन भक्तियोगेन यतो न क्लेशदानि अतो हेतोः । इत्यर्थ इति । न ह्यकस्मात्प्राप्तेषु भोगेष्वनपकुर्वत्सु विरज्यत इति भावः ॥ १ ॥ * * ऋषिः शुकः । पाठान्तरे ‘शठकिराट’ इति पाठे । इत्यर्थ इति । उभयोः परस्परं स्वतुल्यभावनया विश्वासाभाव इति भावः । पाक्षिकोऽपि दोषो वर्जनीय इति दोषो भवति न वेति * सन्दिह्यमानदोषोपीत्यर्थः । इति भाव इति । वस्तुतस्तु किरातपदस्य साधकमात्रविषयत्वात् तानपि शिक्षयितुमिति तात्पर्यम् । अत्र विश्वनाथः – अर्द्धांगीकारेण परिहरति– सत्यमिति । क्लेशदानि न भवन्त्येव तदपि एके सुधियः कुतः अनवस्थानस्य प्रतिक्षणमेव प्राप्तनानादशाकस्येत्यर्थः । तेन शुद्धमपि भूत्वाप्यशुद्धं भवितुं न तस्य विलम्ब इति भावः । शठे धूर्ते किराते नीचजातौ च धूर्तो यथा सौहार्दं प्रदर्श्य लुण्ठितुमेव विश्वसितारं हन्ति तथैव मनः खलु कामक्रोधाद्यनभिभवरूपां स्वशुद्धिं प्रदर्श्य स्वनिरोधे शिथिलप्रयत्नं साधकमेकस्मिन्दिने कामाद्यैराकस्मिकैस्तमधः पातयति यथा च नीचजातिर्मुहुरपि धर्ममध्यापितोऽपि साधुतां दधानोऽपि गृहकोशादिषु विश्वस्तस्सन्समये दुस्त्यजस्वभावप्राप्तं चौर्य्यमेव करोति तथैव मनः शमदमादिभिः शोधितमपि श्रवण- मननादिष्वैश्वर्यं दधानमपि विश्वस्तं सदनिरुध्यमानं कस्मिंश्चित्क्षणे दुर्विषयेष्वपि निमज्जद्विवेकज्ञानादिकमपहरति ॥ २ ॥ * * यथा मनोविश्वासादनर्थो भवति तथा चोक्तं श्रीकृष्णमुनिना-नेति । ऐश्वरं शांभवम् । ननु श्रीशंकरेण तु स्वयं संप्रार्थ्य भगवदैश्वर्यं श्रीसतीं बोधयितुं तथा कृतं “यमामपृच्छस्त्वमुपेत्य योगात्” इत्याद्युक्तेरतः कथमुक्तं शाम्भवमिति तत्राह – यद्वेति । प्रभृती - त्युक्तेऋष्यशृङ्गादिग्रहः ॥ ३ ॥ * * तं काममनु येऽरयः क्रोधलोभादयः । इत्यर्थं इति । अतो मनसो विश्वासो न कार्य इति भावः ॥ ४ ॥ * * आदिना मात्सर्यादिग्रहः ॥ ५ ॥ * * प्रासंगिकं प्रसंगप्राप्तम् । प्रस्तुतमाह प्रकृतमनुसरति । अथ कदाचिदर्थे । विलक्षितोऽलक्षितः देहत्यागानुकरणेनैव शिक्षयन्नित्यर्थः । तद्देहस्य चिन्मयत्वात् । वस्तुतस्तु —-आत्मनि परमात्मनि स्वस्मिन्नात्मानं श्रीऋषभदेवाख्यं शरीरमव्यवहितं मायाव्यवधानरहितमत एवानार्थान्तरभावेनाभेदेनान्वीक्षमाणः प्रतिक्षणं पश्यन् । उपरतानुवृत्तिरवधूतत्वानुकरणं यस्य स उपरराम स्वावतारलीलातो विरराम । अत एव स्वकलेवरं जिहासुः स्वकलेवरे प्राकट्यं त्यक्तुमिच्छुरिति वास्तवोर्थः ॥ ६ ॥ तस्य देहान्तर्द्वान प्रकार माह — तस्येति । भगवतोऽपि मुक्त- लिंगस्य त्यक्तभगवश्चित्तस्य मुक्तानामिव लिंगं यस्येति वा । यथा योगिनां केनापि संस्कारेण देहः प्रचलति निष्पन्नघटमपि कुलाल- चक्रमिव सोयमभिमानाभासः स च जीवन्मुक्तानामविद्याभासवासनया भवतीति ततो विशेषमाह - योगमायावासनया अवधूत- लीलेच्छासंस्कारेण । यथाति बालको यद्यत्प्राप्नोति तदपि स्वमुखे निःक्षिपति तथैवास्ये कृतोऽश्मनः पाषाणस्य कवलो ग्रासो येन स तथा । नान्यद्भोक्तव्यं वक्तव्यं वा किञ्चिदित्यभिप्रायाभासेनेति सन्दर्भः । नागपुरतः पूर्वतोः नदीतटे कुटका चलोस्ति । तस्योपवने उन्माद इवोन्मत्तो यथा चेष्टते तथा ॥ ७ ॥ * * तेन सह श्री ऋषभदेवसहित एव दावानलस्तद्वनं ददाह तथा च तद्वनवर्त्तितरुमृगा-एकं, ५ अ. ६ श्लो. १-८ ] अनेकव्याख्या समलङ्कृतम् PISTR १२९ दीनां स्थूल देहं दावानलो ददाह सूक्ष्मं तु देहं श्रीऋषभ इति तद्वनवर्त्तिनः सर्वे तत्प्रसादान्मुक्ता बभूवुः “यैः संस्पृष्टोऽभिदृष्टो वा संविष्टानुगतोऽपि वा । कोशलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ||” इतिवत् । ततोऽनलसाधर्म्यमुक्तवा तद्वदन्तद्वनिमेव तस्येति व्यंजितमत एव तस्य तृतीयेऽध्याये आविर्भाव एवोक्तो न तु जन्मेति ॥ ८ तगर [ ॥ ८ ॥ श्रीमद्वीरराघवव्याख्याने mmhita || mp * यदुक्तं युक्तिविरोधित्वाद्वैहायसादीनि योगेश्वर्याणि नाभ्यनन्ददिति तत्र पृच्छति राजा नेति । हे भगवन्नात्मारामाणां योगेन समीरितमुद्दीपितं ज्ञानं तेन योगरूपवायुसहकृतब्रह्मसाक्षात्काररूपज्ञानाग्निना भर्जितानि दग्धानि कर्मणां बीजानि वासनारूपाणि येषां हेतुगर्भमिदम् । ज्ञानयोगाभ्यां निर्दग्धशेषकर्मबीजत्वादित्यर्थः, यदृच्छयोपगतानि ऐश्वर्याणि वैहायसादीनि पुनः क्लेशदानि संसृतिनिमित्तानि भवितुं नार्हन्तीति किमिति नाभ्यनन्ददिति प्रश्नार्थः ॥ १ ॥
उत्तरयति शुकः सत्यमुक्तमिति । योगैश्वर्यासक्तिनिमित्तज्ञानयोगक्षरणसम्भावनयानभिनन्दनेऽङ्गीकारः पुनः संसृतिनिमित्तानि न भवन्त्यत्रानङ्गीकारः, सौभर्यादीनामैश्वर्यस्य संसृत्तिनिमित्तत्वदर्शनात् । यदुक्तं पुनः क्लेशदानि न भवन्तीति तत्रापि तु योगक्षरणद्वारा भवन्त्येवेत्याह किं त्विति । इह वा एके महामुनयः वशीकृतमनसः पुरुषाः किलानवस्थानस्यातिचञ्चलस्य मनसः अद्धा साक्षाद्विस्रम्भं विश्वासं न सङ्गच्छन्ते न प्राप्नुवन्ति न कुर्वन्तीत्यर्थः । मनो न विश्वसन्तीति यावत् । जितमनस्कानामपि भोगासक्त्या मनःपारवश्ये सत्यव्यवस्थितं मनस्तान् वञ्चयित्वात्माधीनं सत्संसारयेदिति भावः । तत्र दृष्टान्तः शठकिरात एवेति । शठकिरातो वागुरिकः स्वस्मिन् विश्वासपर्यन्तं मृगाधीन इव स्थित्वा वञ्चयन् तान् हन्ति तद्वत् ॥ २ ॥
अत्राभियुक्तोक्तिमुदाहरति तथा चोक्तमिति । मनस्यनवस्थिते सति कदाचिदपि कस्मिंश्चिदपि जितमनस्कोऽपि मम स्वाधीनमनः क्रिमनर्थमापादयेदिति बुद्ध्या सङ्गं न कुर्यात्, यस्य मनसो विस्रम्भाद्विश्वासाच्चिरकालसम्भृतमपि ऐश्वरमीश्वरस्य विष्णोः सम्बन्धि तपः ज्ञानमयम् उपासनात्मकं तपश्चस्कन्देत् स्कन्देन क्षरेत् ॥ ३ ॥
सङ्गात्कामावसरसम्प्रदाये “सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते” इत्युक्तरीत्या कामस्पृहाभावेन क्रोधादयः प्रादुःष्युरित्याह नित्यमिति । यो मनःकृतविश्वासो योगी कामस्य च्छिद्रं योगरूपमैश्वर्यं ददाति काममनुसृत्य जायमाना येऽरयः शत्रुवदनर्थकारिणः क्रोधादयस्ते मनसि कृतमैत्रस्य योगिनो मनश्छिद्रं ददति यथा कृतविश्वासस्य पत्युः पुंश्चली जाया जाराणामवकाशं दत्वा पतिं घातयति तथेति ॥ ४ ॥
अरीन्कथयन्नुपसंहरति काम इति । कर्मरूपो बन्धश्च यन्मूलः भोगैश्वर्यभोगासक्तिमूलः, अतः को नु पुमान् बुधः सन् तत्कामादिमूलं स्वीकुर्यात् अज्ञश्चेत् स्वीकुर्यादित्यर्थः ॥ ५ ॥
प्रासङ्गिकं परिसमाप्य प्रकृतमाह अथेति । अखिलानां लोकापालानां ललामो मण्डनभूतोऽपि विलक्षणैरनेकप्रकारैर्जडवदज्ञवदलक्षितः अवधूतवेषादिभिरविलक्षितो भगवत्प्रभावो यस्मिन् योगिनां साम्परायविधि देहत्यागप्रकारमनुशिक्षयन् स्वशरीरं त्यक्तुमिच्छुरव्यवधानमज्ञानातिरोहितमात्मानं प्रत्यगात्मानमात्मनि परमात्मन्यनर्थान्तरभावेन अर्थान्तरं स्वतन्त्रं वस्तु तस्य भावस्ततो नञ्समासः, परमात्मा पृथक्सिद्धत्वेनान्वीक्षमाणः साक्षात्कुर्वाणः अत एव उपरतानुवृत्तिर्निवृत्तप्रारब्धकर्मानुवृत्तिः उपरराम । देहादिति शेषः । देहं त्यक्तवानित्यर्थः ॥ ६ ॥
त्यागप्रकारमेवाह गद्यद्वयेन तस्येति । एवं मुक्तलिङ्गस्य मनसा त्यक्तशरीराभिमानस्य तस्य भगवत ऋषभस्य देहो विचचारेत्यन्वयः । देहो विचचारेत्युक्तिर्देहधारणानादरद्योतनार्था, अन्यथा सुषुप्तमूर्च्छितदेहस्येव संचारानुपपत्तेः । कथंभूतो विचचार योगमायाया भगवन्मायाया वासनाया मायायास्तीर्णत्वेऽपि तद्वासनामात्रानुवृत्त्या यः अभिमानाभासः देहे आत्मीयत्वाभिमानाभासस्तेन देहात्माभिमानाभासमात्रमेवास्य न तु तत्त्वतो देहात्माभिमानोऽस्तीति ज्ञापनायाभासपदं प्रयुक्तम्, इमां जगतीं चङ्क्रममाणः सञ्चरनेकदा कर्हिचित्कोङ्कणादिदेशान् यदृच्छया गतः कुटकाचलस्थसमीपवने आस्ये वक्त्रे कृतः निक्षिप्तः अश्मैव कवलो येन उन्माद इव लक्ष्यमाणः मुक्ता विक्षिप्ताः मूर्द्धजाः शिरोरुहा यस्य असंवीतः नग्न एव ॥ ७ ॥
अथानन्तरं समीरवेगेन विधूतानां कम्पितानां वेणूनां विघर्षणेन संघर्षणेन जातो य उग्रो दवाग्निस्तद्वनं कुटकाचलो पवनमालेलिहानो दहनः तेन ऋषभस्य देहेन सह ददाह, दाह्यासाहित्यमत्र विवक्षितम् ॥ ८ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली - शुभयोगिजनशिक्षार्थमशुभ योगिजनमोहनार्थं तत्प्रभृतिभेदाभेदशास्त्रप्रवृत्तिप्रकाश इत्येतदृषभदेवचरितापदेशेन निरूप्यतेऽ- स्मिन्नध्याये । तत्रादौ यद्यपि देवादीनामैश्वर्य भोगेन मनासक्तथा मुक्तिरङ्गानन्दहासो नास्ति, तथाप्यल्पाधिकारिणां स स्यादि- त्यादितात्पर्य ज्ञाप्यते । अत्रानन्तरातीताध्यायान्ते योगैश्वर्याणि नाभ्यनन्ददित्युक्तं तत्र राजा शङ्कते न नूनमिति । योगेन हरेरुपास्तिलक्षणेन समीरितमुत्पन्नं यत् ज्ञानं तेनावभर्जितं दग्धं कर्मबीजं रागादिलक्षणं येषां ते तथा तेषां परमात्मनिरतानां यदृच्छयानिच्छयोपगतानि योगेश्वर्याणि पुनः पश्चात्क्लेशदानि भवितुं नार्हन्ति, नूनं कथं तानि नाभ्यनन्ददित्यन्वयः ॥ १ ॥ * * अङ्गीकारेण परिहरति सत्यमिति । अनङ्गीकारपक्षमाह किन्त्विति । एके महात्मानः घटकिरादे नूतनघटे स्थितस्य जलस्येवान- वस्थानस्य विस्रम्भं विश्वासं वा इत्यनेन । “महैश्वर्यस्वरूपोऽपि भगवानृषभो विपद् । नैश्वर्याणि स्वकीयानि ख्यापयामास सर्ववित् ॥ उत्तमानां ज्ञापनार्थ धर्मतत्त्वस्य केशवः । तेषामैश्वर्यभोगे हि मनः सक्ति व्रजेद्यदि ।। आनन्दो मुक्तिगो हासं विकर्म- श्रीमद्भागवतम् । । | * T ३० [स्क. ५ अ. ६ श्लो. १-८ करणाद् व्रजेत् । धर्माधर्मविहीनोऽपि भगवानृषभस्ततः । तेषां धर्मज्ञापनार्थ नाविश्चक्रे परां स्थितिम् । देवानां नाशुभाद्धासः शुभात्किञ्चित्सुखोन्नतिः । आधिकारिकजीवानामेवमन्येषु तद्वयम् ।। अल्साधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् अशुभ भाव जोन्नाहो महाधिकारिणामपि ॥ अशुभे कृते न भवति तारतम्याच्च स स्मृतः । प्रजायाश्च तथा देवा महाधिकारिणः स्मृताः ॥ ऋष्यशीतिस्तथा सप्त पितरोऽप्सरसां शतम् । गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु ।। अल्पाधीकारिणः प्रोक्ता अनधीकारिणः परे ।” इति शास्त्रान्तरप्रसिद्धं तात्पर्यं ज्ञापयति । मठकिराट इति पठित्व वागुरेति केचिद्वयाचक्षते, ते प्रेक्षकाणां परिषद्यसम्प्रदायज्ञा इति परिहसनीया इति ॥ २ ॥ त्रैलोक्यशिक्षार्थ श्लोकसंग्रहेणोक्तमित्याह तथा चोक्तमिति । यथा मनोविश्वासे तपआदेर्विस्रंसनं भवति तथा चोक्तमित्यर्थः । ऐश्वरमीश्वरविषयम् अनेन सौभर्यादीश्वराणामपि यथा तपः स्कन्दितं तथेति ध्वनयति ॥ ३ ॥ * * छिद्रमवकाशं तमनु कामानन्तरम् अरयः क्रोधादयः तेषां च च्छिद्रं ददातीत्यर्थः । - कृतमैत्रस्य मनसा सहेति शेषः । पुंश्चली पुरुषमात्राभिगामिनी जाया पत्युररीणामुपपत्तीनां प्रवेशमिवः ॥ ४ ॥ ॐ * पात्रे प्राप्ते द्रव्यात्यागेच्छा लोभः, अतीतदुःखस्मरणनिमित्त चित्तविक्षेपः शोकः, वैचित्यं विपरीतज्ञानं मोह, पूर्वस्थितात्सञ्चलनं भयं कर्मणा संसारबन्धो यन्मनोमूलं यस्य स तथा को नु बुधस्तन्मनो ममेष्टमिति स्वीकुर्यादित्यर्थः ॥ ५ ॥ * * अधुना प्रासङ्गिकं मोहं परिहृत्य प्रकृतमनुसरति अथेति । “विष्णोः कलेवरत्यागो भूत्यागोऽन्यो न विद्यते । कलेवरत्यागोऽन्येषां पञ्चत्वं समुदीरितम् ॥” इति वचनात्स भगवान् स्वकलेवरं स्वाधीनां पृथिवीं जिहासुः त्यक्तुमिच्छन्नुपरराम विरतव्यापारो बभूवेत्यन्वयः । कलेवरशब्दस्य प्रतीत एवार्थः किं न स्यादित्याशङ्कय वक्ष्यमाणानां विशेषणानां प्राकृतपुरुषेऽसम्भवादुक्त एवार्थ उचित इति भावेनाह अखिलेति । अखिललोकपालानां ललामश्चूडामणिः, अनेनाप्राकृतत्वं कथमवगतमित्यत उक्तं विलक्षण इति । लोकविपरीत- लक्षणः ‘अस्थूलमनण्वह्रस्वमित्यादेः कथं तर्हि तस्य प्रभावो न लक्ष्यत इत्यत उक्त जडवदवधूतेति । किमतः प्रयोजनमत उक्तं योगिनामिति । साम्परायविधि मोक्षसाधनप्रकारम् उपहितस्यास्य शिक्षा कथं मोक्षोपयोगिनी स्यादित्यत उक्तमात्मनीति । आत्मानं स्वस्वरूपमात्मनि ब्रह्मणि अनर्थान्तरभावेन भिन्नो नास्मोति मनसा असंव्यवहितं व्यवधानरहितमन्वीक्षमाणोऽनुभवन्तु- परतानुवृत्तिः निवृत्तविषयानुवृत्तिः निवृत्तमुक्त्यन्यवस्थो वा नित्यमुक्त्यवस्थत्वादिति ॥ ६ ॥ इदानीं हरेर्देहः सच्चिदानन्दत्वेन तदभिन्न इति दर्शयितुं तस्य सञ्चरणप्रकारं वक्ति तस्य हवेति । एकदर्षभस्य देह इमां जगतीं विचचारेत्यन्वयः । मुक्तलिङ्गस्य वर्णाश्रमादिलक्षणरहितस्य भौतिकशरीररहितस्य वा योगमाया योगसामर्थ्यं तस्यावसानं काष्ठोत्कर्षो यस्य स तथा देहस्य जडस्यः सञ्चरणं कथं घटत इत्यत उक्तमभिमानाभासेनेति । अभितो ज्ञानप्रकाशेन चङ्क्रममाणः पुनः पुनः पादक्षेपं कुर्वाणः ज्ञानात्मकत्वात् गमनादिक्रियां कुर्वाण इत्यर्थः । अनेन देहदेहिनोरभेदोऽपि सूचित इति कस्मात् कान् देशानुद्दिश्य *गमनमित्यत उक्तं कोङ्कटकर्णाटकादीति । कोङ्कटकर्णाटकाद्भीमरथ्युपपदनदीमातृकदेशादक्षिणकर्णाटकान् सौराष्ट्रादिदेशान् स्वेच्छयोपगतः तत्र नागपुरश्रामात्पूर्वत उत्तरनदी नामास्ति तस्य निकटे कुटचाचलस्य कुटचपर्वतस्य प्राचीनसानौ विद्यमाने उपवने स्थित आस्यकृताश्मकवलः मुखान्तर्गतपाषाणग्रासः असंवीतो वस्त्राद्यावरणरहितः उन्मादे सति पुमान्यथा चेष्टते तथेत्यर्थः ॥ ७ ॥ * * इदानीं तस्य देहत्यागव्याजेन दावाग्निनिविष्टस्य जगत्संहारप्रकारमाह अथेति । समीर वेगेन विधुता अन्योऽन्यमाकम्पिता ये वेणवः वंशास्तेषां निकर्षान्निष्पेषणाज्जातो यो दवानलोज्ज्वलजिह्वया दिवमालेलिहानस्तेनाग्निना साधनेन सह भगवांस्तदुपवनं ददाहेत्यन्वयः । वनमित्युपलक्षणं जगदपीति शेषः । अत्र प्रतीतमनङ्गीकृत्यान्यार्थाङ्गीकारे किं प्रमाणमत्रोच्यते “ज्ञानानन्दात्मको देह ॠषभस्य महात्मनः । तादृशेनैव मनसा क्रमश्र कुटचाचले ॥ दावाग्निमनुविश्याथ तत्रस्थः प्रादहज्जगत् ।” इति । कालान्तरभाविनो विश्वसंहारस्येदानीमयं कर्तेति कथं युज्यत इति चेन्न, तदेहित्वेनाग्नेरभिव्यज्य तंत्र स्थितस्य तस्य योगात्, तदुक्तम् “एवमग्नेरभिव्यक्तस्तस्थौ विष्णुः सनातनः । इति न केवलं विश्वक्षयपर्यन्तमेव स्थितं किन्तु पश्चादपि मतं तर्हि स्वमाहात्म्यं किं न प्रकटितमिति चेन्न, भूमाववतारस्य देवशिक्षणार्थत्वेन धर्माणामप्राकट्यस्य स्वधर्मत्वात् ऋषभत्वेन सङ्गार्थधर्मानद्यापि तत्रगः आस्ते स ’ वासुदेवात्मा वासुदेवोऽहमित्यजः सदा स्थितः’ इत्यनेन स्वरूपज्ञानस्य कदापि तिरोभावो नास्तीति सूचितं, निर्लेपेन सर्वज्ञेन सर्वोत्तमेन हरिणा किं प्रयोजनमकारीति चेन्न, असुरजनमोहनार्थत्वात् ॥ ८ ॥ श्रीमजी वगोस्वामिकृतः क्रमसन्दर्भः king टीकायां पाक्षिक इति दोषो भवति न वेति सन्दिह्यमानदोषोऽपीत्यर्थः । वस्तुतस्तु उत्तरपदस्य साधकमात्रविषयत्वात् तानपि शिक्षयितुमिति भावः । अनुशिक्षयन्निति तत्तत् सर्वं माययानुकरणमात्रमिति ज्ञेयम् । अत एवानुकरणेन शिक्षयन्निति पदार्थश्च वास्तवार्थोऽयं स्वकलेवरं स्वाधिष्ठानं प्रपञ्चमात्मनि निजांशिनि श्रीवासुदेवे आत्मानं तदशं श्रीऋषभदेवाख्यमनुवृत्तिः प्रपञ्चानुवर्त्तनम् उपरराम तदभिमानं जहाँ ।। १-६ ॥ लिङ्गमपि तदेव योगमायावासनया लीलेच्छासंस्कारेण आस्ये कृताश्मकवलत्वमन्यत् किञ्चिदपि न भोक्तव्यं न वक्तव्यमित्यभिप्रायाभासेन ॥ ७ ॥ * * अथ समीरेति वास्तवार्थश्चायं तेन सहेति कर्तृसाहाय्ये तृतीया, गौणमुख्यन्यायेन कर्त्तर्येव प्राथमिकप्रवृत्तेः ततञ्च दावानलस्तद्वनवत्तितर्वादि- जीवानां स्थूल देहं ददाह ऋषभदेवस्तु सूक्ष्मं देहमिति तस्य सर्वमोक्षदत्वादनुसन्धेयम् “स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनु- 8 क. ५ म. ६ लो. १-८1 अनेकम्याक्यासमलंकृतम् ફર गतोऽपि वा । कोशलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ।” इतिवत् ततोऽनल साधर्म्यं इतिवत् ततोऽनलसाधर्म्यं वर्णयित्वा तद्वदन्तर्द्धानमेव तस्येति व्यञ्जितम् ।। ८ ।। ।। श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी क मनसश्चातिदौरात्म्यं देहान्तर्द्धापिनं हरेः । पाषण्डोत्पत्तिरित्येवं षष्ठेऽध्याये निरूप्यते ॥ १ ॥ ! मात्र योगेश्वर्याणि नाभ्यनन्ददिति श्रुत्वा पृच्छति नेति । हे भगव! हे भगवन् ! योगेश्वरेण समीरितमुद्दीपितं यज्ज्ञानं तेनावभर्जितानि कर्मैव बीजानि येस्तेषां यदृच्छयोपगतानीति न ह्यकस्मात् प्राप्तेषु भोगेष्वनपकुर्वत्सु विरज्यत इति भावः ॥ १ ॥ १
-
- सत्यमुक्तमिति । क्लेशदानि न भवन्त्येव तदपि एके सुधियः मनसो विश्वासं न संगच्छन्ते न सम्यक प्राप्नुवन्ति । कुतः अनवस्थानस्य प्रतिक्षणमेव प्राप्तनानादशाकस्येत्यर्थः । तेन शुद्धं भूत्वाप्यशुद्धं भवितुं न तस्य विलम्ब इति भावः । शठे धूर्ते किराते नीचजातौ च धूर्तो यथा सौहार्द प्रदर्श्य लुण्ठितमेव विश्वसितारं हन्ति तथैव मनः खलु कामक्रोधाद्यनभिभवरूपां स्वशुद्धिं प्रदर्श्य स्वनिरोधे शिथिलप्रयत्नं साधकमेकस्मिन् दिने कामाद्यैरेवाकस्मिकैस्तमधः पातयति यथा च नीचजातिर्मुहुरति धर्म- मध्यापितोऽपि साधुता दधानोऽपि गृहकोषादिषु विश्वस्तः सन् समये दुस्त्यजस्वीयस्वभावप्राप्तं चौर्यमेव करोति तथैव मनः शमदमा- दिभिः शोधितमपि श्रवणमननादिषु स्थैर्यं दधानमपि विश्वस्तं सदनिरुद्धयमानं कस्मिश्च लक्षणे दुर्विषयेष्वपि निमज्जद्विवेक- ज्ञानादिकमपहरति ॥ २ ॥ * * यस्य विस्रम्भात् विश्वासात् चिराचीर्ण बहुकालसञ्चितं तपञ्चस्कन्द सुस्राव । ऐश्वरं शाम्भव विष्णोर्मोहिनीरूपदर्शनेन यद्वा ईश्वराणां समर्थानामपि सौभरिप्रभृतीनां तपः ॥ ३ ॥ * * तत्र हेतुः नित्यमिति । कृत- विश्वासस्य योगिनो मनः कामस्य च्छिद्रमवकाशं ददाति तं काममनु ये अरयः क्रोधलोभादयस्तेषाञ्च । यथा कृतविश्वासस्य पत्युः पुंश्चली जाया जाराणामवकाशं दत्वा पतिं घातयति तथा मनोऽपि कामादिभियोगिनं भ्रंशयतीत्यर्थः ॥ ४ ॥ * अरीन् कथयनुपसंहरति काम इति । यन्मन एव मूलं यस्य सः ॥ ५ ॥ प्रासङ्गिकं समाप्य प्रस्तुतमाह अथेति । सम्पराय- विधि देहत्यागप्रकारमिति देहत्यागानुकरणेनैव शिक्षयन्नित्यर्थः । तद्देहस्य चिन्मयत्वात् वस्तुतस्तु आत्मनि परमात्मनि स्वस्मिन् आत्मानं श्री ऋषभदेवाख्यशरीरमव्यवहितं मायाव्यवधानरहितम् । अत एवानर्थान्तरभावेन अभेदेन अन्वीक्षमाणः प्रतिक्षणं पश्यन् उप- रता अनुवृत्तिरवधूतत्वानुकरणं यस्य सः उपरराम स्वावतारलीलातो विरराम । अत एव स्वकलेवरं जिहासुः स्वकलेवर प्राकट्यं त्यक्तु- मिच्छुरिति वास्तवोऽर्थः । अत्राप्रेऽपि प्रकटोऽर्थः स्पष्ट एव ॥ ६ ॥ * तस्य देहान्तर्धानप्रकारमाह तस्येति । भगवतोऽपि मुक्तलिङ्गस्य त्यक्तभगवश्चिह्नस्य मुक्तानामिव लिङ्गं यस्येति वा यथा योगिनां केनापि संस्कारेण देहः प्रचलति निष्पन्नघटमपि कुलाल- चक्रमिव सोऽयमभिमानाभासः स च जीवन्मुक्तानामविद्याभासवासनया भवतीति ततो विशेषमाह । योगमायावासनया आवधूत्य- लीलेच्छासंस्कारेण यथातिबालको यद्यत् प्राप्नोति तदपि स्वमुखे निःक्षिपति तथैव कृताश्मकवलः असंवीतो नग्नः ॥ ७ ॥ ** उपररामेत्युक्तं तत्र किं कुर्वन्नुपररामेत्यत आह अथेति । तेन सह श्रीऋषभदेवसहित एव दावानलस्तद्वनं ददाह । तद्वनवर्त्तितरु- मृगादीनां स्थूल देहं दावानलो ददाह सूक्ष्मं देहन्तु श्रीऋषभ इति तद्वनवर्त्तिनः सर्वे तत्प्रसादान्मुक्ता बभूवुरित्यर्थः ॥ ८ ॥ । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः षष्ठे ऋषभचरितमुपसंहरति पूर्वाध्यायान्ते योगैश्वय्र्याणि नाभ्यनन्ददित्युक्तम् । तत्र तदभिनन्दने आत्मारामाणां का हानिरित्याशयेन पृच्छति नूनमिति । हे भगवः ! हे भगवन् ! योगेन ध्यानयोगेन समीरितमुद्बोधितं यज्ञानं तेनावभर्जितानि देह- गेहादी अहम्ममात्मकानि कर्मबीजानि यैस्तेषां योगैश्वर्य्याणि क्लेशदानि दुःखदानि न भवितुमर्हन्ति, अतः किमिति नाभ्यनन्ददिति भावः ॥ १ ॥ * * अनवस्थानस्य दुरवग्रहस्य शठकिराते मृगा इवेति शेषः । इह पूर्वस्वभावपरित्यागे मनसो विस्रम्भ्रं न यस्य मनसो विस्रम्भी- सङ्गच्छन्ते शठकिराते यथा तथा पूर्वस्वभावपरित्यागे विस्रम्भं न सङ्गच्छन्ते इत्यन्वयः ॥ २ ॥ * * द्विश्वासात् चीर्ण सचितम् ऐश्वरं माहेश्वरम् मोहिनीदर्शने चस्कन्द सुस्राव ॥ ३ ॥ * * कृतं मैत्रं मनसो विश्वासो येन तस्य मन इति शेषः । कामस्य च्छिद्रं ददाति तं काममनु ये अरयः मन्युमदादयस्तेषां च यथा कृतविश्वासस्य पत्युः पुंश्चली जाया जारस्य तदनुवर्तिनां च च्छिद्रं ददाति ॥ ४ ॥ * * यन्मूलो यन्निमित्तस्तन्मनः कः स्वीकुर्यात्स्वायत्तं मन्येत ॥ ५ ॥ अथोक्तलोकसङ्ग्रहार्थस्वचेष्टितप्रदर्शनानन्तरम् अखिललोकपालानां ललामोऽलङ्कारभूतः योगिनां साम्परायविधि देहविन्यासविधि- मनुशिक्षयन् उपरतानुवृत्तिः उपरता निवृत्ता देहाभिमानरूपा अनुवृत्तिर्यस्मादन्येषां तच्चरितचिन्तकानां सः उपरराम लोकसङ्प्रहार्थ- चेष्टितान्निवृत्तोऽभूत् किं कुर्वाणः आत्मानमवतारभूतमात्मन्यवतारिणि विष्णौ अर्थान्तरभावः नृदेवभावः तद्वैपरीत्येन असंव्यवहितं निर्व्यवधानमन्वीक्षमाणः साक्षात्कुर्वाणः ॥ ६ ॥ * एवं मुक्तलिङ्गस्य त्यक्तनृपलीलस्य तस्य ऋषभस्य देहो युज्यते इति योगः सङ्कल्पस्तेन गृहीता या नृपलीला तस्यास्त्यक्तत्वेऽपि तद्वासनया अभिमानस्य गन्तृत्वाभिमानस्य आभासेन इमां जगतीं चङ्क्रममाणः कोङ्कादीन्देशान् गतः सन् कयापि वासनयास्ये कृतः अश्मकवलो येन सः असंवीतो नग्नो विचचार ।। ७-८ ।। PIE HERE
-
१३२ श्रीमद्भागवतम् गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी [स्क. प. ६ श्लो. १-८ अहङ्कारविहीनस्य देहत्यागप्रकारतः । षष्ठे त्वग्निप्रवेशेन वैराग्यं विनिरूप्यते ॥ १ ॥ यद्यप्यैश्वर्यानङ्गीकारे निजानन्दलाभपूर्णत्वं हेतुरुक्त एव तथापि भगवत ऋषभस्य पूर्णकामस्य योगचर्यापरोपदेशार्थमेव अतस्तस्य तादृशानामन्येषां च तदङ्गीकारे दोषानुपलम्भात् किमिति नाङ्गीकृतवानिति पृच्छति - नेति । तव न किञ्चिदविदितमतो मम सन्देहं निवारयेत्यभिप्रायेण तस्य ज्ञानातिशयं प्रकाशयन् सम्बोधयति - हे भगवन्निति । योगेन भगवद्धयानलक्षणेन समीरितं समुद्दीपितं यज्ज्ञानं तेनावभर्जितानि दग्धानि कर्मबीजानि सगादीनि येषाम् अत एवात्मारामाणां क्लेशबीजाहम्ममाभिमानाभावात् यदृच्छयोपगतानि प्राप्तानि योगैश्वर्याणि पुनः क्लेशदानि भवितुं नार्हन्ति नूनं निश्चितमेतत्, अतस्तानि कुतो नाभ्यनन्ददिति शेषेणा- न्वयः ॥ १ ॥ * * तदुक्तमङ्गीकृत्य सन्देहं परिहरति- सत्यमिति । आत्मारामाणां योगैश्वर्याणि क्लेशदानि न भवन्तीति भवता सत्यमुक्तं किन्तु परन्तु यदि तत्रासक्तिर्न स्यात् अन्यथा तु क्लेशकराणि भवन्त्येव, अतो मनसोऽनवस्थितत्वात् तथापि इह योगमार्गे एके मुख्या विवेकिनो मनसो विश्रम्भं विश्वास नैव सङ्गच्छन्ते सम्यक नैव प्राप्नुवन्तीत्यन्वयः । वै इत्यवधारणे । अद्धति अत्र शिष्टजन प्रसिद्धमेतदिति सूचयति । तत्र हेतुमाह–अनवस्थानस्येति, चञ्चलत्वात् प्रतिक्षणमेव प्राप्तनानादशाकस्येत्यर्थः । तत्र दृष्टान्तमाह-शदेति । शठो वञ्चकः किरातो व्याधो यथा धृतेऽपि मृगे विश्वासं न गच्छति । यद्वा सप्तम्यन्तम् । शठे किराते ततो विमुक्ता मृगा यथा विश्वासं न गच्छन्ति तथेत्यर्थः । तथा च पाक्षिको दोषो वर्जनीय एवेति शिक्षयितुमैश्वर्याणि नाभ्यनन्ददिति भावः ॥ २ ॥ * शिष्टप्रसिद्धिमेव दर्शयति तथेति । मनसो विश्वासो न कर्त्तव्य इति शिष्टरुक्तमित्यर्थः । तदुक्तिमेव दर्शयति–नेति त्रिभिः । मनसि ह्यनवस्थिते चञ्चले सति कर्हिचित् कदाचिदपि केनापि सह सख्यं मैत्रीं न कुर्यादित्यन्वयः । सख्य- करणे को दोष इत्यपेक्षायां पूर्व महतां तत्करणे जातं दोषं दर्शयति-यदिति । मम मनो मदधीनं अतोऽन्यसम्बन्धेऽपि मम दोषो न भविष्यतीति यस्य मनसो विश्वासात् ऐश्वरमीश्वराणां समर्थानामपि रुद्रसौभरिप्रभृतीनां चिराचीर्ण बहुकालायाससचितं तपश्चस्कन्द सुखावेत्यन्वयः । रुद्रस्य मोहिनीरूपदर्शनेन सौभरेय मीनविहारदर्शनेन मोहस्य वक्ष्यमाणत्वात् ॥ ३ ॥ केन प्रकारेण विश्वसितस्य मनसो भ्रंशकत्वं तदाह-नित्यमिति । कृतं मैत्रं विश्वासो येन तस्य योगिनो विश्वसितं मनो नित्यं सर्वदा तं भ्रंशयितु- कामस्य विषयभोगाभिलाषस्य ये च तं काममनुवर्तन्तेऽरयः शत्रवस्तेषां च च्छिद्रं प्रेवेशावकाशं ददातीत्यन्वयः । तत्र दृष्टान्त- माह - पत्युरिति, यथा पुंश्चली जाया कृतविश्वासस्य पत्युर्धातयितुं जाराणामवकाशं ददाति तथेत्यर्थः ॥ ४ ॥ * ॐ के तेऽस्य इत्यपेक्षायां तान् दर्शयन्नुपसंहरति — काम इति । कामोऽभिलाषः, मन्युः कामविघातकेऽभिज्वलनात्मकः क्रोधः, मदो भोगसम्पत्त्या गर्वः, लोभः सत्यामपि भोगसम्पत्त्यां ततोऽधिकाभिलाषया न्यायतोऽन्यायतो वा परवस्तुग्रहः, शोको विषयनाशे पश्चात्तापः, मोहः शोकौत्कण्ठये कर्त्तव्याननुसन्धानं, कर्मबन्धः कर्मणा भोगप्राप्तये लौकिकालौकिककर्मजन्यशुभाशुभादृष्टेन बन्धो नानायोनिसम्बन्धः । आदिपदेन नरकयातनादयः । अयं सर्वोऽपि शत्रुसमूहो यन्मूलः यन्निमित्तो भवति तन्मनः को नु स्वीकुर्यात् स्वाधीनं को वा मन्येत ? ननु बहव एवं मन्यन्ते तत्राह बुध इति, ये तथा मन्यन्ते ते मूर्खा इति भावः ॥ ५॥ ॐ ४ एवं राज्ञः सन्देहं निरस कृत्य प्रसङ्गप्राप्तमृषभचरितमेव दर्शयति– अथेति । एवं पूर्वोक्तप्रकारेण भगवलक्षणादिमत्वेन अखिललोकपालानां ललामो मण्डनभूतोऽपि अथानन्तरं योगिनां साम्परायविधिं मोक्षसाधनप्रकार अनुशिक्षयन् । लोकविलक्षणैरनेकप्रकारैः जडवदवधूतवेषभाषा चरितैः न बिलक्षितः नाभिव्यक्तो भगवत्प्रभावो यस्मिन् सः । स्वकलेवर देह जिहासुः त्यक्तुमिच्छुः । आत्मनि परमात्मनि भगवति आत्मानं अनर्थान्तरभावेन देहाद्यर्थान्तरकृतभेदनिरासेन असंव्यवहितं व्यवधानशून्य मेकतां प्राप्तं अनुक्षणमीक्षमाणः पश्यन् अत एव उपरता बाधिता देहाद्यभिमानानुवृत्तिर्यस्मात् स उपरराम संसारादुपरतो जातः तदनुसन्धानशून्यो जातः ॥ ६ ॥ हेति वितर्के। वै अप्यथ । तस्य भगवत ऋषभस्यैवं मुक्तलिङ्गस्य त्यक्तदेहाभिमानस्यापि देहो योगमायावासनयाऽभिमानाभासेन इमां जगतीं पृथिवीं अभिचङ्क्रममाणः पर्यटन कोङ्कादिदेशान् यदृच्छयोपगतः सन् आस्ये कृतः अश्मकवलो येन सः मुक्ता मूर्धजा यस्य सः असंवीतः नग्नः एव उन्मादः वातादिना विक्षिप्त इव कुटकाचलस्योपवने विचचारेत्यन्वयः । यथा भ्रामणसंस्कारवशेन कुलालचक्रं भ्राम्यति तथा त्यक्ताभिमानस्यापि येनांशेन देहः प्रचलति सोऽभिमानाभासः स च जीवन्मुक्तानां जीवानामविद्यावासनया भवति, अस्य तु भगवदवतारत्वात् योगमाया वासनया लीलेच्छासंस्कारेणेति विशेषः । मुखे पाषाणस्थापनं तु ‘तावज्जितेन्द्रियो न स्यान्निर्जितान्येन्द्रियः पुमान् । न जयेद्रसनं यावज्जितं सर्व जिते रसे’ इति सिद्धान्ताद् मुमुक्षुभी रसनाजयार्थं प्रयतितव्यमिति सूचनार्थम् ॥ ७ ॥ * * तस्य देहत्यागप्रकारमाह—अथेति । समीरस्य वेगेन विधूतानां कम्पितानां वेणूनां विघर्षणेन जात उम्रो दावानलस्तद्वनमालेलिहानः सर्वतो प्रसंस्तेन र्षभेण सह ददाह । अयमपि देहत्यागप्रकारो योगिनां देहाभिमान त्यागशिक्षार्थ एव, वस्तुतस्त्वानन्दमय देहस्य दाहा- सम्भवादग्नौ तिरोधानमात्रमेवेति ज्ञेयम् ॥ ८ ॥ mRte free mp श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी देहत्यागक्रमः प्रोक्तः षष्ठे लीनाभिमानिनः । ऋषभस्य दहन्तं यो नैवाग्निमनुसंदधे ।। १ ।। प्रोक्तः, वैहायसादीनि योगेश्वर्याणि मुक्तिविरोधित्वान्नाभ्यनन्ददिति यदुक्तं तत्र नृपः पृच्छति ।। नेति । हे भगवन् योगेन समीरितमुद्दीपितं यत् ज्ञानं तेनावभर्जितानि दग्धानि कर्मबीजानि वासनारूपाणि येषां तेषां योगरूपवा सहकृत ब्रह्मसाक्षात्कार अनेकव्याख्यास मलङ्कृत में १३३ तू विस्रम्भ क. ५ अ. ६ श्लो. १= ] १-८1 रूपज्ञानाग्निभस्मीकृतवासनात्मककर्मबीजानामित्यर्थः । हेतुगर्भमिदं तेन ज्ञानयोगाभ्यां निर्दग्धाशेषकर्मबीजत्वादिति तदर्थः । आत्मारामाणां यदृच्छया दैवेच्छया उपगतानि प्राप्तानि योगेश्वयणि, वैहायसादिरूपा योगसिद्धयः, पुनः क्लेशदानि संसृतिनिमि- त्तानि भवितुं न अर्हन्ति । मुक्तिविरोधं कर्तुं योग्यानि न भवन्तीत्यर्थः । नूनम् । अतः किमिति नाभ्यनन्ददिति प्रश्नाशयः ॥ १ ॥ * * अङ्गीकृत्य परिहरति सत्यमिति । सत्यं उक्तं क्लेशदानि न भवन्तीति भवता समीचीनमुक्तमित्यर्थः । किं तु इह वा अस्मिन् योगमार्गे स्थिता एव, एके बुद्धिमन्तः केचन योगिनः अनवस्थानस्यातिचञ्चलस्य मनसः अद्धा साक्षात् विश्वासं न संगच्छन्ते न प्राप्नुवन्ति न कुर्वन्ति इत्यर्थः । मनःपारवश्ये सति, अनवस्थितं मनः जितमनस्कानामपि, भोगासक्ति- मुद्भाव्य तान्वञ्चयित्वा स्वाधीनान् कृत्वा पुनः संसारयतीति तद्विश्वासं ते परिहरन्तीति भावः । कथमिव । मनो विश्वास्य तदर्थं करोतीत्यत्र दृष्टान्तः । शठो धूर्त्तः, किरातो वागुरिकः इव, स्वस्मिन्विश्वासजननपर्यन्तं मृगाधीन इव वर्त्तमानो मृगयुस्तान् स्ववशं गतानिव विदित्वा सद्यो निहन्ति तद्वत् । ऐश्वर्याङ्गीकारेऽनवस्थितं मनस्तत्रासक्ति सम्पाद्य योगिनं पुनस्तदेव सम्पातयेत्सौभर्यादिवदत आत्मारामैः सिद्धैर्ज्ञानयोगसंरक्षणार्थसाधकैः पुनः संसृतिप्राप्तिनिवृत्त्यर्थं च सर्वथैश्वर्याङ्गीकारो न विधेय इति नृपप्रश्नोत्तरं समासतो गुप्तं प्रदर्शितम् ॥ २ ॥ * * अथ मनोविश्वासानाचरणेऽभियुक्तोक्तिमुदाहरति तथा चोक्तमिति । न कुर्यादिति । १ 3 अनवस्थिते अतिचञ्चलस्वभावतया सर्वथैकरूपेणावस्थितिवर्जिते, मनसि कर्हिचित्कदाचिदपि, सङ्ग हि न कुर्यात् । जितमनस्कोऽपि कश्चिदपि मनः मम स्वाधीनं किमनर्थमापादयेदिति बुद्धया तत्सङ्ग कर्हिचिन्नाचरेदेवेत्यर्थः । यस्य मनसो विश्रम्भो विश्वासस्तस्मात् मनः चिरात् चीर्णं, चिरकालं संभृतमपीत्यर्थः । ऐश्वरं विष्णोर्मोहिनीरूपदर्शनेनैश्वर्यवतोऽपि शिवस्य सम्बन्धि, यद्वा ईश्वराणां समर्थानामपि सौभरिप्रभृतीनां सम्बन्धि तपः, चस्कन्दाक्षरत् । अत एव सौधासैन्धवीय शताधिकद्वाविंशतितमे तरङ्गे ‘वंशस्थस्यापि मनसो न विश्वासस्तु कर्हिचित्। मुमुक्षुणा वा मुक्तेन न कर्त्तव्यः’ इत्युक्तमस्ति श्रीस्वामिचरणैः । एतदर्थं प्रपञ्चः सत्सङ्गिजीवनीयतृतीय- एतदर्थप्रपञ्चः प्रकरणस्य जनशिक्षातोऽवगन्तव्यः ॥ ३ ॥ ॥ * * सङ्गात्संजायते कामः कामात् क्रोधोऽभिजायते’ इत्युक्तरीत्या मनःसङ्ग- वतोऽन्तरे प्राका मावसरमुद्भाव्य ततस्तद्वारा क्रोधादीन्प्रादुष्कुर्यादित्याह नित्यमिति । कृतमैत्रस्य कृतमनोविश्वासस्य योगिनः मन इति शेषः । कामस्य, छिद्र प्रवेशावकाश, नित्यं ददाति । योगिनोऽन्तःकरणे इति शेषः । तमनु कामप्रवेशप्रदानात्पश्चादित्यर्थः । ये, अरयः क्रोधादयोऽन्तः शत्रवः, तेषां च छिद्रं ददाति । कथमिव पत्युः कृतविश्वासस्य खामिनः, पुंश्चली जाया, जाराणाम् इव । यथा कृतविश्वासस्य पत्युः पुंश्चली जाया जाराणामवकाशं दत्त्वा पतिं घातयति तद्वन्मनोऽपि कामादिभियोगिनं भ्रंशयतीत्यर्थः ॥ ४ ॥ * * अरीन्कथयन्तुपसंहरति काम इति । कामः, यद्भोगमन्तरा स्थातुं न शक्यते तादृश्यन्तः करणवृत्तिः काम इत्यर्थः । मन्युः, कायभङ्गकर्त्तरि तत्ताडनाविधायकः क्रोधः । मदः, महतामपि अवज्ञा विधायकः कुलविद्याबलादिजो गर्वः । लोभः, पात्रप्राप्तौ सत्यामपि द्रव्यात्यागेच्छारूपार्थगृध्नुता 1 शोकः, अतीतदुःखस्मरणनिमित्तचित्तविक्षेपश्च, मोह: विपरीतज्ञानं च, भयं पूर्वस्थितेः संचलन च, तानि आदयो येषामधर्मसर्गादीनां ते, कर्मबन्धः कर्मभिः संसारबन्धश्च यन्मनो मूलं यस्य सः, कामादीनामुत्पत्तेर्मूलभूतमित्यर्थः । तन्मनः, को नु बुधः स्वीकुर्यात् । समेष्टमित्यङ्गीकुर्यादित्यर्थः ॥ ५ ॥ * * प्रसङ्गप्राप्तं परिसमाप्य प्रकृतमाह अथेति । अथानन्तरं एवं वर्त्तमान इति शेषः । अखिलाच ते लोकपालाश्च तेषां ललामो मण्डनभूतः सन्नपि, विलक्षणैरनेकप्रकारैः, जडवत् अवधूतवच, यानि, वेषश्च भाषा च आचरितानि च तैः अलक्षितः भगवत्प्रभावो यस्मिन्सः, ऋषभः, योगिनां साम्परायविधि देहत्याग प्रकार अनुशिक्षयन् स्वकलेवरं जिहासुः, स्वदेहं त्यक्तुमिच्छन्नित्यर्थः । असंव्यवहितमज्ञानेनातिरोहितं, आत्मानं प्रत्यगात्मानं, आत्मनि परमात्मनि, अनर्थान्तरभावेन परमात्मा पृथक्सिद्धत्वेन, अन्वीक्षमाणः साक्षात्कुर्वाणः, अत एव उपरतानुवृत्तिर्निवृत्त प्रारब्धकर्मानुवृत्तिः सन्, उपरराम देहादिति ति शेषः । देहं त्यक्तवा- नित्यर्थः ।। ६ ।। * तस्य देहत्यागप्रकारमेवाह गद्यद्वयेन तस्येति । एवमुक्तप्रकारेण, मुक्तलिङ्गस्य मनसा त्यक्तशरीरा- भिमानस्य, तस्य ह वा, तस्यैव भगवतः ऋषभस्य देहः, योगमायावासनया भगवन्मायाया वासनया, मायायास्तीर्णत्वे तद्वासना- मात्रानुवृत्त्या इत्यर्थः । अभिमानाभासेन देहे आत्मीयत्वाभिमानाभासेन, योगमायावासनया, योऽभिमानाभासस्तेनेत्यर्थः । अस्य देहात्माभिमानाभासमात्रमेव, न तु तत्त्वतो देहात्माभिमानोऽस्तीति ज्ञापनायाभासपदप्रयोगः । इमां जगतीं, चङ्क्रममाणः संचरन्, एकदा कर्हिचित्, कोङ्कश्व वेङ्कन कुटकश्च तान, दक्षिणकर्णाटकान् देशान्, यदृच्छया उपगतः । तत्र कुटका चलोपवने कुटकाचलसमीपवर्त्तिति बने, आस्ये वक्त्रे कृतो निःक्षिप्तः, अश्मैव कवलो येन तथाभूतः, उन्माद उन्मत्त इव, लक्ष्यमाणः, मुक्ता मूर्द्धजाः केशा यस्य सः, असंवीतो नग्नः एव विचचार ॥ ७ ॥ * * अथेति । ।। अथेति । अथानन्तरं, समीरवेगेन वायुवेगेन विधूताः कम्पिता ये वेणवो वंशास्तेषां विघर्षणं तेन जातो य उग्रो दावानलोऽग्निः, तद्वनं दावानलोऽग्निः, तद्वनं कुटकाचलोपवनं, आलेलिहानः सर्वतः प्रदहन् सन् तेन ऋषभदेहेन सह, संपृक्तः संश्चेति शेषः, ददाह । दाह्यमिति शेषः । अयं भावः । दावानलः दाह्यान्वनतर्वादी- न्यदा दग्धुमारभत तदा तेषां स्थूलदेहदाहं तत्कृतं दृष्ट्वा एतेषां सूक्ष्मदेहदाहः कथं स्यादेवं विचार्य तदुपरि संजातकरुणः स्वमहिमानं प्रकटयन्मनुजभावेन प्रदर्शितं स्वदेहं तिरोधाय दिव्यतोपेतं कृत्वाग्नौ संपृक्तं विधाय सर्वेषां दाह्यानां स्थूलसूक्ष्मदेहदाहमुभौ चक्रतु- रिति बोद्धयमन्यथा दवानलस्तद्देहं ददाहेत्येवा वक्ष्यत् ॥ ८ ॥ , % Main । ૨૦ sin श्रीमद्भागवतम् भाषानुवादः ऋषभदेवजीका देहत्यागर [ स्कं. ५ अ. ६ श्लो. ९-१६
म … उन्हें यह राजा परीक्षितने पूछा-भगवन् ! योगरूप वायुसे प्रज्वलित हुई ज्ञानाग्निसे जिनके रागादि कर्मबीज दग्ध हो गये हैं- उन आत्माराम मुनियोंको दैववश यदि स्वयं ही अणिमादि सिद्धियाँ प्राप्त हो जायँ, तो वे उनके रागद्वेषादि क्लेशों का कारण तो किसी प्रकार हो नहीं सकतीं। फिर भगवान् ॠषभने उन्हें स्वीकार क्यों नहीं किया ? ॥ १ ॥ * * श्रीशुकदेवजीने कहा- तुम्हारा कहना ठीक है: है; किन्तु संसार में जैसे चालाक व्याघ्र अपने पकड़े हुए मृगका विश्वास नहीं करते, उसी प्रकार बुद्धिमान् लोग इस चञ्चल चित्तका भरोसा नहीं करते ॥ २ ॥
-
- ऐसा ही कहा है- ‘इस च चञ्चल चित्तसे कभी मैत्री नहीं करनी चाहिए। इसमें विश्वास करनेसे ही मोहिनीरूपमें फँसकर महादेवजी के चिरकालका सचित तप क्षीण हो गया था ॥ ३ ॥ * * जैसे व्यभिचारिणी स्त्री जार पुरुषोंको अवकाश देकर उनके द्वारा अपने में विश्वास रखनेवाले पतिका वध करा देती है-उसी प्रकार जो योगी मनपर विश्वास करते हैं, उनका मन काम और उसके साथी क्रोधादि शत्रुओंको आक्रमण करनेका अवसर देकर तो नष्ट-भ्रष्ट कर देता है || ४ | काम, क्रोध, मद, लोभ, मोह और भय आदि शत्रुओंका तथा कर्म-बन्धनका मूल मन ही है; इस पर कोई भी बुद्धिमान् कैसे विश्वास कर सकता है ? ।। ५ ।। * * इसीसे भगवान ऋषभदेव यद्यपि इन्द्रादिक सभी लोकपालों के भी भूषणस्वरूप थे, तो भी वे जड पुरुषोंकी भाँति अवधूतोंके से विविध वेष, भाषा और आचरणसे अपने ईश्वरीय प्रभावको छिपाये रहते थे । अन्तमें उन्होंने योगियों को देहत्यागकी विधि सिखानेके लिये अपना शरीर छोड़ना चाहा । वे अपने अन्तःकरण में अभेदरूपसे स्थित परमात्माको अभिन्नरूपसे देखते हुए वासनाओंकी अनुवृत्तिसे छूटकर लिङ्गदेह के अभिमान से भी मुक्त होकर उपरत हो गये ।। ६ ।। * * इस प्रकार लिङ्गदेहके अभिमानसे मुक्त भगवान् ऋषभदेवजीका शरीर योगमायाकी वासना से केवल अभिमानाभासके आश्रय ही इस पृथ्वीतलपर विचरता रहा रहा। वह वह दैववश कोङ्क, वेङ्क और दक्षिण आदि कुटक कर्णाटकके देशों में गया, मुँह में पत्थरका टुकड़ा डाले तथा बाल बिखेरे उन्मत्तके समान दिगम्बररूपसे कुटकाचल के वनमें घूमने लगा ॥ ७ ॥ * * इसी समय झंझावातसे झकझोरे हुए बाँसोंके घर्षणसे प्रबल दावाग्नि धधक उठी और उसने सारे वनको अपनी लाल-लाल लपटोंमें लेकर ऋषभदेवजी के सहित भस्म कर दिया ॥ ८ ॥ यस्य किलानुचरितमुपाकर्ण्य को वेङ्ककुट कानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ॥ ९ ॥ येन ह बाब कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपत्रतानि निजनिजेच्छया गृहाना अज्ञानानाचमनाशौच केशोल्लुश्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरु षलोकविदूषकाः प्रायेण भविष्यन्ति ॥ १० ॥ ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽश्वस्त स्तिमस्यन्धे स्वयं मेव प्रपतिष्यन्ति ।। ११ ।। अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२ ॥ तस्यानुगुणान् श्लोकान् गायन्ति- ॥ ११ ॥ अयमवता अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् । गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ॥ १३ ॥ अहो नु वंशो यशसावदातः प्रयत्रतो यत्र पुमान् पुराणः । । कृतावतारः पुरुषः स आधः चचार धर्म यदकर्महेतुम् ॥ १४ ॥ को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी । यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥ इति ह स्म सकलवेदलोक देवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरित’ ‘मीरितं पुंसां समस्त- दुबरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वविहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥ १६ ॥
१. २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - ६. ७. ८. प्रा० पा० - ९. १०. प्रा० पा० - ११. प्रा० पा० - १२. प्रा० पा० - स्क. ५ अ. ६ श्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् १३५ अन्वयः - मंद अर्हनामा कौकवेंककुटकानाम् राजा यस्य किल अनुचरितम् उपाकर्ण्य उपशिक्ष्य कलौ अधर्मे उत्कृष्यमाणे भवितत्र्येन विमोहितः अकुतोभयम् स्वधर्मपथम् अपहाय निजमनीषया असमंजसम् कुपथपाखंडम् संप्रवर्तयिष्यते ॥ ९ ॥ ** ह वाव येन कलौ मनुजापसदाः देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीनाः निजनिजेच्छया देवहेलनानि अस्नानाना- चमनाशौच केशोल्लुंचनादीनि अपव्रतानि गृह्णानाः अधर्मबहुलेन कलिना उपहतधियः ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यति ।। १० ।। * हि च अंधपरंपरया अर्वाक्तनया निजलोकयात्रया आश्वस्ताः स्वयमेव अंधे तमसि प्रपतिष्यति ॥ ११ ॥ अथम अवतारः रजसा उपप्लुतकैवल्योपशिक्षणार्थः तस्य अनुगुणान् श्लोकान गायति ॥ १२ ॥ अहो सप्तसमुद्रवत्याः भुवः द्वीपेषु वर्षेषु एतत् अधिपुण्यम् यत्रत्यजनाः मुरारेः भद्राणि अवतारवन्ति कर्माणि गायंति ॥ १३ ॥ * अहो नु प्रयव्रतः वंशः यशसा अवदातः यत् यत्र पुराणः पुमान् कृतावतारः सः आद्यः 8 ॥ पुरुषः अकर्महेतुम् धर्मम् चचार ॥ १४ ॥ * * 3 अपरः कः योगी नु अभवस्य अस्य काष्ठाम् मनोरथेन अपि अनुगच्छेत् यः येन असत्तया उदस्ताः कृतप्रयत्नाः योगमायाः स्पृहयति ॥ १५ ॥ इति ह स्म सकलवेदलोकदेवब्राह्मणगवाम् परमगुरोः भगवतः ऋषभाख्यस्य पुंसाम् समस्तदुश्चरिताभिहरणम् विशुद्धाचरितम् ईरितम् इदम् परममहामंगलायनम् उपचितया अनुश्रद्धया अवहितः अनुशृणोति वा आश्रावयति अनयोः अपि तस्मिन् भगवति वासुदेवे एकान्ततः भक्तिः समनुवर्तते ।। १६ ॥ श्रीधरखामिविरचिता भावार्थदीपिका अवधूतवेषेण ऋषभदेवस्तत्र गत इत्येतस्य सूचकमाह । यस्य किलाश्रमातीतमनुचरितं तद्देशवासिभ्य उपाकर्ण्य अ नाम यस्य स राजा स्वयं तदुपशिक्ष्य शिक्षित्वा कुपथश्वासौ पाषंडश्च तं निजमनीषया संप्रवर्तयिष्यत इत्यन्वयः । तत्र हेतुः कलावि- त्यादि । भवितव्येन प्राणिपूर्वसंचितपापफलेन ॥ ९ ॥ येन प्रवर्तकेन मनुजेष्वपसदा निकृष्टाः स्वविधिना नियोगो । $3 यस्मिन् शौचचारित्रे तद्विहीना देवावज्ञारूपाण्यस्नानादीनि कुत्रतानि गृह्णाना वेदादीनां विदूषका भविष्यति ॥ १० ॥ तत्फलं चांधंतमः प्रादृश्यंतीत्याह ते चेति । अर्वाक्तनया अवेदमूलया । निजलोकयात्रया स्वेच्छाकृतप्रवृत्त्या आश्वस्ताः कृत- विश्वासाः ॥ ११ ॥ * ननु तर्ह्यनर्थकारी किमर्थोऽयमृषभावतारस्तत्राह अयमिति । रजोव्याप्तानां जनानां मोक्षमार्गोप- शिक्षणार्थः । तस्य कैवल्योपशिक्षणस्यानुरूपान् ।। १२ ।। * * अधि अधिकं पुण्यं यस्मिन् । एतद्भारतं वर्षम् । ऋषभाद्य- वतारयुक्तानि कर्माणि ॥ १३ ॥ * * प्रियव्रतस्य वंशः अवदातः शुद्धः । यत्र वंशे । यद्यस्मात् । अकर्म मोक्षस्तस्य हेतुं धर्म चचार ॥ १४ ॥ * * अपरः को नु योगी अस्य काष्ठां दिशमप्यनुगच्छेत् । योगी येन ऋषभेणासत्तयाऽवस्तुत्वेनोदस्ता निरस्ता योगमायाः सिद्धीवछति । कथभूताः । कृतः प्रयत्नो यासु तदर्थं प्रयत्नं च करोतीत्यर्थः । यद्वा कथंभूताः उदस्ताः कृतप्रयत्नाः सेवितुमुद्यता अपीत्यर्थः ॥ १५ ॥ * * विशुद्धाचरितं यदीरितं कथितं तत्समस्तं दुश्चरितमभितो हरतीति तथा परममहा- मंगलानामयनं च । अवहितः सन् । अनयोरपि श्रोतृश्रावयित्रोरविशेषेण भक्तिः सम्यगनुवृत्ता भवतीत्यर्थः ॥ १६ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः अस्यावतारलीलाश्रवणकीर्त्तनादिभिरेव कलिकालवर्त्तिनः पराग्दर्शिनो जीवाः कृतार्था भवंति न त्वाचरितानुष्ठानेन कलौ प्रायः प्रत्यग्दर्शनासंभवात् । श्रद्धयाऽपि तदपि केवलबाह्याचरणनिष्ठा भ्रष्टा एव भवन्तीत्याह-यस्येति । अनामा कलौ जनिष्यमाणो लोकशास्त्रद्वारा श्रीऋषभदेवोत्कर्ष श्रुत्वा तादृशाचरणेन वयमपि तादृशा मत्त्वा तदीयचेष्टामुपशिक्ष्याधिक्येन शिक्षित्वा भवितव्येन तादृशदुरदृष्टेन यदवश्यभवितव्यं तेनेति विश्वनाथः । संदर्भस्तु तदेवं सर्वहितमपि तच्चरितं वैदिकवेदाद्यपराधसंस्कारवतां त्वन्यथैव भातमित्याह्-यस्येति | अन्येषां तु रजसोपरक्तानामपि तद्द्वयश्रवणेनान्वयव्यतिरेकाभ्यां हितायैव जायते तदित्याह मंदः कुमनीषी । असमंजसमयोग्यं वेददूषकत्वात् ॥ ९ ॥ * * स्वविधिना स्वकल्पितेन विधिना नियोगः कुत्रतादीनां यस्मिन्प्रथे स स्वविधि- नियोगस्तेन हेतुना शौचादिहीनाः । स्वामिचरणैस्तु-स्वविधिना वेदविधिना नियोग आज्ञा शौचस्य जलमृदादिना दैहिकमलापकर्षणस्य चारित्रे करणे ‘मृज्जलाभ्यां देहं मृज्यात्’ इत्यादिविधिना विहिते ‘मलवद्वाससा न संवदेत्’ इत्यादिनिषेधेन च निषिद्धेऽपि तद्रहिता इत्यभिप्रायेण व्याख्यातं स्नानादि विना ठेवपूजानधिकारातं । कुत्रतानि निंदिताचरणानि । आदिना दंतधावनादित्यागादेर्ग्रहः- कुत्रतत्वं चास्नानादेः “अस्नाताशी मलं भुंक्ते हाजापी पूयशोणितम्” इत्यादिस्मृत्योक्तमवधेयम् । प्रायेणेत्युक्तेः केचिन्निदादिशून्या अपि ॐ । स्वदृष्टवशाद्भविष्यन्तीत्यर्थः ॥१०॥ * * अंधे तमस्यंधतामिस्र नरके || ११|| * * अत्राक्षिपति-नन्विति । अनर्थकारी तदाचरणश्रवण प्रवृत्तजननरकहेतुत्वात् । किञ्च श्रऋषभदेवाचरणं तु तत्समकालीनै रेवानुवर्त्तितव्यमित्याह-अयमिति । रजसा गुणेनोपप्लुतं कालेन विनष्टीकृतं यत्कैवल्यं ज्ञानयोगस्तस्योपशिक्षणार्थः । अर्थातरं तु स्वामिभिरुक्तमेव, तेन सत्यादियुगत्रये तच्चरित- मनुवत्तितव्यं, कलौ तु तत्कथैव श्रोतव्येति व्यवस्थितिरिति विश्वनाथः । अत्र प्रमाणं च श्रीदशमे वक्ष्यति “ईश्वराणां वचः सत्यं तथैवाचरणं कचित्। कुशलाचरितेनैषामिह चार्थो न विद्यते । विपर्ययेण वानर्थः” इति । किञ्च - “तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्त-
१३६ ६8 श्रीमद्भागवतम् [ स्कं. अ. ६ लो. ९-१६.
- वंशेष्वपि दाचरेत्” इति च ॥ १२ ॥ ४ ४ अवतारा विद्यते वर्ण्यत्वेन येषु तानि । अहो इत्यानंदे ॥ १३ ॥ . प्रियव्रतवंशो धन्य इत्याह । यत्र पुराणः पुमान् पुरुषः कृतावतारोऽभूदिति शेषः । किं तेन कृतमिति चे तत्राह-स आद्यः सर्वकारणी- भूतो विष्णुः पुरुषो मनुष्यमूत्तिः सन् यद्यतो मोक्षहेतुं धर्म पारमहंस्यं धर्म चचारातो हेतोर्यशसावदात इत्यन्वयः । " नाभेरसावृषभ आस सुदेविसूनुर्यो वै चचार समहग्जडयोगचर्याम् । यत्पारमहंस्यमृषयः पदमामनंति स्वस्थः प्रशांतकरणः परिमुक्तसंगः” इति नारदं प्रति ब्रह्मोक्तेः । संदर्भस्तु स्वतः पुराणः पुमानेव यत्र कृतावतारेपि नान्यथात्वं प्राप्तः, किन्तु स आद्यः पुरुष एव यत्राकर्महेतुं कर्माभा- वकारणं धर्म चचारेत्यर्थः । यद्यप्येवं ज्ञानपर्यवसानं तच्चरितं तथापि तत्पराणां भक्तय एवं पर्यवस्यति तथा स्वभावत्वादि- त्याह ॥ २४ ॥ * ॐ योगिष्वपि मध्ये श्रीऋषभदेव एव धन्य इत्याह । मनोरथेनापि किमु कर्मणा अस्य की दृशस्याभवस्य नास्ति भवो यस्मात्तस्य । इत्यर्थ इति । लोकख्यात्यर्थं सिद्धिषु प्राकृता योगिन एव सयत्ना भवंति न तु विज्ञास्तासां भगवत्प्राप्तावंत- रायत्वात्तदुक्तमेकादशे श्रीकृष्णेनोद्धवं प्रति- “अन्तरायान्वदंत्येता युंजतो योगमुत्तमम्” इत्यादिना चतुर्दशेऽध्याये । नन्ववाञ्छि- तास्ताः कथं प्राप्ता इति चेन्मुख्यस्वाधारतयेत्यभिप्रायेणाह यद्वेति । इत्यर्थं इति । श्री ऋषभदेवोऽस्मान्स्वीकरोत्विति भावः ॥ १५ ॥ * * किं च सत्यादियुगवर्त्तिभ्यो योगिभ्यस्तच्छिक्षित योगानुष्ठातृभ्योपि सकाशात्कलियुगवर्त्तिनो जनास्तल्लीला- श्रवणकीर्त्तनवतोऽधिकफलभाजो भवतीत्याह- इति हेति । हस्मेति निपातौ श्रद्धातिशयजननार्थी । न केवलं रामाद्यवतारवद् दुष्टभंजन एवायमवतारोऽपि तु व्यासाद्यवतारवज्ज्ञानस्योपदेष्टेति ज्ञापनाय परमगुरोरिति । विशुद्धमाचरितं च ईरितं ‘नायं देहो देहभाजां नृलोके’ इत्याद्युपदेशवाक्यं च विशुद्धमित्युक्तेरर्हता राज्ञाऽभिप्रायापरिज्ञानाद्विपरीतमेव गृहीतं न तेन तच्चरितेऽशुद्धया शंका कार्येति । अत एवोक्तं ‘समस्तदुश्चरिताप्रहरणम्’ इति । यद्वा - विशुद्धाचरितेनेत्यर्थः । इत्यर्थ इति । अधिकारात्स्मतुरनुमोदितुरपीति भावः ।। १६ ।। । श्रीमद्वीरराघवव्याख्या || Pop तस्य ऋषभस्याश्रमातीतं चतुराश्रमधर्मानितीत्य वर्त्तमानमनुचरितं कुटकाचलोपदेशवासिभ्य आकर्ण्यार्हन्निति नाम यस्य स राजा विमोहितः ऋषभस्य गोमृगाजगरादिव्रताचरणस्य शास्त्रीयत्वमजानन् वैदिकधर्मातिलङ्घित्वे बुद्धिं कृत्वाऽकुतोभयं नास्ति कुतोऽपि भयं यस्मात्तत्स्वधर्ममध्यपहाय स्वयमार्षभं व्रतमुपशिक्ष्यमाण उपशिक्षित्वा कुपथश्वासौ पाषण्डश्च तमसमञ्जसमुपधर्मं प्रति मनुजान्निजमनीषया मन्दोऽज्ञः स आर्हताख्यग्रन्थबन्धनेन सम्प्रवर्त्तयिष्यति । कथमेतस्य प्रसारणे मनुजाः प्रवर्तन्त इत्यत्रोक्तं कलावधर्म उत्कृष्यमाणे भवितव्येनेत्युक्तभवितव्येन प्राणिनां पूर्वसञ्चितपापमूलकेनाज्ञानेन कलौ युगे अधर्मे उत्कृष्यमाणे उत्कर्ष प्राप्ते सतीत्यर्थः । भवितव्येन युगानुसारेण मनुजानामधर्मबुद्धिभूयस्त्वादार्हन्ते प्रवर्तन्त इत्यर्थः ॥ ९ ॥
मनुजेष्वपसदाः निकृष्टाः पूर्वमेव देवमायया विमोहिताः येनार्हन्तेनोपदेशेन नित्यं मोहिताः सन्तः स्वविधिना स्वस्य वर्णाश्रमानुरूपधर्मविधिना प्राप्तो यो नियोगो नियमः यस्मिन् शौचचारित्रे तेन शौचचारित्रेति समाहारद्वन्द्वः । इतरेतरयोगे तु नियोगोपयोगस्ताभ्यां विहीनाः तत्र शौचं स्नानादिजाता देहशुद्धिः चारित्रं संध्योपासनादिदेवावज्ञारूपाण्यस्नानादीनि कुव्रतानि निजेच्छया गृह्णानाः कुर्वाणाः अधर्मप्रचुरेण कलिनापहता अभिभूता धियो विवेका येषां ते ब्रह्मादिविदूषकाः प्रायशो भविष्यन्ति । अस्नानं स्नानाभावः आचमनाभावः अत एवाशौचं केशलुञ्चनं केशोत्पाटनं ब्रह्म वेदः यज्ञपुरुषो भगवान्, लोका भागवताः ॥ १० ॥
तत्फलं चान्धन्तमः प्राप्स्यन्तीत्याह ते चेति । अर्वाक्तनयाऽवेदमूलयाऽत एवान्धपरम्परया निर्मूलया स्मृत्याचाराणामपि वेदमूलत्वेनैव प्रामाण्यादिति भावः । ते निजयात्रया स्वेच्छाकृतप्रवृत्त्या निजलोकयात्रयेति पाठेऽप्ययमेवार्थः । लोकशब्दो देहपरः तयैवार्हतस्मृत्यैवाश्वस्ताः तदुक्तेषूपधर्मेषु कृतविश्वासाः अन्धे तमसि नरकविशेषे स्वयमेव स्वात्मनैव रिपुणा प्रपविष्यन्ति पतन्तीत्यर्थः ॥ ११ ॥
ननु तर्हि भगवतर्षभेण किमर्थमेवमनुष्ठितं तत्राह अयमिति । रजसा उपप्लुतानां व्याप्तानां रजःप्रचुराणां कैवल्यस्य मोक्षमार्गस्य योगचर्याभेदस्य शिक्षणार्थोऽयमवतारस्तदर्थमेवं कृतमिति भावः ॥ १२ ॥
आर्षभप्रभावप्रतिपादकान् श्लोकानुदाहरन्ति पठन्ति । आर्या इति शेषः, के त इत्यत्राह अहो इति । सप्त समुद्राः अस्यां सन्तीति सप्तसमुद्रवती तस्या भुवः द्वीपेषु मध्ये य उत्कृष्टो जम्बूद्वीपः तस्यापि वर्षेषु नवसु मध्ये एतद्भारतं वर्षमधि अधिकं पुण्यं यथाभूतम् अहो इत्याश्चर्यम्, कुतः यत्रत्याः भारतवर्षस्था जनाः मुरारेर्भगवतः ऋषभावतारयुक्तानि कर्माणि भद्राणि श्रेयःसाधनानि गायन्ति ॥ १३ ॥
अहो प्रैयव्रतः प्रियव्रतसम्बन्धी वंशः यशसा विशुद्धः विशुद्धविपुलकीर्तिसम्पन्नः, यत्र वंशे पुराणः पुरुषो भगवानृषभरूपेण कृतावतारः बभूव । स चावतीर्ण आद्यः पुरुषः यतोऽकर्महेतुकं न विद्यते कर्म साधनं तपो यस्य तद्कर्म मोक्षः तस्य हेतुं धर्मं चचार ॥ १४ ॥
अस्य ऋषभस्य काष्ठां निष्ठां दिशं वाऽपरो योगी मनोरथेनापि तत्त्वानुष्ठानेन कोन्वनुगच्छेदनुवर्त्तेत न कोऽपीत्यर्थः । कुतो यो योगी येन ऋषभेण योगमाया मनोजवादयः कृतप्रयत्नः सेवितुं उद्यता अप्यसत्तया हेयतयानादृतास्ताः स्पृहयति हि ॥ १५ ॥
ऋषभचरितश्रवणादिफलमाह । इतीत्थंभूतं हस्मेति प्रसिद्ध्याश्चर्यद्योतकौ निपातौ, सकललोकादीनां परमगुरोर्लोकदेवब्राह्मणानां हितोपदेष्टृत्वाद् गुरुः वेदवैदिकमार्गप्रवर्तकत्वाद्वेदस्य गुरुः गवामपि पूज्यत्वोपदेष्टृत्वाद् गुरुः ऋषभाख्यभगवतः विशुद्धाचरितं यदीरितं कथितं समस्तदुश्चरितमभितो हरतीति तथा परममङ्गलानामयनमाश्रयमिदमनया क्रमादुपचितया प्रवृद्धयानया श्रद्धयाऽनुसेवनं सर्वदा यः पुमाननुशृणोत्याश्रावयत्यनुस्मरति अनयोः श्रोतृश्रावयित्रोः भगवति वासुदेव एकान्ततः एकान्ता अव्यभिचरिता भक्तिः समनुवर्तते भवतीत्यर्थः ॥ १६ ॥
Pinter श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली 1 । किमनेन तदभूदिति तत्राह यस्येति । जनानुपशिक्ष्य उत्कृष्यमाणे वर्धमाने भवितव्येन विधिना निजमनीषयेत्य- नेनार्हस्या सुरत्वमसूचि । मन्दो निर्भाग्य इत्यनेन आनन्दात्मपुरुषार्थशून्य इति ध्वनयति भगवन्मततात्पर्यं न जानातीति वा । उपाकर्येत्यनेन तस्य तत्र स्थितिं तां तु शुभावार्हो दुसत्मवानिति वाक्यं स्मारयति पाखण्डमद्वैतमसमञ्जसं जैनमतमित्यनेन शंखद्रयमनेनाकारीति सूचितम् । तदुक्तम् “पूर्व तु पौण्ड्रको नाम वासुदेवः सुदुर्मतिः / जातिस्मरो द्विधा शाखं पाखण्डं निर्ममे नृपः ॥ एकं तु वासुदेवाख्यं वासुदेवोऽहमित्यपि । कुत्सितं वासुदेवत्वप्रतिपादकमात्मनः ।। लोकार्थं चापरमिति चकारार्हतनामकमिति । अनेनार्हस्य पूँर्वजन्मनि पौण्ड्रकाख्यासुरत्वं स्पष्टीकृतं वासुदेवोऽहमित्यात्मनो जीवस्य वासुदेवत्व- प्रतिपादकवासुदेवाख्यं कुत्सितमेकं शास्त्र परमाहुतनामकं लोकार्थमहिंसा धर्मप्रतिपादकमपरं चकारेत्यन्वयः ॥ ९ ॥ शानस्य प्रचयगमनमाह येनेति । येन शास्त्रद्वयेन ह वा इति निपातद्वयेन तत्प्रशिष्येण क्रमुणा विरचितेन शास्त्रेणेति स्मारित तदुक्तम् । “तत्प्रशिष्यः क्रमुर्नाम न जानस्तन्मतं परम् । वासुदेवात्मनां सर्वजीवानामवदत्कुधीः ॥ कण्वाख्यं शास्त्रमकरोदभेद- प्रतिपादकम् । कुशास्त्रं सर्ववेदानां विरुद्धं तामसालयम् । तद् दृष्ट्वाद्यापि वर्तन्ते वर्तिष्यन्ति तथा कलौ । अशौचा अव्रताचारा वासुदेवोऽहमित्यपि ।।” इति । एतदभिप्रायेणास्नानेत्याद्युक्तं मनुजापसदा मनुष्याभासाः, स्वविधिः स्वकीयो वेदः तस्य नियोग लिङाद्यर्थो ‘मलवद्वाससा न संवदेते त्यादिकः तेन विहितः शौचाद्याचारः विष्ण्वादिदेवानां हेलनादीन्यभेददर्शना वज्ञानादीन्यपव्रतानि बेदविरुद्धव्रतानि स्वेच्छया प्रमाणं विना किश्र्वास्नानादीनि गृह्णन्तः, निमित्तमाह कलिनेति । देवहेलनादि विशिनष्टि ब्रह्मेति ॥ १० ॥ * * तत्फलमाह तैरपीति । तैर्होलनादिभिः क्रियमाणयाऽर्वाक्तनया नीचयान्धपरम्परया निजलोकयात्रया स्वप्नमनोरथकल्पितव्यवहारेण । स्वशरीरजीवनेन वा त एवानास्थाः एकदापि व्यापारमन्तरेण न स्थिताः । हिशब्देन “अन्वेनैव नीयमाना यथान्धाः” इति श्रुतिं प्रमाणयति ॥ ११ ॥ * * न केवलमसुरमोहनार्थः किन्तु स्वपादमूलशरणजनस्य मुक्तिसाधनार्थोऽपीत्याह अयमिति रजसा गुणेनोपप्लुतस्य उपद्रुतस्य साधुजनस्य कैवल्यशिक्षणार्थो मुक्तिसाधनशिक्षणाभि प्राय इत्यन्वयः । कुत इति तत्राह तस्येति । तस्य कैवल्यसाधनोपदेशस्यानुगुणाननुरूपानित्यर्थः ॥ १२ ॥ * * सप्तद्वीपेषु नवसु वर्षेषु एतद्भारताख्यं खण्डमधिपुण्यमधिकपुण्यसाधनमुपलक्षणमेतत् पापसाधनं चेति । तदुक्तम् “विशेषाद्भारते अ पुण्यं चरेयुः पापमन्यथा । तथैव भगवद्भक्तिं पृथिव्यां नान्यवर्षगाः || ” इति अनेनादृष्टसाधनमेत- दन्यानि भोगसाधनानीति विशेष उक्त इति ज्ञायते । अवतारवन्ति प्रकाशवन्ति ॥ १३ ॥ * * प्रयव्रतः प्रियव्रतसम्बन्धी पुराणपुरुषेणावतीर्णेन किं प्रयोजनमभूववाह पुरुष इति । अकर्महेतुं मोक्षहेतुं मोक्षकारण धर्म लोक- शिक्षार्थं चचारेति यद्यस्मात्तस्मादिति शेषः, पूर्ण पुरु तत्सनोति ददातीति पूर्णफलं मोक्ष ददातीत्यर्थः इति कर्तरि डः, डप्रत्ययेन दिलोपः ॥ १४ ॥ * ऋषभो नाम कश्चिद्योगी न हरिरिति तत्राह को न्विति । अभवाय मुक्तये लोकशिक्षणार्थमेव ।। * धर्माचरणं न तु तत्फलापेक्षयेत्याह यद्योगमायामिति । श्रीहरिप्रेरणया कृतप्रयत्नाः महापुरुषाः येनोदस्तां नित्यनिरस्तां योगमाया- मणिमादिवाह्ययोगफलं स्पृहयन्तीति यद्यस्मात्तस्माल्लोकशिक्षणार्थं धर्ममाचरतोऽस्य काष्ठां स्वरूपभूतां योगशक्ति हरिमन्तरेणापरः को नु योगी गच्छेन्न कोऽपीत्यन्वयः । “नित्योदस्ता योगशक्तिरनपेक्ष्यं फलं यतः । नित्यखरूपभूतापि बहिः फलविवर्जनात् । अकर्मेत्युच्यते यद्वन्मोक्षः फलविवर्जनात् ॥” इति वचनात् उदस्तामिति विशेषणाद्योगमाया इन्द्रजालमुच्यत इत्येतन्निरस्तं, तस्मादणिमादियोगशक्तिर्नित्योदस्ता, कुतः फलमनपेक्ष्यमिति यतस्तर्हि हरेः स्वरूपभूताणिमादिशक्तिर्नास्ति किमित्यत उक्तं नित्येति । यद्यपि स्वरूपभूताणिमादिशक्तिरस्ति तथाप्यन्येच्छाविषयाणिमादियोगमाया बद्दिर्नित्यस्वरूपशक्तेः पृथक् फलविवर्जनात्क्रिया- साध्यफलानिच्छत्वात्तत्र दृष्टान्तः अकर्मेति । यथा मोक्षस्त्वकर्मेति वदन्ति तत्फलानिच्छत्वात् तथात्रेति ॥ १५ ॥ ।। ।। * * ननु कृष्णादिचरितवदस्य चरितमपि यदि संसारनाशनं स्यात्तदायमपि श्रीनारायणांश इति निश्चयेन निरुपचरितभक्तिः स्यात्त- त्कथमिति शङ्कां परिहरन्नुपसंहरति इतीति । इतिशब्दः प्रभृतिवचनः, ह स्मेति निपातौ श्रद्धातिशयजननार्थी, न केवलं समा- द्यवतारवदुष्टभञ्जनः किन्तु व्यासाद्यवतारवत् ज्ञानस्योपदेष्टेति ज्ञापनाय परमगुरोरिति विशुद्धाचरितं कथितमिति शेषः, इदमाचरितं विशेषतः शुद्धमेव न तु दुष्टमहोदयस्तु तात्पर्यापरिज्ञानादन्यथा गृहीतवन्त इति न तेनाशुद्धश्रद्धा कर्तव्येति विज्ञापयितुं विशुद्धेति कुत एतदिति तत्राह पुंसामिति । दुश्चरिताभिहरणं पापकर्मनाशनं न केवलमेतदेव फलमन्यच्चास्तीत्याह परमेति । ननु फलो- पयोगित्वे युक्तमुक्तमखिलं तत्कथमत्राह इदमिति । उपचितयानुदिनमेधमानया इदमेव श्रेय इत्यन्तःकरणधर्मविशेषः श्रद्धा, अनयोः श्रोतृप्रवक्त्रोः, अपिशब्दात्पठतः वासुदेवे निर्द्वन्द्वा भक्तिः समनुवर्तत इत्यन्वयः ।। १६ 11 १८ । १३८
श्रीमद्भागवतम् श्रीमजीवगोखामिवृतः क्रमसन्दर्भः * [ स्कं. ४ अ. ६ श्लो. ९६ अत एव ऋषभदेवाविर्भावस्तृतीयोऽध्याय इत्येवोक्तं ननु जन्मेति तदेवं सर्वहितमपि तचरितं वैदिकवेदाद्यपराध- संस्कारवतां त्वन्यथैव भानमित्याह यस्येत्यादिना । अन्येषां तु रजसोपरक्तानामपि तद्वयश्रवणेनान्वयव्यतिरेकाभ्यां हितायैव जायते तदित्याह ।। ९-११ ।। अयमिति ।। १२-१३ ।। अहो इति । स्वतः पुराणः पुमानेव यत्र कृता- वतारेऽपि नान्यथात्वं प्राप्तः किन्तु स आद्यः पुरुष एव सन् यत्राकर्महेतुं कर्माभावकारणं धर्मं चचारेत्यर्थः । यद्यप्येवं ज्ञान- पर्यवसानं तचरितं तथापि तत्पराणां भक्तय एव पर्यवस्यति । तथा स्वभावत्वादित्याह ।। १४-१५ ॥ * * इति हस्मेति । निवृत्त्या तत्स्वरूपया स्वतः पुरुषार्थत्वात् ।। १६ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ।। अस्यावतारस्य लीलाश्रवणकीर्त्तनादिभिरेव कलिकालवर्त्तिनः पराग्दर्शिनो जीवाः कृतार्था भवन्ति न त्वाचरितस्यानुष्ठानेन | कलौ प्रायः प्रत्यग्दर्शनासम्भवात् श्रद्धयापि तदीयकेवलबाह्या चरणमात्रनिष्ठा भ्रष्टा एव भवन्तीत्याह यस्येति । अहंन्नामा कलौ जनिष्यमाणो लोकशास्त्रद्वारा ऋषभदेवोत्कर्षं श्रुत्वा तादृशाचरणेन वयमपि तथा भवामेति मत्वा तदीयचेष्टामुपशिक्ष्य आधि- क्येन शिक्षित्वा भवितव्येन तादृशदुरदृष्टेन यदवश्यं भवितव्यं तेन हेतुना ॥ ९ ॥ * * स्वविधिना नियोगो यत्र तादृशेन शौचचारित्र्येण विहीनाः ।। १०-११ ।। तेन श्रीऋषभदेवो यदेवाविर्बभूव तात्कालिकैर्ज्ञानिजनैरेव तचरितमनुवर्त्ति- तव्यमित्याह अयमिति । रजसा रजोगुणेन उपप्लुतं कालेन विनष्टीभूतं यत् कैवल्यं ज्ञानयोगस्तस्योपशिक्षणार्थः । यद्वा रजो- व्याप्तानामपि जनानां मोक्षमार्गोपशिक्षणार्थः । तेन सत्यादियुगत्रये तद्वर्त्तितव्यं कलौ तत्कथा श्रोतव्येति व्यवस्थितिः ॥ १२ ॥
- वर्षेषु मध्ये एतद्भारतं वर्षमधिपुण्यमधिकपुण्यप्रदम् । कुतः गायन्तीत्यादि ॥ १३ ॥ * वंशेष्वपि मध्ये प्रिय- व्रतवंशो धन्य इत्याह अहो इति ॥ १४ ॥ * * योगिष्वपि मध्ये ऋषभदेवो धन्य इत्याह । को नु अपरो योगी अस्य काष्ठां दिशमप्यनुगच्छेत् मनोरथेनापि किमुत कर्मणा अस्य कीदृशस्य अभवस्य नास्ति भवो यस्मात्तस्य यो योगी येन ऋषभेण असत्तया अभद्रत्वेन उदस्तास्त्यक्ताः योगमाया योगाज्जाता मायाः सिद्धीर्वाञ्छति । कीदृशीः, कृतः प्रयत्नो यासु तदर्थ प्रयत्नांच करोतीत्यर्थः । यद्वा ऋषभदेवोऽस्मान् स्वीकरोत्विति कृतः प्रयत्नों याभिस्ताः ।। १५ ।। * * किन सत्यादियुगवतियों योगिभ्यस्तच्छिक्षितयोगानुष्ठातृभ्याऽपि सकाशात् कलियुगवर्त्तिनो जनास्तल्लीला श्रवणकीर्त्तनवन्तोऽधिकफलभाजो भवन्तीत्याह । इति ह् स्मेति । परमगुरोर्हितकारिणः विशुद्धमाचरितं च ईरितं ‘नायं देहो देहमाजामि’ त्याद्युपदेशवाक्यख । आधावयति कीर्त्तयति च अनयोः श्रोतृवक्त्रोरपिकारात् स्मत्तुरनुमोदयितुश्च ॥ १६ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः 3 यस्य ऋषभस्य चरितमर्हन्निति नाम यस्य स राजा कुटकाचलोपवनवासिभ्य उपाकर्ण्य स्वयं तदुपशिक्षित्वा कलावधर्मे उत्कृष्यमाणे भवितव्येन जीवकर्मफलेन विमोहितः उचितादपनीयानुचिते योजितः विमोहमाह स्वधर्मेत्यादि । कुपथश्वासौ पाष- ण्डश्च ते निजमनीषया संप्रवर्तयिष्यते सम्यक्प्रबन्धेन स्वेच्छया कृतेन लोके स्थापयिष्यति ॥ ९ ॥ * * येन कुपथपाषण्ड- प्रवर्तनेन मनुजाधमाः स्वविधिना नियोगो यस्मिन् शौचचारित्रे तेन विहीनाः देवहेलनानि देवावज्ञारूपाणि अस्नानादीनि अप- व्रतानि गृह्णानाः वेदादीनां विदूषका भविष्यन्ति ॥ १० ॥ * * ते मनुजापसदाः चकारात्स अर्हनामको राजा च अर्वाक्त- नया अवेदमूलया तयैव निजलोकः मनुजापसदानुरूपो लोकः नरकलोकस्तदर्था यात्रा प्रवृत्तिः उपधर्मविषय कार्हन्निर्मितनिबन्धा- ध्ययनाध्यापनतदुक्तोपधर्मानुष्ठानादिक्रिया तया अन्धानां ज्ञानचक्षुर्हीनानां मूर्खाणामुपदेष्टणां परम्परया वंशावल्या आश्वस्ताः कृतविश्वासाः अन्धे तमसि नरके प्रपतिष्यन्ति ॥ ११-१२ ॥ * * अवतारवन्ति ऋषभाद्यवतारवन्ति यत्रत्या जनाः गायन्ती- त्युपलक्षणं श्रवणादेः, तदेतद्भारतं वर्षमधिकं पुण्यं यस्मिन् तदधिपुण्यं भवति ।। १३ ।। * * अवदातः शुद्धः यत् य आद्यः पुमान् स कृतावतारः ऋषभमूर्तिः सन् “नास्त्यकृतः कृतेन” इति श्रुत्या अकर्म कर्मालभ्यं ब्रह्म तद्धेतुं तत्प्रापकं पारमहंस्यलक्षणं धम्मं चचार ।। १४ ।। * * कृतप्रयत्नाः स्वतः सेवितुं प्रवृत्ताः अपि योगमायाः योगजा विभूतयः येन असत्तया असाधुतया उदस्ताः उपेक्षिताः यः अपरः योगी स्पृहयति स को नु अस्य ऋषभस्य काष्ठां दिशमप्यनुगच्छेत् ॥ १५ ॥ * * विशुद्धा- चरितैर्व्यासादिभिरीरितम् ॥ १६ ॥ ॥ के गोस्वामिश्रीगिरिधरलाल विहिता बालप्रबोधिनी । यतोऽवधूतवेषेणर्षभः कोङ्कादिदेशान् गतोऽतस्तदाचारं दृष्ट्वाऽनधिकारिमूर्खजनस्य तत्स्वीकारेण तद्देशादेव पाषण्ड प्रवृत्तिर्जाते- त्याह-यस्येति । यस्यर्षभस्य किलाश्रमातीतं पारमहंस्यमनुचरितं तद्देशवासिभ्य उपाकर्ण्य श्रुत्वा अर्हन्निति नाम यस्य स कोङ्का- दीनां राजा स्वयमुपशिक्ष्य शिक्षित्वा कुपथश्वासौ पाषण्डं च तत् अत एवासमञ्जसं वेदविरुद्धत्वान्नरकपातादिदुःखकारणं मतं निज- Iस्क. ५ अ. ६ श्लो. ९-१६] अनेक व्याख्या सम कुतम् मनीषया वेदविचारमन्तरेणैव सम्प्रवर्त्तयिष्यते इत्यन्वयः । तत्र हेतुमाह - मन्द इति, मन्दबुद्धिरित्यर्थः । तत्रापि हेतुमाह-कला- विति, कलौ अधर्मे उत्कृष्यमाणे वर्द्धमाने सति भवितव्येन प्राणिनां दुरदृष्टफलेन विमोहितः । अत एवाकुतोभयं शास्त्रानुमतत्वात् सर्वतो भयनिवर्त्तकं स्वधर्मपथं स्वधर्ममार्गमपहाय त्यक्त्वा ॥ ९ ॥ * * येन प्रवर्त्तितपाषण्डमतेन वाव एव कलौ मनुजापसदा मनुजेषु अतिनिकृष्टाः स्वविधिना स्ववर्णाश्रमानुरूपशास्त्रेण नियोगो यस्मिन् शौचचारित्रे शोधककर्मणि तद्विहीनाः सन्तो देव- हेलनानि देवानामवज्ञारूपाण्यस्नानादीनि अपव्रतानि निन्दितव्रतानि निजेच्छया गृह्णाना ब्रह्मादीनां विदूषका भविष्यन्तीत्यन्वयः । हेति लोके तत्प्रसिद्धिं दर्शयति । ब्रह्म वेदः, यज्ञपुरुषो भगवान् विष्णुः, लोकाः सज्जनाः । मनुजापसदा इत्यनेन भगवद्भक्ता व्या- वर्तिताः । अतो भगवद्विमुखत्वादेव देवस्य भगवतो मायया मोहिताः । मायाया भक्तमोहकत्वासम्भवात् ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति वाक्यात् । अत एवाधर्मो बहुलो यस्मिंस्तेन कलिना उपहता तिरस्कृता धीर्विवेको येषां ते तथा । एवम्भू- तानां कलौ बाहुल्यज्ञापनार्थं प्रायग्रहणम् ॥ १० ॥ * * एवं पाषण्डे प्रवृत्तानां किं फलमित्याकाङ्क्षामालक्ष्याह- ते चेति । ते च पाषण्डिनः निजलोकयात्रया पाषण्डिजनप्रवर्तितया अत एव सर्वमूलानादिवेदप्रमाणशून्यत्वात् अर्वाक्तनया प्रवृत्त्याश्वस्ताः कृतविश्वासाः स्वयं अन्धे तमसि दुःखभोगातिरिक्ततरणोपायरहिते नरके एवं प्रपतिष्यन्तीत्यन्वयः । तत्र दृष्टान्तमाह-अन्धपरम्पर- येति । यथा वञ्चनपरैर्धनादिलोभेन वयं मार्ग पश्याम इति वदद्भिरन्धैः सह गच्छन् अन्धोऽन्धे कूपे पतति तथेत्यर्थः । निश्चितमेव वेदविरुद्धाचाराणां नरकपतनं शास्त्रेष्विति दर्शयितुं हिशब्दः ॥ ११ ॥ 8 * ननु तह्य स्यानर्थस्य मूलमयमवतार एवेत्या- शङ्कयाह- अयमिति । अयमवतारो रजसा उपप्लुतानां व्याप्तानां मोक्षमार्गोपशिक्षणार्थ एव, पाषण्डमार्गप्रवृत्तिस्तु प्राणिदुरदृष्टव- शादित्युक्तमेवेति भावः । तथा च भगवदुक्तशास्त्रतात्पयं विचार्य स्वाधिकारानुसारेण तत्तन्मार्गे प्रवृत्तिरुचिता कल्याणहेतुत्वात्, न स्वाधिकार मविचार्य अन्धपरम्परया लोकानुरञ्जनेन लाभपूजाद्यर्था सोचिता शास्त्रविरोधेन नरकपाताद्यनर्थहेतुत्वादिति सिद्धम् ॥ १२ ॥ * * न च मयैवेदमुच्यते किन्तु पुराविद एव तस्य कैवल्योपशिक्षणस्यानुगुणान् अनुरूपान् श्लोकान् गायन्ति । तांस्त्रीन् श्लोकान् दर्शयति-अहो इति । अहो आश्चर्य सप्तसमुद्रवत्या भुवो ये द्वीपास्तेषु तेषां वर्षेषु च मध्ये एतद्भारतं वर्ष अधिपुण्यमधिकं पुण्यं यस्मिंस्तत् कुतो यतः भद्राणि मोक्षप्रदानि मुराररवतारवन्ति कर्माणि यत्रत्या जना गायन्तीत्यन्वयः ॥ १३ ॥ * * प्रयत्रतो वंशो यशसा सत्कीय अहो अवदातः अतिशुद्धः। सत्कीत्तौ हेतुमाह यन्त्रेति । यत् यस्मात् यः पुराणः अनादिः पुमान् पुरुषोत्तमः पुरुषः सर्वान्तर्यामी आद्यः सर्वकारणकारणं स यत्र वंशे कृतावतारः सन् अकर्मा कर्माप्राप्यो मोक्षस्तस्य हेतुं धर्म चचारेत्यन्वयः । न्विति तर्कातीतोऽस्य वंशस्य महिमेति सूचयति ॥ १४ ॥ अस्य ऋषभस्य काष्ठां दिशमप्यपरो योगी को नु अनुगच्छेत् ? तत्रापि मनोरथेनापि मनसा तन्मार्गगमनसङ्कल्पोऽप्यशक्यः । क्रियया तद्गमनाशक्यत्वस्य का वार्तेति भावः । तदेव स्पष्टयति-य इति, यो योगी येन ऋषभेण असत्तया तुच्छत्वेन उदस्तास्त्यक्ताः हि एव योगमायाः योगसिद्धीः स्पृहयति वाञ्छति । कथम्भूतस्तत्राह — कृतेति सेवितुं कृतः प्रयत्नो याभिस्तथाभूता अपीत्यर्थः । तन्मार्गगमनाशक्यत्वे हेतुमाह - अभवस्य संसारातीतस्येत्यर्थः । अत एव तादृशविरक्तिरहिता अधिकाराभावेन तन्मार्गे प्रवृत्ताः पाषण्डिनो जाता इति ज्ञेयम् ।। १५ ।। * प्रकरणस्य समाप्तत्वेनास्य श्रवणकीर्त्तनफलमाह - इतीति । इत्येवं ह· स्फुटतया सकलवेदादीनां परमगुरोः
- रक्षकस्य भगवत ऋषभाख्यस्य विशुद्धं सर्वोपकारकमाचरितं च मयेरितं च तदिदमवहितः सावधानः सन्नुपचितया श्रद्धयाऽनु वारं वारं शृणोत्या श्रावयति वा तयोरनयोः श्रोतृश्रावयित्रोस्तस्मिन् सर्वशास्त्रतात्पर्यविषयत्वेन प्रसिद्धे भगवति वासुदेवे एकान्ततः फलाभिसन्धानशून्या भक्तिः समनुवर्त्तते उत्पद्यते इत्यन्वयः । कथम्भूतं चरितम् ? वक्तृश्रोत्रोः समस्तं दुश्चरितमभितो हरतीति तथा, तथा परममहामङ्गलानामतिदुर्लभ फलानामप्ययनम् । अनेनान्यफलमिच्छतां तत्पूर्वकत्वमप्युक्तम् ।। १६ ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
अवधूतवेषेण ऋषभदेवस्तत्र गत इत्येतस्य सूचकमाह यस्येति । यस्य ऋषभस्य, आश्रमातीतं चतुराश्रमधर्मानतीत्य वर्त्त- मानं, अनुचरितं उपाकर्ण्य किल, कुटका चलोपत्यकावर्त्तिदेशवासिजनेभ्य आश्रुत्यैवेत्यर्थः । कोडवेङ्ककुटकानां, अर्हनिति नाम यस्य सः, राजा स्वयं, तत् उपशिक्ष्य शिक्षित्वा, कलौ अधर्मे उत्कृष्यमाणे उत्कर्ष प्राप्यमाणे सति, भवितव्येन प्राणिनां पूर्वसंचितपापेन, विमोहितः सन् मन्दः सः, अकुतोभयमपि, स्वधर्मपथं स्वधर्ममार्ग अपहाय, असमञ्जसमसमीचीनं, कुपथश्वासौ पाषण्डश्च तं, निजमनीषया संप्रवर्त्तयिष्यते ग्रन्थनिबन्धनपूर्व तत्प्रवृत्तिं करिष्यति इत्यर्थः ॥ ९ ॥ येनेति । येन प्रवर्त्तकेन हेतुना, ह ९॥ * । वा व निश्चितमेव, पाषण्डधर्मो विसरिष्यतीति शेषः । एतदेवाह । कलौ कलियुगे मनुजापसदा मनुष्येषु निकृष्टाः, देवमायाविमो हिताः सन्तः, स्वविधिना स्वस्य वर्णाश्रमानुरूपधर्मविधिना प्राप्तो यो नियोगो नियमस्तस्मिन् यच्छौचचारित्रं तेन विहीनाः, शौच- चारित्रमिति समाहारद्वन्द्वः, इतरेतरयोगे तु नियोगेन ये शौचचारित्रे ताभ्यां विहीनाः । तंत्र शौचं स्नानादितो जाता देहशुद्धिः । चारित्र संध्योपासनादिः । तद्वर्जिता इत्यर्थः । अस्नानं च अनाचमनं अशौचं केशोपलुञ्जनं केशोत्पाटनं च तान्यादयो येषां तानि देवहेलनानि देवावज्ञारूपाणि अपव्रतानि कुब्रतानि निजेच्छया गृह्णानाः कुर्वाणाः, अधर्मबहुलेन प्रचुराधर्मपूर्णेन, कलिना कलि- ।। श्रीमद्भागवतम् bo [ रुकं ५ अ. ६ श्लो. ९-१६ युगेन, उपहृता अभिभूता धियो विवेकमतयो येषां तथाभूताः ब्रह्म वेदश्च ब्राह्मणा द्विजाश्च यज्ञपुरुषो भगवांच लोका भागवताच तेषां विदूषकाः, प्रायेण भविष्यन्ति ॥ १० ॥ 8 * तत्फलं चान्धंतमः प्राप्स्यन्तीत्याह ते चेति । ते च अर्वाक्तनया अवेदमूलया, निजलोकयात्रया स्वेच्छाविहितप्रवृत्त्या, अन्धपरंपरया, आश्वस्ताः तदुक्तेषूपधर्मेषु कृतविश्वासाः सन्तः, अन्धे तमसि अन्धतमोनाम्नि नरके, स्वयमात्मनैव प्रपतिष्यन्ति हि ॥ ११ ॥ नतु तर्हि भगवतर्षभेण किमर्थमेवमनुष्ठितं तचाह अयमिति । अयं, अवतारः रजसा रजोगुणेन, उपप्लुतानां यत्कैवल्योपशिक्षणं मोक्षमार्गोपदेशविधानमर्थः प्रयोजनं यस्य तथाभूतः, प्रचुररजोभृतक्षत्रियादिभिः खमोक्षसिद्धयर्थमेवं योगचर्या विधेयेति तच्छिक्षणार्थं भगवता सताप्येवमनुष्ठितमिति भावः ॥ १२ ॥ * * तस्येति । तस्य, अनुगुणान् आर्षभप्रभावप्रतिपादकानित्यर्थः । श्लोकान् गायन्ति पठन्ति । आर्या इति शेषः । के ते इत्यत्राह अहो इति । सप्त समुद्रा अस्यां सन्तीति सप्तसमुद्रवती तस्याः, भुषः पृथिव्याः द्वीपेषु, मध्ये अयं जम्बूद्वीपो धन्यस्तस्यापीति शेषः । वर्षेषु भद्राश्वादिखण्डेषु, एतद्भारतं वर्ष, अधिकं पुण्यं यस्मिंस्तथाभूतं अस्ति । अहो अत्याश्चर्यम् । कुतः यत्र भवा यत्रत्याश्च ते जनाश्च ते यत्रोत्पन्ना लोका इत्यर्थः । मुरारेभंगवतः अवतास्वन्ति ऋषभादिभगवदवतारयुक्तानीत्यर्थः । भद्राणि श्रेयःसाधनानि कर्माणि चरित्राणि, गायन्ति ॥ १३ ॥ * * अहो इति । अहो, प्रयव्रतः प्रियव्रतसंबन्धी, वंशः यशसा अवदातो विशुद्धः, विपुलकीर्त्तिसंपन्न इत्यर्थः । नु निश्चितमेव । यद्यतः, यत्र वंशे, पुराणः पुरुषः तत्रापि आद्यः, पुमान् स ऋषभः, कृतावतारोऽवतीर्णः सन्, १, अकर्महेतु मोक्षहेतुक, धर्म बचार ॥ १४ ॥ * * को न्विति । अभवस्याजन्मनः अस्य ऋषभस्य, काष्ठां दिशं अपरः योगी मनोरथेनापि कः अनुगच्छेत् सर्वथानुवर्त्तेत । न कोऽपीत्यर्थः हि यस्मात्, यो योगी, येन ऋषभेण, असन्तया असद्वस्तुतया, तुतया, उदस्ता निरस्ता, कृतप्रयत्नाः यस्य ऋषभस्य, सेवार्थकृतप्रचुरप्रयत्ना अपि, योगमायाः मनोजवादिकाः सिद्धी:, स्पृहयति ॥ १५ ॥ ॐ ॐ ऋषभचरित्र श्रवणादिफलमाह इतीति । ह स्मेति प्रसिद्धाश्वर्य द्योत कौ निपाती । इतीत्थंभूतं, सकलाः समग्रा वेदाच लोकाच देवाश्च ब्राह्मणाश्च गावश्च तासां परमगुरो:, तत्रायं लोकवेददेवब्राह्मणानां तु हितोपदेष्टृत्वाद् गुरुः, वेदमार्ग प्रवर्त्तकत्वाद्वेदस्य गुरुः पूज्यत्वोपदेष्टृत्वाद्वामपि गुरुः, ऋषभाख्यस्य भगवतः पुंसां, समस्तं ‘च तत् दुश्चरितं च तदभितो हरतीति तथाभूतं, परमाणि च तानि महामङ्गलानि च तेषामयनमाश्रयभूतं, विशुद्धाचरितानामीरित मुच्चारणं यस्मिंस्तत्, इदमृषभाख्यानं अनु यथाक्रमं, उपचितया प्रवृद्धया, श्रद्धया, अनुसवनं सर्वदा, यः पुमान् अनुशृणोति, आश्राषयति वा, अनयोः श्रोतृभावयित्रोः अपि वासुदेव सर्वात्मनि भगवति समस्तैश्वर्यपूर्णे, तस्मिन्नृपमभगवति, एकान्ततः एकान्तिका अव्यभिचरितेति यावत् । भक्तिः समनुवर्त्तते भवतीत्यर्थः ।। १६ ।। ॥ * कम भाषानुवादः । राजन् ! जिस समय कलियुगमें अधर्मकी वृद्धि होगी, उस समय कोङ्क, वेड और कुटक देशका मन्दमति राजा अर्हत् वहाँ के लोगोंसे ऋषभदेवजीके आश्रमातीत आचरणका वृत्तान्त सुनकर तथा स्वयं उसे ग्रहणकर लोगोंके पूर्वसञ्चित पापफलरूप होनहारके वशीभूत हो भयरहित स्वधर्म-पथका परित्याग करके अपनी बुद्धिसे अनुचित और पाखण्डपूर्ण कुमार्गका प्रचार करेगा ॥ ९ ॥ * * उससे कलियुगमें देवमायासे मोहित अनेकों अधम मनुष्य अपने शास्त्रविहित शौच और आचारको छोड़ बैठेंगे । अधर्मबहुल कलियुगके प्रभावसे बुद्धिहीन हो जानेके कारण वे स्नान न करना, आचमन न करना, अशुद्ध रहना, केश नुचवाना आदि ईश्वरका तिरस्कार करनेवाले पाखण्डधमोंको मनमाने ढंगसे स्वीकार करेंगे और प्रायः वेद और ब्राह्मण एवं भगवान् यज्ञपुरुषकी निन्दा करने लगेंगे ॥ १० ॥ * वे अपनी इस नवीन अवैदिक स्वेच्छाकृत प्रवृत्ति में || * अन्धपर म्परासे विश्वास करके मतवाले रहने के कारण स्वयं ही घोर नरक में गिरेंगे ॥ ११ ॥ * * भगवान्का यह अवतार रजोगुणसे भरे हुए लोगोंको मोक्षमार्गकी शिक्षा देनेके लिये ही हुआ था ॥ १२ ॥ * इसके गुणोंका वर्णन करते हुए लोग इन वाक्योंको कहा करते हैं– ‘अहो ! सात समुद्रोंवाली पृथ्वी के समस्त द्वीप और वर्षों में यह भारतवर्ष बड़ी ही पुण्यभूमि है, क्योंकि यहाँ के लोग श्रीहरिके मङ्गलमय अवतार- चरित्रोंका गान करते हैं ॥ १३ ॥ * * अहो ! महाराज प्रियव्रतका वंश बड़ा ही उज्ज्वल एवं सुबशपूर्ण है, जिसमें पुराणपुरुष श्रीआदिनारायणने ऋषभावतार लेकर मोक्षकी प्राप्ति करानेवाले पारमहंस्य धर्मका आचरण किया ॥ १४ ॥ * * अहो ! इन जन्मरहित भगवान् ऋषभदेवके मार्गपर कोई दूसरा harit are भी कैसे चल सकता है। क्योंकि योगीलोग जिन योगसिद्धियोंके लिये लालायित होकर निरन्तर प्रयत्न करते रहते हैं, उन्हें इन्होंने अपने आप प्राप्त होनेपर भी असत् समझकर त्याग दिया था ॥ १५ ॥ १५॥ * राजन् ! इस प्रकार सम्पूर्ण वेद, लोक, देवता, ब्राह्मण और गौओंके परमगुरु भगवान् ऋषभदेवका यह विशुद्ध चरित्र मैंने तुम्हें सुनाया। यह मनुष्योंके समस्त पापोंको हरनेवाला है। जो मनुष्य इस परम मङ्गलमय पचित्र चरित्रको एकाग्र चित्तसे श्रद्धापूर्वक निरन्तर सुनते या सुनाते हैं, उन दोनोंकी ही भगवान् वासुदेव में अनन्य भक्ति हो जाती है ।। १६ ।। एकं. ५ अ. ६ लो. १७-१९1 अनेकव्याख्या समलङ्कृतम् यस्यामेव कवय आत्मानमविस्तं विविधवजिनसंसारपरितापोपतप्यमानमनुसवनं स्वापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वं नैव परिसमाप्तसर्वार्थाः।। १७ ।। राजन पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्क PIERRETE ARE FIFTIR F अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८ ॥ नित्यानुभूत निजलाभनिवृत्ततृष्णः श्रेयस्यतद्रचनया चिरसुप्तबुद्धः । लोकस्य यः करुणयाभयमात्मलोकमाख्यानमो भगवते ऋषभाय तस्मै ।। १९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥ ६॥ अन्वयः हि यस्याम् एव विविधवृजिनसंसार परितापोपतप्यमानम् वात्मानम् अनुसवनम् अविरतम् स्नापर्यंतः भगवदीयत्वेन एवं परिसमाप्तसर्वार्थाः कवयः तया एव परया निर्वृत्या स्वयम् आसादितम् आत्यंतिकम् परमपुरुषार्थम् अपवर्गम् अपि तो आहियन्ते ।। १७ ।। * अंग राजन भगवान् सुकुंदः भवताम् च् यदूनाम् पतिः गुरुः दैवम् प्रियः कुलपतिः क्र च वः अलम् किंकरः एवम् अस्तु भजताम् मुक्तिः ददाति कर्हिचित् स्म भक्तियोगम् न ददाति ॥ १८ ॥ * ॐ नित्यानु- भूतनिजलाभनिवृत्ततृष्णः यः करुणया अतदचनया श्रेयसि चिरसुप्तबुद्धेः लोकस्य अभयम् आत्मलोकम् आख्यात् तस्मै भगवते ऋषभाय नमः ।। १९॥pp इति पनोऽध्यायः ॥ ६ ॥ Fasts BE IS । श्रीधरस्वामिविरचिता भावार्थदीपिका भक्तेः परमपुरुषार्थत्वमाह । यस्यां भक्तावेव न तु योगादिषु । अनुसवनमविरतमात्मानं स्नापर्यंतः । स्वयमासादित- मप्रार्थितं भगवता स्वयमेव दीयमानमपि । अनादरे हेतुः । भगवदीयत्वेनैव परितः समाप्ताः सम्यक् प्राप्ताः सर्वे पुरुषार्थाः यैस्ते ॥ १७ ॥ *
- ननु भगवतोऽतिसुलभत्वदर्शनान्मोक्षस्य चातिदुर्लभत्वादियमतिस्तुति रेवेत्याशंक्याह । हे राजन् भवतां पांडवानां यदूनां च पतिः पालकः । गुरुरुपदेष्टा । दैवमुपास्यः । प्रियः सुहृत् । कुलस्य पतिर्नियंता । किं बहुना । क च कदाचिद्दौत्या- दिषु वः पांडवानां किंकरोऽप्याज्ञानुवर्ती । अस्तु नामैवं तथाऽप्यन्येषां नित्यं भजतामपि मुक्ति ददाति न तु कदाचिदपि सप्रेम- भक्तियोगम् ॥ १८ ॥ वर्णितमृषभावतारं नमस्करोति । नित्यमनुभूतं यन्निजरूपं स एव लाभस्तेन निवृत्ता तृष्णा यस्य सः अतद्रचनया देहाद्यर्थमनोरथेन श्रेयसि विषये चिरं सुप्ता बुद्धिर्यस्य तस्य जनस्य करुणया निर्भयमात्मस्वरूपं य आख्यातवांस्तस्मै नमः ।। १९ ।। -कोन $ Phoy इति पंचमस्कंधे, टीकायां षष्ठोऽध्यायः ॥ ६॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः कहि क भगवत भगवदीयास्तेषां आवस्तत्त्वं तेन भगवदीया वयं न ह्यस्माकं किंचिदपेक्षितमस्ति सर्वगुरुणा ब्रह्मणापि “थेनाहमेकोऽपि “येनाहमे कोऽपि भवज्जनानां भूत्वा निषेवे तव पादपलवम्” इत्युक्तेर्भगवदीयत्वस्य प्रार्थितत्वान्न तु प्राप्तादयं तु समाप्ता अहो कृतार्था वयमिति भावः ।। १७ ।। इयं मोक्षानादरेण भक्त्यादरणरूपा । हे राजनिति । त्वं तु मातरं द्वारीकृत्य तद्भक्त्यैव व्यांगत्वाद्राजसे कथं तव भक्तावनुत्कर्षधीरिति भावः । अत्र विश्वनाथः–धन्योऽयं प्रियव्रतवंशो यत्र भगवानृषभदेवोऽवतीर्णः । उत्तानपादवंशोऽपि धन्यो यत्र पृथुः । रघुवंशोऽपि धन्यो यत्र रामः । यदुवंशपुरुवंशयोरेककालिकयोरपि मध्ये यदुवंश एव सुभगो यत्र कृष्णः अस्मदीयः । पुरुवंशस्तु सर्वतोषि दुर्भगो यत्र भगवान्नावततारेति मनोनुतापेन विषीदतं राजानं सर्वज्ञतयैव ज्ञात्वा मोक्षाद्भक्तेरुत्कर्षेण प्रतिपादितेनैव तमानंदयति हे राजन्निति । भवतां पांडवानां यदूनां च पतिः पालकः इत्यादिभिः यदुष्ववतरतोपि कृष्णस्य तेषु भवत्सु च तुल्य एव व्यवहारो दृष्टः । किं च कच कदाचित् वः पांडवानां दूत्यादिषु किंकरः। न च तथा यदूनामिति । यदुभ्योऽपि प्रेमवत्त्वेन भवतामाधिक्यमेवेति EN ZISESTREIP IP FOR GIETS १. प्रा० पा० - २. प्रा० पा० - ३. ४. ૪૨. श्रीमद्भागवतम् [ स्कं. ५ अ. ६ श्लो. १७-१९ भावः । भवद्भथोऽभजद्भथोपि परमप्रेमाधिक्यदानस्य वार्ता कियती वक्तव्या सा सर्वोपरि विराजिता, अन्येभ्यो भजयोऽपि भक्तियोगं भावभक्तिमपि प्रायो न दद्दाति । किं तु ततोऽपि निकष्टां मुक्तिमेवेत्याह अस्त्वेवमिति । अत्र कर्हिचिदपीत्युक्तेर्मुक्ति- मनिच्छद्भयः शुद्धभक्तेभ्यस्तु भक्तिमेव ददातीत्यर्थो लभ्यते । केचित्तु-भक्तिदाने भगवतः कैंकर्य्यादिप्रसक्तेरुप्रसेनयुधिष्ठिरादिषु तथा दर्शनात्तां न ददातीत्याहुः ॥ १८ ॥ * * यद्वा आत्मलोकं वैकुंठमभयं ‘न मत्पराः शांतरूपे नक्ष्यंति’ इत्यादिश्रीकपिलोक्तेः । कालभयहीनं करुणयोपदिष्टेन भक्तियोगेन चाख्यातवांस्तस्मै ॥ १९ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥ Time श्रीमद्वीरराघवव्याख्या किं भक्त्या साध्यमित्यत्र भगवदनुभवरूपाया भक्तेरतिशयपुरुषार्थतामाह यस्यामिति । यस्यां भगवदनुभवसुधारसरूपायां भक्तौ कवयो विवेकिनः विविधानि वृजिनानि पापानि यस्मिंस्तस्मिन् संसारे ये परितापाः क्लेशास्तैरुपतप्यमानं क्लिश्यमानमात्मानमनुसवनं स्नापयन्तः भगवदनुभवेन वृजिनमूलानि दुःखान्यपनुदन्त इत्यर्थः । तयैव भगवदनुभवजनितया निर्वृत्त्या आनन्देन परमपुरुषार्थलक्षणमपि स्वयं प्राप्तमप्यापवर्गिकमपवर्गरूपं फलमात्यन्तिकमत्यन्तं नैवाद्रियन्ते । अनादरे हेतुः भगवदीयत्वेनैव परितः समाप्ताः सर्वपुरुषार्था यैस्ते ॥ १७ ॥
भक्तेर्दौर्ल्लभ्यं सनिदर्शनमाह राजन्निति । हे राजन् ! भगवन् पाण्डवानां यदूनां च मुकुन्दो भगवान् पतिः पालकः गुरुर्हितोपदेष्टा दैवमुपास्यः प्रियः सुहृत् कुलस्य पतिर्नियन्ता किं बहुना क च कदाचिद्दूत्यादिषु वः पाण्डवानां किङ्करोऽप्याज्ञानुवर्ती अस्तु नामैवं तथाप्यङ्ग ! हे राजन्नन्येषां नित्यम्भजतामपि मुक्तिं ददाति इति तु भक्तियोगमिति भक्तेर्दुर्लभत्वोक्तिः ॥ १८ ॥
ऋषभचरितमुपसंहरन् नमस्करोति । नित्येति । नित्यमनुभूतं यन्निजं ब्रह्मात्मकं स्वरूपं स एव लाभस्तेन निवृत्ता तृष्णा पुरुषार्थान्तरेषु यस्य एवंभूतो यः अतद्रचनया अश्रेयसां पापकर्मणां रचनया श्रेयसि विषये चिरं सुप्ता बुद्धिर्यस्य तस्य लोकस्य करुणयाऽभयात्मस्वरूपमाख्यादाख्यातवान् तस्मै ऋषभरूपाय परमपुरुषाय नमः ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां षष्ठोऽध्यायः ॥ ६ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली नन्वितरेषु साधनेषु सत्स्वियमेव किं विशिष्योच्यत इत्याशङ्कथ सामान्यमुक्तेरस्याः परमानन्दहेतुत्वादित्याह । यस्या- मिति । कवयो यस्यां भक्त्यां स्वात्मानं मनः स्नापयन्तस्तयैव भक्त्या जावया परयोत्कृष्ट्या निर्वृत्त्या न्तिकमापवर्गिकमपवर्ग- सम्बन्धिनं पुरुषार्थ स्वयं स्वत एव प्राप्तिमपि नैवाद्रियन्ते कुतो नाद्रियन्ते तत्राह । भागवतत्वेनेति । भक्तथा भागवता भगवतो हरेर्विशेषप्रिया इति भावेनैव परिसमाप्ताः पूर्णाः सर्वार्थाः येषां ते तथा स्नापने निमित्तमाह । अविरतेति । अविरतानि निरन्त- राणि विविधानि वृजिनानि दुःखानि यानि तैर्युक्तो यः संसारः जननमरणलक्षणः तन्निमित्तसन्तापेनोपतप्यमानं ददह्यमानमनु- सिवनं सर्वदा मुक्तेः पूर्वं तस्यामनादरं कुर्वतां पश्चादानन्दोत्कर्षः स्यादित्येतमर्थं हि शब्देनाह । ब्रह्मणोऽन्यस्य नो पूर्णां दद्याद्भक्ति जनार्दनः । मुक्तिं ददाति सर्वेषामुच्चानां कोत्यधिश्रितः ।।” इत्यनेन “नाद्रियन्ते तु ये मोक्षं पूर्वं तेषां परं सुखम् । स्वयोग्यं व्यज्यते मुक्तौ तच्चोक्ततारतम्ययुक्” इत्यनेन चात्र तात्पर्यमवगन्तव्यम् ।। १७ ।। * * भगवति क्रियमाणाया भक्तेर्निर्वृति- जनकत्वेन पुरुषार्थत्वं यतोऽतस्तस्या मुक्तेरप्यतिदौर्लभ्यमाह राजन्निति । गुरुत्वादिकमस्तु तथाप्यविगानेन मुक्ति प्रयच्छति कर्हिचित् स्म कदापि ब्रह्माणं विना न कस्मैचित्पूर्ण भक्तियोगं प्रयच्छतीत्यन्वयः “ब्रह्मणोऽन्यस्य नापूर्णां दद्याभक्ति जनार्दनः” इत्यादेः अर्जुनादीनां ज्ञानोपदेष्टृत्वेन गुरुत्वम् ॥ १८ ॥ * सिंहावलोकन्यायेनावतारप्रयोजनमाह नित्येति । अतद्रचनया श्रेयोविरुद्धकर्मणा श्रेयसि चिरसुप्तबुद्धः नष्टज्ञानस्य लोकस्य ज्ञानग्रहणयोग्यजनस्य यो भगवानात्मा लोक्यते दृश्यते इत्यात्मज्ञानं मुक्तिसाधनमाख्यादाचख्यौ तस्मा ऋषभाय नम इत्यन्वयः । ऋषभोक्तार्थे विस्रम्भाय ऋषभं विशिनष्टि . नित्येति । नित्यमनुभूतो- परोक्षीकृतो निजलाभः स्वरूपानन्दो यस्तेन निवृत्ता तृष्णा यस्य सः तथोक्तः । अनेन नित्यानन्दज्ञानपूर्णत्वेन नित्यसिद्धा खिलपदार्थ- विशेषत्वात्तदुक्तावाप्तिः सुतरां संभवतीति ज्ञायते ॥ १९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपद रत्नावल्यां षष्ठोऽध्यायः ॥ ६ ॥ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः तच्छ्रुत्वा तस्यै स्पृहयन्तं राजानं भवतां तु सा परमश्लाध्येत्याह राजन्निति भक्तियोगं प्रेमाणं कर्हिचिदिति तदेतत् फलेच्छुत्वाभावे वासनान्तराभावे च सतीत्यर्थः ॥ १८-१९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे षष्ठोऽध्यायः ॥ ६॥ एकं ५ अ. ६ लो. १७-१९] अनेकव्याख्या समलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी १४३ भक्तेः परमपुरुषार्थशिरोमणित्वमाह । यस्यां भक्तावेव सुधासरिति आत्मानं स्नापयन्तः स्वयमासादितमप्रार्थितमपि भगवता स्वयमेव दीयमानमपि अनादरे हेतुः भगवदीयत्वेनैव परितः सम्यक् प्राप्ताः सर्वेऽर्था येन तु भगवत्त्वेनेत्यर्थः ।। १७ ।। * * धन्योऽयं प्रियत्रतवंशो यत्र भगवानृषभदेवोऽवतीर्णः उत्तानपादवंशोऽपि धन्यः यत्र पृथुः रघुवंशोऽपि धन्यः यत्र रामः यदुवंश- पुरुवंशयोरैककालिकयोरपि मध्ये यदुवंश एव सुभगः यत्र कृष्णः अस्मदीयः पुरुवंशस्तु सर्वतोऽतिदुर्भगो यत्र भगवान्नावततार इति मनोऽनुलापेन विषीदन्तं राजानं सर्वज्ञतयैव ज्ञात्वा मोक्षाद्भक्तेरुत्कर्षेण प्रतिपादितेनैव तमानन्दयति हे राजन् ! भवतां पाण्डवानां यदूनाञ्च पतिः पालकः गुरुरुपदेष्टा देवमुपास्यः प्रियः प्रीतिकृत् कुलपतिर्नियन्तेति यदुष्ववतरतोऽपि कृष्णस्य तेषु भवत्सु च तुल्य एव व्यवहारो दृष्टः किञ्च कच कदाचित् वः पाण्डवानां दूत्यादिषु किङ्करः न च तथा यदूनामिति यदुभ्योऽपि प्रेमवत्त्वेन भवतामाधिक्यमेवेति भावः । भवद्भयो ह्यभजद्धयोऽपि परमप्रेमाधिक्यदानस्य वार्त्ता कियती वक्तव्या सा सर्वोपरि विराजिता अन्येभ्यो भजयोऽपि भक्तियोगं भावभक्तिमपि प्रायो न ददाति किन्तु ततोऽप्यति निकृष्टां मुक्तिमेवेत्याह । अस्त्वेवेति भजतां भजद्भयः अत्र कर्हिचिदपीत्यनुक्तेर्मुक्तिमनिच्छुद्धयः शुद्धभक्तेभ्यस्तु भक्तिमेव ददातीत्यर्थो लभ्यते ॥ १८ ॥ उपाख्यानं समाप्य प्रणमति । नित्यमेव अनुभूतो यो निजः स्वरूपानन्दस्तल्लाभेनैव विगतदृष्णः अतद्रचनया देहाद्यर्थचेष्टया श्रेयसि विषये चिरं सुप्ता बुद्धिर्यस्य तस्य जनस्य अभयं निर्भयकारणम् आत्मलोकं श्रीवैकुण्ठं प्राप्यं करुणयोपदिष्टेन भक्तियोगेन य आख्या- तवांस्तस्मै नमः || १९ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षष्ठोऽध्यायः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥ ६॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः । भक्तिरनुवर्तते इत्युक्ताया भक्तः परमपुरुषार्थत्वमाह । यस्यामिति ॥ १७ ॥ * ॐ भक्तावात्मानं स्नापयन्तः परमपुरुषार्थं मोक्षमपि तत्रापि स्वयमासादितं नो एवाद्रियन्ते इति मदुक्तसिद्धान्ते असम्भावना न कार्येत्याशयेनाह । राजनिति हे अङ्ग ! भजतां भक्तानां कर्हिचित् वरप्रदानकाले मुकुन्दो मुक्ति ददाति न पुनरिह लोके भक्ति हे राजन् ! एवं मदुक्तं भक्तेर्मुक्तितः श्रेष्ठ्यमस्तु यतः भवतां यदूनां तदुपलक्षितानां गोपादीनां च वो युष्माकं सर्वेषां भजतां भक्तिमतां पतिः पालकः गुरुस्तत्त्वोपदेष्टा देवमुपास्यः प्रियः सुहृद् कुलस्य पतिर्नियन्ता च किं बहुना क च कस्मिंश्चित्कार्ये कस्यचित् भक्तस्य किङ्करो भवति यथा श्रीयशोदा- नन्दयोः श्रीदेवकीवसुदेवयोः उग्रसेनादीनां युधिष्ठिरादीनां च किङ्करोऽग्रे प्रसिद्धः सर्वान् भक्तान् प्रति श्रीभगवद्वचनम् “अहम्भक्त- पराधीनः” इति श्रुतिश्व ‘भक्तिवशः पुरुषः’ इति, न हि मुक्तौ किङ्करत्वे भगवतोऽतो मुक्तेर्भक्तिर्गरीयसीति संक्षेपः ॥ १८ ॥ भगवन्तमृषभं प्रणमति । नित्येत्यादिना । अतद्रचनया अनात्मभूतदेहाद्यर्थकव्यापारेण श्रेयसि कल्याणे भगवदाराधने चिरं सुप्ता बुद्धिर्यस्य तस्य लोकस्य जनस्य आत्मनः स्वरूपस्य लोकं स्थितिप्रवृत्तिस्थानमभयं वासुदेवं य आख्यात् उक्तवान् तस्मै नमः ।। १९ । इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे षष्ठाध्यायार्थप्रकाशः ॥ ६ ॥ SHREEPIK गोखामिश्रीगिरिधरलालविहिता बालप्रबोधिनी एवमुत्पन्नभक्तीनां ततः किं फलं भवतीत्यपेक्षायां भक्तरेव परमपुरुषार्थत्वात् तत्प्राप्त्या कृतार्थानां नैव ततोऽन्य फला- पेक्षेत्याह-यस्यामिति । यस्यां भक्तावेव न ज्ञानादिसाधनान्तरे विचारादौ अनुसवं न प्रतिदिनं तत्राप्यविरतं निरन्तरं प्रतिक्षण- मात्मानं स्नापयन्तस्तया भजनोत्पन्नया परया सर्वोत्कृष्टया निर्वृत्या आनन्देन पूर्णाः स्वयमासादितमाकाङ्क्षां विनापि भगवतैव प्रापितमात्यन्तिकं जन्ममरणादिदोषवर्जितं अत एव परमपुरुषार्थरूपमपवर्गमपि नो एवाद्रियन्ते नैवाङ्गीकुर्वन्तीत्यन्वयः । विविधानि वृजिनानि दुःखानि यस्मिंस्तस्मिन् तिर्यगादियोनिषु भ्रमणात्मके संसारे तापैर्दुःखैरुपतप्यमानमभिभूयमानमित्यात्मविशेषणेन यथा निदाघातपसन्तप्तस्यैव तरुच्छाया सुखानुभवो नान्यस्य तथा संसारदुःखतप्तस्यैव भक्तिसुखानुभवो नान्यस्येति सूचितम् । ननु संसारे सर्वे तत्तापतप्ता एव । अतः सर्वदा च कुतो न भक्तिं कुर्वन्तीति चेद्विवेकं विना तरुच्छायावद्भक्तेदुर्लभत्वात् अत एव कवय इत्युक्तमिति । मोक्षानादरे हेतुमाह-भगवदीयत्वेन भगवता स्वकीयत्वेनाङ्गीकारेणैव परिसमाप्ताः परिपूर्णाः सर्वेऽथ मनोरथा येषां ते ॥ १७ ॥ * * ननु भगवतोऽतिसुलभत्वदर्शनान्मोक्षस्य चातिदुर्लभत्वाद्भक्तास्तं कुतो नाङ्गीकुर्वन्तीत्याशङ्कयाह - राज- निति । हे राजन्निति सम्बोधनेन राजत्वेन निपुणबुद्धित्वान्मदुक्तं सम्यग्विचारणीयमिति सूचयति । तत्रापि नाहमन्यथा वदामीति सूचनाय अङ्गेति द्वितीयं सम्बोधनम् । भवतां यादवानां च पतिः रक्षकः गुरुः धर्मोपदेष्टा देवमुपास्यः फलदश्च प्रियः मित्रं कुलपतिः गणमुख्यः कार्यनियन्ता, किं बहुना क्व च कदाचित् वः पाण्डवानां किङ्कर आज्ञाकार्यपि जातस्तदेवमलमस्तु तदिच्छया सुखेन भवतु, परन्तु मर्यादायां तु भजतां भगवान् मुकुन्दः कर्हिचिन्मुक्ति ददाति स्म, भक्तियोगं पुष्टिमार्गीयं स्नेहलक्षणं तु नैव ददाति १४४ श्रीमद्भागवतम् w [ स्कं. ५ अ. ६ श्लो. १७-१९ स्मेत्यन्वयः ॥ १८ ॥ * * वर्णितमृषभावतारं भगवन्तं स्वयं नमस्करोति नित्येति । यो लोकस्य प्राणिजातस्य अभयं संसारभयनिवर्त्तकं आत्मलोकमात्मा चासौ लोकः सर्वोपद्रवरहितनिवासश्च तमात्मतत्त्वमाख्यात् उपदेशेनाचारेण च प्रकटित- वांस्तस्मै भगवते ऋषभाय नम इत्यन्वयः । केवलं कृपयैवाख्यातवान् न तत्र किञ्चित्तस्य स्वार्थमस्तीत्यभिप्रायेणाह - नित्येति । नित्यमनुभूतं यन्निजं रूपं स एव लाभस्तेन निवृत्ता तृष्णा यस्य सः । लोकस्य कृपाविषयत्वे हेतुमाह श्रेयसीति । आत्मा तत्पद- वाच्यः तद्र्यतिरिक्तं देहादि अतत् तदर्था या रचना लौकिको व्यवहारस्तया श्रेयसि भगवद्भजने चिर बहुकालतः सुप्ता लुप्ता बुद्धिर्यस्य तस्येत्यर्थः ।। १९ ॥ इति श्रीमद्रिरिधराख्येन ॥ श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ 15 रचिता पञ्चमे तंत्र कृष्णेन स्थितिरूपणे । अभ्यायो विवृतः षष्ठो वैराग्यविनिरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी क भक्तेः पुरुषार्थेभ्योऽपि परमपुरुषार्थत्वमाह यस्यामिति । कबयो भगवद्भक्तिरसास्वादनिपुणा मुनयः, विविधवृजिनानि नानाविधदुःखानि च संसारपरितापाः संसारसंबन्धिनोऽनुतापाञ्च तैरुपतप्यमानस्तम् आत्मानं अविरतं निरन्तरं, अनुसर्व त्रिकालं, अपि, यस्यां भगवदनुभवयुक्तकथासुधारसवत्यां भक्तौ एव, स्नापयन्तः, तया एव परया निर्वृत्या, भगवद्नुभवजातानन्देनेत्यर्थः । स्वयं, आसादितं परमपुरुषार्थं परमपुरुषार्थरूपं, आत्यन्तिकं, अपवर्गं मोक्षरूपफलं, अपि नो एव, नैवेत्यर्थः । आद्रियन्ते, यतः, ते भगवदीयत्वेनैव परि परितः समाप्ताः सर्वार्थाः सर्वपुरुषार्था यैस्ते तथाभूताः सन्तीत्यर्थः ।। १७ । भक्तदौर्लभ्यं सनिदर्शनमाह राजन्निति । हे राजन् मुकुन्दो मुक्तिप्रदः, अयं भगवान् श्रीकृष्णः भवतां पाण्डवानां यदूनां च पतिः पालकः, गुरुः हितोपदेष्टा, दैवमिष्टदेवत्वेनोपास्यः, प्रियः सुहृत सदैवानुमत इत्यर्थः । ‘अत्यागसहनो बन्धुः सदैवानुमतः सुहृत् । एकक्रियो भवेन्मत्र समप्राणः सखा मतः’ इत्यभियुक्तोक्तः । कुलपतिः कुलस्य नियन्ता, किं बहुना, क च कदाचिदीत्यादिषु, वो युष्माकं पाण्डवाना, किंकरः, आज्ञानुवत्यपि आसीत् । अङ्ग हे राजन, एवं अस्तु नाम भजतां नित्यं भजनकर्तृ णामन्येषां भजन- कर्तृभ्योऽन्येभ्य इत्यर्थः । मुक्ति तु ददात्येव, कर्हिचित्स्म कदाचिदपि, भक्तियोग सप्रेमभक्तियोग तु, न ददात्येव । अनेन सप्रेम- भक्तेरतिदुर्लभत्वमुक्तम् ॥ १८ ॥ ऋषभचरितमुपसंहरन्नमस्करोति नित्येति । नित्यमनुभूतं यन्निजं स्वस्वरूपं तस्य लाभोऽखण्डानुभक्तेन निवृत्ता तृष्णा पुरुषार्थान्तरेषु यस्य सः, एवंभूतः या ऋषभः, अतद्रचनया अश्रेयसां पापकर्मणां रचनया, श्रेयसि विषये, चिरं सुप्ता बुद्धिर्यस्य स तस्य लोकस्य, करुणया अभयं भयवर्जित, “आत्मलोकमात्मस्वरूप, आख्यत् आख्यातवान् । तस्मै भगवते ऋषभाय नमो नमस्कुर्मः ॥ १९ ॥ इति श्रीधर्म धुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तमसद्दजानन्दस्वामिसुतश्रीरघुषीराचार्यस्तुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥ नगी भाषानुवादः तरह-तरह के पापोंसे पूर्णं सांसारिक तापीसे अत्यन्त तपे हुए अपने अन्तःकरणको पण्डितजन इस भक्ति-सरितामें ही नित्य निरन्तर नहलाते रहते हैं। इससे उन्हें जो परम शान्ति मिलती है वह इतनी आनन्दमयी होती है कि फिर वे लोग उसके सामने, अपने ही आप प्राप्त हुए मोक्षरूप परम पुरुषार्थका भी आदर नहीं करते। भगवान्के निजजन हो जानेसे ही उनके समस्त पुरुषार्थ सिद्ध हो जाते हैं ॥ १७ ॥ * * राजन् ! भगवान् श्रीकृष्ण स्वयं पाण्डवलोगोंके और यदुवंशियोंके रक्षक, गुरु, इष्टदेव, सुहृद और कुलपति थे; यहाँतक कि वे कभी-कभी आज्ञाकारी सेवक भी बन जाते थे। इसी प्रकार भगवान् दूसरे भक्तोंके भी अनेकों कार्य कर सकते हैं और उन्हें मुक्ति भी दे देते हैं, परन्तु मुक्तिसे भी बढ़कर जो भक्तियोग है, उसे सहज में नहीं देते ॥ १८ ॥ * निरन्तर विषय-भोगोंकी अभिलाषा करनेके कारण अपने वास्तविक श्रेयसे चिरकालतक बेसुध हुए लोगोंको जिन्होंने करुणावश निर्भय आत्मलोकका उपदेश दिया और जो स्वयं निरन्तर अनुभव होनेवाले आत्मस्वरूपकी प्राप्तिसे सब प्रकार की तृष्णाओंसे मुक्त थे, उन भगवान ऋषभदेवको नमस्कार है ।। २९ ।।
इति षष्ठोऽध्यायः ॥ ६ ॥ कीटक the map emajor pin BF B अथ सप्तमोऽध्यायः श्रीशुक उवाच भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितर- मुपयेमे ॥ १ ॥ तस्यानु ह वा आत्मजान् कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि ॥ २ ॥ सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति । अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ॥ ३ ॥ स बहुविन्महीपतिः पितृपितामहवदुरुत्रत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् ॥ ४ ॥ ईजे च भगवन्तं यज्ञक्रतु रूपं क्रतुभिरुच्चावचैः श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृति- भिरनुसवनं चातुर्होत्रविधिना ॥ ५ ॥ सम्प्रचरत्सु नाना यागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं ‘धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविः ष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान् पुरुषावय- वेष्वभ्यध्यायत् ।। ६ ।। एवं कर्मविशुद्धया विशुद्धसत्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुष- रूपोपलक्षणे” श्रीवत्सकौस्तु भवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहल्लिखितेनात्मनि पुरुषरूपेण विरोच’ मान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ॥ ७ ॥ एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पनिकेतात्स्वनिकेतात् पुलहाश्रमं प्रवत्राज ॥ ८ ॥ अन्वयः - महाभागवतः भरतः तु भगवंता अवनितलपरिपालनाय संचितितः तदनुशासनपरः विश्वरूपदुहितरम् पञ्च- जनीम् उपयेमे ॥ १ ॥ * * उह वा तस्याम् कात्स्न्र्त्स्न्येन आत्मनः अनुरूपान् पञ्च आत्मजान् भूतादिः भूतसूक्ष्माणि इव जनयामास ॥ २ ॥ * सुमतिम् राष्ट्रभृतम् सुदर्शनम् आवरणम् धूम्रकेतुम् इति यतः आरभ्य एतत् अजनाभम् वर्षम् भारतम् इति व्यपदिशंति ॥ ३ ॥ * * सः बहुवित् स्वधर्मम् अनुवर्तमानः महीपतिः पितृपितामहवत् उरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः पर्यपालयत् ॥ ४ ॥ * * यज्ञक्रतुरूपम् भगवन्तम् च श्रद्धया आहृताग्निहोत्रदर्श पूर्णमास- चातुर्मास्य पशुसमानाम् प्रकृतिविकृतिभिः उच्चावचैः क्रतुभिः अनुसवनम् चातुर्होत्रविधिना ईजे ।। ५ ।। * * विरचितांग- क्रियेषु नानायागेषु संप्रचरत्सु यत् अपूर्वम् धर्माख्यम् क्रियाफलम् तत् परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिंगानाम् मंत्राणाम् अर्थ- नियामकतया साक्षात्कर्तरि परदेवतायाम् भगवति वासुदेवे एवं भावयमानः आत्मनैपुण्यमृदितकषायः सः यजमानः अध्वर्युभिः हविष्णु गृह्यमाणेषु यज्ञभाजः तान् देवान् पुरुषावयवेषु अभ्यध्यायत् ॥ ६ ॥ * * एवम् कर्मविशुद्धया विशुद्धसत्त्वस्य अंतर्हृदयाकाशशरीरे ब्रह्मणि महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिः उपलक्षिते निजपुरुषहल्लिखि खितेन पुरुषरूपेण आत्मनि विरोचमाने भगवति वासुदेवे अनुदिनम् एधमानरया उच्चैस्तराम् भक्तिः अजायत ।। ७ ॥ वर्षायुतसहस्रपर्यं तावसितकर्मनिर्वाणावसरः अधिभुज्यमानम् पितृपैतामहम् रिक्थम् स्वतनयेभ्यः यथादायम् विभज्य स्वयम् सकल- संपत्रिकेतात् स्वनिकेतात् पुलहाश्रमम् प्रवत्राज ॥ ८ ॥ S एवम् १. २. प्रा० पा० - ३. ४. प्रा० पा० - ५. ६. प्रा० पा० - ७. प्रा० पा० - ८. प्रा० पा० - ९. प्रा० पा० - १०. ११. प्रा० पा० - १२. प्रा० पा० - १३. १४. प्रा० पा० — १९
१४६ श्रीमद्भागवतम् श्रीधरखामिविरचिता भावार्थदीपिका [ स्कं. ५ अ. ७ श्लो. १-८ अध्यायानां त्रयेणैवमृषभाख्यानमीरितम् । अष्टभिर्भरताख्यानमतः प्रस्तूयतेऽमृतम् ॥ १ ॥ सप्तमे भरतो राज्ये चिरं यज्ञैर्हरिं यजन् । आरब्धकर्मनिर्वाणे हरिक्षेत्रेऽभजद्धरिम् ॥ २ ॥ संचितितः संकल्पेनैव राज्यादौ नियुक्तः ॥ १ ॥ * आत्मनोनुरूपान् । भूतादिरहंकार इव भूतसूक्ष्माणीति संततिवृद्धौ दृष्टांतः ।। २ ।। * * भारतमिति स्वनामख्यापकत्वेन धर्माद्यतिशयः सूचितः ॥ ३ ॥ * * बहुवित्सर्वज्ञः ॥ ४ ॥ * * यज्ञा अयूपाः क्रतवः सयूपास्तद्रूपम् । उच्चावचैर्महद्भिरल्पैश्च क्रतुभिः कर्मभिः श्रद्धया ईजे च । तानेवाह आहृताः स्वाधिकारेणात्मसात्कृता येऽग्निहोत्रादयस्तेषां प्रकृतिविकृतिभिः । अग्निहोत्रादयो द्विविधाः सकलांगयुक्ताः प्रकृतयः विकलांगा विकृत इति तैर्द्विविधैरपीष्टवानित्यर्थः । अनुसवनमित्यंतं वा चातुर्होत्रविधिनेत्यंतं वा गद्यम् ॥ ५ ॥ * * किं व संप्रचरत्सु प्रवर्तमानेषु नानायागेषु विरचितानुष्ठितांगक्रिया येषां तेषु यदपूर्व तद्वासुदेव एव भावयमानश्चितयन्स यजमानो यज्ञभाजो ये देवाः सूर्यादयस्तान्पुरुषस्य वासुदेवस्यावयवेषु चक्षुरादिष्वभ्यध्यायन्न तु पृथक्त्वेनेत्यन्वयः । अपूर्वे पक्षद्वयं मीमांसकानाम् । तदानीमेव सूक्ष्मत्वेनोत्पन्नं फलमेवापूर्वं कालांतरफलोत्पादिका कर्मशक्तिर्वेति । तदुक्तं- “यागादेव फलं तद्धि- शक्तिद्वारेण सिद्धयति । सूक्ष्मं शक्त्यात्मकं वाऽपि फल मेवोपजायते” इति । तदेवाह । क्रियाफलं धर्माख्यमिति च । ननु यद्यगं देवताः कर्म प्रधानमिति मतं तर्हि कर्तृनिष्ठमपूर्वं स्यात् तदुक्तम् । “कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा । योग्यता शास्त्रगम्या या परा सापूर्वमिष्यते” इति । अथ देवताप्रधानं कर्म तु अथ देवताप्रधानं कर्म तु देवताराधनार्थं तदा देवता प्रसादरूपत्वादपूर्वस्य देवताश्रयत्वमेव युक्तं प्रोक्षणाद्यपूर्वस्येव व्रीह्माद्याश्रयत्वम् । कुतो वा वासुदेवाश्रयमपूर्वं भावयति । उच्यते यदि कर्तृनिष्ठमपूर्वं तर्हि वासुदेवस्यांतर्यामिणः प्रवर्तकत्वेन मुख्य कर्तृत्वात्तदाश्रयमेवापूर्वं न तु तत्प्रयोज्ययजमानाश्रयम् । ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायात् । अन्यथा ऋत्विजामप्यपूर्वाश्रयत्वप्रसंगात् । तदेवाह साक्षात्कर्तरीति । देवता- श्रयत्वेऽपि वासुदेवाश्रयत्वमेवेत्याह परदेवतायामिति । परदेवतात्वे हेतुः । सर्वदेवतालिंगानां तत्तद्देवता प्रकाशकानां मंत्राणां येऽर्था इन्द्रादिदेवतास्तेषां नियामकतया तस्यैव प्रसादनीयत्वात्फलदातृत्वाच्च युक्तमेवापूर्वाश्रयत्वमित्यर्थः । एवं भावनमेवा- त्मनो नैपुण्यं कौशल तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिरिति बहुवचनं नानाकर्माभिप्रायेण ॥ ६ ॥ * * एवंभूतया कर्मविशुद्धया विशुद्धसत्त्वस्य भक्तिरजायतेत्यन्वयः । क । अंतर्हृदये य आकाशः स एव शरीरमभिव्यक्तिस्थानं यस्य तस्मिन्ब्रह्मणि । कीदृशे । महापुरुषरूपस्योपलक्षणमाकारो यस्य तस्मिन् । किं च श्रीवत्सादिभिरुपलक्षिते । निजपुरुषाणां नारदा- दीनां हृदि लिखितवन्निश्चरतया स्थितेनोक्तेन पुरुषरूपेणात्मनि स्वमनसि विरोचमाने । कीदृशी भक्तिः । अत्यन्तातिशयेनैधमानो रयो वेगः प्रकर्षो यस्याः ॥ ७ ॥ एवमनुवृत्त्या वर्षाणामयुतानि तेषां सहस्रं तत्पर्यंतकालेऽवसितो निश्चितः कर्म- निर्वाणावसरो राज्यभोगादृष्टसमाप्तिसमयो येन सः । अधिकृत्य भुज्यमानं रिक्थं धनं यथाविभागं विभज्य सकलसंपदां निकेतादाश्रयात्स्वगृहात्पुलहाश्रमं हरिक्षेत्रं प्रवत्राज ॥ ८ ॥ 8 1 श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः अतः परममृतवत्स्वादु (१) आरब्धकर्मणां निर्वाणः समाप्तिर्यत्र तस्मिन् ( २ ) । संकल्पेनैव भगवत्सिद्धसंकल्पत्वादबाह्य- नियोगादिकं नास्तीत्यर्थः ॥ १-२ ॥ * * अजस्य ऋषभदेवस्य नाभेश्चैतद्वर्षस्वामित्वादजनाभं नाभिश्चाजश्चेत्यजनाभी अभ्यर्हितत्वात्स्वराद्यदंतत्वाश्चाजपदस्य पूर्वनिपातः । तयोरिदमजनाभं संज्ञापूर्वक विधेरनित्यत्त्वादृद्धयभावः । भरतस्वामिकत्वात् ॥ ३-४ ॥ * * इत्यर्थ इति । अनुसवनमवसरेऽवसरे “काले यज्ञेऽभ्यनुज्ञाने स्नानपीडनयोरपि । सवनं त्रिषु चोत्पन्तौ ” इति निरुक्तिः । सर्वथा समर्थत्वादुभयविधयागांश्चकारेति भावः ॥ ५ ॥ * * ननु " तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥” इति भगवदुक्तेर्भगवत्कथादिषु प्रौढश्रद्धस्य निष्कामस्य शुद्धभक्तत्यधिकारिणो भरतस्य कर्मकर्तृत्वं कर्मफलभोक्तृत्वं च कथं संगच्छतामित्यत आह-किं चेति । संप्रचरत्स्विति । चिंतयन् अस्य कर्मणो यत्फलं भावि तत्र न मे लिप्सा किन्तु तद्वासुदेवप्रीत्यर्थं वासुदेवायैव समर्पितमिति तत्र न मे स्वत्वमिति चितयन्नित्यर्थः । तदुक्तं पूर्वमीमांसायां क्रियाफलं सूक्ष्मरूपेणोत्पन्नं फलमित्यर्थः । धर्माख्यमिति च कालांतरे फलजनकशक्त्यात्मकमदृष्टशब्द वाच्य- मित्यर्थः । अत्राशंकते - नन्विति । अत्र प्रमाणमाह —तदुक्तमिति । पक्षांतरमाह - अथेति । शास्त्रफलं शास्त्रेणोक्तं फलं प्रयोक्तरि प्रयोजककर्त्तरीति सूत्रार्थः । अन्यथैतदनंगीकारे । इत्यर्थं इति । वासुदेवस्यैव मुख्यकर्तृत्वात्सर्वदेवरूपत्वाच्चापूर्वाश्रयत्वमुचित- मिति भावः । अत्र विश्वनाथः - कर्म कर्तृप्रधानं देवताप्रधानं वेति पक्षद्वयं मीमांसकानामस्ति । तत्राद्यपक्षे कर्तृनिष्ठमपूर्वं द्वितीये कर्मणो देवताराधनार्थत्वादेवतानिष्टं तत्र भरतस्य निष्कामत्वादपूर्वस्य देवतानिष्ठत्वे एव युक्ते देवतानां चंद्रसूर्यादीनां बाहुल्या- त्कथमेकस्मिन्वासुदेव एवं कर्मफलभावनेत्यत आह- सर्वदेवतालिंगानां तत्तदेवताप्रकाशकानां मंत्राणां येऽर्था इंद्रादिदेवतास्तेषां नियामकतया यज्ञपुरुषे यज्ञभोक्तरीत्यर्थः । नन्वेवं भरतस्य मास्तु भोक्तृत्वं कर्मकर्तृत्वं तु तस्य दुर्वारमित्यत आह- साक्षात्कर्त्तरि स्क. ५ अ. ७ श्लो. १-८ अनेक व्याख्यासमलङ तम् 1 ૪ वासुदेवस्यैवांतर्यामिणः प्रवर्तकत्वेन स्वतंत्र कर्तृत्त्वात्साक्षात्कर्तृत्वं न तु तत्प्रयोज्यस्य यजमानस्या स्वतंत्रस्यान्यथत्विजामपि साक्षा- त्कर्तृत्वप्रसंगात् “यज्ञभुग्यज्ञकृयज्ञः” इति तन्नामस्मृतेश्च तस्या स्वतंत्रकर्तृत्वेप्यज्ञानादहं करोमीति स्वस्य स्वतंत्र कर्तृत्वमननमेव कर्तृत्वगमकं बंधकारणं च ज्ञेयम् । आत्मनैपुण्यमेवं भावनमेव तेन मृदिताः क्षीणाः कषायाः कर्मकरणवासनात्मिका येन सः । अध्वर्युभिरित्यनेन तथाविधानां भक्तानां कर्तृत्वाद्यभिमानशून्यानां कर्मफलत्यागिनां स्वप्रतिमूर्त्तिद्वारा कर्मकरणमपि श्रद्धा- राहित्यात्कर्माकरणमेव ज्ञेयमिति द्योतितम् “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥” इति भगवद्गीतोक्तः । अत एवांबरीषादीनां श्रद्धया भगवद्भक्त्यैव यापिताऽष्टयामानामपि पितृपैतामहसदाचारपरंपरा- प्राप्तयज्ञादिकर्माचरणं प्रतिनिधिद्वारैव श्रूयतेऽर्वाचीनानामपि प्राच्यादिदेशवर्त्तिनां सुप्रतिष्ठानां गृहस्थमहाभागवतानां विवाहोप- नयनादावपि सर्वथैव वर्णधर्माभावे लौकिकादपि सांकर्य दोषाद्विभ्यतां प्रतिनिधिद्वारैव कर्मकरणं दृश्यते च । अत एव ‘स कर्माणि कुर्वीत’ इत्यात्मनेपदप्रयोगादण्यंतनिर्देशाश्चानात्मगामिकफलत्वे सति प्रतिनिधिद्वारा कर्मकरणमपि शुद्धसत्त्वभक्तानां न दूषणं तथैव शुद्धभक्ति लक्षणेप्यन्याभिलषिताशून्यमितिवज्ज्ञानकर्मादिशून्यमित्यनुक्त्वा ज्ञानकर्माद्यनावृतमित्यनावृतपदोपन्यासात् प्रतिनिधि- द्वारा कर्मकरणेऽपि स्वीयेंद्रियैः प्रतिक्षणश्रवणादिभक्त्यवकाशप्राप्त्या भक्तेः कर्मानावृतत्वाच्छुद्धत्वमेवेति केचिद् व्याचक्षते । नन्वेवं- भूतत्वेन भरतस्य मास्तु कर्मकरणे दोषः । यज्ञानां नानादेवताराधनात्मकत्वात् कथमनन्यता तस्योपपद्यतामित्यत आह- स इंद्रादीन् भगवतोऽवयवेषु बाह्वादिषु अभ्यध्यायत्- इंद्राय स्वाहेत्युक्तेर्मत्प्रभोर्बाहुपूजेयं सूर्याय स्वाहेत्युक्तेर्लोचनपूजेयमिति भावयामास । पृथक्पृथग्देवतात्वेन पूजा ह्यनन्यताविघातिनी न तु तदंगत्वेनेति ॥ ६ ॥ * एवं कर्मकर्तु- रन्तःकरणं विशेषतः शुद्धधतीत्याह - एवमिति । अक्लिष्टबुद्धया भरतं भजध्वमिति भगवद्वाक्यादेवोत्पत्तित एव शुद्धांतः- करणस्य तस्य पिष्टपेषणन्यायेनैवं कर्मविशुद्धयापि शुद्धांतःकरणस्य । यद्वा— एवमनेन प्रकारेण कर्मणो विशुद्धिर्यस्मिन्स चासौ विशुद्धसत्त्वश्चेति तस्य भक्तिरौत्पत्तिक्येव प्रतिदिनमुश्चैस्तरां वर्द्धमानवेगा गंगेव भुवनपावन्यजायतेति योज्यम् । क्व वासुदेवे वसुदेवनंदने कृष्णे य एव परमात्मब्रह्मभगवच्छब्दै रुपासना भेदेनोच्यते इत्याह- अंतर्हृदयाकाशे शरीरं योगि- भिध्येयं यस्य तस्मिन्परमात्मनीत्यर्थः । “केचित्स्वदेहांतर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसंतम् । चतुर्भुजम्” इत्यादिना परमात्म- नोपि साकारत्वभवणात् । तथा ब्रह्मणि ज्ञानिभिरुपास्ये बसुदेवपुत्रत्वेऽपि महापुरुषस्य बैकुण्ठनाथस्य यद्रूपं शास्त्रेषु प्रसिद्ध तदुपाधिक्येन लक्ष्यते दृश्यते यत्र तस्मिन् । श्रीवत्सादिभिरपि चिह्निते निजपुरुषाणां नारदादीनां हृदि चित्रपट इव लिखित- वन्निश्चलतया स्थितेन पुरुषरूपेण निराकारस्वरूपेण विरोचमाने । क्व आत्मनि मनसि ॥ ७ ॥ * तद्राव्यभोगस्य भक्त्या - । ॥ नुषंगिक फलत्वात्कर्म फलत्वाभावेऽपि कर्मफलत्वमननं देन्यादेवेति ज्ञेयम् ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या * 8 एवमृषभचरितमुपवर्ण्य इदानीं तत्फलस्यास्य भरतस्य चरित्रमुपवर्णयति षड्भिरध्यायैः भरत इति । महाभागवतो भरतो यदा भगवता ऋषभेणावनितलपरिपालनाय सञ्चिन्तितः संनियुक्तः तदा तदनुशासनपरः भूतलानुशासनपरः विश्वरूपस्य दुहितरं पञ्चजनीं नामोपयेमे विवाहितवान् ॥ १ ॥
तस्यामुवाव पञ्चजन्यां ह्यात्मनः स्वस्य कार्त्स्न्येनानुरूपान् पञ्चात्मजान् सुमत्यादीनुत्पादयमास यथा भूतादिस्तामसोऽहङ्कारो भूतसूक्ष्माणि शब्दस्पर्शादीनीति सारूप्ये सन्ततिवृद्धौ च दृष्टान्तः ॥ २ ॥
पूर्वमजनाभाख्यमेतद्वर्षं यतो यद्भरताधिपत्यादाराभ्य भारतं समुदाहरन्ति स भरतो बहुज्ञः महीपतिः पित्रादिवदतितरां वात्सल्येन स्वस्ववर्णाश्रमोचिते कर्मणि वर्त्तमानः प्रजाः स्वयमपि स्वधर्ममनुवर्तमानः पर्यपालयत् ॥ ३ ॥
ईजे चेत्यादिप्रकृतिविकृतिभिरित्यन्तमेकं वाक्यं, उच्चावचैर्नानारूपैर्यज्ञक्रतुभिः यज्ञो यजनं देवतां प्रति द्रव्यत्यागात्मकैः क्रतुभिर्यज्ञपुरुषं भगवन्तमीजे इष्टवान् । क्रतूनेव प्रपञ्चयति अग्निहोत्रादीनां प्रकृतिविकृतिभिरिति । यत्र पूर्णमङ्गजातमुपदिष्टं सेष्टिः प्रकृतिः यथा आग्नेयीष्टिः ययान्यत्रोक्तमङ्गजातमुपजीव्यते सा विकृतिः यथा सौर्येष्टिः ॥ ४ ॥
यजनप्रकारमेवाह । अनुसवनं प्रातरादिसवनत्रये चातुर्होत्रविधिना चातुर्होत्रं चतुर्भिर्ऋत्विगुभिः क्रियमाणं यज्ञादि कर्म तद्विध्यनुगुणमित्यर्थः, विरचिताः अङ्गक्रिया येषु तेषु नानायागेषु सम्प्रचरत्सु प्रवर्तमानेषु सत्सु तत्र यागेषु धर्माख्यं योगसाध्यं धर्म इति व्यपदिश्यमानमपूर्वापरपर्यायं क्रियाफलं तद्भगवति वासुदेवे भावयमानः भगवदनुग्रहरूपमिति मन्वानः क्षणविध्वंसिनो यागादेः कालान्तर्भाविस्वर्गादिफलसाधनत्वानुपपत्त्या तान्त्रिकैर्यदभ्युपेतं यागशक्त्यात्मकमपूर्वं यागजन्यं फलसाधनमिति तदपोह्य “इष्टापूर्तं बहुधा जातं जायमानं विश्वम् बिभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायुः ।” इति श्रुत्युक्तरीत्या इन्द्रादिदेवतान्तर्यामितयावस्थितस्य भगवतोऽनुग्रह, एवापूर्वस्थानीय इति भावयमान इत्यर्थः । तदेव विशदयन् भगवन्तं विशिनष्टि । सर्वदेवतालिङ्गानाम् उद्देश्यत्वेन स्मृतानां देवतालिङ्गानि स्मारकाणि चिह्नानि येषु तेषां मन्त्राणामर्थनियामकतया अर्थोऽभिधेय इन्द्रादिस्तस्य नियामकतयान्तः प्रविश्य धारकत्वेन नियन्तृतया प्रयोजननिर्वाहकतया वा साक्षादेव कर्तरि द्रष्टरि ‘मन्त्रकृतो वृणीते’तिवदयं निर्देशः । यद्वा कर्त्तरि फलोत्पादयितरि कर्मणः फलसाधनत्वानुपपत्त्यापि नापूर्वं कल्प्यं किन्तु रात्रिसत्रप्रतिष्ठाफलवत् ‘त्रिसरावैनमिन्द्रः प्रजया पशुभिस्तर्पयतीति, वायुर्वैक्षेपिष्ठा देवते"त्याद्यर्थवादैः फलप्रदतयावनताग्नीन्द्रादिदेवतायाः ‘तदेवाग्निस्तद्वायुरि’त्युक्तरीत्यान्तर्यामितयावगतब्रह्मण एव फलप्रदत्वमित्यास्थेयम् । तदेवाह यज्ञपुरुषे यज्ञोद्देश्येन्द्रादिपुरुषरूपे परब्रह्मणि परदेवतायामिति एवं भावनमेवात्मनो नैपुण्यं कौशलं तेन मृदिता निरस्ताः कषायाः कर्मवासना रागादयो वा यस्य । अध्वर्युभिरिति बहुवचनं नानाकर्माभिप्रायेण, हविःषु चरुपुरोडाशाज्यादिषु गृह्यमाणेषु होमार्थमिति शेषः, यजमानः स्वयं यज्ञैर्भाज्यन्त आराध्यन्त इति यज्ञभाजो देवा इन्द्रादयस्तान् पुरुषस्य परमपुरुषस्यावयवेष्वभ्यध्यायत् “यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिचरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं लोकपाला भुजेष्वासन्” इत्यादिद्वैरूप्यप्रतिपादकशास्त्रानुसारेणानुसंहितवानित्यर्थः ॥ ५ ॥
एवं भगवदाराधनरूपकर्मयोगाद्यनुगृहीतो भक्तियोगोऽप्यजायतेत्याह । एवमुक्तविधकर्मविशुद्धया शुद्धान्तःकरणस्य तस्य भगवत्युच्चैस्तरामतितरां प्रतिदिनमेधमानो वर्द्धमानो रय उत्कर्षो यस्याः सा भक्तिरजायतेत्यन्वयः । भगवन्तं विशिनष्टि । अन्तः शरीरान्तःस्थितं यद्धृदयं पुण्डरीकाकारं तस्मिन् य आकाशः दहरः स शरीरं रूपं यस्य हृदयपुण्डरीकान्तर्वर्तिदहराकाशरूपे दहराकाशस्य परमात्मत्वात् । यद्वा हृदयकोशस्य शरीरे शिलापुत्रकस्य शरीरमितिवदयं निर्देशः । यद्वात्र हृदयाकाशशब्दो हृदयान्तर्वर्तिभूताकाशपरः, स शरीरं यस्य तस्मिन्निति हृदये आकाशते प्रकाशत इति हृदयाकाशो जीवः स शरीरं यस्येति वा । ब्रह्मणि स्वरूपेण गुणैश्च निरतिशयबृहति भगवति षाड्गुण्यपूर्णे वासुदेवे सर्वान्तरात्मतया दीव्यमाने महापुरुषरूपमुपलक्षणमाकारो यस्य तस्मिन् श्रीवत्सादिभिरुपलक्षिते अरिश्चक्र दरः शङ्खः असिः खड्गः निजपुरुषाणां भक्तानां हृदि लिखिते लिखितवन्निश्चलतयेत्यर्थः, स्थिते तेनोक्तपुरुषरूपेण स्वात्मनि स्वमनसि विरोचमाने ॥ ७ ॥
एवमुक्तया वृत्त्या वर्षाणामयुतानि तेषां सहस्राणि तेषामन्ते तत्पर्यन्ते कालेऽवसितो निश्चितः कर्मनिर्वाणावसरः राज्यभोगादृष्टसमाप्तिसमयो येन सः अधिकृत्य भुज्यमानं पित्रादिपरम्पराया आगतमृक्थं धनं स्वतनयेभ्यो यथाविभागं विभज्य दत्त्वा स्वयं सकलानां सम्पदां निकेतादाश्रयात् स्वनिकेतात्स्वगृहात्पुलहाश्रमं शालिग्रामक्षेत्रं प्रति प्रवव्राज जगाम ॥ ८ ॥
।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली * श्रीनारायणप्रसादजनकज्ञानसाधनकर्मकरणप्रकारो निरूप्यतेऽस्मिन्नध्याये । तत्रादावृषभे साक्षान्नारायणावतारे राज्य- रक्षणकर्मणो निवृत्ते तत्पुत्रो भरतः किमकार्षीदित्याशङ्कय भगवद्भक्तकथाया अपि श्रीहरिकथान्तर्भूतत्वात्तत्कथाप्रसङ्गः क्रियते भरतस्त्विति । तुशब्द इतरराजकथाया अस्य कथाया विशेषं वक्ति । संचिन्तितः संमन्त्र्याभिषिक्तः “संमन्त्रणे तु संचिन्तावचया- मभिषेचने” इत्युत्पलमालायां, तस्य ऋषभस्यानुशासनमाज्ञा ॥ १ ॥ * * पञ्चसंख्यामात्रत्वे दृष्टान्तमाह भूतादिरिवेति । भूतादिस्तामसाहङ्कारः भूतसूक्ष्माणि शब्दादीनि चेतनस्य चेतन दृष्टान्तापेक्षायां भूतादिः परमात्मा भूतसूक्ष्मशब्दवाच्यान् शब्दाद्यभि- मानि देवानिव यतो भरतात् ॥ २-४ ॥ आहितः प्रतिष्ठितोऽग्निर्येन स आहिताग्निः अग्निहोत्रादयः प्रकृतयः पशुसोमादयो विकृतयः, समग्राङ्गयुक्तानि कर्माणि प्रकृतयः, एकदेशाङ्गयुक्तानि विकृतयः, पशुभिरेव क्रियमाणा अश्वमेधादयः सोमरसैरेव क्रियमाणाः सोमयागाश्चत्वारो होतारो यत्र तचातुर्होत्रं तल्लक्षणविधानेन ॥ ५ ॥ * * प्रचरत्सु कुर्वाणेषु अध्वर्युषु अत एव नाना योगेषु देवताध्यानलक्षणेषु यजनाद्युपायेषु वा क्रियमाणेषु सत्सु यदपूर्वं क्रियाफलं धर्मसंज्ञं तद्वासुदेवे भावयानः हर्यधीनत्वेन समर्पयन् स यजमानो ये हरेश्चक्षुराद्यवयवेभ्य उत्पन्नास्तान् यज्ञभाजो यज्ञभागाधिकारिणो देवान् सूर्यादीन् पुरुषस्य पूर्णज्ञान हरेश्चक्षुराद्यवयवेषु तदुत्पन्नास्तदाश्रिता इत्यध्यभावयदचिन्तयदित्यन्वयः । कदा अध्वर्युभिर्हविःषु गृह्यमाणेषु सत्सु कर्माङ्गत्वेन वासुदेवे समर्पणं न त्विष्टत्वेनेत्यत उक्तम् परेति । सर्वदेवतानां लिङ्गभूताः प्रकाशका ये ऐश्वर्याद्यर्थप्रेरकत्वेन मुख्य अभ्यर्हितत्वाचेत्युक्तं यज्ञपुरुष इति । न चेदं सगुणफलप्राप्तय इत्याह परेति । कषायः पापम् ॥ ६ ॥ । ।। ।। * * अधुना कर्मणा साध्यफलमाह एवमिति । भगवदर्पणेन कर्मणः शुद्धिस्तया शुद्धं सत्त्वमन्तःकरणं यस्य स तथा तस्यान्तर्हृदये आकाशशरीरे . सूक्ष्मरूपे ब्रह्मण्यपरिच्छिन्ने महापुरुषस्य हरेरुपलक्षणैः चिह्नर्महापुरुषं श्रीनारायणोऽयमिति उपलक्षयन्ति ज्ञापयन्ति । महापुरुषो- पलक्षणैर्वा स्वभक्तानां हृद्युल्लिखितेन स्फुरितेनात्माकारेण । कीदृशः स इत्यत आह पुरुषरूपेणेति । आत्मनि स्वस्मिन्नेधमानरया वर्द्धमानवेगा ॥ ७ ॥ * भरतस्य वैराग्योपजृम्भणप्रकार माह एवमिति । वर्षायुतसहस्रावसानेऽवसितस्य प्रारब्धकर्मणो निर्वाणावसरः नाशलक्षणो यस्य स तथा रिक्थं राज्याख्यवित्तं सकलसम्पन्निकेतात्सर्वसमृद्धयाश्रयान्निकेतनात् गृहात् पुलहाश्रमं शालग्रामक्षेत्रं, न तत्रान्याधीनत्वेन सन्निधानमित्यभिप्रायेणोक्तमिच्छेति ।। ८-९ ।। ।। । श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः नाभेरेवाजनाभ इति संज्ञा भारतमित्यजनाभाख्यमपीदं वर्ष लोकैस्तस्मिन्ननुरागवैशिष्टयेन ख्यापितमिति ज्ञेयम् ॥ १-६॥ * * एवं कर्मविशुद्धया विशुद्धसत्त्वेति । एवं पूर्वोक्तप्रकारेण कर्मविशुद्धया विशुद्धसत्त्वस्य भक्तिः सश्रद्धाश्रवणकीर्त्तना विलक्षणाजायतेत्यन्वयः । क भगवति वासुदेवे पूर्णस्वरूपभगाभ्यां सर्वनिवासेन च तत्तन्नाम्ना प्रसिद्धेः। अन्तर्हृदये यथाकाशः स एव शरीरं स्वस्यैवाविर्भावविशेषाधिष्ठानं यस्य तस्मिन्नन्तर्यामिणि परमात्माख्ये ब्रह्मणि निर्विशेषतयाविर्भावात् तदाख्ये च भगवतो निराकारत्वं वारयति महापुरुषस्य यद्रूपं शास्त्रे श्रूयते तदुपलक्ष्यते दृश्यते यत्र तस्मिन् किन श्रीवत्सादिभिरपि चिह्निते एधमानरया बर्द्धमानप्रकर्षा, सन्निधाप्यते चक्षुषि प्रकटीक्रियते ।। ७-९ ॥ 42 +स्क. ५ अ. ७ श्लो. १.८] अनेकव्याख्यासंमलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी सप्तमे भवने यज्ञैः पत्रपुष्पादिभिर्वने । भरतो भक्तिभरतो हरिमीजे दृढव्रतः ॥ L ॥ * દરે ऋषभदेवो भगवान् भरतस्तु भागवत इति तुशब्दार्थः । भूतादिरहङ्कारः ॥ १-२ ॥ अजनाभमिति । नाभेर्ऋषभ- देवस्याजस्य चैतद्वर्षं स्वामित्वादित्यर्थः । नाभिश्चाजश्चेत्यजनाभी अभ्यर्हितत्वादज इति पदस्य पूर्वनिपातः, तयोरिदमजनाभं संज्ञापूर्वक- विधित्वाद् वृद्धयभावः । भारतमिति भरतस्वामिकत्वात् ॥ ३४ ॥ * यज्ञाः अयूपाः क्रतवः सयूपास्तद्रूपं उच्चावचैर्मह- रिस्पैश्च क्रतुभिः कीदृशैः श्रद्धया आहृताः स्वाधिकारेणात्मसात्कृता येग्निहोत्रादयो द्विविधास्तेषां प्रकृतिविकृतिभिः अग्निहोत्रादयः सकलाङ्गयुक्ताः प्रकृतयः विकलाङ्गा विकृतय इति तैर्द्विविधैरपीष्टवानित्यर्थः ॥ ५ ॥ ननु " तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ।।” इति भगवदुक्तेर्भगवत्कथादिषु प्रौढश्रद्धस्य निष्कामस्य शुद्धभक्त्यधि- कारिणो भरतस्य कर्मकर्तृत्वं कर्मफलभोक्तृत्वं च कथं सङ्गच्छतामित्यत आह । संप्रचरत्सु प्रवर्त्तमानेषु विरचिता अनुष्ठिता अङ्गक्रिया येषां तेषु यदपूर्वं तत् परे ब्रह्मणि वासुदेवे स्वेष्टदेवे एव भावयमानः अस्य कर्मणो यत् फलं भावि तत्र न मे लिप्सा किन्तु तद्वासुदेव प्रीत्यर्थं वासुदेवायैव समर्पितमिति तत्र न में स्वत्वमिति चिन्तयन्नित्यर्थः । ननु कर्म कर्तृप्रधानं देवताप्रधानं वेति मीमांसकानां पक्षद्वयं, तत्राद्ये पक्षे कर्तृनिष्ठमपूर्व द्वितीये कर्मणो देवताराधनार्थत्वाद्देवतानिष्ठं तत्र भरतस्य निष्कामत्वादपूर्वस्य देवतानिष्ठत्वे एव युक्ते देवतानां चन्द्रसूर्यादीनां बाहुल्यात् कथमेकस्मिन् वासुदेव एव कर्मफलभावनेत्यत आह । सर्वदेवतालिङ्गानां तत्तदेवताप्रकाशकानां मन्त्राणां येऽर्था इन्द्रादिदेवतास्तेषां नियामकतया यज्ञपुरुषे यज्ञफलभोक्तरीत्यर्थः । नन्वेवं भरतस्य मास्तु भोक्तृत्वं कर्मकर्तृत्वं तु तस्य दुर्वारमित्यत आह । साक्षात् कर्त्तरि वासुदेवस्यैवान्तर्यामिणः प्रवर्त्तकत्वेन स्वतन्त्र कर्तृत्वात् साक्षात् कर्तृत्वं न तु तत्प्रयोज्यस्य यजमानस्यास्वतन्त्रस्य, अन्यथा ऋत्विजामपि साक्षात् कर्तृत्वप्रसङ्गात् “यज्ञभुग् यज्ञकृद्यज्ञः” इति तन्नामस्मृतेश्च, तस्यास्वतन्त्रकर्तृत्वेऽप्यज्ञानादहङ्करोमीति स्वस्य स्वतन्त्र कर्तृत्वमननमेव कर्तृत्वगमकं बन्धकारण ज्ञेयम् । आत्मनो नैपुण्यमेवं भावनमेव तेन मृदिताः क्षीणाः कषायाः कर्मकरणवासनात्मका येन सः । अध्वर्युभिरित्यनेन तथाविधानां भक्तानां कर्तृत्वाद्यभिमानशून्यानां कर्मफलत्यागिनां स्वप्रतिमूर्त्तिद्वारा कर्मकरणमपि कर्मणि श्रद्धाराहित्यात् कर्माकरणमेव ज्ञेयमिति द्योतितम् “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतन यत् । असदित्युच्यते पार्थ! न च तत् प्रेत्य नो इह” इति भगवङ्गीतोक्तेः । अत एवाम्बरीषादीनां शुद्धया भगवद्भक्त्यैव यापिताष्टयामानामपि पितृपैतामहसदाचारपरंपराप्राप्तयज्ञादिकर्माचरणं प्रतिनिधिद्वारैव श्रूयते, अर्वाचीनानामपि प्राच्यादिदेशवर्तिनां सुप्रतिष्ठानां गृहस्थमहाभागवतानां विवाहोपनयनादावपि सर्वथैव वर्णधर्माभावे लौकिकादपि साङ्कर्यदोषाद्विभ्यतां प्रतिनिधिद्वारैव कर्मकरणं दृश्यते च । तत एव ’ तावत् कर्माणि कुर्वीते’ त्यात्मनेपदप्रयोगादण्यन्त- निर्देशाच्चानात्मगामिकफलत्वे सति प्रतिनिधिद्वारा कर्मकरणमपि शुद्धसत्त्वभक्तानां न दूषणं तथैव शुद्धभक्तिलक्षणेऽप्यन्या- भिलाषिताशून्यमितिवज्ज्ञानकर्मादिशून्यमित्यनुक्त्वा ज्ञानकर्माद्यनावृतमित्यनावृतपदोपन्यासात् प्रतिनिधिद्वारा कर्मकरणेऽपि स्वीयेन्द्रियैः प्रतिक्षणश्रवणादिभक्त्यवकाशप्राप्त्या भक्तेः कर्मानावृतत्वात् शुद्धत्वमेवेति केचिद्वद्याचक्षते । नन्वेवम्भूतत्वेन भरतस्य मास्तु कर्मकरणदोषः, यज्ञानां नानादेवताराधनात्मकत्वात् कथमनन्यता तस्योपपाद्यतामित्यत आह । स यजमानो भरतः यज्ञभाजो देवानिन्द्रादीन् पुरुषस्य भगवतोऽवयवेषु बाह्वादिषु अभ्यध्यायत् इन्द्राय स्वाहेत्युक्ते मत्प्रभो बहु- पूजेयं सूर्याय स्वाहेत्युक्ते लोचनपूजेयमिति भावयामास । पृथक पृथग् देवतात्वेन पूजा ह्यनन्यताविघातिनी न तु तदङ्गत्वेनेति ॥ ६ ॥ 88 * एवं कर्मकर्तुरन्तःकरणं विशेषतः शुद्धयतीत्याह एवमिति । “अक्लिष्टबुद्धया भरतं भजध्वम्” इति भगवद्वाक्यादेव उत्पत्तित एव शुद्धान्तःकरणस्य तस्य पिष्टपेषणन्यायेन एवं कर्मविशुद्धद्यापि शुद्धान्तःकरणस्य । यद्वा एवमनेन प्रकारेण कर्मणो विशुद्धिर्यस्मिन् स चासौ विशुद्धसत्त्वश्चेति तस्य भक्तिरौत्पत्तिक्येव प्रतिदिनमुच्चैस्तरां वर्द्धमानवेगा गङ्गेव भुवनपावन्यजायतेत्यन्वयः । व वासुदेवे वसुदेवनन्दने कृष्णे य एव परमात्मब्रह्मभगवच्छब्दैरुपासना भेदेनोच्यते इत्याह । अन्तर्हृदयाकाशे शरीरं योगिभिर्येयं यस्य तस्मिन् परमात्मनीत्यर्थः “केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तं चतुर्भुजम्” इत्यादिना परमात्मनोऽपि साकारत्वश्रवणात् तथा ब्रह्मणि ज्ञानिभिरुपास्ये भगवति भक्तैरुपास्ये वसुदेवपुत्रत्वेऽपि महापुरुषभ्य वैकुण्ठनाथस्य यद्रूपं शास्त्रेषु प्रसिद्धं तदुप आधिक्येन लक्ष्यते दृश्यते यत्र तस्मिन् श्रीवत्सादिभिरपि चिह्निते निजपुरुषाणां नारदादीनां हृदि चित्रपट इव लिखितवन्निश्चलतया स्थितेन पुरुषरूपेण निराकारस्वरूपेण विरोचमाने, व आत्मनि स्वमनसि ॥ ७ ॥ * एवं वर्षाणामयुतानि तेषां सहस्रं तत्पर्यन्तकालेऽपि न वसितो नावसितो न निश्चितः कर्मनिर्वाणावसरः राज्यभोगादृष्टसमाप्तिसमयो येन सः । तद्राज्यभोगस्य भक्त्यानुषङ्गिकफलत्वात् कर्मफलत्वाभावेऽपि कर्मफलत्व- मननं देन्यादेवेति ज्ञेयम् । ततश्च विरज्यैव हठादेव प्रवब्राज । रिक्थं धनम् ॥ ८ ॥ ॥ 14 श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः अथाष्टभिर्भरताख्यानमाह । तत्र तावद्भरतस्य पित्राज्ञानुसारेण प्रजापालनदेवयजनादिकं कर्म सप्तमेन वर्णयति करिष्यतीति मनसैवावनितलपरिपालनाय भरतस्त्विति । सचिन्तितो ब्रह्मावर्त्ताद्रमनवेलायामयमवनितलपालनं .. 6 १५० श्रीमद्भागवतम् । [ स्क. ५ अ. ७ श्लो. १-८ सङ्कल्पितः ॥ १ ॥ * ॐ भूतादिरहङ्कारः ॥ २-४ ॥ * किञ्च स बहुवित् यज्ञक्रतुरूपं यज्ञाः अयूपाः क्रतवः सयूपाः तद्रूपमग्न्यादिसर्वदेवादिसंयुक्त सर्वयज्ञरूपमित्यर्थः “यज्ञो वै विष्णुः तदेवाभिस्तद्वायुः” इत्यादिश्रुतेः । उच्चावचैर्बृहद्भिः स्वल्पैश्च क्रतुभिर्यागैः श्रद्धया ईजे इष्टवान् । क्रतूनेवाह आहृताः स्वाधिकारतः स्वीकृताः येऽग्निहोत्रादयस्तेषां प्रकृतिविकृतिभिः स्वप्रकरणोक्तसकलाङ्गयुक्ताभिः प्रकृतिभिः प्रकरणान्तरोक्तैरङ्गैः पूर्यमाणाभिर्विकृतिभिश्च तैर्द्विविधैरीजे अनुसवनं प्रातरादिषु त्रिषु कालेषु चातुर्होत्रविधिना चतुर्णां होतॄणामृत्विजां कर्म चातुर्होत्रं तद्विधिना ॥ ५ ॥
- अथ मीमांसकानां सर्वात्मसर्वकारणभूतभगवदनुग्रह एव कर्मफलमिति सिद्धान्तमजानतां मतं निराचिकीर्षुः भरतस्य बहुवित्त्वं प्रपचयन् " तृप्त एवैनमिन्द्रः प्रजया पशुभिश्च तर्पयति” इत्याह । श्रुतिप्रोक्तान् फलदानिन्द्रादीन् देवानतिहाय कथमेकं भगवन्त- मेवेष्टवानित्याशङ्कां निवारयति सम्प्रचरत्स्विति । सम्प्रचरत्सु अनुष्ठीयमानेषु विरचिता निष्पादिताः अंगक्रिया येषां तेषु यदपूर्वं साध्यं तद्वासुदेवे भावयमानः वासुदेवप्रसाद एव सर्वैः कर्मभिः साध्य इति मन्वान इत्यर्थः । स यजमानो भरतो यज्ञभाजो ये देवास्तान् पुरुषस्य वासुदेवस्यावयवेषु अभ्यध्यायत् “अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यो” इत्यादिश्रुतिभ्यः । “यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै भगवते नमः । द्यां मूर्द्धानं यस्य विप्रा वदन्ति कं वै नाभिश्चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ महीं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ||” इत्यादिस्मृतिभ्यश्च । प्रसङ्गान्मीमांसकानामपूर्वपक्षद्वयं दर्शयति क्रियाफलं धर्माख्यं चेति । तदानीमेव सूक्ष्मत्वेनोत्पन्न क्रियाफलमथवा कालान्तर फलोत्पादिका क्रियायाः धर्मभूता शक्तिरिति एतन्मीमां- सकानां प्रागल्भ्यमात्रं, वक्तव्यं तु ईश्वरानुवर्तिनां सत्कर्मभिः प्रसादित ईश्वरः सर्वपुरुषार्थप्रदो भवतीति भावः । ननु यदि देवताङ्ग- मात्रं प्रधानं तु कर्म अकर्त्तारं प्रति देवतायाः अकिञ्चित्करत्वात् तदा कर्तृनिष्ठमपूर्वं स्यात् यदि जडस्य कर्मणः कर्मनिरपेक्षस्य जनस्य च इष्टसाधकत्वासम्भवात् देवतैव प्रधानं तर्हि देवताधीनमपूर्वमेवं सति वासुदेव एव कर्मभिः प्रसादनीय इति दुराग्रहो न युक्त इत्यत्राह साक्षात्कर्त्तरीति परदेवतायामिति च । सर्वचेतनप्रेरकत्वेन नियोजककर्त्तरि सर्वदेवतांशिनि स कारयति पुण्यमथापि पापमेव सर्वेश्वरः “सर्वस्य वशी सर्वस्येशानः तं देवतानां परमं च दैवतम्” इत्यादिवाक्य कदम्बात् परदेवतात्वे हेतुः सर्वदेवतानां लिङ्गभूताः प्रकाशका ये मन्त्रास्तेषामर्थाः इन्द्रादिदेवतास्तेषां नियामकतया नियन्तृतया वासुदेवे एवापूर्वं भावयमान इति सम्बन्धः । एवं भावनमेवात्मनो नैपुण्यं तेन मृदिताः कषायाः रागादयो यस्य सः, हविःषु चरुपुरोडाशादिषु, अध्वर्युभिरिति बहुवचनं बहुकर्मा- भिप्रायम् ।। ६ ।। * * अन्तर्हृदये हृदयमध्ये य आकाशः स एव शरीरं वासस्थानं यस्य तस्मिन् महापुरुषरूपमुपलक्षण- माकारो यस्य तस्मिन् श्रीवत्सादिभिरुपलक्षिते निजपुरुषाणां हृदि लिखितेन सुस्थिरेणोक्तपुरुषरूपेणात्मनि मनसि विरोचमाने वासुदेवे अनुदिनं प्रतिदिन मुच्चैस्तरा मेधमानो रय उत्कर्षो यस्याः सा भक्तिरजायत ॥ ७ ॥ * * एवमनया वृत्त्या वर्षायुतानां सहस्र- स्यान्ते अवसितो निश्चितः कर्मनिर्वाणावसरः राज्यभोगादृष्टसमाप्तिसमयो येन स रिक्थं धनं यथादायं यथाविभागं, पुलहाश्रमं हरिक्षेत्रं प्रवत्राज जगाम ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी प्रोक्ता च षड्भिरध्यायैः कृष्णेनैवात्मसंस्थितिः । इदानीमष्टभिः प्राह योगेनैवात्मसंस्थितिम् ॥ १ ॥ तत्र तु सप्तमेऽध्याये प्रजारक्षादिलक्षणः । भरताचरितो धर्मो विस्तरेण निरूप्यते ॥ २ ॥ | योगस्याष्टाङ्गत्वादष्टभिरध्यायैर्योगमार्गेण स्वरूपस्थितिर्निरूप्यते, योगमार्गे हि योगं विनेतरसाधनानां निष्प्रयोजकता, सा च भरतचरिते प्रसिद्धेति योगेन स्वरूपस्थितिप्रकरणमिदम् । तत्रास्मिन्नध्याये भरताचरितो धर्मो निरूप्यते, तत्रापि धर्मानुष्ठानाङ्ग- पत्नीपरिग्रहं प्रथममाह - भरतस्त्विति । महाभागवतो भरतस्तु यदा भगवता ऋषभेण अवनितलपरिपालनाय सचिन्तितः विचारेण राज्ये स्थापितः तदा तदनुशासनपरः तस्याज्ञानुसारी सन् विश्वरूपदुहितरं पञ्चजनीमुपयेमे विवाहितवानित्यन्वयः ॥ १ ॥ * * तस्य पुत्रोत्पत्तिमाह-तस्यामिति । तस्यां पञ्चजन्यां भार्यायामात्मनः स्वस्य कात्स्न्येन सर्वप्रकारेण अनुरूपान् बुद्धिनैपुण्यादिगुणै- योग्यानेव पञ्चात्मजान् जनयामासेत्यन्वयः । वै अवधारणे । ह प्रसिद्धौ । उ इति परमभागवतस्यापि पुत्रा जाता इति विस्मये । पुत्रादिसन्ततिवृद्धौं दृष्टान्तमाह-भूतादिरिति, भूतादिस्तामसाहङ्कारः स यथा भूतसूक्ष्माणि भगवत्प्रेरित उत्पादयति तथेत्यर्थः ।। २ ।। * * तान् दर्शयति-सुमतिमित्यादिना । तस्य धर्मातिशयेन प्रतापातिशयं सूचयति अजनाभ इति । अजनाभ- नाना पूर्वं प्रसिद्धमप्येतद्वषं यतो भरतादारभ्य सर्वे जना भारतमिति व्यपदिशन्ति कथयन्तीत्यन्वयः ॥ ३ ॥ स महीपतिः बहुवित् सर्वशास्त्ररहस्यज्ञोऽत एव स्वधर्ममनुवर्तमानः अनुतिष्ठन् स्वे स्वे कर्मणि वर्त्तमानाः प्रजा उरुवत्सलतया अतिप्रीत्या पितृपितामहवत् पर्यपालयत् सर्वतः पालयामासेत्यन्वयः ॥ ४ ॥ * * तस्य स्वधर्माचरणप्रकारं दर्शयति- ईजे चेति । यज्ञा अयूपाः, क्रतवः सयूपाः, तद्रूपं भगवन्तमनुसवनं तस्मिंस्तस्मिन् योग्ये काले उच्चावचैर्महद्भिरल्पैश्च क्रतुभिर्यज्ञैः श्रद्धया ईजे चेत्यन्वयः । ते के इत्यपेक्षायां तान् दर्शयति- आहृतेति, आहृताः स्वाधिकारप्राप्ता येऽग्निहोत्रादयस्तेषां प्रकृतिविकृतिभिरग्निहोत्रादयो द्विविधाः सकलाङ्गयुक्ताः प्रकृतयः विकलाङ्गाः विकृतयः तैर्द्विविधैरपीष्टवानित्यर्थः । कथमित्याकाङ्गायामाह - चातुर्होत्र विधिनेति,
-
स्कं. ५ अ. ७ इलो. १-८] अनेकव्याख्यासमलङ्कृतम् १५१ यदि होत्रोपलक्षिताश्चत्वारः ऋत्विजश्चतुर्होतारस्तैरनुष्ठेयं कर्म चातुर्होत्रं तत्र यो विधि ः प्रकारस्तेन प्रकारेणेत्यर्थः ॥ ५ ॥ * * तस्य धर्माचरणे नैपुण्यं दर्शयति–सम्प्रचरत्स्विति । विरचितानुष्ठानेन सम्पादिता अङ्गक्रिया येषां तेषु नानायागेषु सम्प्रचरत्सु प्रवर्त्तमानेषु अध्वर्युभिर्हविष्षु गृह्यमाणेषु सत्सु स यजमानो भरतो यागजनितं यदपूर्व तद्भगवति वासुदेवे एव भावयमानश्चिन्तयन् यज्ञभाजो ये देवाः सूर्यादयस्तान् पुरुषस्य वासुदेवस्यावयवेषु चक्षुरादिष्वेव अभ्यध्यायन्न पृथक्तयेत्यन्वयः । तत्रापूर्वे ह्यस्ति मीमांसकानां पक्षद्वयम्, तदानीमेव सूक्ष्मरूपेणोत्पन्नं फलमेवापूर्वमित्युच्यते, कालान्तर फलोत्पादिका कर्मशक्तिर्वेति । तदुक्तम्— ‘यागादेव फलं तद्धि शक्तिद्वारेण सिद्धयति । सूक्ष्मं शक्त्यात्मकं वाऽपि फलमेवोपजायते’ इति । अतोऽत्र द्वयमेवाह - क्रियाफलमिति, सूक्ष्मरूपे- णोत्पन्नफलमित्यर्थः । धर्माख्यमिति, कालान्तरे फलजनकं शक्त्यात्मकमदृष्टशब्दवाच्यमित्यर्थः । ननु तत्राप्यस्ति पक्षद्वयम्, कर्मप्रधानं देवताश्च तदङ्गं तदा कर्मजन्यापूर्वं कर्तृत्वनिष्ठं भवति । यदि तु देवताप्रधानं कर्म तु देवताराधनार्थं तदा तु देवता प्रसदा- रूपत्वादपूर्वस्य देवताश्रयत्वमेव युक्तम्, प्रोक्षणाद्यपूर्वस्य ब्रीह्माद्याश्रयत्ववत् । वासुदेवाश्रयत्वभावनं कथमपूर्वस्य घटते इति चेत् न, यदि कर्मप्रधानपक्षेऽपूर्वस्य कर्त्राश्रयत्वमिष्टं तदा वासुदेवस्यान्तर्यामिणः प्रवर्त्तकत्वेन मुख्यकर्तृत्वात्तदाश्रयमेवापूर्वं युक्तम्, न तत्प्रयोग्ययजमानाश्रयं ‘शास्त्रफलं प्रयोक्तरी ‘ति न्यायात् । अन्यथा ऋत्विजामपि अपूर्वाश्रयत्वप्रसङ्गादित्यभिप्रेत्याह- साक्षात्कर्तरीति । यदि तु देवताप्रधानपक्षेऽपूर्वस्य देवताश्रयत्वमिष्टं तदा तु वासुदेवस्य परदेवतात्वात् सुतरामेव तदाश्रयत्वं युक्तमित्याह - परदेवतायामिति । परदेवतात्वे हेतुमाह - सर्वेति, सर्वदेवतालिङ्गानां तत्तद्देवता प्रकाशकानां मन्त्राणां येऽर्था इन्द्रादिदेवतास्तेषां नियामकतयाऽन्तर्यामितयेत्यर्थः । अत एव यज्ञपुरुषे इति, यतो यज्ञाधिष्ठाता तत्तद्देवताद्वारा फलदाताऽपि स एवेत्यर्थः । तत्रापि हेतुमाह - भगवतीति, ऐश्वर्यादिषड्गुणपूर्ण इत्यर्थः । न च तस्य देशकालादिपरिच्छेदोऽस्तीत्यभिप्रेत्याह ब्रह्मणीति । ननु लोकविलक्षणैवं भावना तस्य कथं जातेत्याकाङ्गायां तत्र हेतुमाह-आत्मेति । भगवद्भक्तत्वात्तत्कृपयाऽऽत्मनो बुद्धेर्नैपुण्येन कौशलेन मृदिताः क्षीणाः कषाया विषयवासना यस्य सः । शुद्धान्तःकरणत्वादेव तस्य तथा भावनेति भावः । यागेष्वध्वर्युभिरि- त्यादिबहुवचनेनैवमेव बहवो यागा अनुष्ठिता इति दर्शयति । देवानां भगवदवयवध्यानोक्त्यैव भरतस्यानन्यभक्तत्वं च दर्शितम् ॥ ६ ॥ * एवं भगवति फलादिभावनया या कर्मणां विशुद्धिरवैगुण्यं तथा विशुद्धं सत्त्वमन्तःकरणं यस्य तस्य भरतस्यात्मनि स्वान्तःकरणे पुरुषरूपेण विरोचमाने शोभमाने भगवति वासुदेवे अनुदिनमेधमानो रयो वेगः प्रकर्षो यस्यास्तथा- भूता अत एवोच्चैस्तरां अत्युक्तत्कटा भक्तिरजायतेत्यन्वयः । आत्मनीत्युक्त्या परिच्छिन्नत्वभ्रान्तिर्मा भूदित्याशयेनाह - ब्रह्मणीति, व्यापक इत्यर्थः । कथं तर्ह्यात्मन्येवं प्रतीतिर्नान्यत्रेत्याशङ्कयाह - अन्तरिति । अन्तर्हृदये य आकाशः स शरीरमभिव्यक्तिस्थानं यस्य तस्मिन् । निराकारे परस्मिन्नेवं भक्त्यसम्भवादाह - महापुरुषरूपस्योपलक्षणमाकारो यस्य तस्मिन् पुरुषोत्तमे । अत एव श्रीवत्सा- दिभिरुपलक्षिते युक्ते । तत्र श्रीवत्सो रोमावर्त्तविशेषः, कौस्तुभाख्यो मणिः, वनमाला अनेकवर्णपुष्पग्रथिता माला, अरि चक्रम्, दरः शङ्खः, गदा कौमोदकी । न चेदं रूपं भरतस्यैव हृदि प्रकटितं किन्त्वन्येषामपि हृदि तद्विराजते एवेत्याह-निजेति, निजपुरुषाणां स्वभक्तानां नारदादीनां हृदि लिखितवन्निश्चलतया स्थितेनेत्यर्थः ॥ ७ ॥ * एवं पूर्वोक्तप्रकारेण गृहेषु वर्त्तमानो वर्षाणामयुतानि तेषां सहस्रं तत्पर्यन्ते काले अवसितो निश्चितः कर्मनिर्वाणावसरः राज्यभोगादृष्टसमाप्तिसमयो येन सः अधि अधिकृत्य भुज्यमानं पितृपितामहपरम्परयाऽऽगतं रिक्थं धनं स्वतनयेभ्यो यथादायं यथायोग्यं विभज्य विभागेन दत्त्वा स्वयं सकलसम्पदां निकेतात् स्थानात् स्वनिकेतात् पुलहाश्रमं हरिक्षेत्रं प्रवत्राज जगामेत्यर्थः ॥ ८ ॥ * श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी आख्यानमृषभस्यैवमध्यायैस्त्रिभिरीरितम् । अतः प्रस्तूयतेऽष्टाभिरमृतं भारतं हि तत् ॥ १ ॥ चिरं यज्ञैर्यजन राज्ये सप्तमे भरतो हरिम् । हरिक्षेत्रे निजारब्धकर्मनाशेऽभजद्धरिम् ॥ २ ॥ " भरत इति । महाभागवतः भरतः, भगवता श्रीऋषभदेवेन यदा, अवनितलपरिपालनाय संचिन्तितः राज्येऽभिषिक्तः, तु तदा तस्यावनितलस्य अनुशासनं प्रशासनं तत्र परः प्रसक्तः सन् विश्वरूपस्यैतन्नाम्नः प्रजापतेर्दुहिता पुत्री तां, पञ्चजनीं पञ्चजनीति संज्ञया प्रसिद्धा मित्यर्थः । उपयेमे विवाहितवान् ॥ १ ॥ * * तस्यामिति । उ ह वा स भरतस्त्वित्यर्थः । तस्यां पञ्चजन्यां, आत्मनः स्वस्य, कात्स्न्र्त्स्न्येन साकल्येन, सर्वथेति यावत् । अनुरूपान् पश्र्च आत्मजान् पुत्रान् भूतादिस्तामसाहंकारः, भूतसूक्ष्माणि शब्दादीन् विषयान् यथा तथा जनयामासोत्पादयांचकार । सारूप्ये संततिवृद्धौ च दृष्टान्तः । कांस्तान्पवेत्याकाङ्क्षायां नाम्ना तानाह । सुमतिं राष्ट्रभृतं, सुदर्शनं, आवरणं, धूम्रकेतुं इत्येतन्नाम्नः ॥ २ ॥ * * अजनाभमिति । अजनाभं नाम पूर्वमजनाभनाम्ना प्रसिद्धमित्यर्थः । एतत् वर्षं यतः आरभ्य यस्माद्भरताधिपत्यादारभ्येत्यर्थः । भारतं भारतवर्षमिति व्यपदिशन्ति समुदाहरन्ति ॥ ३ ॥ * स इति । बहुवित् सर्वज्ञः, महीपतिः स भरतः, पिता ऋषभदेवश्च पितामहो नाभिश्च ताभ्यां तुल्यमिति पितृपितामहवत्, उरुवत्सलतया अधिकवात्सल्येन हेतुना, स्वे स्वे निजे निजे, कर्मणि वर्णाश्रमोचितक्रियायां वर्त्तमानाः, प्रजाः स्वयमपि स्वधर्मं, अनुवर्त्तमानः सम्यक् संसेवमानः सन् पर्यपालयत् ॥ ४ ॥ ईजे चेति । यज्ञाश्च क्रतवश्च ते । १५२ श्रीमद्भागवतम् [ स्कं. ५ अ. ७ श्लो. १-८ रूपाणि यस्य तं तत्र यज्ञा अयूपाः क्रतवः सयूपास्तद्रूपं यज्ञपुरुषं, भगवन्तं उच्चावचैः महद्भिरस्पैश्चेत्यर्थः । क्रतुभिः कर्मभिः श्रद्धया, ईजे । चोऽवधारणे । तान् क्रतूनेवाह । अग्निहोत्रश्च दर्शश्च पूर्णमासश्च चातुर्मास्यं च पशुश्च सोमश्च ते, आहृताः स्वाधि कारेणात्मसात्कृता येऽग्निहोत्रादयस्तेषां प्रकृतयश्च विकृतयश्च ताभिः यत्र पूर्णान्यङ्गजातान्युपदिष्टानि स्युस्ता इष्टयः प्रकृतयः, यथा आग्नेयष्टिप्रभृतयः । यत्राऽन्यत्रोक्ताङ्गजातानि समुपजीव्यन्ते ता विकृतयः सौर्येष्टिप्रभृतयः, एवं सति अग्निहोत्रादयो द्विविधाः सकलाङ्गयुक्ताः प्रकृतयः, विकलाङ्गयुक्ता विकृतय इति । तैर्द्विविधैरपि, अनुसवनं प्रातरादिसवनत्रये, चातुर्होत्रं चतुर्भिर्ऋत्विग्भिः क्रियमाणं कर्मेत्यर्थः । तस्य विधिस्तेन, तद्विध्यनुगुणमित्यर्थः । ईजे इष्टवान् ॥ ५ ॥ संप्रचरत्सु इति । विरचिता अनुष्ठिता अङ्गक्रिया येषां तेषु, नानायागेषु संप्रचरत्सु प्रवर्त्तमानेषु सत्सु क्रियाफलं धर्माख्यं च यत् अपूर्व, तत् सर्वांश्च ता देवताश्च तासां लिङ्गानि तेषां तत्तद्देवताप्रकाशकानां मन्त्राणां, अर्थाः या इन्द्रादयो देवतास्तेषां नियामकतयान्तः प्रविश्य धारकत्वेन, साक्षात् कर्त्तरि, परदेवतायां परमदेवतारूपे, परे ब्रह्मणि यज्ञपुरुषे यज्ञपुरुषरूपे भगवति वासुदेवे, एव भावयमानश्चिन्तयन्, यजमानः स भरतः, आत्मनैपुण्यं सर्वेषां भगवत एव प्रसादनीयत्वादस्यैवापूर्वाश्रयत्वं युक्तमित्येवं भावनमेवात्मकौशलं तेन मृदिताः क्षीणाः कषाया रागादयो यस्य तथाभूतः सन् अध्वर्युभिः हविष्षु चरुपुरोडाशादिषु, गृह्यमाणेषु सत्सु, बहुवचनं नानाकर्माभिप्रायेण । यज्ञभाजो यज्ञेषु भागभाजिनः, तान्प्रसिद्धान् देवान्, पुरुषावयवेषु वासुदेवस्य चक्षुरादिप्रतीकेषु, अभ्यध्यायत् । न तु पृथक्तत्वेन । अत्रापूर्वं नाम कर्मविधानोद्भूतं फलं बोध्यम् । तस्मिन्नपूर्वे मीमांसकानां पक्षद्वयम् । तत्र तदानीमेव सूक्ष्मत्वेनोत्पन्नं कर्मफलमपूर्व कालान्तर फलोत्पादिका कर्मशक्तिरपूर्वमिति । कर्मकरणानन्तरमेव सूक्ष्मत्वेनोत्पन्नं यत्फलं तद्धर्माख्यमपूर्वमिति प्रभाकरमतम् । कालान्तरे फलोत्पादिका कर्मशक्तिरेव क्रियाफलाख्यमपूर्वमिति भट्टमतम् । तत्रापि कर्मप्रधानभट्टमते देवताः अङ्गं कर्म प्रधानं इति यदि तर्हि कर्मणः कर्तृसाध्यत्वात्कर्तृनिष्टमपूर्वं स्यात् । देवताप्रधानीभूतं कर्म तु देवताराधनार्थकमिति प्रभाकर मतं तदा अपूर्वस्य देवताप्रसादरूपत्वाद्देवताश्रयत्वमेव स्यात् । अतः उभयथाऽपूर्वस्य कथं वासुदेवाश्रयताभावना युक्ता स्यादिति चेदत्र कथ्यते । यदि कर्तृनिष्ठमपूर्वं तर्हि सर्वान्तर्यामिणो वासुदेवस्य अन्तरात्मतया यजमानप्रवर्त्तकत्वेन मुख्यकर्तृत्वाद्वासुदेवाश्रयमेवापूर्व जातं न तु तत्प्रयोज्ययजमानाश्रयं ‘शास्त्रफलं प्रयोक्तरि’ इति जैमिनिसूत्रात् शास्त्रेण गम्यं फलं प्रयोजके कर्तरि भवतीत्युत्तानः सूत्रार्थः । तदेवात्र साक्षात्कर्त्तरि इति भगवद्विशेषणेन सूचितम् । अपूर्वस्य देवताश्रयत्वेऽपि भगवतः परदेवतात्वात् तस्य वासुदेवाश्रयत्वमेव, इन्द्रादिनियामकतया सर्वेषां प्रसादनीयतया फलप्रदातृतया च तदधिकाभावात्स एवापूर्वाश्रय इत्यर्थः । सर्वसुपर्वणां भगवदवयवत्वं वक्ति भगवती श्रुतिः ‘यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः । सूर्यचक्षुर्दिशः श्रोत्रं लोकपाला भुजेषु’ इत्यादिका ।। ६ ।। 3 एवं भगवदाराधनरूपकर्मयोगाद्यनुगृहीतो भक्तियोगोऽप्यजायतेत्याह एवमिति । * । एवमुक्तविधया, कर्मविशुद्धया विशुद्धसत्त्वस्य विशुद्धान्तःकरणस्य भरतस्य अन्तः शरीरान्तः स्थितं यद्धृदयं पुण्डरीकाकारं हृत्, तस्मिन् यः आकाशो दहरसंज्ञः स शरीरं यस्य तस्मिन् । यद्वा हृदये आकाशते प्रकाशते इति हृदयाकाशो जीवः स शरीरं यस्य, ब्रह्मणि स्वरूपेण गुणैश्च निरतिशय- बृहति, वासुदेवे सर्वान्तरात्मतया दीव्यमाने, महापुरुषरूपमुपलक्षणमाकारो यस्य तस्मिन् श्रीवत्सो दक्षिणस्तनगत रोमावर्त्तश्च कौस्तुभः समुद्रमथनोद्भूतो रत्नविशेषश्च वनमाला वनसंभूतसुमनोमालिकाच अरि चक्रं च दरः शङ्खच गदा च ता आयो येषां शार्मादीनां तैः, उपलक्षिते, निजपुरुषाणां नारदादीनां हृद्धृदयं तस्मिन् लिखितं लिखितवन्निश्चलतयावस्थितं तेन पुरुषरूपेण, आत्मनि स्वमनसि, विरोचमाने भगवति श्रीहरौ, उच्चैस्तरां नितरां, अनुदिनं प्रतिदिनं, एधमानो वर्द्धमानो रयः प्रकर्षवेगो यस्याः भक्तिः अजायत ॥ ७ ॥ * * एवमिति । एवमुक्तवृत्त्या वर्षाणामयुतानि तेषां सहस्राणि तेषां पर्यन्तोऽन्तकालस्तस्मि - नवसितः निश्चितः कर्मनिर्वाणावसरो राज्यभोगादृष्टसमाप्तिसमयो येन स भरतः, अध्यधिकृत्य भुज्यमानं, पितृपैतामहं पितृ- पितामहपरंपरया प्राप्तं, रिक्थं धनं, यथादायं यथाविभागं, स्वतनयेभ्यः विभज्य, सम्यक् दत्त्वा स्वयं, सकलाश्च ताः संपदव तासां निकेतं स्थानं तस्मात् स्वनिकेतात् स्वगृहात्, पुलहाश्रमं शालग्रामक्षेत्रं प्रति प्रवव्राज जगाम । यत्र पुलहाश्रमे क्षेत्रे विद्या- धरकुण्डे वा, ह वा व स्फुटं यथा स्यात्तथैव, भगवान् हरिः, अद्यापि अधुनापि तत्रत्यानां तत्र कृतावासानां निजजनानां, वात्सल्येन निजजनविषयक वत्सलत्वेन, इच्छारूपेण भक्तेच्छानुगुणं गृहीतेन रूपेण, संनिधाप्यते संनिहितो भवति ॥ ८ ॥ सा, भाषानुवादः भरत चरित्र श्रीशुकदेवजी कहते हैं- राजन् ! महाराज भरत बड़े ही भगवद्भक्त थे । भगवान् ऋषभदेवने अपने संकल्पमात्र से उन्हें पृथ्वीकी रक्षा करनेके लिये नियुक्त कर दिया। उन्होंने उनकी आज्ञा में स्थित रहकर विश्वरूपकी कन्या पञ्चजनीसे विवाह किया ॥ १ ॥ * जिस प्रकार तामस अहङ्कारसे शब्दादि पाँच भूततन्मात्र उत्पन्न होते हैं— उसी प्रकार पञ्चजनी के गर्भसे उनके सुमति, राष्ट्रभृत्, सुदर्शन, आवरण और धूम्रकेतु नामक पाँच पुत्र हुए- जो सर्वथा उन्हींके समान थे। इस वर्षको, जिसका नाम पहले अजनाभवर्ष था, राजा भरतके समय से ही ‘भारतवर्ष’ कहते हैं ।। २-३ ॥ * महाराज स्क. ५ अ. ७ श्लो. ९-१४] अनेकव्याख्यासमलङ्कृतम् १५३ भरत बहुज्ञ थे। वे अपने-अपने कर्मों में लगी हुई प्रजाका अपने बाप-दादों के समान स्वधर्म में स्थित रहते हुए अत्यन्त वात्सल्य- भावसे पालन करने लगे ॥ ४ ॥ * उन्होंने होता, अध्वर्यु, उदाता और ब्रह्मा-इन चार ऋत्विजोंद्वारा कराये जानेवाला प्रकृति और विकृति दोनों प्रकार के अग्निहोत्र, दर्श, पूर्णमास, चातुर्मास्य, पशु और सोम आदि छोटे-बड़े क्रतुओं ( यज्ञों) से यथासमय श्रद्धापूर्वक यज्ञ और क्रतुरूप श्रीभगवान्का यजन किया ॥ ५ ॥ * * इस प्रकार अङ्ग और क्रियाओंके सहित भिन्न-भिन्न यज्ञोंके अनुष्ठानके समय जब अध्वर्युगण आहुति देनेके लिये हवि हाथ में लेते, तो यजमान भरत उस यज्ञकर्मसे होनेवाले पुण्य रूप फलको यज्ञपुरुष भगवान् वासुदेवको अर्पण कर देते थे । वस्तुतः वे परब्रह्म ही इन्द्रादि समस्त देवताओंके प्रकाशक मन्त्रोंके वास्तविक प्रतिपाद्य तथा उन देवताओंके भी नियामक होनेसे मुख्य कर्ता एवं प्रधान देव हैं। इस प्रकार अपनी भगवदर्पणबुद्धिरूप कुशलतासे हृदय के राग-द्वेषादि मलोंका मार्जन करते हुए वे सूर्यादि सभी यज्ञभोक्ता देवताओंका भगवान के नेत्रादि अवयवोंके रूपमें चिन्तन करते थे ।। ६ ।। इस तरह कर्मकी शुद्धिसे उनका अन्तःकरण शुद्ध हो गया। तब उन्हें अन्तर्यामिरूपसे विराजमान, हृदयाकाशमें ही अभिव्यक्त होनेवाले, ब्रह्मस्वरूप एवं महापुरुषोंके लक्षणोंसे उपलक्षित भगवान् वासुदेवमें जो श्रीवत्स, कौस्तुभ, वनमाला, चक्र, शङ्ख और गदा आदिसे सुशोभित तथा नारदादि निजजनों के हृदयों में चित्रके समान निश्चलभावसे स्थित रहते हैं दिन-दिन वेगपूर्वक बढ़नेवाली उत्कृष्ट भक्ति प्राप्त हुई ॥ ७ ॥ * इस प्रकार एक करोड़ वर्ष निकल जानेपर उन्होंने राज्यभोगका प्रारब्ध क्षीण हुआ जानकर अपनी भोगी हुई वंशपरम्परागत सम्पत्तिको यथायोग्य पुत्रोंमें बाँट दिया। फिर अपने सर्वसम्पत्तिसम्पन्न राजमहलसे निकलकर वे पुलहाश्रम (हरिहरक्षेत्र ) में चले आये ॥ ८ ॥ se यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण ॥ ९ ॥ यत्राश्रमपदान्युभयतोनाभिभिर्डपचक्रचक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ १० ॥ तस्मिन् वाब किल स एकलः पुलहाश्रमोपवने विविधकुसुम किसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैब समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्ऋतिमवाप ॥ ११ ॥ तयेत्थमविरत- पुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्भुतहृदयशैथिल्यः प्रहर्ष वेगेनात्मन्युद्भिद्यमानरोमपुलककुलक भत्कण्ठप प्रणयबाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीर- हृदयहृदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्या न सस्मार ॥ १२ ॥ इत्थं घृतभगवद्व्रत ऐणेयाजिनवाससा - नुसवनाभिषेकार्द्र कपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्यु- प्रतिष्ठन्नेतदु होवाच –॥ १३ ॥ पसेरजः सवितुर्जातवेदो देवस्य भर्गो मनसेद जजान सुरेतसादः पुनराविश्य चष्टे हंसं गृधाणं नृपद्रिङ्गिसमिमः ॥ १४ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरिते भगवत्यरिचर्यायां सप्तमोऽध्यायः ॥ ७ ॥ अन्वयः - यत्र ह वाव अद्य अपि भगवान् हरिः वात्सल्येन तत्रत्यानाम् निजजनानाम् इच्छारूपेण संनिधा- प्यते ॥ ९ ॥ * * यत्र चक्रनदी नाम सरित्प्रवरा आश्रमपदानि उभयतोनाभिभिः दृषञ्चकैः सर्वतः पवित्रीकरोति ॥ १० ॥ * * वाव किल तस्मिन् पुलहाश्रमोपवने विविधकुसुम किसलयतुलसिकांबुभिः कंदमूलफलोपहारैः च भगवतः आराधनम् समीहमानः विविक्तः उपरतविषयाभिलाषः उपभृतोपशमः सः एकलः पराम् निर्वृतिम् अवाप ॥ ११ ॥ * * इत्थम् तया अविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षयोगेन आत्मनि उद्भिद्यमानरोमपुलककुलकः औत्कंठ्य- प्रवृत्तप्रणयबाष्पनिरुद्वावलोकनयनः एवम् निजरमणारुणचरणारविंदानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्रादगंभीर हृदय-
- प्रकृति और विकृति-भेदसे अग्निहोत्रादि ऋतु दो प्रकारके होते हैं। सम्पूर्ण अङ्गोंसे युक्त ऋतुओंको ‘प्रकृति’ कहते सत्र अङ्ग पूर्ण नहीं होते, किसी न किसी अङ्गकी कमी रहती है, उन्हें ‘विकृति’ कहते हैं । प्रकृति’ कहते हैं और जिनमें
१. २. प्रा० पा० - ३. ४. ५. प्रा० पा० - ६. २० 3 १५५ FE श्रीमद्भागवतम् [ स्कं. ५ अ. ७ श्लो. ९ हृदावगाढधिषणः ताम् क्रियमाणाम् भगवत्सपर्याम् अपि न सस्मार ॥ १२ ॥ * इत्थम् घृतभगवद्व्रतः ऐणेयाजिन- वाससा च अनुसवनाभिषेकार्द्र कपिशकुलजटाकलापेन विरोचमानः सूर्यमण्डले उज्जिहाने सूर्यर्चा भगवन्तम् हिरण्मयम् पुरुषम् अभ्युपतिष्ठन् एतत् उ ह उवाच ।। १३ ।। * * परोरजः सवितुः देवस्य जातवेदः भर्ग इदं मनसा जजान अदः पुनः आविश्य गृधाणम् हंसम् सुरेतसा चष्टे नृषद्विंगिराम् इमः ॥ १४ ॥ 1 इति सप्तमोऽध्यायः ॥ ७ ॥ श्रीधरस्वामिचिरचिता भावार्थदीपिका SEDE यत्र क्षेत्रे विद्याधरकुंडे वात्सल्यं कर्तृ तेन सन्निहितः क्रियते । भक्तानामपेक्षितेन रूपेण सन्निहितो भवतीत्यर्थः ॥ ९ ॥ * * आश्रमस्थानान्युभयत उपर्यधश्च नाभिर्येषां तैर्दृषञ्चकैः शिलामध्यगतैश्वकैश्चक्रनदी गण्डकी सरितां श्रेष्ठा पवित्री- करोति ॥ १० ॥ * * एकल एकः । आराधनं समीहमानः कुर्वाणः । विविक्तः शुद्धः अत एवोपरतो विषयाभिलाषो यस्य । उपभृतः संवृद्ध उपशमो यस्य ॥ ११ ॥ * * प्रवर्धमानानुरागस्य भरेण यद्द्भुतं द्रवीभूतं हृदयं तस्मिन् शैथिल्यम- नुद्यमो यस्य । आत्मनि देहे उद्भिद्यमानं सेमपुलककुल रोमांचवृंदं यस्य, ककारः समासांतः । औत्कंठ्यात्प्रवृत्तेन प्रणयबाष्पेण निरुद्धोऽवलोको ययोस्ते नयने यस्य सः, एवं वर्तमानस्तामपि भगवत्सपर्या न सस्मास्त्यन्वयः । तत्र हेतुः । निजरमणस्य स्वप्रीति- दातुयें अरुणे चरणारविंदे तयोरनुध्यानेन परिचितः समृद्धो भक्तियोगस्तेन परिप्लुतः सर्वतो व्याप्तः परम आह्लादः परमानंदो यस्मिन्गंभीर हृदयहृदे तस्मिन्नवगाढा निमरना धिषणा यस्य ॥ १२ ॥ यस्य ॥ १२ ॥ * * धृतानि धृतानि भगवद्धतानि येन स भगवंतं सूर्यमंडलेऽ- भ्युपतिष्ठन्नेतदु होवाचेत्यन्वयः । कीदृशः । एण्या हरिण्या अजिनमैणेयं तदेव वासस्तेनानुसवनाभिषेकेणाद्राः कपिशाश्च याः कुटिला जटास्तासां कलापेन च विरोचमानः । सूर्यप्रकाशिकया ऋचा हिरण्मयं ध्येयः सदा सवितृमंडलमध्यवर्ती” इत्यादिनोक्तम् । उज्जिहाने उगच्छति सति । सकारांतपाठे सन्नंतात्पचाद्यच् । अर्थस्तु स एव ॥ १३ ॥ * परोरजः रजसः प्रकृतेः परं शुद्धसत्त्वात्मकं सवितुर्देवस्य सूर्यस्य भर्गः स्वरूपभूतं तेजः । जातं वेदो धनं कर्मफलं यस्मात्तत्कर्मफलदमित्यर्थः । अत्र हेतुः । यन्मनसैवेदं विश्वं जजान ससर्ज । पुनश्च अदः सृष्टं विश्वमंतर्यामिरूपेण प्रविश्य गृधाणं कक्षितं हंसं जीवं सुरेतसा चिच्छ तया विचष्टे पश्यति पालयतीत्यर्थः । नृषु सीदत्युपाधितया तिष्ठतीति नृषद् बुद्धिस्तस्यां रिंगिं रिंगणं गतिं राति ददातीति नृषद्रिंगिराम् । “वा छंदसि’ इत्यसि पूर्वरूपत्वाभावः । तद्भर्गः इमः शरणं व्रजामः ।। १४ इति श्रीमद्भागवते पञ्चमस्कन्धे टीकायां सप्तमोऽध्यायः ॥ ७ ॥ ী श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः इत्यर्थं इति । इच्छाविषयीभूतेन श्रीरामकृष्णादिरूपेण । कदाचिद्दर्शनं तत्र भवतीति भावः ।। ९ ।। * * चक्रः शालग्रामैरुपलक्षितत्वात्तन्नामापि चक्रनदीति । यत्र हरिक्षेत्रे ॥ १० ॥ तस्मिन्पुलहाश्रमोपवने । किशलयानि पत्राणि शम्यादीनामित्युक्तं चतुर्थस्कंधे ध्रुवोपाख्याने ।। ११ । तमपि प्रेमविकारं भगवत्पूजायां विघ्नमिव मत्वा प्रेमधिकारेणापि मे बुद्धिने खल्वाक्रियतामिति विमृश्य बुद्धिप्रकाशकेन केन माथे मे ॥ ११ ॥ 8 8 अत एव शुद्धत्वादेव तत्र सपर्याविस्मृतौ ।। १२ ।। * * च भगवन्मंत्रेण भगवंतमुपासितुं प्रववृते इत्याह– इत्थमिति । सूर्यर्चा सूर्यमंडले भगवत्प्रकाशिकया “ध्येयः सदा सवितृमंडल- मध्यवर्त्ती नारायणः सरसिजासनसंनिविष्टः । केयूरवान्मकरकुंडलवान्किरीटी हारी हिरण्मय वपुर्धृतशंख चक्रः” इत्यनेन मंत्रेणोक्तम् । सकारांतपाठे ‘उज्जिहास’ इति पाठे || १३ || $ * भर्गस्तन्मंडलस्थं “सशंखचक्रं रविमंडले स्थितं कुशेशयं कान्तमनंतमव्ययम्” इत्यादिमंत्रवाच्यं तेजः । इत्यर्थ इति । कालरूपेण सर्वकर्मदात्रिति भावः । अत्र सर्वकर्मफलदातृत्वे | मनसा संकल्पमात्रेण गृधाणं दुर्विषयसुखं काक्षतम् । इत्यर्थ इति कृपया दुर्विषयेभ्यो रक्षतीत्यर्थः । केन प्रकारेणेत्यपेक्षायां स्वस्मिन्बुद्धिवृत्तिप्रेरणयैवे- त्याह रिंगि स्वस्मिन्नेव गतिं ततस्तद्विषयिणी मे बुद्धिः केनावृता मास्त्विति भावः । मंत्रोऽयं गायत्रीसहोदर इति संदर्भः ।। १४ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥ 11 श्रीमद्वीरराघवव्याख्या
कोऽसौ पुलहाश्रमः यं प्रवव्राजेत्याह गद्यद्वयेन । यत्र ह पुलहाश्रमे भगवान् हरिरधुनापि निजजनानां वात्सल्येन निजजनविषयकवात्सल्येन स्वेच्छापरिगृहीतरूपेण सन्निधाप्यते सन्निहितो भवतीत्यर्थः ॥ ९ ॥
यत्राश्रमस्थानान्युभयतः उपर्यधश्च नाभिर्येषां तैर्दृषच्चक्रैः शिलामध्यगैश्चक्रैर्निमित्तभूतैश्चक्रनद्याख्या सरितां प्रवरा श्रेष्ठा सर्वतः पवित्रीकरोति ॥ १० ॥
तस्मिन् पुलहाश्रमोपवने एकलः असहायः नानाविधैः कुसुमादिभिः कन्दादिरूपैरुपहारैनैवेद्यैश्च भगवत आराधनं समीहमानः कुर्वाणः विविक्तः विशुद्धाहारः उपरतो निवृत्तो विषयेष्वभिलाषो यस्य अत एवोपभृतः समृद्धः उपशमः बाह्यान्तःकरणनिग्रहो यस्य सः निर्वृतिं प्रीतिरूपां परां भक्तिमवाप ॥ ११ ॥
एतदेव प्रपञ्चयति गद्यद्वयेन । एवं तयोक्तविधया अविच्छिन्नपरमपुरुषपरिचर्यया सर्वान्तरात्मनि भगवति निरतिशयकीर्ती प्रवर्द्धमानो यः अनुरागः प्रेमा तस्य बलेन उत्कर्षेण यत् द्रुतं द्रवीभूतं हृदयं तेन शैथिल्यमनुद्यमो यस्य प्रहर्षवेगेनानन्दातिशयेनात्मनि देहे उद्भिद्यमाने रोमपुलककुलं रोमाञ्चवृन्दं यस्य समासान्तः ककारः, औत्कण्ठ्येनातिवृत्तेन प्रणयानन्दबाष्पेण निरुद्धोऽवलोको ययोस्ते नयने यस्य सः । अभिरेमे उपररामेत्यर्थः । एवं वर्त्तमानः तामपि क्रियां भगवत्सपर्यां न सस्मार । तत्र हेतुं वदन् विशिनष्टि । निजरमणस्य निरतिशयप्रीतिविषयस्य भगवतोऽरुणे चरणारविन्दे तयोरनुध्यानेनोपचितः समृद्धः यो भक्तियोगः कृत्स्नः शुभाश्रयविषयः तेन परिप्लुतः सर्वतो व्याप्तः परमाह्लादः परमानन्दो यस्मिन् सः गम्भीरो हृदयहृदस्तस्मिन्नेव गाढा निमग्ना धिषणा बुद्धिर्यस्य सः ॥ १२ ॥
एवं धृतानि भगवद्व्रतानि येन सः एण्या हरिण्याश्चर्म ऐणेयं तदेव वासस्तेनानुसवनं कालत्रये अभिषेकेण स्नानेन आर्द्रा कपिशाश्च कुटिलाश्च या जटास्तासां समूहेन विरोचमानः सूर्यमण्डले उद्गच्छति सति स्वयमुपतिष्ठन् सूर्यमण्डलस्थं हिरण्मयम् “एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” इत्यन्तरादित्यविद्योक्तं भगवन्तं सूर्य वा सूर्य्यान्तर्वर्तिभगवत्प्रकाशिकया ऋचा वक्ष्यमाणया यजन् भजन् ऋगुक्तप्रकारं ध्यायन्नित्यर्थः । एतदृगात्मकं वाक्यमुवाच ह ॥ १३ ॥
ऋचमुदाहरति परोरज इति । सवितुः सर्वलोकस्य प्रसवनादुत्पादनात् सविता “सर्वलोकप्रसवनात् सविता स तु कीर्तितः” इति स्मृतेः । यद्वा ‘षू ‘प्रेरणे’ प्रचोदयिता सविता चात्र विष्णुरेव “विष्णोर्नामसहस्रं मे” इत्युपक्रम्य “सविता रविलोचनः” इति सवितृशब्दस्य भगवन्नामतया पठितत्वात् तस्य सवितुर्देवस्य विष्णोर्भर्गस्तेजोमयं रूपम् इमः “इण् गतौ” इत्यस्माल्लट् उत्तमबहुवचने रूपमेतत् शरणं गच्छेम इत्यर्थः । भर्गो विशिनष्टि-परोरजः रजसः परं लोकं विलक्षणं लोकपरोऽत्र रजःशब्दः “लोका रजांस्युच्यन्ते” इति यास्कोक्तेः । यद्वा रजः प्रकृतिमण्डलतः परं “क्षयन्तमस्य रजसः पराके आदित्यवर्णं तमसः परस्तात्” इति श्रुतेः, रजसः प्रकृतिमण्डलात्पराके परस्तात् क्षयन्तं निवसन्तमित्यर्थः । जातवेदः जातं सततमाविर्भूतं वेदः ज्ञानं यस्य तत् नित्यासङ्कचितज्ञानमित्यर्थः । अत्र सवितृदेवभर्गपदैर्गायत्री प्रत्यभिज्ञाता भवति । तत्रापि यथोक्त एवार्थः । देवस्य भर्गम् इम इति निर्देशः शिलापुत्रकस्य शरीरमितिवद् द्रष्टव्यः । कीदृशोऽसौ देवः यस्य भर्ग इमस्तत्राह । मनसा संकल्परूपज्ञानेनैवाचिञ्चिदात्मकमिदं जगज्जजान ससर्ज, यश्चादः स्वसृष्टजगत् स्वरेतसा स्वस्य रेतः स्वशक्तिः स्वशरीरभूतेन जीवेनाविश्यानुप्रविश्य, यद्वा इदं चिदचिदात्मकं जगत् स्वतेजसात्मीयसंकल्परूपेण ज्ञानेन प्रविश्य पूर्वं जीवान्तः प्रविष्टोऽपि पुनः करणकलेवरप्रेरणानुकूलव्यापाराय स्वसंकल्परूपेण ज्ञानेनानुप्रविश्येत्यर्थः, हंसं जीवं चष्टे पश्यति । हंसं विशिनष्टि । गृध्राणं शब्दादिविषयान् काङ्क्षमाणं नृपद्रिङ्गिरां नृषीदति अवसादयति क्लेशयति संसारयति इति नृषद् बुद्धिस्तस्यारिङ्गिः रिङ्गणं वृत्तिः “रिगि गतौ” इति धातुः बुद्धिवृत्तिरित्यर्थः । तयारात्याददाति कर्मफलानि भुङ्क्ते नृषद्रिङ्गिरस्तं नृषद्रिङ्गिरां छान्दसत्वात् । ‘वा छन्दसि’ इति पूर्वरूपत्वाभावे सवर्णदीर्घ इति नृषद्रिङ्गिरं हंसमाचष्टे इतिपदैः “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्न्नन्यो अभिचाकशीति” इति श्रुतिः प्रत्यभिज्ञाता भवति । तत्रापि यथोक्त एवार्थः ॥ १४ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतायां श्रीभागवतचंद्रचंद्रिकायां सप्तमोऽध्यायः ॥ ७ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली R ।। कीदृशमिच्छारूपमित्यतस्तद्विवृणोति यत्रेति । यत्र चक्रनदीनाम सरित्प्रवरा उभयतोनाभिभिरूध्वधिश्चक्राङ्कितै पञ्चकः शिलासमूहैः सर्वतः पवित्रीकरोतीत्यन्वयः ॥ १० ॥ * * स एकस्तस्मिन्पुलहाश्रमोपवने परां निर्वृतिमवापेत्यन्वयः । उपहृतः संहृतः पूर्णः उपशमो भगवन्निष्ठा यस्य स तथा ॥ ११ ॥ प्रवर्द्धमानानुरागभारेण हतं गतं हृदयशैथिल्यं संशयलक्षणं यस्य स तथा आत्मनि देहे रोमपुरककुलकः रोमाङ्कुरसमूहः औत्कण्ठ्यमन्तःकरणधर्मविशेषः तेन प्रवृत्तमुत्पन्नं प्रणयबाष्पमानन्दाश्रु- तेन निरुद्धावलोकनयनं यस्य स तथा निजरमणारुणचरणारविन्दयोरनुध्यानेनोपचितेन प्रवृद्धेन भक्तियोगेन परिप्लुतपरमा- ह्रादश्वायं गंभीर हृदयावगाढधिषणश्चेति स तथोक्तः गम्भीरहृदये विष्णाववगाढा मग्ना धिषणा बुद्धिर्यस्य स तथा यद्वा परिप्लुतं परमाह्लादं गभीरहृदयं यस्य स तथा अत एव हराववगाढा धिषणा यस्य स तथा ॥ १२ ॥ ऐणाजिनवाससा कृष्णा- जिनाख्यवस्त्रेणानु सवनाभिषेकार्द्र कपिशकुटिलजटाकलापेन च सूर्य इव विरोचमानः ॥ १३ ॥ * * एतन्मन्त्रार्थवाचकं पद्यमाह परो इति । अथोशब्दवत्परोशब्दोऽव्ययं नाम रजसः प्रकृतेः परो परः उत्तमः निरस्तरजोगुणो वा सवितः जगतः कर्तः जातं सर्वं वेत्तीति जातवेदाः वेदः तस्य सम्बुद्धिर्जातवेदः वेदप्रतिपाद्यत्वाद्वेदस्य भर्गः वेदस्य तनय इत्यर्थः, भगवानिदं जगज्जजान जनयामास । किमुपकरणमत्राह मनसेति । अनेन सवितृशब्दार्थो लक्षितः, नियन्तृत्वमप्यस्यैवेत्याह स्वरेतसेति । स्वरेतसा वीर्ये- णादः ब्रह्मादि जगत्प्रविश्य स्थितः दुःखिजगत्सम्बन्धेन दुःखलेशोऽपि नास्तीत्याह हंसमिति । सर्वस्य दुःखहन्तृत्वाद्धसः तं स्वं स्वतन्त्रं गृधाणां जीवानामृषभं स्वामिनं ‘गृधु अभिकाङ्क्षायाम्’ इति धातुः, जीवानां सर्वाकाङ्क्षा हि एवंविधं त्वां सङ्गणीमः स्तुम इत्यन्वयः । “परोरजा रजस्कत्वात् त्रयीडयत्वात् त्रयीसुतः । गुणात्ययात्तुरीयश्च जातवेदाश्च सर्ववित् । हंसो दुःखादिहानेन जीवे- । । ….. १५६ श्रीमद्भागवतम् [ स्कं. ५.अ. ७लो. ९-१४ शत्वाच गृधराट् । कालः सर्वनियन्तृत्वात्परमात्मा प्रकीर्तितः ॥” इति वचनात् उक्त एवार्थः । परोरंजा इत्यनेन शताक्षरगायत्री- प्रतिपाद्यो नारायणो ममेष्टदेवतेत्युक्तं परोरजारजस्कत्वादित्यचारजस्कत्वादिति पदच्छेद छान्दसत्वा युक्त इति सन्तोष्टव्यम् ।। १४ ।। इति श्रीमद्भागवत महापुराणे पञ्चमस्कंधे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्यां सप्तमोऽध्यायः ॥ ७ ॥ 1 क क मंत्र श्रीमजीवगोखामिकृतः क्रमसन्दर्भः नाभिश्चक्रं पचः शालग्रामैः ॥ १०-१२ ॥ पञ्चक्रेः ।। ॥ योग्यं बुद्धिवृत्तिप्रेरकतया तदुपासनान्तरं कृतमित्याह । परोरज इति ॥ १४ ॥ * ॥ ॥
- तं प्रेमविकारमपि भगवतोऽर्थायां विघ्नमेव मत्वा तदुपहति- इत्थमिति ॥ १३ ॥ * * तत्र गायत्रीसहोदरं मन्त्रमाह । ।। इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भस्य सप्तमोऽध्यायः ॥ ७ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ipe वात्सल्येन कर्त्रा हरिः सन्निधाप्यते सन्निहितः क्रियते केन रूपेण तत्रस्थानां निजभक्तानामिच्छाविषयीभूतेन श्रीकृष्ण- रामाद्यन्यतमेन रूपेणेत्यर्थः ॥ ९ ॥ आश्रमस्थानानि पवित्रीकरोतीत्यन्वयः । उभयत उपर्यधश्च नाभिर्येषां तैर्हषञ्चक्रः शिलामध्यगतैश्वरेव चक्रनदी गण्डकी ॥ १० ॥ * * उपभृतः संवृद्धः उपशमो यस्य सः ॥ ११ ॥ ४ * द्रुतं द्रवीभूतं यत् हृदयं तेनैव हेतुना शैथिल्यं नित्यकृत्येऽप्यनुद्यमो यस्य सः आत्मनि देहे उद्भिद्यमाने रोमभिः पुलककुलं यस्य सः, कप् समासान्तः, परिप्लुतेन सर्वतो व्याप्तेन परमाह्लादामृतेन गम्भीरो यो हृदयहृदस्तत्रावगाढा निमग्ना धिषणा बुद्धिर्यस्य सः ॥ १२ ॥ ॐ * तमपि प्रेमधिकार पूजायां विघ्नमिव मत्वा प्रेमविकारेणापि मे बुद्धिर्न खल्वात्रियतामिति विमृश्य बुद्धिप्रकाशकेन केन च भगवन्मन्त्रेण भगवन्तमुपासितुं प्रववृते इत्याह इत्थमिति । सूर्यचर्चा सूर्यमण्डलस्थभगवत् प्रकाशिकया ऋचा हिरण्मयं “ध्येयः सदा सवितृमण्डलमध्यवर्ती” इत्यादिनोक्तम् उज्जिहाने उदयति सति, उज्जिहास इति पाठे सन्नन्तात् पचाद्यच्, उदेतुमिच्छति सतीत्यर्थः ॥ १३ ॥ * * सवितुर्देवस्य भर्गः तन्मण्डलमध्यस्थितम् । ‘ध्येयः सदा सवितृमण्डलमध्य- वर्ती नारायणः सरसिजासनसन्निविष्टः ।’ इत्यादिमन्त्रवाच्यं तेज इमः शरणं व्रजामः । कीदृशं परोरजः रजसः प्रकृतेः परं विशुद्ध- सत्त्वात्मकं जातं वेदों धनं भक्तानामभीष्टं यतस्तत् यद्भर्गः कर्तृ मनसा सङ्कल्पमात्रेणैव इदं जगत् जजान जनयामास स्वरेतसा स्वीयचिच्छक्तितेजसा पुनरपि अदो जगत् आविश्य अन्तर्यामिरुपेण प्रविश्य गृधाणं दुर्विषयसुखमभिकाङ्क्षन्तं मद्विधं हंस जीवं चष्टे पश्यति कृपया पालयतीत्यर्थः । केन प्रकारेणेत्यपेक्षायां स्वस्मिन् बुद्धिवृत्तिप्रेरणयैवेत्याह । नृषु सीदति उपाधितया तिष्ठतीति नृषत् बुद्धिस्तस्या रिङ्गिं स्वस्मिन्नेव गतिं राति ददातीति तत् । अतस्तद्विषयिणी मे बुद्धिः केनाप्यावृता मास्त्विति भावः । ‘वा छन्दसि’ इत्यमि पूर्वरूपत्वाभावः ॥ १४ ॥ ि ॥७॥ इति सारार्थदर्शिन्यां हर्षिरयां भक्तचेतसाम् । पञ्चमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ७ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः meme frogram यत्र पुलहाश्रमे वात्सल्य कर्तृत्वेन सन्निधाप्यते सन्निहितः क्रियते स्वेच्छारूपेण स्वभक्तेच्छानुसारिरूपेण ॥ ९ ॥ * * उभयतो नाभिर्येषां तैः दृषमकैः शिलामध्यगैश्वरैश्चक्रनदी गण्डकी यत्र क्षेत्रे आश्रमपदानि अ आश्रमपदानि आश्रमस्थानानि सर्वतः पवित्री- करोति ॥ १० ॥ ** ।। ।। समीहमानः सम्यक् कुर्वाणः ॥ ११ ॥ * * तया इत्थमविरतपुरुषपरिचर्यया निरन्तर भगवत्सेवया आत्मनि विश्वात्मनि भगवति प्रवृद्धमानानुरागभरेण द्रुते द्रवीभूते हृदये शैथिल्यं यस्य सः प्रहर्षवेगेन उद्भिद्यमानं रोमपुलक- कुलकं रोमाञ्चवृन्दं यस्य समासान्तः ककारः, औत्कण्ठ्य प्रवृत्तेन प्रणयवाष्पेण निरुद्धावलोके नयने यस्य सः एवं वर्तमानस्तामपि भगवत्परिचर्यां न सस्मारेत्यन्वयः । यतो निजरमणारुणचरणारविन्दयोरनुध्यानेन परिचितः समृद्धो यो भक्तियोगस्तेन परिप्लुतः सर्वतो व्याप्तः परमाह्लादो यस्मिन् गम्भीर हृदयहृदे तस्मिन्नवगाढा निमग्ना धिषणा यस्य सः ॥ १२ ॥ * * इत्थं धृतानि भगवद्द्व्रतानि येन सः एण्या हरिण्याः अजिनमैणेयं तदेव वासस्तेन अनुसवनाभिषेकेण त्रिकालस्नानेन आर्द्राः कपिशाश्च याः कुटिला जटास्तासां कलापेन च विरोचमानः उज्जिहाने उगच्छति सूर्यमण्डले सूर्यान्तर्गतभगवत्प्रकाशिकुया ऋचा वर्णितं “ध्येयः सदा सवितृमण्डमध्यवर्ती नारायण” इत्यादिनोक्तं हिरण्मयं “ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य श्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णः” इत्यादिश्रुतिप्रसिद्धं पुरुषं पूर्ण भगवन्तं सर्वधीप्रेरकं गायत्रीप्रतिपाद्यं श्रीवासुदेवमुपतिष्ठन् एतद्वक्ष्यमाण- मुवाच ।। १३ ।। * * विश्वस्य प्रसवनात्सविता भगवान् वासुदेवस्तस्य भर्गो हिरण्मयं रूपमिमः शरणं व्रजामः । कीदृशं परोरजः रजसः प्रकृतेः परम् “आदित्यवर्णं तमसः परस्तात्” इति श्रुतेः अप्राकृतं हिरण्मयं रूपमित्यर्थः । जातं वेदो धनं कर्मफलं यस्मात्तं कीदृशस्य सवितुर्यः इदं विश्वं मनसा सङ्कल्पेनैव जजान ससर्ज यश्व अदः स्वसृष्टं विश्व स्वरेतसा स्वप्रभावेण प्रविश्य गृभ्राणं काङक्षन्तं हंसं जीवं विचछे पश्यति पालयति तस्य कथम्भूतं भर्गः नृषद्विजिरां नृषु सीदति करणत्वेन रुक, पाम ७ श्लो. ९-१४] अनेकव्याख्या समलङ्कृतम् १५७ तिष्ठतीति नृपबुद्धिस्तस्याः रिङ्गि रिङ्गणं गतिं राति ददातीति नृषद्विङ्गिराम् “वा छन्दसि’ इत्यमि पूर्वरूपत्वाभावः । अयं श्लोका गायत्र्यर्थ प्रकाशकः ॥ १४ ॥ est pit इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे सप्तमाऽध्यायार्थप्रकाशः ॥ ७ ॥ गोस्वामिश्रीगिरिधरलालबिहिता बालप्रबोधिनी तत्र गमनहेतुत्वेन तन्माहात्म्यमाह - यन्त्रेति । ह प्रसिद्धौ । बाब एवकारार्थे । यत्र क्षेत्रे हि तत्रत्यानां निजजनानां भगवद्भक्तानां भगवान् हरिरद्यापि सन्निधाप्यते सन्निहितः क्रियते । तत्रापीच्छारूपेण भक्तानामपेक्षितरूपेणेत्यर्थः । केन सन्निहितः क्रियते तत्राह - वात्सल्येनेति, भक्तानामुपरि यद्भगवतो वात्सल्यं प्रीतिस्तेनेत्यर्थः । भक्तस्नेहपरवशो भगवान् यत्र तदपेक्षितरूपेणा- विर्भवतीत्यर्थः ॥ ९ ॥ * यत्र क्षेत्रे चक्रनदी गण्डकी नाम प्रसिद्धा आश्रमपदानि ऋषीणां स्थानानि सर्वतः पवित्री- करोतीत्यन्वयः । तथाकरणे तत्प्रभावमाह- सरित्प्रवरेति, यतः सरितां श्रेष्ठेत्यर्थः । केन तथा करोतीत्यपेक्षायामाह - उभयत इति, उभयत उपर्यधश्च नाभिर्येषां तैईपचक्रः शिलामध्यगतैश्वक्रः शालग्रामैरित्यर्थः । आश्रमपदानीत्युक्त्या पुण्यक्षेत्रत्वात् प्रायेण तत्र मुनय एव निवसन्तीति गम्यते ॥ १० ॥ * * तत्र गतेन भरतेन कृतं भगवदाराधनं दर्शयति तस्मिन्निति । ह प्रसिद्धौ । बाव एवार्थे । किल निश्चये । तस्मिन् हि पुलहाश्रमोपवने स एकलः एकान्तस्थः निश्चयेन विविधकुसुमादिभिर्भगवत आराधनमेव समीहमानः कुर्वाणः परां निर्वृतिं परमानन्दमवापेत्यन्वयः । किसलयाः कोमलपल्लवाः । उपहाराः नैवेद्यानि । ननु बहवोऽपि भगवदाराधनं कुर्वन्ति तेषामयं परमानन्दः कुतो न भवति भरतस्य तेन स कथं जात इत्याशङ्कय ‘अशान्तस्य कुतः सुखं’ इति सिद्धान्तमवलम्ब्य तत्र हेतु सूचयन् विशिनष्टि-उपभृतोपशम इति, उपभृतः संवृद्धः उपशमो यस्य सः । अन्येषां चिन्तशान्त्यभावा- द्भगवदाराधनावस्थायामपि न परमानन्दानुभवः, तस्य तु तत्सत्त्वात्तदनुभवते इति भावः । एवं शान्तौ हेतुत्वेन विशेषणा- न्तरमाह — उपरतेति, उपरतो निवृत्तो विषयाभिलाषो यस्य सः । तन्निवृत्तिहेतुत्वेन पुनर्विशेषणान्तरमाह - विविक्त इति, यतः शुद्धान्तःकरण इत्यर्थः ॥ ११ ॥ तस्य समाध्यवस्थां दर्शयति तयेत्थमिति । स च तामपि क्रियमाणां भगवतः सपर्यां पूजां न सस्मार कदाचिद्विस्मृतवानित्यर्थः । तत्र हेतुगर्भाणि विशेषणान्याह तयेत्यादिना । तया इत्थं वर्णितप्रकारया अविरतया निरन्तरया पुरुषस्य भगवतः परिचर्यया पूजया तस्मिन् भगवति प्रवर्द्धमानो थोऽनुरागस्तस्य भरेण यद्भुतं द्रवीभूतं यहृदयं तस्मिन् शैथिल्यमनुद्यमों यस्य सः । प्रहर्षवेगेणात्मनि देहे उद्भिद्यमानं रोमपुलककुलं रोमाञ्चवृन्दं यस्य सः । औत्कण्ठ्यात् प्रवृत्तेन प्रणयवाष्पेण प्रेमाश्रुणा निरुद्धोऽवलोको ययोस्ते नयने यस्य सः । एवं निजरमणस्य स्वप्रीतिदातुर्भगवतो ये अरुणे चरणा- रविन्दे तयोरनुध्यानेन परिचितः समृद्धो यो भक्तियोगस्तेन परिप्लुतः सर्वतो व्याप्तः परम उत्कृष्ट आहाद आनन्दो यस्मिन् गम्भीर हृदयहृदे तस्मिन्नवगाढा निमग्रा धिषणा बुद्धिर्यस्य सः ॥ १२ ॥ * * इत्थं धृतानि भगवद्व्रतानि येन सः । अत एव गम्भीरहृदयहृदे एण्या हरिण्या अजिनमैणेयं तदेव वासस्तेन तथा अनुसवनं त्रिकालं योऽभिषेकः स्नानं तेनार्द्राः कपिशाश्च याः कुटिलाः जटाः तासां कलापेन समूहेन च विरोचमानः सूर्यर्चा हिरण्मयं ‘ध्येयः सदा सवितृमण्डलमध्यवर्त्ती’ इत्यादिनोक्तं भगवन्तं पुरुषं पूर्णमपि उज्जिहाने उद्गच्छति सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाचेत्यन्वयः । हेति हर्षपूर्वकं उ इति तद्भतरौत्कण्ठ्याश्चर्य सूचयति ॥ १३ ॥ * * परोरजः रजसः परं शुद्धं देवस्य द्योतनात्मकस्य सवितुः सूर्यस्य भगः तेजः इमः शरणं व्रजाम इत्यन्वयः । तस्य तेजसो भगवद्रूप- त्वाज्जगत्कर्तृत्वमाह - मनसेति, यत् मनसा सङ्कल्पमात्रेणैवेदं विश्वं अजान ससर्जेत्यर्थः । पालकत्वमाह-जातवेद इति, जातं वेदो धनं तत्तत्कर्मफलं यस्मात्तदित्यर्थः । साक्षित्वमाह सुरेतसेति । पुनश्चादः सृष्टं विश्वमाविश्य गृधाणं सुखमाकान्तं हंस जीव सुरेतसा चिच्छक्त्या विचष्टे पश्यतीत्यन्वयः । अन्तर्यामित्वमाह नृषदिति । नृषु प्राणिषु सीदन्ति उपाधितया तिष्ठन्तीति नृषदो बुद्धीन्द्रियप्राणादयस्तेषां रिङ्गि गतिं राति ददातीति नृपद्रिङ्गिरा तत् वा छन्दसी यमि पूर्वरूपत्वाभावः ॥ १४ ॥ इति श्रीवल्लभाचार्य वश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पश्चमे तत्र पत्र योगेन स्थितिरूपणे । सप्तमे विषृति यातः पालनादिनिरूपकः ॥ ३ ॥ FANS RS … श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ि यत्रेति । यत्र आश्रमपदानि आश्रमस्थानानि, उभयत उपर्यधश्च नाभिचकानं येषां तैः दृषचकैः शिलासमूहैः, चक्रनदी नाम चक्रनदीसंज्ञा प्रसिद्धा सरित्प्रवरा, लोकशास्त्रयोर्गण्डकीति नाम्ना च प्रसिद्धा सरिदुत्तमेत्यर्थः । सर्वतः पवित्रीकरोति ॥ ९ ॥ * * तस्मिन्निति । तस्मिन् पुलहाश्रमोपवने, वा व एव, एकलोऽसहायः, किल एव, स भरतः, विविधकुसुमानि च किसलयाः पल्लवाश्च तुलसिका द्विपत्रोपेतकोमलवृन्दामञ्जर्यश्च अम्बु जलं च तैः कन्दाश्च मूलानि च फलानि च तान्येवोपहारास्तैश्व, भगवतः आराधनं, समीहमानः कुर्वाणः, विविक्तः विशुद्धाहारः, अत एव उपरतो निवृत्तः विषयाभिलाषो यस्य सः, अत एव उपभूतः समृद्धः उपशमो बाह्यान्तःकरणनिग्रहो यस्य सः, एवंभूतः सन, निर्वृतिं भगवति परमप्रीतिरूपां परां पराभक्ति, अवाप ।। १० ।। * एतदेव प्रपञ्चयति तयेति । इत्थमेवं, तयोक्तविधया, अविरतमविच्छिनं यथा तथा, या पुरुषस्य परमपुरुषस्य परिचर्या
१५८ श्रीमद्भागवतम् [ स्कं. ५ अ. ७ श्लो. ९-१४ सेवा तया, भगवति निरतिशयकीत सर्वान्तरात्मनि परमेश्वरे, प्रवर्द्धमानों योऽनुरागः प्रेमा तस्य भर उत्कर्षस्तेन द्रुतं द्रवीभूतें यत् हृदयं तेन शैथिल्यमनुद्यमो यस्य सः, प्रहर्षस्यानन्दस्य वेगोऽतिशयस्तेन, आत्मनि देहे, उद्भिद्यमानं रोमपुल ककुलं रोमाञ्चवृन्दं यस्य सः, समासान्तः कुलशब्दात्ककारः । औत्कण्ठ्यात्प्रवृत्तो यः प्रणयवाष्पस्तेन निरुद्धोऽवलोको ययोस्तथाभूते नयने यस्य सः, एवमुक्तप्रकारेण वर्त्तमान इति शेषः । निजरमणस्य निरतिशयप्रीतिविषयस्य स्वस्वामिनो भगवतः अरुणे कोकनदताम्रे ये चरणारविन्दे तयोरनुध्यानं सर्वकालं चिन्तनं तेन परिचितः समृद्धो भक्तियोगस्तेन । परिप्लुतः सर्वतो व्याप्तः परमाह्लादो यस्मिन् स चासौ यो गम्भीरो हृदयहृदस्तस्मिन्नेवावगाढा निमग्ना धिषणा बुद्धिर्यस्य स तथाभूतः सन् तां नित्यविधितया प्राप्तां, अत एव क्रियमाणां स्वेन यथाविध्यनुष्ठितामपि, भगवत्सपर्यं न सस्मार । मया भगवत्सपर्या कृता न कृता वेत्यनुसंधानं नागमदित्यर्थः ।। ११ ।। * * इत्थमिति । इत्थमेवं धृतानि सम्यगनुष्ठितानि भगवद्वतानि येन सः एण्या हरिण्या इदमैणेयं यदजिनं चर्म तदेव वासस्तेन, अनुसवनं कालत्रये योऽभिषेकः स्नानं तेनार्द्राः कपिशाः कुटिलाश्व या जटास्तासां कलापस्तेन च विरोचमानः प्रकाशमानो भरतः, सूर्यमण्डले उब्जिहाने उगच्छति सति, सूर्यमण्डलस्थं हिरण्मयं ‘एषोऽन्तरादित्ये हिरण्मयः पुरुषः’ इत्यादिनाऽऽदित्यविद्योक्तं पुरुषं भगवन्तं, सूर्यच सूर्यान्तर्वर्त्तिभगवत्स्वरूपप्रकाशिकया वक्ष्यमाणया ऋचा, समभ्युपतिष्ठन् ऋगुक्तप्रकारेण ध्यायन्नित्यर्थः । इति वक्ष्य- माणमृगात्मवाक्यं ह स्फुटं यथा तथा, उवाच । एतदुहोवाचेति पाठेऽप्युक्त एवार्थः ॥ १२ ॥ * * ऋचमुदाहरति । परो रज इति । यः, मनसा संकल्परूपज्ञानेन, इदं चिदचिदात्मकं जगन्, जजान ससर्ज । यः, अदः स्वसृष्टं जगत्, खरेतसा स्वशक्त्या, पुनः आविश्य पूर्व जीवान्तः प्रविष्टोऽपि करणकलेवर प्रेरणानुकूलव्यापाराय स्वसंकल्परूपज्ञानेन पुनः प्रविश्येत्यर्थः । गृधाणं शब्दादिविषयान् काङ्क्षमाणं, हंसं जीवं, चष्टे पश्यति । तस्य, सूते सर्वलोकं प्रसूते इति सविता तस्य सवितुः, ‘सर्वलोकप्रसव- नात्सविता स तु कीर्तितः’ इति स्मृतेः । यद्वा सूते प्रेरयत्यन्तर्यामितया कर्मफलानि प्राणिनामिति सबिता तस्य, ‘पू प्रेरणे’ इति धातोः । स चात्र विष्णुरेव । ‘विष्णोर्नामसहस्रं मे’ इत्युपक्रम्य ‘सविता रविलोचनः’ इति सवितृशब्दस्य भगवन्नामतया पठितत्वात् । देवस्य विष्णोः, परोरजः रजसः परं ‘लोका रजांसि प्रोच्यन्ते इति स्मृतेर्लोकविलक्षणम् । यद्वा । रजसः प्रकृतिमण्डलात् परं ‘क्षयन्तमस्य रजसः पराके’ ‘आदित्यवर्णं तमसः परस्तात्’ इति च श्रुतेः । अस्य प्रत्यक्षस्वरूपादित्यर्थः । रजसः प्रकृतिमण्डलात् पराके परस्तात्, क्षयन्तं निवसन्तमित्यर्थः । तमसः परस्तात् वर्त्तमानमिति शेषः । आदित्यस्येव वर्णो यस्य तं, इत्युभयश्रुत्युक्त्तानार्थः । जातं सततमाविभूतं वेदो ज्ञानं यस्य तत् । नित्यासंकुचितज्ञानमित्यर्थः । नृन् प्राणिनः सीदति क्लेशयतीति नृषद् बुद्धिः तस्या रिनिर्वृत्तिरूपा गतिस्तां राति ददातीति नृषद्विङ्गिराम् । ‘वा छन्दसि’ इत्यमि पूर्वरूपत्वाभावः । भर्गस्तेजोमयं रूपं, इमः शरणं गच्छेम इत्यर्थः । ‘इण गतौ’ इत्यस्माल्लद् उत्तमबहुवचने रूपम् ॥ १३ ॥ । ।। इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दस्वामिसुतश्रीरघुवीराचार्यस्नुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरज्जन्याख्यायां श्रीमद्भागवतटीकायां सप्तमोऽध्यायः ॥ ७ ॥ ६ भाषानुवादः 8 8 t इस पुलहाश्रम में रहनेवाले भक्तोंपर भगवान्का बड़ा ही वात्सल्य है। वे आज भी उनसे उनके इष्टरूप में मिलते रहते हैं ॥ ९ ॥ * * वहाँ चक्रनदी (गण्डकी) नामकी प्रसिद्ध सरिता चक्राकार शालग्राम शिलाओंसे, जिनके ऊपर-नीचे दोनों ओर नाभिके समान चिह्न होते हैं, सब ओरसे ऋषियोंके आश्रमोंको पवित्र करती रहती है ॥ १० ॥ उस पुलहाश्रमके उपवन में एकान्त स्थानमें अकेले ही रहकर वे अनेक प्रकारका पत्र, पुष्प, तुलसीदल, जल और कन्द-मूल-फलादि उपहारोंसे भगवान की आराधना करने लगे। इससे उनका अन्तःकरण समस्त विषयाभिलाषाओंसे निवृत्त होकर शान्त हो गया। और उन्हें परम आनन्द प्राप्त हुआ ॥ ११ ॥ * * इस प्रकार जब वे नियमपूर्वक भगवान्की परिचर्या करने लगे, तब उससे प्रेमका वेग बढ़ता गया—जिससे उनका हृदय द्रवीभूत होकर शान्त हो गया, आनन्दके प्रबल वेगसे शरीर में रोमान होने लगा तथा उत्कण्ठाके कारण नेत्रोंसे प्रेमके आँसू उमड़ आये, जिससे उनकी दृष्टि रुक गयी । अन्तमें जब अपने प्रियतमके अरुण चरणारविन्दोंके ध्यानसे भक्तियोगका आविर्भाव हुआ, तब परमानन्दसे सराबोर हृदयरूप गम्भीर सरोवर में बुद्धिके डूब जानेसे उन्हें उस नियमपूर्वक की जानेवाली भगवत्पूजाका भी स्मरण न रहा ।। १२ ।। * * इस प्रकार वे भगवत्सेवाके नियममें ही तत्पर रहते थे, शरीरपर कृष्ण मृगचर्म धारण करते थे तथा त्रिकालज्ञानके कारण भीगते रहने से उनके ha भूरी-भूरी घुँघराली लटोंमें परिणत हो गये थे, जिनसे वे बड़े ही सुहावने लगते थे। वे उदित हुए सूर्यमण्डल में सूर्य सम्बन्धिनी ऋचाओं द्वारा ज्योतिर्मय परमपुरुष भगवान् नारायणकी आराधना करते और इस प्रकार कहते ।। १३ ॥ * * ‘भगवान् सूर्यका कर्मफलदायक तेज प्रकृतिसे परे है। उसीने सङ्कल्पद्वारा इस जगत् की उत्पत्ति की है। फिर वही अन्तर्यामिरूपसे इसमें प्रविष्ट होकर अपनी चित् शक्तिद्वारा विषयलोलुप जीवोंकी रक्षा करता है । हम उसी बुद्धिप्रवर्त्तक तेजकी शरण लेते हैं’ ॥ १४ ॥ इति सप्तमोऽध्यायः ॥ ७ ॥ 2 |Bp sins o अथाष्टमोऽध्यायः gationles reme ि श्रीशुक उवाच एकदा तु महानद्यां कृताभिषेकनैयमिकविश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश ॥ १ ।। तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्या शमेकैवोपजगाम ॥ २ ॥ तया पेपीय मान उदके तावदेवा- विदूरेण नदतो मृगपतेरुनादो लोकभयङ्कर उदपतत् ।। ३ ।। तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात् सहसैवोच्चक्राम ॥ ४ ॥ तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनि निर्गतो गर्भः स्रोतसि निपपात ।। ५ ।। तत्प्रस वोत्सर्पण भयखेदातुरा स्वगणेन वियुज्यमाना करया- श्चिदर्यां कृष्णसारसती निपपाताथ च ममार ॥ ६ ॥ तं त्वेणकुणकं कृपणं स्रोतसानुद्यमानमभिवीक्ष्यापविद्धं बन्धुरिवा- नुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७ ॥ तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजा- भिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् ॥ ८ ॥ अन्वयः— एकदा तु महानद्याम् कृताभिषेकनैयमिकावश्यकः ब्रह्माक्षरम् अभिगृणानः मुहूर्तत्रयम् उदकांतः उपविवेश ॥ १ ॥ * राजन् तदा तत्र हरिणी पिपासया जलाशयाभ्याशम् एका एव उपजगाम ॥ २ ॥ * * तया उदके पेपीयमाने तावत् एव अविदूरेण नदतः मृगपते: लोकभयङ्करः उन्नादः उदपतेत् ॥ ३ ॥ * * प्रकृतिविलवा सा मृगवधूः तम् उपश्रुत्य चकितनिरीक्षणा सुतराम् अपि हरिभयाभिनिवेशव्यप्रहृदया पारिप्लवदृष्टिः भयात् अगततृषा एव सहसा उच्चक्राम ॥ ४ ॥ * * उत्पतन्त्याः अन्तर्वत्याः तस्याः उरुभयावगलितः योनि निर्गतः गर्भः स्रोतसि निपपात ।। ५ ।। * तत्प्रसवोत्सर्पण भयखेदातुरा स्वगणेन वियुज्यमाना कृष्णसारसती कस्यचित् दर्या निपपात अथ ममार च ॥ ६ ॥ * * राजर्षिः भरतः तु स्रोतसा अनूह्यमानम् कृपणम् एणकुणकम् बन्धुः अपविद्धम् इव अभिवीक्ष्य अनुकम्पया आदाय मृतमातरम् इति तम् आश्रमपदम् अनयत् ॥ ७ ॥ * * ह वा एतस्मिन् एणकुणके उच्चैः कृतनिजाभिमानस्य अहरहः तत्पोषणपालनलालनप्रीणनानुध्यानेन सहयमाः आत्मनियमाः च पुरुषपरिचर्यादयः एकैकशः कतिपयेन अहर्गणेन वियुक्य- मानाः किल सर्वे एव उवसन् ।। ८ ।। SE || ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका taare ofmD SE FAS । s mhemature को अष्टमे भजतो विष्णुं तस्य कर्मातरायतः । एणरक्षाप्रसक्तस्य जातमेणत्वमीर्यते ॥ १ ॥ कृपयाऽपि कृतः संगः पतनायैव योगिनः । इति प्रदर्शयन्नाह भरतस्यैणपोषणम् ॥ २ ॥ नित्यनैमित्तिकविधिप्राप्तम् । आवश्यकमर्थप्राप्तं मूत्रोत्सर्गादि । कृतमभिषेकादिकं येन । ब्रह्माक्षर प्रणवं जपन नद्यास्तीरे ॥ १ ॥ * * जलाशयाभ्याशं नद्याः जलाशयाभ्याशं नद्याः समीपम् ॥ २ ॥ पेपीयमाने अत्यासत्या पीयमाने सति । नैयमिकं तावदेव तत्क्षणमेव । अविदूरेण सन्निधौ । मृगपतेः महान्नाद उद्गतः ॥ ३ ॥ * प्रकृत्या स्वभावत एव । सिंहस्य उन्नादो विक्लवा व्याकुला । सुतरां तु हरिभयस्याभिनिवेशेन व्ययं व्याकुलं हृदयं यस्याः । पारिप्लवदृष्टिः परिभ्रांतनेत्रा । न गता तृषा तृदू यस्याः । उच्चक्राम नदीमुल्लङ्घितवती ॥ ४ ॥ * * अंतर्वल्ल्या गर्भिण्याः । उरुभयेन स्थानाद्विचलितो योनेर्निर्गतः सन् स्रोतस प्रवाहे निपतितः ॥ ५ ॥ * * तत्प्रसवो गर्भपातः उत्सर्पणमुल्लंघनं भयं च एतैः खेदेनातुरा पीडिता दर्यां गिरि- गुहायां हरिणवधूर्निपपात अथानन्तरं मृता च ॥ ६॥ * एणकुणकं हरिणबालकम् अपविद्धं बंधुभिरत्यक्तम् इत्येतैः १. प्रा० पा० - २. ३. प्रा० पा० - ४. ५. ६. प्रा० पा० - ७. प्रा० पा०. - १६० श्रीमद्भागवतम् [ स्कं. ५ अ. ८ श्लो. १८ कृपणत्वादिहेतुभिर्यानुकंपा तया अनयत् ॥ ७ ॥ * * कृतो निजः स्वीय इत्यभिमानो येन । पोषणं तृणादिना पालनं वृका- दिभ्यो रक्षणं लालनं चुंबनादिना प्रीणनं कंड्रयनादिना एतैर्यदनुध्यानमासक्तिस्तेनात्मनो नियमाः स्नानादयो यमा अहिंसादयस्त- त्सहिता ईश्वरपरिचर्यादयश्च प्रत्यहमेकैकशो वियुज्यमानाः संतः कतिपयेनाहर्गणेन सर्वे उत्सन्ना बभूवुः ॥ ८ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाश 1 तस्य भरतस्य । कर्मैवान्तरायो विघ्नस्तस्मात् । एणो मृगः (१) । अभिषेकः स्नानम् । नैयमिकं नित्यनियमप्राप्त- मावश्यकं सन्ध्यावंदनादि । नैमित्तिकं शौचादि । अत्राजाद्यंतत्वेप्यल्पस्वरत्वादभिषेकशब्दस्य पूर्वनिपातः । अक्षरमक्षरात्मकं ब्रह्म श्रीकृष्णमंत्र वा मुहूर्त्तत्रयमित्युक्तेः । प्रातःसंध्यां कृत्वा मुहूर्त्तत्रयादधिके काले गते पुनः संध्यांगीभूतं जपं समाप्य पुनर्जल- समीपे जपो न विधेय प इति ज्ञेयम् । यद्वा ओमित्येकाक्षरं ब्रह्म’ इति गीतोक्तेः प्रणवं जजापेत्यर्थः । यद्वाक्षरमक्षयरूपं ब्रह्म वेद- मित्यर्थः ॥ १ ॥ * * तत्र नदीतटे । तदा जपावसरे राजन्निति । तत्तुल्यकर्मणा त्वमप्यधुना तादृशदीप्तिमानसीति भावः । “समीपे भोजने व्याप्तौ सतालव्यः प्रकीर्त्तितः । अभ्याशस्तु सत्यः स्यादावृत्तिक्षेपणादिषु” इति वर्णविवेकोक्तेः ॥ २-३ ।। * * “परिप्लवञ्चाकुले स्याचंचले “च” इति मेदिनी । अपिशब्दस्त्वर्थे सुतरां त्विति ॥ ४ सुतरां त्विति ॥ ४ ॥ * उत्पतंत्या ऊर्ध्वं गत्वा पतंत्या उच्छलेत्या इत्यर्थः ॥ ५ ॥ ॐ उत्प्रसवः उच्चाकाशादेव गर्भपातः । कंदरे तु दरी स्मृता’ इति मेदिनी । कृष्णसारः श्यामहरिणः । “श्यामैणे कृष्णभक्ते च कृष्णसारोसितायसि” इति निरुक्तिः ॥ ६ ॥ * - * ‘ऍणो मूरो ज्ञानगत्योः’ इति निरुक्तिः । कुणको ध्वनिबालयोः’ इति च । कृपणं दीनम् । ‘कये कृपणे दीनेऽसमर्थे च दयावति’ इति च । कृपणत्वादि- भिश्चतुभिर्हेतुभिः ॥ ७ ॥ * आदिना संध्यादिग्रहः । द्वितीयादिनाऽस्तेयादिग्रहः । तृतीयादिना जपादिग्रहः । ANON TE S 15 || 0 | EVER SEATS PRESE PLATE SORDIEN IN THE उत्सन्ना नष्टाः ॥ ८ ॥ RE is anyakis श्रीमद्वीरराघवव्याख्या INTER * स भरत एकदा कर्हिचिन्महानद्यां चक्रनद्यां कृताभिषेकः कृतः अभिषेकः स्नानं नैयमिकं नियतमावश्यकं नित्यनैमित्तिकं च येन स ब्रह्माक्षरं प्रणवं जपन्नुदकान्ते नद्यास्तीरे मुहूर्त्तत्रयमुपविष्टवान् ॥ १ ॥
हे राजन् ! तत्र तीरे तदा भरतावस्थानसमये हरिणी एणी पिपासया जलाभ्याशं जलसमीपं प्रत्येकैवासहायैव जगाम । तया हरिण्या उदके नितरां पेपीयमाने सति अविदूरे समीप एव नदतो ध्वनिं कुर्वतो मृगपतेः सिंहस्य लोकभयङ्कर उन्नादो ध्वनिरुदपद्यत हरिण्या श्रुतोऽभवदित्यर्थः ॥ १-३ ॥
तमुन्नादमुपश्रुत्याकर्ण्य सा मृगस्य वधूर्हरिणी प्रकृत्या स्वभावेनैव विक्लवा व्याकुला सुतरां हरिभयस्य सिंहभयस्याभिनिवेशेन व्यग्रं व्याकुलं हृदयं यस्याः सा अत एव पारिप्लवदृष्टिश्चञ्चलदृष्टिरत एव चकितनिरीक्षणा प्रतिहतनिरीक्षणा अगतानपगता तृषा पिपासा यस्याः सा तथाभूतैव सहसा आशु उच्चक्राम नदीमुलङ्घितवती ॥ ४ ॥
उत्पतन्त्या अन्तर्वत्न्याः पूर्णगर्भिण्याः तस्या हरिण्या गर्भ उरुभयेन सिंहमयेनावगलितः स्वस्थानात्प्रच्युतो योनेर्निर्गतः स्रोतसि प्रवाहे निपपात पतितोऽभूदित्यर्थः ॥ ५॥
तत्प्रसवो गर्भपातः उत्सर्पणमुल्लङ्घनं भयं चेत्येतैः यः खेदस्तेनातुरा पीडिता स्वयूथेन वियुक्ता कृष्णसारसती कृष्णमृगवधूः कस्यांचिद्दर्यां गिरिगुहायां निपपात अथ पतनानन्तरं ममार मृतवती च ॥ ६ ॥
तत्स्रोतसा प्रवाहेणोह्यमानमेणकुणकमेणस्यापत्यमभिवीक्ष्य राजर्षिर्भरतः मृता माता यस्य तं मृतमातरं बन्धुभिः स्वपित्रादिभिरपविद्धं परित्यक्तमित्यनुकम्पया आदाय हस्ते गृहीत्वा स्वाश्रमस्थानमनयत्प्रापितवान् ॥ ७ ॥
एतस्मिन्नेणशिशौ कृतः निजाभिमानः आत्मीयत्वाभिमानो येन तस्य भरतस्याहरहस्तस्यैणशिशोः पोषणाद्यनुध्यानेन तत्र पोषणमाहारेण पालनं व्याघ्रादिभ्यो रक्षणं प्रीणनं कण्डूयनादि लालनं करस्पर्शनं चुम्बनादि एतैर्यदनुध्यानमासक्तिस्तेनास्तरायेण भगवत्परिचर्यादयः आत्मनियमाः शौचाचारादयः सह यमाः अहिंसादिभिः सहिताः सर्व एव धर्माः प्रत्यहमेकैकशो वियुज्यमानाः सन्तः कतिपयेनाहर्गणेनोदवसन्नुत्सन्ना बभूवुः ॥ ८ ॥
T श्रीमद्विजयध्वजतीर्थकृता पदरज्ञावली TRE सत्सङ्गतिमन्तरेणेतरसङ्गतिः संसारहेतुरिति एतन्निरूप्यतेऽस्मिन्नध्याये । तित्र भरतस्यैणशाव सङ्गत्यानर्थप्रकारं कथयितु- मुपक्रमते एकदेति । अभिषेकः स्नानमावश्यकं मूत्रपुरीषोत्सर्जनादि नैयमिकं नित्यकर्म, अत्र क्रमस्त्वविवक्षितः, एतावत्करोतीति क्रियमाणमनुष्ठानं नैयमिकं सन्ध्यानुष्ठानमावश्यकमिति वा ब्रह्माक्षरं प्रणवः गायत्री वा अघमर्षणसूक्तं वा जलाशयाभ्याशं नदी- समीपं तावत्तदानीं मृगपतिः व्याघ्रः ॥ १-३ ॥ प्रकृत्या स्वभावेन बिलवा पारवश्योपेता अत एव चलितनिरीक्षणा चलावलोकना हरेर्व्याघ्राद्भयाभिनिवेशः भयोद्वेगः तेन व्यमं भ्रान्तं हृदयं यस्याः सा तथा “हरिर्व्याघ्रे पञ्चमुखे भेके सूर्यसमीरयोः’ इति । अत एव पारिप्लवदृष्टिः चञ्चलदृष्टिः, तृषेति टाबन्तः, उच्चक्रामोत्पपात ॥ ४ ॥ अन्तर्वत्न्या गर्भिण्याः उरुणा भयेना वगलितो निर्गतः स्रोतसि प्रवाहे प्रस्रवणं प्रसार उत्सर्पणमुत्पतनं हरिभयं च खेदश्च एतैरातुरा दर्यां महागर्ते कृष्णसारसती * * स्कं. ५.अ. ८ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् २६९ कृष्णमृगप्रिया ।। ५-६ ।। 8 एणकुणकं मृगबालकमपविद्धबन्धुं त्यक्तबन्धुजनं मृता माता यस्य स तथा तम् ॥ ७ ॥ * * पोषणं तृणादिदानेन लालनमुत्सङ्गारोपणादिना अनुध्यानं क्षेमचिन्तनं पोषणाद्यनुचिन्वनं वा यमा अहिंसादयः पुरुषपरिचर्यादयो विष्णुपूजादयः उदवसन् उत्सन्ना बभूवुः ॥ ८ ॥ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः 109 11 सभी शि aircare यमनियमादितः स्वारब्धकर्मणा अपराधरूपेण योगमिश्रस्तापसो भगवदुपासकः ॥ १-३१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रम सन्दर्भे अष्टमोऽध्यायः ॥ ८ ॥ अष्टमे Pigganti mahiti श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी भरतश्चक्र मृगपालनलालने । तद्वियोगेन तचेताः प्राप तद्देहतामपि ।। दयामपि त्यजेद्भक्तिवाधिनीमिति दर्शयन् । तं मृगं पोषयामास कृष्णचतुरिमाम्बुधिः ॥ अनुतापाम्बुधौ क्षिप्त्वा स्वप्रेमाब्धौ निमज्जयन् । तमेनं पोषयन् भक्तवात्सल्यं चाप्यदीदृशत् ॥ नैयमिकं नित्यनियमप्राप्तमावश्यकं मूत्रोत्सर्गादिकमभिषेकस्नानं च कृतं येन सः, अत्राजादित्वादल्पाच्त्वाच्च अभिषेक- शब्दस्य पूर्वनिपातः । अक्षरमक्षरात्मकं ब्रह्म कृष्णमन्त्रम् | अभिगृणानो जपन् ॥ १-२ ॥ * * पेपीयमाने अत्यासत्या पीयमाने मृगपतेः सिंहस्य ॥ ३ ॥ * सहसा नादसमकालमेव भयात् त्रासात् । उच्चक्राम नद्या धारामुल्लङ्घ ॥। ४ ॥ * उत्प्रसव उच्चाकाशादेव गर्भपातः ॥ ६ ॥ एणकुणक
-
- एणकुणकं हरिणबालकम् । अपविद्धं बन्धुभिरत्यक्तम् इति एतैः कुप्पकत्वादिहेतुभिर्या अनुकम्पा तया ॥ ७ ॥ * * पोषणं तृणादिना पालनं वृकादिभ्यः प्रीणनं कण्डूयनादिना लालनं चुम्बनादिना एतैर्यदनुध्यानमासक्तिस्तेन । उवसन् उत्सन्ना बभूवुः ।। ८ ।।
अन्तर्वत्न्या गर्भवत्याः ॥ ५ ॥
श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
क
अष्टमे देवादेणरक्षाप्रसक्त्या भरतस्यैणभावो वर्ण्यते एकदेति । महानद्यां गण्डक्यां कृतमभिषेकादिकं येन सः । अभिषेकः स्नानं नैयमिकं नित्यनैमित्तिकविधिप्राप्तमावश्यकं मूत्रोत्सर्गादि ब्रह्माक्षरं प्रणवं जपन् उपविष्टवान् ॥ १-३ ॥ * * परिप्लवदृष्टि: परिभ्रान्तदृष्टिः उच्चक्राम नदीमुलङ्घितवती ॥ ४ ॥ ॐ * महद्भयेन प्रचलितः अत एव योनितो निर्गतः ॥ ५ ॥ तत्तदा प्रसवोत्सर्पणभयैः गर्भपतननद्युहनसिंहभयैयैः खेदस्तेनातुरा व्याकुला पपात ममार च ॥ ६ ॥ 3 तं तु एणकुमक मृगदारकमितिशब्दों हेतौ यतः मृतमातरमत्र त्यक्तं बन्धुः पित्रादिर्यथा भवति तद्वत् आदाय आश्रमस्थानमनयत् ॥ ७ ॥ * * एतस्मिन् एणकुणके कृतनिजाभिमानस्य तस्य भरतस्य यत्तस्य मृगदारकस्य तृणादिना पोषणेन व्याघ्रादिभ्यः पालनेन कण्डूयनादिना प्रीणनेन चुम्बनादिना लालनेन यदनुध्यानं पुनः पुनञ्चिन्तनं तेन पुरुषपरिचर्यादयः आत्मनो नियमाः स्नानादयः सह यमाः अहिंसादियमसहिताः अहरहः प्रतिदिनमेकैकशो वियुज्यमानाः कतिपयेनाहंगणेन सर्वे उदवसन् त्यक्ता बभूवुः ॥ ८ ॥
ही
गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी
एवं च भजतस्तस्य मृगपोतप्रसङ्गतः । अष्टमे भरतस्यापि
State
कल्यमीयते ।। १ ।।
एकदा तु महानद्यां गण्डक्यां कृतोऽभिषेकः स्नानं नैयमिकं नित्यनैमित्तिकविधिप्राप्त अवश्यं कर्त्तव्यं सन्ध्योपासन- तर्पणादि कर्म येन सः ब्रह्माक्षरं प्रणवं अभिगृणानो जपन् मुहूर्त्तत्रयमुदकान्ते नद्यास्तीरे उपविवेश ॥ १ ॥ एवं परमभक्तस्यापि मर्यादामार्गे प्रारब्धप्राबल्याद्विघ्नो जात इत्याश्चर्य सावधानतया श्रृण्वित्याशयेन सम्बोधयति हे राजन्निति । तत्र तस्मिन् स्थाने तदा जलाशयाभ्याशं नद्याः समीपं पिपासया जलपानेच्छया एकैष स्वगणाद्वियुक्ता हरिण्युपजगामेत्य त्यन्वयः ॥ २ ॥ * ॐ तथा हरिण्या उदके पेपीयमानेऽत्यासक्त्या पीयमाने सति तावदेव तत्क्षणमेव अविदूरेण समीप एव नदतो मृगपतेः सिंहस्य लोकभयङ्कर उन्नादो महान्नाद उदपवत् उत्तः ॥ २ ॥ ॐ तं नादमुपश्रुत्य सा मृगवधूः हरिणी प्रकृत्या स्वभावत एव विक्लवा व्याकुलचित्ता चकितनिरीक्षणा सुतरामपि तु हरिभयस्याभिनिवेशेन व्यमं व्याकुलं हृदयं यस्याः सा अत एव पारिप्लवदृष्टिः परिभ्रान्तनेत्रा अगततृषा न गता तृषा यस्याः सा तथाभूताऽपि सहसैवोचक्राम नदीमुलङ्घित- वती ॥ ४ ॥ * * तस्या अन्तर्वत्न्या गर्भिण्या उत्पन्त्या नदीमुलनयन्त्या उरुभयेनावगलितः स्थानाद्विचलितो योनेर्बहि-
।।
२१
३.
१६२ श्रीमद्भागवतम् [ स्कं. ५ अ. ८ श्लो. १८ निर्गतः सन् गर्भः स्रोतसि प्रवाहे निपपात ॥ ५ ॥ * तत्प्रसवो गर्भपात उत्सर्पणं नद्युल्लङ्घनं भयं च तैरेतैर्यः खेदस्तेनातुरा पीडिता स्वगणेन च वियुज्यमाना कृष्णसारसती मृगवधूः कस्याश्चिद्दर्यां गिरिगुहायां निपपात, अथानन्तरमेव ममार च ॥ ६॥ * * तं तु एणकुणकं हरिणबालकं बन्धुरिवानुकम्पया कृपया राजर्षिर्भरत आदाय गृहीत्वा स्वाश्रमपदमनयदि- न्वयः । अनुकम्पायां हेतुगर्भाणि विशेषणान्याह - स्रोतसा प्रवाहेण अनूद्यमानं अपविद्धं बन्धुभिस्त्यक्तं मृतमातरं चात एव कृपणं दीनमियभिवीक्ष्येत्यन्वयः । तस्याप्यनुकम्पा युक्तैव धर्मिष्ठत्वादित्याह - राजर्षिरिति ॥ ७ ॥ * * एवं प्रयत्नेन प्रवृत्तस्यापि विघ्नो जात इति खेदेनाह - हेति । वै इति तत्स्मरणे । तस्य भरतस्य अहरहस्तत्पोषणादिभिर्यदनुध्यानं तस्मिन्नासक्तिस्तेन आत्मनः स्वस्य पुरुषस्य पुरुषोत्तमस्य परिचर्या पूजा आदिर्येषां स्नानशौचजपपाठादीनां ते सर्वे नियमाः सहयमाः यमैरहिंसादिभिः सहिताः प्रत्यहमेकैकशो वियुज्यमानाः सन्तः कतिपयेनाहर्गणेन सर्व एव किलोदव सन् उत्सन्ना बभूवुरित्यन्वयः । एवकारोऽवशिष्टनिवृत्त्यर्थः । किलेति सन्देहनिवृत्त्यर्थः । पोषणं तृणादिदानम् । पालनं वृकादिभ्यो रक्षणम् । प्रीणनं प्रीतिजननं कण्डूयनादिना । लालनं चुम्बनादिना । एवं परमफलरूपां भगवत्सेवां परित्यज्य मृगपोते आसक्तिर्मनसश्चाञ्चल्यादेवेत्यभिप्रेत्याह- तस्मिन्निति, तस्मिन्नेण- कुणके उच्चैरतिशयेन कृतो निजः स्वीय इत्यभिमानो येन तस्येत्यर्थः । अत एवोक्तम्- ‘न कुर्यात् कर्हिचित् सख्यं मनसि नवस्थिते’ इति ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी प्रसक्तस्यैणरक्षायां भजतो विष्णुमष्टमे । कर्मान्तर यतस्तस्य णत्वं जातमीर्यते ॥ १ ॥
- एणकुणकं हरिणबालकम् । अपविद्धं बन्धुभिरत्यक्तम् इति एतैः कुप्पकत्वादिहेतुभिर्या अनुकम्पा तया ॥ ७ ॥ * * पोषणं तृणादिना पालनं वृकादिभ्यः प्रीणनं कण्डूयनादिना लालनं चुम्बनादिना एतैर्यदनुध्यानमासक्तिस्तेन । उवसन् उत्सन्ना बभूवुः ।। ८ ।।
अन्तर्वत्न्या गर्भवत्याः ॥ ५ ॥
श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
क
अष्टमे देवादेणरक्षाप्रसक्त्या भरतस्यैणभावो वर्ण्यते एकदेति । महानद्यां गण्डक्यां कृतमभिषेकादिकं येन सः । अभिषेकः स्नानं नैयमिकं नित्यनैमित्तिकविधिप्राप्तमावश्यकं मूत्रोत्सर्गादि ब्रह्माक्षरं प्रणवं जपन् उपविष्टवान् ॥ १-३ ॥ * * परिप्लवदृष्टि: परिभ्रान्तदृष्टिः उच्चक्राम नदीमुलङ्घितवती ॥ ४ ॥ ॐ * महद्भयेन प्रचलितः अत एव योनितो निर्गतः ॥ ५ ॥ तत्तदा प्रसवोत्सर्पणभयैः गर्भपतननद्युहनसिंहभयैयैः खेदस्तेनातुरा व्याकुला पपात ममार च ॥ ६ ॥ 3 तं तु एणकुमक मृगदारकमितिशब्दों हेतौ यतः मृतमातरमत्र त्यक्तं बन्धुः पित्रादिर्यथा भवति तद्वत् आदाय आश्रमस्थानमनयत् ॥ ७ ॥ * * एतस्मिन् एणकुणके कृतनिजाभिमानस्य तस्य भरतस्य यत्तस्य मृगदारकस्य तृणादिना पोषणेन व्याघ्रादिभ्यः पालनेन कण्डूयनादिना प्रीणनेन चुम्बनादिना लालनेन यदनुध्यानं पुनः पुनञ्चिन्तनं तेन पुरुषपरिचर्यादयः आत्मनो नियमाः स्नानादयः सह यमाः अहिंसादियमसहिताः अहरहः प्रतिदिनमेकैकशो वियुज्यमानाः कतिपयेनाहंगणेन सर्वे उदवसन् त्यक्ता बभूवुः ॥ ८ ॥
ही
गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी
एवं च भजतस्तस्य मृगपोतप्रसङ्गतः । अष्टमे भरतस्यापि
State
कल्यमीयते ।। १ ।।
एकदा तु महानद्यां गण्डक्यां कृतोऽभिषेकः स्नानं नैयमिकं नित्यनैमित्तिकविधिप्राप्त अवश्यं कर्त्तव्यं सन्ध्योपासन- तर्पणादि कर्म येन सः ब्रह्माक्षरं प्रणवं अभिगृणानो जपन् मुहूर्त्तत्रयमुदकान्ते नद्यास्तीरे उपविवेश ॥ १ ॥ एवं परमभक्तस्यापि मर्यादामार्गे प्रारब्धप्राबल्याद्विघ्नो जात इत्याश्चर्य सावधानतया श्रृण्वित्याशयेन सम्बोधयति हे राजन्निति । तत्र तस्मिन् स्थाने तदा जलाशयाभ्याशं नद्याः समीपं पिपासया जलपानेच्छया एकैष स्वगणाद्वियुक्ता हरिण्युपजगामेत्य त्यन्वयः ॥ २ ॥ * ॐ तथा हरिण्या उदके पेपीयमानेऽत्यासक्त्या पीयमाने सति तावदेव तत्क्षणमेव अविदूरेण समीप एव नदतो मृगपतेः सिंहस्य लोकभयङ्कर उन्नादो महान्नाद उदपवत् उत्तः ॥ २ ॥ ॐ तं नादमुपश्रुत्य सा मृगवधूः हरिणी प्रकृत्या स्वभावत एव विक्लवा व्याकुलचित्ता चकितनिरीक्षणा सुतरामपि तु हरिभयस्याभिनिवेशेन व्यमं व्याकुलं हृदयं यस्याः सा अत एव पारिप्लवदृष्टिः परिभ्रान्तनेत्रा अगततृषा न गता तृषा यस्याः सा तथाभूताऽपि सहसैवोचक्राम नदीमुलङ्घित- वती ॥ ४ ॥ * * तस्या अन्तर्वत्न्या गर्भिण्या उत्पन्त्या नदीमुलनयन्त्या उरुभयेनावगलितः स्थानाद्विचलितो योनेर्बहि-
।।
२१
३.
- योगिनः पतनायैव सङ्गोऽपि दयया कृतः । आहेति दर्शयन्नेवार्षभस्ये वैणपोषणम् ॥ २ ॥ । एकदेति । स भरत इति शेषः । एकदा तु कर्हिचित्तु । एकस्मिन्समये स्वित्यर्थः । महानद्यां चक्रनद्यां, अभिषेकः स्नानं च, नैयमिकं नित्यनैमित्तिकविधिप्राप्तं च, आवश्यकमर्थप्राप्तमूत्रोत्सर्गादि च कृतमभिषेकादिकं येन तथाभूतः, ब्रह्माक्षरं प्रणवं अभिगृणानो जपन् सन्, उदकान्ते नद्यास्तीरे मुहूर्त्तत्रयं उपविवेश || ॥ १ ॥ * * तत्रेति । हे राजन्, तदा तस्मिन्काले, भरतावस्थानसमये इति यावत् । तत्र नदीतीरे, हरिण्येणी, पिपासया हेतुना, जलाशयाभ्याशं जलसमीपप्रदेशं प्रति, एका असहायैव, अजगाम समाजगाम । तथा हरिण्या, उदके नदीजले, पेपीयमाने अत्यासच्या पीयमाने सति, तावदेव तत्क्षणमेव, अविदूरे समीपप्रदेशे एव, नदतो ध्वनिं कुर्वतः मृगपतेः सिंहस्य, लोकभयंकरः उन्नादो महान्नादः, उदपतदुद्रतः ।। २ ।। * * तमिति तमुन्नादं उपश्रुत्याकर्ण्य, सा मृगवधूर्हरिणी, प्रकृत्या स्वभावेनैव विक्लवा व्याकुला, सुतरामपि अतिशयेन तु । हरिभयस्य सिंह- भयस्य अभिनिवेशेन व्यनं व्याकुलं हृदयं यस्याः सा, अत एव पारिप्रवदृष्टिः परिभ्रान्तनेत्रा, चकित निरीक्षणा प्रतिहतेक्षणा, अगता अनुपहता तृषा पिपासा यस्याः सा तथाभूता सती, सहसा आशु, भयात् उच्चक्राम नदीमुल्लङ्घितवती ॥ ३ ॥ * * तस्या इति । उत्पतन्त्याः, अन्तर्वत्न्याः गर्भिण्याः तस्या हरिण्याः, गर्भः उरुभयावगलितः सिंहभयेन स्वस्थानात्प्रच्युतः, अत एव, योनि- निर्गतः योनेः सकाशाद्वहिर्निष्क्रान्तः सन् स्रोतसि नदीप्रवाहे, निपपात पतितोऽभूत् ॥ ४ ॥ * तत्प्रसवेति । तत्प्रसवो । गर्भपातश्च उत्सर्पणमुल्लङ्घनं च भयं सिंहशब्दश्रवणजा भीतिश्च तैर्यः खेदस्तेनातुरा पीडावती, स्वगणेन स्वयूथेन वियुज्यमाना वियुक्ता, कृष्णसारसती कृष्णमृगवधूः कस्यचित् दर्यां गिरिगुहायां निपपात । अथ पतनानन्तरं, ममार प्राणांच तत्याज ॥ ५ ।। * तमिति । तं तु तमेव, एणकुणकं हरिणबाल, स्रोतसा प्रवाहेण, अनूद्यमानं, अत एव, कृपणं अभि- वीक्ष्य, राजर्षिः भरतः, मृता मोता यस्य तं, बन्धुभिः स्वपित्रादिभिः अपविद्धं त्यक्तं इव इत्येवं विचार्य अनुकम्पया हेतुना, आदाय आश्रमपदं अनयत्प्रापितवान् ॥ ६ ॥ * * : हस्ताभ्यां गृहीत्वा विजाभिमान आत्मीपस्थात । एतस्मिन् एणकुणके हरिणशिश,
- ॐ उच्चैः ह वा अतिशयेनैव कृतः विहितः निजाभिमान आत्मीयत्वाभिमतिर्येन तस्य, तस्य भरतस्य, अहरहः प्रतिदिनं, तस्य हरिणबालस्य पोषणं तृणाद्या हारप्रदानेन पोषणं च पालनं व्याघ्रादिभ्यो रक्षणं च प्रीणनं कण्डूयनादिना प्रियकरणं च लालनं करस्पर्श- चुम्बनादिना प्रीत्युत्पादनं च ऐतैर्यदनुध्यानमासक्तिस्तेन, पुरुषपरिचर्यादयः भगवत्परिचर्याप्रभृतयः, सहयमाः अहिंसादियमैः संहिताः आत्मनियमाः शौचादयो निजनियमाः सर्वे एव, एकैकशः प्रत्यहमेकैकः, इत्येवं वियुज्यमानाः सन्तः, कतिपयेने अहर्गणेन, उदवसन उत्सन्ना बभूवुः किल ॥ ७ ॥ तस्य तत्र जातामासक्ति प्रपञ्चयति अहो इत्यादिना इति कृतानुषङ्ग इत्यन्तेन । अहो इत्याश्रर्थे । बत इति खेदे । अयं एणकुणको हरिणबालकः, ईश्वररथचरणः कालचक्र यस्य परिभ्रमणं तस्य रयो । वेगस्तेन, स्वस्य गणो यूथं च सुहृदश्व बन्धवश्च तेभ्यः, परिवर्जितः, अत एव कृपणो दीनः मा मां शरणं उपसादितः प्राप्तश्च मामेव मातापितरौ, भ्रातृज्ञातीन, यौथिकान् संघातिनश्च मत्वा एव उपेयाय प्राप्तः । अन्यं कंचन न वेद मातृपित्रादिभावेन न जानाति । मयि अतिविस्रब्धो विश्वासं प्राप्तश्च, अत एव मत्परायणस्य मदेकशरणस्यास्य, पोषणपालनप्रीणनलालनं, अनसूयुना असूयारहितेन, शरण्यस्य शरणागतस्य या उपेक्षा तस्यां यो दोषस्तं विद्वान् ज्ञाता तेन, मया एव अनुष्ठेयमवश्यं कर्त्तव्यम् ॥ ८ ॥ स्क. ५. अ. ८ श्लो. ९-१६ 1 अनेकव्याख्यासमलङ्कृतम् भाषानुवादः भरतजीका मृगके मोहमें फसकर मृग-योनि में जन्म लेना
१६३ * अभी वह जल पी ही हरिनजाति तो स्वभावसे ही उसके कानमें वह भीषण शब्द पड़ा शुकदेवजी कहते हैं—एक बार भरतजी गण्डकी में स्नान कर नित्य नैमित्तिक तथा शौचादि अन्य आवश्यक कृत्योंसे निवृत हो प्रणव का जप करते हुए तीन मुहूर्त्ततक नदीकी धाराके पास बैठे रहे ॥ १ ॥ * * राजन् ! इसी समय एक हरिनी प्याससे व्याकुल हो जल पीनेके लिये अकेली ही उस नदीके तीरपर आयी ॥ २ ॥ रही थी कि पास ही गरजते हुए सिंहकी लोकभयङ्कर दहाड़ सुनायी पड़ी ॥ ३ ॥ डरपोक होती है । वह पहले ही चौकन्नी होकर इधर-उधर देखती जाती थी। अब ज्यों ही कि सिंहके डर के मारे उसका कलेजा धड़कने लगा और नेत्र कातर हो गये । प्यास अभी बुझी न थी । किन्तु अब तो प्राणोंपर आ बनी थी । इसलिये उसने भयवश एकाएकी नदी पार करनेके लिये छलाँग मारी ॥ ४ ॥ * * उसके पेटमें गर्भ था, अतः उछलते समय अत्यन्त भयके कारण उसका गर्भ अपने स्थानसे हटकर योनिद्वारसे निकलकर नदीके प्रवाह में गिर गया ॥ ५ ॥ ** वह कृष्णमृगपत्नी अकस्मात् गर्भके गिर जाने, लंबी छलाँग मारने तथा सिंहसे डरी होनेके कारण बहुत पीड़ित हो गयी थी । अब अपने झुंडसे भी उसका बिछोह हो गया, इसलिये वह किसी गुफामें जा पड़ी और वहीं मर गयी || ६ || * * राजर्षि भरतने देखा कि बेचारा हुरिनीका बच्चा अपने बन्धुओंसे बिछुड़कर नदीके प्रवाह में बह रहा है। इससे उन्हें उसपर बड़ी दया आयी और वे आत्मीयके समान उस मातृहीन बच्चेको अपने आश्रमपर ले आये ॥ ७ ॥ * * उस मृगछौनेके प्रति भरतजीकी ममता उत्तरोत्तर बढ़ती ही गयी । वे नित्य उसके खाने-पीनेका प्रबन्ध करने, व्याघ्रादिसे बचाने, लाड़ लड़ाने और पुचकारने आदिकी चिन्तामें ही डूबे रहने लगे। कुछ ही दिनोंमें उनके यम, नियम और भगवत्पूजा आदि आवश्यक कृत्य एक-एक करके छूटने लगे और अन्तमें सभी छूट गये ॥ ८ ॥ ॥
अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहं वन्धुभ्यः परिवर्जितः शरणं व मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन् यौधिकांश्चैवोपेयाय नान्यं कञ्चन वेद मय्यतिविस्रब्ध श्रात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा ।। ९ ॥ नूनं ह्यार्याः साधव उपशम- शीलाः कृपणसुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १० ॥ इति कृतानुषङ्ग आसनशयनाटनस्था नाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ॥ ११ ॥ कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो चूक सालावका- दिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समाविशति ॥ १२ ॥ पथिषु च मुग्ध भावेन तत्र तत्र विषक्त- मतिप्रणयभरहृदयः कापण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप ।। १३ ।। क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति ॥ १४ ॥ अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणक- विरहविह्वलहृदयसन्तापस्तमेवानुशोचन् किल कश्मलं महदभिरम्भित इति होवाच ॥ १५ ॥ अपि चत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकि” रातमतेर कृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन इवागमिष्यति ॥ १६ ॥ अन्वयः - अहो बत अयम् ईश्वररथचरणपरिभ्रमणरयेण कृपणः हरिकुणकः स्वगणसुहृदबंधुभ्यः परिवर्जितः माचि शरणं उपसादितः माम् एव मातापितरौ भ्रातृज्ञातीन् च यौथिकान् उपेयाय अन्यम् कञ्चन न वेद च मयि अतिविस्रब्धः अत एव शरण्योपेक्षादोषविदुषा अनसूयुना मया मत्परायणस्य पोषणपालनप्रीणनलालनम् अनुष्ठेयम् ॥ ९ ॥ * * हि नूनं आर्याः उपशमशीलाः उपशमशीलाः कृपणसुहृदः साधवः एवंविधार्थे गुरुतरान स्वार्थान् अपि उपेक्षन्ते ।। १० ।। * * इति कृतानुषङ्गः आसनशयनाटनस्थानाशनादिषु मृगजहुना सह स्नेहानुबद्धहृदयः आसीत् ॥ ११ ॥ यदा वृकसाला- वृकादिभ्यः भयम् आशंसमानः कुशकुसुमसमित्पलाशफलमूलोदकानि आहरिष्यमाणः वनम् समाविशति हरिणकुणकेन सह * १. २० प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० – ५. ६० प्रा० पा० - ७. प्रा० पा०- ८. प्रा० पा० ९. प्रा० पा० १०. प्रा०पा० - ११. प्रा० पा० - १२. प्रा० पा० - १३. प्रा० पा० - mean Pathrum श्रीमद्भागवतम् ૧૬૪ [स्कं. ५भ. ८ श्लो. ९-१६ ॥ १२ ॥ * * अतिप्रणयभरहृदयः पथिषु च मुग्धभावेन तत्र तत्र विषक्तम् कार्पण्यात् स्कन्धेन उद्वहति एवम् उत्सङ्गे च उरसि आधाय उपलालयन् परमाम् मुदम् अवाप ।। १३ । वाव सः वर्षपतिः क्रियायाम् निर्वर्त्यमानायाम् अन्तराले अपि उत्थाय उत्थाय यदा एनम् अभिचक्षीत तर्हि प्रकृतिस्थेन मनसा वत्स ते सर्वतः स्वस्ति स्तात् इति तस्मै आशिषः षः आशास्ते ॥ १४ ॥
- अन्यदा भृशम् उद्विग्नमनाः कृपणः नष्टद्रविणः इव अतितर्षेण हरिणकुण कविरहविह्वल- हृदयसन्तापः महत् कश्मलम् अभिरम्भितः तम् एव अनुशोचन् किल इति ह उवाच ।। १५ ।। * * अहो बत वै सः कृपणः मृतहरिणीसुतः एणबालकः अनार्यस्य शठकिरातमतेः अकृतसुकृतस्य मम तत् अविगणयन् आत्मप्रत्ययेन कृतवित्रम्भः सुजनः इव आगमिष्यति अपि ॥ १६ ॥ ॥ tee The BET श्रीधरस्वामिविरचिता भावार्थदीपिका gmai 24 आसक्ति प्रपञ्चयति अहो इत्यादिना इति कृतानुषंग इत्येतत्पर्यंतेन । ईश्वररथचरणः कालचक तस्य परिभ्रमणवेगेन । तस्य स्वगणादिभ्यो विभ्रंशितः । मा इति मां च शरणं प्रापितः । मामेव मातापित्रादिबुद्धयोपेयाय प्राप्तः । यौथिकान्यूथसंघातिनः । अनसूयुना एतन्निमित्तं मम स्वार्थी भ्रश्यतीति दोषदृष्टिमकुर्वता ॥ ९ ॥ * तदेवाह नूनं हीति ।। १० । इत्येवं कृतोऽनुषंग आसक्तिर्येन । मृगजहुना मृगापत्येन सह स्नेहेनानुबद्धं हृदयं येन ॥ ११ ॥ * * स्नेहानुबन्धमेव प्रपंचयति कुशकुसुमेत्यादिना स्वधयतीत्यंतेन । सालाबूकाः श्वानः । यदा भयं शंकमानो भवति तदा तेन सह वनं समाविशति ॥ १२ ॥ अतिशयितः प्रणयभरो यस्य तदूहृदयं यस्य सः || १३ ॥ क्रियायां देवपूजादिलक्षणायाम् । वर्षपतिर्भरतः । प्रकृतिस्थेन स्वस्थेन । स्तात् भूयात् ॥ १४ ॥ * * अन्यदाऽदर्शने सकरुणं यथा भवत्येवमनुशोचन्निति होवाचे- त्यन्वयः । अतितर्षेणात्यौत्सुक्येन । हरिणकुणकविरहेण विह्वले हृदये संतापो यस्य । कश्मलं मोहं प्रापितः सन् ।। १५ ।। & अपीति संभावनायाम् । बतेत्यनुकंपायाम् । अहो इति खेदे । शठकिरातयोरिव वंचनपरा क्रूर। च मतिर्यस्याकृतसुकृतस्य निर्मा- ग्यस्य मम तच्छायादिकमगणयन्नचितयन्नागमिष्यति किम् । अपराधाचिंतने हेतुः । आत्मप्रत्ययेन स्वचित्तशुद्धया कृतविश्वासः । सन्सुजनो यथा न गणयति तद्वत् ॥ १६ ॥ I shame पशु ॥ ॥ । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ।। ॥ ‘शरणस्य परित्यागे महापातकयुम्भवेत्” इत्यादिस्मृतिपरिभाषितं दोष ज्ञातवता ॥ ९ ॥ * * तदेव शरण्यानु- पेक्षणमेव । एवंविधार्थे दोनपालनादिलक्षणकर्मणि । गुरुतरान्बहुलाभयुतानपि ॥ १० ॥ * “अल्पापत्ये जहुः प्रोक्तम्” इति तीर्थः ॥ ११ ॥ * * “वृको ब्याघ्रे कपिक्रोष्टुवानः शालाहकाः स्मृताः” इत्यभिधानात् । आदिना सिंहादिग्रहः । तोर्थस्त्वत्र यदेति न पपाठ ॥ १२ ॥ ॐ * तत्र तत्र महाकर्दम परितले कोमले ।। तत्र तत्र महाकर्दमोपरितले कोमले तृणादौ मुग्धभावेन कर्दममध्ये निमज्जामीति ॥ ॥ * * क्रियायां भगवत्परिचर्यायामपि । अंतरालेऽपि । अभिचक्षीत “न जाने क गतो मे हरिणबालकः” इत्युत्थाय पश्येत् । प्रकृतिस्थेन तद्दर्शनानंदप्राप्त्यर्थम् ।। १४ ।। * * देवाददर्शने सति ।। १५ ।। * * सुजन इव ‘आत्मवन्मन्यते जगत्’ इति न्यायेन स्वस्य शुद्धचित्तत्वात्त्वामपि शुद्धचित्तं प्रतियन्नित्यर्थः ।। १६ ।। F कुलि ज्ञानराहित्येन विषज्जमानम् ॥ १३ ॥ षमानमपश्येत । श्रीमद्वीरराघवव्याख्या ॥ ॥ कठकी तदासक्तिं प्रपञ्चयति अहो इत्यादिना इति कृतानुषङ्ग इत्यन्तेन । अयं हरिणकुणकः ईश्वररथचरणं कालचक्रं तस्य परिभ्रमणवेगेन स्वगणादिभ्यो विवर्जित अत एव कृपणो दीनोऽयं मां शरणमासादितः प्राप्तश्च मामेव मातापित्रादिबुद्ध्या उपेयाय प्राप्तः यूथिकाः सङ्घातिनः मोपेयाय मामेव गोपायनं गोप्तारमधिकं मन्वानः मत्तोऽन्यं कश्चन गोप्तारं न वेद मय्येवातिविस्रब्धाऽतितरां विश्वासयुक्ता मतिर्यस्य सः । अतः कारणादेवं मत्परायणस्य मदेकशरणस्य हरिणकुणकस्य पोषणादिकम् एतस्मिन्निमित्तं मम स्वार्थो नश्यतीत्यसूयारहितेन मयावश्यमनुष्ठेयं हि यस्माच्छरण्योपेक्षा शरणागतानादरः विदुषां दोषः प्रत्यवायकरः यद्वा शरणं गन्तव्या शरण्या रक्षकत्वेन विश्वसनीयास्तेषामुपेक्षा शरणागतविषयेष्वनादरः विदुषां दोष इति ॥ ९ ॥
अत एवार्याः साधवः परोपकारशीलाः उपशमस्वभावाः कृपणेषु सुहृदः सौहार्दवन्त एवंविधार्थे शरणागतरक्षणार्थे स्वार्थान् स्वप्रयोजनानि गुरुतरानपि उपेक्षन्ते गुरुतरानपि प्रयोजनमनादृत्यैवंविधशरणागतरक्षणं कुर्वन्ति नूनमित्येवं कृतानुषङ्गः कृत अनुषङ्गः आसक्तिर्येन भरतः आसनाद्यवत्थासु तत्रासनमुपवेशनमटनं सञ्चरणमशनं भोजनं कन्दमूलादीनां मृगापत्येन सह स्नेहस्तेनानुविद्धं हृदयं येन तथाभूत आसीत् ॥ १० ॥
स्नेहानुबन्धमेवाह कुशकुसुमेत्यादिना स्वदयन्तीत्यन्तेन । कुशादीन्याहरिष्यमाणः यदि मृगेण विना गच्छामि चेत्तर्ह्येनं वृकादयो भक्षयेयुरिति बुद्धया सालावृकादिभ्यो भयमाशङ्कमानः सालावृका अरण्यश्वानः, हरिणकुणकेन सहैव वनं प्रविशति पथि पथि च मुग्धभावेन सौकुमार्येण औत्कण्ठ्येन वा विषक्तमतिरासक्तमतिर्वा गन्तुमसमर्थो भवति नेच्छति वा मृगस्तदा तं प्रणयस्य स्नेहस्योत्कर्षो यस्मिंस्तदुद्धृदयं यस्य तथाभूतो भरतः कार्पण्यान्मृगविश्लेषजडः स्वासहिष्णुत्वरूपादैन्यात् स्कन्धेनोद्वहति स्कन्धयोरारोप्य गच्छति एवमासनसमये उत्सङ्गे शयनसमये उरसि चाधाय परमां मुदमवाप प्राप्तवान् ॥ ११-१३ ॥
क्रियायां नित्यनैमित्तिकादिक्रियायां निर्वर्त्यमानायां क्रियमाणायां सत्यामन्तराले मध्ये क्षणे क्षणे उत्थायोत्थाय यदैनं मृगमभिचक्षीत पश्यति तर्हि वा तदा हि स वर्षपतिः भरतः प्रकृतिस्थेन मनसा तस्मै मृगाय आशिष आशास्ते आशीराशासनमेवाह स्वस्तीति । हे वत्स ! ते तुभ्यं सर्वतः सर्वत्र देशे काले च स्वस्ति स्यादिति आशास्ते । स्तादिति पाठे प्ययमेवार्थः ॥ १४ ॥
अन्यथा मृगस्यादर्शने तु सकरुणं यथा भवति तथा एवमनुशोचन्निति वक्ष्यमाणप्रकारेण प्रोवाचेत्यन्वयः । कथम्भूत अनुशोचन्नष्टधन इव नितरां भीतमना अतितर्षेणौत्सुक्येन हरिणकुणकसेवाविरहेण विह्वले हृदये सन्तापो यस्य महत्कश्मलं मोहमभिलम्भितः प्रापितः ॥ १५ ॥
किमुवाच तदाह अपीति । मम तदनार्यत्वादिकमविगणयन् कृतः विश्रम्भो येन तथाभूत एवात्मप्रत्ययेन स्वबुद्ध्या एव सुजन इवागमिष्यत्यपि आगच्छेत् किं, क्षेमेण वृकादिभिरनुपहतं तत्र हेतुः दैवेन भगवता गुप्तं रक्षितं मदाश्रमसमीपवने शष्पाणि कोमलतृणानि चरन्तं भक्षयन्तमपि द्रक्ष्यामि ॥ १६-१७ ॥
- PIERRE श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली क ॥।
ईश्वररथचरणस्य कालचक्रस्य परिभ्रमणरयेण गमनागमनवेगेन सा मां गोपायनं गोप्तारं रक्षिवारं शरणं प्राप्तस्योपेक्षया महान दोषो भवतीति दोषविदुषा ॥ ९ ॥ * मृगपोषणादिना भगवदुपासनाभङ्ग इति तत्राह । नूनमिति ॥ १० ॥ * * । ** इत्युक्तप्रकारेण कृतानुषङ्गः कृतस्नेहाभिनिवेशः मृगजहुना मृगबालकेन ॥ ११ ॥
- || || ४ ॥। १२-१३ ।। * वर्षपतिः भरतखण्डनाथः प्रकृतिस्थेन अत्युत्कण्ठया कश्मलं विषादम् अभिरम्भित आश्रितः ॥ १५ ॥ विगणयन्नविचिन्तयन् स्वजनः पुत्र इव ॥ १६ ॥
स्वस्थेन ॥ १४ ॥ आहरिष्यमाण आनयिष्यन् * अन्यदा अदर्शने अतितर्षेण ॐ आत्मप्रत्ययेन स्वमनः शुद्धया तन्ममौदासीन्यम- श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी आसक्ति प्रपञ्चयति अहो इत्यादिना इति कृतानुषङ्ग इत्येतत् पर्यन्तेन । ईश्वरस्य रथचरणः कालचक्रं तस्य परिभ्रमण- वेगेन परिवर्जितः वियोजितः मा मामू अनसूयुना एतन्निमित्तं मम स्वार्थो भ्रश्यतीति दोषदृष्टिमकुर्वता शरण्यकर्तृकोपेक्षायां दोषं जानता ॥ ९ ॥ * * यत एष एव मे वस्तुतः स्वार्थ इत्याह । नूनमिति ॥ १० ॥ * * अनुषङ्ग आसक्तिः मृगजहुना मृगापत्येन ॥ ११ ॥ स्नेहानुबन्धमेव प्रपनयति कुशकुसुमेति । शालावकाः कपिक्रोष्टुश्वानः तदादिभ्यः ।। १२ ।। * * तत्र तत्र महाकर्द्दमोपरितले कोमलतृणादौ मुग्धभावेन कर्द्दममध्ये निमत्यामीति ज्ञानराहित्येन विषक्तमासक्तम् ॥ १३ ॥ क्रियायां भगवत्परिचर्यायामपि अन्तराले मध्येऽपि अभिचक्षीत न जाने क गतो मे हरिणबालक इति उत्थाय पश्येत् प्रकृतिस्थेन तद्दर्शनानन्दप्राप्त्यर्थम् ॥ १४ ॥ * * अन्यदा देवाददर्शने सतीत्यर्थः । अतितर्षेण तद्दर्शनातितृष्णया कश्मलं मोहमभिरम्भितः प्रापितः ॥ १५ ॥ * * अपोति सम्भावनायां बतेत्यनुकम्पायाम् अहो इति खेदोत्थे आश्चर्ये । अनार्यस्य तत्पालनपोष गादावसावधानत्वान्निर्दयस्यात एव शठकिरातयोरिव क्रूरा मतिर्यस्य तत्र हेतुरकृतसुकृतस्य भाग्यहीनस्य मम तन्निईयत्वादिकमपराधमगणयन आगमिष्यति ? किमपराधाराणने हेतुः आत्मप्रत्ययेन ‘आत्मवन्मन्यते जगदिति न्यायेन स्वस्य शुद्धचित्तत्वान्मामपि शुद्धचित्तं प्रतियन्नित्यर्थः । अत एव कृतविस्रम्भः अविश्वास्येऽपि मयि विश्वस्तः सन् ॥ १६ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ।। ।। ईश्वरस्य रथचरणः कालचक्रं तस्य भ्रमणवेगेन मोपसादितः ॥ ९-१० ॥ * * कृतोऽनुषङ्गोऽनुरागो येन सः ॥ ११ ॥ * शालावृकः श्वा ॥ १२ ॥ अति अतिशयितः प्रणयभरो यस्य तद्धृदयं यस्य सः ॥ १३ ॥ ॥ ४ * * प्रकृतिस्थेन स्वभावस्थेन स्तात् स्यात् ॥ १४ ॥ * * अन्यदा तददर्शने सकरुणं यथा स्यात्तथा तमेवानुशोचन् महत्कश्मलं कष्टमभिरम्भितः प्राप्तः सन् इति वक्ष्यमाणमुवाच ॥ १५ ॥ शठकिरातयोरिव मन्दा निर्दया च मतिर्यस्य मम तदनार्यत्वाद्यगणयन्नागमिष्यति किम् ।। १६ ।। TIME JASA FUNTRIES गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी आसक्तिमेव तदभिप्रायप्रदर्शनेन प्रकटयति अहो इत्यादिना इति कृतानुषज्ञ इत्यतः प्राक्तनेन प्रन्थेन । अहो इत्याश्चर्ये । बतेति खेदे । अयं हरिणकुणकः मृगबालकः कृपणः दीनः यत ईश्वरस्थचरणः कालचक्रं तस्य परिभ्रमणवेगेन स्वगणसुहद्रन्धुभ्यः परिवर्जितः भ्रंशितः मा मां च शरणमुपसादितः प्रापितः अतो मामेव मातापितरौ भ्रातृज्ञातीन् यौधिकान् यूथसङ्घातिनश्च १६६ श्रीमद्भागवतम् 3. - [स्क. ५ अ. ८ श्लो. ९-१६ मोपेयाय प्राप्तोऽन्यं कञ्चनापि नैव वेद नैव जानाति मय्यतिविश्रब्धः कृतातिविश्वासश्च अत एव मयाऽपि शरणागतोपेक्षादो- पविदुषा अनसूयुना एतन्निमित्तं मम स्वार्थो भ्रश्यतीति दोषदृष्टिमकुर्वता अस्य मत्परायणस्य शरणागतस्य पोषणाद्यनुष्ठेयमित्यन्वयः । शरणागतोपेक्षायां दोषचोक्तश्चतुर्थस्कन्धे - ‘ब्राह्मणः समहक शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा’ इति ।। ९ ।। * * अतो नूनं हि निश्चितमेव आर्याः शिष्टाः साधवः परलोकसाधनपरा उपशमशीलाः सर्वतो विरक्ता अपि कृपणसुहृदः दीने दयायुक्ताः सन्त एवंविधेऽर्थे परोपकार प्रसङ्गे प्राप्ते गुरुतरान्महतोऽपि स्वार्थानुपेक्षन्ते तानुपेक्ष्य परोपकारे यतन्ते इत्यर्थः ।। १० ।। इत्येवं कृतोऽनुषङ्गः मृगे आसक्तिर्येन स आसनादिषु मृगजहुना मृगापत्येन सह स्नेहेनानुबद्धं हृदयं येन स तथाभूत एवासीदित्यर्थः ॥ ११ ॥ * * स्नेहानुबन्धमेव प्रपञ्चयति कुशकुसुमेत्यादिना स्वधयतीति चेत्यन्तेन । शालावकाः श्वानः कुशाद्याहरिष्यमाणो यदा वृकशाला वृकादिभ्यो भयमाशंसमान आशङ्कमानो भवति तदा हरिणकुणकेन सहैव तमादायैव वनं समाविशति ।। १२ ।। * * यदा च मुग्धभावेन बाल्यस्वभावेन स पथिषु मार्गे मार्गे तत्र तत्र विषक्तः स्थितो भवति तदा तस्मिन्नतिशयितः प्रणयस्य स्नेहस्य भरो यस्य तथाभूतं हृदयं यस्य सः कार्पण्यात् स्नेहगारवश्यात् तं स्कन्धेनो- द्वहति ॥ १३ ॥ * संस्थाप्य परमां ॥ ॥ भगवत्पूजादिरूपायां निर्वर्त्यमानायां क्रियमाणायामन्तराले तन्मध्येऽप्युत्थाय यदैनं मृगपोतमभिचक्षीत सम्यक् पश्यति तर्हि वाव तदेव स वर्षपतिर्भरतखण्डाधिपतिर्भरतः प्रकृतिस्थेन मनसा हे वत्स ते तव सर्वतः स्वस्ति स्तात् भूयादिति तस्मा आशिष आशास्ते प्रार्थयते इत्यन्वयः ॥ १५ ॥
- अन्यदा यदा मृगस्वभावात् सः स्वस्थानाद्विनिर्गतस्तदा तददर्शनसमये भृशमुद्विग्नं व्याकुलं मनो यस्य सः । तत्र हेतुमाह-अतितर्षेणात्यौत्सुक्येन हेतुना हरिणकुणकविरहेण विह्वले हृदये सन्तापो यस्य सः । सकरुणं सदैन्यं यथा भवति तथा तमेवानुशोचन् किल महत्कश्मलं मोहमभिरम्भितः प्रापितः सन्निति वक्ष्यमाणं होवाचेत्यन्वयः । किलेत्याश्चर्ये । ह खेदे | मोहप्राप्तौ दृष्टान्तमाह नष्टेति । कृपणो धन प्राप्य पुनस्तस्मिन्विनष्टे यथा मोहं प्राप्नोति तद्वदित्यर्थः ॥ १६ ॥
- एवमुत्सङ्गादिष्वाधाय तन्मध्येऽध्यस्था मुदमवाप ॥ १४ ॥ * * क्रियायां ४ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी नूनमिति । उपशमशीलाः उपशमस्वभावाः, कृपणसुहृदः दीनेषु सौहार्दवन्तः, आर्याः श्रेष्ठाः साधवः परोपकारशीलाः, एवंविधार्थे शरणागतरक्षणार्थमित्यर्थः । गुरुतरानतिमहतोऽपि स्वार्थान्स्वप्रयोजनानि । उपेक्षन्ते । गुरुतराण्यपि प्रयोजनान्यना- दृत्यैवंविध शरणागतरक्षणं कुर्वन्तीत्यर्थः । नूनम् । इत्येवं कृतोऽनुषङ्ग आसक्तिर्येन तथाभूतः सन् भरतः आसनमुपवेशनं च शयनं स्वापाचरणं च अटनं गमनं च स्थानमवस्थानं च अशनं भोजनविधानं च तान्यादयो यासां तासु क्रियासु, मृगस्य जहुरपत्यं तेन सह स्नेहेनानुरागेणानुबद्धं हृदयं यस्य तथाभूतः आसीत् हि ॥ ९ ॥ * स्नेहानुबन्धमेव प्रपञ्चयति कुशकुसुमेत्यादिना स्वधयतीत्यन्तेन । कुशाश्व कुसुमानि च समिधश्च पलाशानि च फलानि च मूलानि च उदकं च तानि, आहरिष्यमाणः, यदा भवति तदा, वृका ईहामृगाश्च शालवृका अरण्यश्वानश्च ते आदयो येषां तरक्षुप्रभृतीनां तेभ्यः, भयं आशङ्कमानः, यदि मृगेण विना गच्छामि तर्हि एनं वृकादयो भक्षयेयुरित्याशङ्कमानः सन्, हरिणकुणकेन सह, वनमरण्यं, समाविशति प्रविशति । यदा पथि पथि, मुग्धभावेन मूढत्वेन, तत्र तत्र विषक्तमतिः मृगः भवति, तदा प्रणयस्य स्नेहस्य भरोऽतिशयो यस्मिंस्तथाविधं हृदयं यस्य तथाभूतो भरतः कार्पण्यात् मृगविश्लेषजदुःखासहिष्णुत्वरूपादैन्यात्, तं स्कन्धेनोद्वहति स्कन्धे आरोप्य गच्छति । एवमेव, उत्सङ्गे उरसि च, आधाय उपलालयन्सन् परमां मुदं अवाप प्राप्तवान् ॥ १० ॥ * * क्रियायामिति । क्रियायां नित्य- नैमित्तिक्यां, निर्वर्त्यमानायां क्रियमाणायां सत्याम्, अन्तराले मध्येऽपि, उत्थायोत्थाय क्षणे क्षणे अभ्युत्थानं कृत्वा, यदा एनं मृगं अभिचक्षीत पश्येत्, तर्हि वा व तदानीमेव, वर्षपतिः भरतखण्डाधिनाथः, स भरतः, प्रकृतिस्थेन यथावस्थेन, मनसा तस्मै मृगाय, हे वत्स, ते तुभ्यं, सर्वतः सर्वेषु देशेषु कालेषु च स्वस्ति, स्तात् इति आशिषः आशास्ते ।। ११ ।। * * अन्यदेति । अन्यदा मृगस्यादर्शने, भृशमतिशयेन, उद्विग्नमनाः सोद्वेगमानसः, नष्टं द्रविणं यस्य स नष्टमहादुःखाप्तधनः इव तमेव चिन्तयन्निति शेषः । कृपणो दीनतोपेतः, अतितर्षेणात्यौत्सुक्येन, सकरुणं यथा तथा, तँ एव अनुशोचन्, हरिणकुणकस्य विरहः सेवावियोगस्तेन विह्वलं व्याकुलं च तद्धृदयं च तस्मिन् संतापो यस्य सः किल निश्चितमेव । महदतिशयित कश्मलं मोह अभिरम्भितः प्राप्तः सन्, इति ते। । वक्ष्यमाणप्रकारेण ह स्फुटं यथा तथा, उवाच ।। १२ ।। * * किमुवाच तदाह अपीति । अपीति संभावनायाम् । बतेत्यनुकम्पायाम् । अहो इति खेदे । स वै कृपणः एणबालकः, तत्रापि मृतहरिणीसुतः, अनार्यस्य असाधोः, अत एव शठकिरात- वन्मतिर्वश्वनपरा क्रूरा च बुद्धिर्यस्य तस्य, न कृतं सुकृतं येन तस्य निर्भाग्यस्य, मम तच्छाठ्यादिकं अविगणयन् मनसा न विचि- न्तयन् आत्मप्रत्ययेन स्वचित्तशुद्धया, कृतः विस्रम्भो विश्वासो येन तथाभूतः सन् सुजन इव आगमिष्यति किम् । सुजनो यथाऽन्यदीयमपराधं न गणयति प्रत्युत विश्वस्तः सन्स्वयमागच्छति तद्वदायास्यति किमित्यर्थः ॥ १३ ॥ * * अपीति । किं च अस्मिर आश्रमोपवने, देवेन गुप्तो रक्षितस्तं शष्पाणि हरिततृणानि, चरन्तं भक्षयन्तं क्षेमेण वर्त्तमानमेनमिति शेषः । द्रक्ष्यामि अपि । विलोकयिष्यामि किम् ॥ १४ ॥ अपि चेति । किं च नैकचरो यूथचरः सूकरादिः अथवा एकचरोऽति- है
॥ स्कं. ५ अ. ८ श्लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् १६७ क्रूरस्वभाव एकचारी व्याघ्रादिः, वा वृकः कोकः शालावृकः श्वा “शालावृकाः कपिक्रोष्टुश्वानः” इत्यमरः । अन्यतमो वा न भक्षयति अपि किम् । वृकादिभिर्भक्षितो न स्यात्किमित्यर्थः ॥ १५ ॥ निम्लोचतीति । सकलजगतां सकललोकानां क्षेमो यस्मात्त- । थाविध उदयो यस्य सः, त्रयी वेदत्रयी आत्मा स्वरूपं यस्य सः, भगवान् सूर्यः, निम्लोचत्यस्तं याति । तथापि, मम मृगवधून्यासः मृगवध्वा निःक्षेपभूतो मृगः न आगच्छति हि ॥ १६ ॥ ।। भाषानुवादः भाषानुवादः * उन्हें ऐसा विचार रहने लगा- ‘अहो ! कैसे खेदकी बात है ! इस बेचारे दीन मृगछौनेको कालचक्र के वेगने अपने झुंड, सुहृद और बन्धुओंसे दूर करके मेरी शरण में पहुँचा दिया है। यह मुझे ही अपना माता-पिता, भाई-बन्धु और यूथ के साथी सङ्गी समझता है। इसे मेरे सिवा और किसीका पता नहीं है और मुझमें इसका विश्वास भी बहुत है । मैं भी शरणागतकी उपेक्षा करनेमें जो दोष हैं, उन्हें जानता हूँ । इसलिये मुझे अब अपने इस आश्रितका सबै प्रकारकी दोषबुद्धि छोड़कर अच्छी तरह पालन-पोषण और प्यार-दुलार करना चाहिये ॥ ९ ॥ * * निश्चय ही शान्तस्वभाव और दीनोंकी रक्षा करनेवाले परोपकारी सज्जन ऐसे शरणागतकी रक्षाके लिये अपने बड़े-से-बड़े स्वार्थ की भी परवा नहीं करते’ ।। १० । इस प्रकार उस हरिनके बच्चे में आसक्ति बढ़ जानेसे बैठते, सोते, टहलते, ठहरते और भोजन करते समय भी उनका चित्त उसके स्नेहपाश में बँधा रहता ।। ॥ ता था ॥ ११ ॥ * * जब उन्हें कुश, पुष्प, समिधा, पत्र और फल- मूलादि लाने होते तो भेड़ियों और कुत्तोंके भय से उसे वे साथ लेकर ही वनमें जाते ॥ १२ ॥ * * मार्ग में जहाँ-तहाँ कोमल घास आदिको देखकर मुग्धभावसे वह हरिण- शावक अटक जाता तो वे अत्यन्त प्रेमपूर्ण हृदयसे दयावश उसे अपने कंधेपर चढ़ा लेते। इसी प्रकार कभी गोद में लेकर और कभी छातीसे लगाकर उसका दुलार करने में भी उन्हें बड़ा सुख मिलता ॥ १३ ॥ * * नित्य नैमित्तिक कर्मों को करते समय भी astra || राजराजेश्वर भरत बीच-बीचमें उठ उठकर उस मृगबालकको देखते और जब उसपर उनकी दृष्टि पड़ती, तभी उनके चित्तको शान्ति मिलती। उस समय उसके लिये मङ्गलकामना करते हुए वे कहने लगते - बेटा ! तेरा सर्वत्र कल्याण हो’ ।। १४ ।। * * कभी यदि वह दिखायी न देता तो जिसका धन लुट गया हो उस दीन मनुष्यके समान उनका चित्त अत्यन्त उद्विग्न हो जाता और फिर वे उस हरिनीके बच्चे के विरहसे व्याकुल एवं सन्तप्त हो करुणावश अत्यन्त उत्कण्ठित एवं मोहाविष्ट हो जाते तथा शोकमग्न होकर इस प्रकार कहने लगते ॥ १५ ॥ ‘अहो ! क्या कहा जाय ? क्या वह मातृहीन दीन मृगशावक दुष्ट बहेलियेक सी बुद्धिवाले मुझ पुण्यहीन अनार्यका विश्वास करके और मुझे अपना मानकर मेरे किये समान भूलकर फिर लौट आयेगा ।। १६ ।। ये हुए अपराधोंको सत्पुरुषोंके किय अपि क्षेमेणास्मिन्नाश्रमोपवने शध्याणि चरन्तं देवगुप्तं द्रक्ष्यामि ॥ १७ ॥ अपि च न वृकः सालावृकोड- न्यतमो वा नैकचर’ एकचरो वा भक्षयति ॥ १८ ॥ निम्लोच ति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति ॥ १९ ॥ अपिविदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिर- दर्शनीयनिजमृगदारक विनोदैर सन्तोषं स्वानामपनुदन् || २० || क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं प्रेमसंर- म्भेण चकितचकित आगत्य पृषदपरुषविषाणाग्रेण लुठति ।। २१ ।। आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहितकरणकलाप आस्ते ।। २२ ।। किंवा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपद पङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २३ ॥ अपिखिदसौ भगवानुडु- पतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति ॥ २४ ॥
- अस्मिन् आश्रमोपवने क्षेमेण देवगुप्तम् शष्पाणि चरंतम् द्रक्ष्यामि अपि ॥ १७ ॥ * * वा एकचरः वृकः सालावृकः वा अन्यतमः च न भक्षयति अपि ।। १८ ।। निम्लोचति अद्य अपि मम मृगवधून्यासः न आगच्छति ॥ १९ ॥ * * मृगदारकविनोदैः स्वानाम् असन्तोषम् अपनुदन् अकृतसुकृतम् माम् आगत्य नैकचरः सकलजगत्क्षेमोदयः भगवान् त्र्य्यात्मा ह हरिण राजकुमारः विविधरुचिरदर्शनीयनिज- अपिस्वित् सुखयिष्यति ॥ २० ॥ * * १. प्रा० पा० - २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ५. प्रा० पा० - ६. प्रा० पा - ७. प्रा० पा० - १६८ श्रीमद्भागवतम् ve [स्कं. ५. अ. ८ श्लो. १७-२४ वेलिकायाम् मृषासमाधिना आमीलितदृशम् माम् प्रेमसंरंभेण चकितचकितः आगत्य पृषदपरुषविषाणामेण लुठति ॥ २१ ॥ आसादितहविषि बर्हिषि दूषिते मया उपालब्धः भीतभीतः सपदि उपरतरासः ऋषिकुमारवत् अवहितकरणकलापः आस्ते ॥ २२ ॥ * अरे तपस्विन्या अनया किंवा तपः आचरितम् यत् इयम् अवनिः सविनय कृष्णसारतनयतनु- तरसुभगशिवतमाखरखुरपदपंक्तिभिः द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीम् च सर्वतः कृतकौतुकम् आत्मानम् सूचयन्ती स्वर्गापवर्गकामानाम् द्विजानाम् देवयजनम् करोति ॥ २३ ॥ असौ भगवान् उडुपतिः एनम् मृतमातरम् स्वाश्रम - परिभ्रष्टम् मृगबालकम् मृगपतिभयात् कृपणजनवत्सलः अनुकम्पया परिपाति अपिस्खित् ।। २४ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका शष्पाणि कोमलतृणानि ।। १७ ।। * * नैकचरो यूथचरः सूकरादिः यद्वा एक एव चरति यः क्रूरस्वभावो व्याघ्रादिर्न भक्षयति किम् ।। १८ ।। ४ * सकललोकस्य क्षेमो यस्मात्स उदयो यस्य वेदत्रयी आत्मस्वरूपं यस्य स सूर्यो निम्लोचत्यस्तं याति । मृगवध्वा न्यासो निक्षेपभूतः ॥ १९ ॥ हरिण एव राजकुमार आगत्य मामपिखित्सुख- यिष्यतीत्यन्वयः । किं कुर्वन् । विविधै रुचिरैर्दर्शनीयैर्निजैर्मृगदा रकविनोदेः स्वीयानां खेदमपनुदन् ॥ २० ॥ * संभवति चैतदित्याह । क्ष्वेलिकायां क्रीडायां मृषा यः समाधिस्तेनामीलिते दृशौ येन तं मां प्रेमसंरंभेण प्रणयकोपेन पृषज्जलबिंदुस्तद्वदपरुषेण मृदुना विषाणामेण लुठति संघट्टयति ।। २१ ।। * 8 आसादितं हविर्यस्मिन्बर्हिषि दर्भे दंताकर्षणादिना चापलेन दूषिते सति । दूषित्वेति पाठे बर्हिषि विषये दूषणं कृत्वेत्यर्थः । मयाऽधिक्षिप्तः संस्तत्क्षणमेवोपरतक्रीडो निश्चल आस्ते ॥ २२ ॥ इति बहुधा प्रलयोत्थाय बहिर्निर्गत्य तत्खुरखातभूभागोपलंभसंभ्रातहृदय आह । किं वेति । अरे अहो अनया क्षित्या किं वा तप आचरितं तपस्विन्या सभाग्यया । यद्यस्मादियं सविनयस्य कृष्णसारतनयस्य तनुतराः सुभगचि शिवतमाश्वाखराश्च खुरा येषु तेषां पदानां तत्र तत्रांकितानां पंक्तिभिर्द्रविणं मृगस्तेन रहितस्यात एवातुरस्य दुःखितस्य मम द्रविणमार्ग सूचयंती सती स्वात्मानं च ताभिः कृतमण्डनं द्विजानां देवयजनं यज्ञभूमिं करोति । “यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत’ इति स्मृतेः ॥ २३ ॥ * * तावदुदिते चन्द्रे मृगं दृष्ट्वा स्वमृगत्वं संभावयन्नाह । अपिस्विदिति ॥ २४ ॥ HOES HER RETENT श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः देवेन कृपालुनाम दिष्टदेवेन श्रीकृष्णेन रक्षितम् ॥ १७ ॥
- क तीर्थस्तु नैकचरोऽष्टपान्मृगविशेष इत्याह ऋ प्रेम्णैव ॥ १८ ॥ * * “त्रययेषा तपति” इति श्रुतेः । केवलमहमेव वेदोक्तदयाधर्मविमुख इति भावः ।। १९ ।। तहुणमुत्कीर्त्तयन्प्रलपति- अपीति ।। २० ।। * “पृषंति बिंदुपृषतः पुमांसो विषः स्त्रियाम्” इत्यमरः । रे मूढ त्वां पुष्यतो में श्रवणकीर्त्तनादि नित्यकृत्यं न निर्वहति तत्त्वं मया त्यक्तो यथेष्टमितो याहीति मृषैवाक्रुश्य मृषा समाधिनेति तचेष्टित- दिदृक्षायाः प्राबल्यात् । प्रेमसंरंभेण प्रणयकोपेन ॥ २१ ॥ * * दूषणं कृत्वा स्थितवतीत्यर्थः । आः कि करोषीति मयाऽधिक्षिप्तः ।। २२ ।। * * प्रेम्णैव भूभागेष्वारोपितमाहात्म्येन स्वं साधिक्षेपं संबोध्य विलपति - अरे मंदभाग्य भरत वृथातपस्विन् अनयाऽवन्या किं तप आचरितं तत्तपस्त्वया न तप्तमिति भावः । यद्वा-विशेषानुक्त्वा अरे चतुर्दशलोका श्रुत रे ब्रूत युष्मासु मध्येऽनयेति युष्माकमीदृशं तपो नास्तीति भावः । तनुतरेत्यादिविशेषणैस्तन्माधुर्यास्वादः स्वस्थ व्यंजितः । द्रविणपदवीं सूचयन्तीति । भो दुःखिन् भरत किं रोदिषि अनयैव खरक्षुण्णया पदव्यां वनं प्रविशत मृगबालकं स्वप्राणधनं प्राप्स्यसीति मां कृपयाश्वासयतीत्यर्थः ॥ २३ ॥ * स्वाश्रमात्परिभ्रष्टमिति । ममैव पापिष्ठस्यानवधानादिति भावः । भगवानिति । भगवत्त्वं विनेदृशं भाग्यं न संभवेदिति भावः ।। २४ ।। अपनी का जापन गिट ॥ ि श्रीमद्वीरराघव व्याख्या REF E FIRS वृकः शालावृको वा नैकचरो यूथचरो वराहादिसहायचरो व्याघ्रादिर्वा अपि न भक्षयति सकललोकानां क्षेमो यस्मात्स उदयो यस्य त्रयी वेद आत्मा स्वरूपं यस्य सः सूर्यो भगवान् निम्लोचत्यस्तं गच्छति किलाद्यापि मम मृगवधून्यासः निक्षेपभूतः मृगो नागच्छति हरिण एव राजकुमारः हरिणसम्बन्धिकुमारो वा आगत्य मामपि सुखयिष्यतीत्यन्वयः । किं कुर्वन् विविधैः रुचिरैर्दर्शनीयैर्मृगदारकविनोदैः स्वीयानां नः असन्तोषं खेदमपनुदन् ॥ १८-२० ॥
सम्भवति चैतदित्याह क्ष्वेलिकायां स्वेन सह क्रीडायां मृषा यः समाधिस्तेनामीलिते दृशौ येन तं प्रेमसंरम्भेण प्रणयकोपेन पृषज्जलबिन्दुः तद्वदपरुषेण मृदुना विषाणाग्रेण चकितं चकितं पुनः पुनः प्रतिहतं यथा तथा आवृत्य परितो व्यावृत्य लुठति सङ्घद्धृयति ॥ २१ ॥
आसादितं हविर्यस्मिन् बर्हिषि दर्भे दूषिते दन्ताकर्षणादिना चापलत्वेन दूषिते सति मयाधिक्षिप्तः सन् भीतः तत्क्षणमेव उपरतरासः निवृत्तक्रीडः अवहितः निश्चलीकृतः करणानामिन्द्रियाणां कलापो येन एवंभूतः ऋषेः कुमारवदास्ते ॥ २२ ॥
इति बहुधा प्रलयोत्थाय बहिर्निर्गतः सन् खुराघातभूभागोपलम्भसंभ्रान्तहृदयं आह । किं वेति । अरे अहो तपस्विन्या सम्भाव्यमानयाऽतया झित्या किं तप आचरितं यद्यस्मादियं क्षितिः सविनयस्य कृष्णसारतनयस्य तनुत्तराः सुभगाश्च शिवतमाश्च खराश्च कठिनाश्च खुराः येषु तेषां पातानां तत्राङ्कितानां पक्तिभिर्द्रविणं मृगस्तेन रहितस्यात एवातुरस्य दुःखितस्य मम द्रविणमार्गं सूचयन्ती सती स्वात्मानं च ताभिः पङ्क्तिभिः कृतमण्डनं स्वर्गापवर्गकामानां द्विजानां यज्ञभूमिं करोति “यस्मिन् देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत” इति स्मृतेः ॥ २३ ॥
उदिते चन्द्रे तस्मिन् मृगं दृष्ट्वा स्वमृगत्वं सम्भावयन्नाह अपिस्विदिति । सिंहभयान्मृता माता यस्य तं मदाश्रमात्परिभ्रष्टं मृगबालकं कृपणजनवत्सलोऽसौ भगवानुडुपतिश्चन्द्रः कृपयाऽपिस्वित्परिपाति ॥ २४ ॥
क्षेमेण सुखेन ॥ १७ ॥ * * * नैकचरः अष्टपान्मृगविशेषः ॥ १८ ॥ ४ ॥ ॥ * * निम्लोचत्यस्तं गच्छति मृगवधून्यासः मृगीनिक्षेपलक्षणोऽर्थः ॥ १९ ॥ विविधाश्च रुचिराश्च दर्शनीयाञ्च निजाः स्वजातिप्रयुक्ताश्च मृगदार- काणां मृगबालकानां ये विनोदा लीलाविशेषास्तैः ॥ २० ॥ * क्ष्वेलिकया मृगजातिक्रियया नादविशेषक्रियया वा प्रेमसंरम्भेण स्नेहोद्रेकेण प्रणयकोपेन वा सचकितं सभयं पृषतः कृष्णमृगः अपरुषविषाणाग्रेण कोमलशृङ्गमुखेन लुठति परिवर्तयति अभिमुखीकरोतीत्यर्थः । उपहन्तीति वा “लुठ उपघात” इति धातुः । लुण्ठतीति पाठे अनुष्ठानालस्यं करोति ‘लुठि आलस्ये’ ॥ २१॥ * * आसादितं अवरोपितं हविर्यस्मिंस्तत्तथा तस्मिन्बर्हिषि भक्षणादिना दूषिते सति उपालब्धो भर्सिंत उपरतरभसः शान्ताभिनिवेशः अत एवावहितकरणकलापः संवृतसर्वेन्द्रियव्यापार समूहः ॥ २२ ॥ ॐ 8 अनया भूम्या तप आचरित तत् किमिति शेषः, सविनयस्य कृष्णसारतनयस्य तनुतरा अतिशयेनाणवश्च सुभगाः सुन्दराश्च शिवतमाः सुखतमाश्च खराः परुषाच खुरा ये तेषां पदानां निक्षेप चिह्नानां । पङ्क्तिभिर्द्रविणविधुस्वदरिद्रवदातुरस्य न केवलं समोपकरोति किन्तु द्विजानामपीत्याह । आत्मानमिति । कृष्णसारतनेयस्य पदपङ्क्तिभिः कृतकौतुकं कृतमङ्गलमात्मानं द्विजानां देवयजनं च करोति इदं प्रयोत्याय बहिर्गत्वा पश्यतो हि वचनं “यस्मिन् देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत” इति स्मृतिः ॥ २३ ॥ * * अधुनेन्द्रदयेऽप्य- नागतं दृष्ट्वा तत्प्रलापप्रकारमाह अपिस्विदिति । उडुपश्चन्द्र एनं मृगबालकं परिपालयत्यपिस्विदित्यन्वयः ॥ २४ ॥ प श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
T REST OBE AF * देवेन कृपालुना मदिष्टदेवेनैव रक्षितम् ॥ १७ ॥ * नैकचरो यूथचरः सूकरादिः एक एव चरति यः क्रूरो व्याघ्रादिर्न भक्षयति किम् ॥ १८ ॥ निम्लोचति सम्प्रत्यस्तं याति सकलजगतामपि क्षेममुदयादेव यस्य सः केवल ममैव दुर्भगस्याक्षेममिति भावः । त्र्य्यात्मा वेदस्वरूपों वेदप्रवर्त्तको वा केवलमहमेव वेदोक्तदद्या धर्मविमुख इति भावः । मृगवध्वा न्यासो निक्षेपभूतः ॥ १९ ॥ प्रेम्णैव तद्गुणमुत्कीर्त्तयन् विलपति अपिस्विदित्यादिना । सुखयति ॥ सुखयिष्यति ।। २० ।। * क्ष्वेलिकायां क्रीडायां मृषासमाधिनेति रे मूढ ! त्वां पुष्यतो मे स्मरणकीर्त्तनादि नित्यकृत्यं न निर्वहति तत्त्वं मया त्यक्तो यथेष्टमितो याहीति मृषैवाश्मृषासमाधिनेति तचेष्टितदिक्षायाः प्राबल्यात् प्रेमसंरम्भेण प्रणयकोपेन | पृषत् जलबिन्दु स्तद्वदपरुषेण मृदुना विषाणाग्रेण लुठति संघट्टयति ॥ २१ ॥ आसादितं हविर्यस्मिन् तस्मिन् बर्हिषि दर्भे दन्तस्पर्शेन दूषिते सति दूषित्वेति पाठे बर्हिषि विषये दूषणं कृत्वा स्थित- वतीत्यर्थः । मयोपालब्धः आः किमरे करोषीत्यधिक्षिप्तः उपरतक्रीडः अवहितकरणकलापः निश्चलीकृतसर्वेन्द्रियः ॥ २२ ॥ इति बहुधा प्रलण्योत्थाय बहिर्निर्गत्य तत् खुरखातभूभागोपलब्ध्या प्रेम्णैवारोपितेन तत्र माहात्म्येन स्वं साधिक्षेप सम्बोध्य विलपति अरे मन्दभाग्य ! भरत ! वृथा तपस्विन् ! अनया अवन्या किं तप आचरितं तत्तपस्त्वया न तप्तमिति भावः । यद्वा विशे- षानुक्तया अरे चतुर्दशलोका ब्रूत रे बूत युष्मासु मध्ये अनयेति युष्माकमीदृशं तपो नास्तीति भावः । तनुतरेत्यादिविशेषणैस्तन्मा- gare: स्वस्य व्यञ्जितः द्रविणपदवीं सूचयन्तीति भो दुःखिन् ! भरत ! 5 किं रोदिषि अनयैव सुरक्षुण्णया पदव्या वन प्रविशन्तं मृगबालकं स्वप्राणधनं प्राप्स्यसीति कृपया मामाश्वासयतीत्यर्थः । आत्मानं स्वं च ताभिः पदपङ्किभिर्मण्डितत्वात् कृतकौतुकं देवयजनं यज्ञस्थलं करोति " यस्मिन् देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत” इति स्मृतेः ॥ २३ ॥ ऊध्र्वमव-
- लोक्य तत्रोपलब्धे चन्द्रे स्वमृगं सम्भावयन्नाह । अपि स्विदिति । स्वाश्रमात् परिभ्रष्टमिति ममैव पापिष्ठस्यानवधानादिति भावः भगवानिति भगवत्त्वं विना ईदृशं भाग्यं न सम्भवेदिति भावः ॥ २४ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ॐ 7: शष्पाणि बालतृणानि ।। १७ ।। * * नैकचरः यूथचः वराहादिः एकचरः व्याघ्रादिः ।। १८ ।। * & सकलजगतः क्षेमो यस्मात्स यस्य त्रय्यामृषिभिः स्तुत्यर्थं प्रोच्यमानायामात्मा मनो यस्य सः वेदत्रयी आत्मा मूर्तिर्वा यस्य स भगवान् सूर्यः १७० श्रीमद्भागवतम्
[ स्कं. ५ अ. ८ श्लो. १७-२४ निम्लोचति अस्तं याति मम मृगवधून्यासः मृगभार्थ्ययोपन्यस्तः ॥ १९ ॥ हरिणराजस्य कुमारः विविधरुचिरदर्शनीयै- निजैर्मृगदारकविनोदैः स्वानामसन्तोषमपनुदन् आगत्य माम् अपिस्वित् सुखयति सुखयिष्यति ॥ २० ॥ * क्ष्वेलिकायां बाललीलायां प्रेमसंरम्भेण प्रणयकोपेन चकित चकितः अतिक्षुभितः माम् आवृत्य पृषद्वत् जलबिन्दुवत् अपरुषेण मृदुना विषाणाग्रेण लुठति संघट्टयति ॥ २१ ॥ * आसादितं निहितं हविर्यस्मिन् तस्मिन् बर्हिषि दर्भे कथंचिद् दूषिते सति मयोपालब्धः सन् संपद्येव उपरतरासः त्यक्तक्रीडः ॥ २२ ॥ तदन्वेषणे प्रवृत्तस्तत्खुराङ्कितां भूमिं दृष्ट्वाह कि ति । यत् यतः सविनयस्य कृष्णसारतनयस्य तनुतराः सुभगाश्च शिवतमाच अखरा खुरा येषां पदानां तत्र तत्राङ्कितानां पङ्क्तिभिः द्रविणेन धनभूतेन मृगेन रहितस्य अत एवातुरस्य मम द्रविणपदवीं सूचयन्ती स्वात्मानं च ताभिः कृतमङ्गलं द्विजानां यज्ञभूमिं करोति । तथा च ।। २३ ।। * * । ॥ स्मृतिः " यस्मिन्देशे मृगः कृष्णः तस्मिन् धर्मान्निबोधत” शत चन्द्र मृगं दृष्ट्वाह अपीति ।। २४ ।। गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी मोहविजृम्भितानि तद्वाक्यान्येव दर्शयति–अपि बतेत्यादिना । अपीति सम्भावनायाम् । बतेत्यनुकम्पायाम्, अहो इति खेदे । शठो वञ्चको यः किरातो व्याधस्तद्वद्वश्वनपरा क्रूरा मतिर्यस्य तस्य अत एवानार्यस्य दुर्जनस्य मम तत् शाठ्यादिकमगणयन् अचिन्तयन् स वै मृतहरिणीसुतः अत एव कृपणो दीन एणबालक आत्मप्रत्ययेन स्वान्तःकरणविशुद्धया कृतविश्रम्भः मयि कृतविश्वासः सन् किमागमिष्यति ? इत्यन्वयः । सुकृताभावादेव तेन मम वियोगो जात इति मनसि निधायाह अकृतसुकृतस्येति । यदि सम किश्चित्सुकृतं स्यात्तदा तद्विहारसुखानुभवः स्यादेवेति तद्वियोगात् ज्ञायते, मम सुकृतं नास्तीति भावः । तर्हि कथमागमना- शेत्याशङ्कयोक्तमेव हेतुं दृष्टान्तेन स्पष्टयति-सुजन इवेति, सुजनो यथा स्वान्तःकरणविशुद्धया कृतिविश्वासो दुर्जनकृतापराधम- चिन्तयन् तद्गृहमागच्छति तद्वदित्यर्थः ।। १७ ।। * * मनोरथान्तरं सम्भावयति - अपीति । अस्मिन् ममाश्रमस्योपवने क्षेमेण वृकादिवा धाराहित्येन शष्पाणि कोमलतृणानि चरन्तं तं किं द्रक्ष्यामीत्यन्वयः । ननु वृकादिव्याप्त वने कथं तस्य सुकुमारस्य क्षेमः सम्भवतीत्याशङ्कच जीवत्यनाथोऽपि वने तदीक्षितः सुरक्षितस्तद्विहतो न जीवति’ इति वाक्याद्भगवद्भक्षितस्य तत्सम्भवतीत्याह- देवगुप्तमिति ।। १८ ।। * * भगवदुपेक्षायां तु तन्न सम्भवतीति पक्षान्तरमपि सम्भावयति - अपीति । अपि किं वृकः शालावृकः श्वाऽन्यतमो वा नैकचरो यूथचरः सूकरादिरेक एव चरति यः क्रूरस्वभावो व्याघ्रादिर्वा न भक्षयतीत्य- न्वयः ।। १९ ।। * * सायङ्काले प्राप्तेऽतिव्याकुलतया शोचन्नाह - निम्लोचतीति । सकललोकस्य क्षेमो यस्मात्स उदयो यस्य सः, यतः वेदत्रयी आत्मा स्वरूपं यस्य स भगवान् सूर्यो निम्लोचति अस्तं याति मम मृगवधून्यासो मृगवध्वाः निक्षेपभूत- स्त्वद्यापि नागच्छति । हेति खेदे, यदि सर्वप्रकाशके विद्यमाने न स दृष्टस्तर्हि रात्रौ तद्दर्शनं कथं स्यादिति महान् खेदः ।। २० ।। * * पुनश्च मनोरथान्तरं करोति-अपिस्विदिति । विविधानि नानाप्रकारकाणि यानि रुचिराणि मनोहराणि अत एव दर्शनीयानि निजानि मृगदारकविनोदानि तैः स्वानां स्वकीयानामस्माकमसन्तोषं खेदमपनुदन् हरिण एव राजकुमार आगत्य अकृतसुकृतं पुण्यहीनमपि मां किंस्वित् सुखयिष्यतीत्यन्वयः ॥ २१ ॥ * * सम्भवति चैतदित्यभिप्रेत्याह- क्ष्वेलिकायामिति । ।। ।। क्ष्वेलिकायां क्रीडायां सृषा यः समाधिस्तेनामीलिते दृशौ येन तं मां चकितादपि चकितः सन् आगत्य प्रेमसंरम्भेण प्रणयकोपेन पृषत् जलबिन्दुस्तद्वदपरुषेण कोमलेन विषाणाग्रेण लुठति सङ्घट्टयति ।। २२ ।। * * आसादितं स्थापितं हविर्यस्मिंस्तस्मिन् बर्हिषि दर्भे दन्ताकर्षणादिना दूषिते सति मयोपालब्धोऽधिक्षिप्तः सन् सपदि तत्क्षणमेव भीतादपि भीतः अत एवोपरतरासः त्यक्तक्रीडः अवहितः संयतः करणकलाप इन्द्रियसमूहो यस्य स तथा ऋषिकुमारवदास्ते इत्यन्वयः ।। २३ ।। * * एवं बहुधा प्रलापं कृत्वा गृहाद्वहिर्निर्गत्य मृगखुरखात भूभागं दृष्ट्वा सम्भ्रान्तहृदय आह— किं वेति । अरे अहो येयमवनिस्तयाऽनया तपस्विन्या महापुण्यया किंवा तप आचरितमित्यन्वयः । यस्मादियं सविनयस्य संयतेन्द्रियस्य कृष्णसारतनयस्य मृगपोतस्य तनुतरा अतिसूक्ष्मा अत एव सुभगाः शोभमानाः शिवतमाः शुद्धिहेतुत्वान्मङ्गलरूपाश्च अखराः कोमलाच खुरा येषु तेषां पदानां तत्र तत्राङ्कितानां पङ्क्तिभिर्द्रविणं मृग एव तेन विधुरो रहितः अत एवातुरो व्याकुलो योऽहं तस्य अत एव कृपणस्य दीनस्य मम द्रविणस्य तस्यैव पदवीं मार्ग सूचयन्ती सती ताभिः पङ्क्तिभिरेव सर्वतः कृतकौतुकं कृतमङ्गलमात्मानं द्विजानां त्रिवर्गाणां स्वर्गापवर्गकामानां देवयजनं यज्ञस्थानं करोति । ‘यस्मिन् देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत’ इति स्मृतेरस्यापि कृष्णत्वं ज्ञेयम् ॥ २४ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनो । अपि स्विदिति । विविधा नैकप्रकारा रुचिराः सुन्दरा दर्शनीया विलोकनीया ये निजमृगदारकविनोदास्तैः, स्वानामस्माकं असंतोषं खेदं, अपनुदन हरिणराजकुमारः, अकृतसुकृतमविहितपुण्यकर्माणं मां आगत्य सुखयिष्यति अपि स्वित् । मां सुखयिष्यति किमित्यर्थः ।। १७ ।। * * संभवति चैतदित्याह । क्ष्वेलिकायामिति । क्ष्वेलिकायां क्रीडायां मृषा मिध्याभूतो यः समाधि- नानुकरणं तेन आमीलिते दृशौ येन तं मां, प्रेमसंरम्भेण प्रणयकोपेन, पृषज्जलबिन्दुस्तद्वदपरुषं मृदु यद्विषाणाग्रं शृङ्गात्रं तेन, क. ५ अ. ८ श्लो. १७-२४] । * अनेकव्याख्या समलङ्कृतम् १७२ चकितचकितं समयं यथा तथा आगत्य, आवृत्येति पाठे परितो व्यावृत्य, लुण्ठति संघट्टयति मत्कण्डूविघातमाचरन्निव चेष्टते इत्यर्थः ॥ १८ ॥ * आसादितेति । आसादितं हविर्यस्मिंस्तस्मिन् हविः संपर्क गमिते इत्यर्थः । बर्हिषि दर्भे दूषिते दन्ता- कर्षणादिचापल्येन दूषिते सति, मया उपालब्धोऽधिक्षिप्तः अत एव भीतभीतः अतिभयं प्राप्तः सपदि तत्क्षणमेव, उपरतरासः निवृत्तक्रीडः, अवहितो निश्चलीकृतः करणानामिन्द्रियाणां कलापो येन एवंभूतः सन्, ऋषिकुमारवत् आस्ते । ऋषिकुमार वत्परि- हृताङ्गचपलत्वः संस्तिष्ठतीत्यर्थः ॥ १९ ॥ * इति बहुधा विलप्योत्थाय बहिर्निर्गत्य तत्खुरखातभूभागसंवीक्षणसंभ्रान्त- हृदयः आह किं वेति । अरे अहो तपस्विन्या प्रशस्ततपोवत्या संभाव्यमानयेति यावत् । अनया क्षित्या किं वा, तपः प्रशस्तं तपः, आचरितं भवेत् । यद्यस्मात् इयं अवनिः पृथ्वी, सविनयो विनयगुणसहितश्चासौ कृष्णसारतनयश्च तस्य तनुतराः सूक्ष्माः सुभगा अतिशोभनाश्च शिवतमा अतिशयितकल्याणरूपाश्च अखरा अतिकोमलाच याः खुरपातपङ्क्तयस्ताभिः, द्रविणं मृगस्तेन विधुरो रहितोऽत एवातुरो दुःखितस्तस्य, कृपणस्य दीनस्य मम, द्रविणपदवीं मृगरूपधनमार्ग सूचयन्ती सती, आत्मानं स्वात्मानं चापि, सर्वतः कृतकौतुकं विहितालंकारशोभं, स्वर्गश्चापवर्गश्च तयोः कामो येषां ते कामयन्ते वा तेषां द्विजानां, देवयजनं यज्ञभूमिं च करोति । ‘यस्मिन्देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत’ इति स्मृतेः ॥ २० ॥ * * तावच्चन्द्रे उदिते तस्मिन् मृगसमानमङ्क दृष्ट्वा तं च स्वमृगं संभावयन्नाह अपि स्विदिति । मृगपतिभयात् सिंहभयात्, मृता माता यस्य तं स्वाश्रमपरिभ्रष्टं मदाश्रमात् परिभ्रष्टतां प्राप्तं, एनं मृगबालकं, कृपणजनवत्सलः भगवान् असौ उडुपतिश्चन्द्रमाः अनुकम्पया हेतुना, परिपाति अपि स्वित् । परिपालयति किमित्यर्थः ॥ २१ ॥ * * चन्द्ररश्मिस्पर्शसुखं प्राप्याह । किं वेति । किं वेति संभावनायाम् । आत्मजः स्वात्मजसदृशतया मानितो मृगस्तस्य विश्लेषो वियोगस्तेन यो ज्वरस्तापः स एव दहनोऽग्निस्तस्य शिखा ज्वालास्ताभिरुपतप्यमाना हृदयरूपा स्थलनलिनी यस्य तं, जलस्थं पद्मं ताप सोढुं क्षममिति स्थलग्रहणम् । उपसृतोऽनुसूतः मृगीतनयो येन तं, मां, चन्द्र इति शेषः । शिशिरं च तच्छान्तं च मय्यनुरागेण गुणितमा वर्त्तितं पुनः पुनः स्रवदिति यावत् । यन्निजवदनसलिलं तदेवामृतमया गभस्तयः किरणास्तैः लोकेऽपि मान्त्रिका वदनसलिलैस्तापं शमयन्तीति प्रसिद्धम् । स्वधयति इति च शान्ति गमयति किम् ? उपसृतो मृगीतनय इति प्रथमान्तपाठे मनोरथान्तरमेतत् । शेषं समानम् ॥ २२ ॥ एवमिति । एवमुक्तरीत्या, अघट- माना असंभावनीया ये मनोरथास्तैराकुलं हृदयं यस्य सः भरतः, मृगदारकाभासेन मृगपुत्रव्याजेन, स्वारब्धकर्मणा स्वकीयप्रारब्धेन कर्मणा, योगारम्भणतः ज्ञानयोगारम्भात्, भगवदाराधनलक्षणात्, सयोगाद्योगसहितात्, तपसश्च विभ्रंशितः, प्रारब्धकर्मत्वे हेतुः । इतरथा प्रारब्धकर्ममूलत्वाभावे प्राक् पूर्व, निःश्रेयसप्रतिपक्षतया मुक्तिमार्गविरोधित्वेन, परित्यक्ता दुस्त्यजा हृदयाभिजाता औरसाः सुता येन तस्य, तस्य जात्यन्तरे एणकुणके, आसङ्गः साक्षात्स्वपुत्रे इव आसक्तिः, कथं स्यात् । एवं अन्तरायेण विहतं योगारम्भणं यस्य तस्य मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेण, आत्मानं अविगणयतः आत्मचिन्तामकुर्वतः राजर्षेर्भरतस्य तावदेव आखुबिलं अहिः सर्प इव, करालरभसः तीव्रवेगः, दुरतिक्रमः कालो मृत्युसमयः आपद्यत संप्राप्तः ॥ २३ ॥ * * तदानी- मिति । स भरतः, तदानीं मरणसमयेऽपि, पार्श्ववर्तिनं स्वनिकटवर्तिनं, अनुशोचन्तं, आत्मजमिव, मृगं अभिवीक्षमाणः आत्मीया- भिमानेन पश्यन्सन, मृगे एव अभिनिवेशितं मनो येन सः, मृग एवासक्तमनाः संश्च, इमं लोकं देहं मृगेण सह विसृन्य मृतं कलेवरं अन्वनुसृत्य, न मृता न विनष्टा जन्मानुस्मृतिः पूर्वजन्मस्मरणं यस्य सः एवंभूतः सन् इतरवत्प्राकृतजन इव, मृगशरीरं अवाप । यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः इति भगवदुक्तरीत्या मृगमनुस्मरन् मृगत्वमेवावापेत्यर्थः ॥ २४ ॥ ॥ भाषानुवादः । " mahesh क्या उसे फिर इस आश्रमके उपवन में भगवान की कृपासे सुरक्षित रहकर निर्विघ्न हरी-हरी दूब चरते देखूँगा ? ॥ १७ ॥ * * ऐसा न हो कि कोई भेड़िया, कुत्ता, गोल बाँधकर विचरनेवाले सुकरादि अथवा अकेले घूमनेवाले व्याघ्रादि ही उसे खा जायँ ॥ १८ ॥ * ४ अरे ! सम्पूर्ण जगत् की कुशल के लिये प्रकट होनेवाले वेदत्रयीरूप भगवान् सूर्य अस्त होना चाहते हैं; किन्तु अभीतक वह मृगीकी धरोहर लौटकर नहीं आयी ॥ १९ ॥ * * क्या वह हरिणराजकुमार मुझ पुण्यहीनके पास आकर अपनी भाँति-भाँति की मृगशावकोचित मनोहर एवं दर्शनीय क्रीड़ाओंसे अपने स्वजनोंका शोक दूर करते कुछ मुझे आनन्दित करेगा ? ।। २० ।। * * अहो! जब कभी मैं प्रणयकोपसे खेल में झूठ-मूठ समाधिके बहाने आँखे मूंदकर बैठ जाता, तब वह चकितचित्तसे मेरे पास आकर अपने जलबिन्दुके समान कोमल और नन्हें-नन्हें सोंगोंकी नोकसे किस प्रकार मेरे अङ्गोको खुजलाने लगता था ॥ २१ ॥ * मैं कभी कुशोंपर हवनसामग्री रख देता और वह उन्हें दाँतोंसे
- खींचकर अपवित्र कर देता तो मेरे डाँटने-डपटनेपर वह अत्यन्त भयभीत होकर उसी समय सारी उछल-कूद छोड़ देता और ऋषिकुमार के समान अपनी समस्त इन्द्रियोंको रोककर चुपचाप बैठ जाता था ।। २२ ।। * * [ फिर पृथ्वीपर उस मृग- शावकके खुरके चिह्न देखकर कहने लगते ] ‘अहो ! इस तपस्विनी धरतीने ऐसा कौन-सा तप किया है जो उस अतिविनीत कृष्णसार किशोर के छोटे-छोटे सुन्दर, सुखकारी और सुकोमल खुरोंवाले चरणोंके चिह्नोंसे मुझे, जो मैं अपना मृगधन लुट जानेसे १७३ श्रीमद्भागवतम्
[ स्कं. ५ अ. ८ श्लो. २५-२८ अत्यन्त व्याकुल और दीन हो रहा हूँ, उस द्रव्यकी प्राप्तिका मार्ग दिखा रही है और स्वयं अपने शरीर को भी सर्वत्र उन पदचिह्नोंसे विभूषित कर स्वर्ग और अपवर्गके इच्छुक द्विजोंके लिये यज्ञस्थल बना रही हैं ॥ २३ ॥ ( चन्द्रमा में मृगका-सा श्याम चिह्न देख उसे अपना ही मृग मानकर कहने लगते) ‘अहो ! जिसकी माता सिंहके भयसे मर गयी थी, आज वही मृगशिशु अपने आश्रम से बिछुड़ गया है । अतः उसे उसे अनाथ देखकर क्या ये दीनवत्सल भगवान् नक्षत्रनाथ दयावश उसकी रक्षा कर रहा है ? ॥ २४ ॥ || …. किं वाऽऽत्मजविश्लेषज्वरदवदहन शिखाभिरूपतप्यमानहृदयस्थलनलिनीकं मामुपसृतम् गीतनयं शिशिरशान्ता- नुरागगुणित निजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च ।। २५ ।। एवमघटमानमनोरथाकुलहृदयो मृगदारका- मासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षाभिःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भ कपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत ।। २७ ।। तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवर मृतमनु न मृतजन्मानुस्मृति रितरवन्मृगशरीरमवाप ।। २७ ।। तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह ॥ २८ ॥ अन्वयः किम् वा आत्मजविश्लेषज्वरदवदह्नशिखाभिः उपतप्यमानहृदयस्थलनलिनीकम् उपसृतमृगीतनयम् माम् शिशिरशान्तानुरागगुणितनिजवदन सलिलामृतमयगभस्तिभिः स्वधयति च इति ।। २५ ।। ** * * एवम् अघटमानमनो- रथाकुलहृदयः सः योगतापसः मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतः च भगवदाराधनलक्षणात् विभ्रंशितः इतरथा साक्षात् निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यज हृदयाभिजातस्य तस्य जात्यन्तरे एणकुणके आसङ्गः कथम् एवम् अन्तराय- विहतयोगारम्भणस्य मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेण आत्मानम् अविगणयतः राजर्षेः भरतस्य तावत् दुरतिक्रमः करालरभसः कालः अहिः आखुबिलम् इव आपद्यत ॥ २६ ॥ * * तदानीम् अपि पार्श्ववर्तिनम् आत्मजम् इव अनुशोचन्तम् अभिवीक्षमाणः मृगे एव अभिनिवेशितमनाः मृगेण सह इमम् लोकम् विसृष्य मृतम् कलेवरम् अनु न मृतजन्मानुस्मृतिः इतरवत् मृगशरीरम् अवाप || २७॥ ‘हवा तत्र अपि आत्मनः मृगत्वकारणम् भगवदाराधनसमीहानुभावेन अनुस्मृत्य hi ।। * MERE PRICE भृशम् अनुतप्यमानः आह ।। २८ ।। mp चंद्ररश्मिस्पर्शसुखं प्राप्याह । श्रीधरखामिविरचिता भावार्थदीपिका रुपलप्यमाना हृदयरूपा स्थलनलिनी के वति संभावनायाम । आत्मजविश्लेषेण ज्वरस्तापः स एव दवदहनस्तस्य ज्वालाभि- यस्य । जलस्थं पद्मं तापं सोढुं न क्षममिति स्थलग्रहणम् । उपसृतोऽनुगतो मृगीतनयो येन तं मां चंद्रः स्वधयति शांतिं गमयति । कैः । शिशिरं शांतं मय्यनुरागेण गुणितं चावर्तितं पुनः पुनः स्रवद्यद्वदनसलिलं तदेवामृतमया गभस्तयस्तैः । लोके हि मंत्रवादिनो वदनसलिलैस्तापं शमयंतीति प्रसिद्धम् । उपसृत्य मृगीतनय इति पाठे मनोरथांतर मेतत् । उपसृत्य मृगीतनयः किं वा मां स्वधयिष्यतीति । शेषं समानम् ।। २५ ।। * * मृगदारकवदाभासमानेन भगवदाराधन- लक्षणात्कर्मणश्च विभ्रंशितः । प्रारब्धकर्मत्वे हेतुः । कथमितरथेति । साक्षात्स्वपुत्रवत्कथमासंगः स्यात् । पूर्व परित्यक्ता दुस्त्यजा औरसा येन । अंतरायेण विहतं योगारंभणं यस्य । आत्मानमविगणयत आत्मचिंतामकुर्वतः । तावदेव तीव्रवेगः कालो मृत्यु- समयश्चापद्यत ॥ २६ ॥ * * लोकं देहं मृगेण सहितं विसृज्य प्राकृत इव मृगशरीरमवाप । कथंभूतः । कलेवरं मृतमनु न भूता न विनष्टा पूर्वजन्मानुस्मृतिर्यस्य ॥ २७ ॥ * * आह स्वे चित्ते ।। २८ । क श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः चंद्रकिरणानां दाहकत्वमनुभूयाहो मदात्मजविरहे शीतकिरणोष्युष्णकिरणो भवति हंत हंत कि मे समयो भविष्यति यत्र स मृगीतनयो भूयोपि मामुपैष्यति । चंद्रोप्ययं मां शिशिरयिष्यतीत्यमिलपन्नाह-किं चेति । उपस्प्तो मृगीतनयोऽयं तथाविधं मां चंद्रोऽयं सुखयति विरहसंतप्तस्यांगस्य सुधाप्लुतीकरणात्सुधावतं किन्न करिष्यतीति “विन्म PHITE THE S शास्त्रोंमें उल्लेख आता है कि जिस भूमिमें कृष्णमृग विचरते हैं, वह अत्यन्त पवित्र और यज्ञानुष्ठानके योग्य होती है
- २. प्रा० पा० - ३. १ । क. ५ अ. ८ श्लो. २५-२८ 1 अनेकव्याख्यासमलङ्कृतम् ૨૦૨ लुक” इति मतुपो लुका रूपम् । कैः शिशिरं च तत् शांतमनुग्रं च मय्यनुरागेण गुणितं च यद्वदनसलिलं पुनः पुनः स्रवत्तदेवामृतमया गभस्तयस्तैः । यथा मांत्रिका अभिमंत्रितमुखांबुभिस्तापं धनंति तथायमपीत्यर्थः । मृगीतनयः प्रेम्णा निजसुखस्पर्शेन मामिहागत्य सुखयिष्यतीति ल्यबंतपाठपक्षेऽर्थः ॥ २५ ॥ * एवमिति श्रीशुकोक्तिः । मृगदार- कमाभासयति प्रकाशयतीति यत्तेन स्वारब्धकर्मणा, प्रारब्धं हि द्विविधं शोभनमशोभनं च तत्राद्यं भक्तप्रियेणापि नयन- तीव्रांजनदानन्यायेन स्वभक्त्युत्कर्षवर्द्धनविदग्धेन भगवतैव स्वच्छ व प्रारब्धतुल्यत्वात्प्रारब्धमुपपाद्यते यदुदर्को भक्त्युद्रेक एव स्यात्तत्खलुत्पन्न रतीनामपि संभवेदेव । । द्वितीयं तु प्राचीन प्राकृतकर्ममयमेव यदुदर्को विषयाभिनिवेश एव स्यात् । अत्र तु शोभनेनारब्धेनेति साक्षात्सुशब्द एवोपन्यस्तः । योगेन भक्तियोगेन हेतुना तापसः सर्व विषयत्यागरूपं तपः कुर्वाणः । यद्यपि भक्तियोगो बहुविघ्नाकुलो न भवति तथापि भगवदिच्छया भगवदाराधनाद्विभ्रंशित इत्यर्थः । इतरथा प्रारब्धकर्माभावे । जात्यंतरे भिन्नजातौ । कथमासक्तिस्स्यान्न कथमपीत्यर्थः । साक्षान्निःश्रेयसस्य भगवत्प्राप्तेः प्रतिपक्षतया विरोधित्वेन “पुत्रदारमयैः पाशैः पुमान्बद्धो न मुच्यते” इत्युक्तेस्तत्प्राप्तिबंधकरूपत्वेन प्राक् पूर्वं परित्यक्ता दुस्त्यजास्त्यक्तुमशक्या हृदयाभिजाता औरसात्मजा येन तस्य । अंतरायेण मृगरूपविघ्नेन योगो यमनियमादिस्तस्यारंभणं करणम् आखुर्मूषिकः ॥ २६ ॥ * * तदानीमपि देहत्यागावसरेपि । अनुशोचंतं मृगम् । इतरवत् इतरः प्राकृतः सकर्मा तद्वदिति । ।। ।। भरतस्तु कर्मातीत एवात एव तस्य प्रारब्धाभावः प्राक्समर्थितः ॥ २७ ॥ * * तत्रापि मृगशरीर प्राप्तावपि भगवदाराधनस्य महानुष्ठानं तस्यानुभावः प्रभावस्तेन ।। २८-२९ ॥ Fpl F श्रीमद्वीरराघवव्याख्या । चन्द्ररश्मिस्पर्शसुखं प्राप्याह । किं वेति सम्भावनायामात्मजविश्लेषेण मृगवियोगेन यो ज्वरस्तापः स एव दहनः तस्य ज्वालाभिरुपतप्यमाना हृदयरूपा स्थलनलिनी यस्य तज्जलस्थं पद्म तापं सोढुमलमिति स्थलग्रहणं उपसृतोऽनुगतः मृगीतनयो येन मां योऽयं चन्द्रः स्वधयति विश्रान्ति विगमयति कैः शिशिरवच्छान्तं च मय्यनुरागेण गुणितं चावर्तितं च पुनः पुनः स्रवत् यत्सलिलं त एवामृतमया गभस्तयः किरणास्तैः लोके हि मान्त्रिका मुखसलिलैस्तापं शमयन्तीति प्रसिद्धम् । उपसृतमृगीतनय इति पाठे मनोरथान्तरमेतत्, उपसृतः प्राप्तो मृगीतनयः किं वा स्वधयतीति शेषं सर्व समानम् ॥ २५ ॥
इत्युक्तरीत्या एवंशब्दोऽनुक्तमनोरथान्तरद्योतकः, उक्ता अनुक्ताश्चाघटमानाः ये मनोरथास्तैराकृष्टं हृदयं यस्य स भरतः मृगदारकाभासेन मृगपुत्रव्याजेन प्रारब्धकर्मणामन्तरायभूतेन योगारम्भणतः ज्ञानयोगारम्भात्स्वयोगतपसः स्ववर्णाश्रमोचितकर्मयोगरूपात्तपसः भगवदाराधनलक्षणाद्भगवद्भक्तिरूपाश्च तपसः विभ्रंशितो विभ्रष्टोऽभूत् । प्रारब्धकर्मत्वे हेतुः कथमितरथेति इतरथा प्रारब्धकर्ममूलत्वाभावे मृगदारकासक्तिः जात्यन्तरैणकुणके साक्षात् स्वपुत्र इव कथमासङ्गः स्यात् । श्रेयसः प्रतिपक्षतया मुक्तिविरोधितया पूर्वं परित्यक्ताः दुस्त्यजाः हृदयाभिजाताः औरसा येन तस्यैव पुनरेवंविधेनान्तरायेण विहतो योगारम्भो यस्य तस्य राजर्षेर्भरतस्य मृगार्भकस्य पोषणादिनिमित्तेनानुषङ्गेणात्मानमविगणयतः प्रमत्तस्य तावदेव करालरभसः तीव्रवेगः कालः मृत्युकालः दुरतिक्रमः अवर्जनीयः मूषकबिलं प्रत्यहिः सर्प इवापद्यत प्राप्तः ॥ २६ ॥
स भरतस्तदानीमपि मरणसमयेऽपि स्वपार्श्ववर्तिनं मृगमात्मजमिवानुशोचन्तमभिवीक्षमाण आत्मीयाभिमानेन पश्यन् मृगमिवासक्तमना, इमं देहं मृगेण सह विसृज्य कलेवरमन्वनुसृत्य अमृता अविनष्टा पूर्वजन्मानुस्मृतिर्यस्य तथाभूतः इतरवत्प्राकृतवन्मृगशरीरमवाप । “यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ॥” इत्युक्तरीत्या मृगमनुस्मरन्मृगत्वमेवावापेत्यर्थः ॥ २७ ॥
तत्र मृगजन्मन्यात्मनः मृगत्वनिमित्तं पौर्वभवभगवदाराधनानुष्ठानप्रभावेण मृगासङ्ग एवेत्यनुस्मृत्य नितरामनुतप्यमान आह ॥ २८ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली किञ्च रक्षित्वा चाटु कुर्वन्मह्यं प्रयच्छत्यपिस्विदित्याह । एष इति । उपसृतश्चासौ मृगीतनयः उपसृत्य गभस्तिभिर्मा स्वधयति लेव्यपि स्विदित्यन्वयः । शिशिराणि शीतलानि च तानि अनुरागेण गुणितानि बहुलीकृतानि च तानि निजवदननिर्गत- सलिलानि तान्येवामृतगभस्तयश्चन्द्ररश्मयस्तैः किं विशिष्टं मामात्मज इवात्मजो मृगीतनयस्तस्य विश्लेषनिमित्तो यो ज्वरः सन्तापः स एव दवदहनः वनाग्निस्तस्य शिखाभिरुपतप्यमानं दह्यमानं हृदयस्थलनलिनं यस्य स तथा तम् || २५ ॥ * सङ्गफल- माह इतीति । इत्यादिप्रलपन् सः योगतापसो भरतो योगारम्भणतो भगवदाराधनलक्षणात्कर्मणश्च विभ्रंशितः परिमोचित इत्यन्वयः । केन मृगदारकरूपेणासमन्ताद्भासत इति तेन स्वारब्धकर्मणा मनुष्यस्यैवमघटमानो मृगे मनोरथः स्नेहविशेषस्तेनाकुलं हृदयं यस्य स तथा इतरथा प्रारब्धकर्माभावे जात्यन्तरेऽस्म जातिविलक्षणमृगजातावासङ्गः स्नेहः कथं स्यात् योगो ध्यानं तस्य भरतस्य कथम्भूतस्य साक्षान्निःश्रेयसस्य प्रतिपक्षतया विघ्नत्वेन हेतुना पूर्वपरित्यक्तास्त्यक्तुमशक्या हृदयाभिजाता औरसाः पुत्रा येन स तथा तस्य एवं मृगपोतलालनाद्याकुलचेतसो भरतस्य मरणसमग्रासत्तिमाह तस्येति । अन्तरायेण विघ्नेन विहतं योगारम्भणं ध्यानोपक्रमो १७४ श्रीमद्भागवतम् [ स्कं. ५ अ. ८ श्लो. २५३८ यस्य स तथा तस्य पोषणादिषु सतानुषङ्गेण निरन्तर स्नेहाभिनिवेशेनात्मानं श्रीहरि स्वं वा विगणयतः चिन्तयतः करालो रभसो वेगो यस्य स तथा || २६ ॥ * * इमं लोकं भरतोपाध्युपलक्षितशरीरं मृगेण सह वर्तमानं विसृज्य इतर मृगवन्मृगशरीर- मवाप पूर्वकलेवरमनु तस्यानुकूलत्वेन स्मृता जन्मानुस्मृतिर्जातिस्मृतिर्येन स तथा पूर्वदेहतत्कृतकर्म स्मृतिरित्यर्थः ।। २७ ।। * * भगवदाराधनस्य समीहानुष्ठानं तस्य सामर्थ्येन ।। २८ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी * । चन्द्रकिरणानां दाहकत्वमनुभूयाहो मदात्मजविरहे शीतकिरणोऽप्ययमुष्णकिरणो भवति हन्त हन्त स किं मे समयो भविष्यति यत्र स मृगीतनयो भूयोऽपि मामुपैष्यति चन्द्रोऽप्ययं मां शिशिरयिष्यतीत्यभिलषन्नाह किश्चेति । उपसृतो मृगीतनयो यं तथाविधं मां चन्द्रोऽयं सुधयति विरहसन्तप्तस्याङ्गस्य सुधाप्लुतीकरणात् सुधावन्तं किं नु करिष्यतीति । “विन्मतोर्लुक्” इति मतुपो लुका रूपं, कैः शिशिरश्च तत् शान्तमनुग्रं च मय्यनुरागेण गुणितन यद्वदनसलिलं पुनः पुनः स्रवत् तदेवामृतमया गभस्तयस्तैः । लोके हि मान्त्रिका यथा वदनसलिलैस्तापं शमयन्ति तथैवायमपीत्यर्थः । उपसृतो मृगीतनय इति पाठे स एव मद्गात्रेषु प्रेम्णा निजसुखस्पर्शेनेत्यर्थः ।। २५ ।। * मृगदारकमाभासयति प्रकाशयति यत्तेन स्वारब्धकर्मणेति । प्रारब्धं हि द्विविधं शोभनमशोभनश्न, तत्राद्यं भक्तप्रियेणापि नयनतीब्राञ्जनदानन्यायेन स्वभक्त्युत्कण्ठावर्धनविदग्धेन भगवतैव स्वेच्छयैव प्रारब्धतुल्यत्वात् प्रारब्धमुपपाद्यते यदुदर्को भक्त्युद्रेक एव स्यात्तत् खलुत्पन्नरतीनामपि सम्भवेदेव । द्वितीयन्तु प्राचीन प्राकृत- कर्ममयमेव, यदुदर्को विषयाभिनिवेश एव स्यात् । अत्र तु शोभनेनारब्धेनेति साक्षात् सुशब्द एवोपन्यस्तः । योगेन भक्तियोगेनैव हेतुना तापसः सर्व विषयत्यागरूपं तपः कुर्वाणः । अप्यर्थे चकारः । यद्यपि भक्तियोगो बहुविघ्नाकुलो न भवति तदपि भगवदिच्छया भगवदाराधनाद्विभ्रंशित इत्यर्थः ॥ २६ ॥ इतरथेति । भगवदिच्छामयं प्रारब्धं यदि न स्यादित्यर्थः । हृदयाभिजाताः स्वपुत्राः । यद्वा मृगदारक एवाभासो यस्य तथाभूतेन स्वस्यारब्धकर्मणेति प्रारब्धकर्माभासेनेत्यर्थः । यथा जीवन्मुक्तानामभिमानाभावेऽप्यभिमानाभासस्तथैव जातरतिभक्तानां प्रारब्धाभावेऽपि प्रारब्धाभासः । अथवा मृगदारकाभासेन निकृष्टमृगदारकेण विभ्रंशितः कीदृशेन शोभनमारब्धं कर्म यस्य तेन तस्य मृगदारकस्य सुखप्रारब्धवशादेव भरतस्तं पालयामास । इतरथा यदि मृगस्य सुखप्रारब्धं न स्यात्तदा तस्यापि तत्पपालयिषान स्यादित्यर्थः । भरतस्य विभ्रंशस्तु “यथाधनो लब्धधने विनष्टे तचिन्तयान्यन्निभृतो न वेद” इति भगवदुक्तन्यायेन मृगजन्मनि ब्राह्मणजन्मनि च भक्त्युत्कण्ठावर्द्धनार्थो भगवतैव निर्मितः । आत्मानमविगणयतः आत्मचिन्तामकुर्वतः आखुबिलमहिरिव तं भरतं कालो मृत्युरनुशोचन्तं मृगं लोकं देहं मृगेण सहितं विसृज्य मृगशरीरमवाप । कलेवरं मृतमतु न मृता न विनष्टा पूर्वजन्मानुस्मृतिर्यस्य सः इतरवदितरः प्राकृतः कर्मी तद्वदिति । भरतस्तु कर्मातीत इत्यत एव तस्य प्रारब्धाभावः प्राक् समर्थितः ।। २७-२८ ।। * श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः • किं वा उडुपतिः आत्मजः मम पुत्रो मृगस्तद्विश्लेषेण वियोगेन यो व्वरस्तापः स एव दवदहनो दवाग्निस्तस्य ज्वालाभि- रुपतप्यमाना हृदयात्मिका स्थलनलिनी यस्य तमुपसृतः अन्विष्टः मृगीसुतो येन तं शिशिर शीतलं च तच्छान्तमुद्वेगहरं च मय्य- नुरागेण गुणितं निरन्तरं प्रवर्तितं यद्वदनसलिलं तदेवामृतमया गभस्तयः किरणास्तैः मां स्वधयति शान्तिं गमयति ।। २५ ।। * * स भरतः एवम्भूतैरघटमानैर्मनोरथैराकुलं हृदयं यस्य सः योगतापसः योगी ज्ञानयोगभक्तियोगौ तल्लाभार्थं यत्तपः तीर्थवासभूशयन- फलाहार देहशोषणादिरूपं तद्विशिष्टः मृगदारकाभासेन मृगबालकवदाभासमानेन प्रारब्धकर्मणा योगारम्भणतः योगयोः ज्ञानयोग- भक्तियोगयोः आरम्भणतस्तदुपक्रमणभूतात्तपसः भगवदाराधनलक्षणात् तदर्चनवन्दनरूपात्साधनभक्तियोगाश्च विभ्रंशितः इतरथा मृगदारकव्याजेन प्रारब्धकर्मणा स्वधर्मनिष्ठाभ्रंशानङ्गीकारे प्राक् परित्यक्ता दुस्त्यजा हृदयाभिजाताः येन तस्य राजर्षेः साक्षात् पुत्रवत् जात्यन्तरे एणकुणके श्रेयसो मोक्षस्य प्रतिपक्षतया विरोधित्वेन आसन आसक्तिः कथं घटेतेति शेषः, एवमुक्तप्रकारेणान्तरायेण विहतं योगारम्भणं यस्य तस्य राजर्षेः मृगार्भकपोषणाद्यनुषङ्गेण आत्मानमविगणयतः आत्मनः कृतार्थताचिन्तामकुर्वतः तावदेव दुरतिक्रमो दुर्लङ्घयः करालरभसस्तीत्रवेगः कालः मृत्युसमयश्वापद्यत ।। २६ ।। * इदानीं मृत्युकालेऽपि अनुशोचन्तमात्मजमिव पार्श्ववर्तिनं मृगमभिवीक्षमाणः इमं लोकं लोक्यन्ते कर्मफलान्यनेनेति देहं मृगेन सहितं विसृज्य मृगे एवाभिनिवेशितमना मृगशरीर- मवाप । “यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ॥” इति श्रीमुखवचनात्, किन्तु भगवदाराधनप्रभावात् कलेवरं मृतमनु न मृता न विलुप्ता पूर्वजन्मानुस्मृतिर्यस्य सः ॥ २७ ॥ * * आह स्वचित्ते एव ।। २८ ।। … गोस्वामिश्रीगिरिधरलाल विहिता बालप्रबोधिनी तावदेवोदिते चन्द्रे मृगलाञ्छनं दृष्ट्वा तस्य स्वमृगत्वं सम्भावयन्नाह-अपिस्विदिति । किंस्विदेनं स्वाश्रमात् परिभ्रष्टं मृगबालकं असावुडुपतिश्चन्द्रः अनुकम्पया कृपया परिपातीत्यन्वयः । मृगबालकस्य कृपापात्रत्वं दर्शयति-मृगेति, मृगपतेः स्कं. ५ अ. ८ इलो. २५-२८ ] इतिशब्दो भरतोक्तिसमाप्त्यर्थः । २६ यो अनेकव्याख्यासमलङ्कृतम् १७५ सिंहस्य भयान्मृता माता तस्य तमित्यर्थः । चन्द्रस्यापि कृपायां हेतुमाह- कृपणेति, कृपणजने वत्सा प्रीतिरस्येति तथा । तत्रापि हेतुः – भगवानिति, पालने समर्थ इत्यर्थः । तस्यैव कृपा सफला नान्यस्येति भावः ॥ २५ ॥ * * चन्द्ररश्मिस्पर्शसुखम- नुभूयाह- किमिति । शिशिरं च तच्छान्तं सुखकरं च मय्यनुरागेण गुणितमावर्तितं पुनः पुनः स्रवद्यन्निजवदनसलिलं तदेवामृतमया गभस्तयस्तैः किं वा मां चन्द्रः स्वधयति शान्ति गमयति ? इत्यन्वयः । सन्तप्तस्यैव शान्तिर्भवतीति स्वसन्तापं दर्शयति– आत्मजेति, आत्मजः पुत्रत्वेन अङ्गीकृतो मृगपोत एव तस्य विश्लेषेण वियोगेन यो ज्वरस्तापः स एवं दवदहनः वनवह्निस्तस्य शिखाभिज्वालाभिः उपतप्यमाना हृदयरूपा स्थलनलिनी यस्य तमित्यर्थः । ननु विजातीयपशुवियोगे कथमेवं सन्ताप इत्याशङ्कयात्मजपदेनोक्तमेव तदभिनिवेशरूपं हेतुं स्पष्टयति- उपसृतेति । उपसृतः पुत्रत्वेन अनुमतो मृगीतनयो येन तमित्यर्थः । चकारेण तदन्वेषणार्थं प्रकाशं च करोतीति सूचितम् । जलस्थस्य कमलस्य वह्निभयाभावात् स्थलनलिनीत्युक्तमिति ज्ञेयम् । ॥ * * एवं मृगापत्ये तस्यासक्तिः प्रारब्धकर्मप्राबल्यादेव जातेत्याह - एवमिति । जातेत्याह-एवमिति एवमुक्तप्रकारेणाघटमानो दुस्सम्पाद्यो यो मनोरथस्तेन आकुलं हृदयं यस्य स योगयुक्तस्तापसो भरतो मृगदारकाभासेन वस्तुतस्तु स्वारब्धकर्मणा योगारम्भणतो योगचर्यातः भगवदाराधनलक्षणात् कर्मणश्च भ्रंशित इत्यन्वयः । न च भगवद्भक्तस्य तद्भजनतत्परस्य कथमेवं कर्मणा भ्रंश इति शङ्कनीयम्, मर्यादामार्गे प्रारब्धकर्मणां प्राबल्यात् भगवदिच्छया भक्तेः प्रतिबद्धत्वाच अन्यथा तया प्रारब्धविनाशे तद्भोगासम्भवेन मर्यादाविलोपः स्यात् । न च तर्हि ‘भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्, तमेव परमात्मानं जारबुद्धयापि सङ्गताः । जहुर्गुणमयं देह सद्यः प्रक्षीणबन्धनाः’ इत्यादिषु कथं भक्तेः सद्यः प्रारब्धनाशकत्व- मुक्तमिति शङ्कनीयम्, तथोक्तेः पुष्टिमार्गीय स्नेहभक्तिविषयत्वात् । अत एव ‘भक्तिमार्गो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभाव- गुणमार्गेण पुंसां भावो विभिद्यते’ इति भक्तिमार्गबहुविधत्वस्योक्तत्वात् । न च तर्ह्येतदनुष्ठितस्य भक्त्यादिसाधनस्य वैयर्थ्यमिति शङ्कनीयम्, तत्पादमूलमुपसृतानां भगवता परिरक्ष्यमाणानामिति रक्षायाः ‘सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति’ इति ज्ञानस्य च तस्य फलत्वेनाभिमतस्याग्रे वक्ष्यमाणत्वात् । अन्यथा पूर्वज्ञानाभावेनेतरवद्विषयासक्त्या जन्मान्तरेऽपि कृतार्थता न स्यात्, प्रारब्धकर्मणो भ्रंशकत्वेऽर्थापत्ति प्रमाणयति कथमिति । इतरथा प्रारब्धकर्मणो अंशकत्वानङ्गीकारे निश्श्रेयसस्य मोक्षस्य प्रतिपक्षतया बाधकतया प्राक्पूर्वं परित्यक्ता दुस्त्यजा हृदयाभिजाता औरसाः पुत्रा येन तस्य जात्यन्तरे विजातीये एणकुणके साक्षात् पुत्रवदासङ्ग आसक्तिः कथं स्यादिति शेषेणान्वयः । एवमुक्तप्रकारेणान्तरायेण मृगासक्तिरूपेण विहतं योगारम्भणं यस्य तस्य राजर्षेर्भरतस्य तावत्तदा दुरतिक्रम उपायसहस्त्रैरनुल्लङ्घनीयः यतः करालरभसः अतितीव्र वेगः कालो मृत्युसमय आपद्यत प्राप्त इत्यन्वयः । अन्तरायभूतामासक्तिमेव स्पष्टयति- मृगेति । मृगार्भकस्य पोषणाद्यनुषङ्गेण तत्राभिनि- वेशेनात्मानं देहमप्यविगणयतः अननुसन्दधत इत्यर्थः । कालस्य दुरतिक्रमत्वं दृष्टयति- अहिरिवेति । यथा आखुबिलं प्राप्तोऽहिस्तस्य दुरतिक्रमो भवति तथा प्राणिनां कालोऽपीत्यर्थः ।। २७ ।। तदानीं मरणसमयेऽपि
- तदानीं मरणसमयेऽपि यतो मृग एवाभिनिवेशितमना अतस्तेन मृगेण सहेमं लोकं देहं विसृज्य इतरवद्भगवद्विमुखजनवत् मृगशरीरमवापेत्यन्वयः । मृगशरीरमवापेत्यन्वयः । तत्राविष्टमनस्त्वे दृष्टान्तमाह- पार्श्वेति, यथा मरणसमये पार्श्ववर्त्तिनमनुशोचन्तमात्मजमिवाभिवीक्षमाणः तत्राभिनिवेशितमना भवति तथेत्यर्थः । तर्हि भगवद्भजनं व्यर्थं जातमित्याशङ्कयाह – कलेवरमिति । कलेवरं मृतमनु न मृता न विनष्टा पूर्वजन्मानुस्मृतिर्यस्य स तथा ।। २८ ।। 1 । श्रीभगवत्प्रसादाचार्यविरचिता भक्कमनोरञ्जनी तत्रापीति । तत्रापि मृगत्वेऽपि ह वै निश्चितमेव, आत्मनः स्वस्य, मृगत्वकारणं भगवतो यदाराधनं तस्य समीहा सम्यगनुष्ठानं तस्या अनुभावः प्रभावस्तेन, अनुस्मृत्य, भृशमतिशयेन, अनुतप्यमानः स्वचित्ते बहुपरितापं कुर्वन्सन्, आह ॥ २५ ॥ * * अहो इति । अहो कष्टम् । अहं आत्मवतां धीराणां अनुपथान्मार्गात्, भ्रष्टश्च्युतः, भ्रष्टत्वमाह । यद्यतः, विमुक्ताः परित्यक्ताः समस्ताः सङ्गा येन तस्य विविक्तं निर्जनं यत्पुण्यारण्यं तदेव शरणं गृहं यस्य तस्य, आत्मवतो जितेन्द्रियस्य सतोऽपि, अबुधस्य मम सर्वेषां भूतानां आत्मनां क्षेत्रज्ञानां आत्मनि अन्तरात्मतयावस्थिते, भगवति वासुदेवे, तस्य वासुदेवस्य अनु प्रतिक्षणं श्रवणं च मननं च संकीर्त्तनं च आराधनं च अनुस्मरणं च तेषामभियोगोऽभिनिवेशस्तेन अशून्याः सकला यामा यस्मिंस्तेन, कालेन, कात्रन्येन सर्वात्मना, समावेशितं समाहितं च संनिधाप्य स्थिरीकृतं चेत्यर्थः । यत् मनः तत्तु पुनरधुना, आरा दूरादेव, मृगसुतं अनु परिसुस्राव | योगाद्विभ्रंशितमभूदित्यर्थः ॥ २६॥ इतीति । इत्येवं निगूढोऽनाविष्कृतो निर्वेदो वैराग्यं येन स तथाभूतः सन्, मातरं मृगीं हरिणीं विसृज्य पुनर्भूयोऽपि, उपशमशीलानां मुनिगणानां दयितं प्रियं भगवत्क्षेत्रं शालग्रामं शाल- ग्रामाख्यं पुलस्त्य पुलहयोराश्रमौ यस्मिंस्तथाभूतं क्षेत्रं प्रति, कालञ्जरात् यत्र स्वयं हरिणो जातस्तस्मात्कालञ्जर पर्वतादित्यर्थः । प्रत्याज- गाम ।। २७ ।। * * तस्मिन्निति । तस्मिन्पुलहाश्रमाख्यहरिक्षेत्रे अपि, कालं मृगदेहावसानं प्रतीक्षमाणः, सङ्गाच भृशं उद्विग्नः आत्मैव सहचरो यस्य सः, एकाकीत्यर्थः । शुष्काणि यानि पर्णानि च तृणानि च वीरुधश्च तत्समाहारस्तेन वर्त्तमानः, मृगत्वस्य यन्निमित्तं तस्यापि अवसानं समाप्तिकालमेव गणयन्, तीर्थोदकेन किन्नमा अर्द्धोदकस्थितमित्यर्थः । मृगशरीरं उत्ससर्ज परित्यक्तवान् ॥ २८ ॥ इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्य सुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धेऽष्टमोऽध्यायः ॥ ८ ॥ 1 मक । । श्रीमद्भागवतम् फणिभाषानुवाद [ स्कं. ५अ. ८ श्लो. २९-३१ [ फिर उसकी शीतल किरणोंसे आह्लादित होकर कहने लगते ] ‘अथवा अपने पुत्रोंके वियोगरूप दावानलकी विषम ज्वालासे हृदयकमल दग्ध हो जानेके कारण मैंने एक मृगबालकका सहारा लिया था। अब उसके चले जानेसे फिर मेरा हृदय जलने लगा है, इसलिये ये अपनी शीतल, शान्त, स्नेहपूर्ण और बदनसलिलरूपा अमृतमयी किरणोंसे मुझे शान्त कर रहे है ।। २५ ।। * राजन् ! इस प्रकार जिनका पूरा होना सर्वथा असम्भव था, उन विविध मनोरथोंसे भरतका चित्त व्याकुल रहने लगा । अपने मृगशावकके रूपमें प्रतीत होनेवाले प्रारब्धकर्मके कारण तपस्वी भरतजी भगवदाराधनरूप कर्म एवं योगानुष्ठानसे च्युत हो गये । नहीं तो, जिन्होने मोक्षमार्ग में साक्षात् विघ्नरूप समझकर अपने ही हृदयसे उत्पन्न दुस्त्यज पुत्रादिको भी त्याग दिया था, उन्होंकी अन्यजातीय हरिणशिशु में ऐसी आसक्ति कैसे हो सकती थी। इस प्रकार राजर्षि भरत विघ्नोंके वशीभूत होकर योगसाधनसे भ्रष्ट हो गये और उस मृगछौने के पालन-पोषण और लाड़-प्यार में ही लगे रहकर आत्मस्वरूपको भूल गये । इसी समय जिसका टलना अत्यन्त कठिन है, वह प्रबल वेगशाली कराल काल, चूहेके बिलमें जैसे सर्प घुस आये, उसी प्रकार उनके सिरपर चढ़ आया ॥ २६ ॥ उस समय भी वह हरिणशावक उनके पास बैठा पुत्रके समान शोकातुर हो रहा था। वे उसे इस स्थितिमें देख रहे थे और उनका चित्त उसीमें लग रहा था। इस प्रकारकी आसक्तिमें ही मृगके साथ उनका शरीर भी छूट गया । तदनन्तर उन्हें अन्तकालकी भावना के अनुसार अन्य साधारण पुरुषोंके समान मृगशरीर ही मिला। किंतु उनकी साधना पूरी थी, इससे उनकी पूर्वजन्मकी स्मृति नष्ट नहीं हुई ॥ २७ ॥ उस योनिमें भी पूर्वजन्मकी भगवदाराधना के प्रभावसे अपने मृगरूप होनेका कारण जानकर वे अत्यन्त पश्चात्ताप करते हुए कहने लगे ।। २८ ।। W FIFIE ४ अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्त समस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य सकलय मेन कालेन समावेशित समाहितं कात्स्न्येन मनस्तत्तं पुनर्ममाबुधस्यारान्मृगसुतमनु परिस्राव ।। २९ ।। इत्येवं निगूढनिर्वेदो विसृज्य मृर्गी मातरं पुनर्भगवत्क्षेत्रमुपशमशील मुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम ।। ३० ।। तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्क पर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृग- शरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ॥ ३१ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चम स्कन्धे भरतचरितेऽष्टमोऽध्यायः ॥ ८ ॥ अन्वयः - अहो कष्टम् अहम् आत्मवताम् अनुपथात् भ्रष्टः यत् विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्य आत्मवतः मम मनः सर्वेषाम् आत्मनाम् आत्मनि भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेन अशून्यस कलयामेन कालेन समावेशितम् समाहितम् तत् अबुधस्य तु पुनः कार्त्स्न्येन आरात् मृगसुतम् अनु परिस्राव ।। २९ ।। ** इति एवम् निगूढनिर्वेदः मातरम् मृगीम् विसृज्य पुनः कालंजरात भगवत्क्षेत्रम् उपशमशीलमुनिगणयितम्: शालग्रामम् पुलस्त्य- पुलहाश्रमम् प्रत्याजगाम ॥ ३० ॥ तस्मिन् अपि कालम् प्रतीक्षमाणः च भृशम् सङ्गात् उद्विग्नः आत्मसहचरः शुष्क पर्णतृणवीरुधा आवर्त्तमानः मृगनिमित्तावसानम् एव गणयन् तीर्थोदकक्लिन्नम् मृगशरीरम् उत्ससर्ज ॥ ३१ ॥ मेरी mame s iss Plent sha ॥ ८ ॥ is inste EER free in D E F श्रीधरखामिविरचिता भावार्थदीपिका है अहो कष्टं धीराणां मार्गाद् भ्रष्टोऽहम् । भ्रंशमेवाह । यद्यतो विमुक्ताः समस्ताः संगा येन । विविक्त पुण्यारण्यं शरणं यस्य । आत्मवतो धीरस्य मम मनः सर्वेषां भूतानामात्मनि वासुदेवे समावेशितं समाहितं च निश्चल सदाराद् दूरादेव परिस्राव - गलितं निःसृतम्। केन समावेशितम् । तस्यानुश्रवणादिष्वभियोगेनाभिनिवेशेनाशून्याः सकला यामा यस्मिंस्तेन कालेन ॥ २९ ॥ ४ आत्मैव निगूढोऽनाविष्कृतो निर्वेदो येन । शालवृक्षोपलक्षितं ग्रामम् । कालंजराद्यत्र हरिणा जातस्तस्मात्पर्वतात् ॥ ३० ॥ व सहचरो यस्य एकाकी | प्रतीक्षमाणस्यैव प्रपंचः मृगत्वनिमित्तेति । तीर्थोदकेन किन्नमाद्रमर्धोदकस्थमित्यर्थः ॥ ३१ ॥ ॥ फारइति श्रीभा० म० पञ्चमस्कन्धे टीकायामष्टमोऽध्यायः ॥ ८॥ Ver १. २ प्रा०पा० - ३. प्रा०पा० - ४. प्रा० पा० - ५० प्रा० पा० - garjite । स्कं. ५.८ श्लो. २९-३१] अनेकव्याख्यासमलङ्कृतम् १७७ perior highीवंशीधरकृतो भावार्थदीपिकाप्रकाश मह शालग्रामं तदाख्यं क्षेत्रं गंडकीतटम् ॥ ३० ॥ * तस्मिन्नपि क्षेत्रे ॥ ३१ ॥ ॥ Fr != TELERISTETTIERE FIERS-Ipping genfs Esper frynn Aprights At इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धेऽष्टमोऽध्यायः ॥ ८ ॥ gree एक ि श्रीमद्वीरराघवव्याख्या
तदेवाह अहो इति । आत्मविदां ज्ञानिनामनुपथान्मार्गानुसरणादहं भ्रष्टः अहो कष्टमिति खेदं प्राप्तस्तमेवाह । यद्यस्मात्त्यक्ताः समस्ता देहतदनुबन्धिसङ्गा येन विविक्तं निर्जनं पुण्यारण्यं तदेव शरणं गृहं यस्य आत्मवतः जितेन्द्रियस्य मम सर्वेषां भूतानामन्तरात्मभूते भगवति वासुदेवे तस्य भगवतः अनुश्रवणाद्यभिनिवेशेनाशून्याः सकला यामा यस्मिंस्तेन कालेन सम्यगावेशितं कार्त्स्न्येन सर्वविषयेभ्यः समाहितं प्रत्याहतं यन्मनस्तदेव पुनरधुना रागान्मृगसङ्गादबुधस्य मम मृगसुतमनुसृत्य परितः कार्त्स्न्येन योगात् सुस्राव भ्रंशितम् ॥ २९ ॥
इत्येवं निगूढः अनाविष्कृतो निर्वेदो येन सः मातरं मृगीं हरिणीं विसृज्य उपशमशीलानां दयितं प्रियं भगवदभिव्यक्तिस्थानं शालग्रामाख्यं पुलहाश्रमं प्रति कालंजराख्यात्वोत्पत्तिस्थानात्पर्वतादाजगाम ॥ ३० ॥
तस्मिन्पुलहाश्रमे आत्मैव सहचरः सहायो यस्य एकाकी सन्नल्पं कालं मृगदेहावसानकालं प्रतीक्षमाणः सङ्गात्कस्यचिदपि सङ्गान्नितरां भीतः शुष्कपर्णादिना आहारेण वर्तमानः कालं नयन्नात्मनो मृगनिमित्तस्य प्रारब्धस्यावसानमेव गणयन् तीर्थोदके क्लिन्नमार्द्रम् अर्द्धोदकस्थितं मृगशरीरमुत्ससर्ज तत्याज ॥ ३१ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायाम् अष्टमोऽध्यायः ॥ ८ ॥
श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ।
किमाह अहो इति । किं कष्टं तदाह भ्रष्ट इति । आत्मबत्तानुपथात् आत्मा स्वामी समास्तीति भाववन्त आत्मवन्तः परमात्मज्ञानिन इत्यर्थः तेषां समूहः आत्मवत्ता जनताशब्दवत्तस्यानुपथादनुगमनलक्षणमार्गात् आत्मास्यास्तीत्यात्मवान् तस्य भावः आत्मवत्ता तस्यानुपथादनुसरणात् “पथ गतौ” इति धातोः भ्रष्टः आलम्बं मुक्त्वाधः पतितः कुत एतदिति तत्राह यदिति । सर्वेषामात्मनां चेतनानामात्मनि अन्तर्यामिणि वासुदेवे भगवति कार्त्स्न्येन कालेन समावेशितं समाहितं सन्निधाय स्थिरीकृतं यन्मम मनः पुनस्तदेव मम मनः रोगान्मृगसुतमनुसुस्रावानुसृतमभूदित्यन्वयः । तस्मादिति शेषः, विविक्तं च तत् पुण्यसाधनं च तदरण्यं विविक्तपुण्यारण्यं तदेव शरणं यस्य सः तथा तस्यात्मवतो बुद्धिमतः कथं कात्स्न्येनेति विशेषणं सङ्गच्छते । क्षणार्धमन्यप्रसङ्ग- सम्भवादिति तत्राह तदिति । तस्य वासुदेवस्यानुश्रवणादिषु योऽभियोग आग्रहलक्षणः प्रयत्नस्तेनाशून्या अविनाभूताः सफलाः सकला यामाः यस्मिन्सः तथा तेन ।। २९ ।। * निगूढनिर्वेदोऽन्तर्गतवैराग्यः दयितं प्रियं कालंजराद्विरेः ॥ ३० ॥ ॐ आत्म- सहचर एकाकी म्रुगत्वनिमित्तस्य दुष्कर्मणः प्रारब्धव्यावसानं नाशमेव गणयश्चिन्तयन्संख्यां कुर्वन्निति वा छिन्नमामिति ।। ३१ ।। इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपद रत्नावल्याम् अष्टमोऽध्यायः ॥ ८ ॥ कार BF F श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी आत्मवतो धीरस्य आत्मनां जीवानामात्मनि परमात्मनि तदनुश्रवणादीनामभियोगोऽभिग्रहणं तेन समाहितं निश्चलं यन्मनस्तत् सुस्राव अधः पपात ।। २९ ।। * * कालञ्जरान् स्वजन्मभूमिपर्वतात् शालग्रामं शालग्रामाख्यं क्षेत्रम् ॥ ३०-३१ ॥ FISHES FREE क FIRSPIC FC FPTEE PIFIES BE इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पश्चमस्याष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ८ ॥ Bache श्रीम श्रीमच्छुकदेवकृतः सिद्धांत प्रदीपः ड Fim w अनुपथात् योगमार्गात् अहो कष्टमहं भ्रष्टः, तत्प्रपञ्चयति यदिति । यद्यतः विमुक्ताः समस्ताः सङ्गा येन तस्य विविक्तं ग्राम्यजनशून्यं पुण्यारण्यं तदेव शरणं गृहं यस्य आत्मा परमात्मोपास्यत्वेन विद्यते यस्य तस्य मम मनः सर्वेषां चित्पदार्थानामात्मनि सर्वात्मनि वासुदेवे समावेशितं समाहितं निश्चलं च सत् आराद्दूरादेव सुस्राव पद्मपत्राद्यथा जलबिन्दुः दूरान्निःसृतं भवति केन समावेशितं तस्य वासुदेवस्य अनुश्रवणादिष्वभियोगोऽभिनिवेशस्तेन अशून्याः सकला यामा यस्मिन् तेन कालेन ।। २९ ।। * इत्येवं नितरां गूढो गुप्तो निर्वेदो यस्य सः कालंजरात् स्वोत्पत्तिस्थानात् गिरेः शालग्रामाख्यं भगवत्क्षेत्रं पुनराजगाम ॥ ३० ॥ * २३ १३८ श्रीमद्भागवतम् [ स्कं. ५ अ. ८ श्लो. २९-३१ तस्मिन् भगवत्क्षेत्र आत्मैव सहचरो यस्य सः कालं मृगदेहभोगकालं प्रतीक्षमाणः । तदेव विवृणोति मृगत्वनिमित्तावसानं गमयन्निति । तदवसाने तीर्थोदकेन क्लिन्नमा तीर्थोदके स्नानं कृत्वेत्यर्थः । मृगशरीरमुत्ससर्ज ॥ ३१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे अष्टमाध्यायार्थप्रकाशः ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी * अतस्तत्रापि जन्मान्तरत्वेन मृगत्वेन च सर्वथा पूर्वस्मृतिभ्रंशकेऽपि जन्मनि ह निश्चयेनात्मनः स्वस्य मृगत्वकारणं मृगासक्तिरूपं भगवदाराधनस्य या समीहाऽनुष्ठानं तदनुभावेन वा एवानुस्मृत्य भृशमनुतप्यमान आह । स्वचित्त इति शेषेणान्वयः ॥ २९ ॥ * * तदुक्ति प्रदर्शयति-अहो इति । अहो आश्चर्य मम कष्टं जातं यत आत्मवर्ता वशीकृतदेहा- दिसंङ्गातानां म मुनीनां अनुपथात् मार्गादहं भ्रष्टः । स्वस्य तन्मार्गस्थितिपूर्वकं ततो भ्रंशमेवाह-यदिति । यद्यस्मात् भगवति वासुदेवे समावेशितं स्थापितं समाहितं सम्यक् निश्चलतया स्थित च यन्मम मनस्तन्तु पुनराराद् दूरात् कात्स्न्येन सर्वाशन मृगसुतमनु मृगसुताभिनिवेशात् परिसुस्राव अवगलितमित्यन्वयः । तन्मार्गस्थितिसूचकानि स्वविशेषणान्याह - विमुक्तास्त्यक्ताः समस्ताः पुत्रादिसङ्गाः येन तस्य विविक्तं जनसङ्घर्षरहितं पुण्यं पवित्रमरण्यं शरणं स्थानं यस्य तस्य । आत्मवतो वशीकृतेन्द्रिया- दिसङ्घातस्य भगवदाराधनमेव सर्वाराधनत्वात् परमपुरुषार्थहेतुरतस्तत्रैव मनस्समाधानं युक्तं नान्यत्रेत्यभिप्रायेण तं विशिनष्टि- सर्वेषामात्मनां प्राणिनामात्मनि अन्तर्यामिणीति । ननु तर्हि स्थापनप्रयत्नशैथिल्यात्ततो मनोऽवगलितं भविष्यतीत्याशङ्कय प्रयत्नातिरेकं दर्शयति - तदिति । तस्य भगवतोऽनुश्रवणं माहात्म्यश्रवणं, श्रुत्वा च मननं तर्कपूर्वक विचारेणासम्भावनादि दूरीकृत्य निश्वयेन हृदि धारणं, तस्यैवाधिकारिश्रोतरि सति कीर्त्तनं, आराधनं पूजा स्तोत्रपाठादिना एकान्ते तदनुस्मरणं प्रत्ययान्तरव्यवधानं विना चिन्तनं निदिध्यासनं तेषु अभियोगः अभिनिवेशस्तेन अशून्याः सम्बद्धाः सकला यामा यस्मिंस्तेन कालेन । एवं महता प्रयत्नेन समावेशितमपीत्यर्थः । तर्हि कथमेवं परमपुरुषार्थसाधने प्रवृत्तस्य मृग आसक्तिरित्याशङ्कयाज्ञानादेवेत्यभिप्रेत्याह- अबुधस्येति । अत्रेदं बोध्यम् - अयं हि मनःसमावेशादिसाधनमेव मोक्षहेतुतया मन्यते, न भगवदनुग्रहम्, अतस्तत्सम्पत्त्यैव मोक्षः, अन्यथा मृगशरीरादेव गजेन्द्रवन्मोक्षः स्यादिति ॥ ३० ॥ * इत्येवं निगूढ आच्छन्नो निर्वेदो यस्य सः । मातरं विसृज्य त्यक्त्वा यत्र हरिणो जातस्तस्मात् कालञ्जराख्यात् पर्वतात् पुनः शालवृक्षोपलक्षितं ग्रामं पुलस्त्यपुलहाश्रमं प्रत्याजगाम आगतः । तत्र गमने हेतुमाह भगवत्क्षेत्रमिति । भगवत्स्थानत्वेन शीघ्रमोक्षहेतुत्वादिति भावः । अत एवोपशमशीलस्य त्रिवर्ग- विरक्तस्यापि मुनिगणस्य दयितं प्रियम् ॥ ३१ ॥ * * तस्मिन्नपि क्षेत्रे कालमेव प्रतीक्षमाणः कदा विमुक्तिकाल आगमिष्यतीति कालस्यैव प्रतीक्षा कृता, न भगवान् कदा प्रसादं करिष्यतीति भगवतः प्रतीक्षेत्यर्थः । मृगसङ्गाद् भ्रंशितोऽतोऽन्यस्यापि सङ्गाद् भृश- मत्यन्तं उद्विग्नः भीतः । आत्मैव सहचरो यस्य सः एकाकी हिंसापरिहाराय शुष्कैरेव पर्णादिभिर्वर्त्तमानः शरीरनिर्वाहं कुर्वन् मृगत्वनिमित्तस्य मृगासक्तिजन्यदोषस्य अवसानं समाप्तिमेव गणयन् तस्मिन् काले प्राप्त तीर्थोदकेन किन्नमामर्धोदकस्थं मृगशरीरमुत्ससर्ज तत्याज ॥ ३२ ॥ ESE की श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥१॥ भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र योगेन स्थितिरूपणे । अष्टमो विवृतोऽध्यायो मनश्चाञ्चल्यरूपकः ॥ ३ ॥ इति श्रीमद्गिरिधराख्येन ww । भाषानुवादः * ‘अहो ! बड़े खेदकी बात है, मैं संयमशील महानुभावों के मार्गसे पतित हो गया ! मैंने तो धैर्यपूर्वक सब प्रकारकी आसक्ति छोड़कर एकान्त और पवित्र वनका आश्रय लिया था । वहाँ रहकर जिस चित्तको मैंने सर्वभूतात्मा श्रीवासुदेवमें, निरन्तर उन्हींके गुणोंका श्रवण, मनन और सङ्कीर्तन करके तथा और सङ्कीर्तन करके तथा प्रत्येक पलको उन्हींकी आराधना और स्मरणादिसे सफल करके, स्थिरभाव से पूर्णतया लगा दिया था, मुझ अज्ञानीका वही मन अकस्मात् एक नन्हें-से हरिण शिशुके पीछे अपने लक्ष्यसे च्युत हो गया !’ ॥ २९ ॥ * इस प्रकार मृग बने हुए राजर्षि भरतके हृदय में जो वैराग्य-भावना जागृत हुई, उसे छिपाये रखकर उन्होंने अपनी माता मृगीको त्याग दिया और अपनी जन्मभूमि कालञ्जर पर्वतसे वे फिर शान्तस्वभाव मुनियोंके प्रिय ॐ उसी शालग्रामतीर्थ में जो भगवान्का क्षेत्र है, पुलस्त्य और पुलह ॠषिके आश्रमपर चले आये ।। ३० ।। * वहाँ रहकर भी वे कालकी ही प्रतीक्षा करने लगे। आसक्तिसे उन्हें बड़ा भय लगने लगा था । बस, अकेले रहकर वे सूखे पत्ते, घास, और झाड़ियोंद्वारा निर्वाह करते मृगयोनिकी प्राप्ति करानेवाले प्रारब्धके क्षयकी बाट देखते रहे । अन्तमें उन्होंने अपने शरीरका आधा भाग गण्डकीके जलमें डुबाये रखकर उस मृगशरीरको छोड़ दिया ।। ३१ ।। इत्यष्टमोऽध्यायः ॥ ८ ॥ inding aed 3 235 for immmp The Empire tell me the p ring his empir pust अथ नवमोऽध्यायः ham लगे श्रीशुक उवाच 1 min अथ कस्यचिद् द्विजवर स्थाङ्गिरः प्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रभयविद्यानसूयात्म- ज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभ्रुवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १ ॥ यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ २ ॥ तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुण विवरण चरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्व जन्मावलिरात्मानमुन्मत्त जडान्धबधिरस्वरूपेण लोकस्य ।। ३ ।। दशयामास तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आ समावर्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ ४ ॥ स चापि तदु ह पितृसंनिधावेवासधीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः सप्रणवशिर त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ।। ५ ।। एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनत्रतनियमगुर्व नलशुश्रेषणाद्योपकुर्वणिककर्माण्यनभियुक्ता न्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावद् अनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६ ॥ अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोक- मगात् ॥ ७ ॥ पितर्युपरते भ्रातर एनमतत्प्रभावविदत्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनु- शासन निर्वन्धान्यवृत्सन्तः ॥ ८ ॥
अन्वयः - अथ कस्यचित् अंगिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसंतोषतितिक्षाप्रश्रय विधानसूयात्मज्ञाना- नंदयुक्तस्य द्विजवरस्य आत्मसदृशश्रुतशीलाचाररूपौदार्यगुणाः नव अंगजाः सोदर्याः बभूवुः यवीयस्याम् भार्यायाम् मिथुनम् च ॥ १ ॥ * तत्र तु यः पुमान् तम् परमभागवतम् राजर्षिप्रवरम् उत्सृष्टमृगशरीरम् भरतम् चरमशरीरेण विप्रत्वम् गतम् आहुः |२॥ * तत्र अपि च स्वजनसंगात् भृशम् उद्विजमानः भगवतः कर्मबंधविध्वंसनश्रवण स्मरण. गुणविवरणचरणारविंदयुगलम् मनसा विदधत् आत्मनः प्रतिघातम् आशंकमानः भगवदनुग्रहेण अनुस्मृतस्वपूर्वजन्मावलिः आत्मानम् उन्मत्तजडांधबधिरस्वरूपेण लोकस्य दर्शयामास ॥ ३ ॥ * * ६ वा च पुनः पुत्रस्नेहानुबद्धमनाः विप्रः तस्य आत्मजस्य अपि आ समावर्तनात् संस्कारान् यथोपदेशम् विदधानः उपनीतस्य अनभिप्रेतान् अपि शौचाचमनादीन् कर्मनियमान् समशिक्षयत् हि पुत्रेण पितुः अनुशिष्टेन भाव्यम् इति ॥ ४ ॥ * * सः अपि च तत् उ ह पितृसन्निधौ एवं असध्रीचीनम् इव करोति स्म छन्दांसि अध्यापयिष्यन् व्याहृतिभिः सह सप्रणवशिरस्त्रिपदीम् सावित्रीम् प्रेष्मवासंतिकान् मासान् अधीयानम् अपि असमवेतरूपम् प्राहयामास ॥ ५ ॥ * * एवम् आत्मनि स्वतनुजे अनुरागावेशितचित्तः समनुशिष्टेन भाव्यम् इति असदाग्रहः अनभियुक्तानि शौचाध्ययन व्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माणि अपि पुत्रम् अनुशास्य स्वयम् तावद् अनधिगतमनोरथः स्वयम् गृहे एव प्रमत्तः अप्रमत्तेन कालेन उपसंहृतः ॥ ६ ॥ अथ यवीयसी द्विजसती स्वगभंजातम् मिथुनम् सपत्न्याः * Ter १. २. प्रा० पा० - ३. प्रा० पा० - ४. प्रा० पा० - ६. प्रा० प्रा० - १८० श्रीमद्भागवतम् * [ स्कं. ५ अ. ९ श्लो. १-८ उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात् ॥ ७ ॥ पितरि उपरते अतत्प्रभावविदः त्रय्याम् विद्यायाम् एव परविद्यायाम् न पर्यवसितमतयः भ्रातरः एनम् जडमतिः इति भ्रातुः अनुशासननिबंधात् न्यवृत्संत ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका नवमे जडविप्रत्वे तस्य रागाद्यभावतः । भद्रकाली पशुत्वेऽपि निर्विकारत्वमीर्यते ॥ १ ॥ ॥ ॥ पितुः प्राप्तात्मविज्ञानो भरतो मृगतां गतः । प्रारब्धकर्मवेगेन तदते जडविप्रताम् ॥ २ ॥ आंगिरसगोत्रजानां प्रवरस्य श्रेष्ठस्य । शमादियुक्तस्य । त्यागोऽत्रातिथ्यादिभ्योऽन्नदानादि । विद्या कर्मविद्या । आत्म- देहादिव्यतिरिक्तभोक्त्रात्मज्ञानम् | आनंदो धर्मसंपत्तिजः 1 आत्मना सदृशाः श्रुतादयो गुणा येषां ते समानोदरा नव पुत्रा बभूवुः । यवीयस्यां कनिष्ठायां च मिथुनं स्त्रीपुरुषयुग्मम् ॥ १ ॥ * * उत्सृष्टं मृगशरीर येन तम्। "” “शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते” इति स्मृतेः ॥ २ ॥ * * तत्रापि चान्यसंगादात्मनो भ्रंशमाशंकमानश्चात्मानमुन्मत्तादिरूपेण दर्शयामासेत्यन्वयः । किं कुर्वन् । कर्मबंधविध्वंसनं श्रवणं स्मरणं गुणानां विवरण कथनं च यस्य तस्य भगवतश्चरणारविंदयुगलं मनसा विशेषेण वारयन् । प्रतिघातशंकायां हेतुः । अनुस्मृता स्त्रीयपूर्वजन्मनामावलिः परंपरा येन सः ॥ २ ॥ पुत्र- स्नेहेऽनुबद्धं मनो यस्य । जडस्य गार्हस्थ्यानधिकारात्समावर्तनांतान्संस्कारान्विदधानस्तमुपनीयोपनीतस्य पुन, शौचादींस्तस्या- नभिप्रेतानपि शिक्षितवान् । तत्र हेतुः । अनुशिष्टेन हि भाव्यं पितुः सकाशात्पुत्रेणेति ॥ ४ ॥ * * सोऽपि च पितुः शिक्षा- निबंधनिवृत्तये असध्रीचीनमसमीचीनमिव करोति स्म । उपाकरणवेदव्रताधनन्तरं श्रावणादिमासेषु वेदानध्यापयिष्यन्नादौ वावव्याहृतिभिः सह प्रणवशिरः सहितां त्रिपदीं चैत्रादिचतुरो मासानधीयानमप्यसमवेतरूपं यथा भवत्येवं ग्राहयामास । तावतापि कालेन खरानुपूर्व्या युक्तं व्याहृत्यादि तस्य नागतमित्यर्थः ॥ ५॥ * * आत्मभूते, स्वतनुजेऽनुरागेणावेशितं चित्तं येन । शौचादीनि यान्योपकुर्वाणकस्य सावधित्रह्मचर्यवतः कर्माणि तेनानभियुक्तान्यनादृतान्यपि तं पुत्रं प्रत्यनुशास्याध्यप्राप्तपुत्रपांडित्य- मनोरथः स्वयं कालेनोपसंहृतो मृत इत्यर्थः । अनुशासननिर्बंधे पुनस्तमेव हेतुमाह । अनुशिष्टेन भाव्यमित्यसन्न योग्य आग्रहो यस्य ॥ ६॥ * * सपत्न्यै समर्प्य | अनुसंस्थया ऽनुमरणेन ॥ सप्तम्यतपाठेऽप्ययमेवार्थः ॥ ७ ॥ * * न्यवृत्त निवर्तितुमैच्छन् । निवृत्ता इत्यर्थः । । श्रीवंशीधरकृतो भावार्थदीपिकाप्रका तथा चकारति भावः ॥ ५ ॥ क .. । का तस्य उत्सृष्टमृगशरीराप्तविप्रदेहस्य । भद्रकाली दुर्गा ( १ ) सदते प्रारब्धकर्मान्ते ( २ ) । अथ मृगदेहत्यागानन्तरम् । स्वाध्यायाध्ययनं स्वशाखोचितवेदाध्ययनम् । संतोषो यदृच्छालाभेनालंबुद्धिः । परापराधसहनं तितिक्षा । प्रश्रयः प्रणयः ॥ १ ॥ * * तत्र मिथुने । चरमशरीरेणांत्यदेहेन । मोक्षे, मुख्याधिकारित्वेन ब्राह्मणदेहस्यैव चरमत्वमेतञ्च स्वयं भगवता श्रीकृष्णेन श्रीदशमे मुचुकुंदोपाख्याने स्फुटीकृतम् । “भूत्वा द्विजवरस्त्वं मामुपैष्यसि केवलम्” इत्यादिना ॥ २ ॥
- तत्रापि ब्राह्मणशरीरेपि । चादन्यसंगात् । लोकस्य लोकम् ॥ ३ ॥ * * तस्यापि
-
- तस्यापि जडस्वरूपस्यापि । समावर्त्तनं संस्कारभेदः । अनभिप्रेतांस्तस्मै आरोचमानानपि । तत्र शिक्षणे । अनुशिष्टेन शिक्षितेन ॥ ४ ॥ * * इत्यर्थ इति । पितृकर्तृकपाठनहठ- “आत्मा वै पुत्रनामासि” इति श्रुतेरात्मभूते स्वस्वरूपे । इत्यर्थ इति । उपसंपूर्वस्य हरतेः समाप्यर्थकत्वादिति भावः । समनुशिष्टेन सम्यक्शिक्षितेन पुत्रेण भाव्यं भवितव्यम् । पितुः नकाशादिति । बालापाठने “माता बैरी पिता शत्रुबली याभ्यां न पाठितः” इत्यादिना मातापित्रोरपि निंदाश्रवणात्तन्निवृत्तये यथाबलं स्वविद्यानिष्णात एवात्मजः कारयितव्य इति ॥ ६ ॥ * अथ भर्तृमरणोत्तरम् । यत्तु “मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्म- शासनात्” इति हारीतेनोक्तं तत्पृथकृचितिविषय “पृथक्चितिं समारूढा न विप्राऽग्निं समाविशेत्” इति बृहन्नारदीयोक्तेः ॥ ७॥ * * पितरीति । अनुशिष्टवतीति शेषः । एनमनुशिष्टवति । पितर्युपरते सति । इत्यर्थ इति । न तु पितेव तस्मिन्नाग्रहवंत । । इति भावः । सन्नताल्लङि लुङि वा रूपमिदमार्षमेवेति ज्ञेयम् । न परविद्यायामित्यनेन त्रैगुण्यविषया वेदाः” इत्यादिभगवदुक्त त्रयीविद्यातीतत्वं परविद्यात्वं च दर्शितं तत्रापीत्यादिगधे तस्य भक्त्येकनिष्ठताया दर्शितत्वात् । अत्र चैवं ज्ञेयम् सोयमंतर्भगव- निष्ठ एव आत्मारामता तु शुकादिवद्बहिरंगैव तदावरणाय प्रयुक्ता तस्या अध्यावरणायोन्मत्तचेष्टतेति । किश्न- भगवद्भक्तिरेव पर- विद्या ‘सा विद्या तन्मतिर्यया’ इति नारदोक्तेः । ‘विद्यान्या केवल विद्या परविद्या हरौ मतिः’ इत्युक्तेश्च । क्वचिन्न्य- वृत्सन्नित्यपि पाठः ॥ ८ ॥ hicle Peg Fire mic Em fat fhape & 12 ASHPE FOLK FEARE र ध शुद श्रीमद्वीरराघवव्याख्या
एवमारब्धभगवद्भक्तियोगस्यापि भरतस्य प्रारब्धकर्मात्तमृगासक्त्या मृगत्वापत्ति प्रारब्धकर्मावसाने मृगत्वनिवृत्तिं चाभिधायेदानीं “नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्” इति । “नहि कल्याणकृत्कश्चिद्दुर्गतिं तात ! गच्छति ॥ प्राप्य पुण्यकृताॉल्लोकामुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभि जायते ॥ अथवा योगिनामेव कुले भवति धीमताम् ।” इत्युक्तरीत्या तस्य विशिष्टकुलप्रसूतिं देहादिष्वनादरं ततो मुक्तिं चाभिधत्ते अथेत्यादिना । अथ मृगशरीरत्यागानन्तरमाङ्गिरसस्य यवीयस्यां कनिष्ठायां भार्यायां यन्मिथुनं स्त्रीपुंसयुग्मं समजायत तत्र मिथुने यस्तु पुमान् तं परमभागवतं राजर्षिप्रवरमुत्सृष्टं मृगशरीरं येन तं चरमशरीरेण विप्रत्वं गतमाहुरित्यन्वयः । आङ्गिरसप्रवरं विशिनष्टि । द्विजश्रेष्ठस्याङ्गिरसगोत्रोद्भवानां मध्ये प्रवरस्य शमादियुक्तस्य तत्र शमदमावन्तर्बाह्येन्द्रियनिग्रहौ तपोऽनशनादि स्वाध्यायाध्ययनं वेदाध्ययनं त्यागो दानं सन्तोषो दैवाल्लब्धेन तितिक्षा द्वन्द्वसहिष्णुता प्रश्रयो विनयः विद्या शास्त्रजन्यज्ञानं अनसूया परेषु दोषानाविष्करणमात्मज्ञानं ज्ञानयोगः आनन्दो ब्रह्मानन्दानुभवरूपो भक्तियोगः, आत्मना स्वेन स्वसदृशाः श्रुतादयः गुणा येषां ते, श्रुतं वेदार्थश्रवणं, नव सोदरा अङ्गजा आत्मजा बभूवुः ज्येष्ठायां भार्यायामिति शेषः ॥ १-२ ॥
तत्रापि विप्रजन्मन्यपि स्वजनसङ्गादात्मनः प्रतिघातं भ्रंशमाशङ्कमानस्तत्र हेतुः भगवदनुग्रहेणैवानुस्मृता स्वीया पूर्वजन्मनामावलिः परम्परा येन सः आत्मानमुन्मत्तादिरूपेण लोकस्य दर्शयामास । किं कुर्वन् कर्मबन्धविध्वंसनं श्रवणं स्मरणं गुणानां विवरणं कथनं यस्य तत्कर्मबन्धविध्वंसनसमर्थश्रवणादियुक्तमित्यर्थः, एवंविधं भगवतश्चरणारविन्दं मनसा विदधानः विशेषेण धारयन् ॥ ३ ॥
स विप्रः आङ्गिरसस्तस्य जडादिवेषस्य पुत्रस्य पुत्रस्नेहेनानुबद्धमासक्तं मनो यस्य तथाभूतः सन् समावर्तनं स्नातकं तत्पर्यन्तान् संयतान् संस्कारान् गर्भाधानादीन् यथाविधि कुर्वाण उपनीतस्य तस्यानभिप्रेतान् पूर्ववासनयावगतत्वात् शिक्षणीयत्वेनानभिप्रेतानपि शौचाचमनादीन् कर्मनियमान्नित्यनैमित्तिकादिभेदेन नियतान् समशिक्षयत् । शिक्षायां हेतुमाह अनुशिष्टेनेति । पितुः सकाशादनुशिष्टेन विविच्य ज्ञापितेनैव पुत्रेण भवितव्यमितीति बुद्ध्येत्यर्थः ॥ ४ ॥
सोऽपि च पितुः शिक्षानिर्बन्धनिवृत्तये तत्सन्निधावसध्रीचीनमसमीचीनमिव करोति छन्दांस्यध्यापयिष्यन् “श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्थपञ्चमान्” इत्युक्तरीत्या वेदानध्यापयिष्यन् तावदादौ व्याहृतिभिः सह प्रणवशिरः सहितां त्रिपदीं सावित्रीं गायत्री व्याहृतयो भूरादयः प्रणवमोङ्कारः शिरः ओमापोज्योतिरित्यादि एवंभूतां सावित्रीं ग्रैष्मवासन्तिकान्मासांश्चतुरो मासानधीयानमप्यध्ययनं कुर्वाणमपि पुत्रमसमवेतरूपं स्वरादिगायत्र्यानुपूर्व्या वियुक्तं न भवति यथा तथा ग्राहयामास तावता कालेनापि स्वरानुपूर्व्या वियुक्तव्याहृतिसहिता गायत्री तस्य दृढा नाभूदित्यर्थः ॥ ५ ॥
एवं स्वात्मजे आत्मनि “आत्मा वै पुत्रनामासि” इति श्रुत्युक्तरीत्या पुत्ररूपे आत्मन्यनुरागेणावेशितमासञ्जितं चित्तं येन सः शौचादीन्यौपकुर्वाणस्य सावधिब्रह्मचर्यवतो यानि कर्माणि उपकुर्वाणो गुरुशुश्रूषादिना वेदाध्ययनादि कुर्वाणः ब्रह्मचारी शौचं स्नानादिजन्या शुद्धिः व्रतानि काण्डव्रतादीनि तान्यभियुक्तान्मप्यविस्मृतवेदस्य तस्याध्ययनानपेक्षत्वादध्यापनाङ्गानि कर्माण्यनुपयुक्तानीत्यर्थः, सम्यगनुशिष्टेन पुत्रेण भाव्यमित्यसदाग्रहः दुरभिमानवान् पुत्रमनुशास्यापि शिक्षित्वापि अनधिगतः मनोरथः पुत्रवैदुष्यरूपो येन सः तावदेवाप्रमत्तेन कालेन मृत्युना स्वयंगृहे प्रमत्तः सन्नुपसंहृतः मृत इत्यर्थः ॥ ६ ॥
अथ संहृत्यनन्तरं यवीयसी कनिष्ठा द्विजसती द्विजभार्या स्वगर्भजातं मिथुनं सपत्न्या उपसमीपे निधाय सपत्न्यधीनं कृत्वा स्वयमनुसंस्थया अनुसरणप्रक्रियया पतिलोकमगात्प्राप्तवती ॥ ७ ॥
पितर्युपरते मृते सति भ्रातरो नव एनं जडमतिरिति बुद्ध्याऽनुशासनरूपान्निर्बन्धान्न्यवृत्सन्त निवर्त्तितुमैच्छन् शिक्षां नाकुर्वन्नित्यर्थः । जडमतिरित्यत्र हेतुं वदन्विशिनष्टि । अतत्प्रभावविदस्तस्य भ्रातुः प्रभावमजानन्तः तत्रापि हेतुः त्रय्यामेव विद्यायां कर्माविबोधात्मककेवलवेदविद्यायामेव पर्यवसितमतयः न ब्रह्मविद्यायां वेदान्तविद्यायां पर्यवसितमतयः ॥ ८ ॥
- "
- *
- श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
- अथ
- प्रायो वैराग्यसाधनसामग्रीसंपन्नस्यापि ब्राह्मणशरीरस्य सतः पुरुषस्य ज्ञानान्मुक्तिरित्यभिप्रायोऽस्मिन्नध्यायें निरूप्यते । तदर्थमुत्पन्नज्ञानस्यापि भरतस्य विप्रतनुत्वप्राप्तिमाह अथेति । अथ मृगशरीरोत्सर्जनानन्तरं कल्याणकर भरतकथोच्यत इति वा । त्यागो दानं देवतामुद्दिश्य द्रव्यत्यागलक्षणो यज्ञो वा सन्तोषो यदृच्छालाभेना लंबुद्धिः शमाद्यात्मज्ञानान्तं तैर्य आनन्दस्तेन युक्तस्य शमादीनामानन्देन समृद्धया युतस्येति वा आत्मनः पितुर्गुणसदृशश्रुतादिगुणा येषां ते तथा सोदर्या अङ्गजाः एकस्या मातुः उदरजातत्वात् सोदर्याः अङ्गजाः पुत्राः ॥ १ ॥ * * उत्सृष्टी मृगशरीरं येन स तथा चरमशरीरेणान्त्यदेहेन ॥ २ ॥ ** तत्र विप्रजन्मन्यपि लोकस्यात्मानमुन्मत्तादिरूपेण दर्शयामासेत्यन्वयः । उद्विजमानः स्वस्थानप्रच्युतिरिति विभ्यत् गुण- विवरणं व्याख्यानं विशेषेण दधतः आत्मनः स्वस्य श्रवणादेः प्रतिघातं विघ्नमाशंसमानः निरूपयन् अनुस्मृता स्वस्य पूर्वजन्म- नामावलिः परम्परा येन स तथा ॥ ३ ॥ * * स विप्रः पिता तस्यात्मजस्यापि लोकविद्विष्टस्यापि समावर्तनपर्यन्तं सतः संस्कारान् विप्रजातिविहितान् जातकर्मादीन्यथोपदेशं विदधानः कुर्वाणः पुनरुपनीतस्य शौचाचमनादीन् कर्मनियमाननभीष्टानपि समशिक्षयदित्यन्वयः । अनभिप्रेताश्चेत्किमित्यशिक्षयदिति तत्राह । अनुशिष्टेति । ह वा इत्येतौ भरतस्यापरोक्षज्ञानित्वेन कामचारो न दोषायेति सूचयतः, अत एवासदाग्रह इत्युक्तम् ॥ ४ ॥ यत्पित्रा शिक्षितं तदेव सधीचीनं समीचीनं रमणीयमिव किचिदन्यथा हेत्यनेन अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः इत्यादि स्मार्तन्यायमनुसन्धान इवेति दर्शयति । सह प्रणवेन
- ল
- dic
- ૮૨
- श्रीमद्भागवतम्
- [ स्कं ५अ. ९ लो. १८
- शिरसा त्रिपदी सप्रणवशिर त्रिपदी तामसमवेतरूपं असमञ्जसरूपं यथा तथा छन्दांसि वेदान् ॥ ५ ॥ * * “आत्मा वै पुत्रनामासि” इति श्रुतेरात्मनीति व्यपदेशः औपकुर्वाणकानि उपकुर्वाणयोग्यानि उपकुर्वाणो विवाहः भिक्षाटनं वा अतदभियुक्तानि तस्यानपेक्षितानि एवमादीन्यपि कर्माणि ग्राहयन् पुत्रमशिक्षयदित्यन्वयः । अनागतमनोरथः अप्राप्तनिजाभिप्रायः उपसंहृतो मृतोऽभूत् ॥ ६ ॥ * * अनुसंस्थया अनुमरणेन ‘अग्निप्रवेशलक्षणेन वय्यां अग्निष्टोमेन स्वर्गकामो यजेते त्याद्यायां कर्मप्रति- पादिकायां पर्यवसितमतयः पुरुषार्थबुद्धयः “ब्रह्मविदाप्नोति परं तमेवं विद्वानमृत इह भवति” इत्याद्यायां न निष्णातमतयः अनुशासननिर्बन्धाच्छिक्षा रक्षणाग्रहात् न्यवृत्सन्त निवर्तितुमैच्छन् || ७-
- श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भ
- Ho
- *
- भक्तत्वादेवमात्मनो भक्तिप्रतिघातमाशङ्कमानः ।। १-२ ॥ * * स्वजनसङ्गाच्च भृशमुद्विजमान इत्यधिकं चान्यत्र नास्ति स्वाम्यसम्मतच दृश्यते । व्यवधानेन योजितत्वात् ॥ ३ ॥ * अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेतीत्यस्य पितु- र्वाक्यस्य तस्मादयमनुशिष्टः कर्त्तव्यः । व्यतिरेके तु स्वयं दोषावहः स्यादिति तात्पर्यम् ।। ४-७ ॥ * पितर्युपरत इति । एवं जडमतिरिति । ज्ञात्वेति योज्यं ज्ञात्वेत्यध्याहारात् न परविद्यायामित्यनेन भगवद्भक्तस्त्रयीविद्यातीतत्वं परविद्यात्वच दर्शितं तत्रापीत्यादि गद्य तस्य भक्त्येकनिष्ठताया दर्शितत्वात् ततश्चैवं परामृश्यते। सोऽयमन्तर्भगवन्निष्ठ एवेत्यात्मारामता तु बहिरङ्गा तदावरणाय प्रयुक्ता तस्याप्यावरणायोन्मत्तचेष्टतेति न्यवृत्सन्निति लुङ्प्रत्ययान्त आर्षः ।। ८-२० ।।
- Precite
- ॥
- इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमजीव गोस्वामिकृतक्रमसन्दर्भे नवमोऽध्यायः ॥ ८ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- FE निवमे जडता तस्य गायत्र्या अप्यशिक्षणम् | केदारकर्म देव्या अप्युच्चाटनामितीयते ।।
- आङ्गिरसगोत्रजानां प्रवरस्य श्रेष्ठस्य शमादियुक्तस्य त्यागोऽत्रातिथ्यादिभ्योऽन्नदानादि विद्या कर्मविद्या आत्मज्ञानं देहा- दिव्यतिरिक्तभोक्त्रात्मज्ञानमात्मना सदृशाः श्रुतादयो गुणा येषां ते समानोदरा नव पुत्रा बभूवुः ।। १-२ ।। * कर्मबन्धविध्वं- सनं श्रवणादिकं यस्य तथाभूतं चरणारविन्दं विशेषेण दधत् लोकस्य लोकम् || ३ || अनभिप्रेतानिति शश्वदनुभूयमानभगवत्- स्वरूपत्वेन स्वस्य कर्मानधिकारमननात् पितुः सकाशात् अनुशिष्टेन ॥ ४ ॥ * स भरतः पितुः शिक्षानिबंन्धनिवृत्तये तत् शौचा- चमनादिकमसीचीनं विपर्यस्तं मूत्रपुरीषोत्सर्गादेः प्रागेवाचमन मृत्तिकाशौचादिकं करोति न त्वनन्तरमेवेति तस्य तदपि वस्तुतः समीचीनमेवेति उपाकरणवेदग्रहणाद्यनन्तरं श्रावणादिमासेषु वेदानध्यापयिष्यामि सम्प्रति तु जडमिमं गायत्रीन्तु शिक्षयामीति विचार्य चैत्रादिभिश्चतुर्भिरपि मासैर्निरन्तरमपि गायत्र्याः पादत्रयं पाठयन् सम्पूर्णां तां धारयितुं न शशाकेत्याह छन्दांसीति । असम- वेतरूपं यथा स्यात्तथा ॥ ५ ॥ * खतनुजे पुत्रे आत्मनि स्नेहात् स्वप्राणादप्यधिके इत्यर्थः । औपकुर्वाणकस्य सावधि- ब्रह्मचर्यवतः कर्माणि तेनानभियुक्तानि अनाहतान्यपि तं पुत्रं प्रत्यनुशास्य अनुशासननिर्बन्धे पूर्वोक्तमेव हेतुमाह । स्वयमन्विति उपसंहृतः मृतः ।। ६ ।। * * सपत्न्यै उपन्यस्य सपत्न्यामिति सप्तम्यन्तोऽपि पाठः। अनुसंस्थया अनुमरणेन सप्तम्यन्त- पाठेऽप्ययमेवार्थः ॥ ७ ॥ अनुशिष्टवतीति शेषः, एनमनुशिष्टवति पितरि उपरते सतीत्यन्वयः । न्यवृत्सन् निवर्त्ति- तुमैच्छन् लुङि वा रूपं निवृत्ता इत्यर्थः । उभयथाप्याप्रयोगः । न तु पितेव तस्मिन्नत्याग्रहवन्त इति भावः ॥ ८ ॥
- श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
- ।
- भरतस्य जन्म तत्र प्राणबाधे उपस्थितेऽपि निर्विकारत्वं वर्णयति नवमे । तत्रादौ मृगशरीरत्यागानन्तरम् । “शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिनामेव कुले भवति धीमताम् ॥” इति श्रीमुखोक्तरीत्या द्विजोत्तमगृहे भरतो जात इत्याह । अथेत्यादिना अङ्गिरसो गोत्रजानां प्रवरस्य शमादियुक्तस्य कस्यचिद् द्विजवरस्य आत्मना सदृशाः श्रुतादयो गुणा येषां ते सोदर्याः समानोदराः नव अङ्गजा बभूवुः यवीयस्यां कनिष्ठायां मिथुनं पुत्रकन्यकायुग्मकम् बभूव ।। १-२ ।। * * तत्रापि विप्रजन्मन्यपि स्वजनसङ्गात् चकाराद्देहाभिनिवेशाच भृशमुद्विजमानः यतः आत्मनः प्रतिघातं भ्रंशमाशङ्कमानः कर्म- बन्धविध्वंसनं श्रवणं गुणविवरणं च यस्य तद्भगवतश्चरणारविन्दयुगलं मनसा विदधत् विधारयन् भगवदनुग्रहेण अनुस्मृता स्वीय पूर्वजन्मनामावलियेन सः आत्मानमुन्मत्तादिरूपेण दर्शयामास ॥ ३ ॥ * * तस्यापि उन्मत्तादिवद्वर्त्तमानस्यापि पुत्रस्नेहेन अनुबद्धं मनो यस्य सः आसमावर्त्तनात् समावर्तनपर्यन्तान् उपनयनादीन् संस्कारान् यथोपदेशं विदधानः यथाविधि कुर्वाणः तमुपनीयोपनी तस्य च पुनः शौचादीन् तस्यानभिप्रेतानपि समशिक्षयत् पितुः सकाशादनुशिष्टेन सुशिक्षितेन पुत्रेण ॥ भाव्यमिति हेतोः ॥ ४ ॥ * * स चापि तत् उपदिष्टम् असध्रीचीनमसमीचीनं करोति स्म । स विप्रः उपाकरणवेदव्रताद्यनन्तरं श्रावणादिमासेषु वेदानध्यापयिष्यन् आदौ तावद्वद्याहृतिभिः सह प्रणव शिरः सहितां त्रिपदीं चैत्रादिचतुरो मासानधीयानमप्य- समवेतरूपं यथा भवत्येवं ग्राहयामास ॥ ५ ॥ * * एवमुक्तप्रकारेण समनुशिष्टेन भाव्यमित्यसन् अयुक्त आग्रहो यस्य सः
- ||
- ।
एक. ५ अ. ९ श्लो. १-८ ] अनेकव्याख्यासमलङ्कृतम् १८३ अत एव आत्मनि “आत्मा वै पुत्रनामासि इति वाक्यात् आत्मभूते स्वतनुजे अनुरागेणावेशितं चित्तं येन सः शौचादीनि यान्योपकुर्वाणकस्य सावधित्रह्मचर्यवतः कर्माणि अनभियुक्तानि पुत्रानभीष्टान्यपि पुत्रं प्रत्यनुशास्यापि अनधिगतमनोरथः नाधिगतो न प्राप्तः पुत्रकर्मकौशलमनोरथो येन सः स्वयं यमेनोपसंहृतः ॥ ६ ॥ * * यवीयसी कनिष्ठा द्विजसती विप्रपत्नी सपत्न्यै मिथुनं स्वपुत्रकन्यका युग्ममुपन्यस्य समर्प्य स्वयमनुसंस्थया अनुमरणेन पतिलोकमगात् ॥ ७ ॥ * * एनं जडमति- रिति मत्वा अनुशासननिर्बन्धात् न्यवत्सन् निवर्तितुमैच्छन् निवृत्ता बभूवुरित्यर्थः । यदा रे उन्मत्त ! जड बधिर इत्यभिभाष्य- माणस्तदा तदनुरूपाणि प्रभाषते स परेच्छया कार्यमाणः कर्माणि च करोति ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी भद्रकालीपशुत्वेन तस्य मरणसङ्कटात् । नवमे हरिभक्तेस्तु मोचकत्वं निरूप्यते || १ | क । मि एवं मृगशरीरं त्यक्त्वा भरतो ब्राह्मणो जात इति दर्शयति- अथेति । मृगदेहत्यागानन्तरं कस्यचिद् द्विजवरस्य ब्राह्मणश्रेष्ठस्य आत्मना सदृशः श्रुतादयो गुणा येषां तथाभूताः सोदर्याः समानोदरा नव अङ्गजाः पुत्रा बभूवुरित्यन्वयः । यवीयस्यां कनिष्ठायां च भार्यायां तस्य मिथुनं स्त्रीपुरुषयुग्मं च बभूव । ‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिनामेव कुले भवति धीमताम् ॥ एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ॥ यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव हियते हावशोऽपि सः’ इति स्मृतेर्भरतस्य योगभ्रष्टत्वात् स्मृत्यनुसारि तञ्चरितं प्रदर्शयंस्तत्पितुः श्रेष्ठत्वमाह - आङ्गिरसेति । आङ्गिरसगोत्रजानां मध्ये प्रवरस्य, श्रेष्ठत्वे हेतुः- शमादियुक्तस्येति । शमोऽन्तःकरणनिग्रहः । दमो बहिरिन्द्रियनिग्रहः । तपः परिहारोद्योगराहित्येन त्रिविधतापसहनम् । स्वाध्यायाध्ययनं वेदाध्ययनम् । त्याग आतिथ्यादिभ्योऽन नदानादि । सन्तोष: यदृच्छया प्राप्तेनालम्बुद्धिः । तितिक्षा अपकारिण्यपि क्रोधानुत्पत्तिः । प्रश्रयो नम्रता । विद्या कर्मविद्या । अनसूया परेषु दोषारोपाकन्तु त्वम् । आत्मज्ञानं देहादिव्यतिरिक्तभोक्त्रात्मज्ञानम् । आनन्दो धर्मसम्पत्तिजः ॥ १ ॥ * * तत्र मिथुने यस्तु पुमांस्तमुत्सृष्टं मृगशरीरं येन तं चरमशरीरेण विप्रत्वं राजर्षिप्रवरं भरतमाहुरित्यन्वयः । तच्छरीरस्य चरमवे हेतुमाह-परमभागवतमिति ॥ २ ॥ तत्रापि कर्मबन्धविध्वंसनं श्रवणं स्मरणं गुणानां विवरणं कथनं च यस्य तस्य भगवतश्चरणारविन्दयुगलं मनसा विदधत् विशेषेण धारयन् स्वजनसङ्गादात्मनः प्रतिघातं पुनर्योन्यन्तरसम्बन्धलक्षणमाशङ्कमा नोडत एव ततो भृशमुद्विजमानो भीतश्च तत्परिहाराय लोकस्योन्मत्तादिरूपेण आत्मानं दर्शयामासेत्यन्वयः । प्रतिघातशङ्कायां पूर्वस्मृतिर्हेतुरित्याह-भगवदिति । भक्तत्वाद्भगवदनुग्रहेणानुस्मृताः स्वपूर्वजन्मनामावलिः परम्परा येन सः । उन्मत्तः बातग्रहादिना विवशः । जडो देहाद्यनुसन्धानरहितः ॥ ३ ॥ * * तस्योन्मत्तादिवद्वर्त्तमानस्याप्यात्मजस्य स विप्रः जडस्य गार्हस्थ्यान- धिकारं मत्वाऽऽसमावर्त्तनात् समावर्त्तनान्तान् संस्कारान् यथोपदेशं विदधानस्तमुपनीयोपनीतस्य च पुनः शौचाचमनादीन तस्यानभिप्रेतानपि कर्मनियमान् सम्यगशिक्षयत् शिक्षितवानेव, न तूपेक्षितवानित्यन्वयः । वा इत्यवधारणे। एवमनधिकारिणोऽपि हठाच्छिक्षायां भगवन्मायाकृतमोह एव हेतुरित्याश्चर्येनाह हेति । मोहमेव स्पष्टयति–पुत्रेति, पुत्रस्नेहेनानुबद्धं मनो यस्य सः । मोहितस्य तस्याभिप्रायं दर्शयति अनुशिष्टेनेति । पितुः सकाशात् अनुशिष्टेनानुशिक्षितेनैव पुत्रेण भाव्यमित्यभिप्रायेणे- त्यन्वयः ॥ ४ ॥ * स च भरतः सिद्ध आत्मनिष्ठोऽपि पितुर्निर्बन्धात् पितृसन्निधौ स्थित एवासध्रीचीनमसमीचीनमिव उत्पितृशिक्षितं सर्वं करोति स्मेत्यन्वयः । एवमप्यात्मारामस्य पितृनिर्वन्धापेक्षया तत्र स्थित्या कर्मकरणमाश्चर्यमेवेति सूचेयन्नाह-उ हेति । तेन ब्रह्मविदा कृतं सर्वमपि समीचीनमेव, दोषाकरत्वात्तदसमीचीनत्वं तु लोकद्दष्टयैवेति ज्ञापयितुमिवशब्दः ॥ ५ ॥ * उपाकरणं वेदवताद्यनन्तरं श्रावणादिमासेषु छन्दांसि वेदान् अध्यापयिष्यन्नादौ तावद् व्याहृतिभिः सह प्रणवशिरस्सहितां त्रिपदीं सावित्री चैत्रादियैष्मवासन्तिकांश्चतुरो मासान् अधीयमानमपि असमवेतरूपं यथा भवत्येवं माहयामास । तावताऽपि कालेन स्वरानुपूर्व्यादियुक्तं व्याहृत्यादि तस्य नागतमित्यर्थः ॥ ६ ॥ * * उक्तमेव पुनः स्पष्टीकुर्वन् तत्पितुर्भरणं दर्शयति- एवमिति । एवमुक्तप्रकारेण आत्मन्यात्मत्वेनाभिमते स्वतनुजेऽनुरागेण आवेशितं चित्तं येन सः । अनभियुक्तानि तेनानादृतान्यपि शौचादीनि औपकुर्वाणकस्य सावधिकब्रह्मचर्यवतः कर्माणि तं पुत्रं प्रति अनुशास्यापि स्वयं तावत् अनधिगतमनोरथः नाधिगतः न प्राप्तः पुत्रपाण्डित्यलक्षणो मनोरथो येन सः । स्वयं गृहे प्रमत्तः गृहकार्यासक्त्या कर्तव्यभगवदाराधनानुसन्धानशून्य एवं अप्रमत्तेन अनुल्लङ्घित्तमर्यादेन कालेन उपसंहतो मृतः । एवमनुशासननिर्बन्धे पूर्वोक्तमेव हेतुमाह-समनुशिष्ठेनेति । ‘पितुः सकाशात् सम्यगनुशिष्टेनैव पुत्रेण भाव्यम्’ इत्यसन अयोग्य आग्रहो यस्य सः । न केवलं शिक्षामात्रेण पाण्डित्यं भवति, किन्तु तदनुकूल पूर्व- संस्कारे सत्येवेति तदनवेक्षणात् तदाग्रहस्यासत्त्वं बोध्यम् ॥ ७ ॥ * * अथ पतिमरणान्तरं यवीयसी कनिष्ठा द्विजसती ब्राह्मणस्य तस्य भार्या स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य समर्प्य स्वयमनुसंस्थयाऽनुमरणेन पतिलोकमगात् गता । एवं मातापित्रोः प्रतिबन्धकभूतयोर्मरणात् तस्य निर्बन्धकता जातेति ध्येयम् ॥ ८॥ । १८४ श्रीमद्भागवतम् श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी [स्कं. ५.०९.१-८ नवमे तस्य रागादेरभावाज्जडजन्मनि । पशुत्वे निर्विकारत्वं भद्रकाल्या अपीर्यते ॥ १ ॥ प्राक पित्राप्तात्मविज्ञानो मृगतां भरतोऽभ्यगात् । पुनः प्रारब्धवेगेन प्राप्तोऽन्ते जडविप्रताम् ॥ २ ॥
- । 18 इत्थं प्रारब्धभगवद्भक्तियोगस्यापि भरतस्य प्रारब्धकर्मभोगान्तर्मृगासक्त्या मृगत्वापत्तिं तदवसाने मृगत्वनिवृत्ति चाभि- धाय सांप्रतं ‘नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्’ इति । ‘न हि कल्याणकृत्कञ्चिद् दुर्गतिं तात गच्छति’ इति । ‘प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। अथवा योगिनामेव कुले भवति धीमताम्’ इत्युक्तरीत्या तस्य विशिष्टकुले प्रसूतिं देहादिष्वनादरं ततो मुक्तिं चाभिधत्ते अथेत्यादिना । अथ मृगशरीरत्यागानन्तरं आङ्गिरः प्रवरस्य अङ्गिरसगोत्रोद्भवानां मध्ये श्रेष्ठस्य, शमोऽन्तरिन्द्रियनिग्रहश्व दमो बाह्येन्द्रियनिग्रहश्च तपोऽन- शनादिरूपं च स्वाध्यायाध्ययनं वेदाध्ययनं च त्यागोऽतिध्यादिभ्योऽन्नदानादिरूपश्च संतोषो देवालब्धेन संतुष्टिश्व तितिक्षा द्वन्द्व- सहिष्णुता च प्रश्रयो विनयश्च विद्या शास्त्रजन्यं ज्ञानं च अनसूया परेषु दोषानाविष्करणं च आत्मज्ञानं देहादिव्यतिरिक्तभोक्त्रात्मज्ञानं च आनन्दो ब्रह्मानन्दानुभवरूपो भक्तियोगश्च तैर्युक्तस्तस्य कस्यचित् द्विजवरस्य ब्राह्मणश्रेष्ठस्य, आत्मना स्वेन सदृशाः श्रुतादयो गुणा येषां ते । तत्र श्रुतं वेदार्थश्रवणम् । शीलं सुखभावसद्वृत्तता । आचारो वेदोदितसदाचाराचरणम् । रूपं साहजिकी स्वाकारता । औदार्य- मकार्पण्यम् । नव नवसंख्याकाः सोदर्या एकोदरजाः, अङ्गजाः पुत्राः, ज्येष्ठायां भार्यायामिति शेषः, बभूवुः । यवीयस्यां कनिष्ठायां भार्यायां मिथुनं स्त्रीपुरुषयुगलं च बभूवेति वचनव्यत्ययः ।। १ ।। * * यस्त्विति । तत्र मिथुनमध्ये यस्तु पुमान् तं परम- भागवतं राजर्षिप्रवरं भरतं उत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतं आहुः । तत्त्वविद इति शेषः ॥ २ ॥ ॐ तत्रापीति । तत्रापि विप्रजन्मन्यपि, स्वजनसङ्गाच्च स्वजनसङ्गतस्तु, भृशमतिशयेन, उद्विजमानः आत्मनः प्रतिघातं आशङ्कमानः यतः भगवदनु- प्रहेणैव, अनुस्मृता पूर्वजन्मावलिः स्वीयपूर्वजन्मपरंपरा येन सः एवंभूतः सन्, कर्मबन्धविध्वंसनं श्रवणं स्मरणं गुणानां विवरण कथनं यस्य तत् । कर्मबन्धविध्वंसनसमर्थश्रवणादियुक्तमित्यर्थः । भगवचरणारविन्दयुगलं भगवतोऽङ्घ्रिसरोरुहयुग्मं मनसा विदधत् विशेषेण धारयन संश्च उन्मत्तो रोगादिविक्षिप्तचित्तश्च जडो मूर्खश्च अन्धो नेत्रविकलच बधिरः श्रवणेन्द्रियविकलश्च तेषां स्वरूपं साम्यं तेन, लोकस्य दर्शयामास ॥ ३ ॥ तस्येति । तस्योक्तविधस्यापि, आत्मजस्य पुत्रस्नेहेनानुबद्धमासक्तं मनो यस्य तथाभूतः विप्रः स आङ्गिरसो द्विजः समावर्त्तनात् आ समावर्त्तनसंस्कारमभिव्याप्येत्यर्थः । संस्कारान गर्भाधानादीन् यथोपदेशं यथाविधि विदधानः समावर्त्तनान्तसंस्कारमन्तरेण गार्हस्थ्यानधिकाराज्जडे तदसंभवादहमेतस्यैतान्करिष्यामि चेत्कश्चिदेतस्मै कन्या- दान करिष्यति नान्यथेति मत्यान्ततस्तद्भात्रनादरादि संभावयन्स्नेहसितः सर्वांस्तान्कुर्वाण इति भावः । पुनश्च तदनन्तरमित्यर्थः । उपनीतस्य कृतमौजीबन्धनस्य तस्येति शेषः । अनभिप्रेतानपि अन्तरारुचिकरानपि शौचाचमनादीन् कर्मनियमांचा समशिक्षयत् सम्यक् शिक्षितवान् । ह वा अवधारणे । शिक्षायां हेतुमाह । पितुः सकाशात् पुत्रेण अनुशिष्टेन विविच्य ज्ञापितेनैव भाव्यं भवित- व्यम् । हि इति बुद्धत्यर्थः ॥ ४ ॥ * * स चापीति । स जडचापि तदुह तत्पितुः शिक्षितं तदेवेत्यर्थः । पितृसंनिधावेव पितुः समीपे तु इत्यर्थः । पितृकृतशिक्षानिबन्धनिवृत्तये इति शेषः । असंधीचीनं असमीचीनमिव, करोति स्म । तत्पिता व छन्दांसि, अध्या- पयिष्यन् उपाकरणं वेदवृत्ताद्यनन्तरं ‘श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विमोऽर्द्धपञ्चमान् ।।’ इत्युक्तरीत्या श्रावणादिमासेषु पुत्रं वेदानध्यापयितुमिच्छन्सन्नित्यर्थः । आदौ तावत्, व्याहृतिभिर्भूरादिभिः सह सप्रणव शिरः प्रणवेन शिरसा च सहिता सा चासौ त्रिपदी पदत्रयोपेता तां सावित्री, गायत्रीम्, व्याहृतयो भूरादयः, प्रणव ओंकारः । शिर ओमापो ज्योतिरित्यादि, तैः सह वर्त्तमानां तकारादितकारान्तवर्णरूपां गायत्रीमित्यर्थः । भैष्मवासन्तिकान् मासान चैत्रादिचतुरो मासानित्यर्थः । चैत्रे यज्ञोपवीत प्रदानात्तत आरभ्य आश्रावणि सार्द्ध चतुर्मासपर्यन्तमित्यर्थः । अधीयानं अपि अध्ययनं कारितं सन्तमपि तं असम- वेतरूपं स्वरानुपूर्व्यादियुक्तं यथा न भवति तथेत्यर्थः । ग्राहयामास, तावता कालेनापि स्वरानुपूर्व्यादियुक्तं व्याहृत्यादि तस्य नागतमि- त्यर्थः ॥ ५ ॥ * एवमिति । एवं आत्मनि ‘आत्मा वै पुत्रनामासि’ इति श्रुत्युक्तरीत्यात्मरूपे, स्वतनुजे, अनुरागेण स्नेहेन, आवेशितमा सञ्जितं चित्तं येन स एवंभूतो द्विजः, शौचं स्नानादिजन्या शुद्धिश्च अध्ययनं च व्रतानि काण्डव्रतादीनि च नियमाच गुर्वनलयोः शुश्रूषणं च तान्याद्यानि येषां तानि यान्योपकुर्वाणकस्य कर्माणि सावधिर्ब्रह्मचर्यवतः क्रियाः, अनभियुक्तानि तेन जडेना- नाहतान्यपि पुत्रं प्रति, अनुशास्य शिक्षित्वापि, समनुशिष्टेन भाव्यमिति असदाग्रहः अयोग्याग्रहः, स्वयमाङ्गिरसः तावत् अनधि- गतमनोरथः एव, अप्रमत्तेन कालेन मृत्युना, स्वयं गृहे प्रमत्तः सन् उपसंहृतः मृत इत्यर्थः ॥ ६ ॥ * * अथेति । अथाङ्गिरसविप्र- मरणानन्तरं यवीयसी कनिष्ठा, द्विजसत्याङ्गिरसविप्रभार्या, स्वगर्भजातं निजगर्भोत्पन्न, मिथुनं पुत्रं पुत्रों चेत्यर्थः । सपत्न्याः, उप निजसपत्नीसमीपे न्यस्य निधाय, सपत्न्यधीनं कृत्वेत्यर्थः । स्वयं अनुसंस्थया अनुमरणप्रक्रियया, पतिलोकं अगात् प्राप्तवती । पितरि उपरते मृते सति, भ्रातरो नवापि भ्रातरः, यतः अतत्प्रभावविदः तस्य भ्रातुः प्रभावमजानन्तः, त्रय्यां विद्यायां, एव कर्मावबो- धात्मककेवलवेद विद्यायामेव, पर्यवसितमतयः न परविद्यायां, ब्रह्मविद्यात्मकवेदान्तविद्यायामपर्यवसितबुद्धय इत्यर्थः। ततः एनं भ्रातरं, जडमतिरयं तु केवलं जडबुद्धिरेव, इत्येवंभूतया मत्या, भ्रातुः अनुशासनरूपात् निर्बंन्धादाग्रहात् न्यवृत्सन्त निवर्तितुमैच्छन् । स्कं. ५ अ. ९ इलो. ९-१६] अनेकयाख्यासमलङ्कृतम् १८५ शिक्षां नाकुर्वन्नित्यर्थः ॥ ७ ॥ * * स चेति । यदा स जडविप्रः चापि, प्राकृतैः द्विपदपशुभिः चतुष्पदपशोर्द्विपदत्वमेव येषां विशेषस्तथाभूतैर्मनुष्यैरित्यर्थः । हे उन्मत्त, हे जड, हे बधिर, इत्येवं अभिभाष्यमाणः अभूत् । तदा तद्नुरूपाणि उन्मत्ताद्यनुरूपाणि । उन्मत्तता जाड्यबाधिर्यादिसूचकानि वचांसि प्रभाषते प्रतिभाषते । स च स्वयमनिच्छापरः सन्नपि परेच्छया कर्माणि कार्यमाणः करोति । विष्टितः मूल्यमन्तरेण बलाद्यत्कर्म कार्यते सा विष्टिस्तयेति । सार्वविभक्तिकस्तृतीयार्थे तसिल् । एवं वेतनतः मौल्येन, कर्मानुकूलद्रव्य क्लृप्त्येत्यर्थः । याच्या भिक्षया यदृच्छया देवाद्वा, उपसादितं प्राप्तं तदपि, अल्पं बहु वा, मिष्टं मिष्टतोपेतं कदन्नं कुत्सितानं वा अभ्यवहरति भक्षयति । तच परं केवलं प्रारब्धभोगोपयुक्तदेहधारणार्थमेवेति शेषः । इन्द्रियप्रीतिनिमित्तं न तु ॥ ८ ॥ 1 भाषानुवादः भरतजीका ब्राह्मणकुलमें जन्म
श्रीशुकदेवजी कहते हैं—राजन् ! आङ्गिरस गोत्र में शम, दम, तप, स्वाध्याय, वेदाध्ययन, त्याग ( अतिथि आदिको अन्न देना ), सन्तोष, तितिक्षा, विनय, विद्या ( कर्मविद्या ), अनसूया, ( दूसरोंके गुणों में दोष न ढूँढना ), आत्मज्ञान ( आत्मा के कर्तृत्व और भोक्तृत्वका ज्ञान ) एवं आनन्द ( धर्मपालनजनित सुख) सभी गुणोंसे सम्पन्न एक श्रेष्ठ ब्राह्मण थे । उनकी बड़ी स्त्रीसे उन्हींके समान विद्या, शील, आचार, रूप और उदारता आदि गुणोंवाले नौ पुत्र हुए तथा छोटी पत्नीसे एक ही साथ एक पुत्र और एक कन्याका जन्म हुआ ॥ १ ॥ इन दोनोंमें जो पुरुष था वह परम भागवत राजर्षि शिरोमणि भरत ही थे । वे मृग- शरीरका परित्याग करके अन्तिम जन्ममें ब्राह्मण हुए थे ऐसा महापुरुषोंका कथन है ॥ २ ॥ इस जन्ममें भी भगवान की कृपा से अपनी पूर्व जन्मपरम्पराका स्मरण रहनेके कारण, वे इस आशङ्कासे कि कहीं फिर कोई विघ्न उपस्थित न हो जाय, अपने स्वजनोंके सबसे भी बहुत डरते थे। हर समय जिनका श्रवण, स्मरण और गुणकीर्तन सब प्रकारके कर्मबन्धनको काट देता है, श्रीभगवान् के उन युगल चरणकमलोंको ही हृदय में धारण किये रहते तथा दूसरोंकी दृष्टि में अपनेको पागल, मूर्ख, अंधे और बहरेके समान दिखाते ॥ ३ ॥ * * पिताका तो उनमें भी वैसा ही स्नेह था । इसलिये ब्राह्मणदेवताने अपने पागल पुत्रके भी शाबानुसार समावर्तनपर्यन्त विवाहसे पूर्वके सभी संस्कार करनेके विचार से उनका उपनयनसंस्कार किया । यद्यपि वे चाहते नहीं थे तो भी ‘पिताका कर्तव्य है कि पुत्रको शिक्षा दे’ इस शास्त्रविधिके अनुसार उन्होंने इन्हें शौच आचमन आदि आवश्यक कर्मोंकी शिक्षा दी ॥ ४ ॥ * * किन्तु भरतजी तो पिताके सामने ही उनके उपदेशके विरुद्ध आचरण करने लगते थे। पिता चाहते थे कि वर्षाकाल में इसे वेदाध्ययन आरम्भ करा दूँ । किन्तु वसन्त और ग्रीष्मऋतुके चैत्र, वैशाख, ज्येष्ठ और आषाढ़ चार महीनोंतक पढ़ाते रहनेपर भी वे इन्हें व्याहृति और शिरोमन्त्र प्रणवके सहित त्रिपदा गायत्री भी अच्छी तरह याद न करा सके ॥ ५ ॥ ऐसा होनेपर भी अपने इस पुत्रमें उनका आत्माके समान अनुराग था । इसलिये प्रवृत्ति न होनेपर भी वे ‘पुत्रको अच्छी तरह शिक्षा देनी चाहिये’ इस अनुचित आग्रहसे उसे शौच, वेदाध्ययन, व्रत, नियम तथा गुरु और अग्निकी सेवा आदि ब्रह्मचर्याश्रमके आवश्यक नियमोंकी शिक्षा देते ही रहे। किन्तु अभी पुत्रको सुशिक्षित देखनेका उनका मनोरथ पूरा न हो पाया था और स्वयं भी भगवद्भजनरूप अपने मुख्य कर्तव्यसे असावधान रहकर केवल घरके धंधों में ही व्यस्त थे कि सदा सजग रहनेवाले कालभगवान्ने आक्रमण करके उनका अन्त कर दिया ॥ ६ ॥ * ॥ * तब उनकी छोटी भार्या अपने गर्भ से उत्पन्न हुए दोनों बालक अपनी सौतको सौंपकर स्वयं सती होकर पतिलोकको चली गयी ॥ ७ ॥ * * भरतजीके भाई कर्मकाण्डको सबसे श्रेष्ठ समझते थे। वे ब्रह्मज्ञानरूप पराविद्यासे सर्वथा अनभिज्ञ थे । इसलिये उन्हें भरतजीका प्रभाव भी ज्ञात नहीं था, वे उन्हें निरा मूर्ख समझते थे । अतः पिताके परलोक सिधारनेपर उन्होंने उन्हें पढ़ाने लिखानेका आग्रह छोड़ दिया ।। ८ । * ** । स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यदृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय- प्रीतिनिमित्तम् । ‘नित्यनिवृत्तनिमित्त स्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्व निमित्तयोरसम्भावित- देहाभिमानः ।। ९ ।। शीतोष्णवातवर्षेषु वृष इवाना वृताङ्गः पीनः संहननाङ्गः स्थण्डिलसंवेशनानुन्मदनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरूपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञया तज्ज्ञजनावमतों १. प्रा० पा० – नित्यवृत्तिनिमित्त० । २ प्रा० पा० - इवापावृताङ्गः । ३ प्रा० पा०- बन्धुरितिसंज्ञोऽतज्ज्ञ (phon २४ १८६ श्रीमद्भागवतम् [ स्कं. ५ अ. ९ श्लो. ९-१६ विचचार ॥ १० ॥ यदा तु परत आहारं कर्म वेतनतः ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणविण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११ ॥ अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै पुरुषपशु मालभतापत्यकामः ॥ १२ ॥ तस्य ह दैवमुक्तस्य पशो पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन भृगवराहादिभ्यः संरक्षमाणमङ्गिरः प्रवरसुतमपश्यन् ॥ १३ ॥ अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्ति मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४ ॥ अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपत्र तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीप- माल्यला ‘जकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ।। १५ ।। अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि - मतिकराल निशितमुपाददे ॥ १६ ॥ अन्वयः - सः च द्विपदपशुभिः प्राकृतैः यदा उन्मत्तजडबधिर इति अभिभाष्यमाणः तदनुरूपाणि प्रभाषते च सः कर्माणि कार्यमाणः परेच्छया करोति विष्टितः वेतनतः वा याच्या वा यदृच्छया उपसादितम् अल्पम् बहु मिष्टम् वा कदन्नम् अभ्यवहरति परम् इंद्रियप्रीतिनिमित्तम् न नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानंदस्वात्मलाभाधिगमः द्वंद्वनिमित्तयोः सुखदुःखयोः असंभावितदेहाभिमानः ॥ ९ ॥ * * शीतोष्णवातवर्षेषु वृषः इव अनावृतांगः पीनः संहननांगः स्थंडिलसंवेशनानुन्मर्दनाम- ज्जनरजसा महामणिः इव अनभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिः उरुमषिणा उपवीतेन संज्ञया द्विजातिः इति ब्रह्मबंधुः इति अतज्ज्ञजनावमतः विचचार ॥ १० ॥ ॐ यदा तु परतः कर्मवेतनतः आहारम् ईहमानः स्वभ्रातृभिः अपि केदारकर्मणि निरूपितः तत् अपि करोति किंतु समविषमन्यूनम् अधिकम् इति न वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीनि अपि अमृतवत् अभ्यवहरति ॥ ११ ॥ * * अथ कदाचित् कश्चित् वृषलपतिः अपत्यकामः भद्रकाल्यै पुरुषपशुम् आलभत ।। १२ ।। ह तस्य देवमुक्तस्य पशोः पदवीम् निशीथसमये तमसा आवृतायाम् निशि परिधावतः अनधि- गतपशवः तदनुचराः आकस्मिकेन विधिना वीरासनेन मृगवराहादिभ्यः केदारान् संरक्षमाणम् अंगिरः प्रवर सुतम् अपश्यन् ॥ १३ ॥ * * अथ ते एनम् अनवद्यलक्षणम् अवमृश्य भ्रर्तृकर्मनिष्पत्तिम् मन्यमानाः मुदा विकसितवदनाः ।। रशनया बद्ध्वा चण्डिकागृहम् उपनिन्युः ॥ १४ ॥ अथ पणयः तम् स्वविधिना अभिषिच्य अहतेन वाससा आच्छाद्य भूषणाले पस्रक्तिलकादिभिः उपस्कृतम् भुक्तवंतम् पुरुषपशुम् धूपदीपमाल्य लाजकिसलयांकुर फलोपहारोपेतया वैशससंस्थया च महता गीतस्तुतिमृदंगपणवघोषेण भद्रकाल्याः पुरतः उपवेशयामासुः ।। १५ ।। * * अथ वृषलराजपणिः पुरुषपशोः असृगासवेन भद्रकालीम् देवीम् यक्ष्यमाणः तदभिमंत्रितम् अतिकरालनिशितम् असिम् उपाददे || १६ ॥ ሳ÷ * श्रीधरस्वामिविरचिता भावार्थदीपिका यदाऽभिभाष्यमाणस्तदा तदनुरूपाणि प्रभाषते । मूल्यमंतरेण बलाद्यत्कर्म कार्यते सा विष्टिः । वेतनं मूल्यम् । विष्टया- दिभिरुपसादितमन्नमभ्यवहरति परं भुंक्ते केवलं न त्विंद्रियप्रीतये । अत्र हेतुद्वयमाह । नित्यं सदा निवृत्तं निमित्तं यस्मात्स उत्पादकशून्यः स्वसिद्धोऽभिव्यंजकशून्यो विशुद्धः केवलो योऽनुभवः स एवानंदरूपः स्वात्मा तस्य लाभ एवंभूतोऽहमिति ज्ञानं तस्याधिगमः प्राप्तिरस्ति यस्य । द्वंद्वानि सन्मानावमानादीनि तद्धेतुकयोः सुखदुःखयोरकृतदेहाभिमानः तस्मान्नेंद्रियप्रीति निमित्त- मभ्यवहरतीत्यन्वयः ॥ ९ ॥ * * अत एव शीतोष्णादिष्वनावृतांगो विचचारेत्यन्वयः । कीदृशः पीनः पुष्टः संहननांगः संहन्यंते निबिडीभवंति स्मांगानि यस्य । कठिनावयव इत्यर्थः । स्थंडिलसंवेशनं भूमिशयनम् अनुन्मर्दनं मर्दनाभावः अमज्जनं स्नानाभावः तैर्यद्रजस्तेनाप्रकटं ब्रह्मवर्चसं ब्राह्मं तेजो यस्य । यथा महामणिरनभिव्यक्ततेजा भवति कुत्सितेन पटेनावृता कटिर्यस्य । उरुमषिणाऽतिमलिनेन । तत्त्वतस्तं न जानंति ये तैर्जनैरवमतः सन् ॥ १० ॥ * यदा तु परेभ्यः कर्म मूल्येनाहारमपेक्ष- माणो भवति तदा केदारकर्मणि शालिक्षेत्रे कर्दमविलोडनादावाहारप्रलोभनेन नियुक्तः सन्करोति किं त्वत्र कर्दमस्य प्रक्षेपे क्षेत्रं भवेदित उद्धरणे विषमं स्यादित्यादि न वेद । भ्रातृभिर्दत्तान्कणादीनप्य मृतवद्धुंक्ते । कणाश्चूर्णतंडुलाः । पिण्याकं तैलयंत्रोद्धृतं १. प्रा० पा० - वेतन ईहमानः । २. प्राचीने पुस्तके ‘में’ अयमंशः खण्डितः । ३. प्रा० पा० भद्रकाल्यै पशुमालभत । ४. प्राचीने पुस्तके ‘नि’ खण्डितः । ५. प्रा० पा० -लाजा० । ६. प्रा० पा० च तं पुरुष० । स्कं. ५ अ. ९ श्लो. ९-१६. 1 अनेकव्याख्यासमलङ्कृतम् तिलकिट्टम् । फलीकरणं तुषाः । कुल्माषाः कीटदृष्टा माषाः, स्थालीपुरीषं स्थालीलग्नं दग्धान्नम् ॥ ११ ॥ तस्य रागादि- राहित्यमलौल्यं चैवमीरितम् । अथान्यचरितं प्राह चित्रं मृत्यावसंभ्रमम् । वृषलपतिः शूद्रसामंतश्चोरराजः आलभताऽऽलब्धुं प्रवृत्तः ॥ १२ ॥ * * देवाद बंधनविमुक्तस्य पशोः तमसा व्याप्तायां निशि तत्रापि निशीथसमयेऽर्धरात्रावसरे । आकस्मिको देवनिर्मितो विधिः प्रकारस्तेन । वीरासनेनोर्ध्वावस्थानेन ॥ १३ ॥ * * अवमृश्य ज्ञात्वा ॥ १४ ॥ * * पणय- चोराः । अहतेन नूतनेन । उपस्कृतमलंकृतम् । वैशससंस्थया हिंसाविधानेन गीतादिघोषेण सह ।। १५ ।। वृषलराजस्य पणिः पुरोहितत्वेन वर्तमानचोरः । तदभिमंत्रितं भद्रकालीमंत्राभिमंत्रितम् ॥ १६ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः स च जडभरतः । प्राकृतैः मूढैः । अस्य विवरणं द्विपदेत्यादि । चतुष्पदः पशोर्द्विपदत्वमेव विशेषः, तादृशैर्मनुष्यैर्यदा हे उन्मत्त इत्यादिनाभिभाष्यमाणो भवति तदा तदनुरूपाण्युन्मत्तादिवचनानुकूलवचनानि भाषते । यद्वा - तदनुरूपाणि प्रति- ध्वनिवत्तदुक्तानेव शब्दान्वदतीत्यर्थः । कदन्नं रसादिहीनम् । इंद्रियप्रीतये जिहादींद्रियतृप्तये अत्र इन्द्रियप्रीत्यभावे निमित्तं कारणम् — अन्यानपेक्षिस्वरूपानंदावा तेरिंद्रियप्रीतिनिमित्ताभाव इत्यर्थः । द्वितीयमाह - व्यक्तदेहाभिमानत्वादित्यर्थः । अत्र विश्व- नाथः - नित्यं सदैव । पूर्वजन्मन्यपि निवृत्तं निमित्तं कर्म यस्य सः । स्वसिद्धेन स्वत एव सिद्धेन । विशुद्धेन प्राकृतेनानुभवानंदेन दृष्टेनैव स्वात्मनः स्वेष्टदेवस्य कृष्णस्य लाभाधिगमो लाभप्रतीतिर्यस्मिन् स च स च सः । अत एव द्वंद्वयोरिति पूर्ववत् ॥ ९ ॥ * * इत्यर्थं इति । संपूर्वस्य इंतेर्दृष्टसंघातार्थत्वमुक्तम् । वररुचिनोक्तत्वादिति भावः ॥ १० ॥ * * सर्वं दिनं कर्म कारयित्वाऽऽहारमात्रं चेद्ददति तर्हि वयमेव तथा कारयामोऽप्रतिष्ठा च न तावती भविष्यतीति भावः । आदिना कोद्रवादि- ग्रहः ॥ ११ ॥ * * अथेति चरितांतरारम्भसूचनाय । अलौल्यमचाचवल्यम् । असंभ्रमं भयाभावम् । भद्रं कालयति दुष्टानां कल्याणं चालयतीति भद्रकाली वा भद्राणां सुकृतिनां कं सुखं तेनालते शोभत इति भद्रकाली तस्यै । अत्रोपाख्यान एव. भद्रकालीपदार्थद्वयं चरितार्थं भविष्यतीति ज्ञेयम् ॥ १२ ॥ तत्रापि निश्यपि ॥ १३ ॥ * * अथ
- ॥ तद्दर्शनानंतरम् । अनवद्यानि निर्दोषाणि लक्षणानि हीनांगत्वादिराहित्यानि यस्य तम् । भर्तृकर्मणः संततिप्राप्तिरूपस्य सिद्धिदम् । रशनया रज्ज्वा ॥ १४ ॥ * * स्वविधिना बलिदानविधिना । लाजा भृष्टव्रीहयः । किसलयो बिल्वपत्रादि । अंकुरो यवांकुरः न तु दूर्वांकुर: ‘दुर्गा नैव तु दुर्बया’ इति पाद्मोक्तेः । तत्पूजनस्यापि दुर्गापूजनांगतयांगांगिनोरभेदत्वाद् दुर्गार्चनत्वमेवेति ।। १५ ।। * * वृषो धर्मो लीयते एभिरिति वृषलः “हिंसाचौर्यानृतैर्धर्मो लीयते सर्वदेहिनाम्” इत्युक्तेरेषु प्रसक्तास्तेषां राजा तस्य पणिः ‘पणिः स्तोतरि चौरे च व्यवहर्तृपुरोधसोः” इति तीर्थस्वामिनौ । भद्रकाल्या मंत्रेण “गृध्रकर्णि विरूपाक्षि लंबस्तनि महोदरि । इन शत्रुं त्रिशूलेन क्रुद्धस्य पिब शोणितम् ||” इत्यादिना " कालिकालि महाकालि ” इत्यादिना वाभिमंत्रितमर्चितम् ॥ १६ ॥ श्रीमद्वीरराघवव्याख्या यदा स जडविप्रो द्विपदपशुभिर्हे उन्मत्त जड बधिरेत्यभिभाष्यमाणस्तदा तदनुरूपाणि उन्मत्ताद्यनुरूपाणि उन्मादान्ध्य- जाड्यबाधिर्यादि सूचकानि वचांस्याभाषते स्वयं निर्व्यापारोऽपि परेच्छया कार्यमाणः कर्माणि करोति मूल्यमन्तरेण बलाद्यत्कर्म कार्यते सा विष्टिः वेतनं भृतिः । विष्टयादिभिर्यदृच्छया देवाद्वोपसादितं प्राप्तं तदप्यल्पं बहु वा सृष्टं कदनं वाऽभ्यवहरति भक्षयति परं केवलं प्रारब्धोपभोगयुक्त देहधारणार्थं भुङ्क्ते न त्विन्द्रियप्रीतये ॥ ९ ॥ * तत्र हेतुं वदन्विशिनष्टि नित्येति । नित्यं निवृत्तानि निमित्तानि सुखदुःखनिमित्तानि पुण्यापुण्यकर्माण्यात्मस्वरूपतिरोधायकानि यस्मात्स एवंविधो यः स्वसिद्ध- विशुद्धानुभवानन्दः स्वात्मा नित्यसिद्धरागादिरहितज्ञानानन्दस्वरूप आत्मा तस्याधिगमः याथात्म्यविज्ञानं तन्नित्यं सदा यस्य । द्वन्द्वानि शीतोष्णादीनि निमित्तानि कारणानि ययोस्तयोः सुखदुःखयोरसम्भावितदेहाभिमानः द्वन्द्वनिमित्तसुखदुःखादिप्रयुक्त- देहात्माभिमानसम्भावनामात्ररहित इत्यर्थः, अत एव शीतातपादिषु वृष इव बलीवई इवानावृतमनाच्छन्नमङ्गं यस्य सः पीनः परिपुष्ट सर्वावयवः संहननानि कठिनान्यङ्गानि यस्य स्थण्डिलसंवेशनं भूशयनम् अनुन्मर्द्दनं तैलेनाङ्गमर्दनाभावः अमज्जनं मलापनयनार्थं स्नानाभावः एभिर्यद्रजः शरीरमालिन्यं तेनानभिव्यक्तमप्रकटं ब्रह्मवर्चसं ब्रह्मतेजो यस्य यथा महामणिर्बाह्यमलेना- नभिव्यक्ततेजा भवति । कुत्सितेन पटेनावृता कटिर्यस्य उरुमषिणा प्रभूतं मलं यस्य तेनोपवीतेनोपलक्षणेन द्विजातिरित्यादिसंज्ञया वाचकशब्देन व्यवह्रियमाणोऽतज्ज्ञजनैः योगीश्वरचर्यानभिज्ञजनैरवमतः निन्दितः सन् विचचार ।। १० ।। * * यदा तु वेतनाद्भृतेः परेभ्यः आहार मीहमानः इच्छन्भवति, वेतनमिति पाठे आहारमित्यस्यानन्तरं लब्धुमिति शेषः । आहारमन्नादिकं लब्धुं वेतनमीहमानः कुर्वाणो भवति तदा आहारप्रलोभनेन स्वभ्रातृभिः केदारकर्मणि शालिक्षेत्र कर्द्दमविलोडनादौ नियुक्तस्तदपि केदारकर्म करोति किं त्वत्र कर्द्दमस्य प्रक्षेपे क्षेत्रं समम्भवेदित उद्धरणे विषमं स्यादिति न वेद् वैषम्यं नैव पश्यति । न्यूनमधिकं वा स्वादिति भ्रातृभिर्दत्तान्नकणादीनध्यमृतवद्भक्षयति । कणाश्चूर्णतण्डुलाः पिण्याकस्तैलयन्त्रोद्र्धृतं तिलपिष्टं फलीकरणं तुपः श्रीमद्भागवतम् [ स्कं. ५ अ. ९ श्लो. ९-१६ कुल्माषा कुलत्थाः दुष्टा माषाः स्थालीपुरीषं पात्रलग्नं दग्धान्नम् ॥ ११ ॥ * * एवं तस्य देहानादरमभिधायाथ " कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ” इत्युक्तरीत्या मरणोद्योगेऽप्यसम्भ्रमं वक्तुं तस्याश्चर्यतमत्वमाविष्कुर्वन्नाह अथेति । हे विष्णुरात ! भरतस्येदं वक्ष्यमाणमद्भुतं कर्म शृणु, कश्चिद् वृषल्याः शूद्रायाः पतिः पुत्रकामः भद्रकाल्यै पशुं पुरुषपशुमालभमानः ‘पुत्रश्चेन्मम भविता तदा भवत्यै पुरुषपशुमालप्स्ये’ इति कृतसङ्कल्पोऽभूदित्यर्थः ॥ १२ ॥ तस्यैवं कृतसङ्कल्पस्य पुत्रप्राप्तिरूप- सिद्धयनन्तरं देवालब्धं पशुमानयतेत्युक्तास्तदनुचराः शूद्राः देवाद्विमुक्तस्य आलभ्यस्य पशोः पदवीं प्रति परितो धावन्तः अन्वेषमाणाः तमसा व्याप्तायां निशि रात्रावर्द्धरात्रिसमये अनधिगतः पशुर्यैस्ते आकस्मिको दैवनिमित्त विधिः प्रकारस्तेन वीरासनेन ऊर्ध्वावस्थानेन केदारान् मृगादिभ्यः संरक्षमाणं गोबलीवर्द्दन्यायेन वराहशब्दप्रयोगः, आङ्गिरसप्रवरस्य सुतं भरतमपश्यन् दृष्टवन्तः॥ १३॥ * * अथैनमाङ्गिरससुतमनवद्यानि निर्दुष्टान्यङ्गानि यस्य पङ्गुत्वकाणत्वादिरहितमवमृश्य ज्ञात्वा भर्तुः कर्मणः पुरुषपश्वालम्भनकर्मणः निष्पत्तिं मन्यमाना रशनया रज्ज्वा बध्वा मुदा विकसितानि वदनानि येषां ते चण्डिकाया भद्रकाल्या मन्दिरं प्रत्युपनिन्युनतवन्तः ॥ १४ ॥ * * अथ पणयः चोराः तमाङ्गिरससुतं स्वविधिना विशसनविधिना- भिषिच्य स्नापयित्वाहतेन नूतनेन वाससा वस्त्रेणाच्छाद्य भूषणादिभिरुपस्कृतमलं भुक्तवन्तं धूपादिभिरुपेतया युक्तया वैशस- संस्थया हिंसाविधानेन महता स्तुत्यादिघोषेण च पुरुष एव पशुस्तं भद्रकाल्या अग्रे उपवेशयामासुः ॥ १५ ॥ अथ वृषलराजस्य पणिः पुरोहितत्वेन वर्तमानश्चोरः पुरुषपशोरसृप्रक्तमेवासवं मद्यं तेन च भद्रकालीं यक्ष्यमाणः तर्पयिष्यमाणः तदभिमन्त्रितं भद्रकालीमन्त्राभिमन्त्रितमतिभयङ्करं तीक्ष्णधारमसिं खड्गमुपाददे गृहीतवान् ॥ १६ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली F अतः परमसौ भरतः किमकरोदत्राह स चेति । स चैवं विचचारेत्यन्वयः । कथं प्राकृतैरित्यस्य विवरणं द्विपदेति । चतुष्पदः पशोद्विपदत्वमेव विशेषः, न तु ज्ञानेन तादृशैर्मनुष्यैर्यदा हि उन्मत्तेत्यादिनामभिरभिभाष्यमाणो भवति तदा तदनु- रूपाण्युन्मत्तादिवचनानुकूलवचनानि भाषते विष्टितः कर्तुः कर्मानुकूलद्रव्यक्लृप्तिमन्तरेण कर्मणा वेतनतो मौल्येन कर्मानुकूल- द्रव्यक्लृप्त्येत्यर्थः । कदनं कुत्सितान्नम् अभ्यवहरति भुङ्क्ते परं केवलम् नेन्द्रियप्रीतिनिमित्तं न जिह्वादीन्द्रियतृप्तिकारणमत्र हेतुगर्भविशेषणमाह नित्येति । नित्यनिवृत्तदुःखस्वसिद्धविशुद्धानुभवानन्दोऽहमिति यः स्वात्मलाभस्तमधिगच्छतीति स तथोक्तः यद्वा नित्यनिवृत्तदुःखत्वादिविशिष्टस्वात्मा परमात्मा स एव लाभः फलं जानातीति स तथोक्तः । अत एवासम्भावितोऽनुत्पादितो देहाभिमानो येन स तथा शुष्कजलनारिकेलफलसम इत्यर्थः ॥ ९ ॥ * उपलिप्तभूमौ शयित्वा निद्राकरणं स्थण्डिल- संवेशनमनुन्मर्दनं देहमलात्यागः अनुन्मज्जनमस्नानं कपटेन पटचीरेण जीर्णवस्त्रेणेत्यर्थः, आवृताच्छादिता कटिर्यस्य सः तथा उरुमषिणातिमलिष्ठेन ॥ १० ॥ * * यदा परतः आहारं प्रतिवेतनतः कर्मेहमान श्रेष्टमानस्तदा स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तत्कर्मापि करोति अस्य कर्मण इदं मूल्यं सममिदं विषममिदमधिकमिदं न्यूनमिति न वेद कणं पाषाणोपेताणुतरतण्डुलं पिण्याकं नीरसतिलपिष्टं फलीकरणमवहततण्डुलतुषं कुल्माषः कीटादिविद्धमाषः वनमाषो वा स्थालीपुरीषं स्थालीतण्डुललग्नं दग्धान्नं यावनालश्यामाककोद्रवादीन्यादिशब्दगृहीतानि आरोचयति मधुरीकरोति ॥ ११ ॥ * भक्षितकणादिजीर्णीकरणं नातिशयितमाहात्म्यम् औषधादिनापि तत्सम्भवादित्याशङ्कय विष्णुमाहात्म्यगर्भितं माहात्म्यान्तरमाह अथेति । अथान्यमाहात्म्यं वक्ष्यामीति शेषः ॥ १२ ॥ देवविमुक्तस्य अदृष्टोद्बोधकपरमात्मोपेक्षया क्षीणायुषः निशीथसमये मध्यरात्रिकाले अनधिगतपशवः अप्राप्तपुरुषाख्यपशवः केदारान् शालिक्षेत्राणि वीरासनेन मने स्थित्वा संरक्ष्यमाणं पालयन्तं यत्प्रत्ययस्तु स्वयं हरिणा पाल्यत इति द्योतनपरः ॥ १३ ॥ * * रशनया रज्ज्वा ॥ १४ ॥ * पणयो वृषलाचोरा वा स्वविधिना स्वागमोक्तमार्गेण अहतेनाच्छिन्नेन धौतेन वा किसलयः पल्लवः अङ्कुरो नवाङ्कुरः वैशससंस्थया हिंसाविधानेन ॥ १५ ॥ वृषो धर्मो लीयत एभिरिति वृषलास्तेषां राजा वृषलराजः अत एव पणिश्चोरः वृषलराजेषु चोर इत्यर्थः । असृगासवेन रक्ताख्यमद्येन तस्याः भद्रकाल्या मन्त्रेण “ गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि । हन शत्रुं त्रिशूलेन क्रुद्धस्य पिब शोणितम्” इत्यादिनाभिमन्त्रितं जप्तमसिं खड्गम् ।। १६ ॥
श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी मूल्यमन्तरेण बलात् यत् कार्य्यते सा विष्टिः, नित्यं सदैव पूर्वजन्मन्यपि निवृत्तं निमित्तं कर्म यस्य सः स्वसिद्धेन स्वत एव सिद्धेन विशुद्धेनाप्राकृतेन अनुभवानन्देन दृष्टेनैव स्वात्मनः स्वेष्टदेवस्य कृष्णस्य लाभाधिगमः लाभप्रतीतिर्यस्मिन् स च स च सः अत एवं द्वन्द्वानि सम्माननावमानादीनि तद्धेतुकयोः सुखदुःखयोरकृत देहाभिमानः अत एव नेन्द्रियप्रीतिनिमित्तमभ्य- वहरतीत्यन्वयः ॥ ९ ॥ * * अपावृताङ्गः अनावृताङ्गः संहननाङ्गः अतिबलिष्ठगात्रः स्थण्डिलसंवेशनं भूमिशयनमनुन्मर्दन- मभ्यङ्गाद्यभावः अमज्जनं स्नानाभावस्तैर्यद्रजस्तेनानभिव्यक्तं ब्रह्मवर्चसं ब्राह्मयं तेजो यस्य सः, उरुमषिणा अतिमलिनेन ॥ १० ॥ * कर्मवेतनतः कर्ममूल्येन आहारमीहमानो यदा भवति तदा स्वभ्रातृभिरिति सर्व दिनं कर्म कारयित्वा आहारमात्रं५. ली. ९-१६ 1 अनेकव्याख्यासमलङ्कृतम् १८९ चेदन्ये ददति तर्हि वयमेव तथा कारयामः, अप्रतिष्ठा च नस्तावती न भविष्यतीति मत्वेति भावः, कईमविलोडनादिकर्मणि अत्र कई मस्य प्रक्षेपे क्षेत्रं समं भवेदित उद्धरणे विषमं भवेदित्यादि तु न वेद । पिण्याकं तैलयन्त्रोद्धृतं तिलकिट्टं फलीकरणं तुषः कुल्माषाः कीटविद्धमाषाः स्थालीपुरीषं स्थालीलग्नं दग्धानं तदादीनि भ्रातृभिर्दतानि ॥ ११ ॥ ॐ वृषलपतिः शूद्रसामन्त- श्रौरराजः आलभत आलब्धुं प्रवृत्तः ॥ १२ ॥ ॐ देवाद् बन्धनविमुक्तस्य पलायितस्य पुरुषपशोः वीरासनेन ऊर्ध्वावस्थानेन ।। १३-१४ ॥ पणयचौराणां पुरोहिताः आहतेन नूतनेन वैशससंस्थया हिंसाविधानेन युक्तम् ।। १५ ।।
-
- वृषलराजस्य पणिः मुख्यः पुरोहितः ॥ १६ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः विष्टितः बलात्कार्यमाणा क्रिया विष्टिः वेतनतः वेतनं मूल्यं ततः याच्या यदृच्छया वोपसादितं लब्धम् । तत्राप्यल्पं बहु वा कुत्सितं मिष्टं वा अन्नम् अभ्यवहरति भुङ्क्ते परं केवलं न त्विन्द्रियप्रीतिनिमित्तं तत्र हेतुमाह नित्येति । नित्यं निवृत्त्यादि- हेतुर्यस्मात् सः अत एव स्वसिद्धः स्वायत्तः स्थितिप्रवृत्तिकः विशुद्धः स्वभावतोऽपास्तसमस्तदोषः सर्ववेदेकवेद्यः श्रीवासुदेवः तद्विषयको योऽनुभवः तस्माद्य आनन्दः स एव स्वात्मनो मुमुक्षोर्लाभिस्तस्याधिगमः प्राप्तिरस्ति यस्य सः हेत्वन्तरमाह । द्वन्द्वानि स्वकृतानि पुण्यापुण्यकर्माणि निमित्तानि ययोस्तयोः सुखदुःखयोः असम्भावितदेहाभिमानः अहं सुखी अहं दुःखीत्यकृत- देहाभिमानः ॥ ९ ॥ * शीतोष्णादिषु अनावृताङ्गः वृष इव विचचारेत्यन्वयः । कथम्भूतः पीनः पुष्टः संहननाङ्गः कठिनावयवः भूशयनादिभिर्यद्रजस्तेन अनभिव्यक्तमप्रकटं ब्रह्मवर्चसं ब्रह्मतेजो यस्य सः कुपटेन मलिनवस्त्रेणावृता कटिर्यस्य सः उरुमषिणा तिमलिनेनोपवीतेनोपलक्षणेन द्विजातिरिति संज्ञया अतज्ज्ञजनावमतः ॥ १० ॥ * कर्मवेतनतः कर्म वेतनेन कर्म मूल्येन कणा दलितमुद्रादिनिष्कृष्टाः पिण्याकं तिलपिष्टं फलीकरणं तुषाः कुल्माषाः कीटदूषितमाषाः स्थालीपुरीषं स्थालीलग्नं दग्धान्नम्, आदिना गतरसाद्यन्त्रसंग्रहः एतान्यप्यमृतवद्भुङ्कं ॥ ११ ॥ * * वृषलानां शूद्राणां पतिश्चोरराजः पुत्रकामः भद्रकाल्यै पुरुषपशुमारभत आलब्धुं प्रवृत्तः ॥ १२ ॥ ॐ ॐ यं पुरुषपशुमालब्धुं प्रवृत्तस्तस्य पुरुषपशोः देवान्मुक्तस्य बन्धनविमुक्तस्य यथेष्टां दिशं पलायमानस्य पदवीं मार्गं तस्य वृषलपतेरनुचराः परिधावन्तोऽपि अनधिगतपशवः तं पलायमानं पशुमप्राप्येत्यर्थः । तमसावृतायां निशीथसमये अर्धरात्रावसरे आकस्मिकेन विधिना दैवकृतेन योगेन अङ्गिरः प्रवरसुतमपश्यन् दृष्टवन्तः ॥ १३ ॥ * * अनवद्यानि शुद्धानि लक्षणान्यङ्गानि यस्य तमवमृश्यावधार्य ॥ १४ ॥ * * पणयश्चोराः स्वविधिनाभिषिच्य आहतेन नूतनेन वाससाच्छाद्य भूषणादिभिरुपस्कृतमलंकृतं वैशससंस्थया हिंसाविधानेन गीतादिघोषेण च सह पुरतोऽग्रे उपवेशयामासुः ॥ १५ ॥ अथानन्तरं वृषलराजस्य पणिः चोरभूतः पुरोहितः तदभिमन्त्रितं निशितं तैलधौतम् ॥ १६ ॥ 1
गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी एवं पितर्युपरते मृते सति तद्भ्रातरो भ्रातुरस्यानुशासने शिक्षणे यः पितुर्निर्बन्धो हठः तस्मात् न्यवृत्सन्निवृत्ता जाता इत्यन्वयः । तन्निवृत्तौ हेतुमाह - जडेति । जडा स्तब्धा मतिः यस्य स तथाभूतोऽयं इत्येवमेनं मत्वेति शेषेणान्वयः । एवमभिमाने हेतुमाह - अतदिति, न तस्य प्रभावमात्मारामत्वं विदन्ति ते तथाभूता यत इत्यर्थः । तत्रापि हेतुमाह -त्रय्यामिति । यतवय्यां कर्मकाण्डविषयायां विद्यायामेव पर्यवसिता निश्चयं गता मतियेषां ते तथाभूताः, न परविद्यायामात्मविद्यायां पर्यवसितमतयोऽतो न तत्प्रभावं विदुरित्यर्थः ॥ ९ ॥ * * स च यदा प्राकृतैनींचेः द्विपदपशुभिर्विवेकशून्यैर्मनुष्यैः उन्मत्तः जडः बधिरः इत्येवं मत्वाऽभिभाष्यमाणो भवति तदा तदनुरूपाणि उन्मत्तादियोग्यान्येव वचनानि प्रभाषते, तैरेव स यदा कर्माणि कार्यमाणो भवति तदा परेच्छया तान्यपि करोति च विष्टयादिभिरुपसादितं प्रापितमन्नं परं केवलं देहनिर्वाहार्थमभ्यवहरति भुङ्क्ते, नेन्द्रियप्रीतिनिमित्तमित्यन्वयः । प्रथमं मूल्यसङ्कं तमन्तरेणैव बलात्कर्म कार्यते पश्चात्स्वेच्छया यत्किश्विद्दीयते न वा सा विष्टिस्ततः, बेतनं मूल्यसङ्केतस्ततो वा, याच्या वा, यदृच्छया याचनादिप्रयत्नं विनैव । तदपि कदाचिदल्पमुदरपूर्तिपरिमितान्न्यूनं, कदाचिद्बहु उदरपूर्तिपरिमितादधिकं, कदाचिन्मिष्टं, कदाचित्कदन्नं कुत्सितं दुर्गन्धितम् ॥ १० ॥ इन्द्रियसुखार्थ भोजनादिव्यापारराहित्ये हेतुं प्रदर्शयन् विशिनष्टि-नित्येति । नित्यः सत्यः परमार्थभूतः यतो निवृत्तनिमित्तः संसारभ्रमण - निमित्ताविद्यासम्बन्धरहितः अत एव स्वसिद्धः स्वयम्प्रकाशः विशुद्धः देहेन्द्रियान्तःकरणाद्यध्यासरहितः अनुभवः चैतन्यघनः आनन्दरूपश्च यः स्वात्मा तस्य लाभ एवम्भूतोऽहमिति ज्ञानं तस्याधिगमः प्राप्तिरस्ति यस्य सः । अत एव द्वन्द्वानि सन्मानावमान- शीतोष्णादीनि तन्निमित्तयोः सुखदुःखयोरपि असम्भावितोऽनारोपितो देहाभिमानो येन सः । यस्मादेवमिन्द्रियाद्यध्यासरहित- तस्मान्नेन्द्रियप्रीतिनिमित्तमभ्यवहरतीत्यन्वयः ॥ ११ ॥ * अत एव शीतोष्णादिषु वृष इव अनावृताङ्गः वस्त्रकम्बलादिना- श्रीमद्भागवतम् [ स्कं. ५ अ. ९ श्लो. ९-१६ Sनावृतदेहः । न च भोगविशेषाभावात्तस्य दुर्बलता शिथिलाङ्गावयवता वा शङ्कनीयाऽऽनन्दपूर्णत्वादित्याशयेनाह - पीनः पुष्टः संहननाङ्ग इति, संहन्यन्ते निबिडीभवन्ति स्माङ्गानि यस्य सः, दृढावयव इत्यर्थः । नन्वेवम्भूतस्य तर्हि स्त्रीजनकृतः प्रतिरोधोऽवश्य- म्भावीत्याशङ्कय तस्यावधूतवेषत्वेन जनावज्ञानं दर्शयति- स्थण्डिलेत्यादिना । स्थण्डिलसंवेशनं भूमिशयनं, अनुन्मर्दनं तैलादिसंस्का- राभावः, अमज्जनं स्नानाभावः, तैर्यद्रजस्तेन अनभिव्यक्तमप्रकटं ब्रह्मवर्चसं ब्राह्म तेजो यस्य सः । तत्र दृष्टान्तः - रजसाऽऽवृतो महामणिर्यथाऽनभिव्यक्ततेजा भवति तथा । कुत्सितेन मलिनेन पटेनावृता कटिर्यस्य । उरुमषिणाऽतिमलिनेन उपवीतेन च द्विजातिरिति ब्रह्मबन्धुरिति च सब्ज्ञया निन्दितनामग्रहणेन न तत्त्वतस्तं जानन्ति ये तेऽतज्ज्ञास्तैर्जनैरवमतः सन् भूमि चचार ।। १२ ।। * यदा तु स्वदेहनिर्वाहार्थं कर्मवेतनतः कर्ममूल्येन परतः परेभ्य आहारमीहमानोऽपेक्षमाणो भवति तदा लोकलज्जया स्वभ्रातृभिरपि आहार प्रलोभनेन केदारकर्मणि शालिक्षेत्रे कर्दमप्रक्षेपादौ निरूपितो नियुक्तः संस्तदपि करोति किन्तु ‘अत्र कर्दमप्रक्षेपे क्षेत्रं समं स्यात्, इतः कर्दमोद्धरणे तद्विषमं स्यात्, अत्र मर्यादासूत्रकरणे न्यूनं स्यात्, अत्र तत्करणेऽधिकं स्यात्’ इति न वेद, आत्मनिष्ठत्वेन बहिर्वृस्त्यभावात् । न च वेदनसत्वेऽपि कापट्यादेव तथा करोतीति कथं न स्यादिति शङ्कनीयं, भोजनेऽपि वैषम्यवेदनाभावेन कापटयेन तथा करणासम्भवादित्याशयेनाह — कणेति । भ्रातृभिर्दत्तान् कणादीनपि अमृतवदद्भ्य- वहरति भुङ्क्ते इत्यन्वयः । कणाः चूर्णतंडुलाः, पिण्याकं तैलयन्त्रोद्धृतं तिलकिट्टं, फलीकरणं तुषः, कुल्माषाः कीटदृष्टा माषाः, स्थालीपुरीषं स्थालीलग्नं दग्धान्नम् ॥ १३ ॥ * अन्यदपि तस्यात्मारामत्वेन बहिर्वृत्तिराहित्यसाधकं चरितमाह — अथेति । कदाचित्कश्चिद्वृषलपतिः शूद्राधिपतिरपत्यकामो भद्रकाल्यै पुरुषपशुमालभत आलब्धुं प्रवृत्त इत्यन्वयः ॥ १४ ॥ * * तस्य हि वृषलपतेर्देवान्मुक्तस्य हस्तान्निर्गतस्य मरणभयात् पलायितस्य पुरुषपशोः पदवीं मार्गं तस्यानुचराः परिधावन्तोऽप्यनधि- गतपशवः केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणं अङ्गिरः प्रवरसुतं भरतमपश्यन्नित्यन्वयः । पशोरप्राप्तौ हेतुं सूचयन्नाह - तमिस्रायामिति, तमसा व्याप्तायां निशि तत्रापि निशीथसमयेऽर्द्धरात्रावसरे । नन्वात्मारामस्य कथं केदाररक्षणं घटते तत्राह - आकस्मिकेनेति, आकस्मिको देवनिर्मितो विधिः प्रकारस्तेन वीरासनेन ऊर्ध्वावस्थानेन ॥ १५ ॥ * अथ दर्शनानन्तरं ते वृषलपत्यनुचरा एनमनवद्यलक्षणमवमृश्य स्थूलत्वादिगुणविशिष्टं ज्ञात्वा तेन च स्वभर्तृकर्मनिष्पत्तिं मन्यमानाः अतः कार्यसिद्धया मुदा हर्षेण विकसितवदनाः सन्तस्तं रशनया रज्ज्वा बध्वा चण्डिकायाः भद्रकाल्याः गृहमुपनिन्युरानीतवन्तः ॥ १६ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तत्र हेतुं वदन् विशिनष्टि नित्येति । नित्यं सदा निवृत्तानि निमित्तानि सुखदुःखनिमित्तभूतपुण्यपापात्मकात्मस्वरूप- तिरोधायककर्माणि यस्मात्सः एवंविधो यः स्वसिद्धः, अभिव्यञ्जकशून्यः विशुद्धः केवलः यः अनुभवः स एव आनन्दः तत्स्वरूपो यः स्वात्मा तस्य लाभः तस्याधिगमः याथात्म्यविज्ञानं यस्य सः, द्वन्द्वानि शीतोष्णादीनि निमित्तानि कारणानि ययोस्तयोः, सुखदुःखयोः असंभावितदेहाभिमानः अकृतदेहाभिमानः ॥ ९ ॥ * * शीतेति । शीतं च उष्णं च वातश्च वर्षश्च तेषु, वृषो बलीवद्दः इव, अनावृतमनाच्छन्नमङ्गं यस्य सः । पीनः परिपुष्टसर्वावयवः, संहननानि कठिनानि अङ्गानि यस्य सः । स्थण्डिल- संवेशनं भूशयनं च अनुन्मर्दनं तैलेनाङ्गमर्द्दनाभावश्च अमज्जनं मलापनयनार्थं स्नानाभावश्च तैर्यद्रजः शरीरमालिन्यं तेन, अभिव्यक्तमप्रकटं ब्रह्मवर्चसं ब्रह्मतेजो यस्य सः । अत एव महामणिरिव महामणिर्यथा बाह्यमलेन अनभिव्यक्ततेजा भवति, तथा दृश्यमान इत्यर्थः । कुपटः कुत्सितपटस्तेनावृता कटिर्यस्य सः । कर्पटावृतकटिरिति पाठे कर्पटं पटचरं जीर्णवस्त्रमिति यावत्तेनावृता- च्छादिता कटिः ककुद्मती यस्य स इत्यर्थः । उरुमषिणा प्रभूतमलवताऽतिमलिनेनेत्यर्थः । उपवीतेनोपलक्षणेन द्विजातिरिति, ब्रह्म- बन्धुरिति च संज्ञया वाचकशब्देन व्यवह्रियमाण इति शेषः । न तत्त्वतस्तं जानन्ति ये ते अतज्ज्ञाः ते च ते जनाश्च तैः । योगीश्वरचर्यानभिज्ञलोकैरित्यर्थः । अवमतो निन्दितः सन् विचचार ।। १० ।। * यदा त्विति । यदा तु वेतनतः मूल्येन, परतः अन्येभ्यः, आहारं कर्म आहारक्रियामित्यर्थः । ईहमानः दृष्टः, तदा आहारप्रलोभनेन स्वभ्रातृभिरपि, केदारकर्मणि शालिक्षेत्रगत कई मविलोडनादौ निरूपितो नियुक्तः, तर्हि तदपि, करोति । किं तु समविषमन्यूनं, अधिक, इति न वेद । अत्र कद्द मप्रक्षेपे क्षेत्रं समं भवेदित उद्धरणे विषमं स्यादितः न्यूनं जातमत्र अधिकं जातमिति न जानाति स्मेत्यर्थः । कणाचूर्णतण्डुलाच पिण्याकस्तैलयन्त्रोद्धृतं तिलकिट्ट च फलीकरणं तुषाच कुल्माषाः कीटदष्टा माषाश्च स्थालीपुरीषं स्थालीलग्नं दग्धान्नं च तान्यादयो येषां सलवणबुब्बुलफलारनालादीनां तानि अपि अमृतवत्सुधासमानं मत्वा, अभ्यवहरति सम्यगश्नाति ।। ११ ।। ** एवं तस्य देहानादरमभिधाय कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्’ इत्युक्तरीत्यास्य मारणोद्योगेऽप्यसंभ्रमं वक्तुं तस्याश्चर्य- तमत्वमाविष्कुर्वन्नाह अथेति । अथानन्तरं, कदाचित् कश्चित् वृषलपतिः शूद्रसामन्तश्चोरराजः, वृषलीपतिरिति पाठे वृषल्याः शूद्राया पतिरित्यर्थः । अपत्यकामः पुत्रकामः सन् भद्रकाल्यै देव्यै, भद्रकालीं प्रीणयितुमित्यर्थः । पुरुषपशुं आलभत आलब्धुं प्रवृत्तः । आलप्स्यामीति पाठे मम पुत्रश्चेद्भविता तदा भवत्यै पुरुषपशुमालप्स्यामीति कृतसंकल्पोऽभूदित्यर्थः ॥ १२ ॥ * तस्येति । तस्य ह उक्तप्रकारेण कृतसंकल्पस्य तस्य दैवात्पुत्रप्राप्तिरूपफलसिद्धयनन्तरमेव पुरुषपश्वालम्भे प्रवृत्तस्यैवेत्यर्थः । देवान्मुक्तस्य V स्कं ५ अ. ९. लो. ९-१६] I । 37 । अनेकव्याख्या समलङ्कृतम् १९१ बन्धनतो विमुक्तस्य, पशोः पुरुषपशोः, पदवीं प्रति परिधावन्तः, तदन्वेषणाय यतस्ततो धावनपूर्वं समन्वेषमाणाः तदनुचराः निशीथसमये, तमसा आवृतायां, निशि रात्रौ सत्यां, अनिधिगतो न प्राप्तः पशुर्यैस्तथाभूताः सन्तः, आकस्मिको देवनिर्मितः तेन, विधिना प्रकारेण, वीरासनमूर्ध्वावस्थानं तेन, मृगवराहादिभ्यः, केदारान् संरक्षमाणं ‘आरण्याः पशवो मृगाः’ इति कोशात् मृगशब्देनैव वराहबोधेऽपि गोबलीवर्द्दन्यायेन पुनर्वराहशब्दप्रयोगः । अङ्गिरः प्रवरसुतं भरतं अपश्यन् दृष्टवन्तः ।। १३ ।। * * अथेति । अथानन्तरं ते वृषलनृपानुचराः, एनमङ्गिरःसुतं अनवद्यानि निर्दोषाणि लक्षणान्यङ्गानि यस्य तं पङ्गुत्वकाणत्वादिरहित- मित्यर्थः । अवमृश्य ज्ञात्वा, भर्तृकर्मनिष्पत्तिं पुरुषपश्वालम्भकर्मसिद्धि, मन्यमानाः सन्तः, रशनया रज्ज्वा बद्ध्वा, मुदा कर्मनिष्प- विजातानन्देन, विकसितानि प्रफुल्लतां प्राप्तानि वदनानि मुखानि येषां ते तथाभूताः सन्तः, चण्डिकागृहं भद्रकालीमन्दिरं प्रति, उपनिन्युर्नीतवन्तः ॥ १४ ॥ * * अथेति । अथानन्तरं, पणयश्चौराः, तमाङ्गिरससुतं, स्वविधिना विशसनविधिना, अभि- षिच्य स्नापयित्वा अहतवाससा यन्त्रनिर्मुक्तवस्त्रेण, आच्छाद्य, नवीनवस्त्रधारणं कारयित्वेत्यर्थः । भूषणानि अलंकाराश्चालेप उत्तमचन्दनाङ्गरागश्च स्रजः पुष्पहाराश्च तिलकं कुङ्कुमचन्द्रक आदिर्येषां तैः, उपस्कृतं समलंकृतं भुक्तवन्तं, धूपश्च दीपश्च माल्यानि पुष्पाणि च लाजा भष्टयवाश्च किसलयः पल्लवश्व अङ्करो नवाङ्करश्च फलं नालिकेरं च उपहारा अन्ये बलयश्च तैरुपेता युक्ता तया, वैशससंस्थया हिंसाविधानेन, महतातिशयितेन, गीतानि च स्तुतयश्च मृदङ्गपणवयोर्घोषश्च तत्समाहारस्तेन च पुरुषपशुं भद्रकाल्याः पुरतः उपवेशयामासुः ।। १५ ।। * अथेति । अथानन्तरं वृषलराजपणिः पुरोहितत्वेन वर्त्तमानचौरः, पुरुषपशोः, असृगासवेन रुधिररूपमद्येन, भद्रकाली देवीं, यक्ष्यमाणस्तर्पयिष्यमाणः सन्, तदभिमन्त्रितं, ‘गृध्रकर्णि विरूपाक्षि लम्बस्तनि महोदरि । हन शत्रुं त्रिशूलेन क्रुद्धस्य पिब शोणितम्’ इति भद्रकालीमन्त्राभिमन्त्रितं, अतिकरालं भयंकर, निशितं तीक्ष्णधार, असिं खङ्ग उपाददे गृहीतवान् ।। १६ ।। भाषानुवादः S भरतजीको मानापमानका कोई विचार न था । जब साधारण नर पशु उन्हें पागल, मूर्ख अथवा बहरा कहकर पुकारते तब वे भी उसीके अनुरूप भाषण करने लगते। कोई भी उनसे कुछ भी काम कराना चाहते, तो वे उनकी इच्छा के अनुसार कर देते । बेगारके रूपमें, मजदूरीके रूपमें, माँगनेपर अथवा बिना माँगे जो भी थोड़ा-बहुत अच्छा या बुरा अन्न उन्हें मिल जाता, उसीको जीभका जरा भी स्वाद न देखते हुए खा लेते । अन्य किसी कारण से उत्पन्न न होनेवाला स्वतःसिद्ध केवल ज्ञानानन्द- स्वरूप आत्मज्ञान उन्हें प्राप्त हो गया था; इसलिये शीतोष्ण, मानापमान आदि द्वन्द्वोंसे होनेवाले सुख-दुःखादिमें उन्हें देहाभिमानकी स्फूर्ति नहीं होती थी ॥। ९ ॥ * * वे सर्दी, गरमी, वर्षा और आँधीके समय साँड़के समान नंगे पड़े रहते थे । उनके सभी अष्ट-पुष्ट एवं गठे हुए थे। वे पृथ्वीपर ही पड़े रहते थे, कभी तेल- उबटन आदि नहीं लगाते थे और न कभी स्नान ही करते थे, इससे उनके शरीरपर मैल जम गयी थी। उनका ब्रह्मतेज धूलिसे ढके हुए मूल्यवान् मणिके समान छिप गया था । वे - अपनी कमर में एक मैला-कुचैला कपड़ा लपेटे रहते थे । उनका यज्ञोपवीत भी बहुत ही मैला हो गया था। इसलिये अज्ञानी ‘जनता ‘यह कोई द्विज है,’ ‘कोई अधम ब्राह्मण है’ ऐसा कहकर उनका तिरस्कार किया करती थी, किंतु वे इसका कोई विचार न करके स्वच्छन्द विचरते थे ॥ १० ॥ * * दूसरोंकी मजदूरी करके पेट पालते देख जब उन्हें उनके भाइयोंने खेतकी क्यारियाँ ठीक करनेमें लगा दिया तब वे उस कार्य को भी करने लगे। परन्तु उन्हें इस बातका कुछ भी ध्यान न था कि उन क्यारियोंकी भूमि समतल है या ऊँची-नीची, अथवा वह छोटी है या बड़ी । उनके भाई उन्हें चावलकी करनी, खली, भूसी, घुने हुए उड़द अथवा बरतनोंमें लगी हुई जले अन्नकी खुरचन जो कुछ भी दे देते, उसीको वे अमृतके समान खा लेते थे ॥ ११ ॥ * * किसी समय डाकुओंके सरदारने, जिसके सामन्त शूद्र जातिके थे, पुत्रकी कामनासे भद्रकालीको मनुष्य की बलि देनेका संकल्प किया ॥ १२ ॥ उसने जो पुरुष पशु बलि देनेके लिये पकड़ मँगाया था, वह दैववश उसके फंदेसे निकलकर भाग गया। उसे दूँ ढ़नेके लिये उसके सेवक चारों ओर दौड़े; किन्तु अँधेरी रातमें आधी रात के समय कहीं उसका पता न लगा। इसी समय दैवयोगसे अकस्मात् उनकी हुए मृग-वराहादि जीवोंसे खेतोंकी रखवाली कर रहे थे ।। १३ । उन्होंने देखा कि यह पशु तो बड़े अच्छे लक्षण- वाला है, इससे हमारे स्वामीका कार्य अवश्य सिद्ध हो जायगा । यह सोचकर उनका मुख आनन्दसे खिल उठा और उन्हें रस्सियोंसे बाँधकर चण्डिका के मन्दिर में ले आये ॥ १४ ॥ तदनन्तर उन चोरोंने अपनी पद्धतिके अनुसार विधिपूर्वक उनको अभिषेक एवं स्नान कराकर कोरे वस्त्र पहनाये तथा नाना प्रकारके आभूषण, चन्दन, माला और तिलक आदि से विभूषित कर अच्छी तरह भोजन कराया। फिर धूप, दीप, माला, खील, पत्ते, अङ्कुर और फल आदि उपहार सामग्री के सहित बलिदानकी विधिसे गान, स्तुति और मृदङ्ग एवं ढोल आदिका महान शब्द करते उस पुरुष पशुको भद्रकालीके सामने नीचा सिर कराके बैठा दिया ।। १५ ।। * इसके पश्चात् दस्युराजके पुरोहित बने हुए लुटेरेने उस नर- पशुके रुधिरसे देवीको तृप्त करने के लिये देवीमन्त्रोंसे अभिमन्त्रित एक तीक्ष्ण खड्ग उठाया ।। १६ ।। * ८ इन आङ्गिरसगोत्रीय ब्राह्मणकुमार पर पड़ी, जो वीरासनसे बैठे १९२ श्रीमद्भागवतम् [ स्कं. ५ अ. लो. १७-२० इति तेषां वृषलानां रजस्तमः प्रकृतीनां धनमद रजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सुनायामप्यननुमत- मालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोचचाट सैव देवी भद्रकाली || १७ ॥ भृशम- मर्परोपावेशर भसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामे वेदं महाइहासम तिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृणशीष्ण गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयाति- पानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरः कन्दुकलीलया ॥ १८ ॥ एवमेव खलु महद- भिचारातिक्रमः कार्त्स्न्येनात्मने फलति ॥ १९ ॥ न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाचा “त्मभावसुद्ध हृदयप्रन्थीनां सर्वसच्चसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिपारि- चरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतथि’ द्भयमुपसृतानां भागवतपरमहंसानाम् ॥ २० ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥ ९ ॥ अन्वयः - सा एव भद्रकाली देवी इति रजस्तमः प्रकृतीनाम् धनमदरजउत्सिक्तमनसाम् भगवत्कलाबीरकुलम् कदर्थीकृत्य उत्पथेन स्वैरम् विहरताम् हिंसाविहाराणाम् तेषाम् वृषलानाम् यत् साक्षात् ब्रह्मभूतस्य निर्वैरस्य सर्वभूतसुहृदः ब्रह्मर्षि- सुतस्य सुनायाम् अपि अननुमतम् आलंभनम् अतिदारुणम् कर्म तत् उपलभ्य अतिदुर्विषहेण ब्रह्मतेजसा ददह्यमानेन वपुषा सहसा उच्चचाट ॥ १७ ॥ * * भृशम् अमर्षरोषावेशरभसविलसितभ्रुकुटि विटपकुटिलदंष्ट्रा रुणेक्षणाटोपातिभया- नकवदना इदम् हंतुकामा इव अतिसंरंभेण महाट्टहासम् विमुंचन्ती ततः उत्पत्य तेन एव असिना विवृक्णशीर्णाम् पापीयसाम् दुष्टानाम् गलात् स्रवंतम् अत्युष्णम् असृगासवम् गणेन सह निपीय अतिपानमदविह्वला स्वपार्षदैः सह उच्चैस्तराम् जगौ च ननर्त च शिरःकंदुकलीलया विजहार ॥ १८ ॥ ।।
-
- एवमेव महदभिचारातिक्रमः खलु कात्स्न्येन आत्मने फलति ।। १९ ॥ * * विष्णुदत्त विमुक्त देहाद्यात्मभाव सुदृढहृदयग्रंथीनाम् सर्वसत्त्वसुहृदात्मनाम् निर्वैराणाम् अप्रमत्तेन साक्षात् भगवता अनिमिषारिवरायुधेन तैः तैः भावैः परिरक्ष्यमाणानाम् अकुतश्चिद्भयम् तत्पादमूलम् उपसृतानाम् भागवतपरम- हंसानाम् स्वशिरश्छेदने आपतिते अपि असंभ्रमः एतत् वै महत् अद्भुतम् न ॥ २० ॥ इति नवमोऽध्यायः ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका धनमद एवं रजस्तेनोत्सिक्तं त्यक्तमर्यादं मनो येषाम् । भगवत्कलायुक्तं वीराणां ब्राह्मणानां कुलं तुच्छीकृत्य यथेच्छं वर्तमानानां यत्कर्म तदुपलभ्य देवी उच्चचाट प्रतिमां त्यक्त्वा बहिर्निर्गता । कथंभूतमालंभनम् । सूनायामप्यापत्कालेऽनुज्ञाताया- मपि हिंसायामननुज्ञातम् । भद्रकालीत्यंतं गद्यम् ॥ १७ ॥ * * अमर्षोऽपराधासहनं रोषश्च वपुषो दाहनं तयोरावेशस्य रभसेन वेगेन विलसित उत्तभितो भृकुटिलक्षणो विटपः शाखा कुटिला दंष्ट्राश्चारुणानीक्षणानि च तेषामाटोपः संभ्रमस्तेनाति- भयानकं वदनं यस्याः । इदं जगद्वंतुमुद्यतेव । महांतमट्टहासं सनादं हासम् । ततः स्थानादुत्पत्य विवृक्णानि छिन्नानि शीर्षाणि येषाम् । गणेन परिवारेण सह । शिरांस्येव कंदुकानि तेषां लीलया चिक्रीड च ॥ १८ ॥ ननु कथं देव्याराधकानामेवं विपरीत फलं तत्राह । एवमेवेति महत्स्वभिचाररूपोऽतिक्रमोऽपराधः ॥ १९ ॥ * * न त्वसंभावितमिदमेवं यन्मरणेऽप्य- व्याकुलत्वं मारकेषु च क्रोधाभाव इत्यादि तत्राह न वा इति । विमुक्तो देहाद्यात्मभावलक्षणः सुदृढो हृदयग्रंथियैः सर्वसत्त्वानां सुहृद आत्मानश्च ये तेषाम् । न च तेषां देहाद्यभिमानसद्भावेपि मरणादिभयमस्तीत्याह । साक्षाद्भगवताभितो रक्ष्यमाणानाम् । केन । अनिमिषः कालः स एवारि चक्रं तेन वरायुधेन तैस्तैर्भावैश्चांतर्यामितया प्रवर्त्यमानैर्भद्रकाल्यादिरूपैः । न कुतश्चिदपि भयं यस्मिन् । भागवतानां भगवदुपासकानां परमहंसानाम् ॥ २० ॥ इति पञ्चमस्कन्धे टीकायां नवमोऽध्यायः ॥ ९ ॥ १ प्रा० पा० मालभनं । २. प्रा० पा सहसोत्थाप्य बाढं । ३. प्रा० पा० नृशंसामर्षशेषा वेशसमुत्थभ्रुकुटि० ।
पा— । | ४. प्रा० पा० - हन्तुकामैवेदं । ९० प्रा० पा० - महाट्टहाससंरम्भेण । ६. प्रा० पा०– वृषलानां । ७. प्रा० पा० - ननर्त विजहार च । ८० प्रा० पा० एवं खलु । ९. प्रा० पा० - नात्मनि फलति । १०. प्रा० पा० एवं विष्णुदत्त । ११. प्रा० पा० देहाध्यात्मभाव० । १२. प्रा० तैस्तैर्भावैरभिरक्ष्य- माणानां । १३. प्रा० पा० - मकुतश्वन भयमुप० । स्क. ५ अ. ९ इलो. १७-२०] अनेकव्याख्यासमलङ्कृतम् श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः: १९३ भगवानेव कला वेदास्तेषामध्ययनाध्यापनविचारे ये वीरा अग्रण्यो ब्राह्मणास्तेषां कुलम् ‘वेदो नारायणः साक्षात् इति षष्ठस्कन्धे वेदस्य साक्षान्नारायणरूपत्वोक्तेः । ‘यत्र मूर्त्तिधराः कलाः’ इत्यष्टमस्कन्धे कलाशब्दस्य वेदपरत्वस्योक्तत्वाच्च । एतेन भगवद्रूप- वेदविचाराग्रगण्यन्ब्राह्मणकुलमित्यर्थो लब्ध इति अननुज्ञातं ‘मनुष्यं नालभेद् देव्ये ब्राह्मणं तु कदापि न’ इत्याद्यागमशास्त्रेणापि ब्राह्मणालंभनं नानुज्ञातमित्यर्थः । अत एव हरिश्चन्द्रमखे भार्गवः शुनःशेपो देवैर्न गृहीतो बलित्वेन किन्तु रक्षित एव । तत एव से देवरातत्वञ्च प्राप्तवानिति व्यक्तीभविष्यति नवमस्कधे । यत्तु “ब्राह्मणे ब्राह्मणा ँ क्षत्राय राजन्यम्” इति यजुर्वेदे पुरुषमेधप्रकरणे प्रोक्तम् । तत्र ब्राह्मणस्य यूपसमीपे पर्यग्निमात्रं कृत्वा त्याग एव तत्स्थाने घृतहोमविधानात्, तथा च श्रुतिः- “तत्पर्यग्निकृताः पशवो बभूवुरसंज्ञप्तास्तान्पर्यग्निकृतानेवोदसृजद्देवत्या आहुतीरजुहोत्ताभिस्ता देवता अप्रीणात्ता एनं प्रीता अप्रीणन्सर्वकामैः आज्येन जुहोति तेजो वा आव्यं तेजसैवास्मिस्तत्तेजो दधाति” इति तद्भाष्यात् । यद्वा-भगवतः कला रक्षा भगवत्कला तद्युतं वीरकुलं ब्राह्मणकुलम् “विप्रैः संवर्धितो विष्णुर्जपहोमार्चनादिभिः । भगवद्रक्षका एते वीरा एव न संशयः ॥ ।” इति संहितोत्तस्तत्रैव वीरशब्दो ब्राह्मणवाचको दृष्टस्तथाहि ‘वीरः शूरे जिने विष्णौ रसे विप्रर्जुने विष्णो रसे विप्रर्जुने दुमे । शृग्यां नले तंडुलीये किरकंदे च पौष्करे । आरूकोशीर मरीचकाञ्जिके च करञ्जके। वायो श्रेष्ठे तथा वीराचारनिष्ठेऽपि कीर्त्तितः ।। " इति । यद्वा सैव या यष्टुमाकांक्षिता प्रतिमारूपा देव्येवोच्चचाट छिन्नभिन्ना बभूव, न तु तदीयासिना भरतः च्छिन्नो बभूवेत्येवकारार्थो व्यक्तः ।। १७-१८ ।। * * अत्राशंकते नन्विति । कात्स्म्र्त्स्न्येन सामस्त्येन न त्वेकदेशेन । आत्मने व्यभिचारकर्त्रे । फलत्य- भिचारफलं ददाति “यो हि यस्य विषमं विचितयेत्प्राप्नुयात्स कुमतिर्हि तत्फलम्” इति लोलिंबोक्तेः ॥ १९॥ * * पुनराक्षिपति—–नन्विति । — पुनराक्षिपति नन्विति । केन रक्ष्यमाणानां तत्राहानिमिषेति विष्णुरातेति । यथा त्वमतीव दुर्निवार्यत्रझाखतो विष्णुना सुदर्शनास्त्रेण रक्षितस्तथायमपीति भावः ।। २० ।। इति श्रीमद्भागवत भावार्थदीपिकाप्रकाशे पश्चमस्कन्धे नवमोऽध्यायः ॥ ९ ॥ श्रीमद्वीरराघवव्याख्या rid इतीत्थं तेषां वृषलानां रजस्तमः प्रचुराणां धनमद एवं रजस्तेन उत्सिक्तममर्यादं मनो येषां भगवत्कलया युक्तं वीराणां ब्राह्मणानां कुलं कदर्थीकृत्य तुच्छीकृत्य उत्पथे दुर्मार्गे यथेच्छं विहरतां हिंसैव विहारो येषां यदतिदारुणमालम्भनरूपं कर्म तदुपलभ्य सैव भद्रकाली देवी ब्रह्मभूतस्य ब्रह्मसाम्यमापत्स्यमानस्य ब्रह्मर्षेरङ्गिरसः सुतस्य सुनायां हिंसायामप्यननुमतस्य दुर्विषहेण सोढुमशक्येन ब्रह्मतेजसातितरां दह्यमानं वपुस्तेन हेतुना सहसा आशुञ्चचाट प्रतिमां त्यक्त्वा बहिर्निर्गताभू- दित्यर्थः ।। १७ ।। * * अमर्षोऽपराधासहनं रोषश्च वपुषो दाहस्तयोरावेशस्य रभसेन वेगेन विलसितो विजृम्भितो भ्रकुटीलक्षणो विटपः शाखा कुटिला दंष्ट्राश्वारुणे ईक्षणे च तेषामाटोपः संभ्रमस्तेनातिभयङ्करं वदनं यस्या इदं जगद्धन्तुकामेव हन्तुमुद्यते वाट्टहासं सनादं हासं मुञ्चन्ती ततः स्थानादुत्पत्य वृक्णानि छिन्नानि शीर्षाणि शिरांसि येषां तेषामतिगर्वितानां पापिष्ठानां कण्ठात्स्रवन्तं प्रसृतमत्युष्णमसृगासवं रुधिररूपं मयं परिवारेण सह निपीयाति अत्यन्तरुधिरपानजमदेन विह्वला परवशा स्वपार्षदगणैः सहोच्चैस्तरां जगौ गानं कृतवती ननर्त च शिरांस्येव कन्दुकानि तेषां क्रीडया विजहार विहार कृतवतीव ।। १८ ।। * * ननु भद्रकाल्याराधनमेवं कथं विपरीतफलं तत्राह एवमेवेति । महत्स्वभिचाररूपः हिंसारूपः हिसारूपोऽतिक्रमोऽपराधः कार्त्स्न्येनात्मने अभिचारिनृणामेव फलति किल ॥ १९ ॥ * * नन्वेवमसंभावितमेवेदं यन्मरणाव्याकुलत्वं मारकेषु द्रोहाभावश्च तत्राह न चैतदिति । हे विष्णुदत्त ! भागवतपरमहंसानां भागवताश्च ते परमहंसाच तेषामेवंविधानां स्वशिरश्छेदे आपतिते प्राप्तेऽपि यदसंभ्रमः यः असंभ्रमः इत्येतन्महदद्भुतमतीवाञ्श्चर्यं न भवति । परमहंसशब्दो विरक्तपरः, आङ्गिरससुतस्य चतुर्थाश्रमप्रवेशाभावात् । असंभ्रमे हेतु वदन् विशिनष्टि मुक्तस्त्यक्तः देहादिष्वात्मभाव आत्माभिमानरूपः सुदृढो ग्रन्थियैः सर्वेषु भूतेषु सुहृत्सौहार्दयुक्तः आत्मा मनो येषामत एवं निर्वैराणां देहात्माभिमानाभावा- द्वैराभावाच्च व्याकुलत्वाद्यभाव इति भावः । देहात्माभिमानादिसत्त्वेऽपि न तेषां मरणभयमस्तीत्याह । साक्षाद्भगवताभिरक्ष्यमाणानां केन अनिमिषः कालः स एवारिश्वक्रं तेन वरायुधेनाप्रमत्तेनानलसेन तैस्तैर्भावैश्च भद्रकालीमारकप्रभृतिष्वपीश्वरात्मकत्व भावैश्वति ।। २० ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां नवमोऽध्यायः ॥ ९ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली Earn उत्सिक्तमुच्छृङ्खलं मनो येषां ते तथा तेषां भगवत्कला सन्निहिताङ्गिरसकुलं कदर्थीकृत्य वृषलानां ब्रह्मर्षिसुतस्य भरतस्या- लम्भनं हिंसनमतिदारुणं यत्कर्म तदुपलभ्य दृष्ट्वा ब्रह्मतेजसा शत्रुदहनलक्षणभरतस्य श्रीहरि सामर्थ्येन भृशं ददह्यमानेन देहेन युक्ता ०५ श्रीमद्भागवतम् [ स्कं. ५ अ. ९ श्लो. १७.२० सा भद्रकाली सहसोचचाल “सद्योऽर्थः सहसा श्रुतः” इति यादवः ॥ १७ ॥ * * या यष्टुमाकाङ्क्षिता सैवेत्येवशब्दार्थः किंविशिष्टस्य सुनायां हिंसायामनभिमतस्यायोग्यस्य सर्वप्राणिहिंसका अपि ब्राह्मणहिंसां नानुमन्यन्त इति अमरोषयोर्य आवेशः तस्य रभसेन कोलाहलेन विलसितः प्रकाशितः भृकुटिलक्षणो विटपः शाखा तथा कुटिलाभ्यां दंष्ट्राभ्यां चारुणानामीक्षणाना- माटोपेन चातिभयङ्करं वदनं यस्याः सा तथा इदं जगद्धन्तुकामेवागृहासं कुर्वती ततः पूर्वस्थानादुत्पत्योत्थायागत्य वृक्णानि छिन्नानि शीर्षाणि येषां ते तथा तेषाम् ।। १८ ।। * महत्स्वभिचारेण योऽतिक्रमः अनिष्टकरणं तदात्मने कर्त्रे कात्स्न्येनैकदेशमन्तरेण फलति परिपार्क प्राप्नोति ॥ १९ ॥ * * आश्चर्यमेतद्यदन्तकान्तिकानीतोऽपि ब्राह्मणस्तूष्णीमासेति राजाभिप्रायज्ञो बादरायणिराह न वा इतीति । हे विष्णुरात ! परीक्षित्स्वशिरश्छेदन आपातितेऽप्यसम्भ्रम इति यदेतद्भागवतपरमहंसानामद्भुतं न वै नैवेत्यन्वयः। विमुक्तो देहादावात्मभावलक्षणसुदृढहृदयग्रन्थियस्ते तथा तेषां सर्वसत्त्वानां सुहृदञ्चात्मभूताश्च सर्वसत्त्वसुहृदात्मानः तेषां सुहृदात्मा मनो येषां ते तथा तेषामिति वा “साक्षात्प्रत्यक्षतुर्ययोः” इत्यभिधानात् साक्षाद्भगवतस्तुर्यमूर्त्तेर्हरैरनिमिषारिवरायुधेन कालरूपचक्राख्यश्रेष्ठायुधेन तैस्तैर्भावैर्भद्रकाल्यादिसंज्ञैः परितो रक्ष्यमाणानामप्रमत्तेनेत्यनेन चक्रस्य चैतन्यमुपलक्षयति, अत एव वैलक्षण्यसूचनाय भगवत अनिमिषेत्यपसन्धिः कृतः ॥ २० ॥
- इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदर त्नावल्यां नवमोऽध्यायः ॥ ९ ॥ श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी भगवतः कलानामवताराणां वीराः सेनान्यो ये भक्तास्तेषां कुलं कदर्थीकृत्य दुःखयित्वा स्वैरं विहरतां यत् कर्म तदुप- लभ्य देवी उच्चचाट प्रतिमां भित्त्वा बहिर्निर्जगाम यद्वा सैव प्रतिमारूपा देव्येव उच्चचाट भरततैजसा छिन्नभिन्ना बभूव । न तु तदीयासिना भरतरिछन्नो बभूव इत्येवकारार्थो व्यक्तः । सूनायामापत्काले स्वरक्षार्थमनुज्ञातायामपि हिंसायामननुज्ञातं सर्वथैव निषिद्धमालम्भनमित्यर्थः ॥ १७ ॥ * * अमर्षोऽपराधासहनं तद्धेतुका कोपश्च तयोरावेशस्य यो रभसो वेगस्तेन विलसितो विजृम्भितो भ्रुकुटिलक्षणो विटपः शाखा कुटिला दंष्ट्राश्च अरुणानीक्षणानि च तेषामाटोपेन प्रतापेन अतिभयानकं वदनं यस्याः सा इदं जगदपि तस्यैकस्य जगद्वर्तिनोऽपराधेनेत्यर्थः ॥ १८-१९ ॥ * * नन्वसम्भावितमेतद्यन्मरणेऽप्यव्याकुलत्वं मारकेषु क्रोधाभावस्तत्राह न वेति । हे विष्णुदत्त ! परीक्षित् विमुक्तो देहायात्मभावलक्षणः सुदृढो हृदयमन्थियैः सर्वेषामेव सत्त्वानां स्वहन्तृणामपि सुहृत्स्वरूपाणां न विद्यते निमिषमनवधानं यस्य तादृशमरि चक्रं तेन वरायुधेन करणेन भगवता कर्चाप्यप्रमत्तेन तैस्तैः प्रसिद्वैर्भावैर्भक्तवात्सल्यशिष्टपालन दुष्टनिग्रहायैः ॥ २० ॥ T सताम् ॥ ९ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ९ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः इत्थमेवं तेषां रजस्तमःस्वभावानां धनेन यो मदः स एवं रजस्तेनोत्सिक्तं निर्मर्य्यादं मनो येषां तेषां भगवत्कलाभि- र्वेदादिभिर्युक्तं वीराणां ब्राह्मणानां कुलं कदर्थीकृत्य तुच्छीकृत्य उत्पथेन दुर्मार्गेण स्वैरं यथेच्छं विहरतां रममाणानां हिंसैव विहारो येषां तेषां ब्रह्मभूतत्वादिगुणवतः यदालम्भनात्मकमतिदारुणं कर्म तदुपलभ्य सैव देवी अतिदुर्विषहेण ब्रह्मतेजसा दंदह्यमानं यद्व- पुस्तेन हेतुना सहसा आशु उच्चचाट प्रतिमां हित्वा बहिर्निर्गताभूत् । कथंभूतमालम्भनम् ? सुनायामपि आपत्काले अनुज्ञातायामपि प्राणिहिंसायाम् अननुमतमननुज्ञातम् ब्राह्मणवधस्य आपद्यपि निन्दितत्वमित्यर्थः । अतो बुभुक्षितो गरुडः आपदि कश्यपेन निषाद- ग्रामसमूहभक्षणे अनुज्ञातस्तत्र यदि ब्राह्मणस्ते कण्ठं प्राप्स्यति स तदा त्वां दहेत् अतस्त्वया निवारणीय इति महाभारते स्थितम् ।। १७ ।। * * तदनन्तरं किं वृत्तमित्यत्राह भृशमिति । भृशमत्यर्थम् अमर्षो व्यतिक्रमासहनं ततो रोषो व्यतिक्रमो क्तिर्नाशहेतुः क्रोधस्तस्या वेशस्य रभसेन वेगेन विलसित उत्तम्भितो भ्रकुटिरूपो विटपः शाखापरपरपर्यायः कुटिला दंष्ट्राच अरुणानीक्षानि च तेषामाटोपेन संभ्रमेणातिभयानकं वदनं यस्याः सा इदं विश्वं हन्तुकामेव महाट्टहासं सन्नादं विमुञ्चन्ती ततः स्थानादुत्पत्य तेनैवासिना विवृक्णानि विदारितानि शीर्षाणि येषां तेषां गलात्स्रवन्तमसृगासवं गणेन परिकरजनसमूहेन सह निपीय जगी ननर्त शिरांस्यैव कन्दुकानि तेषां लीलया चिक्रीड च । भरताग्रे इति शेषः ॥ १८ ॥ * महत्सु अभिचारो द्रोहस्त- । * निमित्तो नानाविधोऽपराधः ।। १९ ॥ * * हे विष्णुदत्त ! विमुक्तो देहेन्द्रियाद्यात्मभावलक्षणः सुदृढो हृदयग्रन्थिर्येषां तेषां सर्वसत्वानां सुहत् अनुकूलः आत्मा मनो येषाम् अनिमिषः सर्वमारकः कालः अरिबर सर्वस्यो र भ्यश्चकेभ्यो वरं श्रेष्ठ सुदर्शनाख्यं चक्र ते द्वे आयुधे यस्य तेन भक्तरक्षणे सदैवाप्रमत्तेन साक्षाद्भगवता तैस्तैर्भावैश्चान्तर्थ्यामितया प्रवर्त्यमानैर्भद्रकाल्या- दिरूपैः रक्ष्यमाणानां स्वशिरश्छेदे आपतिते प्राप्तेऽपि यदसंभ्रम इत्येतन्महदद्भुतं न भवति ।। २० ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे नवमाध्यायार्थप्रकाशः ॥६॥ स्क. ५ अ. ९ श्लो. १७-२०] अनेकव्याच्या समलङ कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी म
c १९५ अथानन्तरं पणयः पुरोहितत्वेन कल्पिताः वृषलाः स्वविधिना स्वकल्पितप्रकारेण तमभिषिच्य स्नानं कारयित्वा अहतेन नूतनेन वाससा आच्छाद्य भूषणालेपत्रक्तिकादिभिरुपस्कृतमलङ्कृतं भुक्तवन्तं पुरुषपशुं धूपाद्युपेतया वैशससंस्थया हिंसा- विधानेन महता गीतादिघोषेण च सह भद्रकाल्याः पुरत उपवेशयामासुरित्यन्वयः । लाजाः भृष्टधानाः । किसलयाः नवपल्लवाः । अङ्कुराः यवदूर्वाद्यङ्कुराः। उपहारो नैवेद्यम् ॥ १७ ॥ * * अथानन्तरं वृषलराजस्य पणिः कल्पितः पुरोहितः पुरुषपशो- भरतस्याऽसृगासवेन मादकरुधिरेण देवी भद्रकालीं यक्ष्यमाणस्तर्पयन् तदभिमन्त्रितं भद्रकाली मन्त्राभिमन्त्रितं स्वरूपेणाप्यतिकरालं भयङ्करमसिमुपाददे गृहीतवान् ।। १८ ।। * * इत्येवमतिदारुणं दुस्सह यत्तेषां वृषलानां कर्म तदुपलभ्य दृष्ट्वा सा देवी भद्रकाल्येव उच्चचाट प्रतिमां त्यक्त्वा बहिर्गतेत्यन्वयः । तद्दारुणं कर्म दर्शयति-सूनायामिति, आपत्कालेऽनुज्ञातायामपि हिंसायामननुज्ञातमित्यर्थः । अननुमतत्वे हेतुत्वेन तं विशिनष्टि — ब्रह्मभूतस्येति, ब्रह्मर्षिसुतस्य तत्रापि साक्षाब्रह्मभूतस्य ब्रह्मनिष्ठस्य अत एव निर्वैरस्य अत एव सर्वभूतानां सुहृदो हितचिन्तकस्यालम्भनं हिंसनमतिदारुणं कर्मेति सम्बन्धः । ननु तर्हि कथं तत् कर्तुं प्रवृत्ता इत्याशङ्कय स्वदोषवशादित्यभिप्रेत्य तेषां दोषान्प्रपञ्चयन विशिनष्टि-रज इत्यादिना, हिंसायामेव विहारः चित्तोल्लासो येषां ते तथा तेषाम् | अत एव भगवतः कला ऐश्वर्यादियुक्तं यद्वीराणां तेजस्विनां ब्राह्मणानां कुलं तत्कदर्थीकृत्य तुच्छीकृत्योत्पथेन मर्यादा- मार्गबहिर्भूतेन स्वैरं स्वेच्छया विहरतां प्रवर्त्तमानानाम् । तत्रापि हेतुमाह-धनमद एवं रजो यथार्थदर्शनप्रतिबन्धकं तेनोत्सिक्तं त्यक्तमर्यादं मनो येषां तेषाम् । धनमपि बहूनां भवति परन्तु नैवं मदोऽतस्तत्र को हेतुरिति वीक्षायामाह -रज इति । रजस्तमोभ्यां व्याप्ता प्रकृतिः स्वभावो येषां तेषाम् । सात्त्विकानामम्बरीषादिवद्धनमदो न भवतीति ज्ञेयम् । ननु तद्धिसनस्य शास्त्राननुमतत्वेऽपि स्वाराधनार्थमेव तदतस्तस्या निस्सरणे किं कारणमत आह-ब्रह्मेति । तस्यं ब्रह्मभूतस्यातिदुर्विषहेण तेजसा सहसैव दन्दहद्यमानेनातिशयेन दह्यमानेन वपुषा हेतुना निर्गता ॥ १९ ॥ * * एवं निर्गत्य किं कृतवतीत्यपेक्षायामाह - भृशमिति । अमर्षोऽपराधासहनं, रोषश्च वपुषो दाहजन्यः क्रोधः भृशमत्यन्तं यत्तयोरावेशस्तस्य रभसेन वेगेन विलसित उत्तम्भितो भृकुटिलक्षणों विटपः शाखा च कुटिला भयङ्करा दंष्ट्राश्व अरुणानीक्षणानि च तेषामाटीपः सम्भ्रमस्तेनातिभयानकं वदनं यस्याः सा । स्वरूपभयानकत्वेनोत्प्रेक्षते- इद विश्व हन्तुकामा हन्तुमुद्यतेवेत्यतिसंरम्भेण कोपावेशेन महान्तमट्टहासं सनादं हासं विमुचती । ततस्तदनन्तरमेवोत्पत्यं स्वेन तेनैव तद्वननार्थमभिमन्त्रितेनासिना विवृक्णानि च्छिन्नानि शीर्षाणि येषा तेषां पापीयसां दुष्टानां गलात्त्रवन्त मासवमादकमत्युष्ण- मसृक् स्वगणेन परिवारेण सह निपीय तस्यातिपानेन यो मदस्तेन विह्वला विवशा स्वपार्षदैः सहोच्चैस्तरां जगौ ननर्त्त च शिरांस्येव कन्दुकानि तेषां लीलया विजहार चिक्रीड च । एवं रुधिरपानशिरः कन्दुकक्रीडादिना देव्यास्तामसत्वं दर्शितम् ॥ २० ॥ ननु देव्याराधकानामप्यन्यत्र फलं दृष्टं श्रुतं तेषां कथमेवमनर्थो जात इत्याशङ्कय तत्र कारणमाह-एवमिति । एवं सर्वत्र महत्स्व- भिचारो मारणोद्योगरूपो योऽतिक्रमोऽपराधः स कात्स्म्र्त्स्न्येन सर्वाशिन आत्मन एव फलतीति सम्बन्धः । उत्तमसुरुच्यादिष्वेतत् प्रसिद्धमेवेति सूचयति — खल्विति ॥ २१ ॥ * * ननु कथमेवं सम्भवति यन्मरणे प्राप्तेऽप्य व्याकुलत्वं मारकेषु च क्रोधाभाव इत्याशङ्कयाह–न वा इति । विमुक्तो देहेन्द्रियाद्यात्मभावलक्षणः सुदृढो हृदयग्रन्थिर्यैस्तेषां स्वशिरश्छेदने आपतितेऽपि यदसम्भ्रमोऽव्याकुलत्वादि तदेतन्महृदद्भुतमत्यन्तासम्भावितं न वा नैव भवतीत्यन्वयः । ननु बहिर्वृत्त्यभावात्तेषां सम्भ्रमो मास्तु, मरणं स्यादेव रक्षकाभावादित्याशङ्कयाह -साक्षादिति । साक्षाद्भगवता परिरक्ष्यमाणानां कथं मरणादिभयं स्यादिति शेषेणान्वयः सर्वत्र ततो रक्षा न दृश्यतेऽत्रापि भद्रकाल्यैव रक्षा कृता, कथं भगवता रक्षेत्युच्यते इत्याशङ्कयाह तैस्तैरिति, यत्र तैस्तैर्भावै- भद्रकाल्यादिरूपै रक्षा दृश्यते तत्रापि तेषां अन्तर्यामिभगवदधीनत्वेन स्वातन्त्र्याभावादन्तर्यामिणा भगवतैव रक्षेत्यर्थः । किन अनिमिषेति । अनिमिषः निमेषरहितः कालः एवारि चक्रं वरं श्रेष्ठमायुधं यस्य तेन तथाच यत्रान्यः कश्चिद्रक्षको न दृश्यते तत्रापि सर्वकार्यसाधारणहेतोः कालस्य विद्यमानत्वात्तस्य भगवदायुधत्वात् तत्कृता रक्षाऽपि सर्वत्र अप्रमत्तेन सावधानेन सर्वज्ञेन भगवता कृतैवेति भावः । नन्वेवं देहाद्यात्मभावराहित्ये भगवता रक्षायां च को हेतुरित्याकाङ्गायामाह -भागवतेति, भगवदुपास- कत्वमेव हेतुरित्यर्थः । भगवदुपासनस्य किं लक्षणमित्यपेक्षायां तच्छरणागतिरेवेत्याह तत्पादेति, न कुतश्चिद्भयं यस्मात्तद कुतश्चिद्भयं सर्वतोभयनिवर्त्तकं यत्तस्य भगवतः पादमूलं तदुपसृतानां भगवच्चरणारविन्दध्यानेनैव सर्वपुरुषार्थसिद्धिरिति निश्चित्य निरन्तरं तद्धयानपराणामित्यर्थः । एवं निश्चयोऽपि कथमिति वीक्षायामाह - परमहंसानामिति, परमविवेकिनामित्यर्थः । तथा चोत्कृष्टापकृष्टविवेकेन तन्निश्चय इति भावः । ननु तवं विवेक एव कथं जायत इति वीक्षायां मैत्र्यादिसाधनसम्पत्त्येत्या-
- सर्वेति । सर्वेषु सत्त्वषु प्राणिषु सुहृत् मैत्रीयुक्त उपकारचिन्तक आत्मा अन्तःकरणं येषामत एव निवराणामिति । विष्णुदत्त इति सम्बोधनेनातिविषमस्थाने मातृगर्भेऽपि भवान् भगवता रक्षित इति तु तव विदितमेवेति स्मारयति ।। २२ ।। नतु sages इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र योगेन स्थितिरूपणे । नवमो विवृतोऽध्यायो भक्तमोचनरूपकः ॥ ३॥ १९६ श्रीमद्भागवतम् श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी isaiexam cu [ स्कं. ५ अ. ९ लो. १७-२० इतीति । रजस्तमःप्रकृतीनां, धनमद एवं रजस्तेन उत्सिक्तममर्यादं मनो येषां तेषां भगवत्कलायुक्तं परमेश्वरैश्वर्यसहितं वीराणां, ब्राह्मणानां यत्कुलं तत् कदर्थीकृत्य तुच्छीकृत्य, उत्पथेन दुर्मार्गेण स्वैरं यथेच्छं विहरतां, हिंसैव विहारः क्रीडनं येषां तेषां वृषलानां, इत्युक्तप्रकारं ब्रह्मभूतस्य ब्रह्मसाधर्म्यमा प्स्यमानस्य, साक्षात् ब्रह्मर्षिसुतस्य ब्रह्मर्षिवर्याङ्गिरसतनयस्य निर्वैरस्य, सर्वंभूतसुहृदः तस्य, सूनायामापत्काले स्वरक्षणार्थमनुज्ञातायां हिंसायामपि, अननुमतं नानुज्ञातं यत् आलम्भनं, तत् अतिदारुणमतिक्रूरं कर्म, उपलभ्य विबुद्धय सा एव भद्रकाली देवी अतिदुर्विषहेणातिसोदुमशक्येन, ब्रह्मतेजसा दन्दह्य- मानेन अतिशयेन दह्यमानेन वपुषा हेतुना, सहसा आशु, उच्चचाल प्रतिमां त्यक्त्वा बहिर्निर्गताभूदित्यर्थः ॥ १७ ॥ * ** भृशमिति । भृशमतिशयितं यथा तथा, अमर्षोऽपराधासहनं च रोषो वपुर्दा हजः क्रोधश्च तयोरावेशोऽन्तः प्रवेशस्तस्य रभसो वेगस्तेन विलसितो विजृम्भितो भृकुटिलक्षणो विटपः शाखा तेन कुटिलाः दंष्ट्राश्च अरुणे च ईक्षणे च तेषामाटोपः संभ्रमस्तेन च अतिभयानकमतिभयंकरं वदनं यस्याः सा, अत एव, इदं जगत्, हन्तुकामा हन्तुमुद्यता इव, महाट्टहासं सनादं हासं विमुञ्चन्ती कुर्वन्ती सती, अतिसंरम्भेणातिशयितक्रोधेन, ततः स्थानात्, उत्पत्य तेन मन्त्रितेन एवं असिना खङ्गेन, विवृक्णानि छिन्नानि शीर्षाणि शिरांसि येषां तेषां पापीयसामतिपापरूपाणां, दुष्टानां तेषां, गलात् कण्ठात्, स्रवन्तं प्रसृतं अत्युष्णं असृगासवं रुधिररूपमद्यं गणेन परिवारेण सह, निपीय अतिपानमदेन अतिपीतरुधिरजमदेन विह्वला व्याकुला सती, स्वपार्षदैः स्वगणैः सह उच्चैस्तराम- तिशयेन, जगौ । गानं कृतवती सती च, ननर्त्त । शिरांस्येव कन्दुकानि तेषां लीला क्रीडा तया, विजहार विहारं च कृतवती, आसीत् ॥ १८ ॥ * * ननु भद्रकाल्या देव्या आराधनमेवं कथं विपरीतफलप्रदं जातं तत्राह एवमेवेति । एवमेवेत्थमेव, महदभिचारातिक्रमः महत्त्वभिचारा चरणरूपः अतिक्रमोऽपराधः, कार्त्स्न्येन आत्मने कर्त्रे, फलति खलु किल। अभिचारिणामेव विपरीतफलदो जायते इत्यर्थः ॥ १९ ॥ * * नन्वेवमसंभावितमेवेदं भवत्यस्य यन्मरणकालेऽप्यव्याकुलत्वं मारकेषु च द्रोहाभावस्तत्राह न वा एतदिति । हे विष्णुदत्त, स्वशिरश्छेदने आपतिते प्राप्ते अपि, असंभ्रमः इति यत्, एतत् महदद्भुत- मतीवाश्चर्यं न भवति वै । यतः, विमुक्तस्त्यक्तः देहादिष्वात्मभाव आत्माभिमानरूपः सुदृढो हृदयग्रन्थिर्यैस्तेषां सर्वेषु सकलेषु सत्त्वेषु भूतेषु सुहृत्सौहार्दयुक्त आत्मा मनो येषां तेषां, अत एव, निर्वैराणां देहात्माभिमानाभावाद्वैराभावाच्चास्य व्याकुलत्वाद्यभाव इति विशेषणानां गूढो भावः । अस्य तु देहात्माऽभिमानो नास्त्येव । यद्येवंविधानां स स्यात्तथापि तेषां मरणादिभयं नास्त्येवेत्याह । साक्षाद्भगवता, अप्रमत्तेनानलसेन, अनिमिषः कालः स एवारि चक्रं तदेव वरायुधं तेन, तैः तैः भावैरन्तर्यामितया प्रवत्र्त्यमानैर्भद्र- काल्यादिरूपैः, परि परितः रक्ष्यमाणानां अकुतश्चिद्भयं तत्पादमूल उपसृतानां शरणं प्राप्तानां, भागवतपरमहंसानां न कुतश्चिद्भ- यमस्तीति शेषः । अत्र परमहंसशब्दो विरक्तपरः । आङ्गिरससुतस्य चतुर्थाश्रमप्रवेशाभावात् ॥ २० ॥EFITS इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तमसहजानन्दखामिसुतश्रीरघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे नवमोऽध्यायः ॥ ९ ॥ भाषानुवादः चोर स्वभावसे तो रजोगुणी-तमोगुणी थे ही, धनके मदसे उनका चित्त और भी उन्मत्त हो गया था। हिंसा में भी उनकी स्वाभाविक रुचि थी। इस समय तो वे भगवान् के अंशस्वरूप ब्राह्मणकुलका तिरस्कार करके स्वच्छन्दतासे कुमार्गकी ओर बढ़ रहे थे । आपत्तिकालमें भी जिस हिंसाका अनुमोदन किया गया है, उसमें भी ब्राह्मण वधका सर्वथा निषेध है, तो भी वे साक्षात् ब्रह्मभावको प्राप्त हुए वैरहीन तथा समस्त प्राणियोंके सुहृद् एक ब्रह्मर्षिकुमारकी बलि देना चाहते थे ! यह भयङ्कर कुकर्म देखकर देवी भद्रकालीके शरीर में अति दुःसह ब्रह्मतेजसे दाह होने लगा और वे एकाएक मूर्तिको फोड़कर प्रकट हो गयीं ।। १७ ।। * अत्यन्त असहनशीलता और क्रोधके कारण उनकी भौंहें चढ़ी हुई थीं तथा कराल दाढ़ों और चढ़ी हुई लाल आँखोंके कारण उनका चेहरा बड़ा भयानक जान पड़ता था। उनके विकराल वेषको देखकर ऐसा जान पड़ता था मानो वे इस संसारका संहार कर डालेंगी । उन्होंने क्रोधसे तड़ककर बड़ा भीषण अट्टहास किया और उछलकर उस अभिमन्त्रित खड्गसे ही उन सारे पापियोंके सिर उड़ा दिये और अपने गणोंके सहित उनके गलेसे बहता हुआ गरम-गरम रुधिररूप आसव पीकर अति उन्मत्त हो ऊँचे स्वरसे गाती और नाचती हुई उन सिरोंकी ही गेंद बनाकर खेलने लगीं ॥। १८ ॥ सच है, महापुरुषोंके प्रति किया हुआ अत्याचाररूप अपराध इसी प्रकार ज्यों-का-ज्यों अपने ही ऊपर पड़ता है ।। १९ ।। * * परीक्षित! जिनकी देहाभिमान- रूप सुदृढ़ हृदयग्रन्थि छूट गयी है, जो समस्त प्राणियोंके सुहृद् एवं आत्मा तथा वैरहीन हैं, साक्षात् भगवान् ही भद्रकाली आदि भिन्न-भिन्न रूप धारण करके अपने कभी न चूकनेवाले कालचक्ररूप श्रेष्ठ शस्त्रसे जिनकी रक्षा करते हैं और जिन्होंने भगवान्के निर्भय चरणकमलोंका आश्रय ले रक्खा है— उन भगवद्भक्त परमहंसोंके लिये अपना सिर कटनेका अवसर आनेपर भी किसी प्रकार व्याकुल न होना—यह कोई बड़े आश्चर्यकी बात नहीं है ॥ २० ॥ mus minis इति नवमोऽध्यायः ॥
।। ।। हाजी अन ac Poph FREE DETES To Pune अथ दशमोऽध्यायः क Shop hope श्रीशुक उवाच Shahee PRE WAVE अथ सिन्धुसौविर पते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिविकावा हपरुषान्वेषण समये दैवेनो- पसादितः स द्विजवर उपलब्ध एष पींवा युवा संहननाङ्गो गोखरवधुरं वोढुमलमिति पूर्व विष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिविकां स महानुभावः ॥ १ ॥ यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण उपधार्य पुरुषान घिवहत आहे हे बोढारः साध्वतिक्रमः किमिति विषममुह्यते यानमिति ॥ २॥ अथ त ईश्वरचः सोपालम्भमुपाकयपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयांवभूवुः ॥ ३ ॥ न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव बहामः । अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोदु मुह वर्य पारयाम इति ॥ ४ ॥ सांसर्गिको दोष एवं नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्रित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युर विस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतम- विराह ॥ ५ ॥ अहो कष्टं भ्रातर्यक्तमुरु परिश्रान्तो दीर्घमध्वान’ ‘मेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोप द्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व- चरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिविकां पूर्ववदुवाह ।। ६ । अथ पुनः स्वशिविकायां विषमगतायां प्रकुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनम विचरसि प्रमत्तस्य च ते करोमि चिकित्सां” दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७ एवं बहुबद्धम पि भाषमाणं नरदेवाभिमानं रजसा तमसानु’ विद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ८॥ अन्वयः— अथ सिधुसौवीरपतेः रहूगणस्य इक्षुमत्याः तटे व्रजतः शिबिकाबाहपुरुषान्वेषणसमये तत्कुलपतिना दैवेन सः द्विजवरः उपसादितः उपलब्धः एषः पीवा युवा संहननांगः गोखरवत् धुरम् वोदुम् अलम् इति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभम् अतदहः सः महानुभावः शिबिकाम् उवाह ॥ १ ॥ * * हि यदा इषुमात्रावलोकानुगतेः द्विजवरस्य पुरुषगतिः न समाहिता तदा रहूगणः स्वशिबिकाम् विषमगत्ताम् उपधार्य अधिवहतः पुरुषान् आह हे वोढारः साधु अतिक्रमत यानम् विषमम् किम् इति उह्यते इति ॥ २ ॥ * * अथ ते सोपालंभम् ईश्वरवचः उपाकर्ण्य उपायतुरीयात् शंकितमनसः तम् विज्ञापयां- * नरदेव वयम् न प्रमत्ताः भवन्नियमानुपथाः साधु एव बहामः अयम् अधुना एव नियुक्तः अपि बभूवुः ॥ ३ ॥ १. प्रा० पा० - सिन्धुपते । २. प्रा० प्रा० शिविकावाहक० । ३. प्रा० पा० पुरुषात्वेषसमये । ४. प्रा० पा०– यावान् संहन नाङ्गो । ५. प्रा० पा० मतदर्हणः । ६. प्रा० पा०– अथ ईश्वरवचः । ७. प्रा० पा० - वोढुं वयं । ८, प्रा० पा० - संसर्गिणां । ९. प्रा० पा०- भवितुमर्हतीति निशम्य । १०. प्राचीने पाठे ‘नमेक एव’ इत्यशः खण्डित ११. प्रा० पा०– जरसा इतो भवान् सुखिनो ये वापर | १२. प्रा० पा० - कर्मातिशय० । १३. प्रा० पा० - चिकित्सां तब दण्ड० । १४. प्रा० पा० – मभिभाषमाणं । १५० प्रा० पा०– तमसानुवृद्धेन । । १९८ श्रीमद्भागवतम् [ स्कं. ५ अ. १० ग्लो. १-८ द्रुतम् न व्रजति उह अनेन सह वोढुम् वयम् न पारयामः इति ॥ ४ ॥ * नूनम् सांसर्गिकः दोषः एव एकस्य अपि सर्वेषाम् सांसर्गिकाणाम् भवितुम् अर्हति इति निश्चित्य कृपणवचः निशम्य रहूगणः राजा निसर्गेण बलात् ईषदुत्थितमन्युः कृतः रजसा आवृत्तमतिः जातवेदसम् इव अविस्पष्टब्रह्मतेजसम् आह ॥ ५ ॥ * * अहो कष्टम् भ्रातः व्यक्तम् उरु परिश्रांतः भवान् एकः एव दूरम् अध्वानम् सुचिरम् यानम् ऊहिवान् अतिपीवा न संहननांगः न च जरसा उपद्रुतः सखे एते अपरे संघट्टिनः नो एव इति बहु विप्रलब्धः अपि ब्रह्मभूतः अवस्तुनि संस्थानविशेषे अविद्यया विहितद्रव्यगुणकर्माशयस्वचरमकलेवरे अहंममेत्य- नध्यारोपित मिथ्याप्रत्ययः तूष्णीम् शिबिकाम् पूर्ववत् उवाह ॥ ६ ॥ * * अथ पुनः स्वशिबिकायाम् विषमगतायाम् प्रकुपितः रहूगणः उवाच अरे इदम् किम् च त्वम् जीवन्मृतः माम् कदर्थीकृत्य अनुशासनम् अतिचरसि प्रमत्तस्य ते दंडपाणिः जनतायाः इव यथा स्वाम् प्रकृतिम् भजिष्य से चिकित्साम् करोमि इति ॥ ७ ॥ * * भगवान् ब्रह्मभूतः सर्वभूतसुहृदात्मा विगतस्मयः सः ब्राह्मणः एवम् बहु अबद्धम् अपि भाषमाणम् न नरदेवाभिमानम् रजसा तमसा अनुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतम् पंडितमानिनम् योगेश्वरचर्यायाम् नातिव्युत्पन्नमतिम् स्मयमानः इव इदम् आह ॥ ८ ॥ श्रीधरस्वाभिविरचिता भावार्थदीपिका ए दशमे क्षिपता राज्ञा शिबिकां स्वां वहन्मुनिः । स्वदुर्वादानुवादेन विज्ञायाशु प्रसादितः ॥ १ ॥ एवंभूताविकारित्वमज्ञसर्वज्ञयोः समम् । इति सर्वज्ञतासिद्धये की रहूगणकप्रेरणम् ॥ २ ॥ रहूगणो नाम सिंधुसौवीरदेशयो राजा तत्त्वजिज्ञासुः कपिलाश्रमं यदा गच्छति स्म तदा यद् वृत्तं तदाह अथेति । इक्षु- मत्या नद्यास्तीरे । तेषां शिविकावाहानां कुलस्य नाथेन एष गौरिव खर इव च भारं वोढुं समर्थ इति धिया पूर्व ये केचन विष्टया बलाद् गृहीतास्तैः सह प्रसभं बलाद् गृहीतः सन्नतदर्होऽपि स महानुभावः शिबिकामुवाहेत्यन्वयः ॥ १ ॥
- हिंसापरिहा रार्थमिषुमात्र प्रदेशावलोकस्यानु पश्चाद्या गतिस्तस्या हेतुभूतायाः पुरुषाणां गतिर्न सम्यगाहिता एकरूपा नाभूत् ॥ २ ॥ * * सोपालंभं साक्षेपम् । सामदानभेददंडेषूपायेषु चतुर्थाच्छंकितचित्ताः ॥ ३ ॥ * * भवन्नियमानुपथास्त्वदाज्ञानुवर्तिनः । न पारयामो न शक्नुमः ॥ ४॥ * * कृपणानां वचो निशम्य सांसर्गिकः संसर्गनिमित्त एकस्यापि दोषः सर्वेषामेव भवितुमर्ह- तीति निश्चित्य रहूगण आहेत्यन्वयः । कथंभूतः । उपासिता वृद्धा येन सोऽपि स्वभावेन बलात्परवशः कृतः सन् । कथंभूत प्रत्याह न विस्पष्टं ब्रह्मतेजो यस्मिन् । भस्मनाच्छन्नमग्निमिवस्थितम् ॥ ५ ॥ 158 भ्रातरिति संबोधनमाक्षेपाभिप्रायम् । व्यक्तं निश्चितमुरु अधिकं परिश्रांतोऽसीत्यादीनि विपरीतार्थानि षड् वाक्यानि । ऊहिवान्प्रापितवान् । तत्रापि सुचिरम्। जरसा च वृद्धत्वेन, संघट्टिनः सहचराः। बहु यथा भवत्येवं विप्रलब्धोऽपि वक्रोक्त्योपहसितोऽपि तूष्णीमुवाहेत्यन्वयः । तूष्णींभावे हेतुः । अविद्यया रचिता द्रव्यादयो यस्मिंस्तस्मिन्स्वचरमकलेवरे नाध्यारोपितो मिथ्याप्रत्ययो येन । तत्र द्रव्याणि महाभूतानि । गुणा इंद्रियाणि । कर्माणि पुण्यपापानि । आशयोंतःकरणम् । यतो ब्रह्मभूतः ॥ ६ ॥ मामनादृत्य भर्तुः स्वामिनो मम शासनमाज्ञामति- क्रामसि चिकित्सां शान्तिम् । दंडपाणिर्यमो यथा जनसमूहस्य साबित करोति तथा स्वां मतिमप्रमताम् || ७॥ * * अबद्धमनन्वितम् । नरदेवोऽहमित्यभिमानो यस्य तम् । अनुविद्धेन संगुणितेन । तिरस्कृतोऽशेषः संपूर्णो भगवतः प्रियो निकेत आश्रयो येन तम् । यद्वा अशेषाणां भगवत्प्रियाणां निकेतः सर्वेषां भूतानां सुहृच आत्मा च योगेश्वराणां चर्या जडादिवदाचरणं तस्यां नात्यंतं व्युत्पन्ना परिचिता मतिर्यस्य स तम् । स्मयमानो हसन्निवेति मुखप्रसत्तिर्योत्यते । विगतस्मयो गतगर्वः ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः क्षिपता तिरस्कुर्वता रहूगणेन स्वस्य दुर्वादा दुरुक्तयस्तेषामनुवादेन यथावत्प्रतिपादनेन ( १ ) एवंभूतं स्वमार केष्वपि क्रोधानुत्पादनरूपं यदविकारित्वं तदज्ञस्यातीव बालस्य सर्वज्ञस्य देहाद्यतिरिक्तात्मानुसंधानवतश्च सममेवातस्तत्र को विशेष इति हेतो: ( २ ) । तदेवं भरतस्य कणपिण्याकादिभिः खपाल केषु भ्रात्रादिषु तत्प्रतिवेशितेषु च सकर्मित्वाद्राजसेष्वपि कृपां चकारैव यतो बहुकाल तेभ्यो दर्शनं ददौ तथैव वृषलराजे दुराचारसक्तत्वादतितामसे रूघातकेऽपि कृपां चकारैव यतस्तेनापि प्रकारेण स्वस्य देव्याश्च साक्षादर्शनं जन्मांतरेऽपि तन्मुक्तिकारणं कारयामासैव तथैव रहूगणे ज्ञानित्वात्सात्त्विके राजत्वोचितशिबिकां वाहयत्यपि कृपां चकारेति तत्र रजस्तमसोः प्रकाशकत्वाभावादारात्सत्त्वस्य तु प्रकाशकत्वाद्रहूगण एवं भरतस्य भक्तिज्ञानादिप्रकाशो न पूर्वयोरिति ज्ञापयंस्तदुपाख्यानमारभते - अथेति कदाचिदर्थे । परमहंसत्वेन सर्वत्र तस्य साम्यस्यौचित्येपि महाभागवतत्वादेव कृपा व्याख्येया । भरतस्य भक्तिज्ञानवैराग्यादिकं भगवत्कृपया शतगुणीबभूवेति ज्ञायते इत्येतदर्थं रहूगणोपाख्यानमिति च केचिदाहुः । शिविका नरयानं “काश्यां पुर्यां नृयाने च शिबिका प्रोच्यते बुधैः” इति । उपसादितः प्रापितः उपलब्धः आसीदिति शेषः । एवं च वाक्यभेदेनाग्रिमस इत्यस्यापि न पौनरुक्तत्यम् । पीवा पुष्टांगः । संहननांगो बलिष्ठच । अतदहः ब्राह्मणत्वाच्छिविका वहनायोग्यः तत्रापि महानुभवोऽतीव पूज्यतमः ॥ १ ॥ उपधाय ज्ञात्वा ॥ २ ॥ * * ॥ अथ तदानीं, ते वोढारः, ईश्वरबचो ।। 188अनेकव्याख्या समलङ्कृतम् १९९ स्कं. ५ अ. १० श्लो. १८] राजवचनम् ॥ ३ ॥ * * नरदेवेति । अस्माकं नराणां त्वं देव एवातस्त्वदाज्ञां सर्वथा वयं गृह्णीम इति भावः ॥ ४ ॥ * * कृपणवचो दीनवाक्यम् ।।५॥ * * भ्रातः सख इत्यादिसंबोधनेन भ्रात्रादिभिः सह लोके विरोधो दृश्यते नान्यैरिति सूचितम् । विपरीतार्थकानि तेन श्रतोऽसि यतोऽधुनैवात्र नियोजितः अतिपीवा भवसि चढांगश्चासि युवा चासि एतेऽपरेऽन्ये तव संघट्टिनश्च तथा न संति तदपि विरुद्धगत्या बोद्धुं न शक्नोमीति मयि राजन्यपि दुष्टतां किं प्रकाशयसीत्यर्थः । अविद्यया मायया । अवस्तुनि मायिकत्वादनित्ये । यद्यपि भरतस्य तच्छरीरं शुकदेवादीनामिवाप्राकृतत्वादनश्वरं नित्यमेव । तदपि तस्य तदानीमुत्पन्न- प्रेमत्वादेव भगवंतं विनाऽन्यत्र स्वदेहादौ ममत्वासंभवात्तदानीं तेन देहेन साक्षात्सेवाऽलाभादौत्यवृद्धयातिदैन्येनाहंत्वस्यानर्पणात् सर्वज्ञत्वेऽपि तत्र स्वदेहे प्राकृतत्वमानमेवातस्तत्संमत्या श्रीशुकदेवेनापि तत्प्राकृतमिव वर्णितम् । वस्तुतस्तु स्वसंमत्या तदप्राकृतमेव व्याख्यातम् । सा व्याख्या च यथाऽविद्यया मायया न विहिता द्रव्यगुणकर्माशया यत्र तथाभूते स्वस्य चरमेऽवशिष्टे पूर्वपूर्वेभ्यो नष्टेभ्यः कलेवरेभ्योऽवशिष्टेऽनश्वरे इत्यर्थः । यद्वाऽसुष्ठु अचरमेऽनिकृष्टे कलेवरे कर्मारब्धत्वाभावाद्वस्तुनि परमसत्ये सम्यगवस्थान- विशेषो वैकुंठलोको यस्य तस्मिन्नपि प्रेमोत्थदेन्योदयादेव प्राकृतदेह इवाह-ममेति नाथ्यारोपितो मिध्याप्रत्ययो येन स तथेति ॥ ६ ॥ * * अथ तदुपालंभानंतरम् ॥ ७ ॥ * * एवमिति शुक्रवाक्यं, संगुणितेन वर्द्धितेन । आश्रयो भरताख्यो येन तम् । एवं व्याख्याने भक्तांतरेषु भगवत्कर्तृकप्रियत्वाभावः सेत्स्यतीत्यत आह-यद्वेति । सर्वभगवद्भक्ताश्रयीभूतस्तत्कालीनहरि- भक्तमुख्य इति यावत् । ॥ । भगवाञ्छ्रीकृष्ण पुनस्तिरस्कृतपदेन बहुब्रीहिः कार्यः । यद्वा- अशेषो न्यूनत्वविधुरोऽर्थात्परिपूर्णतमश्चासौ भगवांश्चेति अशेष- भगवाच्छ्रीकृष्ण एव । " एते चांशकलाः सर्वे कृष्णस्तु भगवान्स्वयम्” इत्युक्तेः, तस्य प्रियनिकेतः “न ब्राह्मणान्मे दयितं रूपमेतच्चतु- र्भुजम्” इति श्रीदशमे श्रीमुखोक्तेश्च ब्राह्मणदेह एव । यद्वा-भगवान्निकेतो येषां ते जीवात्मानो भगवन्निकेता अशेषाश्च भगवन्निकेता अशेषभगवन्निकेतास्तेषु प्रियोऽशेषभगवनिकेतप्रियः । यद्वा-अशेषाश्च ये भगवत्प्रिया अशेषभगवत्प्रियाः सर्वे देवाः ‘प्रिया देवाः सदा मम’ इति श्रीभगवदुक्तेस्तेषां निकेतो ब्राह्मणदेह एव । “सर्वा देवता वेदविदि ब्राह्मणे सन्तीति” इति श्रुतेः । पुनस्तिरस्कृतशब्देन बहुब्रीहिः कार्यः । यद्वा-भगवतः प्रियो भगवत्प्रियः स चासौ निकेतो देहो ब्राह्मणदेहः । ‘ब्रह्मज्ञो ब्राह्मणप्रियः’ इति सहस्रनामसु पठितत्वात् । अशेषेषु सर्वेषु भगवत्प्रियनिकेतोशेषभगवत्प्रियनिकेत स्तिरस्कृतोऽशेषभगवत्प्रयनिकेतो भरताख्यब्राह्मणदेहो येन तं “निक्रेतं स्याद् द्वयोर्देहे पुरे स्थाननिवासयोः” इति कोशात् । यद्वा-सर्वभूतानां सुहृदात्मा स्वरूपं यस्य स तथा । अपराधियः अपराधिन्यपि कृपालुरिति भावः । पंडितमानिनं तस्य किञ्चिन्मात्रज्ञानित्वं सर्वज्ञत्वेन ज्ञात्वेत्यर्थः । स्मयमान इत्यसौ स्वं ज्ञानिनं जानात्यथ चाज्ञानिवदुक्तिरिति इवेति तस्य बहिरनिष्क्रमात् ज्ञानित्वगर्वरहितः ॥ ८ ॥ 25 श्रीमद्वीरराघव व्याख्या POOR ISA INSTRI SI B की mar .. एवं मृत्युभयासंभ्रममभिधायाथ परापरज्ञानवृत्तां प्रपचयितुमाह अथेति । सिन्धुसौवीरदेशयो राज्ञः रहूगणाख्यस्य कपिलमुनिं प्रष्टुं तत्त्वमिति शेषः । तत्त्वजिज्ञासोब्रजतो गच्छतः सत इक्षुमत्या नद्यास्तीरे शिबिकाया आन्दोलिकाया ये वाहका वोढारस्तेषामन्वेषणसमये तेषां वाहकानां कुलस्य पत्या नाथेन स आङ्गिरससुतो द्विजश्रेष्ठो देवादुपसादितो लब्धः पीवा पुष्टावयवः युवा संहननाङ्गः सुदृढाङ्गप्रत्यङ्गसन्धिरेष गौरिव खर इव धुरं भारं वोदुमलं समर्थ इति धिया पूर्व ये विष्टया बलाद् गृहीतास्तैः सहितः सन्नतदर्होऽपि स महानुभावः शिबिकामुवाह ऊढवान् ॥ १ ॥ ॐ * यदा हि शिबिकावाहनसमये द्विजवरस्येषु- मात्र प्रदेशावलोकस्यानु पश्चाद्या गतिः कुटिला तस्या हेतुभूतायाः पुरुषाणां गतिर्न सम्यगाहिता एकरूपा नाभूत्, इषुमात्रप्रदेशगत्य- वलोकनानन्तर द्विजसंबन्धि प्रतिकूलगतिनिमित्त वैषम्ययुक्ता पुरुषगतिर भूदित्यर्थः, तदा विषमगतां सविषममूह्यमानां स्वशिबिका- सुपधार्थ दृष्ट्वा रहूगणः अधिवहतो वाहकान्पुरुषानाह उवाच उक्तिमेवाह अहो इति । अहो वोढारः । हे वाहकाः ! साधु सम्यगति- क्रमत पादविक्षेपान् कुरुत किमिति किमर्थ यानं शिविका विषमं यथा तथोह्यत इति ॥ २ ॥ * * अथ एतदुक्त्यनन्तरं ते वोढारः सोपालम्भं साक्षेपम् ईश्वरस्य भर्तुः रहूगणस्य वच आकर्ण्य उपायेषु सामदानविधिभेदेषु यस्तुरीयश्चतुर्थः तस्माच्छङ्कित- मनसः निग्रहरूपादुपायाच्छङ्कितचित्ताः अस्मान् दण्डयेदिति बुद्धधेत्यर्थः, तं यानस्य विषमगतिहेतुकं द्विजम् आङ्गिरससुतं विज्ञापयांबभूवुः विज्ञप्तिपूर्वकं कथयामासुरित्यर्थः । विज्ञप्तिपूर्वकत्वमेवाह नेत्यादिना पारयाम इत्यन्तेन । हे नरदेव । वयं न प्रमत्ताः किन्तु भवन्नियमानुवर्तिनः साध्वेव सम्यगेव वहामः । अयं पुरुषोऽधुनैव नियुक्तोऽप्यस्माभिस्सह द्रुतं नैव गच्छत्यतो वयमनेन सह वोदुन पास्यामः न समर्थाः ॥ ३ ॥ * * इति कृपणानां वचों निशम्य संसर्गनिमित्त एकस्यापि दोषः सर्वेषामपि भवितुमर्हति नूनमिति निश्चित्य रहूगण आहेत्यन्वयः । कथम्भूत उपासिता वृद्धा येन सोऽपि स्वभावेन प्राकृतेन बलात्परवशः कृतः रजोगुणव्याप्तचित्तः कुपितमनाः सन् कथम्भूतं प्रत्याह ने स्पष्टं ब्रह्मतेजो यस्मिन् रजसा भस्मना आवृतं प्रच्छन्नं जातवेदसमग्निमिव स्थितम् ॥ ४-५ ॥ ॐ उक्तमेवाह अहो इत्यादिना संघट्टिन इत्यन्तेन । अहो भ्रातरिति संबोधनमाक्षेपाभिप्रायकं व्यक्तं निश्चितम् उर्वधिकं परिश्रान्तोऽसीत्यादीनि विपरीतार्थकानि षड्वाक्यानि । एक एवोहिवान् तत्रापि सुचिरं जरसा वृद्धत्वेन च उपद्रुतः दौर्बल्यं प्राप्तो भवानपरे त्वद्वयतिरिक्ता एते संघट्टितः सह वाहका नो एव दीर्घाध्वगमनादिक- २०० श्रीमद्भागवतम् [ स्कं. ५ अ. १० श्लो. १-८ मकृत्वैव सुखिनस्तिष्ठन्तीत्येवं बहुविप्रलब्धोऽधिक्षिप्तोऽपि ब्राह्मणस्तूष्णीं पूर्ववदुवाह । तत्र हेतु वदन् विशिनष्टि । अविद्ययाहंकार- ममकाररूपया कर्मसंज्ञया वा हेतुभूतया विरचिताः परिणताः द्रव्याणि पञ्चमहाभूतानि गुणाः शब्दादयः ज्ञानेन्द्रियविषयाः कर्माणि वागादिकर्मेन्द्रियविषयाः अभिजल्पादयः - गुणकर्मशब्दौ तदिन्द्रियाणामप्युपलक्षणे- आशयोऽन्तःकरणं वासना वा यस्मिन्न- वस्तुनि वसत्येकरूपेणेति वस्तु ततोऽन्यस्मिन्सततविकारिणीत्यर्थः अवयवविन्यासविशेषरूपे स्वचरमकलेवरे तदनुबन्धिनि च अनारोपितः अहंममेत्येवंरूपो मिथ्याप्रत्ययो ज्ञानं येन अनहमर्थे शरीरे अहप्रत्ययः रजतादिप्रत्ययवत् मिध्येति मिथ्याप्रत्यय इत्युक्तम् | ब्रह्मभूतः ब्रह्मसाधर्म्यमापत्स्यमानः तस्य ब्रह्मभावस्य सान्निध्यात्सिद्धवन्निदेशः ॥ ६ ॥ * * अथ पुनः शिविकायां । विषमं नीयमानायां सत्यां रहूगेणः प्रकुपितः पूर्वमीषत्कुपित आह । इदानीं तु प्रकुपित आहेति प्रकुपितस्यैवोक्तिमाह । किमित्यादिना भजिष्यस इत्यन्तेन । इदं किमित्याज्ञातिलङ्घित्वं दर्शयति । अरे त्वं भवान् जीवन्नपि मृतप्रायः मां कदर्थीकृत्य तुच्छीकृत्य भर्तुर्मम शासनमतिचरस्यतिक्रम्य वर्तसे । ततः प्रमत्तस्य ते चिकित्सां दण्डं करोमि दण्डपाणिर्यमश्च जनसमूहस्य यथा त्वं स्वां प्रकृतिं भजिष्यसि समीचीनां करिष्यसि तथा चिकित्सां करोमीति ॥ ७ ॥ * * एवं बह्रधिकमबद्धमनन्वितमभिभाषमाणं नराणां देवोऽह- मित्यभिमानवन्तं तमसानुविद्धेनानुसङ्गतेन रजसा रजोगुणकार्येण क्रोधेन तन्मूलभूतमदेन सम्मोहितेन तिरस्कृताशेषभगवत्प्रिय- निकेतनं भगवत्प्रियनिकेतनशब्दो भागवतपरः- भगवतः प्रियनिकेतनत्वात् तिरस्कृता अशेषा भगवत्प्रिया निकेतना येन सः । एततिरस्कारेण सर्वेऽपि भागवतास्तिरस्कृतप्राया एवेत्यभिप्रायेणाशेषपदं प्रयुक्तं यद्वा तिरस्कृतः अशेषः सम्पूर्णः भगवतः प्रियः आश्रयो येनेति च पण्डितमात्मानं मन्यमानं योगीश्वराणां चर्या जडादिवदाचरणं तस्यां नात्यन्तव्युत्पन्ना परिचिता मतिर्यस्य तं रहूगणं सर्वभूतसुहृदात्मा कृतागस्यपि सौहृदयुक्तमनाः ब्रह्मभूतो भगवान् जगदुत्पत्यादिज्ञानवान् । “उत्पत्ति प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ||” उक्तः स ब्राह्मणः भरतः विगतस्मयो विगताश्चर्योऽपि स्मयमानो हसन्निव, अनेन सुप्रसन्नता द्योत्यते, इदं वक्ष्यमाणमाह ॥ ८ ॥ 3 8 श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अत्र पुरुषान्तरसंवादबाहुल्येन श्रद्धातिशयो भवतीति पुनरपि पञ्चस्वध्यायेषु हरेस्तत्त्वं निरूपयति । तदर्थं ब्राह्मण- रहूगणयोः संलापं घटयितुमाह अथेति । इक्षुमत्या नद्यास्तटे कस्मिंश्चिदाश्रमे स्थितं कपिल मुनिं द्रष्टुं व्रजतो व्रजतो रहूगणस्यान्दोलि काबाहक पुरुषान्वेषणवेलायां तस्य राज्ञः कुरुपतिना प्रधानपुरुषेण दैवेनादृष्टप्रेरकेण हरिणोपसादितः प्रापितः एष पीवा पुष्टः खरवत् धुरं शिबिकां वोदुमलं समर्थ इति निश्चित्य प्रसभं पूर्वविष्टिगृहीतैर्वाहकैः सह गृहीतोऽतदहः वहनायोग्यः स ब्राह्मणः शिबिका मुवाहेत्यन्वयः । किं चित्रमिदमिति तत्राह स हीति । स ब्राह्मणो महानुभावो हि यस्मात्तस्माद् ब्राह्मणेन वाहयितृत्वमनुप- पन्नमिदमस्यात्यन्तायोग्यं महासामर्थ्यो पेतत्वादित्यर्थः ॥ १ ॥ * युगमात्र प्रदेशस्यावलोको दर्शन युगमात्रावलोकः तदनुकूला गतिर्गमनं यस्य स तथा तस्य गत्या अन्येषां वाहकानां पुरुषाणां गतिर्न समायुक्ता भवति यदा तदा रहूगणः अधिवहतो वचः तुर्यात्सामाद्युपायानां • वोढनाहे त्यन्वयः । अतिक्रमत पदं निक्षिपत ।। २ ।। * सोपालम्भं सतर्जनमीश्वरस्य राज मध्ये चतुर्थाद्दण्डात् ॥ ३ ॥ * * भवतो नियमोऽनुशासनं तस्यानुपथा अनुगुणमार्गाः द्रुतमस्म द्रुतमस्मद्रमनानुगुणं न व्रजति पारयामः पार गच्छामः ॥ ४ ॥ ** ‘विचारासहत्वा दितीममर्थमपिना सूचयति, अमदानीमेकस्य सांसर्गिकः सम्बन्धात्सम्भूतः सम्भावनामात्रं न तु तात्त्विकं सह वाहकाः ॥ ६ ॥ ।। । ॥ अयं दुष्ट इति सर्गेण निश्चयेन सिन्धुविषयस्याधिपतिरहमित्यभिमान बलात्कृतः पूर्णः स्वभावान्तरं राजसं प्राप्त इति वा अत एवोत्थितकोपः ॥ ५ ॥ $ 8 अहो कष्टमित्याद्याक्षेपाः विपरीतार्था वेदितव्याः । भ्रातः सखे ! इत्याक्षेपे सम्बोधनं ज्ञातव्यं लोके भ्रात्रादिभिः सह विरोधो नान्यैरित्यत एतादृशैः शब्दैः सम्बोधनं कृतमित्यर्थः । सङ्घट्टिनः सह इत्येवं विप्रलब्धोऽपि भत्सितोऽपि तूष्णी भूत्वा शिबिकामुवाहेत्यन्वयः । तूष्णींभावे कारणमाह ब्रह्मेति । ब्रह्मभूतः ब्रह्मनिविष्टमना इत्यर्थः, अत्रापि कारणमाह चरमेति । इतः परं भौतिक शरीरमस्य नास्तीति द्योतनाय चरमेति । स्वत्वेनाभिमतेऽन्त्यदेहे न अध्यारोपितो मिध्याप्रत्ययो येन स तथा अनात्मनि कर्तृत्वाभिमानो मिध्याप्रत्ययः न त्वनिर्वाच्यलक्षणः । कस्माच्छरीरस्य हेयत्वमिति तत्राह अवस्तुनीति । अवस्तुत्वादनित्यत्वादित्यर्थः तदपि कुत इत्यत्राह संस्थानेति । अवयवविन्यासविशेषत्वाद्घटवदित्यर्थः केन विन्यासविशेष इत्यत्राह अविद्ययेति । हरीच्छया प्रेरितया प्रकृत्या विहितानां द्रव्याणां पञ्चभूतानां गुणानां सत्त्वादीनां कर्मणां पुण्यपापलक्षणानामाशयः समूहो यस्मिंस्तत्तथा द्रव्यादीन्या- शेरते यस्मिन्निति वा विहितद्रव्यगुणकर्माशयं च स्वचरमकलेवरं चेति विग्रहस्तस्मिन् विचिकित्सया किम्फलमवाह यथेति । प्रकृतिं समस्वभावम् ॥ ७ ॥ * * एवं राज्ञोपालब्धो ब्राह्मणः किमकरोदत्राह एवमिति । अवद्धाभिभाषणे कारणमाह ॥ ॥ रजसेति । फलान्तरचाह तिरस्कृतेति । अशेषा ये भगवत्प्रिया भागवतास्तत्कालभवमनुष्यास्तेषां निकेत आश्रयो विप्रजन्मा यः स भरतोऽशेष भवत्प्रियनिकेतः तिरस्कृतो धिक्कृतोऽशेषभगवत्प्रियनिकेतो येन स तथा तं, मनुष्यपदं प्रक्षिप्य किमिति समस्यत इतीयं शङ्का तत्कालस्थितभक्तेषु मानुषेष्वृषभात्मजः वरोऽपि धिक्कृतो राज्ञा सुहृदा वैष्णवेष्वपीत्यनेन परिहर्तव्येति सर्वभूतसुहृदो
स्कं. ५ अ. १० लो. १-८] अनेकव्याख्या समलङ्कृतम् २०१ वैष्णवास्तेष्वात्मा यस्य स तथा अत एव सुहृदा वैष्णवेष्विति तर्हि किमिति धिक्कार इत्यत उक्त योगेश्वरेति । योगेश्वराणां चर्यायां शुश्रूषायां व्यवहारे वा नातिव्युत्पन्नमतिं नाभ्यस्तबुद्धिं स्मयमान इवेतीवशब्दो मन्दहासस्य स्वरूपभूतत्वं दर्शयति । स्मयो नाम कश्चन दोषः स विगतो यस्मात्स तथा इदं राज्ञ आक्षेपवचनानामुत्तरम् ॥ ८ ॥ श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः अस्य च श्रीभरतस्य भागवतपरमहंसत्वाद्भगवद्गुणसंक्रान्तत्वेन सर्वत्र समस्यापि भक्तवात्सल्यं परमस्त्येव । ननु ‘भजतोऽपि न वै केचिदिति न्यायेनान्येषामात्मारामाणामिव तत्राप्यौदासीन्यमिति महागुणान्तरं दर्शयितुमाह अथ सिन्ध्विति । ॥ १-५ ॥ * परिश्रान्तोऽसीति टीकादृष्टमपि सर्वत्र नास्ति परिश्रान्त इत्येव सर्वत्र पाठः ॥ ७ ॥ * * ब्रह्मभूतः देहद्वयावेशरद्दितः ।। ८-१४ ॥ * श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी वहन्तं शिबिकां स्वीयकद्वक्त्यर्थकृतं मुनिम् । ज्ञात्वा राजावरुह्याशु तुष्टाव दशमे स्फुटम् ॥ * + तदेवं श्रीभरतः कणपिण्याकादिभिः स्वपालकेषु भ्रात्रादिषु तत्प्रतिवेषितेषु च कर्मित्वाद्राजसेष्वपि कृपाश्र्वकारैव यतो बहुकालमपि तेभ्यः स्वदर्शनं ददौ तथैव वृषलराजे दुराचारसक्तत्वादतितामसे स्वघातकेऽपि कृपाश्र्वकारैव । यतस्तेनापि प्रकारेण स्वस्य देव्याश्च साक्षाद्दर्शनं जन्मान्तरेऽपि तन्मुक्तिकारणं कारयामासैव तथैव रहूगणे ज्ञानित्वात् सात्त्विके राजत्वोचितरजसा शिबिकां वाहयत्यपि कृपाकारेति तत्र रजस्तमसोः प्रकाशकत्वाभावात् सत्त्वस्य तु प्रकाशकत्वात् रहूगण एवं भरतस्य भक्तिज्ञानादिप्रकाशो न पूर्वयोरिति ज्ञापयन् तदुपाख्यानमारभते अथेति । परमहंसत्वेन सर्वत्र तस्य साम्यस्यौचित्येऽपि महाभागवतत्वादेव कृपा व्याख्येया । भरतस्य भक्तिज्ञानवैराग्यादिकं भगवत्कृपया शतगुणीबभूवेति एतत् कथं ज्ञायेतेत्येतदर्थं रहूगणोपाख्यानमिति च केचिदाहुः । सिन्धुसौवीरदेशयोर्नृपस्य तेषां शिबिकावाहानां कुलपतिना पीवा पुष्टाङ्गः संहननाङ्गो बलिष्ठव प्रसभं बलात् कृतं यथा स्यात्तथा गृहीतः अलं समर्थ इति मनसि विभाव्येत्यर्थः ॥ १ ॥ * * हिंसापरिहारार्थमिषुमात्र प्रदेशावलोकनानन्तरमेव या गतिस्तस्या हेतोः पुरुषाणां गतिर्न समाहिता न सम्यगाहिता एकरूपा नाभूत् ॥ २ ॥ * ईश्वरस्य राज्ञो वचः सोपालम्भं साक्षेपमुपायेषु सामदानभेददण्डेषु मध्ये तुरीयात् चतुर्थात् दण्डात् ॥ ३ ॥ * न वयं प्रमत्ताः किं तु भवदाज्ञानुवर्त्तिन एव ॥ ४ ॥ * निसर्गेण राजत्वाद्राजसस्वभावेन बलात्कृतः बलात्कारविषयीकृतः जातवेदसमम्मिं भस्माच्छादितमिव ॥ ५ ॥ * * भ्रातरित्याक्षेपाभिप्रायं सङ्घट्टिनः सङ्गिनः विप्रलब्धः विपरीतलक्षणया उपहसितः तेन त्वं न श्रान्तोऽसि यतोऽधुनैवात्र नियोजितः अतिपीवा भवसि दृढाङ्गश्च भवसि युवा चासि, एते अन्ये तव सङ्गिनश्च । तदपि विरुद्धगया वोढुं न शक्नोमीति मयि राजन्यपि दुष्टतां किं प्रकाशयसीत्यर्थः । विप्रलब्धोऽपि तूष्णीमुवाह । तत्र हेतुः अविद्यया मायया रचिता द्रव्यादयो यस्मिन् तत्र स्वचरमकलेवरे न अध्यारोपितो मिथ्याप्रत्ययो येन तत्र द्रव्याणि भूतानि गुणा इन्द्रियाणि कर्माणि पुण्यपापानि आशयोऽन्तःकरणं अवस्तुनि कलेवरस्य प्राधानि- कत्वेन वस्तुत्वेऽपि स्वस्य तत्सम्बन्धाभावादेवेति भावः यतो ब्रह्मभूतः । यद्यपि भरतस्य तच्छरीरं शुकदेवादीनामिवाप्राकृतत्वा- दनश्वरं नित्यमेव, तदपि तस्य तदानीमुत्पन्नप्रेमत्वादेव भगवन्तं विना अन्यत्र स्वदेहादौ ममत्वासम्भवात् तदानीं तेन देहेन साक्षात् सेवाया अलाभादौत्कण्ठयवृद्धयातिदैन्येनाहं त्वस्याप्यनर्पणात् सर्वज्ञत्वेऽपि तत्र स्वदेहे प्राकृतत्वभानमेवातस्तत्सम्मत्या श्रीशुक- देवेनापि तत् प्राकृतमिव वर्णितं, वस्तुतस्तु स्वसम्मत्या तदप्राकृतमेव व्याख्यातं सा व्याख्या च यथा अविद्यया मायया न विहिता द्रव्यगुणकर्माशया यत्र तथाभूते स्वस्य चरमेऽवशिष्टे पूर्वपूर्वेभ्यो नष्टेभ्यः कलेवरेभ्योऽवशिष्टेऽनश्वर इत्यर्थः । यद्वा सुष्ठु अचरमे अनिकृष्टे कलेवरे कर्मारब्धत्वाभावाद्वस्तुनि परमसत्ये सम्यगवस्थानविशेषो वैकुण्ठलोको यस्य तस्मिन्नपि प्रेमोत्थदेन्योदयादेव प्राकृतदेह इव अहं ममेति न अध्यारोपितो मिध्याप्रत्ययो येन सः ॥ ६-७ ॥ * * अबद्धमनन्वितमनुविद्धेन ग्रथितेन तिरस्कृतः अशेषः सम्पूर्णो भगवतः प्रियो निकेत आश्रयो भरताख्यो येन तं सर्वभूतसुहृत्स्वरूपः स्वापराधिन्यपि कृपालुरित्यर्थः । पण्डितमानिनमिति तस्य किञ्चिन्मात्रज्ञानित्वं सर्वज्ञत्वेनैव ज्ञात्वेत्यर्थः । योगेश्वराणां चर्या जडादिवदाचरणं तस्यां तज्ज्ञाने इत्यर्थः । स्मयमान इत्यसौ स्वं ज्ञानिनं जानात्यथ चाज्ञानिवदुक्तिरिति इवेति तस्य बहिर निष्क्रमात् विगतस्मयः ज्ञानित्वगर्वरहितः ॥ ८ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः एवं द्विजवरस्य शिरश्छेदप्रसङ्गेऽपि निर्विकारत्वमुक्त्वाथ शिबिकोद्वहनदुर्वचनश्रवणादावपि निर्विकारत्वं वर्णयति दशमें- नाध्यायेन अथेति । तत्त्वजिज्ञासोः रहूगणस्य कपिलाश्रमं व्रजतः शिबिकावाहपुरुषान्वेषणसमये तेषां शिबिका वाहानां कुलस्य पतिना सद्विजवर उपलब्धः प्राप्तः पीवा पुष्टः संहननाङ्गः सुदृढावयवः एष गौरिव खर इव धुरं भारं वोदुमलं पय्र्याप्तः इति २६ २०२ श्रीमद्भागवतम् [ स्कं. ५ अ. १० हो. १-८ बुद्धया पूर्व ये विष्टया “विष्टि: कर्मकरे मूल्ये भद्राऽऽजूप्रेरणेषु च” इति हैमकोशात् बलात्प्रेरणेन गृहीतास्तैः स शिविकामुवाहेत्य- न्वयः । कथंभूतः प्रसभं बलादेव गृहीतः सन् अतदर्होऽपि स महानुभावः ॥ १ ॥ * * यदा शिविकोद्वहनसमये पिपीलिकादि- हिंसापरिहारार्थम् इषुपरिमितप्रदेशावलोकस्यानु पश्चाद् या गतिस्तस्या हेतुभूतायाः पुरुषाणामन्येषां वोढणां गतिर्न सम्यगाहिता एकरूपाभूत् तदा रहूगण आह ॥ २ ॥ * * ईश्वरस्य प्रजारक्षितुः सोपालम्भं साक्षेपं वचः उपायेषु सामदानभेददण्डेषु चतुर्थाच्छङ्कितचित्ताः तं द्विजवरं विज्ञापयांबभूवुः ज्ञापितवन्तः ॥ ३ ॥ * * हे नरदेव ! वयं प्रमत्ताः अनवहिता न किं तु भवन्नियमानुप्रथाः भवदीयाज्ञानुसारिणः । द्रुतं शीघ्रं न ब्रजति अतोऽनेन सह वोढुं न पारयामः न शक्नुमः ॥ ४ ॥ * अथ रहूगणः कृपणानां तेषां बचो निशम्य श्रुत्वा सांसर्गिकः संसर्गिनिमित्तः एकस्यापि दोषः सर्वेषां संसर्गिणामेव भवितुमर्हतीति निश्चित्य उपासितवृद्धोऽपि रजसावृतमतिर्निसर्गेण राजसस्वभावेन बलात्परवशः कृतः न विस्पष्टं ब्रह्मतेजो यस्मिन् तं रजसा भस्मना छन्नं जातवेदसमग्निमिव वर्त्तमानं प्रत्युवाच ॥ ५ ॥ * * तदाह अहो इत्यादिना । हे भ्रातः ! व्यक्तं निश्चितमुर्वधिकं परिश्रान्तो दीर्घमध्वानमेक एवोहिवान् प्रापितवान् तत्रापि सुचिरं नातिपुष्टः कृशोऽस्ति भवान् न संहननाङ्गः शिथिलावयवश्च जरसा च भवानुपद्रुतः संघट्टिनः सहचराः - इत्येवं बहु यथा भवति तथा विप्रलब्धोऽपि विपरीतार्थेर्वाक्यैरुपहसितोऽपि अविद्यया अचेतनस्वरूपया भगवन्मायया विहिता रचिता द्रव्यादयो यस्मिन् स्वचरमकलेवरे अवस्तुनि वस्तु आत्मा तद्भिन्ने संस्थान विशेषे आकारविशेषे अनध्यारोपितः देहोऽस्मीति मिथ्याप्रत्ययो येन सः शिविकां तूष्णीं पूर्ववदुवाह ॥ ६ ॥ विषमगतायां
-
- ६ ॥ ॥ विषमं नीयमानायां सत्यां भर्तुः स्वामिनो मे शासनमाज्ञामतिक्रामसि । चिकित्सां शास्तिम् ॥ ७ ॥ ॐ अनुविद्धेन युक्तेन । ॥ तिरस्कृतः अशेषस्य साङ्गोपाङ्गस्य ध्येयस्य भगवतः प्रियो निकेतो ध्यानरूप आश्रयो येन तं ब्रह्म अशेषो भगवान् भूतमनुभूतं ध्याने साक्षात्कृतं येन सः स्मयमानः स्वभावादेव हसन्निव विगतस्मयो विगतगर्वः ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी दशमे भरते विप्रे राज्ञो रहूगणस्य वै । गुरौ शिष्यप्रकारेण नतिः प्रश्नश्च वर्ण्यते ॥ १ ॥ !
। ननु तत्र तत्रास्य ज्ञानित्वं निरूपितं तन्न सम्भवति, अस्मिन् जन्मन्युपदेशाभावात् न च पुत्रांश्च शिष्यांश्चानुशिष्यादिति ब्रदता भगवता ऋषभेणैव अयमध्युपदिष्ट एवेति वाच्यम्, एवं पूर्वमेवाज्ञानित्वेन “न स पुनरावर्त्तते” इति श्रुतिविरोधेन पुनर्जन्मा- सम्भवात् न चास्याज्ञत्वे शिर छेदप्राप्तावविकारित्वानुपपत्त्या तत्कल्प्यते इति वाच्यम्, अत्यन्तजडत्वेनापि देहाद्यननुसन्धानेन तत्सम्भवादिति चेत् न, पूर्वमेवायमपि भगवतोपदिष्ट एव तज्ज्ञानं च प्रारब्धेनैव प्रतिबद्धमतो न श्रुतिविरोधः ‘यावदधिकारं स्थितिराधिकारिकाणामिति न्यायेन वसिष्ठादीनां ज्ञानिनामपि देहान्तरग्रहणप्रसिद्धया च ब्रह्मविदोऽपि प्रारब्धभोगस्येष्टत्वात् । भक्तिरपि तेन मर्यादामार्गरीत्या ज्ञानसाधनत्वेनानुष्ठिताऽतो ज्ञानोत्पादन एवोपक्षीणा न स्वातन्त्र्येण फलजनिका जाता, न चायमत्यन्तं जड एव, तत्र तत्र ज्ञानिलिङ्गानां बहुशो दर्शितत्वात् । पुनश्च तस्य ज्ञानित्वप्रतिपादनाय प्रसङ्गान्तरमाह — अथेति । अथानन्तरं कदाचित् सिन्धुसौवीरदेशयोः पते राज्ञो रहूगणनाम्नो विद्यार्थी कपिलाश्रमं व्रजत इक्षुमत्या नद्यास्तीरे तत्कुलपतिना तेषां शिविकावाहानां कुलस्य नाथेन शिबिकावाहपुरुषान्वेषणसमये दैवेन केनचित्प्रारब्धेन उपसादितः प्रापितः स द्विजवर उपलब्धो दृष्टः । तदा च स पीवा पुष्टः युवा संहननाङ्गः कठिनावयवशरीरः, अतो गौरिव खर इव च धुरं बोदुमलं समर्थ इति मत्वा ये पूर्वं विष्टया बलाद् गृहीतास्तैः सह अयमपि गृहीतोऽतदर्हः शिबिका वाहनायोग्योऽपि प्रसभं बलात्तत्र नियोजितः सन् शिबिकामुवा- हेत्यन्वयः । शिबिका वाहनानर्हत्वे तथात्वेऽपि तत्र नियोगे क्रोधराहित्ये च हेतुमाह-स महानुभाव इति ॥ १ ॥ हिंसापरिहारार्थमिषुमात्र प्रदेशावलोकं अनु पञ्चाद्रुतिर्यस्य तस्य द्विजवरस्य गत्या सह यदा ह्यन्येषां पुरुषाणां गतिर्न समाहिता एकरूपा न जाता तदा विषमगतामान्दोलितां स्वशिबिकामुपधार्योपलभ्य रहूगणी हे वोढारी यानं साधु यथा भवति तथाऽति- क्रमत वहत, किमिति विषममुह्यते इत्यधिवहतः पुरुषानाहेत्यन्वयः ॥ २ ॥ * अथानन्तरं ते बोढारः पुरुषा ईश्वरस्य दण्डसमर्थस्य राज्ञः सोपालम्भं साक्षेपं वच उपाकर्ण्य श्रुत्वा उपायतुरीयात् सामदानभेददण्डेषूपायेषु चतुर्थाद्दण्डलक्षणात् शङ्कित- मनसः भीतचित्तास्तं स्वामिनं विज्ञापयाम्बभूवुः ॥ ३ ॥ तेषां विज्ञापनमेव दर्शयति-येति नरदेव इति । सम्बोधनं न वयं भवद- प्रेऽन्यथा वक्तुं शक्ताः, यथार्थमेव वदाम इति विश्वासार्थम् । न वयं प्रमत्ताः अनवहितचित्ताः, किन्तु भवन्नियमानुपथाः भवदा- ज्ञानुसारिणः सावधानचित्ता एवातः साध्वेव यानं वहामः । तर्हि कथं यानं विषमं भवतीति वीक्षायां विप्रमा लक्ष्याहु:- अयमधुनैव विनियुक्तोऽतः श्रान्तिरहितोऽपि न द्रुतं शीघ्रं व्रजतीति यानं विषमं भवतीति, अनेन सह वयं वोढुं न पारयामः समर्था न भवामः । उहेत्यन्यदोषेण स्वाधिक्षेपे खेदं द्योतयन्ति । इति विज्ञापयाम्बभूवुरिति पूर्वेणान्वयः ॥ ४ ॥ * * एवं कृपणानां वचो निशम्य नूनं सांसर्गिकः संसर्गनिमित्त एकस्यापि दोषः सर्वेषामेव संसर्गिणां भवितुमर्हतीति निश्चित्य तं विप्र- मुपालम्भवचनमाहेत्यन्वयः । रहूगणस्यैवं कथनमयुक्तमित्याह – उपासितेति, उपासिताः सेविताः वृद्धा ज्ञानिनो येन स तथाभूतोऽपी- त्यर्थः । तर्हि कथं तथोक्तवांस्तत्राह— ईषदिति, ईषदुत्थित उद्भूतो मन्युर्यस्य सः, क्रोधवशात्तथोक्तवानित्यर्थः । सत्सङ्गिनः क्रोध ।। ।। * स्क. ५ अ. श्लो. १-८1 अनेकव्याख्यासमलङ्कृतम् ॥ । २०३ एव कथं सम्भवति तत्राह निसर्गेणेति, निसर्गेण क्षत्रियस्त्वभावेन बलात्स्ववशीकृत इत्यर्थः । स्वभावमेव स्पष्टयति-रजसेति, रजोगुणेनावृता मतिः सत्सङ्गजो विवेको यस्य स तथा । ननु क्रुद्धस्यापि कथं तेजखिपराभवे प्रवृत्तिः सम्भवति ? नहि क्रुद्धोऽप्यहि- रग्निपराभवे प्रवर्त्तते प्रत्युत पलायत एवेत्याशङ्कयाह- अविस्पष्टेति, न विस्पष्टं ब्रह्मतेजो यस्मिंस्तम् । तत्र दृष्टान्तमाह-जात- वेदसमिति, भस्मना च्छन्नमग्निं यथाऽज्ञः पराभवितुं प्रवर्त्तते तथेत्यर्थः ॥ ५ ॥ किमाहे त्यपेक्षायां तदुक्तानि बिपरी- तार्थानि वाक्यानि दर्शयति - अहो इति । हे भ्रातः हे सखे इति सम्बोधनद्वयमधिक्षेपार्थम् । न त्वं मम भ्राता न वा सखा येन तव दण्डे उपेक्षां कुर्यामिति भावः । अहो अतिशयेन तव कष्टं जातं, न किचित्कष्टं जातमित्यर्थः । तत्र हेतुमाह-व्यक्तं निश्चितं त्वमुरु बहु परिश्रान्तोऽसि तव न किचिच्छ्रमो जात इत्यर्थः । तत्रापि हेतुमाह- दीर्घमध्वानं सुचिरं कालं त्वमेक एव यान- मूहिवान् प्रापितवान् । अपरे एते सङ्घट्टिनः सहचराः नो एव वहन्ति । न त्वं दीर्घमध्वानं सुचिरं कालमेक एव यानमूहिवान् येन परिश्रान्तोऽसि किन्त्वधुनैव योजितोस, अन्येऽपि तव सहचरा यानं वहत्येव, तवैव श्रान्तिः कुत आगता येन शीघ्रं न गच्छसि यानमान्दोलयसीत्यर्थः । नन्वेवमपि देहाशक्त्या कथं शीघ्रं गन्तुं शक्यते इत्याशङ्कय तद्धेतून्निराकरोति - भवान्नातिपीवा पुष्टो नास्ति, अतिपुष्टोऽसीत्यर्थः । न संहननाङ्ग इति, अतिदृढावयवदेहोऽसीत्यर्थः । जरसा वृद्धत्वेन चोपद्रुतः, युवेत्यर्थः । इत्येवं बहु यथा भवति यथा विप्रलब्धो वक्रोक्त्या तिरस्कृतोऽपि तूष्णीमेव पूर्ववच्छिबिका मुवाहेत्यन्वयः । एवं तूष्णीम्भावेन यानोद्वहने हेतुमाह- अविद्ययेति । अविद्ययाऽनेकजन्मसु देहाद्यात्माध्यासलक्षणया विहिताः कर्मद्वारोपस्थापिता एकीकृताः द्रव्यादयो यस्मिंस्तस्मिन् स्वचरमकलेवरेऽवस्तुनि परमार्थवस्त्वात्मव्यतिरिक्त संस्थानविशेषे हस्तपादाद्याकारविशेषेण परिणतेऽनाध्यारोपिताऽह- म्ममेति मिथ्याप्रत्ययो ऽभिमानो येन । अनारोपे हेतुमाह - ब्रह्मभूत इति, साक्षात्कृतब्रह्मात्मभावेन अध्यास कारणाविद्याया निवृत्त- त्वादित्यर्थः । द्रव्याणि महाभूतानि, गुणाः सत्वादयः, इन्द्रियाणि च कर्माणि पुण्यपापानि, आशयोऽन्तःकरणम् ॥ ६ ॥ * * पूर्ववदुवाहेत्युक्त्येषुमात्र प्रदर्शनानन्तरमत्याऽथानन्तरमपि पुनः स्वशिविकायां विषमगतायां प्रकुपितो रहूगण उवाच ॥ ७ ॥ * * तदुक्तिं दर्शयति– किमिति । अरे दुष्ट त्वं किमिदं करोषि यद्यानं विषमं नयसि ? किं त्वं जीवन्नेव मृतोसि ? | मां कदर्थीकृत्या- नादृत्य भर्तुः स्वामिनो मम शासनमाज्ञामतिचरसि, अतिक्रमसि ? प्रमत्तस्य च ते चिकित्सां दण्डं करोमि, यथा स्वां प्रकृति सावधानतां भजिष्यसे इत्युवाचेति पूर्वेणैव सम्बन्धः । दण्डेन शुद्धौ दृष्टान्तमाह-दण्डपाणिरिति, दण्डपाणिर्यमो यथा जन- समूहस्य दण्डं करोति तेन च जनः शुद्धो भवति तथेत्यर्थः ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी वहन स्वां शिबिकां राज्ञाक्षिप्तोऽपि दशमे मुनिः । स्वोक्तानुवादाद्विज्ञाय महान्तं द्राक् प्रसादितः ॥ १ ॥ अज्ञसर्वज्ञयोस्तुल्यास्त्येवंभूता विकारिता । तत्सर्वज्ञत्वसिद्धयर्थं रहूगणकरणम् ॥२॥ एवमस्य मृत्युभयासंभ्रममभिधायाथ परावरज्ञानवत्तां प्रपञ्चयितुं सिन्धुसौवीरयोर्देशयोः राजा रहूगणो नाम तत्व- जिज्ञासुः कपिलाश्रमं प्रति यदा गच्छति स्म तदा पथि यद् वृत्तं तदाह अथेति । सिन्धुश्च सौवीरश्च तयोर्देशयोः पतिः राजा, तस्य रहूगणस्य, व्रजतः कपिलमुनिं तत्त्वं प्रष्टुं गच्छतः सतः इक्षुमत्या नद्याः, सटे तीरे, तटे तीरे, शिबिकाया शिबिकाया आन्दोलिकाया ये वाहा वोढारः पुरुषास्तेषामन्वेषणं परिमार्गणं तस्य समयोऽवसर स्तस्मिन् तेषां वाहकानां कुलस्य गणस्य यः पतिः नाथः तेन, द्विजवरो ब्राह्मणश्रेष्ठः, स आङ्गिरससुतः, देवेन दैवयोगेन, उपसादितः प्रापितः सन्, उपलब्धः एषः पीवा पुष्टा, युवा तरुणः, संहननं सुदृढमङ्गं यस्य सः, अतः गोखरवत्, गौरिव खर इव चेत्यर्थः । धुरं भार, वोढुं अलं समर्थः । इति धिया इति शेषः । पूर्व ये विष्टया बलात् गृहीतास्तैः सह, प्रसभं बलात्, गृहीतः सन् अतदहः अपि, महानुभावः, स जडविप्रः, शिबिकाम् उवाह ॥ १ ॥ * * यदेति । यदा हि यदा तु शिबिकावाहनसमये इत्यर्थः । इषुमात्रावलोकस्य हिंसापरिहारार्थं द्विहस्तमात्रप्रदेशसमीक्षणस्य । अनु पश्चात् गतिर्यस्य तस्य द्विजवरस्य गत्या इति शेषः । पुरुषगतिर्वाहकान्यपुरुषगतिः, न समाहिता एकरूपा नाभूत् । तदा रहूगणों नृपः स्वशिबिकां विषमगताम्, उपधार्य ज्ञात्वा, अधिवहतः शिबिकावाहं कुर्वाणान् पुरुषान् प्रति आहोवाच । अहो हे वोढारः, साधु सम्यक, अतिक्रमत पादविक्षेपान् कुरुत । यानं शिबिकां, विषमं यथा तथा, प्रमत्तवदित्यर्थः । किमिति किमर्थं उद्यते इति ॥ २ ॥ अथेति । अथ तदुक्तयनन्तरं ते वोढारः सोपालम्भं साक्षेप, ईश्वरः स्वभर्त्ता रहूगणस्तस्य वचो वचनम्, उपाकर्ण्य उपायेषु सामदानभेददण्डेषु यस्तुरीयश्चतुर्थो दण्डस्तस्मात् निग्रहरूपादुपायादित्यर्थः । शङ्कितमनसः शङ्कावञ्चिताः, अस्मानयं दण्डयेदिति बुद्धयेत्यर्थः । तं राजानं विज्ञापयांबभूवुः । विज्ञप्तिपूर्वं कथयांबभूवुरित्यर्थः ॥ ३ ॥ * * विज्ञप्तिमेवाह, नेत्यादिना न पारयाम इत्यन्तेन । न वयमिति । हे नरदेव राजन् वयं न प्रमत्ताः किं तु भवन्नियमानुपथाः त्वदाज्ञानुवर्त्तिनः सन्तः, साध्वेव तव यथा दुःखं न स्यात्तथा सम्यगेवेत्यर्थः । वहामः । अयं अधुना नियुक्तोऽपि नवीन एवानीय सांप्रतं योजितोऽप्यर्थ पुरुषः, न द्रुतं व्रजति । अस्माभिः सह द्रुतं न गच्छति । अतः वयमु ह वयं तु, अनेन सह वोढुं शिविकावहन कर्तुं न पारयामः न समर्थाः । न शक्नुम इत्यर्थः ॥ ४ ॥ * * सांसर्गिक इति । इत्येवंभूतं कृपणवचः दीनानां तेषां वचनं निशम्य सांसर्गिक * । گی ها و راید २०४ : । श्रीमद्भागवतम् ’’ [ स्कं. ५ अ. १० एलो. १-८ संसर्गनिमित्तः एकस्यापि दोषः एकस्याप्यपराध इत्यर्थः । नूनं एव सर्वेषां संसर्गिणां भवितुम् अर्हति । इत्येवं निश्चित्य, उपासिताः वृद्धा येन सः एवंभूतः अपि राजा रहूगणः, निसर्गेण प्राकृतेन स्वभावेन, बलात् कृतः परवशः कृतः, रजसा आवृतमतिः रजोगुण- व्याप्तचित्तः, अत एव, ईषदुत्थितमन्युः संकुपितमनाः सन्, न विस्पष्टं ब्रह्मतेजो यस्य तं रजसा भस्मनाऽऽच्छन्नं जातवेदसं इव, अन्तर्जाज्वल्यमानाग्भिवद्वर्त्तमानमित्यर्थः । तं प्रति आह ॥ ५ ॥ अहो इति । अहो आश्चर्यमिदं कष्टं च । हे भ्रातः एतत्संबोधनमाक्षेपाभिप्रायकम् । त्वं व्यक्तं निश्चितमेव, उर्वधिकं परिश्रान्तः असि । एतानि षड्वाक्यानि विपरीतार्थकानि वेदितव्यानि । दीर्घं अध्वानम्, एकः भवानेव ऊहिवान् ऊहितवान् । तत्रापि सुचिरं भवान्, न अतिपीवा पुष्टः, न संहननाङ्गो- Sकठिनशरीरः, जरसा वृद्धत्वेन च उपद्रुतः, अपरे त्वत्तोऽन्ये, एते संघट्टिनः सहचराः, हे सखे नो एव, त्वद्विधा न भवन्त्येवेत्यर्थः । इत्येवं बहु यथा भवति तथा, विप्रलब्धः अधिक्षिप्तोऽपि, अविद्यया अहंकारममकाररूपया कर्मसंज्ञया वा हेतुभूतया प्रकृत्या, विहिता विरचिताः परिणता इत्यर्थः । द्रव्याणि पञ्च महाभूतानि, गुणाः शब्दादयो ज्ञानेन्द्रियविषयाः कर्माणि वागादिकर्मेन्द्रिय- विषया अभिजल्पादयः, आशयोऽन्तःकरणं वासना वा यस्मिन् तस्मिन् । गुणकर्मशब्दौ तदिन्द्रियाणामप्युपलक्षणे, अविद्यया विहिता द्रव्यादयो यस्मिंस्तथाभूते इत्यर्थः । अवस्तुनि न वसत्येकरूपेणेत्यवस्तु तस्मिन् सततविकारिणीत्यर्थः । संस्थानविशेषे अवयवविन्यासरूपे, स्वचरमकलेवरे, कलेवरस्योपलक्षणत्वात्तदनुबन्धिनि च, अहं मम इत्येवंरूपः न अध्यारोपितः मिध्या- प्रत्ययोsसत्ये सत्यताज्ञानं येन सः, ब्रह्मभूतः ब्रह्मसाधर्म्य माप्स्यमानः, ब्रह्मभाव प्राप्त्यवसरसांनिध्यात् सिद्धवन्निर्देशः । एवंभूतत्वात् तूष्णीं सन्नेव पूर्ववत् शिविकां, उवाह ॥ ६ ॥ * अथेति । अथ पुनः स्वशिविकायां, विषमगतायां विषमतयैव भूयोऽपि नीयमानायां सत्यां, रहूगणः प्रकुपितः उवाच । पूर्वं त्वीषत्कुपित आहेदानीं तु प्रकुपित उवाचेत्यर्थः । तां तस्य प्रकुपितो - क्तिमाह किमित्यादिना भजिष्यस इत्यन्तेन । अरे इदं, किं त्वं भवान् जीवन्नपि मृतो मृतप्रायः, मां राजानं, कदर्थीकृत्य तुच्छीकृत्य, भर्तृशासनं भत्तुः मम शासनं अतिचरसि अतिक्रम्य वर्त्तसे । ततः दण्डपाणिर्यमः जनतायाः इव प्रमत्तस्य ते तव चिकित्सां दण्डं करोमि चैव । यथा त्वं स्वां प्रकृतिं भजिष्यसे इति एवंविधां चिकित्सां कर्त्तास्मीत्यर्थः ॥ ७ ॥ एवमिति । एवमुक्त- प्रकारेण बहु अबद्धमनन्वितं अपि भाषमाणं, नरदेवोऽहमित्यभिमानो यस्य तं तमसा तमोगुणेन, अनुविद्धेनानुसंगतेन, रजसा रजोगुणकार्येण क्रोधेन, मदेन तन्मूलकमदेन क्रोधोद्भूतसंमोहेनेत्यर्थः । तिरस्कृता अशेषा भगवत्प्रियनिकेता येन तम् । अत्र भगवत्प्रियनिकेतशब्द भागवतपरः । भागवतानां भगवतः प्रियनिकेतनत्वात् । एकभागवततिरस्कारेण सर्वेऽपि भागवतास्तिरस्कृत- प्राया एवेत्यभिप्रायेणाशेषपदं प्रयुक्तमस्ति । पण्डितमानिनं स्वात्मानं पण्डितं मन्यमानं, योगेश्वराणां चर्या जडादिवदाचरणं तस्यां नात्यन्तं व्युत्पन्ना परिचिता मतिर्यस्य तं रहूगणं, सर्वभूतसुहृदात्मा कृतागः स्वपि सौहृदयुक्तमनाः, ब्रह्मभूतः सर्वकालं स्वात्मानं ब्रह्मरूपेण विभावयन्, भगवान् जगदुत्पत्त्यादिज्ञानवान्, ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्या- मविद्यां च स वाच्यो भगवान् स्वयम्’ इत्युक्तेः । स आङ्गिरससुतः, ब्राह्मणः विगतस्मयः विगताश्चर्योऽपि, स्मयमानो हसन्निव अनेनास्य सुप्रसन्नता द्योत्यते । इदं वक्ष्यमाणम् आह ॥ ८ ॥ । भाषानुवादः जडभरत और राजा रहूगणकी भेंट * , श्रीशुकदेवजी कहते हैं—राजन् ! एक बार सिन्धु सौवीर देशका स्वामी राजा रहूगण पालकीपर चढ़कर जा रहा था । जब वह इक्षुमती नदीके किनारे पहुँचा तब उसकी पालकी उठानेवाले कहारोंके जमादारको एक कहारकी आवश्यकता पड़ी । कहार की खोज करते समय दैववश उसे ये ब्राह्मणदेवता मिल गये । इन्हें देखकर उसने सोचा, ‘यह मनुष्य हृष्ट-पुष्ट, जवान और गठीले अङ्गोंवाला है । इसलिये यह तो बैल या गधेके समान अच्छी तरह बोझा ढो सकता है।’ यह सोचकर उसने बेगार में पकड़े हुए अन्य कहारोंके साथ इन्हें भी बलात्कार से पकड़कर पालकी में जोड़ दिया । महात्मा भरतजी यद्यपि किसी प्रकार इस कार्य के योग्य नहीं थे, तो भी वे बिना कुछ बोले चुपचाप पालकी को उठा ले चले ॥ १ ॥ वे द्विजवर, कोई जीव पैरों तले
-
- दब न जाये - इस डरसे आगेकी एक बाण पृथ्वी देखकर चलते थे। इसलिये दूसरे कहारोंके साथ उनकी चाल का मेल नहीं खाता था; अतः जब पालकी टेढ़ी-सीधी होने लगी, तब यह देखकर राजा रहूगणने पालकी उठानेवालों से कहा- ‘अरे कहारो ! अच्छी तरह चलो, पालकीको इस प्रकार ऊँची नीची करके क्यों चलते हो ?’ ॥ २ ॥ * * तब अपने स्वामीका यह आक्षेपयुक्त वचन सुनकर कहारों को डर लगा कि कहीं राजा उन्हें दण्ड न दें इसलिये उन्होंने राजा से इस प्रकार निवेदन किया ॥ ३ ॥ * * ‘महाराज ! यह हमारा प्रमाद नहीं है, हम आपकी नियममर्यादा के अनुसार ठीक-ठीक ही पालकी ले चल रहे हैं। यह एक नया कहार अभी-अभी पालकीमे लगाया गया है, तो भी यह जल्दी जल्दी नहीं चलता । हमलोग इसके साथ पालकी नहीं ले जा सकते’ ॥ ४ ॥ * * कहारोंके ये दीन वचन सुनकर राजा होनेवाला दोष एक व्यक्तिमें होनेपर भी उससे सम्बन्ध रखनेवाले सभी पुरुषोंमें आ सकता है। ॥ ?’ रहूगणने सोचा ‘संसर्गसे उत्पन्न इसलिये यदि इसका प्रतीकार स्क. ५ अ. १० इलो. ९-१६] अनेकव्याख्यांसमलङ्कृतम् २०५ न किया गया तो धीरे-धीरे ये सभी कहार अपनी चाल बिगाड़ लेंगे।’ ऐसा सोचकर राजा रहूगणको कुछ क्रोध हो आया । यद्यपि उसने महापुरुषों का सेवन किया था, तथापि क्षत्रियस्वभाववश बलात्करसे उसकी बुद्धि रजोगुणसे व्याप्त हो गयी और वह उन द्विजश्रेष्ठसे जिनका ब्रह्मतेज भस्मसे ढके हुए अभिके समान प्रकट नहीं था, इस प्रकार व्यङ्गसे भरे वचन कहने लगा ॥५॥ * * ’ अरे भैया ! बड़े दुःखकी बात है, अवश्य ही तुम बहुत थक गये हो। ज्ञात होता है, तुम्हारे इन साथियोंने तुम्हें तनिक भी सहारा नहीं लगाया । इतनी दूरसे तुम अकेले ही बड़ी देरसे पालकी ढोते चले आ रहे हो। तुम्हारा शरीर भी तो विशेष मोटा-ताजा और हट्टा-कट्टा नहीं है, और मित्र ! बुढ़ापेने अलग तुम्हें दबा रक्खा है।’ इस प्रकार बहुत ताना मारनेपर भी वे पहले की ही भाँति चुपचाप पालकी उठाये चलते रहे। उन्होंने इसका कुछ भी बुरा न माना; क्योंकि उनकी दृष्टिमें तो पचभूत, इन्द्रिय और अन्तःकरणका सङ्घात यह अपना अन्तिम शरीर अविद्याका ही कार्य था । वह विविध अङ्गों से युक्त दिखायी देनेपर भी वस्तुतः था ही नहीं, इसलिये उसमे उनका मैं मेरेपनका मिथ्या अध्यास सर्वथा निवृत्त हो गया था और वे ब्रह्मरूप हो गये थे ॥ ६ ॥ * * ( किन्तु ) पालकी अब भी सीधी चालसे नहीं चल रही है - यह देखकर राजा रहूगण क्रोध से आग-बबूला हो गया और कहने लगा, ‘अरे! यह क्या ? क्या ? तू जीता ही मर गया है ? तू मेरा निरादर करके (मेरी) आज्ञाका उल्लङ्घन कर रहा है ? मालूम होता है, तू सर्वथा प्रमादी है । अरे! जैसे दण्डपाणि यमराज जन-समुदाय को उसके अपराधोंके लिये दण्ड देते हैं, उसी प्रकार मैं भी अभी तेरा इलाज किये देता हूँ । तब तेरे होश ठिकाने आ जायँगे ’ ॥ ७ ॥ * * रहूगणको राजा होनेका अभिमान था, इसलिये वह इसी प्रकार बहुत-सी अनाप-शनाप बातें बोल गया । वह अपनेको बड़ा पण्डित समझा था, अतः रज-तमयुक्त अभिमानके वशीभूत होकर उसने भगवान् के अनन्य प्रीतिपात्र भक्तवर भरतजीका तिरस्कार कर डाला । योगेश्वरोंकी विचित्र कहनी करनीका तो उसे कुछ पता ही न था । उसकी ऐसी कच्ची बुद्धि देखकर वे सम्पूर्ण प्राणियोंके सुहृद् एवं आत्मा, ब्रह्मभूत ब्राह्मणदेवता मुसकराये और बिना किसी प्रकारका अभिमान किये इस प्रकार कहने लगे ॥ ८ ॥ ब्राह्मण उवाच त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः । गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवादः ॥ ९ ॥ स्थौल्यं कायं व्याधय आवयश्च क्षुत्तृड्मयं कलिरिच्छा जरा च । निद्रा रतिर्मन्युरहंमदः शुचो देहेन जातस्य हि मे न सन्ति ।। १० ।। जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यद्विकृतस्य दृष्टम् । स्वस्वाम्यभावो ध्रुव ईड्य यत्र तह्यु च्यतेऽसौ विधिकृत्ययोगः ॥ ११ ॥ विशेषबुद्धेर्विवरं मनाक् च पश्याम यन क ईश्वरस्तत्र किमीशितव्यं तथापि राजन् व्यवहारतोऽन्यत् । करवाम किं ते ।। १२ ।। उन्मत्तमत्तजडवत्स्व संस्थां गतस्य मे वीर चिकित्सितेन । अर्थः कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३ ॥ श्रीशुक उवाच एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४ ॥ स चापि पाण्डवेय सिन्धुसौवीरपतिस्तन्वजिज्ञासायां सम्यक् श्रद्धया- धिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच ।। १५ ।। कस्त्वं निगूढश्वरसि द्विजानां विभर्षि सूत्रं कतमोऽवधूतः । 8 । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नवेदसि नोत शुक्लः ।। १६ ।। १. प्राचीने पाठे ‘आधयश्च’ प्रच्युतः । २. प्रा० पा० - जडवत्स्वस्वसंस्थां । ३. प्रा० पा० - अथ कियान्भवता । ४. प्रा० पा०- स मुनिवरः । ५. प्रा० पा० - निमित्तमुपभोगेन । ६. प्रा० पा० - नोऽत्र । २०६ श्रीमद्भागवतम् [ स्कॅ. ५ म. १० श्लो. ९-१६ cof अन्वयः - वीर त्वया उदितम् व्यक्तम् अविप्रलब्धम् यदि भर्तुः मे सः भारः स्यात् यदि गंतुः मे अधिगम्यम् अध्वा स्यात् पीवा इति प्रवादः राशौ विदाम् न ॥ ९ ॥ * स्थौल्यम् कार्यम् व्याधयः आधयः च क्षुत् तृट् भयम् कलिः इच्छा जरा निद्रा रतिः मन्युः अहंमदः च शुचः देहेन जातस्य मे न हि संति ॥ १० ॥ * * राजन् यत् जीवन्मृतत्वम् आयंतवत् नियमेन विकृतस्य दृष्टम् ईडच यत्र स्वस्वाम्यभावः ध्रुवः तर्हि असौ विधिकृत्ययोगः उच्यते ॥ ११ ॥ * * यत् विशेषबुद्धेः व्यवहारतः अन्यत् विवरम् मनाक न पश्यामि तत्र ईश्वरः कः च ईशितव्यम् किम् तथा अपि राजन् ते किम् कर- वाम ।। १२ ।। * * वीर उन्मत्तमत्तजडवत् स्वसंस्थाम् गतस्य मे भवता चिकित्सितेन शिक्षितेन च कियान् अर्थः स्तब्ध- प्रमत्तस्य पिष्टपेषः ॥ १३ ॥ * * उपरतानात्म्यनिमित्तः उपशमशीलः मुनिवरः एतावत् अनुवादपरिभाषया प्रत्युदीर्य उप- भोगेन कर्मारब्धम् व्यपनयन् राजयानम् अपि तथा उवाह ॥ १४ ॥ * * पांडवेय सः अपि च सम्यक् श्रद्धया तत्त्वजिज्ञा- सायाम् अधिकृताधिकारः सिंधुसौवीरपतिः हृदयग्रन्थिमोचनं बहुयोगग्रंथसंमतम् तत् द्विजवचः आश्रुत्य विगतनृपदेवस्मयः त्वरया अवरुह्य शिरसा पादमूलम् उपसृतः क्षमापयन् उवाच ॥ १५ ॥ * * त्वम् कः निगूढः चरसि द्विजानाम् सूत्रम् बिभर्षि कतमः अवधूतः कस्य असि कुत्रत्यः इह अपि कस्मात् नः क्षेमाय चेत् असि उत शुक्लः न ॥ १६ ॥ gree श्रीधरस्वामिविरचिता भावार्थदीपिका ।। तत्र वक्रोक्त्या यदुक्तं त्वं न श्रांतो न च दीर्घमध्वानमागत इति तत्रोत्तरमाह-त्वया यदुदितमुक्तं श्रमादि नास्तीति तद्वचक्तं स्फुटं तत्तथैव । अविप्रलंभो न भवति । तदेवाह हे वीर यदि भारो नाम कश्चित्स्यात्स च भर्तुवदुर्देहस्य यदि स्यात् स च मे यदि प्रसक्तः स्यात्तहींदानीं भाराभावाद्विप्रलंभः स्यान्न त्वेतदस्ति भारस्य वोदुश्चानिरूप्यत्वान्मम च तत्संबंधाभावात् । तथा गंतुरधिगम्यं प्राप्यमध्वा वा यदि स्यात् । अद्धेति पाठे साक्षात्परमार्थतः तच्च में यदि स्यादित्यादि योज्यम् । यत्त्वयोक्तं नातिपीवेति तत्राह । चेतनमुद्दिश्य त्वं पीवेति प्रवादो विदां विदुषां न भवति किं तु मूर्खाणाम् । यतोऽयं प्रवादो राशौ भूतसंघे देहे एव न त्वात्मनि । देह एव पीनो नाहमित्यर्थः ॥ ९ ॥ एतत्प्रपंचयति । स्थौल्यमिति । कलिः कलहः । अहंकारेण मदश्च । देहेन सह तदभि- मानेन जातस्य हि भवंति । मम तु निरभिमानस्य न संति । यद्वा । देहे जाते यो जातस्तस्यैव तानि मम तु तत्र न जातस्य न संति ॥ १० ॥ जीवन्मृतोऽसीति तत्राप्याह । जीवन्मृतत्वं न केवल मम किं तु विकृतस्य सर्वस्यापि परिणामिनो * यच्चोक्तं । दृष्टम् । यद्यस्माद्विकृतं प्रतिक्षणमाद्यंतवत् । यदुक्तं भर्तृशासनमतिचरसि इति तत्राह । स्वं च स्वाम्यं च तयोर्भावः तत्ता हे ईड्य यत्र पक्षे ध्रुवो यदि व्यवस्थितः स्यादित्यर्थः । तर्हि विधिर्नियोगः कृत्यं कर्म तयोर्योगो ध्रुव उच्यते उचितो भवति । उच समवाये इति धातुः । यदि तु तव राज्यभ्रंशो मम च राज्यं स्यात्तदा सर्वमेतद्विपरीतं स्यादित्यर्थः ॥ ११ ॥ * * ननु यावद्राजाऽहं तावत्तव स्वामी भवाम्येवेति चेत्तत्राह । विशेषो राजभृत्यादिभेदस्तद्बुद्धेर्विवरमवकाशं व्यवहारादन्यन्न पश्याम । मनाक् च ईषदपि अथापि तवायमभिमानश्चेत्तर्हि ब्रूहि किं ते करवामेति ॥ १२ ॥ * * यत्तक्तं प्रमत्तस्य ते चिकित्सां करोमि यथा स्वां प्रकृति भजिष्यस इति तत्राह । उन्मत्तादिवद्वर्तमानस्य वस्तुतः स्वसंस्थां ब्रह्मभावं गतस्य भवता कृतेन चिकित्सितेन दंडेन शिक्षितेन वा कियानर्थः, मुक्तस्यार्थानर्थयोरसंभवात् । यदि पुनरहं न मुक्तः किंतु प्रमत्तः स्तब्ध एव तथापि मम शिक्षादिकं पिष्टपेषणवद्वद्यर्थ- मित्यर्थः । न हि जडस्वभावः शिक्षयापि पटूकर्तुं शक्यत इति ||१३|| अनुवादरूपया परिभाषया भाषणेन तं प्रत्युत्तरं दत्त्वा उपरतमनात्म्ये देहात्मत्वे निमित्तमविद्या यस्य । आरब्धफलं कर्म क्षपयन ॥ १४ ॥ * हे पांडवेय सम्यग्या श्रद्धा तयैव तत्त्वजिज्ञासायां प्राप्तोऽधिकारो येन । यथा दर्शपूर्णमासाधिकृतस्यैव गोदोहनेन पशुकामस्यापः प्रणयेदिति गुणफलसंबंधेऽप्यधिकारः एवं सात्त्विकश्रद्धायामधिकृतस्यैवास्यामधिकार इत्यर्थः । बहुयोगग्रंथसंमतं द्विजस्य तद्वचः श्रुत्वा विगतो नृपदेवोऽधिराज इति गर्वो यस्य ॥ १५ ॥ * * द्विजानां मध्ये कतमः । यतः सूत्रमुपवीतं विभर्षि । यद्वा । दत्तात्रेयादीनां मध्ये कतमोऽवधूतः । इहापि कस्माद्धेतोः प्राप्तः । नोऽस्माकं क्षेमाय चेत्प्राप्तस्तर्हि शुक्रुः कपिलो मुनिर्न भवसि किम् । उतेति वितर्के ।। १६ ।। श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः ज्ञानिमानिनमेनं ज्ञानेनैव परास्तीकृत्य कृपयिष्यामीत्यभिप्रायवानाह - तत्रेति । तत्र मयि । विप्रलंभो विसंवाद आक्षेपो न किन्तु यथार्थत्वमेव । तदेव यथार्थत्वमेव । हे वीरेति । वाक्यवीर एव त्वमसि न तु ज्ञानवीरोऽसि । यद्वा-वीन् एकदेशन्यायेन विदुष ईरयति कंपयति पंडितमानित्वेनेति वीरो न तु पंडितोऽसीति भावः । यदि स्यादित्यस्य विवरण स च भारो यदि मे प्रसक्तः स्यादिति, न त्वेतदस्ति भारेण मम देहाद्भिन्नस्य चिद्रूपस्य संबंधो नास्तीत्यतो नाहं वोढा भवामीति भावः । भारवोद्रोरनिरूप्यत्वं चाग्रे ‘अयं जनो नाम चलन्पृथिव्याम्’ इत्यग्रिमाध्याये स्वयमेव वदिष्यति । प्राप्यं स्थानादिकमध्वा मार्गे वा । इत्यर्थ इति । “अत एव ह्रस्वम्” इत्यादिश्रुतेरिति भावः । यद्वा-राशौ भूतानां राशिरूपे देहे विदुषां प्रवादो न भवति किन्तु सत्यमेव पीवत्वम् । मयि चेतनस्वरूपे तु प्रवादः कलह एवेति भावः ॥ ९ ॥ न केवलं पीवत्वमेव मे नास्त्यपि त्वन्येपि देहधर्मा में न संतीत्याह - एतत्प्रपंचयतीति । स्थौल्यमिति । देहाभिमानस्तु देहेन सह जायते, तस्य चिरपश्चाद्भावित्वादर्शनादिति चेत्तत्राह -
एक. ५. १० श्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् * २०७ यद्वेति । यो जातो जीवस्तस्यैव तानि स्थौल्यादीनि मम तु साक्षाद् ब्रह्मरूपत्वेन मयाऽजातत्वात्तानि न संति “न जायते जायमाने शरीरे” इत्यादिश्रुतेः ॥ १० ॥ * सत्ता विद्यमानत्वम् । ध्रुवः स्थिरः इत्यर्थ इति । व्यवपूर्वस्यतेर्निश्चयार्थत्वादयमर्थः । । । । यद्वा-विधिकृतो योगः शिविकावाहनादिकर्मणि योगः । अयं जनो युज्यतामित्युच्यते कथ्यते इत्यर्थः इति । त्वामहं शिबिकां वाहन किमिदमरे इत्यादि कथयेयमित्याशयः । राजनिति । रजोगुणव्याप्तबुद्धित्वात्त्वामेतन्न भासत इति भावः । इड्येत्यपि विपरीतलक्षणयोपहासाभिप्रायैव संबुद्धिः ॥ ११ ॥ ॐ अत्राशंकते नन्विति । त्वां पृच्छामि क ईश्वरः । ईशितव्यं नियमनीयम् । तत्र ईश्वरत्वे सति । राजन्निति मूर्खेषु राजमानत्वादुक्तम् ॥ १२ ॥ कायिकेन वाचिकेन वा दंडेन ॥ कियानर्थः साधयितव्यः । इत्यर्थ इति । यथा पिष्टं वस्तु प्रहारेणाप्यपिष्टं न भवति किं त्वतिपिष्टं भवति तथा प्रमत्तस्य दंडेन श्रमत्तता न शाम्यति किं त्वतिप्रमत्तता स्यादिति भावः ॥ १३ ॥ * ४ ननु स्वदेहाभिमानं विना तद्वचोनूद्य सोढुमसमर्थ इव समादधानः कथं तथा प्रत्युक्तव्यस्तत्राह - उपभोगेन राजोचितैश्वर्यभोगेन प्रापितं यद्रहूगणस्य प्रारब्धं कर्म तदपि व्यपनयन् व्यपनेतुमनुवादमिषेण कृपया स्वोपदिष्टतदनुष्ठितया भक्तथैव तत्प्रारब्धमपि दूरीकर्तुमित्यर्थः । यद्वा-प्रेमोत्थदैन्येन स्वस्य भक्त- त्वामननात् उपभोगेन शिबिकाभारोद्वहनादिना प्रारब्धफलं कर्म व्यपनयन्व्यपनयामीति मनसि भावयन्नित्यर्थः ॥ १४ ॥ * * हे पांडवेयेति । अहो ज्ञानार्थं कपिलाश्रमं गच्छतः कथमित्थं ब्राह्मणवाहने प्रमाद इति विमृशंतं परीक्षितं प्रति विरक्तस्यापि बने वसतोपि पांडोस्तव प्रपितामहस्य राजस्वभावाद्धृतमृगरूपद्विजहननप्रवृत्तिवदस्यापि तादृशस्वभावत्वेन नैतदद्भुतमित्यभिप्रायः । नन्वेवं प्रमत्तस्य कथं तत्त्वजिज्ञासाधिकारस्साधनचतुष्टयसंपन्न प्रमातुरेव वेदांतश्रवणाधिकारात् । “साधनचतुष्टयसंपन्नः प्रमाता- धिकारी” इति भगवत्पूज्यपादैरुक्तत्वादिति तत्राह - सम्यक्छ्रद्धयेति । ‘सर्वे पदा हस्तिपदे निमग्नाः’ इति न्यायेन सम्यक् श्रद्धा- यामेव सर्वसाधनानां निविष्टत्वाच्छ्रद्धां विमा कर्मफलं न सूत इत्यभियुक्तोक्तेः । “अश्रद्धया हुतं दत्तम्” इति श्रीगीतोपनिष- दुते । श्रद्वैव सर्वत्र मुख्यं साधनमिति । तथा च श्रद्धासंपन्नत्वेन तस्य तदधिकारित्वेन विकल्पो न्याय्य इति दर्शपूर्णमासयज्ञा- धिकृतस्य पुरुषस्य पशुकामसत्त्वे गुणफलविधावपि तदधिकारो यथा गौर्दुह्यते यस्मिंस्तद्रोदोहनं पात्रं तेन पशुकामस्यापो जलानि कर्मण्युपयोगार्थं प्रणयेदानयेदिति गुणः साधनं फलं कर्मजन्यं स्वर्गादि । यथा “दध्ना यजेत्पुष्टिकाम:” इह दधि गुणः पुष्टिः फलमिति । इत्यर्थ इति । सम्यक् श्रद्धा सात्विकश्रद्धा तयुक्त एव जिज्ञासाधिकारी तस्यैव ज्ञानप्राप्तियोग्यत्वस्य ‘श्रद्धावाँल्लभते ज्ञानम्’ इति भगवता प्रतिपादितत्वादिति भावः । बहुयोगप्रन्थसंमतमनेकयोगशास्त्रसिद्धम् । योगोत्र ज्ञानयोग एव प्रकृत- त्वात् ।। १५ ।। * * यद्वा – पक्षांतरम् । कस्य पुत्रोऽसि कुत्रत्यः किंदेशजन्मासि । शुक्लो नारायणस्तदवतारः कपिलोसि ।। १६ ।। 1 " श्रीमद्वीरराघवव्याख्या । हे तत्र यदुक्तं वोच्या त्वमुरु परिश्रान्तो दीर्घमध्वानमेक एवोहिवानित्यादि तत्रोत्तरमाह त्वयेति । यत्त्वयोक्तं तद्वयक्तं स्पष्टमविप्रलब्धं लोकदृष्ट्या सत्यं त्वद्वचसां विपरीतार्थपरत्वेन दीर्घमार्गागमनपरिश्रमस्थौल्ययौवनाद्यभिप्रायकत्वेन प्रवृत्तत्वाच लोकदृष्टया सत्यमेव तथाप्यन्यगतानामेतेषामन्यत्रारोपेण प्रवृत्तत्वात्परमार्थदृष्टयाऽसत्यमेवेति भावः । तदेव व्यनक्ति भर्त्तुरिति । भर्तुरित्यादिषु तवानुषङ्गेणान्वयः । यदि भर्तुर्भारः तत्प्रयुक्ता श्रमश्च स्यात् स न मे स्यान्मम भरणाभावात् यदि गन्तुरधिगन्तव्यं गन्तव्या भूमिः स्यात्स न मे अद्धा साक्षात्स्यात्साक्षाद्रमनस्याप्यभावात् पीवा पीन इति वादो राशौ भूतसङ्घाते देहे स्यान्न मे स्यादिति विदुषामात्मयाथात्म्यविदां प्रवाद इत्यर्थः ॥ ९ ॥ * * न म इत्युक्तम् प्रपञ्चयति स्थौल्यमिति । व्याधयः शरीरोद्भवा रोगाः आधयः मनःपीडाः भयमागामिदुःखदर्शनजं ज्ञानं कलिः कलहः इच्छा कामः दम्भो वचनं रतिर्विषयासक्तिः मन्युः क्रोधः अहमहङ्कारः अनात्मन्यात्माभिमानहेतुः मदः मोहः एते बाह्याकारा अन्तराकाराश्च सर्वे देहेन सह जातस्यापि मम स्वतो न सन्तीत्यर्थः । एते देहे एव न जातस्याजातस्योत्पत्त्यादिरहितस्य मे न सन्तीति वार्थः ॥ १० ॥ * * यदुक्तम् । जीवन्मृत इति तत्राह । जीवन्मृतत्वमिति जीवत्वं श्वासवस्त्वं मृतत्वं त्यक्तपूर्वावस्थत्वं चैतन्यशून्यत्वं वा एतदुभयं हे राजन् ! यदाद्यन्तवदुत्पत्ति- विनाशवत्तस्य विकृतस्य देहस्य दृष्टं न त्वात्मन इत्यर्थः, यदुक्तं भर्तृशासनमतिचरसीति तत्स्वस्वामिभावं प्रतिक्षिपति । स्वस्वामिभावो यत्र ध्रुवः नियतः ईड्य ! हे राजन् ! तत्र नियतस्वस्वामिभाववत्सु पुरुषेषु विधिकृत्ययोगः विधिर्नियोगः शासनमिति यावत् कृत्यं कर्म च तयोर्योगो ध्रुव उच्यते उचितो भवति, उच्च समवाये इति धातुः, ययोर्जीवेशयोः स्वस्वामिभावसम्बन्धो नियतस्तयोरेव नियमेन प्रयोग्य प्रयोजकभावः, त्वं चेन नियमेन भर्ता कालभेदेन यदि तु तव राज्यभ्रंशः मम च राज्यं स्यात्तदा विपर्ययसम्भवात्, अतो न तव प्रशास्तृत्वं स्वतोऽस्ति अतः स्वस्य स्वामित्वबुद्धिर्भ्रान्तिरित्यर्थः ॥ ११ ॥ * * त्वं भृत्यः अहं स्वामीति वैषम्य- बुद्धेर्विवरमवकाशं मनागीषदपि व्यवहारत उक्तिमात्रादन्यद्यत्र न पश्यामः तत्रैवं सति क ईश्वरः किमीशितव्यं न त्वमीश्वरो नामीशितव्यः यद्ययमर्थस्तवानिष्टः अथापि किं कुर्मः अर्थस्थितिरन्यथा कर्तुमशक्येत्यर्थः ।। १२ ।। * * यदुक्तं प्रमत्तस्य ते चिकित्सां करोमीति तस्योत्तरमाह उन्मत्तेति । स्वस्मिन् ब्रह्मात्मकं स्वात्मनि संस्थां निष्ठां “ब्रह्मसंस्थोऽमृतत्वमेति” इति श्रुतौ संस्थाशब्दस्य निष्ठापरत्वेन प्रयोगान्निष्ठा चोपासनाया अविच्छेदः स्वसंस्थां प्राप्तस्य उन्मत्तादीननुकुर्वतः तर्जनताडनादिपरिभवार्थिनो २०८ श्रीमद्भागवतम् [ स्कं. ५ अ. १० श्लो. ९१६ मम हे वीर ! चिकित्सितेन दण्डेन वा कियानर्थः त्वत्कृतं प्रहरणादिकं नानिष्टं स्यादित्यर्थः । यदि पुनरहं न स्वसंस्थां गतः किन्तु प्रमत्तः संसार्येव तथापि स्तब्धस्य प्रमत्तस्य मम शिक्षादिकं पिष्टपेषणवद्वयर्थमेव ज्ञानरहिते मादृशे संसारिजने यत्त्वया चिकित्सितं दण्डप्रदानं तत्पिष्टपेषो निष्फलः, पूर्वमेव संसारव्यसनातुरत्वादित्यर्थः ।। १३ ।। अनुवादपरिभाषयानुवादरूपभाषण- पूर्वकम् एतावत्प्रत्युदीर्य प्रतिवचनं कृत्वा उपशमः अक्रोधादिरेव शीलं यस्य उपरतं निरस्तमनात्मनो देहान्तरस्य निमित्तं येन सः विद्यया निरस्तदेहान्तरसम्बन्धापादक पूर्वोत्तर सचितानभ्युपगतप्रामादिकबुद्धिपूर्वकभेदभिन्नपुण्यापुण्यरूपपापः आरब्धमभ्युपगत- प्रारब्धरूपमपि कर्म पुण्यापुण्यरूपम् उपभोगेनानुभवेन उपनयन् स मुनिवरः तत्तथैव पूर्ववद्राजयानमप्यूढवान् ॥ १४ ॥ * * हे पाण्डवेय ! स चापि सिन्धुसौवीरपती रहूगणोऽपि सम्यक् या श्रद्धा तयैव तत्त्वविजिज्ञासायामधिकृतः प्राप्तोऽधिकारभावो येन अधिकारः प्रस्तावः प्रारम्भ इति यावत् तत्त्वजिज्ञासायां कृतारम्भ इत्यर्थः, अज्ञानविमोचनं बहुयोगग्रन्थसम्मतं बहुविधाध्यात्म- शास्त्रसम्मतं च द्विजवच आश्रुत्य श्रुत्वा विगतो नराणां देवोऽधिराज इति स्मयो गर्यो यस्य सः शिविकायास्त्वरयावरुह्यावतीर्य तत्पादमूलमुपसृतः द्विजपादमूलं प्रति प्रणतः क्षमापयन् वक्ष्यमाणमुवाच ।। १५ ।। तदेवाह । द्विजानां मध्ये त्वं कतमः निगूढः अनभिव्यक्तब्रह्मवर्चसः चरसि नाहं द्विज इति चेन्न, यतः सूत्रमुपवीतम् बिभर्षि अतस्त्वमवधूतः सर्वैः परिभाव्यवेषो ज्ञाननिष्ठः कस्य पितुर्गुरोर्वा असि पुत्रः शिष्यो वासि कुत्र भवः इहापि कस्माद्धेतो प्राप्तः नोऽस्माकं क्षेमाय चेत्प्राप्तः किं शुकुः कपिलो मुनिर्भवसि किम् । उतेति वितर्के ।। १६ । श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली * t उरु परिश्रान्तो दीर्घमध्वानमेक ऊहिवान् सुचिरमिति यदभ्यधायि राज्ञा तत्रोत्तरमाह त्वयेति । भो वीर ! निरूप्यमाणे सति यद्यहं भर्ता यदि च भर्तुमें मम स भारः स्याद्यदि वाहं गन्ता यदि वा गन्तुर्ममाधिगम्यं विषयाख्यं किश्चित्स्याद्यदि वाध्वा मार्गः कश्चित्स्यात्तर्हि त्वयोदितमिदं सर्वं व्यक्तं स्पष्टमविप्रलब्धं सत्यं भवेत्, किन्तु नाहं भर्ता न तरां भारः नाहं गन्ता न तरा- इन्तव्यं नतमां मार्ग इत्यर्थः । स्वस्कन्धे शिबिकादण्डस्य प्रत्यक्षसिद्धत्वात् कथमेतद्वचनमित्यत उक्तं व्यक्तमिति " भर्ता सन् म्रियमाणो बिभर्ति य उ त्रिधातुः पृथिवीमुत द्याम्” इत्यादिश्रुतौ भरणादेर्हरिनियतत्वस्य व्यक्तमुक्तत्वात्तदभिप्रायेण भरतेनोच्यत इत्येतदपि भरणादिकृद्वरिरिति चिन्तयन्नृपमब्रवीदिति स्मृतिसिद्ध ं यदुक्तम् नाति पीवेति तत्राह । पीवेति पञ्चभूतात्मके शरीरे पीवेति यः प्रवादः असौ विदां ज्ञानिनां पक्षे न शोभते, देहस्य परिणामित्वेन चेतनस्यापरिणामित्वेन सिद्धत्वात् ॥ ९ ॥ * * नाति- संहननाङ्ग इत्यादि यदुक्तं तत्राह स्थौल्यमिति । अत्र हिशब्द एवार्थे, स्थौल्यादयो देहेन जातस्य देहाभिमानिनो ह्येव सन्ति न मे सन्ति देहाभिमानाभावात् “देहमानी देहजातो विदेहो मानवर्जितः” इति वचनात् देहाभिमानिन एव स्थौल्यादिकानि नान्यस्येति बोद्धव्यमरतिस्तन्द्री अहमहङ्कारः ॥ १० ॥ * जीवन्मृतोऽसीत्यस्योत्तरमाह जीवन्मृतत्वमिति । आद्यन्तवदुत्पत्तिविनाश- वद्यत्तस्य विकृतस्य जडस्य नियमेन जीवन्मृतत्वं दृष्टं, तथाहि जीवनं प्राणयोगेन चेष्टावत्त्वं मृतत्वं प्राणत्यागेन रतिलक्षणसुखराहि- त्यमेतच्छरीरस्याविनाभूतं प्राणयुक्तेररत्या च “जडं जीवन्मृतं स्मृतम्” इति स्मृतेः । न चैवं मम चेतनस्य देहयोगवियोगलक्षण- जन्ममरणे अन्तरेण स्वतो विकाराभावः नाद्यन्तवत्वायोगात् “नित्यो नित्यानां चेतनश्चेतनानाम्” इति श्रुतेः, देहस्य सर्वथा नाशादनाशाच्चेतनस्य चेत्यादेश्व अत एव देहेन जातस्येत्युक्तं यच्च मां कदर्थीकृत्य भर्तृशासनमतिचर सीत्युक्तं तत्राकर्णयेति भावे- नाह स्वस्वामीति । यत्र यद्येष स्वस्वामिभावो ध्रुवः सत्य इति त्वयोच्यते तर्ह्यसावच्युते हरौ मुख्य इत्युच्यतां “एष सर्वेश्वरः” इति श्रुतेः, न तु त्वयि तवास्मास्वेकत्वात् भृत्यत्वमेव मुख्यं तदुक्तं “स्वामित्वं तु हरेरेव मुख्यमन्यत्र भृत्यते” ति “एष राजा दण्डनाथः " इति वचनात् अच्युते मुख्यत्वं कथमत्राहेतीति " मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च” इति स्मृतेः सन्ध्योपासनवन्मम स्वामी हरिरितीतिकर्तव्यतालक्षणो योग उपासनं हरावेव विहितमिति यस्मात्तस्मादिति शेषः । ध्रुव इति विशेषणादन्यत्राध्रुवस्य न्याय- प्राप्तत्वाच्च ॥ ११ ॥ * * “एको रुद्रो न द्वितीयोऽवतस्थे” इति श्रुतेः रुद्रादीनामपि स्वामित्वप्रतीतेरिति तत्राह विशेष- बुद्धेरिति । मनागीषदपि विशेषबुद्धे रुद्रादौ मुख्यबुद्धेर्विवरमवकाशं स्वामिशब्दप्रवृत्तिनिमित्तं न पश्यामि भरतस्यापरोक्ष- ज्ञानित्वेन करतलामलकव दशेषशब्दप्रवृत्तिनिमित्तस्यापरोक्षत्वात् पश्यामीत्युक्तं तस्मादेतद्दर्शनेन महानिति सूचितं चशब्देन कर्गताडितवत् श्रूयमाणस्य कथं नोदनमिति तत्राह । यद्वयवहारतोऽन्यदिति व्यवहारतोऽज्ञरूढिलक्षणाद्यदन्यन्मुख्यं तदिति शेषः, अतो देवेषु प्रतीयमानं यत्स्वामित्वं तद्धरिनियतमिति बोद्धव्यं, तदुक्तं देवेषु तन्नियत्या चेति अनेन हरिमन्तरेण देवेषु यथा- तारतम्यं स्वामित्वं मुख्यमिति च ज्ञातव्यम् । तर्हि सिन्धुपतिरिति व्यपदेशो मम कथमित्यतो वाह विशेषेति । सैन्धवैरज्ञैस्त्वा- मुद्दिश्य व्यवहारो न तु मुख्य इत्यर्थः । एतदप्युक्तं त्वदादेर्व्यावहारिकमिति आदिशब्देन भवन्तो देशाधिपतय इति गृह्यन्ते, अस्तु व्यावहारिकमतः किं तत्राह क ईश्वर इति । हरौ देवेषु च स्वामित्वमृतेऽन्यत्र मानुषेषु तस्य व्यत्यासात् को विशेषः व्यवहारमात्रान्निर्मूलमिति तत्र तस्मिन्पक्षे स्थिते मनुष्येषु क ईश्वरः स्वामी ईशितव्यं समर्थनीयं च किं न किमपीत्यर्थः । तदुक्तम् " मानषेषु विशेष: को व्यवहारमृते वद” व्यत्यासादिति तत्र हरौ देवेषु स्वामित्वे मुख्यतो यथाक्रमं स्थितेऽन्यत्र क ईश्वर इति वा यथा मानुषेषु स्वस्वामिभावस्य व्यत्यासो न तथा देवेष्विति द्योतनाय तत्रेति तदुक्तं न हि देवेषु व्यत्यासः स्वामिवाङ्गत इति एवं :स्कं. ५ अ. १० इलो. ९- १० इलो. ९-१६] अनेकव्याख्या समलङ्कृतम् । । २०९ विचार्यमाणेऽन्येभ्यो जीवेभ्यस्तव विशेषाभावेऽपि संभावनार्थं तव स्वामित्वमङ्गीकृत्याध्यस्माभिः किं कर्तव्यं तद्वदेत्यभिप्रेत्याह अथापीति । विशेषबुद्धेर्यद्विवरं पश्यामि तद्वद्यवहारतोऽन्यन्न कुतः मनागल्पमज्ञविषयत्वादिति वान्वयविशेषः । अवशिष्टं पूर्ववत् ॥ १२ ॥ * * प्रमत्तस्य ते करोमि चिकित्सामिति यदुक्तं तत्र शृण्वित्याह उन्मत्तेति । उन्मत्तादिस्वरूपस्थितिं स्वतन्त्रे हरौ स्थितिं वा प्राप्तस्य मे चिकित्सितेन दण्डलक्षणेन भवता शिक्षितेन विहितेन तवार्थः कियान्न कोऽपि । तव रोदनादि- दर्शनेन मम मनस्तृप्तिर्भवतीति तत्राह स्तब्धेति । स्तव्धश्चासौ प्रमत्तश्चेति स्तब्धप्रमत्तः तस्य पिष्टपेषणवन्निष्फलं चिकित्सितं शिक्षासहस्रेणापि निर्मुक्तदेहाभिमानस्य मम व्यथानुभवाभावेन रोदनाद्यनुदयादिति द्विगुणितकोपवह्निना दग्धदेहसन्तापमन्त- रेणान्यत्प्रयोजनं नास्तीति भावः ॥ १३ ॥ * * ब्राह्मणः पुनः किमकार्षीदत्राह एतावदिति । तथा पूर्ववदुवाहेति अनुवादपरिभाषया उक्तस्य पुनर्वचनमनुवादपरिभाषा तथा अनूद्यानूद्येत्यर्थः । अनात्मा देहस्तत्सम्बन्ध्यनात्म्यं देहान्तरग्रहणं तस्य निमित्तं कारणं तदुपरतं निवृत्तं यस्य तत्तथा तादृशमारब्धं फलदानायोन्मुखं कर्मोपभोगेन व्यपनयन् क्षपयन् यथा देहान्तरो- त्पत्तये न स्यात्तथा भुञ्जान इत्यर्थः ॥ १४ ॥ * * स रहूगणस्तं परित्यज्यान्येन वाहयित्वा विवक्षितगम्यं गतः किं नेत्याह । स चेति । अपिपदेन स्वोक्तस्य गर्हितत्वं सूचयति । अधिकृताधिकारः । उपदिष्टज्ञानग्रहणयोग्यतावान् बहुयोगग्रन्थमतमनेक- योगशास्त्रसिद्धं हृदयग्रन्थिरहङ्कारबन्धस्तं मोचयतीति हृदयग्रन्थिमोचनं तत् ॥ १५ ॥ * कः किंजातिविशिष्टः न दृश्यते किं सत्यमित्याह द्विजानामिति । सूत्रं लक्षणं यज्ञोपवीतमात्रं मलिनं बहुप्रन्थिवरं न दृश्यते, अतः संशयः किं चैवंविधा बहवो योगीन्द्रा भवन्ति तेषां मध्ये त्वं कतमोऽवधूतः योगीन्द्रः कस्य योगीन्द्रस्य वंशे जातोऽसि कुत्रत्यः कस्मिन्देशे विद्यमानः इहास्मिन्देशे कस्मात्कारणादभूः ? चेद्यदि नोऽस्माकं क्षेमायासि तर्हि शुक्लः कपिलः वासुदेवः उत किं स न भवति तल्लक्षणसामध्य- भावादित्यर्थः ।। १६ । श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः सम्यक श्रद्धया श्रीगुरुविषयया ।। १५-१७ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ज्ञानिमानिनमेन ज्ञानेनैव परास्तीकृत्य कृपयिष्यामीत्यभिप्रेत्याह । त्वयोदितमिति तत्र विरुद्धलक्षणया यदुक्तं त्वया त्वं न श्रान्तो न दीर्घमध्वानमा गत इति तदविप्रलब्धं यथार्थमेव न त्वाक्षेपः । यतो भर्तुः शिबिकावाहकस्य भारो यदि मे मम स्यात्तदा स विप्रलम्भः स्यादिति सम्बन्धः, अहं देहाद्भिन्नो वोढैव न भवामीति भावः । एवं गन्तुरित्यादि अधिगम्यं प्राप्यं स्थानादिकमध्वा वा यत्त्वयोक्तं त्वं पीवा भवसीति तत् राशौ भूतानां राशिरूपे देहे विदां विदुषां प्रवादो न भवति, किन्तु प्रवदन सत्यमेव पीवत्वमित्यर्थः । मयि चेतनस्वरूपे तु प्रवादः कलङ्क एवेति भावः ॥ ९ ॥ * * न केवलं पीवत्वमेव मे नास्त्यपि त्वन्येऽपि देहधर्मा न वर्त्तन्त इत्याह स्थौल्यमिति । देहेन सह यो जातस्तदभिमानी जीवस्तस्यैव हि निश्चितं सन्ति न तु मे निरभिमानस्य ।। १० ।। * * यञ्चोक्तं जीवन्मृतोऽसीति तत्राप्याह जीवन्मृतत्वमिति । यदि त्वया मम देहाभिमानित्वमेव निर्धारितं तदपि जीवन्मृतत्वं नियमेन ममैव केवलं न, किन्तु सर्व्वस्यैव विकृतस्य परिणामिनो दृष्टं प्रत्यक्षमेव, यद्यस्माद्विकृतं प्रतिक्षणमेवाद्यन्तवत् यच्चोक्तं भर्तृशासनमतिचरसीति तत्राह । स्वञ्च स्वाम्यं स्वामित्वञ्च तयोर्भावो विद्यमानत्वं स च यत्र यदा ध्रुवः स्थिरः स्यात्तर्हि विधिकृत्ये शिबिका वहनादिकर्मणि योगः अयं जनो युज्यतामित्युच्यते कथ्यते उचितो वा भवतीति “उच समवाये” इत्यस्य रूपम्, यदि तु तव राज्यभ्रंशो मम राज्यं स्यात्तर्हि त्वामप्यहं शिबिकां वाहयन् किमिदमरे इत्यादि कथयेयमित्यर्थः ॥ ११ ॥ * * ननु यावद्राजाहं तावत्तव स्वामी भवाम्येवेति चेत्तत्राह । विशेषो राजभृत्यादिभेदस्तद्बुद्ध- विवरमवकाशं व्यवहारादन्यत् न पश्यामि मनाक् ईषदपि, तथापि तवायमभिमानश्चेत्तर्हि ब्रूहि किं ते करवामेति ॥ १२ ॥ * * यच्चोक्तं प्रमत्तस्य ते चिकित्सां करोमीति तत्राह । उन्मत्तादिवद्वर्त्तमानस्य वस्तुतस्तु स्वसंस्थामन्तर्निष्ठां गतस्य चिकित्सितेन कायिकेन वाचिकेन वा दण्डेन कियानर्थः साधयितव्यः, मुक्तानामर्थानर्थयोर ग्रहणात् यदि पुनरहं न मुक्तः किन्तु प्रमत्तस्तब्ध एव तदापि शिक्षितेन स्वदत्तदण्डेन पिष्टपेष एव भवति यथा पिष्टं वस्तु प्रहारेणापिष्टं न भवति किन्त्वतिपिष्टं भवति तथैव प्रमत्तस्य दण्डनेन प्रमत्तता न शाम्यति किन्त्वतिप्रमत्तता स्यात् ॥ १३ ॥ * * अनुवादरूपया परिभाषया भाषमाणेन उपरतमनात्म्यस्य देहात्मभावस्य निमित्तमविद्या यस्य सः । ननु स्वदेहाभिमानं बिना तद्वचोऽनूद्य सोढुमसमर्थ इव समाधानः कथं तथा प्रत्युक्तवांस्तत्राह । उपभोगेन राजोचितैश्वर्यभोगेन ज्ञापितं यत् रहूगणस्य प्रारब्धं कर्म तदपि व्यपनयन् व्यपनेतुम् अनुवादमिषेण कृपया खोपदिष्टतदनुष्ठितया उक्त्यैव तत् प्रारब्धमपि दूरीकर्तुमित्यर्थः । यद्वा प्रेमोत्थदैन्येन स्वस्य भक्तत्वा मननात् उपभोगेन शिबिका भारोद्वहनादिना आरब्धफलं कर्म व्यपनयन् व्यपनयामीति मनसि भावयन्नित्यर्थः ॥ १४ ॥ * $ अधिकृतः प्राप्तोऽधिकारो येन सः ॥ १५ ॥ * द्विजानां मध्ये त्वं कतमः यतस्त्वं सूत्रं विभर्षि अवधूतः किं दत्तात्रेयोऽसि कस्य पुत्रोऽसि कुत्रत्यः किंदेशजन्मासि नोऽस्माकं क्षेमाय प्राप्तश्चेत् शुको नारायणो नासि उत तदवतारः कपिलो नासि ? ॥ १६ ॥ २१० श्रीमद्भागवतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः [ स्कं. ५ अ. १० लो. ९-१६ कापिलानां मते अब्रह्मात्मकप्रधानपरिणामभूतेषु भारवाहकादिषु भारादिरूपेषु च पदार्थेषु ब्रह्मदृष्टिर्न भवति तेषां ब्रह्मकार्य- त्वाभावात् स्वमते तु “यतो वा इमानि भूतानि जायन्ते” इत्यादिश्रुतेः सर्वस्य ब्रह्मकार्यत्वात् “कारणं तु ध्येयः सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इत्यादिश्रुतिभ्यः । ‘समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्ग- विवजितः । तुल्यनिन्दास्तुतिर्मोनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतियों मद्भक्तः स मे प्रियः ।। यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः । वासुदेवात्मकं प्राहु: क्षेत्रं क्षेत्रज्ञमेव च ।’ इत्यादिस्मृतिभ्यश्च सर्वत्र ब्रह्मात्मकत्वदर्शी मुनिः । तत्र विपरीतार्थवाक्येन यदुक्तं त्वं न च श्रान्तो न च दीर्घमध्वानमागतः न चासहाय इति तत्रोत्तरमाह त्वयोदितमिति । त्वया यदुक्तं श्रमादि नास्तीति तद्वयक्तं स्फुटम् । अविप्रलब्ध- मुपहास्यमात्रं न भवति श्रान्तत्वदूरगामित्वा सहायत्वाभावात् परभावापन्नस्य ममेति भावः । किं तु यदि भारो भर्तुर्वोदुर्मे स्यात् न च सर्व भारोपलक्षितं पदार्थजातं ब्रह्मात्मकं स्यात् तदा विफलब्धं स्यादिति शेषः । यदा तु भारः वोदुर्मे न स्यात् “तत्र को मोहः कः शोकः एकत्वमनुपश्यतः । ऐतदात्म्यमिदं सर्वम्” इत्यादिश्रुतेः सर्वस्य वोढत्वादेः ब्रह्मात्मकत्वात्तदा तु त्वयोदितं न युक्तमिति भावः । सर्वस्य ब्रह्मात्मकत्वं पश्यतो में श्रमादि नास्तीति फलितोऽर्थः “द्वितीयाद्वै भयं भवति” इति श्रुतेः । एवं यदि अध्वा गन्तुस्ते अधिगम्यं स्यात्तदा त्वयोदितं विप्रलब्धं भवतु सर्वस्योक्तश्रुत्या ब्रह्मात्मकत्वानुसन्धाने तु तन्न युक्तमित्यर्थः। यचोक्तं नातिपीवेति तदपि राशी पाचभौतिके देहे युक्तम् । विदामात्मविदां तु न भवति पीवा स्थूलो देह एव न त्वात्मा ॥ ९ ॥ * * पीवति प्रवादा किंच स्थौल्यमिति । कलिः कलहः अहमदः अहङ्कारेण मदः देहेन सह जातस्य देहात्माभिमानवतो जीवस्य भवन्ति मे मम तु आत्मयाथात्म्यविदो न सन्ति ।। १० ।। * * यत्त्वयोक्तं जीवन्मृतोऽसीति
-
- यत्त्वयोक्तं जीवन्मृतोऽसीति जीवन्मृतत्त्वमपि यदाद्यन्तवत् तस्य विकृतस्य परिणामिनो देहादेरेव नियमेन दृष्टं मम नित्यज्ञानरूपस्य तु नेत्यर्थः । भर्तृशासनमतिचरसीति त्वदुक्तः स्वस्वाम्यभावः स्वं च स्वाम्यं च तयोर्भावः यत्र उच्यते “यदासीत्तदधीनमेवासीत्” “प्रधानक्षेत्रज्ञपतिः” इत्यादिश्रुत्या वर्ण्यते तत्र ध्रुवः, हे ईड्य ! नृप असौ प्रसिद्धोऽपि नृपत्यादिविषयः यत्रास्ति तर्हि विधिकृत्यस्य विहितकर्मणो योगः यत्रास्ति तर्हि विधिकृत्यस्य विहितकर्मणो योगः फलमध्रुव इत्यर्थः ॥ ११ ॥ * * अध्रुवत्वमेवाह । यतो विशेषबुद्धेः अहं नरपत्यादिः स्वामी असौ नरादिः सेबक इति विशेषबुद्धेर्विवरमवकाशं व्यवहारतोऽन्यन्न पश्यामि नरपतित्वनरत्वादिव्यवहारापगमे तु क ईश्वरः किमीशितव्यं च स्यात् । अतोऽसौ विधिकृत्ययोगोऽध्रुव इत्यर्थः । तथापि हे राजन् ! उच्यतां ते किं करवाम ॥ १२ ॥ * * यच्चोक्तं प्रमत्तस्य ते चिकित्सां करोमीति तत्राह । उन्मत्त इति ।। १३ ।। * * अनुवादपरिभाषया अनुवादरूपेण भाषणेन प्रत्युदीर्य प्रतिवचनं दत्त्वा उपरतं निवृत्तमनात्म्ये देहात्म्यत्वे निमित्तमज्ञानं यस्य सः आरब्धफलं कर्म उपभोगन व्यपनयन् ॥ १४ ॥ * हे पाण्डवेय ! परीक्षित ! अधिकृतः प्राप्तोऽधिकारी येन सः ॥ १५ ॥ * * शुकुः कपिलः ।। १६-१७ ।। कवक की गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ॥ न एवं बहुबद्धमयुक्तं भाषमाणमपि राजानं स ब्राह्मणः स्मयमान इव हसन्निवेदं वक्ष्यमाणमाहेत्यन्वयः । अबद्धभाषणे हेतुमाह- नरदेवेति, नरदेवोऽहमित्यभिमानो यस्य तम्, तथा पण्डितोऽहमित्यभिमानो यस्य तम् । न च तमेकमेव तिरस्कृतवान् किन्त्वन्यानपीति हेतुपूर्वकमाह-रजसेति । रजसा तमसा चानुविद्धेन संवर्द्धितेन मदेन तिरस्कृता अशेषाः बहवो भगवतः प्रिया निकेता भक्ता येन तम् । अबद्धं भाषमाणमपीत्यपिशब्देनानुग्रहः सूचितः । अनुग्रहश्च तत्त्वजिज्ञासायां सम्यक् श्रद्धयाऽधिकृता- धिकार इति वक्ष्यमाणाधिकारज्ञानादेव, अन्यथोपेक्षायां वृषलादिवदस्यापि विनाश एव स्यात् स चाधिकारिणस्तत्त्वज्ञानार्थं भगवन्तं श्रीकपिलं प्रतिगच्छतो न युक्तः, तर्ह्यधिकार प्रयोजकपर श्रद्धादिज्ञानं प्रश्नादि विना तस्य कथमित्याशङ्कयाह - योगेश्वरेति । योगेश्वराणां चर्यायां पराभिप्रायज्ञानेऽतिव्युत्पन्ना निपुणा मतिर्यस्य सः । तत्र हेतुमाह - भगवानिति, आविर्भूतभगवद्गुण इत्यर्थः । तत्रापि हेतुमाह-ब्रह्मभूत इति, तेन सहैक्यं प्राप्त इत्यर्थः । ननु हासपूर्वककथनं च गर्वाद्भवति, तस्य च ब्रह्मभूते तस्मिन्नसम्भवात् कथं स्मथमान इत्युक्तमिति चेत्, सत्यं, अत एवेवशब्दप्रयोगः । मुखप्रसन्त्त्यैव हास इवोपलक्ष्यते, वस्तुतस्तु विगतगर्व एवेत्याह-विगतस्मय इति ॥ ९ ॥ 88 तत्र वक्रोक्त्या यदुक्तं तव श्रान्त्यादि नास्तीति तत्रोत्तरमाह-त्वयति । हे वीर इति सम्बोधनेन यथा राजकार्ये प्रयत्नं करोषि तथा मनस्स्थैर्येण मदुक्तावधारणेऽपि तत्कुर्विति सूचयति । त्वया यदुदितमुक्तं तव श्रमादि नास्तीति तद्व्यक्त सत्यमेवातो विप्रलब्धमुपालम्भो न भवति । कुत इति वीक्षायामाह भर्तुरिति । भर्तुर्वोदुर्देहस्य यो भारः स यदि मे ममात्मनः स्यात् तथा गन्तुर्गमनकर्तुर्देहस्य यदधिगम्यं प्राप्यं स्थानमध्वा मार्गश्च यदि मे स्यात्तदा तन्निमित्तः श्रमोऽपि मे स्यात् । अतस्तदभावाच्छ्रमो नास्तीति सत्यमेवोक्तं नोपालम्भ इति भावः । यथोक्त पीवेत्यादि तदपि भवतु मूर्खाणां तथा व्यवहारः, विदामात्मानात्मविवेकवर्ता तु राशौ देहादिसङ्गाते एव पीवेत्यादिप्रवादो नात्मनीत्यर्थः ॥ १० ॥ * पीवत्ववदन्येऽपि देहधर्मा मे न सन्तीति फलितं स्पष्टयति- स्थौल्यमिति । स्थौल्यं पीनत्वम् काश्यं दुर्बलत्वं, व्याधयो रोगाः, जरा वृद्धत्वम्, एते देहधर्माः । आधयो मानस्यः पीडाः, भयमिष्टविघातकाद्भीतिः, कलिः कलहः, इच्छा विषयेषु रागः, निद्रा ॥ । स्क. ५ अ. १० श्लो. ९-१६] अनेकव्याख्यासमलङ्कृतम् igispin, vidur २१९ प्रसिद्धा, अरतिः ग्लानिः मन्युः क्रोध, अहं देहाद्यध्यासः, मदः गर्वः शुचः इष्टबियोगजास्तापाः, एतेऽन्तःकरणधर्माः । क्षुत्तृषी प्राणधर्मी । अतः सर्वेप्येते देहे देहादिसङ्गाते एवं भवन्त्यतो मे न सन्तीत्यन्वयः । तत्र हेतुमाह-न जातस्येति, जन्मादिरहितस्ये- त्यर्थः । हि इति प्रसिद्धिं सूचयति । सङ्घाते एव ते उपलभ्यन्ते, नात्मनि, तस्याप्रत्यक्षत्वादिति प्रसिद्धमेवेति भावः ॥ ११ ॥ * यच्चोक्तं जीवन्मृतोऽसीति तत्राप्याह जीवन्निति । हे राजनिति सम्बोधनेन राजाऽहमित्यभिमानं त्यक्त्वा मदुक्तमवधारयिष्यति चेत्तदा तव भद्रमेव भविष्यतीति सूचयति । जीवन्मृतत्वं न केवलं ममैव, किन्तु सर्वस्यैव विकृतस्य परिणामिनो देहादेर्नियमेन दृष्टम् । यत् यस्मात् सर्वमपि विकृतं प्रतिक्षणमाद्यन्तवत् उत्पत्तिविनाशवत् । अत्रायं भावः - वाल्ययोवनादिदेहावस्थासु देहस्याल्पत्व महत्व स्थूलत्वकृशत्वादि प्रतिदिनं प्रतिक्षणं मित्रं भिन्नमेव दृश्यते; तथा च भुक्तान्नादिपरमाणु संयोगात स्थूलत्व- दीर्घत्वादि तद्विभागाच कृशत्वादि भवतीत्यवश्यं मन्तव्यं गत्यन्तराभावात्, स च संयोगो न बहिष्ठ उदरनाड्या दिवृद्धयभावेन आहारादिवृद्धयभावप्रसङ्गात् अन्तस्थस्यान्नादेर्बहिः संयोगासम्भवाच, नापि सोन्तस्स्थः, उदराद्यवकाशपून्यहारा दिसनारप्रति रोधापत्तेर्वहिः स्थूलता दीर्घता च न स्यात् । तथा च देहावयवेषु प्रतिपरमाणुष्वेव अन्नादिपरमाणु संयोगोऽङ्गीकार्य:, एवमेव तद्विभागोऽपि ज्ञेयः, स च पूर्वदेहविनाशोत्पत्यङ्गीकार विना न निर्वहतीति सर्वस्यैव जीवन्मृतत्वमिति । तथा च द्वादशे वक्ष्यते— ‘नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप । उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते इति । यदुक्तं किमिति अर्तृशासन मतिचरसीति तत्राह - स्वस्वाम्येति । हे ईड्येति सम्बोधनमुपहासार्थं स्वं च भृत्यत्वं च स्वामित्वं तयोर्भावः सत्ता यत्र यदि भुवो निश्चल एव स्यात्तसौ विधिकृत्ययोगः स्वामिनो विधिर्नियोगः भृत्यस्य कृत्यं कर्म तयोर्योगोऽपि ध्रुव उच्यते उचितः स्यादित्यन्वयः । तथा च स्वस्वामिभावस्यानित्यत्वात् तव राज्यभ्रंशे भ्रम च तत्प्राप्तौ वैपरीत्यस्य सम्भवाद्वृथैव तवाहं राजेत्ययमभिमान इति भावः ।। १२ ।। * * ननु स्वस्वामिभावस्याभ्रुवत्वेऽपि यावदहं राज्ये स्थितस्तावत्तु तव स्वामी भवाम्येवेति चेत्तत्राह - । तदाक विशेषेति । विशेषो राजभृत्यादिभेदः तद्बुद्धेर्विवरमवकाशं यद्यदा व्यवहारतोऽन्यन्मनागीषदपि न पश्याम तत्र तदा क ईश्वरो राजा किवेशितव्यं भृत्यादि भवेदित्यन्वयः । अत्रायं भावः-त्वं राजाऽहं भृत्य इति व्यवहार आवयोर्भेदोऽवश्यं वाच्यः, अभिन्नत्वे स्वस्वामिभावधर्मद्वयानुपपत्तेः, स च भेदो दुर्निरूप्यः, तथाहि भेदः किं प्रतियोग्यनुयोगिभ्यां भिन्नस्तदभिन्नो वा ? नाद्यः, तस्य भेदस्यापि भिन्नत्वे तद्भिन्नत्वसिद्धयर्थं भेदान्तरं स्वीकरणीयम्, तस्यापि भेदान्तरस्य भेदत्वाविशेषाद्भिन्नत्वसिद्धये भेदान्तरमङ्गीकर्त्तव्यम् एवमुत्तरोत्तर भेदाङ्गीकारेऽनवस्था स्यात्, यदि तु भेदस्य भिन्नत्वसिद्धयर्थं भेदान्तरं नाङ्गीक्रियते तेनैव तद्भिन्नत्वमिति चेत्तदात्माश्रयो भेदाङ्गीकारवैयथ्यं च तन्न्यायेन प्रतियोग्यनुयोगिनोरपि स्वत एव भिन्नत्वं सिद्धयेत्, यदि त्वनवस्थाभयात् प्रथमं भेदस्य भिन्नत्वसिद्धिः द्वितीयेन भेदेन, द्वितीयस्य भिन्नत्वसिद्धिश्च प्रथमेनेत्यङ्गीक्रियते तदाऽन्यो- न्याश्रयः यदि तु तृतीयादिभेदभिन्नत्वसिद्धिः प्रथमेनाङ्गीक्रियते तदा चक्रम्, न च यत्रोत्पत्तौ ज्ञाने वाऽनवस्था तत्रैव तस्यादूषणत्वं मूलक्षयकरत्वात्, अत्र तु तस्यास्तथात्वाभावान्न दोष इति वाच्यम्, अयं भिन्न इति हि भेदविशिष्टज्ञानं विशिष्टज्ञानस्य च विशेषणज्ञानजन्यत्वनियमात्, भेदप्रतिपन्नस्यैव विशेषणत्वनियमाच, पूर्वपूर्व भेदप्रतीतिमन्तरेण उत्तरोत्तर- भेदप्रतीतेर सम्भवाद्भवत्येवास्या अपि मूलक्षयकरत्वम्, कथं मूलक्षयकरत्वमिति चेत् तत्तद्वेदग्रहणे व्यप्रचित्तस्य आयुर्विषया- न्तराग्रहणप्रसङ्गेन सर्वव्यवहारलोपापत्तेः । नन्वस्तु तर्हि स्वरूपमेव भेद इति चेत् न, स्वरूपस्यैव भेदत्वे भेदपदस्य सकलपदार्थवाचकतत्तत्पदपर्यायतापत्तिः स्यात् । न चेष्टापत्तिरिति वक्तुं युक्तम् । घटकलशवत् सकलपदार्थेषु कदाचिदयं इति प्रत्ययः स्यादयं भिन्न इति भेदाश्रयत्वेन प्रतीतिध प्रमा न स्यात् । भेदस्य च तत्तद्द्रव्यादिखरूपत्वेऽभावान्तःपातित्वं स्यात् । किश्च भेदस्य वस्तुस्वरूपत्वे तद्ग्रहणे प्रतियोगिज्ञानापेक्षा न स्यात् । न हि पदार्थस्वरूपमहे प्रतियोग्यपेक्षा दृश्यते । भेदग्रहे स्वयमस्य भेदोऽयमस्माद्भिन्न इति सर्वत्र प्रतियोगिप्रहपूर्वकत्वं दृश्यते एव । न च यथाऽयं देवदत्त इति स्वरूपमहे प्रतियोगिज्ञानापेक्षाभावेऽपि तस्यैव पुनरयं श्रेष्ठोऽयं ज्येष्ठोऽयं कनिष्ठ इत्यादिव्यवहारे कस्माच्छ्रेष्ठः कस्माम्येष्ठः कस्मात्कनिष्ठ इति भवति प्रतियोगिज्ञानापेक्षा तथाऽत्राप्ययं देवदत्त इति व्यवहारे प्रतियोगिज्ञानानपेक्षत्वेऽप्ययं मित्र इति व्यवहारे कस्माद्भिन्न इति प्रतियोगिज्ञानापेक्षायामपि न काचित् क्षतिरिति वाच्यम्, श्रेष्ठत्वज्येष्ठत्वादीनां धर्माणां परस्परविरुद्धानामेकत्र स्थित्यसम्भवान् प्रतियोग्यनुयोगिभ्यां भिन्नत्वाङ्गीकाराच युक्ता तत्तद्विशिष्टग्रहणे तत्तद्विरुद्धधर्मविशिष्टप्रतियोगिज्ञानापेक्षा । भेदस्य च प्रतियोग्यनुयोगिस्वरूपत्वाङ्गीकारे तद्महेऽयं देवदन्त इतिवत् प्रतियोगिज्ञानापेक्षाप्रयोजनाभावात्, तथा च भेदस्य निरूपयितुमशक्यत्वात् ! परमार्थतः शुद्धाद्वैतमेकमेव परमात्मवस्तु सिद्धयति, न राजभृत्यादिव्यवहार इति । नन्वस्तु तर्हि व्यवहारत एव स्वस्वामित्वमिति चेत्तत्राह– तथापीति, यद्यपि परमार्थविचारे न तत्सम्भवति तथापि हे राजन् तब राजत्वा- भिमानश्चेत्तर्हि ब्रूहि किं ते कार्य करवामेति ॥ १३ ॥ ननूक्तमेव प्रमत्तस्य ते चिकित्सां करोमि यथा स्वां प्रकृति भजिष्यसे इति चेत्तत्राह - उन्मत्तेति । हे वीर उन्मत्तादिवद्वर्त्तमानस्य वस्तुतस्तु स्वसंस्थां स्वरूपभूतमहाभावं गतस्य मे मम भवता चिकित्सितेन दण्डाद्युपायेन तथा शिक्षितेन वा कियानर्थः सेत्स्यति ? न कोऽपीत्यर्थः । मुक्तस्वार्थानर्थाननुसन्धानेन दण्डादेरकिञ्चित्करत्वात् । ननु न त्वं मुक्तः किन्तु प्रमत्त एवेति चेन्तत्राह तचेति । यद्यहं तब दृष्ट्या प्रमत्त एवं तदाऽपि मम ३१२ ॥ * श्रीमद्भागवतम् [स्क. ५ अ. १० श्लो. ९-१६ तत्तु शिक्षादिक पिष्टपेषणं व्यर्थमेव, न हि जडस्वभावः शिक्षादिनाऽपि पटुः कर्तुं शक्यते इत्यर्थः । तथा चान्यत्र तव पराक्रमस्य सफलत्वेऽपि मयि सफलत्वं न भविष्यतीति सम्बोधनाभिप्रायः । पिष्टपेष इति दृष्टान्तेन यथा पिष्टस्य पेषणे तस्यातिसूक्ष्मता भवति न स्थूलता, तथा मम तस्य दण्डनेऽपि तस्य मूछेंव भवति न सावधानतेति दर्शितम् ॥ १४ ॥ * * स मुनिवरः राजोक्तानुवादरूपया परिभाषया भाषणेनैतावत् प्रत्युदीर्य राजानं प्रत्युत्तरं दत्त्वा राजयानमपि तथा पूर्ववदेवोवाहेत्यन्वयः । एवमपि तस्य चित्ते क्षोभाभावं सूचयन्नाह - उपशमशील इति, शान्तचित्त इत्यर्थः । तत्र हेतुमाह - उपरतेति, उपरतं निवृत्तमनात्म्ये देहात्मभावे निमित्तमविद्यालक्षणं यस्य स इत्यर्थः । तर्हि किमिति यानमुवाह तत्राह - उपभोगेनेति, उपभोगेनारब्धफल- कर्मक्षयार्थमित्यर्थः ॥ १५ ॥ * हे पाण्डवेय स चापि सिन्धुसौवीरपती रहूगणस्तद्विजवच आश्रुत्य त्वरया शिबिकातोऽ- वरुह्य शिरसा तत्पादमूलमुपसृतः कृतदण्डवत्प्रणामः तं क्षमापयन्नुवाचेत्यन्वयः । ननु पूर्वं तस्य नरदेवाभिमानित्वस्योक्तत्वात् । कथमेवं तत्पादमूलोपसर्पणं सङ्गच्छते तत्राह - विगतेति, विगतोऽहं नृपाणां देवः पूज्य इति स्मयो गर्यो यस्य स इत्यर्थः । ननु गर्वः कथं गत इत्याकाङ्क्षायां तद्वचनश्रवणादेवेत्यभिप्रेत्य वचनं विशिनष्टि - बह्निति, बहुषु योगग्रन्थेषु श्रेष्ठत्वेन सम्मतमित्यर्थः । अत एव हृदयरूपग्रन्थिविमोचनम् । ननु तथाविधमपि वचनमधिकारिहृदयग्रन्थि कथं विमोचयेदित्याशङ्कय ‘श्रद्धावाँ- ल्लभते ज्ञानं तत्परः संयतेन्द्रियः’ इति वाक्यानुसारेणास्ति तस्याधिकारित्वमित्याह तत्त्वेति । सम्यगिन्द्रियनिग्रहादि- पूर्विका या श्रद्धा तया तत्त्वजिज्ञासायां तत्त्वविचारेऽधिकृतः प्राप्तोऽधिकारो येन स तथा । सम्बोधनं यथा त्वमधिकारी तथा सोऽ- पीति सूचनार्थम् ॥ १६ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्कमनोरञ्जनी 1 7 तत्र वक्रोक्त्या राज्ञा यदुक्तमुरु परिश्रान्तः दीर्घमध्वानमेक ऊहिवान् सुचिरमिति तत्रोत्तरमाह त्वयेति । है वीर, त्वया उदितं श्रमादि नास्तीति यदुक्तं तत् व्यक्तं स्फुटं तत्तथैवेत्यर्थः । अतः अविप्रलब्धं परिहासो न भवति किं तु सत्यमेव, यदि भारः स्यात्, भारो नाम कश्चित्पदार्थो भवेत, सः भारः, भर्तुर्वेदुः वहनकत्तु देहस्य यदि स्यादित्यर्थः । स देहश्च यदि मे प्रसक्त इति शेषः । मदात्मन्यनादितः प्रसङ्ग प्राप्तो भवेदिति तदर्थः । तथा गन्तुर्गमनकर्तुः, अधिगम्यं प्राप्यं किंचित् स्यात् । यदि अध्वा वा कश्चित्स्यात् । अद्धेति पाठे तच्च परमार्थतः यदि मे स्यात् तदा भारवाहादिविप्रलम्भः स्यात्, न स्वेतदस्ति, भारादीनां वोदुश्चानि- रूपणीयत्वात् । मम च तत्संबन्धाभावादित्यर्थः । नातिपीवेति यदुक्तं तत्राह । पीवा इति प्रवादः, चेतनमुद्दिश्य त्वं पीवा इत्येवंभूतो यः प्रकृष्टो वाद इत्यर्थः। सः विदां विदुषां न भवति किं तु मूर्खाणामेव । यतोऽयं प्रवादः, राशौ भूतसंघातात्मके देहे एव न त्वात्मनि, देह एव पीनो नाहमित्यर्थः । वक्रोक्त्या विपरीतार्थं परत्वेनाभिहितं त्वद्वचः लोकदृष्टया सत्यमेव, तथापि अन्यगताना- मेतेषां त्वदुक्तार्थानामन्यत्रारोपेण प्रवृत्तत्वात्परमार्थदृष्टया त्वसत्यमेवास्तीति भावः ॥ ९ ॥ * एतत्प्रपञ्चयति स्थौल्य- मिति । स्थौल्यं स्थूलभावः, काश्यं कृशभावः, व्याधयः शरीरोद्भवा रोगाश्च, आधयो मनःपीडाः, क्षुद् बुभुक्षा, तृट् पिपासा, भयमागामिदुःखदर्शनजं ज्ञानं, कलिः कलहः, इच्छा कामः, जरा वार्द्धक्य, निद्रा स्वापः, रतिर्विषयासक्तिः, अरतिरिति च्छेदे तन्द्री, मन्युः क्रोधः, अहमहंकारः अनात्मन्यात्माभिमानहेतुरित्यर्थः । मदो मोहः, अहंमद इत्येकत्वेऽहंकारेण मदः । शुचः शोकः, एते देहे एव, नजातस्य उत्पत्त्यादिरहितभ्य, मे मम, न च सन्ति हि । एते सर्वे देहेन सहितस्यापि मम स्वतो न सन्तीत्यर्थः । यद्वा देहेन सह तदभिमानेन जातस्य ह्येते भवन्ति, मम तु निरभिमानस्य न सन्ति ॥ १० ॥ * * यदुक्त जीवन्मृतोऽसि तत्राह जीवन्मृतत्वमिति । हे राजन्, जीवश्च मृतञ्च तयोभावों जीवन्मृतत्वम् । त्वस्य द्वन्द्वान्तत्वाज्जीवत्त्वं मृतत्वं चेत्यर्थः । तत्र जीवनं प्राणयोगेन चेष्टावत्त्वम् । मृतत्वं प्राणत्यागे तद्रहितत्वम् । यत् तत्, आद्यन्तवदुत्पत्तिविनाशवतः, विकृतस्य विकृतिमतो देहस्य नियमेन दृष्टम् । न त्वात्मन इत्यर्थः । एवं सति देहदृष्टया उभयं तव मम च प्राप्तमात्मदृष्टया तु तव मम च न प्राप्तमेवेति भावः । यदुक्तं भर्तृशासनमतिचरसीति तत्स्वस्वामिभावं प्रतिक्षिपति । हे ईड्य हे राजन, स्वं च स्वाम्यं च तयोर्भावः । यः स्वस्वाम्यभावः स इत्यर्थः । यत्र यदि भुवः व्यवस्थितः, स्वामी तु स्वामी एवं सेवकस्तु सेवक एव इति व्यवस्थोपेतः स्यादित्यर्थः । तर्हि, असौ विधिकृत्ययोगः विधिर्नियोगश्च कृत्यं कर्म च तयोर्योगः, स्वामिनि विधिसंबन्धः, सेवके कृत्यविधानसंबन्ध इत्यर्थः । उच्यते समवेतो भवति ‘उच समवाये’ धातुः । यदि तु तव राज्यभ्रंशः मम च राज्यं स्यात्तदा सर्वमेतद्वैपरीत्यं स्यादित्यर्थः । स्वस्वामि- भावो ध्रुव ईड्य यत्र तत्रोच्यते इति पाठे हे ईड्य, स्वस्वामिभावः, यत्र यस्मिन्, ध्रुवो नियतः, तत्र नियतस्वस्वामिभाववत्सु पुरुषेषु विधिः शासनं च कृत्यं कर्म च तयोर्योगः ध्रुवः उच्यते उचितो भवति । एष सर्वेश्वरः’ इति श्रुतेः । स्वामिभावः अच्युते -मुख्यः । तदन्येषु जीवेषु भृत्यभावो मुख्यः । ‘स्वामित्वं तु हरेरेव मुख्यमन्यत्र भृत्यता’ इति स्मृतेः । ययोर्जीवेशयोः स्वस्वामिभावो नियतस्तयोः प्रयोज्यप्रयोजकभावो नियतः । अतस्त्वं चेन्न नियमेन भर्ता अहं च न नियमेन भृत्यस्तदानीं त्वदुक्तार्थानियतत्वमेव । इत्थं विचारे त्वयि वास्तविक प्रशास्तृत्वाभावादहं स्वामीति बुद्धिस्तव भ्रान्तिमूलैवेति भावः ॥ ११ ॥ * * ननु यावद्राजाह तावत्तव स्वामी भवाम्येवेति चेत्तत्राह । विशेषबुद्धेरिति । विशेषबुद्धेः त्वं भृत्यः, अहं स्वामीति वैषम्यतावद्बुद्धेः, विवरमवकाशं, मनागीषत् चापि व्यवहारतः उत्तिमात्रात्, अन्यत् यत् यदा न पश्यामि तत्र तदा, यदेवंभूतः परमार्थोविचार उत्पद्यते तस्मिन्काले www. … एक. ५ म. १० श्लो. ९-१६ ] अनेकव्याख्या समलङ्कृतम् २१३ इत्यर्थः । कः ईश्वरः, किं ईशितव्यं, ऐन्द्रं पदमनुभवन्नाहुषोऽजगरभावं प्राप्तस्तदा एकक्षण एंवेशेशितव्यत्वनिवृत्तिदर्शनादिति भावः । हे राजन्, तथापि न त्वमीश्वरः परमार्थः, नाहमीशितव्यः परमार्थः, अथापीत्यर्थः । तवायमभिमानश्चेदस्त्वेवं वद किं ते तब करवाम ॥ १२ ॥ * * यदुक्तं प्रमत्तस्य ते चिकित्सां करोमीति तस्योत्तरमाह उन्मत्तेति । उन्मत्तो रोगादिना विक्षिप्त- चित्तश्च मत्तः, पानादिना मत्तभावं प्राप्तश्च, जड़ो मूर्खश्च तैस्तुल्यमिति तद्वत् । वर्त्तमानस्येति शेषः । वस्तुतः स्वसंस्थां स्वस्मिन् ब्रह्मात्मके स्वात्मनि संस्था निष्ठा तां, ‘ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुतौ संस्थाशब्दस्य निष्ठापरत्वेन प्रयोगात् । गतस्य मे मम हे वीर, भवता कृतेनेति शेषः । शिक्षितेन चिकित्सितेन च भवता कृतेन शिक्षासहितेन दण्डेनेत्यर्थः । कियान् अर्थः । वस्तुतो ब्रह्मभावं प्राप्तस्य उपरिष्टादुन्मत्तादिभावाननुकुर्वतः तर्जनताडनादिपरिभवार्थिनश्च सम त्वत्कृतं प्रहरणादिकं नानिष्टं स्यात्, आत्मनिष्ठस्या- र्थानर्थयोरसंभवादिति भावः । यदि मां संसारिणं बुद्ध्वा शिक्षाद्याचरिष्यसि तदपि व्यर्थमेवेत्याह । स्तब्धस्य प्रमत्तस्य च मम, शिक्षादिकं पिष्टपेषः पिष्टपेषणवद्वयर्थमेव, ज्ञानरहिते मादृशे संसारिजने यत्त्वया चिकित्सादिकं क्रियते तत्पिष्टपेषणवन्निष्फल मेव, पूर्वमेव संसारव्यसनातुरत्वादिति भावः ॥ १३ ॥ एतावदिति । अनुवादपरिभाषया अनुवादपरिभाषया राजोक्तार्थस्यानुवादतया परिभाषणेन, अनुवादरूपभाषणपूर्वकमित्यर्थः । एतावत् प्रत्युदीर्य प्रतिवचनं कृत्वेत्यर्थः । उपशमोऽक्रोधादिरेव शीलं यस्य सः, उपरतं निरस्तं अनात्म्यस्य देहान्तरधारणस्य निमित्तं । येन सः। विद्यया निरस्तदेहान्तरसंबन्धापादककर्मत्वादुत्तरपूर्वाघाश्लेष- विनाशवानित्यर्थः । तथा च सूत्रम् ‘तदधिगम उत्तरपूर्वाघ योरश्लेषविनाशौ तद्वयपदेशात्’ इति । आरब्धं कर्म उपभोगेन व्यपनयन् स मुनिवरः, तथा अपि पूर्ववदेव राजयानं, उवाह || १४ || * * स चापीति । किं च हे पाण्डवेय परीक्षि- द्राजन्, सिन्धुसौवीरपतिः रहूंगणः अपि, सम्यक् या श्रद्धा तथैव तत्त्वजिज्ञासायां अधिकृतः प्राप्तः अधिकारो येन सः । गुरूपदिष्ट- ष्टज्ञानग्रहणयोग्यतावानित्यर्थः । अस्ति । अतः, बहुयोगग्रन्थसंमतं बहुविधाध्यात्मशास्त्रसंमतं हृदयग्रन्थिविमोचनं अनादिभूत- ज्ञानकृताहंप्रन्थिभेदकं, तत् द्विजवचः जडद्विजवचनं, आश्रुत्य, विगतः नृपदेहस्मयः, अहं नराणां देवोऽधिराज इति गर्यो यस्य सः एवंभूतः सन्, त्वरया शिबिकायाः सकाशात् अवरुह्यावतीर्य, पादमूलं द्विजपादमूलं, उपसृतः प्राप्तः । शिरसा प्रणम्य क्षमापयन् उवाच । वक्ष्यमाणमिति शेषः ।। १५ ।। * * करत्वमिति । द्विजानां ज्ञानोपदेष्टुब्राह्मणानां मध्ये त्वं निगूढः अनभि- व्यक्तब्रह्मवर्चसः कः चरसि ? ननु नाहं द्विज इति चेन्न । यतः सूत्रमुपवीतं बिभर्षि । ननु यज्ञोपवीतसत्वेऽपि नाहं द्विजः तर्हि किमवधूतोऽसि यदि सोस्मीति चेत्तत्राह । कतमः अवधूतः । दत्तात्रेयाद्यवधूतानां मध्ये त्वं कतमोऽबधूत इत्यर्थः । अवधूतोऽपि कस्यचित्सुतः शिष्यो वा स्यात् इति सति त्वं कस्यासि कस्य पितुः सुतः, कस्य गुरोर्वा शिष्यः, भवसीत्यर्थः । कुत्रत्यः कस्मिन्देश- विशेषे कृतावासो भवसि ? इत्यर्थः । यदि त्यागित्वात्सर्वं न वक्ष्यसि चेदेतावत्तु कथय, किमिति चेत्तत्राह । इहापि अत्र वा, कस्माद्धेतोः प्राप्तः दयालुत्वात् चेद्यदि, नोऽस्माकं क्षेमाय प्राप्तः स्याः । तर्हि उत इति वितर्के । शुक्लः कपिलः मुनिः, न असि । न भवसि किम् ? वा, तस्मिन्मम प्रीत्यतिशयत्वात्स एवं त्वद्रूपेणागतो भवति किं वेत्यर्थः ॥ १६ ॥ नंज
॥। Poorient भाषानुवादः * जडभरतने कहा- राजन् ! तुमने जो कुछ कहा वह यथार्थ है । उसमें कोई उलाहना नहीं.. । यदि भार नामकी कोई वस्तु है तो ढोनेवालेके लिये तो ढोनेवालेके लिये है । यदि कोई मार्ग है तो वह चलनेवालेके लिए हैं । मोटापन भी उसीका है, यह सब शरीर के लिये कहा जाता है, आत्माके लिये नहीं । । ज्ञानीजन ऐसी बात नहीं करते ॥ ९ ॥ स्थूलता, कृशता, आधि, व्याधि, भूख, प्यास, भय, कलह, इच्छा, बुढ़ापा, निद्रा, प्रेम, क्रोध, अभिमान और शोक—ये सब धर्म देहाभिमानको लेकर उत्पन्न होनेवाले जीवमें रहते हैं, मुझमें इनका लेश भी नहीं है ॥ १० ॥ * * राजन् ! तुमने जो जीने-मरनेकी बात कही– सो जितने भी विकारी पदार्थ हैं, उन सभी में नियमित रूप से ये दोनों बातें देखी जाती हैं; क्योंकि वे सभी आदि - अन्तवाले हैं। यशस्वी नरेश ! जहाँ स्वामि सेवकभाव स्थिर हो, वहीं आज्ञा- पालनादिका नियम भी लागू हो सकता है ॥ ११ ॥ * ‘तुम राजा हो और मैं प्रजा हूँ’ इस प्रकारकी भेद-बुद्धिके लिये मुझे व्यवहारके सिवा और कहीं तनिक भी अवकाश नहीं दिखायी देता । परमार्थदृष्टिसे देखा जाय तो किसे स्वामी कहें और किसे सेवक ? फिर भी राजन् ! तुम्हें यदि स्वामित्वका अभिमान है तो कहो, मैं तुम्हारी क्या सेवा करूँ ।। १२ ।। * * वीरवर ! मैं मन्त, उन्मत्त और जडके समान अपनी ही स्थिति में रहता हूँ मेरा इलाज करके तुम्हें क्या हाथ लगेगा ? यदि मैं वास्तवमें जड और प्रमादी ही हूँ, तो भी मुझे शिक्षा देना पिसे हुएको पीसनेके समान व्यर्थ ही होगा ॥ १३ ॥ श्रीशुकदेवजी कहते हैं—परीक्षित्! मुनिवर जडभरत यथार्थ तवका उपदेश करते हुए इतना उत्तर देकर मौन हो गये । उनका देहात्मबुद्धिका हेतुभूत अज्ञान निवृत्त हो चुका था, इसलिये वे परम शान्त हो गये थे अतः इतना कहकर भोगद्वारा प्रारब्धक्षय करनेके लिये वे फिर पहलेके ही समान उस पालकीको कन्धेपर लेकर चलने लगे ।। २४ ॥ ॐ ॐ सिन्धु सौवीर- नरेश रहूगण भी अपनी उत्तम श्रद्धाके कारण तत्त्वजिज्ञासाका पूरा अधिकारी था। जब उसने उन द्विजश्रेष्ठ के अनेकों योग-प्रन्थोंसे ૨૦ श्रीमद्भागवतम् ‘देव ! [ स्कं. ५ म. १० लो. १७-२० समर्थित और हृदयकी ग्रन्थिका छेदन करनेवाले ये वाक्य सुने, तब वह तत्काल पालकीसे उतर पड़ा। उसेका राजमद सर्वथा दूर हो गया और वह उनके चरणोंमें सिर रखकर अपना अपराध क्षमा कराते हुए इस प्रकार कहने लगा ॥ १५ ॥ आपने द्विजोंका चिह्न यज्ञोपवीत धारण कर रक्खा है, बतलाइये इस प्रकार प्रच्छन्नभावसे विचरनेवाले आप कौन हैं ? क्या आप दत्तात्रेय आदि अवधूतोंमेंसे कोई हैं ? आप किसके पुत्र हैं, आपका कहाँ जन्म हुआ है और यहाँ कैसे आपका पदार्पण हुआ है ? यदि आप हमारा कल्याण करने पधारे हैं तो क्या आप साक्षात् सत्त्वमूर्ति भगवान् कपिलजी ही तो नहीं हैं १ ॥ १६ ॥ नको EE IFFE नाहं विश सुरराजवजान त्र्यक्षशूलान यमस्य दण्डात् नाग्न्यर्क सोमानिलवित्तपात्राच्छ तद् ब्रह्यसड़ा जडवनिगूढविज्ञानवीर्यो वचांसि योगग्रथितानि साधो न नः क्षमन्ते ॥ ब्रह्मकुलावमानात् ।। १७ ॥ वि’चरस्यपारः मनसापि भेत्तुम् ॥ १८ ॥ का || एक अहं च योगेश्वरमात्मतत्त्वविदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्तः किमिहारणं तत् साक्षाद्धरि सवै भवाँलोकनिरीक्षणार्थमव्यक्तलिङ्गो ज्ञानकलावतीर्णम् ॥ १९ ॥ विचरत्यपिखित् । ade Faayde योगेश्वराणां गतिमन्धबुद्धिः कथं विचक्षीत गृहानुबन्धः ॥ २० ॥ R अन्वयः - अहम् सुरराजवजात् न विशंके यक्षशूलात् न यमस्य दंडात् न अग्न्यर्कसोमानिलवित्तपाखात् न ब्रह्मकुला- वमानात् भृशम् शंके ॥ १७ ॥ * * तत् साधो ब्रूहि असंगा जडवत् निगूढविज्ञानवीर्यः अपारः विचरसि योगप्रथितानि ते वचांसि नः मनसा अपि भेत्तुम् न क्षमते ।। १८ ।। * अहम् च योगेश्वरम् आत्मतत्त्वविदाम् मुनीनाम् परमम् गुरुम् ज्ञानकलावतीर्णम् साक्षात् हरिम् इह अरणम् तत् किम् प्रष्टुम् प्रवृत्तः वै ॥ १९ ॥ * * सः भवान् वै लोकनिरीक्षणार्थम् अव्यक्तलिंगः विचरति अपिस्वित्त, अंधबुद्धिः गृहानुबंधः योगेश्वराणाम् गतिम् कथम् विचक्षीत ।। २० ।। श्रीधरस्वामिविरचिता भावार्थदीपिका किमनया चिंतया शिविकां तावद्वहामीति चेदत आह नाहमिति । वित्तपः कुबेरः ॥ १७ ॥ यस्माद् भृशं शंके तत्तस्मात्कस्त्वमित्यादिप्रश्नानामुत्तरं ब्रूहि । निगूढं पिहितं विज्ञानरूपं वीर्यं प्रभावो येन । अपारोऽनंतमहिमा । तत्र हेतुः । मनसापि भेत्तु ं न क्षमं न शक्यम् । किं भेत्तुमित्यपेक्षायामाह ते वचांसीति । यद्वा मनसा युक्ताः सूक्ष्मदृष्टयोऽपि भेत्तुं न शक्नुवंती - त्यर्थः ॥ १८ ॥ * * स्वस्य ज्ञानार्थितां दर्शयति । अहं चेति इह संसारे यदरणं शरणं तत्किमिति प्रष्टुं प्रवृत्तोऽस्मि । ज्ञान- । | शक्त्याऽवतीर्णं कपिलम् ॥ १९ ॥ स एव भवान्किविदेवं विचरति । गृहाविष्टः कथं विचक्षीत पश्येत् ॥ २० ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः कम नाहमिति । सुरराजादयो वज्रादिभिर्युधि मां हंतु यदि प्रवर्त्तेरंस्तदपि स्वस्य वीरत्वस्वभावान्न शंके प्रत्युतोत्साह सुखमेव प्राप्नोमीति भावः । यद्वा-सुरराजादिषु जातापराधादहं तेषां कुपितानां वस्त्राविप्रहारादपि न शंक इत्यर्थः ॥ १७॥ ४ ४ कस्त्वं ब्रूहीति तब शिविकावाहकोऽस्मीति चेदलमतः परमपि मद्विडंबनैस्त्वामहं कमपि महायोगीन्द्रमज्ञासिषमेवेत्याह तद् ब्रूहीति । तत्र अपार महिमत्वे वचांसि भेत्तु क्षममित्यन्वयस्यार्षत्वाश्रयणं विनाऽनुचितं मत्वाह-यद्वेति । इत्यर्थ इति । यत्रातीवसूक्ष्मबुद्धयोप्य समर्थास्तत्र कोहं वराक इति भावः । विश्वनाथः वचांसि योगैर्प्रथितान्यपि योगेश्वराणामुपदेशवाक्यानि कर्तृ णि नोऽस्मानतिकठोरान् भेत्तु भिन्नसंशयीकर्तुं न क्षमंते न शक्नुवंति । किंभूतान्मनसा सहितानवहितमनसोऽपि तानि जिघृक्षूनपीत्यर्थः । तव खेतावता प्रतिवचनेनैव भिन्नसंशयोस्मि संवृत्त इति भावः ॥ १८ ॥ * * योगेश्वराणामतिमुख्य एव मत्संशयं छेत्तु समर्थ इति द्योतयन्स्वस्य ज्ञानार्थितामाह-ज्ञानकलया ज्ञानकलाये ज्ञानशक्त्या ज्ञानज्ञापनाय वावतीर्णं “कला रक्षाषोडशांशशक्तिबोधनकृपा- मायासु” इत्यभिधानात् ॥ १९ ॥ * * लोकानां साध्वसाधूनां निरीक्षणार्थं परीक्षणार्थम् । अंधबुद्धिर्व्यवहाराशि- प्रधीः ॥ २० ॥ IUPE IS PUSLEIZES BHOJ ids lis HE PRE १. प्राचीने पाठे विचरस्यपार इत्यारभ्य साक्षादर’ पर्यन्तोऽशः खण्डितः ॥ २. प्राचीने पुस्तकें ‘स वै’ इति प्रच्युतम् । । एक. ५. १० लो. १७-२०] अनेकव्याख्यासमलङ्कृतम् श्रीमद्वीरराघवव्याख्या এ २१५ किमनया चिन्तया शिबिकां तावद्वहामीति चेदत आह नाहमिति । सुरराज इन्द्रः तस्य वचादहं न विशङ्के न बिभेमि तथा रुद्रस्य त्रिशूलात् यमस्य दण्डादपि तथाग्न्यादीनामस्त्रादपि । तत्र वित्तेशः कुबेरः किन्तु ब्रह्मकुलावमानान्नितरां शङ्के ॥ १७ ॥ * * तस्मान्मत्प्रश्नानामुत्तरं ब्रूहि असङ्गो निष्परिग्रहः निगूढं पिहितं विज्ञानरूपं वीर्यं प्रभावो येन अपारः दुर्विभाव्याभिप्रायः जडवद्विचरसि तव वचांसि तु योगशास्त्रेण सन्दर्भितानि । तत्र हेतुः हे साधो ! नोऽस्माकं मनसापि साक्षाद्- दृष्टयापि त्वद्वचो भेत्तुमभिप्रायतोऽवगन्तुं न क्षमं न शक्यम् ॥ १८ ॥ * * स्वस्य ज्ञानार्थितां दर्शयति अहति । तस्वविद चिदचिदीश्वरतत्त्वविदां मुनीनां मध्ये प्रवरं हितोपदेष्टारं या नित्यापरिच्छिन्नज्ञानशक्त्यंशेनावतीर्ण साक्षाद्धरिं योगेश्वरं कपिलमुनिं प्रति इह संसारे यदरणं रक्षकं तत्किमिति प्रष्टुमहं प्रवृत्तः ॥ १९ ॥ प्रवृत्तः ॥ १९ ॥ * * लोकनिरीक्षणार्थं स एव कपिलो भवान् विचरति किंस्विदेवं कथंभूतः अव्यक्तलिङ्गः अस्पष्टहेतुः गृहासक्ती मादृशो मन्दबुद्धियोगेश्वराणां गतिं कथं विचक्षीत पश्येत् विद्यादित्यर्थः ॥ २० ॥ २० ॥ १ bipla FEN E Fen IEE की श्रीमद्विजयध्वजतीर्थकता पदरतावली । Bf Pri ॥ ॥ SEITERE SPIP ननु यो वा को वास्तु तव तावच्छिंबिका वहनमलमिति चेत्तत्राह नाहमिति । ब्रह्मकुलस्य ब्राह्मणकुलस्यावमानाद- पराधात् शङ्के तस्माद् ब्राह्मणश्चेत्क्षमापयितुमिच्छया पृच्छामीत्यर्थः ॥ १७ ॥ * * यत एवं शङ्क तत्तस्माद्यथा जडस्य सङ्गबुद्धिर्नास्ति तथा तवापीत्यसङ्गं निगूढमप्रकाशितं विशिष्टं ज्ञानवीर्यं यस्य स, अत एवापारः अगाधः मादृशानामिति शेषः, योगे अध्यात्मविषये प्रथितानि सम्बद्धानि वचनानि मनसा विभेत्तु विवेक्तुं नोऽस्माकं न क्षमन्ते न शक्यानीत्यन्वयः । मनसा विभेत्तु न शक्नुमः किं पुनर्वचनेनेत्यतो मनसेति ॥ १८ ॥ * अहमपि कार्यान्तरमुद्दिश्य जनपदान्तरं गमिष्यामीति शङ्का मा भूत् किन्तु ज्ञानार्थित्वेन कपिलवासुदेवम्, अतो ज्ञानाधिकारित्वेन मम तत्त्वमुपदेष्टुं योग्यतास्तीत्यभिप्रेत्य विज्ञापयति अहं चेति । अहमपीह संसारे हिश्यमानानां जनानां यदतिं अवगच्छति जानात्यनेन तत्त्वमिति ज्ञानलक्षणमरणं शरणं तत्किं प्रष्टुं प्रवृत्त इत्यन्वयः । कपिल: किमयं श्रोत्रिय उतः प्रवक्तेति तत्राह गुरुमिति । श्रोतुरपेक्षिताशेषश्रोतव्यस्योपदेष्टारं केषां मुनीनां किमेते पाषाणवन्मौनशीलाश्चेन्न प्रवचनेन प्रयोजनमेतादृशशिष्यान् संगृह्य व्याख्या सर्वस्य सुशका चेति तत्राह तत्त्वेति । तत्तत्पदार्थतत्त्ववित्त्वमाटविकानामप्यस्तीत्यत आत्मेति । न चायं कपिल सांख्यशास्त्रप्रणेतेत्याह हरिमिति । न चायं शब्दः सावकाश इत्याह साक्षादिति । न चास्यान्यत्र व्यापृतत्वे ज्ञानोपदेशानवसर इत्याह ज्ञानेति । ज्ञानकामधेनु प्रवृत्तयेऽवतीर्ण कर कामधेनाविति धातुः कल विस्तार इति वा, ज्ञानव्याप्तय इति वा, अनेन तेन मम कार्यान्तरे व्यापारों नास्तीति दर्शयति ।। १९ ॥ * * ततः किं प्रकृत इति तत्राह स वा इति । भवान्स वै कपिलो भगवानेव लोकनिरीक्षणार्थं साध्व- साधुजनपरीक्षणार्थम् अव्यक्तलिङ्गो भूत्वा विचरत्यपि स्वित् किमित्यन्वयः, मादृशानां संशयः श्राप्य इत्याशयेनाह । योगेश्वराणा- मिति । विचक्षीत जानीयात् अन्धबुद्धित्वे कारण गृहानुबद्ध इति ॥ २० ॥ rahi hai
- श्रीमजीवगोरखामिकृतः क्रमसन्दर्भः । नोऽस्माकं मनसा सह योगेनोपायेन युक्तया प्रथितान्यपि यद्भेत्तु न क्षमन्ते तद् ब्रूहि विशदीकुर्वित्यर्थः ।। १८-२२ ।। । stari श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । ननु शिविकारूढस्य तव किमनेन ‘विचारेण इत्यत आह नाहमिति । सुरराजादयो वनादिभिर्युधि मां हन्तुं यदि ननु प्रयतन्ते तदपि स्वस्य वीरत्वस्वभावात् न शङ्के प्रत्युतोत्साहसुखमेव प्राप्नोमीति भावः । यद्वा सुरराजादिषु जातापराधोऽहं तेषां कुपितानां वञ्जादिप्रहारादपि न शङ्के इत्यर्थः ॥ १७॥ * * तत्तस्माद् ब्रूहि कस्त्वमित्यर्थः । त्वच्छिबिकावाहकोऽस्मीति चेदलमतः परमपि मद्विडम्बनैस्त्वामहं कमपि महायोगीन्द्रमज्ञासिषमेवेत्याह वचांसीति । यतो योगप्रथितानि ते वचांसि नोऽस्माकं मनसापि भेत्तुं न क्षमं न क्षमाणि न शक्यानि इत्यर्थः । यद्वा वचांसि योगैर्ग्रथितान्यपि योगेश्वराणामुपदेशवाक्यानि कर्तृ णि नोऽस्मानतिकठोरान् भेतुं छिन्नसंशयीकर्तुं न क्षमन्ते न शक्नुवन्ति । कीदृशान् मनसापि सहितान् अवहितमनसोऽप्य- वादित्वेन तानि जिघृक्षूनपीत्यर्थः । तव त्वेतावतापि प्रतिवचनेनैव छिन्नसंशयोऽस्मि संवृत्त इति भावः ॥ १८ ॥ * * योगेश्वराणामति मुख्य एव मत्संशयं छेत्तुं समर्थ इति द्योतयन्नाह अचेति । साक्षाद्धरिं श्रीकपिलदेवं ज्ञानस्य कलायै ज्ञापनाय अवतीर्णम् ॥ १९ ॥ स एवं भवान् किं खिदेव विचरति अन्धबुद्धिर्मद्विधः ॥ २० ॥ २१६ श्रीमद्भागवतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः [ स्कं. ५ अ. १० इलो. १७-२० ननु मद्रूपादिकं स्वयमेव वेदितुमर्हसीत्यत्राह । नो मनसापि भेत्तुं न क्षमं न शक्यं यत्तत् कस्त्वमित्यादिप्रश्नानामुत्तरं ब्रूहि यतो निगूढं विज्ञानरूपं वीर्य्यं येन सः अपारः दुर्ज्ञेयाभिप्रायः एवंभूतो विचरसि हे साधो ! ते वचांसि योगप्रथितानि ज्ञानयोगभक्तियोगविषयाणि ।। १८ ।। इह यदरणं तत्किमिति
प्रष्टुं प्रवृत्तोऽस्मि ज्ञानशक्त्याविर्भूतं कपिलम् ।। १९ ।। * * लोकनिरीक्षणार्थं गूढचिह्नः सन् सः कपिल एव भवान् किं विद्विचरति गृहानुबद्धः कथं विचक्षीत पश्येत् ॥ २० ॥ प्रष्टुं गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी सिक तद्वचनान्येव दर्शयति इति दशभिः । निगूढोऽलक्षितवर्णाश्रमाचारस्त्वं को वा विचरसि ? द्विजानां दत्तात्रे- यादीनां मध्ये त्वं कतमोऽवधूतः ? स्वरूपसन्देहेऽपि द्विजत्वे तु न सन्देहः, यतः सूत्रमुपवीतं बिभर्षि । अतो विशेषतो ब्रूहि त्वं कस्य पुत्रोऽसि ? । कुत्रत्यः किन्देशवास्यसि ? । इहास्मिन् स्थानेऽपि कस्माद्धेतोरागतोऽसि ? । यः कोऽप्यहं भवामि तवैवं प्रश्न न किमित्याशङ्कयाह — क्षेमायेति । नोऽस्माकं क्षेमाय चेदिह प्राप्तस्तर्हि किं शुक्लः शुद्धसत्त्वमूर्तिः कपिलस्तु न भवसि ? । उतेति वितर्के । तदपि सम्भवतीश्वरत्वेन कृपापरवशत्वादिति भावः ॥ १७ ॥ * * नाहं कपिल इति चेत्तथापि विशेषो वक्तव्यः । तर्हि को वैवं प्रश्न हेतुरिति चेत्तवाह नाहमिति । सुरराजस्येन्द्रस्य वज्रादहं न विशङ्के न बिभेमि, तथा त्र्यक्षस्य रुद्रस्य शूलान्न बिभेमि, यमस्य दण्डादपि न बिभेमि, तथा अग्नेरर्कस्य सोमस्य चन्द्रस्य अनिलस्य पवनस्य वित्तपस्य कुबेरस्य चास्त्रान्न बिभेमि । किन्तु ब्राह्मणकुलावमानात् भृशमत्यन्तं शङ्के बिभेमि ।। १८ ।। यस्मादेव तत् तस्मात् निगूढं पिहितं विज्ञानरूपं वीर्यं प्रभावो येन, अत एव तदाच्छादयितुमसङ्गः सर्वजनसङ्गरहितः, वस्तुतोऽपारोऽचिन्त्यानन्तमहिमाऽपि जडवद्विचरसि स त्वं क इति ब्रूहीत्यन्वयः । तथा च त्वत्कथने त्वत्स्वरूपे ज्ञाते क्षमापणे च कृते त्वत्प्रसादाद्भयनिवृत्तिः स्यादिति भावः । नन्वहमेवम्प्रभाव इति त्वया कथं ज्ञातं तत्राह वचांसीति । हे साधो स्वपरकार्यसाधक योगप्रथितानि युक्तिसहितानि ते तव वचांसि नोऽस्माभिर्मनसाऽपि भेत्तुं भेदेन तदर्थविवेकेन धारयितुं न क्षमं न शक्यमित्यन्वयः । अतस्तथाविधस्त्वमिति ज्ञातमिति भावः ॥ १९॥ 8 * ननु त्वमेव स्ववृत्तान्तं कुतो न कथयसीति चेत्तत्राह- अहमिति । अहं व योगेश्वर प्रष्टुं प्रवृत्त इत्यन्वयः । किं प्रष्टुमित्यपेक्षाया- माह- इहेति । इह संसारे यदरणं शरणं तत् किमिति प्रष्टुमित्यन्वयः । कोऽसौ योगेश्वर इति वीक्षायामाह – साक्षादिति, ज्ञानकल्याऽवतीर्णं साक्षाद्धरिं कपिलमित्यर्थः । अत एव आत्मतत्वविदां मुनीनां मननशीलानामपि परमगुरुं तत्त्वोपदेशकर्त्ता- रमित्यर्थः । भगवदवतारत्वं तत्त्वोपदेष्टृत्वं च प्रसिद्धमेवेत्याह- वै इति ॥ २० ॥ . श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी 1 Bishwers ‘क राजस्तव किमनया चिन्तयाहं यः कोऽपि भवामि तव तु शिबिका वाहन प्रयोजनत्वावच्छिबिकामेव वहामीति चेदत आह नाहमिति । सुरराज इन्द्रस्तस्य वज्रं तस्मात्, अहं न विशङ्के न बिभेमीत्यर्थः । त्रीणि अक्षीणि यस्य स त्र्यक्षः शिवस्तस्य शूलं तस्मात्, न विशङ्के । यमस्य दण्डात् अपि न विशङ्के । अग्नि अर्कश्च सोमव अनिलच वित्तपः कुबेरश्च तेषामस्त्रं तस्मात् अपि न विशङ्के । किंतु ब्रह्मकुलावमानात् भृशं नितरां विशङ्के ॥ १७ ॥ * * तदिति । तत्तस्मात् यस्माद् भृशं शङ्के तत इत्यर्थः । ब्रूहि कस्त्वमित्यादिमत्कृतप्रश्नानामुत्तरं कथयेत्यर्थः । असङ्गो निष्परिग्रहः, निगूढं पिहितं विज्ञानवीर्यं विज्ञानरूपः प्रभावो येन सः । अपारः दुर्विभाव्याभिप्रायः संस्त्वं, जडवत् विचरसि । हे साधो, ते तव, वचांसि तु योगप्रथितानि योगशास्त्रेण संदर्भितानि भवन्ति । अतः नोऽस्माकं मनसापि, भेत्तुमभिप्रायतोऽवगन्तुं न क्षमं अस्माभिर्मनसापि बोद्धुं न क्षमाणीत्यर्थः । यद्वा मनसा युक्ताः सूक्ष्मदृष्टयोऽपि त्वद्वचोऽभिप्रायं ज्ञातुं न क्षमन्ते न शक्नुवन्ति तत्रास्माकं तु का वार्त्तेत्यर्थः ॥ १८ ॥ * * स्वस्य ज्ञानार्थितां दर्शयति अहं चेति । आत्मतत्त्वविदां चिदचिदीश्वरतत्त्वज्ञानां मुनीनां मध्ये, परमं प्रवरं गुरुं हितोपदेष्टारं, ज्ञानकलया नित्यापरिच्छिन्नज्ञानशक्त्यंशेनावतीर्णः प्रादुर्भूतस्तं, साक्षात् प्रत्यक्षं, हरि श्रीहर्यवतारभूत, योगेश्वर सांख्ययोग- प्रवक्तारं कपिल मुनि प्रति, इह संसारे, यत् अरणं रक्षक, तत् किं इति प्रष्टुं, अहं च अहमपि, प्रवृत्तः अस्मि वै ।। १९ ।। स वै इति । अव्यक्तलिङ्ग अस्पष्टदेहः सः वै स कपिल एवेत्यर्थः । भवान् लोकनिरीक्षणार्थं लोकवृत्तं द्रष्टुं विचरति अपिस्वित् त्वं विचरसि किं वेत्यर्थः । गृहानुबन्धः गृहासक्तः मादृशः गृहानुबन्धः गृहासक्तः मादृशः अन्धबुद्धिर्मन्दमतिः योगेश्वराणां गतिं कथं विचक्षीत क विद्यादित्यर्थः ॥ २० ॥ कोड अभाषानुवाद Pes Part पश्येत् to मुझे इन्द्रके वज्रका कोई डर नहीं है, न मैं महादेवजी के त्रिशूलसे डरता हूँ और न यमराज के दण्डसे | मुझे अभि सूर्य, चन्द्र, वायु, और कुबेर के अस्त्र-शस्त्रोंका भी कोई भय नहीं है; परन्तु मैं ब्राह्मणकुल के अपमानसे बहुत ही डरता हूँ ।। १७ ।। एक. ५.म. १० लो. २१-२५ अनेकव्याख्यासमलङ्कृतम् २१७ अतः कृपया बतलाइये, इस प्रकार अपने विज्ञान और शक्तिको छिपाकर मूर्खोकी भाँति विचरनेवाले आप कौन है ?. विषयोंसे तो आप सर्वथा अनासक्त जान पड़ते हैं। मुझे आपकी कोई थाह नहीं मिल रही है। साधो ! आपके योगयुक्त वाक्योंकी बुद्धिद्वारा आलोचना करनेपर भी मेरा सन्देह दूर नहीं होता ॥ १८ ॥ * * मैं आत्मज्ञानी मुनियोंके परम गुरु और साक्षात् श्रीहरिकी ज्ञानशक्तिसे अवतार योगेश्वर भगवान् कपिलसे यह पूछनेके लिये जा रहा था कि इस लोकमें एकमात्र शरण लेनेयोग्य कौन है ? ॥ १९ ॥ * * क्या आप वे कपिलमुनि ही हैं जो लोकोंकी दशा देखनेके लिये इस प्रकार अपना रूप छिपाकर विचर रहे हैं ? भला, घरमें आसक्त रहनेवाला विवेकहीन पुरुष योगेश्वरोंकी गति कैसे जान सकता है ? ।। २० ।। क Su दृष्टः श्रमः कर्मत कर्मत आत्मनो वै भर्तुर्गन्तु भवतश्चानुमन्ये यथासतोदानयनाद्यभावात्समूली इष्टो की व्यवहारमार्गः व्यवहारमार्गः ।। २१ ९ ॥ २१ ॥ - कान्यप्रितापात्पयसोऽभितापस्तचा पतस्तण्डुलगर्भ रन्धिः * देहेन्द्रियाखाशयसन्निकर्षात्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२ ॥ शास्ताभिगोता नृपतिः प्रजानां यः किङ्करो वे न पिनष्टि पिष्टम् । (स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यषौषम् ॥ २३ ॥ फर तन्म भवानरदेवाभिमानमदेन कृषीष्ट मैत्रीमार्तबन्धो यथा मतरे न विक्रिया विश्वसुहृत्सखस्य साम्यन ।। तुच्छीकृतसत्तमस्य । 26 सदवभ्यानमहः ॥ २४ ॥ वीताभिमतेस्तवापि ।
महद्विमानात् स्वकृताद्धि माई नहचत्यदूरादपि शूलपाणिः ॥ २५ ॥
इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायां पञ्चमस्कन्धे दशमोऽध्यायः ॥ १० ॥ अन्वयः भतुः च मतुः भवतः कर्मतः श्रमः दृष्टः आत्मनः अनुमन्ये यथा असता उदानयनाद्यभावात् व्यवहारमार्गः समूला इष्टः ॥ २१ ॥ स्थास्यग्नितापात् पयसः अभितापः तत्तापतः तंडुलगर्भरधिः देहेंद्रियास्वाशयसंनिकर्षात् अनुरोधात् पुरुषस्य तत्संसृतिः ॥ २२ ॥ * नृपतिः प्रजानाम् शास्ता अभिगोप्ता यः अच्युतस्य किंकरः पिष्टम् वै पिनष्टि यत् स्वधर्मम् आराधनम् इहमानः अघौघम् विजहाति || २३ || अंहः तरे नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य मे मैत्रीदृशम् कृषीष्ट ॥ २४ ॥ भिमतेः तव न विक्रिया अपि माहक शूलपाणिः हि स्वकृतात् महद्विमानात् अदूरात् * TREPR तत् आर्तबंधो भवान् यथा सदवध्यानम् ** अपि विश्वसुहत्सखस्य साम्येन वीता- मानात अदरात नक्ष्यति । ॥२५ ।। इति दशमोऽध्यायः ॥ १० ॥ श्रीधरखामिविरचिता भावार्थदीपिका for Phresthamanda SP EF IRID प्र र " एवं तत्स्वरूपं वृद्धा तदुक्तोत्तराण्याक्षिपति । तत्र यदुक्तं मम श्रमो नास्तीति तत्राह । दृष्ट इति आत्मनो मे । अनुमन्ये मनुमिमे । अनुमानं चैवम् भवान्भारवाहनादिना श्रांतः कर्तृत्वात्। यः कर्ता स श्राम्यति । यथाऽहं युद्धादिकर्तेति । नन्विदं उपवहारमात्रं न तु सत्यम् । यदुक्तं व्यवहारतोऽन्यन्न पश्यामीति तत्राह यथेति । व्यवहारमार्गः प्रपंचः समूलः सप्रमाणक एव इष्टः । यथा यथावत् । असत्ता घटादिनोदकानयनादेरभावात् । एवं प्रयोगः-प्रपंचः सत्यः, अर्थक्रियाकारित्वात् यः पुनरसत्यः नासावर्थक्रियाकारी । यथा मिध्याघटादिरिति ।। २१॥ * * यदुक्तमुपाधिधर्माः स्थौल्यादयो मे न वस्तुतः संतीति तत्रौ- मेन पाधिकत्वेऽपि सत्यत्वं किं न स्यादित्याह । स्थाल्याः अग्निना तापात्तन्मध्यवर्तिनः क्षीरस्य तापः तस्य तापात्तंडुलानां बहिर्भागस्य अवसद्रर्भस्य च रंधिः पाकः। न चात्र किंचिन्मिध्या । एवं देहादिभिः सन्निकर्षात्संबंधात्तन्निमित्ता संसृतिः पुरुषस्य भवति । असवः प्राणाः आशयो मनः अनुरोधादुपाधिधर्मानुवृत्तेः । तथाहि । निदाघादिना देहे तप्ते इंद्रियाणां तापस्ततः प्राणस्य ततो मनस इत्येवं यथायथमूपम् ।। २२ ।। * * यदुक्तं स्वस्वाम्यभावो ध्रुव इति तत्राह । शास्तेति अध्रुवत्वेऽपि यदा यो नृपतिः स प्रजानां शास्ता गोप्ता च । यथोक्त स्तब्धादेः शिक्षा विषेष इति तत्राह । योऽच्युतस्य किंकरः स पिष्टं न पिनष्टि निष्फलं न करोति । स्तब्ध- त्वायनपगमेऽपि शास्तुरीश्वराज्ञासंपादनेनैव सफलत्वात्तदाह स्वधर्मरूपमच्युतस्याराधनं कुर्वन्यस्मादघौघं विजहाति ।। २३ ।। १ प्रा० पा० - भत्तु गुरोर्भवत० । २. प्रा पा० सुकृताद्धि । २. प्रा० पा० - जडचरिते दशमो० - । २८ । । ि २१८ श्रीमद्भागवतम् [ स्कं. ५.अ. १० नलो. २१-२५ यस्मादेवं मम त्वदुक्तं विपरीतं प्रतिभाति तत्तस्मान्नरदेवाभिमानमदेन तुच्छीकृतास्तिरस्कृताः सन्तमा भवादृशा येन तस्य मे मैत्रीदृशं स्नेहयुक्तां दृष्टिं कृषीष्ट करोतु सतामवज्ञारूपं पापं यथा तरिष्यामि ॥ २४ ॥ * * ननु ममावज्ञाकृतविकाराभावात्कुतः पापं तत्राह नेति । यद्यपि तव विक्रिया नास्ति । विश्वस्य सुहवासौ सखा च तस्य । अतः सर्वत्र साम्येन खदेड़े विगताभिमानस्य तथापि महतामवमानान्मादृशो विनश्यति । अदूरात्क्षिप्रम् । शूलपाणिरिवातिसमर्थोऽपीत्यर्थः ॥ २५ ॥ इति पंचमस्कंधे टीकायां दशमोऽध्यायः ॥ १० ॥ TEE ME SEE Pune श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ॥ काम तत्स्वरूपं जडविप्रस्वरूपम् । तत्र तेषूत्तरेषु । अत्राक्षिपति - व्यावहारिका एवेत्थं जल्पति, न तु पारमार्थिका इति चेत्-व्यव- हारमार्गस्यापि निर्मूलीकर्तुमशक्यत्वादित्याह-यथेति । घटादिकरणकं जलमाहरेत्युक्तेऽसत्ता घटादिनोदकानयनादेरदृष्टत्वाद्वयवहारः सत्य एवेति ॥ २१ ॥ * * उपाधिधर्मा देहधर्माः ॥ २२ ॥ तदा शास्ता गोप्ता भवत्येव किंकरो मद्विधः । तत् ईश्वराज्ञासंपादनमेव । न हन्यन्ते समूलानि विना ज्ञानमित्यधानि दुःखानि पापानि वा तेषामोघं समूहम् । एतेन मम धर्मस्य शास- नादिलक्षणस्य त्वद्दृष्टया विगुणत्वेऽपि मम तु श्रेयस्करमेव तत् ‘श्रेयान्स्वधर्मो विगुणः’ इति श्रीमुखोक्तः ।। २३ ।। * नर- देवोऽहमित्यभिमानेन यो विज्ञंमन्यत्वादिमदस्तेन तुच्छीकृता इमे किं जानतीत्यनादृताः । स्नेहयुक्तां दुर्जीवोऽयं नरके पतिष्यतीति विचार्य प्रीतियुक्ताम् । आर्त्तानां संसृतिपीडितानां मादृशानां बंधों प्रीतिकर्तः त्वादृशाः सन्तः एव संसृतेर्विभ्यतां रक्षका इति भावः । ‘संतोsर्वाग्विभ्यतोऽरणम्’ इत्येकादशे श्रीकृष्णेनैवोद्धवं प्रति वक्ष्यमाणत्वात् । अंहो दुरितदुष्कृतम्’ इत्यमरः ॥ २४ ॥ * अत्राक्षिपति-त्वत्कृतेन तिरस्कारेण मादृशां दुःखं नोत्पद्यते कुतस्तवापराध इत्येवम् । नन्विति । हृत्यर्थ इति । इह लुप्तोपमा बोध्येति भावः । इत्यभिप्रेत्यैव “सेयं महापुरुषपादपांशुभिर्निरस्ततेजस्सु” इति सत्योक्तम् ।। २५ ।। F इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे दशमोऽध्यायः ॥ १० ॥ Here actres श्रीमद्वीरराघवन्याख्या mmste एवं तत्स्वरूपं पृष्ट्वा तदुक्तोत्तराण्याक्षिपति । तत्र यदुक्तं मम श्रमो नास्तीति तत्राह । दृष्ट इति । देहादन्यत्वेऽपि देहयोगादात्मनो मम कर्मतः युद्धादिकर्मणा श्रमो दृष्टः अतो मद्दृष्टान्तेन भर्तुर्भारस्य गन्तुरध्वनश्च गन्तुर्भवतोऽपि श्रममनुमन्येऽ- तुमि भवता श्रान्तेन भवितव्यं भर्तृत्वाद्गन्तृत्वाश्च यथा युद्धादिकर्ताहमित्यनुमिनोसीत्यर्थः । नन्विदं व्यवहारमात्रं न तु सत्यं तत्राह । असता घटादिना उदकाहरणाद्यभावदर्शनात् सता तु दर्शनाथ व्यवहारमार्गः प्रपश्नः समूलः प्रमाणमूलक एवेष्टः, अत्रायं प्रयोगः प्रपन्नः सत्यः अर्थक्रियाकारित्वात् यः पुनरसत्यः नासावर्थक्रियाकारी यथा शुक्तिरजतादिरिति ।। २१ ।। * * आत्मनः स्वतो दुःखाद्यभावेऽपि देहसंसर्गात्तत्सम्भवतीत्यभिप्रायेणाह स्थालीति । स्थाल्यादिगताग्नितापात्तन्मध्यवर्तिनः शिशिरस्य पयसोऽ भितापस्तस्य तापात्तण्डुलगर्भविलित्तिर्भवति तत्तस्माद् दृष्टान्तदर्शनाद्देहादीनां सन्निकार्षादनुरोधात्सन्निकृष्टस्यावर्जनीयत्वात्तन्निमित्ता पुरुषस्य संसृतिः सुखदुःखाद्यनुभूतिर्भवतीत्यर्थः । असवः प्राणा आशयो वासना अन्तःकरणं वा ||२२|| तथाहि निदाघादिना देहे तप्ते इन्द्रियाणां तापः ततः प्राणस्य ततो मनसस्तत आत्मन इत्येवं च सति दण्डयितृत्वादिकमपि सफलमित्याह शास्तेति । यदाहं कर्मवशान्नृपतिस्तदा प्रजानामुत्पथवर्तिनीनां शास्ता सन्मार्गवर्त्तिनीनां तु गोप्ता ोप्ता । ननु पूर्वमेव व्यसनातुरं दण्डयन्पिष्टं पिनष्टीत्युक्तमिति चेत्तत्राह । अच्युतस्य भगवतः स्ववर्णाश्रमधर्मेण किङ्करः ओराधकः भगवदाराधनस्वरूपं स्वस्ववर्णाश्रमप्रयुक्तं निग्रहादिकं कुर्वन् पिष्टं न पिनष्टि नैष्फल्यं न प्राप्नोति, यत्स्ववर्णाश्रमोचितं कर्म ईहमानः कुर्वाणः अघौघं पापराशि विजहाति विधुनोति ॥ २३ ॥ * * तस्मादेवं जिज्ञासुत्वाद्धे आर्तबन्धो ! नरदेवोहऽमित्यभिमान जमदेनानादृतसज्जनस्य मे मह्यं मैत्रीदृशं स्नेहयुक्तां दृष्टि कृषीष्ट कुरु यया दृशा सदवज्ञानं सतामवज्ञानं सतामवज्ञानरूपमंहः पापं तरे तरिष्यामि ॥ २४ ॥ 8 ननु समावज्ञाकृतविकाराभावात्कुतः पापं तत्राह नेति । विश्वसुहृदीश्वरः सखा यस्य स विश्वसुहृत्सखः “द्वा सुपर्णा सयुजा सखाया” इति श्रुतेः तस्य साम्येन सर्वस्य ब्रह्मात्मकत्वभावेन बीता निरस्ताऽभिमतिर्दहात्माभिमतिः स्वतन्त्रवस्त्वभिमतिश्च यस्य तव यद्यपि मत्कृतादवज्ञानाद्विकारो नास्ति, तथापि महतामवमानात्सकृत्कृतान्मादृशो जन्तुः शूलपाणिरिवातिसमर्थोऽप्यदूरात् क्षिप्रं नयति स्थावरतामेष्यति । स्थावरताप्राप्तिरेव हि जीवस्य विनाशो नाम तत्र नितरां चैतन्यानभिव्यक्तेः ॥ २५ ॥ णार इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकास्यायां टीकार्यां दशमोऽध्यायः ॥१०॥ Sagro. i श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अधुना यत्त्वयोक्तं भर्तुर्मम भारो नास्ति गन्तुः कर्मतः श्रमो नास्तीति तत्राह दृष्ट इति । यथात्मनो मम भर्तुः कण्ठभुग्नता- हेतुर्भारो गन्तुर्गमनलक्षणात्कर्मतः श्रमः पादवेदनालक्षणो दृष्टस्तथा मर्तुर्गन्तुर्भवतोऽय बहनगमनादिक्रियादर्शनाच्छ्रमो युक्त इति५. म. १० लो. २१-२५] अनेकव्याक्यासमेलङकृतम् मन्ये, वै सर्वानुभवसिद्ध इति न केवलं दृष्टिः श्रुतिरप्यस्तीत्याह । श्रुतेति श्रुता उदानयनादिभावा इति प्रयोगमुत्सृज्य एकपद्येन प्रयोगस्तु छान्दसः । उदानयनादिभावाः जलाहरणसाधनघटादिपदार्थाः बोद्धृणां श्रमजनकाः श्रुताः, इतीदमपि श्रमसद्भावे प्रमाणमि- त्यर्थः । “भावो लीला किया चेष्टा” इत्यभिधानाज्जलानयनादिक्रियाः श्रमहेतव इति वा किमत इति तत्राह समूल इति । यतो बहन- गमनादिक्रियाः श्रमजनकत्वेन सत्याः तस्माद्धानोपादानादिव्यवहारमार्गः समूलः सप्रमाणः दृष्टः साक्षिसिद्ध इत्यर्थः । केचिदुदान- नादिभावेति पठन्ति तत्र श्रुतेति पदच्छेदः क्रियावाचिनो भावशब्दस्य टापि कृते स्त्रीलिङ्गत्वं साधु । अनेन जीवन्मृतत्वं नित्यमेव राजन्नित्यत्र यद्देहस्येति उक्तं तत्प्रत्युक्तं “शतं कुम्भमसिञ्चन्तं सुरायाः” इति श्रुतेः क्रियायाश्चेतननियतत्वात् ॥ २१ ॥ * * स्थौल्यादयों न मे सन्तीति यदवादि तत्रोच्यते स्थालीति । स्थाल्याः भाण्डस्थाग्निना तापात् भाण्डस्थपयसो जलस्य तापः स्यात्तस्य पयसस्तापात्तण्डुलगर्भस्य तण्डुलान्तःसारस्य रन्धिः पाकः संयोगलक्षण सम्बन्धपरम्परयाऽन्नाख्यकार्योत्पत्तिर्यथा तथा देहश्वेन्द्रियाणि चासवश्चाशयोन्तःकरणं ते तथा तेषां सन्निकर्षात्संयोगलक्षणसम्बन्धात् या स्थौल्यादिलक्षणा संसृतिः सा पुरुषस्य भवतीत्यन्वयः कुतः अनुरोधात् अभिमानात् न चाभिमानो नास्तीति वाच्यं देहसद्भावेऽभिमानस्यावश्यं भावित्वादग्निसन्तप्तायोवत् । ननु हे याहेययोः स्वरूपे सामान्यतो ज्ञातेऽत्र प्रश्नपूर्वकं विशेषतो जिज्ञासा सखाघटीतीति तद्भावे स्तम्भसम्बोधनवद्वयर्थः स्यादित्यतो वा हेयस्वरूपं निरूपयति स्थालीति । अर्थस्तूक्त एव आत्मा संसारी संसारान्तःपातित्वादन्तःकरणवत्स च सत्योऽर्थक्रियाकारित्वादात्मवदि- त्याद्यूहनीयम् ॥ २२ ॥ * * स्तब्धप्रमत्तस्य च पिष्टपेष इति यदुक्तं तत्राह शास्तेति । यो नृपतिर्दुष्टप्रजानां शास्ता शिष्टप्रजानां गोप्ता देवब्राह्मणमुनीनां किङ्करच स्वविहितं नित्यनैमित्तिकं कर्माच्युतस्याराधनं स्वधर्म यदीहमानः कुर्वाणश्च भवति तर्हि स राजा पिष्टं न पिनष्टि निष्फलव्यापारवान्न भवति किन्तु सफलव्यापारवानेव, एतत्कुतोऽवगम्यत इति तत्राह विजहातीति । ज्ञानमन्तरेणा- न्येन न हन्यन्त इत्यघानि दुःखान्याधिव्याधिनिमित्तानि तेषामोघो यस्मिन् स संसारस्तथा तं विजहाति मुवति मुक्तो भवतीत्यर्थः । एवं संसारस्वरूपं निरूप्य राज्ञः स्वधर्मं निरूपयतीत्यतो वाह शास्तेति ।। २३ ।। यत एवं मम ज्ञानं शबलं न शुद्धं फला- दर्शनादतः संसारनिर्मूलनकरं ज्ञानमुपदिशेत्याह तन्म इति । नराणां देवोऽहमित्यभिमाननिमित्तमदेन तुच्छीकृतसत्तमस्य धिक्कृत- सज्जनोत्तमस्य मे यथा दृशा सदवध्यानं सज्जनावज्ञाननिमित्तमं इः पापं तरेयं तीर्णो भवामि तां मैत्रीं मित्रं सर्वस्मादिष्टतमो हरिस्त- द्विषयां दृशं कृषीष्ट । अत्र करणं नाम प्रकाशनं विवक्षितं न त्वविद्यमानस्य निर्माण प्रकाशयेत्यर्थः । मुक्तौ मुख्यं साधनं ब्रह्मज्ञानमेवा- “न्यत् सर्वं तत्साधनमिति द्योतनाय वा कृषीष्टेत्युक्तम् । आर्तबन्धो इत्यनेन संसारान्धकूपे पतितानां जनानां दीपिकालक्षणदृष्टिप्रदानेन समुद्धरणबन्धुभूतस्त्वमेव त्वादृशोऽन्यो नास्तीति स्वाभिप्रायसिद्धये प्रयुक्तमिति ज्ञातव्यं, “हि गतौ” इति धातोर्गतेर्ज्ञानस्य प्रतिबन्धक- त्वेन पापार्थे अंह इति निपातनात् साधुः ॥ २४ ॥ * शिबिका वाहनलक्षणयास्मदवज्ञया तव कोपादिविकारो नास्तीत्याह न विक्रियेति । विश्वसुहृत् विश्वस्य विश्वात्मना सर्वप्रकारेण वा सुहृत् श्रीनारायणः स एव सखा यस्य स तथा तस्य ते तव विक्रिया सन्तोपलक्षणो मनसि विकारः कोपो वा नास्ति केन हेतुनेत्यत उक्त साम्येनेति । मानावमानयोः समत्वकारणेन “मानावमानयो- स्तुल्यः” इति स्मृतेः । तत्रापि किङ्कारणमत्राह । वीताभिमतेरिति । वीता विगताभिमतिरभिमानो यस्य स तथा तस्य सामान्यज्ञानि नोऽपि मनसि विकारो न स्याद्विशिष्टज्ञानिनस्तस्य तव किं वक्तव्यमित्यपिशब्दार्थः । वीताभिमानत्वेन तव मनसि विकाराभावोऽपि सम्भावित इति वा मम तु देहाभिमानो दुस्त्यजो यतोऽतो महदवज्ञाने प्राप्ते शास्त्रतः कर्तव्य आत्मदाहो न कृत इत्याशयेनाह महद्विमानादिति । मादृक् पुरुषः स्वकृतान्महतो भवादृशस्य विमानादवज्ञानाददूरान्तदानीमेवात्मानं धक्ष्यति दहति न केवलं मवात्मानं दहति किन्तु मत्तोऽभ्यधिकः शूलपाणिः सदाशिवोऽपि स्वतो महदवज्ञानादात्मानं दहति । ‘ब्रह्महत्या सहस्रस्य पापं शाम्येत् कथचन । न पुनस्त्वदवज्ञाने कल्पकोटिशतैरपि ।। स्वतो महदवज्ञानादुद्रोऽध्यात्मानमा दहेत् ।’ इति वाक्यद्वयं हिशब्दे- नोपात्तमिति ज्ञातव्यमतो भवन्तं प्रार्थय इत्यपिशब्दार्थ इति ।। २५ । ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कंधे श्रीमद्विजयध्वजतीर्थकृत पदस्नावल्यां दशमोऽध्यायः ॥ १० ॥ श्रीमजीवगोखामिकृतः क्रमसन्दर्भः किङ्करो वेदरूपेश्वराज्ञाकारी माहशो जनः ॥ २३-२५॥pati S इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भस्य दशमोऽध्यायः ॥ १० ॥ + श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी कपिलदेवं प्रष्टुं प्रवृत्तोऽहमध्वन्येव तमिमं प्राप्तस्तदेत हत्तोत्तराण्येव प्रथममाक्षिपन् सर्वमेव स्वजिज्ञास्यमाविष्करिष्यामीति मनसि विचारयन् यदुक्तं मम श्रमो नास्तीति तत्राह दृष्ट इति । आत्मनो में अनुमन्ये अनुमिमे अनुमानश्चैव भवान् भारवाहा- दिना श्रान्तः कर्तृत्वात् यः कर्त्ता स श्राम्यति यथाहं युद्धादिकर्त्तेति । न चेदं व्यावहारिका एवं जल्पन्ति न तु पारमार्थिका इति वाच्यं, व्यवहारमार्गस्यापि निर्मूलीकर्तुं मशक्यत्वादित्याह यथेति । घटादिकरणकजलादिकमाहरेत्युक्ते असता घटादिना उदका- २२० श्रीमद्भागवतम् २१-२५ [स्कं ५ अ. १० नयनादेरदृष्टत्वात् व्यवहारमार्गः प्रपखः समूलः सप्रमाणक एवेष्टः । यथा यथा बतु एष प्रयोगः प्रपन्नः सत्यः अर्थक्रियाकारित्वात् यः पुनरसत्यः नासावर्थक्रियाकारी यथा मिध्या घटादिरिति ॥ २१ ॥ भारोद्वहनादिना देहेन्द्रियादेः श्रान्त्या आत्मा विश्रान्तो भवतीति तत्र दृष्टान्तमाह । स्थाल्या अग्निना तापात् तन्मध्यवर्त्तिनः पयसस्तापः । तस्य तापात् तण्डुलानां बहिर्भागस्य तापः ततस्तद्गर्भस्य रन्धिः पाको यथा तथैव देहादिभिः सन्निकर्षात् सम्बन्धात् तत्संसृतिस्तन्निमित्तकः संसारः पुरुषस्य भवति असवः प्राणाः आशयो मनः । अनुरोधादुपाधिधर्मानुवृत्तेः । यथा निदाघादिना देहे तप्ते इन्द्रियाणां तापः ततः प्राणस्य ततो मनस- स्तत आत्मन इति ॥ २२॥ यदुक्तं स्वस्वाम्यभावो भुव इति तत्राह शास्तेति । अथवत्वेऽपि यदा यो नृपतिः स प्रजानां शास्ता गोप्ता च भवत्येव ॥ यञ्चोक्तं स्तब्धादेः शिक्षा पिष्टपेष इति तत्राह । योऽच्युतस्य किङ्करो मद्विधः स पिष्टं न पिनष्टि यतस्तब्धत्वाद्यनपगमेऽपि शास्तुरीश्वरस्याज्ञासम्पादनेनैव फलवत्वात्तदाह । प्रजाशासनलक्षणं स्वधर्मरूपमच्युतस्याराधनं नृप ईहमानः कुर्वन् स्वस्याचौधं प्रत्यवायसमूहं जहाति ॥ २३॥ यस्मादेवं मम त्वदुक्तं विपरीतं विभाति तत्तस्मान्नरदेवोऽ- हमित्यभिमानिनो यो मदो विशंमन्यत्वादिर्मिध्यागर्वस्तेन तुच्छीकृता इमे किं जनिन्तीत्यनादृताः सप्तमाः भवादृशा येन तस्य मे मैत्री- दृशं दुर्जीवोऽयं नरकेऽपि पतिष्यतीति विभाव्य स्नेहमुक्तां दृष्टिं कृषीष्ट करोतु यथा सतामवज्ञारूपमंहस्तरिष्यामि ॥ २४ ॥ त्वत्कृतेन तिरस्कारेणास्मादृशां दुःखं नोत्पद्यते कुतस्तवाधस्तत्राह नेति । तवापि तब यद्यपीत्यर्थः । तदपि माहरू विनश्यति शूलपाणिसशोऽपि यदुक्तं ‘सेयं महापुरुषपादपांशुभिर्निरस्ततेजाः खित्यादि ॥ २५ ॥* ॥ ॥ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १० ॥ RENT SIER HIS BESTEZINSED FEIESPIESSE ESSI BIEN RIESIES FOR श्रीमच्छुकदेवकृत सिद्धान्तप्रद F F Sp ककारीइत्थं तत्स्वरूपं पृष्ट्वाथ यदुक्तं मम ब्रह्मात्मकत्वानुसन्धानवतः श्रमो नास्तीति तत्राह दृष्ट इति । कर्मतः श्रमः सामान्यतः सर्वेषां दृष्टः, अतः ब्रह्मात्मकत्वानुसन्धानवतोऽपि भर्तुर्वोदुः गन्तुर्भवतत्र भवतोऽपि अनुमन्ये, यदुक्तं विशेषबुद्धेर्विवरं व्यवहारतोऽन्यं न पश्यामीति तत्राह यथेति । व्यवहारमार्गः नरदेवः नराविस्खस्वामिभावरूपः समूल इ४: महामूल इत्यर्थः । अतो यथा यथावदेव ब्रह्मविचारवदादरणीय इत्यर्थः, व्यवहारस्य निर्मूलत्वं तु न सम्भवतीति हेतुना साधयति । असता निर्मूलेन घटादिना उदानयनाद्य- भावादिति ।। २१ ।। * * यशोकं स्थौल्यादयः देहात्समानिनः सन्ति न त्वात्मविद इति तत्राह स्थालीति । स्थाल्या अग्निना तप्तायास्तद्गतस्य क्षीरस्य तापस्तत्तापतस्तण्डुलगर्भस्य रन्धिः विलित्तिः, एवं देहादिभिः सन्निकर्षात्संबन्धात् अनुरोधात्खखकर्मानुसेधात तत्तस्य देहादिसंसर्गिणः अज्ञस्य ज्ञानिनश्च पुरुषस्य संसृतिः सुखदुःखाद्यनुभूतिर्भवति । असवः प्राणाः आशयोऽन्तः- करणम् ।। २२ ।। * * यदप्युक्तमसौ विधिकृत्ययोगः अध्रुव इति तन्नाह । अध्रुवत्वेऽपि यदा यो नृपत्तिः स प्रजानां शाखा गोप्ता च भवत्येव । यदुक्तं स्तब्धादेः शिक्षा पिष्टपेष इति तत्र स्तब्धादयो राज्ञा धृतदण्डाः स्वर्गं यान्ति राजा च निष्पापो भवतीत्याह । योऽच्युतस्य किङ्करः यथायथं प्रजाशासनेन आज्ञापालकः पिष्टं न पिनष्टि किन्तु प्रजाः शोधयति स्वयं च प्रजाश्शासनाख्यस्वधर्मरूप- मच्युतस्याराधनमीहमानोऽघौघं विजहाति ॥ २३ ॥ * * योगशास्त्रे राजशास्त्रे च स्वकौशलं प्रदर्थ्यापराधनिवृत्यर्थं प्रार्थयते तदिति । तत्तस्यासमीक्ष्यकारिणो मे नरदेवमदेन तुच्छीकृतः सत्तमो येन तस्य मैत्रीदृशं स्नेहदृष्टि : कृषीष्ट करोतु यथा सदवध्यानमंहः महदवज्ञारूपं पापं तरे तरिष्यामि ॥ २४ ॥ * * * विश्वस्य सुहृचासौ सखा च स तथा तस्य साम्येन सर्वत्र मह्मात्मकत्वातु- सन्धानेन बीता अभिमविरुत्तमत्वाभिमानो यस्य तस्य तब यद्यपि विक्रिया नास्ति, तथापि महतां विमानादवमानात नाटक नव्क्ष्यति अदूरात् क्षिप्रं शूलपाणिरिव प्रबलोऽपीत्यर्थः ॥ २५ ॥ tra For this Shi इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमन्तुकद बढ़तसिद्धान्तमदीपे वशमाध्यायार्थप्रकाशः गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी मम तु ज्ञानाद्यतिशयेन स एव भवानिति प्रतिभातीत्याह स वा इति । अपिरिचत् किश्वित् स कपिल एवं अव्यक्त- लिङ्गोऽलक्षितस्वरूपः सन् भवान् विचरति । ईश्वरस्यैवं स्वरूपाच्छादनेन विचरणे किं प्रयोजनं तत्राह- लोकेति लोकवृत्तान्त- निरीक्षण विमान निरीक्षणार्थमेव विचरणं सम्भवतीत्यर्थः । ननु त्वमेव वितर्केण जानीयाः कोऽहमिति चेत्तत्राह - योगेश्वराणामिति । अलौकिक- वाक्यश्रवणेनायं कश्चित्सिद्ध इति सामान्यतो ज्ञाने जातेऽपि कथन विना योगेश्वराणां युष्माकं गतिममुकोऽयमीदृक्प्रभाव इति तत्त्वं • अन्धा विवेकशून्या बुद्धिर्यस्य स माटक कथं विचक्षीत पश्येत् ? । बुद्धेरन्धत्वे हेतुमाह-गृहानुषन्ध इति, गृहे गृहत्वोपलक्षिते लौकिके व्यापारेऽनुबन्धोऽभिनिवेशो यस्य सः ॥ २१॥ ४ ४ एवं तत्स्वरूपं पृष्ट्वा तन्मुखात्सिद्धान्तनिश्चयार्थः तदुत्तराण्या- क्षिपति त्रिभिः, तत्र यदुक्तं मम श्रमो नास्तीति तत्राह दृष्ट इति । आत्मनो मम युद्धादिकर्मतः श्रमो दृष्टः वे अतो मत्तु भरि- बोदुर्गन्तुर्भवतश्च श्रममनुमन्येऽनुमिमे । तथाहि भवान् भारवाहनादिना श्रान्तः कर्तु बाद, यः कर्त्ता । स श्राम्यति यथाऽहं । कर्तृवात् यः ॥ १० श्लो. २१-२५ ] ४ अनेकल्याल्या समलङ्कृतम् રા युद्धादिकर्त्तेति । ननु देहादावात्साध्यास लक्षणस्य सम्बन्धस्य सत्त्वात्तव भवतु श्रमादि, मम तु तत्राध्यासाभावात्कथं स्यादत एवं तदुक्तं पूर्व श्रमादयो ये न सन्तीति । तथा च देहायभ्यासलक्षणोपाधिना सोपाधिकमेव तवानुमानमित्याशङ्कय स्यादेवं यदि देहादेतत्सम्बन्धस्याध्यासिकत्वेन ज्ञाननिवर्त्यत्वं सम्भवेत् । तदेव तु न सम्भवतीत्यभिप्रेत्य अनुमाने तस्य यथार्थत्वं साधयति यथेति । देहादावहम्ममेति व्यवहारमार्गः समूलः इष्टः यथार्थ सम्बन्धपूर्वक इष्टः सुखदुःखादिलक्षणार्थक्रियाकारित्वात् । यत्रार्थक्रिया- कारित्वं तत्र यथार्थवस्तुपूर्वकत्वं यथा कीतघटादेः । अत्र यथार्थवस्तुपूर्वकत्वं नास्ति तत्रार्थक्रियाकारित्वमपि नास्ति स्वप्नदृष्ट- घटादिना यथावद्वयवहारोपयोग्युदकामयनाद्यभावादिति ।। २२ ।। * * एवं देहाद्यात्मसम्बन्धस्य यथार्थत्वे सिद्धे ज्ञानेन तन्निरासस्यासम्भवात्तवापि श्रमादेरवश्यम्भावित्वमेवेति सदृष्टान्तमाह-स्थालीति । स्थाल्या अभिना तापात्तन्मध्यवर्तिनः पयसः क्षीरस्याभितापः, तत्तापतस्तण्डुलानां बहिर्भागस्य तापः, तद्गर्भगतस्य रन्धिः पाको यथा भवति तथा देहादिभिः सन्निकर्षात्सम्बन्धात् तत्तु तन्निमित्ताद्देहादिगतापि संसृतिः श्रमादिदुःखसन्ततिः पुरुषस्यात्मनस्तव वा समः वाऽन्यस्य वा सर्वस्यापि स्यादेव | अनुरोधात् स्थायादितापक्रमेण दृष्टान्तानुसारादित्यर्थः । तथाहि पूर्व शिविकादिभारेण देहस्य अमस्ततस्तत्सम्बन्धिनीनामिन्द्रियाणां ततोऽसूनां प्राणानां तत आशयस्यान्तःकरणस्य ततो जीवस्येति क्रमेणेति ॥ २३ ॥ यथोक्तं प्रमत्तस्य मम शिक्षा पिष्टपेष इति तत्राह शास्तति । यो ऽच्युतस्य किङ्करः आज्ञानुवर्ती नृपतिः प्रजानामुत्पथगानी शास्ता सन्मार्गस्थानी गोप्ता च भवति स पिष्टं न पिनष्टि विफल नैव करोति, यद्यतः प्रमत्तस्य स्तब्धत्वाद्यनपगमेऽपि श्रेयः प्रजापालनमेव राज्ञ इत्यादिभगवदाज्ञानुसारेण प्रजा- पालनादि स्वधर्माचरणमेव अच्युतस्याराधनमीहमानः कुर्वनृपतिरघौघं दोषसमूहं जहाति ततो विमुच्यते इत्यर्थः ॥ २४ ॥ * * एवं स्वाभिप्रायं निरूप्य तदनुग्रहं प्रार्थयते तन्म इति । यस्मात्त्वदुक्तं मम सर्वं विपरीतं प्रतिभाति तत् तस्मात् नरदेवोऽहमि- त्यभिमानेन यो मदस्तेन तुच्छीकृतास्तिरस्कृताः सत्तमाः भवादृशाः येन तस्यात्यन्तापराधिनोऽपि मम भवान मैत्रीदृशं दृष्टिं कृषीष्ट करोतु, यथा सतां भवतामवध्यानमवज्ञानरूपमहः पापमहं तरे तरिष्यामीत्यन्वयः । निरूपमहः पापमहं तरे तरिष्यामीत्यन्वयः । हे आर्तबन्ध इति सम्बोधनेनार्ते मयि नवानुग्रह एव युक्त इत्युपदेशप्रार्थनां सूचयति ॥ २५ ॥ * ननु ममावज्ञाकृतविकाराभावात् किमित्येव पश्चात्तापं करोमीत्याशङ्कयाह- हिनेति । यद्यपि तव ममापमानकृता विक्रिया नास्ति तथापि स्वकृतान्महतां विमानात् माटगपमान कर्त्ता शूलपाणी रुद्र इवातिसमर्थोऽप्यदूरात् क्षिप्रमेव विनङ्गपतीत्यन्वयः । विक्रियाभावे हेतुमाह– विश्वस्य सुहवासी सखा च तस्य । अत एव सर्वत्र साम्बेन स्वदेहेऽपि वीताभिमतेः गताभिमानस्येति ॥ २६ IDIS FREE INSIe by dhe i TP. MR PHIS Tags frrie को fape HP P क इति श्रीवल्लभाचार्यवंश्यगोपालस्तुना । श्रीमन्मुकुन्द्रायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र योगेन स्थितिरूपणे। दशमी विवृतोऽभ्यायो नतिप्रश्ननिरूपकः ॥ ३ PTC 48 11 8 11 ETE Same name IF BF BF श्रीभगवत्प्रसादाचार्यविरचिता भक्कमनोरञ्जनी BEREICH TIPS FISIESE WERE FE FIPPE PPPPINE a Prepare fo ॥ एवं तत्स्वरूपं पृष्ट्वा तदुक्तोत्तराण्याक्षिपति । तत्र यदुक्तं मम श्रमो नास्तीति तत्राह दृष्ट इति । वस्तुतो देहादन्यव्वेऽपि, देहयोगादिति शेषः । आत्मनः मम, क्रियाश्रयतः, युद्धादिकर्मसंश्रयणादित्यर्थः । श्रमः दृष्टः, अतो मम दृष्टान्तेनेति शेषः । भर्तुर्भारस्य वोदुः, गन्तुरध्वनि प्रयातुः, भवतश्चापि श्रमं अनुमन्ये अनुमिये है। अनुमानं चैवम् । भवता श्रान्तेन भवितव्यम् । भर्तृ- त्वाद्गन्तृत्वाच्च । यथा युद्धादिकर्त्ताहमित्यनुमिनोमीत्यर्थः । यद्वा भवान् भारवाहनादिना श्रान्त इति प्रतिज्ञा । कर्तृत्वादिति हेतुः । अतः यः कर्त्ता स श्राम्यति यथाहं युद्धादिकर्त्ता इति । नन्विदं व्यवहारमात्रं न तु सत्यमित्यत्राह । असता घटादिना, उद उदकस्य आनयनमाहरणमादिर्यस्य तस्याभावस्तस्मात् असद्रूपेण घटादिनोदकाहरणादेरभावदर्शनात्, सता तेन तदनुदर्शनाश्चेत्यर्थः । व्यवहारमार्गः प्रपञ्चः समूलः प्रमाणमूलक एव दृष्टः । यथा यथावच मतः । अत्रैवं प्रयोगः प्रपञ्चः सत्यः । अर्थक्रियाकारित्वात् । यः पुनरसत्यः नासावर्थक्रियाकारी, यथा शुक्तिरजतादिरिति प्रतिज्ञाहेतूदाहरणानि ॥ २१ ॥ * यदुक्तमुपाधिधर्माः स्थौल्यादयो में वस्तुतः न सन्ति एवं सति आत्मनः स्वतो दुःखाद्यभावेऽपि देहसंसर्गात् संभवन्तीत्यभिप्रायेणाह । स्थास्यग्नि- तापात् स्थाल्यादिगतादग्नितापादित्यर्थः । पयसः स्थालिमध्यवर्त्तिनः शिशिरस्यापि दुग्धस्य, अभितापः तत्तापतो दुग्धगतपरितापतः, तण्डुलगर्भरन्धिः, आदौ तण्डुलानां बहिर्भागस्य ततस्तद्दर्भस्य च रन्धिः पाकः साद्यन्ततण्डुलविलित्तिर्भवति । न चात्र किंचिन्मिथ्या । तत्तस्मात् एवंविधदृष्टान्तसमीक्षणाद्धेतोः, देहः शरीरं च इन्द्रियाणि च असवः प्राणाश्च आशयोऽन्तःकरणं च तेषां संनिकर्षः संबन्धस्तस्मात् संबन्धं प्राप्य वर्तमानस्येत्यर्थः । पुरुषस्य अनुरोधात्तेषां संयोगसंबन्धात्, तन्निमित्ता संसृतिः भवति । देहादिसंसर्ग प्राप्य तदनुरोधवतः पुरुषस्य संसृतिभ्रमणं भवतीति भावः । एवं च निदाघादिना देहे तप्ते, इन्द्रियाणां तापस्ततः प्राणस्य, ततो मनसस्तत आत्मन इत्येवमुपाधिधर्माणामुपहिते वर्त्तमानत्वं सत्यमेव ॥ २२ ॥ * * यदुक्तं स्वस्वाम्यभावोऽध्रुव इत्यत्राह शास्तेति । नृपतिः यावत् कर्मवशादहं राजा, तावत् प्रजानां उत्पथवर्त्तिलोकानां, शास्ता अभिगोप्ता, सन्मार्गवर्त्तिनीनां तासा- मभिरक्षकः अस्मि । अतो यावदहं राजा तावत्स्वस्वामिता ध्रुवैवेति भावः । स्तब्धप्रमत्तस्य च पिष्टपेष इति यदुक्तं तत्राह - किंकरः भगवदुपदिष्टधर्मपालनकरस्तद्दासः यः सः, पिष्टं न पिनष्टि वै । ननु पूर्वमेव व्यसनातुरं दण्डयन् पिष्टपेषणमेव करोषीत्यत्राह । । २२३ श्रीमद्भागवतम् [ स्कं. ५ अ.. १०. श्लो. २१-२५ यद्यतः, अच्युतस्य, आराधनं, स्वधर्मम् इहमाना आचरन्नृपः, अघौध विजहाति । स्ववर्णाश्रमधर्मपालन पूर्व भगवदादिष्ट- प्रजाशासनरक्षणप्रसक्तत्वात्तत्किंकरो नृपः निग्रहानुग्रहादिकं तत्तद्योग्येषु कुर्वाणः पिष्टं न पिनष्टि, प्रत्युत तथा विधानस्य भगवत्प्रस- सन्नताहेतुत्वात्स्वाघौघमेव जहातीति भावः ॥ २३ ॥ तन्मे भवानिति । हे आर्त्तबन्धो, यस्मादेव मम त्वदुक्तं सर्वं विपरीतवत्प्रतिभाति, ततस्मात्, नरदेवाभिमानमदेन, तुच्छीकृताः सन्तमा येन तस्य, अनादृतसज्जनस्येत्यर्थः । मे मम, भवान् मैत्रीदृशं स्नेहयुक्तां दृष्टिमित्यर्थः । कृषीष्ट करोतु, यया दृशी, सदवद्वयानं सतामवज्ञारूप, अंहः पातकं तरे तरिष्यामि ॥ २४ ॥ * * ननु ममावज्ञाकृतविकाराभावात्कुतस्तव पापं तत्राह न विक्रियेति । विश्वसुहृत्परमेश्वरः स सखा यस्य । स तस्य, द्वासुपर्णा सयुजा सखायौ’ इति श्रुतेः । साम्येन सर्वस्य ब्रह्मात्मकत्वभावेन, वीता निरस्ता अभिमतिर्देहात्माभिमतिः स्वतन्त्रवस्त्वभिमतिश्च यस्य तस्य, तव अपि भवतस्तु यद्यपि मत्कृतादवज्ञानाद्विकारो नास्ति, तथापीति शेषः । स्वकृतात्स्वेन विहितात्, महद्विमानात्, मादृक् मत्सदृशो जन्तुस्तु, शूलपाणिरपि शिवसमानोऽतिसमर्थः सन्नपि, अदूरात् हि क्षिप्रमेव, नक्ष्यति स्थावरतामेष्यति । स्थावरत्व प्राप्तिरेव हि जीवस्य विनाशा नाम तत्र नितरां चैतन्यानभिव्यक्तः ।। २५ ।। pe To E इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसुद्भगवत्प्रसादाचार्य र्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे दशमोऽध्यायः ॥ १० ॥ Sorget b DO BURSIN भाषानुवादः मैंने युद्धादि कर्मोंमें अपनेको श्रम होते देखा है, इसलिये मेरा अनुमान है कि बोझा ढोने और मार्ग में चलने से आपको 1 भी अवश्य ही श्रम होता होगा। मुझे तो व्यवहार-मार्ग भी सत्य ही जान पड़ता है; क्योंकि मिध्या घड़ेसे जल लाना आदि कार्य नहीं होता है ॥ २१ ॥ * * ( देहादिके धर्मोका आत्मापर कोई प्रभाव ही नहीं होता ऐसी बात भी नहीं है ) चूल्हेपर रक्खी हुई बटलोई जब अग्निसे तपने लगती है, तब उसका जल भी खौलने लगता है और फिर उस जलसे चावलका भीतरी भाग भी रूपक जाता है। इसी प्रकार अपनी उपाधिके धर्मोका अनुवर्तन करनेके कारण देह, इन्द्रिय, प्राण और मनकी सन्निधिसे आत्माको भी उनके धर्म श्रमादिका अनुभव होता ही है ।। २२ ॥ * आपने, जो दण्डादिकी व्यर्थता बताई, सो राजा तो प्रजाका शासन और पालन करनेके लिये नियुक्त किया हुआ उसका दास ही है। उसका उन्मत्तादिको दण्ड देना पिसे हुएको पीसने के समान व्यर्थ नहीं हो सकता; क्योंकि अपने धर्मका आचरण करना भगवान्की सेवा ही है। उसे करनेवाला व्यक्ति अपनी सम्पूर्ण पापराशिको नष्ट कर देता है || २३ ॥ * दीनबन्धो ! राजतन्त्वके अभिमानसे उन्मन्त होकर मैंने आप-जैसे परम साधुकी अवज्ञा की है । अब आप ऐसी कृपादृष्टि कीजिये, जिससे इस साधु-अवज्ञारूप अपराधसे मैं मुक्त हो जाऊँ ॥ २४ ॥ * आप देहाभिमान शून्य और विश्वबन्धु श्रीहरिके अनन्य भक्त हैं, इसलिये सबमें समान दृष्टि होनेसे इस मानापमान के कारण आपमें कोई विकार नहीं हो सकता तथापि एक महापुरुषका अपमान करनेके कारण मेरे जैसा पुरुष साक्षात् त्रिशूलपाणि महादेवजीके समान प्रभावशाली होनेपर भी, अपने अपराधसे अवश्य थोड़े ही कालमें नष्ट हो जायगा ।। २५ ।। IF 1 FEE इति दशमोऽध्यायः ॥ १० ॥ meethirte De 1 MESSE ETION digeste mode नमक को recipes Par SIE For TE पिकाकी 15 airpo krise of FORTAFFEFUSE REBBE FIBER TESTBEDRIS 15 bite foreign wor 15 FE SSPERIMPPUPELNY DEFI-WEE PUP BI Ffs) = PHRESH 181H PIECE TATIME SEIF TETS GEPTE TÄIS आगोगकोpi Fes mms क अथैकादशोऽध्यायः की िए १२ के F का jio si सह न आमनति ॥ १ ॥ * तथव ब्राह्मण उवाच अकोविदः कोविदवादवादान् बदस्यथो नाति विदां वरिष्ठः । सूरयो हि व्यवहारमेनं । तचामर्थेन सहामनन्ति ॥ १॥ राजन्तुरुगाई मेधवितानविद्योरुविजम्भितेषु न वेदवादेषु हि तववादः प्रायेण शुद्धो नु चकास्ति साधुः ॥ २ ॥ तस्य तत्रग्रहणाय साक्षीद, वरीयसीरपि वाचः समासन खप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥ ३ ॥ यावन्मनो रजसा पूरुषस्य सवेन वा तमसा बानुरुद्धम् । चेतोभिराकृतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा ॥ ४ ॥ स वासनात्मा विषयोपरतो गुणप्रवाहो विकृतः षोडशात्मा विभ्रत्पृथङ्नाममि रूपमेदमन्तर्बहिषं च पुरैस्तनोति ॥ ५ ॥ ॥ दुःखं सुखं व्यतिरिक्त च तीव्रं कालोपपन फलमाव्यनक्ति आलिङ्गय मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः ॥ ६ ॥ तावानयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति तस्मान्मनो लिङ्गमदो वदन्ति वदन्ति गुणागुणत्वं स्य स्थूलसूक्ष्मः । ४॥ केप्री परावरस्य ।। ७ ॥ गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात् । यथा प्रदीपो घृतवर्तिमश्वन् शिखाः सधूमा मजति धन्यदा खम् । पद तथा गुणकर्मानुषद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ६ ॥ in * TREN TRIESTE 28003 अन्वयः - अकोविदः कोविदवादवादान् वदसि अथो अतिविदाम् वरिष्ठः न हि सूरयः एनम् व्यवहारम् तत्वावमर्शेन हि राजन् तथा एवं उरुगाईमेधवितानविद्यारुविजृ भितेषु वेदवादेषु शुद्धः साधुः तत्त्ववादः तु प्रायेण न चकास्ति ॥ २ ॥ * * यस्य स्वयम् गृहमेधिसौख्यम् स्वप्ने निरुक्त्या हेयानुमितम् न स्यात् तस्य साक्षात् वरीयसीः वाचः अपि तत्त्वग्रहणाय समासन् ॥ ३ ॥ * पुरुषस्य मनः यावत् रजसा वा तमसा वा सत्त्वेन अनुरुद्धम् निरंकुशम् चेतोभिः च आकूतिभिः कुशलम् वा इतरम् आतनोति ॥ ४ ॥ * * सः च वासनात्मा विषयोपरक्तः गुणप्रवाहः विकृतः षोडशात्मा पृथङ्नामभिः रूपभेदम् बिभ्रत् पुरैः अंतर्बहिष्ट्वम् तनोति ॥ ५ ॥ संसृतिचक्रकूटः मायारचितांत- ५॥ रात्मा स्वदेहिनम् आलिंग्य दुःखम् सुखम् च व्यतिरिक्तम् तीव्रम् कालोपपन्नम् फलम् आव्यनक्ति ।। ६ ।। * * तावान् स्थूलसूक्ष्मः आविः अयम् व्यवहारः सदा क्षेत्रज्ञसाक्ष्यः भवति तस्मात् अदः मनः परावरस्य गुणागुणत्वस्य लिंगम् वदंति ।। ७ ।। * * अथो गुणानुरक्तम् मनः जंतोः व्यसनाय नैर्गुण्यम् क्षेमाय स्यात् यथा प्रदीपः घृतवर्तिम् अनन् अधूमाः शिखाः भजति अन्यदा हि स्वम् पदम् तथा गुणकर्मानुबद्धम् मनः वृत्तीः श्रयते अन्यत्र तत्त्वम् ॥ ८ ॥ ११. प्रा०पा० * नात्मविदां वरिष्ठः । २. प्रा० पा०व्यवहारमेतं । १. प्रा० पा० गरीयसीरपि । ४. प्रा० पा०व्यवहारो यः सदाशिव १५. प्रा० पा० गुणागुणत्वञ्च । ६. प्रा० पा० - भजति अन्यथा । १. प्रा० पा०क्रममूर्तिर्मन के २२४ श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका [ स्कं. ५ अ. ११ श्लो. १-८ एकादशेऽथ संपृष्टो रहूगणमहीभृता । उपादिशत्परं ज्ञानं स योगीति निगद्यते ॥ १ ॥ * अकोविदोऽविद्वानपि त्वं कोविदानां वादा उद्ग्रहणकायास्वादानेव वदसि । अथो अतः अत्यंत विदुषां मध्ये श्रेष्ठो न भवसि । कुतः । हि यस्मात् यं स्वामिभृत्यादिलौकिकव्यवहार ‘त्वं सत्यमात्थ । एनं सूरयस्तत्त्वविचारेण सह न वदंति किं त्वविचारसुन्दरं वदंति अतो न सत्यः ॥ १ ॥ * वैदिकोऽपि कर्मव्यवहारो न सत्य इत्याह तथैवेति । उरवो गार्हा गृहसंबंधिनो मेधा यज्ञास्तेषां वितानो विस्तारस्तद्विषयासु विद्यासु उरु अधिक विजूभितेषु विलसितेषु तत्त्ववादो नु निश्चितं न चकास्ति न प्रकाशते । तथा च श्रुतिः ‘नेह नानाऽस्ति किंचन’ इत्यादि । शुद्धो हिंसादिशून्यः साधू रागादिशून्यश्च । प्रायेणेतीश्वरार्पितकर्मणां परमार्थफलत्वाभिप्रायेणोक्तम् ||२ निनु श्रुतस्यापि पुंसः कर्मसु त्रिवृत्तेः कथमसत्यता तत्राह नेति । साक्षाद्यथा- वत्तत्त्वज्ञानाय वरीयस्योऽपि वेदांतचचित्तस्य न सम्यगासन्यभूवुः । सप्ते या निरुक्तितया स्वप्नदृष्टांतेन दृश्यत्वादिहेतुना स्वयमेव हेयत्वेनानुमितं यस्य न स्यात् ॥ ३ ॥ * * एवं प्रपंचस्य सत्यत्वं तदुक्तं निराकृत्य संसारस्यापि तदुकां सत्यतां निराकर्तुं तस्य मनो- निमित्ततामाह यावदित्यादिना यावत्समाप्ति। मनो यावद्रजआदिभिर्गुणैरनुरुद्धं वशीकृतं भवति तावत्तन्मनो निरंकुशं सत्पुरुषस्य वा कुशलं धर्ममितरमधर्म वा आतनोति । कः । चेतोभिज्ञनिद्रियैः आकृतिभिः कर्मेन्द्रियैश्च ॥ ४ ॥ * ततश्च धर्माधर्म- वासनायुक्तं तदेवानेकदेहादिवैचित्र्यं करोतीत्याह स इति । पुरत्वमात्मशब्दविशेषणत्वेन तन्मन इत्यर्थः । वासनायुक्तं आत्मोपा- धित्वादात्मा । अतो विषयै रुप रक्तोऽनुविद्धं अतो गुणप्रवाहो गुणैरितस्ततःञ्चाल्यमानः । अत एव विकृतः कामादिपरिणामवान् । षडशात्मा षोडशकलासु भूतेंद्रियरूपासु मुख्यः । पृथङ्नामभिः सह पृथमुपभेदं देवतिर्यगादिरूपं बिभ्रत् । अंतर्बहिष्वमुत्कृष्टत्वं निकृष्टत्वं च पुरैस्तैरेव देहेहेतुभूतैस्तनोति । नामभिरित्यत्र रेफलोपे दीर्घाभाव आर्षः ॥ ५ ॥ फलं च तदनुरूपं करोतीत्याह दुःखं सुखं व्यतिरिक्तं च मोह तीव्रं दुर्निवार कालप्राप्तं सर्वतोऽभिव्यनक्ति सृजति । ननु जडः कथं सृजति तत्राह । स्वदेहि- नमालिंग्य | आलिंगने कारणमाह । मायारचितोऽन्तरात्मा जीवोपाधिः । उपाधितामाह । संसृतिचक्रे कूटयति छलयतीति तथा यथा ग्रामकूटक इति ॥ ६ ॥ विसर्य मनोनिबंधनः संसारो जीवे फलतीत्याह तावानिति । आविः प्रकाशमानः सदा क्षेत्रज्ञस्य साक्ष्यो दृश्यो भवति । स्थूलसूक्ष्मो जामत्स्वप्नस्खरूपः । मनसः संसारहेतुत्वमुपसंहरन्मोक्षस्यापि तदेव कारणमित्याह । तस्मादिति । अदो मनः लिंग कारणम् । गुणत्वं गुणाभिमानित्वमगुणत्वं तद्राहित्यं तदेव परमवरं च तस्य ॥ ७ ॥ * * कथमेकमेव विलक्षणयोः कारणमवस्थाभेदादित्याह गुणेति । नैर्गुण्यं निर्गुणम् । अथो इति कात्स्न्येन दृष्टांतेन स्फुटयति यथेति । अन्यदा तु घृतक्षये । स्वं पदं शुभास्वर रूप महाभूतात्मत्वं वा । अन्यत्रान्यदा ।
- । ॥० ॥ णा 1 का म श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ह । अथ रहूगणप्रार्थनोत्तरम् । परं संसृतिवारकम् (१)। उद्महणिका उदाहरणानि छठानिजपक्षसाधनवाक्यानि वा । व्यवहारं व्यावहारिकं वस्तु च तत्त्वविचारेण सम्यग्विचारेण तत्त्ववस्तुनां च नामनंवि दृष्टान्तादिना च नाभ्यस्यति । तयोः परस्पराति- वैधर्म्यात् । तथा हि स्थालीता पात्पयस स्तापस्तत्तापा त्तण्डुलताप इति तंडुलस्य जडस्य स्थास्यादिभिर्जडैर्वह्निनापि जडेन यथा संसर्गस्तथा देहेंद्रियादिभिर्जडैर्मुक्तजीवस्य चिद्वस्तुनः संसर्गादेव देहादिश्रमैर्न श्रमः सिध्यति बद्धजीवस्य तु जडदेहाभ्यासाज्जडत्वेन तैर्भवत्येव श्रम इति बद्धजीवेयुष्माभिमुक्तजीवानामस्माकं सादृश्यासंभवादनुमानं न घटत इति ॥ १ ॥ * * * ननु मीमांसकाः कर्मफलात्स्वर्गसुखादतिरिक्त पुरुषार्थं न मन्यंत इत्यतः किं तत्त्ववादेनेति चेत्सत्यं, तेष्वज्ञेष्वनधिकारिषु तत्त्वोपदेशो नैव समुचितः । तथैवेति । यथैव भवद्विधानां दृष्टफलेषु व्यवहारकर्मसु तथैवादृष्टफलेषु वेदवादेषु तत्त्ववादः परब्रह्मस्वरूपविषयज्ञानसिद्धांतो न चकास्ति । अत्र प्रमाणमाह तथा चेति । इह ब्रह्मणि । किं च “नापि नाना-नानात्वं नास्ति” इति श्रुत्या ब्रह्मणि नानात्वनिषेधेन शुद्धत्वं प्रतिपादितं तच वेदवादेषु नास्ति । “स्वर्गकामो यजेत” इत्यादिकर्मप्रतिपादकानां “ब्रह्मविदाप्नोति परम्” इत्यादिब्रह्मज्ञानप्रति- पादकानां च यथैकवाक्यत्वं तथा न प्रकाशते इत्यर्थः । किं च शुद्धो हिंसाशून्योपि न प्रतीयते “अग्नीषोमीयं पशुमालभेत” इति श्रुतेः । यद्यपि “या वेदविहिता हिंसा न सा हिंसेति कीर्त्यते” इत्युक्तेर्विधिविद्दितालंभनस्य हिसात्वं नास्ति, तथापि प्राणवियोगा- नुकूलव्यापारस्यैव हिंसात्वेन तत्रापि सास्त्येवेति । “रागादिशून्यश्च न श्येनेनाभिचरन्यजेत” इति श्रुतेद्वेषस्य प्रतिपादितत्वान्न हि द्वेषं विनाभिचारे प्रवृत्तिः । किञ्च “पुत्रकामः प्राजापत्या यजेत” इति श्रुते रागस्यापि प्रतिपादितत्वाच रागं बिना पुत्रेष्टपादावप्रवृत्तेर्दर्श- नाच रागद्वेषयोरनित्यत्वेन तत्कृतकर्मणां सुतरामसत्यत्वम् ॥ २ ॥ ॐ ॐ अत्राक्षिपति नन्विति । स्वप्ने भोगानां स्वल्पकाल- मात्रस्थायित्वं स्वप्नस्य स्वतो विनाशित्वं मिध्यात्वं चेति या निरुक्तिः कथनं तया स्वप्नदृष्टांतेनेत्यर्थः । सुकर्मणां नश्वरमसार्वकालिकं क्षुद्रं वैषयिकमेव सुखं तथा वैषयिकेण सुखेनात्मनो वस्तुतः संबंधाभावात् तत्सुखमात्मनः शशस्यै ‘गमिव मिध्याभूतं च ज्ञानिनां न नश्वरं सार्वकालिकं महद्ब्रह्मसुखमिति । यवान्तरमित्यत एवैव युक्तिरज्ञस्य तत्त्वग्रहण इति ज्ञेयम् ॥ ३ ॥ 88 नन्वेवं सद्भिः A स्कं. ५. अ. ११ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् २२५ प्रबोधिताः सर्वे जनाः प्रायो वैषयिकसुख एव प्रवर्त्तमानाः कथं दृश्यते तत्राह निरंकुशं मत्तमतंगजोपमं गुणमयं मन एव बलाद्विवे- कादिकमपि निगीर्य पुण्यपापकर्मणोः प्रवर्त्तयति पुरुषस्य को दोष इति भावः ॥ ४ ॥ * * इत्यर्थ इति । मनोवाचकत्वाद- श्रात्मपदस्येति भावः । अतो वासनायुक्तत्वात् । अतो विषयानुविद्धत्वात् । अत एव गुणैश्चात्यमानत्वादेव । आदिना नरादि- ग्रहः ॥ ५ ॥ * * * अत्राक्षिपति नन्विति । स्वदेहिनं जीवात्मानम् । माययाऽविद्यया । उपाधिश्च समीपे स्थित्वा स्वधर्मस्य तत्राधानं यः करोति स एवेति । तथा च मनोऽपि स्वधर्मान्संकल्पविकल्पादीन्निजतादात्म्याभ्यासेनात्मन्यादधातीति तस्योपाधित्वम् । । ग्रामस्थः कूटकः छद्मी ग्रामकूटकः स यथा ग्रामस्थानिजमायया वचयति तथा मनोप्यात्मानमिति भावः ॥ ६ ॥ अयं
-
- मनो निबंधनं कारणं यस्य स मनोनिबंधनः । गुणाभिमानित्वं संसारः तद्राहित्यं मोक्षः । विश्वनाथस्तु तौ संसारमोक्षौ कस्य स्याता- मित्यत आह-परावरस्य उत्कृष्टनिकृष्टजनस्य । पाठक्रमोत्र न विवक्षितः । निकृष्टस्य संसार उत्कृष्टस्य मोक्ष इत्याह ॥ ७ ॥ * व्यसनाय संसाराय । क्षेमाय मोक्षाय । अन्यत्र तुच्छीकृतविषयसंपर्कत्वे । तत्त्वमनारोपितं ब्रह्मस्वरूपं श्रयते भजति ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या एवं देहगतानां परिश्रमस्थौल्यादीनां सत्यानामेव देहात्मभ्रान्त्यात्मनि प्रतीयमानानामपि वस्तुत आत्मन्यभावे निराक्षेपे मयाभिहिते सत्ययं प्रपञ्चानित्यत्वं मिध्यात्वं मयाभिहितमिति भ्राम्यन् क्रियाकारित्वहेतुना घटादीनामिव तेषां सुखदुःखाद्यर्थ- क्रियाकारित्वेन सत्यतामुपपादयन्न कुशलः, असत्यत्वेऽभिहिते सत्यत्वोपपादनं युक्तिमदन्यथान्यत्र गतानामन्यत्र प्रतीतेर्भ्रमरूपत्वे कथिते तेषां सत्यत्वोपपादनवैयर्थ्यात् तथा देहसम्बन्धादात्मनि तेषां प्रतीतिर्न वस्तुनि इत्युक्तेः पुनर्देहादिसम्बन्धादात्मनि परि- श्रमादिप्रयुक्तसुखदुःखादिप्रतीतिरिति वदन्नयं न निपुणः, उक्तस्यैव पुनराक्षेपत्वेनोक्तः तथा जीवानां मिथः स्वस्वामिभावस्यौपाधि- कत्वे कथिते पुनस्तस्य स्वाभाविकत्वाभिमानेन स्वस्य दण्डनेतृत्वं साधयन्नयं न निपुण इत्यभिप्रयन्नाह अकोविद इति । विविक्ता- त्मपरमात्मयाथात्म्यज्ञानरहित एव त्वं कोविदवादवादान् कोविदवाक्यतुल्यानि वाक्यानि वेदस्यथोऽत्यन्तविदुषां मध्ये श्रेष्ठो न भवसि कुतः हि यस्मादेत व्यवहारं देहात्माभिमान स्वतन्त्रात्माभिमानप्रयुक्तं पीनत्वयुक्त्वदूरगन्तृत्वादिव्यवहारमात्मविषयं देहिनां परस्पर स्वस्वामिभावादिव्यवहारमन्यश्च सर्वं सूरयस्तत्त्वत्रययाथात्म्यविदः तत्त्वावमर्शेन तत्त्वविचारमूलकेन न समामनन्ति न सम्यग्वदन्ति न परमार्थत्वेन गृह्णन्तीत्यर्थः । सहामनन्तीति पाठे तत्त्वविचारेण सह न वदन्ति किन्त्वविचारितसुन्दरं वदन्ति । सूरयो न समामनन्ति इत्यनेन निरन्तरमध्यात्मशास्त्रपरिशीलनवतामात्मपरमात्मयाथात्म्यज्ञाननिष्ठानां अस्मिन्देहात्मभ्रान्त्यादिमूले व्यवहारेSपारमार्थ्यज्ञानं तद्विपरीतानां त्वस्मिन् पारमार्थ्याभिमानश्चेति १ ॥ * * तत्र तेषां तदभिमाने हेतु- तत्त्वत्रय स्वरूप स्वभावप्रतिपादकवेदान्तशास्त्रार्थापरिशीलनमेवेति वक्तुं ये पूर्वभागस्यातत्त्वावेदकत्वमाह तथैवेति । ..< तथाहि हे राजन्नुरवो बहवः गार्हमेधाः गृहमेधि सम्बन्धिनो वितानां यज्ञादिकर्मविस्तारास्तद्विषयविद्यया उरुभृशं विजृम्भितेषु विलसितेषु वेदवादेषु वेदरूपेषु उक्तेषु वेदपूर्वभागेषु तत्त्ववादः शुद्धो निर्णयात्मकः अत एव साधुः प्रायेण न चकास्ति न प्रकाशते । प्रायेणेत्यनेनेश्वराराधनत्वेन कर्म कुर्वतां रोचते एवेदमुक्तं देहातिरिक्तस्य फलभोक्तृत्वमात्रं ज्ञायते न तु स्वरूपं शोध्यते इत्यर्थः । यद्वा तत्त्वस्य वाद उक्तिर्यस्मिन् स तत्त्ववादः तत्त्ववादीत्यर्थः, एवं वेदवादेष्वित्यत्रापि वेदशब्दस्तत्पूर्वभागपरः पूर्वभागवत्तदर्थ- वादिषु उत्तरभागार्थवादी न सम्यक प्रकाशत इत्यर्थः, कर्मस्वेव रुचिमतो ज्ञाने रुचि नोत्पादयितुं शक्नुयादिति भावः ||२|| ** श्रुतवेदान्तस्याप्यविरक्तस्य न तैस्तत्त्वावबोध इत्याह नेति । स्वप्ने स्वाप्नपदार्थे निरुतथा व्याख्यानेन स्वप्नसुखस्याल्पा स्थिरत्वा- वगमेनान्यदपि गृहमेधिन ऐहिकामुष्मिक सुखं यस्य हेयत्वेनानुमितं न स्यात्तस्य सांसारिकदुःखविरक्तिविरहाद्वा तत्र संसक्तस्य साक्षाद्यथावत्तत्त्वज्ञानाय वरीयसीवरीयस्यः गरीयस्योऽपि वेदान्तवाचः सम्यङ्नासन् वेदान्तैर्न तत्त्वावबोध इत्यर्थः । स्वप्नदृष्टान्तेन गृहमेधिसौख्यस्य हेयत्वानुमानं तत्त्वानवबोधकारणं क्षुद्रसुखासक्तिमूलकमित्युक्तम् । अनेन गृहसौख्यस्य हेयत्वाध्यवसाये तत्त्व- ज्ञानोदय इति फलितम् ॥ ३ ॥ तत्र गुणत्रयोपरागेण कुशलाकुशलकर्मापादनद्वारोश्चावचदेहसम्बन्धमापादयन्मन एवाल्पास्थिरसुखा सक्तिजननद्वारा तत्त्वज्ञानप्रतिबन्धक संसृतिकारणं तदेव च गुणत्रया कलुषितं सब्ज्ञानजननद्वारा मुक्तिहेतुश्चेत्याह यावदिति सार्द्धंः पञ्चभिः । यावदस्य पुरुषस्य मनो रजआदिभिरनुबद्धम् उपरक्तं भवति तावन्निरङ्कुशं सत्तत्तद्गुणानुसारेण चेतो- भिर्ज्ञानेन्द्रियव्यापारैरा कृतिभिः कर्मेन्द्रियव्यापारैश्च हेतुभूतैरुभयेन्द्रियकर्मभिः पुण्यापुण्यरूपैः कुशलमुत्कृष्टमितरं निहीनं वा देह- मातनोति सम्पादयति ॥ ४ ॥ * * एतदेव प्रतिपादयति स इति । पुस्त्वमात्मशब्दविशेषणत्वेन तन्मन इत्यर्थः । स । वासनात्मा वासनाधीनस्वरूपः विषयोपरक्तः शब्दादिभिरुपरक्तः गुणैः सत्त्वादिभिः प्रवाहः प्रवृत्तिर्यस्य स गुणप्रवाहः पञ्चभूतैकाद- शेन्द्रियरूपषोडशद्रव्येष्वात्मा प्रधानः नामभिर्वाचकशब्दैः सह रूपभेदं देवमनुष्यत्वाद्यवयवसंस्थानरूपाकारभेदं बिभ्रदेवमनुष्य- त्वादिकमात्मनो बहिष्ठं चान्तर्गतं रागादिकं च वयुनैः सङ्कल्पविकल्पात्मकैज्ञनैस्तनोति आत्मानं देवोऽहं मनुष्योऽहमिच्छामि द्वेष्मीत्येवंरूपबुद्धिभिश्चोपाध्याकारयुक्तं करोतीत्यर्थः । यद्वा वयुनैः सङ्कल्पविकल्पात्मवृत्तिभेदेः रूपभेदमनेकरूपतां बिभ्रत्सवा- सनात्मान्तर्गतरागादिकं बहिर्गतदेवादिरूपं नामभिः सह तनोति । अत्र पुरैस्तनोतीत्यपि पाठो दृश्यते, तदायमर्थः पुरुषस्य मनो यावद्रजआदिभिरनुविद्धं सन्निरङ्कुशं यथा भवति तथा ज्ञानकर्मोभयेन्द्रियैर्गुणानुसारेण पुण्यापुण्यरूपव्यापारमापादयति तावदयं २२६ श्रीमद्भागवतम् । [ एक. ५ अ. ११ लो. १-८ स्वतोऽविकृतोऽपि पुरुषः सवासनांधीनस्वरूपान्तःकरणयुक्तः अत एव वासनावशाद्विषयैरुपरक्तः विषयासक्तः गुणप्रवाहः गुणैः अतएव प्रवाहः प्रवृत्तिर्यस्य गुणानुरूपप्रवृत्तिमान् ततः पञ्चभूतैकादशेन्द्रिय रूपषोडशपदार्थानामात्मा धारकः सन् अविलष्टरूपसूक्ष्मदेह इत्यर्थः । नामभिः सह देवमनुष्यादिरूपभेदं विभ्रत्तैः पुरैः शरीरैः पुनरन्तर्गतरागद्वेषादिकं बहिष्ठं बाह्यं च कर्मगुणानुसारेण पुण्या- पुण्यरूपं करोति ॥ ५ ॥ * * तदनुरूपमीश्वरादिष्टं फलं च प्राप्नोतीत्याह दुःखमिति । एवंविधं यत्संसृतिचक्रं तस्मिन्कूट- वत् पर्वतशृङ्गवदविचाल्यतया वर्तमानः मायारचितान्तरात्मा प्रकृति परिणामरूपान्तःकरणवान् स्वदेहिनं स्वशरीरिणं परमात्मा- नमालिङ्ग्य तमविनाभूयैवान्तःकरण पारवश्यात्स्वदेहिनं परमात्मानमजानन्नपि तच्छरीरतया वर्त्तमान एवेत्यर्थः । यद्वा स्वः देहो यस्य स स्वदेहस्तमालिङ्ग्येत्यर्थः । कालेन देवादुपपन्नं प्राप्तं दुःखादिकं फलं कर्मफलमाव्यनक्ति आप्नोति व्यतिरिक्तं मोहं तीव्रं दुर्निवारमित्यर्थः । अञ्जिरत्र गत्यर्थः ॥ ६ ॥ यावदेव तावान् तत्पर्यन्तवानयं स्थूलसूक्ष्मो व्यवहारो व्यवहारस्य स्थूलत्वं सूक्ष्मत्वं च व्यवह्रियमाणाकार स्थूलत्वसूक्ष्मत्वे देवोऽहं मनुष्योऽहं स्थूलोऽहं कृशोऽहमित्यादिबाह्याकारविषयः स्थूलः, इच्छामि द्वेष्मि सुख्यहं दुःख्यहमित्याद्यन्तराकारविषयः सूक्ष्मः सदाविः क्षेत्रज्ञसाक्ष्यो भवति सर्वदा स्वरूपेण तिरोहितजीवः साक्ष्यो विषयो यस्य तथाभूतो भवति कर्मणा स्वस्वभावसङ्कोचरूपतिरोधाने सत्यपि स्वरूपस्यातिरोधानात्सदाविरित्युक्तं सदा आविः स्वरूपेण भास– मानो यः क्षेत्रज्ञो जीवः तद्विषयं एवायं व्यवहारो देहात्माभिमानात् । उक्तमर्थमुपसंहरन्मनस एवं बन्धमोक्षकारणत्वं सदृष्टान्तमाह तस्मादिति द्वाभ्याम् । तस्मान्मनसो गुणानुरक्तादुक्तविधसंसृतिचक्रापत्तेरनुरक्ताच्च तत्त्वज्ञानोदयाद् गुणागुणत्वस्य गुणागुणत्वयोः गुणत्रयसहितत्वतद्रहितत्वयोः संसारमोक्षयोरित्यर्थः “गुणवचनेभ्यो मतुपो लुगिष्टः” इति गुणशब्दो गुणिपरः । लिङ्गं हेतुमपि तन्मनो वदन्ति तथा परावरस्य देवादिस्थावरान्तपरावर भावस्य च मन एवं लिङ्गं वदन्ति । यद्वा परावरशब्दो व्युत्क्रमेण गुणागुणत्व- विशेषणम् अवरं निकृष्टः यद्गुणसहितत्वं परमुत्कृष्टं यद्गुणराहित्यं तयोर्लिङ्गं मन इत्यन्वयः ॥ ७ ॥ * * तद्विवृणोति गुणानुरक्तमिति । गुणशब्दस्त्रिगुणपरः त्रिगुणानुरक्तं मनः जन्तोर्व्यसनाय संसाराय नैर्गुण्यममलं मनस्तु क्षेमाय मुक्तये स्यादित्यर्थः । निर्गत गुणान्निर्गुणं तदेव नैर्गुण्यं चातुर्वण्यदेराकृतिगणत्वात्स्वार्थे ऽयम् । मनसो मलिनत्वे विमलत्वे च दृष्टान्तमाह यथेति । घृतवर्ति घृतावसिक्तां वर्तिमन् प्राप्नुवन् सधूमां शिखां भजति अन्यदा घृतानवसिक्तवर्त्तिगतः स्वं परं रूपं धूमानाविलं भजति तथा गुणकर्मानुबद्धं गुणानुसारिभिः पुण्यापुण्यकर्मभिः कलुषितं मनः प्रदीपस्थानीयं शिखास्थानीया धूमतुल्या रागद्वेषाद्या वृता वृत्तीर्भजते अन्यत्र गुणत्रयेणाकालुष्ये सति तत्त्वं स्वस्वभावं सत्त्वप्राचुर्यतां श्रयते प्राप्नोति । यद्वा तत्त्वं श्रयते तत्त्वावभासस्तदा स्यादित्यर्थः ॥ ८ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ॥ ish rel अस्मिन्नध्याये हेयत्वेन प्रथमतो वक्तव्यत्वेन संसारस्वरूपं निरूप्य तन्निवर्तकसाधनं निरूपयति प्रथमतस्तदुक्तमाक्षि- पन्निवाह अकोविद इति । राजंस्त्वमकोविदोऽपण्डितः कथं कोविदवादान्वदसि यत्कोविदानां पण्डितानां वादवद्वचनवदव- भासमानान् वादान् वचनविशेषान् श्रूष इति यस्मात्तस्मात्स्वधर्ममाराधनमच्युतस्येत्यादि वदतो ममापाण्डित्यं कथमत्राह नाति- विदामिति । भिक्षुकश्रुतगलोपरिवक्तृत्ववद्वक्तृत्वान्नातिविदां दृष्ट्रकरतलामलकवत्तत्त्वज्ञानां मध्ये गणनीयत्वेन वरिष्ठः न हि हेतु- वद्भासमानान् प्रपञ्चमिध्यात्वे प्रयुक्तान् दृश्यत्वादिहेतून् प्रयुआन आनुमानिकेषु कोविदो भवति कुतस्तरां वरिष्ठः । कुतो बचसा- माभासत्वमत्राह न सूरय इति । सूरयः सर्वज्ञाः शब्दतत्त्वज्ञाः एनं व्यवहारं “भतु र्गन्तुर्भवतश्चानुमन्ये । शास्ताधिगोप्ता नृपतिः प्रजानां स्थाल्यग्नितापात्पयसोऽभितापस्तत्तापत स्तण्डुलगर्भरन्धिः” इत्यादिलक्षणतत्त्वावमर्शेन यथास्थितवस्तुस्वरूपविचारेण सह नामनन्ति देहेन जातस्य हि मे न सन्ति विशेषबुद्धेर्विवरं मनाक् पश्यामीत्यादिमन्थस्यार्थापरिज्ञानाद्विजृम्भितमिति एतद्धिशब्दे- नाह । अतः प्रेक्षावद्भिः कटाक्षेणाप्यनभिवीक्षितत्वादुपेक्षणीयस्त्वयं पक्ष इति ॥ १ ॥ ननु माभुत्सूरिभिरामननं वेदैः किं न स्यादिति तत्राह तथेति । यथा सूरिसिद्धान्ते त्वद्वयवहारो न चकास्ति सदोषत्वाज्जलदच्छन्नयुमणिवदल्पबुद्धीनां वेदानां वादेषु मुखतः प्रतीयमानार्थप्रतिपादकलक्षणेषु वाक्येषु तत्त्ववादः परब्रह्मस्वरूपविषयज्ञानसिद्धान्तो नानुचकास्ति न प्रकाशते कथं न चकास्तीत्यत उक्तं शुद्ध इति । “स्वर्गकामो यजेत” इत्यादिकर्मप्रतिपादकानां “ब्रह्मविदाप्नोति परम्” इति ब्रह्मज्ञानप्रतिपादकानां च वाक्यानां यथैकवाक्यत्वं तथा न प्रकाशत इत्यर्थः, कस्मात्तथा न प्रकाशनमत्राह उरुगाईमेवेति । उरु विस्तीर्ण गाईमेधं गृहस्थसम्बन्धिवितानं यज्ञकर्म तत्प्रतिपादकया विद्यया उरुधा विजृम्भितेषु सम्यगुद्बोधकेषु यतोऽल्पबुद्धीनां न प्रतीयते ततो महा- बुद्धीनां प्रकाशत इत्यतो हीति “न वेदेष्वल्पबुद्धीनां ब्रह्मतत्त्वं समीक्ष्यते । महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम्” इति वचनात् अल्पबुद्धीनां बाहुल्याभिप्रायेण प्रायेणेति अयोग्यानामयमेवार्थ इत्यस्मिन्नर्थे एवशब्दः “वादो विषयवक्तृत्वं मुखतो वचनं स्मृतम्” इत्यभिधानं, कर्मपराणां कम्मैव न तत्र विभाग इतरेषामितर एव शुद्धः किं न स्यादिति नेत्याह साध्विति । एकवाक्यत्वकरणमेव साधु नान्यदित्यर्थः ॥ २ ॥ * * पुरुषार्थबोधकत्वेन प्रवृत्तस्य वेदस्य सर्वस्य पुरुषार्थित्वेन सर्वसाधारणस्य केषां चित्तत्त्व- प्रकाशकत्वं केषांचिन्नेति विशेषो वैषम्यादिदोषापत्तेरित्याशङ्कय पुरुषदोषादिदमित्याह न तस्येति । वरीयसी: वरीयस्योsपौरुषे- यत्वेन प्रशस्ता वेदान्तगता अपि वाचस्तस्य पुरुषस्य साक्षात्तत्त्वग्रहणाय पुरुषार्योपयोगिब्रह्मज्ञानाय न समासन्न सम्यगभवन्नि- एक. ५. ११. लो. १८] अनेकव्याख्यांसमलङ्कृतम्
। ૨૭ त्यन्वयः । तच्छब्देनोक्तं यच्छब्देन विशिनष्टि स्वप्न इति । यस्य पुरुषस्य गृहमेधिसौख्यं स्वप्ने निरुक्त्या स्वप्न- दृष्टान्तेन स्वयमेव स्वत एव हेयत्वेनानुमितं न स्यादित्यन्वयः, स्वप्नसुखवज्जाग्रत्सुखं हेयमिति लिङ्गज्ञानं न स्यादित्यर्थः । अनेन विषयराग एव वेदान्तवाक्योक्ततत्त्वज्ञानानुदये कारणं नान्यदित्युक्तं भवति ॥ ३ ॥ ननु हेयाननु- मितत्वे किं कारणमित्यतो रहूगणस्याकोविदत्वख्यापनाय तन्निरूपितादन्यथा संसारस्वरूपं निरूपयति यावदिति । यावत्पुरुषस्य मनो रजआदिगुणैरनुरुद्धं गुणवशत्वेन स्थितं तावत्पर्यन्तं चेतोभिर्बुद्धिवृत्तिभिरत एवा कूतिभिर्विषयसुखेच्छाभिः पूर्वानुभव संस्कारैर्वा निरङ्कुशः शास्त्रविधिमुत्सृज्य वर्तमानो यः पुरुषः कुशलाकुशलयो रेकतरमातनोतीत्यन्वयः ॥ ४ ॥ कुशला कुशलकर्मभ्यां किं फलमापादयतीति तत्राह स वासनात्मेत्यादिश्लोकद्वयेन । स मायारचितान्तरात्मा प्रकृतिनिमित्तं मनः पृथङ्नामभिः स्वपुरैः स्वस्य जीवस्य सुरनर तिर्यगादिदेहै रूपभेदं सुरन रतिर्यगादिदेहभेदं चित्रं बहुविधं तनोति । अन्तरात्मानं विशिनष्टि वासनात्मेति । नानाकर्मवासनामयः गुणानां प्रवाहो यस्मिन् स तथा षोडशात्मा दशेन्द्रियाणि पञ्च प्राणाः स्वयमेकं मन एवं षोडशभेदेन विकृतः अन्तर्बहिष्ठः वासनारूपेणान्तः स्थितं विषयरूपेण बहिःस्थितं संसृतिचक्रस्य कूटं राशिर्यस्मिन् स तथा तं स्वदेहिनमा लिङ्गय वशीकृत्य सुखं दुःखं वा व्यतिमिश्रं सुखमिश्रं दुःखं दुःखमिश्रं सुखं फलं च व्यनक्ति व्यञ्जयतीत्य- न्वयः ।। ५-६ ॥ * ४ यावानहंममेत्यभिमानस्तावानयं व्यवहारः संसारः सुखदुःखलक्षणः अभिज्ञाभिवदनादिलक्षणो वा भवति । ननु मनसः प्रवर्तकत्वाङ्गीकारे प्रवृत्तेर्भगवत्कर्तृकत्वं गतं स्यादिति तत्राह क्षेत्रज्ञेति । क्षेत्रज्ञः श्रीनारायणः साक्षी प्राणः ताभ्यां प्रेरितेन मनसा जीव संसारमनुभवतीत्यर्थः “क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान्सरेत्” इति वचनादुक्त एवार्थः स्थूलसूक्ष्मदेहविषयः “मन एव मनुष्याणां कारणं बन्धमोक्षयोः” इत्यभिप्रेत्योपसंहरति तस्मान्मन इति । यत एवं श्रीहरि- कटाक्षेक्षितमनसा संसारस्तस्माददो मनः परावरस्य पूर्वोत्तरकाले वर्तमानस्य गुणागुणस्य मुख्यकं हरेः प्रवृत्तौ गुणभूतस्य स्वतः सत्त्वादिगुणमुक्तस्यास्य जीवस्य संसृतौ लिङ्ग हेतु वदन्ति । अयं व्यलीको नेत्याह सदेति । वा इत्यनेन हेतुभूतं प्रमाणं सूचयति 11011 * एकस्योभयहेतुत्वं कथमत्राह गुणेति । गुणानुरक्तं विषयाभिनिविष्टं गुणानां विषयाणां समुदायो गुण्यं निर्गतं विषयजाताद्यत्तन्निर्गुण्यं ब्रह्म तत्सम्बन्धि नैर्गुण्यं “केवलो निर्गुणश्च” इति श्रुतेः सत्त्वादिगुणरहित तत्सम्बन्धि वा नैर्गुण्यं क्षेमाय मोक्षाय मनो निमित्तं भवतीत्यर्थः । उभयत्रापि दृष्टान्तमाह यथेति । घृतेन सह वर्तमानां वर्तिमास्थितो ग्रसमानः प्रदीपो यथा सधूमां स्थितिं शिखालक्षणां भजति धूमसाहित्येन सम्यक् ज्वलतीत्यर्थः । अन्यदा घृतवर्त्यभावे स्वरूपं तेजोमात्रलक्षणं निजस्वरूपलाभेन सम्यक् प्रकाशितो भवति घृतवर्तिप्रासाभावे निर्मषीकस्वप्रकाशलक्षणं स्वरूपं व्रजतीति वा हिशब्देन लोकदृष्ट प्रमाणयति तथा सत्त्वादिगुणैः पूर्वसचितैः कर्मभिश्वानुबद्धं पृष्ठबन्धनप्राप्तचोरवन्मनो बहिः पदं विषयं शब्दादिलक्षणं श्रयते सेवते पुनः पुनरुत्पन्नप्रवृद्धरागादिदोषान्धीकृतमिदमेव श्रेयो नान्यदिति निर्धार्य वर्तत इत्यर्थः । अन्यत्र तुच्छीकृतविषय- संपर्कत्वे तत्त्वमनारोपितं ब्रह्मस्वरूपं श्रयते निरस्तरागादिदोषत्वेन निर्मलं मनोऽनादिमत्परं ब्रह्मेति स्मृतिबलादिदमेवानावृत्य नश्वर श्रेयोऽन्यन्नश्वरं दुःखाकरमिति निश्चित्य तदेकनिष्ठ भूत्वा वर्तत इति भावः । अतो विरुद्धधर्माक्रान्त्या त्वेकस्य मनसः उभयत्र प्रवृत्तिर्न घटत इति दोषो निरतो भवत्यनेनेति सिद्धम् ॥ ४॥ ए । श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः FE MOFFFFF ME स्वप्ने निरुक्तत्येति । श्रवणात् पूर्वं व्यवहारवैराग्यं तर्कदृष्टयापेक्ष्य इत्यर्थः ॥ १५ ॥ & * मायारचितान्तरात्मेति । श्रीवेदव्याससमाधिवाक्यानुसारेण ‘भयं द्वितीयाभिनिवेशतः स्यादित्यायनुसारेण च ‘क्षेत्रज्ञ एता मनसो विभूतीरित्यस्य वक्ष्यमाण- वाक्यानुसारेण व्याख्याय प्रकरणस्यास्य सिद्धान्तक्रमः समाधेयः ।। ६-८ ।। ॥ मो श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी eines pornmbna radichi मनसैव हि संसारो यद्वृत्तीनामनन्तता । एकादशेऽत्र तेनैव मोक्षो भक्तियुजोदितः ।। । त्वं कोविदो न भवसि अथ च कोविदानां ये वादा उद्घाहास्तत्तुल्यानेव वादान् वदसि, अथो अत एव अत्यन्तं विदुषां मध्ये श्रेष्ठो न भवसि । यतः सूरयः कोविदा एवं व्यवहारं व्यावहारिकं वस्तु च तत्त्वावमर्शेन तत्त्वविचारेण तत्त्ववस्तुना च सह न आमनन्ति दृष्टान्तादिना नाभ्यस्यन्ति तयोः परस्परातिवैधर्म्यात् । तथाहि स्थालीतापात् पयसस्तापस्तत्तापात्तण्डुलताप इति तण्डुलस्य जडस्य स्थाल्यादिभिर्जडैर्वह्निनापि जडेन यथा संसर्गस्तथा देहेन्द्रियादिभिर्जडेमुक्तजीवस्य चिद्वस्तुनः संसर्गाभावादेव देहादिश्रमैर्न श्रमः सिद्धयति । बद्धजीवस्य तु जडदेहाध्यासाज्जडत्वेन तैर्भवत्येव भ्रम इति बद्धजीवैर्युष्माभिर्मुक्तजीवानामस्माकं सादृश्यासम्भवादनुमानं न घटत इति ॥ १ ॥ * * ननु मीमांसकाः कर्मफलात् स्वर्गसुखादतिरिक्तं पुरुषार्थं न मन्यन्त इत्यतः किं तत्त्ववादेनेति चेत् सत्यं तेष्वज्ञेष्वनधिकारिषु तत्त्वोपदेशो नैव समुचित इत्याह तथैवेति । यथैव भवद्विधानां दृष्ट- फलेषु व्यवहारकर्मसु तथैव उरवो गार्हा गृहसम्बन्धिनो मेधा यज्ञास्तेषां वितानो विस्तारस्तद्विषयासु विद्यासु उरु अधिकं विजृम्भि- ॐ ।। २२८ श्रीमद्भागवतम् . [ स्कं. ५ अ. ११ लो. १८ तेषु विलसितेषु वेदवादेष्वदृष्टफलेष्वपि कर्मसु तु निश्चितं तत्त्ववादो न चकास्ति न प्रकाशते । शुद्धः कुतः हिंसादिशून्यः साधु- रागादिशून्यश्चेति साजात्याभावादेवेत्यर्थः । प्रायेणेति ईश्वरार्पितनिष्कामकर्मणां ज्ञानवैराग्यद्वारा परमार्थं फलत्वाभिप्रायेणोक्तम् ॥ २ ॥ * * ननु कर्मिणस्तांस्तत्त्वं ग्राहयितुं काचिद्वो युक्तिरस्ति किंवा तान्नोपदिशाम इति केवलं प्रौढिवाद एवेत्यत आह नेति । तस्य जनस्य साक्षाद्यथावत्तत्त्वग्रहणार्थं वरीयस्योऽपि वेदान्तवाचः न सम्यगासन् न समर्था बभूवुः । स्वप्ने भोगानां स्वल्पकाल- मात्र स्थायित्वं स्वप्नस्य स्वतो विनाशित्वं मिथ्यात्वञ्चेति या निरुक्तिस्तया स्वप्नदृष्टान्तेनेत्यर्थः । स्वयमेव हेयत्वेनानुमितं यस्य न स्यात् कर्मिणां नश्वरमसार्वकालिकं क्षुद्रं वैषयिकमेव सुखं तथा वैषयिकेण सुखेनात्मनो वस्तुतः सम्बन्धाभावात् तत् सुखमात्मनः शशस्य शृङ्गमिव मिध्याभूतश्च ज्ञानिनान्त्वनश्वरं सार्वकालिक महद् ब्राह्मं सुखमिति बहेवान्तरमित्येषैव तत्त्वग्रहणे युक्तिरिति भावः ॥ ३ ॥ * * नन्वेवं सद्भिः प्रबोधिता अपि प्रायः सर्वे जना वैषयिके सुख एवं प्रवर्तमानाः कथं दृश्यन्ते तत्राह । यावन्मनो रजआदिभिरनुरुद्धं संबद्धं भवति तावत्तन्मनो निरङ्कुशमन्त्तमतङ्गजोपमं सत् पुरुषस्य कुशलं धर्ममितरमधमं वा आत- नोति कैः चेतोभिर्ज्ञानेन्द्रियैः आकूतिभिः कर्मेन्द्रियैश्व गुणमयं मन एव बलाद्विवेकादिकमपि निगीर्य पुण्यपापकर्मणोः प्रवर्त्तयति । पुरुषस्य को दोष इति भावः ॥ ४ ॥ * * ततश्च सवासनात्मा पुण्यपापवासनायुक्त आत्मा मनः विषयै रुपर क्तोऽनुविद्धः अत एव गुणप्रवाहः गुणैरितस्ततश्चाल्यमानः अत एव विकृतः कामादिविकारवान् षोडशेषु भूतेन्द्रियेषु मुख्यः रूपभेदं देवतिर्य- गादिशरीरभेदं बिभ्रत् दधत् पुरैस्तैरेव शरीरैर्हेतुभिः अन्तर्बहिष्ट्वमुत्कृष्टत्वं निकृष्टत्वञ्च तनोति । नामभिरिति रेफलोपे दीर्घाभाव आर्षः ॥ ५ ॥ * * फलन तदनुरूपं सृजतीत्याह । दुःखं सुखं व्यतिरिक्तं मोहश्च तीव्रं दुर्निवारं व्यनक्ति सृजति । ननु जडः कथं सृजति तत्राह । स्वदेहिनं जीवात्मानमालिङ्गन्य आलिङ्गने कारणमाह मायया रचितः अन्तरात्मा जीवोपाधिः उपाधितामाह । संसृतिचक्रे कूटयति छलयतीति तथा यथा ग्रामकूटक इति ॥ ६ ॥ * * एवमयं मनोनिबन्धनः संसार एव व्यबहारपद- वाच्य इत्याह तावानिति । आधिः प्रकाशमानः सदा क्षेत्रज्ञस्य साक्ष्यो दृश्यः स्थूलो जागरः सूक्ष्मः स्वप्रश्च तत्त्वपदवाच्यमात्मसुख- मपि मनोनिबन्धनमेवेत्याह । तस्माददो मन एव लिङ्गं कारणं कस्य गुणस्य संसारस्य अगुणत्वस्य मोक्षस्य च तौ च संसारमोक्षौ कस्य स्यातामित्यत आह । परावरस्य उत्कृष्टनिकृष्टजनसङ्घस्य पाठक्रमो नात्र विवक्षितः- निकृष्टस्य संसारो भवति उत्कृष्टस्य तु मोक्ष इत्यर्थः ॥ ७ ॥ * * कथमेकमेव विलक्षणयोः कारणमवस्था भेदादित्याह गुणेति सार्द्धन । नैर्गुण्यं निर्गुणमन्यदा घृतक्षये सति निर्वाणो भूत्वा स्वं पदं महाभूतात्मत्वं भजति अन्यत्र अन्यदा । यद्वा धृतवर्त्तिमश्नन्नेवाग्निः सधूमाः शिखा भजति अन्यदा काञ्चनपिण्डमश्नंस्तु स्वपदं निर्धूमतेजः स्वरूपं तथैव मनोऽपि तत्त्वं भगवन्माधुर्यास्वादम् ॥ ८ ॥ by 2015 Fagang Fig श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः glsp एकादशे रहूगणोक्तं बालभाषितमिवानादृत्य प्रसङ्गतो मुनिः बन्धमोक्षयोः कारणं मन एवेत्याह अकोविद इति । अकोविदः सिद्धान्तानभिज्ञः कोविदवादाः यत् सर्वस्य ब्रह्मात्मकानुसन्धानवत्त्वेन प्रावण्यं तद्विषयकाः शब्दास्तत्तुल्यान् वादान शब्दान् वदसि, अथो अतो विदां मध्ये अतिवरिष्ठो नासि, एतं नरदेवनरादिस्वस्वामिभावरूपं व्यवहारं तत्त्वावमर्शेन ब्रह्मविचारेण सह न आमनन्ति ब्रह्मविचारवदादरणीयं न वदन्ति ॥ १ ॥ ४ * तिमेतमात्मानं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेने ‘ति भगवत्या श्रुत्योक्तो यः परमानन्दसाधने कर्मकाण्डस्योपयोग स्तमृते. सर्वोऽपि कर्मकाण्डोऽनित्यफलविषयः संसारहेतुर्न तु तत्त्वप्रस्तावे योजयितुं योग्य इत्याह तथैवेति । उरवी गार्हाः गृहसम्बन्धिनो मेधा यज्ञास्तेषां वितानो विस्तार स्तद्विद्यासूरुविजृम्भितेषु बहुविलसितेषु वेदवादेषु तत्त्ववादः शुद्धः फलतः स्वरूपतच निर्दोषः साधुर्मुमुक्षूपादेयः नु निश्चितं न चकास्ति न प्रकाशते । प्राय- ग्रहणं विवित्सावाक्योक्तप्रकारं विनेति द्योतयति ॥ २ ॥ * * नन्वध्ययनविष्युपात्ता वेदान्तवाचः सर्वेषां विवित्सोत्पादना- दिना कुतो न तत्त्वज्ञानदाः स्युरित्यत आह नेति । यस्य मन्दबुद्ध: स्वप्ने या निरुक्तिः नितरां क्रियमाणा नित्यतोक्तिस्तया गृह- मेधिसौख्यं हेयत्वेनानित्यत्वेन हेतुना अनुमितं न स्यात्तस्य साक्षाद्यथावत्तत्त्वग्रहणाय वरीयस्योऽपि वेदान्तवाचः न सम्यगासन् बभूवुः । प्रयोगस्तु-कर्मफलं गृहमेधिसौख्यमनुपादेयम् अनित्यत्वात् स्वप्नधनवदिति ॥ ३ ॥ * ननु कस्यचिद्वरीयस्यो वाचस्तत्वग्रहणाय न समासन्नित्युक्त्या तस्य संसारित्वं दर्शितं, तत्र कः संसारहेतुः अर्थात् यस्य तु तास्तत्त्वग्रहणाय स्युः स मुक्तत्य- धिकारी । तत्र च को मुक्तिहेतुरित्याकाङ्क्षायाँ मन एवेत्याह यावदिति सार्द्धंः पञ्चभिः । रजआदिभिः पुरुषस्य मनो यावदनुरुद्ध व्याप्तमत एवं निरङ्कुशं दुर्निग्रह सत् तावत् कुशलं धर्मं सत्त्वव्याप्तम् इतरमधर्मं तमोव्याप्तं चकाराद्रजोव्याप्तं युक्तचेतोभिज्ञाने- न्द्रियैः आकूतिभिः कर्मेद्रियैश्च आतनोति समन्ततो विस्तारयति ।। ४ ।। * * तदेवं धर्मादिवासनायुक्तं नानादेहप्रापकं भवतीत्याह स इति । पुंस्त्वमात्मशब्दविशेषणत्वात् वासनानामात्माश्रयः धर्मादिवासनायुक्त इत्यर्थः । विषयोपरक्तो विषयासक्त गुणप्रवाहः गुणैश्चाल्यमानः विकृतः अनेकशाखः षोडशात्मा लिङ्गशरीरे मुख्यः पृथङ्नामभिः सह पृथक् रूपभेदं देवमनुष्यपश्वादि- रूपभेदं बिभ्रत् अन्तर्बहिष्ट्वमुत्कृष्टत्वं निकृष्टत्वं च पुरैस्तैरेव देव तनोति विस्तारयति । नामभिरित्यत्र “ठूलोपे पूर्वस्य दीर्घोऽणः” इति दीर्घाभाव आर्षः ॥ ५ ॥ * दुःखादिकं फलं चाव्यनक्ति प्राप्नोति व्यतिरिक्त मोह तीव्रं क्रोधादिकं च । ननु जडःस्क. ५.अ. ११ लो. १-८] अनेकव्याख्या समलङङ्कृतम् २२९ कथमातनोति तत्राह । स्वदेहिनं जीवमालिङ्गयेति यतः मायारचितः प्रकृतिपरिणामभूतः अन्तरात्मा अन्तःकरणमेवात्मा जीवेन मायामोहितेनात्मतयारोपितमित्यर्थः । अत एव संसृतिचक्रं जन्ममरणचक्रं कूटयति देहाद्देहान्तरं गच्छन् छलयतीति तथा एकत्र स्थिरो न भवतीत्यर्थः ॥ ६ ॥ * * यावदेव तावान् अयं प्रसिद्धः व्यवहियते इति व्यवहारः संसारः क्षेत्रज्ञसाक्ष्यः जीवस्य दृश्यः जीवभोग्य इत्यर्थः । स्थूलसूक्ष्मः सूक्ष्मसंहार्यरूपः कस्यचिन्मुमुक्षोर्मुक्तत्वेऽपि अनन्तबद्धजीवव्याप्तत्वात्सदाविः सर्वदा प्रकाशमानः सृष्टधनन्तरस्थूलरूपेण प्रलयानन्तरं सूक्ष्मरूपेण च न केवलं मनः संसारकारणं किन्तु संसारमोक्षयोरुभयोः कारणमित्याह । गुणत्व- मुपादेयत्वं मोक्षभावः अगुणत्वमनुपादेयत्वं संसारभावः तयोः समाहारद्वन्द्वः तस्य तद्वयं क्रमादाह परावरस्येति । अदो मनः लिङ्ग कारणम् ॥ ७ ॥ * * गुणानुरक्तं विषयासक्तं व्यसनाय संसाराय निर्गुणं त्यक्तविषयं तदेव नैर्गुण्यं स्वार्थे ष्यन्, क्षेमाय परमपुरुषध्यानपूर्वकतत्पादप्राप्तिरूपमोक्षाय च मनः स्यात् । निर्मलं मनः परमपुरुषध्यानाहं भवति, अतस्तस्य निर्मलं रूपं दृष्टान्तेन स्फुटयति यथा प्रदीपः धृतयुक्तां वर्तिमश्नन् सधूमाः शिखा भजति मलिनवृत्तिमान् भवतीत्यर्थः । अन्यदा तु घृतवर्त्तिक्षये स्वं पदं महाभूतावस्थाख्यं शुद्धं रूपं प्राप्नोति एवं विषय सेवनार्थ कर्मासक्तं सत् मलिनाः वृत्तीर्भजते अन्यदा विषयपरित्यागे निर्मलं सत् परमपुरुषध्यानाहं तत्त्वं शुद्धं निजरूपं भजते ॥ ८ ॥ तो गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी रहूगणमहीपालपृष्टो ब्राह्मणसत्तमः । योगानुसारि विज्ञानमेकादशे निरुक्तवान् ॥ १ ॥ 1800 एवं रहूगणेन पृष्टस्तमधिकारिणं ज्ञात्वोपदिष्टवांस्तद्दर्शयति–अकोविद इत्यादिनाऽध्यायसमाप्तिपर्यन्तेन । तत्र तस्व- ग्रहणेऽभिमानस्य प्रतिबन्धकत्वात्तन्निरासार्थ प्रथमं तस्य मूर्खत्वमाह - अकोविद इति । अकोविदोऽविवेक्येव त्वं कोविदानां विवेकिनां ये वादा यथार्थवचनानि तत्तुल्यान् विचारेण बाधितार्थत्वेऽपि युक्तिपूर्वकत्वेन यथार्थत्वेन प्रतिभासमानान् राज- भृत्यादिव्यवहारयथार्थत्वपरान् वादान् वाक्यानि वदसि । अकोविदत्वे हेतुमाह-नेति । हि यस्मात्सूरयो विवेकिन एतमहन्ताममता- पूर्वकस्वामिभृत्यसुखदुःखादिव्यवहारं तत्त्वावमर्शेन परमार्थविचारेण सह नामनन्ति न वदन्ति किन्त्वविचाररमणीयमेव । अथो तस्मात् त्वं व्यवहारेऽतिनिपुणोऽप्यतिविदां परमविवेकिनां मध्ये वरिष्ठः श्रेष्ठो न भवसि ॥ १ ॥ न भवसि ॥ १ ॥ * * एवं वैदिकोऽपि कर्ममार्गोऽहम्ममाध्यासपूर्वकत्वाद्यथार्थो न भवतीत्याह - तथेति । सावधनतया श्रवणार्थं सम्बोधयति । हे राजन् यथा राजभृत्यादिव्यवहारस्तथैव उरवो गार्हा गृहसम्बन्धिनो ये मेधा यज्ञास्तेषां वितानो विस्तारस्तद्विषयासु उरु अधिकं विजृम्भितेषु विलसितेषु वेदवादेषु “अक्षय्यं ह वै चातुर्मासयाजिनः सुकृतं भवति” इत्यादिरूपार्थवादेषु यस्तत्त्ववादः स प्रायेण शुद्धो हिंसादि- दोषशून्यः साधुः यथार्थश्च न चकास्ति न प्रकाशते । नु निश्चितमेवैतत् । हि यस्मात् “यथैवेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते” इत्यादितर्कानुगृहीतश्रुतिविरोधेन सुकृतस्य तज्जन्यसुखस्य चाक्षय्यत्वासम्भवात् । वस्तुतस्तु सुखस्य विषय- सम्बन्धजन्यवृत्तिविशेषस्याप्यन्तःकरणधर्मत्वेन अन्तःकरणाध्यासं विना आत्मनः सुखित्वासम्भवात्सुखित्वाभिमानोऽपि भ्रान्तिरेव, न साधुवादः । भगवदर्पितकर्मणा परमपुरुषार्थहेतुत्वात्तद्व्यावृत्त्यर्थं प्रायग्रहणम् ॥ २ ॥ * * नन्वधीतसाङ्गसमस्तवेदा अपि कर्मसु प्रवर्त्तन्ते तथाच कथं तस्यायथार्थत्वं तथात्वे तदसम्भवादित्याशङ्कयाह-नेति । वरीयसीर्वरीयस्यः सर्वप्रमाणश्रेष्ठा अपि वेदवाचस्तस्य पुरुषस्य साक्षात् यथावत्तत्त्वग्रहणाय न समासन् नैव भवन्तीत्यन्वयः । तस्येति कस्येत्यपेक्षायामाह - स्वप्ने इति । स्वप्ने या निरुक्तिः दृष्टान्तस्तेन यस्य गृहमेधिसौख्यं गृहसम्बन्धियज्ञादिकर्मजन्यं सुखं स्वयमेव हेयमित्यनुमितं न स्यादित्य- न्वयः । स्वप्ने यथा वनितादिभोगजन्यं सुखं केवलं निद्रादिदोषेणाध्यासमात्रेणैव, न वास्तवमात्मनि निद्रापगमे जाग्रदवस्थायां तदयथार्थत्वस्य स्पष्टत्वात् तथा जाग्रदवस्थायामपि स्वर्गादावविद्यया देहेन्द्रियाद्यध्यासेनैव तत्तद्विषयजन्यं सुखमात्मनि प्रतिफलति स्वरूपसाक्षात्कारात्मकज्ञानेन अविद्यानिवृत्त्यध्यासे निरस्ते तु न विषयजन्यं सुखं स्फुरति किन्त्वविनाशी स्वरुपानन्द एवातो हेयमेव तुच्छं विषयसुखं न तदर्थं प्रयत्नो विधेय इति । तत्रापि स्वतो वैराग्यं विवेकादिवशात् न परप्रेरणया केवलम् । परशिक्षया केवलं हेयत्वकथनेऽपि विवेकवैराग्यादि विना त्यक्तुमशक्यत्वादिति भावः ॥ ३ ॥ * * एवमविद्यया मोहितस्य देहेन्द्रि यात्माध्यासनिमित्त एव पुरुषस्य संसार इत्युक्तं तदेव प्रपञ्चयति–यावदिति सार्थैरष्टभिः । यावत्पुरुषस्य मनो रजआदिभिर्गुणै- रनुविद्धं वशीकृतं भवति तावन्निरङ्कुशं त्यक्तवेदमर्यादं स्वतन्त्रं सत् चेतोभिर्ज्ञानेन्द्रियैरा कृतिभिः कर्मेन्द्रियैश्च स्वर्गनरकादिशरीर- प्राप्तिकारणं कुशलं पुण्यमितरत्पापं वा चकारादुभयमिश्रं वा कर्म आतनोति विस्तारयत्येवेत्यन्वयः ॥ ४ ॥ * अतो धर्माधर्मद्वारा विचित्रदेहानपि मन एव प्रापयतीत्याह- स इति । पुंस्त्वनिर्देश आत्मशब्दविशेषणत्वात् तन्मन इत्यर्थः । स देवतिर्यङ्मनुष्या दिपृथङ्नामभिः सह पृथग्रूपभेदं बिभ्रत् देहत्यागसमये देवादिदेहान् चिन्तयन् प्राप्तेः पुरैस्तै देहैरेवान्तर्बहिष्वमु- कृष्टत्वनिकृष्टत्वद्वारा वेदोक्ताचारेऽधिकारित्वमनधिकारित्वं च तनोतीत्यन्वयः । देहादिविस्तारकत्वे हेतुमाह-वासनात्मेति । धर्माधर्मादिवासनायुक्त आत्मा वासनात्मा । धर्माधर्मादिविस्तारकत्वेऽपि हेतुमाह-विकृत इति, यतः कामक्रोधादिनाना- २३० श्रीमद्भागवतम् [ स्कं. ५ अ. ११ लो. १-८ विकारवानतस्त तदनुसारेण नानाकर्माण्यनुतिष्ठतीत्यर्थः । विकृतत्वेऽपि हेतुमाह - विषयासक्त इत्यर्थः । तत्रापि हेतुमाह-गुणप्रवाह इति, गुणै रजआदिभिः प्रोह्यते इति तथा, गुणैर्वशीकृत इत्यर्थः । ननु तत्तत्कर्मदेहेन्द्रियाणि कुर्वन्ति मन एवं करोतीति कथमुच्यते इत्याशङ्कयाह- पोडशात्मेति, षोडशकलानां पञ्चमहाभूतैकादशेन्द्रियरूपाणामात्मा नियन्तेत्यर्थः । देहादीनां मनोधीनप्रवृत्तिकत्वान्मुख्यं कर्तृत्वं तस्यैवेति भावः । नामभिरित्यत्र रेफलोपेऽपि दीर्घाभाव आर्षः ॥ ५ ॥ धर्माधर्मादिहेतुत्वात् सुखदुःखादि- हेतुत्वमपि मनस एवेत्याह-दुःखमिति । पापफलं दुःखं पुण्यफलं सुखं च देहादिप्राप्तिलक्षणफलतो व्यतिरिक्तं तीव्रं भोगमन्तरेणो- पायान्तरेण दुर्निवारं कालोपपन्नं धर्माधर्मादिविपाकहेतुना कालेन प्राप्त फलं वा सर्वतो व्यनक्ति, सुखस्यात्मस्वरूपत्वाद्विषय- सम्बन्धमात्रेणाभिव्यक्तिमात्रं करोतीत्यर्थः । ननु मनसो जडत्वात् कथं तस्यैव संसारहेतुत्वमित्याशङ्कयाह-आलिङ्गन्येति । मायया प्रकृत्या महत्तत्त्वाहङ्कारद्वारा रचितोऽन्तरात्मनः स्वदेहिनं जीवमालिङ्गन्य चेतनं सत् तं संसृतिचक्रे संसारसमूहे कूटयति च्छल- यतीति तथा । अतो मनोनिबन्धन एव जीवस्य संसार इति भावः ॥ ६ ॥ ** मनसः संसारहेतुत्वमुपसंहरन्मोक्षस्यापि तदेव कारणमित्याह—तावानिति । यावन्मन इत्याद्युक्तप्रकारेण यावन्मनः संसारे पुरुषं भ्रामयति तावानेवायं अहन्ताममताद्वारा राजभृत्यादिसर्वोपि लौकिकवैदिकव्यवहारो जाग्रदवस्थायों स्थूलः स्वप्नावस्थायां च सूक्ष्मः सदाविः सन् इव प्रकाशमानो भवती- त्यन्वयः । अत एव देहादा वहम्ममाध्यासाभावाद्देहे सतोऽपि भगवतः साक्षिणस्तन्नास्तीत्यभिप्रेत्याह-क्षेत्रज्ञसाक्ष्य इति - यस्मादेवं तस्मादेव परावरस्योत्कृष्टापकृष्टयोनिसम्बन्धस्य तथा गुणत्वस्य बन्धमोक्षयोश्चादी मन एव लिङ्गं कारणमिति विवेकिनो वदन्तीत्य- न्वयः । अत एव ममाध्यासस्य निवृत्तत्वात् सत्तया व्यवहारो न प्रतीयते इति भावः ।। ७ ।। ७ ॥ नन्वेकमेव मनः कथं विरुद्वयोर्बन्धमोक्षयोः कारणं स्यादित्याशङ्कच एकदा तदसम्भवेऽप्यवस्थाभेदेन तत्सम्भवादित्याह - गुणेति । जन्तोर्जीवस्य मनो यदा गुणानुरक्तं विषयासक्तं तदा तस्य व्यसनायोक्तप्रकारेण संसारदुःखाय भवति । अथो यदि तु नैर्गुण्यं विषयवैमुख्येन प्राकृत- गुणरहिते भगवति प्रसक्तं भवति तदा तु तस्य क्षेमाय मोक्षाय भवतीत्यर्थः । तत्र दृष्टान्तमाह यथेति । यथा प्रदीपो घृतवर्ति- । मनन् सधूमाः शिखाः ज्वाला भजति अन्यदा हि घृताद्यभावकाले तु स्वं स्वरूपं महाभूतात्मत्वं भजति ॥ ८ ॥ SPE * जाकर शोक | Ess reIE SIE REPRESSESS श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ap रहूगणेन संपृष्ट भूभृतैकादशे परम् । ज्ञानं तूपादिशद्योगी स प्रीत इति गद्यते ॥ १ ॥ अकोविद इति । हे राजन, अकोविदः विशुद्धात्मपरमात्मयाथात्म्यज्ञानरहित एव त्वं, कोविदानां वादा उद्द्महणि- कास्त तुल्यान वादान कोविदवाक्यतुल्यानि वाक्यानीत्यर्थः । वदस्युच्चारयसि । अथो अतो हेतोः, अतिविदामत्यन्तं विदुषां मध्ये, वरिष्ठः श्रेष्ठः न भवसि । हि यस्मात्, एतं व्यवहारं यं पीवत्वयुवत्वदूरगन्तृत्व स्वस्वामिभावादिलौकिकव्यवहारं त्वं सत्यमात्थ एनं व्यवहारमित्यर्थः । सूरयः तत्त्वत्रययाथात्म्यविदः, तत्त्वावमर्शेन सह तत्त्वविचारेण सार्क, न आमनन्ति । परमार्थत्वेनैनं न गृहन्तीत्यर्थः । समामनन्तीति पाठे सहेत्यध्याहार्यम् । तस्वविचारेण सहनं न वदन्ति, किं त्वविचारितं सत्सुन्दरं वदन्ती- त्यर्थः ॥ १ ॥ ॐ । ॐ वेदान्तशास्त्रस्तुतये वेदपूर्वभागस्या तत्त्वावेदकतां प्रदर्शयितुं वैदिकोऽपि कर्मव्यवहारो न सत्य इत्याह तथैवेति । हे राजन, तथैव लौकिकव्यहारवदेव, उरबो बहवः गार्हा गृहसंबन्धिनः मेधा यज्ञास्तेषां वितानाः कर्मविस्तारास्तद्विषया या विद्या तथा उरु भृशं विजृम्भिता विलासितास्तेषु, वेदवादेषु हिंसाविषय रुचिमत्तया वेदपूर्वभागोत्तमत्ववादिषु, तत्त्ववादो वेदोत्तरभागार्थोत्तमत्त्ववादी तु निश्चितमेव, साधुः रागादिशून्यः शुद्धः हिंसादिरहितः, यद्यप्यस्ति तथापि, प्रायेण न चकास्ति । हि सम्यक न प्रकाशत एव इत्यर्थः । यद्यपि कर्मस्वेव गाढरुचिमतां परमार्थज्ञाने रुचिमुत्पादयितुं तत्त्वविन्न शक्नुयान्तथापि न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्पाचासुतृप उक्थशासश्चरन्ति इत्यादिश्रुतीक्षया कर्मजडा- नामसूरित्वात्कर्मप्राप्यलोकानां क्षयिष्णुत्वात्कर्मव्यवहारो न सत्य इति भावः ॥ २ ॥ नन श्रत ननु श्रुतवेदान्तस्यापि विदुषः पुंसः कर्मसु प्रवृत्तेर्दर्शनात्कथं वेदान्तवाक्यैस्तत्त्वावबोधाभावः कर्ममार्गस्यासत्यता च इति चेत्तस्याविरक्तत्वादियाह नेति । वरीयसीः वरीयस्यः अपि, वाचः वेदोत्तर भागवाक्यानि स्वप्ने निरुक्त्या स्वाप्नसुखदृष्टान्तेन, गृहमेधिसौख्यं यस्य हेयानुमितं स्वप्नसुखवात्सुखं हेयमेवेत्यनुमानेन निर्णीतं, स्वयमेव न स्यात्, यस्य कर्मजडत्वादविरक्तिमतः, साक्षाद्यथावत्, तत्त्वग्रहणाय तत्वज्ञानावगमाय, न समासन, नैव भवेयुः । स्वप्नदृष्टान्तेन गृहमेधिसौख्यस्य हेयत्वेनावबोधनाभावात्तत्त्वावबोधकारणवैराग्या- भावात् क्षुद्रवैषयिकसुखभोगासक्तेश्च श्रुतवेदान्तस्यापि वेदान्तवाक्यैस्तत्त्वावबोधाभावः कर्ममार्गसत्यता चेति भावः ॥ ३ ॥ * अथ रहू गणस्याकोविदत्वख्यापनाय तदुक्तां प्रपञ्चसत्यतां समासेतो निराकृत्य भूयोऽपि विशेषात्तथा कर्तुं संसारस्वरूपं निरूपयंस्तस्य मनो निमित्ततामाह । यावदित्यादिना । यावत् पुरुषस्य अस्य जनस्य मनः, रजसा रजोगुणेन सत्त्वेन सत्वगुणेन वा, तमसा तमोगुणेन वा अनुरुद्धमनुबद्धमुपरक्तमिति यावत् । भवति । तावत् निरङ्कुशं सत्, तत्तद्गुणानुसारेणेति शेषः । चेतोभिर्ज्ञाने- न्द्रियव्यापारैः, आकूतिभिः कर्मेन्द्रियव्यापारैश्च पुण्यापुण्यरूपैरुभयेन्द्रियकर्मभिरित्यर्थः । कुशलमत्युत्कृष्ट, इतर हीनं वा देह, आतनोति .. * स्कं. ५ अ. ११ श्लो. १51 1 अनेकव्याख्या समलङ्कृतम् २३१ संपादयति । यद्वा मनः । यावद्रज आदिभिर्गुणैर्वशीकृतं भवेत्तावत्तवाकूतिभिश्रतोभिश्च निरङ्कुशं सत् पुरुषस्य धर्ममधर्मं वा आतनोति इत्यन्वययोजना ॥ ४ ॥ * * एतदेव प्रतिपादयति ॥ स इति ॥ पुंस्त्वमात्मशब्दविशेषणत्वेन सः वासनात्मा वासनाधीनं मनः, विषयोपरक्तः विषयैरनुविद्धः, गुणैः प्रवाहः प्रवृत्तिर्यस्य सः गुणानुरूपप्रवृत्तिमान् गुणैरितस्ततश्चाल्यमान इत्यर्थः । अत एव विकृतः कामादिपरिणामवान्, षोडशात्मा पञ्चभूतैकादशेन्द्रियरूपषोडशद्रव्येषु प्रधानः, पृथक् नामभिः पृथग्भूतवाचकशब्दैः सह रूपभेदं देवमनुष्यत्वाद्यवयवसंस्थानरूपाकारभेद, बिभ्रत् सन्, अन्तर्बहिष्ट्वमात्मन उत्कृष्टत्वं निकृष्टत्वं च पुरैः देहैर्हेतुभिः तनोति । नामभिरित्यत्र रेफलोपेऽपि दीर्घाभाव आर्षः । वयुनैस्तनोतीति पाठे, आत्मनो बहिष्व चान्तरङ्ग रागादिक च, वयुनैः संकल्पविकल्पात्मकैज्ञानैः, तनोति । आत्मानं देवोऽहं मनुष्योऽहमिच्छामि द्वेष्मीत्यादिरूपबुद्धिभिश्चोपाध्या- कारयुक्तं करोतीत्यर्थः ॥ ५ ॥ * तदनुरूपं फलं च करोतीत्याह || दुःखमिति ॥ मायारचितान्तरात्मा जीवोपाधिभूतं मन इत्यर्थः । दुःखं, सुखं, व्यतिरिक्त मोहं, च तीव्रं दुर्निवार कालोपपन्नं कालप्राप्तं फलं आव्यनक्ति सर्वतोऽभिमुखतया सृजति ततश्च स्वदेहिनं कृतस्वविश्वास जीवः आलिङ्ग्य । संसृतिचके कूटयति छलयतीति संसृतिचक्रकूटस्तथाविधो भवति । यथा ग्रामकूटो लोकांच्छलयति तथायमपि आत्मानं छलयतीति भावः ॥ ६ ॥ * * एवमयं मनोनिबन्धनः संसारो जीवे फलती- त्याह । तावानिति ॥ तावान् अयं सदा क्षेत्रज्ञसाक्ष्यः जीवस्य दृश्यः भवति यः स्थूलसूक्ष्मः जाग्रत्स्वरूपः व्यवहारः संसारः, आविः प्रकाशमानः सन् * , । मनसः संसारहेतुत्वमुपसंहरन मोक्षस्यापि तदेव कारणमित्याह । तस्मात्कारणात्, अदः मनः, परावरस्य परावरतारूपस्य, गुणागुणत्वस्य गुणस्य गुणाभिमानत्वस्य संसारस्यागुणत्वस्य तद्राहित्यस्य मोक्षस्य चेत्यर्थः । लिङ्गं कारणं, वदन्ति ॥ ७ ॥ * ॥ नन्वेकमेव मनः विलक्षणयोः कार्ययोः कारणं कथमिति चेदवस्थाभेदादित्याह ॥ गुणेति ॥ गुणेषु अनुरक्तं गुणानुरक्तं, त्रिगुगानुरक्तमित्यर्थः । मनः जन्तोः, व्यसनाय दुःखाय संसारायेति यावत स्यात् अथो कात्स्र्त्स्न्येन निर्गतं गुणेभ्य इति निर्गुणं तदेव नैर्गुण्यं, चातुर्वण्यदेराकृतिगणत्वात् स्वार्थे ध्यम्, तन्मनः क्षेमाय स्यात् । एतदेव दृष्टान्तेन स्फुटयति । यथेति । यथा प्रदीपः घृतवति घृतावसिक्तां वर्त्तिकामित्यर्थः । अश्नन् प्राप्नुवन्सन, सधूमा घूमसहिताः, शिखाः भजति । अन्यदा सघृतवर्त्त्याः क्षये, स्वं पदं भजति हि, स्वकीयं शुद्धं भाखरं रूप महाभूतात्मत्वं वा प्राप्नोत्येवेत्यर्थः । पदमित्युत्तरश्लोक- गतमध्याहृतमस्ति ।। ८ | TR ॥ ৫% BOERE Isis res 11 11 FIRIVER FIRE BRIDES IPSEIF FIPPY OPRIS WWE FIE भाषानुवादः राजा रहगणको भरतजीका उपदेश
- रू मह अपने PPRREIS EPIE EFF PSTET जडभरतने कहा- राजन् ! तुम अज्ञानी होनेपर भी पण्डितोंके समान ऊपर-ऊपर की तर्क-वितर्कयुक्त बात कर रहे हो। इसलिये श्रेष्ठ ज्ञानियोंमें तुम्हारी गणना नहीं हो सकती । तत्त्वज्ञानी पुरुष । इस अविचारसिद्ध स्वामी सेवक आदि व्यवहारको तत्त्वविचारके समय सत्यरूपसे स्वीकार नहीं करते ।। १ ।। 3 * 3. लौकिक व्यवहार के समान ही वैदिक व्यवहार भी सत्य नहीं है, क्योंकि वेदवाक्य भी अधिकतर गृहस्थजनोचित यज्ञविधिके विस्तारमें ही व्यस्त हैं, राग द्वेषादि दोषोंसे रहित विशुद्ध तत्वज्ञानकी पूरी-पूरी अभिव्यक्ति प्रायः उनमें भी नहीं हुई है 3 जिसे गृहस्थोचित यज्ञादि कर्मोंसे प्राप्त होनेवाला स्वर्गादि सुख स्वप्नके समान हेय नहीं जान पड़ता, उसे तत्त्वज्ञान कराने में साक्षात् उपनिषद्वाक्य भी समर्थ नहीं हैं ॥ ३ ॥ * * जबतक मनुष्यका मन सत्त्व, रज अथवा तमोगुणके वशीभूत रहता है, तबतक वह बिना किसी अङ्कुशके उसकी ज्ञानेन्द्रिय और कर्मेन्द्रियोंसे शुभाशुभ कर्म कराता रहता है ॥ ४ ॥ * * यह मन वासनामय, विषयासक्त, गुणोंसे प्रेरित, विकारी और भूत एवं इन्द्रियरूप सोलह कलाओं में मुख्य है। यही भिन्न-भिन्न नामोंसे देवता और मनुष्यादिरूप धारण करके शरीररूप उपाधियोंके भेदसे जीवकी उत्तमता और अधमताका कारण होता है ॥ ५ ॥ यह मायामय मन संसारचक्रमें छलनेवाला है, यही अपनी देहके अभिमानी जीवसे मिलकर उसे कालक्रमसे प्राप्त हुए सुख-दुःख और इनसे व्यतिरिक्त मोहरूप अवश्यम्भावी फलोंकी अभिव्यक्ति करता है ॥ ६ ॥ ** जबतक यह मन रहता है, तभीतक जाग्रत् और स्वप्नावस्थाका व्यवहार प्रकाशित होकर जीवको दृश्य बनाता है। इसलिये पण्डितजन मनको ही त्रिगुणमय अधम संसारका और गुणातीत परमोत्कृष्ट मोक्षपदका कारण बताते हैं । ॥ ७ ॥ ** विषयासक्त मन जीवको संसार-संकटमें डाल देता है, विषयहीन होनेपर वही उसे शान्तिमय मोक्षपद प्राप्त करा देता है। जिस प्रकार घीसे भीगी हुई बत्तीको खानेवाले दीपकसे तो धूवाली शिखा निकटती रहती है और जब घी समाप्त हो जाता है तब वह अपने कारण अग्नितत्त्वमें लीन हो जाता है-उसी प्रकार विषय और कर्म में आसक्त हुआ मन तरह-तरहकी वृत्तियोंका आश्रय लिये रहता है और इनसे मुक्त होनेपर वह अपने तत्त्वमें लीन हो जाता है ॥ ८ ॥ २३२ श्रीमद्भागवतम् [ स्कं. ५ अ. ११ लो. ९-१४ एकादशासनमनसो हि वृत्तय आकूतयः पञ्च धियोऽभिमानः । मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर’ भूमीः ॥ ९ || गन्धाकृतिस्पर्श रसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः । एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः ॥ १० ॥ द्रव्यस्वभावाशय कर्म कालैरेकादशामी मनसो विकाराः । सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥। ११ ॥ क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः आविहिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे हा विशुद्धकर्तुः ॥ १२ ॥ क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयंज्योतिरजः परेशः । नारायणो भगवान् वासुदेवः स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३ ॥ स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत् । यथानिलः एवं परो
ফ भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४ ॥ अन्वयः - हि पञ्च आकूतयः धियः अभिमानः मनसः एकादश वृत्तयः आसन वीर मात्राणि कर्माणि च पुरम् ह एका- दश तासाम् भूमीः वदति ॥ ९ ॥ गंधाकृतिः स्पर्शरसश्रवांसि विसर्गरत्यर्त्य भिजल्पशिल्पाः एके मन इति एकादशम् शय्याम् अहम् द्वादशम् ॥ १० ॥ * * मनसः द्रव्यस्वभावाशयकर्मकालैः अमी एकादश विकाराः सहस्रशः शतशः च कोटिशः क्षेत्रज्ञतः स्युः स्वतः न मिथः न ॥। ११ ॥ * हि शुद्धः क्षेत्रज्ञः मायारचितस्य अविशुद्धकर्तुः जीवस्य मनसः एताः नित्याः क्क अपि आविर्हिताः च तिरोहिताः विचष्टे ।। १२ ।। * * क्षेत्रज्ञः आत्मा पुराणः पुरुषः साक्षात् स्वयंज्योतिः अजः परेशः नारायणः भगवान् वासुदेवः स्वमायया आत्मनि अवधीयमानः ॥ १३ ॥ * * यथा अनिलः आत्मस्वरूपेण निविष्टः स्थावरजंगमानाम् ईशेत् एवम् परः भगवान् वासुदेवः क्षेत्रज्ञः आत्मा इदम् अनुप्रविष्टः ॥ १४ ॥ श्रीधरखामिविरचिता भावार्थदीपिका वृत्तीदर्शयति । एकादश वृत्तय आसन् । आकूतयः क्रियाकाराः पंच धियश्च ज्ञानाकाराः पंच अभिमानश्चेति । हे वीर भूमीर्विषयान् ॥ ९ ॥ * विषयानेवाह । गंधादयः पंचज्ञानेन्द्रियद्वारा धीवृत्तीनां विषयाः । आकृतिः रूपम् । श्रवः शब्दः विसर्गादयः पंच कर्मेद्रियद्वारा कर्माकारवृत्तीनां विषयाः । रतिः संभोगः । अर्तिर्गतिः । पुरस्याभिमानविषयत्वप्रकारमाह एकादर्श पुरम् । स्वीक्रियत इति स्वीकरणम् । अयमर्थः । शरीरमभिमानस्य न ज्ञेयतया गंधादिवद्विषयः नापि कार्यतया विसर्गादिवत्, किं तु ममेति भोगायतनत्वेन स्वीकार्यं तया विषय इति । एके तु विवेकिनामेव पुरं ममत्वाभिमानविषयो न तु मूढानामतो मूढदृष्टया अहमहंकारं द्वादशं वृत्त्यंत्तरमाहुः । तस्य च पुरमेव शय्यासंज्ञं द्वादशं विषयमाहुः । तत्र हि जीवोऽहंकारेण सह शेते यतः पुरि शय- नात्पुरुष इत्युच्यते ॥ १० ॥ * * तासां वृत्तीनामवांतर भेदैरानंत्यमाह । द्रव्याणि विषयाः स्वभावः परिणामहेतुः आशयः संस्कारः कर्म अदृष्टं कालः क्षोभकः तैर्निमित्तभूतैः प्रथमं शतशस्ततः सहस्रशस्ततः कोटिशः स्युर्न तु मिथः स्युर्न च स्वतः किं तु क्षेत्रज्ञतः परमेश्वरात् । तस्य चानंतशक्तित्वादनन्ताः स्युरित्यर्थः । यद्वा तासां मिध्यात्वमनेनोच्यते । कोटिशो भवत्यतस्ताः क्षेत्रज्ञत एव स्युस्तत्सत्तयैव सत्तां लभेरन्न तु मिथो न च स्वत इति । यद्वा क्षेत्रज्ञो जीवस्तस्मान्न स्युस्तस्या विकारित्वात् । न मिथः इतरेतरा- श्रयत्वापत्तेः । न स्वतः आत्माश्रयत्वापत्तेः । अतो मिथ्याभूता एव ॥ ११ ॥ तदेवं श्लोकत्रयेण गुणकर्मानुबद्धं मनोवृत्तीः श्रयत इति यदुक्तं तत्प्रपंचितम् । अन्यदा तत्त्वं श्रयत इति यदुक्तं तदेव तत्त्वमाह क्षेत्रज्ञ इति । जीवस्य जीवोपाधेः अविशुद्ध- कर्तुर्मनसः नित्याः प्रवाहरूपेणाविच्छिन्ना जाग्रत्स्वप्नयोराविर्भूताः पश्यति कापि सुषुप्तौ तिरोभूताः पश्यति । अवस्थात्रयसाक्षी क्षेत्रज्ञ आत्मा तत्त्वमित्यर्थः ॥ १२ ॥ * * क्षेत्रज्ञो द्विविधः त्वंपदार्थो जीवः तत्पदार्थ ईश्वरश्व । तत्राद्यो निरूपित इदानीं तत्प्राप्यमीश्वरं निरूपयति । क्षेत्रज्ञ आत्मा व्यापी । पुराणो जगत्कारणभूतः । पुरुषः पूर्णः । साक्षादपरोक्षः । स च स्वयंज्योतिः न तु ज्ञानस्य विषयत्वेनाश्रयत्वेन वा परोक्षः । अजो जन्मादिशून्यः परेषां ब्रह्मादीनामपि ईशः । नारं जीवसमूहः सोऽयनं यस्य नियंतुः भगवानैश्वर्यादिषड्गुणवान् । वासुदेवः सर्वभूतानामाश्रयः स्वाधीनया माययाऽऽत्मनि जीवेऽबधीयमानोऽवस्थाप्यमानः । कर्मकर्तरि प्रयोगः । तन्नियंतृत्वेन वर्तमान इत्यर्थः ॥ १३ ॥ * * एतत्सदृष्टांतमाह यथेति । आत्मस्वरूपेण प्राणरूपेण ईशेन्नियमयति । इदं विश्वम् ॥ १४ ॥ A ४ । * १. प्रा० पा० - मनसस्तु वृत्तयः २. प्रा० पा० - धियोऽभिमानाः । ३. प्रा० पा०- प्राचीने पाढे ‘वीर’ पाठः खण्डितः । एक. ५ अ. ११ लो. ९-१४] अनेकव्याख्यासमलङ्कृतम् २३३ श्रीवंशीधरकृती भावार्थदीपिकाप्रकाश पह ६ * .. স हे वीरेति । रागद्वेषदलनसमर्थस्य तव विचारमार्गेपि कातर्य न युक्तमिति भावः । यद्वा-ज्ञानग्रहणरूपनिश्चयांतगामिन् “आकारे सर्वथा यत्ने रूपे चाकृतिरुच्यते” इति निरुक्तिः ॥ ९ ॥ * शिल्पो लिप्यादिर्हस्तविषयः । अत्राशयमाह-अयमर्थ इति ।। १० ।। * द्रव्येति । कोटिश इतः पूर्व लक्षश इत्यपि ज्ञेयम् । द्रव्याणां चंदनकस्तूरीकुंकुमादीनां स्वर्णरजतादीनां चानंत्यात् । कोपि गंधरूपादिः । कस्मैचिद्रोचत इति स्वभावानन्त्यात् । आशयोंतःकरणं तस्य शिष्टतादुष्टताभ्यां कर्मादृष्टं तद्वशादपि कालो बाल्ययौवनादिस्तद्वशादपि प्रत्येकमनंता एव गंधादयः स्युरिति चार्थः । अनन्तवृत्तिस्वीकारे संसाराभावप्रसंगमाशं- क्याह-यद्वेति । सांतवृत्तिस्वीकारेऽपि तदुत्पादकः क इत्याकांक्षायामाह-यद्वेति । परस्परसिद्धौ परस्परापेक्षणमन्योन्याश्रयः । यथा प्रथमवृत्तिगतैकत्वमपेक्ष्य द्वितीयवृत्तौ द्वित्वसिद्धिर्द्वितीयवृत्तिगतद्वित्वमपेक्ष्य प्रथमायामेकत्वसिद्धिरित्यन्योन्याश्रयः । स्वसिद्धौ स्वस्या- पेक्षणमात्माश्रयः स्वस्मात्स्वभावनांगीकारे आत्माश्रयो भवतीत्यर्थः । अतो वृत्तीनामुत्पादकनिर्णयाभावात्ता मिथ्याभूता एवेति भावः ॥ ११ ॥ इत्यर्थ इति । आत्मैव सत्यत्वात्तत्वं तदितरत्सर्वमसत्यत्वादतत्त्वमिति भावः । अत्र संदर्भः यशुद्धोऽपि
- । मायारचितस्य वक्ष्यमाणसर्वक्षेत्रज्ञस्य मायया कल्पितस्य मनसोंतःकरणस्यैताः प्रसिद्वा विभूतीर्वृत्तीर्विचष्ट विशेषेण पश्यति पश्यंस्त- त्राविष्टो भवति स खल्वसौ जीवनामा स्वशरीरद्वयलक्षणक्षेत्रस्य ज्ञातृत्वात् क्षेत्रज्ञ उच्यत इत्यर्थः । तदुक्तं “यया संमोहितो जीव आत्मानं त्रिगुणात्मकम्” इत्यादि । मनसः कीदृशस्य जीवस्य जीवोपाधितया जीवतादात्म्येन रचितस्य ततश्च तत्तयोपचर्यमाणस्येत्यर्थः । ततश्च कीदृशस्या विशुद्ध भगवद्बहिर्मुखं कर्म करोतीति तादृशस्य कीदृशीर्विभूतीर्नित्या अनादित एवोपगताः, कथं तर्हि सदा न दृश्यंत ‘इत्यत आह आविहिताः कापीति ।। १२ ।। * इत्यर्थ इति । जीवानां नियंतेश्वर इति भावः । अत्र संदर्भ-यस्तु पुराणः पुरुषः ‘आद्योऽवतारः पुरुषः परस्य’ इत्यादिना द्वितीयस्कंधादौ प्रसिद्धः साक्षादेव स्वयंज्योतिः स्वप्रकाशः न तु जीववदन्यापेक्षया अजो मायिकजन्मादिशून्यः । स्वमायया स्वरूपशक्त्यात्मनि स्वरूपेऽवधीयमान इति मायायां मायिकेप्यंतर्यामित्वेन प्रविष्टोऽपि स्वरूपशक्त्या स्वरूपस्य एव न तत्संसक्त इत्यर्थः । यद्वा-सुष्ठु अमायया हेतुना मुक्तजीवेनात्मनि मनस्यवधानविषयीक्रियमाण इति । वासुदेवत्वेन सर्वक्षेत्रज्ञातृत्वात्सोऽपरः क्षेत्रज्ञः आत्मा परमात्मेति । तदेवं मुख्यं क्षेत्रज्ञत्वं परमात्मन्येव । तदुक्त “सर्व पुमान्वेद गुणांच तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे” इति तथा श्रीगीतोपनिषत्सु “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति त प्राहुः क्षेत्रज्ञ इति तद्विदः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।। क्षेत्रक्षेत्रज्ञयोज्ञानं यत्तज्ज्ञानं मतं मम । " इति । अत्र खलु क्षेत्रज्ञं चापि मां विद्धि इति सर्वेष्वपि क्षेत्रेषु मां च क्षेत्रज्ञ विद्धि न तु जीवमिव स्वस्वक्षेत्र एवेत्यर्थं वहति । ‘ज्ञेयं यत्तत्प्रवक्ष्यामि’ इत्यादी ‘सर्वतः पाणिपादं तत्’ इत्यादिना सविशेषत्वस्यैव निर्दिष्टत्वात् । अमानित्वमित्यादिना ज्ञानस्य च तथोपदिष्टत्वात् । किं च क्षेत्रज्ञ चापीत्यत्र “तत्त्वमसि’ इतिवत्सामानाधिकरण्येन तन्निर्विशेषज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोज्ञने विवक्षिते क्षेत्रज्ञेश्वरयो- ज्ञानमित्यन्येत न तु क्षेत्रक्षेत्रज्ञयोर्ज्ञानमिति । किं तु क्षेत्रक्षेत्रज्ञयोरित्यस्यायमर्थः ज्ञेयस्यैकत्वेन निर्दिष्टत्वाद्येोग्यत्वाच । न च निरीश्वर सांख्यवत् क्षेत्रक्षेत्रज्ञमात्रविभागात् ‘अत्र ज्ञानं मतं ‘मम’ इत्यनेनेश्वरस्यापेक्षितत्वात् । न च विवत्त्वदीश्वरस्यापि भ्रममात्र प्रतीत पुरुषत्वं तद्वचनलक्षण सवेदगीतादिशास्त्राणामप्रामाण्याद् बौद्धवादापत्तेः । तस्यां च सत्यां बौद्धानामिव विवर्त्तवादिनां तद्वयाख्यानायुक्तेरिति । तीर्थेणात्र श्रुतयोपि सर्वपदेषु प्रमाणिताः ताच “आत्मेति यदाप्नोति यचादत्ते महांतं विभुमात्मानम्” इति “अत्रायं पुरुषः स्वयंज्योतिः” इति । “अजो नित्यः” इति । ‘परेश:’ “ब्रह्मणोऽधिपतिः” इति । नारायणत्वं तु कस्यचिद् प्रामा- धिपतेरपि स्यादत उक्त भगवानिति । उत्पत्ति प्रलयं चैव’ इत्युक्तलक्षणः स ज्ञेयः । एतादृशस्तु ऋषिस्त्रिकालदर्शी स्यात्’ इत्युक्तेः । कश्चिदृषिः स इत्यत आह-वासुदेव इति ।। १३ ।। * स भगवान्मुक्तजीवेन सुलभ एवेति संदृष्टांतमाह यथेति । “वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपों बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।” इति काठकश्रुतेः ॥ १४ ॥ हाल 15 CIEP . श्रीमद्वीरराघवव्याख्या BE DEI FIFTE IT द । गुणकलुषस्य मनसो वृत्तीः प्रपञ्चयति एकादशेत्यादिना । मनसः एकादशवृत्तीवृत्तय आसन् ताः का इत्यत्राह । आकूतयः कर्मेन्द्रियाणां व्यापारविषयाः पञ्च धियः क्रियाकारा धियः ज्ञानेन्द्रियद्वारेण पञ्चवृत्तयो ज्ञानाकाराः एकादश सद्वारकाः अहंममाद्यभिमाननानात्वद्वारकैका संभूयैकादश हे वीर ! तासां वृत्तीनां भूमीविषया मात्राणि पञ्च कर्माणि पञ्च पुरम् इत्येकमिति संभूयैकादशेति वदन्ति तत्त्वविदः । तत्र मात्राणि गन्धादीनि ज्ञानाकाराणां वृत्तीनां विषयाः कर्माणि तु विसर्गादीनि क्रियारूपाणां पुरं त्वभिमानरूपाया इति विवेकः, पुरमत्र शरीरं तस्याहंममाभिमानविषयत्वादिति ॥ ९ ॥ * * ज्ञानकर्मोभयेन्द्रिय- व्यापार विषयाणि मात्राणि कर्माणि प्रपञ्चयति गन्धेति । गन्धः घ्राणेन्द्रियवृत्तिविषयः आकृती रूपं चक्षुरिन्द्रियवृत्तिविषयः स्पर्शः त्वगिन्द्रियविषयः रसो रसनेन्द्रियविषयः श्रवः शब्दः श्रोत्रेन्द्रियस्य विषयः, एवं पायूपस्थपादवाकपाणिवृत्तीनां क्रमेण विसर्गादयः पञ्च विषयाः । तत्र विसर्गः पुरीषोत्सर्गः रतिः संभोगः अतिर्गमनमभिजल्पो भाषणं शिल्प आदानादिः गन्धादयः पञ्च ज्ञानेन्द्रिय- ३० २३४ ܀ श्रीमद्भागवतम् [ स्कं. ५ अ. ११ श्लो. ९-१४
- तदेव द्वारा मनोवृत्तीनामेव विषयाः तथा विसर्गादयः कर्मेन्द्रियद्वारा मनोवृत्तीनामेव पञ्चानां पञ्च विषया इति विवेकः पुरस्याभिमान- विषयत्वप्रकार माह एकादशमिति । स्वीकरणं ममेदं शिरः ममाऽयं हस्त इत्याद्यभिमानेन स्वीकरणं स्वीकार्य शरीरमभिमानस्य विषयः तदेकादशं वदन्ति । अयमर्थः शरीरमभिमानस्य न ज्ञेयतया गन्धादिवद्विषयः, नापि कार्यतया विसर्गादिवत्किंतु ममेति स्वशेषतया स्वीकार्यत्वेन विषय इति विवेकिनामेव शरीरं ममाभिमानविषयमिति वदन्ति, प्रायेण स्वीकरणं ममाभिमानस्य विषयत्वेनोक्तमविवेकिनां तु शरीरमहमभिमानविषयमिति तदभिप्रायेणाह । शय्यामहं द्वादशमेक आहुः इति । एके केचिदह- महङ्कारः अनात्मन्यात्मतादात्म्याभिमानरूपस्तं द्वादशीं वृत्ति तस्या विषयभूतां शय्यां शरीरं द्वादशविषयं चाहुरित्यर्थः । जीवो यतः स्वस्वरूपव्यामोहेन शरीरे शेते वसतीति शरीरं शय्याशब्देनोच्यते । ननु गन्धादीनां तद्विषयज्ञानानां च वृत्तिरूपाणां भेदाद्विषयि- विषयभाव उपपन्नः, विसर्गादीनां कर्मेन्द्रियवृत्तित्वात्तेषामेव पुनस्तद्विषयत्वमनुपपन्नमिति चेन्न, विसर्गादीनां क्रियात्मकत्वात् क्रियायाश्च फलव्यापारभेदेन द्वैविध्यात्तत्र व्यापारांशस्य वृत्तित्वं फलांशस्य विषयत्वमिति भेदात्, तथाहि उत्सर्गस्यागो विश्लेषस्त- द्विषयः तदनुकूलो व्यापारो वृत्तिरेवं रत्यादिष्वपि बोध्यम् ।। १० ।। * उक्तानामेकादशानां वृत्तीनामवान्तरभेदैरा- नन्त्यमाह । द्रव्यं पृथिव्यादिभूतपञ्चकं तेषामसाधारणो गुणः स्वभावस्तेषां परिणामस्वभावो वा तेषां विचित्र परिणामहेतुर्वा आशयो वासना कर्माणि पुण्यपापानि एतैः पूर्वोक्ता एकादशवृत्तिरूपा मनसो विकाराः प्रथमं शतशस्ततः सहस्रशः ततः कोटिशश्च स्युः, नैते विकाराः केवलस्य मनसः किन्तु क्षेत्रज्ञाधिष्ठितस्यैव भवन्तीत्याह । क्षेत्रज्ञाधिष्ठितस्य मनसो भवन्तीत्यर्थः । क्षेत्रज्ञमनसोरपि परस्पराधिष्ठितयोर्न भवन्ति किन्तु क्षेत्रज्ञाधिष्ठितमनस एवेन्याह न मिथ इति । तत्रापि न स्वतो भवन्ति किन्तु कर्मत इत्याह । न स्वत इति कर्माधीना इति भावः । क्षेत्रज्ञशब्दोऽत्र जीवपरः, तस्यैव मनोऽधिष्ठातृत्वात्सङ्कोचविका सवद्धर्मभूतज्ञानाश्रयत्वाच्च, यद्यप्यत्र प्रकरणे क्षेत्रज्ञशब्दो नारायणवासुदेव भगवदादिसामानाधिकरण्येन प्रयुज्यमानः परमात्मपरोऽवगम्यते । क्षेत्रं जानातीत्यव- यवार्थपौष्कल्यञ्च तत्रैव तथाप्यत्र जीवपर आश्रयणीयः उक्तयुक्तः । ‘क्षेत्रज्ञ एता मनसो विभूतीः क्षेत्रज्ञ आत्मा पुरुषः पुराणः’ इत्यत्र तु परमात्मपरः । यद्वात्रापि क्षेत्रज्ञशब्दः परमात्मपर एव, तस्य सर्वोपादानतया चिदुपादानत्वाश्चेतनद्वारा तद्धर्मभूतज्ञानसङ्कोचविका- साश्रयत्वात् जीवद्वारा मनोऽधिष्ठातृत्वसम्भवाच । “अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधाश्च पृथक चेष्टा देव चैवात्र पञ्चमम् ॥” इति प्रयोजकतया देवस्य इति प्रयोजकतया देवस्य परमात्मनोऽपि सर्वत्रान्वर स्मरणाश्च ॥ ११ ॥ * । मनसो सो गुणत्रयोपरागानुपरागाभ्यां बन्धकत्वमोचकत्वे गुणोपरक्तस्य मनसः क्षेत्रज्ञस्याधिष्ठितस्य वृत्तयश्चाभिहिताः । एवम- चेतनत्वं निरूपितमिदानीं चेतनत्वं निरूपयिष्यन् तावत्प्रधानभूतं परमात्मतत्त्वं शोधयति क्षेत्रज्ञ इति त्रिभिः । अत्र क्षेत्रज्ञशब्दो न जीवपरः, किन्तु परमात्मपरः जीवस्येति प्रथनिर्देशात् । अविशुद्धकर्मकर्तृर्जीवस्य मनसः जीवाधिष्ठितस्य मनसः मायारचिताः प्रकृतिमूला एता उक्ताः तत्फलभोक्तुश्र विभूतीः वृत्तिविस्तारान्नित्याः प्रवाहतो नित्याः क्वचिज्जाप्रदवस्थाया- माविर्भूताः कापि सुषुप्तौ तिरोहिताश्च । क्षेत्रज्ञः परमात्मा शुद्धवृत्त्या यतः सुखदुःखादिरूपमालिन्यरहित एव विचष्टे, तथा च श्रुतिः “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति” इति मायारचितस्येति पाठे मनसो विशेषणं प्रकृतिपरिणामरूपस्य मनसः ॥ १२ ॥ * * एवं कर्मकर्तृतत्फलभोक्तृजीवसाक्षितया तदभोगेन स्वयंप्रकाशमानतया च वर्त्तमानः परमात्मेत्युक्तं भवति, पुनः प्रकृतिपुरुषयोरसंभावितधर्मविशेषैस्तं विशिनष्टि क्षेत्रज्ञ इति । अनेनाचेतनव्यावृत्तिर्जीवव्यावृत्तिश्च नहि जीवः क्षेत्रं यादृक् यत्स्वरूपं तथा जानाति किन्तु ममेदमिति सामान्याकारेणात्मा प्रकृतिपुरुषयोरन्तः प्रविश्य नियन्तृत्वेन धारकः पुराणः पुरुषः न जगदादिकारणतया वर्त्तमानः पुरुषः साक्षात्स्वप्रकाशस्वरूपः, स्वयं ज्योतिष्यं जीवेऽपि प्रसक्तं तद्व्युदास्तये यत्साक्षादित्युक्तं साक्षादपरोक्षं स्वयंज्योतिः न हि जीवस्वरूपं मनआदिभ्यो विविक्तं बद्धावस्थायामवभासते मुक्तावस्थायामपि तदवभासस्य परमात्मप्रसादायत्तत्वात् निरुपाधिकसाक्षादवभासाभावानिरुपाधिकसाक्षात्स्वयं ज्योतिष्वस्यैवात्राभिप्रेतत्वात् नित्य- सिद्धानामपि तथात्वस्य परमात्मनो नित्येच्छायत्तत्वेन निरुपाधिकत्वाभावात् अजः स्वरूपतः स्वभावतश्चोत्पत्त्यादिविकाररहितः अचेतनस्वरूपस्वभावाभावाभ्यामुत्पत्तिमतोः प्रकृतिपुरुषयोर्व्यावृत्तिः जीवस्यापि ज्ञानविकाशरूपस्वभावोत्पत्तेः सत्त्वात् परेषां ब्रह्मादीनामपि ईश्वरः देवताविशेषनिश्चयायोक्तम् । नारायणो भगवान् वासुदेव इति । नारं जीवसमूहस्तस्यायनं प्राप्यं प्रापकमाधार- श्वेत्येवं नारायणशब्दो योगरूढिभ्यां विष्णोरेवासाधारणः । अत्र निर्वचनानि पूर्वमेवोपन्यस्तानि एवं वासुदेवशब्दोऽपि " वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि” इति तत्रैव नियतः स्मर्यंते, भगवच्छब्दोऽपि भगवत्पर शरादिभिः “संहर्ता च तथा भर्ता” इत्यादिभिरंशतः समुदायरूपेण च तत्रैव नियतः स्मृतः । नन्वात्मतया सर्वव्यापकश्चेत्कथमदर्शनमत आह । स्वमायया स्वाधीनमायया आत्मन् जीवे आर्षत्वात्सप्तम्या लुक परमे व्योमन्नितिवत् - व्यवधीयमानः तिरोधीयमानः प्रकृतिवशगै- द्रष्टुमशक्य इत्यर्थः ॥ १३ ॥ * * न प्रकृतिवशगैर्दुर्दर्शत्वमात्रेण सर्वव्यापकत्वं भगवतः किन्तु वायुवददृश्य एव सर्वव्यापकतया नियमयतीत्याह यथेति । यथानिलो वायुरात्मस्वरूपेण चराचरभूतानामन्तः प्रविष्ट ईष्टे प्रेरयति एवं क्षेत्रज्ञः परमात्मा भगवान् वासुदेवोपीदं जगच्चेतना चेतनात्मकमन्तर्नियन्तृतया प्रविष्टः भगवतो व्याप्तिद्वारा प्रेरकतया चेत्यनिलदृष्टान्तः स्वतः सिद्धः ॥ १४ ॥ स्क ५. ५. अ. ११ श्लो. ९-१४] । । अनेकव्याक्यासल कृतम् श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली सी क २३५ श्रोत्रादीन्द्रियेषु सत्सु मनस एव प्राधान्यं कथमित्याशय तत्तदिन्द्रियद्वारा तत्तद्विषयेषु मनसः प्रवृत्तेरित्याह एकादशेति । अस्य मनस एकादशवृत्तीर्वृत्तय आसन्नित्यन्वयः । अयमर्थः श्रोत्रादीनि दश एक मनः स्वयमित्येकादशेन्द्रियाणि इन्द्रियद्वारेण बही रूपादिषु प्रवर्तमानस्य मनस एकादशवृत्तय इत्युच्यन्ते । तदुक्तम् “एकादशेन्द्रियद्वारा स्युरेकादश वृत्तयः” इति अत्र कश्चिद्विभागोऽप्यस्ति एकादशधा विभक्तस्य मनस आकूतयः अहं शब्दं शृणवानीत्यादिविषयानुभवेच्छा पञ्चशब्दादीनां च तावत्त्वान्निश्चयलक्षणरूपान्तरमास्थितस्य धियो बुद्धयपरपर्यायस्य मनसोऽभिमाना अहं मधुरं शृणोमीत्यादिरूपाश्च पश्र्च । तदुक्तं “शब्दाद्यास्तदभीमानास्तदिच्छाश्चैव पञ्चशः” इति कर्मेन्द्रियाणां स्पर्शान्तर्भावेन एकत्वेन पृथग्विषयाभावेन पञ्च पञ्च सङ्ख्या- त्वोपपत्त्या एकादशधापि विभक्तस्य मनस एकादशाकृतयोऽप्यपेक्षिता इति दुराग्रहो निरस्तः “स्पर्शान्तर्भावतः कर्मस्वानां नैव पृथग्गतिः” इति वचनात् । तहींन्द्रियचेष्टानामपि पचत्वं स्यादित्याशङ्कय विषयबाहुल्येन तावत्त्वं न घटत इत्यभिप्रेत्याह मात्राणीति । मात्राणि श्रोत्रादिज्ञानेन्द्रियविषयाः शब्दादयः कर्माणि वागादिकर्मेद्रियविषया गमनादिव्यापाराः पुरं शरीरं चेत्यतस्तासामिन्द्रियवृत्तीतां भूमिमधिष्ठानमेकादश वदन्ति हेत्यनेनेन्द्रियगणं च भूमिं वदन्ति । तदुक्तम् “एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक् । गोलकास्तदधिष्ठानं चैकादश निगद्यते” इति । हे वीर ! ज्ञानग्रहणेच्छालक्षणाध्यवसायान्तगामिन् ! मात्राणीत्यादिनोक्ता भूमीः पृथक पृथक् निदर्शयति ॥ ९ ॥ * * गन्धेति । आकृती रूपं अर्तिरुपस्थविषयः शिल्पो हस्त- विषयः । एकादशमधिष्ठानं ममेति स्वीकरणं सङ्कल्पविकल्पलक्षणं स्वीकारयोग्यमिन्द्रियगणं चाहुः । ‘पुरि तनौ शेते’ इति श्रुतेः हृदयलक्षणनाड्यधिष्ठानसम्भवात्कथमेका दशत्वमित्याशङ्कय संख्यान्तरमाह मायामिति । मायां नानाधिष्ठानभूतां नाडीमह मित्यभिमन्तव्यं मायां निश्चयज्ञानविषयां वा तदुक्तम् “एष संसृतिसम्भारो द्वादशैवाथ वा भवेत्” इति एकादशत्वं च प्रसङ्गाद्वक्ति “दशकं विषयाणां च ममाहमिति च द्वयम्” इति सर्वान्तर्भावेन द्वयमेव वक्ति द्वयमेव ममाहश्चेति । मायामहमित्यनेनायमर्थो ध्वनितः । तथाहि विषयाणां दशकं मायामित्येकमहमित्येकमिति द्वादशमित्यर्थः । समेति वृत्तिविशिष्टमन्तःकरणं मायामिति ज्ञातव्यम् । यद्वा द्वादशसङ्ख्या विशिष्टत्वेनोक्तमहमिति वृत्तिविशिष्टमन्तःकरणमेकमेव संसृतिकारणमिति शेषः । तदुक्तं संसृतिस्त्वहमेव चेति ॥ १० ॥ * * शृङ्गमाहिकयैवाभिव्यक्तिनिमित्तमाह द्रव्येति । द्रव्यं देहादिः स्वभावो जीवस्था- नादियोग्यता आशयः पूर्वानुभवसंस्कारः कर्म जन्मान्तरकृतं पुण्यपापलक्षणमदृष्टं कालः फलपाचकः - एतैरुद्बोधिता अमी मनसः एकादश विकारा जायन्त इति शेषः । न केवलं मनस एकादशैव विकाराः किन्तु मन्दमध्यमोत्तमविक्षेपभेदेन शतश आदिविकाराः सन्तीत्याह सहस्रश इति । क्रमभङ्गस्तु नियमभङ्गाय । ननु देहाद्येवैषां यदि निमित्तं तर्हि जन्मादिसूत्रोक- सङ्कोचेन ब्रह्मकारणत्वमनर्थकं स्यादपि च ब्रह्म वा एतैः कारणैः कारयतीति श्रुतिश्चापहस्तिता स्यादिति तत्राह क्षेत्रज्ञत इति । क्षेत्रज्ञतो ब्रह्मणो जीवान्तर्यामिणो हरेरेते विकाराः स्युर्जीवस्येति शेषः, देहाद्यधिष्ठाय जीवान्तर्यामी हरिः जीवाहह- मपेक्ष्य तद्भोगार्थमुत्पादयत्यतो देहादेः कर्तुत्वोपचारोऽतो न श्रुतिसूत्रे व्यर्थे इति भावः । नन्वन्योऽन्यापेक्षया मदिराद्रव्य- वत्स्वतो वैषामुत्पत्तिः किं न स्यात् किं मध्ये ब्रह्मकल्पनयेति तत्राह । न मिथ इति ॥। ११ ॥ * नन्वेषां सत्यत्वे किं मानमिति तत्राह क्षेत्रज्ञ इति । भोगयोग्यः क इत्यत उक्त जीवस्येति । उपादानाभावेनेन्द्रजाल सृष्टिवत् मिथ्याभूता इति नेत्याह । मायारचिता इति । मायया प्रकृत्या रचिताः “मायां तु प्रकृतिं विद्यात्” इति वचनात् नित्यत्वे कथं रचितत्वमित्यत उक्तमनित्या इति नित्यस्य जीवस्यानित्यानामनुभवः कथमित्यत उक्तमाविर्हिता इति जाग्रत्स्वप्नयोराचिर्हिताः कापि सुप्तौ तिरोहिताः विचष्टे पश्यति । दर्शनं साक्षित्वेन न त्वनुभवनम् “अनश्नन्नन्यो अभिचाकशीति” इति श्रुतेः । अविशुद्धकतुरित्यनेन साक्षिणो हरेर्जीवं व्यावर्तयति ।। १२ ।। * * शुद्धाशुद्धत्वविशेषणाभ्यां वैलक्षण्ये ज्ञाते मन्दस्यैकमेव वस्तु शबलनिर्गुणभेदेनोच्यत इति शङ्का स्यादिति तत्परिहाराय क्षेत्रज्ञं विशिनष्टि क्षेत्रज्ञ इति । आत्मा व्यापी " यचाप्नोति यदादते महान्तं विभुमात्मानम् ” इत्यादिश्रुतेः व्याप्तस्य नीरूपत्वेनाकाशवत्प्रतिपत्त्यनुपपत्तिरित्यतः पुरुष इति “सहस्रशीर्षा पुरुषः” इति श्रुतेः पुरि शरीरे निषण्णो भवतीति निरुक्त्या पुरुषश्चेत्तत्परिणामे तत्स्थस्यापि परिणामप्रसङ्ग इत्यतः पुराण इति “शाश्वतोऽयं पुराणः” इति श्रुतेः । कतिपय- दिनस्थायित्वेनापि पुराणशब्दार्थोपपत्तेरित्यतः साक्षादिति जडप्रकृतेरपि साक्षात् पुराणत्वोपपत्तेरनादित्वादित्यतः स्वयंज्योतिरिति “अत्रायं पुरुषः स्वयंज्योतिर्भवति” इति श्रुतेः । स्वयंज्योतिषोऽपि जीववत् जननं किं न स्यादित्यतोऽज इति “अजो नित्यः” इति श्रुतेः । नन्वयं हिरण्यगर्भः किं न स्यादित्यतः परेश इति । परो हिरण्यगर्भस्तस्येशः “यो ब्रह्माणं विदधाति पूर्वम्” इति श्रुतेः “ब्रह्मणोऽ- धिपतिः” इति श्रुतेः । हिरण्यगर्भेशोऽपि पशुपतिः किं न स्यादित्यतो नारायण इति । नरसमुदायो नारः तस्याश्रय इति ग्रामाधिपतेरपि नारायणत्वं स्यादित्यतो भगवानिति । “उत्पत्ति प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति” इति स्मृतेः । ऋषिस्त्रिकालदर्शी स्यात्तस्मादृषेरपि भगवच्छन्दवाच्यत्वोपपत्तेरित्यतो वासुदेव इति । अत्र व्यावृत्तिः पौराणिकरीत्योक्ता न तु न्यायशास्त्रोक्तिमवलम्ब्येति नोपहासविषयोऽयमिति ज्ञातव्यम् । नन्वेवंलक्षणकः क्षेत्रज्ञश्चेत्किमिति जनैन दृश्यत इत्यतः स्वमाययेति । खमायया स्वेच्छयात्मन्नात्मनि स्वस्मिन्नेव व्यवधीयमानः तिरोहितत्वेन स्थितः स्वात्माधारः स्वेच्छयेव " ।
२३६ श्रीमद्भागवतम् [ स्कं. ५ अ. ११ श्लो. ९-१४ जीवदृष्टेस्तिरोहितः क्षेत्रज्ञ इत्युच्यते विष्णुः जीवस्थः पुरुषोत्तमं इति च । अतोऽनिर्वाच्याविद्ययाच्छाद्यमानो न स्यादित्यर्थः “तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराण’ मिति श्रुतेश्च ॥ १३ ॥ ननु क्षेत्रज्ञो मनसो विभूतीः पश्यतीत्युक्तं दर्शनं बहिः स्थित्वोतान्तः स्थित्वा स्थित्वा, नाद्यः बहिष्ठस्यान्तर्दर्शनायोगात्, न द्वितीयः “असङ्गो ह्ययं पुरुषः” इति श्रुतेरसङ्गस्य देहान्तः प्रवेशा- योगान्तद्योग्यसुखदुःखभोगाप्राप्तेश्चेत्याशङ्कयाह यथानिल इति । यथानिल आत्मस्वरूपेण प्राणस्वरूपेण स्थावरजङ्गमानामन्तर्निविष्टः स्थावरजङ्गमानामीष्टे चेष्टालक्षणमीशनं करोति “अधीगर्थदयेशां कर्मणि” इति द्वितीयार्थे षष्ठी, न होतावता वायोः सुखादिभोगः श्रुतचरः । एवं क्षेत्रज्ञनामा वासुदेवो भगवानिदं जगदात्मस्वरूपेणान्तर्यामिरूपेणान्तः प्रविष्टः एता मनोविभूतीः प्रविष्टः एता मनोविभूतीः पश्यतीति पूर्वेणा- न्वयः । सर्वत्रोषित्वा क्रीडत इति वासुदेव इति वासुदेवपदप्रयोगेन दुर्भगशरीर योग्य दुःखभागाभावो जीवान्तःस्थत्वेन क्षेत्रज्ञ- शब्दार्थोऽपि दर्शित इति ज्ञायते । न निलः सङ्गो यस्यासावनिल इत्यतोऽसङ्गस्याप्यन्तः प्रवेशो युज्यत इति ॥ १४ ॥ Y FIE PRAPTI BEER BYF MEE श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः ली LP meg प मात्राणि विवृणोति गन्धाकृतीति । कर्माणि विवृणोति विसंगति ।। ९-११ ॥ * * क्षेत्रज्ञ इति । यः शुद्धोऽपि मायारचितस्य वक्ष्यमाणसर्वक्षेत्रज्ञस्य मायमा कल्पितस्य मनसोऽन्तःकरणस्यैताः प्रसिद्धा विभूतीवृत्तीर्विचष्टे विशेषेण पश्यति, पश्यंस्तत्राविष्टो भवति, स खल्वसौ जीवनामा स्वशरीरद्वयलक्षणक्षेत्रस्य ज्ञातृत्वात् । क्षेत्रज्ञ उच्यते इत्यर्थः, तदुक्तं “यथा सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्” इत्यादि । तस्य मनसः कीदृशतया मायारचितस्य तत्राह । जीवोपाधितया जीवतादात्म्येन रचितस्य ततञ्च तत्तयोपचर्यमाणस्येत्यर्थः । ततश्च कीदृशस्य अविशुद्धं भगवद्बहिर्मुखं कर्म करोतीति तादृशस्य । कीदृशीर्विभूतीः । नित्या अनादित एवानुगताः तत्र च कदा कीदृशीरित्यपेक्षायामाह जाग्रत्स्वप्नयोराविर्भूताश्चेति ॥ १२ ॥ ॐ यस्तु पुराणः पुरुषः आद्योऽवतारः पुरुषः परस्येत्यादिना द्वितीयस्कन्धादौ प्रसिद्धः साक्षादेव स्वयं ज्योतिः स्वप्रकाशः । न तु जीववदन्यापेक्षया अजो जन्मादिशून्यः परेषां ब्रह्मादीनामपीश्वरः नार जीवसमूहः स नियम्यत्वेनायनं यस्य भगवान् ऐश्वर्याद्यशवान् भगवदशत्वात् । स्वमायया स्वरूपशक्त्या । आत्मनि स्वरूपे । अवधीयमान इति । मायया मायिकेऽप्यन्तर्यामित्वेन प्रविष्टोऽपि स्वरूपशक्त्या स्वरूपस्थ एव न तु तत्संसक्त न तु तत्संसक्त इत्यर्थः । वासुदेवत्वेन सर्वक्षेत्रज्ञातृत्वात् सोऽपरः क्षेत्रज्ञः आत्मा परमात्मेति । तदेवमपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्येव । तदुक्तं सर्वं पुमान् वेद गुणांच्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे’ इति । तथा श्रीगीतोपनिषत्सु “इदं शरीर कौन्तेय! क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ क्षेत्रज्ञखापि मां विद्धि सर्वक्षेत्रेषु भारत !। क्षेत्रक्षेत्रयोर्ज्ञानं यत्तज् ज्ञानं मर्त मम ।” इति अत्र खलु क्षेत्रज्ञश्चापि मां विद्धीति सर्वेष्वपि क्षेत्रेषु मान क्षेत्रज्ञं विद्धि न तु जीवमिव स्वस्वक्षेत्र एवेत्येवार्थ वदति । न च जीवेशयोः सामानाधिकरण्येन निर्विशेषचिद्रस्त्वेव ज्ञेयतया निर्दिशति, सर्वक्षेत्रेष्वित्यस्य वैयर्थ्यापत्तेः । ज्ञेयं यत्तत् प्रवक्ष्यामीत्यादौ सर्वतः पाणिपादं तदित्यादिना सविशेषत्वस्यैव निर्दिष्टत्वात् । अमानित्वमित्यादिना ज्ञानस्य च तथोपदिष्टत्वात् । किन क्षेत्रज्ञं चापीत्यत्र तत्त्वमसीत्तिवत् सामानाधिकरण्येन तन्निर्विशेषज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोर्ज्ञाने विवक्षिते क्षेत्रज्ञेवायोज्ञनिमित्येवानुद्येत । न तु क्षेत्रक्षेत्रज्ञयोर्ज्ञानमिति । किन्तु क्षेत्रक्षेत्रज्ञयोरित्यस्यायमर्थः द्विविधयोरपि क्षेत्रक्षेत्रज्ञयोर्यज्ज्ञानं तन्ममैव ज्ञानं मतम् । अन्यार्थस्तु परामर्शः” इति न्यायेन तज्ज्ञानैकतात्पर्य कमित्यर्थः । ज्ञेयस्यैकत्वेन निर्दिष्टत्वात् योग्यत्वाची निरीश्वरसाच्यवत् क्षेत्रक्षेत्रज्ञमात्रविभागादत्र ज्ञानं मतं मामित्यनेने- श्वरस्यापेक्षितत्वात् । न च विवर्तवादवदीश्वरस्यापि भ्रममात्रप्रतीतपुरुषत्वम् । तद्वचनलक्षणसवेदगीतादिशास्त्राणामप्रामाण्याद् बौद्धवादापत्तेः । तस्यां च सत्यां बौद्धानामिव विवर्तवादिनां तद्वयाख्यानायुक्तेः ॥ १३ ॥ * * यथेति । श्रुतिश्च वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव’ इति काठके ।। १४-१७।। । । मी सग ग ११ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे एकादशोऽध्यायः ॥ ११ ॥ को श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी की 15STE FIE APPETITE TIME POBARS KISTETE BEPPISTESISTIVE FIRE वृत्तीदर्शयति । एकादश वृत्तयः इन्द्रियरूपाः, तत्र पञ्च आकूतयः कर्माकाराः पच धियः ज्ञानाकारा एकोऽभिमानोऽ- हङ्कारः इत्येवमेकादश तासां वृत्तीनां भूमीर्विषयानप्येकादशैव वदन्ति । वीर ! हे ज्ञानवीर राजन् ! मात्राणि गन्धादयः पद्म- ज्ञानेन्द्रियाणां विसर्गादिकर्माणि पञ्चकर्मेन्द्रियाणां पुरं देहगेहाथेकम् अभिमानस्येत्येकादश ॥। ९ ॥ * * मात्रादीनि विवृणोति गन्धेति । पञ्च नासिकादीनां ज्ञानेन्द्रियाणां विषयाः आकृतिः रूपं विसर्गादयः पच पात्रादीनां कर्मेन्द्रियाणामेवं दश अतिर्गमनं स्वीक्रियत इति स्वीकरणम् एकादशं पुरमभिमानस्य विषयमाहुः । एके आचार्याः अभिमानस्य द्वैविध्यात् ममेति ममकारस्य शय्यां विषयं गेहादिकमेकादशम् अहमिति अहङ्कारस्य शय्यां देहं द्वादशमाहुः ॥ १० ॥ ४ तासां वृत्तीनाम- वान्तरभेदैरानन्त्यमाह । द्रव्यादिभिर्भेदेरमी विकाराः वृत्तिरूपाः प्रथमं शतशः ततः सहस्रशः लक्षशः कोटिशश्च स्युः। द्रव्याणां स्क. ५ अ. ११ श्लो. अनेकव्याख्यासमलङ्कृतम् ૨૩૭ चन्दनकस्तूरीकुङ्कुमादीनां स्वर्णरजतप्रवालादीनाञ्चानन्त्यात कोऽपि गन्धरूपादिः कस्मैचित् रोचत इति स्वभावान्या आशयोऽन्तःकरणं तस्य शिष्टतादुष्टताभ्यां कर्म अदृष्टं तद्वशादपि कालो बाल्ययौवनादिस्तद्वशादपि प्रत्येकमनन्ता एव गन्धादयः स्युरित्यर्थः । न तु मिथः स्युर्नापि स्वतः स्युः किन्तु क्षेत्रज्ञतः परमेश्वरात् तस्य चानन्तशक्तित्वादनन्ताः स्युरित्यर्थः ॥ ११ ॥ * * क्षेत्रज्ञो हि द्विविधः परमात्मा जीवात्मा च । तयोः प्रथमः पूर्वश्लोके उद्दिष्ट उत्तरश्लोके वक्ष्यते च । द्वितीयश्च द्विविधः बद्धो मुक्तश्च तत्र मनसा आलिङ्गितः तदभिमानी बद्धः तेन अनालिङ्गितो निरभिमानी मुक्तः । तयोः पूर्वो ज्ञायत एव उत्तरः कीदृशः स्यादित्यपेक्षाणमाह । क्षेत्रज्ञ एता मनसो विभूतीर्विचष्टे पश्यति जानाति केवलं न तु तदभिमानी सन् भुङ्क्ते । अत एव शुद्धः संसारान्मुक्तः अन्यस्त्वशुद्धः संसारीत्यर्थः । मनसः कीदृशस्य जीवस्य जीवोपाधेः यतो मायया रचितस्य अत एवाविशुद्धं भगवद्बहि- मुखं कर्म करोतीति तस्य । विभूतीः कीदृशीः नित्याः । अनादित एवानुगताः कथं तर्हि सदा न दृश्यन्त इत्यत आह । आबिर्हिताः कापि जाग्रत्स्वप्नयोः तिरोहिताः कापि सुषुप्तिप्रलययोः ।। १२ ।। * * बद्धजीवस्य व्यवहार एव सदैवावधानविषयो यथा तथा मुक्तजीवस्यावधानविषयः क इत्यपेक्षायामाह । क्षेत्रज्ञः क्षेत्रस्य कास्म्र्त्स्न्येन ज्ञाता परमात्मेत्यर्थः । आत्मा व्यापकः पुराणो जगत्कारणभूतः पुरुषः पुरुषाकारः स्वयंज्योतिः खप्रकाशः अजो मायिकजन्मादिशून्यः परेषां ब्रह्मादीनामपीशः नारायणः कारणार्णवशायी भगवान् षडैश्वर्यपूर्णो वैकुण्ठनाथः वासुदेवो वसुदेवनन्दनः श्रीमथुराद्यधिपतिः । सुष्ठु अमायया हेतुना आत्मनि अवधीयमानः मुक्तजीवेन आत्मनि मनसि अवधानविषयीक्रियमाणः । यद्वा स्वमायया स्वरूपशक्त्या कृपया वा सहितः ।। १३ ।। ** स च भगवान् मुक्तजीबेन सुलभ एवेति सदृष्टान्तमाह यथेति । आत्मरूपेण ईशेत् ईशीत इदं विश्वम् ॥ १४ ॥ । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः 11 g वृत्तयस्तु आकूतयः क्रियाकाराः पश्च धियश्च ज्ञानाकाराः पच अभिमानश्चेत्येकादश आसन् विषयानाह मात्राणीति । मात्राणि गन्धादीनि ज्ञानाकाराणां कर्माणि विसर्गादीनि क्रियाकाराः । पुरं शरीरमभिमानस्य एवमेकादश हे वीर! तासां वृत्तीनां भूमीः विषयान् वदन्ति ॥ ९ ॥ * * विषयानाह गन्धेति । आकृतिः रूपमर्तिर्गतिः ममेति स्वीक्रियते इति स्वीकरण शरीर, केचित्तु अभिमानो द्विविधः विदुषां मम देहः इति मूढानां तु देहोऽहमिति । तत्र देहोऽहमित्यहङ्कारं द्वादश वृत्त्यन्तरमाहुः तस्य देहमेव शय्यां विषयमाहुः ॥ १० ॥ * * एकादशवृत्तीनामवान्तरभेदैर्बाहुल्यमाह द्रव्येति । द्रव्याणि विषयाः स्वभावः परिणामहेतुः । आशयो बासना कर्म पुण्यादिकम् । कालः क्षोभकः तैर्निमित्तभूतैः अमी पूर्वोक्ता एकादश मनसो विकाराः वृत्तयः यः प्रथमं शतशस्ततः सहस्रशस्ततः कोटिशः ताः केवलान्मनसो न स्युस्तस्य करणत्वात् न च मिथो न च स्वतश्च स्युः । न ह अचेतने करणे एकैकशः मिलित्वा वा वृत्तयो जायन्ते असम्भवात् । अतः क्षेत्रज्ञतः मनसि जायन्ते इति सिद्धान्तः ।। ११ ।। * * अथ भजनीयस्य मुक्तौ प्राप्तत्य भगवतः सर्वज्ञत्वादीन् गुणान् क्षेत्रज्ञादीनि बहूनि नामानि चाह क्षेत्रज्ञ इति त्रिभिः । अविशुद्धकन्तु बेद्वस्य जीवस्य सम्बन्धि यन्मनस्तस्य मायारचितस्य प्रकृतिकार्यस्य प्रवाहरूपेण नित्याः जाग्रत्- स्वप्नयोराविर्भूताः क्वचित्सुषुप्यादौ तिरोहिताः एताः विभूतीवृत्ती: क्षेत्रज्ञः समष्टिव्यष्टिरूपसर्वशरीरवित् शुद्धः स्वभावतोऽपास्त- समस्तदोषो भगवान् विचष्टे पश्यति ॥ १२ ॥ * * स्वमायया “मायादम्भे कूपाया च” इति विश्वः, स्वकृपया आत्मनि जीवे अवधीयमानः प्रेरकतया वर्तमानः ॥ १३ ॥ यथा अनिलो वायुः आत्मस्वरूपेण प्राणरूपेण स्थावरजङ्गमाना- मन्तर्निविष्टः ईशेत् प्रेरयति एवं भगवानपि इदं विश्वमनुप्रविष्टः ईशेत् प्रेरयति ॥ १४ ॥ ए गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी की तथा मनोऽपि गुणेषु विषयेषु कर्मसु तदनुकूलक्रियासु चानुबद्धमासक्तं नाना वृत्तीः श्रयते तद्रूपेण परिणमतेऽन्यत्र विषयादि विहाय भगवति स्थितिकाले तु तत्त्वं परमार्थ पदं स्वरूपं श्रयते इत्यन्वयः । ‘वृत्तीदर्शयति - एकादशेति, मनसो वृत्तयो होकादशासन् । तासां भेदमाह-पच आकूतयः क्रियाकाराः, धियो ज्ञानाकाराश्च पच, अभिमानश्चैका ॥ ९ ॥ * हे बीर आसां चैकादशवृत्तीनामेकादशैव मूर्तीर्विषयान् वदन्ति विवेकिन इत्यन्वयः । सम्बोधनेनैतासां जयेनैव परमपुरुषार्थसिद्धिः, न बहिर्भूमिजयेनेत्येतज्जये प्रयत्नं कुर्विति सूचयति । अत एव तद्विषयेष्वपि भूमिपदप्रयोगः । ता दर्शयति-मात्राणि पञ्च कर्माणि च पन पुरं शरीरं चैकेति मात्रादीन् विवृणोति-— गन्धेति, गन्धश्चाकृती रूपं च स्पर्शश्च रसश्च श्रवः शब्दश्च तानि पञ्च मात्राशब्द- वाच्यानि प्राणादीन्द्रियद्वारा धीवृत्तीनां विषयाः । विसर्गो मलत्यागः, रतिः स्त्रीसम्भोगः, अर्तिः गतिः, अभिजल्पः भाषणं, शिल्प हस्तकार्यम्, ते कर्मशब्दवाच्याः पाय्वादिपञ्चकर्मेन्द्रियद्वारा क्रियाकारवृत्तीनां विषयाः ॥ १० ॥ * एकादशमभिमानविषयं दर्शयति- एकादशमिति । ममेत्यभिमानेन स्वीक्रियते इति स्वीकरणं शरीरादि एकादशविषयं प्राहुरित्यन्वयः । शरीराद्यभिमानस्य सन्धादिवन ज्ञेयतया विषयः, नापि विसर्गादिवत् कार्यतया तद्विषयः, किन्तु भोगसाधनत्वेन ममेति स्वीकार्य तथा तद्विपय इति भावः । एके तु आत्मानात्मविवेकवतामेव शरीरं ममत्वाभिमानविषयः । अतो विवेकिनां तथाऽस्तु, अविवेकिनो व्यहङ्कारं द्वादशं तु ३३८ । .. श्रीमद्भागवतम् ..*. [ स्कं. ५ अ. ११ श्लो. ९-१४ वृत्त्यन्तरं तस्य च शरीरमेव शय्यासन्ज्ञं द्वादशं विषयमाहुरित्यन्वयः । शरीरे हि जीवोऽहङ्कारेण शेते इति तस्य शय्यापदवाच्यत्वं बोध्यम् । अत एव पुरि शयनाज्जीवस्यापि पुरुषपदवाच्यत्वं ज्ञेयम् ॥ ११ ॥ * तासां वृत्तीनामवान्तर भेदैरानन्त्यमाह- ॥ द्रव्येति । द्रव्याणि विषयाः, स्वभावः परिणामहेतुः, आशयः संस्कारः, कर्म अदृष्ट पुण्यपापलक्षणं, कालः सर्वोद्बोधकः, तैरेतैर्निमित्त- भूतैरमी एकादश मनसो विकारा वृत्तयः प्रथमं शतशस्ततः सहस्रशस्ततः कोटिशश्च स्युर्भवन्ति, न स्वत आत्माश्रयापत्तेः, नापि मिथो भवन्त्यन्योन्याश्रयापत्तेरित्यन्वयः । ननु द्रव्यादीनामपि अचेतनत्वेन स्वतः प्रवृत्त्यसम्भवात् कथं चेतनाधिष्ठानं विना तैरपि तासामुत्पत्तिः सम्भवतीत्याशङ्कय ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ’ इत्यादिवाक्यसिद्धान्तमवलम्ब्योत्तरमाह- क्षेत्रज्ञत इति, अन्तर्याम्यधिष्ठितैरेव द्रव्यादिभिर्निर्मितैर्मनोवृत्तयो भवन्तीत्यर्थः ॥ १२ ॥ * * ननु तर्ह्यन्तर्यामिणोऽपि वृत्तिसम्बन्धे सति विकारित्वं स्यादित्याशङ्कय तस्य साक्षिमात्रत्वान्न विकारित्वमित्याह-क्षेत्रज्ञ इति । जीवस्य यन्मनस्तस्यैता नित्याः प्रवाहरूपेणाविच्छिन्ना विभूतीवृत्तीः क्षेत्रज्ञोऽन्तर्यामी केवलं विचष्टे साक्षितया पश्यत्येवे- त्यन्वयः । ननु सुषुप्तौ तासामसत्त्वात् कथमविच्छिन्नत्वमित्याशङ्कयाह-आविहिता इति । जाग्रत्स्वप्रयोराविर्भूताः क्वापि सुप्तिसमाध्यादौ तिरोहितास्तिरोभूताञ्च पश्यतीति सुषुप्त्यादावपि तिरोहिताः सूक्ष्मा वृत्तयः सन्तीति भावः । तस्य विकाराभावे हेतुमाह-शुद्ध इति, अन्तःकरणाद्यध्यासरहित इत्यर्थः । तर्हि जीवस्यापि विकारित्वं न स्यादित्याशङ्कय तस्य तदाध्यासिक- सम्बन्धेन बन्धमङ्गीकृत्य तं विशिनष्टि- अविशुद्ध कर्तुरिति । अविशुद्धं संसारबन्धकारणं कर्म करोतीति तथा तस्येत्यर्थः । तत्कर्तृ- त्वेऽपि हेतुमाह-मायेति । मायया अहम्ममाध्यासेन स्थितस्येत्यर्थः । “द्वा सुपर्णा सयुजा” इत्यादी निर्णीत एवायमर्थ इति सूचयति हीति ।। १३ ।। * * एवं तदुक्तं गुणकर्मानुबद्धं मनो वृत्तीः श्रयतेऽन्यदा तु तत्त्वं श्रयते तन्त्रिभिः श्लोकैर्वृत्त्याश्रयण- मनोवृत्ती प्रकारं प्रदश्यैकेन साक्षिभूतं तत्त्वं निरूपितम् । तत्रैव विशेषजिज्ञासायां विशेषणान्तरैस्तन्निरूपयति-क्षेत्रज्ञ इति, देहेन्द्रियादीनां क्षेत्रशब्दवाच्यानां साक्षीत्यर्थः । साक्षित्वमपि नान्यत्सापेक्षं किन्तु साक्षादपरोक्षत एव । तत्र हेतु:- - स्वयज्योति- तिरिति, सर्वप्रकाशकः स्वप्रकाशकञ्श्चेत्यर्थः । अत एव शरीरलक्षणपुरीषु शयनात् पुरुषः । तर्हि तस्य परिच्छिन्नत्वं च स्यात्तत्राह- आत्मेति, व्यापक इत्यर्थः । स चाजः जन्मादिविकाररहितः यतः पुराणः सर्वकारणकारणम्, अतः परेषां ब्रह्मादीनामपीशः । किन वासुदेव इति, वसन्त्यस्मिन् भूतानीति वासुः स चासौ देवश्चेति वासुदेवः सर्वाधारभूत इत्यर्थः । तत्रापि हेतुमाह-भगवानिति, ऐश्वर्यादिषड्गुणपूर्ण इत्यर्थः । किन स्वमाययाऽचिन्त्यशक्त्याऽऽत्मनि जीवे अवधीयमानः अवस्थाप्यमानः कर्मकर्त्तरि प्रयोगः । स्वेच्छया तन्नियन्तृत्वेन वर्त्तमान इत्यर्थः । अत एव नारायणः नराणां समूहो नारं तस्यायनं प्रवृत्तिर्यस्मात् स तथा ॥ १४ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी पदमिति । पदं पूर्वत्रान्वितं तथा गुणकर्मानुबद्धं मनः वृत्तीः श्रयते । अन्यत्र अन्यदा, तत्त्वं सत्त्वप्राचुर्यतां श्रयते । वृत्तीदर्शयति, मनसः एकादश वृत्तयः आसन् हि, तत्र पञ्च आकूतयः कर्मेन्द्रियव्यापाररूपाः, पञ्च धियः ज्ञानेन्द्रियव्यापाररूपाः अभिमानश्च ॥ ९ ॥ * * मात्राणीति । हे वीर, तासां वृत्तीनां, भूमीः विषयान् ह स्फुटं यथा भवति तथा, मात्राणि कर्माणि पुरं देहव, इति एकादश वदन्ति नारदाद्या मुनयः कथयन्तीत्यर्थः । तत्र गन्धश्च आकृतिः रूपं च स्पर्शश्च रसश्च श्रवः शब्दच तानि ज्ञानेन्द्रियमात्राणि, विसर्गः पुरीषोत्सर्ग रतिः संभोगच अतिर्गमनं च अभिजल्पो भाषणं च शिल्प आदानादिश्व ते कर्मेन्द्रियमात्राणि, तत्रायं विवेक:- गन्धो प्राणेन्द्रियस्य विषयः, रूपं चक्षुरिन्द्रियविषयः, स्पर्शस्त्वगिन्द्रियविषयः, रसो रसनेन्द्रियविषयः शब्दः श्रोत्रेन्द्रियविषयः, एते ज्ञानेन्द्रियभूमयः । पुरीषोत्सर्गः पाय्विन्द्रियविषयः, संभोग उपस्थेन्द्रियविषयः, गमनं पादेन्द्रियविषयः, भाषणं वागिन्द्रियविषयः, आदानादिः पाणीन्द्रियविषयः, एते कर्मेन्द्रियभूमयः । पुरत्वाभिमानस्य विषय इति शेषः ॥ १० ॥ * * पुरस्याहंतयात्मीयतया चाभिमानविषयत्वप्रकारमाह । एकादशमिति । एकादशं पुरं मम इति स्वीकरणं, शरीरं आत्मीयतारूपाभिमानविषयत्वेन यदा स्वीक्रियते तदा विषयः । अत्राय निबोध्योऽर्थः । शरीरमभिमानस्य न ज्ञेयतया गन्धादिवद्विषयः, नापि कार्यतया विसर्गादिवद्विषयः । किं तु ममेति भोगायतनत्वेन स्वीकार्यतया विषय इति । एके केचन, विद्वांसः, अहमहंसंज्ञं, द्वादशं वृत्त्यन्तरं, आहुः । शय्यां शय्यासंज्ञं पुरापरपर्यायं शरीरमेव तद्विषयमप्याहुः । विवेकिनामेव पुरं ममत्वाभिमानविषयो, न तु मूढानामतो मूढानां दृष्टया अहंकारं द्वादशसंख्याकवृत्तित्वेनाहुर्बुधाः । तस्य शय्या संज्ञं पुरमेव द्वादशं विषयमित्याहुश्च । पुरस्य शय्याशब्दवाच्यत्वं तु ततस्तत्र जीवोऽहंकारण शेते, स च पुरि शयनात् पुरुष इत्यप्युच्यते इति भावः । तासां वृत्तीनामवान्तर भेदेरानन्त्यमाह । द्रव्याणि विषया भूतपञ्चकं वा तानि च स्वभावः परिणामहेतुः स च आशयो मच वासना संस्कार इति यावत्स च कर्मादृष्टं पुण्यपापानि वा तच्च कालः क्षोभकश्च तैः निमित्तभूतैः, एकादश अमी पूर्वोक्ताः, मनसः विकाराः प्रथमं शतशः । ततः सहस्रशः, ततः कोटिशः स्युः । किं च एवं यदूवृत्तीनामसंख्याततया भवनं तदिति शेषः । मिथः मनसः वृत्तीनां च परस्परमेलनेन, न जायते । तथा स्वतः स्वतन्त्रात्केवलात् मनसः स्वतन्त्राभ्यः केवलाभ्यो वृत्तिभ्यश्च न जायते । किं तु एतत्, क्षेत्रज्ञतः क्षेत्रज्ञाख्यजीवसंबन्धतः जायते । एतन्मनो यदा जीवेन मिलति, तदैव वृत्तीनामनेकत्वं उ न तु जीवममिलित्वेत्यर्थः ॥ ११ ॥ इत्थं गुणकर्मानुरुद्धं मनः वृत्तीः श्रयते इति यदुक्तं तत् लोकत्रयेण प्रपश्चितमिदा- जायते: एक. ५ अ. ११ श्लो. १५-१७] अनेकव्याख्या समलङ्कृतम् २३९ नीमन्यदा तत्त्वं श्रयते इति यदुक्तं तदात्मतत्त्वमाह क्षेत्र इति । मायारचितस्य प्रकृत्या उत्पादितस्य प्रकृतिपरिणामरूपस्येत्यर्थः । मनसः एता असंख्यवृत्तिरूपाः, याः विभूतीर्विभूतयः, ता अविशुद्धकर्तुः अनाद्यज्ञानरूपमलवतः कर्मकर्तुरविशुद्धक्षेत्रज्ञाख्यस्य जीवस्य, नित्याः प्रवाहरूपेण नित्यतोपेताः, कापि कदाचित् आविर्हिता जाग्रदवस्थायामाविर्भूतत्वात्प्रत्यक्षं बोधुं शक्याः, तिरोहिताः सुषुप्तौ तिरोभावं प्राप्य स्थितत्वाद्बोद्धुमशक्याश्च जायन्ते, ता असंख्यवृत्तीः शुद्धः कर्म फलप्रहाणायान्तर्यामितया- वस्थितः परमात्मरूपः क्षेत्रज्ञः, विचष्टे साक्षाद्विलोकयति हि । क्षेत्रज्ञशब्दस्य जीवे परमात्मनि च प्रवृत्तेरत्र स परमात्मपरः । अविशुद्धकर्तृवाच्यो जीवाख्यः क्षेत्रज्ञः ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ इति श्रुतेरेको विशुद्धोऽपरोऽविशुद्धो बोध्यः ।। १२ ।। * एवं कर्मकत्तु स्तत्फलभोक्तुर्जीवस्य साक्षितया तदभोगेन स्वयंप्रकाशमानतया च वर्त्तमानः परमात्मे- त्युक्तं, पुनः प्रकृतिपुरुषयोरसंभावितधर्मविशेषैः क्षेत्रज्ञशब्दाभिहितं तं परमात्मानं विशिनष्टि क्षेत्रज्ञ इति । क्षेत्रज्ञः क्षेत्रं यादृक् स्वभावं यत्स्वरूपं च यथा तथा जानातीति क्षेत्रज्ञः । अनेन अचेतनव्यावृत्तिर्जीवव्यावृत्तिश्च तत्राचेतनस्य जडत्वाद्वयावृत्तिः । जीवस्य परमात्मवत् क्षेत्रज्ञानाभावाज्जीवव्यावृत्तिश्च । आत्मा चेतनाचेतनयोः प्रकृतिपुरुषयोरन्तः प्रविश्य नियन्तृत्वेन धारकः पुराणः जगत आदिकारणतया वर्त्तमानः । पुरुषोऽप्राकृतपुरुषाकृतिः । साक्षात्स्वयंव्योतिः निरुपाधिकसाक्षात्स्वयं ज्योतिष्ट्वः । नैवंविधा । । जीवाः, नित्यसिद्धानामपि तेषां तथात्वस्य परमात्मायत्तत्वेन निरुपाधिकत्वाभावात् । अजः स्वरूपतः स्वभावतश्चोत्पत्त्यादिक- विकाररहितः । परेषां ब्रह्मादीनामपीश ईश्वरः । नराणां जीवानां समूहो नारं तदयनं यस्य स नारायणः । जीवसमूहान्तर्यामीत्यर्थः । भगवान् पूर्णंषाड्गुण्यः । वासुदेवः सर्वभूतैकाधारः । स्वमायया स्वकीयया योगशक्त्या, आत्मनि जीवे अवधीयमानः तन्नियन्तृत्वेन वर्त्तमानः । आत्मन्व्यवधीयमान इति पाठे आत्मन्नित्यत्र आर्षत्वात्सप्तम्याः लुक्, परमे व्योमन्नितिवत् । प्रकृतिवशतां गतैर्द्रष्टु- मशक्य इत्यर्थः ॥ १३ ॥ * * एतत्सदृष्टान्तमाह यथेति । यथा अनिलः स्थावरजङ्गमानां अन्तरिति शेषः । आत्मस्वरूपेण निविष्टः प्रविष्टः सन् ईशेत् नियमयति । स्थावरजङ्गमानीति शेषः । एवं परः आत्मा परमात्मा, क्षेत्रज्ञः भगवान् वासुदेवः इदं जगत् अनुप्रविष्टः सन् ईशेत् ॥ १४ ॥ ।। । भाषानुवादः वीरवर ! पाँच कर्मेन्द्रिय, पाँच ज्ञानेन्द्रिय, और एक अहङ्कार- ये ग्यारह मनकी वृत्तियाँ हैं तथा पाँच प्रकारके कर्म, पाँच तन्मात्र और एक शरीर—ये ग्यारह उनके आधारभूत विषय कहे जाते हैं ॥ ९ ॥ ॐ ॐ गन्ध, रूप स्पर्श, रस और शब्द-ये पाँच ज्ञानेन्द्रियोंके विषय हैं; मलत्याग, सम्भोग, गमन, भाषण और लेना-देना आदि व्यापार-ये पाँच कर्मेन्द्रियों के विषय हैं तथा शरीरको ‘यह मेरा है’ इस प्रकार स्वीकार करना अहङ्कारका विषय है। कुछ लोग अहङ्कारको मनकी बारहवीं वृत्ति और उसके आश्रय शरीरको बारहवाँ विषय मानते हैं ॥ १० ॥ ये मनकी ग्यारह वृत्तियाँ द्रव्य ( विषय ), स्वभाव,
-
- आशय ( संस्कार ), कर्म और कालके द्वारा सैकड़ों, हजारों और करोड़ों भेदोंमें परिणत हो जाती हैं । किन्तु इनकी सत्ता क्षेत्रज्ञ आत्माकी सत्तासे ही है, स्वतः या परस्पर मिलकर नहीं है ॥ ११ ॥ * * ऐसा होनेपर भी मनसे क्षेत्रज्ञका कोई सम्बन्ध नहीं है। यह तो जीवकी ही मायानिर्मित उपाधि है। यह प्रायः संसारबन्धन में डालनेवाले अविशुद्ध कमोंमें ही प्रवृत्त रहता है । इसकी उपर्युक्त वृत्तियाँ प्रवाहरूपसे नित्य ही रहती हैं, जाग्रत् और स्वप्न के समय वे प्रकट हो जाती हैं और सुषुप्तिमें छिप जाती हैं । इन दोनोंकी अवस्थाओं में क्षेत्रज्ञ, जो विशुद्ध चिन्मात्र है, मनकी इन वृत्तियोंको साक्षीरूपसे देखता रहता है ।। १२ ।। * यह क्षेत्रज्ञ परमात्मा सर्वव्यापक, जगत्का आदि कारण परिपूर्ण, अपरोक्ष, स्वयंप्रकाश, अजन्मा ब्रह्मादिका भी नियन्ता और अपने अधीन रहनेवाली मायाके द्वारा सबके अन्तःकरणोंमें रहकर जीवोंको प्रेरित करनेवाला समस्त भूतोंका आश्रयरूप भगवान् वासुदेव है ॥ १३ ॥ * * जिस प्रकार वायु सम्पूर्ण स्थावर-जङ्गम प्राणियों में प्राणरूपसे प्रविष्ट होकर उन्हें प्रेरित करती है, उसी प्रकार वह परमेश्वर भगवान् वासुदेव सर्वसाक्षी आत्मरूप से इस सम्पूर्ण प्रपत्र में ओतप्रोत है ॥ १४ ॥ न यावदेतां तनुभृन्नरेन्द्र विधूय मायां वयुनोदयेन । कालो कविमुक्तसङ्गो जितपट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५ ॥ जनस्य । ममतां विधत्ते ॥ १६ ॥ न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं यच्छोकमोहामय रागलोभवैरानुबन्धं भ्रातृव्यमेनं भ्रातृव्यमेन तददभ्रवीर्यमुपेक्षयाध्येवितमप्रमतः गुरोहरेश्वरणोपासनात्रो जहि व्यलीकं स्वयमात्ममोषम् ॥ १७ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहू गणसंवादे एकादशोऽध्यायः ॥ ११ ॥ १. प्रा० पा० - धितमप्रवृत्तः mms Blenge I २४० श्रीमद्भागवतम् [ स्कं. ५ अ. ११ श्लो. १५-१७ अन्वयः नरेंद्र तनुभृत् यावत् एताम् मायाम् वयुनोदयेन विधूय विमुक्तसंग जितपट्सपत्नः आत्मतत्वम् न वेद तावत् इह भ्रमति ॥ १५ ॥ * * यावत् आत्मलिंगम् एतत् मनः जनस्य संसारतापावपनम् नः यत् शोकमोहामय रागलोभ- वैरानुबंध ममताम् विधत्ते ॥ १६ ॥ तत् अप्रमत्तः गुरोः हरेः चरणोपासनास्त्रः अदभ्रवीर्यम् उपेक्षया अध्येधितम् स्वयम् व्यलीकम् आत्ममोषम् एनम् भ्रातृव्यम् जहि ॥ १७ ॥ इत्येकादशोऽध्यायः 1 the hits filemier शाम लग ग । श्रीधरस्वामिविरचिता भावार्थदीपिका । e कार्यक तदेवमात्मनः शुद्धत्वं संसारस्य च मिध्यात्वं प्रदश्येदानीं तन्निवृत्तिमाह । तनुभृद्देही वयुनोदयेन ज्ञानोत्पत्त्या यावन्मायां विधूयात्मतत्त्वं न वेद तावदिह भ्रमति ।। १५ ।। * * यावच विषयानुरक्तं मन एवानर्थहेतुरिति न वेद तावन्निर्वेदाभावा- त्परिभ्रमत्येवेत्याह नेति । आत्मनो लिंगमुपाधिभूतं मनः संसारतापानामावपनं क्षेत्रं यावन्न वेद तावद् भ्रमतीत्यनुषंगः । तापाव- पनत्वे हेतुः यन्मनः शोकाद्यनुबंधं समतां च विधत्ते ॥ १६ ॥ * * तत्तस्मात् भ्रातृव्यं शत्रुम् । अध्येधितं संप्रवृद्धं स्वयं व्यलीकं मिथ्याभूतं तथाऽऽत्मानं मुष्णातीति तथा तं गुरुरेव हरिस्तस्य चरणोपासनमेवाखं यस्य तथाभूतः सन् जहि घातय ।। १७ । इति श्रीमद्भागवते पञ्चमस्कन्धे टीकायामेकादशोऽध्यायः ॥ ११ ॥ | pereply F he Ete डीए श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः R Upper ज्ञानोत्पस्या शास्त्रश्रवणादिना ज्ञानोद्भवेन । नरेंन्द्रेति । नरेणाप्येतज्ज्ञातुं शक्यते त्वन्तु नरेन्द्रोऽसीति भावः ।। १५ ।। । । ॥ * * मायाविधूननं च सम्यक्तया कथं ज्ञातव्यमिति चेद्यावद्विषयानुरक्तं मनस्तावन्मायाविधूननं तत्त्वज्ञानं च न स्यादित्याह- नेति । ‘तदेवं मनः श्रयतेऽन्यत्र तत्त्वम्’ इति यदुक्तं तत् श्लोकपंचकेन प्रपंचितम् ।। १६ ।। * * तस्मान्मन एव निग्रहीतव्य- मित्याह - भ्रातृव्येति । उपेक्षयैव जहि निगृहाण तदुपेक्षणमेव तद्वध इति भावः । न तु तदिष्टविषयभोग प्रदानलक्षणयाऽपेक्षयाऽनु- गृहाणेत्यर्थः । सर्वथैव तद्वधस्त्वनभिप्रेत एव । “तस्मान्मनोलिंगमदो वदति गुणागुणत्वस्य परावरस्य” इति । “श्रयतेऽन्यत्र तत्त्वम्’ इति च पूर्वोके दृष्टान्ते च भ्रातुः पुन्नस्यावभ्यत्वात् श्लेषाभिप्रायेणैतज्ज्ञेयं ‘भ्रातृव्यो भ्रातृपुत्रेऽरी’ इति कोशात् । मनः कीदृशमधिक- मेधितं स्ववृत्तीः संश्रित्य संवृद्धम् । ननु बलवन्तमिमं दुर्बलोऽहं कथं निगृहामीत्यत आह-गुरोः सकाशात्प्राप्तस्य मंत्ररूपस्य हरेश्वरण- योरुपासना श्रवणादिनवविधभक्तिरेवाखं यस्य सः । व्यलीकमप्रियं यतः स्ववृत्तिदर्शनया संगोद्यात्मानं परमात्मरूपं सर्वस्वमेव मुष्णा- तीति तं महाचौरमित्यर्थः । “भक्त्यस्त्रेण त्याजयित्वा विषयान्त्वमनो यतिः । ध्वस्ताविद्योऽवधत्ते यः कृष्णं मुक्तः स उच्यते । भक्त्य- भावान्मनोवृत्तीराश्रयद्वासनामयम् । अविद्यां यस्य पुष्णाति स पुमान्बद्ध उच्यते ।” इति । अत्र विजयध्वजः - मनो हि द्विविधं चिद- चिद्वेदात् । तत्र चिन्मनस्तु स्वरूपमभिन्नं मुक्तावानंदानुभवसाधनं तन्नाशे स्वरूपनाश एव स्यात्तथा च- “अविनाशी वा अयमात्मा- च्छित्तिधर्मा” इति श्रुतिव्याकोपः स्यात् । इतरत् मन आदिमप्रलये लिंगशरीर वत्सूक्ष्मं यावन्मुक्ति तदीयतया स्थितं सत्सृष्टावुपरिस्थितं स्थूलशरीरवर्त्तिनश्चेतनस्य ममेदमहमित्यभिमानमुत्पाद्य संसारापादनपटुस्खामिनश्चिदानंद लक्षणस्य दुःखापादकत्वेन वैरि मनो जहि तस्य हननं तन्निमित्ताभिमानलक्षणमोहनाशेन । व्यलीकं विगताचिन्मनःसंसग स्वयं स्वरूपभूतं सच्चिन्मनः स्वयमिति द्विरावर्त्तनीयं सुपूजितमिममिष्टप्रदं देवं श्रीनारायणाख्यं जहि गमय तद्विषयं कुरु । अत्रार्थद्वयाभिप्रायेण ‘हन हिंसागत्योः” इत्ययं धातुः प्रयुक्त इति ज्ञायते । अनेनाहमित्यभिमानः संसारहेतुस्तन्मूला चिन्मनोनाशेन तदभावेन तदभाव इति परिहारः सूचित इत्याह ॥ १७ ॥ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे एकादशोऽध्यायः ॥ १॥
- Firee श्रीमद्वीरराघवव्याख्या ह एवं प्रकृतिपुरुषविलक्षणं परमात्मस्वरूपमुपविश्य तदुपासनया तत्साक्षात्का सपन्नज्ञानपर्यन्तं संसारो न निवर्त्तत: इत्याह नेति । हे नरेन्द्र ! रहूगण ! तनुभृद्देही वयुनोदयेन ज्ञानोदयेन यावदेतां माया महंममाभिमानरूपां विधूय निरस्य विमुक्तः सङ्गो देहगेहादिषु येन जिताः षट् सपत्नाः शत्रवो मनसा सह इन्द्रियरूपाः येन तथाभूतः सन्नात्मनः परमात्मनः तत्त्वं याथात्म्यं न वेद तावदिह संसारे भ्रमति ।। १५ ।। कदाय तनुभृदात्मतत्त्वं वेत्यत्राह नेति । यदि जनस्य संसारतापाना माध्यात्मिकादीनामावपनं क्षेत्रमात्मनो जीवस्य पङ्गि पूर्वोक्तरीत्या संसृतिमुक्त्योः कारणं मनो यावच्छोकादिकं ममतां च न विधत्ते तदा वेद - यद्वा यावच्छोकादिकं विधत्ते तावत्र वेदेत्यन्वयः । तत्र मोहः प्रमादः आमयो रोगः वैरानु- बन्धः वैरपूर्वकानुस्मरणं शोकादीनां समाहारद्वन्द्वः । यद्वा शोकादिरूपमनुबन्धमनुबध्यते पृष्ठतः सम्बध्यते इत्यनुबन्धः • अग्रतो ममतां तत्पृष्ठभागेन शोकादिकं च यावन्न विधत्ते इत्यर्थः । कदेद मनः शोकाद्यविधायकमिति चेद्यदा न गुणा- नुरक्तं कदा गुणाननुरक्तमिति चेत् “आहारशुद्धौ सत्त्वशुद्धिः” इत्याद्युक्तसात्विकाहारसक्रियादिभिः सत्त्वप्रचुरमित्यन्यदेतत् ||१६|| : । अ. ११ श्लो. १५-१७] अनेकव्याख्यासमलङ्कृतम् २४१ “तस्मादनमन्तःकरणरूपं भ्रातृव्यं सहजशत्रुमुपेक्षयां निग्रहेणात्यन्तमेधितं संवृद्धमत एवादभ्रमनल्पवीर्यं संसारयितृ- त्वरूपं यस्य अत एव व्यलीकमप्रियकारिणं तत्र हेतुः आत्ममोषमात्मापहारिणं त्वम् अप्रमत्तः अनलसः गुरोहरैः गुरुरेव हरिस्तस्य चरणोपासनसेवास्त्रं यस्य तथाभूतः सन् जह्नि घातय, सदाचार्य्यसेवादिप्रणाड्या स्ववशी कुर्वित्यर्थः ॥ १७ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतायां श्रीभागवतचंद्रचंद्रिकायाम् एकादशोऽध्यायः ॥ ११ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली विवाह me । एवं संसारबन्धस्य श्रीनारायणसाक्षिसिद्धत्वेन सत्यत्वं प्रसाध्याधुना श्रीहरि कटाक्षानुगृहीतस्वापरोक्षज्ञानमन्तरेण तन्निवृत्यनुपपत्तेस्तंन्निवर्तकसाधनमाह न यावदिति । तनुभृज्जीवो यावद्यावन्तं कालमहं ममेति मनोनिगूढामेतां सर्वसाक्षिसिद्धां मायाँ श्रीतिं वयुनोदयेन शास्त्रश्रवणजनितज्ञानोदयेन विधूय भ्रान्तिरेषेति निश्चित्यार्थतत्त्वं सकलवेदान्तविषयीभूतभगवत्स्वरूपं न वेद तावत्पर्यन्तमिह संसारे पूर्वोक्तप्रकारेण भ्रमति पुनः पुनः जननमरणवृत्त्या वर्तते इत्यन्वयः । कीदृशस्येदं घटते उक्त विमुक्तेति । फलसंकल्परहितः अत्रापि किं कारणमित्यत उक्तं जितेति । जिताः षडिन्द्रियशत्रवो येन स तथा पुरुषार्थविरुद्ध- चेष्टाहेतुत्वादिन्द्रियाणां सपत्नत्वमन्यथा सुहृस्वमिति भावः ॥ १५ ॥ * * ननु भ्रान्तीनामनेकत्वेन प्रत्येक तन्निवर्त- नानुपपत्तेरतः क उपाय इति सुहद्भावेन पृच्छन्तमाह न याबदित्यादिश्लोकद्वयेन । यावन्तं कालं जनस्य यदेतन्मनो ममतां विधत्ते ममेदमहमित्यभिमानमुत्पाद्य स्वामिनं संसारयतीत्यर्थः । तावन्तं कालं न निवर्तत इति शेषः । कीदृशमात्मलिङ्गमात्मनो योग्यताज्ञापकं संसारतापकं संसारताप उप्यतेऽनेनेति संसारतापावपनं कीदृशं ताप वपतीत्यत उक्त शोकेति । शोकादीनामनुबन्धो येन तत्तथा शोकादिजनकत्वेन तापावपनमित्यर्थः ॥ १६ ॥ * हे राजंस्त्वमेनमात्मनो मनसः उत्पन्नं मोह विपरीतज्ञानमत एव भ्रातृव्यं शत्रुं जहि नाशयेत्यन्वयः । अल्पत्वेन स्वयमेव विरमतीत्यत उक्तमदवेति । महद्वीयं यस्य तत्तथा, अभ्रवीर्यत्वे हेतुमाह उपेक्षयेति । अतिगर्हितेन पापेनैधितं वद्धितं शत्रुहननमस्त्रेण भाव्यं किमत्रास्त्रमित्यत उक्तं गुरोरित्यादि । उपासनमेवास्त्रं यस्य स तथा प्रमादादवाप्तस्य हनने अप्रमाद एव प्रथमसाधनमित्यभिप्रायेणोक्तम् अप्रमन्त इति । गुर्वादिचरणसेवादावन्तरङ्गसाधनमन- लीकत्वमित्यत उक्तम् । व्यलीकमिति । क्रियाविशेषणमेतत् आत्मनो मोहविशेषणं वा, विविधवस्तुविषयमनेनानेकान्यथाज्ञानानीति सूचितं परकीयं चेद् दुःखसाधनं हननमत उक्तं स्वयमिति स्वकीयमित्यर्थः । अत्रेदमाकूतं द्विविधं मनः चिचिद्भेदेन तत्र चिन्मनस्तु स्वरूपमभिन्नं मुक्तावानन्दानुभवसाधनं तन्नाशे स्वरूपनाश एवं स्यात्तथा च “अविनाशी वा अरे अयमात्मानुच्छि- तिधर्मा” इति श्रुतिव्याकोपः स्यादितरन्मन आदिमँ प्रलये लिङ्गशरीरवत्सूक्ष्मं यावन्मुक्ति तदीयतया स्थितं सत्सृष्टावुपचित स्थूलशरीरवर्तिनश्चेतनस्य ममेदमहमित्यभिमानमुत्पाद्य संसारापादनपटु स्वामिनश्चिदानन्दलक्षणस्य दुःखापादकत्वेन वैरि मनो जहि हन। तस्य हननेन तन्निमित्ताभिमानलक्षणमोहनाशेन व्यलीकं विगताचिन्मनःसंसर्ग स्वयं स्वरूपभूतं सच्चिन्मनः स्वयमिति द्विरावर्त- नीयं सुपूजितमिष्टप्रदं देवं श्रीनारायणाख्यं जहि गमय तद्विषयं कुरु । अत्रार्थद्वयाभिप्रायेण “हन हिंसागत्योः” इति धातुः प्रयुक्त इति ज्ञायते । अनेनाहमित्यभिमानः संसारहेतुः तन्मूलाचिन्मनोनाशेन तदभावेन तदभाव इति परिहारः सूचित इति तदुक्तमभिमानादेव संसारोऽन्यथा नेति परिहार इति ॥ १७ ॥ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्याम् एकादशोऽध्यायः ॥ ११ ॥ क श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी एवमविद्योत्तीर्णानां भगवदवधानलक्षणं ज्ञानं शाश्वतिकमेवेत्युक्तम् | अविद्यापतितानां जीवानामप्यविद्योत्तारणे तदेव साधनमित्याह नेति । वयुनोदयेन उक्तलक्षणज्ञानोत्पत्त्या विमुक्तसङ्गः सन् यावन्मायां विधूयात्मतत्त्वं न वेद तावदिह भ्रमति ।। १५ ।।
-
- मायाविधूननञ्च सम्यक्तया कथं ज्ञातव्यमिति चेत् यावद्विषयानुरक्तं मनस्तावन्मायाविधूननमात्म- तत्त्वज्ञानञ्च न स्यादित्याह नेति । आत्मनो लिङ्गमुपाधिभूतं मनः यावन्ममतां विधत्ते तावदात्मतत्त्वं न वेदेत्यनुषङ्गः । कीदृशं संसारतापानामावपनं क्षेत्रं तापानेवाह । यद्यतः शोकादीन्यनुबध्नातीति तत्तदेवं मनः श्रयते अन्यत्र तत्त्वमिति यदुक्तं तत् क्षेत्रज्ञ एता इत्यादिश्लोकपञ्चकेन प्रपचितम् ॥ १६ ॥ ॥१६॥ तस्मान्मन एवं निग्रहीतव्यमित्याह । भ्रातृव्यं शत्रुम् उपेक्षयैव जहि निगृहाण, तदुपेक्षणमेव तद्वध इति भावः । न तु तदिष्टविषयभोगप्रदानलक्षणया अपेक्षया अनुगृहाणेत्यर्थः । सर्वथैव तद्वधस्त्व- नभिप्रेत एव, तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्वस्य पसवरस्येति श्रूयते अन्यत्र तत्त्वमिति च पूर्वोक्ते, दृष्टान्ते च भ्रातुष्पुत्रस्या- बध्यत्वात् । मनः कीदृशमधिकमेधितं स्ववृत्तीः संश्रित्य संवृद्धं ननु बलवन्तमिमं दुर्बलोऽहं कथं निगृहामीत्यत आह । गुरोः सकाशात् प्राप्तस्य मन्त्ररूपस्य हरेश्वरणयोरुपासना श्रवणादिनवविधभक्तिरेवास्त्रं यस्य सः । यद्वा गुरुरेव हरिस्तस्य चरणोपासनमेवास्त्रं यस्य सः। व्यलीकमप्रियं यतः स्ववृत्तिसन्दर्शनया सम्मोह्य आत्मानं परमात्मरूपं सर्वस्वमेव मुष्णातीति तं महाचौर मित्यर्थः। भक्त्यस्त्रेण ३१ २४२ श्रीमद्भागवतम् [स्क. ५ अ. ११ लो. १५-१७ त्याजयित्वा विषयान् स्वमनो यतिः । ध्वस्ताविद्योऽवधत्ते यः कृष्णं मुक्तः स उच्यते । भक्त्यभावान्मनोवृत्तीराश्रयद्वासनमयम् । अविद्यां यस्य पुष्णाति स पुमान् बद्ध उच्यते’ ।। १७ ।। इति सारार्थदर्शिन्यां हर्षिरायां भक्तचेतसाम् । एकादशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥ ११ ॥ पवितicine formaternise prem mmmmits h श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः alpits तनुभृत् जीवः मायैव मम संसारकारणमिति वयुनोदयेन ज्ञानोत्पत्या एतां मायां प्रकृतिं विधूय यावत् आत्मतत्त्वं पूर्वोक्तं भगवत्तत्त्वं न वेद तावत् इह संसारे भ्रमति ।। १५ ।। * किन यत् शोकाद्यनुबन्धं ममतां विधत्ते तदेतन्मनः लिङ्गं सूक्ष्मशरीरभूतं तत्र तस्यैव मुख्यत्वात् जनस्य देहिनः संसारतापानामाध्यात्मिकादीनामावपनं क्षेत्रं तनुभृत् यावन्न वेद ताव- दिह भ्रमतीत्यन्वयः ॥ १६ ॥ तस्मादेनं मनोरूपं भ्रातृव्यं शत्रुमध्येधितं प्रवृद्धं व्यलीकं दुष्टम् आत्मानं मुष्णातीति तत् श्रीगुरुरेव हरिः तस्य चरणोपासनमेवास्त्रं यस्य तथाभूतः सन् जहि घातय ॥ १७ ॥ अ
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे एकादशाऽध्यायार्थप्रकाशः ॥ ११॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी hominate in BEST FE | Fee * कमन्तर्यामित्वं दृष्टान्तेन स्पष्टयति । यथेति-अनिलः पवनो यथा - बहित्स्थितोऽप्यात्मस्वरूपेण प्राणरूपेण स्थावरजङ्ग मानामन्तर्निविष्टः संस्तानीशेत् नियमयति । एवं परः प्रपञ्चातीतो भगवानैश्वर्यादिमान् वासुदेवः सर्वाधारः क्षेत्रज्ञः सर्वसाक्षी आत्मा व्यापकोऽपीदं विश्वमनुप्रविष्टः संस्तानियमयति ॥ १५ ॥ तदेवं देहान्तःकरणाद्यात्माध्यासेनैव देहादिगतः संसार आत्मनि प्रतिफलति न स्वत इति विस्तरेण निरूपितम्, इदानीं यावदध्यासो न निरस्यते तावन्न संसारनिवृत्तिरित्याह-नेति । हे नरेन्द्र तनुभृद्देही शास्त्रश्रवणादिना वयुनोदयेन ज्ञानोत्पत्त्या एतामात्मावरणभूताहम्ममाध्यासकारणभूतां मायामविद्यां विधूय निरस्य यावदात्मतत्त्वं न वेद साक्षात्कारं न कुर्यात्तावदिह संसारे भ्रमतीत्यन्वयः । ननु बहवः श्रवणाद्यभ्यासिनो दृश्यन्ते, परन्तु न तेषां ज्ञानेन मायानिरास इत्याशङ्कयाह-जितेति, जिताः षट् पच ज्ञानेन्द्रियाणि मनोलक्षणाः सपत्नाः शत्रवो येन सः । शत्रुजयाभावे ते विषयगर्ते निपातयन्तीति ज्ञानार्थाभ्यास अकिञ्चित्कर इति भावः । तर्हि तेषां जये क उपाय इत्याशङ्कय विषय- दोषदर्शनेन तेष्वनासक्तिरेवेत्याह-विमुक्तसङ्ग इति । त एव शत्रवस्त्वया जेतव्या इति सम्बोधनाभिप्रायः ।। १६ ।। 8 ननु तर्हि विषयविरक्तिरेव कुतो न भवतीत्याशङ्कय दोषास्फुरणादित्यभिप्रेत्याह-नेति । आत्मलिङ्गमात्मनो लिङ्गमुपाधिभूतं एतन्मन एव जनस्य प्राणिनः संसारतापावपनं संसारे देवतिर्यज्यनुष्यादिदेहसम्बन्धे ये तापाः आध्यात्मिकादित्रिविधदुःखानि तेषामावपनं क्षेत्र कारणमिति यावन्न वेद तावद्विषयविरक्त्यभावादिह भ्रमतीत्यनुषङ्गः । मनसस्तापावपनत्वे हेतुमाह-यदिति । यन्मनः शोकाद्य- नुबन्धं ममतां च विधत्ते इत्यन्वयः । तत्र सगो नाम विषयेषु शोभनाध्यासः, तदुत्कटावस्थायां धर्माधर्मविचारमनादृत्य विषय- सत्वेऽपि तदधिकजिघृक्षा लोभः, ततः परपदार्थग्रहणप्रवृत्त्या परस्परं वैरम्, इष्टविषयवियोगे शोकः, ततः शोकौत्कदये कर्त्तव्या- कर्त्तव्यानुसन्धानराहित्यं मोहः, ततः पुनस्तदर्थोद्योगेना धर्मोत्पत्तिद्वारा आमयो रोगः ॥ १७ ॥ एवं तत्त्वं निरूप्य तस्य कर्तव्यतामुपदिशति-भ्रातृव्यमिति । यस्मात् षट्स्वपि मन एव मुख्या शत्रुस्तस्मादेनं मनोरक्षणं भ्रातृव्य शत्रुं त्वं स्वयम- प्रमत्तः सन् जहि घातयेत्यन्वयः । सावधानतया मया किं शस्त्रं सम्पादनीयं तत्राह - गुरोरिति, गुरोर्हरेश्च चरणोपासनमेवात्रं यस्य तथाभूतः सन् । शत्रुत्वे हेतुः - व्यलीकं कपटिनम् । उपेक्षयाऽध्येधितमतिप्रवृद्धम् । न चास्योपेक्षा योग्येत्याह- अदभ्रेति, अति- प्रबलमित्यर्थः 1 प्रबलत्वमेवाह - आत्ममोषमिति, आत्मानं जीवस्वरूपमेव मुष्णाति आच्छादयतीति तथा ।। १८ ।। । । इति श्रीवल्लभाचार्यवश्यगोपालसू नुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥१॥ को श्रीमद्भिरिघरास्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र योगेन स्थितिरूपणे । एकादशो गतो वृत्तिमात्मज्ञाननिरूपक ।। ॥ कोeि femi । काकी क श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी | pas में 11 एवं प्रकृतिपुरुषविलक्षणं परमात्मरूपं समुद्दिश्य तदुपासनया तत्साक्षात्कारापन्नज्ञानपर्यन्तं संसारो न निवर्त्तते इत्याह नेति । हे नरेन्द्र तनुभृदेही, वयुनोदयेन ज्ञानोदयेन, एतामहममाभिमानरूपां मायां, विधूय निरस्य, विमुक्तः सङ्गो देहादिषु येन सः। जिताः षट् सपत्ना मनइन्द्रियरूपाः सपत्ना येन स तथाभूतः सन् यावत् आत्मतत्त्वं परमात्मयाथात्म्यं न वेद । तावत् इहास्मिन्संसारे भ्रमति ॥ १५ ॥ * * विषयानुरक्तं मन एवानर्थहेतुरिति यावन्न वेद तावन्निर्वेदाभावात्परिभ्रमत्येवेत्याह नेति । आत्मलिङ्ग, जीवस्योक्तरीत्या संसृतिमुक्त्योः कारणमित्यर्थः । जनस्य संसारतापानामाध्याति जनस्य संसारतापानामाध्यात्मिकादीनामावपनं क्षेत्रम् ।
- स्क. ५ अ. ११ श्लो. १५-१७]
- अनेकव्याख्या समलङ्कृतम्
- ૨૩
- यन्मनः शोकश्च मोहश्च आमयो रोगश्चिन्ता वा स च रागश्च लोभश्च वैरं च तैरनुबन्धः संबन्धो यस्य तत्तथाभूतं सत् ममतां विधत्ते । ममताहंताया अप्युपलक्षणम् । देहेऽहंतां देहिके ममतां च करोति तथाभूतं एतत् मनः भवति इति यावत् न वेद तावज्जनो भ्रमति इत्यनुषङ्गः ।। १६ ।। भ्रातृव्यमिति । तत्तस्मात् उपेक्षयाऽनिग्रहेण, अध्यधिकं यथा भवति तथा, एधितं वृद्धि प्राप्तं, अत एव अदभ्रमनल्पं वीर्यं यस्य तम्, अत एव व्यलीकं सर्वकालमप्रियकारकं आत्ममोषमात्मापहारिणम्, एनं मनोरूपं भ्रातृव्यं सहजशत्रुं त्वं अप्रमत्तोऽनलसः गुरोः हरेः चरणोपासनसेवास्त्रं यस्य तथाभूतः सन्, स्वयमात्मबलोपेतः संश्च, जहि घातय । सदाचार्य सेवादिप्रणाल्या मनः स्ववशवर्त्ति कुर्वित्यर्थः ॥ १७ ॥
- इतिश्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्द स्वामिसुत श्रीरघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
- ॥ ॥
- MAANTS भाषानुवाद क
- राजन् ! जबतक मनुष्य ज्ञानोदयके द्वारा इस मायाका तिरस्कार कर, सबकी आसक्ति छोड़कर तथा कामक्रोधादि छः शत्रुओं को जीतकर आत्मतत्त्वको नहीं जान लेता और जबतक वह आत्माके उपाधिरूप मनको संसार-दुःखका क्षेत्र नहीं समझता, तबतक वह इस लोकमें यों ही भटकता रहता है; क्योंकि यह चित्त उसके शोक, मोह, रोग, राग, लोभ और वैर आदिके संस्कार तथा ममताकी वृद्धि करता रहता है ।। १५-१६ ॥ * यह मन ही तुम्हारा बड़ा बलवान् शत्रु है। तुम्हारे उपेक्षा करनेसे इसकी शक्ति और भी बढ़ गयी है । यह यद्यपि स्वयं तो सर्वथा मिध्या है तथापि इसने तुम्हारे आत्मस्वरूपको आच्छादित कर रक्खा है। इसलिये तुम सावधान होकर श्रीगुरु और हरिके चरणोंकी उपासनाके अबसे इसे मार डालो ।। १७ ।।
- १५-१६।।
- इत्येकादशोऽध्यायः ॥ ११ ॥
- phire I fee
- ॥ ॥ व
- I nevermins
- |
- St.
- bug|| = ||
- नी
- delduzda st
- OFFssamis FOR
- mege PEE PERFE
- TOPPER ESPICI PRIEETS BY FEP TRE &
- ॥ ॥
- 8. Sinon PRICE THE PB Facienta pocet
- *
- क
- को - De Din Bp S
- Fires
- FATALE BREÌ BEER BEFDE PEELED ON
- 11 GER FEILEDE BY WIESER
- Sel dung: saccion pé du ng sina si SA mer mhg P
एक क के shine at PDF ने maplesania mms & IE 20 अथ द्वादशोऽध्यायः रहूगण उवाच Pete indin gynony ला नमो नमः कारण नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय । नमोऽवधूत द्विजबन्धुलिङ्ग निगूढनित्यानुभवाय तुभ्यम् ॥ १ ॥ ज्वरामयार्तस्य यथागदं सत् निदाघदग्धस्य यथा हिमाम्भः कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन् वचस्तेऽमृतमोषधं मे ॥ २ ॥ तस्माद्भवन्तं मम संशयार्थ प्रक्ष्यामि पश्चादधुना सुबोधम् । अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ॥ ३ ॥ यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् । न जसा तवविमर्शनाय भवानमुष्मिन् भ्रमते मनो मे ॥ ४ ॥ ब्राह्मण उवाच । अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः । तस्यापि चायोरधि गुल्फजङ्घाजानूरु मध्योरशिरोधरांसाः ॥ ५ ॥ अंसेsधि दाव शिविका च’ यस्यां सौवीरराजेत्यपदेश आस्ते । यस्मिन् भवान् रूढनिजामिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः॥ ६ ॥ शोच्यानिमांस्त्वमधिकष्टदीनान् विष्टया निगृह्णन्निरनुग्रहोऽसि । जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ॥ ७ ॥ यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् । यन्नामतोऽन्यद् व्यवहारमूलं निरूप्यतां सत् क्रिययानुमेयम् ॥ ८ ॥ ’’ अन्वयः - अवधूत कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय नमः नमः द्विजबंधुलिंगनिगूढ नित्यानुभवाय तुभ्यम् नमः ॥ १ ॥ * * ब्रह्मन् यथा ज्वरामयार्तस्य सत् अगदम् यथा निदाघदग्धस्य हिमांभः कुदेहमानाहिविदष्टदृष्टेः मे ते वचः अमृतम् औषधम् अस्ति ॥ २ ॥ * * तस्मात् मम संशयार्थं पश्चात् भवन्तम् प्रक्ष्यामि अधुना कौतूहलचेतसः मे अध्यात्मयोगप्रथितम् तव उक्तम् सुबोधम् आख्याहि ॥ ३ ॥ * * योगेश्वर भवान् यत् दृश्यमानम् क्रियाफलम् सद्व्यवहार- मूलम् अंजसा तवविमर्शनाय न हि आह अमुष्मिन् मे मनः भ्रमते ॥ ४ ॥ * * पार्थिव यः पार्थिवः कस्य हेतोः पृथिव्याम् चलन् अयम् जनः नाम च तस्य अपि अप्रयः अपि गुल्फजंघाजानूरूमध्योर शिरोधरांसाः ॥ ५ ॥ * *
-
- अंसे अधिदार्वी शिबिका च यस्याम् सौवीरराजेत्यपदेशः आस्ते यस्मिन् भवान् सिंधुषु राजा अस्मि इति रूढनिजाभिमानः दुर्मदांधः ॥ ६ ॥ * शोच्यान् इमान् अधिकष्टदीनान् तु विष्टया निगृह्णन् निरनुग्रहः असि जनस्य गोप्ता अस्मि इति विकत्थमानः धृष्टः वृद्धसभासु न शोभसे ॥ ७ ॥ * * यदा क्षितौ एव नित्यम् चराचरस्य प्रभवम् निष्ठाम् च विदाम तत् नामतः व्यवहारमूलम् क्रियया सत् इति अनुमेयम् अन्यत् निरूप्यताम् ॥ ८ ॥ ।
१. प्रा० पा० - राहुगण उवाच । २. प्रा० पा० कश्चन कस्य । ३. प्रा० पा० - शिबिका यस्यां । ४. प्रा० पा० - तस्मिन् । ५. प्रा० पा० दुष्टः । ६ प्रा० पा० यदा दुःखितावेव । ७. प्राचीनपाठे ‘नित्यम्’ पाठः खण्डितः । * एक. ५ अ. १२ श्लो. १-८1 अनेकव्याख्यांसमलङ्कृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका Presente imp द्वादशे पुनरापृष्टः संदेहेन महीभृता । स योगी सर्वसंदेहानपानुददितीर्यते ॥ १ ॥ પ कारणमीश्वरस्तस्यैव लोकसंरक्षणार्थो विग्रहो देहो यस्य । स्वरूपेण परमानंदप्रकाशेन तुच्छीकृतो विग्रहो येन । हे अवधूत योगेश्वर द्विजबंधोलिंगेन वेषेण निगूढो नित्यानुभवो येन तस्मै नमः ॥ १ ॥ * विशेषतः प्रष्टुं तद्वाक्यमभिनंदति । ज्वर एवामयो रोगस्तेनार्तस्य यथा सत्स्वाद्वद्मौषधम् । यथा च निदाघेन दग्धस्य संतप्तस्य हिमांभः शीतलमुदकं गंगोदकं वा । तथा हे ब्रह्मन्कुत्सिते देहे यो मानोऽहंकारः स एवाहिस्तेन विशेषेण दष्टा दृष्टिर्विवेकलक्षणा यस्य तस्य मे तवेदं वचोऽमृततुल्यमौष- धम् ॥ २ ॥ * * मम संशयविषयमर्थं पश्चात्प्रक्ष्यामि अधुना तावत्त्वदुक्तं वचोऽध्यात्मयोगेन प्रथितं दुर्बोधं सुबोधं यथा भवत्येवं व्याख्याहि । कौतूहलयुक्तं चेतो यस्य तस्य मम ॥ ३ ॥ * * त्वयोदितं व्यक्तमविप्रलब्धमित्यादिना भारवहनादि- क्रिया च तत्फलं च श्रमादि प्रत्यक्षादिभिर्दृश्यमानं सदबाधितमपि व्यवहारमात्रमूलम् । यद्वा सतोऽबाधितव्यवहारस्य मूलं कारणमपि न हांजसा तत्त्वविमर्शनाय क्षममिति भवान्यदाह । अमुष्मिन्नर्थे मम मनो भ्रमति ॥ ४ ॥ * * अबाधितत्वमसिद्धमित्याह हे पार्थिव यः पार्थिवो विकारः स एव कस्य हेतोः कस्माञ्चित्कारणात्पृथिव्यां चलन्नयं भारवाहकादिर्जनो नाम प्रसिद्धः । यस्तु न चलति स पाषाणादिरित्येतावानेव भेदः । तस्य च जडत्वान्न भारः श्रमश्च । किं च भवेदेवं यदि श्रमस्याश्रयो निरूप्येत न त्वेतदस्ति अवयवव्यतिरेकेण श्रमास्पदस्यावयविनोऽनिरूपणादित्याशयेनाह । तस्यापि पृथ्वीविकारस्यापि । अंभ्योरध्युपर्युपरि गुल्फादयः । उरसः सलोप आर्षः ॥ ५ ॥ * * शिविकायामप्यवयवी नास्ति त्वय्यपि नास्ति तदाह । सौवीरराजेत्यपदेशो नाममात्रं यस्य स पार्थिवो विकार आस्ते । राजेति संधिरार्षः । यस्मिन्भवान्निरूढात्माभिमानः सिंधुषु राजाऽस्मीति दुर्मदेनांधः सन् || ६ || 8 *
-
- शोच्यानिमान्विष्टया निगृह्णन्निष्कृपो वर्तसेऽतो मिथ्यैव गोप्ताऽस्मीति श्लाघमानो महतां सभासु न शोभसे । यतो धृष्टः ॥ ७ ॥ * * न चोत्तरोत्तरावयवभारः पूर्वपूर्वावयवानां भवेदिति वाच्यम् । तेषामप्यनिरूपणादित्या- शयेनाह यदेति । निष्ठां नाशं प्रभवमुत्पत्तिं विदाम विद्मस्तत्तदा क्षितेरन्यस्य विकारस्याभावान्नाममात्रादन्यद्व्यवहारस्य मूलं कारण- मर्थक्रियया सदित्यनुमेयं निरूप्यताम् । तथा च श्रुतिः “वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति ॥ ८ ॥ T श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः स भरताख्यः । अपानुदत् दूरीचकार ( १ ) । ब्राह्मणस्तुतिव्याजेनेश्वरं स्तौति- ‘करणं कारणं कर्त्ता’ इति सहस्रनामसु पठितत्वात्कारणमीश्वरः । विग्रहो देहः । कारणाय लोकानुग्रहलक्षणाय विग्रहो यस्येति वा । यद्वा-करणानंदस्यारणं शरणं विग्रहो यस्य यद्वैकदेशन्यायेन कष्ट आसमंताद्रणो येषां को ब्रह्मा वरदानादिनाऽरणं रक्षिता येषां ते वा । कारणा असुरास्तैर्विग्रहो विरोधो यस्य तस्मै । इंद्र । हे । पापम् तस्मै । “मायाभिरुत्सिसृक्षत इंद्र द्यामारुरुक्षतं अवदत्रं रधूनुथाः” इति श्रुतेः । हे अवधूतेति संबुद्धिः । अवधूयते पापम् अनेनेति व्युत्पत्तेर्ममाप्यज्ञानं पाप च नाशयेति भावः । लिंगेनोन्मत्तवेषेण । निगूढो नितरां छन्नो नित्यानुभवो ज्ञाननिष्ठारूपो यस्य स तथा स चासौ स चेति तथा तस्मै । यद्वा-अवधूतद्विजा दत्तात्रेयादय एव बंधवो यस्य स तथा ॥ १ ॥ * * “निदाघस्ताप- पापयोः” इति कोशमपेक्ष्योक्तं गंगोदकं वेति । अमृततुल्यममृतमिव लुप्तोपमा । ब्रह्मन्निति । वेदविदस्त वैतन्नाद्भुतमिति भावः ।। २-३ ॥ * * अमुष्मिन्नर्थे स्पष्टाभिप्रायाप्राप्त्या मे मनो न स्थिरीभवति योगेश्वरेति । योगेश्वरत्वात्तवात्र संदेहाभावेऽपि ममात्र संदेहोऽस्त्येवेति भावः ॥ ४ ॥ * * पूर्व स्वमतेन भंग्या दत्तोत्तरमबुध्यैव पुनः पृच्छतं राजानमवजानन्निव भो राजंस्तव व्यवहारोऽयमप्रमाण एवेति मतांतरमाश्रित्य पुनः प्रत्याह हे पार्थिवेति । यथा पृथिवीविकारो घटपाषाणादिर्बोधितो न बुध्यते तथा त्वमपीत्यभिप्रायः । कस्माच्चिददृष्टादिरूपात्कारणात् । श्रमासंभवमाह-किश्चेति । एवं त्वदुक्तरीत्या ॥ ५ ॥ * समासांतविधेरनित्यत्वाश्रयणे त्वार्षत्वं नास्तीत्यपि ज्ञेयम् । राजास्मीत्यभिमान एव न वस्तुतः | अत्र पृथिव्यादीनां शिबिकान्तानां भारवहनात्किं सर्वेषां श्रम उत कस्यचित्कस्यचित्, न तावत्सर्वेषां पृथिव्याः शिबिकायाश्च श्रमादर्शनात् । अध्यादीनां श्रम उपलभ्यत इति चेन्न । शिबिकाया अभावे गुल्फादिभारवाहिनामपि तेषां श्रमानुपलब्धेः अध्याद्यवयविनः शिबिका वहनाच्छ्रम इति चेदद्वयवेभ्यः पृथगवयविनः श्रमाश्रयस्यानिरूपणात् । नन्वस्तु मास्तु वाऽवयवी भार- वाहिना श्रमदुःखमनुभूयत एवेति चेत्तदपि नैकांतिकम् । अतिसुकुमार्या अपि नार्या रत्नालंकारान्वहंत्या रतौ स्वदेहे पतिं स्वबालकं च वहुत्याः श्रमदुःखानुपलब्धेः प्रत्युत सुखोपलब्धेच, तस्मादभिमानविशेषेणैव सुखदुःखे स्तः । यथा राजास्मीति दुर्मदेन दुरभिमान- मत्ततयांधः किमपि न पश्यसीत्येतावदेव तव सुखं निरभिमानानां तु न ते दुःखसुखे इति भावः ॥ ६ ॥ * * ज्ञानाभावेपि राज्ञः प्रजाशासनं धर्म इति यदुक्तं तत्राह - शोच्यानिति । ईदृशमेव प्रजापालनं धर्म एव । धृष्ट इति । अविनीतोसि तदपि अच्युतस्य किंकरोऽस्मि जिज्ञासुरस्मीति कत्थस इति भावः ॥ ७ ॥ * * नन्वभिमानशून्यस्य मुक्तस्यापि प्रारब्धसुखदुःख भोगश्रवणात्तवापि भारवहन क्रियाफलस्य श्रमस्य प्रत्यक्षादिभिर्हश्यमानत्वेनाबाधितत्वाद्वयवहारस्याप्रामाण्यं त्वदुक्तं न घटेतेति चेत्सत्यम् । मुक्तानां मादृशानां बाधितानुवृत्त्यैव दुःखसुखाभासौ यथा स्वप्नात्प्रबुद्धस्य जनस्य स्वप्नदृष्टसर्पस्य मिध्यात्वज्ञानेऽपि किञ्चित्क्षणपर्यंत २४६ श्रीमद्भागवतम् [स्कं. ५. १२ इलो. १-८ भयकं पावकिश्चित्करावेव । अप्रबुद्धानां तु स्वाप्निकः सर्पः सत्य एव भाति यथा युष्माकं व्यवहारस्तदपि व्यवहारस्यासत्यत्वं युक्त्या दर्शयामि श्रृण्वित्याह-यदेति । चराचरस्य जगता क्षितावेव निष्ठां नाशमुत्पत्तिश्च विद्यस्तत्तस्मात्सर्वेषां विकाराणां क्षितिभिन्नत्वाभावात् । निरूप्यतां यदि युक्तिः प्रतिभातीति भावः । विकाराणां मिथ्यात्वे श्रुतिं प्रमाणयति तथा चेति । स्पष्टार्थत्वान्न व्याख्यातेति ।। ८ ।। see fishposts को ॐ 1 श्रीमद्वीरराघवव्याख्याही । ….by तुभ्य कारणे परमात्मस्वरूपे चोपदिष्टे देहात्मनोरन्योऽन्यभेदं जिज्ञासुः प्रणत्या तदुक्ताभिनन्दनेन च तं प्रसादयन्पृच्छति रहूगणः । नमो नम इति चतुर्भिः । कारणविग्रहाय कारणस्य परमात्मनो विग्रहाय शरीरभूताय । यद्वा मादृशलोकरक्षणकारणेन विग्रहो देहो यस्य तस्मै “आचार्यदेवो भव, देवमिवाचार्यमुपासीत, आचार्य मां विजानीयात्” इति शास्त्रानुसन्धानकृतेनेश्वर भावे- नैवमुक्तं स्वरूपानुसन्धानेन तुच्छीकृतो निरस्तो विग्रहो विरोधः कृतापराधेष्वपि मादृशेषु यस्य । अवधूतः सर्वैः परिभाव्यवेषः द्विजबन्धोर्लिङ्गन वेषेण निगूढो नित्यानुभवः नित्यस्य परमात्मनोऽनुभवः येन ततोऽवधूतशब्देन कर्मधारयः, एवंभूताय नमः ॥ १ ॥ * * ज्वररूप आमयो रोगः तेनार्तस्य पीडितस्य यथा सद्विशुद्धमगदमौषधं यथा वा निदाघेन प्रीष्मतापेन तप्तस्य हिमाम्भः पीडानिवर्तकं च तथा हे ब्रह्मन् ! कुत्सितो यो देहस्तस्मिन्मान आत्माभिमानः स एवाहिः सर्पस्तेन विशेषेण दष्टा दृष्टिर्विवेकलक्षणा यस्य तस्य मम ते तव वचः अमृततुल्यमौषधम् ॥ २ ॥ * * तस्माद्भवन्तं प्रति मम संशयार्थं संशयनिवृ- ॥ त्त्यर्थमर्थशब्दोऽत्र निवृत्तिवाची मशकार्थो धूम इतिवत् । तं पश्चाद्वक्ष्यामि अधुना तु यत्तव त्वया उक्त तदध्यात्मयोगेन प्रथितमतो दुर्बोधं सुबोधं यथा तथा कौतूहलचेतसः कौतूहलशब्दस्तद्युक्तपरः कौतूहलयुक्तं चेतो यस्य तस्य मे मह्यमाख्याहि कथय || ३ || * * तत्र दुर्बोधमर्थमनुवदति यदाहेति । हे योगेश्वर ! भवान्प्रत्यक्षादिभिर्दृश्यमानं यत्क्रियाफलं दूरगमनक्रियाफलं खेद- श्रमादिकं सद्व्यवहारमूलमबाधितव्यवहारहेतुकमुरुपरिश्रान्तोऽसीत्यबाधितव्यवहारस्य मूलं नहि भवतीति यद्भवानाह तत्र मे मनः अञ्जसा सुखेन तत्त्वविमर्शनाय भ्रमते भ्राम्यते क्लिश्यति ॥ ४ ॥ * * तत्र क्रियाफलस्य बाधितव्यवहारमूलत्वं भवतु नहि स्थौल्य कार्यादिव्यवहारस्य स्वरूपेणासत्त्वमुक्तं देहविषयस्य तस्याबाधितत्वात् । किन्त्वात्मनि यद्भवता परिश्रान्तोऽसि नातिपीवा शास्ताधिगोप्ता पतिरिति व्यवहृतं तद्बाधितमित्युच्यते । न च मदीयोऽपि व्यवहारः शरीरविषय एवेति बाधितत्व महंत्वंशब्दयोरात्मविषयत्वादभिमुखीकर्त्तव्यतत्प्रतिसंबन्धिनि प्रत्यवस्तुनि च चेतने एव तयोर्वृत्तेः अचेतनशिष्टाभि- सुखादचेतनविषयत्वेऽपि विशेष्यास्थौल्यादेर्बाधितत्वादितिवद्देहात्मनोरत्यन्तभेदमाह ब्राह्मणः । अयमिति । हे पार्थिव ! यः पार्थिवः पृथिव्या विकारः स एव कस्य हेतोः कस्माच्चित्कारणात् पृथिव्यां चलन्नयं भारवाहादिजनो नाम प्रसिद्धः, यस्तु न चलति सपाषाणादिरित्येतावानेव भेदः । कस्य हेतोरित्यनेन कश्चिज्जीवस्य कर्मशेष एव एतच्छरीरस्य चराचरत्वयोर्हेतुरित्यभिप्रेतं तस्यापि पृथिवीविकारस्याप्यवध्योः पादयोः उपर्युपरि गुल्फादयः- उरसः सलोप आर्षः शिरोधरा ग्रीवा अंसौ स्कन्धौ ॥ ५ ॥ * अंसे च दारुमयी शिबिका तस्यां च सौवीराणां राजेत्यपदेशः अपदिश्यत इत्यपदेशः व्यवहर्तव्यः आस्ते सौवीरराजेति व्यपदेशो व्यवहारो यस्य स मांसपिण्ड आस्ते इति वा । यस्मिन् सौवीरराजव्यपदेशे भवान् स्वरूपतः स्वभावतश्च ततोऽत्यन्तविलक्षणोऽपि भवान्निरूढतादात्म्याभिमानः सिन्धुदेशेषु राजास्मीति दुर्मदेनान्धः सन् अनेनात्मनि राजत्वबुद्धिर्भ्रान्तिरित्युक्तम् ॥ ६ ॥ * * अत्यन्तं कष्टेन वहनादिजनितदुःखेन दीनानत एव शोच्यानिमान् विष्टया बलान्निगृह्णन्निरनुग्रहः निष्कृपो वर्तसे । अनेनात्मनि राजत्वबुद्धिप्रयुक्तनिग्रहादिकर्तृत्वस्य च स्वरूपप्रयुक्तत्वबुद्धिर्भ्रान्तिरित्यु- तम, जनस्य गोप्ता रक्षकोऽस्मीति कत्थमानस्त्वं वृद्धसभासु देहात्मविवेकिषु न शोभते यतो धृष्टः देहात्मभ्रान्त्योद्धतः ।। ७ ।। ** अस्थिरेषु स्थिरबुद्धिश्च भ्रान्तिरिति दर्शयितुमस्थिरत्वमाह यदेति । चराचरस्य देहजातस्य प्रभवमुत्पत्ति निष्ठां नाशं च क्षितौ भूम्यामेव विदाम, क्षितिशब्दो ब्रह्माण्डपरः “सभूमिं विश्वतो वृत्वा” इति श्रीतप्रयोगात् उत्पत्तिविनाशौ क्षितावेव पश्याम स्थिरत्वं पश्याम इति भावः तस्मादस्थिरत्वान्नामतः अनित्ये नित्यत्वाद्देहात्म भ्रान्तिमूलान्नित्यत्वस्य बाधितत्वात्वदुक्तिमात्रादन्यत्सत्क्रियया अबाधितव्यवहारेणानुमेयव्यवहारस्यात्मनि राजत्वादिव्यवहारस्य मूलं निरूप्यतां, तन्न किञ्चिदप्यस्ति, उक्तत्रिविधस्य भ्रान्ति- मूलत्वादित्यर्थः ॥ ८ ॥ Free p श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली जन्माद्यस्य यतोऽन्वयादित्यत्र कारणत्वं हरेरुक्तं तदधुना हरेरेव नान्यस्येति सयुक्तिकमस्मिन्नध्याये निरूप्यते । तत्रादौ ब्राह्मणस्तुतिव्याजेन तदन्तर्यामिणं स्तौति । नम इति लोकानुग्रहलक्षणकारणाद्विग्रहो यस्य स तथा तस्मै अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनदानाय देहं धृतवत इत्यर्थः । स्वरूपापरोक्षज्ञानदीपेन तुच्छीकृतो धिक्कृतो विग्रहः पाञ्चभौतिको देहो यस्य स तथा तस्मै किमर्थं तर्हि स्वसामध्ये न प्रकाश्यत इति तत्राह अवधूतेति । अवधूतश्चासौ द्विजबन्धुर्ब्राह्मणाभासः तस्य लक्षणेन निगूढः संवृतो नित्यानुभवः स्वरूपसामर्थ्यं यस्य सः तथा तस्मै, अवधूतद्विजा एव बन्धवो येषां ते तथा तेषां लिङ्गे- स्कं. ५ अ. १२ इलो. १-८] । अनेकव्याख्या समलंकृतम् A २४७ नेति वा अवधूत ! तुभ्यं नम इति वा तुभ्यं तवान्तर्यामिणे नमः । किंविशिष्टाय कस्यानन्दस्यारणं शरणं विग्रहो यस्य कमेवारणं विप्रहो यस्येति वा स तथा तस्मादानन्दमूर्तय इत्यर्थः । क्षितिभारासुरनिरसनलक्षणकारणमुद्दिश्य विग्रहो यस्य स तथा असुर- निरासाय स्वीकृतदेहायेत्यर्थः “यदा यदा हि धर्मस्य ग्लानिर्भवति भारत” इत्यादेः । मायया कष्टो रणो येषान्ते कारणा असुराः तैर्विग्रहो विरोधो यस्य स तथा तस्मै “मायाभिरुत्सिसृक्षत इन्द्राद्यामारुरुक्षतः अवदस्यूंरधूनुथाः” इति श्रुतेः स्वरूपेण चिदानन्दलक्षणाकारेण दूरीकृत प्राकृतदेहाय । द्विजबन्ध्विति भावप्रधानो निर्देशः, द्विजानां बन्धुः तस्य भावो द्विजबन्धुत्वं तदेव लिङ्ग यस्य स तथा नितरां गूढश्छन्नो लोकापेक्षया प्रकृत्यापिहितो नित्यानुभवो यस्य स तथा द्विजबन्धुलिङ्गश्चायं निगूढनित्यानुभवश्च तस्मै ॥ १ ॥ * * किं फलरत्नमुपलभ्य स्तौति तत्राह । ज्वरेति । निदाघेन औष्ण्येन दग्धस्य तप्तस्य कुदेहमानाहिसुनष्टदृष्टेरिति पाठ: - दुष्टदेहाभि- मानाख्यसर्पेण सम्यङ्नष्टज्ञानचक्षुषो मे अमृतममृतकल्पं सम्यग् उषो दाहो येषां ते औषास्तान् दधाति पुष्णातीत्यौषधम् ॥ २ ॥ * * किमत इति तत्राह तस्मादिति । यस्माद्भवद्वचनामृतं संसाराख्यरोगोन्मूलनकरं तस्मात्संशयार्थं कोटिद्वयारूढमर्थम् । यद्वा संशयनिवृत्त्यर्थं मशकार्थो धूम इतिवत् वक्तव्यत्वे निमित्तमाह पश्चादिति । अधुना त्वत्सन्निधौ सुबोधं पञ्चात्त्वत्सन्नि- धिमन्तरेणासुबोधं ज्ञातुमशक्यं यस्मात्तस्मादिति शेषः । किमुक्तार्थे प्रश्न उतार्थान्तर इति विकल्पो मा भूदित्याह अध्यात्मेति । अध्यात्मयोगेन परमात्मज्ञानेन प्रथितं बद्धं यत्पुरा तत्रोक्त वचनं तस्याभिप्रायं ममाख्याहि विस्तृत्य वदेत्यन्वयः ॥ ३ ॥ * * किं तदुक्तं तदाह यदाहेति । हे योगेश्वर ! दृश्यमानं प्रत्यक्षादिप्रमाणैर्ज्ञायमानं क्रियाफलं भरणगमनक्रियाजनितं भर्तृत्व- गन्तृत्वलक्षणं फलं लौकिकम् “अपाम सोमम्” इत्यादिना निरूप्यमाणं सोमपानादिक्रियाजातममृतत्वादिकं फलं वैदिकं च सद्वयव- हारमूलमबाधितामिज्ञादिव्यवहारकारणमञ्जसा मुख्यया वृत्त्या तत्त्वविमर्शनाय तत्त्वनिर्णयाय न भवति स्थायित्वेनैकनिष्ठ भव- तीति यद्वचनं “भर्तुः स मे स्याद्यदि वीर ! भारः व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति” इति उरुगार्हमेधवितानविद्येत्यादिरूपं भवानाह । अमुष्मिन्वचसि मे मनो भ्रमते अस्य वचनस्यार्थोऽयमेव नान्य इति स्थिरस्थितिं न लभते सा यथा स्यात्तथा- स्याहीति भावः । भ्रमत इत्यात्मनेपदप्रयोगेण सकृन्निगदितनिगदाभिप्रायपरिज्ञाने नात्मनोऽनुत्तमाधिकारित्वं तत्वोपदेष्टृ ज्ञानि- सद्भावे तस्मात् स्वयोग्यं सविशेषं ज्ञातव्यमन्यथानर्थः स्यादिति श्रोतृजनशिक्षार्थं चेति सूचयति ॥ ४ ॥ भर्तुः स मे स्याद्यदि वीर! भार इत्यादिनोच्यमानं भरणादिकमन्तर्यामिहरिनियतमित्येव मुमुक्षुणा स्मर्त्तव्यमेवं परो भगवानित्युक्तेः यत “अक्षरमम्बरान्तधृतेः” “य उ त्रिधातु पृथिवीमुतयामेको दाधार भुवनानि विश्वा । आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चनमिषत्स इमांल्लोकानसृजत” इत्यादिनोच्यमानमूलकारणत्वं हरेरेव । नहि मूलं विसृज्यान्यग्रहणं युक्तिमत् अनव- स्थानापातात् कथं तदिति शङ्कित्वा विपक्षे बाधकमाह अयं जन इति । हे पार्थिव ! यदि मूलकारणविवक्षा न न स्यात्तर्हि यः से । पृथिव्यामुत्पन्नत्वादत्र विद्यमानत्वाद्वा पार्थिवो नाम सोऽयं जन्यत इति जनो देहो देही वा पृथिव्यामेव चलन चलतीति व्यवहारः कस्य हेतोः कुतो वर्तते, प्रत्यक्षसिद्धं कथमपलपितुं शक्यत इति चेत्तत्राह तस्यापीति । तस्य जनस्यापि पादाद्यवान्तराधाराः सन्तीति यस्मात्तस्मादस्यापि प्रामाणिकत्वात्पृथिव्यामिव पादादिष्वपि चलतीति कस्मान्न भवेन्न चासावस्ति तस्मान्मूलकारण- मेकमङ्गीकर्तव्यं तदनङ्गीकारे सर्वस्यापलापः प्रसज्यते । अत्राधिशब्द उपर्युपर्यर्थवाचकः तथा ज्योरङ्ज्युपरि गुल्फौ तयोरुपरि जङ्के इत्येवं योजना । गुल्फौ च जने व जानुनी च ऊरू च मध्यं च उरश्च शिरोधरा व अंसो च ते तथा ॥ ५ ॥ * दाव दारुमयी यस्यां शिबिकायां सौवीरराजेत्यपदेशः शब्दमात्रं न तु रञ्जनाद्राजेत्यर्थो यस्य स तथा पिण्ड आस्ते यस्मिन् पञ्चभूतरचिते देहलक्षणे पिण्डे भवान्वर्तते कथंभूतो भवान् रुढो बद्धमूलो निजत्वेनाभिमानो देहे यस्य स तथा अत एव सिन्धुषु राजास्मीति दुष्टो मदोऽस्ति तेनान्धश्चक्षुरहितः ॥ ६ ॥ * * एतत्फलमाह शोच्यानिति । तानिमान् वाहकान्विष्टया निग्रहन्यस्त्वं निरनुग्रहोऽसि मधुरवचनाद्यनुग्रहरहितोऽसीति यस्मात्तस्मादिहामुत्र च तवाधिरधिकः स्यादित्यन्वयः । यथा शिविका- भर्तृत्वं मदन्तर्यामिमूलकारणनिष्ठमेवं जनस्य गोप्तास्मीति त्वयि कल्प्यमानं मूलगोप्तृत्वं च त्वदन्तयोमिहरिनिष्ठमित्यभिप्रेत्याह जनस्येति । वृद्धसभासु विद्वत्समितिषु जनस्य गोप्तास्मीति विकत्थमानो बहुभाषमाणो दुष्टोऽयं तत्त्वं न जानातीति लाघ्यो न भवतीत्यर्थः ॥ ७ ॥ * * नन्वेवं तर्हि पृथिव्या मूलाश्रयत्वमापन्नं तथाहि यदि मूलाश्रयविवक्षा न स्यात्तर्हि पृथिव्यां चलतीति व्यवहारो न स्यान्न च तथा तस्मात्पृथिव्या मूलाश्रयत्वं विष्णुविवक्षायामसङ्गतं चेत्याशङ्कां शाखा चन्द्रन्यायेनोक्तमिति परिहरति, यदीति । उत्पत्तिस्थित्योः पृथिव्यां दर्शनात्तस्याः मूलकारणत्वमित्यतो वाह यदीति । यदि चराचरस्य क्षितावेव निष्ठां स्थितिं तत एव प्रभवमुत्पत्ति च विदाम विद्मः अविद्वद्वढयेति शेषः तथाप्यालोचने तन्नामतः प्रसिद्धक्षितिनाम्नोऽन्यद्वय- वहारमात्रं क्षितिशब्दव्यवहारयोग्यं सत्क्रियया अबाधितार्थक्रियया “क्षि निवासगत्योः” इति धातोः निवसत्यस्यामिति गच्छत्य- स्यामिति निवासगत्योर प्रतिहताश्रयभूतं यत्तदनुमेयं क्षितिशब्दमुख्यार्थमिति निरूप्यतामित्यन्वयः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तर” इति श्रुतेः क्षितिशब्दमुख्यार्थी हरिरन्यस्याः पृथिव्यास्तन्नियतत्वेन तच्छब्दवाच्यत्वं : तदधीनत्वादर्थवत्” इति सूत्रादिति सञ्चिन्तनीयमित्यर्थः । प्रथितत्वात्पृथुत्वाद्वा पृथिवीति पृथिवीशब्दवाच्यत्वं मुख्यं हरेरेवेति पृथिव्यां चलतीत्युक्तं न तु पृथिव्या मुख्याश्रयत्वविवक्षया अध्याद्याश्रयत्वनिरासाय चेत्यतो नासङ्गतदोषोऽपीति । उत्पत्तिस्थिती इन्द्रजालवन्न यादृच्छिक्यौ, किन्तु प्रवाहरूपेण सदातने इत्यतो नित्यमिति ॥ ८ ॥ 試 । BF म २४८ श्रीमद्भागवतम् श्रीमजीवगोखामिकृतः क्रमसन्दर्भः [ स्कं ५ अ. १२ श्लो. १-८ fee स्वरूपेण तदनुभवेन तुच्छीकृतो दण्डरूपो विग्रहो येन ॥ १ ॥ हे ब्रह्मन् ते तव वचः कुदेहाभिमानाहिदंश- व्याप्त बुद्धिपर्यन्तस्य ममौषधं तत्र दृष्टान्तः जरेति । कचित्तद्वयभिचारतर्कात् पुनर्दृष्टान्तः निदाघेति । तत्राप्यपरितोषात् अमृतमिति लुप्तोपमेयममृतमिवेत्यर्थः ।। २-४ ॥ * * तत्र श्रीभगवदाख्यं तत्त्वमेव सर्व्वसाधकं स्वातन्त्र्येण तु किमपि रूपयितुं न शक्यमित्याह । अयमिति सप्तभिः ॥ ५-८ ॥ श्रीमद्विश्वनाथचक्रदर्तिकृता सारार्थदर्शिनी मिध्यात्वेऽप्यस्य विश्वस्य सत्याः कृष्णस्य षडगुणाः । द्वादशे कथिता धामभक्त्याद्या अपि ते ततः ।। कारणमीश्वरस्तस्यैव लोकरक्षणार्थो नित्यो विग्रहो देहो यस्य तस्मै । स्वरूपेण स्वानन्दानुभवेन तुच्छीकृतविग्रहाः शास्त्रकृतां विवादा येन तस्मै हे अवधूत ! ॥ १ ॥ कुत्सिते देहे अभिमान एवाहिस्तेन विशेषतो दष्टा दृष्टिर्यस्य तस्य मम हे ब्रह्मन् ! ते वचः अगदमौषधं तत्र दृष्टान्तः ज्वरेति । कचित्तद्वयभिचारतर्कात् पुनर्दृष्टान्तः निदाघेति । तत्राप्यपरितोषात् अमृतम- मृतमिवेत्यर्थः ॥ २ ॥ * *
- मम संशयविषयमर्थं पश्चात् प्रक्ष्यामि अधुना तावत् त्वदुक्तं वचः अध्यात्मयोगेन प्रथितं दुर्बोधं सुबोधं यथा भवत्येवं व्याख्याहि कौतूहलयुक्तमनसो मम कृते ॥ ३ ॥ * * हे योगेश्वर
-
- हे योगेश्वर ! यद्भवानाह । दृष्टः श्रमः कर्मत इत्यादि मदुक्तौ भारवाहनादिक्रिया तत्फलख श्रमादि प्रत्यक्षादिभिर्दृश्यमानं सत् विद्यमानं व्यवहारमात्रमूलं तत्त्वविमर्शनाय दृष्टान्तादिनापि तत्त्वज्ञानमुपकर्तुं न क्षममिति । अमुष्मिन् त्वद्वचने भ्रमते स्पष्टस्याभिप्रायस्याप्राप्त्या मनो भ्रमति ॥४॥ ** पूर्व स्वमतेन भङ्गन्या दत्तमप्युत्तरमबुद्ध्वैव पुनः पृच्छन्तं राजानमवजानन्निव भो राजस्तव व्यवहारोऽयमप्रमाण एवेति मतान्त- रमाश्रित्य पुनः प्रत्याह । अयं जनो भारवाहकः नाम प्रसिद्धः पार्थिवः पृथिव्या विकारः कस्यापि हेतोश्चलन् भवति यस्तु न चलति स तु पाषाणादिरित्येतावानेव भेदः । तस्यापि पार्थिवस्य अङ्घ्री पृथिव्या उपरिस्थौ अध्योरधि उपर्युपरि गुल्फादयः । उरसः सलोप आर्षः ।। ५॥ * * अंसे स्कन्धे दाव दारुविकारः शिबिका यस्यां सौवीरराजः इत्यपदेशो नाममात्रं यस्य पार्थिवो विकार आस्ते यस्मिन् भवान् राजास्मीत्यभिमानेनैवास्ते न तु वस्तुतः । अत्र पृथिव्यादीनां शिबिकान्तानां भारवाहनात् किं सर्वेषां श्रमः उत कस्यचित् कस्यचित्, न तावत् सर्वेषां पृथिव्याः शिविकायाश्च श्रमादर्शनात् । अध्यादीनां श्रम उपलभ्यते इति चेन्न, शिविकाया अभावे गुल्फादिमारवाहिनामपि तेषां श्रमानुपलब्धेरध्याद्यवयविनः शिबिकावहनात् श्रम इति चेत् अवयवेभ्यः पृथगवयविनः श्रमाश्र यस्यानिरूपणात् । नन्वस्तु मास्तु वा अवयवी भारवाहिनः श्रमदुःखमनुभूयत एवेति चेदेतदपि नैकान्तिकं, अतिसुकुमार्या अपि रत्नालङ्कारान् वहन्त्याः स्वबालकंच वहन्त्याः श्रमदुःखानुपलब्धेस्तस्मादभिमानविशेषेणैव दुःखं सुखं च यथा राजास्मीति दुर्मदेन दुरभिमानमत्ततया अन्धः किमपि न पश्यसीत्येतदेव तव सुखं निरभिमानानान्तु न ते दुःख- सुखे इति भावः ॥ ६ ॥ * * ज्ञानाभावेऽपि राज्ञः प्रजाशासनं धर्म एवेति यदुक्तं तत्राह शोच्यानिति । विष्टया निगृह्ण- न्निति इदृशमेव निर्दयस्य तव प्रजाशासनं धर्म इति धृष्ट एव तदद्भ्यच्युतस्य किङ्करोऽस्मीति जिज्ञासुरस्मीति कत्थस इति 7 ॥ ७ ॥ * * नन्वभिमानशून्यस्य मुक्तस्यापि प्रारब्धसुखदुःखभोगश्रवणात् तवापि भारवहनक्रियाफलस्य श्रमस्य प्रत्यक्षादिभिर्द्दश्यमानत्वेना बाधितत्वाद्वयवहारस्याप्रामाण्ये त्वदुक्तं न घटत इति चेत् सत्यं, मुक्तानां मादृशानां बाधितानुवृत्त्यैव दुःखसुखाभासौ यथा स्वप्नात् प्रबुद्धस्य जनस्य स्वप्नदृष्टसर्पस्य मिध्यात्वज्ञानेऽपि कियत्क्षणपर्यन्तं भयकम्पावकिश्चित्करावेव । अप्रबुद्वानान्तु स्वामिकः सर्पः सत्य एव भाति यथा युष्माकं व्यवहारस्तदपि व्यवहारस्यासत्यत्वं युक्तया दर्शयामि श्रृण्वित्याह यदेति । चराचरस्य जगतः क्षितावेव निष्ठां नाशं प्रभवमुत्पत्तिश्च विदाम विश्वस्तत्तस्मात् सर्वेषां विकाराणां क्षितिभिन्नत्वाभावात् नाममात्रादन्यद्वद्यवहारस्य मूलं कारणमर्थक्रियया सदेत्यनुमेयं निरूप्यतां यदि ते युक्तिः प्रतिभातीति भावः । तथा च श्रुतिः “बाचा- रम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति ॥ ८ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीप चिकि द्वादशे रहूगणकृतान् संदेहान् मुनिरपानुददिति वर्ण्यते । हे अवधूत ! तुभ्यं नमः कारणमृषभादिपरमहंसमूर्तिर्विष्णु- स्तस्येव विग्रहो यस्य तस्मै स्वरूपेण भगवत्स्वरूपेण प्रत्यहं ध्येयेन तुच्छीकृतो विग्रहो कृतापराधेष्वपि कलहो येन तस्मै द्विजबन्धो- लिङ्गेन वेषेण निगूढो नित्यानुभवो येन तस्मै नमः ॥ १ ॥ ॐ कुत्सितः देहमानः देहात्माभिमानः स एवाहिस्तेन विदष्टा विवेकलक्षणा दृष्टिर्यस्य तस्य ॥ २ ॥ मम संशयविषयमर्थं पश्चात्प्रक्ष्यामि अधुनेदानीन्तु अध्यात्मयोगेन प्रथितं दुर्बोधं त्वद्वचः सुबोधं यथा भवति तथा कौतूहलयुक्तचेतसो मे आख्याहि कथय ॥ ३ ॥ * * तदेव दुर्बोधमनुवदति तदेति । अयं सुखी अयं दुःखी इत्यादिव्यवहारस्य मूलं निर्वाहकं क्रियाफलं पुण्यापुण्यकर्मजन्यं दृश्यमानम् अब्रह्मात्मकतया प्रत्यक्षप्रमाणावगतं वोढ़-वोढव्यादिकं सर्व त्वयोदितं व्यक्तमित्यादिना भवान् सदेव ब्रह्मात्मकमेवाह । अमुष्मिन् त्वद्वचसि मेस्कं. ५ अ. १२ इ. १-३] । अनेकत्र्याख्या समलङ्कृतम् २४९ मनो भ्रमति अञ्जसा तत्त्वविमर्शनाय न भवति । अतः यथा सर्वस्य ब्रह्मणि अन्तर्भावः स्यात्तथा आख्याहीति भावः ॥ ४ ॥ ४ ६६ एवं साङ्ख्यतार्किकादिकुतर्कविमोहितेना ब्रह्मात्मकमिदमित्येवं मन्यमानेन राज्ञा पृष्टो मुनिस्तं वेदमार्गे प्रवर्तयन् सर्वस्य पदार्थजातस्य शक्तिमति वासुदेवे ब्रह्मणि कारणे अन्तर्भावमाह अयमिति सप्तभिः । हे पार्थिव! पार्थिवः अन्नमयः कस्यचिद्धेतोः परमेश्वरांश- भूतजीव सम्बन्धादित्यर्थः । साङ्ख्यादितर्कमोहितो यथावज्जानाति न वा रहूगणः अतः कस्यचिद्धेतोरित्युक्तिः । अयं वोढादिरूपः पृथिव्यां चलन नाम प्रसिद्धः जनो भवति तस्य पार्थिवस्यापि अनयोः अधि उपरि उपरि गुल्फादयः तदात्मका इत्यर्थः । उरसः सलोप आर्षः ॥ ५ ॥ शिविकापदार्थश्च पार्थिव एव तत्र सिन्धुराजनामको देहश्च पार्थिव इत्याह । अंस इति । सौवीरराजेत्यत्र सन्धिरार्षः ॥ ६ ॥ जीवस्तु सर्वात्मभूतवासुदेवज्ञानहीनः पार्थिवदेहात्माभिमानी अन्यांश्च
-
- तथाविधानुपतापयति सर्वात्मभूतवासुदेवज्ञानवांस्तु नोपतापयति नोपतप्यते चेत्याशयेनाह शोच्यानिति ॥ ७ ॥ * चराचरस्य जङ्गमस्य स्थावरस्य च पार्थिवमात्रस्य क्षितौ कारणभूतायां सतां क्रियया अन्नोपार्जनतद्भोजनपूर्वकगर्भाधानादिव्या- पारेणानुमेयम् ‘अन्नाद्भवन्ति भूतानी’ त्यादिवचनेन च प्रभवमुत्पत्ति निष्ठां च प्रलयन यदा विदाम तदा तन्नामतः क्षितिनामकात् कारणात् अन्यत् पृथक् व्यवहारमूलं क्षितिमयव्यवहारकारणं निरूप्यताम् ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी वैराग्यरहितं ज्ञानं न हि मोक्षस्य साधनम् । इति तु द्वादशेऽध्याये वैराग्यं विनिरूप्यते ॥ १ ॥ एवं ब्राह्मणवाक्यं श्रुत्वा स्वस्मिंस्तस्यानुग्रहमालक्ष्य पुनः सन्दिग्धमर्थं प्रष्टुं तं नमस्यन् स्तौति द्वाभ्याम् नम इति । कारणेन जनोद्धारहेतुना विग्रहो यस्य तस्मै तुभ्यं नमो नमः जनोद्धारार्थत्वं विना तव विग्रहधारणं न सम्भवतीति सूचयन्नाह- स्वरूपेति । स्वरूपेण परमानन्दप्रकाशेन तुच्छीकृतो विग्रहो येन तस्मै नमः । ननु यद्यहमेवम्भूतस्तत्सर्वे कुतो न जानन्ति तत्राह- नम इति । अवधूतं सन्मानत्यागेन मलिनं यद् द्विजबन्धुलिङ्गं ब्राह्मणशरीरं तेन निगूढ आच्छादितो नित्यः स्वानन्दानुभवो येन तस्मै नमः ॥ १ ॥ * * तर्हि त्वयैतत्कथं ज्ञातमित्याशङ्कय त्वद्वचनामृतसेवनादित्याह-ज्वरेति । ज्वर एवामयो रोगस्तेनार्त्तस्य पीडितस्य यथा सत् तच्छान्तिकरमगदमौषधम्, यथा च निदाघेन दग्धस्य सन्तप्तस्य हिमाम्भः तापशान्तिकरं शीतलमुदकम्, तथा कुत्सिते विष्ठादिपूर्ण देहे यो मानः सर्वोत्कृष्टो नरदेवोऽहमित्यहङ्कारः स एवाहिस्तेन विशेषेण दष्टा विनष्टा दृष्टिर्विवेकलक्षणा यस्य तस्य मे सम ते तवेदं वचोऽमृततुल्यमौषधं, विवेकसम्पादकत्वात् । हे ब्रह्मन्निति सम्बोधनेन सर्वज्ञो ब्रह्मभूतस्त्वमनृतं वा सत्यं वा वदामि तज्जानास्येवेति सूचयति ॥ २ ॥ * * यस्मादेवं तस्माद् भवन्तं सर्वज्ञं यत् मम संशयविषयमर्थं तत्पश्चात् प्रक्ष्यामि, अधुना तु तवोक्तं वचः सुबोधं यथा स्यात्तथा मे व्याख्याहीत्यन्वयः । व्याख्यानं विना मम भ्रमो न निवर्त्तत इत्याश- येनाह - कौतूहलेति, कौतूहलमाश्चर्यं तद्युक्तं चेतो यस्य तस्य । भ्रमे तु सम्यग्बोधाभाव एव हेतुरिति सूचयंस्तद्वचसो दुर्बोधत्वमाह- अध्यात्मेति, अतिसूक्ष्मात्मावबोधानुकूलयुक्तिप्रथितमित्यर्थः ॥ ३ ॥ * * मदुक्ते कस्मिन्नर्थे तव भ्रम इत्यपेक्षायामाह - यदाहेति । हे योगेश्वरेति तस्य ज्ञानातिशयं द्योतयति - प्रत्यक्षादिभिर्द्दश्यमानमतः सदबाधितमपि लौकिकालौकिकं क्रियाफलं दुःखसुखादिव्यवहारमूलमेवाअसा परमार्थतस्तत्त्वविमर्शनाय क्षमं नैव भवतीति यद्भवानाह अमुष्मिन्नर्थे मे मम मनो भ्रमते इत्यन्वयः । अत्रायं भावः यद्यपि ‘दृष्टः श्रमः’ इत्यादिना दृष्टान्तपूर्वकं सत्यतया स्थिरीकृतस्यापि स्वप्ने निरुक्त्या गृहमेधिसौख्यमिति दृष्टान्तपूर्वकं क्रियाफलस्य विषयसम्बन्धजन्यस्य सुखदुःखश्रमादेरानन्दमहोदधावात्मनि मिध्यात्वं प्रतिपादितं तथापि स्वाप्निकस्य पदार्थस्य स्रक्चन्दनवनितादेर्मिथ्यात्वात् तत्सम्बन्धस्याध्यासिकत्वेन तज्जन्यस्य सुखदुःखादेरपि भवतु मिध्यात्वं, जाग्रदवस्थायां सर्वस्य पदार्थस्य सत्यत्वात् सम्बन्धस्यापि यथार्थत्वात्कथं तज्जन्यस्य सुखदुःखादेर्मिध्यात्वं स्यादिति दृष्टान्तवैषम्येणासन्तोषात् मनो भ्रमतीति ।। ४ ।। * एवं राज्ञा पृष्टो मुनिर्वैराग्यं विनोपदिष्टमपि आत्मतत्त्वं मोक्षानुपयोगित्वेनानुपदिष्टमिवालक्ष्य वैराग्यदाय प्रत्यक्षादिप्रमाणेन सत्यतया प्रसिद्धस्यापि देहादेः स्वकारणव्यतिरेकेणासत्त्वं समर्थयते - अयमिति षभिः । हे पार्थिवेति सम्बोधनेन तवाप्ययं देहः पृथिवीविकार एवेति सूचयति यः पार्थिवः पृथिवीविकारः स एव पृथिव्यां चलन्नयं भारवाहकादिर्जनो नाम प्रसिद्धः, तस्य जडत्वेन मृत्पाषाणादिवच्छ्रमाद्यसम्भवादत एवं पूर्व मयोक्तं श्रमादयो मे न सन्तीति । तर्हि पाषाणादिवदस्य चलनमपि न स्याज्जडत्वादित्याशङ्कयाह कस्य हेतोरिति, ईश्वरेच्छावशादित्यर्थः । न च जीवसम्बन्धात्तदिच्छावशा- तच्चरतीति मन्तव्यम् । ‘ईशस्य हि वशे लोको योषा दारुमयी यथेति वाक्यात् तदिच्छासत्त्वेऽपि चलनादौ विवशत्वदर्शनाच्च । यच्च स्थास्यादिदृष्टान्तेन देहादिसम्बन्धादात्मनः श्रमायुक्तं तदपि तदा स्याद्यदि देहादि निरूपयितुं शक्यते । तदेव दुर्घटमित्याह- तस्येति । तस्यापि देहत्वेनाभिमतस्याप्रयोरधि उपर्युपरि गुल्फादयोऽवयवाः सन्ति । उरसः सलोप आर्षः ॥ ५ ॥ 83 असे स्कन्धे चाधिष्ठिता दार्वी शिविकाऽस्ति यस्यां सौवीरराज इत्यपदेशो नाममात्रं यस्य, वस्तुतस्तु पृथिवीविकार एव स भवद्देह आस्ते, यस्मिन् देहे भवान् रूढनिजाभिमानः कृतात्माध्यासोऽस्ति । एतत्सर्वं त्वं जानासि तत्र हेतुमाह - राजेति । सिन्धु- देशेष्वहं । राजाऽस्मीत्येवं दुष्टो मदस्तेनान्ध इत्यर्थः ॥ ६ ॥ यथोक्तं राज्ञः प्रजापालनादि स्वधर्मानुष्ठानं ३२ यो २५० श्रीमद्भागवतम् [ स्कं. ५ अ. १२ श्लो. १-८ भगवदाराधनमेव अतो न पिष्टपेष इति तदपि वचनं तथाऽभिमानविजृम्भितमनृतमेव ‘दयया सर्वभूतेषु सन्तुष्टया येन केनचित् । सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः’ इत्यादी विहितभगवत्सन्तोषकारणदयादिरहितत्वात्, ‘न द्रोहमाचरेत् प्राज्ञः’ ‘द्रोरधुर्वै परतो भयम्’ इत्यादौ निषिद्धस्य भगवत्को पहेतोः परद्रोहस्याचरणाच्चेत्याह । शोच्यान् इति इमान शोच्यान् एतेषां शिवं कथं स्यादिति चिन्तयाऽनुग्रहपात्रभूतान् विष्टया बलात्कारेण निगृह स्त्वं निरनुग्रहो दयारहितोऽसि । शोच्यत्वे हेतुमाह- अधीति, अधिकेन कष्टेन दीनानित्यर्थः । अतोऽहं जनस्य गोप्ताऽस्मीति विकत्थमानो मुधैवात्मानं लाघमानो वृद्वानां विवेकिनां सभासु न शोभसे यतो धृष्टोऽन्त धूर्त एव ॥ ७ ॥ * * एवं देहादिकार्यस्य स्वकारणाव्यतिरेके फलितमाह यदेति । यदा चराचरस्य कार्यजातस्य देहस्य क्षितावेव निष्ठां वर्तमानकाले स्थिति विनाशानन्तरं लयं च तत एव च प्रभवमुत्पत्ति च नित्यं नियमेन व्यवहारावस्थायां विदाम विद्मः । तत्तदा नामतस्तत्तन्नाम्ना व्यवह्रियमाणात् पृथिवीपदार्थादन्यत् सत्क्रिययाऽनुमेयं व्यवहारस्य मूलं कारणं किं वस्त्वस्ति तन्निरूप्यतामित्यन्वयः । तथा चावयवव्यतिरेकेण अवयविनो देहादेरसत्त्वात् केन सह आत्मनो यथार्थसम्बन्धेन श्रमादेर्यथार्थता स्यादतो अध्यासेनैव तत्सिद्धिर्न यथार्थतः । अन्यथा गुल्कायुत्तरोत्तरावयववाहकानां अध्यादीनामपि तच्छ्रमप्रसङ्गः स्यादिति भावः ।। ८ ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ससंदेहेन संपृष्टो द्वादशे भूभृता पुनः । स योग्यपानुदत्सर्वान्संदेहानिति कीर्त्यते ॥ २ ॥ । देहात्मनोर्भेदं स्फुटं जिज्ञासू रहूगणः प्रणत्या तदुत्यभिनन्दनेन च तं प्रसादयन् पृच्छति नमो नम इत्यादिचतुर्भिः । कारणस्य परमात्मनो विग्रहः शरीरभूतस्तस्मै । यद्व । कारणेन मादृशलोकरक्षणनिमित्तेन विग्रहो यस्य तस्मै नमः । स्वरूपेण परमानन्दप्रकाशेन तुच्छीकृतो विग्रहो येन तस्मै, यद्वा स्वरूपानुसंधानेन तुच्छीकृतः विग्रहो मादृशेषु कृतापराधेषु विरोधो येन तस्मै नमः । अवधूतः सर्वैः परिभाव्यवेषश्चासौ द्विजबन्धुश्च तस्य लिङ्गेन वेषेण निगूढो नित्यानुभवो नित्यस्य परमात्मनोऽनुभवो यस्य तस्मै तुभ्यं नमः ॥ १ ॥ * * विशेषतः प्रष्टुं तद्वाक्यमभिनन्दति ज्वरेति । हे ब्रह्मन् ज्वरो ज्वररूपो य आमयो रोगस्तेनार्त्तस्तस्य, तीव्रज्वरार्तिमत इत्यर्थः । सत् अगदं सद्यो ज्वरविनाशकरमौषधं यथा, निदाघेन ग्रीष्मकालीनतापेन, दुग्धः परितप्तस्तस्य, हिमाम्भः शीतलमुदकं यथा तथा, कुत्सितो देहः कुदेहस्तस्मिन् यो मानोऽहंकारः सः एवाहिः सर्पस्तेन विशेषेण दष्टा दृष्टिर्विलक्षणा यस्य तस्य मे मम, ते तव, वचः अमृतममृततुल्यं औषधं सदौषधतुल्यं च जायते ॥ २ ॥ ** तस्मादिति । तस्माद्धेतोः, भवन्तं प्रति, मम संशयार्थ संशयविषयमर्थ, पश्चात् प्रक्ष्यामि । अधुना तु, यत् तव त्वया उक्तं तत्त्वद्वचः, अध्यात्मयोगग्रथितं, अतः दुर्बोधं अस्ति । तत् सुबोधं यथा भवति, एवं कौतूहलचेतसः कौतुकयुक्तचित्तस्य, मे मम मह्यमित्यर्थः । आख्याहि कथय ॥ ३ ॥ * * तंत्र दुर्बोधमर्थमनुवदति यदाहेति । हे योगेश्वर, दृश्यमानं प्रत्यक्षादिभिः प्रमाणैः ज्ञायमानं, क्रियाफलं दूरगमनादिक्रियाजातं श्रमखेदादि ऐहलौकिकं फलं, ‘अपाम ‘सोमम्’ इत्यादिना निरूप्यमाणं यज्ञक्रियाजातममृतपानादिपारलौकिकं च फलं तत् सत्यं, अबाधितमस्तीत्यर्थः । तत् व्यवहारमूलं व्यवहारमूलकं, व्यवहारमात्र- त्वादसत्यमित्यर्थः । अञ्जसा, तत्त्वविमर्शनाय न हि क्षम, नैव समर्थमिति भवान् आह यत्, अमुष्मिन्नर्थे, मे मम मनः भ्रमते भ्राम्यति क्लिश्यतीत्यर्थः । यद्वा यत् भवान् आह, अमुष्मिन मे मनः अञ्जसा, तत्त्वविमर्शनाय भ्रमते इति अन्वय- योजना ॥ ४ ॥ * त्वदुक्तमबाधितत्वमेवासिद्धमित्याह अयमिति । हे पार्थिव, यः पृथिव्या विकारः, पृथिवीपिण्ड इति यावत् । स एव, कस्य हेतोः कस्माच्चित्कारणात्, चुम्बकमणिकारणादय इव जगत्सर्गप्रवृत्तपरमेश्वरप्रेरितस्वसहित जीव- । संबन्धनिमित्तादित्यर्थः । पृथिव्यां चलन्सन् अयं जनः, नाम अयममुकनामा जन इति प्रसिद्धिं प्राप्तः । यस्तु न चलति स पाषाणादिरित्येतावानेव भेदः । एवं सति एकः पृथ्वीरूपोऽचलः पिण्डः तद्विकारदेहरूपोऽपरः पिण्डः, तत्र चलत्पिण्डेऽञ्ज्या- दयोऽष्टौ विभागाः सन्त्येवं सति, तस्य चलतः पृथ्वीपिण्डस्यापि अनयोः, अधि उपरि, अध्यात्मकाधस्तनभागस्योपर्युपरीत्यर्थः । गुल्फजङ्घा जानूरुमध्योर शिरोधरांसाः सन्तीति शेषः । चोऽवधारणे । अध्योरुपरि गुल्फौ तदुपरि जङ्घे तदुपरि जानुनी तदुपरि ऊरू तदुपरि मध्यं तदुपरि उरः तदुपरि शिरोधरा ग्रीवा तदन्तिके अंसौ एवमुत्तरोत्तरं विभागा विद्यन्ते इत्यर्थः । उरसः सलोप आर्षः ॥ ५ ॥ * * अंस इति । असे अंसद्वयमध्ये, एकस्मिन्नसे च, अधि अधिकृता आरोपितेति यावत् । दाव दार्वात्म- कमृत्पिण्डरूपा, शिबिका नरयानं अस्ति । यस्यां मृत्पिण्डरूपायां शिविकायां, सौवीरराजः इत्यपदेशो नाममात्रं यस्य सः, सौवीरराजाख्या प्रसिद्धो मृत्पिण्ड एवेत्यर्थः । आस्ते । यस्मिन् सौवीरराजाऽपदेशे मृत्पिण्डे भवान् स्वरूपतः स्वभावतश्च ततोऽत्य- न्तविलक्षणो भवान्, रूढनिजाभिमानः, निरूढतादात्म्याभिमानः, सिन्धुषु देशेषु राजा अस्मि इति दुर्मदान्धः एवंभूतदुष्टमदेना- न्धसदृशः, भवति । अनेनात्मनि राजत्वबुद्धिस्तव भ्रान्तिरेवेत्युक्तम् ॥ ६ ॥ * शोच्यानिति । किं च हे राजन् त्वं, अध्यधिकं कष्टं येषां व्यवहारेऽपि ते च ते दीनाश्च तान् यद्वा । अधिकष्टेन वहनादिजनितातिदुःखेन दीनास्तान्, अत एव शोच्यान्कृपालुभिः शोचनीयान्, इमान् विष्टया बलादित्यर्थः । निगृह्णन् सन्, निरनुग्रहो निष्कृपः असि । अतः जनस्य गोप्ता अस्मि इति विकत्थमानो मिथ्यैव श्लाघमानः असि । अतः वृद्धसभासु देहात्मविवेकवन्महत्समाजेषु न शोभसे । यतः धृष्टः ई अनेकव्याख्यासमलङ्कृतम् २५१ स्क. ५ अ. १२ श्लो. ९-१२ ] देहात्मभ्रान्त्युद्धतः भवसि ॥ ७ ॥ नन्वंसेऽधि दार्वीत्युक्तरीत्यापि उत्तरोत्तरावयवभारः पूर्वपूर्वावयवानां भवेदिति वाच्यम् । न च तेषामप्यनिरूपणादित्याशयेनाह यदेति । यदा चराचरस्य देहजातस्य, प्रभवमुत्पत्ति, निष्ठां नाशं च नित्यं सदा, क्षितौ पृथिव्यामेव, विदाम विद्मः तदा, क्षितेरन्यस्य विकारस्याभावात् । तन्नामतः तत्पदार्थनाममात्रात्, अन्यत् व्यवहारमूलं व्यवहारकारणं, सत्क्रियया अबाधितव्यवहारेण, अनुमेयं सत्त्वेनानुमातुं योग्यं यथा स्यात्तथा निरूप्यताम् । ‘बाचारम्भणं बिकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति श्रुतेः ॥ ८ ॥ D …. ! भाषानुवादः रहूगणका प्रश्न और भरतजीका समाधान राजा रहूगणने कहा—भगवन् ! मैं आपको नमस्कार करता हूँ । आपने जगत्का उद्धार करनेके लिये ही यह देह धारण की है। योगेश्वर ! अपने परमानन्दमय स्वरूपका अनुभव करके आप इस स्थूलशरीरसे उदासीन हो गये हैं तथा एक जड ब्राह्मणके वेषसे अपने नित्यज्ञानमय स्वरूपको जनसाधारणकी दृष्टिसे ओझल किये हुए हैं। मैं आपको बार-बार नमस्कार करता हूँ ॥ १ ॥ * * ब्रह्मन् ! जिस प्रकार ज्वरसे पीड़ित रोगीके लिये मीठी औषधि और धूपसे तपे हुए पुरुषके लिये शीतल जल अमृततुल्य होता है, उसी प्रकार मेरे लिये, जिसकी विवेकबुद्धिको देहाभिमानरूप विषैले सर्पने डस लिया है, आपके वचन अमृतमय औषधिके समान हैं ॥ २ ॥ * देव! मैं आपसे अपने संशयोंकी निवृत्ति तो
- पीछे कराऊँगा । पहले तो इस समय आपने जो अध्यात्मयोगमय उपदेश दिया है, उसीको सरल करके समझाइये, उसे समझनेकी मुझे बड़ी उत्कण्ठा है । ॥ ३ ॥ योगेश्वर ! आपने जो यह कहा कि भार उठानेकी क्रिया तथा उससे जो श्रमरूप फल होता है, वे दोनों ही प्रत्यक्ष होनेपर भी केवल व्यवहारमूलक ही हैं, वास्तवमें सत्य नहीं हैं - वे तत्त्वविचारके सामने कुछ भी नहीं ठहरते - सो इस विषय में मेरा मन चक्कर खा रहा है, आपके इस कथन का मर्म मेरी समझ में नहीं आ रहा है ॥ ४ ॥ * * जडभरतने कहा - पृथ्वीपते ! यह देह पृथ्वीका विकार है, पाषाणादिसे इनका क्या भेद है, जब यह किसी कारणसे पृथ्वीपर चलने लगता है, तब इसके भारवाही आदि नाम पड़ जाते हैं। इसके दो चरण हैं; उनके ऊपर क्रमशः टखने, पिंडली, घुटने, जाँघ, कमर, वक्षःस्थल, गर्दन और कंधे आदि अङ्ग हैं ॥ ५ ॥ * * कंधोंके ऊपर लकड़ीकी पालकी रक्खी हुई है; उसमें भी सौवीरराज नामका एक पार्थिव विकार ही है, जिसमें आत्मबुद्धिरूप अभिमान करनेसे तुम ‘मैं सिन्धुदेशका राजा प्रबल मदसे अंधे हो रहे हो ॥ ६ ॥ * * किन्तु इसीसे तुम्हारी कोई श्रेष्ठता सिद्ध नहीं होती, वास्तवमैं तो तुम बड़े क्रूर और घृष्ट ही हो। तुमने इन बेचारे दीन-दुखिया कहारोंको बेगार में पकड़कर पालकी में जोत रक्खा है और फिर महापुरुषोंकी सभामें बढ़-बढ़कर बातें बनाते हो कि मैं लोकोंकी रक्षा करनेवाला हूँ । यह तुम्हें शोभा नहीं देता ।। ७ ।। * * हम देखते हैं कि सम्पूर्ण चराचर भूत सर्वदा पृथ्वीसे ही उत्पन्न होते हैं और पृथ्वी में ही लीन होते हैं; अतः उनके क्रियाभेदके कारण जो अलग-अलग नाम पड़ गये हैं—बताओ तो उसके सिवा व्यवहारका और क्या मूल है ? ॥ ८ ॥ एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये । अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ।। ९ ।। एव कृशं स्थूलमणुर्बृहद्यद् असच्च सज्जीवमजीवमन्यत् । द्रव्यस्वभावाशय कालकर्मनाम्नाजयावेहि कृत द्वितीयम् ॥ १० ॥ ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्ववहिर्ब्रह्म सत्यम् । ज्ञानं प्रत्यक् प्रशान्तं भगवच्छन्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥ रहूगणैतत्तपसा नय न याति न चेज्यया निर्वपणाद् गृहाद्वा | न च्छन्दसा नैव जलाभिसूयैर्विना महत्पादरजोऽभिषेकम् ॥ १२ ॥ इस अन्वयः–एवम् असन्निधानात् क्षितिशब्दवृत्तम् निरुक्तम् ये परमाणवः उच्यन्ते ते अविद्यया मनसा कल्पिताः सन्ति येषाम् समूहेन विशेषः कृतः ॥ ९ ॥ * पः कृतः ॥ ९ ॥ * एवम् अन्यत् यत् कृशम् स्थूलम् अणुः बृहत् असत् सत् जीवम च Se १. प्रा० पा० परमाणवोऽथ ये । २. प्रा० पा० कल्पितास्ते समूहेन । ३. प्रा० पा० - राहुगणैतत्तपसा
। ३५३ श्रीमद्भागवतम् [ एक. ५ अ. १२ श्लो. ९-१३ अजीवम् द्वितीयम् द्रव्यस्वभावाशयकालकर्मनाम्ना अजया कृतम् अवेहि ॥ १० ॥ * ॐ कवयः यत् विशुद्धम् परमार्थम् एकम् अनंतरम् अबहिः सत्यम् ब्रह्म प्रत्यक् प्रशांतम् भगवच्छन्दसंज्ञम् ज्ञानम् तु वासुदेवम् वदंति ॥ ११ ॥ * * रहूगण एतत् महत्पादरजोभिषेकं विना तपसा न याति वा इज्यया च गृहात् निर्वपणात् न छंदसा न जलाग्निसूर्यैः एव न ॥ १२ ॥ | NEPAL IN PH श्रीधरस्वामिविरचिता भावार्थदीपिका । Pe Tune dinueserve ॥ Photopher तर्हि क्षितेः सत्यता स्यात्तत्राह । एवं क्षितिशब्दस्यापि वृत्तं वर्तनमर्थं विनैव निरुक्तम् । यद्वा क्षितिशब्दस्य वृत्तं यस्मिंस्तदपि मिध्यात्वेन निरुक्तमित्यर्थः । कुतः असत्सु सूक्ष्मेषु परमाणुषु स्वकारणभूतेषु निधानाल्लयात् अतः परमाणुव्यतिरेकेण क्षितिर्नास्तीत्यर्थः । परमाणवस्तर्हि सत्याः स्युस्तत्राह । ते मनसा कार्यानुपपत्त्या वादिभिः कल्पिताः । कल्पनाबीजमाह । येषां समूहेन विशेषः कृतस्तेषां समूहः पृथ्वीबुद्धयालंबनमित्यर्थः । अवयविनो निरस्तत्वात्समूहग्रहणम् । तथापि सत्याः स्युः न, अविद्यया प्रपञ्चस्य भगवन्मायाविलसितत्वादज्ञानेन कल्पिताः ।। ९ ।। एवमन्यदपि कृशत्वादिधर्मकं बुद्धया प्रतीतं द्वितीयं द्वैतं द्रव्यादिनाम्नोपलक्षितयाऽजया मायया कृतमवेहि । तंत्र कृशं ह्रस्वम् स्थूलं तत्प्रतियोगि । अणुबृहतोः पृथगुपादानात् असत्कारणम् । यत्कार्यम् । जीवं चेतनम् । अजीवं जडम् ॥ १० ॥ तर्हि किं सत्यं तदाह । ज्ञानं सत्यम् । व्यावहारिक- । । | * * । । सत्यत्वं व्यावर्तयति । परमार्थम् । वृत्तिज्ञानव्यवच्छेदार्थानि षविशेषणानि । विशुद्ध तत्त्वाविद्यकम् । एकं तत्तु नानारूपम् । अनन्तरं त्वबहिर्बाह्याभ्यंतरशून्यं तत्तु विपरीतम् । ब्रह्म परिपूर्णं तत्तु परिच्छिन्नम् । प्रत्यक् तत्तु विषयाकारम् । प्रशांतं निर्विकारम् । तदेव स्वरूपज्ञानं सत्यमित्युक्तम् । कीदृशं तत् । ऐश्वर्यादिषड्गुणत्वेन भगवच्छन्दः संज्ञा यस्य यच ज्ञानं वासुदेव वदति ।। ११ ।। * * * एतत्प्राप्तिस्तु महत्सेवां विना न भवतीत्याह । हे रहूगण एतज्ज्ञानं तपसा पुरुषो न याति । इज्यया वैदिककर्मणा । निर्वपणादन्नादिसंविभागेन । गृहाद्वा तन्निमित्तपरोपकारेण । छंदसा वेदाभ्यासेन । जलाग्न्यादिभि- रुपासितैः ।। १२ ।। एक मिठा क श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः । अर्थ विनैव तात्विकस्वरूपं विनैव निश्चयेनोक्तम् । नन्वत्र क्षितिशब्दस्येत्युक्तेः क्षितिः शब्दो मृषेति सिद्धयति, न तु क्षितिर्मृषेति चेत्तत्राह — यदेति । यस्मिन्पदार्थं क्षितिशब्दो वर्त्तते सोऽपि मृषेति भावः । अत्र हेतुमाह- कुत इति । अतः परमाणुषु लयात् । इत्यर्थं इति । कारणमतरेण कार्यस्यासिद्धेः कारणमेव सत्यमिति भावः । इत्यर्थं इति । परमाणुसमूहं विनाऽन्या पृथिवी नाम कापि नास्तीति भावः । तेषामप्यवयविवन्निरूपणाशक्यत्वात्तेप्यज्ञानेनैव कल्पिता इत्यर्थः ॥ ९ ॥ * * तत्र कृशादिषु । तत्प्रतियोगि यदपेक्ष्य ह्रस्वत्वं निश्चीयते तत्स्थूलमित्यर्थः ॥ १० ॥ * * वृत्तिरूपज्ञानस्य व्यवच्छेदार्थानि भेदकानि । तत्तु वृत्तिरूपं तु । अविद्याया मलिनसत्त्वप्रधानत्वात्तजज्ञानमपि मलिनमेवेत्यर्थः । वृत्तीनामानंत्यान्नानारूपत्वं विपरीतं बाह्याभ्यंतर- धर्मकं प्रत्यगात्माकारम् । अत्र विश्वनाथः - तर्हि किं सत्यं पूर्वोक्तं तत्त्वमेव शब्दप्रमाणवेद्य तच्च तत्त्वं “बदंति तत्तत्वविदस्तत्त्वं यज्ज्ञानमद्वयम्” इति प्रथमस्कंधोक्तवदेवाह - ज्ञानं सत्यं कीदृशं विशुद्धं गुणातीतं परमोर्थो मोक्षादिको यस्मात्तत् । एकमद्वयम् । अनंतरमबहिर्व्यापकमित्यर्थः । तच्च ज्ञानं “ब्रह्मेति परमात्मेति भगवानिति शब्दयते” इतिवदेवाह— ब्रह्म ब्रह्मशब्दवाच्यं निर्विकल्पकं ज्ञानिनामुपास्यं प्रत्यक प्रशांतं परमात्मशब्दवाच्यं योगिनामुपास्यं प्रशान्तमिति जीवात्मव्यावृत्त्यर्थं भगवच्छन्दः संज्ञा यस्य तत् । भक्तानामुपास्यम् । यत्त्रिरूपमिदमपि वासुदेवं वसुदेवनंदनं वदति ‘पूर्ण ब्रह्म सनातनम्’ इति ‘कृष्णाय परमात्मने’ 1 इति ‘ततच भगवन्कृष्ण’ इत्यादिभ्यः तत्रापि “ब्रह्मणो हि प्रतिष्ठाहम्” इति “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्” इति ‘वासुदेवो भगवताम्’ इत्यादिभ्यो वसुदेवनंदनस्यैव परमपूर्णत्वम् । अत्र भगशब्दस्यैश्वर्यवाचित्वादैश्वर्यस्य चेंशितव्यापेक्षितत्वादीशितव्यानां मादिकानां चोक्तयुक्तया मिध्यात्वादुक्तास्तद्धामवासिन एवेशितव्या नित्या अवगतास्तेषां तद्धाम्नश्च नित्यसत्यत्वं भगवत इव शब्दप्रमाणसिद्धमेव प्रथमस्कंधादौ प्रपंचितमेव तथैव मत्सेवायां च निर्गुणत्वादिभिरेकादशे भक्तिसंबंधिवस्तुमात्रस्यैव नित्य सत्यत्वं प्रपंचयिष्यते च । प्रकरणाभिप्रायश्चायं - भो राजन् युष्माकं प्रत्यक्षप्रमाणसिद्धस्यापि व्यवहारस्य मायाजीवस्य मायारचितस्य नित्या आविहिताः कापि तिरोहिताश्चेत्यनेन स्वमतेन कालदेशादिपरिच्छिन्नत्वान्नश्वरत्वमंगीकुर्वता कालदेशाद्यपरिच्छिन्ने तत्त्वे चिडून- वस्तुनि व्यवहारो वैजात्यादेव नाश्रीयते इत्युक्तं, तदपि व्यवहारमेव पुनःपुनरुत्थापयसि चेदेनमन्ये वादिनो मिथ्यैवाचक्षते इति तन्मतमुदाहृतम् । शब्दप्रमाणसिद्धे तत्त्वे तु तेऽपि न विप्रतिपद्यते इत्यंतेन ‘ज्ञानं विशुद्धम्’ इति पद्यमुक्तमिति । ननु देहेंद्रियादि- व्यापारः श्रीकृष्णैकनिष्ठो भक्तिरिति भक्तिर्लक्षिता । तस्याश्च “लक्षणं भक्तियोगस्य निर्गुणस्येत्युदाहृतम्” इति भगवदुक्तेर्निर्गुणत्व- मवसीयते । तच्च परिणामवादे कार्यस्य सत्त्वात् प्राकृतदेहेंद्रियादीनामेव भक्तिसंसर्गेणाप्राकृतत्वं स्पर्शमणिन्यायेन बुद्धधामहे । विवर्त- वादे तु-कार्यमात्रस्यैवासत्त्वाद्देहेंद्रियादीनां मिथ्याभूतत्वाद्भक्तः स्थितिरेव नास्ति, कुतस्तया निर्गुणत्वं घटताम् । तथा हि निर्गुणां भक्तिमय मुपदेष्टव्य इति गुरुपदेशकाले उपदेष्टव्यजनस्य मिध्याभूतत्वादाकाशक्षेत्रे बीजवपनमिव गुरूपदेश एव तावन्न भवेत् । कुतः 1 स्कं. ५ अ. १२ श्लो. ९-१२ । अनेकव्याख्यासमलङ्कृतम् २५ कृष्णभक्तिः कुतस्तरां तदभ्यासेन प्रेमोदयः । कुतस्तमां तेन भगवद्वशीकार इति सत्यम् । महाचित्यशक्ती भगवति काव्यसंभावना न भावनीया । यदुक्तं स्वयं भगवतैव “एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मनाप्रति मामृतम् ॥” इति । अस्यार्थः- यद्यतः अनृतेन मिध्याभूतेनापि मयेन मरणधर्मवता देहेंद्रियप्राणादिना पत्रपुष्पधूपदीपगंधविविधनैवेद्यच्छन्न- चामरापचारेण च यदाप्रोति एषैव बुद्धिमतां बुद्धिरेषैव मनीषिणां परमपरामर्शवतां मनीषा विचार इति । प्राप्तिप्रकारच स्वयं भगवतैवोक्तो यथा " मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै ।।” अस्यार्थः – यदा मर्त्यस्त्यक्तसमस्त कर्मा गुरूपदेशकाले त्यक्तसमस्तवर्णाश्रमकामनः मयि श्रीगुरुरूपे निवेदितावात्मा- नावहंतास्पदममतास्पदे येन सः । “योऽहं ममास्ति यत्किंचिदिह लोके परत्र च । तत्सर्वं नाथ भवतो चरणेषु समर्पितमिति व्यवसाय- वान्भवति तदा स जनो मिथ्याभूतोऽपि मे मया विचिकीर्षितः स्याद्विशिष्टः कर्तुमिष्टः स्यात् ‘निर्गुणो मदपाश्रयः’ इति मदुक्तेर्नि बैगुण्य एव स्यादित्यर्थः । स हि मायाकार्यत्वान्न नश्वरः सत्यः नाप्यज्ञानकार्यत्वान्मिथ्याभूतः, किन्तु स्वरूपभूतो मत्कार्यत्वान्निर्गुण एव स्यात् । किं च मया विशिष्टः कृतः स्यादित्यप्रयुज्य विचिकीर्षित इति सन्प्रत्ययप्रयोगान्निर्गुणः कर्तुमारभमाण एव स शनैः शनैर्भच्या भासवान् निष्ठा रुच्यासक्तिरतिभूमिकारूढ एवं सम्यक् निर्गुणः स्यात्ततो मिथ्याभूतवस्तुभिः सह तस्य व्यवहारो न स्यात्तत्पूर्वं तु यथायोगं व्यवहारस्तैश्च सह लभ्यते । अयमर्थः - अचिंत्यशक्त्या भक्त्युपदेशकाल एव तस्य गुणातीतानि देहेंद्रियमनांसि मया भक्तिमाहात्म्यदर्शनार्थमलक्षितमेव सृज्यंते मिध्याभूतानि तान्यप्यलक्षितमेव लयं यांति तथा “नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदंघ्रिरजसा जितषड्गुणानाम् । चित्रविदू रविगतः सकृदाददीत यन्नामधेयमधुना स जहाति तन्वम् ॥” इति । अस्यार्थः- एवंविधः प्रियव्रत कर्तृकसप्तसमुद्रनिर्माणप्रपंच इव पुरुषकारो न चित्रम् । चित्रं खल्वेत देव यद्विदूरविगतोंत्यजोऽपि यस्योरुक्रमस्य नामधेयं सकृदाददीत अधुना तत्क्षणमेव तन्वं तनुं विजहातीति तदानीं तनोर्द्दश्यमानत्वेऽपि प्रारब्धकर्म्मसंवलिततनुत्यागोऽ- लक्षित एवेत्यर्थः । ततश्च तदाऽमृतत्वं मरणधर्माभावं प्रतिपद्यमानस्तदानीमेव प्राप्नुवन्मया सहात्मभूयायात्मभावायात्मनः स्वस्य स्थित्यै कल्पते । यत्राहं तिष्ठामि तत्रैव सोऽपि मत्सेवाथ तिष्ठतीत्यर्थः । एवञ्च जगत्यस्मिन्यानि यानि वस्तूनि मिध्याभूतान्युप- लभ्यते तेषामेव भक्तिसंपर्कान्मिथ्याभूतत्वं प्रविलाप्य भगवता स्वभक्तेच्छानुकूलेन परमसत्यत्वमेव तक्षण एवं सृज्यते ‘किमशक्य- मचित्यशक्तेर्भगवतः’ इत्यत एव ‘मत्सेवायां तु निर्गुणे’ति ‘मन्निकेतं तु निर्गुणम्’ इत्यादिकानि संगच्छंते । “अचिंत्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यत्तु तदचिंत्यस्य लक्षणम् ||” इत्युद्योगपर्ववचनं भाष्यकारेणापि धृतम् । तत्र भावा इति बहुवचनेनाद्वैतभंगो न ध्येयस्तेषामै क्यादिति सर्वमवदातम् ।। ११ ।। हे रहूगणेति । नाना संबुद्धिस्तु तस्याज्ञत्वा- दनादरविषयेति भावः । एतत् उक्तलक्षणं त्रिविधं ज्ञानमिति विश्वनाथः । तपः चित्तैकाश्यम् ।। १२ ।। I श्रीमद्वीरराघवव्याख्या क्षितावेवोत्पत्तिविनाशौ चराचरस्य विदाम इत्यनेन क्षितेस्तु नित्यत्वं प्रतीतं तन्निराकुर्वन्नाह एवमिति । असन्निधानम- सतामनित्यानां कार्याणां निधानं लयस्थानं यत् क्षितिशब्दवृत्तं क्षितिशब्दस्य वृत्तं वृत्तिर्यस्मिंस्तत् क्षितिशब्दवाच्यं तदप्येवं निरुक्तं दर्शितं यत्र देहाद्युत्पत्तिः सा क्षितिरप्यनित्येत्यर्थः । भूमेरनित्यत्वज्ञापनाय तत्राप्यवयवविभागमवयवानां चानित्यत्वमाह । परमाणव इति । ये परमाणवः भूतसूक्ष्माणि येषां परमाणूनां समूहेन विशेषः कृतः भूमण्डलं कृतं ते परमाणवः मनसाधिष्ठातुरीश्वर- सङ्कल्पेनाविद्यया प्रकृत्या कल्पिता ईश्वराधिष्ठित प्रकृतिपरिणामरूपत्वादनित्या एवेति भावः । यद्वा ये परमाणवो नित्यास्ते मनसा- विद्यया कल्पिताः शरीराकारेण संहिताः त एवाहंममेत्यविद्यया आत्मन्येव कल्पिता इत्यर्थः । वेदान्तार्थोपबृंहणपरेऽस्मिन् प्रबन्धे परमाणु कारणवादायोगाद्वैशेषिकादिभिस्तेषामविद्याकल्पितत्वानभ्युपगमाच्च यथोक्त एवार्थः । असन्निधानादित्यपि पाठो दृश्यते, तत्रासत्वनित्येषु स्वकारणभूतेषु भूतसूक्ष्मेषु निधानात् लयात् क्षितिशब्दवृत्तमप्यनित्यमित्यर्थः ॥ ९ ॥ * शरीरानित्यत्वं निगमयन्स्थौल्यादिकं तद्गतमेवेत्याह एवमिति । एवं कार्यादिगुणयुक्तं सदसदात्मक कार्य कारणात्मकमुत्कृष्टापकृष्टात्मकं वा जीवमजीवं जीवभेदभिन्नं चराचरात्मकं द्वितीयमात्मनो भिन्नं शरीरं द्रव्यादिनाम्नाऽजया प्रकृत्या कृतमिति बुद्धधा निपुणयावेहि । तत्र द्रव्यं पृथिव्यादिपञ्चभूतजात स्वभावस्तेषां परिणाम आशयोऽन्तःकरणं वासना वा कालः सत्त्वादिगुणक्षोभकः द्रव्यादीनां प्रकृतिप्रपञ्चत्वात् द्रव्यादिनाम्नेत्युक्तम् ॥ १० ॥ * एवं देहस्यानात्मत्वमुक्तमथात्मस्वरूपं शोधयति ज्ञानमिति । जडात्मवादव्युदासः विशुद्धं स्वतः कर्मसम्बन्धरहितं रागादिदोषरहितं वा परमार्थं पुरुषार्थभूतमेकं सर्वत्र ज्ञानैकाकारमनन्तरं न बहिरन्तर्बहिःप्रदेशभेदरहितं निरवयवत्वात् ब्रह्म गुणतो व्यापकं सत्यं नित्यं प्रत्यक स्वस्मिन् भासमानं प्रशान्तमशनायापिपासा- शोकमोहजर | मृत्यूर्मिषट् करहितं साङ्ख्यमतव्यावृत्त्यर्थं ब्रह्मात्मकं सामानाधिकरण्येनाह । भगवच्छब्दसंज्ञं वासुदेवमिति । भगवच्छब्दः संज्ञा यस्य स भगवच्छब्दसंज्ञः “तत्र पूज्यपदार्थोक्तिपरिभाषा समन्वितः । शब्दोऽयं नोपचारेण झन्यत्र ह्युपचारतः ।।” इत्युक्तरीत्या भगवच्छब्दो यत्र वासुदेवे मुख्यवृत्तस्तं वासुदेवं वसुदेवात्मजं वदन्ति कवयः आत्मयाथात्म्यविदः वदन्ति ॥ ११ ॥ अत्र विशुद्धं परमार्थमित्यादिविशेषणै र चेतनशरीर व्यावृत्तिः, वासुदेवात्मकत्वकथनेन तत्सृज्यत्व- ३५५ श्रीमद्भागवतम् [ स्कं. ५ अ. १२ लो. ९-१२ पाल्यत्वनियाम्यत्वशेषत्वादिधर्मैः तत्तदाक्षिप्तैस्ततो वैलक्षण्यं सूचितम् एवम्भूतप्रकृतिविलक्षणस्वात्म परमात्मयाथात्म्यज्ञानं कथं लभ्येतेत्यपेक्षायां नोपायान्तरैः किन्तु महत्सेवाभगवद्गुणानुश्रवणादिप्रणाल्यैवेत्याह द्वाभ्याम् । हे रहुगणैतदात्मपरमात्मयाथात्म्यज्ञानं महतां भागवतानां पादरजः सेवां विना तपआदिभिः स्वमनीषापूर्वकैर्न याति न प्राप्नोति । तत्र तपः कृच्छ्रचान्द्रायणादिरनशनादिर्वा इज्या वैदिकं कर्म निर्वापणं सत्पात्र निःक्षेपरूपं दानं गृहं गृहस्थधर्मः छन्दो वेदाभ्यासः एभिस्तपआदिभिस्तथोपासितैर्जलादिभिश्व न यातीत्यर्थः ॥ १२ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली फलितमाह एवमिति । यथा प्रथितत्वयोगेन पृथिवीशब्दवाच्यत्वं हरौ निर्णीयते एवमाश्रयत्वात्क्षितिशब्दवृत्तं क्षिति- शब्दप्रवृत्तिनिमित्तमपि निरुक्तं निर्णीतं हराविति शेषः । क्षितिशब्दरूपं निर्वचनेन मुख्यं हरावेव दर्शितमिति वा प्रत्यक्षस्य क्षितेरा- श्रयत्वापलापे बाधकं किमित्याशङ्कय परमाणुमात्रायाः पृथिव्या आधारत्वानुपपत्तिरेव बाधिकेत्यभिप्रेत्याह असन्निधानमिति । ये परमाणवः पार्थिवा इति शेषः । येषां पार्थिवानां परमाणूनां समूहेन पुख ेन विशेषः पृथिवीलक्षणः पदार्थश्च कृतः ते परमाणव- चराचरस्याश्रया इत्यसन्निधानं दूरे, ननूक्तस्य चोद्यस्य परिहारः कथमागत इति तत्राह अविद्ययेति । अविद्ययाऽज्ञानेन मनसा मनोरथेनाधारत्वेन कल्पिताः न तु मुख्याधारा इति शेषः । किमेकैके परमाणवचराचरस्याधारा उत मिलिता इत्युभयोरपीदमेवोत्तर- मसन्निधानमिति । ये पार्थिवाः परमाणवस्तेषां निधानं नितरां स्वातन्त्र्येण धान धारणमसदनुपपन्नं येषां समूहेन विशेषः कृतस्तेषां चासन्निधानं सामर्थ्यं नास्ति ईश्वरनियतप्रकृतिमन्तरेणेति शेषः । तत्कुत इत्यत उक्तम् अविद्ययेति । मनसेश्वरे- च्छाविशिष्टेन तद्न्तःकरणेन नियतया अविद्यया प्रकृत्या ते परमाणव आधारत्वेन कल्पिताः, न तु स्वतन्त्रा इति वा । येषां परमाणूनां द्वद्यणुकादिसमूहेनेति काणादाः पुजेनेति बौद्धाः अविद्यया कल्पिता ये परमाणवस्तेषां समूहेनेति मायावादिनः तेषां सर्वेषां पक्षेऽपि तेषां परमाणूनां चराचरधारणमसन्निधानं दूरीभूतमिति भाव इति इति वा ॥ ९ ॥ * * ननु क्षित्यादिशब्दानां मुख्यार्थोद्धरेश्वराचरस्योत्पत्त्यवस्थाने यदि स्यातां तहि जगत्यां जगत्पृथिवी वा इदं सर्वम्” इत्यादि- श्रुतेः प्रकृत्यादिवाच्याभावेनाप्रामाण्यमापन्नमिति तत्राह एवमिति । असत्कारणं सत्कार्यं वाय्वाकाशौ वा पृथिव्यतेजांसि वा जीवं चैतन्यविशिष्टं वस्तु अजीवमन्यदस्वतन्त्रं जडमिति यावत् अन्यत् मिथो विष्णोश्च भिन्नमेवंविधं जगद्यथा हरिणा कृतं धृतं चैवमजया भगवन्नियतया प्रकृत्या द्वितीयकारणं धारणं च कृतमवेहीत्यन्वयः । अत्रायमाशयः- राजादीनां गोप्तृत्वे परमाणुमात्राकारण भूमेराश्रयकारणत्वे च यो व्यवहारः स यतो राजादीनामाश्रयो जनिकर्ता च ब्रह्मा तस्य प्रकृतिस्तस्याः श्रीनारायणो नान्याधारोऽतः सर्वाधारत्वादिकं मुख्यतः सर्वशब्दवाच्यत्वं च तस्यैव तदनुग्रहलेशेन प्रकृत्यादीनां तत्तत्कार्यकरत्वं तत्तच्छब्दवाच्यत्वं शिरआद्यवयवाधारत्ववदाधारत्वं चामुख्यमिति एतदभिप्रायेण द्रव्यादि- नान्येत्युक्तं चित्प्रकृतेर्द्रव्याद्यभिमानित्वेनान्यस्याः तदात्मत्वेनेति शेषः । " राजा गोप्ताश्रयो भूमिः कारणं चेति लौकिकः । व्यवहारो न तत्सत्यं तयोर्ब्रह्माश्रयो विभुः ॥ गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः णः स्वयं प्रभुः । तदू तद गोत्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ।। अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः । सर्वशब्दाभिधेयश्च शब्दवृत्तेच कारणम् । सर्वान्तरः श्रीकरण सर्वबहिरेक एव जनार्दनः। शिरसो धारता यद्वग्रीवायास्तद्वदेव तु । आश्रयत्वं च गोप्तृत्वमन्येषामुपचारतः ।” इत्येतद्वाक्यमस्मि - न्नुक्तार्थे जागर्ति। अत इदमेव श्रद्धेयं नान्यत्स्वकपोलकल्पितमिति ज्ञायते ।। १० ॥ * * ननु हन्त प्रकृत्यादि सर्वजगत्प्र- वर्तकस्य हरेः स्वरूपं कीदृशं येन तदन्तः पतितस्यापि न तन्मलालेप इति तत्राह ज्ञानमिति । “ज्ञानमनन्तं ब्रह्म” इति श्रुतेर्गुण- गुणिनोरभेदाभिप्रायेण गुणव्यपदेशः वृत्तिज्ञानवद्विषयोपरक्तं नेत्याह विशुद्धमिति । विशुद्धं विषयसंसर्गेऽपि तत्कृतदोषलेशस्पर्शो नास्तीत्यर्थः “असङ्गो ह्ययं पुरुषः” इति श्रुतेः । विशुद्धस्यापि केनचित्पारदद्रववद्वाधः किं न स्यादिति नेत्याह परमार्थमिति । परमा- र्थम् उत्तमार्थमबाधितं वस्त्वित्यर्थः “वस्तु हेतुनिवृत्तिषु” इत्यभिधानात् तादृशमन्यदस्तीति नेत्याह एकमिति । एकम् “आत्मा वा इदमेक एवाग्र आसीत्” इति श्रुते: लोके साम्याधिक्यदर्शनात् कथमस्य तदभाव इति नेत्याह अनन्तरमिति । अन्तः स्थित्वा प्रेरको नास्तीत्यनन्तर मन्तरभावे बहिः किं न स्यादिति नेत्याह न बहिरिति । बहिरपि प्रेरको नेति घटादिवत्परिच्छिन्नं नेत्यतो वाह अनन्तरं न बहिरिति । यस्मादन्तर्बहिश्च नास्तीति “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इति श्रुतेः “अणोरणीयान्महतो महीयान्” इति च । किमस्य संज्ञेत्यत उक्तम् ब्रह्मेति । कस्माद्यस्यान्तर्बहिर्नास्तीत्यतो वाह ब्रह्मेति । ब्रह्म पूर्णं निरुपमचरितमिति शेषः । किमेक एव गुण इति नेत्याह सत्यमिति । सत्यं साधु सुखादिगुणयुक्तं किमिदं चतुर्मुखाख्यमिति नेत्यतो वाह सत्यमिति । “सत्यं ज्ञानमनन्तं ब्रह्म” इति श्रुतेः मुख्यं ब्रह्मेत्यर्थः । गुणानां साम्येऽपि ज्ञानानन्दयोर्लोकापेक्षया प्राधान्यज्ञापनायावताराणां राम- कृष्णयोरिवेत्यतो वाह सत्यमिति । उत्कृष्टानन्दज्ञानम् । “सच्छब्द उत्तमं ब्रूयादानन्दन्तीति वै वदेत् । येति ज्ञानं समुद्दिष्टं पूर्णानन्ददृशिस्ततः ।।’ इति वचनात् । एतद्वस्तु कुत्र सदिति तत्राह प्रत्यगिति । जीवस्य हृद्यभिमुखं बिम्बरूपमिति यावत् “रूपं रूपं प्रतिरूपो बभूव” इति श्रुतेः । क्रुद्धस्वभावं नेत्याह प्रशान्तमिति । प्रशान्तं निस्तरङ्गस्तिमितसमुद्रकल्प “निष्कलं निष्क्रियं शान्तम्” इति श्रुतेः किमस्माकं कार्यमित्यत्राह । भगवच्छब्दवाच्यमिति । अस्माकं पूज्य इति शब्देनोच्यते । अत्र भगवानिति शब्दो ॐ । । 1 " । I । । स्कं. ५ अ. १२ श्लो. ९-१२] अनेकन्याख्यासमलङ्कृतम् २७ वृद्धेः प्रयुज्यते “भगवान् पूज्यः” इति हलायुधः । नन्वस्य शब्दस्य तापसमात्रेऽपि प्रयोगदर्शनात् कथं निर्णय इति तत्राह यदिति । कवयो यद्भगवच्छन्दवाच्यं वस्तु क्रीडित्वा सर्वत्र वसनाद्वासुदेवनाम गृणन्ति तज्ज्ञानादिगुणपूर्ण ब्रह्म प्रकृत्यादिप्रेरकं जानीहीति वाक्यशेषः । उक्तानामनुक्तानां सर्वेषां गुणानां कवलीकरणेनेति वा भगवच्छन्दवाच्यं तत्प्रतिपादनार्थं वासुदेवपदं वेति बलज्ञाना- नन्दादयो गृद्यन्ते, अस्खिति शत्रुनिरासपटीयो वीर्यशौयौदार्यादयो देवेति क्रीडाजिगीषाकान्त्यादयः, एते यत्र प्रत्येकं पूर्णतयान्योऽन्या- विरुद्धतया च विहृत्य वसन्ति तद्वासुदेवसंज्ञं वदन्तीति समुदायार्थ इति वा । अज्ञानामपि बुद्धयवतारार्थं वसुदेवपुत्रत्वा- द्वासुदेवमित्युक्तमिति वा ॥। ११ ॥ * * एतादृशवस्तुज्ञानप्रापकः कोऽन्तरङ्गोपाय इत्याशङ्कय वैराग्यरसायन सेवया प्रवृद्धबला भक्तिरेव । सा च सुदृढातिविशदा महत्सेवामन्तरेण न स्यात्तपआदयस्तदुपदिष्टा एव तस्या निदानभूतास्तदर्थं तत्सेवैवावश्यं भावि- नीत्यभिप्रेत्याह रहूगणेति । यातिरत्र ज्ञानं गतिं च वक्ति । विद्यया शास्त्रविषयया केवलया निर्वसनं संन्यासः छन्दसा ब्रह्मयज्ञेन जलाग्निसूयैः सेवितैरिति शेषः “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन” इत्यादिश्रुतेः ।। १२ ।। *श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः अविधयेति । यस्य समूहरूपस्य विशेषस्यान्यथानुपपत्त्यास्तद्धेतवः परमाणवः कल्प्यन्ते । तस्याप्यवयविवन्निरूपणाशक्य- त्वत्तेप्यज्ञानेनैव कल्पिता इत्यर्थः ।। ९-१० ।। * एवं तर्कमयस्वतन्त्र कारणसमूहवादमायावयविखण्डनाय तर्कः प्रयोजितः । अथ शब्दमयस्वमतस्थापनाय सर्वत्र परमात्मैकत्वावयवित्वं वदंस्तत्र तारतम्येन मतद्वयमाह ज्ञानमिति । यदेव कवयः पूर्वोक्तनिर्विशेष- ज्ञानवादिभ्योऽपि शब्दप्रमाणे निपुणा भगवच्छब्दसंज्ञमाहुः श्रुत्या युक्तया च सशक्तित्वेनैव सिद्धत्वात् । तथैव सर्वाश्रयत्वेन दर्शयति वासुदेवमिति ॥ ११ ॥ * एतद्भगवत्संज्ञं तत्त्वं छन्दसा ब्रह्मचर्येण गृहाद्द्रार्हस्थ्येन तपसा वानप्रस्थेन निर्व पणात् संन्यासात् । इज्यया तत्र तत्र तत्तद्देवतोपासनया तस्यामपि विशेषः जलाग्निसूर्यैरिति । महत्पादरजोऽभिषेकं विनेति । तस्यैव सर्वशुद्धिहेतुत्वेन योग्यताहेतुत्वात् ।। १२ ।। aare 1 श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी T तर्हि क्षितेः सत्यता स्यात्तत्राह । एवं क्षितिशब्दस्यापि वृत्तं वर्त्तनं सत्ता नाममात्र एवेत्यर्थः । कुतः असत्सु सूक्ष्मेषु परमाणुषु स्वकारणेषु निधानादन्वयात् । ततः परमाणुव्यतिरेकेण क्षितिर्नास्तीत्यर्थः । परमाणवस्तर्हि सत्याः स्युस्तत्राह । अविद्यया अज्ञानेनैव हेतुना मनसा ते कार्यानुपपत्त्या कल्पिता वादिभिरतोऽसत्या एवेत्यर्थः । कल्पनाबीजमाह येषां समूहेन विशेषः पृथिवी- शब्दवाच्योऽर्थः कृतः । अवयविनो निरस्तत्वात् समूहग्रहणम् ॥ ९ ॥ * * एवमन्यदपि कृशत्वादिधर्मकं द्वितीयं द्वैतं द्रव्यादिनाम्नोपलक्षितयाऽजया मायया कृतमवेहि । तत्र कृशं सूक्ष्ममणुरतिसूक्ष्मं बृहत् अतिस्थूलम् असत् कारणं सत् कार्यं जीवं सचेतनम् अजीवमचेतनम् ॥ १० ॥ * * तर्हि किं सत्यमिति चेत् पूर्वोक्तं तत्त्वमेव शब्दप्रमाणवेद्यं तच्च तत्त्वं " वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्” इति प्रथमस्कन्धोक्तवदेवाह । ज्ञानं सत्यं कीदृशं विशुद्धं गुणातीतं परमोऽर्थो मोक्षादिको यस्मात्तत् एकमद्वयम् अनन्तरमबहिर्बाह्याभ्यन्तरशून्यं व्यापकमित्यर्थः । तच ज्ञानं “ब्रह्मेति परमात्मेति भगवानिति शब्द्यते” इत्युक्त देवाह । ब्रह्म ब्रह्मशब्दवाच्यं निर्विकल्पकं ज्ञानिनामुपास्यं प्रत्यक् प्रशान्तं परमात्मशब्दवाच्यं योगिनामुपास्यं प्रशान्तमिति जीवात्मव्यावृत्यर्थं भगवच्छब्दः संज्ञा यस्य तत् भक्तानामुपास्यं यत्त्रिरूपम् इदमपि वासुदेवं वसुदेवनन्दनं वदन्ति । पूर्ण ब्रह्म सना- तनमिति ‘कृष्णाय परमात्मने’ इति ‘ततस्तु भगवान् कृष्णः’ इत्यादिभ्यः, तत्रापि ‘ब्रह्मणो हि प्रतिष्ठाहमिति “विष्टभ्याहमिदं कृत्स्न- मेकांशेन स्थितो जगत्” इति ‘वासुदेवो भगवतामित्यादिभ्यो वसुदेवनन्दस्यैव परमपूर्णत्वम् । अत्र भगशब्दस्यैश्वर्यवा चित्वादैश्वर्यस्य चेशितव्यापेक्षित्वादीशितव्यानां मायिकानाचोक्तयुक्त्या मिध्यात्वाद्भक्तास्तद्धामवासिन एवं ईशितव्या नित्या अवगतास्तेषां तद्धा- म्नश्च नित्य सत्यत्वं भगवत इव शब्दप्रमाणसिद्धमेव प्रथमस्कन्धादौ प्रपचितमेव तथैव मत्सेवायां तु निर्गुणेति मन्निकेतन्तु निर्गुण- मित्यादिभिरेकादशे भक्तिसम्बन्धिवस्तुमात्रस्यैव नित्यसत्यत्वं प्रपञ्चयिष्यते च । प्रकरणाभिप्रायश्चायं भो राजन् ! युष्माकं प्रत्यक्षा- दिप्रमाणसिद्धस्यापि व्यवहारस्य मायाजीवस्य मायारचितस्य नित्याः आविहिताः कापि तिरोहिताश्चेत्यनेन स्वमतेन कालदेशादि- परिच्छिन्नत्वान्नश्वरत्वमङ्गीकुर्वता कालदेशाद्यपरिच्छिन्ने तत्त्वे चिद्यनवस्तुनि व्यवहारो वैजात्यादेव नाश्रीयते इत्युक्तं तदपि व्यवहारमेव पुनः पुनरुत्थापयसि चेदेनमन्ये वादिनो मिथ्यैवाचक्षत इति तन्मतमुदाहृतम् । शब्दप्रमाणसिद्धे तत्त्वे तु तेऽपि न विप्रतिपद्यन्त इत्यन्तेन ज्ञानं विशुद्धमिति पद्यमुक्तमिति । ननु देहेन्द्रियादिव्यापारः श्रीकृष्णस्यैकनिष्ठो भक्तिरिति भक्तिर्लक्षिता । तस्याश्च ‘लक्षणं भक्तियोगस्य निर्गुणस्येत्युदाहृतमिति भगवदुक्तेर्निर्गुणत्वमवसीयते तच परिणामवादे कार्यस्य सत्वात् । प्राकृतदेहे- न्द्रियादीनामेव भक्तिसंसर्गेणाप्राकृतत्वं स्पर्शमणिन्यायेनैव साधु बुद्धयामहे । विवर्त्तवादे तु कार्यमात्रस्यैवासत्त्वात् देहेन्द्रियादीनां मिथ्याभूतत्वाद्भक्तेः स्थितिरेव नास्ति कुतस्तस्या निर्गुणत्वं घटताम् । तथाहि निर्गुणां भक्तिमयमुपदेष्टव्य इति गुरूपदेशकाले उपदेष्ट- व्यजनस्य मिथ्याभूतत्वादाकाशक्षेत्रे बीजवपनमिव गुरूपदेश एव तावन्न भवेत् । कुतः कृष्णभक्तिः कुतस्तरां तदभ्यासेन प्रेमोदयः कुतस्तमां तेन भगवद्वशीकार इति सत्यं महाचिन्त्यशक्तौ भगवति काप्यसम्भावना न भावनीया । यदुक्तं स्वयं भगवतैव “एषा 200 श्रीमद्भागवतम् [ स्कं. ५ अ. १२ ग्लो. ९-१२ बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत् सत्यमनृतेनेह मयेंनाप्नोति मामृतम्” इति । अस्यार्थः यत् यतः अनृतेन मिथ्या- भूतेनापि मयेन मर्त्यशरीरेण मामृतं सत्यं परमसत्यमेति प्राप्नोति । यद्वा मा माममृतं परमानन्दस्वरूपं सत्यमनृतेनापि मत्येन मरणधर्मवता देहेन्द्रियप्राणादिना पत्रपुष्पगन्धधूपदीपविविधनैवेद्यच्छत्रचामराद्युपचारेण यदाप्नोति एषैव बुद्धिमतां बुद्धिरेचैव मनीषिणां परमपरामर्शवतां मनीषा विचार इति । प्राप्तिप्रकारच स्वयं भगवतैवोक्तो यथा “मर्त्यो यदा त्यक्तसमस्तकम्र्मा निवेदि- तात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै” अस्यार्थः यदा मर्त्यस्त्यक्त समस्त कर्मा गुरूपदेश- काले त्यक्तसमस्तवर्णाश्रमधर्मकामनः मयि श्रीगुरुरूपे निवेदितौ आत्मानौ अहन्तास्पदममतास्पदे येन सः । “योऽहं ममास्ति यत् किश्विदिह लोके परत्र च । तत् सर्वं भवतो नाथ! चरणेषु समर्पितम्” इति व्यवसायवान् भवति तदा स जनो मिथ्या- भूतोऽपि मे मया विचिकीर्षितः स्यात् विशिष्टः कर्तुमिष्टः स्यात् ‘निर्गुणो मदुपाश्रयः इति मदुक्तः निस्त्रैगुण्य एव स्यादित्यर्थः । स हि मायाकार्यत्वान्न नश्वरः सत्यः नाप्यज्ञान कार्यत्वान्मिथ्याभूतः किन्तु स्वरूपभूतो मत्कार्यत्वान्निर्गुण एव स्यात् । किश्च माया- । विशिष्टः कृतः स्यादित्यप्रयुज्य विचिकीर्षित इति सम्प्रत्ययप्रयोगान्निर्गुणः कर्तुमारभमाण एव स शनैः शनैर्भक्त्यभ्यासवान् निष्ठारुच्या- सक्तिरतिभूमिकारूढ एव सम्यनिर्गुणः स्यात्ततो मिथ्याभूतवस्तुभिः सह तस्य व्यवहारो न स्यात् । तत्पूर्वन्तु यथायोगं व्यवहार- स्तै सह लभ्यते । अयमर्थः - अचिन्त्यशक्त्या भक्त्युपदेशकाले एव तस्य गुणातीतानि देहेन्द्रियमनांसि मया भक्तिमाहात्म्यदर्शनार्थ- मलक्षितमेव सृज्यन्ते मिथ्याभूतानि तान्यत्यलक्षितमेव लयं यान्ति । यथा “नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ्घ्रि- रजसा जितषडुणानाम् । चित्रं विदूरविगतः सकृदाददीत यन्नामधेयमधुना स जहाति तन्वम्” इति । अस्यार्थः एवंविधः प्रियव्रत- कर्तृकसप्तसमुद्रनिर्माणप्रपञ्च इव पुरुषकारो न चित्रं, चित्रं खल्वेतदेव यद्विदूरविगतोऽन्त्यजोऽपि यस्योरुक्रमस्य नामधेयं सकृदप्या- ददीत अधुना तत्क्षण एवं तन्वं तनुं विजहातीति तदानीं तनोट श्यमानत्वेऽपि प्रारब्धकर्म संचलिततनुत्यागः अलक्षित एवेत्यर्थः । ततश्च तदा अमृतत्व मृतत्वं मरणधर्माभावं प्रतिपद्यमानः तदानीमेव प्राप्नुवन् मया सह आत्मभूयाय आत्मभावाय आत्मनः स्वस्य स्थित्यै कल्पते, यत्राहं तिष्ठामि तत्रैव सोऽपि मत्सेवार्थ तिष्ठतीत्यर्थः । एवञ्च जगत्यस्मिन् यानि यानि वस्तूनि मिथ्याभूतान्युपलभ्यन्ते तेषामेव भक्तिसम्पर्कान्मिथ्याभूतत्वं प्रविलाप्य भगवता स्वभक्तेच्छानुकूलेन परमसत्यत्वमेव तत्क्षण एवं सृज्यते किमशक्यमचि - न्यशक्तेर्भगवत इत्यत एव मत्सेवायान्तु निर्गुणेति मन्निकेतन्तु निर्गुणमित्यादिकानि भगवद्वाक्यानि सङ्गच्छन्ते । “अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्” इत्युद्यमपर्ववचनं भाष्यकारेणापि धृतं, तत्र भावा इति बहुवचने नाद्वैतभङ्गो मध्ये यस्तेषामैक्यादिति सर्वमवदातम् ॥ ११ ॥ एतत्प्राप्तिश्च महत्कृपाविभूतया भक्त्या बिना न भवतीत्याह द्वाभ्याम् । हे रहूगण ! एतदुक्तलक्षणं त्रिविधं ज्ञानं तपआदिभिर्न प्राप्नोति तत्र तपश्चित्तैकाग्यमिज्या वैदिक कर्म निर्वपणमन्नादिसंविभागः गृहं तन्निमित्तपरोपकारादि छन्दो वेदाभ्यासः । जलाग्निसूर्यास्तत्कारणकतपश्चरणानि ॥ १२ ॥ wagha श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः एवं पार्थिवानां देहादीनां पृथिव्यात्मकत्वं दर्शितम्, अथ पृथिव्या भूतसूक्ष्मात्मकतां दर्शयति एवमिति । क्षितिशब्दस्य वृत्तं वृत्तिर्यत्र तदपि भूतम् असत्सु भूतसूक्ष्मेषु स्वकारणेषु निधानात् लयात् निरुक्तं भूतसूक्ष्मात्मकत्वेन निरूपितं येषां समूहेन विशेषः भूमिपदार्थः कृतस्तानि भूतसूक्ष्माणि ये च परमाणवः अणुपरिमाणकाः प्राणः एकादशेन्द्रियाणि च अविद्यया प्रकृत्याख्यया शक्तया मनसा सङ्कल्पमात्रेणैव वासुदेवेन ब्रह्मगा परमकारणेन कल्पिता रचिताः तदात्मका इत्यर्थः ॥ ९ ॥ * * किं बहुना एवमन्यत् यत्कृशत्वादिधर्मकद्रव्यादिनाम्ना उपलक्षितमजया प्रकृत्या सह द्वितीयं कृतं कार्यजातं च तत्सर्वं यद्वासुदेवाख्यं ब्रह्म कवयो वदन्ति तदवेहीत्यन्वयः । “सदेव सोम्येदमग्र आसीत्, ऐतदात्म्यमिदं सर्व, सर्वं खल्विदं ब्रह्म” इत्यादि- श्रुतिभ्यः । “न तदस्ति विना यत्स्यान्मया भूतं चराचरम् । अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्त्तते । इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ।” इत्यादिस्मृतिभ्यः ॥ १० ॥ * * तदेव ब्रह्म विशिनष्टि । ज्ञानमिति । ज्ञानं “सत्यं ज्ञानमनन्तं ब्रह्म” इति श्रुतेः, विशुद्ध हेयगुणशून्यं परमार्थ मुक्तोपसृप्यम् एकं समानातिशयशून्यम् अनन्तरं त्वबहिः सर्वसंनिहितं मद्बद्यगतं च ब्रह्म बृहत्स्वरूपगुणशक्ति प्रत्यक जीवः प्रशान्तो यस्मात्तत् भगवच्छन्दः संज्ञा यस्य तत् ।। ११ ।। * * अथ मम संशयार्थं पश्चात्प्रक्ष्यामीत्युक्तवता राज्ञा नापृष्टोऽपि मुनिः स्वयं कृपया तदभीष्टार्थेषु तं विसंशयं कृत्वा हरिज्ञानभक्तिभ्यां मुक्तो भवेति राजानं प्रत्याह रहूगणेत्यारभ्य । “असज्जितात्मा हरिसेवया शितं ज्ञानासि - मादाय तरातिपारम्” इत्यन्तेन । महतां भागवतानां पादरजोऽभिषेकं विना तच्चरणसेवां विना एतत्सर्वात्मभूतं ब्रह्म पुरुषस्तपआदि- भिर्न याति तपसा कृच्छ्रादिना इज्यया वैदिककर्मणा निर्धपणात् अन्नादिसंविभागात् गृहात्पुत्राद्युत्पादनेन छन्दसा वेदाभ्यासेन जलादिभिरुपासितैः ।। १२ । गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ያን Visy होक्कन्यायं पृथिव्यामतिदिशति - एवमिति । क्षितिशब्दस्य वृत्तं वाचकत्वेन वर्तनं यस्मिंस्तदपि बस्स्वेवं देहवत् स्वावयवव्यतिरेकेणासवेन निरुक्तम् । तत्र हेतुमाह- असन्निधानादिति, असत्स्वतिसूक्ष्मेषु स्वकारणभूतेषु परमाणुषु निधानात् एक. ५ अ. १२ लो. ९-१२] अनेकव्याख्या समलङ्कृतम् * २५७ लयात् तद्व्यतिरेकेण निरूपयितुमशक्यत्वादित्यर्थः । तर्हि परमाणूनामतिसूक्ष्मत्वेन विभागानर्हत्वात् अन्त्यावयवानां सत्वं स्यादित्याशङ्कयाह - परमाणव इति, येषां समूहेन विशेषः पृथिवीबुद्धयालम्बनपदार्थः कृत इत्येवं मनसा ये कल्पितास्तर्किताः परसाणवस्तेऽप्यविद्यया प्रकृत्यात्मिकया महत्तत्त्वाहङ्कारद्वारा कृताः, अतस्तेऽपि स्वकारणप्रकृतिव्यतिरेकेण न सन्तीत्यर्थः ॥ ९ ॥ * * एवं पृथिव्यां प्रदर्शित न्यायमन्येष्वपि पदार्थमात्रेष्वतिदिशति - एवमिति । एवं पृथिवीवदन्यदपि यत् कृशत्वादिधर्मकं द्वितीयं द्वैतं तद्द्द्रव्याद्याकारेण परिणतयाऽत एव द्रव्यादिनाम्ना व्यवह्रियमाणयाऽजया प्रकृत्यैव भगवता कृतमवेहि जानीहीत्यन्वयः । तत्र कृशं हवम् स्थूलं तत्प्रतियोगि, अणु स्वल्पम् बृहत् महत, असत् कारणम्, सत्कार्यम्, जीवं चेतन, अजीव जडम्, द्रव्यं महाभूतादि, स्वभावः तत्तद्वस्तुपरिणामहेतुः आशयः संस्कारः, कालो गुणक्षोभहेतुः, कर्म धर्माधर्माख्यमदृष्टम् । तत्र जीवस्य चेतनत्वेन जड प्रकृत्युपादानकत्वाभावेऽपि ‘एष चेतनया युक्तो जीव इत्यभिधीयते इति वा वाक्यात् लिङ्गदेहविशिष्टचेतनस्यैव जीवसञ्ज्ञाविधानात् । लिङ्गदेहद्वारा तस्य प्रकृतिनिमित्तमस्त्येवेति तत्कृतत्वं बोध्यम् ॥ १० ॥ ** तर्हि सर्वकारणत्वेन प्रकृतेः सत्त्वं स्यादित्याशङ्कय तस्या अपि भगवच्छक्तिविशेषत्वेन तद्वयतिरेकेण तत्सत्यत्वं निरूपयितुमशक्यत्वाद्भगवानेव परमार्थसत्य इत्याह-ज्ञानमिति । सर्ववेदप्रतिपाद्यं ब्रह्मैव सत्यम् । तस्यैव भक्तिमार्गेऽ- न्यत्सव्ज्ञाद्वयमाह भगवदिति । ऐश्वर्यादिषड्गुणत्वेन भगवच्छन्दः सज्ञा यस्य तत् यच्च ब्रह्म कवयो वासुदेवं वदन्ति तत्सत्यत्वमपि न प्रपचवत् कारणसत्तया किन्तु स्वरूपसत्तयैवेत्याह- परमार्थमिति, यद्वा परमपुरुषार्थमानन्दरूपमित्यर्थः । चित्त्वमाह- ज्ञानमिति । न च तदूरदेशगमनेन लभ्यमात्मत्वादित्याह - प्रत्यगिति । न च देहजन्मनाशादिना तस्यापि तत्प्रसङ्ग इत्याह- प्रशान्तमिति, जन्ममरणसुखदुःखश्रमादिविकार शून्यमित्यर्थः । तत्र हेतुमाह-शुद्धमिति, “असङ्गो ह्ययं पुरुषः” इति श्रुतेरण्यासादि- सर्व सम्बन्ध रहितत्वेन निर्लेपत्वादित्यर्थः । । देशपरिच्छेदव्यावृत्त्यर्थमाह–अनन्तरं त्वबहिरिति व्यापकत्वेन बाह्याभ्यन्तरव्यवहारा- तीतमित्यर्थः । वस्तुपरिच्छेदव्यावृत्त्यर्थमाह-एकमिति, सर्वकारणकारणत्वात् सर्वात्मकमित्यर्थः । एवं विशेषणैर्देहादिविलक्षणं परमात्मतत्त्वं निरूपितम् । तथा चैवम्भूतपरमात्मांशत्वात्तदभेदेन आत्मस्फूर्त्या देहाद्यध्यासस्य निवृत्तत्वान्न मम श्रमादिस्फूर्तिरिति मदुक्तस्वप्नदृष्टान्त एवं सङ्गच्छते, न त्वदुक्तस्थास्यग्नितापादिदृष्टान्तः स्थाल्यादेजडत्वेन सावयवत्वेन सङ्गित्वेन विनाशित्वेन च आत्मविपरीतस्वभावत्वादिति भावः ॥ ११ ॥ तवमात्मतत्त्वलाभः केन साधनेनेत्यपेक्षायां सत्सङ्गेनैवेत्याह– रहूगणेति । सम्बोधनं साधन रहस्यश्रवणे सावधानतार्थम् महतां भगवद्भक्तानां पादरजसा य आत्मनोऽभिषेकः स्नानं तद्विनैतदुक्तमात्मतत्त्वं तपआदिभिः केवलैः पुरुषो न याति तद्विनेतदुक्तमात्मानं साधनस्य । केवले याति प्राप्नोति । तपदीनामन्तःकरणशुद्ध चादिहेतुत्वेऽपि तपआदीनामन्तःकरणशुद्धयादिहेतुत्वेऽपि गुरुकृतोपदेशं विनाऽऽत्मतत्त्वं न स्फुरतीत्यर्थः । तपसा वानप्रस्थधर्मेण इज्यया यज्ञादिवैदिककर्मणा । निर्वपणात् अन्नादिसंविभागात् । गृहात् अन्यस्माद्वा तन्निमित्तपरोपकारात् । छन्दसा वेदाध्ययनादिब्रह्मचारिधर्मेण । जलादि- भिर्वोपासितैः ।। १२ ।। ५१ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी चराचरस्योत्पत्तिविनाशौ यदा क्षितावेव तर्हि क्षितेः सत्यता प्राप्ता तां निराकुर्वन्नाह एवमिति । क्षितिशब्दवृत्तं क्षितिशब्दस्यापि वर्त्तनं, एवं अर्थ विनैव निरुक्तं, मिध्यात्वेन निरुक्तमित्यर्थः । कुतः असन्निधानात् असत्सु सूक्ष्मेषु परमाणुषु स्वकारणभूतेषु क्षितेर्लयात्, अतः परमाणुव्यतिरेकेण क्षितिर्नास्तीत्यर्थः । असन्निधानमिति पाठे असतामनित्यानां कार्याणां निधानं लयस्थानं, यत् क्षितिशब्दवृत्तं क्षितिंशब्दस्य प्रवर्त्तनं तदपि एवं निरुक्तं दर्शितम् । यत्र देहादेरुत्पत्तिः, सा क्षितिरप्यनित्येत्यर्थः । भूमेरनित्यत्वज्ञापनाय तदवयवावयविविभागमवयवानामनित्यतां चाह । ये परमाणवस्त एवैक्यतां गताः सन्तोऽत्र क्षितिशब्देन व्यव- हृताः सन्तीत्यर्थः । तर्हि परमाणवः सत्याः स्युस्तत्राह । येषां परमाणूनां समूहेन विशेषः, विशेषशब्दवाच्या क्षितिः कृतः निर्मितः अस्ति, ते परमाणवोऽपि, मनसा मनोऽधिष्ठातुरीश्वरस्य संकल्पेनेत्यर्थः । अविद्यया प्रकृत्या, कल्पिताः ईश्वराधिष्ठितप्रकृतिपरिणाम- त्वादनित्या एवेत्यर्थः । परमाणुव्यतिरेकेण क्षितिर्नास्ति परमाणवश्च कार्यानुपपत्त्या वादिभिः कल्पिताः । एवं सत्यपि सत्यता भाक्त्व- स्वीकारश्चेत्तर्हि स न योग्यः । भगवन्मायाविलसितत्वादज्ञानकल्पितत्वाच्चेति भावः ॥ ९ ॥ * * शरीरानित्यत्वं निगमय- न्स्थौल्यादिकं तदतमेवेत्याह एवमिति । एवं कृशं, स्थूलं, अणुः बृहत् असत्, सत्, जीवं सजीवं, अजीवं अन्यत् चापि, बुद्धय- प्रतीतमिति शेषः । द्वितीयमात्मनो भिन्नं यत्तत्, द्रव्यं च स्वभावश्च आशयश्च कालश्च कर्म च तन्नाम्ना, अजया प्रकृत्या, कृत, इति अवेहि । निर्गुणबुद्धयेति शेषः । अयं भावः कार्यादिवृहदन्तर्गुणयुक्त कार्यकारणभावेन उत्कृष्टापकृष्टात्मकतया वा सदस- दात्मकं सजीवं तद्भिन्नं चराचरात्मकं द्वितीयं द्रव्यादिनामभाजा प्रकृत्या कृतमस्तीति शुद्धधिया जानीहीति । तत्र द्रव्यं पृथिव्यादि- पञ्चभूतजातम् । स्वभावस्तेषां परिणामः । आशयोऽन्तःकरणं वासना वा । कालः सत्त्वादिगुणक्षोभकः, कर्म जीवादृष्टं, द्रव्यादीनां प्रकृतिप्रपञ्चत्वात् द्रव्यादिनाम्नेत्युक्तम् ॥ १० ॥ * * एवं देहस्यानात्मत्वं यदा तर्हि किं सत्यमित्याकाङ्क्षायां सत्यमात्मपर- मात्मस्वरूपं शोधयति ज्ञानमिति । ज्ञानं ज्ञानगुणं ज्ञानस्वरूपं च अनेन जडात्मव्युदासः । विशुद्धं स्वतः कर्मसंबन्धरहितं रागादिदोषरहितं वा । परमार्थं पुरुषार्थभूतं, एकं सर्वत्र ज्ञातैकाकार, अनन्तरं अबहिः बहिरन्तःप्रदेशभेदरहितं ब्रह्म गुणतो ३३ २५८ [[कं. ५०१२ लो. १३-१६ व्यापकम् । सत्यं नित्यं, प्रत्यक स्वस्मै भासमानं, प्रशान्तमशनायाद्यर्मिषट्करहित, सांख्यमतव्यावृत्यर्थ प्रिझात्मकत्वं सामानाधि करण्येनाह । भगवच्छन्दः संज्ञा यस्य तत्, तु पुनः, वासुदेवं च यत् कवयः वदन्ति । जीवे भगवस्ववासुदेवत्वे उपचरिते, परमात्मनि मुल्ये, ‘तत्र पून्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण ह्यन्यत्र तूपचारत:’ इति सर्वत्रासी समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते’ इति ॥ एवमात्मतदन्तर्यामिपरमात्मस्वरूपं संशोधि तम् ।। ११ । * * उक्तविधात्मपरमात्मयाथात्म्यज्ञानं कथं लभ्येतेत्यपेक्षायां नेदमुपायान्तरैः प्राप्यते किं तु महत्सेवा- भगवद्गुणानुश्रवणादिप्रणाल्या एवेत्याह द्वाभ्याम् रहूगणेति । हें रहूगण, एतदात्मपरमात्मयाथात्म्यज्ञानं, महतां भागवतानां यानि पादरजांसि तेषामभिषेकः सेवा तं विना, तपसा केवलेन तपश्चरणेन, न याति । इव्यया वैदिककर्मणा, न याति निर्वपणात् द्रव्यादेः सत्पात्रनिक्षेपरूपदानतः, अन्नादिसंविभागतो वा न याति । गृहात् परोपकाराचरणरूपगृहस्थधर्मतः, छन्दसा वेदाभ्यासेन जलाभिसूयैर्वा सम्यगुपासितैर्जलादिभिरपि, न यांति एवं ।। १२ ।। भाषानुवादः इस प्रकार ‘पृथ्वी’ शब्दका व्यवहार भी मिध्या ही है, वास्तविक नहीं है; क्योंकि यह अपने उपादान कारण सूक्ष्म परमाणुओंमें लीन हो जाती है। और जिनके मिलनेसे पृथ्वीरूप कार्यकी सिद्धि होती है, वे परमाणु अविद्यावत् मनसे ही कल्पना किये हुए हैं। वास्तवमें उनकी भी सत्ता नहीं है ॥ ९॥ * इसी प्रकार और भी जो कुछ पतला-मोटा, छोटा-बड़ा, कार्य-कारण तथा चेतन और अचेतन आदि गुणोंसे युक्त द्वैत-प्रपन्न है उसे भी द्रव्य, स्वभाव, आशय, काल और कर्म आदि नामवाली भगवानको मायाका ही कार्य समझो ॥ १० ॥ विशुद्ध परमार्थरूप अद्वितीय तथा भीवर बाहर भेदसे उसीको ‘भगवान’ और उसीको पण्डितजन अपनेको नहलाये बिना केवल तप यज्ञादि वेदाध्ययन अथवा जल, अग्नि तथा सूर्यकी रहित परिपूर्ण ज्ञान ही सत्य वस्तु है । वह सर्वान्तर्वर्ती और सर्वथा निर्विकार है। ‘वासुदेव’ कहते हैं ॥। ११ ॥ * रहूगण! महापुरुषोंके चरणोंकी धूलिसे वैदिक कर्म, अन्नादि दान, अतिथिसेवा, दीनसेवा आदि गृहस्थोचित धर्मानुष्ठान, उपासना आदि किसी भी साधनसे यह परमात्म-ज्ञान प्राप्त नहीं हो सकता ॥ १२ ॥ Ticar वाड़ी For ॥ ॥ की यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः निषेव्यमाणोऽनुदिनं मुमुक्षोमेति सतीं यच्छति, वासुदेवे ॥ १३ ॥ अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४ ॥ सा मां स्मृतिर्मृगदेहेऽपि पीर कृष्णाचनप्रभवा नो जहाति । / अथो अहं जनसङ्गादसको विशङ्कमानोऽविवृतचरामि ॥ १५ ॥ तस्मान्नरोऽसङ्गसङ्गजावज्ञानासिनेहेन एडीनोम " विवृक्णमोहः SEE FEE श्री DIE FIFSAIST goPROFES हरि तदीहा कथनभृताभ्यां लब्धस्मृतिर्यात्यविपारमध्वनः ॥ १६ इति श्रीमद्भागवत महापुराणे पारमहंत्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहगणसंवादे द्वादशोऽध्यायः ॥ १२ कण को tra अन्वयः – यत्र ग्राम्यकथाविघातः उत्तमलोकगुणानुवादः प्रस्तूयते अनुदिनम् निषेव्यमाणः सः मुमुक्षोः वासुदेवे सतीम् मतिम् यच्छति ।। १३ ।। ** अहम् पुरा विमुक्तदृष्टश्रुतसंगबन्धः भगवतः आराधनम् ईहमानः भरतः नाम राजा मृगसंगात् हतार्थः मृगः अभवम् ॥ १४ ॥ * * बीर सा कृष्णार्चनमभवा स्मृतिः मृगदेहे अपि माम् न जहाति अथो अहम् जनसंगात् विशंकमानः असंगः अविवृतः चरामि ।। १५ ।। * * तस्मात् इह एव असंगसुसंगजातज्ञानासिना विवृक्णमोहः नरः तदीहाकथनश्रुतिभ्याम् लब्धस्मृतिः अध्वनः अतिपारम् हरिम् याति ॥ १६ ॥ एक प्रति द्वादशोऽध्यायः ॥ १२ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका पी Perspel eng नीम की क महत्सेवायास्तत्प्राप्त्युपायतामीह । यत्रे येषु महत्सु उत्तमश्लोकस्य हरेर्गुणानुवादः, ग्राम्यकथानां विधातो । यस्मात् ॥ १३ ॥ * * विषयसंगस्तु योगभ्रंशक इति वदन्कस्त्वं निगूढचरसीति प्रभस्योत्तरमाह । अहमिति द्वाभ्याम् । १. प्राचीने पाठे ‘गोऽनुदिनं मुमुक्षोर्मति इत्यारभ्य ‘विशमानी’ पर्यन्तं पाठः खण्डितः । EP डीप१२ एलो. १३-१६] अनेकव्याख्या समलंकृतम् विमुक्तो दृष्ठताभ्यां संगनिमित्तो गंधो येन । हवोऽर्थः प्रयोजनं यस्य ॥ १४ ॥ श्रीकृष्णाचनं भ्रष्टमप्युद्धरतीत्याह सेति । जनसंगाद् विशंकमानः अविवृतोऽप्रकटः ।। १५ ।। असंगैर्महद्भिः सुसंगस्तेन जातं ज्ञानमेवासि खडगस्तेन छिन्नमोहः सन् अध्वनः संसारमार्गस्यातिशयितं श्रेष्ठं पारं हरिं याति । यद्वा पारमति अतिक्रम्य हरिं याति " अतिरतिक्रमणे च” इति कर्मप्रवचनीयत्वाद् द्वितीया । यस्य हरेरीहानां कथनस्मृतिभ्यां लब्धा स्मृतियेन सः ॥ १६ ॥ ।। 28-89 ।। इति पञ्चमस्कन्धे टीकायां द्वादशोऽध्यायः ॥ १२ ॥ श्रीवंशीधरकृतो म श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः मावार्थदीपिकाका RETRIE wan ते च महान्तः कृष्णभक्ता एवेत्यभिव्यजयति यत्र महत्पादरजोभिषेके सति यत्र महत्सु वा उत्तमश्लोकस्य कृष्णस्य wails re गुणानां भक्तवात्सल्यादीनामनुवादः पुनः पुनः कथनं प्रस्तूयते प्रसज्यते प्रकर्षेण श्लाध्यते वा । ग्राम्यकथानां विषयवार्त्तानां मुमुक्षोर्मुक्तिकामस्यापि वसुदेवनंदने सतीं मोक्षेच्छाराहित्येन शुद्धाम् । यच्छति ददाति ॥ १३ ॥ * मयं स्वापराधिने महापामरायाप्येवं ज्ञानमुपदिशन्परमकृपालुः को भवानित्यपेक्षायामाह अहमिति । दृष्टे श्रुते च व्यवहारे राज्यादौ स्वर्गादी संगबंध आसक्तिलक्षणो बंधो विमुक्तो येन सः । तदपि देवादसावधानोऽभवमित्याह-मृग इति ॥ १४ ॥ या पूर्वजन्मनि कृष्णार्चनज्ञाता साऽधुनापि वर्त्तत इत्यर्थः । वीरेति । शत्रुहननवदज्ञानननेपि प्राप्ताधिकारत्वात्समर्थोऽसि कथं समोद्धारः स्यादिति मा शोचेति भावः । यतः संगोऽनर्थ हेतुरथो अतः ॥ १५ ॥ * * यस्मात्कृष्णार्चनमीदृक्प्रभावं तस्माद्धेतोः । ओ वासुदेवस्तत्र संगो येषां तेऽसंगाः श्रीकृष्णभक्तास्तेः । पारं हरिं “यस्तस्य पारेऽभिविराजते विभुः” इत्युक्तस्तस्य पारस्थत्वश्रवणान्नपारत्वमिति चेत्तत्राह - यद्वेति । पारं मोक्षं वातिक्रम्य हरिं श्रीकृष्णं याति भजते “सालोक्यसाष्टिंसामीप्यम्” इत्यारभ्य “दीयमानं न गृह्णति विना मत्सेवनं जनाः” इति कपिलोक्तः। असंगो व्यवहारानासक्तिः सुसंगो महत्संगस्ताभ्यां जातज्ञानखङ्गेन वा ॥ १६ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे द्वादशोऽध्यायः ॥ १२ ॥ KE ॥ ॥ RIPPERTR श्रीमद्वीरराघवव्याख्या कथं महत्सेवया तथामीत्यत्राह । यत्र येषु महत्सु प्राम्यकथानामभिघातो यस्मात्स उत्तमश्लोकस्य भगवतो गुणानुवादः प्रस्तूयते । प्रस्तूयतां गुणानुवादः प्रकृते किमायातं तन्नाह । अनुदिनं निषेव्यमाणो गुणानुवादः वासुदेवे सतीं मतिं मुमुक्षोर्यच्छति स्वात्मपरमात्मयाथात्म्यविषयं ज्ञानं संपादयतीत्यर्थः ॥ एवं गृहमेधिसौख्यवैराग्यस्य ज्ञानहेतुत्वमभिधाय विषयसङ्गस्य ज्ञानभ्रंशकरत्वं स्वदृष्टान्तेन वदन् कस्त्वं निगूढ इत्यादिप्रश्नस्योत्तरमाह । अहमिति द्वाभ्याम् । पुरा पूर्वतरस्मिन् । जन्मनि अहं भरतो नाम प्रसिद्धः राजाऽभूवं तत्र विशेषेण व्यक्तः दृष्टेष्वैहिकसुखेषु श्रुतेष्वामुष्मिकेषु स्वर्गादिषु च सङ्गरूपो बन्धो येन तथाभूतः सन् भगवत आराधनं कुर्वाणस्तत्र मृगसङ्गाद्धतः विहतः आराधनलक्षणोऽर्थो यस्य तथाभूतो मृगोऽभवं मृगजन्मप्राप्तोऽभूवम् ॥ १४ ॥ * * हे वीर! कृष्णा चनप्रभावाद्भगवदाराधनजा सा भगवद्विषया स्मृतिः मृगदेहेऽपि मां न जहाति नात्याक्षीत् । कृष्णाचैनप्रभावविषयके विस्मये अहो इति । अधुना जनसङ्गाद्विशङ्कमानः अतः एवासङ्गः अविवृतः अप्रकटः गृहाद्यप्रविष्टश्चरामि ॥ १५ ॥ 8 8 तस्मात्सङ्गस्य बन्धकत्वान्नरः असङ्गेषु ज्ञानिषु सुसङ्गात् जातो यः ज्ञानरूपोऽसि: खङ्गस्तेन विशेषेण वृकूणश्छिन्नः सङ्गो देहतदनुबन्धिषु येन तथाभूतः सनध्वनः संसार।टव्यध्वनः पारमत्यन्तमवधिं हरि भगवन्तं तदीहाकथन- श्रुताभ्यां भगवचेष्टितकथनश्रवणाभ्यां कथनादिप्रणाज्यत्यर्थः । लब्धा स्मृतिर्भगवद्विषया यस्य स याति प्राप्नोति ॥ १६ ॥ इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमद्वीर श्रीमद्वीरराघवाचार्यकृत भागवतचन्द्रचन्द्रिकायां शदशोऽध्यायः ।। १२ ।। श्रीमद्विजयध्वजतीर्थकृता पदलावली FFSTOP FIZETH5lge ve er ise 8 या यत्र येषां महतां सकाशे प्रस्तूयते प्रसज्जते प्रकर्षेण स्तूयते वा प्राम्यकथा विधातः विषयवार्ताप्रसङ्गनाशनः । सेवाफलमाह निषेव्यमाण इति । भक्तिशाणोलीढा सती मतिरुच्यते, यच्छतिरत्र भक्तिनिशितज्ञानं दत्वा संसारोपरमं करोतीत्यु- भयार्थः ॥ १३ ॥ इदानीं भरतः स्वोक्तार्याप्तिजननाय कुत्रत्य इति बोद्यपरिहाराय च स्वरूपं स्वचरित च वक्ति । दृष्टेषु राजादिविभवेषु श्रुतेषु सङ्गबन्धः स विमुक्तो येन स तथा हतार्थः नष्टपुरुषार्थ प्रयोजनः ॥ १४ नष्टपुरुषार्थक्षणप्रयोजनः ॥ पूर्वजन्मनि कृष्णाचेनजाता सा मां नो जहाति न त्यजति अधुनापि वर्तत इत्यर्थः । अवधूतोऽज्ञातलिङ्गः दुःसङ्गात्संसारो भवतीति शकुया भियावधूतः कम्पितः हृदयसाररहित इत्यर्थ इति वा ॥ १५ ॥ उपसंहरति तस्मादिति । यस्माद्भगवतः पूजेतादृशफला तस्मान्नरः पुरुषः संसारमतीत्याध्वनः संसार मार्गस्य अतिपारं : तीरान्तरीभूतं हरिंग यातीत्यन्वयः। केन साधनेन असङ्गानां दुष्टसङ्गरहितानां सतां सुष्ठु सङ्गेन सेवालक्षणेन ज्ञानेन ज्ञानाख्यासिपत्रिका विषृक्णश्विनः सङ्गः स्वर्गादिफलस्नेहो २६० श्रीमद्भागवतम् [ स्कं. ५ अ. १२ श्लो. १३-१६ यस्य से तथा तस्य हरेरीहानां चरितानां कथनेन श्रवणेन च लब्धा स्मृतिर्यस्य स तथा संसाराध्वनः पारं विष्णोर्लोकमतिया ति अतिक्रम्य यातीत्यर्थोऽनुपपन्नः हरिमित्यस्यान्वयानुपपत्तेरतोऽसङ्गतोऽयमर्थ इति ।। १६ ॥ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्यां द्वादशोऽध्यायः ॥ १२ ॥ ॥ श्रीमज्जीवगोखामिकृतः क्रमसन्दर्भः तत्र विशेषमपि वदंस्तत्तत्त्वप्राप्तिसोपानमाह यत्रेति । मुमुक्षोस्तद्वद्यतिरिक्त सर्वपरित्यागेच्छोः ॥ १३-१६ ॥ THE इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमजीवगोखामिकृतक्रमसन्दर्भे द्वादशोऽध्यायः ॥ १२ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी my min ते च महान्तः कृष्णभक्ता एवेत्यभिव्यञ्जयति । यत्र महत्पादरजोऽभिषेके संति यत्र महत्सु वा गुणानां भक्तवात्सल्या- दीनामनुवादः पुनः पुनः कथन मुमुक्षोमक्षिकामस्यापि सतीं मोक्षेच्छाराहित्येन शुद्ध मतिं वासुदेवे वसुदेवनन्दने ।। १३ ।। ’ मह्यं स्वापराधिने महापामरायाप्येवं ज्ञानमुपदिशन् परमकृपालुः को भवानित्यपेक्षायामाह अहमिति । दृष्टे श्रुते च व्यवहारे सङ्गबन्ध आसक्तिलक्षणो बन्धो विमुक्तो येन सः तदपि दैवादसावधानोऽभवमित्याह मृग इति || १४ || भ्रष्टमप्युद्धरतीत्याह सेति । जनसङ्गाद्विशङ्कमानः अविवृतोऽप्रकटः ॥ १५ ॥ श्रीकृणाच्चन
- असङ्गो व्यवहारानासक्तिः सुसङ्गः साधुष्वासक्तिस्ताभ्यां जातं ज्ञानमेवासिः तेन छिन्नमोहः अध्वनः संसारमार्गस्य अतिपारं हरिम् ॥ १६ ॥ । इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १२ ॥ ॥ 5 ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीप यत्र येषु महत्सु माम्याणां या कथा शिश्नोदरनिमित्तवार्ता तस्या विघातो यस्मात् स उत्तमश्लोकगुणानुवादः प्रस्तूयते महान्त इत्यन्वयः ।। १३-१५ ॥ * * यस्मात्प्राणिषु मोहः संसारहेतुस्तस्मात् असङ्गैर्महद्भिर्यः सुसङ्गस्तेन जातं ज्ञानमेवासिस्तेन इह गृहादौ विशेषतो वृकूणश्छिन्नो मोहो येन सः तदीहाकथनश्रुताभ्यां हरिचेष्टितकीर्तनश्रवणाभ्यां लब्धस्मृतिः प्राप्ता ध्रुवा स्मृतिः अध्वनः संसारमार्गस्य अतिपारमतिशयितं श्रेष्ठं पारं हरिं याति ।। १६ ।। Besan | Ne इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे द्वादशाध्यायार्थप्रकाश ॥ १२ ॥ = । गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी RDI piti Sund महच्छरणागमनं कथमात्मतत्त्वप्राप्तिहेद्रित्याशङ्कयाह – यंत्रेति । यत्र येषु महत्सु उद्गच्छति तमः आत्मावरणमज्ञानं यस्मात्स उत्तमः तथाभूतः श्लोको यस्य तस्य भगवतो गुणानुवादः लीला कथां अतोऽज्ञाननिवर्तकत्वादेव ग्राम्यकथानां विघातो यस्मात्स तथाभूतः प्रस्तूयते निरन्तरं प्रवर्त्तते स चानुदिनं निषेव्यमाण आदरपूर्वकं श्रूयमाणो मुमुक्षोः सतीं संसारतापोपशमनीं वासुदेवे भगवति मति, भक्ति यच्छति सम्पादयति । ततश्च तदनुग्रहेणैवमात्मतत्त्वं स्फुरतीत्यर्थः ॥ १३ ॥ * * तत्सङ्ग- मन्तरेण तु विषयसङ्गात् संसारे भ्राम्यत्येवेति सूचयन् ‘करुत्वं निगूढश्वरसि’ इति प्रश्नोत्तरत्वेन स्ववृत्तमाह—अहमिति द्वाभ्याम् । पुरा पूर्वमहं भरतो नाम राजाऽभवमित्यन्वयः । विमुक्तो दृष्टश्रुताभ्यामिहलोक परलोकाभ्यां सङ्गनिमित्तो बन्धो येन स तथाभूतः सन् एकान्ते भगवत आराधनमीहमानः कुर्वन् मृगसङ्गात् मृगे आसक्तितः मृगोऽभवम् । एवं हतोऽर्थः पुरुषार्थो मोक्षलक्षणो यस्य सः । पुनर्मृगदेहमुत्सृज्य ब्राह्मणो जातोऽस्मीति शेषो बोध्यः ॥ १४ ॥ * * ननु तवेत्थं जन्मान्तरस्मृतिः कथमित्याशङ्कय श्रीकृष्णाचंनप्रभावादेवेत्याह-सेति । हे वीर सा पूर्वजन्मविषया कृष्णाचनेन प्रभव उत्पत्तिः यस्याः सा स्मृतिर्मृगदेहेऽपि पशुत्वेन कत्तंव्यानुसन्धाना योग्ये देहेऽपि मां नो जहाति न जहावित्यन्वयः । अपिशब्दादिदानीं तद्योग्ये ब्राह्मणदेहे सा भवेत्तत्र तु नाश्चर्य- मिति ज्ञेयम् । एवं भगवदाराधनमन्तरायविहतमपि जन्मान्तरे फलत्येच, अन्यथा स्मृत्यभावे पुनर्विषयासक्त्या दुःखार्णवे संसारे एव पतितः स्यामिति भावः । अतो युद्धे शत्रुविजयो न परमपुरुषार्थः, किन्तु सत्सङ्गेन भगवद्भजनादिना संसारविजय एवेति सम्बोधनाभिप्रायः। अथो तस्मात् मृगासक्त्याऽहं भ्रष्ट इति स्मृतिसत्त्वादेवाह जनसङ्गाद्विशङ्कमानो भीतः असङ्ग एकाकी सर्वतो विरक्तः अविवृतोऽप्रकटः स्वज्ञानादिकमाच्छादयंश्वरामीत्यन्वयः अनेनाधिकारित्वादेव त्वामेवं वदामि, न सर्वत्रेति सूचितम् ॥ १५ ॥ * * एवं ज्ञानवैराग्यनिरूपणेन फलितमर्थं निरूपर्यन्तुपसंहरति–तस्मादिति । यस्मान्महतामनुग्रहमन्तरेण न संसार निवृत्तिः, न वा भगवत्प्राप्तिस्तस्मादसङ्गाः सर्वतो विरक्ता ये भगवद्भक्तास्तैर्यः सुष्ठु प्रयत्नपूर्वकः सङ्गस्तेन जातं ज्ञान- मात्मानात्मविवेकलक्षणं तदेवासिस्तेनेहैव जन्मनि विवृणः सच्छलो मोहः अहन्तामगतापूर्वक विषयासक्तिलक्षणो यस्य सः, । स्क. ५ अ. १२ क्लो. १३-१६] अनेकव्याख्यास मलङ्कृतम् ३६१ तस्य भगवतो या ईहा लीलास्तासां कथनस्मृतिभ्यां लब्धा स्मृतिरात्मतत्त्वसाक्षात्कारलक्षणा येन स एवाध्वनः संसारमार्ग- स्यातिशयितं श्रेष्ठ पारं हरिं याति नान्य इत्यन्वयः ॥ १६ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र योगेन स्थितिरूपणे । द्वादशो विवृति यातो वैराग्य विनिरूपकः ॥ ३ ॥
· 1 श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । कथं महत्सेवया तद्यावीत्यत्राह यत्रेति । यत्र येषु महत्सु, ग्राम्यकथानां विघातोऽभिघातो यस्मात्तथाविधः, उत्तम- श्लोकगुणानुवादः, प्रस्तूयते निरन्तरं जायते । प्रस्तूयतां गुणानुवादः, प्रकृते किमायातं तत्राह । य उत्तम श्लोकगुणानुवादः, अनुदिनं, निषेव्यमाणः सन्, मुमुक्षोः वासुदेवे सतीं मति, यच्छति । स्वात्मपरमात्मयाथात्म्यविषयं ज्ञानं संपादयती- त्यर्थः ॥ १३ ॥ * * । एवं गृहमेधिसौख्ये वैराग्यस्य ज्ञानहेतुत्वमभिधाय विषयसङ्गस्य ज्ञानभ्रंशकरत्वं स्वदृष्टान्तेन वदन्कस्त्वं निगूढ इत्यादिप्रश्नस्योत्तरमाह अहमिति द्वाभ्याम् । पुरा पूर्वतर जन्मनि, अहं, भरतः नाम, भरत इति नाम्ना विख्यातः राजा, अभवम् । तत्र विमुक्तो विशेषेण त्यक्तः दृष्टेष्वैहिकसुखेषु श्रुतेषु आमुष्मिक सुखेषु स्वर्गादिषु च सङ्गबन्धः सङ्गरूपो बन्धो येन तथाभूतः सन्, भगवतः आराधनं इहमानः कुर्वाणः, अभवम् । तत्रापि, मृगसङ्गात्, हतोऽर्थो यस्य तथाभूतः सन् मृगः अभवम् ॥ १४ ॥ * श्रीकृष्णाचैनं भ्रष्टमप्युद्धरतीत्याह सेति । हे वीर, कृष्णाचनप्रभवा भगवदाराधनजा, सा भगवद्विषया स्मृतिः, मृगदेहेऽपि मां नो जहाति नात्याक्षीत् । अहो इति विस्मये । अतः अहं, जनसङ्गात्, विशङ्कमानः अत एव, असङ्गः अविवृतः अप्रकटः, चरामि ॥ १५ ॥ * * तस्मादिति । तस्मात्सङ्गस्य बन्धकत्वाद्धेतोः, नरः, असङ्गेषु विरक्तेषु ज्ञानसाधुषु यः सुसङ्गः तेन जातो यः ज्ञानरूपोऽसि: खड्गस्तेन एव, विवृक्णः विशेषेण छिन्नः मोहो देहतदनुबन्धिषु रांगो, येन तथाभूतः सन् अध्वनः संसाराटवीवर्त्मनः, अतिपारमवधिभूतं हरिं तदीहाकथनस्मृतिभ्यां भगवचरित्रकथनस्मरणाभ्यां, कथनश्रुताभ्यामिति पाठे भगवच्चेष्टितकथनश्रवणाभ्यां, लब्धा स्मृतिमेगवद्विषया येन तथाभूतः सन् याति प्राप्नोति ।। १६ ।। इति श्रीधर्मधुरंधरश्रीधर्मात्मज प्रत्यक्षपुरुषोत्तम सहजानन्द स्वामिसुतश्रीरघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकार्या पञ्चमस्कन्धे द्वादशोऽध्यायः ।। १२ ।। " Epis भाषानुवादः ऐहिक और इसका कारण यह है कि महापुरुषोंके समाजमें सदा पवित्रकीर्ति श्रीहरिके गुणोंकी चर्चा होती रहती है, जिससे विषयवार्ता तो पास ही नहीं फटकने पाती । और जब भगवत्कथाका नित्यप्रति सेवन किया जाता है, तब वह मोक्षाकाङ्क्षी पुरुषकी शुद्ध बुद्धिको भगवान वासुदेवमें लगा देती है ।। १३ ॥ * ’ पूर्वजन्म में मैं भरत नामका राजा था, ऐ पारलौकिक दोनों प्रकार के विषयोंसे विरक्त होकर भगवान्की आराधना में ही लगा रहता था; तो भी एक मृगमें आसक्ति जानेसे मुझे परमार्थसे भ्रष्ट होकर अगले जन्म में मृग बनना पड़ा ॥ १४ ॥ * * किन्तु भगवान् श्रीकृष्णकी आराधना के प्रभाव से उस मृगयोनिमें भी मेरी पूर्वजन्मकी स्मृति लुप्त नहीं हुई। उसीसे अब मैं जनसंसर्गसे डरकर सर्वदा असङ्गभावसे गुप्तरूपसे ही विचर रहा हूँ ।। १५ ।। * * सारांश यह है कि विरक्त महापुरुषोंके सत्सङ्गसे प्राप्त ज्ञानरूप खड्गके द्वारा मनुष्यको इस लोक में ही अपने मोहबन्धनको काट डालना चाहिये। फिर श्रीहरिकी लीलाओंके कथन और श्रवणसे भगवत्स्मृति बनी रहनेके कारण वह सुगमता से ही संसारमार्गको पार करके भगवान्को प्राप्त कर सकता है ।। १६ ।। 1 Tere इति द्वादशोऽध्यायः ।। १२ ।। Coppery wee Mmdee piping to AFTER P vitation || hem inpregmi | Epicनी सी ॥ ॐ ॥ अथ त्रयोदशोऽध्यायः h SIDE E FIPELLFISTAFS FREE MED दुरत्ययेऽध्वन्यनयां ब्राह्मण उवाच निवेशितो रजस्तमःसन्त्वविभक्तकर्मदृक् । क स एष साथऽर्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥ सामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कनायकं बलात् । गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृकाः || २. शुक प्रभूतवीरुत्तणगुल्मगहरे कचित्त 1 गन्धर्वपुरं प्रपश्यति कठोरदशैर्मशकैरुप कचित्कचिचाशुरयोन्मुक्रग्रहम् ।। ३ ॥ CFFICE कोक sari निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भोॐ भव्याम् । चिच वात्योत्थितपांसुधा दिशो न जानाति रजखलाक्षः ॥४ अदृश्य झिल्ली खनकर्णशूल JMP TESTBERESF 1 का Dis ‘उलूकवाग्भिर्व्यथितान्तरात्मा 1 33 11 की अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति कचित् ॥ ५ ॥ कचिद्वितायाः सरितोऽभियाति परस्परं चालवते निरन्धः || ||आसाच दावं कचिदमितप्तो निर्विद्यते क च पचेर्हतासुः ॥ ६ ॥ शूरैर्हतखः क च निर्विण्णचेताः शोचन् विमुद्यन्नुपयाति कश्मलम् । क्वचिच चलन् Distorture E PES TED गन्धर्वपुरं प्रविष्ट: प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७ ॥ क्वचित्कण्टकशकैराङ भिनंगा रुरुक्षुर्विमना इवास्ते पदेऽभ्यन्तरवह्निनादितः कौटुम्बिकः क्रुध्यति जनाय ॥ ८ ॥ A PEIFIE PEE FIVE PR मशकैः कचित् अदृश्य- अभ्ययः—दुरत्यये अध्वनि अजया निवेशितः रजस्तमः सत्त्वविभक्तकर्मदृक् सः एषः अर्थपरः सार्थः परिभ्रमन् टवीम् याति शर्म न विंदति ॥ १ ॥ नरदेव यस्याम् इमे षट् दस्यवः कुनायकम् सार्थम् बलात् विलुपति यत्र गोमायवः प्रमन्तम् सार्थिकम् आविश्य यथा वृकाः उरणम् हरति ॥ २ ॥ * कचित् प्रभूतवीरुत्तृणगुल्मगहरे कठोर उपद्रुतः कचित् तु गंधर्वपुरम् च कचित् आशुरयोल्मुकग्रहम् पश्यति ॥ ३ ॥ * भोः निवासतोयद्रविणात्मबुद्धिः अटव्याम् ततस्ततः धावति च कचित् रजस्वलाक्षः वात्योत्थितपांसुधूम्राः दिशः न जानाति ॥ ४ ॥ झिल्लीस्वनकर्णशूल: उलूकवाग्भिः व्यथितान्तरात्मा क्षुधार्दितः अपुण्यवृक्षान् श्रयते मरीचितोयानि अभिधावति ॥ ५ ॥ * * कचित् वितोयाः सरितः अभियाति च निरंधः परस्परम् आलपते कचित् दावम् आसाद्य अग्नितप्तः च क यक्षैः हृतासुः निर्विद्यते ॥ ६ ॥ क च शूरैः हृतस्वः निर्विण्णचेताः शोचन् विमुह्यन् कश्मलम् उपयाति च कचित् गंधर्वपुरम् प्रविष्टः निर्वृतवत् मुहूर्तम् प्रमोदते ॥ ७ ॥ कचित् चलन् कंटकशर्करांघ्रिः नगारुरुक्षुः विमनाः इव आस्ते पदे पदे अभ्यंतरवह्निना अर्दितः कौटुंबिकः वै जनाय क्रुध्यति ॥ ८ ॥
श्रीधरस्वामिविरचिता भावार्थदीपिका त्रयोदशेऽविरक्ताय वृथा तत्त्वनिरूपणम् । इति वैराग्यदायय भवाटव्युपवर्ण्यते ।। १ अध्वनः पारमित्युक्तं तमेवाध्वानं प्रसिद्धमार्गरूपकेण वैराग्याय प्रपञ्चयति । दुरत्यये दुस्तरेऽध्वनि प्रवृत्तिमार्गे रजस्तमः- सत्त्वैर्विभक्तानि कर्माणि कार्यतया पश्यतीति तथा स एष प्रसिद्धः । सार्थो जीवसमूहोऽर्थपरः सुखार्थः सन् । यथा वणिक् १. प्राचीने पाठे ‘उलूक’ शब्दो नास्ति । २. प्रा० पा० निरन्तरम् । प्रा० पा० नगानारुरुक्षुर्विमना | म. १३ श्लो. १] ॥ अनेकन्या क्या समलङ्कृतम् २१३ सार्थोऽथर्जनाय गच्छन्नटवीं याति तद्वत् ॥ १ ॥ अस्माध्यायस्य व्याख्यानरूपः उत्तराध्यायोऽस्ति तथापि सुखप्रतिपत्तये किंचित्किंचिद् व्याख्यायते । यस्यां भवादव्यामिमे इन्द्रियनामानः षड् दस्यवचीराः । कुत्सितो नायकः सारथिर्बुद्धिर्यस्य तं सार्थ विलुपति तस्य धर्म्यं धनमुपभोगेन मुष्णंतीत्यर्थः । गोमायवः शृगालतुल्या दारापत्यादयस्त्वं मे भर्ता पितेत्येवं प्रविश्य प्रमतं सार्थिकं सार्थे स्थितं हरन्ति इतस्तत आकर्षति । उरणं मेषम् ॥ २॥ कबीरधो लतास्तृणानि च गुल्मान उतादिजात्यनि प्रभूतैरेतैर्गहरे दुष्प्रवेशे क्षेत्रे कठोरैस्तीवेदेशैर्मक्षिकाविशेषैर्मशकैश्च यथा कश्चिदुपदुतो भवत्येवं कामकर्मादिभिर्गहरे गृहाश्रमे वर्तमानो दुर्जनैरुपद्रुतो भवतीत्यर्थः । गन्धर्वपुरवदषटमनिमेव देहादिकं प्रकर्षेण सत्यमेवेदमिति पश्यति । कचित्कचित्कापि काप्या- शुरयोऽतिवेगो य उल्मुकाकारो मेहः पिशाचस्तत्तुल्यं सुवर्णमुपादेयत्वेन प्रपश्यतीत्यर्थः ॥ ३ ॥ * निवासादिष्वात्मा स्वभावो यस्याः सा बुद्धिर्यस्य स ततस्ततो धावतीत्युभयत्र तावानेवार्थः । वात्या चक्रवातस्तस्यामुत्थित: पांसुस्तेन धूम्रा दिशो रजस्वले रजोग्याप्ते अक्षिणी यस्य स यथा न जानाति तथा वाल्येव भ्रमयन्ती या श्री तस्यामुद्रतै रागादिभिरप्रकाशमाना दिग्देवताः कर्मसाक्षिभूतान जानातीत्यर्थः ॥ ४ ॥ * * अदृश्यानां झिल्लीनां भृंगारिकासंज्ञानां कीटविशेषाणां स्वनैः कर्णयोः शूलो व्यथा यस्य । उलूका धूकास्तेषां वाग्भिर्व्यथितोऽतरात्मा मनो यस्य । अत्र च परोक्षमप्रियवक्तारो झिल्लीतुल्याः प्रत्यक्षमप्रियवक्तारो धूकतुल्याः येषां छायापि पापहेतुस्ते अपुण्यवृक्षास्तत्तुल्यानधार्मिकान्सेवते । मरीचितोयानिति निष्फलत्वेन विशातामपि विषयान् ।। ५ ।। वितीयासु सरित्सु पतितस्य गात्रभंगात्सद्यो दुःखं भवति न चोदकलामस्तद्वदिह व परत्र दाम्पाखंडानभियाति । आलपते दायादादिभ्योऽनादि वांछति । उभयत्रापि स एवार्थः । दानं दावाग्नितुल्यं दुःखदं गृहं प्राप्य शोकाग्निना तप्तो निर्विद्यते विषीदति । तत्र च यक्षराक्षसतुल्यै राजभिर्हतमसुवत्प्रेष्ठं धनं यस्य स निर्विद्यते ॥ अन्यैव शूरैर्हतं स्वं वित्तं यस्य । निर्विण्णं विषण्णं चेतो यस्य । कश्मलं मूर्छामू । ॥ गन्धर्वपुरमिव मनोरथोपगतमिद पुत्रादिसमाजं प्रविष्टः सन् ॥ * ॥ कण्टकादिनिधिरिव विघ्नैरभिभूतः सन्नगतुल्यं महत्कर्मारोद्धुं कर्तुमिच्छुर्वि अभ्यन्तरेण बहिना जाठरेण ॥ ८॥ इव आस्ते । पदे पदे क्षणे क्षणे क कोड forfessing भीवंशीधरकृतो भावार्थदीपिकाप्रकाशः गृह इवांतःकरणेsपि प्रविश्येत्यर्थः ॥ २ ॥ वनवैसे इत्यर्थ ॥ कही अविरक्ताय अनिर्विण्णाय । ‘अटव्यरण्यं विपिनम्’ इत्यमरः । सार्थो वणिक्समूहें स्यात्’ इति मेदिन्युक्तेः प्रसिद्ध साथ वणिक्समूहों यथा तथा एष साथपीति योज्यम् ॥ १ ॥ 8 ॥ इत्यर्थ इति । भगवत्सेवार्थ विनियुक्तमपि धनं स्वस्वविषयभोगार्थं हरन्तीति भावः । बहुमायगोमायुर्मृगधूर्त्तकाः” इति कोक ईहामृगो वृकः’ इति मेोरभोरणोर्णायुर्मेष- वृष्णय एडकः’ इति चामरा । गोमायव इति लुप्तोपमा । सार्थे स्थितमन्नवस्त्रादिसंपुटं प्रमत्तं परमार्थदृष्टिविमुखम् । आविश्व तस्य इति । पिशाचवन्मृत्युहेतुभूतमपि स्वर्णमुपादेयमिदमिति पश्यतीति भावः ॥ ३ ॥ * उभयत्र संसारपक्षे वनपक्षे च तुल्य एवार्थः । दिशन्ति स्वाभिमतं प्रयच्छतीति दिशो देवाः । इत्यर्थ इति । जीवकृतपुण्यपापकर्मसाक्षिभूता आदित्यादिदेवता अपि न गणयति । कामधित्य दिग्देवतादिज्ञानं सर्वमेव नश्यतीति भावः ॥ ४ ॥ “शिली भृङ्गारिकायां स्यात्’ इत्यभिधानात् । येषां छायापीति “दिवा विभीतकच्छाया रात्रौ चलदलस्म ॥ व। दिवा रात्री कपित्थस्य हन्ति पुण्यं पुराकृतम् ॥।” इत्युक्तः ॥ ५॥ ‘अन्धोत्रम्’ इत्यमरः । निर्विद्यते चि मां धनरहित्तमिति खिनो भवतीत्यर्थः । “हिरण्यं हि मनुष्यस्य प्राणा होते बहिश्वराः” इति कौमेरसव एव धनमिति था ।। ६ मनोरथेनैव पितृपुत्रादिसमाज संपाद्य तत्र मानोरथिर्क सुखमनुभवतीत्यर्थः ॥ ७ ॥ * * महत्कर्म वैदिकमिष्टा- पूर्णादि कन्यापुत्रोद्वाहादियशो वा विमना इव सहायकाभावात्कथमहमेतत्यारयिष्यामीति चिंतयन्नास्ते ॥ ८-९ ॥ S afghaniahubfile jacering श्रीमद्वीरराघवव्याख्या FER JIBBESIDE JEPIRO FIE FEINIS First एवं तत्त्वं निरूपितमध्यविरक्तस्य न प्रतिष्ठितं भवतीति वैराग्योदयाय संसाराध्वानं लोकप्रसिद्धदुर्गाभवत्वेन संसारमटवी- त्वेन च रूपयति दुरत्यय इति त्रयोदशेनाध्यायेन ब्राह्मणः । दुरत्यये दुरतिक्रमेऽध्वनि कर्ममार्गेऽजया प्रकृत्यां निवेशितः रजस्तमः सत्त्वैर्विभक्तानि कर्माणि कार्यतया पश्यतीति तथा शुभाशुभमिश्श्ररूपकर्मणि दृष्टिमानित्यर्थः । स एषः साथ जीवसमूहः अर्थपरः धर्मादिपुरुषार्थं त्र्यासक्तः भवादवीं याति कर्मफलं तुः प्राप्नोतीत्यर्थः। शर्म सुखं न विन्दति न लभते यथा वणिक अर्थार्जनाथ गच्छटवीं याति सुखं च न विन्दति तद्वदित्यर्थः ॥ १ ॥ * यद्यप्यस्माध्यायस्य व्याख्यानरूप उत्तराध्यायः प्रवृत्तस्तथापि सुखप्रतिपत्तये किश्चिदत्रापि व्याख्यायते तदेवाह यस्यामिति । हे नरदेव ! यस्यां भवाटव्यां षडिन्द्रियनामानः दस्यवो दुष्टजन्तवः वीराः श्रुत्सितः सम्मार्गानभीष्टः नायकः बुद्धिरुषः नेता यस्य तं साथ जीवसमूहं विलुम्पन्ति जीवस्य भगवदाराधनरूपं धनं लुम्पन्ती- वर्थः । यत्र भवादयां गोमायवः शृगालतुझ्या दारापत्यादयः प्रमत्तमनवहितसार्थकं त्वं मे भर्तासि पितासीत्येवं प्रविश्य हरन्ति यथोरणं मेष वृषा हरन्ति तद्वत् “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते इत्युक्तरीत्या आत्मस्वरूपविस्मारकामिमानजमनद्वारा आत्मानमपहरन्तीत्यर्थः ।। २ 11 88 वीरुधोलता गुल्मानि च तै गहरेऽदभ्रकर्मबीजवत्फलप्ररोह क्षेत्रभूते गृहाश्रम इत्यर्थः । २६४ श्रीमद्भागवतम् [ स्कं. ५ अ. १३ श्लो. १-६ कठोरैस्तीत्रै दशैर्मक्षिका विशेषैर्मशकैश्च यथा कश्चिद्धने उपद्रुतो भवति तथा दंशादिसदृशैः राजभटादिभिरुपद्रुतो भवतीत्यर्थः । कचिद्रन्ध- बेपुर वंद स्थिरं मनुष्यशरीरं स्थिरवत् पश्यति गन्धर्वाणां हि पुरं न विद्यते तद्बद्देहस्यापि नित्यत्वमविद्यमानमपि पश्यतीत्यर्थः । कापि कापि आशुरयः अतिवेगो य उल्मुकाकारो ग्रहः तत्तुल्यं सुवर्णमुपादेयत्वेन प्रपश्यतीत्यर्थः । असुहरोल्मुकग्रहमित्यपि पाठो दृश्यते तत्र प्राणहरोल्मुकपिशाचतुल्यं परकीयं सुवर्णमुपादेयत्वेन प्रपश्यतीत्यर्थः । यथा पिशाचगतोल्काब्वलनं प्रकाशार्थं जिघृक्षन् यथा पिशाचहतो भवति एवं दुर्जनसम्बन्धि सुवर्णस्य स्वोपकारकत्वबुद्धद्या विद्युक्षुः दुर्जनैरुपद्रुतो भवतीत्यर्थः ॥ ३ ॥ * * पिपासतोयद्र- विणात्मबुद्धिः पिपासाविषयं तोयं पिपासतोयं पिपासतोयं मृगतृष्णिका । पिपासाशब्दस्य ‘डयापोः संज्ञाच्छन्दसो रित्यार्षो हख:, पिपासाविषयतोय तुल्यं द्रविणं वित्तं तस्मिन्नात्मबुद्धिः स्वबुद्धिर्यस्य तथाभूतः । केचिन्निवासतोयं द्रविणात्मबुद्धिरिति पाठस्तत्र निवासा दिष्वात्मभावो यस्याः सा बुद्धिर्यस्येत्यर्थः । अटव्यामितस्ततो धावति भ्रमति भो राजन् ! वात्या चक्रवातः तत्तुल्या नारीवात्या वात्यया प्रमदया उत्थितो रागादिदोषः पांसुस्तेन धूम्रा आविला दिशः धर्ममर्यादाः रजस्वलाक्षो रजोन्याते अक्षिणी यस्य सः रजो गुणोपहतज्ञानः सन् न जानाति यथा चक्रवातोत्थितधूलिव्याप्तनेत्रो प्राच्यादिदिग्विभागान्न जानाति तद्वद्धर्ममार्गान् स न जानाती- यर्थः ॥ ४ ॥ * * कचिददृश्यानां झिल्लीनां भृङ्गारकासंज्ञानां कीटविशेषाणां खनेन ध्वनिना कर्णयोः शूलं व्यथा यस्य सः परोक्षमप्रियभाषिरिपुवाक्यश्रवणजनितकर्णव्यथायुक्तो भवति यथादव्यां प्रविष्टोऽदृश्य झिल्लीस्वनव्यथितकर्ण इत्यर्थः । तथा उल्लूकानां प्रत्यक्षमप्रियभाषिणां घृकसदृशानां राजभटादीनां वागभिर्व्यथितः अन्तरात्मा मनो यस्य तथाभूतः कचिद्भवति यथारण्ये उलूक वाग्भिर्व्यथित हृदयो भीतहृदयो भवति इत्यर्थः । कचित् क्षुधाऽशनया अर्दितः पीडितः अपुण्यवृक्षान् विषवृक्षसदृशान् अनुपकार- कर्माप्रतिग्राह्यधनान् श्रयते आश्रयति । कचिन्मरीचितोयानि मरीचिका जलवत्सुखाभासान् विषयाननुधावति भोग्यबुद्धयाऽन्वेषयति अभोग्यं हेयं विषयमनुधावतीत्यर्थः ।। ५ ।। कचिद्वितोयाः जलरहिताः सरितः नदीरभियाति यथा वितोयासु सरित्सु पतितस्य गात्रभङ्गात्सद्या दुःखं भवति न चोदकलाभः तद्वदिह परत्र च दुःखदानिष्फलानू प आश्रयते । कचिनिरन्नः परस्परं दायादेभ्योऽन्नादिकं लषते वाच्छति पुत्रः पितृधनमिच्छति पुत्रार्थमिच्छति पिता निरन्नकतयेत्यर्थः । कचिदावं दावाग्नितुल्य गृहमभिमतविषयशून्यं दुःखदं प्राप्तः प्रविष्टः अग्नितप्तः शोकातुरो भवति क्वचित् यभैर्यक्षवत्प्रतिहर्तुमशक्यैः राजभिर्हृतासुरपहत- प्राणतुल्यधनः निर्विद्यते खिद्यते ॥ ६ ॥ तथा शूरैः राजभटादिभिर्हतं स्वं धनं यस्य सः क्वचित् दुःखितचित्तो भवति हे नृप । कचित् शोचन् विमुह्यंश्च कश्मलं मूर्च्छा याति कचिद्गन्धर्वपुरमिवास्थिरं बन्धुवर्गं प्रविष्टः निर्वृतवत्सुखितवत् मुहूर्तमात्रं मोदते ॥ ७ ॥ * * कचिन्नगारुरुक्षुः पर्वतवद्दुरारोहयज्ञादिकलापं विधित्सुः कण्टकैः शर्कराभिः सूक्ष्मपाषाणैश्च दुःखित- चरणो यथा पर्वतमारोढुं न शक्तस्तथा कण्टकादितुल्यैर्विघ्नैरभिभूतः महत्कर्मारोढुं कर्तुमशक्तः सन् विमना इवास्तेऽभास्वरत्वेना- वतिष्ठते । कचित्र क्षणे क्षणेऽभ्यन्तरवह्निना जाठराग्निनाऽर्दितः पीडितः जनाय कलत्रादीन् प्रति क्रुध्यति यतोऽयं कौटुम्बिकः ॥ ८ ॥ श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली श्रीमद्विजयध्वजतीर्थकृता । अस्मिन्नध्याये संसारविरक्तस्य हरौ सुदृढा भक्तिः स्यात्तया तदपरोक्षज्ञानं जायते तेन स्वयोग्या मुक्तिः स्यादित्यतः संसारस्य हेयत्वज्ञानेन तत्र विरक्तिस्तदर्थं तत्स्वरूपं निरूपयति दुरत्यय इत्यादिना । दुरत्यये हरिकटाक्षमन्तरेणात्येतुमशक्ये अजया प्रकृत्या रजस्तमःसत्त्वगुणैः विभक्तानि यानि कर्माणि तानि पश्यति ममाहमित्यभिमन्यते इति रजस्तमःसत्त्वविभक्तकर्मदृक, सार्थः परिषज्जनः वणिक सार्थवदर्थपरः स्वप्रयोजनाभिनिविष्टबुद्धिः भवाटवीं ब्रह्मादिस्तम्बपर्यन्तं संसारवनं याति तत्र शर्म स्वाभिप्रेतसुखं न लभत इत्यन्वयः ॥ १ ॥ * * स्वार्थालाभे निमित्तमाह यस्यामिति । षड् दस्यवः श्रोत्रादिज्ञानेन्द्रियाणि मनश्चेति स्वार्थ पुण्यलक्षणं विलुम्पन्ति विषयोपभोगद्वारेणापहरन्ति कुत्सितः कामादिर्नायको यस्मिन्स तथा अन्तः शत्रूनुक्त्वा बाह्यानाह गोमायव इति । गोमायव इति लुप्तोपमा शृगालसदृशाः पुत्रकलत्रादयः सार्थकं संपद्युक्तं कलभाषणादिना मन आविश्य उरणमजाम् ॥ २ ॥ * * वीरुधो महत्यो गुल्मान्यणूनि अङ्कुरादीनि समृद्ववीरुत्तृणगुल्मवदपरिपक्ककामबीजः श्रौतस्मार्तकर्मभिर्गह्वरे गृहस्थाश्रमे वर्त्तमानः कठोरमशकदंशकल्पैः राजभटतस्करादिभिरुपद्रुतो बाधितः अपहृतहिरण्यशाल्यादिकः क्वचित्संसारस्थाने गन्धर्वैः कर्मभिः निर्मितपुरं मनुष्याद्यन्यतमं शरीरं दृष्ट्वाऽऽविश्य च कर्म भुङ्क्ते इत्यर्थः । अस्थिरत्वात्प्रसिद्धगन्धर्व पुरसाम्यमसुहरः प्राणहर उल्मुकमहः उल्मुक- पिशाचः तत्सदृशशब्दादिविषयं पश्यतीति शेषः ॥ ३ ॥ निवासतोऽन्यत्र यत् यस्मिन्द्रविणे आत्मबुद्धिर्यस्य स तथा ततस्ततस्तत्र तत्र धावति धावनमेवावशिष्यते न तु कान्चित्कार्यसिद्धिरित्यर्थः । अत्र कचिच्छब्दा अनवस्थानवाचका इति । वात्योत्थि- तपांसुधूम्राः मण्डलवायुसदृशस्त्रीनिमित्तरागादिलक्षणपांसुभिश्छन्नाः दिशन्ति स्वाभिमतं प्रयच्छन्तीति दिशः सूर्यादिदेवताः रजस्वलाक्ष अविवेकविज्ञानः ॥ ४ ॥ ४ अतिगहनवनवासिन्यो झिल्लयः कीटविशेषाः तेषां शब्दा एव दृश्यन्ते न स्वरूपं दृश्यते इत्य- हृदयानां झिल्लीनां खनवदुःसहराजचोरादिनिष्ठुरशब्देः पूरितकर्णमूलः उलूकवाग्भिः दुर्जनतर्जनैः व्यथितान्तरात्मा परिखिन्नहृदयः कदाचित्क्षुधार्दितः विषयतृष्णया लिष्टः अपुण्यवृक्षान् कारस्करादिवृक्षवद् दृष्टादृष्टफलशून्यपाखण्डाश्रमान्मरीचितोयानि मरीच्युदक- सदृशशब्दादीन् ॥ ५ ॥ * * वितोया अधरामृतशून्याः सरितः पुंश्चलीः परस्परं खादयते स्वीकरोति पितृधनं पुत्रो लभते पुत्रधनं पिता च श्ववत् भ्रात्रादिजनोऽन्योऽन्यं शब्दं कुरुते धनविषय इति वा, निरन्नोऽशनवसनादिपरिकरशून्यः दुनोतीति दाव स्क. ५अ. ५ अ. १३ लो. १-८]] अनेकव्याख्यासमलङ्कृतम् * २६५ प्रयोजकशून्यं वनसमं गृहं शोकाग्निना संतप्तः यक्षग्रहवत्प्रबलराजामात्यादिभिर्हतासुः अपहृतबहिः प्राणाख्यहिरण्यः । तदुक्तं कौमें “हिरण्यं हि मनुष्यस्य प्राणा होते बहिश्वराः” इति ॥ ६ ॥ * क च संसारे परखापहारपदुभिर्ग्रामाधिपतिभिः हृतस्वः अपहृतद्रव्यः तेन विरक्तबुद्धिः देशत्यागकृतमनाः शोकमोहाभ्यां कश्मलं कष्टावस्थां याति कापि कर्मविशेषात् गन्धर्वपुरं स्वर्गादि- लक्षणलोकमाप्तो यावत्प्रारब्धसमाप्ति सुखमनुभवति पत्तनभयान्निर्वृतवदित्युक्तमा कस्मिकपितृपितामहादिसंयोगं वा ॥ ७ ॥ * * कण्टकशर्कराङ्घ्रिः कण्टकादिलग्नपाद इवाशक्यगन्तव्यकर्ममार्गः कण्टकादियुक्तमार्गगतिशील इव दुःसहकर्ममार्गो वा अङ्घ्रिरत्र गत्यर्थः । कचिन्नवत् दुर्गं निवृत्तिमार्गमा रुरुक्षुरशक्तः सन् नष्टमना इव तिष्ठति अत्युच्छ्रितारोहशक्यपर्वत सदृशवेदविहितानेककर्म- संपादनेच्छुस्तदशक्त इव वा अभ्यन्तर बहिना जाठराग्निना ॥ ८ । श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः कस्मेिति तानुपहरकान् यदाभियुक्ते इति शेषः तेषामाभिमुख्येन युद्धोधनं करोतीत्यर्थः ॥ १-१३ ॥ श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी त्रयोदशे भवाटव्याः पारं प्रापयितुं नृपम् । तां वर्णयित्वा वैराग्यहयमारोहयन्मुनिः ॥ 1 "” अध्वनः पारमित्युक्तं स एवाध्वा अध्वनीनश्च कीदृश इत्यपेक्षायामाह । दुरत्यये दुस्तरे अध्वनि प्रवृत्तिमार्गे अजया अविद्यया रजस्तमः सत्त्वैर्विभक्तान्येव कर्माणि कार्य्यतया पश्यतीति स तथा एषः प्रसिद्धः सार्थः “सार्थो वणिक समूहे स्यात्” इति मेदिनी स इव अर्थपर एष जीवलोक इत्यर्थः । एतदादीनां व्याख्या उत्तराध्याय एवास्ति तदपि सुखप्रतिपत्तये किश्चिद्वयाख्या- यते ॥ १ ॥ * * इमे इन्द्रियनामानः कुत्सितो नायकः सारथिर्बुद्धिर्यस्य तं विलुम्पन्ति भगवत्सेवार्थविनियुक्तमपि धनं स्वस्वविषयभोगार्थं मुष्णन्तीत्यर्थः । गोमायवः शृगालतुल्या दारापत्यादयः, त्वं मे भर्ता पितेत्येवं सार्थिकं सार्थभवमन्नवस्त्रादिसम्पुटं प्रमत्तं परमार्थदृष्टिविमुखमाविश्य तस्य गृह इवान्तःकरणेऽपि प्रविश्येत्यर्थः । उरणं मेषम् ॥ २ ॥ प्रभूतवीरुदादिसदृशैः क्रीमकर्मादिभिर्गह्वरे गृहाश्रमे दंशमशक तुल्यैर्दुर्जनैः गन्धर्वपुरवदघटमानं देहगेहादिकं प्रकर्षेण सत्यं स्थिरमेवेदमिति पश्यति । कापि कापि आशुरयः अतिवेगो य उल्मुकाकारो ग्रहः पिशाचः तं तत्तुल्यं सुवर्णमुपादेयत्वेन पश्यति ॥ ३ ॥ * निवासादिषु आत्मनो ममैवेदमिति बुद्धिर्यस्य तथाभूतः सन् ततस्ततस्तत्र तत्र धावतीत्युभयत्र पक्षे तावानेवार्थः । वात्या चक्रवातरूपा या स्त्री तदुत्थितैः पांसुभिः कन्दर्प वेगैर्धूम्रा आच्छन्नीकृता दिशः दिग्देवताः कर्म्मसाक्षिभूता न जानाति रजस्वलाक्षः कामांधः ॥ ४ ॥ * * अदृश्यानां झिल्लीनां भृङ्गारिकाख्यकीटविशेषाणामिव परोक्षमप्रियव तृणां स्वनैः कटुभाषणैः कर्णयोः शूलं व्यथा यस्य सः, उल्लूकानामिव प्रत्यक्षमप्रियवक्तॄणां वाग्भिः कटुभाषितैर्व्यथितमनाः येषां छायापि पापहेतुस्तान् अपुण्य- वृक्षानिव अधार्मिकलोकान् भिक्षार्थ सेवते मरीचितोयतुल्यान् अदातृलोकानपि कचिद्भिक्षार्थं गच्छति ॥ ५ ॥ * * वितोयासु सरित्सु पतितस्य गात्रभङ्गात् सद्यो दुःखं भवति न चोदकलाभस्तदिह च परत्र च दुःखदान् पाखण्डानभियाति आलषते अभिलषति निरन्ध इति निरन्नश्चेति पाठद्वयमुभयत्र पक्षे साम्यं दावं दावाग्मितुल्यं दुःखदं गृहं प्राप्य शोकाग्निना तप्तो निर्विद्यते विषीदति । यक्षराक्षसतुल्यैः राजभिह तमसुवत् प्रेष्ठं धनं यस्य सः धिड्यां धनरहितमिति निर्विद्यते । कदाचित् अन्यैः शूरैः संग्रामे विजयिभिश्व हृतधनः ॥ ६ ॥ * * गन्धर्वपुरमिव मनोरथोपलब्धं पुत्रकलत्रधनैश्वर्यं प्रविष्टः प्राप्नुवन् ॥७॥ * नगान् रुरुक्षुः नगं महापर्वतमिव कन्यापुत्रोद्वाहादियशः आरुरुक्षुः प्राप्तुमिच्छुर्विमनाः कथमेतत् पारं प्राप्स्यामीति भावयन्नास्ते । यतः पादुकाद्यभावात् कण्टकादिविद्धाङ्घ्रिः पक्षे सहायाद्यभावात् विघ्नाभिभूतः अभ्यन्तरेण वह्निना जाठरेण ॥ ८ ॥ DE TETRES श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः । * अध्वनोऽतिपार हरि यातीत्युक्तं तत्र हरिस्तु प्रागेव निरूपितोऽथाध्वानं प्रसिद्धदुर्गमार्गरूपकेण वैराग्याय प्रपञ्चयति दुरत्यये इति त्रयोदशेनाध्यायेन । दुरतिक्रमे अध्वनि प्रवृत्तिमार्गे अजया जीवमोहिन्या प्रकृत्या निवेशितः रजआदिभिर्विभक्तानि कर्माणि कार्यतया पश्यतीति तथा स एष प्रसिद्धो जीवसमूहः अर्थपरः त्रिवर्गासक्तः भवाटवीं याति शर्म सुखं च न विन्दति न लभते यथा वणिक्साऽर्थोऽर्थार्जनाय गच्छन् अटवीं याति सुखं च न विन्दति तद्वत् । अयमध्याय उत्तराध्यायेन व्याख्यातस्तथापि सुखबोधाय किचिद्रचाख्यायते ॥ २ ॥ २ । ** इमे पश्च ज्ञानेन्द्रियाणि मनश्च षट् कुत्सितो नायकः बुद्धिर्यस्य तम् साथ विलुम्पन्ति यस्य परमपुरुषारा धनलक्षणधर्मरूपं धनमुपभोगेन मुष्णन्ति गोमायवः तत्तुल्याः कौटुम्बिकाः सार्थिकं साथ स्थित हरन्ति धर्ममार्गादपकर्षन्ति वृका उरण मेषम् यथा आकर्षन्ति || २ || वीरुधो लताश्च तृणानि च गुल्मानि लतादि- जालानि च प्रभूतैरेतैर्गहरे दुष्प्रवेशे कठोरवंशमशकैश्च यथा कश्चिदुमतो भवति तथा प्रदग्धबीजक्षेत्रवत्कर्मक्षेत्रे गृहाश्रमे ૐ૪ २६६ श्रीमद्भागवतम् [ स्कं. ५. १३ श्लो १८ वर्तमानः दंशमशकसदृशैः मनुजापसदेरुपदुतोऽपि कचित्तु गन्धर्व पुरवदल्पकालस्थायि देहादिकं नित्यमिव प्रपश्यति, कचिच आशुरयः अतिवेगः उल्मुकग्रहः उल्मुकसदृशः पिशाचः तत्सदृशं सुवर्णमुपादेयतया प्रपश्यति ॥ ३ ॥ - निवासादिष्वात्मा स्वभावो यस्याः सा बुद्धिर्यस्य सः वात्यायां चक्रवाते उत्थितेन पांशुना धूम्रा दिशः रजस्वले रजसाः व्यिाप्ते अक्षिणी यस्य सन जानाति यथा तथा वात्यातुल्यायां प्रमदायामुद्रतेन रागादिना प्रकाशमाना दिग्देवताः कर्मसाक्षिभूताः दिग्जाता देवता न जानाति रजोगुणावृतदृष्टिः ॥ ४ ॥ 88 अहश्यझिलीनिभाः परोक्षाप्रियवादिनस्तत्खनेन कर्णयोः शूलं पीडा यस्य उलूकनिभाः प्रत्यक्षाप्रियभावयिताः तद्वाग्भिर्व्यथितोऽन्तरात्मा यस्य अपुण्यवृक्षनिभाः अधार्मिकास्तान सेवते मरीचितोयव निष्फलतयानगतानपि विषयाभासान् अभिधावत्यन्वेषयति ॥ ५ ॥ * * वितोयसरिद्वद् वृथा क्लेशदान पाषण्डानभियाति प्रयाति निरन्धो निरन्नः परस्परमन्योऽन्यतः अन्नादिकमालषते वाञ्छति दावं वनानिलनिभं गृहमासाद्याधिष्ठाय अभितप्तः अभिवदुःसहशोकसंतप्तः निर्विद्यते विषीदति यक्षैर्यक्षवदुर्निवार्यैः राजभिह तमसुवदुस्त्यजं धनं यस्य सः निर्विद्यते ॥ ६ ॥ ॐ ॐ अन्यैश्च शूरैः राजभटादिभिः गन्धर्वपुरवदस्थिरं पितृपुत्रादिसमाजम् ॥ ७ * किण्टकादितुल्यैर्विघ्नैः शिथिलक्रियः सन् नलवद् दुर्लभ्यं महाकार्यं विधित्सुः पदे पदे प्रतिक्षणम् ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ॥ उक्तवैराग्यदाय पारोक्ष्येण त्रयोदशे । भवारण्यतया त्वत्र प्राणिवृत्तं निरूप्यते. ते ॥ १५ ॥ * ॥ अध्वनः पारं यातीत्युक्तं तमेवाध्वानं प्रसिद्धाध्वरूपकेण वैराग्यदायाय प्रपञ्चयति– दुरत्यये इति । एष प्रसिद्धः साथ जीवसमूहः अजया भगवन्मायया दुरत्यये दुस्तरेऽध्वनि प्रवृत्तिमार्गे निवेशितस्तत्र : भ्रमन् देवतिर्यगादियोनिषु गच्छन् भवाटवीं संसारवनमेव याति । तत्र च शर्म सुखं न विन्दतीत्यन्वयः । अध्वनिवेशने हेतुमाह-रज इति, रजस्तमस्सत्त्वैर्विभक्तेषु कर्मस्वेव दृक् दृष्टिर्यस्य स तथा । तत्र दृक्त्वे हेतुमाह अर्थपर इति, यतो विषयसुखाभिलाषी नं भगवद्धजनपरोऽतस्तत्साधनं कर्मेव पश्यतीत्यर्थः । यथा वणिक्सार्थोऽर्थार्जनाय मार्गे गच्छन्नटवीं याति तत्र च भ्रमन्कन सुखं लभते किन्तु दुःखमेव तथेत्यर्थः ॥ १ ॥
- यद्यप्यस्याध्यायपरोक्ष्यस्य व्याख्यानमुत्तराध्याये श्रीशुक एवं करिष्यति तथापि सुखबोधाय पक्षद्वयमपि व्याख्यायते यस्यामिति । यस्यां भवादव्यामिमे षद् दस्यवचौराः कुत्सितो नायको, रक्षको यस्य तं साथ बलाद्विलुम्पन्ति । हे नरदेवेति सम्बोधनेन नरदेवत्वास्त्वयैतत्प्रतीकारायावश्यं प्रयतितव्यमिति सूचयति । यत्र यस्यां । प्रमत्तमनवहितं साथ प्रविश्य सार्थिकं सार्धे स्थितं वस्तु गोमायवः शृगालाः हरन्ति इतस्तत आकर्षन्ति । तत्र दृष्टान्तमाह उरण मेषं वृकाः यथा कर्षन्ति तथेत्यर्थः । पक्षान्तरे यस्यां भवादव्यामि इन्द्रियनामानः षट् दस्यवो बलात् सार्थ विलुम्पन्ति सार्थस्य धर्मकारणं धनमुपभोगेन मुष्धान्तीत्यन्वयः । तत्र हेतुमाह कुनायकमिति कुत्सितो नायको बुद्धिलक्षणो यस्य तमू हे नरदेवेति सम्बोधनेनैते शत्रवो नरदेवत्वेन जेतुं शक्याः किन्तु भगवदेकशरणतयैवेति सूचयति । यत्र च प्रमत्तं कर्त्तव्यभगवद्भजनानुसन्धानरहितं कुटुम्बिनं प्रविश्य गोमायु तुल्याः दारापुत्रादयः पुरुषस्य धनादिकं हरन्ति । यथा रक्ष्यमाणमप्युरणं वृका हरन्ति || २ || 8 वीरुधो लता, तृणानि च, गुल्मानि लतादिजालानि च, प्रभूतैर्वीरुदादिभिर्गह्वरे दुःप्रवेशे थाने कठोरैः क्रूरै दशैर्मक्षिकाविशेषैर्मशकैश्चोपद्रुतो भवति कचिदित्य- न्वयः । कचित्तु गन्धर्वपुरं प्रपश्यति कचिचाशुरयो बेगो यस्य स चासावुल्मुकाकारग्रहञ्च तमभिबुद्धयाऽऽदित्सतीति शेषः । पक्षान्तरे तु प्रभूततृणादिभिर्गह्वरस्थानवत्कामकर्मादिभिर्गहरे महाश्रमे दंशादिभिरिव दुर्जनैः कचिदुपद्रुतो भवति । प्रारब्धं विना गन्धर्क पुरवद् दुर्लभं क्षणान्तरे दुस्स्थं च दारापत्यादिविषयजातं कचिन्नित्यतया प्रपश्यति स्वीकर्तुमुपधावति च । कचित् कदाचिचोल्मुक- पिशाचवदप्राप्तौ मोहकरं प्राप्तौ च कलहाधर्मादिभिर्मरणनरकादिप्रापकं सुवर्णमादित्सतीत्यर्थः ॥ ३ ॥ भो राजन् निवासो वासस्थानं तोयं जलं द्रविणं धनं आत्मा देहः- उपलक्षणमन्येषामपि दारपुत्राद्यभिलषितवस्तूनां - तेषु बुद्धिर्यस्य सोऽटव्यां वने ततस्ततस्तत्र तत्र तत्तत्प्रयोजनसिद्धये धावतीत्युभयत्रायमेवार्थः । कचिच्च वात्या चक्रवातस्तस्यामुत्थितः पांशुस्तेन धूम्रा दिशो न जानाति । यतो रजस्वले रजोव्याप्ते अक्षिणी यस्य सः । पक्षान्तरे तु वात्येव भ्रामयन्ती या स्त्री तस्यामुत्थितै रजस्सदृशैः सः॥ दृष्टयाच्छादकै रजोगुणकार्ये रागादिभिः अप्रकाशमानाः कर्मसाक्षिभूता दिग्देवता न जानाति यतो रजस्वलाक्षः रजोगुण- पिहितदृष्टिः ॥ ४ ॥ * * अदृश्यानां झिल्लीनां भृङ्गारिकासब्ज्ञानां कीटविशेषाणां स्वनैः कर्णयोः शूलो व्यथा यस्य स उलूका घूकास्तेषां वाग्भिर्व्यथितोऽन्तरात्मा हृदयं यस्य सः, क्षुधाऽर्दितः पीडितः, अतोऽपुण्यान् पुण्यनाशकान् पापजनकान् वृक्षान् कचिच्छ्रयते । कचित्पिपासार्दितो मरीचितोयान्यभिधावति । पक्षान्तरे तु अत्र परोक्षमप्रियवक्तारो दुर्जना झिल्लीतुल्याः प्रत्यक्षमप्रियवक्तारः प्रबला राजभृत्यादयो धूकतुल्याः, तेषां वाग्भिर्हृदये पीडा प्रसिद्धैव । अपुण्यवृक्षतुल्या अधार्मिका धनदुर्म दान्धास्वानाशया श्रयते सेवते । तत्र हेतुमाह- मरीचितोयवदकिश्चित्करत्वेन ज्ञातानपि विषयानभिधावति । तत्र हेतुः क्षुधार्दित इति, विषयाभिलाषया वशीकृत इत्यर्थः ॥ ५ ॥ * कचित् वितोया जलरहिताः सरितोऽभियाति । निरन्धः अन्नहीनः ** । परस्पर मन्नमालषतेऽभिवांछति । पक्षान्तरे-यथा वितोयासु सरित्सु पतितस्य गात्रभङ्गात्सद्यो दुःखं भवति न चोदकलाभस्तद्वदिह 1 एक. ५.अ. १३. लो. १-८ 1 अनेकव्याख्यासमलङ्कृतम् २६७ परत्र च दुःखदान पाषण्डानभियातीत्यर्थः । परस्परमित्यस्योभयत्रक एवार्थः । केचित् दावं प्रज्वलद्वनमासाद्यामिना तप्तो निर्विद्यते विषीदति । क च कचिच यक्षैर्हता असवः प्राणा यस्य सः, मृतो भवतीति शेषः । पक्षान्तरे तु दाववत्सन्तापजनकं गृहमासाद्य शोकाग्निना सन्तप्तो विषीदतीत्यर्थः । यक्षराक्षसतुल्यै राजभिर्हतमसुवत्प्रेष्ठं धनं यस्य सः, मृततुल्यो मूच्छितो भवती- त्यर्थः ॥ ६ ॥ कच कचिदन्यैरेव शूरैः प्रबलैर्हतं स्वं. वित्तं यस्य सः, अत एव निर्विण्णं विषण्णं चेतो यस्य स शोचन विमुहान सम्भ्रमन् कश्मलं मूच्छ याति । उभयपक्षेऽप्येक श्वार्थः। कचिद्य गन्धर्वपुरं प्रविष्टः सन् वस्तुतः सुखाभावेऽपि निर्वृतवत् सुखिवत मुहूर्त्तमानं प्रमोदते इत्यन्वयः । पक्षान्तरे तु कचिच गन्धर्वपुरवद्वस्तुतः सुखाजनकं भ्रान्त्या सुखजनकवत्प्रतीयमानं आशुतरविनाशिनं पितृपुत्रादिसमाजं प्रविष्टः सन् सर्वदा दुःखप्रतिकारं कुर्वन्नपि मुहूर्त्त सुखिवत् प्रमोदते इत्यन्वयः ॥ ७ ॥ * * कचिन्नगारुरुक्षुः पर्वतसारोदुमिच्छुः सन् चलन पूर्वमेव कष्टकर्करदिभिर्विद्यादिः पदे पदे विमना इवास्ते विषण्णो भवतीत्यर्थः । अभ्यन्तर बहिना जठराग्मिनाऽर्दितः पीडितो बुभुक्षितः सन् जनाय दारापुत्रादिजनेभ्यः क्रुध्यति, यत्तः कौटुम्बिकः तेषु कृतस्वकीय- स्वाभिमानः पक्षान्तरे तु कचित् पर्वतारोहणवद् दुरनुष्ठेय गृहाश्रमोचितशास्त्रचोदितं महत्कर्मानुष्ठातुमिच्छन् मध्ये कण्टकादिभिरिक विघ्नैरभिभूयमानः प्रतिक्षणं विषण्णचेता भवतीत्यर्थः । बुभुक्षितो जनाब क्रुद्धयति । वै इति प्रसिद्धमेव ॥ ८ ॥ कि एक
Sn | bipe sey श्रीभगवत्प्रसादाचार्यविरचिता भक्कमनोरञ्जनी EPF क sheron " अविरक्ताप्रतस्तस्वकथा मिथ्या त्रयोदशे । विरक्तेरतिदायय वण्यतेऽथ भवाटवी ॥ १ ॥ * । * * inings । PERIFE FIFE एवं तत्त्वं निरूपितमपि विरक्त्यभावाद्रहूगणहृदि तन्न प्रतिष्ठां प्राप्तमिति सम्यविरक्त्युदयाय संसाराध्वानं लोकप्रसिद्ध- दुर्गाध्वत्वेन निरूपयति यावदध्यायेन द्विजः दुरत्यय इति । हे राजन, दुरत्यये दुरतिक्रमे दुस्तरे इति यावत् । अध्वनि कर्मात्म- कप्रवृत्तिमार्गे, अजया प्रकृत्या निवेशितः, रजश्च तमश्च सत्त्वं च तैः विभक्तानि कर्माणि कार्यतया पश्यतीति तथाभूतः शुभाशुभ- मिश्ररूपकर्मणि दृष्टिमानित्यर्थः । सोऽनादिकालप्रवृत्तः, एष प्रसिद्धः, साथ जीवसमूहः, अर्थपरः धर्मादिपुरुषार्थत्र्यासक्तत्वा- त्सुखार्थः सन् भवाटवीं ब्रह्मादिस्तम्बपर्यन्तं संसारवनं याति तत्र परिभ्रमन् सन्, शर्म सुखं च न विन्दति । यथा वणिक्- सार्थः, अर्थार्जनाय गच्छन्, अटवीं याति । तत्र सुखं न विन्दति तद्वत् ॥ १ ॥ यद्यपि अस्याध्यायस्य व्याख्यानरूप उत्तराध्यायोऽस्ति तथापि सुखेन पाठकानामर्थप्रतिपत्तयेऽत्रापि किंचित्किचिद्वयाख्यायते तदेवाह यस्यामिति । हे नरदेव, यस्यां भवाटव्यां इमे षट् षट्संख्याकाः, दस्यव इन्द्रियनामानश्चौराः कुत्सितः सन्मार्गानभीष्टः नायको बुद्धिरूपो नेता यस्य तं, साथ जीवसमूह, विलुम्पन्ति । जीवस्य भगवदाराधनरूपं धनं लुम्पन्तीत्यर्थः । यत्र यस्यां भवाटव्यां, गोमायवः शृगालतुल्या दारापत्यादयः । प्रमत्तमनवहितं, सार्थिक, आविश्य त्वं मे भर्तासि पितासि इत्येवं प्रवेशं कृत्वा, उस्णं येषं वृथा, तद्वत् हरन्ति इतस्तत आकर्षन्ति योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते इत्युक्तरीत्यात्मस्वरूप विस्मारकाभिमानजननद्वाराss- त्मानमपहरन्तीत्यर्थः ॥ २॥ प्रभूतेति । वीरुधः प्रतानिन्यश्च मृणानि वासाच गुल्मानि बल्वजादिजालानि च, प्रभूतानि प्रचुराणि यानि वीरुधादीनि तैर्गहरं दुष्प्रवेशं तस्मिन्, क्षेत्रे कठोर वस्तीत्रमक्षिकाविशेषैः, मशकैरल्प दंशविशेषैश्च उपद्रुतः यथा कश्चिद्वने उपद्रुतो भवति, तद्वदेव गृहेऽपि कठोर दंशादिसदृशराजंभटादिभिरुपद्रुतो भवतीत्यर्थः । यद्वा कामकर्मादिगहरगृहा श्रमस्थत्वात्तत्रत्यमशकसदृशखजनैरुपद्रुतो भवतीत्यर्थः । कचित्तु गन्धर्वपुरं प्रपश्यति । गन्धर्वपुरव दस्थिर मनुष्यं शरीरं स्थिरवत्प्रपश्य तीत्यर्थः । गन्धर्वाणां वस्तुतः पुरमेव नास्ति तथापि भलदेशे सूर्यस्योदय वेलायां पश्चिमदिशि साप्तभौमसौधवत्पुरसमानं द्वित्रि- घटिकापर्यन्तं दृश्यते ततो विनश्यति, तद्न्धर्वपुर मिति वदन्ति तद्यथाऽविद्यमानमपि विद्यमानवज्जनाः पश्यन्ति तद्वद्वस्तुतोड़- नित्यमपि शरीरं नित्यवद्विद्यमानतया पश्यतीति भावः । कचित्कचित्कापि कापि च, आशुरयोऽतिवेगो यु । उल्मुकाकारो महस्तं प्रपश्यति । उल्मुकाका र प्रहतुल्यं सुवर्णमुपादेयत्वेन पश्यतीत्यर्थः । असुहोल्मुकमहमिति पाठे, प्राणहरो स्मुकपिशाचतुल्यं परकीय- सुवर्णमुपादेयत्वेन प्रपश्यतीत्यर्थः । यथा पिशाचगतोल्काज्वलनं प्रकाशार्थ जिघृक्षन् पिशाचहतो भवति, एवं दुर्जनसंबन्धि सुवर्ण खोपकारकबुद्धथा जिघृक्षुदुर्जनैरुपदुतो भवतीति भावः ॥ २ ॥ ॐ निवासेति । भो राजन् निवासश्व तोयं च द्रविणं च तेष्वात्मा स्वभावो यस्यास्तथाविधा बुद्धिर्यस्य सः पिपासतोयेति पाठे, पिपासा पातुमिच्छा तद्विषयं तोयं पिपासतोयं मृगतृष्णिका । पिपासाशब्दस्य ड्यापोः संज्ञाछन्दसोः’ इत्याओं ह्रस्वः पिपासतोय तुल्यं यत् द्रविणं तस्मिन्नात्मबुद्धिः स्वबुद्धिर्यस्य सः, तथाभूतः सन्, अदव्यां, इतस्ततः, धावति भ्रमति । कचिच्च रजखले रजोव्याप्ते अक्षिणी यस्य तथाभूतः सन् वात्या चक्रवातस्तस्या मुस्थितो यः पांसुस्तेन धूम्राः दिशः न जानाति ॥ अन्यत्र वात्येष भ्रमणशीलत्वात्तत्तुल्या या बी तया उत्थितो रागादिदोषरूपः पांसुस्तेन धूम्रा आविला दिशः धर्ममर्यादाः, रजखलाक्षों रजोगुणोपहृतज्ञानः सन्न जानाति । कर्मसाक्षिभूता देवता दिश्ववस्थिताः सत्यो, मदुष्कर्म जानन्त्येवेति स कामायाकुलतारजखलनेत्रो न जानातीति भावः ॥ ४ ॥ अदश्येति । अदृश्या अप्रकाशमाना या झिल्ल्यों भृङ्गारिक संज्ञकीट विशेषास्तासां स्वनास्तीक्ष्णशब्दास्तैः कर्णयोः शिलं शूलभेद- समाना व्यथा यस्य सः । उलूका घूकास्तेषां वाचस्ताभिः व्यथितोऽन्तरात्मा मनो यस्य सः परोक्षमप्रियवक्तारो झिलीतुल्याः, * ૨૮ 337 श्र श्रीमद्भागवतम् [ स्कं. ५ अ. १३ श्लो. १-६ प्रत्यक्षमप्रियवक्तारो घूकतुल्याः । यथाटव्यां प्रविष्टोऽदृश्य झिल्लीखनश्रवणव्यथितकर्णो जायते तथा परोक्षाप्रियभाषिरिपुवाक्य- श्रवणजनित कर्णव्यथायुक्तो जायते इति पूर्वपदस्येत्यर्थः । यथाटव्यां प्रविष्टो दृश्यमानघूकस्वनश्रवणव्यथितकर्णो भवति तथा प्रत्यक्षा- प्रियभाषिधूकसदृशराजभटादिवाक्यश्रवणव्यथितान्तरात्मा भवतीति द्वितीयपदस्यार्थः । कचित् क्षुधा अशनया, अर्दितः पीडितः सन्, अपुण्यवृक्षान् येषां छायापि पापहेतुस्तथाविधापुण्यतरून्, श्रयते । अन्यत्र कारस्करादिविषवृक्षसदृशाननुपकारककर्मणोऽ- प्रतिग्राह्यधनादिकान्संश्रयते इत्यर्थः । कचित्, मरीचितोयानि प्रति अभिधावति । अन्यत्र मरीचिकाजलवत्सुखाभासानभोग्यान् हेयान् विषयान्प्रति भोग्यबुद्धया यतस्ततोऽन्वेषयन्ननुधावतीत्यर्थः ।। ५ ।। - कचिदिति । कचित् वितोया जलरहिताः सरितो नदीः अभियाति । यथा वितोयासु सरित्सु पानीयार्थ प्रयातस्य यत्तु लाद्यश्मभ्यः पतितस्य गात्रभङ्गात्सद्यो दुःखं भवति, न चोदकलाभस्तद्वदिह परत्र च दुःखदान्निष्फलान्पापण्डाश्रमानाश्रयते । कचित् निरन्नः सन् परस्परं आलषते दायादेभ्योऽन्नादिकं वाञ्छति च, निरन्नकतया पुत्रः पितृधनमिच्छति पिता च पुत्रधनमिच्छतीत्येवमन्योन्यं वाञ्छतीत्यर्थः । कचित् दावं आसाद्य अग्नितप्तः भवति । अभिमतविषयशून्यं दुःखदं दावामितुल्यं गृहं संप्राप्य तत्राभिनिविष्टोऽग्नितप्तवच्छोकातुरो भवति इत्यर्थः क्वच कचित् यक्षैः हृतासुर्हृतप्राणः, निर्विद्यते । यक्षवत्प्रतिहन्तुमशक्यै राजभिरपहृतप्राणतुल्यधनः सन्निर्विण्ण इव खिद्यते इत्यर्थः ॥ ६ ॥ * * शूरैरिति । क्वच क्वचित् शूरैः राजभटादिभिः हृतं स्वं धनं यस्य सः, अत एव निर्विण्णं विषण्णं चेतो तस्य तथाभूतः सन् शोचन, नष्टस्य तस्य शोकं कुर्वन् विमुह्यन् स्मृत्वा मोहमुपगच्छन्संच, कश्मलं मूच्छ उपयाति । पाठान्तरे नृपेति संबोधनम् । कचिच्च गन्धर्वपुरं प्रविष्टः सन् मुहूर्त्त निर्वृतवत् प्रमोदते गन्धर्वपुरबदस्थिरं मनोरथमात्रोप- । बन्धुवर्गसमाजं प्रविष्टः सन् सुखितवन्मन्यमानो मुहूर्त्तमात्रं प्रमोदमनुभवति इत्यर्थः ॥ ७ ॥ * * चलन्निति । कचित् नगारुरुक्षुः पर्वतमारोदुमिच्छन् कण्टकाश्च शर्कराः कर्कराय ताभिर्युक्तो अनी यस्य तथाभूतः चलनसनी विमनाः अङ्घी विमनाः इव आस्ते । दुरारोहपर्वतारोहेच्छावत्स्वाशक्ययज्ञादिकलापं विधित्सुः कण्टकादितुल्यविघ्नाभिभूतः सन्नभास्वरवदनोऽष्ठ इत्यर्थः । क्वचित् यतः कौटुम्बिकस्ततः पदे पदे क्षणे क्षणे अभ्यन्तरबह्निना जाठराग्निना अर्हितः संपीडितः सन् जनाय क्रुध्यति वै । कलत्रादीन् प्रति कुप्यतीत्यर्थः ॥ ८ ॥ FIR IFS i भाषानुवादः SigiFFIFSF Ji भवाटवीका वर्णन और रहूगणका संशयनाश भवाटवीका वर्णन और * Par जडभरतने कहा- राजन् ! यह जीवसमूह सुखरूप धनमें आसक्त देश-देशान्तर में घूम-फिरकर व्यापार करनेवाले व्यापारियोंके दलके समान है। इसे मायाने दुस्तर प्रवृत्तिमार्गमें लगा दिया है; इसलिये इसकी दृष्टि सात्त्विक, राजस, तामस भेदसे नाना प्रकारके कमोंपर ही जाती है । उन कर्मों में भटकता भटकता यह संसार-रूप जंगलमें पहुँच जाता है। वहां इसे तनिक भी शान्ति नहीं मिलती ॥ १ ॥ * महाराज ! उस जंगल में छः डाकू हैं। इस वणिक समाजका नायक बड़ा दुष्ट है। उसके नेतृत्व में जब यह वहाँ पहुँचता है, तब ये लुटेरे बलात्कारसे इसका सब मालमत्ता लूट लेते हैं। तथा भेड़िये जिस प्रकार भेड़ोंके झुंडमें घुसकर उन्हें खींच ले जाते हैं, उसी प्रकार इसके साथ रहनेवाले गीदड़ ही इसे असावधान देखकर इसके धनको इधर-उधर खींचने लगते हैं ॥ २ ॥ * वह जंगल बहुत सी लता, घास और झाड़-झंखाड़के कारण बहुत दुर्गम हो रहा है। उसमें तीव्र डॉस और मच्छर इसे चैन नहीं लेने देते। वहाँ इसे कभी तो गन्धर्वनगर दीखने लगता है और कभी-कभी चमचमाता हुआ अति चञ्चल अगियाबेताल आँखोंके सामने आ जाता है ॥ ३ ॥ * यह वणिक् समुदाय इस बनमें निवासस्थान, जल और धनादिमें आसक्त होकर इधर-उधर भटकता रहता है । कभी बवंडरसे उठी हुई धूलके द्वारा जब सारी दिशाएँ धूमाच्छादित सी हो जाती हैं और इसकी आँखोंमें भी धूल भर जाती है, तो इसे दिशाओंका ज्ञान भी नहीं रहुता ॥ ४ ॥ * * कभी इसे दिखाई न देनेवाले झींगुरोंका कर्णकटु शब्द सुनायी देता है, कभी उल्लुओंकी बोली से इसका चित्त व्यथित हो जाता है। कभी इसे भूख सताने लगती है तो यह निन्दनीय वृक्षोंका ही सहारा टटोलने लगता है और कभी प्यास से व्याकुल होकर मृगतृष्णाकी ओर दौड़ लगाता है ॥ ५ ॥ * * कभी जलहीन नदियोंकी ओर जाता है, कभी अन्न न मिलने पर आपस में एक दूसरेसे भोजन प्राप्तिकी इच्छा करता है, कभी दावानल में घुसकर अग्निसे झुलस जाता है। और कभी यक्ष लोग इसके प्राण खींचने लगते हैं तो यह खिन्न होने लगता है ॥ ६ ॥ * * कभी अपनेसे अधिक बलवान लोग इसका धन छीन लेते हैं, तो यह दुःखी होकर शोक और मोहसे अचेत हो जाता है और कभी गन्धर्व नगर में पहुँचकर घड़ी- भरके लिये सब दुःख भूलकर खुशी मनाने लगता है ॥ ७ ॥ * कभी पर्वतोंपर चढ़ना चाहता है तो काँटे और कंकड़ों
- द्वारा पैर चलनी हो जानेसे उदास हो जाता है। कुटुम्ब बहुत बढ़ जाता है और उदरपूर्तिका साधन नहीं होता तो भूखकी ज्वालासे सन्तप्त होकर अपने ही बन्धु बान्धवोंपर खीझने लगता है ॥ ८ ॥ ॐएक. ५ अ. १३ श्लो. ९-१६] अनेकव्याख्यांसमलङ्कृतम् कचिनिगीर्णोऽजगराहिना जनो नावैति किश्चिद्विपिनेऽपविद्धः दष्टः स्म शेते च दन्दशू कैरन्धोऽन्धकूपे पतितस्तमित्रे ॥ ९ कर्हि स्म चित्क्षुद्ररसान् विचिन्वंस्तन्मक्षिकाभिव्यथितो विमानः । त्रातिकृच्छ्रा प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १० ॥ भग कचिच्च शीतातपत्रातवर्षप्रतिक्रियां कर्तुमनीश आस्ते ि किञ्चिद् विद्वेषमृच्छत्युत वित्तशाख्यात् ॥ ११ ॥ क्वचिन्मिथो विपणन यच्च किञ्चिदू शय्यासनस्थान विहारहीनः । २६९ कचित्क्वचित्क्षीणधनस्तु तस्मिन् ॥ याचन परादप्रतिलब्धकामः अन्योन्यवित्त व्यतिषङ्गवृद्धवैरानुबन्ध अध्वन्यमुष्मिन्नुरुकृच्छवित्तबाधोपसर्गविहरन् पारक्यदृष्टिलभतेऽवमानम् ॥ १२ ॥ 1 विवहन्मिथव । विपन्नः ॥ १३ ॥ ही हिल ज तांस्तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः । ि आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् ॥ १४ ॥ मनखिनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि । बद्धवैराः । मृधे शयीरभ तु तद् ब्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ।। १५ ।। प्रसज्जति कापि लताभुजाश्रयस्तदाश्रयाव्यक्तपद द्विजस्पृहः । क्वचित्कदाचिद्धरिचक्रतस्वसन् सख्यं विधत्ते
बकक गृध्रः ॥ १६ ॥ अन्वयः - कचित् अजगराहिना निगीर्णः जनः किंचित् न अवैति क च विपिने अपविद्धः ददशकैः दष्टः अंधः अंधकूपे पतितः तमित्रे शेते स्म ॥ ९ ॥ कर्हिस्मचित् क्षुद्ररसान् विचिन्वन् तन्मक्षिकाभिः विमानः व्यथितः अथ तत्र अति- कृच्छ्रात् प्रतिलब्धमानः तम् ततः अन्ये बलात् विलुपंति ॥ १० ॥ * * कचित् च शीतातपवातवर्षप्रतिक्रियाम् कर्तुम् अनीशः आस्ते च कचित् यत् किंचित् मिथः विपणन वित्तशाठ्यात् उत विद्वेषं ऋच्छति ॥ ११ ॥ * * कचित् कचित् तु तस्मिन् क्षीणधनः शय्यासनस्थानविहारहीनः याचत् परात् अप्रतिलब्धकामः पारकयद्दष्टिः अवमानम् लभते || १२ || अन्योन्यवित्तव्यतिषंगबद्धवैरानुबंधः मिथः च विवहन् अमुष्मिन् अध्वनि उरुकृच्छ्रवित्तबाधोपसर्गेः विहरन् विपन्नः ॥ १३॥ ॐ सः सार्थः तान् तान् विपन्नान् तत्र तत्र विहाय जातम् परिगृह्य अद्य अपि न आवर्तते वीर कश्चित् अत्र अध्वनः पारम् योगम् न उपैति ॥ १४ ॥ * * निर्जितदिग्गजेंद्रा मनखिनः भुवि मम इति बद्ववैराः सर्वे मृधे शयीरन् गतवैरः न्यस्तदंड: तु यत्त् अभियाति तत् न व्रजति ॥ १५ ॥ क अपि लताभुजाश्रयः तदाश्रयाच्यक्रूपदद्विजस्पृहः प्रसजति कचित् कदाचित् हरिचक्रतः त्रसन बककंकगृध्रः सख्यम् विधत्ते || १६ || 38 पिकचा eme श्रीधरखामिविरचिता भावार्थदीपिका w अजगराहिना निद्रारूपेण गिलितो न वेत्ति । विपिने त्यक्तः शब इव ददश कैर्हियैर्दुजनैर्दष्टः पीडितौंधी लुप्तविषेकोंधकूपे मोहे पतितस्तमित्रे दुःखे शेते लीयते ॥ ९ ॥ क्षुद्ररसान्परयोषादीन्विचिन्वन्गवेषयंस्तन्मक्षिकाभिर्योपादिस्वामि- भिर्विमानोऽवज्ञातस्ताडितः सन्व्यथितो भवति । यदि कथंचित्तत्रातिक्लेशेन प्रतिलब्धमानः प्राप्तयोषादिर्भवति तदा बलादन्येऽ- पहरन्ति । तान्यदाऽभिर्युक्ते तदा ततोऽप्यन्ये हरन्ति ॥ १० ॥ यत्किचिदत्यल्पमपि मिथो व्यवहरन् क्रयादिना गृह्णन् । वित्तशाठ्याद्धनर्वचनात् ।। ११ ।। * * शय्यादिहीनः । आस्यतेऽस्मिन्नित्यासन कंबलादि स्यतेऽस्मिन्नित्यासनं कंबलादि । स्थीयतेऽत्रेति स्थान गृहम् । विहरन्त्यनेनेति विहारो यानादि । याचमानोऽपि यदा परस्मादप्राप्तकामस्तदा परकीये वस्तुनि दृष्टिरभिलाषो यस्य सोऽवमानं प्राप्नोति ।। १२ ।। एवमन्योन्यं वित्तव्यतिषंगेण धनविनिमयेन विवृद्धो वैरानुबन्धो यस्य तथाविधोऽपि परस्परं विवहन् विवाहादिसम्बन्धं कुर्वन्नुरुभिः कृच्छ्रः श्रमैर्वित्तत्वाधैरुपसर्गेश्च द्वेषादिभिर्विपन्नो मृतप्रायो भवति ॥ १३ ॥ * * दुरत्ययत्वमध्वनो दर्शयति । तांस्तान्विपन्नान्मृतान्विहाय जातं जातं परिगृह्य विहरन्यतः प्रस्थितस्तं प्रति नावर्तते । हे वीर अध्वनः ११. प्रा० पा० तत्रातिकृच्छ्रं प्रति । २. प्रा०पा० अन्योन्यकर्म २७० श्रीमद्भागवतम् अ. १३ श्लो. ९-१६ पारं यो योगस्तं च नोपैति । अत्र सार्थे । कश्चिदतिसमर्थोऽपि ॥ १४ ॥ * * ॥ तदेवाह । मनस्विनः शूराः निर्जिता दिग्गजेन्द्रायैः ममेयं भूर्ममेयमिति भुवि निमित्तभूतायां बद्धं वैरं यैः । न्यस्तदण्डः संन्यासी । यद्विष्णोः पदमभियाति तत्तु न व्रजन्ति ।। १५ ।। * * सिंहावलोकनेन पुनर्भवाटवी मेवानुवर्णयति । प्रसज्जन्त्यासक्ति करोति । कीदृशः उतानां भुजाः शाखास्तद्वत्सुकुमारा ये स्त्रीणां भुजास्तदाश्रयः सन् । तदाश्रया अव्यक्तपदा अस्फुटाक्षराः कलभाषिणो ये द्विजाः पक्षिणस्तत्तुल्येषु स्त्रीसंगप्रसक्तेष्वपत्येषु रुपृहा यस्य तादृशो भूत्वा हरिचक्र सिंहसमूहस्तत्तुल्यात्कालचक्रनिमित्ताज्जन्ममरणादेवसंस्तत्परिहाराय कैश्चित्प्रलोभितो बकादिवद्वचकैः क्षुद्रः क्रूरैश्च पाखण्डैः सह सख्यं करोति तेषु प्रविशति ॥ १६ ॥ RSS की || श्रीबंशीधरकृतो भावार्थदीपिकाप्रकाशः तत्र तदाऽतिक्लेशेन वित्तव्ययादिना बलाद्बहुवित्तव्ययादितः अभिर्युक्ते उपर्युक्ते ॥ १० ॥ * * अनीशोऽसमर्थः ॥ ११ ॥ * * अभिलाषश्रीर्यादिना हरिष्येऽस्येदं धनमितीच्छा अवमानं बधबन्धादिरूपम् ॥ १२ ॥ * * ।। वित्तस्य धनस्य बाधैर्नाशैः । याने उरुकृच्छ्रेणाप्तं वित्तमुरुकृच्छ्रवित्तं मध्यपदलोपी समासः । तस्य नाशेन ये उपसर्गा वैकुव्यादयस्तैः ॥ १३ ॥ विपन्नान्मृतप्रायान् । योऽविपन्नः स हीति जातं जातमविपन्नमविपन्नं यतः परमेश्वराश्चलितस्तं प्रतीत्यर्थः । तत्प्राप्तिसाधनं योगमुपायं भक्तिज्ञानादिकं भक्तिज्ञानादिकं पारं पारप्रापकं नोपैति । अत्र सार्थमध्ये | वीरेति । हे वाक्छूरेत्यभि- प्रायः ॥ १४ ॥ * * तदेव तदेव तदनावर्तनमेव ।। १५ ।। * * पक्षे भार्योत्सङ्गवर्त्तिनि अस्फुटाक्षरभाषिणि द्वाभ्यां स्त्रीपुंसाभ्यां जातत्वात द्विजे बालके दर्शनस्पर्शनादिस्पृहा यस्य तादृशो भूत्वा तादृशो भूत्वा कदाचित्काले कापि देशे स्वयमेव कथमरे संसारं तरिष्यामीति देवात्पाखण्डानां वाक्येन वा त्रस्यन् ।। १६ ।। न
श्रीमद्वीरराघवव्याख्या र / कचिदयं जनः अजगराहिना अजगराख्यसर्पतुल्यया निद्रया निगीर्णो प्रस्तः किञ्चिदपि न वेत्ति यथा विपिने- ऽरण्येऽपविद्धस्त्यक्तः शव इव दन्दशूकैः सर्पतुल्यैर्हिसैर्दुर्जनैर्दष्टः पीडितः अन्धो लुप्तविवेकः अन्धकूपे मोहे शरीरदुःखे वा पतितः तमिस्रे दुःखादिभिर्व्याप्ते ॥ ९ ॥
- कर्हिचित् क्षुद्ररसान् विचिन्वन् तन्मक्षिकाभिः रसादिस्वामि- भिव्यथितः ताडितः विमानोऽवज्ञातो भवति, यदि कथचित्तत्रातिलेशेन प्रतिप्रमानः प्राप्तपरदाराविर्भवति तदा तं ववयित्वा बलादन्ये तान् क्षुद्ररसानपहरन्ति एवं तेभ्योऽप्यन्येऽपहरन्तीत्यर्थः ॥ १० ॥ कचिचं शीतादीनां प्रतिक्रिया कर्तुं शीतादिनिहरिकवस्त्रगृहादिक सम्पादयितुमसमर्थस्तैर्दुःखित आस्ते कचिन्मिथः यत्किञ्चिदत्यल्पमपि विपणन क्रयविक्रयादिभिर्व्यवहार वाणिज्यदुर्वन्नित्यर्थः । वित्तशाठ्यातूनवाञ्छया विद्वेषं प्राप्नोति ॥ ११ ॥ * * तस्मिन् संसाराध्वनि कचित् क्षीर्ण धनं यस्य सः अत एव शब्दादिभिर्विहीनः रहितः भवति शेतेऽस्यामिति शय्या पर्यङ्कादि आस्यतेऽस्मिन्नि- त्यासन कम्बलादि स्थीयतेऽस्मिन्निति स्थानं गृहादि विहरन्त्यनेनेति विहारो यानादिः याचमानो यदा परस्मादप्राप्तकामः तदा परकीये वस्तुनि दृष्टिरभिलाषो यस्य सोऽवमानमवज्ञां लभते ॥ १२॥ एवमन्योऽन्यं वित्तव्यतिषङ्गेण वित्तव्यत्यासेन वृद्धः
- वैरानुबन्धो यस्य सः मिथः विवाद कुर्वन् विवहन्मिश्रश्चेत्यपि पाठः तदाभाषालब्धवित्तनियमव्यत्यासेन विवृद्धवैरानुबन्धः वैरा विष्टचित्तः परस्परं विवादं कुर्वन्न मुष्मिन् दुरत्ययेऽध्वनि उरुभिः कृच्छ्रः श्रमैः वित्तबाधैरुपसर्गेव द्वेषादिभिर्विपन्नः मृतप्रायो भवति ॥ १३ ॥ * दुरत्ययत्वमध्वनो दर्शयति । तांस्तान् विपन्नान् मृतान् पित्रादीन् तत्र विहाय जातं सार्थ पुत्रादिकं परिगृह्याद्याप्यत्रावर्त्तते भ्राम्यति हे वीर ! अध्वनः पारं योगं कश्चिदपि नोपैति अत्र सार्थे कश्चिदतिसमर्थोऽपि ॥ १४ ॥ तदेवाह । मनस्विनः शूरा निर्जिताः दिग्गजेन्द्रा वैस्ते ममेयं भूमिर्ममेयं भूमिरित्यभिमाननिमित्तभूतायां भुवि बद्धं वैरं यैस्ते मृधे युद्धे केवलं शरीरान्प्राणांस्त्यक्तवन्तः । न तु तद् व्रजन्ति प्राप्नुवन्ति किं तत् यत्र व्रजन्ति मनस्विनस्तत्राह् । न्यस्तदण्डस्त्यक्तभूतदण्डः त्यक्तभूतवैरश्च योगी यद्विष्णोः पदं याति तत्र व्रजन्तीत्यर्थः ॥ १५ ॥ * * सिंहावलोकमन्यायेन पुनर्भवाटवीमेवानुवर्णयति प्रसज्जतीति । प्रसज्जत्यासक्तिं करोति कीदृशः लतानां भुजाः शाखाः तानाश्रितः लतातुल्यकामिनी- भुजोपधान इत्यर्थः । तदाश्रयाः कामिनीलताश्रया येऽव्यक्तपदाः स्वानभिव्यक्तवर्णमधुरवचोभाषिणो द्विजाः पक्षिसदृशाः शिशवः बालाः तेषु स्पृहा यस्य सः तादृशो भूत्वा प्रसन्नतीत्यर्थः । कचित् हरिचक सिंहसमूहस्तत्तुल्याद्धरिचक्राद्भगवत्सम्बन्धिनः कालचक्रात् वसन् विभ्यत् कालचक्रनिमित्तजन्मजरामरणादेखसन तत्परिहाय कैश्चित्प्रलोभितः बकादितुल्यैः पाखण्डदेवतैः सह सख्यं विधन्ते तेषु भक्ति करोतीत्यर्थः ॥ १६ ॥ * न IISS IT GIFS FIRED IMPLIE श्रीमद्विजयध्वजतीर्थकृता पदरत्नावलीshaniwarajyr ही काही
अजगरा हिना “अजगरः शयुः” इत्यभिधानान्निद्राशीलो महासर्पः । तद्वनिद्रया काललक्षणेन वा पिनोतेर्गतिकर्मणोर्व्युप- पदाया विपरीतार्थायाः ज्ञानोपर तिलक्षणा रात्रिरित्यर्थः । तत्रापविद्धः विस्श्रीनागतशरविद्धा इव दुःखितो दन्दशूकैः पुनः पुनरुपद्रव- ५. अ. १३ श्लो. ९-१६] * अनेकव्याख्या समलङ्कृतम् २७१ शीलैर सज्जनैर्दष्टोऽधिक्षिप्नोऽन्धो विवेकशून्योऽन्धकूपसमानयोनिविशेषे तमिस्रे नरकवत् दुःखरूपे ॥ ९ ॥ * * परवनिता- सङ्गेन क्षुद्ररसानल्पानन्दान् विचिन्वन्नन्वेषणं कुर्वस्तम्मक्षिकाभिस्तासां वनितानां समानशीलैरन्योऽन्यवनितालोलः स्वामिभिर्व्यथित- स्ताडितो विमानो विगताभिमानस्तत्रापि परस्त्रीविषयेऽपि कृच्छ्रात्स्वामिवञ्चनायासेन प्रतिलब्धं स्त्रीधनादि अन्ये राजानो बलात् विलुम्पन्ति अपहरन्ति । अथ ततः तेभ्यः अन्ये उपपतयस्तं स्त्रीजनमपहरन्तीत्येवमनवस्थाविषयसुखस्य क्षुधं रान्तीति क्षद्राः अल्पत्वे- नेति शेषः, तान् क्षुद्ररसानन्नलक्षणान् विचिन्वस्तन्मक्षिकाभिस्तदन्नदातृभिरदानेन दुःखितो विमानोऽनाश्रयो भवति, तत्र कचि- कालान्तरे अत्यायासेन प्रतिनिधिनी स्वाम्युक्तकर्मकरणलक्षणेन लब्धं निष्पन्नमन्येऽनको याचका विद्याबलादपहरन्ति तेभ्यो याचकेभ्योऽन्ये ततोऽप्यधिकविद्याबलेन महामार्गे क्लृप्तं विप्रभोजनमपहृत्य भुव इति धर्मभोजनस्यासिद्धिः । अथशब्दः आश्वर्यार्थे इति वा ॥ १० ॥ ४ प्रतिक्रियां परिहारं प्रावरणाद्यभावेनेति शेषः । विपणन् क्रयविक्रयलक्षणं व्यवहारं कुर्वन् यत्किचिद्भि विक्रेयं रसलक्षणादिकमपि ऋच्छति प्राप्नोति ॥ ११ ॥ तस्मिन् व्यवहारे क्षीणधनः नष्टमौल्यः यावद्यदा दरिद्रः परं प्रार्थयते तदा परादन्यस्मादप्रतिलब्धकामः प्रतिग्रहादिधर्मेणाप्राप्ताभीष्टधनः पारव्यदृष्टिः परकीय द्रव्यस्वीकारेच्छुश्रयेणेति शेषः । अवमानं बन्धनताडनादिकम् ॥ १२ ॥ लतावत्कोमलभुजाश्रयः अव्यक्तपदमव्यक्तस्य प्रकृतिसंज्ञस्य स्त्रीजनस्य पदं स्थानं प्रसज्जति प्रकर्षेण सक्तो भवति द्विजस्य कुठे जातोऽपीति शेषः । तदाश्रय इति हेतुगर्भ विशेषणं स्त्रीजनाश्रयत्वादिति । प्रभवति मनसि विवेको विदुषामपि शास्त्रसम्भवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥’ इति प्रसिद्धि हशब्देनाह । हरिचक्रतः कालचक्रात त्रसन विभ्यत् “बक भक्षणे” “ककि लौल्ये” “गृधु अभिकाङ्क्षायां” वकवदिक्षुदण्डादिभक्षणशीलविघ्नेश्वर- देवतया कङ्कवन्मैथुनलोलचित्तयक्षादिदेवतया रुधिरा सवाकाङ्क्षारतभद्रकालीदेवतया च सेवालक्षणं शक्यम् ॥ १३ ॥ * वश्वितो विपुलदण्डः अभीष्टफलाभावादिति शेषः, हंसकुलं ब्राह्मणकुलं संन्यासाश्रमं वा हंसानां शीलमुपनयनादिसंस्कार त्रिषवणस्नानभिक्षावृत्यादिकं वा न रोचयन् पथ्यं नेदमिति मन्वानो वानरः वानेन हिंसया रमत इति शूद्रस्वभावं हिंसालक्षणं वानेन रमत इति गमनागमनलक्षणं सेवां वा शूद्रवत्सेवावृत्तिमुपजीव्य वर्तत इत्यर्थः । तज्जातिरासेन शूद्रजातिक्रीडारसेन सुष्ठु निर्वृतानि प्रीतानीन्द्रियाणि यस्य स तथा परस्परान्वीक्षणविस्मृतावधिः स्त्रीपुरुषयोरन्योऽन्यमुखनिरीक्षणेन विस्मृतविहितकाल- मर्यादः ।। १४ ।।
- द्रुमेष्वैहिकफलभोगयोग्यलक्षणेषु गृहेषु रस्यन् रतिं कुर्वन् सुतदारेषु स्निग्धो व्यवायेन मैथुनक्रियया दीनः शोच्यां दशामापन्नोऽत एव विवशो बने संसाराख्ये चरन् भवति ततः कदाचित् प्रसादाद्भगवत्तत्त्वापरिज्ञानाद् गिरि कन्दरवद्भयङ्कर नरके पतन्वल्लीं जन्मान्तरोपार्जितपुण्यकर्मलक्षणं पाशमवलम्ब्य गजभीतो भयङ्कर मृत्युभीतोऽपि ।। १५ ।। ** ततः आपदः कथञ्चिन्मुक्तो भूत्वा श्रद्दधानः सार्थं सदाचारोपेतवर्णाश्रमं स्थानं प्रविशति संसाराध्वनि प्रवेशस्य प्रधानकारणमिद- मेवेत्याह । अध्वनीति ।। १६॥ F E Fe की श्रিीमजीवगोस्वामिकृतः क्रमसन्दर्भः sha The विपन्नः कश्चिन्मृतो भवति ।। १४२२ ॥ क II श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी नहर की अजगराहिना निद्रारूपेण अपविद्धः बन्धुभिरप्रबोधितः दन्दशूकैरिव दुर्जनैः पीडितः अन्धो विवेकहीनः । अन्धकूपे मोहे तमिले तमोवृते पक्षे दुःखमये ॥ ९ ॥ * * क्षुद्ररसान परदारान् तन्मक्षिकाभिस्तद्भर्तृश्वश्वादिभिर्विमानो विगतमानः कृतो व्यथितो भवति । यदि कथञ्चित्तत्रातिक्लेशेन धनव्ययादिना प्रतिलब्धमानः प्राप्तपरदारसम्भोगस्तदा तान् दारान् अन्ये विलुम्पन्ति ततोऽप्यधिकवित्तव्ययेनान्येऽपीत्येवम् ॥ १० ॥ *
- मिथो विपणन विपणयन् क्रयविक्रयादिना व्यवहरन् वित्तशाठ्यात् धनवचनात् विद्वेषं प्राप्नोति ॥ ११ ॥ विद्वेषं प्राप्नोति ॥ ११ ॥ * * परस्मात् याच्यमानादपि अप्राप्तधनो भवेत्तदा पारोक्ष्ये परकीये वस्तुनि दृष्टिरभिलाषो यस्य सोऽवमान प्राप्नोति ॥ १२ एवमन्योऽन्यचित्तस्य व्यतिषङ्गेण परस्परासक्त्या परस्परजिघृक्षया विवृद्धो वैरानुबन्धो यस्य तथाविधोऽपि परस्परं विवहन् विवाहादि- सम्बन्धं कुर्वन् अध्वनि विहरन् विभ्रमन् उरुभिः कृच्छ्रेर्वितबाधैरुपसर्गे रोगादिभिश्च विपन्नो मृतप्रायो भवति ॥ १३ ॥ * * विपन्नान् मृतान् विहाय जातं जातं परिगृह्य चलन्नद्यापि नावर्तते यतश्चलितस्तं परमेश्वर प्रतीत्यर्थः । तत्प्राप्तिसाधनयोगमुपायं भक्तिज्ञानादिकं पारप्रापकं न उपैति अत्र सार्थेषु मध्ये कश्चिदपि ॥ १४ ॥ तदेवाह मनखिनः शूरा निर्जिवेव्यतिदूरवर्त्तिनो दिग्गजेन्द्रानपि निर्जयन्ति स्म न त्वतिनिकटवर्तिन एकादशेन्द्रियभटानपि व्यवहार एव तेषां शौर्य न तु परमार्थ इति भावः । ततो ममेत्यादिपरमार्थतः शूरमाह न्यस्तेति । गतवैरत्वेन न्यस्तदण्डखमेव शौर्यमिति भावः ॥ १५ ॥ * * सिंहावलोकनेन पुनर्भवाटवीमेवानुवर्णयति । प्रसज्ञतीति । लतानां स्त्रीणां भुजान स्पर्श- सुखानाश्रयत इति सः तदाश्रयेषु स्वावलम्बिषु सुप्तत्वादव्यक्तपदेषु द्विजेषु पक्षिषु स्पृहा दिदृक्षा यस्य सः । पक्षे भार्योत्सङ्गवर्त्तिनि अस्फुटाक्षरभाषिणि द्वाभ्यां खीपुंसाभ्यां जातत्वात् द्विजे बालके दर्शनस्पर्शनादिस्पृहा यस्य तादृशो भूत्वा कदाचित् काले क्वापि देशे २७२ श्रीमद्भागवतम् [ स्कं. ५ अ. १३ श्लो. ९-१६ स्वयमेवं वा कथमरे संसार तरिष्यसीति देवात् पाखण्डाना वाक्येन वा हरिचक्रतः सिंहसङ्गतुल्यात् कालचक्रात् सन् त्रस्यन् तत्परिहाराय तैरेव पाखण्डैरेवं सुखेन तरिष्यसीति प्रलोभितो वकादिवद्वचकैः कुबुद्धिभिः क्रूरैस्तैरेव पाखण्डिभिः सह सख्यं करोति ॥ १६ ॥ w श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
Firmsseriess अजगराहितुल्यया निद्रया प्रस्तः विपिने अपविद्धस्त्यक्तशव इव दन्दशूकैः सर्पसदृशैः हिंसैर्जनैः दष्टः मर्मसु वाक्शरै. स्ताडितः अन्धो नष्टविवेकः अन्धकूपे मोहे पतितः तमिस्रे दुःखगत्ते शेते लीयते ॥ ९ ॥ * क्षुद्ररसान् तत्तुल्यान् पर- दारादीन् तन्मक्षिकाभिस्तत्स्वामिभिः कृच्छ्रं यथा भवति तथा प्रतिलब्धमानः प्राप्तपरदारादिर्भवति तदा बलाद्विलुम्पन्ति तान्विलु- म्पकान् अन्ये विलुम्पन्ति ॥ १० ॥ * विपणन व्यवहरन् ।। ११ ।। तस्मिन् भवाध्वनि शेतेऽस्यामिति शय्या आस्यतेऽस्मिन्नित्यासनम् । विहरत्यनेनेति विहारः यानादिः परात् याचन् याचमानः अप्रतिलब्धकामः यदा भवति तदा पारक्ये परकीये शय्यादौ दृष्टिर्ग्रहणे मतिर्यस्य स अवमानमवज्ञां प्राप्नोति ॥ १२ ॥ इत्थं परस्परं धनस्य व्यतिषङ्गेण विनि- मयेन विवृद्धों वैरानुबन्धो यस्य स तादृशोऽपि व्यवहरन् नानाव्यवहारान् कुर्वन् अस्मिन् अध्वनि उरुकृच्छ्रः नानाकेशैः वित्त- बाधैर्धननाशैरुपसर्गेषादिभिश्च विपन्नो नष्टप्रायो भवति ||१३|| हे वीर! विपन्नान्नष्टान् पित्रादीन् विहाय जातान् पुत्रादीन राय अद्यापि अत्रैव भवाध्वनि परिवर्तते भ्रमति योगं ज्ञानभक्तिलक्षणं साधनम् अध्वनः पारं हरिं च कश्चिदपि प्रवृत्तिनिष्ठः नोपैतीत्यन्वयः ॥ १४ ॥ * * हरिं त्रैवर्गिका नैव यान्तीति वदन् तच्छरणो मुमुक्षुर्यातीत्याह मनस्विन इति । मनस्विन- स्त्रिवर्गेऽर्पितचित्ताः भुवि शयीरम् प्राणांस्त्यक्तवन्तः तत्र ये च ममेति बद्धवैराः निर्जितदिग्गजेन्द्रा राजानः मृधे शयीरन् ते सर्वेऽपि तदध्वनः पारं हरिं न ब्रजन्ति यत् यं हरिं न्यस्तदण्डः सर्वभूताभयप्रदः कृतापराधोऽपि गतवैरः हरिभक्तः याति “मद्भक्ता यान्ति मामपि” इति श्रीमुखवचनात् ।। १५ ।। * *
- कापि कदाचित् यदा प्रसज्जति विषयासक्ति करोति तदा लतायुक्ताः भुजा द्रुमशाखाः तत्सदृशा ये भार्यामुजास्तदाश्रयः सन् तदाश्रयाः अव्यक्तपदाश्च ये द्विजाः अण्डजाः कोकिलादयस्तत्तत्सदृशेषु भार्या- सङ्गसाध्येष्वपत्येषु स्पृहा यस्य स तथाभूतो भवति, कचिच्च हरिचक्रतः सिंहसमूहसदृशात् कालचक्रतस्वसन् बिभ्यत्तत्परिहाराय बकादितुल्यैः केवलमुदरम्भरैः पाखण्डिभिः सख्यं विधत्ते तद्भक्तो भवतीत्यर्थः ।। १६ ।। आदाय 112Y || PRIBIRTE DIER FEER गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी why कचिदजगराहिना निगीर्णो गिलितो दष्टो मृतो विपिने विद्धः त्यक्तो जनः शेते न किञ्चिदवैति जानातीत्यन्वयः । क्वचिच्च जलार्थं गतस्तत्र दन्दशूकैः वृश्चिक सर्पादिद्भिर्दष्टः सन् तमिस्रेऽन्धकारव्याप्नेऽन्धे जलरहिते कूपे पतितः शेते स्म, यतोऽन्ध " इत्यन्वयः । पक्षान्तरे तु निद्रारूपेणाजगरेण दृष्टो जनो विपिने व्यक्त इव शेते न किञ्चिन्जानाति । क्वचिच्च विषयभोगतृष्णा- कुलचित्तः तत्तत्प्राप्त्युद्योगपरो दन्दशूकादिवदतिक्रूरैर्जनैः तिरस्कृतः तमिस्रे कर्त्तव्यानुसन्धान प्रतिबन्धक ज्ञानकार्येऽन्धकूपवदुस्तरे मोहे पतितः शेते, यतोऽन्धः प्रज्ञाचक्षूरहितः अज्ञ इत्यन्वयः । स्मेति प्रसिद्धौ नात्र सन्देहः ॥ ९ ॥ कर्हिस्मचित् कदाचित् मध्वादीन् विचिन्वन् तन्मक्षिकाभिर्विमानः अवज्ञातः सन् व्यथितो भवतीत्यन्वयः । तत्र यद्यतिकृच्छमति - कहन प्रतिधमानः भवति, तदा ताने । तु ि कष्टन प्रतिलब्धमानः प्राप्तमध्वादिरसो भवति, अथ तदा तान् रसांस्ततोऽन्ये बलाद्विलुम्पन्तीत्यन्वयः । पक्षान्तरे तु कदाचित् मधुवत्तुच्छरसान् परदारपरधनादीन् विचिन्वन् तत्स्वामिभी राजभिर्वा विनिहतो निबद्धो वा व्यथितो भवति । यदि च कथञ्चित् महता कष्टेन तान् लभते तदा ततोऽन्ये बलिनो राजभृत्यादयो बलाद्धरन्ति, भोक्तुं न शक्नोतीत्यर्थः ॥ १० ॥ * * कचिश्च शीतादीनां प्रतिक्रियां निवारणं कर्तुमनीशोऽसमर्थो विषण्ण आस्ते । कचिन्मिथः परस्परं विपणन् क्रयविक्रयादिभिर्व्यवहरन् यत्किञ्चित् उत अपि स्वल्पमपि धनमपहरन् वित्तशाठ्याद्धनवञ्चनाद्धेतोर्विद्वेषमृच्छति गच्छतीत्यन्वयः उभयत्राप्येक एवार्थः ॥ ११ ॥ * * कचित्कचित्तु तस्मिन् भवारण्ये क्षीणधनोऽत एव शय्यादिहीनोऽतः पर याचमानो यदा परदारा प्रतिलब्धकामोऽप्राप्तमनोरथस्तदा पारक्ये परकीये वस्तुनि दृष्टिरभिलाषो यस्य स ततोऽवमानं लभते । शय्या प्रसिद्धा । आसन कम्बलादि । स्थान गृहादि । उभयपक्षेऽप्येक एवार्थः ।। १२ ।। ..
-
- अन्योन्यं वित्तव्यति- षङ्गेण धनसाङ्कर्येण वृद्धो वैरानुबन्धो यस्य तथाभूतोऽपि मिथः परस्परं विवहन् विवाहादि कुर्वन् भवति । चकारात् तथाभूतः कदाचिद्विवाहादिना सम्बद्धानपि त्यजतीति ज्ञेयम् । पक्षद्वयेऽप्ययमेवार्थः ॥ १३ ॥ * * अध्वनो दुरत्ययत्वं दर्शयति अध्वनीति सार्द्धाभ्याम् । अमुष्मिन्नध्वनि उरुभिः कृच्छ्रः कष्ठैर्वित्तबाधैश्चान्यैरुपसर्गेच रागद्वेषादिभिः यो यो विपन्नो विपदं प्राप्तो मृतो वा तांस्तान् विपन्नान् तत्र तत्र विहाय जातं नवीनं परिगृह्य स हि सार्थो विहरन् अत्र साथै कश्चिदतिसमर्थोऽपि यमध्वनः पारं वदति तं प्रति अद्यापि नावर्त्तते, नापि योगं तत्प्राप्त्युपायं उपैति लभते इत्यर्थः । हे वीरेति सम्बोधयन् तव वीरत्वाभिमानश्चेत्तर्हि तत्पारं गन्तुं प्रयत्नं कुर्विति सूचयति ।। १४ ।। * * उरुकृच्छ्रेत्यादेरप्यर्थं उभयपक्षे तुल्य एव । पारं नावर्त्तते इत्यस्यार्थं स्वयमेव स्पष्टयति- मनस्विन इति । मनस्विनः शूराः निर्जिता दिग्गजेन्द्रा यैस्तथाभूता अपि ममेयं ya mwaka. । स्किं. ५ अ. १३ श्लो. ९-१६] अनेकव्याख्या समलङ्कृतम्
-
२७३ भूयमिति भुवि निमित्तभूतायां बद्धं वैरं यैस्ते सर्वेऽपि मृवे शयीरन मृताः । परन्तु यदध्वपारं भगवत्पदं न्यस्तदण्डः सर्वभूता- भयदो गतवैरोऽभियाति तत्तु न ब्रजन्ति स्मेत्यन्वयः ॥ १५॥ ॐ काफि लताया भुजाः शाखाः तदाश्रयोः संस्तदाश्रया अव्यक्तपदा अस्फुटारा द्विजाः पक्षिणस्तेषु स्पृहा यस्य तादृशश्च भूत्वा प्रसजति, लतापक्ष्यादिसंरक्षणवर्द्धन व्यापारनिष्ठो भवतीत्यर्थः । कदाचित्कचिदेशे हरिचक्रतः सिंहसमूहात् वसंस्ततः स्वरक्षार्थ बककङ्कगृधैः सह सख्यं विधत्ते । पक्षान्तरे तु लता भुजतुल्य स्त्रीभुजाश्रयः सन् तदाश्रया ये पक्षितुल्याः कलभाषिणः पुत्रादयस्तेषु स्पृहा यस्य स्त्रीपुत्रादिपालनपोषणादिव्यापारा- सक्ती भवति । कदाचित्तु सिंहसमूहतुल्यभयङ्करात् कालचक्रावस्तहृदयः ततो रक्षार्थ बकादितुल्याः पाखण्डमार्गकल्पिता वेदप्रमाणरहिता देवता आश्रयते इत्यर्थः ॥ १६ ॥ s lies brarians fr fore श्रीभगवत्प्रसादाचार्यविरचिंता भक्त मनोरञ्जनी । कुर्वन्नित्यर्थविता " कचिदिति । कचित् जनः अयं जीवसार्थः, अजगराहिना, निगीर्णः अत एव विपिनेऽरण्ये, अपविद्धस्त्यक्तः, शवः इव, किंचित् न अवैति । अजगर सर्पतुल्यनिद्रायस्तो वनत्यक्तशववन्न किंचिज्जानातीत्यर्थः । क च दन्दशू कैदशनस्वभावैः, दृष्टः सन्, तमिले ध्वान्तप्राये, अन्धकूपे पतितः अन्धः इव शेते स्म । दंशनस्वभावसर्पसदृशदुर्जनपीडितः अन्धवल्लुप्तविवेकः, दुःखादिव्याप्ते अन्धकूपसमे मोहे दुःखे वा पतितः शेते स्मेत्यर्थः ॥ ९ ॥ * * कहति । कर्हिस्म चित्कदाचिदित्यर्थः । क्षुद्ररसान् क्षुद्राकृतमध्वाख्यरसान् विचिन्वन् तन्मक्षिका भी रसस्वामिनीभिः क्षुद्राभिः, व्यथितः पीडितः सन् विमानः अवज्ञातः भवति क्षुद्ररससमपरयोषां गवेषयन्न योषास्वाम्यादिभिरवज्ञातस्ताडितः संश्च व्यथितो भवतीत्यर्थः । तत्र अतिकृच्छ्रं यथा भवति तथा प्रतिलवधमानः प्राप्तपरदारादिर्भवति इत्यर्थः । तदा तं वञ्चयित्वेति शेषः । बलात् अन्ये तान् क्षुद्ररसान् इति शेषः । विलुम्पन्ति अपहरन्ति । अथ यदा तान् अभियुङ्क्ते तदा ततः अपि अन्ये हरन्ति ।। १० ।। कचिच्चेति । कचिच्च कदाचित्तु, शीतं च आतपश्च वातश्च वर्षश्च तेषां प्रतिक्रिया निवारणक्रिया तां, कर्तुं, अनीशः आस्ते । शीतादिनिहरकगृहगुप्त- दोरकार्हवस्त्रादिकं संपादयितुमसमर्थस्तैर्दुःखित आस्ते इत्यर्थः । कचित् मिथः परस्परं यत् किंचिच अत्यल्पमात्रमपीत्यर्थः । विपणन् क्रयविक्रयादिभिर्व्यवहरन् वाणिज्यं कुर्वन्नित्यर्थः । वित्तशाठ्यात् धनवचनात् विद्वेषमुत विशिष्ट द्वेषमपि, ऋच्छति प्राप्नोति ।। ११ ।। ।। ** वचिदिति । तस्मिन्संसाराध्वनि, कचित्कचित्, तु कदाचित्कदाचित्वित्यर्थः । क्षीणं धनं यस्य सः, अत एव शय्या पर्यङ्कच आसनं कम्बलादिश्च स्थानं गृहादिश्व विहारो यानादिश्च तैः हीनो रहितः, तत्र शेतेऽस्यामिति शय्या, आस्यतेऽस्मिन् इत्यासनं, स्थीयतेऽस्मिन्निति स्थानं, विहरन्त्यनेनेति विहार: यावद्यदा, भवति । परात् अप्रतिलब्धकामः याचमानः सन्नपि यदा परस्मादप्राप्तकामो भवति । तदा पारकये परकीये वस्तुनि दृष्टिरभिलाषो यस्य तथाभूतः सन् सः अवमानमवज्ञां लभते नितरां प्राप्नोति ॥ १२ ॥ ** अन्योन्येति । एवं, अन्योऽन्यं परस्परं यो वित्तव्यतिषङ्गः धनविनिमयः, तेन वृद्धः प्रवृद्धः वैरानुबन्धो वैरसातत्यं यस्य सः, मिथः परस्पर, विवदन्त्रिवाद कुर्वन, विवहन्मिथश्चेत्यपि पाठः । तदा अन्योऽन्यवित्तव्यतिषङ्गेण परस्परभाषालब्ध वित्तव्यत्यासेन वृद्धवैरानुबन्धो वैराविष्टचित्तः सन्नपि, मिथः विवहन्विवाहं कुर्वन् वर्त्तते । इत्थं अमुष्मिन्, अध्वनि विहरन्, दुरत्यये भवाध्वनि क्रीडन् जन इत्यर्थः । उरुभिः कृच्छ्रः श्रमैः वित्तबाधैर्धननाशैः उपसर्गैर्विद्वेषादिभिश्च विपन्नः मृतप्रायः भवति ।। १३ ।। * अध्वनो दुरत्ययत्वं दर्शयति तांस्तानिति । एवमनिशं भवाध्वनि भ्रममाणो जन इति शेषः । तांस्तान्, विपन्नानायुषः क्षयात्प्राणवियोगं प्राप्तान् स्वस्वपित्रादीन, तत्र तत्र । ये यत्र मृतास्तांस्तत्रेत्यर्थः । विहाय अपुनः समागमं परित्यज्य, स सार्थिको जनः जातं जातमित्यर्थः । सार्थं पुत्रादिकं परिगृह्य सहोपादाय, अद्यापि अत्र आवर्त्तते । भवाटव्यां भ्रमतीत्यर्थः । हे वीर, कश्चित् अपि अध्वनः पारं पारप्रापक योग श्रीहरिं न उपैति हि ॥ १४ ॥ * एतदेवाह । मनस्विन इति । मनखिनः शूराः, निर्जिता दिग्गजेन्द्रा यैस्ते, सर्वे मम इति भुवि बज्रवैराः, ममेयं भूमिर्ममेयं भूमिरित्य- भिमाननिमित्तभूतायां भुवि निबद्धवैराः सर्वेऽपीत्यर्थः । मृधे युद्धे, शयीरन् केवलं प्राणांस्तु त्यक्तवन्त एव । न्यस्तदण्डः त्यक्तभूतदण्डः, गतवैरश्च योगी, यद्विष्णोः पदं अभियाति ततु न तु जति ॥ ॥ १५ ॥ * * सिंहावलोकनेन पुनर्भवाट- वीमेवानुवर्णयति प्रसज्जतीति । लतानां भुजाः शाखास्ता आश्रयतीति तथाभूतः । ता लता आश्रयो येषां ते तदाश्रयाः अव्यक्तानि पदानि येषां ते अव्यक्तपदाः ये द्विजाः पक्षिणस्तेषु स्पृहा यस्य सः एवंभूतः कापि कदाचिंत, प्रसजति तेष्वासक्तिं करोति । अन्यत्र लतावन्मृदुला ये स्त्रीणां भुजास्त एवं उपधानीभूताः कृता येन तथाभूतः, तदाश्रयाः कामिन्याश्रया अव्यक्तपदा अनभिव्यक्त- वर्णमधुरवचोभाषिणः द्विजसदृशाः शिशवस्तेषु स्पृहा यस्य स एतादृशो भूत्वा तेष्वेवासक्तिं करोतीत्यर्थः । कदाचित्, कचित्स्थाने, हरिचक्रतः सिंहसमूहात् संखासं गच्छन्सन, बिकाश्च कङ्काश्च गृघाञ्चः तैः सख्यं विधत्ते । अन्यत्र हरिचक्रतः भगवतः कालचक्रात् त्रसन कालचक्रनिमित्तकजन्मजरा मरणादेर्विभ्यत्संस्तत्परिहाराय कैश्चित् प्रलोभितो बकादिसमानैः पाखण्डिजनैस्तथा- विधैर्देवतैर्वा सह सख्यं करोति तत्र जनेषु संख्यं देवतेषु भक्ति विदधातीत्यर्थः ॥ १६ ॥ भाषानुवादः कभी अजगर सर्पका ग्रास बनकर वनमें फेंके हुए मुर्देके समान पड़ा रहता है। उस समय इसे कोई सुध-बुध नहीं रहती । कभी दूसरे विषैले जन्तु इसे काटने लगते हैं तो उनके विषके प्रभाव से अंधा होकर किसी अन्धेरे कुएँ में गिर पड़ता है ३५ २७४ श्रीमद्भागवतम् [ स्कं. ५ अ. १३ श्लो. १७-२२ और घोर दुःखमय अन्धकार में बेहोश पड़ा रहता है ॥ ९ ॥ * * कभी मधु खोजने लगता है तो मक्खियाँ इसको नाकों दम कर देती हैं और इसका सारा अभिमान नष्ट हो जाता है। यदि किसी प्रकार अनेकों कठिनाइयोंका सामना करके वह मिल भी गया तो बलात्कारसे दूसरे लोग उसे छीन लेते हैं ॥ १० ॥ * * कभी शीत, घाम, आँधी और वर्षासे अपनी रक्षा करने में असमर्थ हो जाता है । कभी आपस में थोड़ा बहुत व्यापार करता है, तो धनके लोभसे दूसरोंको धोखा देकर उनसे वैर ठान लेता है ॥ ११ ॥ * * कभी-कभी उस संसारवनमें इसका धन नष्ट हो जाता है तो इसके पास शय्या, आसन, रहने के लिये स्थान और सैर-सपाटेके लिये सवारी आदि भी नहीं रहते । तब दूसरोंसे याचना करता है, माँगने पर भी दूसरेसे जब उसे अभिलषित वस्तु नहीं मिलती, तब परायी वस्तुओं पर अनुचित दृष्टि रखनेके कारण इसे बड़ा तिरस्कार सहना पड़ता है ॥ १२ ॥ * * इस प्रकार व्यावहारिक सम्बन्धके कारण एक दूसरेसे द्वेषभाव बढ़ जानेपर भी वह वणिक् समूह आपसमें विवाहादि सम्बन्ध स्थापित करता है और फिर इस मार्ग में तरह-तरहके कष्ट और धनक्षय आदि सङ्कटोंको भोगते-भोगते मृतकवत् हो जाता है ।। १३ ॥ साथियोंमेंसे जो-जो मरते जाते हैं, उन्हें जहाँका तहाँ छोड़कर नवीन जो उत्पन्न हुए हैं उनको साथ लिए वह बनजारोंका समूह बराबर आगे ही बढ़ता रहता है। वीस्वर ! उनमेंसे कोई भी प्राणी न तो आजतक वापस लौटा है और न किसीने इस सङ्कटपूर्ण मार्गको पार करके परमानन्दमय योगकी ही शरण ली है ।। १४ ।। # * जिन्होंने बड़े-बड़े दिक्पालोंको जीत लिया है, वे धीर-वीर पुरुष भी पृथ्वी में ‘यह मेरी है’ ऐसा अभिमान करके आपस में बैर ठानकर संग्रामभूमिमें जूझ जाते हैं। तो भी उन्हें भगवान् विष्णुका वह अविनाशी पद नहीं मिलता, जो वैरहीन परमहंसोंको प्राप्त होता है ।। १५ ।। * इस भवाटवी में भटकनेवाला यह बनजारोंका दल कभी किसी लताकी डालियोंका आश्रय लेता है और उसपर रहनेवाले मधुरभाषी पक्षियोंके मोहमें फँस जाता है। कभी सिंहों के समूहसे भय मानकर बगुला, कंक और गिद्धोंसे प्रीति करता है ।। १६ ॥ क ४ तैर्वश्चितो हंसकुलं तज्जातिरासेन ‘सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः ॥ १७ ॥ द्रुमेषु रस्यन् सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने । क्वचित्प्रमादागिरिकन्दरे पतन् वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८ ॥ अतः कथश्चित्स विमुक्त आपदः पुनश्च साथ प्रविशत्यरिन्दम अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९ ॥ रहूगण त्वमपि ध्वनोऽस्य संन्यस्तदण्डः कृतभूतमैत्रः । असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् ॥ २० ॥ समाविशन्न रोचयन् शीलमुपैति वानरान् राजोवाच Surya’s Ac अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् न यद्वृषीकेशयशः कृतात्मनां महात्मनां वः प्रचुरः समागमः ॥ २१ ॥ त्वचरणान्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला मौहूर्तिकाद्यस्य समागमाच मे दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२ ॥ ॥ ॥ PYA अन्वयः तैः वंचितः हंसकुलम् समाविशन् शीलम् अरोचयन् वानरान् उपैति तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः ॥ १७ ॥ * * कचित् द्रुमेषु रस्यन् सुतदारवत्सलः व्यवायदीनः स्वबंधने विवशः प्रमादात् गिरिकंदरे पतन् गजभीतः वल्लीम् गृहीत्वा आस्थितः ॥ १८ ॥ * अरिंदम कथंचित् अतः आपदः विमुक्तः पुनः च साथ अमुष्मिन् अध्वनि अजया निवेशितः भ्रमन् कश्चन जनः अद्य अपि न वेद ॥ १९ ॥ * रहूगण त्वम् अपि संन्यस्तदंडः कृतभूतमैत्रः असज्जितात्मा हरिसेवया शितम् ज्ञानासिम् आदाय अस्य अध्वनः पारम् अतितर ।। २० ।। * * अहो नृजन्म अखिलजन्मशोभनम् अमुष्मिन् अपि अपरैः जन्मभिः किम् यत् हृषीकेशयशःकृतात्मनाम् महात्मनाम् वः प्रचुरा समागमः न ॥ २१ ॥ * त्वच्चरणाब्जरेणुभिः हतांहसः च अधोक्षजे अमला भक्तिः अद्भुतं न हि यस्य मौहूर्तिकात् समागमात् मे दुस्तर्कमूलः अविवेकः अपहृतः ॥ २२ ॥ Pre Sap १. प्रा० पा० सुनिर्जितेन्द्रियः । २. प्रा० पा० - मुष्मिन्नञ्जसा रुक. ५ अ. १३ श्लो. १७-१२] fore अनेकव्याख्यासमलङ्कृतम् श्रीधरखामिविरचिता भावार्थदीपिका २७५ तैर्वाचितस्तत्र फलाभावं ज्ञात्वा हंसानां ब्राह्मणानां कुलं पुनः प्रविशंस्तेषां शीलं प्रायश्चिन्तपूर्वक पुनरुपनयनाद्याचार- मरोचयन्नप्रियं पश्यन्वानरतुल्यान् भ्रष्टाचारान् शूद्रप्रायानुपैति । तज्जातिरासेन वानरजातिक्रीडया स्त्रिया मिथुनीभूय परस्पर- मुखोद्वीक्षणेन विस्मृतो जीवितावधिर्मरणकालो येन ॥ १७ ॥ * * दुमवत्केवलदृष्टार्थेषु गृहेषु व्यवायदीनः सुरतेच्छया कृपणः एवं स्वस्य यद्धनं प्राप्तं तस्मिन्विवशः परिहर्तुमशक्तः । पाठान्तरे तु वने संसारे चरन्नित्यर्थः । गिरिकंदरवदतिभयानके रोगादिदुःखे पतन्कंदरस्थगजतुल्यान्मृत्योर्भीतः सन् वल्लीतुल्यं प्राचीनं कर्मावलंव्यावस्थितो भवति ॥ १८ ॥ क साथ प्रविशति यथा पूर्व प्रवृत्तिमार्गे रमते न वेद परमपुरुषार्थम् ॥ १९ ॥ * * त्वमपि अध्वनि निवेशित इत्यनुषंगः | अतोस्याध्वनः पारमतितर । असज्जितात्मा विषयेष्वनभिनिवेशितचित्तः सन् । हरिसेवया शितं तीक्ष्णीकृतम् ॥ २० ॥ * अखिलजन्मसु शोभनं नृजन्मैव । न परं श्रेष्ठं येभ्यो देवादिजन्मभ्यस्तैरपि किम् । अमुष्मिन् स्वर्गेऽपि जन्मभिः किं न किंचित् यद्येषु जन्मसु यत्र स्वर्गे वा वो महात्मनां समागमः प्रचुरो न भवति । हृषीकेशस्य यशसा कृतः शोधित आत्मा येस्तेषाम् ॥ २१ ॥ ॥ * * संततमुपासितैस्त्वत्पदाब्जरेणुभिर्हतमहो यस्य तस्याधोक्षजे निर्मला भक्तिर्भवतीति नैवाद्भुतम् । यस्य तव मुहूर्तमात्रभवात्समागममात्रादपि दुस्तर्केण बद्धमूलोपि ममाविवेको नष्टः ॥ २२ ॥ Simmi श्रीवंशीधरकृतो भावार्थदीपिका प्रका शूद्रप्रायान् लिंगिनः। जटाभस्मदेवमुद्रा काषायांबरधारिणः “नास्तिकानुगता बौद्धाः कापालायास्तु लिंगिनः । कलौ ते बहुधा लोकान्निगमात्पेशलोक्तिभिः । च्यावयिष्यन्ति राजेन्द्र ते दण्ड्या नृपसत्तमैः ।।” इत्यादिपुराणात् । तज्जातिरासेन तज्जातौ भोजनपानस्त्रीसङ्गादिस्वाच्छन्द्येन लिंगिमध्य एव सुखं नान्यत्रेति प्रसन्नमना भवतीत्यर्थः ॥ १७ ॥ * * पाठान्तरे चरन्वने इति पाठे । इत्यर्थः इति व्याख्येयम् ॥ १८ ॥ अतः संसाररूपाया आपदः । कथंचित्सत्संगादिना । अरिन्दमेति त्वमज्ञानशत्रुदमनेऽपि समर्थो भवेत्यभिप्रायः ।। १९ ।। * रहयति त्यजति संसारमनयति रहूः श्रीकृष्णभक्तिः तया गण्यते संख्यायते लोक इति रहूगणः, तत्सम्बुद्धौ इत्यन्वर्थनामा भवेति भावः ॥ २० ॥ कथमहमकस्मादेव कृतार्थोभूवमिति साश्चर्य सवितर्कमाह- अखिलेति । अहो अद्भुतेऽस्मिन्मर्त्यलोके । हृषीकेशस्य स्वभक्तसर्वेन्द्रियाकर्षकस्य । आत्मा बुद्धिः ॥ २१ ॥ ननु प्रचुर इत्युक्त्या किं स्वल्प संगस्यानर्थकत्वं श्रूषे । मैवम् । अत्यौत्सुक्ययन्त्रित एव तथा प्रवीमीत्याह न हीति । ब्रह्मादिभिरपि दुर्लभा भगवत्यमला भक्तिर्युष्मश्चरणधूलिप्राप्तिमात्रेणैव भवतीत्येतदपि नाश्चर्यम् । आश्चर्यं खल्वेतदेव यन्मद्विधानां ज्ञानलवदुर्विग्धानां कूटयुक्तिविप्लुतधियां चेतःपरावृत्तं भक्तियोगोन्मुखीकरणं तच मौहूर्तिकादेव समागमाद्यद्यभूत्तर्हि प्रचुरस्य समागमस्य माहात्म्यं को वक्तुं क्षमतामिति तत्र मया स्वौत्सुक्यमेव व्यंजितमिति भावः ॥ २२ ॥ श्रीमद्वीरराघवव्याख्या क si.wi ततः तैर्वचितः स्वयं तान् वञ्चयंस्तैर्वचितः फलाभावं ज्ञात्वा हंसकुलं पुनर्विशुद्धं ब्राह्मणकुलं समाविशन् प्रविशन् तेषां शीलं प्रायश्चित्तपूर्वकं पुनरुपनयनाद्याचाररूपमरोचयन् पूर्वदुर्वासनयाऽप्रियं पश्यन् वानरतुल्यान् भ्रष्टसदाचारान् शूद्रप्रायानुपैति तज्जातिरासेन वानरजातिक्रीडया स्त्रिया मिथुनीभूय रहोभाषणपूर्वकपरस्परमुखनिरीक्षणेन विस्मृतः अवधिर्जीवनावधिर्मरणकालो येन सः ॥ १७ ॥ * द्रुमतुल्येषु केवलदृष्टार्थेषु गृहेषु रस्यन् क्रीडिष्यन् व्यवायेन मैथुनेच्छया दीनः कृपणः सुतेषु दारेषु वत्सलः एवं स्वस्य यद्बन्धनं प्राप्तं तस्मिन् विवशः परिहर्तुमशक्तो भवति क्वचित्प्रमादान्मृत्युगयागिरिकन्दरवद्भयानके रोगादि- दुःखे वर्त्तमानः दूरस्थराजतुल्यमृत्योर्भीतः सन् वल्लीं वल्लीतुल्यां प्राचीनवासनामवलम्ब्यावस्थितो भवति ॥ १८ ॥ आपदः दुःखात् कथंचिदतिप्रयासेन विमुक्तः पुनश्च साथ वर्णाश्रमनिष्ठं जनं प्रविशति यथा पूर्व प्रवृत्तिमार्गे रमते हे अरिन्दम ! अस्मिन् संसाराध्वन्यजया भगवन्मायया निवेशितो जनः भ्रमन्नद्यापि पारं न याति ॥ १९ ॥ तस्मात् हे रहूगण ! त्वमपि परित्यक्तः भूतदण्डो येन कृतं भूत्तेषु मैत्रं येन असज्जितः विषयेष्वनभिनिवेशितः आत्मा येन तथाभूतः सन् हरिसेवया निशिता सेवाऽत्र वर्णाश्रमधर्मेभगवदाराधनरूपा तथा निशितं ज्ञानं भगवदुपासनात्मकं तदेवासिः * खड्गस्तमादाय प्रकृतितरुच्छेदनायेति भावः यथा “अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा” इति अस्याध्वनः पारं वैष्णवं पदं प्रति अतितर । अध्वनः पारमिति ज्ञात्वा असेर्विशेषणं वा संसाराध्वनो निस्तरणोपायभूतज्ञानासिमादाय संसारमुक्तो भवेत्यर्थः ॥२०॥ * * एवमुपदिष्टतस्त्वत्रययाथात्म्यबन्धमोक्षहेतुः संसारासारत्वोपदेशेन उत्पन्नवैराग्यो रहूगणः स्वात्मनः कृतार्थतामाविः कुर्वन् तत्सङ्गतिं तदुक्तीश्चाभिनन्दन्नमस्करोति त्रिभिः श्लोकैः अहो इति । अहो नृजन्म मनुष्यजन्म सुशोभनं परममुष्मिन्परलोकेऽपरैर्दै वा दिजन्मभिरपि किं प्रयोजनं येषु देवादिजन्मसु हृषीकेशस्य भगवतो यशसा कृतः शोधित आत्मा चित्तं येषां तेषां महात्मनां त्वादृशानां समागमः प्रचुरो न भवति भागवतसङ्गविरहितैर्देवादिजन्मभिरपि किं व्यथान्येव ૨૦ श्रीमद्भागवतम् [ स्कं.५ अ. १३ ग्लो. १७-२२ तानीत्यर्थः ॥ २१ ॥ * * निरन्तरं त्वादृशानामुपासितयोश्वरणाब्जयो रेणुभिर्हतमहः पापं यस्य तत् तस्याधोक्षजेऽ- विनष्टोऽभवत् ।। ३नवादद्भुतं कुतः यस्य तव मौहूर्निकान्मुहूर्तमात्रभवात्समागममात्रान्मापहतः ।। FIE EFFIRE BURE श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली SP क SE HEEDEP hin अजा कथङ्कारमज्ञानमुत्पादयतीति तत्राह अन्योऽन्येति । अन्योऽन्यवित्तव्यतिषङ्गः परस्परद्रव्यदानादानसम्बन्धस्तेन वृद्धो वैरानुबन्धः वैरपरम्परा यस्य स तथा मिथोऽधिवहन् कुटुम्बपोषणं कुर्वन् अध्वनि विहरन् क्रीडन्नुरुणा कृच्छ्रेणाप्तं तद्वित्तं तस्य बाधोपसर्गैर्नाशलक्षणोपद्रवैर्विपन्नो विपत्ति गतः ॥ १७ ॥ ४ ४ स एवंविधस्तत्र तत्र मनुष्यादिजन्मनि तांस्तान्विपन्ना- न्मृता नापदङ्गतान्वा पित्रादीन् स्वदेहान् वा विहाय जातं जातमभिनवं परिगृह्याद्याप्यावर्तत इत्यन्वयः । फलितमाह न कश्चिदिति । हे वीर ! संसाराध्वनः पारं युज्यतेऽनेनेति योगो हरिस्तं नोपैतीत्यन्वयः । अत्र करतलामलकवद परोक्षीकृतश्रीनारायण- स्वरूपत्वाद्भरतस्येदृशं ज्ञानं युक्तं तदुक्तम् । ‘ऋते हैहयचैन्यादीनार्षभस्येह कः समः । यस्योपदेशात्सिन्ध्वीशो ददर्श कपिल प्रभुम् ॥’ इत्यतो नात्र शङ्का कार्येति ॥ १८ ॥ * * “सोऽध्वनः पारमाप्नोति । योगी परं स्थानमुपैति चाद्यम्’ इत्यादेः कश्चिदध्वनः पारं नोपैति इति सर्वनिषेधः कथं युक्तिमानित्याशङ्कय भक्तिहीन पुरुषविषयं मयोक्तमतोऽन्यत्तद्विषयम् । नायं दिग्जयवत्साध्य इति भावेाह मनस्विन इति । मनस्विनोऽनलम्बुद्धयो राजानः निर्जितदिग्गजेन्द्रा इत्यनेनालम्बुद्धित्वं स्पष्टयति । किमनेनेति तत्राह समेति । सुवि भूमिविषये ममेयं महीति दुराग्रहमाहप्रस्तबुद्धित्वेन मिथोबद्धबैरा अत एव शथीरन् शत्रुशरशीर्णशरीराः पञ्चत्वमेवाश्चन्ति न तु महीं मुञ्चन्तीत्यर्थः, एते तन्न व्रजन्ति चेत्को व्रजतीति तत्राह । यन्न्यस्तदण्ड इति । न्यस्तदण्डो वागादिनिमित्तहिंसारहितो गतवैरः योग्यतानुसारेण निरस्तभूतवैरः पुरुषो हरेर्यत्पदमभियाति तदित्यन्वयः ।।१९।। * एवमुपवर्णित संसारतरून्मूलनमसुकरमिति न मन्तव्यं यतो भगवत्सेवानिशितज्ञानासिमाददानस्य तव सुशकमित्याह - रहू- गणेति । “रह त्यागे” “गण सङ्ख्याने” इति संसारं रहयन् गणो ज्ञानं यस्य स तथा तस्य सम्बुद्धिः हे रहूगणेति “वह प्रापणे” इत्य- स्मादुत्पन्नवह्मिशब्दः संसारातिक्रान्तपारं हरिमुद्दिश्य संसारनदीं तरेत्यन्वयः । लेड् वा पताति कुंडणाच्चेतिवदुपपत्तेः पूर्वोक्तेव योजना ॥ २० ॥ * * सर्वेष्वपि जन्मसु नृजन्मैव श्रेयःसाधनमन्यानि भोगनिमित्तानीत्यभिप्रेत्याह अहो इति । ननु सर्वस्मात् स्वर्गे जननं शोभनं न किं तवाह किं जन्मभिरिति । कं गुणं निरीक्ष्याक्षिप्यत इति तत्राह । अमुष्मिन्निति । अमुष्मि- न्स्वर्गे हृषीकेशस्य यशसा कृतः शिक्षितः आत्मान्तःकरणं येषां ते तथा तेषां महात्मनां वो युष्माकं सङ्गमो न प्रचुर इति यस्मात्त- स्मात् ॥ २१ ॥ * * नन्वस्मत्समागमेन तव किं फलमभूदिति तत्राह न हीति । मे अधोक्षजेऽमला भक्तिरभूदित्येतदद्भुतं न हीत्यन्वयः । हिशब्देनानुभाविकार्थमाह कुत एतदिति तत्राह । मौहूर्तिकादिति । यस्य तव मौहूर्तिकान्मुहूर्तकालभवात् समाग- मान्मे अविवेकोऽपहतो नष्ट इत्ययमर्थो ममानुभाविक इत्यर्थः । अस्मद्दत्तधनोपजीवनेनास्मच्छिक्षायोग्या एत इति दुस्तकः । दुष्टा युक्तिर्मूलं यस्य स तथा दुस्तर्क मूलयति प्रतिष्ठापयतीति वा “मूल प्रतिष्ठायाम्” इति धातुः ।। २२ ।। जीव के लिए श्रीमद्विश्वनाथचक्रवतिकृता सारार्थदर्शिनी Time महा तैर्वञ्चितस्तत्र फलाभावं ज्ञात्वा हंसानां ब्राह्मणानां कुलं प्रविशन् तेषां शीलं प्रायश्चित्तपूर्वकं पुनरुपनयनाद्याचार- मरोचयन् स्वानभीप्सितं जानन् वानरतुल्यान् भ्रष्टाचारान् शूद्रमायान् लिङ्गिन उपैति तज्जातौ रासेन भोजनपानस्त्रीसङ्गादि स्वाच्छन्द्येन परस्पर मुखोद्वीक्षणेन विस्मृतो जीवितावधिर्मरणकालो येन सः ॥ १७ ॥ * * कश्चिदन्यः सार्थो द्रुमतुल्येषु केवलदृष्टार्थेषु गृहे व्यवायदीनः सुरतेच्छुत्वात् खिया पादेन ताड्यमानः एवं स्वस्य यदूबन्धनं प्राप्तं तस्मिन् विवशः परिहर्तुमशक्तः ‘चरन् वने’ इति पाठः गिरिकन्दरवदतिभयानक रोगादिषु दुःखे पतन् कन्दरस्थगजतुल्यान्मृत्योर्भीतः सन् वल्लीतुल्यं प्राचीनकर्मा- वलम्ब्यावस्थितो भवति ।। १८ ॥ * * पुनश्चेति । यथा पूर्व प्रवृत्तिमार्गे रमते न वेद न परमेश्वरं जानाति ॥। १९ ॥ * * त्वमप्यध्वनि निवेशित इत्यन्वयः । अतोऽस्याध्वनः पारमतितर याहि ।। २० ।। * * कथमहमकस्मादेवं कृतार्थोऽभूवमिति साश्चर्य सवितर्कमाह । अखिलजन्मसु मध्ये अहोऽद्भुतेऽस्मिन् मर्त्यलोके नृजन्मैव शोभनममुत्र स्वर्गे परं श्रेष्ठं येभ्यस्तै र्देवादि- । जन्मभिः किं यद्येषु वो महात्मनां समागमो न सम्भवेत् । कीदृशानां हृषीकेशस्य स्वभक्तसर्वेन्द्रियाकर्षकस्य हरेर्यशोभिरेव कृता निर्मिता आत्मानो देहमनोबुद्धिप्रयत्नजीवात्मानो येषाम् ॥ २१ ॥ ** ननु प्रचुर इत्युच्या किं स्वल्पसङ्गस्यानर्थकत्वं जूपे, नैवमत्यौत्सुक्ययन्त्रित एव तथा ब्रवीमीत्याह न हीति । ब्रह्मेन्द्रादिभिरपि दुर्लभा भगवत्यमला भक्तिर्युष्मचरणधूलिप्राप्तिमात्रेणैव भवतीत्येतदपि नाश्चर्यमाश्चयं खल्वेतदेव यन्मद्विधानां ज्ञानलवदुर्विदग्धानामतिकूटयुक्तिविधियां चेतः परा भक्तियोगोन्मुखी- करणं तच मौहूर्त्तिकादेव समागमाद् यद्यभूत्तर्हि प्रचुरस्य समागमस्य माहात्म्यं को बक्तुं क्षमतामिति तत्र मया स्त्रौत्सुक्यमेव व्यञ्जितमिति भावः ॥ २२ ॥ . स्कं. ५ अ. १३ श्लो. १७-२२] अनेकव्याख्या समलङ्कृतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीप PETANE ED BEE F २७७ हंससमूहस्य सदृशं सारग्राहिभगवज्जनसमूहम् वानरान् तत्तुल्यान् दुराचारान् हरिविमुखान् ॥ १७ ॥ * * द्रुमेषु द्रुमवद् दृष्टार्थेषु गृहेषु रंस्यन् विहरन् स्वबन्धने निर्हर्तव्ये विवशः गिरिकन्दरे तद्वन्मरणान्तभयदे रोगादौ पतन् गिरिकन्दर- संबन्धी गजतुल्यान्मृत्योः भीतः सन् वल्लीवत् देहधारकं कर्मावलम्ब्य आस्थितो भवति ॥ १८ ॥ * अतः आपदः कथविद्विमुक्तः पुनः सार्थं त्रैवर्गिकं जनं प्रविशति यथा पूर्व प्रवृत्तिमार्गे रमते मायया संसाराध्वनि निवेशितोऽस्मीति न जानाति ॥ १९ ॥ हें रहूगण ! त्वमपि सन्यस्तदण्डः सम्यक्त्यक्तभूतद्रोहः कृतं प्राणिषु मैत्रं येन सः असज्जितः विषयेषु ।। * अनभिनिवेशित आत्मा मनो येन सः हरिभक्तिविरोध्यज्ञानद्रुमच्छेदनाय ज्ञानासिमादाय हरिसेंवया असितं कृष्णं प्रति अस्याध्वनः पारमतितर भवाटवीमतिलक्ष्य कृष्णं व्रजेत्यर्थः ॥ २० ॥ * अखिलजन्मसु नृजन्मैव शोभनं परं श्रेष्ठं येभ्यस्तैरपि अमुष्मिन् स्वर्गे देवादिजन्मभिः किं न किमपि हृषीकेशयशसा कृतः शोधितः आत्मा मनो यैस्तेषां वो युष्माकं महात्मनां यत्र स्वर्गे समागमः प्रचुरो न भवति तत्र महात्मसु श्रीनारदादिषु विचरत्स्वपि तत्रत्यस्वर्गसम्पदा विमोहितमनसो रुचिपूर्वकं प्रचुरं सङ्गं न कुर्वन्तीति भावः ॥ २१ ॥ - यथेष्टमुपासितैस्त्वञ्चरणाब्जरेणुभिर्हतमहो यस्य तस्य अधोक्षजे निर्मला भक्तिर्भवतीति हि अद्भुतम् । यस्य तव मुहूर्तमात्रभवात्समागममात्रादपि दुस्तर्क: अब्रह्मात्मक विश्ववादितर्कः मूलं यस्य स मे मम अविवेकः अपहृतः ।। २२ ।। ffmphis raefi Pass Ple JEE BRUH TERAPIE EEN JESSĽUBE SIEK, FRIER (185g dny toppies कलिष्ट गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी Artists :: Ni तैर्वकादिभिर्वचितः विश्वासेन तान् भजन्नपि रक्षायां तेषां सामर्थ्याभावाद्रक्षणमप्राप्तः पुनस्तदर्थं हंसकुलं प्रविशन् तेषामपि शीलमरोचयंस्तानपि त्यक्त्वा वानरानुपैति प्राप्नोति । तदा तेषां वानराणां जातिरासेन जातिस्वभावप्रयुक्तया क्रीडया सुनिर्वृतानि प्रसन्नानीन्द्रियाणि यस्य न स्त्रीपुरुषपरस्पर मुखोद्वीक्षणेन विस्मृतोऽवधिः सिंहात् स्वमरणलक्षणो येन स तथाभूतो भवतीत्यर्थः । पक्षान्तरे तु तैः पाखण्डमार्गीयैर्वञ्चितः श्रद्धया सेवमानोऽपि ततो रक्षामदृष्ट्वा हंसानां श्रद्धानां ब्राह्मणानां कुलमाश्रयते तेषामपि शीलमुपनयनादिपूर्वक श्रौतस्मार्तप्रकारेण भगवदाराधनपरत्वमरोचयन् वानरतुल्यान् यथेष्टचारिणः शूद्रान् उपैति । तेष जातिरासेन स्त्रिया सह मिथुनीभूय विहारेण अत्यन्तप्रसन्नमनाः स्त्रीपुरुषपरस्पर मुखोद्वीक्षणेन विस्तृतमरणो भवती- त्यर्थः ।। १७ ।। है
- द्रुमेषु रस्यन् व्यवायदीनः स्त्रीसम्भोगेच्छया कृपणोऽत एव सुतदारवत्सलः पुत्रादिषु प्रीतियुक्तः या स्वस्थ बन्धने प्राप्त विवशो भवतीति शेषः पक्षान्तरे तु दुमय केवलैहि कार्येषु गृहेषु रस्यन्निति बोध्यम् द्रुमवत्केवलैहिकार्थेषु । अन्यत्समानम्। त्प्रमादादननुसन्धानात् गिरिकन्दने पतन् भवति तत्र च गजाद्भीतो वल्लीं गृहीत्वाऽवलम्ब्यास्थितो भवति । पक्षान्तरे प्रमादादधिकान्नभक्षणादेः पापाचरणाद्वा गिरिकन्दरबदतिभयानके रोगादिदुःखे नरकादौ वा पतितस्तत्रापि गजवद्भयानकान्मृत्योर्भीतः सन् वल्लीतुल्यं स्वप्राचीनं कर्मावलम्ब्यास्ते इत्यर्थः ॥ १८ ॥ स्ति इत्यर्थः ॥ १८ ॥ * * अत आपदः स कथञ्चिद्दुःखं भुक्त्वा विमुक्तोऽपि पुनश्च सार्थं प्रविशति यथापूर्वं प्रवृत्तिमार्गे एव रमते न दुःखानुसन्धानेन ततो विरज्यते । कुत इत्यपेक्षायां मायामोहितत्वादिति हेतुं सूचयन् भवाटवीनिरूपणमुपसंहरति अध्यनीति । अमुष्मिन्नध्वनि प्रवृत्तिमार्गे अजया भगवन्मायया निवेशितो जनो भ्रमन् कश्चनातिसमर्थोऽध्ययाप्यध्वनः पारं हरिं न वेदेत्युत्तरेणान्वयः । हे अरिन्दमेति सम्बोधयन् मायैव महान् शत्रुरिति तज्जये प्रयत्नं कुर्विति सूचयति ॥ १९ ॥ * * कथं सा जेतव्येत्यपेक्षायामाह रहूगण हि यस्मात त्वमध्यध्वनि निवेशित एवेत्यनुषङ्गः । अतो हरिसेवया शितं तीक्ष्णीकृतं ज्ञानलक्षणमसिमादाय मायां छित्त्वा अस्याध्वनोऽतिशयितं पारं हरिं तर गच्छेत्यन्वयः । ननु कया सेवया हरिसन्तोषः स्याद्येन ज्ञानं सफलं स्यादित्याकांक्षायां ‘दयया सर्वभूतेषु सन्तुष्टया येन केन वा सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः’ इति सिद्धान्तमङ्गीकृत्याह-सन्न्यस्तेति । सन्न्यस्तस्त्यक्तो भूतेषु दण्डः पीडा येन तथा कृता भूतेषु मैत्री कृपा येन सः तथा न सज्जितः विषयेषु आसक्त आत्मा मनो यस्य सः, तथाभूतः सन्नित्यर्थः ॥ २० ॥ * * तदेवं रहूगणस्य बैराग्ग्रदायय संसारवृत्तान्तो विस्तरेण निरूपितः। परोक्षत्वेन निरूपणं तु तस्याधिकारित्वपरीक्षार्थम्, यथा श्रीनारदेन प्राचीनवर्हि षे पारोक्ष्येणाध्यात्मतत्त्वं निरूपितम् । स तु कर्मासक्तमनस्त्वेन निकृष्टाधिकारित्वात्तद्वयाख्यानेनैव तदर्थं बुद्धवान्, अयं तु मध्यमोऽधिकारी अतः किञ्चित्स्पृष्टत्वेनैव सर्वस्य परोक्षवादस्यार्थ व्याख्यानं विनैव स्वयं ज्ञातवान् । तेनैव यत्पूर्वमुक्तं मम संशयार्थं पश्चात्प्रक्ष्यामीति तस्यापि संशयस्य निवृत्तत्वात्तत्सङ्गत्याऽऽत्मनः कृतार्थत्वं वदस्तत्सङ्गं स्तौति - अहो इति । अहो अतिशयेन अखिलजन्मसु शोभनं नृजन्मैवेत्यन्वयः । अमुष्मिन् स्वर्गादावपरैर्देवादिजन्मभिरपि तु किं फलं नैव किंचित फलं । । भवतीत्यर्थः । कुत एवं तत्राहु-नेति। यत् येषु स्वर्गादिजन्मसु वो युष्माकं महतां समागमः प्रचुरो न भवति । अत्र नृजन्मनि तु स प्रचुरो भवतीति तदेव शोभनमिति भावः । महतां किं लक्षणमित्यपेक्षायामाह - हृषीकेशेति । हृषीकाणीन्द्रियाणि तेषामीशो नियन्ता ऽन्तर्यामी भगवांस्तस्य यशसा कृतः शोधित आत्माऽन्तःकरणं यैस्तेषाम् ॥ २१ ॥
- सर्वदोपासितैस्त्वश्चरणाब्ज- रेणुभिर्हतमहो यस्य तस्याधोक्षजे प्राकृतेन्द्रियागोचरे भगवति निर्मला फलाभिसन्धिविनिर्मुक्ता भक्तिर्भवतीति नाद्भुतं नैवाश्चर्यम् । · 12mm medvi ૨૦ श्रीमद्भागवतम् [ स्कं. ५ अ. १३ श्लो. १७.२२ हि यस्मात् यस्य तव मुहूर्तमात्रभवात् समागममात्रादेव दुस्तर्केण बद्धमूलोऽपि मे ममाविवेको देहादावहम्ममात्मको- ऽपहतो विनष्टः ।। २२ ॥ Sol श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । तैर्वचित इति । तैर्वकादिसमानैः, वश्चितः सन्, तत्र फलाभावं ज्ञात्वेति शेषः । हंसकुलं समाविशन् हंसकुलसदृशं शुद्धं ब्राह्मणकुलं प्रविशन्, भवति । शीलं न रोचयन् तेषां ब्राह्मणानां प्रायश्चित्ताचरणपूर्वक पुनरुपनयत्नाद्याचाररूपं शीलं पूर्वदुर्वास नयाऽप्रियं पश्यन् वानरान् वानरतुल्यान् भ्रष्टसदाचारान् शूद्रप्रायान्, उपैति । तज्जातिरासेन वानरजातिक्रीडया खिया मिथुनीभूय रहो भाषाणादिपूर्वकया क्रिययेत्यर्थः । सुष्ठु निर्वृतानि सुखितानीन्द्रियाणि यस्य सः, परस्परोद्वीक्षणमन्योन्यमुख- निरीक्षणं तेन विस्मृतोऽवधिर्जीवितावधिर्येन सः । एवंभूतो भवतीत्यर्थः ॥ १७ ॥ * * द्रुमेष्विति । द्रुमेषु द्रुमवत्केवल- दृष्टार्थेषु गृहेष्वित्यर्थः । रंस्यन् क्रीडिष्यन, व्यवायेन मैथुनेच्छया दीनः कृपणः, सुताश्च दाराश्च तेषु वत्सलः सन्, स्वबन्धने उक्तरीत्या स्वस्य यद्बन्धनं प्राप्तं तस्मिन्, विवशः परिहर्तुमशक्तः, भवति । कचित् प्रमादादसावधानत्वतः, गिरिकन्दरे गिरिकन्दर- वद्भयानके रोगादिदुःखे, पतन् गजभीतः कन्दरस्थगजतुल्यात् मृत्योर्भयं प्राप्नुवन्सन्, वल्लीं वल्लीतुल्यं प्राचीनं कर्म गृहीत्वावलम्ब्य आस्थितोऽवस्थितो भवति ॥ १८ ॥ अत इति । अतः अस्याः, आपदः दुःखात्, कथंचिदतिप्रयासेन, विमुक्तः औषधादिना मृत्योर्विमुक्तो भवेच्चेत्तर्हीत्यर्थः । हे अरिंदम, पुनः सः, सार्थं प्रविशति । वर्णाश्रमनिष्ठजनेष्वाविशति । यथापूर्व प्रवृत्तिमार्गे रमते इत्यर्थः । अमुष्मिन् अध्वनि संसाराटव्यां, अजया भगवन्मायया निवेशितः जनः भ्रमन्सन्, अद्यापि कश्चन न वेद । भवाटवीपारं न जानातीत्यर्थः ॥ १९ ॥ रहूगणेति । हे रहूगण, त्वमपि अस्मिन्नेवाध्वनि मायया निवेशि- तोऽस्यत इति शेषः । संन्यस्तदण्डः परित्यक्तभूतदण्डः, कृतं भूतेषु मैत्र ं येन सः । असज्जितात्मा विषयेष्वनभिनिवेशितचित्तः सन्, हरिसेवया, शितं तीक्ष्णीकृतं ज्ञानं भगवदुपासनात्मकं वयुनमेवासिः खड्गस्तं, आदाय प्रकृततरुच्छेदनायेति शेषः । अस्य अध्वनः भवाध्वनः, अतिपारं महत्पारं तर हि । संसाराध्वनो निस्तारणोपायभूतं ज्ञानासिं गृहीत्वा संसारमुक्तो भवेत्यर्थः ॥ २० ॥ * * एवमुपदिष्टतत्त्वत्रययाथात्म्यः संबोधितबन्धमोक्षहेतुः संसारासारत्वोपदेशेनोत्पादितवैराग्यो रहूगणः स्वात्मनः कृतार्थतामाविष्कुर्वन् तत्संगतिं तदुक्तीश्चाभिनन्दन्नमस्करोति त्रिभिः श्लोकैः अहो इति । अहो इत्याश्चर्ये । नृजन्म मनुष्येषु जन्म, अखिलजन्मशोभनं निखिलजन्मभ्योऽतिशोभनमेव । अमुष्मिन् तु परलोके प्राप्तैः अपीत्यर्थः । अपरैर्मनुष्यजन्मापेक्षयाऽन्यैः जन्मभिर्देवादिजन्ममिः अपि, किं किं प्रयोजनम् । यद्येषु देवादिजन्मसु, यद्यस्मिन् स्वर्गे वा, हृषीकेशस्य भगवतः यशसा कृतः शोधितः आत्मा चित्तं येषां तेषां महात्मनां महानुभावानां वो युष्माकं प्रचुरोऽतिशथितः, समागमः न । भागवतसङ्गविरहितैर्देवादिजन्मभिरपि किं व्यर्थान्येव तानीत्यर्थः ।। २१ ।। * * न हीति । तव ये चरणाब्जे तयोः रेणवः तैः उपासितभवादृशचरणकमलर जो- भिरित्यर्थः । हतांहसो निवृत्तपापस्य, अधोक्षजे भगवति, अमला भक्तिः, भवति यत्, एतत् अद्भुतमाश्चर्यम्, न हि नैव विद्यते । कुतः यस्य, तव मौहूर्त्तिकान्मुहूर्त्तमात्रं जातात्, समागमात् दुस्तर्कमूलः दुष्टैस्तर्केर्वध्घमूलेः चापि मे मम अविवेकः अपहतो विनष्टः अभवत् ।। २२ ।। अभवत् ।। २२ ।। ༣ का भाषानुवादः में ग जब उनसे धोखा उठाता है, तो हंसोंकी पंक्तिमें प्रवेश करना चाहता है; किन्तु उसे उनका आचार नहीं सुहाता, इसलिये वानरोंमें मिलकर उनके जातिस्वभाव के अनुसार दाम्पत्यसुखमें रत रहकर विषयभोगोंसे इंद्रियोंको तृप्त करता रहता है और एक मुख देखते-देखते अपनी आयुकी अवधिको भूल जाता है ॥ १७ ॥ * * वहाँ वृक्षोंमें क्रीड़ा करता हुआ पुत्र और स्त्रीके स्नेहपाशमें बँध जाता है। इसमें मैथुनकी वासना इतनी बढ़ जाती है कि तरह-तरहके दुर्व्यवहारोंसे दीन होनेपर भी यह विवश होकर अपने बन्धनको तोड़नेका साहस नहीं कर सकता। कभी असावधानी से पर्वतकी गुफा में गिरने लगता है तो उसमें रहनेवाले हाथीसे डरकर किसी लताके सहारे लटका रहता है ।। १८ ।। * * शत्रुदमन ! यदि किसी प्रकार इसे उस आपत्तिसे छुटकारा मिल जाता है, तो यह फिर अपने गोल में मिल जाता है। जो मनुष्य मायाकी प्रेरणासे एक बार इस मार्ग में पहुँच जाता है, उसे भटकते-भटकते अन्ततक अपने परम पुरुषार्थका पता नहीं लगता ।। १९ ।। * * रहूगण ! तुम भी इसी मार्ग में भटक रहे हो, इसलिये अब प्रजाको दण्ड देनेका कार्य छोड़कर समस्त प्राणियोंके सुहृद हो जाओ और विषयों में अनासक्त होकर भगवत्-सेवासे तीक्ष्ण किया हुआ ज्ञानरूप खड्ग लेकर उस मार्गको पार कर लो ।। २० ।। * रहूगणने कहा – अहो ! समस्त योनियों में यह मनुष्य जन्म ही श्रेष्ठ है। अन्यान्य लोकोमें प्राप्त होनेवाले देवादि उत्कृष्ट जन्मोंसे भी क्या लाभ है, जहाँ भगवान् हृषीकेशके पवित्र यशसे शुद्ध अन्तःकरणवाले आप-जैसे महात्माओंका अधिकाधिक समागम नहीं मिलता ॥ २१ ॥ * आपके चरणकमलोंकी रजका सेवन करनेसे जिनके सारे पाप ताप नष्ट हो गये महानुभावोंको भगवान् की विशुद्ध भक्ति प्राप्त होना कोई विचित्र बात नहीं है । मेरा तो आपके दो घड़ीके सत्सङ्गसे ही सारा कुतर्कमूलक अज्ञान नष्ट हो गया ।। २२ ।। राजा उन yos 3g stokie sस्क. ५ अ. १३ श्लो. २३-२६ ] अनेकव्याख्यासमलङ्कृतम् नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आबदुभ्यः । ये ब्राह्मण गामवधूतलिङ्गाचरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३ ॥ ক ই श्रीशुक उवाच || २७९ runne इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मस तत्त्वं विगणयतः परानुभावः परमकारुणिकतयोप- दिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृत करणोम्यशयो धरणमिमां विचचार || २४ ॥ सौवीरपतिरपि सुजनसमवगत परमात्मसतच्च आत्मन्यविद्याध्यारोपितां च देहात्ममति विससर्ज । एवं हि नृप भगवदाश्रिताश्रितानुभावः ।। २५ ।। राजोवाच स Bussine | यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवा ध्वा स ह्यार्यमनीषया कल्पितविषयो नाखसान्युत्पन्न लोकसमधिगमः । अथ तदेवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ।। २६ ।। ३ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ अन्वयः महद्भयः नमः अस्तु शिशुभ्यः नमः युवभ्यः नमः आबदुभ्यः नमः ये ब्राह्मणाः अवधूतलिंगाः गाम् चरति तेभ्यः नमः राज्ञाम् शिवम् अस्तु ॥ २३ ॥ * * उत्तरामातः उत्तरामातः वै परानुभावः सः ब्रह्मर्षिः विगणयतः परमकारुणिकतया सिंधुपतये इति एवम् आत्मतत्त्वम् उपदिश्य रहूगणेन सकरुणम् अभिवंदितचरणः आपूर्णार्णिव इव निभृतकरणोम्र्म्याशयः इमाम् धरणीम् विचचार ।। २४ ॥ * * सुजनसमवगतपरमात्मसतत्त्वः सौवीरपतिः अपि आत्मनि अविद्याध्यारोपिताम् देहात्ममतिम् विससर्ज हि नृप एवम् भगवदाश्रिताश्रितानुभावः ।। २५ ।। * * महाभागवत ह वा बहुविदा त्वया परोक्षेण वचसा आर्यमनीषया कल्पितविषयः यः इह जीवलोकभवाध्वा अभिहितः सः हि अंजसा अव्युत्पन्नलोकसमधिगमः न अथ तत् एव दुरवगमम् एतत् समवेतानुकल्पेन निर्दिश्यताम् इति ॥ २६ ।। TIR इति त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका 11
ब्रह्मविदः केन रूपेण विचरतीत्यज्ञानात्सर्वान्नमस्यति नम इति । ये बटवः क्रीडारतत्वादश्रद्धेय धौरेयास्तानप्यभिव्याप्य सर्वेभ्यो नम इत्यर्थः । स्वदृष्टान्तेन राज्ञां महदवज्ञां संभाव्याह । राज्ञां शिवमस्त्विति ॥ २३ ॥ उत्तरा माता यस्य है उत्तरामातः । विगणयतो न गणयतः । अवमन्तर्यपि परमकरुणाकरत्वेन सिन्धुपतये आत्मतत्त्वमुपदिश्य । निभृताः शान्ताः करणा- नामूर्मयो यस्मिन्स आशयो यस्य ॥ २४ ॥ ॐ सुजनात्तस्मात्सम्यगवगतं परमात्मसतत्त्वं येन तथाभूतः संस्तदानीमेव ॥ * देहे आत्ममतिं च विससर्ज । हे नृप भगवदाश्रितो भरतस्तदाश्रितो रहुगणो यस्तस्यानुभावः सद्यो देहाहंकारत्यागः ।। २५ ।। परोक्षेण वणिक्सार्थरूपकेण । आर्याणां विवेकिनां मनीषयैव दस्युस्थानीयानीन्द्रियाणि गोमायुस्थानीयान्यपत्यादीनीत्येवं कल्पित- विषयः अव्युत्पन्नस्य तु लोकस्य तु जनस्य सम्यगधिगमो न भवति । अथ अतस्तदेतदेव भवाध्वरूपं समवेतानुकल्पेन प्रस्तुते तत्तदनुरूपार्थोपकल्पनेन ॥ २६ ॥ । इति पंचमस्कन्धे टीकायां त्रयोदशोऽध्यायः ॥ १३ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः हंत हत शिबिका वहस्तत्र भवान् स्वं यदि नाज्ञापयिष्यत्तदा ममापराधिनः का गतिरभविष्यदिति सभयं प्रणमति- नम इति । अश्रद्धेयेषु धौरेया मुख्याः ॥ २३ ॥ * * हंत हंत महाभूरिभाग एव रहूगणो यत्तादृशब्रह्मतेजसि शिबिका वाहनाद- पराद्धोऽपि तदनुग्रहामृतवृष्टयभिषिक्तः कृतार्थो बभूव । अहं त्वतिमंदभाग्यो विप्रगले सर्पार्पणापराधात्तदपराधाक्षमापणा- तदभिशापविषदष्टो न जाने किमंधं तमो यास्यामीति विषीदतं राजानमाश्वासयति- इत्येवमिति । उत्तरा माता यस्येति । भो PISICILE १. प्रा० पा० - आत्मस्वत्वं । २. प्राचीने पाठे परानुभावः’ नास्ति । २३. प्रा० पा०– चरण: पूर्णार्णव इव । ४. प्रा० पा०- मिमां चचार । ५० प्रा० पा०—भगवदाश्रितानुभावः । ६. प्रा० पा० - जीवलोकभावाच्या ॥ ॐ । mod P २८० श्रीमद्भागवतम् [[ एक. ५ अ. १३ श्लो. २३-२६ राजन् त्वन्मातुर्गर्भे प्रविश्य ब्रह्मतेजसः सकाशाद्भगवान्स्वयमेव त्वां ररक्ष स्वं दर्शयामास च पुनरपि सांप्रतं ब्रह्मतेजसो रक्षितुं मामेतांश्च नारदादिमहामुनीन्प्रेर्य त्वदंतिकमानीयैतेषामपारकृपामृतेन त्वामभिषिच्य भागवतामृतं मद्वारा पाययन्स एव प्रभुर्ब्रह्म- तेजोऽपि व्यर्थीचकारेत रहूगणात्तस्माद्भरताच्च मत्तश्चैतेभ्यो महामुनिभ्यश्च त्वदीयं सौभाग्यमतिमहत्तमं व्यंजयामास तदपि किं विषीदसीति भावः । न गणयतस्तिरस्कुर्वतोपि । सम्बन्ध सामान्यविवक्षया षष्ठी । परोऽनुभावो यस्माद्यस्य वेति सः । करणानामि- न्द्रियाणामूर्मयो वृत्तयः ।। २४ ॥ * * सुजनाच्छ्रीमद्भरतात् । आत्मनि स्वस्मिन्याऽनादित एव प्रवृत्ताऽविद्या तयारोपितां देहात्मबुद्धिम् ।। २५ ।। याग्यं यथा भवति तथा आनुकूल्येन पुनः पुनः कथनेन वा ॥ २६ ॥ इति श्रीमद्भागवत भावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीमद्वीरराघवव्याख्या ॥ ॥ freshin ज्ञानिनः केन रूपेण चरन्तीत्यज्ञानात्सर्वान्नमस्करोति नम इति । महद्भयो नमः तत्रापि शिशुरूपेभ्यो नमः ये युवान- स्त्वादृशास्तेभ्योऽपि नमः आबटुभ्यः बहुपर्यन्तेभ्यः बटुर्माणवकः बटुवत्स्वमाहात्म्यानाविष्करणशीलपर्यन्तेभ्यः इत्यर्थः । ज्ञानिनो हि स्वमाहात्म्यानाविष्कारेण तिष्ठन्ति “तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति श्रुतेः पाण्डित्यं नाम ज्ञाननिष्ठां निर्विद्य बाल्येन तिष्ठासेदित्यर्थः । ये त्वादृशा ब्राह्मणा अवधूतवेषाः गां भूमिं चरन्ति तेभ्यः सकाशाद्राज्ञां मादृशानां कृतागसां शिवमस्तु महतां निग्रहो मा भूत् ॥ २३ ॥ * * संवादमुपसंहरति शुकः हे उत्तरामातः । उत्तरा माता यस्य स उत्तरामाता परीक्षित्तस्येदं संबोधनमुत्तरामातरिति, अविगणयते न विगणयत इत्यविगणयन् तस्मै अवमानं कुर्वाणाय सिन्धुसौवीरपतये रहूगणायाविगणितः परिच्छेत्तुमशक्यः परमानुभावः प्रभावो यस्य स वै ब्रह्मर्षिसुतः परमकारुणिकत्वेन हेतुना आत्मनस्तत्त्वं प्रकृतिविलक्षणब्रह्मात्मकत्वविशुद्धज्ञानानन्दत्व प्रकृतशान्तत्वादियाथात्म्यमुपदिश्य सकरुणं सस्नेहं यथा भवति तथा रहूगणेना- भिवन्दितौ चरणौ पादौ यस्य सः आसमन्तात्पूर्ण: समुद्र इव निभृतानि शान्तानि करणानि इन्द्रियाणि ऊर्मयः अशनायादयः आशयोऽन्तःकरणं वासना वा यस्य सः इमां धरणिं भूमिं विचचार ।। २४ ॥ * * सौवीरपतिः रहूगणोऽपि सुजनाद्रह्मर्षि- सुतात्सम्यगवगतं परमात्मनस्तत्त्वं याथात्म्यं येन तथाभूतः सन् तदानीमेवात्मन्यविद्ययाज्ञानेनारोपितां देहात्माभिमतिं विससर्ज जहाँ । हे नृप ! भगवदाश्रिता भागवतास्तानाश्रिता भगवद्दासानुदासास्तेषां प्रभाव एवंविधो हि भवतीत्यर्थः ।। २५ ।। * * एवं तत्संवादे उपवर्णिते वणिक्सार्थाध्वादिरूपेण प्रवृत्तानां परोक्षरूपाणामुक्तीनामाशयजिज्ञासयाह राजा परीक्षिच्छुकं प्रति य इति । हे महाभागवत ! शुक ! बहुविदा बहुज्ञेन त्वया यो जीवलोकस्य भवाध्वा पारोक्ष्यरूपेणाभिहितः कथितः स हि यस्मादार्याणां विवेकिनां मनीषया बुद्धया एव दस्युस्थानीयानीन्द्रियाणि गोमायुस्थानीयान्यपत्यादीनीत्येवं कल्पितः विषयो ज्ञानं यस्य सः कल्पित- पदार्थवान् अतोऽञ्जसा सुखेन व्युत्पन्ना विवेकिनो लोकास्तैः समधिगम्यः न त्वव्युत्पन्नमादृशसमधिगम्यः अथ तस्मात् दुरधिगमं दुःखेनाध्यवगन्तुमशक्यमेतत्परोक्षरूपमुक्तिजातं समवेतानुकल्पेन प्रकृतोपयुकार्थसमवेतशब्दप्रयोगेण निर्दिश्यतां व्याख्यायतां शब्दार्थयोरपृथसिद्धत्वाभिप्रायेण समवेतशब्दः प्रयुक्तः । यद्वा एतत्प्रसिद्धाध्वत्वेन रूपितं संसाराध्व स्वरूपं समवेतानुकल्पेन प्रसिद्धा उत्पन्त्यध्वनि समवेताः समवस्थिता ये दस्युगोमायुप्रभृतयः ताननुसृत्य तद्धर्मसाम्येन कल्पाः रूप्यास्तैर्युक्तत्वेनः निर्दिश्यतां कध्यतामित्यर्थः ।। २६ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य कृतभागवतचन्द्रचन्द्रिकायां त्रयोदशोऽध्यायः ॥ १३ ॥ - श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली प TOP TRIATE D ॥ ३॥ H अतिप्रशंसयास्मानपहससि त्वमित्याशङ्कयापराधं क्षमापयन्निव नमस्करोति । नम इति । आबटुभ्यः बटुपर्यन्तं गां 3 भूमि, राजभ्य इति चतुर्थीमप्रयुज्य राज्ञामित्यनया षष्ठयात्मन एवाशिषमाकाङ्क्षत इति ॥ २३ ॥ रहूगणस्य समग्रानुग्रहं कृत्वा ब्रह्मर्षिसुतेन परं किमकारीति तत्राह इतीति । इति समाप्य परमात्मस्तत्त्वं परमात्मनो निर्दोषस्वरूपमविगणितोऽ- सङ्ख्यातः परमानुभावो यस्य स तथा निभृतकरणोम्यशयन स्तिमितेन्द्रियाख्याभिप्रायः । यद्वा निश्चलेन्द्रियाख्य तरङ्गस्थान- स्ववशीभूतेन्द्रियतरङ्ग इत्यर्थः “स्थानेऽभिप्राय आशयः” इति ॥ २४ ॥ * * सुजना ज्ञानिजनपूजितजन्मनो ब्राह्मणत्सिमव- गतपरमात्मसत्तत्त्वः सम्यग् ज्ञातपरमात्मस्वरूपः आत्मनि स्वस्मिन् परमात्मविषये वाऽविद्यया अज्ञानेन भगवद्भक्तानामपीदृशमाहात्म्यं किं पुनः श्रीनारायणस्येत्युपसंहारमुखेन नृपमभिमुखीकरोति एवमिति ।। २५ ।। * * (१) माहात्म्योपलक्षणकीर्ति- प्रथितान् श्लोकानित्यर्थः । आर्षभस्य ऋषभपुत्रस्य भरतस्यानुवर्त्म लोकशास्त्रयोरनुकूलमार्गम् ॥ ० ॥ * * हृदिस्पृशं हृदयङ्गमं मलवत् विष्ठावत् ॥ २ ॥ ॐ हरिमाहात्म्यप्रकटनाय पुनरुक्तं करोति । यो दुस्त्यजानिति । एतत्सर्वं नैच्छदिति यत्तदुचितं तथाहि मधुद्विषो हरेः सेवायामनुरक्तधियां महतामभवो मोक्षोऽपि फल्गुः अल्प आदरणीयो न भवतीत्यर्थः । सेवाया अलंबुद्ध्य स्क. ५ अ. १३ श्लो. २३-२६ ] अनेकव्याख्या समलङ्कृतम् २८१ स्वात् अत्र तात्पर्यार्थस्तु “ऋते हैहयवैन्यादीन्” इत्यादिप्रमाणेन पूर्वोक्त इति ॥ ० ॥ * * यज्ञाय इज्याय धर्मपतये सकलैरनुष्ठीयमान पुण्यस्वामिने विधौ कर्मणि नैपुणाय कुशलबुद्भ्युपेताय योगाय कर्मकरणोपायज्ञाय साङ्ख्यशिरसे उत्तमज्ञान- स्वरूपाय शिरसः पूर्वनिपातं कृत्वा सांख्यपदस्य ज्ञानार्थत्वेनायमर्थः सिद्धयति । अस्येश्वरत्वं स्वत एव न तु कृत्रिमं रुद्रादेरिवेत्यतः प्रकृतीश्वराय लक्ष्मीपतय इति वा नारायणाय हरये नम इति मन्त्रद्वयसूचनाय प्रसिद्धनामोपादानं कृतमपरोक्षज्ञानिनो भरतस्य मृगत्वं घटितवानित्यतो वा योगाय समुदाजहार उत्ससर्ज ॥ ● ॥ * आत्मन एव सर्वा आशास्ते प्राप्तुमिच्छति प्राप्नोति चेति । हिशब्दश्चार्थे इतिशब्दो भरताख्यानसमाप्त्यर्थ इति ॥ २ ॥ (२) ( १ ) तस्येमान् लोकान् गायन्ति- आस्येह राजर्षेर्मनसापि महात्मनः । नानुवमर्हति नृपो मक्षिकेव गरुत्मतः ॥ ० ॥ यो दुस्त्यजान दारसुतान् सुहृद्राज्यं हृदिस्पृशम् । जहाँ युवैव मलवदुत्तम श्लोकलालसः ॥ ० ॥ यो दुस्त्यजानन् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकैः । नैच्छन्नृपस्तदुचितं महतां मधुद्वि- सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ० ॥ * * यज्ञाय धर्मपतये विधिनैपुणाय योगाय सांख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारङ्गायन्मृगत्वमपि यः समुदाजहार ॥ ० ॥ * * इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानु- चरितं स्वस्त्ययनमायुष्यन्धन्यं यशस्यं स्वर्ग्यमा पवर्ग्य चानुशृणोत्याख्यात्यत्यभिनन्दति च सर्वा ह्येवाशिष आत्मन आशास्ते न काश्चन परत इति ॥ ० ॥ * (२) एते श्लोका अग्रिमाध्यायान्तस्था अपि श्रीविजयध्वजतीर्थमते अत्रैव मूले वर्तन्ते । इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्यां त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीमज्जीवगोखामिकृतः क्रमसन्दर्भः इति बटवः क्रीडारतत्वादद्वेयब्रह्मविद इत्यर्थः ।। २३ ।। * * उत्तरामातरिति विसर्गान्तपाठ आर्षप्रयोगो मन्तव्यः अर्हत्पुत्रार्थे समासान्तविधौ मातुर्मातजादेशविधानात् ततोऽन्यत्र च कप्प्रत्ययविधानात् ।। २४-२५ ।। राजोवाचेत्यन्वयः ॥ २६ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी हन्त हन्त शिबिकां वहस्तत्र भवान् स्वं यदि नाज्ञापयिष्यतस्तदा ममापराधिनः का गतिरभविष्यदिति सभयं प्रणमति नम इति । आबटुभ्यः ये बटवः क्रीडारतत्वादश्रद्धेय महिमानस्तानप्यभिव्याप्य स्वदृष्टान्तेन राज्ञां महदपराधं सम्भाव्याह । राज्ञां शिवमस्त्विति ।। २३ ।। * * हन्त हन्त महाभूरिभाग एव रहूगणो यत्ताहगुनातेजसि शिविकावाहनादपराद्धोऽपि तदनुग्रहा - मृतवृष्टयभिषिक्तः कृतार्थो बभूव । अहमतिमन्दभाग्यो विप्रगले सर्पार्पणापराधात्तदपराधक्षमापणा त्तदभिशापविषदग्धो न जाने किमन्धन्तमो यास्यामीति विषीदन्तं राजानमाश्वासयति इत्येवमिति । उत्तरा माता यस्येति भो राजन् ! त्वन्मातुर्गर्भे प्रविश्य ब्रह्मतेजसः सकाशात् भगवान् स्वयमेव त्वां ररक्ष स्वं दर्शयामास च पुनरपि साम्प्रतं ब्रह्मतेजसो रक्षितुं मामेतांच नारदादि- महामुनीन् प्रेर्य त्वदन्तिकमानीय एतेषामपार कृपामृतेन त्वामभिषिच्य भागवतामृतं मद्द्द्वारा पाययन् स एव प्रभुर्ब्रह्मतेजोऽपि व्यर्थीचकार इति रहूगणात्तस्माद्भरताच्च मत्तच एतेभ्यो महामुनिभ्यश्च त्वदीयं सौभाग्यमतिमहत्तमं व्यञ्जयामास तदपि किं विषीदसीति भावः । विगणयतः तिरस्कुर्वतोऽपि परोऽनुभावो यस्मात् सः सिन्धुपतये तस्मै आत्मतत्त्वमुपदिश्य सकरुणं सरोदनं निभृताः शान्ताः करणानामूर्मयो यस्मिन् स आशयो यस्य सः ॥ २४ ॥ * * सुजनात् श्रीमद्भरतात् आत्मनि स्वस्मिन् या अविद्या अनादित एव प्रवृत्ता तया अध्यारोपितां देहे आत्ममतिमात्मबुद्धिं भगवदाश्रितो भरतस्तदाश्रितो रहूगणः ।। २५ ।। * आर्यस्यातिविदुष एव मनीषिकया उत्तमबुद्धया कल्पिता विषया दस्युस्थानीयेन्द्रियगोमायुस्थानीयापत्यादयो यस्य सः । दुरधिगमं दान्तिकानामनुक्तत्वात् समवेतेन समुचितेन अनुकल्पेन दाष्टन्तिकवाचकशब्देन ॥ २६ ॥ || इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । त्रयोदशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥ १३ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ॥ चित्र महाnisha रूपैर्विचरन्ति, अतः सर्वान्नमस्यति नमः इति ॥ २३ ॥ 8 8 उत्तरा माता यस्य हे उत्तरामातः ! विगणयतः अपराधिनोऽपि परमकारुणिकतया तस्मै कृतापराधायापि सिन्धुपतये आत्मतत्त्वं परमात्मतत्त्वमुपदिश्य रहूगणेन ३६ २८२ श्रीमद्भागवतम् this [ एकं. ५ एक. ५. अ. १३ श्लो. २३-२६ सकरुणं यथा भवति तथा वन्दितचरणनिभृताः शान्ताः करणानामूर्मयो यस्मिन् स आशयो मनो यस्य स महीं विचचार ॥ २४ ॥ * सुजनात्तस्मादेव समवगतपरमात्मसत्तत्त्वं येन सः अविद्यया ज्ञानेन आत्मनि अध्यारोपितां देह एवात्मेत्येवं कल्पिताम् भगवदाश्रितो मुनिस्तदाश्रितो रहूगणस्तस्यानुभावः तत्त्वग्रहणपूर्वकदेहात्ममतित्यागित्वम् ।। २५ ।। ४ हे महाभागवत ! बहुविदा सर्वज्ञेन त्वया यो जीवलोकभवाध्वा परोक्षेण वणिक् सार्थकरूपेण अभिहितः कथितः स आर्याणां विवेकिनां मनीषयैव षट् दस्युस्थानीयानीन्द्रियाणि गोमायुस्थानीयान्यपत्यादीनीत्येवं कल्पितविषयः अव्युत्पन्नस्य लोकस्य जनस्य सम्यगधिगमः सुष्ट्वधिगम्यो न भवति । अथ (अतः तदेतदेव दुरवगमं दुःखेनाप्यवगन्तुमशक्यं संसाराध्वस्वरूपं समवेतानुकल्पेन समवेते वर्णनीये इन्द्रियादौ दस्युत्वादिकल्पेन निर्दिश्यताम् ॥ २६ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे त्रयोदशाध्यायार्थप्रकाशः ॥ १३ ॥ गोखामिश्रीगिरिधरलालविहिता बालप्रबोधिनी एवं स्वस्य कृतार्थतां निवेद्य स्वकृतमधिक्षेपं स्मृत्वैवमन्येऽपि ब्रह्मविदोऽनेकेऽलक्षितरूपेण विचरन्ति तेषु स्वस्यान्येषां च राज्ञां राजमदेनापराधं सम्भाव्य तान्नमस्यन् सर्वेषां क्षेमं प्रार्थयते नम इति । महद्भयो वृद्धेभ्यो नमोऽस्तु । शिशुभ्यो बालेभ्यो नमोऽस्तु । युवभ्यो नमोऽस्तु । आबटुभ्यः बटवो ब्रह्मचारिणस्तानभिव्याप्य सर्वेष्वाश्रमेषु ये ब्रह्मविदस्तेभ्यः सर्वेभ्यो नमोऽस्तु । ये ब्राह्मणाः ब्रह्मविदो ऽवधूतलिङ्गा अवधूतवेषेणासम्भावितज्ञातित्वस्वरूपाः गां पृथिवीं चरन्ति तेभ्यः राज्ञां शिवं कल्याणमस्तु ॥ २३ ॥ * तदनन्तरं किं जातमित्यपेक्षायामुभयोर्वृत्तं कथयति - इतीति । उत्तरा माता यस्य तत्सम्बोधन हे उत्तरामातः । इत्येवं स वै ब्रह्मर्षिसुतः सिन्धुपतये रहूगणाय त्रिगणयतः षष्ठी चतुर्थ्यर्थे खापमानं कुर्वतोऽपि परमकारुणिकतया आत्मसतत्त्वं वैराग्याद्युपकरणसहितं आत्मज्ञानमुपदिश्य तेन रहूगणेन सकरुणं सदैन्यं यथा भवति तथाऽभिवन्दितचरण इमां धरणीं विच- चारेत्यन्वयः । अवमन्तर्यपि परमकरुणायां हेतुमाह परानुभाव इति । न हि निवृत्ताभिमाना महान्तो दीनेषु कुप्यन्ति किन्तु कृपयन्त्येवेति भावः । ननु महानुभावत्वेऽपि कथं तस्य कोपाभावः किं वा तस्य लक्षणमित्याशङ्कय कोपकारणकामाभावादेवेत्या- शयेन महानुभावत्वमेव दर्शयति-निभृतेति । निभृता उपशान्ताः करणानामूर्मयो यस्मिन् स आशयोऽन्तःकरणं यस्य सः । आत्म- । । ज्ञानिनो भगवद्भक्तस्यैव पूर्णानन्दत्वेनेन्द्रियोर्म्युपशान्तिः न विषयिण इत्यत्र दृष्टान्तमाह–पूर्णार्णव इवेति । मातृनामग्रहणपूर्वक- सम्बोधनेन परोक्षार्थपरिज्ञाने रहूगणापेक्षया परीक्षितो मन्दाधिकारित्वं सूचयति । तथा चात्र यदि तव कश्चित्सन्देहस्तदाऽहम- सङ्कोचेन प्रष्टव्य इति भावः । अस्य मोक्षस्त्वेकादशस्कन्धे वक्ष्यति स मुक्तभोगां त्यक्तवेमां निर्गतस्तपसा हरिम् । उपासीनस्त- त्पदवीं लेभे वै जन्मभिस्त्रिभिः’ इति ॥ २४ ॥ * सौवीरपती रहूगणोऽपि सुजनात् तस्मात् भरतात् सम्यगवगतं परस्यात्मनः सतत्त्वं तत्त्वज्ञानेन सहितं भक्तिवैराग्यादिसाधनं येन तथाभूतः सन् तदानीमेवात्मनि अन्तःकरणे अविद्ययाऽ- यारोपिता भ्रमन्निश्चिता या तां देहात्ममतिं विससर्ज तत्याज । आश्चर्येण सम्बोधयति । हे नृप भगवदाश्रितो यो भरतस्तदाश्रितो रहू गणस्तस्याप्यनुभावः प्रभाव एवम्भूतः सद्यो देहाद्यहम्ममभावत्यागसामर्थ्यलक्षणो जात इति शेषः । आश्चर्य भगवद्भक्तेर्महिम्न इति भावः ॥ २५ ॥ एवमुयोर्वृत्तं श्रुत्वा परोक्ष्यार्थस्यानवबोधात्तद्व्याख्यानं प्रार्थयते य इति । हे महा- भागवतेति सम्बोधनेन परमभक्तत्वाद्भगवत्कृपया तवैवालौकिककल्पनाज्ञानशक्तिरस्ति नास्माकमिति सूचयति । हेत्याश्चर्ये । वा इत्युक्तार्थस्मरणे । त्वया बहुविदा सर्वज्ञेनेह भरतरहूगणसंवादे पारोक्ष्येण विचसा वणिक्सार्थरूपके यो जीवलोकस्य भवाध्वा सँसारमार्गोऽभिहितः कथितः स हि आर्याणां विवेकिनां मनीषया बुद्धया कल्पिता विषयाः दस्युगोमायुबीरूदादयो यस्मिंस्तादृशः । अतोऽव्युत्पन्नस्य तादृकल्पनाशक्तिरहितस्य लोकस्य तादृशस्य जनस्य अञ्जसा साक्षात् व्याख्यानं विना न समधिगमः सम्यगधिगम्यों न भवति । अथ तस्मात् तदेतदेव भवाध्वरूपं समवेतानुकूल्येन प्रस्तुततत्तदनुरूपार्थोपकल्पनेन निर्दिश्यतां निरूप्यताम् । न च साक्षाद्भगवता सम्पादितदेहस्य गर्भे एव प्राप्तभगवद्दर्शनस्य परमभक्तस्य भगवदङ्गीकृतस्य भगवत्कलानरावतारार्जुनपौत्रस्य बादरायण्यनुगृहीतस्य अधिकारिनिरूपणस्कन्धे उत्तमाधिकारित्वेन निरूपितस्य परीक्षितः कथं पारोक्ष्येण कथितार्थस्य अनवबोधः कथं वोक्तः तद्धर्मरहितस्य रहूगणस्य तदवबोध इति शङ्कयम्, रहगणस्य मर्यादामार्गीयत्वेन तत्तद्व्यवहार संस्काराणामुद्भूत- स्वातद्बलात् तदवबोधो जातः । परीक्षितस्तु जन्मप्रभृति त एव भगवद्भजनपरतया तल्लीलाविष्टचित्तत्वेन व्यवहारसंस्कारस्य तिरोभूतत्वान्न तदवबोधः । अत एव कृष्णाङ्घ्रिसेवामधिमन्यमानः । तक्षको वा दशत्वलं गायतो विष्णुगाथाः’ । ‘नैषाऽतिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते । पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम्’ इत्यादौ तस्य सर्वतो विरक्तिपूर्वकं देहाद्यननुसन्धानादिक- मुक्तम् । नैतावता तस्य न्यूनाधिकारित्वशङ्का युक्तेति ज्ञेयम् ॥ २६ ॥ । पादसेवाधिकारिणा ॥ १ ॥ बालप्रबोधिनी ॥ २ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं रचिता पञ्चमे तत्र योगेन स्थितिरूपणे । त्रयोदशो गतो वृत्ति पारोक्ष्यविनिरूपकः ॥ ३ ॥ टीका स्क. ५ अ. १३ श्लो. २३-२६ अनेकव्याख्या समलङकृतम् श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी २८३ ज्ञानिनः केन रूपेण चरन्तीति ज्ञानाभावात्सर्वान्नमस्करोति नम इति । महद्भयः प्रचुरभगवत्प्रीतिहेतुगुणवयआदि- भिर्गरिष्ठेभ्यः ब्राह्मणेभ्यः नमः अस्तु । युवभ्यस्तरुणेभ्यो द्विजेभ्यः नमः अस्तु । शिशुभ्यो बाल्यावस्थावद्भयो द्विजेभ्यः नमः अस्तु । आबटुभ्यः क्रीडारतत्वादश्रद्धेय धौरेय बटूनभिव्या यः सकाः अस्तु । ये ब्राह्मणास्त्वादृशा विप्राः, अवधूतलिङ्गा अवधूतसमान- । 20 1. वेषाः सन्तः गां चरन्ति, भूमौ विचरन्तीत्यर्थः । तेभ्यः सकाशात् राज्ञां मादृशकृतागोनृपाणां शिवं अस्तु । मादृशैर्भवाहयह- निग्रहो मा भूदित्यर्थः ॥ २३ ॥ संवादमुपसंहरति शुकः इतीति । उत्तरा माता यस्य तत्संबुद्धौ हे उत्तरामातः परीक्षिन्नृपते, विगणयतः न गणयतः, सप्तम्यर्थे षष्ठीयम् । अवमानकर्त्तर्यपीत्यर्थः । परमकारुणिकतया, वर्त्तमान इति शेषः । परो महानुभावः प्रभावो यस्य सः । स उक्तविधः ब्रह्मर्षिसुतः सिन्धुपतये सिन्धुसौवीरनाथाय रहूगणाय, आत्मतत्त्वं परात्मनो निर्दोषस्वरूपं, इट इत्येवमुक्तप्रकारेणैव, उपदिश्य, संस्थितः रहूगणेन सकरुणं सस्नेहं यथा भवति तथा अभिवन्दितौ चरणौ यस्य सः, निभृताः शान्ताः करणानामिन्द्रियाणामूर्मयो यस्मिंस्तथाविध आशयोऽन्तःकरणं यस्य सः । आपूर्णार्णवः इव, अक्षोभ्यतया वर्त्तमानः सन्नेवेत्यर्थः । इमां धरणों, विचचार वै ॥ २४ ॥ * सौवीरपतिरिति । सौवीरंपतिः रहूगणोऽपि, सुजनाद ब्रह्मर्षिसुतात्, सम्यगवगतं परमात्मसतत्त्वं परमात्मनो याथात्म्यं येन यं येन नारोपितां, देहात्ममति देहात्माभिमतिं विससर्ज जहाँ । हे नृप, भगवदाश्रिता भागवतास्तानाश्रिता भगवद्दासानुदासास्तेषामनुभावः विसर्जन, क्याभूतः सन् तदानीमेवेति शेषः । आत्मनि अविद्याध्यारोपितामझाने- प्रभावः, एवं हि एवंविध एव ॥ २५ ॥ एवं तत्संवादे उपवर्णिते वणिक्सार्थाध्वादिरूपेण प्रवृत्तानां परोक्षरूपाणा- मुक्तीनामाशयजिज्ञासया परीक्षित नृपतिः शुकं प्रत्याह य इति । हे महाभागवत शुक, बहुविदा बहुज्ञेन, त्वया भवता, यः, इह जीवलोकभवाध्वा जीवलोकानां भवाटवीरूपो मार्गः, पारोक्ष्येण परोक्षरूपेण, वचसा अभिहितः कथितः वै । सः हि यस्मात्, आर्याणां विवेकिनां मनीषा बुद्धिस्तया एव कल्पितः। दस्युस्थानीयानीन्द्रियाणि गोमायुस्थानीयान्यपत्यादीनि चेत्येवं कल्पितः विषयो ज्ञानं यस्य सः, भवति । अतः अञ्जसा सुखेन, अव्युत्पन्नलोकसमधिगम्यः न । विवेकिसमधिगम्यः न त्वव्युत्पन्नमादृश- समधिगम्य इत्यर्थः । अथ तस्मात्, तदेव दुरवगमं दुःखेनाप्यवगन्तुमशक्यम् एतत्परोक्षरूपमुक्तिजात, समवेतानुकल्पेन प्रकृतोप- युक्तार्थसमवेतशब्दप्रयोगेण, निर्द्दिश्यतां व्याख्यायताम् । इत्येवंभूता मत्प्रार्थनास्तीति शेषः ॥ २६ ॥ ॥ इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसूनुभगवत्प्रसादाचार्यविरचिताया- ||मन्वयार्थावबोधिन्यां भक्तमनोरज्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥ भाषानुवादः ब्रह्मज्ञानियोंमें जो वयोवृद्ध हों, उन्हें नमस्कार है, जो शिशु हों उन्हें नमस्कार है; जो युवा हों, उन्हें नमस्कार है और जो क्रीडारत बालक हो, उन्हें भी नमस्कार है। जो ब्रह्मज्ञान ब्राह्मण अवधूतवेषसे पृथ्वीपर विचरते हैं, उनसे हम जैसे ऐश्वर्योन्मत्त राजाओंका कल्याण हो ॥ २२ ॥ BR 18
- श्रीशुकदेवजी कहते हैं—उत्तरानन्दन ! इस प्रकार उन परम प्रभावशाली ब्रह्मर्षिपुत्रने अपना अपमान करनेवाले सिन्धुनरेश रहूगणको भी अत्यन्त करुणावश आत्मतत्त्वका उपदेश दिया। तब राजा रहूराणने दीनभावसे उनके चरणोंकी बन्दना की। फिर वे परिपूर्ण समुद्रके समान शान्तचित्त और उपरतेन्द्रिय होकर पृथ्वीपर विचरने लगे ।। २४ ।। * उनके सत्सङ्गसे परमात्मतत्त्वका ज्ञान पाकर सौवीरपति रहूगणने भी अन्तःकरणमें अविद्या- वृश आरोपित देहात्मबुद्धिको त्याग दिया । राजन् ! जो लोग भगवदाश्रित अनन्य भक्तोंकी शरण ले लेते हैं उनका ऐसा ही प्रभाव होता है— उनके पास अविद्या ठहर नहीं सकती ।। २५ ।। * * राजा परीक्षितने कहा-महाभागवत मुनिश्रेष्ठ आप परम विद्वान हैं । आपने रूपकादिके द्वारा अप्रत्यक्षरूपसे जीवोंके जिस संसाररूप मार्गका वर्णन किया है, उस विषयकी कल्पना विवेकी पुरुषोंकी बुद्धिने की है; वह अल्पबुद्धिवाले पुरुषोंकी समझमें सुगमतासे नहीं आ सकती । अतः मेरी प्रार्थना है कि इस दुर्बोध विषयको रूपकका स्पष्टीकरण करनेवाले शब्दोंसे खोलकर समझाइये || २६ ॥ १ pite the tops इति त्रयोदशोऽध्यायः ॥ १३ ॥ PP FE गायक: SEP STREET BRIMPPERS TEERD IP IPPS APE) FIRESTRIC FF SX2FSFENFIF क Friday- (Pilanites for MAR ! Place: 11 811 In the te met Stream 15
- अथ चतुर्दशोऽध्यायः
- Rese haincaps * स होवाच
- क
- य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोग- संयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववनसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमार्या संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपश’ मनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणां दस्यव एव ते ।। १ ।। तद्यथा पुरुषस्य धनं यत्किञ्चिद्ध मौपयिक बहुकुच्छाधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्य धनं दर्शनस्पर्शनश्रवणास्वादनाव घ्राणसङ्कल्पव्यवसाय गृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति ॥ २ ॥ अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वकशृगाला ऐवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं “मिषतो पि हरन्ति ॥ ३ ॥ यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रत्रं पुनरेवा वपनकाले गुन्मतॄणबीरुद्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्र यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः ॥ ४ ॥
- PREEFS
- तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभशकुन्ततस्करमूषकादिमिरुपरुध्यमानवहिः प्राणः कचित् परिवर्त- मानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थ नरलोकं गन्धर्वनगरमुपपन्नमिति मिध्यादृष्टिरनुपश्यति ।। ५ । ‘तत्र च कचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः ।। ६ ।। क्वचिच्चाशेषदोष- निषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७ ॥ अथ कदाचिभि- वासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति ॥ ८ ॥
- अन्वयः - यः एषः जीवलोकः अयम् ईश्वरस्य भगवतः विष्णोः वशवर्तिन्या मायया देहात्ममानिनाम् सत्त्वादिगुणविशेष- विकल्पितकुशलाकुशल समवहारविनिर्मितविविधदेहावलिभिः वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण दुर्गाध्ववत् असुगमे तस्मिन् अध्वनि यथा अर्थपरः वणिक्सार्थः तथा आपतितः स्वदेहनिष्पादित कर्मानुभवः श्मशानवत् अशिवत- मायाम् संसाराटव्याम् गतः विफलबहुप्रतियोगेहः अद्य अपि तत्तापोपशमनीम् हरिगुरुचरणारविंदमधुकरपदवीम् न अवरुन्धे यस्याम् उ ह एते इंद्रियनामानः षट् ते कर्मणाम् दस्यवः एव सन्ति ॥ १ ॥ * * तत् यथा बहुकृच्छ्राधिगतम् यत् किंचित् धर्मोपथिकम् पुरुषस्य धनम् साक्षात् पुरुषाराधनलक्षणः यः असौ धर्मः तम् तु सांपराये उदाहरति अजितात्मनः कुनाथस्य उत् धर्म्यम् धनम् दर्शन- स्पर्शनश्रवणास्वादनावघ्राणसंकल्पाध्यवसाय गृहग्राम्योपभोगेन यथा अजितात्मनः साथस्य तथा विलुपति ॥ २ ॥ * अथ च यत्र नाम्ना कौटुंबिकाः दारापत्यादयः कर्मणा वृकसृगालाः एव अनिच्छतः अपि कदर्थस्य कुटुंबिनः मिषितः अपि उरणकवत् संरक्ष्यमाणम् हरन्ति ॥ ३ ॥ * * हि यथा अनुवत्सरम् कृष्यमाणम् अपि अदग्धबीजम् क्षेत्रम् पुनः एव आवपनकाले गुल्म- तृणवीरुद्भिः गह्वरम् इव भवति एवम् एव अयम् गृहस्थाश्रमः कर्मक्षेत्रम् यस्मिन् हि कर्माणि न उत्सीदति यत् एषः आवसथः अयम् कामकरंडः ॥ ४ ॥ ॐ तत्र गतः दंशमशकसमापसदेः मनुजैः शलभशकुंततस्करमूषकादिभिः उपरुद्धथमानबहिः प्राणः कचित् अस्मिन् अध्वनि परिवर्तमानः अविद्याकामकर्मभिः उपरक्तमनसा अनुपपन्नार्थम् गंधर्वनगरम् नरलोकम् उपपन्नम् इति मिध्यादृष्टिः अनुपश्यति ।। ५ ।। * * तत्र च पानभोजनव्यवायादिव्यसनलोलुपः कचित् आतपोदकनिभान् विषयान् उपधा-
- १. प्रा० पा० - पोपशमनां । २. प्रा० पा०– यत्किञ्चित्साक्षाद्धमप० । ३. प्रा० पा० - यत् परमपुरुषा० । ४. प्रा० पा० - - दर्शन. स्वादना वम्राणसङ्कल्पसंव्यवसाय० । ५० प्रा० पा० यथा सार्थिकस्य त० । ६. प्रा० पा० निमिषतो ० । ७० प्रा० पा०—- रतो दंशमशकाप सदै० । ८. प्राचीने पाठे ‘मिध्यादृष्टिरनुपश्यति’ अंशः खण्डितः । ९. प्राचीने पाठे ‘तत्र च’ पाठो न ।
- स्कं. ५ अ. १४ लो. १-८]
- वति ॥ ६ ॥
- अनेकव्याख्यासमलङ्कृतम्
- २८५
- कचित् च तद्वर्णगुणनिर्मितमतिः अशेषदोषनिषदनम् पुरीषविशेषम् सुवर्णम् अग्निकामकातरः उल्मुक- पिशाचम् इव उपादित्सति ॥ ७ ॥ अथ कदाचित् निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेशः एतस्यां संसा- राटव्याम् इतस्ततः परिधावति ॥ ८ ॥
श्रीधरखामिविरचिता भावार्थदीपिका चतुर्दशे भवारण्यरूपकव्याकृतिः कृता । प्रस्तुते तस्य गोमायुमशकाद्यर्थकल्पनम् || १ ॥ । तस्य ॥ * यः परीक्षिता पृष्टः स श्रीशुक उवाच । हेति सूतोक्तिः । दुरत्ययेऽध्वन्यजया निवेशित इति यदुक्तं तदेव निवेशन- प्रकारकथनेन प्रपञ्चयति । य एष प्रसिद्धो जीवलोकोऽयं विष्णोर्माययाऽसुगमेऽध्वन्यापतितो भवाटवीं गतः सन् हरिरूपस्य गुरोश्चरणारविन्दे ये मधुकराः सेवकास्तेषामनुपदवीं तैरनुष्ठितं भक्तिमार्गमद्यापि नावरुन्धे न संप्राप्नोतीत्यन्वयः । मायायाः स्वकार्थद्वारेण संसारमार्गे पातहेतुत्वमाह । देहात्ममानिनां सत्त्वादिगुणविशेषैर्विकल्पितानि विभक्तानि यानि कुशलाकुशलविमिश्रकर्माणि तैर्विनिर्मिताभिर्विविधदेहावलिभिर्वियोगसंयोगादिर्योऽनादिः संसारस्तदनुभवस्य द्वारभूतेन षडिद्रियवर्गेण तस्मिन्संसाररूपे दुर्गमार्गवदसुगमेऽध्वन्यापतितो यथा वणिजां सार्थः समूहोऽर्थार्जनपरः । स्वदेहनिष्पादितानां कर्मणां फलद्वारेणानुभवों यस्य विफलाश्च बहुप्रतियोगा बहुविघ्नाथ ईहाश्चेष्टाः यस्य सः । तस्यां संसाराटव्यां ये तापास्तेषामुपशमनीं नाशनीम् । यस्यामित्यादि व्याचष्ये । यस्यां भवाटच्याम् । ॥ १ ॥ दस्युतुल्यं तेषां कर्म दर्शयति तद्यथेति । धर्मोपथिक धर्मकारणम्। तमेव स्वाभिप्रेतं धर्ममाह साक्षादिति । तं तु सांपराये परलोकार्थ- सुदाहरन्ति तद्धर्म्य धर्मा धनम् । दर्शनाद्याः पञ्चज्ञानेन्द्रियाणां वृत्तयः संकल्पव्यवसायाबन्तःकरणस्य एतैर्गृहे यो प्राम्य उपभोगस्तेन कुनाथस्य कुबुद्धेर जितात्मनो विलुपंति । यथा चौराः कुपालकस्यानवहितात्मनः सार्थस्य धनं हरन्ति तद्वत् ॥ २ ॥ * * गोमायवो यत्रेत्येतद्व्याचष्टे । अथ चेत्यर्थान्तरोपन्यासे । कर्मणा ते तु वृकाः सृगालाश्च कदर्यस्याति- लुब्धस्य ॥ ३ ॥ प्रभूतवीरुत्तृणगुल्मगह्वरमित्येतद्वद्याचष्टे यथाहीति । न दग्धानि बीजानि यस्मिन् । यद्यस्माद्योऽ- यमावसथ आश्रम एष कामानां करंडः यथा कपू रभाजने कर्पूरक्षयेऽपि परिमलो न क्षीयते एवमत्र वासनानामक्षीणत्वान्न कर्माण्युत्सीदंतीत्यर्थः ॥ ४ ॥ * * दंशमशकतुल्यैरपसदैर्नीचैः शलभादिभिचोपरुध्यमानः पीड्यमानो बहिः प्राणो वित्त यस्यै तथाविधोऽप्यस्मिन्नध्वनिं परिभ्रमन्नविद्यादिभिरुपरक्तेन मनसा गन्धर्वपुरतुल्यमघटमानं नरलोकं सत्यतथा मिध्यादृष्टि- रनुपश्यति ।। ५ ।। ऋ * प्रपश्यतीति प्रशब्दसूचितमर्थान्तरं दर्शयति । तत्र च गन्धर्वपुरे कचिदातपोदकं मृगतृष्णाजलं तत्तुल्यान्विषयानुपधावतीति ।। ६ ।। ६
-
- क्वचित्कचिच्चाशुर योल्मुकग्रहमित्येतद्वया चष्टे । कचिचाशेषाणां दोषाणां निषदनं स्थानं पुरीषविशेषमग्नेर्विष्ठा तस्य पुरीषस्येव लोहितो वर्णो यस्य रजोगुणस्य तेन निर्मिता तद्विषया मतिर्यस्य स सुवर्णमुपादातु- मिच्छति । अग्निकामेन कातरः परवश उल्मुकसदृशं पिशाचमिव । शीतातुरो हारण्येऽग्निवज्जाज्वल्यमानं ततस्ततो धावन्तमुल्मुक पिशाचमग्निबुद्धयाऽनुधावति न तु तं प्राप्नोति कथंचित्प्राप्तश्चेतर्हि तेन भक्षितः सन् म्रियते । एवं सुवर्णमनुधावन्न- पीत्यर्थः ॥ ७ ६ ॥ ७ ॥ * निवासतोयद्रबिणेत्येतद्वद्याचष्टे । अथेति निवासादिष्वनेकेष्वात्मनः उपजीव्येष्वभिनिवेशो यस्य । ॥ *
। श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः भवारण्यरूपकस्य व्याकृतिर्व्याख्या ( १ ) । श्रीगुरुचरणाश्रयं विना संसारादव्यां भ्रमत्येवेति भावः । ननु जीवसंसारस्य मायाकृतत्वान्मायादेवीमेव जीवः प्रपद्यतां सैव प्रसन्ना तं संसारान्मोचथिष्यति किं हरिगुरुचरणप्रपत्त्या, तत्राह - विष्णोर्वश- वर्त्तिन्या माययेति । संसारान्मोचने न तस्याः स्वातंत्र्यमिति भावस्तदुक्तं “देवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।।” इति गीतायां, तित्र लोके एवकारेण समुच्चयपक्षोपि निरस्तः । “विघ्ने च तुल्ययोर्योगे प्रतियोगस्त- थोद्यमे” इति निरुक्तिः ।। १-२ ।। * * कर्मणा स्वस्वव्यापारेण दर्शनादिना संरक्ष्यमाणं स्वार्थिकमन्नगुडधृतादिसंपुटम् । उरणकवन्मेषवत् ॥ ३ ॥ * * आवसथो गृहस्थाश्रमः । “आवसथो ग्रामगेहशिबिरादिषु युज्यते” इति । “करंडोऽसिकोश- पिटकासर घापटलेषु च” इति निरुक्तिः । इत्यर्थ इति । सर्वथा नाशस्तु कर्मणां विना ज्ञानं न सम्भवति, गृहस्थस्य सर्वदा कर्मासक्तत्वाज्ज्ञानं दुर्लभमेवातो गृहस्थे कर्मणामनवरतस्थितिरेवेति भावः ॥ ४ ॥ * * गर्छे नीचोपसदनिंद्या’ इति कोशात् । ‘वित्तं बहिञ्चराः प्राणाः’ इत्यभियुक्तोक्तः । परिवर्त्तमानः परावृत्त्य परामृशन् । न उपपन्नोऽर्थो वित्तं यस्य तं नरलोकवनक नृपादिकं पश्यति, ततश्च तदुपासनया वाञ्छितवित्तादिकमुपपन्नमिति गंधर्वनगरमिव तमनुपश्यति ॥ ५ ॥ * * आदिना गानादिग्रहः ।। ६ ।। * पुरीषविशेषं मलविशेषम् । तन्निष्ठयूतं हाटकाख्यं सुवर्णं भवतीति वक्ष्यमाणत्वात् । ‘पुरीष मल्हेययोः’ इति कोशात् । इत्यर्थ इति । सुवर्णार्थमितस्ततस्तत्प्राप्तये यत्नं कुर्वन्यदि तदाप्नोति तदा चौरादिस्ततस्तदुपाहर्तुं तमेव २८६ श्रीमद्भागवतम् [ स्कं. ५ अ. १४ श्लो. १-८ * मारयतीति भावः । स्वर्णमंत्र द्रव्यमात्रोपलक्षकं परकीयस्येति केचित् ॥ ७ ॥ भिनिवेश:’ इति पाठष्टीकानुरोधात्प्रतिभाति । उपजीव्येषूपजीवनसाधनेषु ॥ ८ ॥ * श्रीमद्वीरराघवव्याख्या आदिना वस्त्रादिग्रहः । ‘अत्रोपजीव्या- है || || ॥ ॥ हमने एवमापृष्टः शुकः समवेतानुकल्पेन निर्दिशंस्तावद्दुरत्यय इति श्लोकं व्याचष्टे य इति । य एष जीवलोकः ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्याऽधीनया माययाऽतिदुर्गाध्वनि असुगमे संसाराध्वनि कर्ममार्गे आपतितो मायायाः स्वकार्यद्वारेण संसारमार्ग- पातहेतुत्वमाह । देहात्माभिमानिनां सत्वरजस्तमोभिर्गुणैर्विशेषेण कल्पितानि विभक्तानि सात्त्विक राजसतामसभेदभिन्नानि यानि कुशलानि सुखसाधनानि सात्त्विकानि अकुशलानि दुःखसाधनानि राजसानि मिश्राणि प्रमादालस्यादिसाधनानि रजस्तमोमूलानि कर्माणि तैर्विनिर्मिताभिसपादिताभिर्विविधदेहावलिभिः । “ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।” धरां रजःस्वभावेन इत्याद्युक्तरीत्या नियतदेशवृत्तिदेवमनुष्यासुराः दिदेहपङ्क्तिभियौं वियोगसंयोगौ देवियोगतत्संयोगी आदिशब्देन बाल्ययौवनस्थविरादिभावसङ्ग्रहः एतद्रूपोऽनादिः संसारस्तदनु- भवस्य द्वारभूतेन षडिन्द्रियवर्गेण स एतस्मिन दुर्गाध्वन्यसुगमे संसाराध्वनि कर्ममार्गे आपतितः यथा बणिजां सार्थः समूहोऽर्थार्जनपरः तथा स्वदेहनिष्पादितानां पूर्वोक्तानां कर्मणां फलद्वारेणानुभवो यस्य विफलाश्च बहुलप्रतियोगा बहुविघ्नोपहता ईहाश्रेा यस्य सः श्मशानवदमङ्गलरूपायां संसाराटव्यां गतोऽद्यापि तस्यां संसाराटव्यां ये तापा आध्यात्मिकादयस्तेषां शमनीं हरिदेव गुरुस्तस्य हरिगुरोश्चरणारविन्दे ये मधुकरा भ्रमरतुल्या भक्तास्तेषामनुपदवीं तैरनुष्ठितं भक्तिमार्गं नावरुन्धे न प्राप्नोति ॥ १ ॥ * * यस्यामित्यादिश्लोकं व्याचष्टे । यस्यामुहवेति यस्यां संसाराटव्यां ये षडिन्द्रियनामान एते कर्मणा दस्यव एव दस्युव्यापारेण दस्युत्वेन पूर्व निरूपिता इत्यर्थः, इन्द्रियनामानः इत्यनेन केवलं नामभेद एवं कर्मणा ते दस्यव एवेत्युक्तं दस्यूनामिन्द्रियाणां च धनापहारित्वरूपं कर्म तुल्यमिति दृष्टान्तदाष्टन्तिकभावेन दर्शयति यथेति । यथास्य पुरुषस्यानवहितात्मनः सार्थस्य वणिजादेः धनं बहुकृच्छ्रेणा- तिदुःखेनाजितं धर्मौपयिकं धर्मोपयोगाहं धनस्य धर्म एवोपयोगः सफलो न तु काम इत्यभिप्रायेण धर्मोपथिकमित्युक्तं, तथा चोक्तं प्रथमे - “धर्मस्य ह्यापवर्त्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मेकान्तस्य कामो लाभाय हि स्मृतः ॥” इत्येवम्विधं यत्किश्चिद्धनं यथा दस्यवश्चोरा अपहरन्त्येवमस्य पुरुषस्य यो भगवदाराधनरूपो धर्मस्तं साम्परायिकं परलोकहितं धनमित्युदाहरन्ति तद्धर्म्यं धर्माद्वर्णाश्रमादिधर्मादनपेतं धर्म्यं वर्णाश्रमादिधर्मयुक्तमित्यर्थः । धनं भगवदाराधनात्मकं धनं इन्द्रियाण्यपि दर्शनादिभिः पञ्चभि- ज्ञानेन्द्रियवृत्तिभिः सङ्कल्पव्यवसायाभ्यामन्तःकरणवृत्तिभ्यां चेत्येतैर्यो गृहेषु प्रास्यः सांसारिक उपभोगस्तेन कुनाथस्य कुबुद्धेरत एवाजितात्मनः अजितेन्द्रियस्यास्य पुरुषस्य सम्बन्धि विलुम्पन्ति अपहरन्ति ॥ २ ॥ * * गोमायवो यत्रेति एतद्वयाचष्टे । अथ चेत्यर्थान्तरोपन्यासे, नाम्ना दारापत्यादयः कर्मणा तु वृकाः शृगालाच एते इत्यर्थः । वृकशृगालसाधर्म्यमेवाह-अनिच्छत इति । कुटुम्बिनः गृहाश्रमिणः कदर्यस्यातिलुब्धस्यानिच्छतोऽपि आत्मापहारमिति शेषः । बलादिति भावः । मिषतः पश्यतः सतः संरक्ष्यमाणमुरणमिव हरन्ति स्वशेषत्वेन कुर्वन्तस्तत्स्वरूपं भगवच्छेषतैकरूपमपहरन्तीत्यर्थः ॥ ३ ॥ * * प्रभूतवीरुत्तृण गुल्मगहर इत्येतद्वयाख्यातुं तावद्गृहाश्रमस्य प्रसिद्धक्षेत्रतुल्यतामाह यथा हीति । अनुवत्सरं प्रतिवत्सरं कृष्यमाणं वृक्षच्छेदपूर्वकं कर्षणेन संस्कृतमपि क्षेत्रमदग्ध बीजं न दग्धानि बीजानि द्रुममूलानि यस्मिन् तथाभूतं सत्पुनरावपनकाले बीजावापकाले यथा गुल्मादिभिर्गहरमेव भवत्येवं गृहाश्रमरूपं कर्मक्षेत्रमपि प्रसिद्धक्षेत्रतुल्यं, कुतः हि यस्मात् यस्मिन् गृहाश्रमे कर्माणि नोत्सीदन्ति न मूलतो नश्यन्ति कुतो यद्धि यस्मादयमावसथः गृहं कामकरण्डः कामानां करण्डः यथा कपूरभाजने कर्पूरक्षयेऽपि परिमलो न हीयते एवमत्र कर्मनाशेऽपि तद्वासनानामक्षीणत्वात्कामानां पेटिकेत्यर्थः, तत्रैवंभूते कर्मक्षेत्रे गृहाश्रमे पतितः दंशमशकतुल्यैरप- सदैर्नीचैरुपद्रुत इति शेषः, शलभादिभिरुपरुध्यमानः पीड्यमानः बहिः प्राणः धनधान्यादिरूपो यस्य शलभादिभिरपहृत सस्यधान्य- धनवान् भवतीत्यर्थः । प्राणवत्प्रियत्वाद् बाह्यत्वाच धनस्य बहिःप्राण इत्युक्तम् ॥ ४ ॥ कचिश्च गन्धर्वपुरमित्युत्तरार्द्ध ४ ॥६ * * व्याचष्टे । कचिदस्मिन्संसाराध्वनि परिवर्त्तमानः भ्राम्यन्नविद्यादिभिः यदुपरक्तं तेन मनसा तत्राविद्याऽहंममाभिमानकामविषया- भिलाषः कर्म पुण्यापुण्यकर्म वासनाः नरलोकं स्वशरीरं पुत्रादिशरीरं गन्धर्वनगर वदनुपपन्नार्थमनुपपन्नमित्यर्थः । नित्यस्वरूपं वस्तु यस्य तं मिध्यादृष्टिरनित्ये नित्यत्वरूपमिथ्याभ्रमयुक्तः उपपन्नार्थं नित्यं पश्यतीत्यर्थः ॥ ५ ॥ * * प्रपश्यतीति शब्द- सूचितमर्थान्तरमाह तत्रेति । तत्र तत्र गन्धर्वपुरे कचिदातपोदकं मृगतृष्णाजलं तत्तुल्यान्विषयान्पानादिषु लोलुपतयासक्तः सन्नुपधावत्यन्वेषयतीत्यर्थः ॥ ६ ॥ ४ ॥ चतुर्थपादं व्याचष्टे कचिच्चेति । कचिचाशेषाणां दोषाणां निषदनं स्थानम् । पुरीषविशेषमग्नेर्विष्ठांतस्य पुरीषस्येव लोहितो वर्णो यस्य रजोगुणस्य तेन निर्मिता पुरीषविषया मतिर्यस्य सः सुवर्णमुपादातु- मिच्छति सुवर्णस्याग्नेः पुरीषत्वं च वितलवर्णनगद्ये चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठपूतं हाटकाख्यं सुवर्णमिति वक्ष्यति। तत्र दृष्टान्तः अग्निकामेन कातरः परवशः उल्मुकसदृशं पिशाचमिवेति शीतातुरो हारण्येऽग्निमिव जापवल्यमानं ततस्ततो धावन्तमुल्मुकपिशाचमग्निबुद्धधानुधावति न तु तं प्राप्नोति कथश्चित् प्राप्तश्चेत्तेन भर्जितः सन् म्रियते एवं सुवर्णमनुधावन्त्रपीत्यर्थः ॥ ७ ॥ * * निवासतोयेति व्याचष्टे । अथेति । निवासादिषु अनेकेष्वात्मन उपजीव्येष्वभिनिवेशो यस्य तथाभूतस्ततोऽस्यां संसाराढव्यां परिधावति ॥ ८ ॥ ।। ई । एक. ५. १४ श्लो. १८] Fires अनेकव्याख्या समलङ्कृतम् me श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली की २८७ he me अत्र पूर्वाध्यायोक्तमेव प्रश्नपूर्वक कथयति यो ह वा इत्यादिना । बहुपूर्णतायामिति हरेः पूर्णतां वेत्तीति बहुवित्तेन सार्वत्यं चेदमेव परोक्ष्येण परोक्षविषयेण वाचो व्यङ्गयभङ्गचा जीवलोकस्य जीवराशेः भवाध्वा संसारमार्गः आर्यमनीषया पण्डितबुद्धया कल्पितविषयः निर्णीतार्थः अव्युत्पन्नेन शब्दव्यङ्गन्यार्थ परिज्ञानशून्येन लोकेन जनेन मुख्यतः समधिगतो न भवतीति नाअसा व्युत्पन्नलोकसमधिगतः “परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष” इति श्रुत्यर्थं ह वा इत्यनेनाह एतदेवाह । अथेति । अथ तस्मात्समवेतानुकूल्येन उक्तशब्दार्थवाच्यवाचकरूपेण समवेतं यथा ज्ञातुं योग्यं तथानुकूल्येन पुनः कथनेनेति वा ॥ ० ॥ * * एवं परीक्षिता पृष्टः श्रीशुकमुनिः किमुवाचेति शौनकप्रश्न हृदि कृत्वा उवाच सूत इति । सूतः किमुवाचेति तत्राह सहोवाचेति । स श्रीशुकः राजप्रश्नपरिहाराय यदुवाच अहमपि त्वत्प्रमपरिहारार्थं वच्मीत्येतमर्थं हेत्यनेन सूचयति । दुरत्ययेऽध्वनीत्यस्याभिप्रायं कथयति । य एष प्रसिद्धो जीवोऽसुगमे दुर्गमेऽध्वन्यापतित इत्यन्वयः । अजयेत्यस्य विवरणं माययेति । कस्येयमित्याशङ्कानिवृत्तये ईश्वरस्येति आच्छाद्य विक्षिपति स्फुरदात्मतत्त्वमित्यद्वैतमतनिरासायोक्तं वशवर्त्तिन्येति । माया कथङ्कारं पातयतीत्यत्रोपपत्ति दर्शयति देहेति । देहात्ममानिनां देह एवात्मेति मन्यमानानां सम्बन्धिभिः सत्त्वादिगुणविशेषैर्विकल्पितानि विभक्तानि यानि कुशलाकुशल- मिश्राणि कर्माणि तैर्निमिताभिर्विविधाभिर्देहावलिभिरुपलक्षितस्तासां संयोगादिलक्षणोऽनादिसंसारो यस्तदनुभवस्य द्वारभूतेन श्रोत्रादिषडिन्द्रियवर्गेण द्वारेण माययाऽध्वन्यापतित इत्यर्थः । समवहारो मिश्रं खदेहनिष्पादितकर्मेत्यनेन रजस्तमःसत्त्वेति व्याख्यातं न शर्म विन्दतीत्यस्यार्थमाह । नाद्यापीति । हरिगुरुचरणारविन्दयोर्मधुकर इव निरन्तरसेवकाः ये तेषामनुपदवीमनुगमनयोग्य- मार्ग सेवालक्षणं नाद्याप्यवरुन्ध इत्यन्वयः । विफलाश्च बहवश्च योगा उद्योगा ये तन्निमित्ततः सहस्रशो हृत्तापास्तेषामुपशमनी । । ॥ नाशकरीम् । यस्यामिमे षडित्यस्यार्थं दर्शयति । यस्यामुहवेति ॥ १ ॥ कुनाथस्य तद्धर्म्य धर्मसाधनं विलुम्पन्तीत्यन्वयः । धर्मौपयिकं धर्मसाधनयोग्यं साम्परायिकं मोक्षोपयोगि । एतदेवाह– यत्परमेति कथं विलुम्पन्ति दर्शनेति । सङ्कल्पो मनोरथः दर्शनादीनां समवायेन नित्यसम्बन्धेन गृहे ग्राम्योपभोगो यस्तेन ॥ २ ॥ * * गोमायवो यत्रेत्यस्यार्थमाह । अथेति ॥ ३ ॥ * * प्रभूतवीरुत्तृणेत्यस्यार्थमाह । यथा ह्यनुवत्सरमिति । आवपनकाले बीजप्रक्षेपसमये य एष आवसथोऽपक्कानां कामानां करण्डः करिदन्तनिर्मितपात्रविशेषः । तत्रावसथे कचिश्च गन्धर्वपुरमित्यस्यार्थमाह । कचित्परिवर्त्तमान इति ।। ४-६ ।। * * कचित्कचिश्चासुहरोल्मुकग्रहमित्यस्यार्थमाह कचिश्चेति । अशेषदोषाणां निषदनं स्थानं पुरुषविशेषं देहलक्षणं पुरुषाकार- विशिष्टस्य तस्य देहस्य वर्णगुणः कान्तिगुणस्तेन उल्मुकपिशाचमुपादित्सति सुवर्णमिव पुरुषविशेषमुल्मुकपिशाचमुपादित्सतीति वा | अग्निकामवत्कातरः अशेषदोषाणां पात्रीभूतं पुरुषविशेषाकार मुल्मुकपिशाचमग्निवज्जाज्वल्यमानं दृष्ट्वान्तिकमुपागम्य सुवर्ण- बुद्धयोपादातुमिच्छति शीता तऽग्निमिव द्रष्टुं दुःखसहं शांतं स्यात्तदेव मुक्तिरिति भावः । पुरुषविशेषं स्त्रियाख्यं प्राप्य भोगार्थ सुवर्ण स्वीकरोति अग्निसेवाकाम उल्मुकंपिशाचमिवेति वा ।। ७-८ ।। ईलाका 452 क की * श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः । तद्यथेति । तद्दस्युत्वं गद्यत्रयेण दृश्यत इत्यर्थः । बहुकृच्छाधिगतं यत्किञ्चित् पुरुषधनं वर्त्तते तत्साक्षाद्धर्मौपयिकं भवति कोऽसौ धर्मस्तत्राह ॥ [ । साक्षात् परमेवेति ॥ १-६ ॥ * * पुरीषविशेषं सुवर्णमुपादित्सतीत्यनेनाग्मिकामेति दृष्टान्तेन सुवर्णान्तरं याथाय दर्शयति । तच्च श्रीभगवद् भूषणादिमयं ज्ञेयं साक्षाद्धमपयिकमित्याद्युक्तत्वात् ।। ७-८ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी || || For Te दस्युक्रोष्टुप्रभृतिभिरुक्तैः सह चतुर्दशे । ईहेन्द्रियकुटुम्बाद्यास्तद्दान्ता निरूपिताः ॥ शएक एका श्रीशुकोह स्पष्टमुवाच स एष प्रसिद्धो जीवलोकः संसाराटव्यां गतः सन्नद्यापि हरिरूपस्य गुरोश्चरणारविन्दे ये मधु- करा गुरुभजनासक्ता इत्यर्थः, तेषामनुकूलां पदवीं नावरुन्धे न प्राप्नोतीत्यन्वयः । तेन श्रीगुरुचरणाश्रयं विना संसारादव्यां भ्रम- त्येवेति भावः । कीदृशः देहात्ममानिनामध्वन्यापतितः दुर्गाध्ववत् प्रसिद्धदुर्गमार्गे इव सत्त्वादिगुणविशेषैर्विकल्पितानि विभक्तानि यानि कुशलाकुशलविमिश्रकर्माणि तैर्विनिर्मिताभिर्विविधदेहावलिभिर्वियोगसंयोगतदुत्य सुखदुःखरूपस्यानादेः संसारस्य योऽनु- भवस्तस्य । ननु जीवसंसारस्य मायाकृतत्वान्मायादेवीमेव जीवः प्रपद्यतां, सैव प्रसन्ना तं बन्धान्मोचयिष्यति किं हरिगुरुचरणप्रपत्त्या तत्राह । विष्णोर्वशवर्त्तिन्या माययेति, संसारमोचने न तस्याः खातन्त्र्यमिति भावः । यदुक्तम् देिवी होषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति गीतायामत्र श्लोके एवकारेण समुचयपक्षोऽपि निरस्तीकृतः । विफलाश्च बहुविप्रतियोगा बहुविघ्नाश्च ईहाः चेष्टा यस्य सः ॥ १॥ यस्यामिमे इति व्याचष्टे यस्यामुहेति । यथा पुरुषस्य बहु- कृच्छ्राधिगतं धर्मोपयोगि धनं दस्यवो विलुंपन्ति तत्तथा इन्द्रियनामान: षडेते कर्मणा स्वस्वव्यापारेण दर्शनादिना अजितात्मनो २८८ श्रीमद्भागवतम् [ स्कं. ५ अ. १४ श्लो. १-८ जनस्य धनं विलम्पन्तीत्यन्वयः । तत्पदस्य वैयर्थ्याभावाय व्यवहितान्वयः सोढव्यः । धनमेव किमित्यपेक्षायामाह साक्षादिति । साम्पराये परलोकार्थं तद्भयं भगवत्सेवाहमित्यर्थः । सङ्कल्पो मनसः समवसायो व्यवसायः स च बुद्धेर्व्यापारः । यथा कुनाथस्य कुनायकस्य अजितात्मनः अवशीकृतात्मीयलोकस्य वणिकसार्थस्य चौरा हरन्ति तथा ॥ २ ॥ गोमायवो यत्रेत्येतद्वया- चष्टे अथ चेति । अपहरतश्चेत्यर्थः । संरक्ष्यमाणा अन्नवस्त्रादिभिस्त्वया वयमवश्यं पाल्या एव भवामेति न्यायमिषेण अपहरन्ती- त्यस्य कर्मपदं पूर्वोक्तं स्वार्थिकमन्नगुडघृतादिसम्पुटं ज्ञेयम् । अत्र दस्यूनां गोमायुनाश्च दुर्वारत्वस्याधिक्यन्यूनत्वाभ्यां भेदा ज्ञेयः ॥ ३ ॥ * * प्रभूतवीरुत्तृणगुल्मगहर इत्येतद्वयाचष्टे यथेति । एष आवसथः आश्रमो यद्यस्मात् कामानां करण्ड इति । यथा हिङ्गुक्षयेऽपि गन्धो न क्षीयते एवमत्र वासनानामक्षीणत्वात् न कर्माण्युत्सीदन्तीत्यर्थः ॥ ४ ॥ * * कठोर दंशैरित्येत- द्वयाचष्टे अत्रेति । अपसदेर्नीचैरुपरुध्यमानः पीड्यमानो बहिःप्राणो वित्तं यस्य सः । कचिच्च गन्धर्वपुरं प्रपश्यतीत्येतद्वयाचष्टे कचिदिति । परिवर्त्तमानः परावृत्त्य परामृशन् उपरक्तं यन्मनस्तेन न उपपन्नोऽर्थो वित्तं यतस्तं नरलोकं वञ्चकनृपादिकं पश्यति ततश्च तदुपासनया वाञ्छितवित्तादिकमुपपन्नमिति गन्धर्वनगरमिव तमनुपश्यति । कचिश्च गन्धर्वपुरं प्रपश्यतीत्येतदुपलक्षित- मर्थान्तरं दशर्यति । आतपोदकं मृगतृष्णाजलं तत्तुल्यान् विषयानुपधावति ।। ५-६ ॥ कचित् कचिचाशुरयोल्मुकग्रह- मित्येतद्वयाचष्टे कचिश्चेति । पुरीषविशेषमग्नेर्विष्ठां तस्य पुरीषस्येव लोहितो वर्णो यस्य रजोगुणस्य तेन निर्मिता तद्विषया मतिर्यस्य सः | सुवर्णमिति परकीयद्रव्यमात्रस्योपलक्षणमादातुमिच्छति नरके पतितुमिच्छति इति भावः । शीतादित्राणार्थमरण्ये भ्रमन्नग्नि- कामेन कातरो यथा उल्मुकतुल्यं पिशाचमग्निबुद्ध्या धावति मर्तुमिति भावः ॥ ७ ॥ * * निवासतोयद्रविणात्मबुद्धिरित्ये- तद्वयाचष्टे । अथेति ॥ ८ ॥ HERE INTO Fea ins ।। * BRUNET free plac श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः r समवेतानुकल्पेन निर्दिश्यतामित्यनेन प्रार्थितो यः स चतुर्दशेनाध्यायेन उवाचेति सूतोक्तिः । दुरत्ययेऽध्वन्यजया निवे- शित इति यदुक्तं तद्वयाचष्टे । य एषः प्रसिद्धो वणिक्सार्थोऽर्थपरः अर्थेन हेतुभूतेन अध्वनि दुर्गाध्वन्यापतितो भवति यथा तथा अयमिति जीवलोकः भगवतो वशवर्तिन्या मायया हेतुभूतया श्मशानवदशिवतमायां संसाराटव्यां गतः प्रविष्टः तस्यां संसाराटव्या- माध्यात्मिकादयस्तापास्तेषामुपशमनीं हरिरेव गुरुस्तस्य चरणारविन्दे ये मधुकराः सेवकास्तेषां पदवीं हरिभक्तिद्वारा हरि प्राप्तिरूपा- मद्यापि नावरुन्धे न प्राप्नोति । कथम्भूतः जीवलोकः देहात्ममानिनां सत्त्वादिगुणैर्विशेषेण विकल्पितानि विभक्तानि यानि कुशला- कुशलमिश्राणि कर्माणि तैः । ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥” इति श्रीमुखोक्तरीत्या विनिर्मिताभिर्विविधदेवमनुष्यादिदेहावलिभिर्वियोग संयोगादिर्योऽनादिसंसार स्तदनुभवस्य द्वारभूतेन षडिन्द्रि- यवर्गेण दुर्गाध्ववदसुगमे संसाराटव्यन्तर्गते त्रिवर्गमार्गे पतितः पुनः कथम्भूतः स्वदेहनिष्पादितानां कर्मणां फलद्वारेणानुभवो यस्य सः पुनः कथम्भूतः विफलाश्च बहुप्रतियोगाः बहुविघ्नाश्चेष्टा यस्य सः ॥ १॥ * * यस्यामित्यादि व्याचष्टे । ते लोके प्रसिद्धाः दस्यवः पुरुषस्य अजितात्मनः असंयतचित्तस्य कुनाथस्य कुबुद्धेः बहुकृच्छ्राधिगतं धर्मोपयिकं धर्मकारणं यत्किञ्चिद्धनं भवेत्तद्यथा विलुम्पति तथा अजितात्मनः साक्षात्परमपुरुषाराधनलक्षणो यः साक्षाद्धर्मः तं तु साम्पराये मुक्तौ साध्ये साधनतया उदाहरन्ति तद्धर्म्यं स्वाश्रमधर्मादनपेतं धनं तस्यां भवाटव्यामेते षडिन्द्रियनामानः कर्मणा दस्यव एव दर्शनादिभियों गृहे ग्राम्योपभोगस्तेन विलुम्पन्ति ॥ २ ॥ * गोमायवो यत्र हरन्ति सार्थकमित्येतद्वयाचष्टे । नाम्ना दारादयः कर्मणा तु वृकादयः कदर्थस्य अतिलुब्धस्य ॥ ३ ॥ * * प्रभूतवीरुत्तृणगुल्मगहरे कठोरदशैर्मशकैरुपद्रुतः कचित्तु गन्धर्वपुरं प्रपश्यतीत्येतद्वयाचष्टे । अनुवत्सरं प्रतिवत्सरं न दग्धानि गुल्मतृणादिबीजानि यस्मिन् यद्यस्मात् गोमयावसथः आश्रमः एष कामानां करण्डो-भाजनविशेषः कर्पू रभाजने कर्पूरक्षयेऽपि परिमलो न क्षीयते एवमत्र वासनानामक्षीणत्वान्न कर्माण्युत्सीदन्तीति भावः ॥ ४ ॥ * * तत्र गृहाश्रमे गतः पतितः दंशमशकसमाश्च ते अपसदा अनाचाराश्च तैर्मनुजैः शलभादिभिश्च कचिदुपरुध्यमानः पीड्यमानो बहिः प्राणः धनधान्यादिरूपो यस्य स तथाभूतोऽपि अस्मिन्नध्वनि परिभ्रमन अविद्यया देहगेहादिषु अहंममाभिमानेन विषयाभिलाषेण कर्मणा कर्मविवित्सया च उपरक्तेन मनसा गन्धर्वनगर तत्तुल्यं नरलोक नरभोग्यं देहगेहादिकमनुपपन्नार्थं न उपपन्नो न भोक्तृनित्य- तामुपगतोऽर्थः । स्वरूपं यस्य तमनित्यमित्यर्थः । तथाप्युपपन्नं भोक्तृनित्यतामुपगतमित्येवं मिध्यादृष्टिः अनित्ये नित्यत्वदृष्टिः अनुपश्यति प्रपश्यतीति प्रशब्देन सूचितमर्थान्तरमाह । तत्र च गन्धर्वनगरे कचिदातपोदकनिभान् मृगतृष्णा जलसदृशान् विषयान् पानादिलोलुपः सन् उपधावति ।। ५-६ ॥ ॐ । कचित्कचिचाशुरयोल्मुकप्रहमित्येतद्वयाचष्टे । पुरीषविशेषमग्निमलं तद्वर्णेन सुवर्णवर्णेन लोहितवर्णेन रजोगुणेन निर्मिता सुवर्णमादातुं प्रवर्त्तिता मतिर्यस्य सः सुवर्णमुपादातुमिच्छति उल्मुकसदृशं पिशाचमग्निकामेन कातरः परवश इव उल्मुकपिशाचः उपधावतापि न लभ्यः कथञ्चिन्धस्तु नाशहेतुर्भवति तद्वत्सुवर्णमिति भावः ॥ ७ ॥ निवासतोयद्रविणेत्येतद्वयाचष्टे । निवासादिष्वनेकेषु आत्मनः स्वस्योपजीवनेष्वभिनिवेशो यस्य सः एतस्यां भवाटव्यां परिधावति परिभ्रमति ॥ ८ ॥ कि यथा ॥ भ ॐ Swस्कं. ५ अ. १४ लो. १-८] भनेकव्याख्या समलङ्कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी f ‘fiers for । एवं परीक्षिता पृष्टः श्रीशुकस्तु चतुर्दशे । पारोक्ष्यार्थस्य चाख्यानं कृतवानिति वर्ण्यते ॥ १ ॥ २८९९ यः परीक्षिता पृष्टः सः श्रीशुकः हर्षेणोवाचेति सूतो वदति, तत्र यदुक्तं ‘दुरत्ययेऽध्वन्यजया निवेशितः’ इति तदेव निवेशन प्रकारकथनेन व्याचष्टे य इति । यथा य एष प्रसिद्धो वणिजां सार्थः समूहोऽर्थार्जनपरः कुशकण्टकशर्करादिभिरसुगमे मार्गे पतितोऽटवीं याति तथाऽयं जीवलोको विष्णोर्वशवर्त्तिन्या मायया मोहितोऽतस्तत्तत्सुखार्थी सन् देहात्ममानिनामज्ञानां सम्बन्धिनो मोहकास्तदध्यासनिमित्तभूता ये सन्वादयो गुणविशेषास्तैः विकल्पितानि भिन्नानि कुशलानि सत्त्वेन पुण्यानि अ- कुशलानि तमसा पापानि तेषां समवधारभूतानि रजसा मिश्राणीति यानि त्रिविधकर्माणि तैर्विनिर्मिताभिः विविध- प्रकाराभिः देवतिर्यङ्मनुष्यादिदेहावलीभिर्वियोगसंयोगादिलक्षणो योऽनादिः संसारस्तदनुभवस्य द्वारभूतेन पञ्चज्ञानेन्द्रियमनो- लक्षणेन षडिन्द्रियवर्गेय तस्मिर प्रसिद्वकण्टकादिभिर्दुर्गाध्ववत् दुःखशोकश्रम धनव्ययादिसाध्यत्वेन असुगमेऽध्वनि प्रवृत्तिमार्गे आपतितः संसाराटव्यां गतोऽद्यापि तत्तापोपशमनीं तस्यां संसाराख्यां ये आध्यात्मिकाधिदैविकाधि- भौतिकास्त्रिविधास्तापास्तेषामुपशमनीं नाशनी हरिगुरुचरणारविन्देषु ये मधुकरा इव सेवकास्तेषामनुपदवीं :: We एव तैरनुष्ठितं भक्तिमार्गं नावरुन्धे न प्राप्नोतीत्यन्वयः । ततो निस्तार aat far awa युक्त इत्याशयेनाटवी विशिनष्टि- श्मशान- वदर्शिवत मायामिति, श्मशानभूमिर्यथा शवसम्बन्धेन सर्वदैवाशुद्धा भवति तथेयमपि मलमूत्रास्थिमांसादिभिः सर्वदाऽशुद्धैव । तदुक्तम् ‘स्थानाद्वीजादुपष्टम्भान्निष्पन्दान्निधनादपि । कायमाधेयशौचत्वात् पण्डिता शुचिं विदुः’ इति । न च भगवदेक- शरणत्वेन तद्भजनं विना तन्मायातो विनिर्मोकः प्रबलस्य शक्तिरूपत्वादित्याशयेन तत्स्वामिनं विष्णुं विशिनष्टि - ईश्वरस्येति । ईश्वरत्वे हेतुमाह-भगवत इति । भगवच्छरणत्वे तु ‘मामेव ये प्रपद्यन्ते’ इति वाक्यात्तत्कृपातस्ततो विनिर्मोको भवत्येवेत्या- शयेनाह - वशवर्तिन्येति । भगवद्विमुखत्वेन मायामाहितत्वादेव दुःखमनुभवन्नपि तन्नानुसन्धत्ते, न च विरज्यते, न च ततो निस्तारोपायमन्विच्छतीत्याशयेन तद्विशेषणद्वयमाह-स्वदेहनिष्पादितानां कर्मणां दुःखादिफलद्वारेणानुभवो यस्य सः । विफलाश्च बहुप्रतियोगाः बहुविधनाच ईहा चेष्टाः क्रियाः यस्य सः ॥ १ ॥ ॐ यस्यामिम इत्येतद् द्वद्याचष्टे-यस्यामिति । यस्यां
- भवाटव्याम् ॥ २ ॥ * * इन्द्रियाणां दस्युतुल्यत्वं दर्शयति-तद्यथेति । तत् इन्द्रियाणां दस्युत्वं यथाऽस्ति तन्निबोधेति शेषः । कुनाथस्य कुबुद्धेरजितात्मनः अवशीकृतदेहादिसङ्घातस्य पुरुषस्य यत्किञ्चिद्वहुकृच्छ्रेण बहुकष्टेनाधिगतं प्राप्त साक्षाद्धमौपयिकं धर्मकारणं धनं तद्धर्म्यं धर्मार्ह धनमिन्द्रियाणि दर्शनादिभिर्यो गृहेग्राम्य उपभोगस्तेन विलुम्पन्ति नाशयन्तीत्यन्वयः । तत्र दर्शनाद्याः पन ज्ञानेन्द्रियाणां वृत्तयः, संकल्पव्यवसायौ मनसः । कोऽसौ धर्मोपकारणं धनं विलुम्पन्तीति वीक्षायां स्वाभिप्रेतं धर्ममाह-साक्षादिति । योऽसौ साक्षात् फलाभिसन्धिमन्तरेणैव परमपुरुषस्य पुरुषोत्तमस्य भगवत आराधनलक्षणो धर्मः स एव धर्मत्वेनाभिप्रेतः । कुतो यतस्तं तु तमेव साम्पराये परलोके परमपुरुषार्थहेतुत्वेनोदाहरन्ति वृद्धाः कथयन्ति । तत्र दृष्टान्तमाह-यथेति । स्वामिहितचिन्ता- शून्यवरैः सह कृतमैत्रः कुत्सितो नायको रक्षको यस्य तस्य अजितात्मनोऽसावधान चित्तस्य सार्थस्य धनं यथा चौरा विलुम्पन्ति तथेत्यर्थः ॥ ३ ॥ * * गोमायवो यत्र हरन्तीत्येतद्वयाचष्टे अथेति । अथ चेत्यर्थान्तरोपन्यासे । यत्र संसारमार्गे कौटुम्बिका नाम्ना दारपुत्रादयोऽपि कर्मणा तु वृकशृगाला एवं यत उचितधर्मस्वशरीरादिनिर्वाहार्थमपि धनव्ययमनिच्छतोऽपि कुटुम्बिनः कदर्यस्यातिलुब्धस्य प्रयत्नेन रक्ष्यमाणमपि धनं तस्य मिषतः पश्यत एव त्वं मम भर्त्ता पिता त्वदीयमिदमस्मदर्थमिति वदन्यो हरन्ति । तत्र दृष्टान्तमाह-उरणकवदिति । यथा पालकेन स्वामिना संरक्ष्यमाणमपि उरणकं मेषं वृका बलाद्धरन्ति तद्वदित्यर्थः ॥ ४ ॥ * * प्रभूतवीरुत्तृणगुल्मगहर इत्येतद्वयाचष्टे - यथा हीति । यथा हि अन्नक्षेत्रमनुवत्सर प्रतिवर्ष हलादिना कृष्यमाणं कर्षणादिना तृणादिनिस्सारणेन शोध्यमानमपि न दग्धानि बीजानि यस्मिंस्तथाभूतं सत् आवपनकाले पुनरेवं गुल्मतृण- वीरुद्भिरमिव भवति एवमेवायं गृहाश्रमः कर्मक्षेत्रं यस्मिन् कदापि कर्माणि न ह्युत्सीदन्ति न शाम्यन्ति । तत्र हेतुमाह-यदिति । यत् यस्मात् येोऽयमावसथ आश्रयः स एष कामानां नानाविधमनोरथानां करण्डः भाजनविशेषः । यथा कर्पूरादिभाजने कर्पूराद्यपगते तद्वासना न हीयते तथैकमनोरथे सिद्धेऽपि तद्वासना न गच्छति । तथा च मनोरथासमाप्तेस्तत्प्रयुक्तकर्मासमाप्तिरित्यर्थः ।। ५ ।। * * कठारदशैर्मशकैरुपद्रुत इत्यादि व्याचष्टे-तत्रेति । तत्र गृहाश्रमगतः कचिद्दंशमशकसमैः पीडाकरैरपसदेनचैर्मनुजैः शलभशकुन्त- तस्कर मूषकादिभिश्च उपरुध्यमानः प्रपीड्यमानो बहिः प्राणः विचिप्तचित्तोऽस्मिन्नध्वनि प्रवृत्तिमार्गे परिवर्त्तमानः परिभ्रमन् अविद्यया कामकर्मभिश्चोपरक्तेन व्याप्तेन मनसा हेतुना मिध्यादृष्टिदर्शन ज्ञानं यस्य गन्धर्वनगरवदनुपपन्नार्थमनुपपन्नाः क्षणान्तरे दुस्था अर्थाः पदार्था यस्मिंस्तथाभूतं नरलोकमुपपन्नमनश्वरमित्यनुक्षणं पश्यति ॥
- अत एवातपोदनिकभान् मृगतृष्णा- जलतुल्यान् प्रारब्धं विना सर्वथा दुर्लभान् विषयान् स्वीकत्तु कचिदुपधावति । तत्र हेतुमाह पानभोजनव्यवायादिषु व्यसनेन लोलुपो लम्पटो यत इत्यर्थः ॥ ७ ॥ कचिश्वाशु स्योल्मुकग्रहमित्येतद्वयाचष्टे - कचिदिति । कचिचाशेषाणां दोषाणां हिंसापरस्त्रीगमनद्यूतमद्यपानादीनां निषदनं स्थानं कारणं पुरीषविशेष अग्नेर्विष्टशरूपं सुवर्णमुपादित्सति न्यायतोऽन्यायतो वा उपादातुमिच्छतीत्यन्वयः । सुवर्णस्याः पुरीषत्वं च वितलवर्णनगये ‘चित्रभानुमतिरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठद्यूतं ३७
-
- २९०
- श्रीमद्भागवतम्
- [ स्की ५ अ. १४ लो. १-८ हाटकाख्यं सुवर्ण भवति’ इति वक्ष्यति । एवं दुष्टस्यादानेच्छायां हेतुमाह तदिति । तस्य सुवर्णस्येव लोहितो वर्णो यस्य रजोगुणस्य तेन निर्मिता उत्पादिता तद्विषया मतिर्यस्य सः । तत्र दृष्टान्तमाह-अभिकाम इति । यथा हारण्ये शीतादिपीडितः तन्निवृत्तयेऽग्निकामेन कातरः परवशः अग्निवज्जाज्वल्यमानं ततस्ततो धावन्तं उल्मुकपिशाचममिबुद्वधाऽनुधावति । न च तं प्राप्नोति कथञ्चित् प्राप्तश्चेत्तर्हि तेन भक्षितः सन्म्रियते । तथाऽयं रजसा विक्षिप्तमतिर्नानाविधकामाभितप्तस्तन्निवृत्तये सुबर्णमुपादित्सति, न च तं प्राप्नोति, कथञ्चित्प्राप्नोति चेत्तदा हिंसाकलहाद्यभिरतो मृतो नरकादिदुःखमनुभवतीत्यर्थः ॥ ८ ॥
- श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- रूपकस्य भवाटव्याः कृता व्याख्या चतुर्दशे । गोमायुमशकाद्यर्थकल्पना प्रस्तुतेऽस्य या ॥ १ ॥
- कर्मणा
- एवं राज्ञाऽऽपृष्टः श्रीशुकः समवेतानुकल्पेन निर्दिशन् तावत् दुरत्ययेऽध्वनीति श्लोकं व्याचष्टे । य इति । ईश्वरस्य भगवतः विष्णोः, वशवर्त्तिन्या आधीनया, मायया कर्ध्या, देद्दात्ममानिनां देहमेवात्मानं मन्यमानानां, सत्त्वादिगुणैः सत्त्वरजस्तमोभिगुणैः विशेषेण कल्पितानि विभक्तानि यानि कुशलाकुशलसमवहारकर्माणि कुशलानि सुखसाध्यानि सात्त्विकानि च अकुशलानि दुःख- साध्यानि राजसानि समवहारशब्द वाच्यरजस्तमोमिनोपेतानि कर्माणीत्यर्थः । तैर्विनिर्मिताः याः विविधदेहावलयस्ताभिः ‘ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।।’ ‘आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजः स्वभावेन’ इत्याद्युक्तरीत्या नियतदेशवर्त्तिदेव मनुष्यासुरादिदेहपङ्क्तिभिः यो वियोगसंयोगौ देहवियोगतत्संयोगौ तावादी यस्य बाल्ययौवनस्थविरत्वस्य तद्रूपो योऽनादिः संसारस्तदनुभवस्य, द्वारभूतेन षडिन्द्रियवर्गेण करणेन, दुर्गाध्ववत् अतीव दुर्गा ध्वनीव, असुगमे सुखगमनानर्हे, तस्मिन्नेतस्मिन् अध्वनि कर्ममार्गरूपे संसाराध्वनि, आपतितः आपातितः, यः एषः जीवलोकः, वर्त्तते, सः अयं, अर्थपरोऽर्थार्जनतत्परः, वणिक्सार्थः सांयात्रिकवणिकसंघः, यथा तथा, स्वदेहनिष्पादितानां पूर्वोक्तानां कर्मणां फलद्वारेणानुभवो यस्य सः । विफलाश्च बहुप्रतियोगा बहुलविघ्नोपहताच ईहाश्रेष्ठा यस्य तथाभूतः सन्
- श्मशानवत् पितृ- काननवत्, अशिवतमायाममङ्गलरूपायां, संसाराटव्यां गतः प्रयातः सन्, अद्यापि तस्यां संसाराटव्यां ये तापा अध्यात्मादयस्तेषामु- पशमनी तां, हरिदेव गुरुस्तस्य ये चरणारविन्दे तयोर्ये मधुकरा भ्रमरसमाना भक्तास्तेषामनुपदवी तैरनुष्ठितो भक्तिमार्गस्तां न अवरुन्धे न प्राप्नोति । यस्यामिमे इत्यादि व्याचष्टे । यस्यामु ह वा यस्यां भवाटव्यां हि, एते ये षडिन्द्रियनामानः दस्यवः एव । दस्युव्यावारवत्त्वात्पूर्वं दस्युत्वेन निरूपिता इत्यर्थः । इन्द्रियनामान इत्यनेन केवलं नाममात्रेण दस्युभ्यो भेदः कर्मणा तु दस्यव एवेति भावः ॥ १ ॥ * * दस्यूनामिन्द्रियाणां च धनापहारित्वरूपं कर्म तुल्यमेवेति दृष्टान्तदाष्टन्तिकभावेन दर्शयति तद्यथेति । तत्तेषां दस्युतुल्यं कर्म, यथा उदाह्रियते, अजितात्मनः अजितेन्द्रियस्य, कुनाथस्य कुत्सितपालकस्य, सार्थस्य सार्थवर्त्तिनः पुरुषस्य बहुकृच्छ्राधिगतमतिशयितदुःखेनार्जितं, साक्षात् धर्मोपयिकं धर्माचरणोपयोगार्ह, धनस्य धर्मार्थमुपयोग एव सफलो न तु काम इत्यभिप्रायेण धर्मोपथिकमित्युक्तम् । तथा चोक्तं प्रथमस्कन्धे ‘धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थोयोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः’ इति । एवंविधं यत् किंचित् धनं यथा दस्यवः अपहरन्तीति शेषः । तथा साक्षा- त्प्रत्यक्षो यः परमपुरुषः श्रीहरिस्तस्याराधनं लक्षणं यस्य एवंविधः, यः असौ धर्मः तं धर्मं तु धर्मात्मकं धनं त्वित्यर्थः । सांपरायिकं परलोकहितं धनमिति उदाहरन्ति तत् धर्म्यं धर्माद्वर्णाश्रमादिधर्मादनपेतं वर्णाश्रमादिधर्मयुक्तमित्यर्थः । अजितात्मनः अविजि- तेन्द्रियस्य, कुनाथस्य कुमतेः, धनं भगवदाराधनात्मकं धनं दर्शनं च स्पर्शनं च श्रवणं च आस्वादच अवघ्राणं च संकल्पश्च व्यवसायश्च एतैः गृहेषु यः ग्राम्योपभोगस्तेन, विलुम्पन्ति इन्द्रियचौराः अपहरन्ति ॥ २ ॥ ॐ ॐ गोमायवो यत्रेत्येतद्वद्याचष्टे अथ चेति । अथ चेत्यर्थान्तरोपन्यासे । यत्र यस्यां संसाराटव्यां, कौटुम्बिकाः कुटुम्बभवाः, नाम्ना केवलं नाममात्रेण दारापत्यादयः, कर्मणा क्रियया तु, वृकशृगाला एवं वृकाश्च शृगालाचैवेत्यर्थः । वृकशृगालसाधर्म्यमाह । अनिच्छतोऽपि विभवे सत्यपि दान- भोगादीच्छामकुर्वतः, कुटुम्बिनो भूरिकुटुम्बवतः, कदर्यस्यातिलुब्धस्य संरक्ष्यमाणं महता प्रयासेन कृतसंरक्षणं तद्धनमिति शेषः । मिषतः तस्य संपश्यतः सतोऽपि, तमनादृत्येत्यर्थः । उरणकवत्, वृकाः शृगालाच मेषमित्यर्थः । हरन्ति ॥ ३ ॥ प्रभूतवीरुत्तृणगुल्मगहरे इत्येतद्वयाचष्टे । यथा हीति । यथा हि, अनुवत्सरं प्रतिवर्ष, कृष्यमाणमपि दक्षेण पुंसा कर्कन्ध्वादि- तरूच्छेदपूर्व कर्षणेन संस्कृतमपीत्यर्थः, क्षेत्रं, न दग्धानि बीजानि द्रुममूलानि यस्मिंस्तत् तथाभूतं सत्, पुनः आवपनकाले बीजावपन- समये, गुल्माश्च तृणानि च वीरुधश्च ताभिः गह्वरमिव गहनमेव, भवति । एवमेव, अयं गृहाश्रमः कर्मक्षेत्रं प्रसिद्धक्षेत्रतुल्यं एव । हि यस्मात् यस्मिन् गृहाश्रमे, कर्माणि न उत्सीदन्ति मूलतो न नश्यन्ति । यद्यस्मात् एषः आवसथो गृह, कामकरण्डः कामानां करण्डरूपो भवति । यथा कर्पूरभाजने कर्पूरक्षयेऽपि, परिमलो न हीयते एवमत्र कर्मनाशेऽपि वासनानामक्षीणत्वा- त्कामानां पेटिका इत्यर्थः ॥ ४ ॥ * * तत्रेति । तत्र एवंभूतकर्मक्षेत्रात्मकगृहाश्रमे, गतः पतितः, जनः दंशमशकसमापसदेर्दश- मशकसमत्वादतिनीचैः, मनुजैः शलभाश्च शकुन्ताश्च तस्कराश्च मूषकाश्च ते आदयो तेषां तैः शलभादिसदृशैरित्यर्थः । मनुजैश्व, उपरुद्धथमानः पीड्यमानः बहिर्बहिर्भूतः प्राणो धनधान्यादिरूपो यस्य स तथाभूतो भवति इत्यर्थः । प्राणवत्प्रियत्वाद्वाह्यत्वाच्च
- ।
- *
- स्क. ५ अ. १४ श्लो. १-८]
- अनेकव्याख्या समलङ्कृतम्
- ।
- घनस्य बहिः प्राणत्वमुक्तम् । कचिश्च गन्धर्वपुरमित्युत्तरार्द्धं व्याचष्टे । कचित् अस्मिन् अध्वनि संसारमार्गे इत्यर्थः । परिवर्तमानो भ्राम्यन् अविद्या च कामश्च कर्म च तैः उपरक्तं यन्मनस्तेन, तत्राविद्या अहंममाभिमानः, कामः विषयाभिलाषः, कर्म पुण्यापुण्यकर्मवासनाः, अनुपपन्नार्थमघटमानं, नरलोकं स्वशरीरपुत्रादिशरीर, गन्धर्वनगरं गन्धर्वनगरवत् उपपन्नं सत्यमेवेदं मया लब्धमिति, मिध्यादृष्टिः अनित्ये नित्यताज्ञानवान् सन्, अनुपश्यति अनित्यं नित्यवत्पश्यतीत्यर्थः ॥ ५ ॥ प्रपश्यतीति, प्रशब्दसूचितमर्थान्तरं दर्शयति तत्रेति । तत्र गन्धर्वनगरे, कचिच आतपोदकं मृगतृष्णाजलं तेन निभाः सदृशास्तान् विषयान् प्रति, पानं च भोजनं च व्यवायश्च ते आदयो येषां तानि यानि व्यसनानि तेषु लोलुपः लोलुपतया आसक्तः सन् उपधावति । अन्वेषयतीत्यर्थः ॥ ६ ॥ * कचित्कचिच्चाशुरयोल्मुकग्रहमित्येतद्वचाचष्टे कचिदिति । कचिच्च अशेषाणां दोषाणां निषदनं स्थानं पुरीषविशेषमग्नेर्विष्ठां, तस्य पुरीषस्य वर्णो लोहितः स इव वर्णो यस्य स चासौ गुणो रजोगुणस्तेन निर्मिता तद्विषया मतिर्यस्य तथाभूतः सन् सुवर्णं उपादित्सति उपादातुमिच्छति । सुवर्णस्याग्नेः पुरीषत्वमुक्तमस्ति वितलवर्णनगधे ‘चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठयूतं हाटकाख्यं सुवर्णम्’ इति । अत्र दृष्टान्तः, अग्नेः कामः प्राप्तीच्छा तेन कातरः परवशो जनः, उल्मुकपिशाचं ब्वलदुल्मुकसदृशभूतविशेषं इव, उपादित्सति तथा, शीतातुरो हारण्येऽग्निवज्जाज्व- ल्यमानं ततस्ततो धावन्तमुल्मुकाकारपिशाचमग्निबुद्धधानुधावति, न तु तं प्राप्नोति, कथंचित्प्राप्तश्चेत्तेन भक्षितः सन् म्रियते, एवं सुवर्णमनुधावन्नपि म्रियते एवेत्यर्थः ॥ ७ ॥ * * निवासतोयद्रविणेत्येतद्वद्याचष्टे अथेति । अथ कदाचित्, निवासो गृहं च पानीयं च द्रविणं धनं च तान्यादयो येषां गृहोपकरणानां तेषु अनेकेषु आत्मनः उपजीवनेषु अभिनिवेशो यस्य तथाभूतः सन्, एतस्या संसाराटव्यां, इतस्ततः परिधावति ।। ८ ।।
- 4
- भाषानुवादः भवाटवीका स्पष्टीकरण
- श्रीशुकदेवजी कहते हैं-राजन् । देहाभिमानी जीवोंके द्वारा सत्त्वादि गुणोंके वेदसे शुभ, अशुभ और मिश्र-तीन प्रकारके कर्म होते रहते हैं। उन कर्मों के द्वारा निर्मित नाना प्रकारके शरीरोंके साथ होनेवाला जो संयोग-वियोगादिरूप अनादि संसार जीवको प्राप्त होता है, उसके अनुभवके छः द्वार है-मन और पाँच ज्ञानेन्द्रियाँ । उनसे विवश होकर यह जीवसमूह मार्ग भूलकर भयङ्कर वनमें भटकते हुए धनके लोभी बनजारोंके समान परमसमर्थ भगवान् विष्णुके आश्रित रहनेवाली मायाकी प्रेरणा से बीहड़ वनके समान दुर्गम मार्ग में पड़कर संसार वनमें जा पहुँचता है। यह वन श्मशानके समान अत्यन्त अशुभ है । इसमें भटकते हुए उसे अपने शरीरसे किये हुए कमका फल भोगना पड़ता है। यहाँ अनेकों विघ्नोंके कारण उसे अपने व्यापार में सफलता भी नहीं मिलती तो भी यह उसके श्रमको शान्त करनेवाली श्रीहरि एवं गुरुदेव के चरणारविन्दमकरन्द-मधुक रसिक -भ्रमरोंके मार्गका अनुसरण नहीं करता । इस संसार वनमें मनसहित छः इन्द्रियाँ अपने कमोंकी दृष्टिसे डाकुओं के समान हैं ॥ १ ॥ पुरुष बहुत-सा कष्ट उठाकर धन कमाता है, उसका उपयोग धर्ममें होना चाहिये; वही धर्म यदि साक्षात् भगवान् परमपुरुषकी आराधनाके रूपमें होता है, तो उसे परलोकमें निःश्रेयसका हेतु बतलाया गया है। किन्तु जिस मनुष्यका बुद्धिरूप सारथि विवेकहीन होता है और मन वशमें नहीं होता, उसके उस धर्मोपयोगी धनको ये मनसहित छः इन्द्रियाँ देखना, स्पर्श करना, सुनना, स्वाद लेना, सूँघना, सङ्कल्प-विकल्प करना और निश्चय करना— इन वृत्तियोंके द्वारा गृहस्थोचित विषय- भोगों फँसाकर उसी प्रकार लूट लेती हैं, जिस प्रकार बेईमान मुखियाका अनुगम करनेवाले एवं असावधान बनजारोंके दलका धन चोर डाकू लूट ले जाते हैं ॥ २ ॥ ये ही नहीं, उस संसार-वनमें रहनेवाले उसके कुटुम्बी भी जो नामसे तो स्त्री-पुत्रादि कहे जाते हैं, किन्तु कर्म जिनके साक्षात् भेड़ियों और गीदड़ोंके समान होते हैं उस अर्थलोलुप कुटुम्बीके धनको उसकी इच्छा न रहनेपर भी उसके देखते-देखते इस प्रकार छीन ले जाते हैं, जैसे भेड़िये गड़रियोंसे सुरक्षित भेड़ोंको उठा ले जाते हैं ॥ ३ ॥ * जिस प्रकार यदि किसी खेतके बीजोंको अभिद्वारा जला न दिया गया हो, तो प्रतिवर्ष जोतनेपर भी खेतीका समय आनेपर वह फिर झार झंखाड़, लता और तृण आदिसे गहन हो जाता है-उसी प्रकार गृहस्थाश्रम भी कर्मभूमि है, इसमें भी कमका सर्वथा उच्छेद कभी नहीं होता, क्योंकि यह घर कामनाओंकी पिटारी है ॥ ४ ॥ उस गृहस्था- श्रममें आसक्त हुए व्यक्तिके धनरूप बाहरी प्राणोंको डाँस और मच्छरों के समान नीच पुरुषोंसे तथा टिड्डी, पक्षी, चोर और चूहे आदिसे क्षति पहुँचती रहती है। कभी इस मार्ग में भटकते-भटकते वह अविद्या कामना और कमसे कलुषित हुए अपने चित्तसे दृष्टिदोषके कारण इस मर्त्यलोकको, जो गन्धर्वनगर के समान असत् है, सत्य समझने गलता है ॥ ५ ॥ * * फिर खान-पान और स्त्री-प्रसङ्गादि व्यसनोंमें फँसकर मृगतृष्णाके समान मिथ्या विषयोंकी ओर दौड़ने लगता है ।। ६ कभी बुद्धिके रजोगुणसे प्रभावित होनेपर सारे अनथकी जड़ अभिके मलरूप सोनेको ही सुखका साधन समझकर उसे पानेके लिए लालायित इस प्रकार दौड़-धूप करने लगता है, जैसे वनमें जाड़ेसे ठिठुरता हुआ पुरुष अनिके लिए व्याकुल होकर उल्मुक- पिशाचकी (अभिया बेतालकी ) ओर उसे आग समझकर दौड़े ॥ ७ ॥ * कभी इस शरीरको जीवित रखनेवाले घर, अन्न-जल और धन आदिमें अभिनिवेश करके इस संसारारण्य में इधर-उधर दौड़-धूप करता रहता है ॥ ८ ॥ २९२ श्रीमद्भागवतम् [ स्कं ५.अ. १४ श्लो. ९-१६ कचिचात्यया प्रमदय रोहमारोपित स्तरकालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजखलमतिर्न विजानाति ॥ ९ ॥ कचित्सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशितस्मृति- स्तयैव मरीचितोयप्रायांस्तानेवाभिधावति ॥ १० ॥ क्वचिदुलुक झिल्लीस्वन वदतिपरु पर भसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भत्सितेनातिव्यथितकर्णमूलहृदयः ॥। ११ ॥ एक ि स. यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविपादपानवदुभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं जीवन्प्रियमाण उपधावति ॥ १२ ॥ एकदा सत्प्रसङ्गान्निकृतमति” व्युद कस्रोतःस्खलन वदुभयतोऽपि दुःखदं पाखण्डमभियाति ।। १३ ।। यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रवर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति ॥ १४ ॥ कचिदासाय गृहं दाववत्प्रियार्थविधुरमसुखोदर्क शोकाग्निना दद्यमानो भृशं निर्वेदग्रुप- गच्छति ।। १५ ।। कचित्कालविषमितराजकुलस्क्षसापहतप्रियतमधनासुः प्रसृ तक इव विगतजीवलक्षण आस्ते ।। १६ ।। अन्वयः - कचित् च वात्यौपम्यया प्रमदया आरोहम् आरोपितः तत्कालरजसा रजनीभूताः दिग्देवताः इव अतिरजस्वलमतिः असाधुमर्यादः रजस्वलाक्षः इव न विजानाति ॥ ९ ॥ * * कचित् स्वयम् सकृदवगतविषयवैतभ्यः पराभिध्यानेन विभ्रंशित- स्मृतिः तया एव मरीचितोयप्रायान् तान् एव अभिधावति ॥ १० ॥ * * कचित उलूकझिल्लीस्वनवत् अतिपरुषरभसा प्रत्यक्षम् वा परोक्षम् आटोपम् रिपुराजकुलनिर्भत्सितेन अतिव्यथितकर्णमूलहृदयः ॥ ११ ॥ * * सः यदा दग्धपूर्वसुकृतः तदा स्वयम् जीवन्प्रियमाणः कारस्कर का कर्तुंडाद्यपुण्यद्रुमलता विषोदपानवत् उभयार्थशून्यद्रविणान् जीवन्मृतान् उपधावति ।। १२ ।। एकदा असत्प्रसंगात् निकृतमतिः व्युदकस्रोतःस्खलनवत् उभयतः अपि दुःखदम् पाखंडम् अभियाति ।। १३ ।। * * यदा तु परबाधया आत्मने अंधः न उपनमति तदा सः खलु पितृपुत्र बर्हिष्मतः वा पितृपुत्रान् भक्षयति ॥ १४ ॥ दाववत् प्रियार्थविधुरम् असुखोदर्कम् गृहम् आसाद्य शोकाग्निना दह्यमानः भृशम् निवेदम् उपगच्छति ॥ १५ ॥ कालविषमितराजकुलरक्षसा अपहतप्रियतमधनासुः प्रभृतकः इव विगतजीवलक्षणः आस्ते ॥ १६ ॥ B श्रीधरखामिविरचिता भावार्थदीपिका क्वचित्
-
- कचित् कचिषवाव्योत्थितेत्येतद्वयाचष्टे कचिश्चेति । आरोहमकम्। तस्मिन्काले यद्रजो रागस्तेन स्वदृष्ट्या वरकेण रजन्यां रात्रौ भूता इव । इत्रपाठे रजनीभूतस्तमोमय इवातीव रजसाच्छन्नमतिरत एवं रंजोळ्यातचक्षुरिव दिक्षु स्थिता मर्यादातिक्रमसाक्षिभूता देवता न जानाति ॥ ९ ॥ * * अनुपादेयमेवोपादेयतया गृह्णातीति प्रक्रम साजात्यादुत्तरश्लोकचतुर्थपादं प्रथमं व्याचष्ठे । कचित्सकृदिति । कचिदातपोदकनिभानित्यत्र मिध्याविषयेषु लंपटत्वमुक्तम्। निवासतोयेत्यन्न तदर्जनप्रयास उक्तः । अत्र तु बाधितेष्वपि पुनः प्रवृत्तिरुच्यते इत्यपौनरुक्तयम् । स्वयमेव सकृदवगतं विषयाणां वैतथ्यं विफलत्वं येन । पराभिध्यानेन देहा- भिनिवेशेन विभ्रंशिता स्मृतिर्यस्य । तयैव विभ्रंशितया स्मृत्या स्मृतिभ्रंशादेवेत्यर्थः ॥ १० ॥ ॐ * अदृश्य झिल्लीस्वनेत्येतद्वचा- चकचिकेति । अतिपरुषो रमस उत्साहस्तेनाटोपः संश्रयो यथा भवत्येवं रिपूणां राजकुलस्य च निर्भसितेनातिव्यथितं कर्ण- मूलं हृदयं च यस्य ॥ ११ ॥ * * अपुण्यवृक्षानित्येतद्वपाचष्टे स यदेति । दुग्धमुपभुक्तं पूर्वसुकृतं येन तदा कारस्कार - विषतिंदुस्तत्प्रमुखा येऽपुण्यद्रुमास्तथाविधा लताच विषोदपानाञ्च विषकूपास्तत्तुल्यान् दृष्टादृष्ट प्रयोजनशून्यधनान् ।। १२ ।। ४ कचिद्वितोयाः सरित इत्येतद्वद्याचष्टे । एकदा कचिदसतां प्रसंगान्निकृता वंचिता मतिर्यस्य सः निरुदकनदीगर्भपाते यथा सद्यः शिरः स्फुटति पश्चादिव तद्वेदनाऽनुवर्तते एवमिह परत्र च दुःखदम् ।। १३ ।। * * परस्परं चालषते निरंध इत्येतद्वयाचछे । यदात्विति अंघोऽन्नम् । नोपनमति नोपतिष्ठति पितृपुत्राणां बर्हिः कुशस्तद्वतः पितुः पुत्राणां वा कुशादितृणमात्रमपि येषु पश्यति तान्भक्षयति बाधत इत्यर्थः । पितृपुत्रबर्हिष्ठानिति तु पाठः सुगमः ॥ १४॥ आसाद्य दावमित्येतद्वचाचष्टे । कचिदा- सायेति ॥ १५ ॥ ॐ * क च यक्षैर्हतासुरित्येतद्वद्याचष्टे । कचित्कालेन विषमितं प्रतिकूलतां नीतं यद्राजकुलं तदेव रक्षस्ते- नापहृताः प्रियतमधनरूपा असवो यस्य । विद्यतानि जीवलक्षणानि हर्षादीनि यस्य शूरैर्हतस्त्र इत्यध्यनेनैव व्याख्यातम् ॥ १६ be rice চ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाश ि वात्यया धूलिचक्रेण सहौपम्यमुपमा यस्यास्तया । अत एव रजश्छन्नमतित्वादेव । देवता वह्रिसूर्याद्याः । असाधुमर्या- दस्त्यक्तमाश्रममर्यादः ॥ ९ ॥ * * उत्तरश्लोकचतुथ पादं पूर्वाध्यायस्यपंचमश्लोकस्य मरीचितोयानीति चतुर्थ पादमित्यर्थः । अत्र कचित्क्रमेण कचित्क्रमोल्लघनेन कचित्पौनरुतयेनापि व्याख्यानं नावगणनीयं न हि महादव्यां सर्वः पंथा ऋजुः १. प्रा० पा० परुषसंरभसादोपं प्रत्यक्षं वा रिपुराज० ॥ २० प्रा० पा० मतिर्विदिक्लोतः स्वनेन स्खलन • १०२. प्रो० पा०- ShayPEET His Fame SEME a मृत हुन । ५. भ. १४ श्लो. ९-९६ ] अनेकव्याख्यासमलङ्कृतम् कर्तुं शक्य इति । अत्र स्वप्रौढिमपहाय यथास्थितमेव व्याख्यायते मरीचितोयान्यभिधावति कचिदिति व्याचष्टे—कचिदिति । इत्यर्थ इति । न हि यथावत्स्मृतिकोऽन्यथा चरति किं तु तद्धीन एवेति भावः ।। १०-११ ॥ * * दृष्टप्रयोजनं भोगः अदृष्टप्रयोजनमिष्टापूर्त्तादिकरणमेतदुभयानुपयुक्तद्रव्यान् । दृष्टादृष्टप्रयोजनशून्यधना एव जीवन्मृता लोके कध्यंत इत्यर्थः । किन दृष्टादृष्टप्रयोजनशून्यधनसेवी यः स एव जीवन्त्रियमाण इत्युच्यते इति भावः ॥ १२ ॥ * * तद्वेदना शिरःस्फुटनपीडा | पाखंडमिह लोकापवाददुःखं परत्र नरकदुःखम् ॥ १३ ॥ * * इत्यर्थ इति । शृणु भो मत्पुत्रान्मत्पितुर्वा सकाशात्वत्पुत्रेण त्वया च गताद्गतवर्षे कुशत्रयं गृहीतं तच न दत्तमधुना तद्द्यैष्मिक है मंतिकान्नतृणादि दानवर्द्धमानत्वरीत्या “अन्नं सपादं षण्मासे तृणं हि द्विगुणं भवेत्” इत्यतः प्रथमषण्मासे द्विगुणं भवेत्पुनद्वितीये तद्विगुणं तृतीये तद्विगुणमेवमग्रेऽपि ज्ञेया वर्द्धनरीतिस्तथा च भारो जात इति तत्तत्तन्मौल्यं वा झटिति देहि नो चेदहं राज्ञे कथयामीति तान्पीडयतीति भावः । अथ वा बालं पुत्रमपि दुर्भिक्षे विक्रीय तद्विक्रयलब्धान्नभक्षणं तद्भक्षणमेव तथैव वृद्धं पितरं कस्यचिद् द्वारपालं विधाय ततो लब्धद्रव्येण स्वपालनं यत्तत्पितृभक्षण- मेवेति भावः । पितृपुत्रयोर्बर्हिषि तिष्ठति भुजंतीति तथा बर्हिःपदमत्र बर्हिरुत्पादक क्षेत्रपरतया व्याख्येयम् ॥ १४ ॥ * * दाववद्वनवद्वह्निवद्वा प्रियार्थैर्विधुरं रहितं दुःखाधिकम् । अहो गृहमतिदुःखरूपं कदास्य त्यागो भविष्यतीति निर्वेदं प्राप्नोति ।। १५ ।। * * विगतजीवलक्षणः शोकमूर्च्छितः ॥ १६ ॥ pita Press. purbhaa श्रीमद्वीरराघवव्याख्या कचिच्च वात्येत्यादि व्याचष्टे कचिच्चेति वात्यौपम्यया चक्रवाततुल्यया प्रमदया बिया यथा वाया रजःप्रक्षेषेणा- धीकरोत्येवं रजोगुणोत्कर्षकत्वेना ज्ञतामापादयन्ती तत्तुल्या प्रमदेति भावः । आरोहमकुमारोपितः आरूढस्तस्मिन् काले यद्रजो रास्तेन कथंभूतेन रजनीभूतेन रात्रिवद प्रकाशकेनाज्ञातवर्णेनेत्यर्थः । रजनीभूत इवेत्यपि पाठः । तत्र तमोमय इवेत्यर्थः । दीर्घपाठे रजन्यां रात्रौ भूता इवेत्यर्थः । अतिरजस्वल्दमतिरतीव रजसाच्छनमतिरत एवासाधुमर्यादः अतो रजोव्याप्तचक्षुरिव दिक्षु स्थिता मर्यादातिक्रम साक्षीभूता देवता न जानात्यनुपादेयमेवोपादेयतया गृह्णाति ॥ ९॥ प्रक्रमसाजात्यादुत्तरश्लोकचतुर्थपाद ।
व्याचष्टे कचिदिति । कदाचित्सकृदवगतं विषयेषु शब्दादिषु वैतथ्यं वैयर्थ्यं पुरुषार्थशून्यत्वं येन तथा भूतोऽपि पराभिध्यानेन देहचिन्तया विभ्रंशितस्मृतिर्विभ्रंशिता स्मृतिरात्मविषया यस्य तथैव विभ्रंशितस्मृत्याः । मरीचितोयप्रायान् मरीचितोय तुल्यान् स्वयमपुरुषार्थरूपत्वेऽपि तत्वेनावभासमानान् तानेव विषयानभिधावति ॥ १० ॥ ४ पूर्वाद्धं व्याचछे कचिदुलूकेति । उलूकझिल्योः घूककीटविशेषयोर्ध्वनिवदतिपरुषो रभस उत्साहस्तेनाटोपः सम्भ्रमः यथा भवत्येवं रिपूणां राजकुलस्य च निर्भसि- तेनात्यन्तं व्यथितं कर्णमूलं हृदयं च यस्य तथाभूत आस्ते तत्र प्रत्यक्षाप्रियवाक्यमुलूकस्थानीयं राजकुलं परोक्षाप्रियवाक्यकृत्- झिल्लीस्थानीयं रिपुकुलं विवक्षितम् ॥ ११ ॥ स इति । यथा दुग्धपूर्वसुकृतः अपूर्णपूर्वसुकृतहीन इत्यर्थः । तथा कारस्करो विषतिन्दुः तत्प्रमुखा येऽपुण्यद्रुमाः तथाविधा लताश्च विषोदपाना विषकूपाश्च तत्तुल्यानुभयार्थशून्यद्रविणान् दृष्टादृष्टप्रयोजन- शून्यानि द्रविणानि धनानि येषां तान् येषां द्रविणं कीर्त्यर्थं दृष्टार्थ च न भवति ते उभयार्थशून्यद्रविणा अत एव जीवन्मृतान्स्वयं जीवन्नपि त्रियमाणः मृतप्रायः जीवन्मृतः उपधावति ॥ १२ ॥ * * कचिद्वितायाः सरित इत्येतद्वयाचष्टे एकदेति । कदाचिदसतां वेददेवब्राह्मणविदूषकाणां प्रसङ्गात्सङ्गान्निकृता वश्चिता मतिर्यस्य सः व्युदकस्रोतः स्खलनवनिरुदकनदीपतनवत् यथा निर्जलनदीगर्ते पतितस्य न पिपासाशामकजललाभः प्रत्युत शिरःस्फुटनं च सद्यो भवति पश्चादपि तद्दनानुवर्तते एवमुभयत इह परलोके च दुःखदं पाषण्डं पाषण्डाचारमभियाति प्राप्नोति स्वीकरोति । यद्वा पाषण्डकुलं प्राप्नाति तत्र जायते इत्यर्थः ।। १३ ॥ * * परस्परं चालषते निरन्न इत्येतद्वद्याचष्टे यदेति । यदातु परपीडया अन्ध अन्नमात्मने स्वस्मै नोपनमति नोपतिष्ठते परपीडयाप्यन्नं न लभत इत्यर्थः । तथा पितृपुत्रबर्हिष्ठान् पितृपुत्रादीनां बर्हिः कुशः तद्वतः पितृपुत्राणां कुशादि तृणमात्रमपि येषु पश्यति तान् स भक्षयति बाधत इत्यर्थः ।। १४ ।। ** आसाद्य दावमित्येतद्वद्याचष्टे । कचिदिति । कदादिद्दावाग्नितुल्यं प्रियार्थविधुरं भोग्यपदार्थरहितमसुखोदक दुःखपरम्परायुक्तं गृहं प्राप्य शोकाग्निना इष्टालाभादिष्टनिवृत्तिज- दुःखेन भृशं दह्यमानः पीड्यमानो निर्वेद मोह मया सुकृतं न कृतमतो दुभंगो मन्दभाग्योऽहमित्येवमुपगच्छति ॥ १५ ॥ * वच यक्षैर्हृतासुरित्येतद्वयाचष्टे । कचित्कालेन विषमितं प्रतिकूलतां प्राप्तं यद्राजकूलं तदेव रक्षस्तेनापहृताः प्रियतमधनरूपा असवः प्राणा यस्य विगतामि जीवलक्षणानि हर्षादीनि यस्य अत एव मृतक इवास्तेऽवतिष्ठति ।। १६ ।। PEPO 15E DIEPPIE BIREPIE WADERS FRIFFTSTER) (SPIPRESTO FIE FIDIN ministered श्रीमति श्रीमद्विजयध्व जतीर्थकृता पदावली 35 निवासतोयादित्यस्यार्थमाह । अथेति । गृहायनेकस्वरूपेष्वेकमन्तरेणापि जीवन नास्तीति दुराग्रहवान् क वात्योत्थितेत्यस्यार्थमाह । कचिच्च वात्येति । आरोहमक कालरजसा विषयसेवा समयरागेण ॥ ९ ॥ * * अदृश्य- झिल्लीत्यस्यार्थमाह कचिदु केति सम्भ्रमः ॥१७॥ अपुण्यवृक्षानित्यस्यार्थमाह । यदेति ॥ ११ ॥ ॐ मरीचितोयान्यभिधावतीत्यस्यार्थमाह । कचित्सकृदिति ॥ १२ ॥ ॥ ॥ । आटोप * । स
- कचिद्वितोयाः सरित ક श्रीमद्भागवतम् [ स्कं. ५ अ. १४ श्लो. ९-१६ ’ इत्येतद्विवृणोति । एकदेति । उभयत इह परत्रापि व्युदस्रोतसञ्चलनवत् मृगतृष्णिकाजलप्रवाहवत् ॥ १३ ॥ * * परस्परं खादयत इत्येतत्प्रतिवक्ति । यदा त्विति । भक्षयति पीडयति ॥ १४ ॥ * * आसाद्य दावमित्यस्यार्थमाह । कचिदासा- द्येति ॥ १५ ॥ * * कचित्कालेत्यादिना कच यक्षैरिति विवृतं परैर्हतस्व इत्येतदप्यनेन व्याख्यातम् ।। १६ ।। श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः प्रथमपाठे रजन्यां ये भूतास्तत्तुल्यक्रिया इत्यर्थः, इवेन समासात् ।। ९-२९ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी चिच्च वात्योत्थितेत्येतद्वत्याचष्टे । वात्यया सहौपम्यमुपमा ।
- कामवेगस्तेन स्वदृष्टयाच्छादकेन स्पष्टा अपि दिग्देवता वह्निसूयाद्या रजनीभूता आराहमङ्कं तस्मिन् काले यद्रजः रजस्तुल्यः । इव रजस्वलाक्षोऽन्ध इव रजस्वलमतिः कामान्धीकृतमतिः पश्यन्तीरपि ताः न जानाति । रजनीभूत इति पाठे तमोमयः ॥ ९ ॥ * * * अत्र कचित् क्रमेण कचित् क्रमोल्लङ्घनेन क्वचित् पौनरुत्येनापि व्याख्यानं नावगणनीयं न हि महाटव्याः सर्व एव पन्था ऋजूकर्तुं शक्यइति अत्र स्वप्रौढिमपहाय यथास्थितमेव व्याख्यायते । मरीचितोयान्यभिधावति क्वचिदित्येतद्वद्याचष्टे । कचिदिति । सकृदेकवारमवगतं विषयाणां वैतथ्यं नैष्फल्यं येन स तदपि तानेव विषयान् मरीचितोयप्रायान् पुनः पुनरभिधावति पराभिध्यानेन देहाभिनिवेशेन विभ्रंशिता स्मृतिर्यस्य सः । तयैव विभ्रंशितया स्मृत्या स्मृतिभ्रंशादेवेत्यर्थः ॥ १० ॥ * अदृश्यझिल्लीस्वनेत्येतद्वचाचष्टे । कचिदुल्लुकेति । अतिपरुषो रभस उत्साहस्तेनाटोपः सम्भ्रमो यत्र तद्यथा स्यात्तथा निर्भर्त्सनेन ॥ ११ ॥ * * अपुण्य- वृक्षानित्येतद्वद्याचष्टे । स यदेति । दुग्धमुपभुक्तं पूर्वसुकृतं येन सः कारस्करो विषतिन्दुकः तत्प्रमुखा येऽपुण्यद्रुमास्तथाविधा लताश्च विषकूपास्तत्तुल्यान् दृष्टादृष्टप्रयोजनशून्यधनान् ॥ १२ ॥ * * क्वचिद्वितोयाः सरित इत्येतद्वद्याचष्टे । एकदा असतां प्रसङ्गान्निकृता वञ्चिता मतिर्यस्य सः निरुदकनदीगर्तपाते यथा सद्यः शिर स्फुटति पश्चादपि वेदनानुवर्त्तते एवमिह च परत्र च दुःखदम् ।। १३ ।। * * परस्परनालषते निरन्न इत्येतद्वचाचष्टे । परबाधया परपीडनप्रदद्यापि जीविकया अन्धः अन्नं नोपतिष्ठति पितुः पुत्राणां वा कुशादितृणमात्रमपि येषु पश्यति तान् भक्षयति राजद्वारात् पदातिकानानीय पीड- यति ॥ १४ ॥ * * आसाद्य दावमित्येतद्वचाचष्टे । कचिदासाद्येति * वच यक्षैर्हता सुरित्येतद्वचा चष्टे । ॥ १५ ॥ ६ कचित्कालेति । विगतानि जीवनलक्षणानि हर्षादीनि यस्य सः शोकमूच्छितौ वा ॥ १६ ॥
श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः क्वचिच्च वात्योत्थितेत्येतद्वयाचष्टे । तत्कालरजसा तात्कालिकेन रागेण रजनीभूतस्तमोमय इष अतिरजस्वलमतिः अतीव रजोव्याप्तबुद्धिः असाधुमर्यादः दिग्देवताः दिक्षु स्थिता मर्यादातिक्रमसाक्षिदेवता न जानाति यथा वात्योत्थितरजसाच्छन्ननेत्रो दिशो न जानाति तद्वत् ॥ ९॥ अदृश्यझिल्लीत्युत्तरश्लोकस्य मरीचितोयान्यभिधावति कचिदिति चतुर्थपादं स्त्रीविषयप्रसङ्गात्प्रथमं व्याचष्टे । कचित्स्वयमेव सकृदवगतं विषयेषु स्त्र्यादिमधुरशब्दमृदुस्पर्शादिषु वैतथ्यं वैपरीत्यममङ्गलत्वं येन तथाविधोऽपि पराभिध्यानेन स्त्र्यादिध्यानेन विभ्रंशिता स्मृतिर्यस्य सः । दुःखोदर्केषु अमङ्गलेषु विषयेषु पुनः सुखबुद्धिस्तथैव विभ्रंशितया स्मृत्या स्मृतिभ्रंशादेव मरीचितायतुल्यान् तानेव विषयानभिधावति ।। १० ।। * * अदृश्यझिल्लीस्वनेत्येतद्वयाचष्टे । उलूकझिल्योः स्वनवदतिपरुषो रभसः उत्साहस्तेनाटोपः सङ्ग्रामो यथा स्यात्तथा रिपूणां राजकुलस्य च निर्भत्सितेनातिव्यथितं कर्णमूलं हृदयं च यस्य सः तथाभूतो भवति ॥ ११ ॥ * * अपुण्यवृक्षान् श्रयंत इत्येतद्वद्याचष्टे । स यदेति । स भवाटव्यां प्रविष्टः यद दुग्धमुपयुक्तं पूर्वसुकृतं येन सः अवशिष्टेन दुष्कृतेन प्रवर्त्तितः कारस्करो विषतिन्दुस्तदादयो येऽपुण्यद्रुमाः तादृश्यो लताश्च विषोदपानाः विषकूपाश्च तत्सदृशान् दृष्टादृष्टप्रयोजनवर्जितवित्ताननुपधावति ।। १२ ।। * * क्वचिद्वितोयाः सरितोऽ- भियातोतेतद्वचाचष्टे एकदेति । एकदा कचित् असतां वेदबाह्यानां पाखण्डिनां सङ्गान्निकृता वश्चिता मतिर्यस्य सः व्युदकस्रोत स्खलनवम् यथा निर्जलनदीगर्ते न जललाभः प्रत्युत सद्यः शिरः स्फुटति अश्वादपि तद्वेदनानुवर्तते तथेह परलोके च दुःखदं पाखंडः पाखण्डिनां मार्गमभियाति ॥ १३ ॥ * * परस्परं चालषते निरन्ध इत्येतद्वयाचष्टे । यदा तु परबाधयापि अन्धः अन्नं नोपनमति नोपतिष्ठति तदा पितृपुत्रसम्बन्धिबर्हिः कुशस्तन्मात्रयुक्तानपि पितॄन् पुत्रांश्च भक्षयति पीडयतीत्यर्थः ॥ १४ ॥ आसाद्य दावमित्येतद्वद्याचष्टे । प्रियार्थं विधुरमनुकूलार्थरहिताम् ।। १५ ।। * * तच यक्षैह्र तासुरित्येतद्वथाचष्टे । क्वचिदिति । कालेन विषमितं प्रतिकूलतां नीतं यद्राजकुलं तदेव रक्षस्तेनापहृता प्रियतमाः धनासवः धनात्मकाः असवो यस्य सः विगतानि विनष्टानि जीवलक्षणानि हर्षादीनि यस्य सः प्रमृतक इवास्ते । अनेनैव शूरैर्हतस्व इत्यपि व्याख्यातम् ॥ १६ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी निवासतोयद्रविणात्मबुद्धिरित्येतद्वद्याचष्टे - अथेति । अथ निवासादिषु अनेकेषु आत्मनः स्वस्योपजीव्येषु अभिनिवेशो यस्य स एतस्यां संसाराटन्यामितस्ततः परिधावति । परमहितकारिणः परमाप्तस्य परमगुरोर्भगवत आज्ञारूपां वेदमर्यादामुल एकं. ५ अ. १४ श्लो ९-१६ ]. %, अनेक व्याख्या समलङ्कृतम् २९५ स्वेच्छया नरकपातादिहेतुष्वन्यायेन प्रवर्तते इत्यर्थः । तत्र निवासो वासस्थानं, पानीयं जलं, द्रविणं धनं, आदिपदेन देहत्रीपुत्र- वस्त्रपात्रभूषणाद्यभिलषिततत्तत्पदार्थानां ग्रहणम् । यद्यपि जीवनार्थं तत्तद्विषयभोगोऽप्युचित एव तथापि तत्र शोभनाभ्यासेन अन्यायेन भोगप्रवणचित्तत्वान्निन्दा युक्तेति ज्ञेयम् ॥ ९ ॥ * * क्वचिच्च वात्योत्थितेत्येतद्वयाचष्टे कचिचेति । कचित् कदाचिच वात्यौपम्यया चाञ्चल्येन मोहोत्पादकत्वेन च चक्रवातसदृश्या प्रमदया आरोहमङ्कमारोपितस्तत्कारजसा तस्मिन् काले उत्थितेन रजःकार्येण तस्यां रागेण रजस्वलाक्षो विनष्टविवेकः अत एव असाधुमर्यादस्त्यक्तमर्यादो रजन्यां रात्रौ भूता इव सर्वतः सचारिण्यस्तत्तत्कर्म साक्षिभूता दिग्देवता न विजानातीत्यन्वयः । एवं रागोत्पत्तौ हेतुमाह-अतिरजस्वलमतिरिति, अतिशयेन रजस्वला रजोगुणव्याप्ता मतिर्यस्य स तथाभूतो यत इत्यर्थः । तदेवं राजसानां स्त्रीसम्बन्धः सर्वपुरुषार्थ भ्रंशकः सर्वानर्थहेतुश्चेति सूचितम् । रजनिभूत इति ह्रस्वपाठे तमोमय इवेत्यर्थः ॥ १० ॥ * * अनुपादेयमेवोपादेयतया गृह्णातीति प्रक्रमसाजात्याद- दृश्यझिल्लीत्याद्युल्लङ्घय मरीचितोयानभिधावतीत्येतद्वद्याचष्टे कचिदिति । कचित् स्वयमेव सकृदवगतं ‘ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः’ इत्यादिशास्त्रगुरुवाक्येन ज्ञातं विषयाणां वैतथ्यं वैपरीत्यं दुःखहेतुत्वं येन स तथाभूतोऽपि पराभिध्यानेन देहात्माभिमानेन विभ्रंशिता श्रुतस्य देहादिभिन्नात्मतत्त्वस्य स्मृतिर्यस्य स तयैव विभ्रंशितया स्मृत्यैव स्मृतिभ्रंशादेव दुर्लभत्वेन दुःखहेतुत्वेन मनोरथापुरकत्वेन च मरीचितोयतुल्यांस्तान् विषयानेवाभिधावति तत्प्राप्तिव्यापारकिष्टो भवतीत्यर्थः ॥ ११ ॥ * * क्रमप्राप्तमदृश्य झिल्लीत्येतद्वद्याचष्टे - कचिदिति । कचिदुलुकझिल्लीस्वन- वदतिपरुषः दुस्सहः रभस उत्साहस्तेनाटोपः सम्भ्रमो यथा भवति तथा प्रत्यक्षं परोक्षं वा रिपूणां राजकुलस्य च निर्भसितेन दुर्वचनेनातिव्यथितं कर्णमूलं हृदयं च यस्य स यदा दुग्धमुपभुक्तं पूर्वं सुकृतं पुण्यं येन स तथाभूतो भवति तदा कारस्करो विषतिन्दुः काकतुण्डश्च निषिद्धवृक्षविशेषस्तत्प्रमुखा येऽपुण्यद्रुमास्तथाविधा लताश्च विषोदपानाः विषयुक्ताः कूपाश्च तद्वदुभयार्थ- शून्यद्रविणान् दृष्टादृष्टप्रयोजनशून्यधनान् अत एव जीवन्मृतान् स्वयमपि जीवन्त्रियमाण एवं उपधावति विषयभोगार्थं धनाशया सेवते । तत्रोलूकवत् प्रत्यक्षमप्रियवक्तारो राजभृत्या झिल्लीपदवाच्यकीटविशेषवत् परोक्षमप्रियवक्तारो रिपवः । कृपणसेवाया निष्फलत्वात् सेवकस्यापि श्रियमाणत्वमुक्तम् ॥ १२ ॥ कचिद्वितोयाः सरितोऽभियातीत्येतद्वद्याचष्टे - एकदेति । एकदा कदाचिदसतां यः प्रकृष्टः सङ्गस्तस्मात् निकृता सन्मार्गाद्विच्छिन्ना भ्रष्टा मतिर्यस्य स इह निन्दाहेतुत्वेन परत्र नरकपातादिहेतुत्वेन चोभयतोऽपि दुःखदं पाखण्डं वेदविरुद्वमार्गमभियाति । उभयतो दुःखदत्वे दृष्टान्तमाह-व्युदक स्रोतस्स्खलनवदिति निरुदकनदीगर्त- पातिनच सद्यः शिरः स्फुटति पश्चादपि च तद्वेदना वर्त्तते न चोदकाभो भवतीति यथा तत्स्खलनं वर्त्तमानकाले भविष्यत्काले च दुःखदं तथा पाखण्डमपीत्यर्थः ॥ १३ ॥ परस्परं चालषते निरन्ध इत्येतद्वद्याचष्टे - यदा स्त्विति । यदा तु भाग्यहीनत्वात् परकृतया शत्रुकृतया कालकृतया वा बाधया आत्मने अन्धः अन्नं नोपनमति नोपतिष्ठति तदा पितृपुत्रबर्हिष्मतः पितुः पुत्राणां कुशादितृणवदतितुच्छमपि वस्तु येषु विद्यते तान् पितृपुत्रान् वा अपि स भक्षयति बाधते । खलु निश्चितमेतत् । कुतः हीति प्रसिद्धत्वात् ॥ १४ ॥ * * आसाद्य दावमित्येतद्वयाचष्टे - कचिदिति । दाववत् ज्वलद्वनंवत् प्रियार्थविधुरं प्रत्युत असुखं दुःखमुदर्कमुत्तरोत्तरफलं यस्मिन्तथाभूतं गृहमासाद्य प्राप्य शोकाभिना दह्यमानः कचिद् भृशमत्यन्तं निर्वेदमुपगच्छति विषाद प्राप्नोतीत्यन्वयः ।। १५ ।। * क च पक्षैर्हता सुरित्येतद्वथाचष्टे कचिदिति । कचित् कालेन विषमितं प्रतिकूलतां नीत यद्राजकुलं तदेव रक्षस्तेनापहृताः प्रियतमरूपा असवो यस्य सः । अत एव प्रमृतक इव विगतानि जीवलक्षणानि हर्षचेष्टादीनि यस्य स तथाभूत आस्ते शूरैर्हतस्व इत्येतदप्यनेनैव व्याख्यातमिति ज्ञेयम् ॥ १६ ॥
-
- । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी कचिच्च वात्योत्थित इत्येतद्वयाचष्टे कचिदिति । कांचच कुत्रचित्तु, वात्यौपम्यया चक्रवाततुल्यया, प्रमदया स्त्रिया, यथा त्या नेत्रयो रजःप्रक्षेपेणान्धीकरोति, तथा रजोगुणोत्कर्षकत्वेनाज्ञानमापादयन्ती प्रमदा तत्तुल्यैवेति भावः । आरोहमङ्क आरोपितः तस्मिन्काले यो दृष्टावरको रागस्तेन रजनीभूतः रजन्यां पिशाच इव, अतिरजस्वलमतिः अतीव रजश्छन्नमतिः, अतः रजस्वलाक्षः असाधुमर्यादः सन् दिग्देवता मर्यादातिक्रमसाक्षिभूता दिश्ववस्थिता देवता दिग्देवतास्ताः, न विजानाति । साधुमर्यादा इति पाठे साधुमर्यादाः, दिग्देवताच न विजानातीति ॥ ९ ॥ अनुपादेयमेवोपादेयतया गृह्णातीति प्रक्रमसाजात्यादुत्तर-
-
- श्लोकचतुर्थपाद ‘मरीचितोयान्यभिधावति कचित्’ इत्येवंरूपं प्रथमं व्याचष्टे कचित्सकृदिति । तत्र कचिदातपोदकनिभानित्यत्र मिथ्याविषयेषु लम्पटत्वमुक्तं, निवासतोयेत्यत्र तदर्जन प्रयास उक्तः । अत्र तु बाधितेष्वपि पुनः प्रवृत्तिरुच्यते इत्यपौनरुक्त्यम् । कचित् कदाचित्, सकृदवगतं स्वयमेवैकवारमवगतं विषयाणां शब्दादीनां वैतथ्यं वैफल्यं येन तथाभूतः सन्नपि, स्वयं पराभिध्यानेन देहचिन्तया विभ्रंशिता नष्टा स्मृतिरात्मविषयस्मरणं यस्य तथाभूतः सन् तया विभ्रंशितस्मृन्य एव, मरीचितोयप्रायान्मरीचिजल- तुल्यान्, स्वयमपुरुषार्थरूपत्वेऽपि तत्त्वेनावभासमानान्तान्विषयान् एव प्रति अभिधावति ॥ १० ॥ * अदृश्यझिल्ली- स्वन इत्येतद्वयाचष्टे कचिदुलूकेति । क्वचित्, उलूकझिल्ल्योः घूकभृङ्गारिकयोः स्वनो ध्वनिस्तद्वदतिपरुषो रभस उत्साहस्तेनाटोपः संभ्रमो यथा भवत्येवं प्रत्यक्षं परोक्षं वा रिपूणां राजकुलस्य च यन्निर्भत्सितं तेन अतिव्यथितमत्यन्तसंज्ञातव्यथं कर्णमूलं हृदयं च २९६ श्रीमद्भागवतम् । [ स्कं. ५ अ. १४ लो. १७-२४ यस्य स तथाभूतः आस्ते । तत्र प्रत्यक्षाप्रियवाक्यभाषणपूर्वकं राजकुलकृतभर्त्सनमुलूकध्वनिस्थानीय परोक्षाप्रियवाक्यभाषणपूर्वक रिपुकुलकृतभर्त्सनं झिल्लीस्वनस्थानीयं च ज्ञेयम् ॥ ११ ॥ ** अपुण्यवृक्षानित्येतद्वयाचष्टे स यदेति । स यदा दुग्धमुपभुक्तं पूर्वसुकृतं येन सः तथाभूतः जायते । तदा, कारस्करच काकतुण्डश्च तो आदी येषां ते येऽपुण्यद्रुमाश्च तथाविधा लताश्च विषोदपाना विषकृपाश्च तद्वत् उभयार्थशून्यानि द्रविणानि येषां तथाभूतास्तान् दृष्टादृष्टप्रयोजनशून्यधनानित्यर्थः । येषां द्रविणं कीर्त्त्यर्थं न, खोपभोगार्थं न ते उभयार्थद्रविणशून्या इति भावः । अत एव, जीवन्मृतान् सप्राणत्वेऽप्यप्राणसमान स्वयं जीवन्नपि, म्रियमाणः मृतप्रायः जीवन्मृत– तुल्यः सन्निति यावत् । उपधावति संसेवते ।। १२ ।। * ‘कचिद्वितीयाः सरित’ इत्येतद्वयाचष्टे एकदेति । एकदा कदाचित् असतां वेददेवब्राह्मणविदूषकाणां प्रसङ्गस्तस्मात्, निकृता वश्चिता मतिर्यस्य स एवंविधः सन् व्युदकस्रोतःस्खलनवनिरुदकनदी- पतनवत्, यथा निर्जलनदीगर्ते पतितस्य न पिपासाशामकजललाभः प्रत्युत शिरः स्फुटति पश्चादपि तद्वेदनाऽनुवर्त्तते तद्वत् । उभयतः अपि इह परलोके च दुःखद् पाखण्ड पाखण्डाचार, अभियाति प्राप्नोति स्वीकरोतीति यावत् ॥ १३ ॥ * * ‘परस्परं चालषते निरन्यः’ इत्येतद्वयाचष्टे । यदा त्विति । यदा तु परेषा बाधा पीडा तया, आत्मने स्वस्मै, अन्धोऽन्नं, न उपनमति नोप- तिष्ठते । परपीडया सहमानयापि अन्नं न लभते इत्यर्थः । तदा पितृपुत्रबर्हिष्मतः पितुः पुत्रस्य च कुशादितृणमात्रमपि तुच्छं वस्तु येषु पश्यति तान् जनानित्यर्थः । पितृपुत्रान् वा सः, खल, भक्षयति हि । बाधत एव इत्यर्थः । पितृपुत्रबर्हिष्ठानिति पाठेऽप्ययमे- वार्थः ॥ १४ ॥ * * ‘आसाद्य दावम्’ इत्येतद्वद्याचष्टे कचिदिति । कचित्कदाचित्, दाववत् दवाग्नितुल्यं प्रियार्थविधुरं भोग्यपदार्थरहितं, असुखोदकं दुःखपरपरायुक्तं गृहं आसाद्य प्राप्य, शोकाग्निना इष्टालाभानिष्टानिवृत्तिजातदुःखेनेत्यर्थः । भृशमति- शयेन दह्यमानः पीड्यमानः सन् निर्वेदग्रहो मया सुकृतं न कृतमतो दुर्भगो मन्दभाग्योऽहमित्येवंविधमनस्तापं, उपगच्छति प्राप्नोति ॥ १५ ॥ * क च ‘यक्षैर्हतासुः’ इत्येतद्वयाचष्टे कचिदिति । क्वचित्कदाचित् कालेन चिषमितं प्रतिकूलतां प्राप्तं यद्राजकुलं तदेव रक्षस्तेन, अपहृताः प्रियतमधनरूपा असवः प्राणा यस्य स तथाभूतः । अत एव विगतानि जीवलक्षणानि हर्षादीनि यस्य एवंभूतः सन् प्रमृतकः शवः इव, आस्तेऽवतिष्ठते ॥ १६ ॥ postin भाषानुवादः कभी बवंडरके समान आँखोंमें धूल झोंक देनेवाली स्त्री गोदमें बैठा लेती है, तो तत्काल रागान्ध-सा होकर सत्पुरुषोंकी मर्यादाका भी विचार नहीं करता । उस समय नेत्रों में रजोगुणकी धूल भर जानेसे बुद्धि ऐसी मलिन हो जाती है कि अपने कर्मोके साक्षी दिशाओंके देवताओंको भी भुला देता है ॥ ९ ॥ कभी अपने आप ही एकाध बार विषयोंका मिध्यात्व जान लेनेपर भी अनादिकालसे देहमें आत्मबुद्धि रहनेसे विवेक-बुद्धि नष्ट हो जानेके कारण उन मरुमरीचिकातुल्य विषयोंकी ओर ही फिर दौड़ने लगता है ॥ १० ॥ * कभी प्रत्यक्ष शब्द करनेवाले उल्लूके समान शत्रुओंकी और परोक्षरूपसे बोलनेवाले ** झोंगुरोंके समान राजाकी अति कठोर एवं दिलको दहला देनेवाली डरावनी डाँट-डपटसे इसके कान और मनको बड़ी व्यथा होती है ॥ ११ ॥ * * पूर्वपुण्य क्षीण हो जानेपर यह जीवित ही मुर्देके समान हो जाता है; और जो कारस्कर एवं काकतुण्ड आदि जहरीले फलोंवाले पापवृक्षों, इसी प्रकारकी दूषित लताओं और विषैले कुँओंके समान हैं तथा जिनका धन इस लोक और परलोक दोनोंके ही काममें नहीं आता और जो जीते हुए भी मुर्देके समान हैं—उन कृपण पुरुषोंका आश्रय लेता है ॥ १२ ॥ * कभी असत् पुरुषोंके सङ्गसे बुद्धि बिगड़ जानेके कारण सूखी नदी में गिरकर दुःखी होनेके समान इस लोक और परलोकमें दुःख देनेवाले पाखण्डमें फँस जाता है ॥ १३ ॥ * * जब दूसरोंको सतानेसे उसे अन्न भी नहीं मिलता, तब वह अपने सगे पिता-पुत्रोंको अथवा पिता या पुत्र आदिका एक तिनका भी जिनके पास देखता है, उनको फाड़ खानेके लिये तैयार हो जाता है ॥ १४ ॥ * कभी दावानलके समान प्रिय विषयोंसे शून्य एवं परिणाममें दुःखमय घरमें पहुँचता है, तो वहाँ इष्टजनोंके वियोगादिसे उसके शोककी आग भड़क उठती है; उससे सन्तप्त होकर वह बहुत ही खिन्न होने लगता है ॥ १५ ॥ * * कभी कालके समान भयङ्कर राजकुलरूप राक्षस इसके परमप्रिय धनरूप प्राणोंको हर लेता है, तो यह मरे हुएके समान निर्जीव हो जाता है ॥ १६ ॥ कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ।। १७ ।। क्वचिद् गृहाश्रमकर्म- चोदनाविभर गिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशभिव सीदति ॥ १८ ॥ क्वचिच्च दुःसहेन कायाभ्यन्तरवहिना गृहीतसारः स्वकुटुम्बाय क्रुध्यति ॥ १९ ॥ स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत् किञ्चन वेद शव इवापविद्धः || २० १. प्रा० पा० गृहीतगतसारः । स्कं. ५ अ. १४ श्लो. १७-२४] अनेकव्याख्या समलङ्कृतम् कदाचिद् भग्नमानदंष्ट्रो दुर्जनदन्दशू कैरलब्धनिद्राक्षणो २९७ व्यथितइदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्थ वत्पतति ।। २१ ।। कर्हि स्म’ चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये ॥ २२ ॥ अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति ।। २३ ॥ मुक्तस्ततो यदि बन्धादेवदत्त उपाच्छिनति तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४ ॥ अन्वयः – कदाचित् असत् मनोरथोपगतपितृपितामहादि सत् इति स्वप्ननिर्वृत्तिलक्षणम् अनुभवति ॥ १७ ॥ कचित् गृहाश्रमकर्म चोदनातिभर गिरिम् आरुरुक्षमाणः लोकव्यसनकशितमनाः कटकशर्कराक्षेत्रम् प्रविशन् इव सीदति ॥ १८॥ कचित् च दुःसहेन कायाभ्यंतरवह्निना स्वकुटुंबाय क्रुध्यति ।। १९ ।। सः एष पुनः निद्राजगरगृहीतः अंधे तमसि मग्नः शून्यारण्ये इव शेते शवः इव अपविद्धः अन्यत् किंचन न वेद ।। २० ।। * * कदाचित् दुर्जनददशकैः भग्नमानदंष्ट्रः अलब्ध- निद्राक्षणः व्यथितहृदयेन अनुक्षीयमाणविज्ञानः अंधकूपे अंधवत् पतति ॥ २१ ॥ ॐ कहिस्मचित् काममधुबान् विचिन्वन् यदा परदारपरद्रव्याणि अवरुधानः राज्ञा वा स्वामिभिः निहतः अपारे नरके पतति ।। २२ ।। अथ च तस्मात् हि कर्म अस्मिन् उभयथा अपि संसारावपनम् उदाहरति ।। २३ ।। * यदि बंधात् मुक्तः ततः देवदत्तः उपाच्छिनत्ति तस्मात् अपि विष्णुमित्रः इति अनवस्थितिः ॥ २४ ॥ श्रीधर स्वामिविरचिता भावार्थदीपिका ॥ * * कचिश्च गंधर्वपुरं प्रविष्ट इत्येतद्वयाचष्टे । कदाचिन्मनोरथप्राप्तं पित्राद्यसदेव सदिति मत्वा । पूर्वं गंधर्वपुरदघट मानदर्शनमुक्तमिदानीं तनिमित्तसुखासतिरुच्यत इति भेदः ॥ १७ ॥ * चलन कचिदित्येतद्वयाटे । कचिद् गृहाश्रमे याः कर्म चोदनास्तासामतिभरोऽतिविस्तारः स एव गिरिस्तमारुरुक्षस्तदंतं गंतुमिच्छन् ॥ १८ ॥ पदे पदेऽभ्यंतर वह्निनेति व्याचष्टे । कचिच्च दुःसहेनेति ॥ १९ ॥ * कचिन्निगीर्ण इत्येतद्व्याचष्टे । स एवेति ॥ २० ॥ ॐ ॐ
- दृष्टः स्म शेते इति व्याचष्ट । कदाचिदिति । मानो गर्व एव दंष्ट्रा परपीडाकरत्वात् भग्ना मानदंष्ट्रा यस्य अत एव न लब्धो निद्रायाः क्षणोऽपि येन ॥ २१ ॥ कस्मिन्चित्क्षुद्ररसानित्येतद्वद्याचष्टे । कर्हिस्म चित्काममधुलवानिति । यदा निहतो भवति तदा सद्य एव निरये पतति ।। २२ ।। प्रसंगात्प्रवृत्तस्य कर्मणः संसारहेतुत्वं स्फुटयति अथ चेति । यस्मादेवं तस्मात् अथ अनंतरमेव । उभयथा इह च परत्र च अस्मिन्प्रवृत्तिमार्गे । संसारस्यावपनं जन्मक्षेत्रं कर्मोदाहरति ॥ २३ ॥ * * तत्रा- तिकृच्छ्रात्प्रतिलब्धमान इत्येतद्वयाचष्टे । मुक्त इति यदि बंधान्मुक्तो भवति तर्हि ततः सकाशादन्यो हरति तस्मादप्यन्यः न त्वसौ भोक्तुं लभत इत्यर्थः ॥ २४ ॥ श्रीवंशीधरकृतो भावार्थदीपिकामकाशः नय
असन्मृतमपि सत्पुनः परलोकादागतमिति मत्वा स्वप्न इव निर्वृतिरानंदस्तत्स्वरूपम् ॥ १७ ॥ * कर्मचोदनाः कर्मविधयों विवाहाश्व मेधादिरूपाः । लोकानां प्रतिवेशिजनानां व्यसनं तादृशवृहत्कर्मासक्तिस्तेन कर्शितमनाः । एते स्वप्रतिष्ठार्थं बृहत्कर्म कुर्वति तदहं कथं न करोमि इति विक्षुब्धचित्तः कंटकशर्कराभिर्युक्तं क्षेत्रं प्रविशन्पुरुषो यथाऽवसीदति तथा स कस्यचिणेन धनं गृहीत्वोपस्थितं कर्म कृत्वोत्तमर्णगृहीतो दातुमशक्तोऽतीव दुःखी भवतीति भावः ॥ १८ ॥ * ॥ गृहीतसारो दग्धवीर्यः ॥ १९ ॥ * * अपविद्धः त्यक्तः ॥ २० ॥ * * अत एव भग्नमानदंष्ट्रत्वादेव । अंधकूपे शोक- लक्षणे ।। २१ ।। * अवरुधानः स्वीकुर्वाणः स्वामिभिर्दारादिपतिभिर्निहतो मृतो भवति निरये पतति अपमृत्युमरणादिति भावः ।। २२ ।। ६
-
- यस्मादेवं कर्मफलमवश्यं भुज्यते तस्माद्धेतोः । अथ कर्मप्रवृत्त्यनंतरमेव । उभयथा पुण्यप्रकारेण पाप- प्रकारेण च । अस्मिन् जगति | आत्मनो जीवस्य ॥ २३ ॥ * * बंधात्तत्स्वामिदत्तबंधप्रहारादेर्यदि द्रव्यादिव्ययेन मुक्तः संस्तरासंभोक्तुं प्राप्नोति तदा देवदन्तोऽन्यः कचिल्लम्पटस्तव आच्छिद्य ततोऽपि बहुधनादिव्ययेन भुंक्ते तस्मादप्यन्य इति न प्रकामं भोक्तुं लभते इत्यर्थ इति । अनंतधनबलादेरभावादिति भावः । … देवदत्तविष्णुमित्रावित्येतौ सर्वजनमात्रे प्रयोक्तव्यशब्दौ ।। २४ । श्रीमद्वीराघवयाख्या : 1 । अनेनैव शूरैर्हृतस्व इत्युत्तरश्लोकपूर्वार्द्ध व्याख्यातप्रायमित्यभिप्रेत्य तदुत्तरार्द्धं व्याचष्टे कदाचिदिति । कचिदसत्का- लान्तरानव स्थायित्वेन पुरुषान्तराननुभाव्यत्वेन चासत्स्वप्नद्रष्ट्र कानुभाव्यं तत्कालमात्रावसायि चेति यावत् मनोरथेन १. प्रा० पा० - क्वचिद् । २. प्रा० पा० - कर्हिचित् । । MTEEEE FIE ३८ … २९८ श्रीमद्भागवतम् [ स्कं ५ अ. १४ लो. १७-२४० मनोव्यापारेण सङ्कल्पविकल्पात्मकेन उपगतं प्राप्तं स्वप्नदृष्टकर्मानुसारिसङ्कल्पविकल्पात्मकमनोरथानुसारिभगवत्सृष्टया प्राप्तमित्यर्थः । ईदृशं पितृपुत्रादि सदिति मन्वान इति शेषः । कालान्तरावस्थायिपुरुषान्तरानुभाव्यजा प्रस्तुतुल्यमतिरित्यर्थः । स्वप्ननिर्वृतिं स्वप्ने प पुत्रादिसुखं क्षणमात्रमनुभवति स्वप्नस्य गन्धर्वनगरतुल्यत्वं च तद्वत्तत्कालमात्रावस्थायित्वेनानन्यानुभाव्यत्वेन चात्र विवक्षितम् । गन्धर्वा हि कचिन्नियतं चिरं न वसन्ति कचित् क्षणमवस्थितवन्तोऽपि न परैर्ज्ञायन्ते ततस्तेषां निवासस्थानापरपर्यायं नगरं न कालान्तरावस्थायीतर पुरुषानुभाव्यं चेति वदन्ति च ॥ १७ ॥ * * चलक चलन्कचिदित्यस्य पूर्वार्द्धं व्याचष्टे । कचिदिति कदाचिद् गृहाश्रमे याः कर्मणां चोदना विधयस्तासामतिभरो विस्तारः स एव गिरिस्तमारुरुक्षमाणः आरोतुमिच्छन् तदन्तं गन्तुमिच्छन् बहुदिवसानि शरीरायासयज्ञादिकर्माण्यारभ्य यावत्समाप्ति कर्तुकामस्तावत् लौकिकैर्लोकभवैर्व्यसनैर्दुःखैरन्तरायभूतैः पुत्रवित्तापत्यादिभिः कर्षितमनाः पीडितचित्तः कण्टकशर्कराक्षेत्रं प्रविशन्निव पर्बतमारुरुक्षन्मध्ये कण्टकैः शर्करादिभिः सूक्ष्म- पाषाणैश्वाकीर्ण क्षेत्रं प्रविष्ट इव सीदति खिद्यति ॥ १८ ॥ * * उत्तरार्द्धं व्याचष्टे कचिच्चेति । कदाचित् दुःसहेन सोदुम- शक्येन कायाभ्यन्तरवह्निना शरीरमध्यपरिवर्तिजाठराग्निना गृहीतसारः गृहीतबलः कार्यं प्राप्तः स्वकुटुम्बाय भार्यायै क्रुध्यति ॥ १९ ॥ * * कचिनिगीर्ण इत्यस्य पूर्वाद्धं व्याचष्टे स एवेति । स एव संसाराध्वनि भ्राम्यमाण एव । यद्वा कुटुम्बाय क्रुध्यन्नेव निद्वैवाजगरस्तेन गृहीतः अन्धे तमसि अन्धयतीत्यन्धं स्वपराप्रकाशं प्रत्तमः अज्ञानं तस्मिन्मग्नः शून्यारण्ये निर्जनेऽरण्य इव शेतेऽन्यत् किञ्चिदपि न वेद किं त्वहमित्येतावन्मात्रमवभासते न तु ब्राह्मणत्वादिवाद्याकारं जानाति तात्कालिक- मस्य देहं लक्षयति अपविद्धः शवः दूरतः परिहृतः शव इवेति ॥ २० ॥ * तस्यैवोत्तराद्धं व्याचष्टे कदाचिदिति । कचित् दुर्जना एव दन्दशूकाः सर्पादयो दशत्स्वभावास्तैर्भग्नो मानो गर्वः स एव दंष्ट्रा यस्यात एवालब्धो निद्रायाः क्षणो येन व्यथितं दुःखितं यद्धृदयं तेन श्रीयमाणं सङ्कोच्यमानं विज्ञानं यस्य सः अन्धवदन्धकूपे महति दुःखे पततीत्यर्थः ॥ २१ ॥ * * कर्हिस्पचित् क्षुद्ररसानिति श्लोक व्याचष्टे कर्हिचित्स्मेति । कामो विषयोपभोगस्तेन ये मधुलवाः सुखले शास्तान्विचिन्वन्नन्वे- पयन्यदा परदारान् परद्रविणानि चावरुन्धानः स्वीकर्तुमारभमाणः राज्ञा स्वामिभिः परैर्वा निहतो भवति तदाऽपारे निरये नरक- प्रायकारागृहे निपतति राजादिभिर्निहतः कारागृहादिबद्धो भवतीत्यर्थः ।। २२ ।। 8 । मुक्तस्तु बन्धादित्युक्तेः प्रसङ्गात्प्रवृत्तस्य कर्मणः संसारहेतुत्वं स्फुटयति अथ चेति । यस्मादेवं तस्मादथानन्तरमेव उभयथा इह परत्रास्मिन्प्रवृत्तिमार्गे संसारस्य वपनं जन्मक्षेत्रं कर्मोदाहरन्ति ।। २३ ।। * * तत्रापि कृच्छ्रात्प्रतिलब्धमानः इत्येतद्वयाचष्टे मुक्त इति । यदि बन्धान्मुक्तो भवति तर्हि ततः सकाशाद्देवदत्त अन्य उपाच्छिनन्ति आहरति तस्मादपि विष्णुमित्रोऽन्यो हरति इत्यनवस्थितिः न त्वसौ भोक्तुं लभत इत्यर्थः ।। २४ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली A क्वचिच्च गन्धर्व पुरमित्येतद्वचा ख्याति । कदाचिन्मनोरथेत्यादिना ॥ १७ ॥ ॐ ॐ क्वचिद् गृहाश्रमेत्यादिना चलन् क्वचिदित्येतद्विश्रियते । गृहाश्रमचोदितकर्माण्येवातिभारा गिरयस्तानारुरुक्षन् ॥ १ । गृहाश्रमचोदितकर्माण्येवातिभारा गिरयस्तानारुरुक्षन् ।। १८ ।। पदे पदेऽभ्यन्तरवह्निनेत्ये- तद्वयाख्यातम् । कचिश्च दुःसहेनेत्यादिना गृहीतसारः गतधैर्यः ॥ १९ ॥ * वचिन्निगीर्णइत्येतद्वयाचष्टे । स एवेत्यादिना । दष्टः स्म शेते इत्येतद्वयाख्याति । कचिद्भग्नमना इत्यादिना निद्राक्षणः निद्रालक्षणावसरः ।। २०-२१।। * * कहिंस्मचि- दित्यस्यार्थं दर्शयत्ति । कर्हिस्मचित्कामेत्यादिना । काममधुलवानिति पाठे काम्यन्त इति कामा विषयास्त एवं मधुलवा मकरन्द- लेशास्तानित्यर्थः ।। २२ ।। * * तत्रापि कृच्छ्रादित्यस्याभिप्रायमाह । अथ चेति ॥ २३-२४ ॥ । ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी कचिश्च गन्धर्वपुरं प्रविष्ट इत्येतद्वथाचष्टे कदाचिदिति । मनोरथप्राप्तं पित्रादिकमसत् पुनः परलोकादागतमिति मत्वा स्वप्ने इव निर्वृतिम् ।। १७ ॥ * $ चलन् क्वचिदित्येतद्वचाचष्टे । कचिद् गृहाश्रमे याः कर्मचोदना- स्ताभिः प्राप्तो योऽतिभरोऽश्वमेधादिर्विवाहादिर्वा स एव गिरिस्तमारुरुक्षन् तदन्तं गन्तुमिच्छन् लोकानां प्रतिवेशिजनानां व्यसनं तादृशबृहत्कर्माशक्तिस्तेन कर्षितमनाः । एते स्वप्रतिष्ठार्थं बृहतकर्म कुर्वन्ति अहं कथं न करोमीति विक्षुब्धचित्तः ॥ १८ ॥ * * पदे पदेऽभ्यन्तरवह्निनेत्येतद्वद्याचष्टे । क्वचिद् दुःसहेनेति । गृहीतसारः दग्धधैर्यः ॥ १९॥ * कचिन्निगीर्ण इत्येतद्वयाचष्टे स एवेति । अपविद्धः स्वजनेस्त्यक्तः ॥ २० ॥ चष्ट । कदाचिद्रग्नेति ॥ २१ ॥ २२ ॥ * * अथ चेति यस्मादेवं तस्मादुभयथापि तत्रातिकृच्छ्रं प्रतिलब्धमान इत्येतद्वचाचष्टे । मुक्त इति ।
-
- कर्हिस्मचित् क्षुद्ररसानित्येतद्वथाचष्टे । कर्हिस्मचित् कामेति ॥ पापप्रकारेण पुण्यप्रकारेण च कर्म अस्मिन् जगति ॥ २३ ॥
दृष्टः स्म शेते इति दष्टः स्म शेते इति yu mig बन्धात् तत्स्वामिदत्तबन्धप्रहारादेर्यदि द्रव्यादिव्ययेन मुक्तः सन् तद्दारान् सम्भोक्तुं प्राप्नोति तदा देवदत्तः अन्यः कञ्चिलम्पटः तत आच्छिय भुङ्क्ते तस्मादप्यन्य इति न कोऽपि प्रकामं भोक्तुं लभते ॥ २४ ॥एक. ५. अ. १४ श्लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः an कचिश्च गन्धर्वपुरं प्रविष्ट इत्येतद्वथाचष्टे कदाचिदिति । मनोरथेन मनोव्यापारेण सङ्कल्पेनोपगतं नित्यं मनसि मत्पि- त्रादिकमस्तीत्येवं वर्तमानमित्यन्यथाभूतं यत् पितृपितामहादिसत्सुखकरं तद्विपरीतमसदपि सत्सुखकरमिति मत्वेति शेषः, स्वप्न- निर्वृतिलक्षणं स्वप्नवन्निर्वृतिः सुखं यस्मात्तथाभूतम् ॥ १७ ॥ * चलन चलन् कचित्कण्टकशर्कराङ्घ्रिरित्येतद्वद्याचष्टे कचिदिति । गृहाश्रमे याः कर्मचोदनास्तासामतिभरोऽतिविस्तारः स एव गिरिस्तमारुरुक्षमाणः तदन्तङ्गन्तुमिच्छन् लोकव्यसनैः क्षुद्रेल किकैः कार्यैः कर्शितं मनो यस्य सः कण्टकशर्कराक्षेत्रं प्रविशन् नगमारुरुक्षुर्यथा सीदति तद्वत्सीदति ॥ १८ ॥ * * पदे पदेऽभ्य- न्तरवह्निनेति व्याचष्ट । कचिद् दुःसहेन सोदुमशक्येन कायाभ्यान्तरक्रोधाग्निना गृहीतः भस्मीकृतः सारो धैर्यं यस्य सः॥ १९ ॥ * * वचिन्निगीर्ण इत्येतद्वचाचष्ट । स एवेति ॥ २० ॥ दष्टः स्म शेते क च दन्दशू कैरित्येत- द्वंद्याचष्टे कदाचिदिति । मानो गर्वः एव दृष्ट्रा परपीडाकरत्वात् भग्ना मानदंष्ट्रा यस्य सः अत एव न लब्धो निद्राक्षणो येन सः अन्धकूपे दुःखरूपे गर्ते पतति यथान्धकूपेऽन्धः ।। २१ ॥ कर्हिस्मचित्क्षुद्ररसानित्येतद्वचाचष्टे कर्हिस्मचिदिति विषयोपभोगस्तेन ये मधुलवाः सुखलवास्तान् त्रिचिन्वन् परदारादीन् अवरुन्धानः स्वीकुर्वाणः यदा तत्स्वामिभिः राज्ञा वा निहतो भवति तदापारे निरये कारागृहादौ पतति ।। २२ ।। * * प्रसङ्गात्प्रवृत्तं कर्म संसारहेतुरित्याह अथेति । अस्मिन् भवा- ध्वनि प्रवृत्तिमार्गे उभयत्र इह च परं च संसारावपनं जन्मक्षेत्रं कर्मोदाहरन्ति ॥ २३ ॥ * तत्रातिकृच्छ्रं प्रतिलब्धमान इत्येतद्वयाचष्टे मुक्त इति । यदि मुक्तः कारागृहादितो मुक्तो भवति तर्हि ततः सकाशात् देवदत्तस्तस्माद्विष्णुमित्र उपाच्छिनत्ति इत्यनवस्थितिर्भवति न त्वसौ भोक्तुं लभते इत्यर्थः ॥ २४ ॥ 2 गोखामिश्रीगिरिधरलाल विहिता बालप्रबोधिनी । Thi 8 कामा । कचिश्च गन्धर्वपुरं प्रविष्ट इत्येतद्वयाचष्टे कदाचिदिति । कदाचिन्मनोरथेन उपगतं प्राप्तं पितृपितामहादि असदाशु विनाशि दुःखदमपि सत् दुःखदं निश्चलमिति मत्वा स्वप्ननिर्वृतिलक्षणं स्वप्नसुखसदृशं सुखमनुभवति ।। १७ ।। * * चलन् कचिदित्येतद्वयाचष्टे - कचिदिति । गृहाश्रमे याः कर्मचोदनाः विधयस्तासां अतिभरोऽतिविस्तारः स एव गिरिस्तमारुरुक्षन् अनुष्ठानेन तदंते गन्तुमिच्छन् -कर्मचोदनेति । पुत्रजन्मविवाहादौ मनोरथप्राप्तभोजनपाननृत्यादिविस्तारस्योपलक्षणम् - पूर्वमेव प्रतिदिन- भोजनाच्छादनादिव्यवहार निर्वाहनिमित्तसचितर्णादिना लिष्टः कण्टकशर्कराक्षेत्रं प्रविशन्निव क्वचित् सीदति । ऋणादिना पूर्वं लिष्टस्याप्येवं महत्कर्ममनोरथे हेतुं सूचयंस्तं विशिनष्टि-लोकेति लोके लोकव्यवहारे यद्वयसनमभिनिवेशस्तेन कर्शतं मनो यस्य सः ।। १८ ।। पदे पदेऽभ्यन्तरवह्निनाऽर्दित इत्येतद्वद्या चष्टे - कचिदिति । कचिश्च दुस्सहेन सोढुमशक्येन कायाभ्यन्तरवह्निना जाठराग्निना गृहीतसारः हृतधैर्यः स्वकुटुम्बाय दारापुत्रादिलक्षणाय क्षुधा पीडितो विवशीभूतः क्रुध्यति ।। १९ ।। * * कचिन्निगीर्णइत्येतद्वयाचष्टे - स एवेति । य एवं दिवसे जाग्रदवस्थायां नानाव्यापारवान् स एव पुनर्निद्रारूपेणाजगरेण गृहीतो दष्टोऽतोऽन्धे तमसि अज्ञानरूपे मग्नः शून्येऽरण्येऽपविद्धस्त्यक्तः शव इव शेते नान्यत्किञ्चिन्न वेदेत्यन्वयः ॥ २० ॥ * दष्टः स्म शेते क च दन्दशू कैरित्येतद्वथाचष्टे - कदाचिदिति । दुर्जना एव पीडाकरत्वाद्दन्दशूका वृश्चिकादयस्तैर्भप्रमानलक्षणा दंष्ट्रा यस्य सः । अत एव न लब्धो निद्रायाः क्षणोऽवसरो येन स व्यथितेन हृदयेन हेतुनाऽनुक्षणं क्षीयमाणं विज्ञानं यस्य सोऽन्धकूपसदृशे महामोहे पतति । तत्र दृष्टान्तमाह-अन्धकूपेऽन्धवदिति, यथाऽन्धकूपे पतितस्यान्धस्य ततो निस्सरणं दुर्घटं तथा मोहे निमग्नस्याज्ञस्य ततो निस्सरणं दुर्घटमित्यर्थः ॥ २१ ॥ कर्हिस्मचित् क्षुद्ररसान्विचिन्वन्नित्येतद्वद्याचष्टे -कर्हिस्मचिदिति । कदाचिच काम- मधुलवान् विचिन्वन भोगजन्यानि मधुवच्छान्तिसुखान्यभिकाङ्क्षन् यदा परदारपरद्रव्याणि परस्त्रीधनवस्त्रादीनि अवरुन्धान आहरन् भवति तदा राज्ञा तत्स्वामिभिर्वा इतोऽपारेऽनन्ते निरये नरके पतति । कारागृहादिषु निबद्धो वा भवतीत्यपि ज्ञेयम् । मुक्तस्तत इत्यग्रे वक्ष्यमाणत्वात् ॥ २२ ॥ * * एवं पूर्वाध्यायव्याख्यानं कुर्वन् प्रसङ्गात् प्रवृत्तस्य कर्मणः संसारहेतुत्वमाह- अथेति । अथ च यस्माच्चैवं तस्मादुभयथापि लौकिक शास्त्रीयं च कर्मास्मिन् प्रवृत्तिमार्गे आत्मनो जीवस्य संसारावपनं जन्ममरण- संसारस्य कारणमुदाहरन्ति, ऋषयो वेदा वेति शेषः । नन्वन्य एवं वदन्तु नाम तवात्र सम्मतिरस्ति न वेत्याशङ्कय स्वनिश्वयं ज्ञापयितुमाह-हीति ।। २३ ॥ * तत्रातिकृच्छ्रं प्रतिलब्धमान इत्येतद्वयाचष्टे - मुक्त इति । यदि कथञ्चित्ततो बन्धनमुक्त- स्तदा तान् पदार्थास्ततः सकाशादेभ्यो देवदत्त उपाच्छिनत्ति बलादाहरति तस्मादप्यन्यो विष्णुमित्र आहरतीत्येवमनवस्थिता, आहरणपरम्परा भवति । दुर्बलः केवलमिह परत्र च दुःखभागेव भवति न भोक्तुं लभते न वा सुखमिति भावः ।। २४ ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । अनेनैव ‘शूरैर्हतस्व’ इत्युत्तरश्लोकपूर्वार्द्धं व्याख्यातप्रायमित्यभिप्रेत्य ‘कचिश्च गन्धर्वपुरं प्रविष्ट:’ इति तदुत्तरार्द्ध व्याचष् । कदाचिदिति । कदाचित् मनोरथेन उपगतं प्राप्तं यत्पितृपितामहादि, यद्यपि असदेव भवति तथापि सत् इति मत्वा, स्वप्ननिर्वृति ३०० श्रीमद्भागवतम् ॥ एक. ५.अ. १४ लो. १७-२४ स्वाप्नपितृपितामहा दीक्षण जातसुखं यथानुवदति तथाविधं सुखमित्यर्थः । क्षणं अनुभवति । पूर्व गन्धर्वपुरवद घटमानं दर्शनमुक्त- मिदानीं तन्निमित्तसुखासक्तिरुच्यत इति भेदः ॥ १७॥ ‘चलन्कचित्’ इत्यस्य पूर्वार्द्धं व्याचष्टे । कचिदिति । कचित्कदाचित् गृहाश्रमे याः कर्मणां चोदना विधयस्तासामतिभरो विस्तारस स एव गिरिस्तं, आरुरुक्षमाण आरोदुमिच्छन्, बहुदिनपर्यन्त कृतायाससाध्यानि कर्माण्यारभ्य तानि यावत्समाप्ति कर्तुकाम इत्यर्थः । तदन्तस लोकव्यसनानि अन्तरायभूतानि लोकभवदुःखानि तैः कर्शितमनाः पीडितचित्तः, अत एव कण्टकशर्कराक्षेत्रं कण्टकैः सूक्ष्मपाषाणैश्वाकीर्णक्षेत्रं प्रविशन्निव सीदति कण्टककूर्पादियुक्तक्षेत्रं प्रविष्टो जनो यथा सीदति तथा विद्यतीत्यर्थः ॥ १८ ॥ ‘पदे पदेऽभ्यन्तरवह्निनार्दितः इत्युत्तरार्द्धं व्याचष्टे कचिचेति । कचिश्च कदाचित्तु, दुःसहेन सोढुमशक्येन, कायाभ्यन्तरवह्निना शरीर मध्य परिवर्त्तिजाठ- रामिना, गृहीतसारः गृहीतबलः कार्यं प्राप्तः सन्निति यावत् । स्वकुटुम्बाय भार्यायै, क्रुध्यति ॥ १९ ॥ * * कचिन्निगोर्ण इत्येतद्वयाचष्टे । स एवेति । स एव संसाराध्व भ्रम्यमाण एव । यद्वा यः कुटुम्बाय क्रुध्यति, स । १ पुन:, स एव हि निद्रा एवाजगरस्तेन गृहीतो मस्तः सन्, अन्वे तमसि अन्धं करोतीत्यन्धयतीत्यन्धं स्वपराप्रकाशकं यत्तमोऽज्ञानं तस्मिन्नित्यर्थः । मनः सन्, शून्यारण्ये निर्जने वने अपविद्धस्त्यक्तः शवः इव, शेते । अन्यत् किंचन न वेद । अत्र द्वितीय इवशब्दोऽवधारणे । किंचिदहं भवामि एतावन्मात्रमवभासते न तु ब्राह्मणत्वादिबाह्याकारं जानाति ।। २० ।। ‘दष्टः स्म शेते क च दन्दशके:’ इत्येतद्वथाचष्टे कदाचिदिति । कदाचित् दुर्जना एवं दन्दशूकाः सर्पादयो दंशनस्वभावास्तैः भग्ना मानो गर्व एव परपीडा- करश्वात् दंष्ट्रा यस्य सः । अत एव अलब्धः निद्रायाः क्षणो येन सः । व्यथितं दुःखितं यद्धृदयं तेन, अनुक्षीयमाणं संकुच्यमानं विज्ञानं यस्य सः । एवंभूतः सन्, अन्धवत् अन्धरूपे महति दुःखे पतति ॥ २१ ॥ * * ‘कर्हि स्म चिक्षुद्ररसान्’ इति श्लोकं व्याचष्टे । कर्हि स्म चेदिति । कर्हिचित् स्म कदाचित्तु कामो विषयोपभोगस्तेन ये मधुलवाः सुखलेशास्तान्, यद्वा काम एव मधु तस्य लवा बिन्दवस्तान्, यदा काम्यन्ते इति कामा विषयास्त एवं मधुलवा मकरन्दलेशास्तान् विचिन्वन् अन्वेषयन् यदा परदारपरद्रव्याणि पराङ्गनाः परधनानि चेत्यर्थः । अवरुन्धानः स्वीकन्तु मारभमाणः भवति । तदा राज्ञा नृपेण स्वामिभिस्तत्पतिपुत्रपित्रादिभिर्वा । निहतः सम्यक् ताडितः सन्, अपारे निरये नरकप्रायें कारागृहे इत्यर्थः । पतति कारागारादिनिबद्धो भवतीत्यर्थः । यद्वा जीवन्नृपादिताडितो भवति, मृतः सन्निरये पततीत्यर्थः ॥ २२ ॥ वृत्तस्य कर्मणः, संसारहेतुत्वं स्फुटयति । अथ चेति अथ चेत्यर्थान्तरोपन्यासे । तस्मात् यस्मादेवं तस्मादित्यर्थः । उभयथापि हि, इह परत्र चापि, कर्म एव, आत्मनो जीवस्य, अस्मिन्प्रवृत्तिमार्गे, संसारावपनं जन्मक्षेत्र, उदा- हरन्ति ।। २३ ।। * ‘तत्रातिकृच्छ्रं प्रतिलब्धमान’ इत्येतद्वयाचष्टे मुक्त इति । यदि बन्धात् पूर्वोक्तात् बन्धनात् सकाशात् देवदत्तः उपाच्छिनन्ति । तस्मात् अपि, विष्णुमित्रः इति, अनवस्थितिः । न त्वसामर्थो मुक्तः भवति, तथेपि ततः भक्ति सुलभ इत्यर्थः ॥ २४ ॥ भाषानुवादः प्रसङ्गात्प्र- कभी मनोरथके पदार्थों के समान अत्यन्त असत् पिता पितामह आदि सम्बन्धीको सत्य समझकर उनके सहबाससे स्वप्नके ॥ नके समान क्षणिक सुखका अनुभव करता है ॥ १७॥ * गृहस्थाश्रम के लिये जिस कर्मविधिका महान् विस्तार किया गया है, उसका अनुष्ठान किसी पर्वतकी कड़ी चढ़ाईके समान ही है। लोगोंको उस ओर प्रवृत्त देखकर उनकी देखादेखी जब यह भी उसे पूरा करनेका प्रयत्न करता है, तब तरह-तरहकी कठिनाइयोंसे क्लेसित होकर काँटे और कंकड़ोंसे भरी भूमिमें पहुँचे हुए व्यक्तिके समान दुःखी हो जाता है ॥ १८ ॥ ॐ कमी पेटकी असा ज्वालासे अधीर होकर अपने कुटुम्बपर बिगड़ने लगता है ।। १९ ॥ फिर जब निद्रारूप अजगर के चंगुल में फँस जाता है, तब अज्ञानरूप घोर अन्धकार में डूबकर सूने वनमें फेंके हुए मुर्देके समान सोया पड़ा रहता है। उस समय इसे किसी बातकी सुधि नहीं रहती ॥ २० ॥
- कमी दुर्जनरूप काटनेवाले जीव इतना काटते तिरस्कार करते हैं कि इसके गर्वरूप दाँत, जिनसे यह दूसरों को काटता था, टूट जाते हैं। तब इससे अशान्तिके कारण नींद भी नहीं आती तथा ममवेदना के कारण क्षण-क्षण में विवेक शक्ति क्षीण होते रहनेसे अन्तमें अन्धेकी भाँति यह नरकरूप अन्धेरे कुएँ में जा गिरता है ।। २१ ॥ *** कभी विषयसुखरूप मधुकणोंको ढूंढते ढूँढते जब यह लुक-छिपकर परस्त्री या परधनको उड़ाना चाहता है। तब उनके स्वामी या राजाके हाथसे मारा जाकर ऐसे नकर में जा गिरता है जिसका ओर-छोर नहीं है || २२|| इसीसे ऐसा कहते हैं कि प्रवृत्तिमार्गमें रहकर किये हुए ॥ २३ ॥ * * यदि किसी प्रकार ॥२२ • लौकिक और वैदिक दोनों ही प्रकारके कर्म जीवको संसारका प्राप्त और धनको देवदत्त नामका कोई दूसरा व्यक्ति राजा आदिके बन्धन से छूट भी गया, तो अन्यायसे अपहरण किये हुए उन स्त्री छीन लेता है और उससे विष्णुमित्र नामका कोई तीसरा व्यक्ति झटक लेता है। इस प्रकार के भोग एक पुरुषसे दूसरे पुरुषके पास जाते रहते हैं, एक स्थानपर नहीं ठहरते ॥ २४ ॥ Ph me se / Dire एक. ५ अ. १४ श्लो. २५-३२ ] अनेकस्याण्यासमलङ्कृतम् m fol कचिच शीतवातायनेकाधिदैविक भौतिकात्मीयानां दशानां प्रतिनिवारणेऽकम्पो दुरन्वचिन्तया ‘विषण्ण आस्ते ॥ २५ ॥ कचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा विद्वेषमेति वित्तशाव्यात् ।। २६ । For From "” अध्वन्यमुष्मिभिम उपसगस्तिथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलो भमात्सर्येयवमानक्षुत्पि- पासाधिव्याधिजन्मजरामरणादयः ।। २७ ।। क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहार- गृहारम्भाक्कलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषिताव लोकविचेष्टितापहृतहृदय आत्मानमजितात्मापा रेऽन्धे तमसि ग्रहिणोति ॥ २८ ॥ BEEF Fig क Sh श्र कदाचिदीश्वरस्य भगवतो विष्णोधकात्परमाण्वादिद्धि परार्धापवर्ग का लोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्वादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमना नृत्य पाखण्डदेवताः कङ्कगृधबक वदप्राया आर्यसमयपरिहताः साङ्केत्येनाभिधत्ते ॥ २९ ॥ यदा पाखण्डिभि- रात्मवश्चितैस्तैरुरु वश्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि श्रौतस्मार्त कर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बमरणं यथा वानरजातेः ॥ ३० ॥ तत्रापि निरवरोधः स्वैरेण विहरन्न तिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः ।। ३१ ।। कचिद् द्रुमवदैहिकार्थेषु गृहेषु रस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः ।। ३२ ।। SPEED | PEPPEphesy F W DIESE PISSPIESTESIE FIFFICUSPIDIPERZI ॐ अन्वयः कचित् च शीतवातायनेकाधिदैविकमौतिकात्मीयानाम् दशानाम् प्रतिनिवारणे अकल्पः दुरंतचितया विषण्णः आस्ते ।। २५ ।। * * कचित् मिथः यत् किंचित् धनम् व्यवहरन् वा अन्येभ्यः यत्किंचित् का किणिका मात्रम् वा अपहरन् वित्तशाठ्यात् विद्वेषम् एति ।। २६ ।। तथा अमुष्मिन् अध्वनि इमे सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोह- लोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजर | मरणादयः उपसर्गाः || २७ ॥ क अपि देवमायया स्त्रिया भुजलतो-
- पगूढः प्रस्कन्नविवेकविज्ञानः यद्विद्दारगृहारंभाकुलहृदयः तदाश्रयावसक्तसुतदुहिढकलत्रभाषिताव लोकविचेष्टितापहृतहृदयः अजितात्मा आत्मानम् अपारे अंधे तमसि प्रहिणोति ॥ २८ ॥ * कदाचित् ईश्वरस्य भगवतः विष्णोः परमाण्वादिद्विपरार्धापवर्ग- कालोपलक्षणात् रंहसा परिवर्तितेन वयसा आब्रह्मतृणस्तंवादीनाम् मिषताम् भूतानाम् हरतः अनिमिषतः चक्रात् वित्रस्त हृदयः तम् एव ईश्वरम् कालचक्रायुधम् साक्षाद् भगवंतम् यज्ञपुरुषम् अनादृत्य कंकभबकवटप्रायाः आर्यसमयपरिहृताः पाखंडदेवताः सांकेत्येन अभिधत्ते ।। २९ ।। * * यदा आत्मवचितैः तेः पाखंडिभिः, उरुवंचितः तेषाम् ब्रह्मकुलम् समावसन् उपनयनादिश्रौतस्मार्त- कर्मानुष्ठानेन भगवतः यज्ञपुरुषस्य आराधनम् एव शीलम् तत् अरोचयन् शूद्रकुलम् भजते यस्य निग़माचारे अशुद्धितः यथा जातेः मिथुनीभावः कुटुंबभरणम् ॥ ३० ॥ * * तत्र अपि निरवरोधः स्वैरेण विहरन् अतिकृपणबुद्धिः अन्योन्यमुखनिरी- क्षणादिना ग्राम्यकर्मणा एव विस्मृतकालावधिः ॥ ३१ ॥ * * कचित् द्रुमवत् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुतदार वत्सलः व्यवायक्षणः ।। ३२ ।। : क श्रीधरस्वामिविरचिता भावार्थदीपिका बानर- inter शीतातप्रेत्येतद्वद्या चट्टे कचिच्चैति । शीतादयोऽनेका आधिदैविकाद्या या दशा दुःखावस्थास्तासाम् कचिश्च me ॥ २५ ॥ * * कचिन्मिथ इत्येतद्वयाचष्टे । कचिन्मियो यत्किंचिद्धन व्यवहरन्काकिणिकामात्रं विंशतिकपर्दकमात्रं ततोऽपि न्यूनं वा यत्किंचिदपहरन्विद्वेषमेति ॥ २६ ॥ * अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्तबाधोपसर्गेरित्युक्तानुपसर्गान्प्रपंचयति । अध्वन्यमुष्मिन्निमे उरुकृच्छ्रवित्तबाधादयस्तथा सुखदुःखादयश्च ॥। २७ ॥ * सुखदावादयश्च ॥ ३७ ॥ * व्युत्क्रमैः पुनरुक्तेश्च नानापाठस्तः परम् । दुर्गमोऽपि भवाध्वायं संप्रदायेन तीर्यते । तत्र प्रसज्जति कापीत्यादिना । सिंहावलोकनन्यायेनोक्तमर्थमपकृष्य क्रमेण व्याचष्टे कापि FATE Ph क १. प्रा० पा०. आपन्नः । २. प्रा० पा० - व्यवहरति वा काकिणिकामात्रमध्येव हरति यत्किं प्रा० पा०-विज्ञान स्तद्वि- हारगृहा० । ४. प्रा० प्रा- भाषिता लोकविचेष्टिता छत प्रमापारेर तमसि प्रा० पापरमावादिपशद्ध | प्रा० पा० -वटबक० ३०३ श्रीमद्भागवतम् स्क. ५ अ. १४ श्लो. २५-३३ देवमाययेति । प्रस्कन्नमपगतं विवेकविज्ञानं यस्य । यस्याः स्त्रिया बिहारगृह क्रीडागृहं तदारंभे आकुलं हृदयं यस्य अनेन प्रसज्ञतीति । व्याख्यातम् । तदाश्रयेत्यादि व्याचष्टे । तस्या आश्रयेऽवसक्ताः संलग्नाः सुताः दुहितरश्च कलत्रं च सैव स्त्री तेषां भाषितादिभिरपहृतं हृदयं यस्य । प्रहिणोति प्रक्षिपति ॥ २८ ॥ * * कचित्कदाचिद्धरिचक्रतस्त्रसन्नित्येतद्व्याचष्टे । कदाचिदीश्वरस्येति । । । परमाणुरादिः द्विपरार्धोऽपवर्गान्तः तदेवोपलक्षणं यस्य तस्मान् कालोपलक्षणादिति पृथक्पदत्वेन पाठे कालस्वरूपादित्यर्थः । रंहसा शीघ्रेण परिवर्तितेन परिभ्रमणेन वयसा बाल्यादिक्रमेण ब्रह्माणमभिव्याप्य तृणस्तंबादीनि भूतानि हस्तश्चक्रतः सकाशाद्वित्रस्तहृदयः सन्पाखण्डदेवता आभिमुख्येन धन्त इत्यन्वयः । अनिमिषतो निमेषमकुर्वतः। अप्रमत्तादित्यर्थः । मिषतां प्रतिकर्तुमशक्ताना- मित्यर्थः । कर्मणि षष्ठ्यः । कालचक्रं निजं नित्यमायुधं यस्य । सांकेत्येन मूलप्रमाणशून्येन पाखंडागमेन ।। २९ ।। * * तैवंचित इत्येतद्वथाचष्टे । यदा त्विति । आत्मना वंचितैरुरु अधिक वंचितः सन् । तेषां ब्राह्मणानां यच्छीलमुपनयनादि तदरोचयन् शूद्रवद्वर्तते । निगमोक्ताचारे अशुद्धितः स्वस्य शुद्धयभावात् यस्य शूद्रस्य केवलं मिथुनीभावः कुटुम्बभरणं च व्यापारो नाग्निहोत्रादिः ॥ ३० ॥ * * तज्जातिरासेनेत्यादि व्याचष्टे । तत्रापि निरवरोधः प्रतिबन्धरहितः स्वैरेण | । स्वेच्छया क्रीडन्विस्मृतमृत्युकालः सन् ॥ ३१ ॥ द्रुमेषु रस्यन्नित्येतद्वयाचष्टे । कचिद् द्रुमवदिति व्यवायक्षणो मैथुनो- त्सवो भवति ।। ।। ३२ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः " देविकाच भौतिकाचात्मीयाश्चेति दैविक भौतिकात्मीयाः अधिना सहिता दैविकभौतिकात्मीया अधिदैविकभौतिका- स्मीयास्तथा चाधिदैविका आधिभौतिका आध्यात्मीयाश्च या देशास्तासामित्यर्थः ॥ २५ ॥ * * “शाठ्यं लोभे च वञ्चने’ इत्यभिधानात् ।। २६-२७ ॥ व्युत्क्रमैर्विपरीतक्रमैः । सम्प्रदायेन सद्गुरुकृपया । तत्र भवाटव्याम् । सैव स्त्री यस्या आश्रये संलग्ना सेत्यर्थः । यद्वा-कलत्रं पुत्रवधूः । अन्धे तमसि अन्धतामिस्त्रे । अपारे पारयितुमशक्ये ॥ २८ ॥ परमाणुरादिर्द्विपरार्थोऽपवर्गोंतो यस्यैवंविधो यः कालस्तदेवोपलक्षणं यस्येति । तदिति नपुंसकं तूपलक्षणविशेषणत्वात् । पृथक्पद- त्वेन पाठे ‘द्विपरार्द्धापवर्गात्कालोपलक्षणात् इति पाठे । आभिमुख्येन धत्ते सेव्यत्वेनांगीकरोति । इत्यर्थ इति । सावधाना- स्वावसरे हंतुमुद्युक्तादिति भावः । इत्यर्थं इति । असमर्थ एव हेतु प्रवृत्तं पश्यन् क्षमत इति भावः । अकारप्रश्ले षे व्यवहारेऽ- प्रमत्तानामित्यर्थः । कर्मणि षष्ठय इति । भूतानि हरत इत्यर्थः । यद्वा-आयुरित्यध्याहार्यं तेषामायुर्हरत इति । आर्यसमयपरि- हृताः शिष्टाचाररहिताः ककादयः पक्षिणः । कश्मलवृत्तयो यथा तादृशा एवं कश्मला देवता यासामर्चनादौ स्नानाद्यपेक्षा नास्ति ताः कश्मलदेवतास्ताश्च सेविताः स्वसेविनां कश्मलमेव लोकं वैतरिण्याद्युपलक्षितं नयंति ‘देवान्देवयजो यान्ति इति न्यायेन न हि सिंहग्रस्त कंकादयों मोचयितुं समर्था अपि तु सिंहकर्तृकतद्धनने प्रमुदिता भवंति । सिंहावशिष्टमेतन्मांसादि वयमपि भक्षयाम इति विमृश्येति भावः ।। २९ ।। * * आत्मना वंचितैः स्वकल्पितकुपथगामित्वादिति उरु वंचितः कल्पितकिंचिन्मात्रा- पराधमिषेण घनाद्यपहृत्य स्वधर्मात्प्रच्याव्य स्वगणान्निःसारितः । शूद्रकुलं शूद्रकुलाचारम्। निगमोक्ताचारमध्ये याऽशुद्धिरुच्यते । ययैव यस्य मिथुनीभावः । विधवायास्त्यक्तधवाया वा मूल्यादिप्रदानेन परिणयः ॥ ३० ॥ * * तत्रापि शूद्राचार - स्वीकारेऽपि । निरवरोधो धर्ममर्यादाभिरनवरुध्यमानः ॥ ३१ ॥ * भक्तिज्ञानसुसंगा-
- व्यवाय एवात्सवा यस्य न तु दावित्यर्थः ।। ३२-३३ ॥ । श्रीमद्वीरराघवव्याख्या wwww कचिच्च शीतातपेत्येतद्वयाचष्टे । कचिच्चेति शीतादयोऽनेकाधिदेविकानां भौतिकानामात्मनां च दशा दुःखावस्था आधिदैविका आधिभौतिका आध्यात्मिकास्तापा इत्यर्थस्तासां दशानां प्रतिनिवारणाय प्रतिक्रियायै अकल्पोऽसमर्थः प्रतिक्रियां कर्तुसमर्थः, अत एव विषण्णः दुःखितः अपारचिन्तायुक्त आस्ते ।। २५ ।। क्वचिन्मिथ इत्येतद्वयाचष्टे । कदाचित्परस्परं व्यवहरन् यत्किञ्चिद्धनमन्येभ्यः सकाशात् काकिणिकामात्रं विशतिकपर्द्दमात्रं ततोऽपि न्यूनं वा यत्किञ्चिदपहरन् वित्तशाठचैन धनलोभेन विद्वषं प्राप्नोति ।। २६ ।। 8 कचित्कचित् क्षीणधन इत्येतद्वद्याचष्टे । कचित्क्षीणं धनं यस्यात एव शय्यासननिवासादिभिरुपभोगैर्भोगोपकरणैर्विहीनः रहितः उपभोगशब्दो भोग्योपलक्षकः, कचित् यदैवंविधो भवति तदा यावद- प्रतिलब्धमनोरथः अप्राप्तसमीहितः तावत्परस्वादानेऽन्यदीयधनग्रहणे व्यवसितमतिः केनापि परवानोपायेन तदीयं धनं ग्रहीत- व्यमिति निश्चययुक्तः ततः परधनादिग्रहणोद्योगादपमानादीनि प्राप्नोति ॥ २७ ॥ * * अन्योऽन्यवितेति व्याचष्टे । एवं परस्परं वित्तस्य भाषाबन्धनस्य धनस्य व्यतिषङ्गेण व्यत्यासेन निबद्धमारूढमूलं यद्वैरं तदनुबन्धोऽप्रियकारित्वादिरूपश्च यस्यैवम्भूतोऽपि पूर्ववासनया जात्यभिमानप्रयुक्तया पूर्ववासनया मिथ उद्वहतः विवाहं कुर्वाणस्तानेव वैरविषयानेवोद्वहति । वैरविषयैरेव साजात्याभिमानेन विवाहादिक्रियया सम्बध्नातीत्यर्थः ॥ २८ ॥ एतस्मिन् संसाराध्वन्येवमुक्तविधैर्नानाविधैः स्कं. ५ अ. १४ लो. २५-३२ ] अनेकव्याख्यासमलङ्कृतम् ३०३ क्लेशैरुपसर्गैर्वक्ष्यमाणैः सुखदुःखरागद्वेषादिभिश्च वितते विस्तृतेऽनन्तक्लेशोपसर्गयुक्ते इत्यर्थः, आपन्न आपदं प्राप्तस्तत्र यो यो विपन्नः विपत्ति प्राप्तः मृत इति यावत्तं तं विपन्नं पित्रादिरूपं विसृष्य जातं जातं पुत्रादिरूपमुपादायात्मीयाभिमतिं कृत्वा पुनर्जात- विपत्तौ शोचन् तेन मुह्यन्विद्यन्प्ररुदन् तत्र शोको मानसी व्यथा खेदो वाचिकी दैन्योक्तिरूपा प्ररोदः कायिकी अश्रुविमोचनादिरूपा जातान्पुनरन्यस्य जनने संहृष्यन् हाहादिभिरुच्चैर्ध्वनिं कुर्वन् बिभ्यत् जातादीनामागामिदुःखसम्भावना निमित्तप्रतिकूलज्ञानप्रयुक्तः कदाचिज्जातादीनां गुणान् गायन्मुह्यमानः खेदं मोहं प्राप्तस्तेन साधुना कर्मणा वर्जितः, नह्यमान इति पाठे बध्यमानः अद्यापि जीवसमूहः आरब्ध उपक्रान्तयोगः संसाराध्वनः पार इतोऽस्मात्संसाराध्वनः सकाशात्तदध्वनः पारं यत् प्रति नैवावर्त्तते नायाति न प्राप्नोतीत्यर्थः । किं तदध्वनः पारं यत्प्रति नावर्तते तत्राह । यदिदं योगानुशासनं नाम योगानुशासनमिति प्रसिद्धं तत्संसाराध्वनः पारमुपदिशन्ति तत्त्वविद इति शेषः । योगस्याध्यात्मयोगकर्मयोगानुगृहीतभगवद्भक्तियोगस्यानुशासनं विविच्य ज्ञानं शिक्षणं वा तदनुष्ठानमिति यावत्तदेव संसाराध्वनः पारमित्यर्थः ।। २९ ।। * * मनस्विनो निर्जितेति श्लोकं व्याचष्टे न वा इति । उपशम एव शीलं येषामुपरतः निगृहीतः आत्मा मनो यैस्ते मुनयो मननशीला न्यस्तदण्डाः निवृत्तभूतद्रोहाः सर्वभूतसुहृदः सन्तः इत्यर्थः, यच्छन्तमं निरतिशयसुखरूपं परमात्मप्राप्त्युपायं योगानुशासनमुपतिष्ठन्ति प्राप्नुवन्ति तच्छन्तमं निर्जितदिग्गजेन्द्रा अमनस्विनः अनिर्जितान्तःकरणा राजर्षयो नैवावरुन्धन्ते न प्राप्नुवन्ति नैव च व्रजन्ति उपायानुष्ठानपूर्वकमुपेयं न यान्ति किन्त्वियं पृथिवी ममेत्यभिमानेनैव प्रकृतवैरानुबन्धाः मृधे युद्धे शयीरन् । केयं ममाभिमानविषयभूता तत्राह । यां पृथिवीं विसृज्य स्वयमुपसंहृता इत्यर्थः, सिंहावलोकन्यायेन बाघोपसर्गेरित्यत्राभिप्रेतमुपसर्गशब्दार्थमाह अध्वनीति । अस्मिन्नध्वनि संसाराध्वनि इमे स्वर्गादयः उपसर्गा इत्यर्थः ॥ ३० ॥ * * प्रसज्जतीत्येतद्वद्याचष्टे कापीति । स्त्रीवेषया देवमायया भगवन्मायया कर्या भुजलताभ्यामुपगूढः आलिङ्गितः प्रस्कन्नं गतं विवेकात्मविज्ञानं यस्य । यहा विवेको देहविलक्षणात्मविवेकः विज्ञानं भगवदुपासनात्मकं तद्रहितः यस्याः स्त्रिया विहारगृह क्रीडागृहं तदारम्भे आकुलं हृदयं यस्य तस्मिन्नाश्रमे वनिताविहारगृहे आसक्ताः प्रसक्ताः सुतादयस्तेषां भाषितादिभिरपहृतं हृदयं यस्य अत एवाजितेन्द्रियः अन्धे तमसि दुःखे नरके आत्मानं प्रहिणोति प्रक्षिपति ।। ३१ ।। * * पूर्वार्द्धं व्याख्यातमथोत्तराद्धं व्याचष्टे कदाचिदिति । परमाणुरादिः परार्द्धाऽपवर्गोऽन्तः स एवोपलक्षणं यस्य, कालोपलक्षणादिति पाठे तु परमाण्वादिपरार्द्धापवर्गरूपं यत्कालस्योपलक्षणमुपलक्ष्यत इत्युपलक्षणं स्वरूपं तस्मादित्यर्थः, रहसा शीघ्रेण परिवर्तितेन परिभ्रमणेन वयसा बाल्यादिक्रमेण ब्रह्माणमभिव्याप्य तृणस्तम्बादिभूतानां काल्यमानानां लवादिरूपेण गण्यमानायुषामित्यर्थः । मिषतां पश्यतामनिमिषतः निमेषमकुर्वत अप्रमत्तादिति वा हरतः आयुरिति द्वितीयान्तस्य शेषः अनिमिषतः अकाल्यमानाद्विष्णोश्चक्रात् वित्रस्तहृदयो मरणमाशङ्कमान इति यावत् अमरत्वाय पाखण्डदेवताः साङ्केत्येनाभिमुख्येन धत्ते किं कृत्वा कालचक्रं निजं स्वीयमायुधं यस्य तमेव साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कथम्भूताः कङ्कगृधबकप्रायाः विश्वसन्त्योऽपि ववयन्त्यः आर्याणां वैदिकानां समयात्सिद्धान्ताद् बहिः कृताः । साङ्केत्येनेत्यनेन पाखण्डदेवताराधनं पाखण्ड- सङ्केतनिबन्धनं न तु वैधमित्युक्तम् ।। ३२ ।। नाम श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
। " safare शीतातपेत्येतद्विवृणोति । कचिश्च शीतातपेत्यादिना ।। २५ ।। * * कचिन्मिथो विपणन्नित्येतद्विवृणोति कचिन्मिथ इत्यादिना । विपणिकः वणिक ।। २६ ।। क्वचित्क्षीणधन- इत्यस्यार्थमाह । कचिच्चत्या- दिना ।। २७ ।। * अन्योऽन्यवित्तेत्यस्यार्थमाह । एवं वित्तति ॥ २८ ॥ * * यत आरब्धो नस्लोकसार्थस्तमी- श्वरमध्वनः पारमुपदिशन्ति विद्वांसः ॥ २९ ॥ * के तं गच्छन्तीति तत्राह । यदिदमिति । योगमनुशास्तीति योगानु- शासनमेतद्ब्रह्म शन्तमं सुखतममुपशमशीला मुनयः उपतिष्ठन्ति प्राप्नुवन्तीत्यन्वयः ।। ३० ।। * * प्रसजतीत्यस्यार्थमाह कापि देवमाययेति । प्रस्कन्नविवेकविज्ञानः नष्टविवेकविज्ञानस्तस्याः स्त्रियाः विहारार्थं गृहोपक्रमान् सुतादीनां कलभाषितैरवलोकै- विचेष्टितैश्चापहृतं हृदयं यस्य स तथा आत्मानमन्धे तमसि प्रहिणोति गमयति “हि गतौ” इति धातुः ॥ ३१ ॥ * * कचित्कदाचिद्धरिचक्रत इत्येद्वयाख्याति । कदाचिदिति । कदाचित्कस्यांचिदवस्थायामीश्वरस्य चक्राद्वित्रस्तहृदयस्तमीश्वरमनादृत्य पाखण्डदेवताः साकल्येनाभिधत्ते भजतीत्यन्वयः, परमाणुद्विपरार्द्धापवर्गकाल उपलक्ष्यतेऽनेनेति । तथोक्तम् । तेन परिवर्तनेन परिभ्रमणेन मिषतां जीवानां वयः आयुर्लक्षणं हरतश्चक्रादपवर्गोऽवसानं परमाणुकाल आदिर्यस्य स तथा द्विपरार्द्धस्यापवर्गोऽवसानं यस्य स तथा केषां मिषतामा ब्रह्मस्तम्बादीनां ब्रह्माणमवधीकृत्य स्तम्बमुपक्रम्य वर्तमानानां कालचक्रं निजायुधं यस्य स तथा तम् ।। ३२ ।। J. श्रीमजीवगोरखामिकृतः क्रमसन्दर्भः निगमाचारे या शुद्धिस्तदकरणादित्यर्थः ।। ३०-३२ ॥ tomis ३०४ श्रीमद्भागवतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी [ स्कं. ५ अ. १४ इलो. २५-३२ कचिच शीतातपेत्येतद्वयाचष्टे । कचिच्च शीतेति । दशानां दुःखावस्थानाम् ॥ २५ ॥ * * क्वचिन्मिथ इत्येत- द्वयाचष्टे । कचिन्मिथ इति । यत्किञ्चिदपि धनं मिथो वाणिज्यादौ व्यवहरन् वा काकिणिका विंशतिकपर्दिकास्तन्मात्र यत्किञ्चित्ततोऽपि न्यूनं च अन्येभ्योऽपहरन् वा विद्वेषमेति ॥ २६ ॥ - * * अध्वन्यमुष्मिन्नुरुकृच्छ्रेति व्याचष्टे । अध्वन्य- मुष्मिन्निम इति ।। २७ ।। * प्रसजति कापीति व्याचष्टे कापीति । देवमायारूपया स्त्रिया कर्या भुजलताभ्यामुपगूढः सन् लुप्तविवेकविज्ञानो भवति । यस्याः स्त्रियाः केलिगृहारम्भे आकुलहृदयो भवेत्तस्या एव आश्रयेऽवसक्ताः संलग्नाः सुता दुहितरश्च कलत्रं तत्सुतवधूः सा च तेषां भाषितादिभिरपहृतं हृदयं यस्य सः ॥ २८ ॥ * * कचित् कदाचिद्धरिचक्रतस्त्र- सन्नित्येतद्वद्याचष्टे । कदाचिदीश्वरस्येति । चक्रारात् परित्रस्तहृदयः पाखण्डदेवताः साङ्केत्येन कल्पितेन पाखण्डागमेन अभिधत्ते उपास्यतया व्याचष्ट इत्यन्वयः । परमाणुरादिर्द्विपरार्द्धापवर्गोऽन्तो यस्य तेन कालेनैव उप अधिक्येन लक्षणं यस्य तस्मात् द्विपरार्द्धापवर्गात कालोपलक्षणादिति पाठे कालस्वरूपादित्यर्थः । कीदृशात् परिवर्त्तितेन वयसा बाल्यादिना रहसा अतिशैध्येण ब्रह्मादीनामप्यनिमिषतामपश्यतां व्यवहारे प्रमत्तानां भूतानामिति कर्मणि षष्ठयः भूतानि हरत इत्यर्थः । यद्वा आयुरित्यध्याहार्यं तेषामायुर्हरतः अनिमिषतः निमेषमप्यकुर्वतः अप्रमत्तादित्यर्थः । आर्य्यसमयपरिहताः शिष्टाचाररहिताः ॥ २९ ॥ * * तैर्बञ्चित इत्येतद्वद्याचष्टे यदा त्विति । आत्मनैव वञ्चितैः स्वकल्पितकुपथगामित्वात् तैरुरुवञ्चितः कल्पितकिन्मिात्रापराध- मिषेण धनाद्यपहृत्य स्वगणान्निः सारितः निगमोक्ताचारमध्ये या अशुद्धिरुच्यते तथैव यस्य मिथुनीभावः विधवायास्त्यक्तधवाया वा मूल्यादिप्रदानेन परिणयः ।। ३० ।। * * तज्ज्ञातिरासेनेत्येतद्वचाचष्टे । तत्रापि निरबरोधः धर्ममर्यादाभिरनवरुध्यमानः विस्मृतमृत्युकालः सन् विहरन् भवति ॥ ३१ ॥ * * द्रुमेषु रस्यन्निति व्याचष्टे क्वचिदुद्रुमेति । रंस्यन् रममाणः व्यवायक्षणः खीसङ्गलब्धोत्सवः ।। ३२ ।। manjula श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः । चिच शीतातपेत्येतद् व्याचष्टे कचिचेति । शीतादीनामनेकानामाधिदैविक भौतिकानामात्मीयानां दशानां दुःखावस्था- नाम् ॥ २५ ॥ * * कचिच्च मिथ इत्येतद् व्याचष्टे । कचिन्मिथः यत्किचिद्धनं व्यवहरन् अन्येभ्यो वित्तशाठ्यात् धनलोभात् काकिणिकामानं विंशतिकपर्दिकामात्रं ततोऽपि न्यूनं वा परिकञ्चिदपहरन् विद्वेषमेति प्राप्नोति ॥ २६ ॥ * * अध्वन्य- मुष्मिन्तुरुकृच्छ्रवित्तबाधोपसर्गेरित्युक्तानुपसर्गात् प्रपञ्चयति अध्वनीति । अमुष्मिन् अध्वनि संसारमार्गे इमे उरुकृच्छ्रवित्त- बाधादयस्तथा सुखदुःखादय उपसर्गाः । अत्र व्युत्क्रमोक्तिर्मुनेर्जीवोपसर्गस्मरणजन्यकारुण्याविष्टत्वं पुनरुक्तिश्च परोपकारेऽनल- सत्वमधिकोक्तिश्च सर्वज्ञत्वं द्योतयति ।। २७ ।। * * प्रसज्जतीत्येतद्वद्याचष्टे कापीति । स्त्रीरूपया देवमायया भुजलता- भ्यामुपगूढः प्रस्कन्नमपगतं कार्याकार्यविवेकसहितं भगवद्विषयकं विज्ञानं यस्य सः यद्विहारगृहारम्भे यस्याः क्रीडागृहारम्भे आकुलं हृदयं यस्य सः तस्याः आश्रमे क्रीडागृहे अवसक्ताः उपथिताः सुताश्च दुहितरश्च कलत्राणि सुतादिभार्यास्तेषां भाषिता- दिभिरपहृतं हृदयं यस्य सः अन्धे तमसि नरके आत्मानं प्रहिणोति प्रक्षिपति ॥ २८ ॥ क्वचित्कदाचिद्धरिचक्र- तस्त्रसन्नित्येतद्वद्याचष्टे कदाचिदिति । परमाण्वादिद्विपरार्द्धापवर्गात परमाण्वादीति द्विपरार्द्धान्तात् कालोपलक्षणात् कालस्वरूपात् रहसा शीघ्रेण परिवर्त्तितेन परिभ्रमणेन वयसा बाल्यादिक्रमेण आब्रह्मतृणस्तम्वादीनामित्याद्याः षष्ठयः कर्मणि आब्रह्मतृणस्तम्बादीनि भूतानि हरतः संहरतः विष्णोश्चक्राद्वित्रस्तहृदयः भगवन्तमनादृत्य पाखण्डदेवताः साङ्केत्येन पाखण्डागमेन अभिधत्ते इत्यन्वयः अनिमिषतः निमेषमकुर्वतः अप्रमत्तात् कथम्भूतानां मिषतां प्रतिकर्तुमशक्यानाम् । कथम्भूताः कङ्कादिप्रायाः वञ्चनपराः आर्याणां वैदिकानां समयात्सिद्धान्तात्परिहताः बहिष्कृताः ॥ २९ ॥ * * तैर्वाचित इत्येतद्वयाचष्टे । आत्मा स्वात्मा वञ्चितः स्वेच्छाचारेण नरकाहः कृतः यैस्तैरुरु अधिकं वचितः सन् ब्रह्मकुलं समावसंस्तेषां ब्राह्मणानां यत् शीलमुपनयनादिश्रौतस्मार्त्तकर्मा- तुष्ठानेन यज्ञपुरुषा धनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारे अशुद्धितः स्वस्य शुद्धयभावात् यस्य शूद्रस्य केवलं मिथुनीभावः कुटुम्बभरणं च व्यापारः, नाग्निहोत्रादि ॥ ३० ॥ * * तजातिरासेन सुनिर्वृतेन्द्रिय इत्येतद्वयाचष्टे । तत्रापि शूद्रकुल- सङ्गतावपि निरवरोधः निरस्तप्रतिबन्धः निरङ्कुश इत्यर्थः । स्वैरेण स्वेच्छया विहरन् विस्मृतः कालावधिरायुषोऽवसानं येन स आस्ते ॥ ३१ ॥ * * द्रुमेषु रस्यन्नित्येतद्वे याचष्टे । कचिदुमवदिति । व्यवाये मैथुने क्षणः उत्सवो यस्य सः ॥ ३२ ॥ क 1 गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी 菸 IPS PE IDE कचिच्च शीतातपेत्येतद्वद्याचष्टे -कचिश्चेति । शीतादयोऽनेका आधिदैविकाद्या यादृशा दुःखावस्थास्तासां प्रतिनिवारणे- sheपोऽसमर्थो दुरन्तया चिन्तया विषण्ण आस्ते ।। २५ ।। कचिन्मिथो विपणन्नित्येतद्वयाचष्टे - कचिदिति । कचिन्मिथो
-
- । यत्किञ्चिद्धनं व्यवहरन् काकिणिकामात्रं विंशतिकपर्दिकामात्रं वा ततोऽपि न्यूनं वा यत्किञ्चिद्धन लोभाद्दोषाद्यदाऽन्येभ्यो- … स्कं. ५ म. १४ श्लो. २५-३२] } अनेकव्याख्यासमलङ्कृतम् । ३०५ Sपहरन्भवति तदा ततो वित्तशाठ्यानवञ्चनाद्विद्वेषमेतीत्यन्वयः ॥ २६ ॥ * * एवं यथाक्रमं किञ्चिद् व्याख्यायेदानीं व्युत्क्रमेण व्याचष्टे, तत्र अध्वन्यमुष्मिन्नु रुकृच्छ्रवित्तबाधोपसर्गैरित्युक्तानुपसर्गान् दर्शयति - अध्वनीति । अमुष्मिन्नध्वनि प्रवृत्तिमार्ग इमे पूर्वोक्ता वित्तबाधादयस्तथा सुखदुःखादयश्चोपसर्गा इत्यन्वयः । अनुकूलवेदनीयं मनोवृत्तिविशेषः सुखं, प्रतिकूलवेदनीयं मनोवृत्तिविशेषो दुःखं, रागः प्रीतिः, शोभनाध्यासजन्या दुष्टत्वाध्यासजन्या प्रीतिविरुद्धा मनोवृत्तिद्वेषः, द्वेषजननी मनोवृत्तिर्भय, अभिमानः स्वस्मिन्नुत्कृष्टत्वाभ्यासः प्रमादः कर्त्तव्याननुसन्धानम्, उन्माद उत्कृष्टत्वज्ञाने सत्यपि तदगणयित्वा प्रवृत्तिः, शोक इष्ट वियोगजन्यः सन्तापः, मोहोऽन्यथा भानं, लोभः स्वप्रयोजनोपयोगिपदार्थेषु सत्स्वपि ततोऽधिकाभिलाषः, मात्सर्यं परोत्कर्षासहन, ईर्ष्या शत्रुत्कर्षासहनम् अवमानस्तिरस्कारः, मनोव्यथा आधिः, शरीरव्यथा व्याधिः, क्षुत्पिपासादयः प्रसिद्धाः ॥ २७ ॥ प्रसज्जति कापीत्येतद्वयाचष्टे - कापीति । क्वापि देवमायया स्त्रिया स्वभुजलतयोपगूढोऽतिबद्धः अत एव प्रस्कन्नमपगतं कार्याकार्य- विवेकविज्ञानं यस्य सः । अत एवाकार्ये प्रवृत्त इत्याह-यस्याः स्त्रिया विहारार्थं गृहारम्भ आकुलं हृदयं यस्य सः । अनेन प्रसज्जतीत्येतद्वयाख्यातम् । तदाश्रया व्यक्तपदेत्येतद्वद्याचष्टे - तदाश्रयेति । तस्याः स्त्रिया आश्रये गृहे अवसक्ताः सलमाः सुता दुहितरश्च कलत्रं च सैव स्त्री तेषां भाषितावलोकविचेष्टितैः अपहृतं हृदयं यस्य स एवं प्रवृत्त्या आत्मानं अपारेऽन्धे तमसि प्रहिणोति दुस्तरेऽत्यन्तदुःखहेतौ नरके प्रक्षिपति । एवं स्वेनैव स्वाहिताचरणे हेतुमाह-अजितात्मेति, यत इन्द्रियादिपरतन्त्र इत्यर्थः ।। २८ ।। * * कचित्कदाचिद्धरिचक्रतस्त्रसन्नित्येतद्वद्याचष्टे कदाचिदिति । कदाचिद्विष्णोश्चक्राद्वित्रस्त हृदयः ततः स्वरक्षार्थं पाखण्डदेवताः साङ्केत्येन पाखण्डिभिर्विनिर्मितेन शास्त्रप्रमाणेनाभिधत्ते सेव्यतयाऽऽदरेण स्वीकरोतीत्यन्वयः । न च ताभिर्देवताभिस्ततो रक्षा सम्भवति प्रबलस्वामिकत्वादित्यभिप्रेत्य विष्णुं विशिनष्टि-भगवत इति, ऐश्वर्यवीर्यादिषड्गुणसम्पन्नस्येत्यर्थः । औपचारिकं भगवत्त्वं वारयितुं विशेषणान्तरमाह - ईश्वरस्येति, कर्तुमकर्तुमन्यथा कर्तुं समर्थस्येत्यर्थः । अत एव तस्य साधनतामाह- अनिमिषत इति, अप्रमत्तादित्यर्थः । अत एव तस्य प्राबल्यं दर्शयति-रंहसेति । अतिवेगेन परिवर्तितेन परिभ्रमणेन वयसा बाल्य- युवादिक्रमेण ब्रह्माणमभिव्याप्य तृणस्तम्बादीनि भूतानि हरतः संहरत इत्यन्वयः । कर्मणि षष्ठयः । यद्वा भूतानामायुर्हरत इत्यध्याहारेणान्वयः । ननु तस्य सावधानत्वाद् ब्रह्मादीनां असावधानदशायां तेन संहारों भविष्यति तेन कथं तस्य प्राबल्यं. लोकेति प्रबलस्याप्यसावधानदशायां दुर्बलेनापि संहारदर्शनादित्याशङ्कयाह-मिषतामिति, तं पश्यतां तन्निराकरणोपाये प्रवृत्तानामपि तत्कर्तुमशक्तानामित्यर्थः । नन्वेवम्भूतस्तु कालः सर्वप्रसिद्ध इति चेत् सत्यं, तस्यैव जन्मान्तरत्वादित्याशयेनाह - परमाण्वादीति, परमाणुरादिद्विपराधपवर्गोन्तो यः कालः स उपलक्षणं नामान्तरं यस्य तस्मादित्यर्थः । तदभे तासां देवतानामतितुच्छत्वात्कथं ततो रक्षायां सामर्थ्यं स्यादिति सदृष्टान्तमाह- कङ्कगृधबकप्राया इति । कङ्कादयो यथा सिंहसमूहाद्रक्षितुमशक्तास्तथा पाखण्डदेवता अपि कालचक्रतो रक्षितुं सामर्थ्यहीना एवेत्यर्थः । अत एव आर्य समये शिष्टाचारे परिहृताः सेव्यत्वेनानङ्गीकृता इत्यर्थः । ननु तर्हि परमकृपालोरुत्तमश्लोकस्य भगवतः शरणागमने ततो रक्षा स्यादेव तत्कुतो न करोति कुतो वा पाखण्डिनः आश्रयते इत्याशङ्कय दुर्भाग्येन दुःखसङ्गेन च भगवत्यादराभावादित्याशयेनाह - तमिति, तमीश्वरं रक्षायां समर्थमनादृत्येत्यन्वयः । तद्वयतिरिक्तः कालाद्रक्षको नास्तीति दर्शनार्थ एवकारः । तस्य तु ततो रक्षायामनायासत्वं सूचयन्नाह - कालचक्रेति, कालचक्रं निजं स्वकीयमायुधं यस्य तम् । स्वायुधस्य स्वाधीनत्वेन तन्निवारणसुकरत्वादिति भावः । ननु सामध्यें सत्यपि यद्युपेक्षेत तदा किं तच्छरणगमनेनेत्या- शङ्कयाह - साक्षाद्भगवन्तमिति । कीर्त्यादिगुणपूर्णत्वेन तस्य कदापि शरणागतोपेक्षा नास्त्यन्यथा पूर्णयशस्त्वं न स्यादिति भावः । तद्विमुखानां तु सदा सर्वत्र सर्वतो भयमेव भवति तस्यैव शुभाशुभसर्वकर्मफलदातृत्त्वादित्याशयेनाह - यज्ञपुरुषमिति ।। २९ ।। ** तैर्वचित इत्येतद्वयाचष्टे-यदा त्विति । यदा तु स्वरक्षासन्देहेन यथेष्टधनाद्यदानादात्मना वचितैस्तैः पाखण्डिभिः कालतो रक्षां विनाऽपि धनादिहरणादुरु अधिकं वचितस्तदा स स्वभावानां ब्राह्मणानां कुलं समावसन्भवति तत्सङ्गत्या तदाचारेण कालकर्मादि- भयमत्येतुमिच्छति । ततश्च तेषां तु शीलमुपनयनगुरुकुलवा सब्रह्मचर्यवेदाध्ययनादिपूर्वक श्रौतस्मार्त्तकर्मानुष्ठानेन भगवतः कालचक्रा- युधस्य यज्ञपुरुषस्य सर्वकर्मफलदातुराराधनमेव तस्य दुष्करत्वात्तदरोचयन् शूद्रकुलं भजते आदरेणानुसरति । तत्र हेतुमाह- यस्येति । यस्य शूद्रकुलस्य निगमोक्ताचारे अशुद्धितः अधिकाराभावात् केवलं स्त्रिया मिथुनीभावः कुटुम्बभरणं चैव व्यापारो नाग्निहोत्रसन्ध्योपासनादिक्लेशावहः । तथा च मिथुनीभावादेः स्वाभाविक प्रवृत्तिविषयत्वेन इष्टत्वात्तचाग्निहोत्रादिवत् केशाभावाच्छूद्र- कुलमनुसरतीति भावः । मिथुनीभावादौ दृष्टान्तमाह-यथा वानरजातेरिति ॥ ३० ॥ ॐ ॐ तज्जातिरासेनेत्यादि व्याचष्टे- तत्रेति । तत्रापि शूद्रसमाजेऽपि प्रविष्टो निरवरोधः प्रतिबन्धरहितः अतः स्वैरेण स्वेच्छया विहरन् स्त्रीपुरुषान्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणा तत्तद्विषयभोगोपयोगिव्यापारेण च विस्मृतः कालावधिर्मृत्युकालो येन स तथाभूतो भवतीति शेषः । शूद्रसङ्गतेः पूर्वमपि विषयभोगोन्मुखत्वसूचनाय अपिशब्दः । तदुन्मुखत्वस्य स्वाभाविकत्वात् कालभयाद् ब्राह्मणादिशिष्टसङ्गेन भगवदाराधनेन संसाराद्विमुक्तिः स्यादपि परं दुर्भाग्यवशाद् बुद्धिवैपरीत्येन तत्र रुचिरेव न जाता । इदानीं तु कालविस्मृत्या तयानुसन्धानाभावात् तन्निवृत्तिप्रयत्नाभावेन कथं तन्निवृत्तिः स्यादित्याशयेनाह अतीति, अतिकृपणा विषयाविष्टा बुद्धिर्यस्य स तथा ॥ ३१ ॥ * द्रुमेषु रस्यन्नित्येतद्वद्याचष्टे - क्वचिदिति । कचिद् द्रुमवदैहिकार्थेषु ऐहिकसुखप्रयोजनकेषु गृहेषु रस्यन् रममाणः सुतदारवत्सलः सुतदारादिषु प्रीतियुक्तो व्यवायक्षणः स्त्रीसम्भोगोत्सवः संसारबन्धादात्मानं विमोक्तुं न शक्नोतीति शेषो बोध्यः, विवशः स्वबन्धन ३९ .. श्रीमद्भागवतम् [ स्कं. ५ अ. १४ लो. २५-३२ इत्युक्तत्वात् । तत्र दृष्टान्तमाह-यथा वानर इति, स्त्रीसम्भोगासक्तः प्रमत्तों द्रुमेषु रममाणो वानरो यथा लुब्धकेन गृहीत आत्मानं विमोक्तुं न शक्नोति तथेत्यर्थः ॥ ३२ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । ‘कचिच शीतातप’ इत्येतद्वयाचष्टे कचिच्चेति । कचिय, शीतं च वावच आतपश्च ते आदयो यासां ता, या अनेका आधिदैविकाश्च भौतिकाश्च आत्मीयाश्च तासां, दशानां दुःखावस्थानां, प्रतिनिवारणे निवर्त्तने, अकल्पः प्रतिक्रियां कर्तुमसमर्थः । अत एव दुरन्तचिन्तया, विषण्णः दुखितः, अपारचिन्तायुक्त इत्यर्थः, आस्ते ।। २५ ।। ‘कचिन्मियो विपणन्’ इत्येत- द्वथाचष्टे कचिदिति । कचित्कदाचित्, मिथः परस्परं व्यवहरन् । यत्किंचित् धनं, काकिणिकामात्रं विंशतिकपर्दमात्रं अपि किंचिद्वा ततोऽपि न्यूनं वेत्यर्थः । अन्येभ्यः सकाशात् अपहरन् वा हरन् सन्नेवेत्यर्थः । वित्तशाठ्येन धनलोभेन हेतुना, विद्वेषं एलि प्राप्नोति ॥ २६ ॥ * * कचित् कचित् क्षीणधन’ इत्येतद्वयाचष्टे कचिदिति । कचित्कदाचित् क्षीणं धनं यस्य सः । अत एव शय्या च आसनं च ते आदी येषां निवासादीनां ते ये उपभोगास्तैर्विहीनः रहितः। उपभोगशब्दो भोग्योपलक्षकः । यावद्यदा स्यात् तावत्तदा अप्रतिलब्धमनोरथः अप्राप्तसमीहितः, अत एव तस्यादाने अन्यदीयधनग्रहणे अवसितमतिर्व्यवसितबुद्धिः, येन केनापि परवचनोपायेनान्यदीयं धनं ग्रहीतव्यमिति निश्वययुक्तमुशेषिः सन्नित्यर्थः । ततः ततः परधनादिग्रहणोद्योगाद्धेतोः, जनाज्जनेभ्य इत्यर्थः । अवमानादीनि अपि लभते सर्वतः प्राप्नोति ॥ २७ ॥ * * ‘अन्योन्यवित्तव्यतिषङ्ग’ इति व्याचष्टे एवमिति । एवं वित्तस्य परस्परभाषाबद्धधनस्य व्यतिषङ्गो व्यत्यासस्तेन विवृद्धं रूढमूलं यद्वैरं तस्य अनुबन्धः अप्रियकारित्वादिरूप आग्रहो यस्यैवंभूतः सन्नपि, पूर्ववासनया जात्यभिमानप्रयुक्तया पूर्ववासमया, मिथः परस्परं, उद्वहतः विवाहं कुर्वाणान् तानेव, उद्वहति वैरवद्भिः सहैव साजात्याभिमानेन विवाहादिक्रियया संबध्नातीत्यर्थः ॥ २८ ॥ * * एतस्मिन्निति । एतस्मिन्, नानाक्लेशैरुक्तविधानेकप्रकारक्लेशैः, उपसर्गैर्वक्ष्यमाणैः सुखदुःखरागद्वेषादिभिच विततो विस्तृतस्तस्मिन् संसाराध्वनि, यत्र यः आपन आपदं प्राप्तः, विपन्नः विपत्ति प्राप्तः मृतः इति यावत् । तमापन्नं विपन्नं वा पित्रादिकं, इतरः तत्र विसृष्य जातं जातं पुत्रादिकं, उपादाय आत्मीयाभिमतिपूर्व सह गृहीत्वा, वर्त्तमानः शोचन् जातस्य विपन्नत्वे शोक कुर्वन्, मुहान् कदाचित्स्मृत्वा मोहमुपगच्छन्, खिद्यन् पुत्रानुत्पत्तौ अहो वन्ध्योऽहमप्रजोऽहमिति खेदमुपगच्छन् । प्ररुदन् शोकातिशये प्रकर्षेण रोदनं कुर्वन्, संहृष्यन् वार्द्धकेऽङ्गनां सगर्भामिव पश्यन् हर्षमनुभवन् विभ्यत् उक्तविधामङ्गनां ज्वरादिपीडावतीं दृष्ट्वा भयमुपगच्छन् अत एव मुद्यमानः, नद्यमान इति पाठे बध्यमानः साधुवर्जितः साधुना कर्मणा रहितः एषः, नरलोकसार्थः जीवसमूहः यतः आरब्धः यतः सकाशात्प्रवृत्तः यं अध्वनो भवाध्वनः, पारं सम्यक् पाररूप उपदिशन्ति ऋषयो वदन्ति तं प्रति अद्यापि न आवर्त्तते एव । उह या बेति वाक्यालंकारे ।। २९ ।। * * कुतोऽद्यापि नावर्त्तते इत्यत्र हेतुमाह यदिति । न्यस्तदण्डाः उपशमशीलाः उपर- तात्मानः, अविक्षिप्तचित्ताः मुनयः शंतममात्यन्तिकसुखसंपादकं यत् इदं योगानुशासनं अध्यात्मयोगकर्म योगानुगृहीत भगवद्भक्ति- योगरूपानुशासनं ज्ञानशिक्षां सम्यगवगच्छन्ति एतत् । अन्ये इति शेषः । न वै अनुरुन्धते नैव प्राप्नुवन्ति । नन्वेतद्यथा तथाविधाः मा गच्छन्तु महान्तो राजानस्तु गच्छेयुस्तत्र ‘मनखिनो निर्जितदिग्गजेन्द्रा’ इति व्याचक्षाण आह । यदपि यद्यपि, दिगिभजयिनः निर्जितदिग्गजेन्द्राः अथापि अमनस्विनः अनिर्जितान्तःकरणाः, राजर्षयः वै राजर्षयोऽपि नैवावरुन्धते । किं तु अस्यां भूमी, इयं पृथिवी मम इत्येवंविधाभिमानेनैव कृतवैरानुबन्धाः सन्तः, मृधे युद्धे शथीरन् । परं ततोऽप्यनन्तरं तत्पुत्रादयो ये तेऽपि इति शेषः । यां पृथिवीं विसृज्य स्वयं उपसंहृता मृता इत्यर्थः ॥ ३० ॥ * * सिंहावलोकन्यायेन ‘अध्वन्यमुष्मि- न्नुरुकृच्छ्रवित्तबाधोपसर्गैः’ इत्यन्त्राभिप्रेतमुपसर्गशब्दार्थमाह् अध्वनीति । अमुष्मिन् अध्वनि संसाराध्वनि, इमे सुखं च दुःखं च रागश्च द्वेषश्च भयं च अभिमानश्च प्रमादश्च उन्मादश्च शोकश्च मोहश्च मात्सर्य च ईर्ष्या च अवमानश्च क्षुश्च पिपासा च आधिश्च व्याधिश्च जन्म च जरा च मरणं च तान्यादयो येषां ते उपसर्गाः, सन्तीति शेषः ॥ ३१ ॥ * * ‘प्रसज्जति कापि’ इत्ये- तद्वयाचष्टे कापीति । कापि खिया स्त्रीवेषया देवमायया देवस्य भगवतो मायया कर्या, भुजलताभ्यामुपगूढ आलिङ्गितः प्रस्कन्नं विगतं विवेकविज्ञानं विवेकसहितं विशिष्टज्ञानं यस्य सः । यद्वा विवेको देहविलक्षणात्मावबोधविवेकः विज्ञानं भगवदुपा- सनात्मकं विशिष्टज्ञानं तद्रहितः, यस्याः स्त्रियाः विहारगृहं क्रीडाभवनं तदारम्भे आकुलं हृदयं यस्य सः । अनेन प्रसज्जतीति व्याख्यातं, ‘तदाश्रयाव्यक्तपदद्विज’ इत्येतद्वयाचष्टे । तस्या आश्रमे गृहे अवसक्ताः संलग्नाः ये सुताश्च कलनं च तेषामाभाषितं भाषणं च अवलोको वीक्षणं च विचेष्टितानि च तैरपहृतं हृदयं यस्य स तथाभूतः सन्, यतः अजितात्मा अविजितान्तःकरणः, ततः आत्मानं अपारेऽन्तवर्जिते अन्धे तमसि, अतितीव्रदुःखे नरके, प्रहिणोति ॥ ३२ ॥ भाषानुवादः कभी कभी कीव और बायु आदि अनेकों आधिदैविक, आधिभौतिक और समर्थ न होनेसे यह अपार चिन्ताओंके कारण उदास हो जाता है ||२५|| आध्यात्मिक दुःखकी स्थितियोंके निवारण कभी परस्पर लेन-देनका व्यवहार करते स्क. ५.अ. १४ श्लो. ३३-४० 1 अनेकव्याख्यांसमलङ्कृतम् ३०७ समय किसी दूसरेका थोड़ा-सा – दमड़ीभर अथवा इससे भी कम धन चुरा लेता है तो इस बेइमानीके कारण उससे चैर ठन जाता है ॥ २६ ॥ * राजन! इस मार्गमें पूर्वोक्त विघ्नोंके अतिरिक्त सुख-दुःख, राग-द्वेष, भय, अभिमान, प्रमाद, उन्माद, शोक, मोह, लोभ, मात्सर्य, ईर्ष्या, अपमान, क्षुधा-पिपासा, अधिव्याधि, जन्म, जरा और मृत्यु आदि और भी अनेकों विघ्न हैं ॥ २७ ॥ * * ( इस विघ्नबहुल मार्ग में इस प्रकार भटकता हुआ यह जीव ) किसी समय देवमायारूपिणी स्त्रीके बाहुपाशमें पड़कर विवेकहीन हो जाता है। तब उसीके लिये विहारभवन आदि बनवानेकी चिन्तामें ग्रस्त रहता है तथा उसीके आश्रित रहनेवाले पुत्र, पुत्री और अन्यान्य स्त्रियोंके मीठे-मीठे बोल, चितवन और चेष्टाओंमें आसक्त होकर, उन्हींमें चित्त फँस जानेसे वह इन्द्रियोंका दास अपार अन्धकारमय नरकों में गिरता है ॥ २८ ॥ * कालचक्र साक्षात् भगवान् विष्णुका आयुध है । वह परमाणुसे लेकर द्विपरार्धपर्यन्त क्षण-घंटी आदि अवयवोंसे युक्त है। वह निरन्तर सावधान रहकर घूमता रहता है, जल्दी-जल्दी बदलनेवाली बाल्य, यौवन आदि अवस्थाएँ ही उसका वेग हैं। उसके द्वारा वह ब्रह्मासे लेकर क्षुद्रातिक्षुद्र तृण- पर्यन्त सभी भूतोंका निरन्तर संहार करता रहता है। कोई भी उसकी गतिमें बाधा नहीं डाल सकता । उससे भय मानकर भी जिनका यह कालचक्र निज आयुध है, उन साक्षात् भगवान् यज्ञपुरुषकी आराधना छोड़कर यह मन्दमति मनुष्य पाखण्डियों के चकर में पड़कर उनके कंक, गिद्ध, बगुला और बटेरके समान आर्यशास्त्र- बहिष्कृत देवत्ताओंका आश्रय लेता है जिनका केवल वेदबाह्य अप्रामाणिक आगमोंने ही उल्लेख किया है ॥ २९ ॥ * ये पाखण्डी तो स्वयं ही धोखे में हैं; जब यह भी उनकी ठगाई में आकर दुःखी होता है, तब ब्राह्मणोंकी शरण लेता है । किन्तु उपनयन संस्कारके अनन्तर श्रौतस्मार्त कम से भगवान् यज्ञपुरुषकी आराधना करना आदि जो उनका शास्त्रोक्त आचार है, वह इसे अच्छा नहीं लगता; इसलिये वेदोक्त आचारके अनुकूल अपने में शुद्धि न होनेके कारण यह कर्म-शून्य शूद्रकुलमें प्रवेश करता है, जिसका स्वभाव वानरोंके समान केवल कुटुम्बपोषण और स्त्री- सेवन करना ही है ॥ ३० ॥ * * वहाँ बिना रोक-टोक स्वच्छन्द बिहार करनेसे इसकी बुद्धि अत्यन्त दीन हो जाती है और एक दूसरे का मुख देखना आदि विषय-भोगोंमें फँसकर इसे अपने मृत्युकालका भी स्मरण नहीं होता ॥ ३१ ॥ वृक्षोंके समान जिनका लौकिक सुख ही फल है-उन घरोंमें ही सुख मानकर वानरोंकी भाँति स्त्री-पुत्रादिमें आसक्त होकर यह अपना सारा समय मैथुनादि विषय-भोगों में ही बिता देता है ॥ ३२ ॥ एवमष्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ॥ ३३ ॥ कचिच्छीतवाताद्यनेकदैविक भौतिकात्मी- यानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते ॥ ३४ ॥ क्वचिन्मिथो व्यवहरन् यत्किश्चिद्धनमुपयाति वित्तशाठयेन ।। ३५ ।। क्वचित्क्षीणधनः शय्यासनाशनाद्य पभोगविहीनो यावदप्रतिलब्धमनोरथोप गतादानेऽवसित- मतिस्ततस्ततोऽवमानादीनि जनादभिलभते ।। ३६ ।। एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उह- त्यथापवहति ।। ३७ ।। एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमुह वावेतरस्त’च विसृज्य जातं जातमुपादाय शोचन्मुहान् विभ्यद्विवदन् क्रन्दन् संहृष्यन् गायन्न द्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसाथ यमध्वनः पारमुपदिशन्ति ॥ ३८ ॥ यदिदं योगानुशासनं न वा एतदवरुन्धते यन्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति ॥ ३९ ॥ यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्नस्यामेव ममेय मिति कृतंवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ॥ ४० ॥
- एवम् अध्वनि अवरुधानः मृत्युगजभयात् गिरिकंदर प्राये तमसि ॥ ३३ ॥ * * कचित् शीतवाताद्यनेक- दैविकभौतिकात्मीयानाम् दुःखानाम् प्रतिनिवारणे अकल्पः दुरंतविषयविषण्णः आस्ते ॥ ३४ ॥ कचित मिथः वित्त- शान्येन व्यवहरन् यत्किचित् धनम् उपयाति ॥ ३५ ॥ * * कचित् क्षीणघनः शय्यासनाशनायुपभोगविहीनः यावत् अप्रति- लब्धमनोरथोपगतादाने अवसितमतिः ततः ततः जनात् अवमानादीनि अमिलभते ॥ ३६ ॥ * * एवम् वित्तव्यतिषंगवृद्ध वैरानुबंधः अपि पूर्ववासनया मिथः उद्वहति अथ अपवहति ॥ ३७ ॥ * * यत्र एतस्मिन् संसाराध्वनि उह वाव यः नानाश्लेशोपसर्गबाधितः आपन्नविपन्नः तम् इतरः विसृज्य जातम् जातम् उपादाय शोचन् मुहान् विभ्यत् विवदन् कंदन संहृष्यन् गायन् नद्यमानः साधुवर्जितः एषः नरलोकसार्थः यतः आरब्धः अद्यापि न एव आवर्तते यम् अध्वनः पारम् २. प्रा० पा० शनादिकामभोग्यविहीनो । २. प्रा० पा० लब्धमनोरथस्तस्यादानेऽव । प्राचीने पाठे ‘यत्र’ पाठो न । ४. प्रा० पा० तत्र तत्र विसृज्य । ५. प्रा० पा०- विरसन् रुदनदन् संह० । ६. प्रा० पा० मुख्यमानः । ७. प्रा० पा० न मे एतदेव रुन्धते न्यस्तदण्डा मुनयः । ८. प्रा० पा० ममेदमिति कृतवैरानुबन्धा विसृज्य । emptie । ३०६ उपदिशंति ।। ३८ ॥ * * यत् समवगच्छंति ॥ ३९ ॥ श्रीमद्भागवतम् [ स्कं. ५ अ. १४ श्लो. ३३-४० यत् इदम् योगानुशासनम् एतत् वै न अवरुधते न्यस्तदंडाः उपशमशीलाः उपरतात्मानः मुनयः यत् अपि वै दिगिभजयिनः यज्विनः ये राजर्षयः किंतु मृधे शयीरन् अस्याम् एव मम इयम् इति कृतवैरानुबंधाः याम् विसृज्य स्वयम् उपसंहृताः ॥ ४० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका क्वचित्प्रमादादित्येतद्वयाचष्टे । एवमध्वनि सुखदुःखाद्यवरुन्धानो गिरिकन्दरप्राये तमसि रोगाद्यापदि पततीति शेषः ॥ ३३ ॥ * *
-
- कचिच्छीतवातेत्यादिपूर्वस्मादधिकोक्तिः । रोगाद्यापदि पतितः सन् शीतादिभिः क्लिश्यन्नास्त इत्यर्थः ॥ ३४ ॥ * * तदेवं सिंहावलोकनन्यायेनोक्तमर्थं यथास्थानमपकृष्य व्याख्याय क्रमस्थमनुवर्तयितुं पूर्वोक्तमेवानु- वदति । क्वचिन्मिथ इति । वित्तशाठ्येन कदाचिद्यत्किंचिद्धनमुपयाति ।। ३५ ।। * * क्वचित्कचित्क्षीणधनस्त्विति व्याचष्टे । कचित्क्षीणधन इति । अप्रतिलब्धं यन्मनोरथेनोपगतं वांछितं तस्याऽऽदाने स्वीकारे निश्चितमतिः सन् ॥ ३६ ॥ * * अन्योन्य- वित्तव्यतिषंगेणेत्येतद्वचाचष्टे । एवं वित्तव्यतिषंगेति । अपवहति त्यजति ॥ ३७ ॥ * अध्वन्यमुष्मिन्नित्यादि व्याचष्टे एतस्मिन्निति | आपन्न आपदं प्राप्तः विपन्नो विनष्टो वा यत्र यस्तमितरस्तत्र विसृव्य नामानो बध्यमानः साधुवर्जितः साधुव्यतिरिक्तः ॥ ३८ ॥ * अनावृत्तौ हेतुमाह । यदिदमिति ॥ ३९ ॥ * * मनस्विन इत्यादि व्याचष्टे । यदपीति । ये वै राजर्षयस्तेऽपि नावरुंधते किं तु परं केवलं मृधे शयीरन् ॥ ४० ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः इत्यर्थं इति । असमर्थः सन्केवलदुःखमेवावशो भुंक्त इति भावः ॥ ३४ ॥ * पुनस्तदेव स्थूणानिखननन्या ये- नाह - तदेवमिति । उपयाति प्राप्नोति ॥ ३५ ॥ 8 * आदाने स्वीकारे । यावत्तावतोर्नित्यसंबंधात्तावदवमानादीनीति योज्यम् | आदिना ताडनादिग्रहः ॥ ३६ ॥ * * व्यतिषंगेण ऋणादानप्रत्यर्पणादिसंबंधेन विवृद्धो वैरानुबंधो वैरपरंपरा यस्य तादृशोऽपि पूर्ववासनया पूर्वप्रीतिवासनानुरोधेन उद्वहति विवाहादिसंबंधं करोति । अथापवहति पुनरुद्वाहं त्यजति च ॥ ३७ ॥ * * जातं जातं धनादिभिः प्रसिद्धं जातं जातं धनादिभिः प्रसिद्धं प्रसिद्धम् । बिभ्यत् भयं प्राप्नुवन् । क्रंदन रुदन् । साधुवर्जितो हरिभक्तसंगे सत्येव तरतीति भावः । यतः परमेश्वरादारब्धः प्रचलितोऽयमध्वा यश्चाध्वनः पारं पारप्रापकं वदंति तं प्रति नावर्त्तते इति साधुसंगं विना तत्प्राप्तिर्नास्ति “विना महत्पादरजोभिषेकम्” इत्युक्तेः ॥ ३८ ॥ * * यद् यतः । इदमुक्तं योगयोर्भक्ति- ज्ञानयोगयोरनुशासनं कथनं समवगच्छंति ये ते वै निश्चयेन एतद्विश्वं नावरुंधते नाप्नुवंति । ततो हेतोरिति । इदं किं यन्न्यस्तदंडा- स्समवगच्छंतीत्यावृत्त्या योग्यम् । न्यस्तस्त्यक्तो भूतेषु कायिकवाचिकमा नसरूपो दंड़ो यैस्ते न्यस्तदंडाः । उपरतो निवृत्तो विषयेभ्य आत्मा मनो येषां ते तथा ॥ ३९ ॥ * * यद्यपि तदपि अस्यां पृथिव्याम् | उपसंहृता मृताः ॥ ४० ॥ श्रीमद्वीरराघवव्याख्या । यदा त्विति । आत्मा वञ्चितो यैस्तैरुपवञ्चितः सन् ब्रह्मकुलं प्रविष्टस्तेषां ब्राह्मणानां शीलमिति प्रतीकोपादानं तैर्वचित इत्येतद्वयाचष्टे उपनयनादीत्याराधनमेवेत्यन्तेन अरोचयन्नभिमन्यमानः उपैति वानरानित्यस्य व्याख्यानं शूद्रकुलं भजत इति । तदुपपादयति निगमोक्ते आचारेऽपरिशुद्धितः स्वस्य शुद्धयभावात् यस्य शूद्रकुलस्य मिथुनीभावः कुटुम्बवर्द्धनं केवलं देहव्यापार- श्वेत्येवं केवलग्राम्यसुखमेव नादृष्टं यथा वानरजातेरिति तत्र दृष्टान्तः ॥ ३३ ॥ * ॥३३॥ तज्जातिर सेनेत्येतद्वद्याचष्टे । तत्रापीति । शूद्रकुलेऽपि निरवरोधः प्रतिबन्धरहितः स्वैरेण स्वेच्छया युक्तदेशकालप्रतीक्षामन्तरेण कीडन्नतिकृपणोऽत्यन्तं व्याकुला बुद्धिर्यस्य योषित्पुरुषयोः परस्परमुखनिरीक्षणादिरूपेण ग्राम्यकर्मणैव विस्मृतः कालावधिरायुषोऽवसानं यस्य स आस्ते ॥ ३४ ॥ * * द्रुमेषु रस्यन्नित्येतद्वयाचष्टे क्वचिदिति । वृक्षवत्केवलमैहिकसुखप्रयोजनकेषु गृहेषु द्रुमादिवत् केवलमिहैव युज्यन्ते न परत्रेति भावः । यद्वा द्रुमवद् द्रुम इव यथा वानरः सुतदारवत्सलो मैथुनमेव क्षण उत्सवो यस्य तथाभूतो भवत्येवमयमपि केवलमैहिकार्थे गृहेषु रस्यन् सुतदार वत्सलो व्यवायक्षणः स्वबन्धने विवशो भवतीत्यर्थः ॥ ३५ ॥ * * कचित्प्रमादादित्येतद्वयाचष्टे एवमिति । संसाराध्वनि सुखदुःखाद्यवरुन्धानः अनुभवमानः मृत्युरेव गजस्तस्य भयागिरिकन्दरतुल्ये तमसि रोगाद्यापदि पतन् ततः पुनरप्येवं जीवनहेतुभूतां कर्मरूपां वल्लीमवलम्ब्य ततः आपदः रोगाद्युपद्रवरूपान्नरकात्केनापि प्रयासेन विमुक्तः पुनरप्येवमुक्तरीत्या संसारा- ध्वनि वर्त्तमानो नरलोक सार्थ नरशरीरजीवसमूहमुपयातीत्येवमुपरि गतोऽपि लोकान्तरेषु विद्यमानो देवादिसमूहोऽपि संसारा- ध्वन्यतीत्यर्थः । तथा चोक्तं “ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति” इति ।। ३३-४१ ।।स्क. ५ अ. १४ श्लो. ३३-४० 1 अनेकव्याख्यां समलङ्कृतम् 10 श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ३०९ तैर्वचित इत्येतद्वयाचष्टे यदा तु ताभिरिति । यज्ञपुरुषाराधनं तेषां शीलं यत्तदरोचयन् अपथ्यं मन्वानः अनि- गमपरिशुद्धं वेदबुद्धिरहितं यस्य शूद्रकुलस्य मिथुनीभावः कुटुम्बभरणं नान्यदिति शेषः । निरवरोधः भार्यारहितः अनिवारण इति वा ॥ ३३ ॥ * * द्रुमेषु रंस्यन्नित्यस्यार्थ दर्शयति । कचिद्रुमवदिति । व्यवायो ग्राम्यरतिस्तदर्थमेव क्षणः कालो यस्य सं तथा ॥ ३४ ॥ * * कचित्प्रमादादित्येतद्वथाकरोति । एवमध्वन्यवरुन्धान इति ततः कथचिदिति इदं विवृणोति कर्मवल्ली- मिति ।। ३५ ।। * * बिभ्यत् भयमापन्नः मनस्विन इत्येतद्वयाचष्टे । यदपीति ॥ ३६ ॥ ।। 8
- बाधोपसर्गेरित्य- इति श्रीमद्भागवते महापुराणे पञ्चमस्कंधे श्रीमद्विजयध्वजतीर्थकृतपद रत्नावल्यां चतुर्दशोऽध्यायः ॥ १४ ॥ त्रोक्तानुपसर्गानाह । यस्यामिति ॥ ३७ ॥
- श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः गिरिकन्दरप्राये तमसि रोगाद्या यदि अपतन् मृत्युगजभयाद्वल्लीतुल्यप्राचीनकर्मावलम्ब्य स्थितो भवतीति शेषः ।। ३३-४५ ।।
श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी कचित् प्रमादादित्येतद्वद्याचष्टे एवमध्वनीति । मृत्युभयान्तमसि महारोगाद्युपशमार्थं कुकर्मणि अवरुन्धानः आत्मान- मवरुणद्धि ॥ ३३ ॥ * * कचिच शीतातपेत्येतद्वद्याचष्टे । क्वचिच्छीतवातेति ॥ ३४ ॥ * * कचिन्मिथ इति व्याचष्टे । क्वचिन्मिथ इति ।। ३५ ।। * * कचित् कचित् क्षीणधन इत्येतद्वयाचष्टे कचित् कचित् क्षीणधन इति । यन्मनोरथेनोपगतं वाञ्छितं धनादि तस्यादाने स्वीकारे निश्चितमतिः सन् ।। ३६ ।। * * अन्योऽन्यवित्तव्यतिषङ्गेत्ये- तद्वयाचष्टे । एवमिति । अथापवहति पुनरुद्वाहं त्यजति च ॥ ३७ ॥ * * अध्वन्यमुष्मिन्नित्यादि व्याचष्टे एतस्मिन्निति । आपदं प्राप्तः विपन्नो मृतः साधुवर्जित इति । वैष्णवसङ्गे सति तरतीति भावः । यतश्च परमेश्वरात् तमेव परमेश्वरं पारं पारप्रापकं तत्र साधुसङ्ग एव हेतुरित्यर्थः ॥ ३८ ॥ * * अनावृत्तौ हेतुमाह । यदिदमिति । समवगच्छन्ति प्राप्नुवन्ति ।। ३९ ॥ मनस्विन इति एतद्वयाचष्टे । यदपि यद्यपि तदपि अस्यां पृथिव्यां शयीरन् कीदृश्यां ममेयमिति कृतो वैरानुबन्धो तस्यां तस्याम् इमां विसृज्य स्वयमेव संहृताः मृताः ।। ४० ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः । कचित्प्रमादादित्येतद्वयाचष्टे । एवमध्वनीति असमर्थः ।। ३३-३४ । ।। * यत्किचिद्धनमुपयाति परेभ्य इति शेषः ।। ३५ ।। * कचित्कचित्क्षीणधन इत्येतद्वयाचष्टे । कचित्क्षीणधन इति । अप्रतिलब्धमप्राप्तं यन्मनोरथेनो- पगतं वाञ्छितं तस्यादाने सम्पादने || ३६ ॥ 11
-
- अन्योऽन्यवित्तव्यतिषङ्गेत्येतद्वयाचष्टे एवं वित्तति । तथापि वित्तमुद्वहति गृह्णाति अपवहति अर्पयति ।। ३७ ।। अध्वन्यमुष्भिन्नित्यादि व्याचष्टे । एतस्मिन्निति | आपन्नविपन्नः | आपद्ग्रस्तो मृतो वा यस्तमितरः विसृज्य जातं जातं पुत्रादिकमुपादाय नह्यमानः बध्यमानः यतः ब्रह्मणो भगवतः सकाशादारब्धः संसाराध्वा तमध्वनः पारमवधिभूतं संसारहेतुं भगवन्तं साधुवर्जितः साधुजनभिन्नः एष नित्यबद्धजीव समूहरूपः नरलोकसार्थः नैवावर्त्तते नैव प्राप्नोति इत्युपदिशन्ति तत्त्वज्ञाः ॥ ३८ ॥ * * योगानुशासनं भगवत्प्राप्तिसाधनभूतज्ञानभक्त्याद्युप- ।। ।। ६ देशमपि न गृह्णन्तीत्याह यदिति । यत् यस्य ब्रह्मणो भगवतः ।। ३९ ।। * मनखिन इत्यादि व्याचष्टे । यदपीति ॥ ४० ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी कचिप्रमादागिरिकन्दरे पतन्नित्येतद्वद्याचष्टे - एवमिति । अध्वनि प्रवृत्तिमार्गे एवं प्रमादेन स्वकर्त्तव्यं भगवदाराधनं परित्यज्य विषयासक्त्या पापमाचरंस्तत्फलानि विविधदुःखान्यवरुन्धानोऽनुभवन् गिरिकन्दरप्राये तमसि रोगादिमहत्यामापदि पतितो मृत्युरूपगजभयात्कम्पितहृदय आस्ते ॥ ३३ ॥ * * कचिच्छीतवातेत्यादिपूर्वं व्याख्यातमपि दुःखदोषादिप्रदर्शनावसरे वैराग्यार्थं पुनरनुवदति-कचिदिति गद्यद्वयेन । शीतवातादिजन्यानि यान्यनेकविधानि दैविकादीनि दुःखानि तेषां प्रतिनिवारणे अकल्पः असमर्थो यो दुरन्तविषयविषण्ण आस्ते, दुरन्तचिन्तया व्याकुलस्तिष्ठतीत्यर्थः । तत्र शीतातपवातवर्षादिजन्यं देवनिमित्तं दुःखं दैविकम्, चोरशत्रवादिप्राणिकृतं भौतिकम्, शरीरनिमित्तं रोगादिजन्यमात्मीयम्, तत्रापि हेतूनामनेकविधत्वाद् दुःखानामनेक- विधत्वम् ॥ ३४ ॥ * कचिन्मिथो व्यवहरन् वित्तशाठ्येन परधनवचनेन यत्किश्विद्धनमुपयाति प्राप्नोतीति । अनेनापि बचकत्व प्रदर्शनेन नरकादिपातहेतुदोषवत्वं सूचितम् ॥ ३५ ॥ कचित्कचित् क्षीणधनस्त्वित्येतद्वयाचष्टे - कचित् ३१० श्रीमद्भागवतम् [ स्कं. ५ अ. १४ इलो. ३३-४० क्षीणधन इति । क्षीणधनत्वादेव शय्याद्युपभोगविहीनः यावत् यदा याच्नयाऽप्रतिलब्धं यन्मनोरथेनोपगतं वांच्छितं तस्यादाने- ऽन्यायेनापि स्वीकारेऽवसिता निश्चिता मतिर्यस्य तथाभूतः सन् यस्य तस्य धनादि स्वीकर्तुं प्रवर्त्तते तदा ततस्ततो जनावमानादीनि सर्वतो लभते इत्यन्वयः । आदिपदेन निन्दाताडनादि ग्राह्यम् ।। ३६ ।। * अन्योन्यवित्तव्यतिषं गेणेत्येतद्वद्याचष्टे - एवमिति । एवमनर्थान्तरं श्रृण्विति शेषः । अन्योन्यवित्तस्य व्यतिषङ्गेण सार्येणापहारेण तच्छङ्ख्या वा विवृद्धो वैरानुबन्धो यस्य तथाभूतोऽपि पूर्ववासनया प्रारब्धवशान्मिथ उद्वहति विवाहादिसम्बन्धं करोति । अथानन्तरं पुनर्वैरानुसन्धानेना पवहति सम्बद्वानपि त्यजति ।। ३७ ।। * * अध्वन्यमुष्मिन्नित्यादि व्याचष्टे - एतस्मिन्निति । एतस्मिन् संसाराध्वनि जन्ममरणादिसंसारका रणभूते प्रवृत्तिमार्गे नानाविधैः क्लेशोपसर्गेः पूर्वोक्तर्बाधितः पीडितः सन् यत्र आपन आपदं प्राप्तो विपन्नो विनष्टो मृतो वा तमितरस्तत्रैव विसृज्य त्यक्त्वा दग्ध्वा वा जातं जातं पुत्रादिकमादाय स्वीकृत्य शोकादि कुर्वन् यत एष नरलोकसार्थो देवतिर्यखानुष्यादिसर्ग आरब्धः प्रवृत्तो यं चाध्वनः संसारमार्गस्य पारमुपदिशन्ति वेदा पारमुपदिशन्ति वेदा ऋषयो वा वदन्ति तं सर्वकारणकारणं भगवत्पदमद्यापि नैवा- वर्त्तते नैव प्राप्नोतीत्यन्वयः । वावेति एवकारार्थे । एवं मरणदुःखादि पश्यतोऽपि मोहेन तत्रासक्तौ कारणमाह - नह्यमान इति, भगवद्विमुखत्वेन तन्मायया निबध्यमान इत्यर्थः । यस्तु भगवन्तं शरणं गतः स तु न तथा मुह्यतीत्याह - साधुवर्जित इति । साध्नोति स्वकार्यमिति साधुः स तु भगवद्भक्त एव तद्वयतिरिक्त एवं भ्राम्यतीत्यर्थः । तत्र पुत्रकलत्रादीनां मरणेन शोचन् पुनर्जातजात- पुत्रादिग्रहणेन संहृष्यन् हर्षेण गायन् पुनस्तेषां मरणाद्यनुसन्धानेन विभ्यत् यथा मरणादि न स्यात्तथा तत्तदुपाये विवदन क्रन्द मुह्यन्नित्यर्थः ॥ ३८ ॥ * * कुतोऽध्वनः पारं न प्राप्नोतीत्यपेक्षायां तत्प्राप्तिमार्गे प्रवृत्त्यभावात् न हि प्राचीं गच्छन् प्रतीचीगतं वस्तु प्राप्नोतीत्याह-यदिमिति । यस्मात् यदिदं भगवत्पदप्राप्तिसाधनत्वेन प्रसिद्धं योगानुशासनं भक्तियोगं तदेतन्नैवावरुन्धते प्राप्नोति । कस्तर्हि भक्तिमार्गेण तत्पदं प्राप्नोतीति वीक्षायामनेकजन्मसचितसुकृतवानेवेत्याशयेनाह यदिति । यद्भक्तियोगकगम्यं परं पदं न्यस्तदण्डास्त्यक्तप्राणिद्रोहाः परमोपकारिणो मुनयः मननपरत्वेन सदसद्विवेकवन्त्वेन च सर्वसारपरमानन्दभगवदेकनिष्ठाः उपशमशीलाः शान्तचित्ताः उपरतात्मानः सांसारिकविषयविरक्तान्तः करणाः समवगच्छन्ति अनायासेन प्राप्नुवन्ति तन्नावरुन्धत इति पूर्वेणैव सम्बन्धः ॥ ३९ ॥ न च येत्राशक्ताः संसारिणस्ते मा गच्छन्तु समर्थाः कुतो न गच्छेयुरिति शङ्कयम्, यत् यतो ये वै राजर्षयो दिगिभजयिनो यज्विनो यज्ञानुष्ठातारस्तेऽपि तत्पदं न प्राप्नुवन्ति किन्तु अस्यां भूमौ निमित्तभूतायां ममेयं न तवेति कृतपरस्परवैरानुबन्धा यां भूमिं विसृज्य स्वयमुपसंहृता मृताः सन्तः परं केवलं मृधे युद्धभूमौ शयीरन्नित्यन्वयः ।। ४० ।। । । श्री भगवत्प्रसादाचार्य विरचिता भक्कमनोरञ्जनी ‘क्वचित्कंदाचिद्धरिचक्रतस्त्रसन्’ इत्येतद्वद्याचष्टे कदाचिदिति । कदाचित् परमाणुरादिर्यस्य सः, द्विपरार्द्धः अपवर्गोऽन्तो यस्य सः, स चासौ स च यः कालः स, उपलक्षणं स्वरूपं यस्य तस्मात्, रंहसा शीघ्रेण परिवर्त्तितेन परिभ्रमणेन वयसा बाल्यादि- क्रमेण, आब्रह्म ब्रह्माणमभिव्याप्य, तृणस्तम्बादीनां भूतानां, मिषतां पश्यतां सतां, हरतस्तेषामायुः संहारं कुर्वतः, अनिमिषतः निमेषमकुर्वतः ईश्वरस्य विश्वशास्तुः, भगवतः सकलैश्वर्य पूर्णस्य विष्णोः चक्रात् कालचक्रादित्यर्थः । वित्रस्त हृदयो मरणमाशङ्कमानः सन्, कालचक्रनिजायुधं तं एव ईश्वरं साक्षात् भगवन्तं यज्ञपुरुष यज्ञमूर्त्तिम् अनादृत्य, कङ्कगृधबकवटप्रायास्तद्वद्विश्वतो वञ्चयन्तीः आर्यसमयपरिहृताः वैदिक सिद्धान्ताद्वहिष्कृताः पाखण्डदेवताः सांकेर्त्स्न्येन मूलप्रमाणशून्यपाखण्डागमेन अभिधत्ते । अमरत्वाय आभिमुख्येन स्वीकरोति ॥ ३३ ॥ * ‘तैर्यश्चित’ इत्येतद्वयाचष्टे ।
- ‘तैर्यति’ इत्येतद्वचाचष्टे । यदा त्विति । यदा तु, आत्मा वश्चितो येस्तैः आत्मवचितैः, पाखण्डिभिः उर्वधिकं यथा तथा वचितः । तथा यथाभूतः सन् ब्रह्मकुलं समावसन् ब्रह्मकुले प्रविष्टः भवतीत्यर्थः । तत्रापि तेषां ब्राह्मणानां शीलं उपनयनादि उपवीतप्रदानादिकं, श्रौतस्मार्त्तकर्मानुष्ठानेन भगवतः यज्ञपुरुषस्य आराधनं च तत् आरोचयन्ननभिमन्यमानः सन् एव, शूद्रकुलं । अनेन’ ‘उपैति वानरान्’ इत्येद्वयाख्यातम् । यस्य शूद्रकुलस्य, निगमाचार वेदोक्ताचारे, अशुद्धितः स्वस्य शुद्धयभावात् मिथुनीभावः कुटुम्बभरणं केवलो दैहिकव्यापारश्च अस्ति । यथा वानरजातेः । अतस्तत्राक्लेशबुद्धया शूद्रवद्वर्त्तते इत्यर्थः ॥ ३४ ॥ * ‘तज्जातिरासेन’ इत्येतद्वयाचष्टे तत्रापीति । तत्र शूद्रकुलेऽपि, निरबरोधः प्रतिबन्धरहितः स्वैरेण स्वेच्छया, योग्यदेशकालप्रतीक्षामन्तरेणेत्यर्थः । विहरन् क्रीडन्, अतिकृपणबुद्धिरत्यन्तव्याकुल- मतिः, अन्योन्यमुखनिरीक्षणादिना योषित्पुरुषयोः परस्परास्यसंवीक्षणादिरूपेण, प्राम्यकर्मणा एव विस्मृतः कालावधिर्मृत्युसमयो येन सः एवंभूतः आस्ते ॥ ३५ ॥ * ‘द्रुमेषु रस्यन्’ इत्येतद्वयाचष्टे कचिदिति । कचित् द्रुमवत्, ऐहिकार्थेषु ऐहिक- सुखप्रयोजनकेषु, गृहेषु रस्यन् वानरः यथा सुतदारवत्सलः व्यवायो मैथुनं स एव क्षण उत्सवो यस्य एवंविधः स भवति ।। ३६ ॥ * ‘कचित्प्रमादाद्रिरिकन्दरे’ इत्येतद्वयाचष्टे एवमिति । एवममुना प्रकारेण, अध्वनि संसारमार्गे, अवरुन्धानः सुखदुःखादिकमनुभवन्, मृत्युरेव गजस्तस्माद्यद्भयं तस्मात्, गिरिकन्दरप्राये गिरिकन्दरतुल्ये, तमसि रोगाद्यापदि, पतन कर्मवली जीवनहेतुभूतां कर्मरूपां व्रतती, अवलम्ब्य ततः आपदः रोगाद्युपद्रवरूपात्, नरकात् कथंचित् केनापि प्रयासेन, विमुक्तः चेत्, तर्हि पुनरपि, एवमुक्तप्रकारेणैव संसाराध्वनि, वर्त्तमानः नरलोकसार्थं नरशरीरं जीवसमूह, उपयाति । एवम् उपरि गतः अपि लोकान्तरेषु विद्यमानो देवादिसमूहोऽपि, संसाराध्वन्यटतीत्यर्थः । तथा चोक्तम्। ते तं भुक्त्वा स्वर्गलोकं विशालं । ५.अ. १४ श्लो. ४१-४६] अनेकव्याख्यासमलङ्कृतम् ট ३११ क्षीणे पुण्ये मत्र्यलोकं विशन्ति’ इति ॥ ३७ ॥ * * एवं पारोक्ष्यरूपां भरतोक्ति व्याख्याय तन्माहात्म्यप्रतिपादकान् श्लोकानवतारयति तस्येति । तस्य इदं माहात्म्यमित्यर्थः । उपगायन्ति आर्षभस्येति । आर्षभस्य ऋषभपुत्रस्य, महात्मनो महानुभावस्य राजर्षेर्भरतस्य वर्त्म मार्ग मनसाऽपि, अन्वनुसर्तुं इह अस्मिन् लोके नृपोऽन्यो नृपतिः, गरुत्मतो गरुडस्य, वर्त्म गति मक्षिका इव, न अर्हति ॥ ३८ ॥ * तत्रैव हेतुमाह य इति । यः आर्षभो राजर्षिः, उत्तमश्लोकलालसः भगवति लम्पटः, आसक्तचित्तः सन्निति यावत् । दुस्त्यजान् दुःखेनापि त्यक्तुमशक्यान् हृदिस्पृशो मनोज्ञान् दारसुतान, सुहृद्राज्यं, सुहृद्वाज्ययो- द्वन्द्वैक्यम् | युवा सन्नेव मलवद्विष्ठामिव जहावत्याक्षीत् ।। ३९ ।। ३ * न केवलमत्याक्षीदेवापि तु नैच्छत् । एवंविधस्य विषयत्यागो व चित्रमित्याह । यो दुस्त्यजानिति । यः नृपः, आर्षभो नृपतिः, दुस्त्यजान् क्षितिभारतवर्षभूश्च सुताः पुत्राश्च स्वजनाच अर्थो धनराशिव दाराः स्त्रियश्च तान् सदयः दयायुक्तः अवलोको राज्ञो यस्यां तां राज्ञो दयासहितोऽवलोको मयि प्रसरत्विति प्रार्थयमानामिति भावः । सुरवरैर्देवेन्द्रादिभिरपि प्राय प्राप्तुं संप्रार्थनीयां श्रियं संपदं च न ऐच्छत् । क्षित्यादिषु लेशमात्रमपि रामं नाकरोदित्यर्थः । नैतचित्रं किं तु युक्तमेवास्यैतदित्याह महतां तत् उचितं योग्यसेव, यतः मधुद्विषो भगवतो या सेवा तस्याम- नुस्तं मनो येषां तेषां, अभवो मोक्षोऽपि फल्गुरल्पः तुच्छ इति यावत् ॥ ४० ॥ spec भाषानुवादः merely in इस प्रकार प्रवृत्तिमार्ग में पड़कर सुख-दुःख भोगता हुआ यह जीव रोगरूपी गिरि-गुहा में फँसकर उसमें रहनेवाले मृत्यु- रूप हाथीसे डरता रहता है ॥ ३ ॥ * कभी-कभी शीत, वायु आदि अनेक प्रकारके आधिदैविक, आधिभौतिक और आध्यात्मिक दुःखोंकी निवृत्ति करनेमें जब असफल हो जाता है, तब उस समय अपार विषयोंकी चिन्तासे यह खिन्न हो उठता है ॥ ३४ ॥ * * कभी आपसमें क्रय-विक्रय आदि व्यापार करनेपर बहुत कंजूसी करनेसे इसे थोड़ा-सा धन हाथ लग जाता है ॥ ३५ ॥ * कभी धन नष्ट हो जानेसे जब इसके पास सोने, बैठने और खाने आदिकी भी कोई सामग्री नहीं रहती, तब अपने अभीष्ट भोग न मिलनेसे यह उन्हें चोरी आदि बुरे उपायोंसे पानेका निश्चय करता है। इससे इसे जहाँ-तहाँ दूसरोंके हाथसे बहुत अपमानित होना पड़ता है ।। ३६ ।। * इस प्रकार धनकी आसक्तिसे परस्पर वैरभाव बढ़ जानेपर भी यह अपनी पूर्ववासनाओंसे विवश होकर आपसमें विवाहादि सम्बन्ध करता और छोड़ता ॥ ३७ ॥ * * इस संसारमार्गमें चलनेवाला यह जीव अनेक प्रकारके क्लेश और विघ्न-बाधाओंसे बाधित होनेपर भी मार्ग में जिसपर जहाँ आपत्ति आती है अथवा जो कोई मर जाता है; उसे जहाँका तहाँ छोड़ देता तथा नये जन्मे हुओंको साथ लगाता है, कभी किसीके लिये शोक करता है, किसीका दुःख देखकर मूर्छित हो जाता किसीके वियोग होनेकी आशङ्कासे भयभीत हो उठता है, किसी से झगड़ने लगता है, कोई आपत्ति आती है तो रोने, चिल्लाने लगता है, कहीं कोई मनके अनुकूल बात हो गयी तो प्रसन्नताके मारे फूला नहीं समाता, कभी गाने लगता और कभी उन्हींके लिये बँधनेमें भी नहीं हिचकता । साधुजन इसके पास कभी नहीं आते, यह साधुसङ्गसे सदा वश्चित रहता है। इस प्रकार यह निरन्तर आंगे ही बढ़ रहा है। जहाँसे इसकी यात्रा आरम्भ हुई है और जिसे इस मार्गको अन्तिम अवधि कहते हैं, उस परमात्मा के पास यह अभीतक नहीं लौटा है ॥ ३८ ॥ * परमात्मातक योगशास्त्रकी भी गति नहीं है; जिन्होंने सब प्रकारके दण्ड (शासन ) का त्याग कर दिया है, वे निवृत्ति परायण संयतात्मा मुनिजन ही उसे प्राप्त कर पाते हैं ।। ३९ ।। * * जो दिग्गजोंको जोतनेवाले और बड़े-बड़े यज्ञोंका अनुष्ठान करनेवाले राजर्षि हैं उनकी भी वहाँतक गति नहीं है । वे सङ्ग्रामभूमि में शत्रुओंका सामना करके केवल प्राणपरित्याग ही करते हैं तथा जिसमें ‘यह मेरी है’ ऐला अभिमान करके वैर ठाना था— उस पृथ्वी में ही अपना शरीर छोड़कर स्वयं परलोकको चले जाते हैं। इस संसारसे वे भी पार नहीं होते ॥ ४० ॥ कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥ ४१ ॥ - तस्येदमुपगायन्ति ——- आर्षभस्येह राजर्षेर्मनसापि महात्मनः । नानुवर्त्माईति नृपो मक्षिकेव गरुत्मतः ॥ ४२ ॥ दुस्त्यजान्दारसुतान् सुहद्राज्यं हृदिस्पृशः । जहाँ ध्रुवैव मलवदुत्तमश्लोकलालसः ॥ ४३ ॥ यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारा प्राय श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुइिट्सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४ ॥ यज्ञाय धर्मपत्तये विधिनैपुणाय योगाय संख्यिशिरसे प्रकृतोश्वराय । नारायणाय हरये नम इत्युदारं हास्यन्मृगत्वमपि यः समुदाजहार ।। ४५ ।। ३१२ श्रीमद्भागवतम् [ स्कं. ५ अ. १४ लो. ४१-४६ य इदं भागवतसभाजितावदातगुणकर्मणों राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वपवय वानुशृणोत्याख्या’ स्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ॥ ४६ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं
नाम चतुर्दशोऽध्यायः ॥ १४ ॥ अन्वयः - कर्मवल्लीम् अवलंब्य ततः आपदः नरकात् कथंचित मुक्तः पुनः अपि एवम् संसाराध्वनि वर्तमान: नरलोक- सार्थम् उपयाति एवम् उपरिगतः अपि ॥ ४१|| तस्य इदम् उपगायंति इह नृपः आर्षभस्य महात्मनः राजर्षेः अनुवर्त्य मनसा ॥ अपि मक्षिका गरुत्मतः इव न अर्हति ॥ ४२ ॥ उत्तमश्लोकलालसः युवा एव यः दुस्त्यजान् हृदिस्पृशः दारसुतान् सुहृद्राज्यम् मलवत् जहाँ || ४३ ॥ यः नृपः दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् सुरवरैः प्रार्थ्याम् सदयावलोकाम् श्रियम् न ऐच्छत् तत् उचितम् मधुद्विट्सेवानुरक्तमनसाम् महताम् अभवः अपि फल्गुः ॥ ४४ ॥ * * मृगत्वम् हास्यन् अपि यज्ञाय धर्मपतये विधिनैपुणाय सांख्यशिरसे योगाय प्रकृतीश्वराय नारायणाय हरये नमः इति उदारम् समुदाजहार ।। ४५ ।। यः भागवतसभाजितावदातगुणकर्मणः राजर्षेः भरतस्य स्वस्त्ययनम् आयुष्यम् धन्यम् यशस्यम् च स्वर्गापवर्ग्यम् अनुचरितम् अनुशृणोति आख्यास्यति वा अभिनंदति आत्मनः एव सर्वाः आशिषः आशास्ते परतः कांचन न इति ।। ४६ ।। इति चतुर्दशोऽध्यायः ॥ १४ ॥ श्रीधरखामिविरचिता भावार्थदीपिका प्रसज्जतीत्यादिगिरिकंदर इत्यंतमपकृष्य व्याख्यातं प्रथमतिक्रम्य वल्लीं गृहीत्वेत्यादिग्रंथं व्याचष्टे कर्मवल्लीमिति । एवमुपरि स्वर्गं गतोऽपि नरलोकसार्थमेवोपयाति ॥ ४१ ॥ * * तदेवं भरतोक्ति व्याख्याय तच्चरितसंग्रह श्लोकानाह । तस्येदं कर्म श्लोकैरुपगायंति | आर्षभस्य ऋषभपुत्रस्य अन्यो नृपोऽनुवर्त्म नार्हति वर्त्मानुगंतुं न शक्नोति ॥ ४२ ॥ * * तत्र हेतुमाह य इति । सुहृद्राज्ययोर्द्वद्वैक्यम् । यो दुस्त्यजान्दारादीन्विष्ठामिव जहौ तस्यार्षभस्येति संबंधः । दुस्त्यजत्वे हेतुः हृदिस्पृशो मनोज्ञान् । त्यागे हेतुः । उत्तमश्लोके लालसा लंपटत्वं यस्य ।। ४३ ।। * * तस्यैवं विषयत्यागो न चित्रमित्याह । य एवं- भूतोऽसौ नृपः स क्षित्यादीन्नैच्छदिति यत्तदुचितम् । सदयावलोकां भरतस्य दया यथा भवत्येवमवलोको यस्था इति परिजना- वलोकः श्रियामुपचर्यते । यतो मधुद्विषः सेवायामनुरक्तं मनो येषां तेषां महतामभवो मोक्षोऽपि फल्गुस्तुच्छ एव ॥ ४४ ॥ तस्य सेवानुरागमेवाह यज्ञायेति । यज्ञरूपाय धर्मपतये यज्ञादिफलदात्रे विधौ नैपुण्यं यस्य तस्मै धर्मानुष्ठात्रे योगोऽष्टांगस्तस्मै । सांख्यं ज्ञानं तच्छिरः प्रधानं फलं यस्य तस्मै योगाय प्रकृतीश्वराय मायानियंत्रे अत एव नारं जीवसमूहः सोऽयनमाश्रयो यस्य सर्वजीवनियंत्रे एवं कर्मज्ञानदेवताकांडैः प्रतिपादिताय हरये नम इत्युदारमुच्चैर्यः सम्यगुच्चारितवान् मृगत्वं मृगदेहमपि हास्यन् त्यक्ष्यन् य एवंभूतस्तस्य तदुचितमिति वा तस्यानुवर्त्म नार्हतीति वा संबंधः ॥ ४५ ॥ * * भरतचरितश्रवणादिफलमाह य इदमिति । भागवतैः सभाजिता अवदाताः शुद्धा गुणाः कर्म च यस्य तस्य भरतस्यानुचरितं योऽनुशृणोति स आत्मन एव सकाशात्सर्वा आशास्ते स्वत एव प्राप्नोति । न तु कांचिदपि परस्मादपेक्षत इत्यर्थः ॥ ४६ ॥ 1 इति पंचमस्कंधे टीकायां चतुर्दशोऽध्यायः ॥ १४ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः कर्मवल्लीमिति । वल्लीवत्प्राचीनकर्मावलंब्येति ॥ ४१ ॥ *
- भरतोति भरतोपाख्यानम् । व्याख्यायोपसंहृत्य । तच्चरिते तन्महिमनि । प्राचां सम्मतिमाह - तस्येति । तस्य भरतस्य । न शक्नोति योग्यताभावादिति भावः । मनसा । मनोरथेनापि किमुत कर्मणा । मक्षिका सूक्ष्मपतगी । स्थात । तस्य तस्य प्रेमानुभावमाह-य इति । अस्योत्तर- ‘॥ * * तत्र ॥ * तत्र वर्त्माऽननुगमने । । वाक्यगतत्वान्नः तत्पदापेक्षा । ‘मीलितं यदभिरामताधिके’ इतिवत् । युवैवेति । वार्द्धक्यत्यागिभ्यः प्रियव्रतादिभ्योऽप्युत्कर्षः । मलवदिति । यथा मलस्य त्याग एव निर्वृतिस्त्यागाभावे कष्टं त्यक्तस्य तस्य स्मरणे ष्ठीवनोद्यमस्तथैवेति । त्यागेऽप्यन्येभ्यो वैलक्षण्या- दुत्कर्षः । उत्तमः सर्वोत्कृष्टो रूपगुणलीलामाधुय्यैश्वर्यस्य संबंधी श्लोको यशो यस्य तस्मिन् लालसो दर्शनाद्यौत्सुक्यं यस्य सः । तेन भगवत्सौंदर्य्याद्यनाविष्टसर्वेन्द्रियाणां विरक्तानां दारादयो न मलभूता भवतीति भरतस्योत्तमभक्तत्वं ध्वनितम् ॥ ४३ ॥ * * १. प्रा० पा०– स्वर्ग्यापवर्ग्यमनुशृ० । २. प्रा० पा०—ख्यास्यति ह्येवाभिनन्दति । एकं ५ अ. १४ लो. ४१-४६] अनेकव्याख्या समलङ्कृतम् ३१३ तस्य भरतस्य उक्तमेवार्थं पुनरुल्लासेन स्पष्टीकृत्याह य इति । परिजनाबलोकोऽमात्याद्यवलोकः अमात्याद्यैः सदेवैवं निरीक्ष्यते यथा महाराजश्रीभरतस्यास्मासु दया जायेत तेषामवलोकः श्रियामुपचर्यते गौणत्वेन वर्ण्यते तेषामपि राज्ञां श्रीरूप- त्वादिति । यद्वा-भरतो वैसम्योत्थं शरीर कष्टं मा स्वीकरोतु मया लाल्यमानो गृह एव तिष्ठत्विति सदयोऽवलोको यस्यास्ताम् । तुच्छ एव तत्रापि विरज्यतीति भावः ॥ ४४ ॥ * * यज्ञायेति । त्रिभिः पादेः क्रमेण कर्मज्ञानभक्तिमार्गाणां यथोत्तर- मुत्कर्षो व्यंजितः । अत एव माया नियंतृत्वादेव । य एवंभूतः परमभक्तो भरतस्तस्येति । वाथ वा पक्षांतरमाह ।। ४५ ।। भागवतेऽस्सिकशास्त्रे वा सभाजिताः श्राषिताः । इत्वर्थ इति । सर्ववांछितानि तस्यानायासेन स्वत एव सिध्यतीति भावः ।। ४६ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकारो पञ्चमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ Free fropoli श्रीमद्वीरराघवव्याख्या वव्याख्या नाक एवं पारोक्ष्यरूपमवधूतवचो व्याख्याय तन्माहात्म्यप्रतिपादकान् श्लोकानवतारयति । तस्येदं माहात्म्यमार्षभस्य ऋषभपुत्रस्य महात्मनो महानुभावस्य राजर्षेर्वर्त्म मार्गं मनसाप्यनुसर्तुमन्यो नृपो नार्हति यथा गरुडा गतिं मक्षि- केत्यर्थः ॥४२॥ तत्रैव हेतुमाह । स आर्षभो राजर्षिः स्वाधीनः स्ववशः मनोज्ञानत एव दुस्त्यजान् दुःखेनापि त्यक्तुमशक्यान् पुत्रान सुहद्राज्ययोर्द्वन्द्वैक्यं, युवैव सन्मलवद्विष्ठशमिव जहावत्याक्षीत् । त्यागे हेतुमाह उत्तमश्लोके भगवति लालसः लम्पटः आसक्तचित्त इति यावत् ॥ ४३ ॥ * न केवलमत्याक्षीदेवापि तु नैच्छदित्याह य इति । यो नृप आर्षभः दुस्त्यजान् क्षित्यादीन् क्षितिर्भारतं वर्ष सुताः पुत्रा अर्थ धनं दाराः स्त्रियः इमान सुरवरैरिन्द्रादिभिश्च प्राय श्रियं सम्पदं कथम्भूतां सदयावलोकां सदयया युक्तः अवलोको राज्ञो यस्यां तां राज्ञो दयया युक्तोऽवलोको मयि प्रसरत्विति प्रार्थयमानामिति भावः, नैच्छत् क्षित्यादिषु रागमपि नाकरोदित्यर्थः, नैतचित्रं किन्तु युक्तं चैतदित्याह तदुचितमिति । कुतः यतो मधुद्विषः सेवायामनुरकमनसां महतामभवो मोक्षोऽपि फल्गुरल्पः भगवत्सेवापेक्षया मोक्षोऽप्यल्प इत्यर्थः ॥ ४४ ॥ ।। ।। * * तस्य मधुद्विद सेवानुरागातिशयमेवाह यज्ञायेति । यज्ञानां भोक्त्रे प्रभवे च धर्मपत्येऽवतारैर्वर्णाश्रमधर्माणां गोप्त्रे विधिनैपुणाय धर्मानुवर्त्तिनां रक्षाविधौ नैपुण्ययुक्ताय साख्यमात्मानात्मविवेकात्मकोऽध्यात्मयोगः स एव शिरः शिरोवत्प्रधानाङ्गं यस्य तस्मै योगाय विवेकादिसाधनसप्तकानुगृहीत- भक्तियोगगम्याय योगशब्दस्तद्द्रम्ये औपचारिकः प्रकृतीश्वराय मायानियन्त्रे नारं जीवसमूहः अयनमाश्रयो यस्य तस्मै, अनेन चिदचिच्छरीरकत्वमुक्तं हरये आभितबन्धहराय नमः इत्युदारं भृशमुदाजहार उदाहृतवान् किं कर्तुमिच्छन् मृगत्वं हरिणशरीर- मपि हास्यन् हातुमिच्छन् अत्र मृगत्वं हास्यन् समुदाजहारेति हासोदाहरणयोर्योगपद्यं प्रतीयते तथापि मृगजन्मनो वैकल्यदशायां समुदाहरणमत्र विवक्षितमन्यथा चरमदशा या मुक्तनामग्रहणे तदेहावसाने मुक्तेरस्मिर प्रबन्धे बहुषु स्थलेषूक्तत्वेन पूर्वापरप्रन्थ- विरोधापत्तेः । उदाहरणं चात्राव्यक्तोचारणं विवक्षितं मृगजन्मनस्तस्य व्यक्तोच्चारणासम्भवादन्यथा साङ्गभक्तियोगोपसंहारापत्त्या जन्मान्तरविलम्बा योगापत्तेः ॥ ४५ ॥ एतद्भरतचरितश्रवणादिफलमाह य इदमिति । भागवतैः सभाजिताः संस्तुता अवदाताः शुद्धा गुणा अक्रोधादयः कर्माणि भूतहिताचरणादिरूपाणि च यस्य तस्य राजर्षेर्भरतस्यानुचरितं यशस्यं स्वस्त्ययनं मङ्गलावहमायुष्करं धन्यं धनप्रापकं स्वयं स्वर्गसाधनमापवय मुक्तिसाधनं च योऽनुशृणोत्याख्यास्यति कथयति चाभिनन्दति अनुमोदते च स आत्मनः स्वतः एव सर्वा ह्याशिषः समीहितान्याशास्ते प्राप्नोति न तु काचिदप्याशिषं परस्मादपेक्षते इत्यर्थः । चरित्रस्य स्वस्त्ययनादिकं च न स्वरूपेणापि तु श्रवणादिविषयत्वेनेति ख्यापनाय शृणोत्याख्यास्यतीत्युक्तं, न केवलं स्वस्त्ययनादिक- मेवास्य फलमपि त्वनुक्तमन्यत्सर्वमपीत्यभिप्रायेणोक्तं सर्वा ह्येवाशिष आत्मन आशास्ते इत्यादि ।। ४६ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतायां श्रीभागवतचंद्रचंद्रिकायां चतुर्दशोऽध्यायः ॥ १४ ॥ iti श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः । s यज्ञायेति । धर्मरूपाय तत्पालकाय तत्प्रवर्त्तकाय ज्ञानसाधनरुपाय ज्ञानरूपाय मायानियन्त्रे सर्वजगदाश्रयाय ततोऽपि पराय हरये मनोहराय दास्येनात्मानं समर्पयामीत्यर्थः ॥ ४६ ॥ Programe मटा इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजीवगो खामिकृतक्रमसन्दर्भे चतुर्दशोऽध्यायः ॥ १४ ॥ क श्रीमद्विश्वनाथचक्रवतिकृता सारार्थदर्शिनी RE वल्लीं गृहीत्वेत्यादि अवशिष्टं ग्रन्थं व्याचष्टे कर्मवल्लीमवलम्ब्येति । एवमुपरि गतोऽपि स्वर्गी जनोऽपि संसाराध्वनि वर्त्तमानः ॥ ४१ ॥ * * भरतोपाख्यानमुपसंहृत्य तन्महिमनि प्राचां सम्मतिमाह । तस्य इदं कर्म आर्षभस्य ऋषभपुत्रस्य अनुवर्त्म वर्त्मानुमन्तुं नार्हति योग्यताभावादिति भावः । मनसा मनोरथेनापि किमुत कर्मणा ॥ ४२ ॥ * * तस्य प्रेमानुभावमाह । - य इत्यस्योत्तरवाक्यगतत्वान तत्पदापेक्षा ‘मीलितं यदभिरामताधिके इतिवद् | दुस्त्यजत्वे हेतुः हृदिस्पृशः ४०. ३१४ श्रीमद्भागवतम् [ स्कं. ५ अ. १४ श्लो. ४१-४६ मनोहरान सुहद्राज्ययोर्द्वन्द्वैक्यं युवैवेति वार्द्धक्येत्यादिभ्यः प्रियव्रतादिभ्योऽप्युत्कर्षः । मलवदिति । यथा मलस्य त्याग एवं निर्वृतिः त्यागाभावे कष्टं त्यक्तस्य तस्य स्मरणेऽपि निष्ठीवनोद्गमस्तथैवेति त्यागेऽप्यन्येभ्यो वैलक्षण्यादुत्कर्षः । तत्र हेतुः उत्तमः सर्वोत्कृष्टः रूपगुणलीला माधुर्यैश्वर्यस्य सम्बन्धी श्लोको यशो यस्य तस्मिन् लालसः दर्शनाद्यौत्सुक्यं यस्य सः । तेन भगवत्- सौन्दर्याद्यनाविष्टसर्वेन्द्रियाणां विरक्तानां दारादयो न मलतुल्या भवन्तीति भरतस्योत्तमभक्तत्वं ध्वनितम् ॥ ४३ ॥ * उक्तमेवार्थमुल्लासेन पुनरपि स्पष्टीकृत्याह य इति । सदयावलोकां भरतस्य दया यथा भवत्येवमवलोको यस्या इति परिजनावलोकः श्रियामुपचर्यत इति श्रीस्वामिचरणाः । यद्वा भरतो वैराग्योत्थं शारीरकष्टं मा स्वीकरोतु मया लाल्यमानो गृह एव तिष्ठत्विति सदयोऽवलोको यस्यास्ताम्, अभवो मोक्षोऽपि फल्गुस्तुच्छस्तत्रापि विरज्यन्तीत्यर्थः ॥ ४४ ॥ यज्ञायेति त्रिभिः पादैः क्रमेण कर्मज्ञानभक्तिमार्गाणां यथोत्तरमुत्कर्षो व्यञ्जितः । विधेर्यज्ञविधेर्नैपुण्यं यस्मात्तस्मै, हास्यन् त्यक्ष्यन् तेन मरणकाले न उदाजहार तथा सति जहदित्युच्येत भगवतैव स्वभक्त्युद्रेकार्थं पुनर्जनयिष्यमाणत्वादिति भावः ।। ४५ ।। * भागवतैः श्रीभागवतेऽस्मिन् शास्त्रे वा सभाजिताः स्तुतां अवदाताः शुद्धा गुणाः कर्माणि यस्य । आत्मन इवेति सर्ववाञ्छितानि तस्यानाया- सेनैव स्वतः प्राप्तानि भवन्तीत्यर्थः ॥ ४६ ॥ Tren 3 इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । चतुर्दशः चतुर्दशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥ १४ ॥ । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः BF MP MEER वल्ली गृहीत्वेत्यादिग्रन्थं व्याचष्टे कर्मवल्लीमिति । एवमुपरि स्वर्गे गतोऽपि नरलोकसार्थमेवोपयाति ॥ ४१ ॥ * * इत्थं भरतोक्ति व्याख्याय तञ्चरितसङ्ग्रहश्लोकान् पूर्वसिद्धान् दर्शयन् तदुपाख्यानमुपसंहरति तस्येति । तस्य भरतस्येदं कर्म श्लोकैरुपगायन्ति आर्षभस्य ऋषभपुत्रस्य अनुवर्त्म नार्हति अनुष्ठितं पारमहस्य मार्गमनुष्ठातुं न शक्नोति ।। ४२ ।। यो दुस्त्यजान् हृदिस्पृशः मनोज्ञान मलवज्जहौ तस्यार्षभस्येति सम्बन्धः ॥ ४३ ॥ सदये दयानिधौ भरते अवलोको
-
- यस्यास्तां च यो नृपः नैच्छत्तदुचितमेव यस्मान्मधुद्विषः सेवायां मनो येषां तेषामभवो मोक्षोऽपि फल्गुरल्पः ॥ ४४ ॥ 8 तस्य भगवत्सेवानुरागं स्फुटयति । यज्ञाय “यज्ञो वै विष्णु इति श्रुतेः धर्मपत्तये धर्मगोप्त्रे विधेर्ब्रह्मणः नैपुण्यं यस्य तस्मै युज्यते भक्तः स्वानुकूल्ये प्रवर्त्यते इति योगस्तस्मै भक्तवश्याय सम्यक् ख्यायन्ते प्रकथ्यन्ते तत्त्वान्यनया इति संख्या अध्यात्मविद्या तयावधारणीयानि चिचिद्ब्रह्माख्यानि तत्त्वानि सांख्यानि तेषु शिरः प्रधानं ब्रह्म तस्मै सांख्यशिरसे प्रकृतयोः परापरयोः चेतना- चेतनरूपयोरीश्वराय नारस्य जीवसमूहस्यायनाय स्थितिप्रवृत्तिप्रदाय हरये भक्तक्लेशहारिणे नमः इत्युदारं परममङ्गलं वेदवेद्यत्व- यज्ञमूर्त्तित्वधर्मगोष्तृत्व ब्रह्मादिनैपुण्यहेतुत्वभक्तवश्यत्व सर्वतत्त्वप्रधानत्वादि भगवद्गुणविषयकवाक्यं मृगत्वं मृगभावं हास्यन् त्यक्ष्यन् यः समुदाजहार सम्यगुच्चारितवान् तस्यानुवर्त्म नार्हतीति सम्बन्धः ॥ ४५ ॥ * * भरतचरितश्रवणादिफलमाह य इति । भागवतैः सभाजिताः संस्तुता अवदाताः शुद्धाः गुणाः कर्माणि च यस्य तस्य राजर्षेर्भरतस्य अनुचरितं योऽनुशृणोति आख्यास्यति अभिनन्दति च स आत्मनः सकाशात् सर्वा आशिषः पुरुषार्थान् आशास्ते प्राप्नोति न तु काश्चन काचिदपि परतः अपेक्षते ॥ ४६ ॥ 1 इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे चतुर्दशाऽध्यायार्थप्रकाशः ॥ १४ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी f वल्लीं गृहीत्वेत्येतद्वयाचष्टे - कर्मेति । आपदि नरके वा पतितस्तत्र प्राचीनकर्मरूपां वल्लीमवलम्ब्य स्थितः कथचित् दुःखभोगानन्तरं तत आपदो नरकाद्वा विमुक्तः पुनरपि संसाराध्वनि प्रवृत्तिमार्गे वर्त्तमानो नरलोकसार्थमेवोपयाति अनुसरति न संसारविमोक्षार्थं यतते । एवमुपरि देवलोकं गतोऽपि तत आगत्य नरलोकमनुसरतीत्यन्वयः ॥ ४१ ॥ * * एवं भरतोक्ति व्याख्याय तस्याप्तत्वेऽस्य सन्देहो मा भूदिति मनसि निधाय नाहमेव तन्माहात्म्यं वर्णयामि किन्त्वन्येऽपि शिष्टास्तस्य भरतस्येदं माहात्म्यं श्लोकैरुपगायन्तीत्याह तस्येति । तानेव माहात्म्यसङ्ग्रह श्लोकान् दर्शयति-आर्षभस्येति । आर्षभस्य ऋषभपुत्रस्य भरतस्यानुव- मेंह भूर्लोकेऽन्यो नृपो नार्हति भरतानुष्ठितं कर्म कर्त्तुं नैव शक्नोतीत्यन्वयः । कायेन तत्कृतकर्मानुष्ठानं तु दूर एव तत्कृतकर्म- सङ्कल्पोऽप्यशक्य इत्याहु: मनसापीति । तत्र दृष्टान्तमाहुः -मक्षिकेति, मक्षिका यथा गरुत्मतो गरुडस्य वर्त्मानुगन्तुं न शक्नोति तद्वदित्यर्थः । तस्य राज्याबस्था यामप्यृषिवद्वत्तमानस्येन्द्रियादिपारवश्येन विषयासक्तिलक्षणों मोहो नाभूदिति सूचयन् विशिषति- राजर्षेरिति । तत्र हेतुमाहुः महात्मन इति, भगवद्भजनपरस्य उदारचित्तस्येत्यर्थः ॥ ४२ ॥ अन्यदुष्करत्वे सर्वत्यागेन भगवत्परत्वमेव हेतुमाहु:-य इति । यो दुस्त्यजान् दारादीन् मलवद्विष्ठामिव जहौ तस्यार्षभस्येति पूर्वेणैव सम्बन्धः । दुस्त्यजत्वे हेतुमाहुः हृदिस्पृश इति, मनोज्ञानियर्थः । देहेन्द्रियादिशैथिल्येन भोगवैरत्यागः सम्भवत्येव किमत्राश्चर्यमित्याशङ्कयाहु:-
स्क. ५ अ. १४ लो. ४१-४६] अनेकव्याख्या समलङ्कृतम् ३१५ युवैवेति । तर्हि आपाततस्त्यागेऽपि पुनर्भोगचिन्तया सन्तप्तो भविष्यतीत्याशङ्कयाहुः - मलवदिति । मलवदुष्टत्वनिश्चयान्न पुनस्त चिन्तया सन्तापः सम्भवतीति भावः । ननु तर्हि किं प्रमत्तवन्निरर्थकस्त्याग इत्याशङ्कय तत्र हेतुमाहुः- उत्तमेति, उत्तमश्लोके भगवति लालसा प्रीतिर्यस्य सः । तद्भजनप्रतिबन्धकत्वेन त्यक्तवानिति भावः ॥ ४३ ॥ तस्यैवं विषयत्याग उचित एवेत्याहु:-य इति । यो नृपो भरतो दुस्त्यजान् क्षित्यादीन्नैच्छत् त्यक्तवानिति यत्तत्तस्योचितमेवेति सम्बन्धः । तत्र हेतुः - महतामिति, यतो मधुद्विषः सेवायामनुरक्तं मनो येषां तेषां महतामभवो मोक्षोऽपि फल्गुस्तुच्छ एवेत्यर्थः । सदयावलोकां भरतस्य दद्यापि भवत्वित्यव - लोकवतीमित्यर्थः । परिजनावलोकः श्रियामुपचर्यते इति ज्ञेयम् ॥ ४४ * * एवं दुष्करं त्यागं प्रदर्श्य भक्त्युत्कर्षमाहुः- यज्ञायेति । यज्ञाय यज्ञरूपाय, धर्मपतये यज्ञादितत्तत्कर्मफलदात्रे विधौ नैपुण्यं यस्य तस्मै सर्वकर्मप्रवर्त्तकाय तदनुष्ठात्रे च, योगाय अष्टाङ्गयोगलभ्याय साङ्ख्यशिरसे साङ्ख्यशास्त्रप्रतिपाद्याय, प्रकृतीश्वराय प्रकृतिनियन्त्रे, नारायणाय ब्रह्मादिसर्वजगत्कारणाय जलशायिने, एवं कर्मज्ञानदेवताकाण्डैः प्रतिपादिताय हरये तत्तन्मार्गेण भजतां दुःखहारकाय नम इति उदारमुच्चैर्यो मृगत्वं हास्यन् मृगशरीरं त्यक्ष्यन् व्याकुलतादशायामपि समुदाजहार सम्यगुञ्चरितवांस्तस्य भरतस्यानुवर्त्म अन्यो नृपो नार्हतीति पूर्वेणैव सम्बन्धः ।। ४५ ।। * * प्रकरणस्य समाप्तत्वात्तच्छ्रवणकीर्त्तनादिफलमाह-इदमिति । भागवतैः सभाजिताः सत्कृता यतोऽव- दाताः शुद्धाः गुणाः परोपकारस्वभावादयः कर्माणि च भगवत्परिचर्यादीनि यस्य तस्य राजर्षेर्भरतस्येदमनुचरितं योऽनुशृणोति आख्यास्यति अभिनन्दति च स आत्मनः परमात्मनो भगवत एव सर्वा एवाशिषः कामान् प्राप्नोति, न परतो भगवतोऽन्यस्मात्काचि- दप्याशिषमा शास्ते इत्यन्वयः । भगवदनुग्रहेण श्रोत्रादीनां सर्वमनोरथपूरकत्वमेव चरितस्य विशेषणैर्दर्शयति-स्वस्त्ययनं पुत्रोत्पत्त्या - दिकारणम् । आयुष्यमायुर्वृद्धिकरम् । धन्यं धनवृद्धिकरम् | यशस्यं यशोविस्तारकम् । स्वर्गापवर्ग्य स्वर्गप्रदं मोक्षप्रदं च ॥ ४६ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र योगेन स्थितिरूपणे । चतुर्दशे गतो वृतिं परोक्षाख्यानलक्षणः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तस्य मधुद्विसेवानुरागातिशयमेवाह यज्ञायेति । यज्ञाय यज्ञानां भोक्त्रे प्रभवे वा । धर्मपतये अवतार धारणैर्वर्णाश्रम- धर्माणां गोत्रे, विधिनैपुणाय धर्मानुवर्त्तिनां रक्षाविधौ नैपुण्ययुक्ताय, सांख्यमात्मानात्मविवेकात्मको ध्यानयोगस्तत् एव शिरः शिरोवत्प्रधानाङ्गं यस्य तस्मै, योगाय विवेकविमोकाभ्यासक्रिया कल्याणानव सादानुद्धर्षाख्य साधन सप्तकानुगृहीतभक्तियोगगम्याय, योगशब्दस्तद्गम्ये औपचारिकः । प्रकृतीश्वराय मायानियन्ले, नारं जीववृन्दं अयनमाश्रयो यस्य तस्मै, अनेन चिदचिच्छरीकत्व - मुक्तम् । हरये आश्रितबन्धहराय नमः । इत्येवं मृगत्वं हरिणशरीरमपि, हास्यन्हातुमिच्छन् सन्नपि उदारमतिमहत् वच इति शेषः । यः समुदाजहार उदाहृतवान् । तस्यानुवर्त्म नार्हतीति संबन्धः ॥ ४५ ॥ * भरतचरितश्रवणश्रावणादिफलमाह य इदमिति । भागवतैः सभाजिताः संस्तुताः अवदाताः शुद्धाः गुणा अक्रोधादयः कर्माणि भूतहिताचरणादिरूपाणि च यस्य तस्य, राजर्षेः , स्वस्त्ययनं मङ्गलावहं आयुष्यमायुष्कर, धन्यं धनप्रापकं यशस्यं कीन्तिप्रदं, स्वग्यं स्वर्गसाधनं, आपवग्य मुक्तिसाधनं च इदं यः अनुशृणोति, आख्यास्यति कथयतीत्यर्थः । अभिनन्दति अनुमोदते च सः आत्मनः स्वतः व: सवो: सकलाः आशिषः समीहितानि आशास्ते प्राप्नोति । कांचन कांचिदप्याशिषं परतः परस्मात् न नापेक्षते इत्यर्थः । इत्येवं सत्यमेवास्तीति शेषः ॥ ४६ ॥ भरतस्य, इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥ भाषानुवादः अपने पुण्यकर्मरूप लताका आश्रय लेकर यदि किसी प्रकार यह जीव इन आपत्तियोंसे अथवा नरकसे छुटकारा पा भी जाता है, तो फिर इसी प्रकार संसारमार्ग में भटकता हुआ इस जनसमुदाय में मिल जाता है। यही दशा स्वर्गादि ऊर्ध्वलोकों में जानेवालोंकी भी है ॥ ४१ ॥ * राजन् ! राजर्षि भरतके विषयमें पण्डितजन ऐसा कहते हैं- ‘जैसे गरुड़जीकी होड़ कोई मक्खी नहीं कर सकती, उसी प्रकार राजर्षि महात्मा भरतके मार्गका कोई अन्य राजा मनसे भी अनुसरण नहीं कर सकता ॥ ४२ ॥ उन्होंने पुण्यकीर्ति श्रीहरि में अनुरक्त होकर अति मनोरम स्त्री, पुत्र, मित्र और विष्ठाके समान त्याग दिया था, दूसरोंके लिये तो इन्हें त्यागना बहुत ही कठिन है ।। ४३ ।। * राज्यादिको युवावस्थामें ही उन्होंने अति दुस्त्यज ३१६ श्रीमद्भागवतम् [ रु. ५ अ. १४ लो. ४१-४६ पृथ्वी, पुत्र, स्वजन, सम्पत्ति और स्त्रीकी तथा जिसके लिये बड़े-बड़े देवता भी लालायित रहते हैं; किन्तु जो स्वयं उसकी दयादृष्टिके लिये उनपर दृष्टिपात करती रहती थी उस लक्ष्मीकी भी, लेशमात्र इच्छा नहीं की । यह सब उनके लिये उचित ही था; क्योंकि जिन महानुभावोंका चित्त भगवान् मधुसूदनकी सेवामें अनुरक्त हो गया है, उनकी दृष्टिमें मोक्षपद भी अत्यन्त तुच्छ है ॥ ४४ ॥ * * उन्होंने मृगशरीर छोड़ने की इच्छा होनेपर उच्चस्वरसे कहा था कि ‘धर्मकी रक्षा करनेवाले, धर्मानुष्ठान में निपुण, योगगम्य, सांख्यके प्रतिपाद्य, प्रकृतिके अधीश्वर, यज्ञमूर्ति सर्वान्तर्यामी श्रीहरिको नमस्कार है’ ॥ ४५ ॥ * राजन् ! राजर्षि भरतके पवित्र गुण और कर्मोंकी भक्तजन भी प्रशंसा करते हैं। उनका यह चरित्र बड़ा कल्याणकारी, आयु और धनकी वृद्धि करनेवाला, लोकमें सुयश बढ़ानेवाला और अन्तमें स्वर्ग तथा मोक्षकी प्राप्ति करानेवाला है। जो पुरुष इसे सुनता या सुनाता है और इसका अभिनन्दन करता है, उसकी सारी कामनाएँ स्वयं ही पूर्ण हो जाती हैं; दूसरों से उसे कुछ भी नहीं माँगना पड़ता ।। ४६ । । BS THER इति चतुर्दशोऽध्यायः ॥ १४ ॥ इति Desola shivsena geet heir share profe for the Fishe क siness नि एक || | Fict As Farmerse me जत्रा METS 7 BIPIREFINE siy GE BY TIFF SEDA pleas एक एक AES) HAS CH 3 in exiled adja fuguales din å se de Pimpaly rppe PRES Sonagie ba म माडी र हि meetin7ET THE EFFTEEFFERENT Madalas
- 19 mass Bar Is Fire Pit arguerituri sir 385 FRIC FIS pakepop tipis Eners TS PRITE की Hai al die de duas un 9 - TEREOF BE The free 10 enterprop: eye Dhogi If it ispriet (FEIE TEP INTRIES TE MOS की
- FIBER matasailie ॥ अथ पञ्चदशोऽध्याय F श्रीशुक उवाच (3) एए फी BE rec भरतस्यात्मजः, सुमतिर्नामाभिहितो यमु ह बाब केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेद- समाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥ तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥ अथासुर्या तनयो देवधनस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ ३ ॥ य आत्मविद्यामाख्याय स्वयं संशु द्धो महापुरुषमनुसस्मार ।। ४ ।। प्रतीहा त्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्या- कोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम् || ५ || भूझ ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो राजर्षि- प्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिपया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ॥ ६ ॥ स वै स्वधर्मेण प्रजापालनपोषणत्रीणनोपलालनानुशासनलक्षणे नेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविचरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभाविताविशुद्ध मतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानत्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुषत् || ७ || तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति । FIF in imperores अन्वयः - भरतस्य सुमतिः नाम आत्मजः अभिहितः उह बाब कलौ केचित् अनार्याः पाखंडिनः ऋषभपदवीम् अनुवर्तमानम् अबेदसमाम्नाताम् देवताम् पापीयस्याम् स्वमनीषया कल्पयिष्यति ॥ १ ॥ * * तस्मात् वृद्धसेनायाम् अथ आसुर्याम् तत्तनयः ततः धेनुमत्याम् परमेष्ठी सुतः तस्य देवताजित् नाम पुत्रः अभवत् ॥ २ ॥ पुत्रः अभवत् ॥ २ ॥ JOSDIR www bines सुवर्चलायाम् प्रतीहः उपजातः ॥ १ ॥ यः आत्मविद्याम् आख्याय स्वयम् संशुद्धः महापुरुषम् अनुसस्मार ॥ ४ ॥ * * प्रतीहान् सुवर्चलायाम् प्रतिहर्त्रादयः त्रयः इक्याफोविदाः सूनवः आसन् प्रतिहर्तुः स्तुत्याम् अजभूमानी अजनिः पाताम् ॥ ५ ॥ * * भूम्नः ऋषि भूम्नः ऋषिकुल्या ग्राम उनीथः ततः, देवकुल्यायाम् प्रस्तावः प्रस्तावात नियुत्सायाम् विभुः हृदयजः आसीत् विभोः रत्याम् पृथुषेणः तस्मात् आकृत्याम् नक्तः जज्ञे च नक्तात् द्रुतिपुत्रः राजर्षिप्रवरः, उदारश्रवाः ग्रयः अजायत आत्म- वत्त्वादिलक्षणेन जगद्रिरक्षिषया गृहीतसत्त्वस्य साक्षात् भगवतः विष्णोः कला महापुरुषताम् प्राप्तः ।। ६ ।। प्रजापालन: पोषण प्रीणनोपलालनानुशासनलक्षणेन च इन्यादिना च भगवति परावरे महापुरुषे ब्रह्मणि सर्वात्मना अर्पितपरमार्थ लक्षणेन स्वधर्मेण ब्रह्मविचरणानुसेवया च आपादितभगवद्भक्तियोगेन अभीक्ष्णशः परिभाविताविशुद्धमतिः सः वै उपरतानात्म्ये आत्मनि खयम् उपलभ्यमानत्रझात्मानुभवः अपि निरभिमानः एव अवनिम् अजूगुपत् ॥ पांडवेय पुराविदः तस्य इमाम् गाथाम् उपगायति ।। ८ ।। Pimpr PAPIOL ESPERISH SPEISELH inte श्रीधरस्वामिविरचिता भावार्थदीपि ७ ॥ को " Fin गणक free एवमष्टमिरध्यायैर्भरतस्योक्तमीहितम् ) ततः पंचदशे तस्य की वंशजा नृपः ॥ १ Pic ऋषभपदवी जीवन्मुक्तमार्गमनुवर्तमानम् । श्रं दृष्ट्वेति शेषः । यदासुमतिमवेदसमाम्नातो सुमतिमवेदसमाम्नातां देवतां कल्पयिष्यति बुद्धोऽयं साक्षादवतीर्ण इति मंस्यंत इत्यर्थः ॥ १-२ ॥ * * तचनयो देवताजितः पुत्रः ।। ३ ।। * * आत्मविद्यां बहुभ्य आख्याय व्याख्याय व्याख्यानेनैव स्वयं संशुद्धोऽनुसस्मारा परीक्षतयाऽनुभूतवान् ॥ ४ ॥ * * प्रतिहर्ता प्रस्तोता प्रार -प्रा१: बड़ो । है, प्र० प्रा० प्रतीहारात्सु० + ४, पा० पा० प्रस्तावाद्विरुत्सायां हृदयजय आसी ५ म प्रा० पा०- प्रतीहार धर्मण प्रन ६. मा० पा० इवाक Hippy Se श्रीमद्भागवतम्
। [ स्कं. ५.अ. १५ श्लो. १-८ उनातेति त्रयो यज्ञनिपुणाः सूनव आसन् । अजनिषातां जातौ ॥ ५ ॥ हृदयजः पुत्रः । जगतो रिरक्षिषया रक्षितुमिच्छया गृहीतं सत्त्वं येन तस्य विष्णोः कलांशः सन् ॥ ६ ॥ महापुरुषत्वमेवाह । स वै इति । धर्मस्तस्य द्विविधः । अभिषिक्तत्वात्प्रजापालनादिरेकः । गृहस्थत्वादिज्यादिश्चापरः । द्विविधोऽपि भगवति सर्वात्मनाऽर्पितः सन् परमार्थ लक्षणस्तेन परिभाविता संस्कृताऽतिशुद्धा मतिर्यस्य अत एवोपरतमनात्म्यं देहाद्यहंभवो यस्मिंस्तस्मिन्नात्मनि चित्ते स्वयमेवोपलभ्यमाने ब्रह्मण्यात्मानुभवो यस्य तादृशोऽपि निरभिमान एवावनिमजूगुपत्पालयामास ॥ ७-८ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः का ईहितं चरितम् । ततो भरतचरितकथनानंतरम् । तस्य भरतस्य (१) दृष्ट्वति । शेषे गौरवं प्रयोजनाभावं च मत्वाह-यद्वेति । इत्यर्थ इति । पापाविष्टबुद्धित्वादिति भावः । चक्रवन्ती तु कलौ तस्य चरितं श्रुत्वा तादृशाचारवन्तोऽस्माकं सुमतिरेव देवता यथा इति बौद्धसंप्रदायाद्विच्छिरु कल्पयिष्यतीत्याह ॥१॥ तस्मात् सुमतेः ॥ २॥ अथ अनंतरम् ततो देवद्युन्नात् । तस्य परमेष्ठिनः। सुवर्चासंज्ञायाम् अत्र सुवर्चलेति, पाठो लेखकप्रमादादवसेयस्तीर्थेन सुवर्चायामिति पठितत्वात् ॥ ३ ॥ * * यः
-
- अत्र सुवर्चलेति पूर्वनिगदे सुवर्चेति नामभेदः ॥ ५ ॥ * * तत उद्रीयात्। तस्मात् प्रयुणा । त्या जातः तत उद्गीथात् । तस्मात् पृथुषेणात् । द्रुत्यां जातः पुत्रो ॥ अत एव विशुद्धमतित्वादेव । आत्मानुभवो ब्रह्मैवाहमित्यनुभवः ।। ७-८ ॥ “वाहः ॥ ४ ॥ पुत्रः । महापुरुषतां पूज्यपुरुषतां परमभक्ततामिति यावत् । ६e ॥ HEY OF TEPOTS TOE TE ISHTE TEREPÉLY FITS BRUTE EFE IS FEIFTER THIPSIPP श्रीमद्वीरराघवव्याख्या ই
• एवं भरतचरित्रमुपवर्ण्य तत्सन्ततिमुपवर्णयति श्रीशुकः । भरतस्य सुमतिर्नामाभिहितः व्यवहृतः यं सुमतिमृषभस्य पदवीं योगचर्यारूपामनुवर्तमानमवलोक्य केचित्पाखण्डिनोऽनार्याः कलौ पापीयस्या स्वमनीषया अवेदसमान्नानामवेदोक्तां बौद्धदेव- तामिति यावत् कल्पयिष्यन्ति बुद्ध एव साक्षात्सुमतिरूपेणावतीर्ण इति स्वकुमनीच्या पश्यन्तीत्यर्थः ॥ ॐ । ॐ तस्मात्सुमतेः वृद्धसेनायां भार्यायां देवताजिनामा पुत्र उत्पन्न आसुयां देवताजिद्भार्यायां सत्तनयः देवता जित्पुत्रः देवद्युम्नो नानाभवत्ततो देवद्युम्नात्तद्भार्यायां धेनुमत्यां परमेष्ठी नाम सुतो जातः तस्य परमेष्ठिनस्तद्भार्यायां सुवर्चलायां प्रतीहाख्यः पुत्र उपजातः यः प्रतीहः बहुभ्यः आत्मविद्यामाख्याय उपदिश्याख्यानेनैव स्वयं संशुद्धः निर्मलान्तःकरणः परमपुरुषमुपासितवान् । अनुस्मृतिरत्र प्रत्यक्षतापन्न- मुपासनं विवक्षितं भवति ।। ३-४ ॥ * * प्रतीहात्सुवर्चलाया जातात्प्रतिहर्त्रादयः प्रतिहर्ता प्रस्तोता उगातेति । त्रयोऽ- पीन्याकोविदा यज्ञनिपुणाः सूनवः पुत्रा आसन् । तत्र प्रतिहतुः स्तुत्यां भार्यायामजभूमानाबजो भूमेति च द्वौ पुत्रावजनिषाताम् उदभूतां, भूम्नोऽजानुजादृषिकुल्यायां भार्यायां उट्रीथाख्यः पुत्रः तत उद्गीथादेवकुल्याया भार्यायां प्रस्तावाख्यः पुत्रः प्रस्तावाद्विप्रकुल्यायां भार्यायां विभुर्नाम हृदयजः पुत्र आसीद्विभो रत्यां भार्यायां पृथुसेनाख्यः पुत्रः तस्मात्पृथुसेनादा कूत्यां भार्यायां नक्को नाम जज्ञे । ततः नक्तायो नाम द्रुतिपुत्रः द्रुतौ नक्तस्य भार्यायां पुत्र आसीदित्यर्थः । यं विशिनष्टि । राजर्षीणां मध्ये श्रेष्ठः उदारश्रवा विपुल- कीर्तिर्जगतो रिरक्षिषया रक्षितुमिच्छया गृहीतसत्त्वस्य उपात्तशुद्धसत्त्वमूर्तेर्भगवतो विष्णोश कला अंशभूतः सन्नात्मवत्त्वं प्रशस्तमनस्कत्वं तत्प्रभृतिना लक्षणेन गुणेन लक्ष्यतेऽनेनेति लक्षणो धर्मः महापुरुषत्वं प्राप्तः ॥५-६ महापुरुषत्व- मेवाह स वा इति । स वै गयः प्रजापरिपालनादिरूपेण स्वधर्मेण स्ववर्णधर्मेण तत्र पालनं भयात् पोषणमन्नपानादिना प्रीणनमर्थितप्रदानेन उपलालनं सुतवत् श्लाघनमनुशासनं दुर्मार्गान्निवारणं तथा इत्यादिना पचमहायज्ञादिना स्वाश्रमधर्मेण इज्याशब्दः पञ्चमहायज्ञपरः, आदिशब्दो विवेकविमोकादीनामपि संग्राहकः, चशब्द आत्मयाथात्म्यज्ञानयोगसमुच्चायकः । इत्यादि- कमाश्रमधर्मं विशिनष्टि । भगवति ब्रह्मणि परावरें महापुरुषे सर्वात्मना समर्पित परमार्थ लक्षणेनेति भगवति ब्रह्मणीति भगवद्द्ब्रह्म- शब्दयोरेकविषयत्वमुक्तं, भगवत्त्वं परावरत्वे हेतुः परे ब्रह्मादयोऽवरेऽवमा यस्मात्स परावरः तस्मिन् “यथा क्रतुरस्मिलोके पुरुषो भवति तथेतः प्रेत्य भवति” इति तत्क्रतुन्यायेनोपासितुर्मह । पुरुषत्वापाद्कं भगवदसाधारणमुपास्यं महापुरुषत्वमुक्तं, महापुरुष इति सर्वात्मना सर्वप्रकारेण कारणत्रयेणार्पित समर्पित परमार्थलक्षणं यत्फलस्वरूपं यस्मिंस्तेन अनभिसंहितफलत्वेनेत्यर्थः भगवत्परमार्थाभिलषितोऽर्थः फमिति यावत वक्ष्यते येन सङ्गेनार्पितः परमार्थलक्षणः, सङ्गो यस्येति ममें कर्म न भवतीति तदित्युक्तसङ्गेनेति वार्थः । ब्रह्मविचरणानुसेवयापादितभगवद्भक्तियोगेनेत्यस्य तत्रायमर्थः - अर्पितपरमार्थलक्षणेन ओमित्यात्मानं युञ्जीतेत्युक्तविधात्मसमर्पणरूपशरणागतियोगाङ्गविशिष्टेनेति “तमेव शरणं गच्छ सर्वभावेन भारत ! मामेकं शरणं व्रज” इति भक्त्यङ्गतया शरणागतेः कर्तव्यताभिधानात् ब्रह्मविश्चरणानुसेवया पादितभगवद्भक्तियोगेनेत्यनेन भगवद्भक्तियोगोत्पत्तिः सत्सेवाय- तेत्युक्तं ब्रह्मविश्वरणानुसेवयेत्यनेन “देवमिवाचार्यमुपासीत, आचार्यवान् पुरुषो वेद, तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्” इत्यादि- श्रुतिविहिताचार्य सम्बन्धोऽस्याभिहितः ब्रह्मविदित्यनेनाचार्य लक्षणयुक्त गुरुसमाश्रयणमस्य सूच्यते, स्वधर्मेणेत्यादिना ज्ञानकर्मयोगानु- गृहीतेन न्यायसंयोगाङ्गकेन भक्तियोगेनेत्युक्तं भवति । उक्तविधेन भगवद्भक्तियोगेनाभीक्ष्णशः पुनः पुनः परिभाषिता विशोधितात एव विशुद्धा मतिर्यस्य सः, अत एव उपरतमनात्म्यं देहात्मभ्रमो यस्य स निवृत्तदेहात्मभ्रम इत्यर्थः । आत्मेतरशरीरमनात्मा एवम्भूते झ 1एक. ५ अ. १५ श्लो. १-८] मनेकव्याख्या समलङ्कृतम् ३१९ स्वात्मनि उपलभ्यमानमन्तरात्मतया साक्षात्क्रियमाणं ब्रह्म तदेवात्मा परमात्मा तस्यानुभवो यस्य सः । यद्वा स्वान्तरात्मभूतब्रह्मैव तथोक्तः य आत्मनि तिष्ठन्निति प्रकारेण जीवात्मन्यवस्थितं परमात्मा तस्यानुभव उपलभ्रात्मभ्रमस्वतन्त्रात्मरहित एवं इमां भूमिमजूगुपत् अरक्षत् इत्यर्थः । नमुपलभ्यमानमित्यर्थः । एवम्भूतोऽपि पे ॥ ७ ॥ ७ ॥
- गयस्य माहात्म्य प्रतिपादिकां गाथामवतारयति । तस्येति । हे पाण्डवेय ! पुराविदः पूर्वकालिकवृत्तान्ताभिज्ञाः तस्य गयस्येमां माहात्म्य- सूचिकां गाथामुपगायन्ति ॥ ८ ॥ from क the fagun श्रीमद्विजयध्वजतीर्थकृता पदरतावली यमुह- राजसन्ततौ विशिष्टराजज्ञानं भगवन्माहात्म्यज्ञानोपयोगीत्यतस्तन्ज्ञानायाव शिष्टवंश्याननुक्रामत्यस्मिन्नध्याये वावेति । उहवावेति । चतुर्भिर्निपातैर वैदिकमतस्य वैभाषिकादिचतुर्द्धा भेदः सूच्यते, अवेदो वेदविरुद्धः आगमस्तत्र प्रतिपादितां प्रभावतीत्यादिनामवतीम् ।। १-२ ।। * तस्य देवपादेस्तनयः ॥ ३-५ ॥ हृदयज औरसपुत्रः अभि- रक्षया जगद्रक्षाकारणेन गृहीतसत्वगुणस्य कल्लाया अंशस्य आत्मवत्ता मूर्त्तदेहवत्त्वेन प्रकाशमानं तस्याभिलक्षणेन विग्रहवत्कलांशेन करचरणादिचक्रचिह्नेन सर्वैर्गीयमानत्वाद् गयः ॥ ६ ॥ -* * स्वधर्मेणावनिमजूगुपद्वै इत्यन्वयः । स्वधर्मेणेत्येतत्स्पष्टयति प्रजा- पालनेति । सर्वात्मनेत्यादि च स्वधर्मेणेत्यस्य विशेषणं निर्व्याजेन सर्वसमर्पणाख्यचिह्नेन ब्रह्मविदां चरणनिरन्तरनिषेवया भक्तिसाधनमेतत् परिभावितं वशीकृतमत एव विशुद्धं सत्त्वमन्तःकरणं यस्य स तथा उपरतं निवृत्तमनात्म्यं देहधर्मो यस्मिंस्तथा तस्मिन् स्वात्मनि खहृदये उपलभ्यमानः अपरोक्षीक्रियमाणो ब्रह्मानुभावो यस्य स तथा अपीत्यनेन राज्यपालनं सम्भावितं न भवति । तथापीत्यर्थं द्योतयति, निरभिमान इत्यनेनानुपपत्तिं परिहरति ॥ ७ ॥ * तस्येसां गाथामित्यनेन गीयमानत्वाद्रयेति शब्दार्थ सूचयति पुराविदः पुराणज्ञाः गाथां विषमाक्षरगुरुपादोपेतां तथोदाहरन्ति ॥ ८ ॥ Immor काह श्रीमज्जीवगोखामिकृतः क्रमसन्दर्भः कल्पयिष्यन्ति । अत्रामर्ष एव लुट् न तु भविष्यति । तस्य कलेर्भूतत्वात् । तथा च सूत्रं “अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि " । सवै इति । उपलभ्यमाने ब्रह्मयात्मानुभवोऽप्यजू गुपदित्यन्वयः । तथापि गोपने हेतुः निरभिमान इति ।। १-६ ।। एव सन्निति ।। ७-१२ ॥ कोक Infeel is श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी अथ पञ्चदशे राज्ञो गयस्य महिमोच्यते । यः प्रियव्रतवंश्यानामन्त्योऽस्य विरजस्य च ॥ कलौ तस्य चरितं श्रुत्वा तादृशाचारवन्तोऽस्माकं सुमतिरेव देवता यथा बुद्ध इति बौद्धसम्प्रदायाद्विच्छिद्य कल्प- यिष्यन्ति ।। १–३ ॥ * * अनुसस्मार अनुबभूव प्राप वा ॥ ४ ॥ * * प्रतिहर्ता प्रस्तोता उगातेति त्रयः यज्ञनिपुणाः सूनव आसन् ॥ ५ ॥ ॐ * हृदयजः पुत्रः कला अंशांशः ॥ ६ ॥ * * पालनं विपक्षविमर्द्दनादिना पोषणं वृत्ति- दानादिना अर्पितः सन् परमार्थ लक्षणो भवति यः स्वधर्मस्तेन परि सर्वतो भावेन भाविता भावयुक्तीकृता विशुद्धा मतिर्यस्य सः । उपरतमनात्म्यं देहाद्यहंभावो यस्य सः ॥ ७-८ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः भरतवंश्या नृपाः कीर्त्यन्ते भरतस्यात्मजेति पञ्चदशेन्नाध्यायेन । यं सुमतिम् अवेदसमाम्नातां बुद्ध एवायमवतीर्णः इत्येवं बुद्धरूपां देवतां कल्पयिष्यन्ति ।। १-२ ॥ * * तत्तस्य देवताजितः ॥ ३ ॥ * * आख्याय व्याख्याय तद्- धिकारिभ्यः ॥। ४ ॥ * * प्रतिहर्ता प्रस्तोता उद्गातेति त्रयः । अजनिषातां जातौ ॥ ५ ॥ * * कला अंशः ॥ ६ ॥ ** प्रजापालनादिलक्षणेनेज्या यज्ञस्तदादिना ब्रह्मविश्चरणानुसेवया च विशेषतया सम्पादितभगवद्भक्तियोगेन कथम्भूतेन परं ब्रह्मादयोऽपि अवरे यस्मात्तस्मिन सर्वात्मना अर्पितपरमार्थलक्षणेन निवेदितपरमप्रयोजनरूपेण परिभाविताऽतो विशुद्धा मतिर्यस्य सः अतः आत्मनि मनसि स्वयमेवोपलभ्यमाने ब्रह्मणि अंशिनि आत्मनः अंशस्य स्वस्य अनुभवो यस्य स तथाभूतोऽपि निरभिमानः एव अवनीमजूगुपत् ।। ७-८ ॥ ३२० श्रीमद्भागवतम् [ स्कं. ५ . १५ लो. १८ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनीमा अत्र पञ्चदशेऽध्याये कथितो भरतान्वयः । स्वरूपेण स्थितिस्तेषां ज्ञानमार्गेण वर्णिता ॥ १ ॥ । १ । ।। ।।
उनीथों एवं योगेन स्वरूपस्थितिमष्टभिरध्यायैर्निरूप्येदानीं ज्ञानेन स्वरूपस्थिति निरूपयिष्यन् भरतवंशं प्रपञ्चयति भरतस्येति । भरतस्यात्मजः पुत्रः सुमतिर्नामाभिहितः कथितो यमुहवाव यमेव ऋषभपदवीं जीवन्मुक्तेर्मार्गमनुवर्तमानं श्रुत्वा केचित्पाखण्डिनो वेदाचारविमुखा अनार्या दुर्जनाः पापीयस्या पापाचरणतत्परया स्वमनीषया अवेदसमाम्नातं पाखण्डिकपोल- कल्पितामिष्टदेवतां कलौ कल्पयिष्यन्ति मंस्यते इत्यन्वयः ॥ तस्मात्सुमतेः । वृद्धसेनायां तद्भार्यायाम् ॥ २ ॥ * * अथानन्तरमसुर्यामसुरीनाम्न्यां भार्यायां तत्तनयो देवताजितः पुत्रो जातः । ततो देवद्युम्नात् धेनुमतीसज्ञायां परमेष्ठी सुतो जातः । तस्य परमेष्ठिनः सुवर्चलाया प्रतीहः पुत्र उपजातः ॥ ३ ॥ या प्रतीहो बहुभ्यः आत्मविद्यामाख्याय उपदिश्य स्वयं त्वात्मज्ञानप्रभावेण संशुद्धः निवृत्तसर्वकर्मसंस्कारबन्धनो महापुरुषं पुरुषोत्तमं भगवन्तमनुक्षणं निरन्तरं सस्मार | प्रतिहत स्तोता उगातेति त्रयः इज्याकोविदाः यज्ञादिकर्मनिपुणाः सूनवः आसन् । अजनिषातां जातौ ॥ ४ ॥ हृदयजा पुत्र आसीदिति सर्वत्र सम्बन्धः । विभोस्तद्भार्यायां रतिसञ्ज्ञायां पृथुषेणः आसीत् । द्रुतिपुत्र इति द्रुतिसज्ञायां गयनामा पुनः अजायतेत्यर्थः । स च राजर्षिषु प्रवरः श्रेष्ठ आसीत् । तत्र हेतुमाह- उदारश्रवा इति, यतः पुण्यकीर्तिरासीदित्यर्थः । तत्रापि हेतुमाह-साक्षादिति, यतो जगतो रिरक्षिषया गृहीत सत्त्वं गुणो येन तस्य भगवतो विष्णोः साक्षात्कला अंशावतार इत्यर्थः । अत एव लोकसङ्ग्रहार्थमात्मत्वादिलक्षणेन ज्ञानित्वादिना महापुरुषतां सर्वजन श्रेष्ठता प्राप्तः * * एतदेव तचरि तप्रदर्शनेन स्पष्टयति स वै इति । राज्ञा धर्मों द्विविधः, अभिषिक्तत्वात् प्रजापालनादिरूपः एकः, गृहस्थत्वाच यज्ञानुष्ठानादि- रूपयापरः । स द्विविधोऽपि सर्वात्मना फलाभिसन्धिराहित्येन भगवति समर्पितः परमार्थलक्षणः परमपुरुषार्थसाधको भवति तेन तथा ब्रह्मविदां परमभागवतानां चरणानुसेवया निरन्तरतदुपदेशावधारणेन च सम्पादितो यो भगवद्भक्तियोगस्तेन चाभीक्ष्णशो निरन्तरं परिभाविता संस्कृता अतोऽतिशुद्धा मतिर्यस्य, अत एवोपरतमनात्म्यं देहेन्द्रियाद्यहम्भावो यस्मिंस्तस्मिन्नात्मनि अन्तःकरणे स्वयमेवोपलभ्यमानं यद् ब्रह्म भगवानन्तर्यामी तस्यानुभवो यस्य अत एव निर्गतोऽभिमानो यस्य स तादृशोऽपि लोकसङ्ग्रहाय अवनिमेवाजूगुपत् पालयामासेत्यन्वयः । वा इति सर्वमहाजन प्रसिद्धमेतदिति प्रमाणं दर्शयति । प्रजानां पालनं दुष्टेभ्यो रक्षणम् । पोषण अन्नादिभोग्य सम्पादनेन पुष्टीकरणम् । प्रीणन प्रियवस्तु दानेन सन्तोषजननम् । उपालन मधुरवाक्यादिना हर्षोत्पादनम् । अनादिर्भोग्यसम्पादनेन । । अनुशासन शिक्षया सन्मार्गे प्रवर्त्तनम् । औपचारिकभगवत्ववारणायाह- किभगवत्त्ववारणायाह-महापुरुष इति, पुरुषोत्तम इत्यर्थः । तल्लक्षणमाह– परावर इति परे उत्कृष्टा ब्रह्मादयः अवरे अपकृष्टा यस्मात्तस्मिन्नित्यर्थः । तत्र हेतुमाह-ब्रह्मणीति, व्यापके इत्यर्थः ॥ ६ ॥ या वैशब्देन गयमाहात्म्यस्य सर्वजनप्रसिद्धिः सूचिता, तां दर्शयति-तस्येति । यथा भगवदनुगृहीतानां पाण्डवानां यशो लोका . गायन्ति सूचयन् सम्बोधयति - हे पाण्डवेय तस्य गयस्येमां गाथां माहात्म्योपबृंहितां कथं पुराविदः सज्जना उपगायन्ति गानमेव दर्श- यति । गयमिति पञ्चभिः यज्वा यज्ञाद्यनुष्ठाता । अभिमानी सर्वतः सम्मानास्पदीभूतः अत्यहङ्कारी वा । बहुवित् अनेकशास्त्रमत- ज्ञाता । धर्मगोप्ता प्रजापालनानुशासनादिना सर्वरक्षकः । समागता सम्प्राप्ता श्रीर्येन स तथा । सता सदसः सभायाः पतिः सतां सेवकः । एवं सर्वगुणसम्पन्नोऽपि भगवत्कलामृते भगवदवतारं विनाऽन्यो गयं नृपं कर्मभिः कः प्रतियाति सदृशो भवितुमर्हति ? न कोपीत्यन्वयः ॥ ७ ॥ * सत्याः यथार्था आशिषो यासां ताः यतः सतीः सत्यः पतिव्रताः दक्षकन्याः श्रद्धामैत्रीदद्याद्याः यं गयं सरिद्भिः सत्सरिब्जलैरभ्यषिञ्चन् । यस्य प्रजापालनानुशासनादिगुण एव वत्सस्तेन स्नुतमूधो यस्या गोरूपायाः सा घरा पृथिवी यस्य निराशिषो निष्कामस्यापि प्रजानामाशिषः सर्वान् कामान् दुदुहे प्रपूरयामास । तं गये कः प्रतियातीति सर्वत्र यच्छन्दानां पूर्वेणैव सम्बन्धः ॥ ८ ॥ 1 श्रीभगवत्प्रसादाचार्यविरचिता भक्कमनोरञ्जनी अध्यायैर्भरतस्योक्तमष्टभिस्त्वेवमीहितम् । कीर्त्त्यन्ते वंशजास्तस्य भूपाः पञ्चदशे ततः ॥ १ ॥ Budhi sms NIA F भरतस्येति । भरतस्य सुमतिः नाम आत्मजः अभिहितः व्याहृतः । ऋषभपदव योगचर्या रूपमृषभदेवमार्ग, अनुवर्त्तमानं सुमति अवलोक्येति शेषः । केचित् पाखण्डिनः अनार्याः उ ह वा व निश्चयेनैवेत्यर्थः । यद्वा चतुर्भिर्निपातैरवैदिकमतस्य वैभाषिकादिचतुर्थी भेदा सूचितः । कलौ पापीयस्या पापरूपया स्वमनीषया निजबुद्धया अवेदसमानातामवेदोक्तां देवतां बुद्ध- देवतामित्यर्थः । कल्पयिष्यन्ति । बुद्ध एवार्य साक्षात्सुमतिरूपेणावतीर्ण इति स्वकुमनीषया मंस्यन्ते इत्यर्थः ॥ १ ॥ तस्मादिति । तस्मात् सुमतेः सकाशात्, वृद्धसेनायां भार्याय देवताजित नाम पुत्रः अभवत् । अथ आसुर्यायां आसुर्यासंज्ञायां । देवताजिद्भार्यायां तत्तनयो देवताजित्पुत्रः देवशुनः देवयुम्नसंज्ञः अभवत् । ततो देवयुन्नात् धेनुमत्यां परमेष्ठी परमेष्ठिनामा सुतः अभवत् । तस्य परमेष्ठिनः सुवर्चलायां सुवर्चला संज्ञायां भार्यायां प्रतीहः प्रतीहाख्यः पुत्रः उपजातः । यः प्रतीहः आत्मविद्यां $3 स्कं. ५ अ. १५ श्लो. १-८] अनेकव्याख्यासमलङ्कृत ३२१ आख्याय बहुभ्यः समुपदिश्य स्वयं संशुद्धः व्याख्यानेनैव संशुद्धतां प्राप्तो निर्मलान्तःकरण इति यावत् । एवंभूतः सन्, महापुरुषं परमपुरुषम् अनुसस्मार समुपासितवान् । अनुस्मृतिरत्र प्रत्यक्षतापत्रमुपासनं विवक्षितम् ॥ २ ॥ * * प्रतीहादिति । प्रतीहात्प्रतीहनृपतेः सकाशात्, सुवर्चलायां सुवर्चलासंज्ञाङ्गनायां, केचित्त्वत्र सुबालायामिति पठन्ति । प्रतिहर्त्ता आदिर्येषां ते, प्रतिहर्त्ता प्रस्तोता उड़ाता इतिनामानः । सूनवस्त्रयोऽपि पुत्राः, इज्याकोविदा यज्ञनिपुणाः आसन् । तत्र प्रतिहर्तुः स्तुत्यां भार्यायां अजश्च भूमा च तौ अजो भूमा चेति द्वौ पुत्रौ । अजनिषातामुदभूताम्। भूम्नः अजस्यानुजाद् भूमनाम्रो नृपतेः, ऋषिकुल्यायां ऋषिकुल्यासंज्ञायां भार्यायां उद्गीथ उद्गीथनामा सुतः आसीत् । तत उद्गीथात् देवकुल्यासंज्ञायां भार्यायां प्रस्तावः प्रस्तावनामा पुत्रः आसीत् । केचित्त्वत्र प्रस्तारः इति पठन्ति । प्रस्तावात् नियुत्सायां नियुत्सासंज्ञायां भार्यायां केचित्तु नियुत्सायामित्यत्र विप्रकुल्यायामिति पठन्ति । अपरे विरुरुत्सायामिति च पठन्ति । विभुर्विभुनामा, हृदयजः पुत्रः आसीत् । विभोः रत्यां रतिसंज्ञायां भार्यायां पृथुषेणः पृथुषेणाख्यः पुत्रः, जज्ञे । तस्मात्पृथुषेणात् आकूत्यामाकृतिसंज्ञायां भार्यायां नक्तः नक्तनामा नृपतिः जज्ञे । नक्तात् द्रुतिपुत्रः द्रुतिसंज्ञायां पत्न्यां जातः । केचित्वत्र कृतिपुत्र इति पठन्ति । अपरे ऋतिपुत्र इत्यपि पठन्ति । उदारश्रवा महाकीर्त्तिः, जगद्रिरक्षिषया जगतो रक्षितुमिच्छया, गृहीतसत्त्वस्य उपात्तशुद्धसत्त्वमूर्त्तेः, भगवतः विष्णोः, साक्षात् कला अंशभूतः, आत्मवत्त्वं प्रशस्तमनस्कत्वमादिर्यस्य तब तलक्षणं गुणञ्च तेन, महापुरुषत्वं महापुरुषभावं प्राप्तः । गयो गयनामा राजर्षिप्रवरः, अजायत आसीदित्यर्थः ॥ ३ ॥ * * महापुरुषत्वमेवाह स वै इति । स वै स एव गयः, प्रजानां पालनं खण्डमण्डलवर्तिभूपादिभ्यः परित्राणं च पोषणमन्नपानादिना संपोषणं च प्रीणनमर्थित प्रदानेन प्रीणनविधानं च लालनं सुतवत्संश्लाघनं च अनुशासनं दुर्मार्गान्निवारणं च तल्लक्षणेन स्वधर्मेण स्ववर्णधर्मेण, इन्यादिना पञ्चमहायज्ञादिना स्वधर्मेण स्वाश्रमधर्मेण चेत्येवं द्विविधेन धर्मेण, आदिशब्दो विवेकविमोकादीनामुपसंग्राहकः । चशब्द आत्मयाथात्म्यज्ञानयोगसमुञ्चायकः । परे ब्रह्मादयोऽवरा यस्मात्त- स्मिन्, ब्रह्मणि ब्रह्मस्वरूपे, महापुरुषे भगवति, सर्वात्मना कायवाङ्मनोभिरित्येवं सर्वप्रकारेण, अर्पितपरमार्थलक्षणेन संपादिता- त्मनिवेदनत्वेन । अनभिसंहितफलेनेति वा । ब्रह्मविदां या चरणानुसेवा तया आपादितः संपादितो यो भगवद्भक्तियोगस्तेन, च अभीक्ष्णशः पुनः पुनः परिभाविता विशोधिता अत एव विशुद्धा मतिर्यस्य सः, अत एव उपरतमनात्म्यं देहात्मभ्रमो यस्य सः । निवृत्तदेहात्मभ्रम इत्यर्थः । आत्मनि स्वात्मनि, स्वयं स्वत एवं उपलभ्यमानमन्तरात्मतया साक्षात्क्रियमाणं यद् ब्रह्म तदेवात्मा परमात्मा तस्यानुभवो यस्य सः । एवंभूतः सन्नपि, निरभिमान एव देवात्म भ्रमस्वतन्वात्म भ्रमाभ्यां रहित इत्यर्थः । अवनिमिमां भूमि, अजूगपदरक्षत् ॥ ४ ॥ * * तस्येति । हे पाण्डवेय, पुराविदः पूर्वकालिकवृत्तान्ताभिज्ञाः, तस्य गयस्य, इमां माहात्म्यसूचिकां गाथां, उपगायन्ति । गाथामेवाह पञ्चभिः गयमिति । यन्वा यावत् श्रुतिविहितयज्ञानुष्ठाता, अभिमानी सर्वगुणजन्यमानास्पदीभूतः ॥ बहुविद्बहुज्ञः, धर्मगोप्ता वर्णाश्रमधर्माणां संरक्षकः समागता संप्राप्ता श्रीः संपद्येन सः, सदसः सभायाः पतिः सतां भगवदेकान्तिकसाधूनां, सत्सेवकः सत्यसेवाकर्त्ता, एवंभूतः गयः नृपः अभूत् । तं गयं नृपं, भगवत्कलामृते भगवतोंऽशावतारं विना, कर्मभिः अन्यः कः प्रतियाति अनुकरोति । तत्सजातीयकर्मभिः भगवत्कलां विना कोऽपि पुमान् यज्वादि- विशेषणविशिष्टं गये नृपमनुकर्तुं न शक्नोतीत्यर्थः ॥ ५ ॥ यमिति । सतीः सत्यः सत्या आशिषो यासां ताः, दक्षकन्याः श्रद्धा मैत्रीदयाकीर्त्तिश्रीस्मृतिमेधाधृतितितिक्षाक्षमाद्याः । सरिद्भिः नदीजलैः स्वरुग्भिरिति पाठे खतेजोभिः, यं गयं परया मुदा, अभ्यषिश्चन् । निराशिषः निष्कामस्य, यस्य गयस्य, प्रजानां आशिषः कामान्, तस्य गुणा एव वत्सस्तेन स्नुतमूधो यस्याः सा, धरा कामधुनही दुदुहे । यच्छन्दानां तं गयं कः प्रतियातीति संबन्धः ॥ ६ ॥ * * छन्दांसीति छन्दांसि वेदाः तद्विहितकर्माणि च, न्व, अकामस्य यस्य कामान् दुदुहुः । अथो नृपाः, युधि युद्धे, प्रत्यश्चिताः बाणैः प्रतिपूजिताः सन्तः, यस्य बलि करं, आजहुरर्पयामासुः । तथा धर्मेण धर्मपरिपालनेन, पुष्कलदक्षिणा प्रदानधर्मेण वा । यदा विप्राः प्रत्यश्चिताः, तदा ते परेत्य लोकान्तरे, आशिषां धर्मफलानां, षष्ठं अंशम्, आजहुः । ‘पुण्यात् षड्भागमादन्ते राजा न्यायेन पालयन्’ इति स्मृतेः ॥ ७ ॥ * यस्येति । यस्य गयस्य उरुसोमपीथे बहुसोमपाने, अध्वरे यज्ञे, गयकर्तृके यज्ञे इत्यर्थः । मघोनि इन्द्रे, माद्यति मदं प्राप्नुवति सति, अध्वरात्मा भगवान्, श्रद्धया विशुद्धः निष्कपटः यः अचलः अन्तरायानुपहतः भक्तियोगः तेन समर्पितं प्रदत्तं इज्याफलं, आजहार । भक्तियोगापादितं प्रीतिरूपमिज्याफलमर्हणमिव प्रत्यक्षतः स्वीकृतवानित्यर्थः ॥ ८ ॥ fore we भाषानुवादः ि PR 199 aurier भरतवंशका वर्णन श्रीशुकदेवजी कहते हैं—राजन् ! भरतजीका पुत्र सुमति था, यह पहले कहा जा चुका है। उसने ऋषभदेवजीके मार्गका अनुसरण किया । इसीलिए कलियुगमें बहुतसे पाखण्डी अनार्य पुरुष अपनी दुष्ट बुद्धिसे वेदविरुद्ध कल्पना करके उसे देवता 26 मानेंगे ॥ १ ॥ उसकी पत्नी वृद्धसेनासे देवताजित नामक पुत्र हुआ ॥ २ ॥ * * देवता जितके असुरीके गर्भसे देवद्युन्न, देवनके धेनुमतीसे परमेष्ठी और उसके सुवर्चला के गर्भ से प्रतीह नामक पुत्र हुआ ॥ ३ ॥ ४१ इसने अन्य ३२२ श्रीमद्भागवतम् ९-१६ [ स्कं ५ अ. पुरुषोंको आत्मविद्याका उपदेश कर स्वयं शुद्धचित्त होकर परमपुरुष श्रीनारायणका साक्षात् अनुभव किया था ॥ ४ ॥ प्रतीहकी भार्या सुवर्चला के गर्भ से प्रतिहर्ता, प्रस्तोता और उड़ाता नामके तीन पुत्र हुए। ये यज्ञादि कमोंमें बहुत निपुण थे। इनमें प्रतिहर्ताकी भार्या स्तुति थी। उसके गर्भ से अज और भूमा नामके दो पुत्र हुए ॥ ५ ॥ * * ** भूमाके ऋषिकुल्यासे उद्रीय, उसके देवकु ल्यासे प्रस्ताव और प्रस्तावके नियुत्साके गर्भसे विभु नामका पुत्र हुआ। विभुके रतिके उदरसे पृथुषेण, पृथुषेणके आकूतिसे नक्त और नक्तके द्रुतिके गर्भसे उदारकीर्ति राजर्विप्रवर गयका जन्म हुआ। ये जगत्की रक्षाके लिये सत्वगुणको स्वीकार करनेवाले साक्षात् भगवान् विष्णुके अंश माने जाते थे। संयमादि अनेकों गुणोंके कारण इनकी महापुरुषों में गणना की जाती है ।। ६ ।। * * महाराज गयने प्रजाका पालन, पोषण, रञ्जन, लाड़-चाव और शासनादि करके तथा तरह-तरह के यज्ञोंका अनुष्ठान करके निष्काम भाव से केवल भगवत्प्रीतिके लिये अपने धर्मों का आचरण किया। इससे उनके सभी कर्म सर्वश्रेष्ठ परमपुरुष परमात्मा श्रीहरिके अर्पित होकर परमार्थरूप बन गये थे। इससे तथा ब्रह्मवेत्ता महापुरुषोंके चरणोंकी सेवासे उन्हें भक्ति योगकी प्राप्ति हुई । तब निरन्तर भगवञ्चिन्तन करके उन्होंने अपना चित्त शुद्ध किया और देहादि अनात्म वस्तुओंसे अहंभाव हटाकर वे अपने आत्माको ब्रह्मरूप अनुभव करने लगे। यह सब होनेपर भी वे निरभिमान होकर पृथ्वीका पालन करते रहे ॥ ७ ॥ परीक्षित् ! प्राचीन इतिहासको जाननेवाले महात्माओंने राजर्षि गयके विषय में यह गाथा कहीं है ॥ ८ ॥ Peehar गयं नृपः । काम ह प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता LIPPER Fis समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ॥ यमभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः १ 8) f. joi Propose mi यस्य प्रजानां दुदुहे धराऽऽशिषो निराशिषो गुणवत्सस्नुतोधाः ॥ २० ॥ छन्दांस्य कामस्य च यस्य कामान् दुदुहुराजहुरथो बलिं नृपाः प्रत्यश्चिता युधि धर्मेण विप्रा यदाशिष पष्ठमंशं परेत्य ॥ ११ ॥ यस्याध्वरे भगवानध्वरात्मा मधानि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोगसम पितेज्याफलमाजहार ।। १२ । यत्प्रीणना द्वर्हिषि SPESE TEATER देव तिर्यङ्मनुष्यवीरुत्तणमाविरिवात् । U प्रीयेत सद्यः स विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्द्वयस्य ॥ १३ ॥ कि FI गायन्त्यां चित्ररथः सुगतिस्वरोधन इति त्रयः पुत्रा बभूवुचित्ररथादर्णायां सम्राइजनिष्ट ॥ १४ ॥ ततः उत्कलाया मरीचिर्मरीचेर्विन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरवतस्ततो भोजायां मन्धुप्रमन्धू जज्ञाते मन्थोः सत्यायाँ भौवनस्ततो दुषणाय त्वष्टाजनिष्ट स्वष्टुर्विरोचनायां चिरजी विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् || १५ || तत्रायं श्लोक:- ॥ FF Frog Fmpie FF IRE F एक शाम । ne prite ijnaarine iridihe fars प्रयत्रतं वंशमिमं विरजथरमोद्भवः । अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ॥ १६ ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तन नाम पश्ञ्चदशोऽध्यायः ॥ १५ ॥
अन्वयः - यज्वा अभिमानी बहुवित् धर्मगोप्ता समागतश्रीः सताम् सदसः पतिः सत्सेवकः कः अन्यः नृपः भगवत्कलाम् ऋते गयम् कर्मभिः प्रतियाति ॥ ९ ॥ सतीः सत्याशिषः दक्षकन्याः परया मुदा यम् सरिद्भिः अभ्यषिंचन् निराशिषः यस्य गुणवत्सस्नुतोधाः धरा प्रजानाम् आशिष दुदुहे ॥ १० ॥ * * छंदांसि च अकामस्य यस्य कामान् दुदुहुः अथो युधि प्रत्यंचिताः नृपाः बलिम् आजहुः धर्मेण विप्राः परेत्य यत् आशिषाम् षष्ठम् अंशम् ॥ ११ ॥ यस्य उरुसोमपीथे अध्वरे मघोनि माद्यति अध्वरात्मा भगवान् श्रद्धाविशुद्धाचलभक्तियोगसमर्पिते ज्याफलम् आजहार ॥ १२ ॥ ४ Flp the pop Fire So Fog se page १. प्रा० पा०–यथेप्सिता । २. प्रा० पा००४० समर्थितेा० ॥ ॐ ॐ० प्रा० पा० - यत्प्रीणनं बर्हिषि । ४. । FEES । । ५० प्रा० पा० - सुमनसा । ६. प्रा० पा०रियां । ७. प्र० प्रा० वंशानुचरितं । ।। ५.अ., १५ लो. ११६] अगात् ।। १३ ।। अजनिष्ट ॥ १४ ॥ अनेकव्याख्यासमलङ्कृतम् ३२३ यत्प्रीणनात् आविरिक्षात देवतिर्यखानुष्यवीरुत्तृणम्, सद्यः प्रीयेत सः स्वयम् प्रीतः विश्वजीवः यस्य बर्हिषि ह प्रीतिम् मयात् गयन्त्याम् चित्ररथः सुगतिः अवरोधनः इति त्रयः पुत्राः बभूवुः चित्ररथात् ऊर्णायाम सम्राट ततः उत्कलायाम् महीचिः मरीचेः बिंदुमत्याम् विदुमान् उदपद्यत तस्मात् सरघायाम् मधुनामा अभवत् मधोः सुमनसि वीरव्रतः ततः भोजायाम् मंधुप्रमंधू जज्ञाते मंथोः सत्यायाम् भौवनः ततः दूषणायाम् त्वष्टा अजनिष्ट त्वष्टुः विरोचनायाम् विरजः। विरजस्य विषूच्याम् शतजित्प्रवरम् पुत्रशतम् कन्या च किल जातम् ॥ १५ ॥ श्लोकः चरमोद्भवः विरजः इमम् प्रयत्रतम् वंशम् कीर्त्या यथा विष्णुः सुरगणम् अति अलम् अकरोत् ॥ १६ ॥ I ॥ छ PE इति पञ्चदशोऽध्यायः ॥ १५ ॥ fish * * ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका
- तत्र अयम् E & DEE TOU की ii प indian b कर्मभिर्गयं कः प्रतियात्यनुकरोति न कोपि । अत्र हेतुः । यज्वादिरूपो भगवत्कला गयमृतेऽन्यः क इत्यनुषंगः । अभिमानी सर्वतो मानास्पदं मनस्वीति वा । समागता संप्राप्ता श्रीर्येन यमिति वा । सतां सदसः सभायाः पतिः । सतां सेवकः । यद्वा यज्वादिरूपोऽपि भगवत्कलामृते गयं कोऽन्यः प्रतियातीत्यन्वयः ॥ ९ ॥ * * सतीः सत्यः सत्या आशिषो यासां ताः दक्षकन्याः श्रद्धामैत्रीदयेत्याद्याः । निराशिषोऽपि यस्य प्रजानामाशिषः कामान् धरा दुदुहे । तस्य गुणा एव वत्सस्तेन स्नुतमूघो यस्याः पृथिव्याः। यच्छब्दानां तं गयं कः प्रतियातीति सम्बन्धः ॥ १० ॥ * * छन्दांसि वेदास्तद्विहितकर्माणि च अस्याः दुदुहुदुदुहुः । युधि प्रत्यंचिता बाणैः प्रतिपूजिता नृपा यस्य । बलिमाजहुरर्पयामासुः । धर्मेण पालनेन दक्षिणादिभिश्च यदा प्रत्यंचिता विप्रास्तदा परेत्य लोकांतरे आशिषां धर्मफलानां षष्ठमंशमाजहः । “पुण्यषडभागमादत्ते न्यायेन परिपालयन्” इति स्मृतेः ॥ ११ ॥ * * उरुसोमपीथे बहुसोमपानेऽध्वरे मघोनि इंद्रे माद्यति मदं प्राप्नुवति सति श्रद्धया विशुद्धो योऽचलो भक्तियोगस्तेन समर्पितमिज्या फलमाजहार । अर्हणमिव प्रत्यक्षतः स्वीकृतवानित्यर्थः ॥ १२ ॥ प्रीणनात् । देवादीनां द्वंद्वेक्यम् । तत्सद्यः प्रीयेत प्रीतिं गच्छेत् । स विश्वजीवः सर्वांतर्यामी स्वयं प्रीतरूप एवं बर्हिषि यज्ञे गयस्य स्फुटं प्रीतिमा तृप्तोऽस्मीति प्रत्यक्षं प्रीतिमाविष्कृतवानित्यर्थः ।। १३-१४ ॥ * सुमनसि स्त्रियाम् ।। १५ ।। कीर्त्या अतिशयेनालमकरोद् भूषितवान् ॥ १६ ॥ इति श्रीमद्भागवते पञ्चमे टीकायां पञ्चदशोऽध्यायः ॥ १५ ॥ श्रीधरकृतो भावार्थदीपिकाप्रकाशः
- यस्य भगवतः अत्राननुकरणे 1 अनुषगोऽन्वयः ॥ प्रसिद्धार्थमाह-मनखी वेति । यत्नवान्सर्व एव : श्रियं प्राप्नोति उद्यमेन यथा क्ष्मी’ इत्युara at विशेषोऽत आह-यमिति । वेति । यन्यादिरूपामित्येवंरूपं व्याख्यानं न शब्दबोधितमपि तु नेयमेव इत्युक्तरत्र प्रथमांतद्वितीयातयोरन्योन्यविशेष्यविशेषणभावेनान्वयस्यानुपलब्धेरत आह-यद्वेति ॥ ९ ॥ शयः ।। १० ।। वल्क्योक्तः !! FR ऊधो दुग्धा- दुदुहुरिह दीर्घ आर्षः । षष्ठे भागः बडभाग इति तद्वितनिवृत्तिरप्याध्येव । स्मृतेर्याज्ञ- यस्य यस्य । अध्वरात्मा यज्ञमूर्त्तिर्विष्णुः । इत्यर्थ इति । न हि परोक्षतया ब्रह्मार्पणम्’ इति न्यायेन भगवति यज्ञफल तेनार्पितं किंतु तद्भक्तिपरवशः संकल्पित वस्तु ब्राह्मण इव साक्षान्तद्धस्ततो स्वहस्तेनैव स्वीचकारेति इत्यर्थ इति । तद्यशो लोके ख्यापवितुं स्वयं भगवांस्तरमा अहो ते यज्ञो यत्र मेऽतीव तृप्तिर्जातेत्याहेति भावः ।। १२ ।। भावः ।। १३-१४ ॥ 1 ततः सम्राजः। तस्मात् बिन्दुमतः । ततो वीरव्रतात् । ततो भौवनात् ॥ १५ ॥ विरजमाहात्म्यबोधक प्राचां श्लोकमाह तत्रायमिति । तत्र विरजविषये वक्ष्यमाणः । इमं कथितम् । चरमाणां शतजिदादी- नामुद्भवो यस्मात्स तथा ॥ १६ ॥ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥ safesen । Pinterpret श्रीमद्वीरराघवव्याख्या श्री गाथामेवाह गयमिति पञ्चभिः । गयं नृपं कः पुमान् कर्मभिः प्रतियाति तत्सजातीयकर्मभिः कोऽपि पुमान्नानुकन्तु शक्नोतीत्यर्थः । तत्कृतं कर्म पुनरन्यः कर्तुं न प्रभवतीति यावत् । तत्र हेतुं वदन्मतियानाशक्य धर्मवत्तामाह । यज्वा यावच्छ्रुतिविहित- यज्ञानुष्ठाता अभितो मानी सन् मानास्पदः बहुज्ञः वर्णाश्रमधर्माणां गोप्ता समागता, सम्प्राप्ता श्रीः सम्पद्येन यस्मिन्निति वा सप्तमी सदसः सभायाः पतिः सततं सेवकधान्यो भगवत्कला गयमृते व विना यज्वादिगुणाश्रयः कोऽपि नास्तीत्यर्थः । यद्वा । यज्वत्वादि- श्रीमद्भागवतम् ** ३२४ [ एक. ५ अ. १५ श्लो. ९-१६ गुणविशिष्टोऽपि भगवत्कलां गयमृते कोऽन्यः प्रतियातीत्यन्वयः । अस्मिन् पक्षे भगवत्कलात्वमेव प्रतियानशक्तो धर्मः ॥ ९ ॥ * सतीः सत्यः सत्या आशिषो यासां ताः दक्षकन्याः श्रद्धामैत्रीदयाकीर्तिश्रीस्मृतिमेधाधृतितितिक्षाक्षमाद्याः सरिद्भिः स्वतेजोभिः यमभ्य- षिञ्चन् श्रेष्ठमकुर्वन् यस्य गयस्य निराशिषः निष्कामस्य प्रजानामाशिषः कामान् धरा दुदुहे । धरा कथम्भूता तस्य गुणा एव वत्सास्तैः स्तुतमूधो यस्याः सा ।। १० ।। * * छन्दांसि च यस्य कामान्दुदुहुः नृपा युधि युद्धे प्रत्यचिताः बाणैः प्रतिपूजिता बलिमाजहूरर्प- यामासुः तथा धर्मेण धर्मपरिपालनेन दक्षिणादिभिश्व प्रत्यश्चिता विप्राः परेत्य लोकान्तरे आशिषां धर्मफलानां षष्ठमंशमाजहुः “ पुण्यात्षड्भागमादत्ते राजा न्यायेन पालयन्” इति स्मृतेः ।। ११ * * यस्य गयस्याध्वरे यज्ञे गयकर्तृके यज्ञ इत्यर्थः । मघोनीन्द्रे उरुः सोमपीथः यस्य तस्मिन् बहुसोमपानेऽत एव माद्यति मदं प्राप्नुवति सति उरुसोमपीथे इत्यध्वरस्य विशेषणं वा अध्वरात्मा यज्ञशरीरकः स भगवान् श्रद्धया विशुद्धो निष्कपटो योऽचलोऽन्तरायानुपहतो भक्तियोगस्तेन समर्पितमिज्या फलमाज- हार भक्तियोगोपपादितं प्रतिरूपमिज्याफलमर्हणमिव प्रत्यक्षतः स्वीकृतवानित्यर्थः ॥ १२ ॥ तदेव प्रपञ्चयति । बर्हिषि यज्ञे यत्प्रीणनाद्यस्य भगवतः प्रीणनादाचतुर्मुखं देवादि सद्यः प्रीयेत प्रीतं भवेत्-देवादीनां द्वन्द्वैक्यं कुतः हि यस्मात्स विश्वजीवः विश्वं जीवयतीति विश्वजीवः विश्वस्य प्राणभूतः एवम्भूतो भगवान् स्वयं प्रीतः निरतिशयप्रीतिविशिष्टः गयस्य प्रीतिमगात्प्राप्तः गयस्य प्रीतिविषयोऽभूदित्यर्थः । अदादिति पाठे स्वयं गयविषयकनिरतिशयप्रीतियुक्तो भगवान् तस्यापि स्वविषयां प्रीतिं प्रीयात्मिकां बुद्धि- मदादित्यर्थः “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः, ददामि बुद्धियोगं तं येन मामुपयान्ति ते, अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः” इत्यादिवचनजातार्थोऽत्रानुसन्धेयः ।। १३ ॥ * * एवं गयस्य महापुरुषतामुपपाद्य प्रस्तुतां सन्ततिमाह गयादिति । गयाज्जयन्त्यां भार्यायां चित्ररथादयः त्रयः पुत्रा बभूवुस्तेषां मध्ये चित्ररथादूर्जायां मार्यायां सम्राडाख्यः पुत्रोऽजनिष्ट उत्पन्नस्ततः सम्राजः उत्कलायां भार्यायां मरीचिः मरीचेर्बिन्दुमत्यां बिन्दुमान्पुत्र उत्पन्नः तस्माद्विन्दुमतः सुषेणायां भार्यायां मधुर्नामात्मजोऽभवत् मधोः सुमनसि भायार्यां त्वष्टा नाम पुत्रो जातः ततस्त्वष्टु विरोचनायां भार्यायां विरजोऽजायत जातः । विरजस्य विरजाद्विषूच्यां भार्यायां शतजित्प्रवरो मुख्यो यस्य तत्पुत्राणां शतं जातं कन्या च जाता । किलेति प्रसिद्धौ ॥। १४-१५ ।। * * प्रियव्रतसन्तानमुपसंहरति तत्रेति । तत्र प्रियव्रतसन्तानविषयेऽयं श्लोकः पठ्यते इति शेषः । चरमोद्भवः चरमस्य पुत्रशतस्य शतजिदादेः उद्भवः उद्भवत्यस्मादित्युद्भवः जनको विरजः इममुक्त प्रयत्रतं वंशं कीर्त्याऽलमकरोदलङ्कृतवान् यथा विष्णुरुपेन्द्रः सुरगणमिन्द्रादिदेवतावर्गमिति ।। १६ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकार्यां पञ्चदशोऽध्यायः ।। १५ ।। " श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली 8 गयमित्यादिना अन्यः कः कर्मभिः गयं नृपं प्रतियाति प्रतिनिधिर्भवति कीदृशः यज्वेत्यादिगुणकर्मवान् सतां सदसस्पतिः कोऽपि वास्तीति नेत्याह भगवत्कलामिति । भगवतां ज्ञानभक्त्या भाग्यवतां कर्मदेवानां कलामङ्गमेकमन्तरेण । तदुक्तम् “प्रियत्रतो मयश्चैव कर्मदेवसमौ गुणैः” इति ॥ ९ ॥ * ॐ सतीः सत्यः दक्षकन्याः कीर्तिः श्रीर्वाक् स्मृतिर्मेधा धृतिः क्षमेत्याद्याः स्वयं- गुणवत्त्वेन स्तुतमूधो यस्याः सा तथा सा धरा गयस्य राज्ञः सतीनां प्रजानां यथेप्सिताः आशिषो दुदुहे । वा इत्यनेन सकलजगद्वशी- करणशक्तिसमुद्रश्रीपुरुषोत्तममन्त्रसिद्धो गय इति सूच्यते ॥ १० ॥ * वेदा अपि तदुक्तफलानिच्छत्वेऽपि सर्वाभीष्टान् दुदुहुरित्याह छन्दांसीति । नृपान्विशिनष्टि प्रत्याहृता इति युद्धे पराजिता इत्यर्थः । विप्रा धर्मे प्रत्याहृता धर्माभिमुखीकृताः अजाश्व यस्याशिषो धनलक्षणाः षष्ठमंशमाजहुरित्यन्वयः । अनुष्ठितपुण्यलक्षणाशिषो वा ॥ १० ॥ ॐ उरुसोमपीथे बहुसोम- ।। ।। पानेऽध्वरस्य सारमादत्ते कर्तृभ्यः फलं ददाति चेत्यध्वरात्मा मघोनि देवेन्द्र माद्यति मदं गच्छति सति श्रद्धया विशुद्धो योऽचलो भक्तियोगस्तेन समर्पित मिज्या फलं यागादिपूजालक्षणकर्मफलमा जहार ददौ ॥ १२ ॥ * ४ यस्य हरेः प्रीणनाज्जगत्प्रीयेत प्रीतं स्यात् स्वयं स्वतः प्रीतः ।। १३-१४ ॥ * * शतजिन्नामपुत्रः प्रवरो ज्येष्ठो यस्मात्तच्छतजित्प्रवरम् ।। १५ ।। * अत्यलमतीवालमकरोत् ॥ १६ ॥ Prem इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्यां पञ्चदशोऽध्यायः ॥ १५ ॥ Tite श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः विश्वजीवः सर्वजीवनहेतुः । स्वयं प्रीतः सुखरूपोऽपि ।। १३-१६ ।। महानगरी प इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमजीवगोखामिकृतक्रमसन्दर्भस्य पञ्चदशोऽध्यायः ॥ १५ ॥ स्क. ५ अ. १५ श्लो. ९-१६ ] । अनेकव्याख्यासमलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी मती सत्य:Russ प्रतियति अनुकरोति । अभिमानी सर्वतो मानास्पदं मनस्वीति वा संतां यत् सदस्तस्य पतिः भगवदंश विना कोऽन्यो यज्वादिरूपोऽपि गयं प्रतियातीत्यन्वयः ॥ ९ ॥ ****** * श्रद्धामैत्रीदद्याद्याः सत्याशिषः श्रद्धामैत्रीदयाद्यास्ते सन्त्विति सत्या आशिषो यासां ताः । निराशिषो निष्कामस्यापि यस्य प्रजानामाशिषो धरा दुदुहे । गुण एव वत्सः तेन स्नुतमृधो यस्याः सा ॥ १० ॥ * * युधि प्रत्यश्चिताः बाणैः प्रतिपूजिता नृपा बलिमाजहुः धर्मेण दक्षिणादिभिः प्रत्यश्चिता विप्रा यद्यस्मै परेत्य लोकान्तरे आशिषां स्वाचरितधर्मफलानां षष्ठमंशमाजहुः । “पुण्यषड्भागमादत्ते न्यायेन परिपालयन्” इति स्मृतेः ।। ११ । उरुसोमपीथे बहुसोमपानेऽध्वरे मघोनि इन्द्रे माद्यति सति आजहार अर्हणमिव : प्रत्यक्षतः स्वीचकार ॥ १२ ॥ * यस्य भगवतः प्रीणनात् देवादिकं प्रीयेत स विश्वजीवैः सहित एव स्वयं प्रीतिरूपः सन् तृप्तोऽस्मीति ॥ प्रीतिमाविश्वकार ।। १३-१६ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमेऽयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥ १५ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः भगवत्कलामृते यव्वादिरूपः कः नृपः गयं प्रतियाति अनुकरोति न कोऽपीत्यर्थः । समागता संप्राप्ता श्रीयं तथाभूतोऽपि सतां सदसः सभायाः पतिः सतां सेवकोऽपि ॥ ९ ॥ * सत्या आशिषो यासां ताः सतीः सत्यः दक्षकन्याः श्रद्धामैत्रीदया- कीर्तिस्मृतिमेधाद्याः सरिद्भिः सह यं मुदा अभ्यषिञ्चन् निराशिषः निष्कामस्यापि यस्य प्रजानामाशिषः कामान् गुणाः गयगुणाः एव वत्सास्तैः स्नुतमूधो यस्याः सा घरा दुदुहे तं कः प्रतियातीति सम्बन्धः ॥ १० ॥ * * यस्याकामस्यापि छन्दांसि वेदाः कामान् दुदुहुः अर्पयामासुः युधि प्रत्यचिताः धर्मयुद्धेन पूजिताः यस्य बलिमाजहुः । विप्राः यदा दानमानैः प्रत्यचिताः तदा परेत्य लोकान्तरे आशिषां स्वपुण्यकर्मफलानां षष्ठमंशमाजहुः “पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन्” इति स्मृतेः । यस्य गयस्य उरुसोम- पीथे बहुसोमपाने अध्वरे यज्ञे मघोनि इन्द्रे माद्यति मदाविष्टे सति अध्वरस्य आत्मा आश्रयः स्वामी “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति श्रीमुखवचनात् श्रद्धया विशुद्धो निर्मलोऽचलो बढो यो भक्तियोगस्तेन समर्पितमिज्याफलमाजहार साक्षादाविर्भूय महतादरेण गृहीतवान् ॥ ११-१२ ॥ * यस्य भगवतः प्रीणनात् प्रसन्नतोत्पादनात् आविरञ्चात् विरचिमभिव्याप्य देवादि सद्यः प्रीयेत प्रसन्नं भवेत् स विश्वजीवः सर्वान्तर्यामी स्वयं प्रीतः स्वभावतः प्रीतिरूप एव बर्हिषि यज्ञे गयस्य ह स्फुटं प्रीतिमगात् प्राप्तः गयं प्रति प्रसन्नोऽभूदित्यर्थः ॥ १३-१४ ॥ * * सुमनसि भार्यायाम् ।। १५ ।। विरजः प्रयव्रतं बंशं कीर्त्त्या अतिशयेनालमकरोद् भूषितवान् विष्णुर्वामनः ॥ १६ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे पञ्चदशाध्यायार्थप्रकाशः ॥ १५ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी Stretc ।।
- यस्य अकामस्य कामनारहितस्यापि कामान् छन्दांसि वेदास्तद्विहितानि कर्माणि च दुदुहुः दुदुहुः । अथो तथा युधि प्रत्य- चिताः बाणैः प्रतिपूजिताः नृपाः बलिमाजहुः धनादिकमर्पयामासुः । तथा धर्मेण प्रजापालनादानादिलक्षणेन यदा विप्रादयः प्रजाः प्रत्यश्चितास्तदा परेत्य लोकान्तरे आशिषां शुभकर्मफलानां षष्ठमंशमाजहः ‘पुण्यषड्भागमादत्ते न्यायेन परिपालयन्’ इति स्मृतेः ॥ ९ ॥ उरुसोमपाने यस्याध्वरे मघोनि इन्द्रे माद्यति मदं प्राप्नुवति सति श्रद्धया विशुद्धोऽचलो भक्तियोगस्तेन समर्पितम् इव्याफलमध्वर । त्मयज्ञमूर्तिर्भवानाजहार प्रत्यक्षतोऽर्हणामिव स्वयं स्वीकृतवानित्यर्थः ॥ १० ॥ * * यत् यस्य भगवतः सर्वात्मनः प्रीणनात् आविरचात् ब्रह्माणमभिव्याप्य देवादिसर्वं सद्यः प्रीयेत प्रीतिं गच्छेत् स विश्वं जीवयतीति विश्वजीवः सर्वांतर्यामी स्वयं प्रीतः परमानन्दनिजरूपलाभेन परिपूर्णकामत्वात् सर्वदा प्रसन्नचित्तोऽपि गयस्य बहिषि यज्ञे प्रीतिमगात्, हे राजंस्तव पूजयाहं तृप्तोस्मि प्रसन्नोऽस्मीत्युक्तवानित्यर्थः । हेति भक्तिमहिम्नः आश्चर्य सूचयति ॥ ११ ॥ * एवं गयमाहात्म्यं प्रदर्श्य तद्वशम- नुक्रामति - गयादिति ॥ १२ ॥ तस्मात् बिंदुमतः । सुमनसि भार्यायाम् । विरजस्य विषूच्यां भार्यायां शतजित् प्रवरो ज्येष्ठो यस्मिन् तादृशं पुत्रशतं जातं एका कन्या च जातेत्यन्वयः । किलेति निश्चयं दर्शयति ॥ १३ ॥ प्रियव्रतवंशे आदिमध्ययोरुत्तमत्वस्य कथितत्वादन्त्यस्य विरजस्याप्युत्तमत्वकथनेन सर्वेषां सन्दशन्यायेनोत्तमत्वं सूचयन् स्वरूपेण स्थितिप्रकरण- मुपसंहरति-तत्रेति । तत्र विरजस्य पुण्यकीत पुराविदां वृद्धानामयं श्लोको वर्तते इत्यर्थः । तमेव श्लोकं दर्शयति प्रयत्रतमिति । चरमोद्भवः प्रियत्रतवंशे अन्ते जातो विरजः स्वकीर्त्या पुण्ययशसा इमं प्रेयत्रतवंशमत्यलमकरोत् अतिशयेन भूषितवानित्यन्वयः । तत्र दृष्टांतमाह - विष्णुरिति । यथा सुरोत्तमो विष्णुः स्वतेजसा विजयसम्पादनात् सुरगणमत्यलं करोति तद्वत् ।। १४-१६।।
- इति
- *
- *
- श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां । पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र ज्ञानेन स्थितिरूपणे । गतः पञ्चदशो वृत्तिं वंशष्ठ्यनिरूपकः ॥ ३ ॥
- ३२६
- agari
- श्रीमद्भागवतम्
- श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी
- [ स्कं. ५ अ. १५ श्लो. ९-१६
- एतदेव प्रपञ्चयति यत्प्रीणनादिति । बर्हिषि यज्ञ, यत्प्रीणनाद्यस्य भगवतः प्रीणनात्, देवाश्च तिर्यश्च मनुष्याश्च वीरुधच तृणानि चेति द्वन्द्वैक्यम् । आविरिचात् ब्रह्माणमभिव्याप्य, सर्वं जगदिति शेषः । सद्यस्तत्क्षणमेव, प्रीयेत प्रियं भवेत् । स उक्तविधः, विश्वजीवः सर्वान्तर्यामी, प्रीतः निरतिशयप्रीतिविषयः, भगवान् यस्य गयस्य, यज्ञे इति शेषः । स्वयमेव ह स्फुटमेव । प्रीतिं अगात् । तृप्तोऽस्मीति स्वयं प्रत्यक्ष प्रीतिमाविष्कृतवानित्यर्थः ।। ९ ।। * * एवं गयस्य महापुरुषतामुपपाद्य प्रसङ्गप्राप्तां तत्संततिमाह गयादिति । गयात् गयन्त्यां गयन्तीसंज्ञायां भार्यायां कचित्तु जयन्त्यामित्यपि पाठस्तत्पक्षे जयन्तीसंज्ञाङ्गनाया- मित्यर्थः । चित्ररथः, सुगतिः, अवरोधनः, इत्येते त्रयः पुत्राः बभूवुः । तेषां मध्ये, ज्येष्ठात् चित्ररथात्, ऊर्णायां ऊर्णासंज्ञायां भार्यायां सम्राट् सम्राट्संज्ञः पुत्रः, अजनिष्ट उत्पन्नः । ततः सम्राजः सकाशात्, उत्कलायामेतत्संज्ञायां पल्ल्यां, मरीचिर्मरीचिनामा पुत्रः अजनिष्ट | मरीचेः बिन्दुमत्यां बिन्दुमतीसंज्ञाङ्गनायां, बिन्दुमानेतन्नामा पुत्रः उदपद्यत उत्पन्नोऽभूत् । तस्मात् बिन्दुमतः सकाशात्, सुषेणायां सुषेणाख्यायां पत्न्यां, अत्र क्वचित्सरघायामिति पाठस्तत्रैतत्संज्ञायामित्यर्थः । मधुनामा पुत्रः अभवत् । मधोः सकाशात् सुमनसि सुमनःसंज्ञायां पत्न्यां, वीरव्रतः वीरव्रतनामा पुत्रः अभवत् । ततो airs
- पुत्रः, अभवत् । ततो वीरव्रतात्, भोजायां भोजाख्यायां
- । पत्न्यां मन्धुश्च प्रमन्थु तौ मन्धुप्रमन्थुनामानौ पुत्रावित्यर्थः : जज्ञाते उत्पन्नौ बभूवतुः । मन्थोः प्रमन्थुज्येष्ठ भ्रातुः सकाशात्, सत्यायां सत्याख्याङ्गनायां भौवनः भौवननामा पुत्रः, जज्ञे । ततो भौवनात् दूषणायां दूषणाख्यायां पत्त्यां त्वष्टा त्वष्टृसंज्ञः पुत्रः अजनिष्ट । अयमदितिसुतास्त्वष्टुरन्य एवातस्तदैक्यभ्रमोऽत्र न विधेयः । स्वष्टुर्नृपसकाशात्, विरोचनायां विरोचनाख्याङ्गनायां विरजो विरजनामा पुत्रः अजायत । विरजस्य विषूच्यां विषूचीसंज्ञायां पत्न्यां शतजित्प्रवरं शत जिन्मुखं, पुत्रशतं कन्या च, पुत्रशतं जातं कन्या च जातेत्यर्थः । किलेति प्रसिद्धी ।। १०-१५ ।। * प्रियव्रतसंतानमुपसंहरति तत्रेति । तत्र प्रियव्रतसंतान- विषये, अयं श्लोकः पठ्यते इति शेषः । प्रयव्रतमिति । चरमोऽन्तिम उद्भवः शतजिदाद्युद्भवो यस्मात्तथाभूतः विरजः। विष्णुत्रि- विक्रमः सुरगणं यथा इन्द्रादिदेवता वर्गमिवेत्यर्थः । मैयव्रतं प्रियव्रतसंबन्धिनं इस वंशं कीर्त्या निष्कलंकेन यशसा अत्यतिशयेन, अल अकरोदलंकृतवान् ॥ १६ ॥
- Tere pe
- इति श्रीधर्मधुरंधरश्रीधर्मात्मज प्रत्यक्षपुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसनु भगवत्प्रसादाचार्यविरचिताया- "
- मन्वयार्थावबोधिन्यां भक्त मनोरज्जत्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे पञ्चदशोऽध्यायः ॥ २५
- भाषानुवादः
- pitri E FER #BR एए
- *
- अहो ! अपने कमसे महाराज गयकी बराबरी और कौन राजा कर सकता है ? वे साक्षात भगवान्की कला ही उन्हें छोड़कर और कौन इस प्रकार यज्ञोंका विधिवत् अनुष्ठान करनेवाला, मनस्वी, बहुज्ञ, धर्मकी रक्षा करनेवाला, लक्ष्मीका प्रियपात्र, साधुसमाजका शिरोमणि और सत्पुरुषोंका सच्चा सेवक हो सकता है ? ॥ ९॥ सत्यसङ्कल्पवाली परम साध्वी श्रद्धा, मैत्री और दया आदि दक्षकन्याओंने गङ्गा आदि नदियोंके सहित बड़ी प्रसन्नतासे उनका अभिषेक किया था तथा उनकी इच्छा न होनेपर पर भी वसुन्धराने, गौ जिस प्रकार बछडेके स्नेहसे पिन्हाकर दूध देती है, उसी प्रकार उनके गुणोंपर रीझकर प्रजाको धन- रत्नादि सभी अभीष्ट पदार्थ दिये थे || १० | उन्हें कोई कामना न थी, तब भी वेदोक्त कमोंने उनको सब प्रकारके भोग दिये, राजाओंने युद्धस्थलमें उनके बाणोंसे सत्कृत होकर नाना प्रकार की भेंटें दीं तथा ब्राह्मणोंने दक्षिणादि धर्मसे सन्तुष्ट होकर उन्हें परलोक में मिलनेवाले अपने धर्मफलका छठा अंश दिया ॥। ११ ॥ ॐ उनके यज्ञमें बहुत अधिक सोमपान करनेसे इन्द्र उन्मत्त हो गये थे, तथा उनके अत्यन्त श्रद्धा तथा विशुद्ध और निश्चल- भक्तिभावसे समर्पित किये हुए यज्ञफलको भगवान् यज्ञपुरुषने साक्षात् प्रकट होकर ग्रहण किया था ।। १२॥ जिनके तृप्त होनेसे ब्रह्माजीसे लेकर देवता, मनुष्य, पशु-पक्षी वृक्ष एवं तृणपर्यन्त सभी जीव तत्काल तृप्त हो जाते हैं वे विश्वात्मा श्रीहरि नित्यतृप्त होकर भी राजर्षि गयके यज्ञमें तृप्त हो गये थे । इसिलिये उनकी बराबरी कोई दूसरा व्यक्ति कैसे कर सकता है ? ।। १३ ।। * महाराज गयके गयन्ती के गर्भसे चित्ररथ, सुगति और अवरोध नामक तीन पुत्र हुए। उनमें चित्ररथकी पत्नी ऊर्णासे सम्राटका जन्म हुआ || १५ || उत्कला से मरीचि और मरीचिके बिन्दुमती बिन्दुमान् नामक पुत्र हुआ। उसके सरघासे मधु, मधुके सुमनासे वीरव्रत और वीरव्रत के भोजासे मन्धु और प्रमन्धु नामके दो पुत्र हुए। उनमें से मन्थुके सत्या के गर्भसे भौवन, भौवनके दूषणाके उदरसे त्वा, त्वष्टाके भार्यासे शतजित् आदि सौ पुत्र और एक कन्याका जन्म हुआ ।। १४ ।। ‘जिस प्रकार भगवान विष्णु देवताओंकी शोभा बढ़ाते हैं, उसी प्रकार इस विरजने अपने सुयशसे विभूषित किया था ।। १६ ।
- SH
- || fhaitersn ers इति पञ्चदशोऽध्यायः ॥ १५
- विरोचना से बिरज और विरजके विषूची नामकी ॐ विरजेके विषय में यह श्लोक प्रसिद्ध है- प्रियव्रत वंशको इसमें सबसे पीछे उत्पन्न हुए राजा
- Fo
- म
- HERETEE
- क
- Fops pain
- M
- ሳ
- ||BIE LIEGERIE B FIF TERZISIP
- अथ षोडशोऽध्यायः
- &LS Pin
- राजावाच
- उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते ॥ १ ॥ तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपक्लप्ता यत एतस्याः सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतथ सर्व विजिज्ञासामि ॥ २ ॥ भगवतो गुणमये स्थूलरूप आवेशित मनो गुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयि- तुमिति ॥ ३ ॥ feng
- SINIFRIERS BY SPESSIE F FFIREUSETFREE FRIFE DERIFICEF IPFIS | :5561
- FD F
- IF Eye bpp Fr
- ऋषिरुवाचরড় के
- न वै महाराज भगवतो मायागुणचिभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्रा- धान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः || ४ || यो चायं द्वीपः कुवलयकमलकोशाभ्यन्तर कोशो नियुत योजन विशाल: समवर्तुलो यथा पुष्करपत्रम् ॥ ५ ॥ यस्मिन्नव वर्षाणि नवयोजन सहस्रायामान्यष्टभिर्मर्यादा गिरिभिः नियुतयोजन सुविभक्तानि भवन्ति ॥ ६ ॥ एषां मध्ये इलावृतं नामाभ्यन्तरवर्ष यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुद्वपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्त- भूम्यां प्रविष्टः || ७ || उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूण वर्षाणां मर्यादागिरयः प्रागावता उभयतः क्षारोदावभ्यो द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्य एव हसन्ति ॥ ॥ टा
- अन्वयः— यावत् आदित्यः तपति च यत्र असौ चन्द्रमाः ज्योतिषाम् गणैः सह वा दृश्यते भूमण्डलायामविशेषः त्वया उक्तः ॥ १ ।। * तत्र अपि सप्तभिः प्रियव्रतरथचरणपरिखातैः सप्त सिन्धवः उपचऌप्ताः भगवन् त्वया यतः एतस्याः सप्तद्वीपविशेषविकल्पः खलु सूचितः अहम् एतत् एव अखिलम् मानतः लक्षणतः च सर्वम् विजिज्ञासामि ॥ २ ॥ * * हि भगवतः गुणमये स्थूलरूपे आवेशितम् मनः अगुणे अपि सूक्ष्मतम आत्मन्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये आवेशितुम् क्षमम् तत् उ ह गुरो एतत् अनुवर्णयितुम् अर्हसि इति ॥ ३ ॥ * * महाराज पुरुषः भगवतः मायागुणविभूतेः काष्ठाम् मनसा वा वचसा वै अधिगन्तुम् विबुधायुषा अपि न अलम् तस्मात् प्राधान्येन एव भूगोलकविशेषम् नामरूपमानलक्षणतः ‘यः वा अयम् द्वीपः कुवलयकोशाभ्यन्तरकोशः नियुतयोजनविशालः यथा पुष्करपत्रम् यस्मिन् नवयोजनसहस्रायामानि नव वर्षाणि अष्टभिः मर्यादागिरिभिः सुविभक्तानि एषाम् मध्ये अभ्यन्तरवर्षम् इलावृतम् नाम यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुलगिरिराजः मेरु द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततः मूले षोडशसहस्रम् तावता अन्तर्भूम्याम् प्रविष्टः ॥ ७॥
- इलावृतम् उत्तरोत्तरेण नीलः श्वेतः शृगवान् इति त्रयः रम्यकहिरण्मयकुरूणाम् मर्यादागिरयः प्रागा- यताः उभयतः क्षारोदावधयः द्विसहस्रपृथवः पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः एकैकशः दशांशाधिकांशेन देयें एवं हसन्ति ॥ ८ ॥
- व्याख्यास्यामः ।। ४ ॥ समवर्तुलः ॥ ५ ॥
- भवन्ति ॥ ६ ॥
- न
- HFICERT
- प्रा० एतस्यां पा०%
- ि
- कनक का हल
- प्रा० पा० दृश्येत । २० प्रा० प
- ३. प्रा० पा० यावानयं द्वीपः । ४. प्रा० पा० - पोडशसहस्त्रे । ५. प्रा० पा० कुरूणां त्रयाणां वर्षाणां । ६. प्रा० पा० - द्विसाहसं । ७. प्रा० पा० उत्तरेण + बीमा
- PFR
- ३२८
- श्रीमद्भागवतम्
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- [ स्कं. ५ अ. १६ श्लो. १-८
- १ ॥
- पूर्वोक्तद्वीप सिंध्वादिमानचिह्नस्वरूपतः । स्पष्टं प्रवक्तुमारब्धा पंचाध्यायी ततः परम् ॥ षोडशेऽधस्तथा चोर्ध्वं परितः सन्निवेशतः । मेरोः स्थितिर्महीकंजकर्णिका चोपवण्येते ॥ २ ॥ प्रियव्रतचरित्रोक्तायुक्ता द्वीपादिकल्पना । तद्विशेषविजिज्ञासुः कथांते परिपृच्छति ॥ ३ ॥
- उक्त इति । किंपर्यंतमुक्तस्तदाह यावदादित्यस्तपति यंत्र चासौ शुकृष्णपक्षयोर्नक्षत्रगणैः सह चंद्रमा वा दृश्यते तावत् ॥ १ ॥ * * यतो येभ्यः सिंधुभ्यः । एतस्या भुवः सूचितः संक्षेपतो दर्शितः ॥ २ ॥ * * जिज्ञासायाः फलमाह । भगवत इति ॥ ३ ॥ * * या मायागुणविभूतिस्तस्याः काष्ठामंतम् । रूपं सन्निवेशः । लक्षणं चिह्नम् ॥ ४ ॥ * * कुवलयं भूमंडलं तदेव कमलं तस्य कोशाः सप्तद्वीपास्तेष्वभ्यंतरकोशः प्रथमो जंबूद्वीपो नियुतयोजनविशालो लक्षयोजन- विस्तीर्णः ॥ ५ ॥ * * * नवयोजन सहस्रमायामो येषाम् । आयामोऽत्र विस्तारः । एतच्च भद्राश्वकेतुमालव्यतिरेकेण द्रष्टव्यम् । तयोश्चैकत्रिंशद्योजन सहस्रायामत्वात् । केचित्तु नीलनिषधयोः संलग्नाप्रयोः समुद्रप्रवेशमंगीकृत्य तयोरपि संकुचितत्वेन नवसहस्राया- मत्वं संपादयति । संनिवेशश्च वायुनोक्तः “धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्” इति ॥ ६ ॥ * * नाभ्यां मध्ये द्वीपस्यायामो लक्षयोजनप्रमाणं तावान्समुन्नाह उल्झयो यस्य । मूले षोडशयोजनसहस्रं
- ॥ ॥ * विततः । तावता षोडशयोजनसहस्रमानेन चतुरशीतियोजनसहस्रमानेन च बहिर्दृश्यते एवं लक्षयोजनोन्नाहः ॥ ७ ॥ * * उत्तरोत्तरेणेलावृतमिलावृतस्योत्तरोत्तरतः क्रमेण नीलादयस्त्रयो मर्यादागिरयः प्रागायताः पूर्वतो दीर्घाः । क्षारोद एवावधिर्येषाम् । द्विसहस्रयोजनविस्तीर्णाः दशांशादीपदधिको योंशस्तेन दैर्ध्य एव इसति न तुञ्चत्वे पृथुत्वे वा । यथोक्तं विष्णुपुराणे । “लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे” इति । एतच्च स्थूलदृष्टयैवोक्तम् । तयोरपि यथावन्मध्यमत्वाभावेन लक्षप्रमाणत्वाभावात् ॥ ८ ॥
- श्रीवंशीधरकृतो भावार्थदीपिकाप्रकार
- आदिना वर्षादिग्रह: ( १ ) परितः सर्वतः संनिवेशतः महीरूपपंकजस्य कर्णिकामध्यवर्त्तिबीजकोशस्तद्रूपत्वेन मेरोः स्थितिर्वर्णिता । अत्र चशब्दः पादपूरणे (२) प्रियव्रत चरित्रस्योक्तौ कथने प्रथमाध्यायें । तेषां द्वीपादीनां विशेषो भेदस्तज्ञातु- मिच्छुः परीक्षित (३) । भूमंडलस्यायामविशेषः । तपति प्रकाशयति । तावत् तत्प्रमाणं तत्पर्यंतमित्यर्थः ॥ १ ॥ * * तत्रापि भूमंडलमध्येपि । रथचक्रस्य परिखातैर्ने मिनैशित्यो द्रुतभू देशैः । सप्तद्वीपानां ये विशेषा भेदास्तेषां यो विकल्पः प्रभेदः खंडादिरूपः सूचित इति । विशेषो नोक्त इति भावः । भगवन्निति परावरगतिज्ञत्वाद्भवत एतन्नाद्भुतमिति भावः । एतत्सिंधुद्धीपादिक- मखिलमुर्वरित यथा न भवेत्तथा । मानं परिमाणम् । लक्षणं वर्तुलचतुरस्राकारादि। न केवलमिदमेव, किं तु यत्सप्तसागरादिभ्यः परस्तात्काञ्चनभूम्यादिकं न केवलं तावतालमपि तु तत्रापि विद्यमानं सर्वमनुर्वरीकृत्यैतदभिप्रायेण पुनः सर्वशब्द प्रयुनक्ति सर्वमिति । जिज्ञासामीत्यनेन ज्ञानेच्छेव न तु विचारः । परस्मैपदप्रयोग आर्षः । अहमित्यनेनान्येषां प्रयोजनसद्भावेऽपि ममातीव प्रयोजन- मस्तीति सूचयति अन्यथा विजिज्ञासामीत्येव वदेत् ॥ २ ॥ * * एवं किं तदतीव प्रयोजनमत्राह भगवत इति । इतः पूर्वं गुणमये सत्त्वादिगुणविरचिते स्थूलरूपे पातालाद्यचेतनावयवविशिष्टे आवेशितं निधायाभ्यस्तं विशेषस्मरणसमर्थं हि यन्मनस्तद- गुणेऽपि सत्त्वादिगुणप्रवृत्तिशून्येऽपि सच्चिदानंदाकारेऽतः एव सूक्ष्मेऽनुग्रहमंतरेणादृश्ये । तर्हि किं तमोमयं नेत्याह- आत्मज्योतिषि स्वयं प्रकाशे किन्नाम्नि परे ब्रह्मणि परब्रह्मसंज्ञे भगवति ऐश्वर्यादिगुणे वैदिकमंतरेण लौकिक नाम किं तत्राह-वासुदेवाख्ये । अनेनात्र किंवदंती प्रमाणमिति सूचितम् । क्षमं समर्थम् । अत्र मयेति कर्तृपदानुक्त्या तत्रत्यानां भक्तिमिश्रयोगवतां मनोनिधित्सानुरोधेनैव मयैतत्पृच्छयते । मम तु त्वन्मुखकमलस्पंदमानभगवत्कथारूपमकरंदस्य कर्णाभ्यां पानमेव भगवत्प्राप्तिसाधनमिति द्योतितम् । किश्व-इह भगवतो गुणमये स्थूलरूपे इति भेदबोधिकया षष्ठधाऽगुणे भगवतीत्यभेदबोधकेन सामानाधिकरण्येन च भगवत्त्वस्य गुणातीतत्वं बोधितम् । गुरो इति । तव सर्वमुनिजनगुरुत्वादवश्यवक्तव्यमेवैतदिति भावः ॥ ३ ॥ * * ऋषिरुवाचेति । इह त्रिकालदर्शित्वबोधनायर्षिपदप्रयोगः । मायागुणविभूतेः प्रकृतिगुणप्रवृत्तये यद्विविधभवनं बहुरूपग्रहणं यस्य । विबुधायुषा द्विपरार्द्धलक्षणेन । प्राधान्येनैव मुख्यत्वेनैव ॥ ४ ॥ * * द्वाभ्यां पूर्वपश्चिमाभ्यां दक्षिणोत्तराभ्यां वा पार्श्वाभ्यां समुद्रं जलं पिबतीति द्वीपः । दीर्घो निपातनात् । तदभावे तरणिकिरणसन्तापेन घनीभावं मुक्त्वा परमाण्वशेषेण द्वीपस्थितजनस्याधाराभावेन जलमज्जनेन सर्वनाशप्रसंगः स्यादिति । अमरकोशे तु “द्वीपो त्रियामन्तरीपं यदन्तर्वारिणस्तटम्” इत्युक्तं तत्र द्विर्गता अन्तर्गता वापोऽत्र “ऋक्पूरब्धूःपथामाऽनक्षे” इति समासान्तः । “द्वयन्तरुपसर्गेभ्योऽप ईत्” इतीत्वम् । नियुतशब्दोऽत्र दशलक्षवाचकोऽपि कथंचिल्लक्षं वक्ति तत्संनिहितत्वात् । पुष्करपत्रमत्र पौष्पं न ज्ञेयं किन्तु यद्भोजनादिग्राह्यं तदिति ॥ ५ ॥
- अष्टभिः हिमालयादिभिः । दक्षिणोत्तरे भारतोत्तरे कुरुवर्षे चत्वारि किंपुरुषहरिवर्षरम्य कहिरण्मयानि वर्षाणि नीलनिषधयोस्तिरचीनीभूय समुद्र प्रविष्टयोः संलग्नत्व मंगीकृत्य भद्राश्वकेतुमालयोरपि धनुराकृतित्वम् । अतस्तयोर्दैर्घ्यत एव मध्ये संकुचितत्वेन नवसहस्राया- मत्वम् । इलावृतस्य तु मेरोः सकाशाश्चतुर्दिक्षु नवसहस्रायामत्वं संभवेत् । वस्तुतस्तु- इलावृतभद्राश्वकेतुमालानां चतुस्त्रिंश-
- *
- ।
- डएकं ५ अ. १६ इलो. १-८1
- ।
- अनेक व्याख्यासमलङङ्कृतम्
- ३२९
- त्सहस्रायामत्वं ज्ञेयम् । “ इलाप्सरा रूपवती दिव्या यौवनशालिनी । महेन्द्रेण वृत्ता यत्र तेनेलावृतमीरितम् ॥ १ ॥ पुरा देवा- सुराणाञ्च नियुद्धे समुपस्थिता । केतुमालात्र संजाता केतुमालमतो मतम् ॥ २ ॥ अमृतोन्मथनोभूतो हय उच्चैःश्रवाह्वयः । यन्त्रासौ चरते नित्यं भद्राश्वं तेन कीत्तितम् ॥ ३ ॥ उपमन्युस्तपः कुर्वन्यत्रागत्य हरेण सः । कुर्वेवं तत्पित्र क्षीर यत्रोक्तस्तेन तत्कुरु ॥ ४ ॥ यत्र हेममयं सर्व अनाचापि तथाविधाः । तेनेदं स्वर्णबाहुल्याद्वर्षं प्रोक्तं हिरण्मयम् ॥ ५ ॥ उर्वशी याप्सरोरम्या यत्र दृष्टा हिमांशुना । रम्येति लंबिता स्वार्थ तेनेदं रम्बनामकम् || ६ || यत्रानन्तेन नागेन हरिराराधितः स्वयम् । प्रससाद वरं दातुं हरिवर्षं ततस्त्विदम् ॥ ७ ॥ यत्र विद्याधरी रम्या विद्याधरकरच्युता । किं तया पुरुषस्त्यक्तस्तेन किंपुरुषाह्रयम् ॥ ८ ॥ भरतेन भृतं दुःखं यत्र पुत्रैः कुमार्गगैः । तेनेदं भारतं नाम वर्ष धीरैरुदाहृतम् ॥ ९ ॥” इति शैवे वर्षेनिरुक्तयोप्युक्ताः । तत्रैवेदमप्युक्तं “बालाभ्रं स्यादष्टकेन त्र्यणुकानाञ्च तेऽथ वै । लिक्षा तदष्टकं युकं तदष्टकमितो यवः । तेष्टावंगुलिरित्युक्तं तालं ते रविसंमितैः । तद्द्द्वयं हस्तमित्युक्तं दण्डः स्यात्तचतुष्ककम् । दण्डाभ्यां द्विसहस्राभ्यां क्रोश इत्युच्यते बुधैः । योजन तैश्चतुर्भिः स्यादित्येवं व्यासभाषितम् ||” षड्भिः परमाणुभिरत्र व्यणुकमिति ॥ ६ ॥ * * एषां वर्षाणां मध्ये हि कुलगिरयो महेन्द्रा- दयस्तदुक्तं भारते— “महेन्द्रो मलयः सद्यः शुक्तिमानृक्षवानपि । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥” इति तेषां राजा “राजाहः सखिभ्यष्टच्” । वितती विस्तृतः । अन्तर्भूम्यां भूमिमध्ये ॥ ७ ॥ * * उभयतः पूर्वपश्चिमदिशोः द्वौ नीलनिषधौ । एतच्च विष्णुपुराणवाक्यश्च ॥ ८ ॥
- विष्णुपुराणअन्य भूमिमध्य ॥७॥
- 8
- ।।
- Summer mee frश्रीमद्वीरराघवव्याख्या की
- files
- <
- एवं श्रुतप्रियव्रतसंतानतचरित्रो राजा प्रियव्रतचरित्रे संग्रहेणाभिहितायां द्वीपादिकल्पनायां विशेषं कथान्ते उक्तानुवादपूर्वकं पृच्छति उक्त इति भूमण्डलस्यायामविशेषः दिर्घ्यविशेषः विशालतेति यावत् उक्तः किंपर्यन्त उक्तस्तदाह यावदादित्यस्तपति यत्र चासौ शुकुकृष्णपक्षयोर्नक्षत्रगणैः सह चन्द्रमा वा दृश्यते किंपर्यन्तमादित्यस्तपति चन्द्रमा वा दृश्यते तत्राह । यत्र भूमण्डल- विस्तारे एतस्या भुवः सप्तद्वीपानां जम्ब्वादीनां ये विशेषा नाममानलक्षणादयस्तेषां विकल्पः भेदो भगवन्! त्वया सूचितः संप्रहेणोक्तः एतदेव भूमण्डलमखिलं मानतो लक्षणतश्चकारान्नामतश्चाहं सर्वं विस्तरतो विजिज्ञासामि ज्ञातुमिच्छामि । किं तजिज्ञासयेत्यत्राह भगवत इति । गुणमये सवादिगुणपरिणामरूपे भगवतः स्थूलरूपें आवेशितं मनः हि यस्मादगुणे सत्त्वादिगुण- रहितेऽप्राकृत इति यावत् सूक्ष्मतमेऽङ्गुष्ठप्रमिते शुद्धसत्त्वमये रूपे तथात्मज्योतिषि स्वयं प्रकाशे परमात्मस्वरूपे ब्रह्मणि भगवद्वासुदेवादिशब्दवाच्ये आवेशितुमासक्तं क्षममलं भवेदतो जिज्ञासामि ततो मम जिज्ञासुत्वाद्धे गुरो ! एतद्भूमण्डलं मानलक्षणादिभिरनुवर्णितुमर्हसि ॥ १३ ॥ इत्यापृष्टो बादरायणिस्तावद्भगवद्विभूतेरनन्तत्वात्कात्स्म्र्त्स्न्येन वाङ्मनसयोर- विषयतां वदन्मानादिभिर्भूमण्डलवर्णनं प्रतिजानीते न वा इति । हे महाराज ! भगवतो मायागुणानां विभूतिः सत्त्वादिगुण- परिणामानन्तब्रह्माण्डात्मिका लीलाविभूतिस्तस्याः स्थानविशेषाणां विभूत्यन्तर्गतलोकानामित्यर्थः । काष्ठा मन्तं नामरूपतः नामरूपाभ्यां मनसा वचसा वाऽधिगन्तुं ज्ञातुं वक्तुं च पुरुषायुष्येणापि पुरुषो नालन प्रभुः स्थानविशेषाणामानन्त्यादिति भावः तस्मात् कार्त्स्न्येन वाङ्मनसाविषयत्वात् प्राधान्येन भूगोलस्य विशेषमवान्तरभेदं नाममानलक्षणैः व्याख्यास्यामः प्रकटयिष्याम इति ॥ ४ ॥ तदेवाह यो वा इति । प्रसिद्धोऽयं द्वीपो जम्बूद्वीपः कुवलयं भूमण्डलं तदेव कमलं तस्य कोशाः सप्तद्वीपाः तेष्वभ्यन्तरः अन्तरवर्ती कोशः जम्बूद्वीपः इत्यर्थः । स नियुतयोजनविशालः लक्षयोजनविस्तीर्णः समवतुलः समो वर्तुल वर्तुलत्वेन कोणाभावात्सर्वतः समपरिमाण इत्यर्थः । यथा पुष्करस्य पत्रं कमलपलाशं समवर्तुलं तथेति यस्मिन् जम्बूद्वीपे वर्षाणि प्रत्येक नवयोजन सहस्रमायामो येषां तानि आयामोऽत्र विस्तार एतच भद्राश्वकेतुमालव्यतिरेकेण द्रष्टव्यं तत्सन्निवेशश्चान्यत्रोक्तः “धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्” इत्यादिना अष्टभिः समर्पितैः नीलश्वेतशृङ्गवनिषध हेमकूटहिमालयमाल्यवद्गन्धमादनाख्यैः सुष्ठु विभक्तानि असङ्कीर्णानि भवन्ति वर्त्तन्ते तेषां नवानां वर्षाणां मध्ये इलावृतं नाम वर्षमभ्यन्तरमन्तर्विद्यते इत्यर्थः । यस्य जम्बूद्वीपस्य इलावृतवर्षस्य वा नाभ्यां मध्येऽवस्थितः सौवर्णाः सुवर्णमयः कुलगिरीणां राजा मेरुः द्वीपस्य जम्ब्वाख्यस्यायामो विस्तारः लक्षयोजन- प्रमाणस्तावत्समुन्नाहः उच्छ्रायो यस्य तथाभूतः कुवलय भूमण्डलमेव कमल तस्य कर्णिकाभूत इव स्थितः तस्य मेरोर्मूर्द्धा उपरिभागः द्वात्रिंशत्सहस्त्रयोजनविस्तीर्णः मूले पोडशसहस्राणां योजनानां यस्य सः सुमेरुरिति विशेष्यानुषङ्गः । योजनमिति नपुंसकपाठे तस्य मेरोर्मूले षोडशसहस्राणां योजनानां समाहारः षोडशसहस्रयोजनं परिमाणं वेदितव्यमित्यर्थः, पात्रादित्वात्त्रीत्वाभावः । तावता षोडशसहस्रमानेन भूम्यामन्तः प्रविष्टः एवं लक्षयोजनोनाहः सुमेरुरिति फलितम् ॥ ५-७ ।। * * उत्तरेणेलावृतम् इलावृतवर्षस्योत्तरोत्तरं क्रमेण नीलश्वेतशृङ्गवत्संज्ञका रम्यकादीनां त्रयाणां वर्षाणां मर्यादागिरयः सीमापर्वताः प्रागायताः पूर्वतो दीर्घाः उभयतः पूर्वपश्चिमयोः आरोदी लवणसमुद्र एवावर्धिर्येषां ते लवणोद्धिपर्यन्ता इत्यर्थः, द्विसहस्रयोजनविस्तीर्णा दशांशादधिको योंऽशस्तेन दैर्ध्य एवं इसन्ति न तुश्चत्व पृथुत्वयोः, नीलादिषु त्रिषु पूर्वपूर्वीपेक्षया उत्तरोत्तरस्य देयें दशांशादधिकांशेन न्यूनमित्यर्थः, द्वीपस्य मण्डलाकारत्वादिति भावः ॥ ८॥
- ४२
- ।
- ३३०
- श्रीमद्भागवतम्
- श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
- He is BE TERI
- स्कं ५ अ. १६ लो. १-८
- भूवलयतद्विशेषज्ञानं श्रीनारायणमहिमोपलक्षणत्वात्तदा वश्यकं मोक्षोपयोगीत्यतस्तत्परिमाणादि वर्णयति पञ्चस्वध्यायेषु । तत्र परीक्षिद्विशेषतोऽपि ज्ञातुमुक्तानुवादपूर्वकं श्रीशुकं पृच्छति इत्युक्त इति । आदित्यो यावत्पर्यन्तं तपत्यसौ चन्द्रमाश्च यत्र ज्योतिषां नक्षत्राणां गणैः सह दृश्यते त्वया भूमण्डलायामविशेषस्तावानित्युक्तः ॥ १ ॥ * * तत्र भूमण्डलेऽपि प्रियव्रतेत्यनेन यो वा इहेत्येतदनुवदति यत एतस्य इत्यनेन । यत एवं कृता इत्येतदनुवदति । अयमाशयः- प्रियव्रतस्य रथचरणनेमिनैशित्यपरिखाताः सप्त, सिन्धव आसन्यास्तस्य रथचरणनिशितपर्यन्तसीमोत्थितपर्यस्तमृत्तिकाघनपङ्क्तयस्तत्तत्परिखापर्यवान्तर प्रदेशवर्तिन्यस्ताः सप्त द्वीपा आसन तेषां नामानि कथितानीति सूचित इत्यनेन विशेषो नोक्त इति, ततः किं तत्राह एतदिति । खिलमुर्वरितं यथा न भवति तथा निखिलमन्तराले एतदुपयोग्येव नान्यदित्यर्थं एवशब्दः मानं परिमाणं लक्षणं वर्तुलचतुरस्राकारादि न केवलमिदमेव किन्तु यत्सप्तसागरादिभ्यः परस्तात्काञ्चनभूम्यादिकं तदपि न केवलं तावतालमपि तु तत्रापि विद्यमानं सर्वमनुर्वरीकृत्यैतदभिप्रायेण पुरश्च सर्वशब्दप्रयोग इत्यर्थः । जिज्ञास्यमित्यनेन ज्ञानेच्छेव न तु विचार इत्यतः परस्मैपदप्रयोगः, अहमित्यनेनान्येषां प्रयोजन- सद्भावेऽपि ममातीव प्रयोजनमिति सूचयति । अन्यथा जिज्ञास्यमिति सामान्योक्त्यसम्भवात् ॥ २ ॥ ॐ * किं तदतीव्र प्रयोजनमिति विवृत्य दर्शयति भगवत इति । इतः पूर्व गुणमये सवादिगुणविरचिते स्थूलरूपे पातालाद्यचेतना वयवविशिष्टे आवेशितं निधायाभ्यस्तं विशेषस्मरणसमर्थं हि यत्तन्मनोऽगुणेऽपि सत्त्वादिगुणप्रवृत्तिशून्येऽपि सच्चिदानन्दाकारे अत एव सूक्ष्मे अनुग्रहमन्तरेणादृश्ये तर्हि किं तमोरूपं नेत्याह-आत्मज्योतिषि स्वयंप्रकाशे किंनाम्नि परे ब्रह्मणि परब्रह्मसंज्ञे भगवति ऐश्वर्यादिगुण- पूर्णे वैदिकमन्तरेण लौकिकं नाम किं तत्राह वासुदेवाख्ये । अनेनात्र किंवदन्तीप्रमाणमिति सूचितमावेशितुं क्षमं समर्थं तदेतदेव हेत्यनेनान्यत्र “नापृष्टः कस्यचिद् नूयात्” इत्यनपेक्षामाह ॥ ३ ॥ * मायागुणविभूतेः प्रकृतिगुणप्रवृत्तये यद्विविधं भवनं बहुरूपग्रहणं यस्य स तथा तस्य महिमा गुणविभूतेर्वा कोष्ठामवसानं पूर्तिलक्षणं विबुधायुषेण द्विपरार्द्धलक्षणेन ॥ ४ ॥ * * यो जम्ब्वाख्यः पूर्वपश्चिमाभ्यां दक्षिणोत्तराभ्यां पार्श्वाभ्यां सामुद्र जलं पिबतीति द्वीपः तदभावे तरणिकिरणसन्तापेन घनीभावं मुक्त्वा परमाण्वशेषेण द्वीपस्थित जनस्याधाराभावेन जलमज्जनेन सर्वनाशप्रसङ्गः स्यात् । दीर्घः निपातनात्साधुरिति, सोऽयं नियुतयोजन- - विशाल एकादशस्थानादिसंख्याक्रमेण नियुतसंख्यायाः लक्षणसंख्यात्वं ज्ञायते तेन लक्षयोजनेन विस्तार इति परिमाणमुक्तं भवति । शृङ्गमाक्रियैव तत्प्रकारं ज्ञापयति कुवलयी भूमण्डलं तदेव कमलं तस्य कोशस्येतरद्वीपलक्षणस्याभ्यन्तरकोशोऽन्तः स्थितकोशवद्वर्त्तमानः । लक्षणमाह समवर्तुल:, अत्र दृष्टान्तमाह यथा पुष्करपत्रम् अन्तर कोशदलान्यन्तराले विरलानि भवन्ति न तथा पुष्करपत्र मेकत्वेन विच्छेदाभावादित्यरुच्या पद्मपत्रोदाहरणं वा इत्यनेनेदमेव मानादिकं नान्यत्रोक्तमिति - विशदयति ॥ ५ ॥ * * यस्मिन् द्वीपे ||६|| येषां वर्षाणां यस्येलावृतस्य नाभिस्थाने मध्य इत्यर्थः, जम्बूद्वीपस्य यावान् लक्षयोजनपरिमित आयामस्तावान् समुन्नाह उच्छ्रायो यस्य स तथा लक्षयोजन उच्छ्रित इत्यर्थः । मानमुक्त्वा लक्षणमाह कर्णिकाभूत इति । भूमण्डललक्षणपद्मस्य कर्णिका- स्थानीयः । ननु नियुतयोजनविशालों द्वीपो द्वीपाया मालमुन्नाह इत्येतत्कथं विशदं स्यात् “चतुरशीतिसाहस्रयोजनानां समुच्छ्रयः” इति पराशरवचनं जागर्तीति चेन्न, न तदीदृगिति ज्ञेयं न वाच्यं न च तयेते “पश्यन्तोऽपि न जानन्ति मेरो रूपं विपश्चितः” इति वचनात् पराशरस्यान्यथाज्ञानसम्भवादिन्द्रस्तु वर्तुलाकारं पञ्चकोणं बृहस्पतिरितीन्द्रादीनामप्यज्ञानकथनाच “ऋषिस्त्रिकालदर्शी स्यात्” इति वचनाद्भयवत्प्रसादापन्नज्ञानपराशर वचन स्यान्यथाज्ञानमूलत्ववचनमतिसाहसमिति चेन्न, प्रामाणिकत्वात्परमात्मान- मन्तरेणान्येषां तत्र तत्राज्ञानंदर्शनाच्च । नन्वेवं निरासलक्षणवैरमन्तरेणैकवाक्यत्वाङ्गीकारे महान्प्रहर्षः स्यादिति चेद्धन्तैवं तर्हि शृणु प्रविष्टः षोडशाधस्तादिति योजनावगमात् । ननु तावतान्तर्भूम्यां प्रविष्ट इति मेरोर्लक्षयोजनोच्छ्रायादधिकपरिमाणोक्तेरिति चेन्न, भूमिप्रविष्टरूपेण सह लक्षयोजनोच्छ्रायोपपत्तेः वचनलाघवाय मूले षोडशसहस्र इति प्रस्तावे तावतेत्युक्तत्वात् दूरस्थग्रहणानु- पपत्तिपरिहारोपपत्तेः । किञ्च चतुरराशीतीत्यत्र चतुरशीतीति वक्तव्ये आकार ग्रहणात् कश्चिद्विशेषोऽस्तीति ज्ञायते स भागवतोक्त एव प्रायः, न ज्ञानापारवारिधेर्व्यासस्य वचनस्यान्यथात्वं शक्याशङ्कं तथा च भागवतोत्तप्रकारेण भुवनकोशादिकं ग्राह्यम् । तथा चाक्तम् “यथा भागवते तूक्तं भौवनं कोशलक्षणम् । तस्याविरोधतो योज्यं सर्वग्रन्थान्तरस्थितम् ।। मण्डोदे पूरणं चैव व्यत्यासं क्षीरसागरे । राहुसोमरवीणाञ्च मण्डलाद्विगुणोक्तिताम् ॥ बिनैव सर्वमुन्नेयं योजना भेदतोऽत्र तु ॥” इति ॥ ७ ॥ * * इलावृतात्खण्डादुत्त- रोत्तरेण शृङ्गेः पूर्वस्यां दिशि भुग्नावस्थिताः प्रागायताः - द्विसहस्रपृथवः द्विसहस्रयोजनविस्ताराः दिर्घ्य एव इसन्ति नोर्ध्वं पृथुत्वे ॥ - ॥
- 1
- श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः श्रीमजीवगोस्वामिकृतः
- P
- भगवतो गुणमयमित्यादौ भगवत्वन्तु गुणातीतमित्यायातम् ।। १–४ ॥ * * नियुतशब्दोऽत्र दशलक्षवाचको- sपि कथञ्चिदेकलक्षं वक्ति तत् सन्निहितत्वात् ॥ ५ ॥ * * टीकादर्शिता मतभेदाः सृष्टिभेदेन ज्ञेयाः ।। ६–२९ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजी वगोस्वामिकृतक्रमसन्दर्भस्य षोडशोऽध्यायः ॥ १६॥
- स्क. ५ अ. १६ श्लो. १-८]
- अनेकव्याख्यासमलङ्कृतम्
- श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- जम्बूद्वीपस्य वर्षाणां शैलानां मध्यवर्त्तिनः । सुमेरोश्च प्रमाणं यत् षोडशे तन्निगद्यते ॥
- ३३१
- प्रियव्रतचरिते श्रुतस्य द्वीपसमुद्रादेः प्रमाणादिकं तत् कथाप्रकरणान्ते पृच्छति उक्त इति । तपति प्रकाशयति तत्पर्यन्तः
- यतः सिन्धुभ्यः । एतस्या भुवः * जिज्ञासायाः फलमाह भगवत
- इत्यर्थः । यत्र यत्र चन्द्रमा दृश्यते तावत्पर्यन्तश्च तत्रापि तन्मध्य इत्यर्थः ॥ १ ॥ सप्तद्वीपानां ये विशेषास्तेषां विकरूपो भेदः प्रभेदः। एतत् सिन्धुद्वीपादिकम् ॥ २ ॥ इति । अत्र मयेति कर्तृपदानुक्त्या तत्रत्यानां भक्तिमिश्रयोगवतां मनोनिधित्सानुरोधेनैव मयैतत् पृच्छयते, मम तु त्वन्मुखकमल- स्यन्दमानभगवत्कथारूपमकरन्दस्य कर्णाभ्यां पानमेव भगवत्प्राप्तिसाधनमिति द्योतितं किञ्च इह भगवतो गुणमये स्थूलरूप इति भेदबोधकथा षष्ठ्या अगुणे भगवतीत्य भेदबोधकेन सामानाधिकरण्येन च भगवत्त्वस्य गुणातीतत्वं बोधितम् । गुरो इति तव सर्वमुनिजनगुरुत्वादवश्यवक्तव्यमेवैतदिति भावः ॥ ३ ॥ | ४ काष्ठामन्तं रूपं सन्निवेशः लक्षणं चिह्नम् ॥ ४ ॥
- निश्चयेन कुवलयं भूमण्डलं तदेव कमलं तस्य कोशा मण्डलतया स्थिताः। सप्तद्वीपास्तेष्वभ्यन्तरः कोशो योऽयं दृश्यमानो जम्बूद्वीपः स नियुतयोजनविशालः लक्षयोजनविस्तीर्णः ॥ ५ ॥
- 1 नवयोजन सहस्रमायामो येषां ग्रामो विस्तारः । अष्टभिर्हिमालयादिभिः सन्निवेशस्तु वायुनोक्तः “धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिला
- चतुरस्र मिलावृतम् इति दक्षिणोत्तरे भारतोत्तरकुरुवर्षे चत्वारि किम्पुरुषहरि- वर्षरम्य कहिरण्मयानि वर्षाणि नीलनिषधयोस्तिरश्रीनीभूय समुद्र प्रविष्टयोः संलग्नत्वमङ्गीकृत्य भद्राश्वकेतुमालयोरपि धनुराकृतित्वम् । अतस्तयोर्दैर्घ्यत एव मध्ये सङ्कचितत्वेन नवसहस्रायामत्वम् । इलावृतस्य तु मेरोः सकाशात् चतुर्दिक्षु नवसह- त्रायामत्वं सम्भवेत् वस्तुतस्त्वि लावृतभद्राश्वकेतुमालानां चतुखिंशत्सहस्रायामत्वं ज्ञेयम् ॥ ६ ॥
- नाभ्यां मध्ये द्वीपस्यायामो लक्षयोजन प्रमाणः । तावान् समुन्नाह उच्छ्रायो यस्य सः षोडशसहस्रं वितत इति शेषः, तावता षोडशसहस्रमानेन । अतश्चतुरशीतिसहस्रयोजनोच्छ्रितो भूमितो दृश्यते ॥ ७ ॥ उत्तरोत्तरेण इलावृतम् इलावृतस्योत्तरत्र उभयतः पूर्व- पश्चिमदिशोः पृथुर्विस्तारः एकैकस्मादिति बीलः किञ्चिन्न्यूनलक्षयोजनो देर्येण तस्मात् श्वेतः शृङ्गवांश्च दशांशादीषदधिको यशस्तेन ॥ ८ ॥
- ॥ ॥
- Evergre mig
- श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
- क
- ।
प्रियव्रतचरित्रवर्णने संक्षेपेण द्वीपादिकं श्रुत्वा तद्विस्तरं श्रोतुं पृच्छति उक्त इति । ज्योतिषां गणैः सह असौ चन्द्रमा दृश्यते ॥ १ ॥ * * यतो येभ्यः सिन्धुभ्यः॥२॥ * * जिज्ञासाप्रयोजनमाह भगवत इति । गुणमये स्थूलरूपे विराजि आवेशित मनोऽगुणे प्राकृतगुणरहित अप्राकृते रूपे तथा आत्मज्योतिषि प्राकृताप्राकृतविग्रहवति आवेशितुं क्षमं स्यात्॥ ३॥ * * मायागुणबिभूतिः भूगोलादिरूपा तस्याः स्थानविशेषाणां काष्ठामन्तम् ॥ ४ ॥ * * अयं प्रसिद्धो यो जम्बुद्वीपः सः कुवलये भूमण्डलं तदेव कमलं तस्य कोशेषु सप्तद्वीपेषु अभ्यन्तरः कोशो नियुत्तयोजनविशाला लक्षयोजन- विस्तीर्णः॥५॥ * * यस्मिन् जम्बुद्वीपे प्रत्येकं नवयोजनसहस्रमायामो तेषां तानि नव वर्षाणि भवन्ति आयामशब्दोऽत्र विस्तारपरः। एतच्च छत्रिन्यायेन षट्स्वेव द्रष्टव्यं तन्मध्यगतस्य सप्तमस्य वर्षत्रयात्मकस्य चतुखिशयोजनविस्तारयुक्तत्वं षण्णां वर्षाणां मर्यादागिरिसहितानां षट्षष्टियोजनविस्तारयुक्तत्वमेवं लक्षयोजनानि भवन्ति । सन्निवेशस्तु वायुनोक्तः ‘धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलानृतम् ||’ इति ॥ ६ ॥ इलावृतस्य नाभ्यां मध्ये मेरुरवस्थितः द्वीपस्य जम्बूद्वीपस्यायामो लक्षयोजनविस्तारः तावत्समुन्नाह उच्छ्रायो यस्य सः, तावता षोडशसहस्रयोजनमानेन ॥ ७ ॥ * * उत्तरोत्तरेणेला वृतमिला वृतस्योत्तरोत्तरतः ।। ८ ।। गोखामिश्रीगिरिधरलालविहिता बालप्रबोधिनी गतैः पञ्चदशाध्यायैरुक्ता स्वरूपसंस्थितिः । अतश्चैकादशाध्यायैर्देशस्थितिर्निरूप्यते ॥ १ ॥ पञ्चभूतप्रधानत्वात् पञ्चभिर्भूमिवर्णनम् । चतुर्विधस्य हेतुत्वात् पुरुषार्थस्य वै यतः ॥ २ ॥ जम्बूद्वीपस्य तेनादौ चतुर्भिस्तन्निरूपणम् । परिमाणस्वरूपं च षोडशे तस्य वर्ण्यते ॥ ३ ॥ एवं पञ्चदशभिरध्यायैः स्वरूपस्थिति निरूप्येदानीं देशस्थितिं निरूपयिष्यन् भूमेः पञ्चमहाभूतप्रधानत्वादादौ पश्चभि- रध्यायैर्भूस्थितिं निरूपयति, तत्राप्यन्येषां द्वीपानां स्वर्गादिलोकानां च भोगस्थानत्वाद्भोगस्य च कर्माधीनत्वात् कर्मणश्च जम्बूद्वीपे भारतखण्डे सम्भवात् भगवद्भक्तेरप्यत्रैव प्राचुर्यात् मेरौ तत्तद्वर्षे च सर्वदेवानां भगवदवताराणां च स्थानत्वाच चतुर्विधपुरुषार्थो- N ३३२
श्रीमद्भागवतम् * [ स्कं. ५ अ. १६ एलो. १८ पजीव्यत्वेन जम्बूद्वीपस्य श्रेष्ठत्वादादौ चतुर्भिरध्यायेर्जम्बूद्वीपं निरूपयति, तत्रास्मिनध्याये जम्बूद्वीपमेर्वादेः स्वरूपं परिमाणं च निरूपयति, तत्रादौ प्रियव्रतचरितनिरूपणावसरे द्वीपवर्षादिकल्पना सामान्यत उक्ता तद्विशेषं जिज्ञासुः स्वस्य श्रवणाधिकारित्वं ज्ञापयनुक्तानुवादपूर्वकं तद्विशेषति उक्त इति । यावदादित्यस्तपति प्रकाशयति यंत्र व ज्योतिषां गणैर्नक्षत्रसमूहैः सह चंद्रमा दृश्यते तावान् भूमण्डलस्य आयामविशेषो विस्तारविशेषस्त्वयोक्त इत्यन्वयः ॥ १ ॥ चत्रापि भूमण्डले प्रियव्रतस्य सूर्यस्य पृष्ठतो मेरुं प्रदक्षिणीकुर्वतो रथचरणेन रथचक्रेण परितः सर्वतः खात्तैर्गर्तेः सप्तभिः सप्तसिन्धव उपक्लृप्ता उक्ताः यतो येभ्यः सप्तसिन्धुभ्य एतस्या भुवः सप्तद्वीपविशेषविकल्पः सप्तद्वीपरचनाविशेषस्त्वया खलु निश्चयेन सूचितः सामान्यतः प्रदर्शितः, तद्विशेषकथनाय तं प्रसादयितुं तवैवैवं त्रिकालज्ञताऽस्तीति तस्य सर्वशत्वं सूचयन सम्बोधयति-हे भगवन्निति । एतत्सामान्यत उक्तमेवाखिलं मानतः लक्षणतः असाधारणचिह्नतश्च सर्व विशेषतो जिज्ञासामि ज्ञातुमिच्छामीत्यर्थः ॥ २ ॥ * * ननु परम- भागवतस्य तब किं द्वीपसमुद्रादिविशेषश्रवणेनेत्याशङ्कयाह- भगवत इति । यस्मात् भगवतः स्थूलरूपे विराविग्रहे आवेशितं स्थिरीकृतं मनः सूक्ष्मतमे दुर्दर्शे भगवत्ति आवेशितुं स्थिरीकर्तुं क्षमं योग्यं भवति । तत्तस्मात् उ ह एव हे गुरो एतत् ब्रह्माण्डात्मकं स्थूलं रूपं कृपया वर्णयितुमर्हसि योग्योऽसि । तथा च नाहं बहिर्मुखतया चित्तचमत्कारार्थं श्रोतुमिच्छामि किन्तु भगवत्परतया तस्मिन् मनस्स- माधानार्थमेवेति भावः । स्थूलत्वे हेतुमाह + गुणमय इति । सूक्ष्मतमत्वे हेतुमाह- अगुण इति । निराकारत्ववारणायाह—वासुदे वाख्ये इति । परिच्छिन्नत्ववारणायाह–ब्रह्मणीति, परिपूर्णे इत्यर्थः । तस्य सर्वोत्तमत्वज्ञापनायाह–पर इति । जडत्ववारणा- याह-आत्मज्योतिषीति, स्वप्रकाशे इत्यर्थः । तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’ इति वाक्यानुसारेण अनुवादप्रभादिकं कृत्वा प्रणिपातादि खदैन्यं सूचयन् संबोधयति- हे गुरो इति ॥ ३ ॥ * ४ एवमादरेण पृष्टः श्रीशुक उत्तरमाह नेति । तवैवं भगवत्परता युक्तैवेति सूचयन् सम्बोधयति हे महाराजेति । भगवतो मायायाः प्रकृतेर्ये गुणाः सत्त्वादयस्तेषां विभूतेर्विस्तारस्य काष्ठामन्तं विबुधा देवास्तेषामप्यायुषा पुरुषो मनसाऽधिगन्तुं ज्ञातुं वचसा वक्तुं वा यस्मान्न वै अलं तेन समर्थ: तस्मात् प्राधान्येनैव भूगोलकं विशेषं नामतः रूपतः सन्निवेशतः मानतः विस्तारता उक्षणतः असाधारणचिहतश्च व्याख्यास्यामः विशेषेण प्रकथयिष्यामः ॥ ४ ॥ तदेवं प्राधान्येन वर्णनं प्रतिज्ञाय तद्वर्णयति यो वा इति । कुवलयं भूमण्डलं तदेव कमलं तस्य कोशा इव सप्त द्वीपास्तेष्वभ्यन्तर कोशो यो वाऽयं प्रथमो जम्बूद्वीपः स नियुतयोजनविशालो लक्षयोजन- विस्तीर्णः समवर्तुलः सर्वतः समपरिमाणो वर्तुलश्च । वर्तुलत्वे दृष्टांतः - यथा पुष्करपत्रमिति ॥ ५ ॥ * यस्मिन् जम्बूद्वीपे ऽष्टभिर्मर्यादागिरिभिः सुविभक्तानि पृथकृतानि नव वर्षाणि भवन्तीत्यन्वयः । तत्र रम्यकहिरण्मयकुरुहरिवर्षकिम्पुरुषभारताख्या नि नवयोजनसहस्रमायामो विस्तारो येषां तथाभूतानि ज्ञेयानि । अयं च विस्तारो मर्यादागिरिसहितानां दक्षिणोत्तरतो ज्ञेयः । पूर्वपश्चि- मतस्तूभयतः समुद्रलग्नानि दीर्घाण्यधिक विस्तारवन्ति ज्ञेयानि । इलावृतं पूर्वपश्चिमतो द्व्यशीतियोजनसहस्रविस्तृतं दक्षिणोत्तरतस्तु षट्चत्वारिंशद्योजनसहस्रविस्तृतं ज्ञेयम् । भद्राश्वकेतुमाले तु पूर्वपश्चिमतो नवयोजनसहस्रविस्तृते ज्ञेये । दक्षिणोत्तरतस्तु निषध- नीलसलग्ने ज्ञेये ॥ ६ ॥ * * एषां वर्षाणां मध्ये इलावृतं नामाभ्यन्तरं वर्ष चतुष्कोणाकृति दीर्घमस्ति । यस्य नाभ्यां मध्ये सर्वतः सौवर्णः सुवर्णमयः कुलगिरीणां श्रेष्ठत्वेन गणितानी पर्वतानां राजा द्वीपायामसमुन्नाहः जम्बूद्वीपस्य आयामो विस्तारो यावांस्तावान् लक्षयोजनं समुन्नाह उच्छ्रायो यस्य स मेरुः कुवलयकमलस्य कमलसदृशस्य भूमण्डलस्य कर्णिकाभूत इवा- वस्थितोऽस्तीत्यन्वयः ॥ ७ ॥ * मेरोविस्तारं वदन कर्णिकात्वं सम्पादयति मूर्धनीति । मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो सम्पादयति-मूर्धनीति । मूले पोडशयोजनसहस्रविततः ताबता षोडशसहस्रयोजनमानेन भूम्यामन्तः प्रविष्टश्चतुरशीतियोजनसहस्रमानेन बहिर्द्दश्यते । एवं लक्षयोजनोन्नाह इति ज्ञेयम् ॥ F BERE BITESSE ESSE PPSP FITRI PP SPIEST FIFE FINEIPES FRESHBIEFFE(giese inmalmiSH श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोर EPE MISTSTER FIRE TERENIE maoist ॐg एक is द्वीपान्ध्यादि पुरा प्रोक्तं मानचिह्नस्वरूपतः । वक्तु स्पष्टं तदारब्धा पचाध्यायी परं ततः ॥ १ ॥ परितोऽधस्तथा चोर्ध्वं संनिवेशेन षोडशे । स्थितिमेरोर्महीपद्ममध्यभागश्च वर्ण्यते ॥ २ ॥ 1 me Soti एवं श्रुतप्रियव्रत चरित्रः श्रुततत्संतानश्च राजा प्रियव्रतचरित्रे संग्रहेणाभिहिताया द्वीपादिकल्पनाया विशेषं जिज्ञासुः कथान्ते उक्तानुवादपूर्वकं पृच्छति उक्त इति । हे सुने, त्वया भूमण्डलस्य… आयामविशेषो दैर्ध्यविशेषः विशालतेति यावत् । उक्तः स किंपर्यन्त उक्तस्तत्राह । यावत् आदित्यस्तपति यत्पर्यन्तं सूर्यः प्रकाशं करोति, यत्र च यावति भूमण्डले असौ चन्द्रमाः वा, शुल्लकृष्णपक्षयोरिति शेषः । ज्योतिषां गणैः नक्षत्रवृन्दैः सह दृश्यते । तावदुक्त इति संबन्धः । अयं भावः - अस्य स्कन्धस्य प्रथमेऽध्याये ‘यावदवभासयति सुरगिरिमनुपरिक्रमन् भगवानादित्यो वसुधातलमर्द्धेन प्रतपत्यर्द्धेनाच्छादयति’ अनेनादित्यः र गिरेस्तमिस्रातिमिरा संकलित प्रकाशेनैकस्मिन्नद्धे दिवा करोति, अस्योपलक्षणत्वा तद्भका शवन्तं सुरगिरेर्भागं तिमिरसंवलितज्योत्स्ना- पुञ्जेन चन्द्रमाः नक्षत्रैः सह प्रकाशयन् रजनीं करोतीत्यपि मुनिंना सूचितत्वात्तदपि स्मृतिपथमानीयात्रानुवादेनाभिहितं बोध्यमिति ॥ १ ॥ तत्रेति । तत्र भूमण्डलेऽपि, सप्तभिः प्रियतरंथचरणपरिखातैः सप्त सिन्धवः उपक्लप्सा चक्र- ५. म. १६ श्लो. १-८] * अनेकव्याख्यांसमलङ्कृतम् ३३३ कल्पिताः । यतः येभ्यः सिन्धुभ्यः, यैः सिन्धुभिः कृत्वेत्यर्थः । एतस्याः भुवः, सप्तद्वीपानां ये जम्ब्वादीनां ये विशेषाः भेदास्तेषां विकल्पो योऽवान्तरभेदः सः, हे भगवन् त्वया सूचितः । ‘ये वा उ ह तद्रथचरणपरिखातास्ते सप्त सिन्धव आसन्यत एव कृताः सप्त भुवो द्वीपा इत्यादिना’ संग्रहेणोक्तः खलु । एतदेव भूमण्डले अखिलं मानतः लक्षणतः चकारान्नामतश्च अहं सर्वं विजिज्ञासामि विस्तारतो विज्ञातुमिच्छामि ॥ २ ॥ किं तजिज्ञासयेत्यत्राह । भगवत इति । गुणमये सत्त्वादिगुणपरिणामरूपे, सगर भगवतः स्थूलरूपे आवेशितं मनः हि यस्मात्, अगुणे सत्वादिगुणरहिते अप्राकृते इति यावत् । सूक्ष्मत मे अङ्गुष्ठप्रमाणे, ‘अङ्गुष्ठमात्रः पुरुषो जनानां हृदि संनिविष्टः इति श्रुत्यभिहिते, तथा आत्मज्योतिषि स्वयंप्रकाशे परे परमात्मरूपे, ब्रह्मणि बृहद्गुणवति, भगवति पडैश्वर्यादिसंपन्ने, वासुदेवाख्ये शुद्धान्तःकरणप्रतीयमानतया वासुदेवशब्दवाच्ये परमेश्वरे आवेशितुं समाधातु, क्षमं शक्तं भवेत् । अतो विजिज्ञासामीति पूर्वस्मादनु षञ्जनीयम् । तत् सम जिज्ञासुत्वाद्धेतोः, हे गुरो, एतद् भूमण्डलं उ ह स्फुटं यथा स्यात्तथैव, अनुवर्णयितुं मानलक्षणादिभिरभिधातुं अर्हसि । इतीत्थं राजोवाचेति सम्बन्धः ॥ २ ॥ * * इत्याष्पृष्टो बादरायणिस्ताब- द्भगवद्विभूतेरनन्तत्वात् कात्स्र्त्स्न्येन वर्णने वामनसोरविषयतां वदन्मानादिभिर्भूमण्डलवर्णनं प्रतिजानीते। न वा इति । हे महाराज, भगवतः मायागुणानां विभूतिस्तस्याः प्रकृतेः सत्वादिगुणपरिणामा त्सकानन्तब्रह्माण्ड सर्जन रूपलीलाविभूतेरित्यर्थः । स्थानविशेषाणां विभूत्यन्तर्गत लोक विशेषाणामित्यर्थः । काष्ठामन्तं, नामरूपादिककथनावसानमित्यर्थः । मनसा मनःकृतसंकल्पैरित्यर्थः । वचसा वाचां व्यापारैरित्यर्थः । वा अधिगन्तुं मनोवचनाभ्यां पारं यातुमित्यर्थः । विबुधायुषा देवानामायुष्येणापि पुरुषः न अलं समर्थो न भवेत् वै । स्थानविशेषाणामानन्त्यादिति भावः । तस्मात्कान्र्त्स्न्येन वाक्यनसाविषयत्वात्, प्राधान्येन भूगोलविशेषं भूगोलस्या- -वान्तरभेदं नाम संज्ञा च मानं प्रमाणं च रूपं संनिवेशच लक्षणं चिह्नं च तैरिति ततः, व्याख्यास्यामः प्रकटयिष्यामः ॥। ४ ॥ ** तदेवाह यो वा इति । यो वा यस्तु, अयं प्रसिद्धः, द्वीपो जम्बूद्वीपः सः कुवलयं भूमण्डलं तदेव कमलं तस्य कोशाः सप्तद्वीपा- स्तेष्वभ्यन्तरो ऽन्तरवार्त्ती कोश, नियुतयोजनविशालः रक्षयोजनविस्तीर्णः, ‘शतं सहस्रमयुतं नियुतं मतम् । स्त्री कोटिरर्बुदमिति क्रमाद्दशगुणोत्तरम्’ इति रत्नकोशः । यथा पुष्करपत्र कमलपलाशं समवर्त्तुल, तथा समवर्तुलः समो वर्तुलच वर्तुलत्वेन कोणाभावात् सर्वतः समपरिमाण इत्यर्थः ॥ ५ ॥ * * यस्मिन्निति । यस्मिन् जम्बूद्वीपे नव इलावृतरम्य कहिरण्मयकुरु- हरिवर्षकिंपुरुष भरतकेतुमालभद्राश्वेति नवसंख्याकानि वर्षाणि, प्रत्येकं नवयोजनसहरूमायामो येषां तानि निवसाहस्रमेकैकमेतेषां द्विजसत्तम’ इति विष्णुपुराणेऽपि । आयामोऽत्र विस्तारः स च मध्यवर्त्तिदक्षिणोत्तर रेखायां बोध्यः । एतच भद्राश्वकेतुमालव्यतिरेकेण द्रष्टव्यम् । तयोश्चतुस्त्रिंशद्योजन सहस्रायामत्वात् । तत्संनिवेशश्वोक्तो वायुपुराणे - ‘धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्’ इति । इलावृतचतुर सत्यं भद्राश्वकेतुमालचतुरस्रत्वयोरुपलक्षणम् । केचित्तु विष्णुपुराण- वचनप्रतिपत्त्यर्थं नीलनिषधयोर्मध्ये संलग्नाप्रयोग समुद्रप्रवेशमङ्गीकृत्य तयोरपि नवसहलायामत्वं संपादयन्ति । अष्टभिर्नीलश्वेत- शृङ्गवनिषध हेमकूदहिमालयमाल्यव दून्धमादनाख्यैरष्टसंख्याकैः मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ ६ ॥ * । । एषामिति । एषां नवानां वर्षाणां मध्ये, इलावृतं ताम इलावृतमिति संज्ञया प्रसिद्ध वर्षमित्यर्थः । आभ्यन्तरवर्ष, सर्वेषामन्तर्विद्यते इत्यर्थः । यस्य जम्बूद्वीपस्य इलावृतवर्षस्य वा, नाभ्यां मध्ये, अवस्थितः सर्वतः सौवर्णः सुवर्णमयः नैकोऽपि यत्प्रदेशः सुवर्णता- व्यतिरिक्त इत्यर्थः । कुलगिरिगजः कुलगिरीणां मध्ये राजेव महानित्यर्थः । कुलगिस्य उक्ता विष्णुपुराणे “महेन्द्रो मलयः साः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तान कुलपर्वताः’ इति। मेरुः द्वीपस्य जम्ब्वाख्यान्तरीपस्य आयामो विस्तारो लक्षयोजन- प्रमाणस्तावान्समुन्नाह उच्छ्रायो यस्य तथाभूतः, कुवलयं भूमण्डलमेव कमलं तस्य, कर्णिकाभूतः ‘कर्णिका कर्णभूषणे। बीजकोशे सरोजस्य’ इत्यनेकार्थसंग्रहे कर्णिकाशब्दः सरोजबीजकोशवाचकः । सरोजबीजकोशः कमलमध्यवन्त्यैव ततो भूवलयस्य कमलसमान- तोरत्र कर्णिक शब्दो जम्बूद्वीप भूमध्यप्रदेशपरोऽतः कर्णिकाभूतो नाम भूवलयमध्यप्रदेशवन्तीत्यर्थः ।। ७ ।। *
-
- मूर्द्धनीति | स मेरुरिति शेषः । मूर्द्धनि द्वात्रिंशत्सहस्रयोजनविततः कनकाचलमूर्ध्नः कनकतरुकुसुमसमानत्वादुपरि विस्तीर्ण इति भावः । मूले षोडशसहस्रं विततः । तावता षोडशसहस्रमानेन, भूम्यां अन्तः प्रविष्टः । चतुरशीतिसहस्रयोजनमानेन च बहिर्दृश्यते । एवं लक्षयोजनोन्नाहः स मेरुरिति फलितम् । इलावृतं, उत्तरोत्तरेण, इलावृतस्योत्तरोत्तरत इत्यर्थः । सप्तम्यर्थकैन प्रत्ययान्तमुत्तरेणेति, न तृतीयान्तमिति भ्रमितव्यम् । क्रमेण नीलः श्वेतः शृङ्गवान् इति नीलश्वेतशृङ्गवत्संज्ञका इत्यर्थः । त्रयस्त्रिसंख्याकाः गिरयः, रम्यकहिरण्मयकुरूणां रम्यकादिविसंज्ञाभाजां वर्षाणां मर्यादागिरयः सीमापर्वताः, प्रागायताः पूर्वतो दीर्घाः, उभयतः पूर्वपश्चिमयोः क्षारोदो लवणसमुद्र एवावधिर्येषां ते । लवणोदधिपर्यन्ता इत्यर्थः । उभयतः क्षारोदावधित्वोक्त्या प्रागायता इति पदं व्यर्थता- मापन्नं सत्तद्रोपुच्छाकारतां गमयति । ततः यथा गोपुच्छस्य मूलप्रदेशः स्थूलता भागग्रप्रदेशश्च सूक्ष्मवाभागेवं ते प्राग्भागे स्थूलाः प्रत्यग्भागे तदपेक्षया सूक्ष्मा इति बोध्यम् । द्विसहस्रपृथवः द्विसहस्रयोजनविस्तीर्णाः । पृथुत्वमत्र परिणाहः । उत्सेधस्त्वयुतयोजन- । । प्रमाणो वक्ष्यमाणो ज्ञेयः | पृथक् एकैकशः एकैकः पूर्वस्मात्पूर्वस्मात् उत्तरोत्तरः, दशांशाधिको योऽशस्तेन देव्ये दीर्घतायामेव हसन्ति न्यूनीभवन्ति । न तूञ्चत्वे पृथुत्वे वा, द्वीपस्य मण्डलाकारत्वादिति भावः । यथोक्तं विष्णुपुराणे लक्षप्रमाणौ द्वौ मध्ये दशहीना- स्तथापरे’ इति ‘जम्बूद्वीपप्रमाणेन निषधः परिकीर्त्तितः । तस्माच्च दशभागोनो हेमकूटः प्रतीयते’ इति वाराहे । एतच्च स्थूलदृष्टये- वोक्तम् । तयोरपि यथावन्मध्यम स्वाभावेन लक्षयोजनप्रमाणत्वाभावात् ॥ ८ ॥ 1- ३३४ Trending भाषानुवादः सभुवनकोशका वर्णन [ स्कं. ५ अ. १६ श्लो. ९-१६ line singe
राजा परीक्षितने कहा मुनिवर ! जहाँतक सूर्यका प्रकाश है और जहाँतक तारागणके सहित चन्द्रदेव दीख पड़ते हैं, वहाँतक आपने भूमण्डलका विस्तार बतलाया है ।। १ ।। * * उसमें भी आपने बतलाया कि महाराज प्रियव्रतके रथ के पहियोंकी सात लीकोंसे सात समुद्र बन गये थे, जिनके कारण इस भूमण्डलमें सात द्वीपोंका विभाग हुआ । अतः भगवन् ! अब || मैं इन सबका परिमाण और लक्षणोंके सहित पूरा विवरण जानना चाहता हूँ ॥ २ ॥ * * क्योंकि जो मन भगवान् के इस गुणमय स्थूल विग्रहमें लग सकता है, इसीका उनके वासुदेवसंज्ञक स्वयंप्रकाश निर्गुण ब्रह्मरूप सूक्ष्मतम स्वरूपमें भी लगाना सम्भव है । अतः गुरुवर ! इस विषयका विशदरूपसे वर्णन करने की कृपा कीजिये || ३ | ४ ४ श्रीशुकदेवजी बोले- महाराज ! भगवान्की मायाके गुणोंका इतना विस्तार है कि यदि कोई पुरुष देवताओंके समान आयु पा ले, तो भी मन या वाणी से इसका अन्त नहीं पा सकता। इसलिए हम नाम, रूप, परिमाण और लक्षणोंके द्वारा मुख्य-मुख्य बातोंको लेकर ही इस भूमण्डलकी विशेषताओंका वर्णन करेंगे ॥ ४ ॥ यह नम्बूद्वीप जिसमें हम रहते हैं—भूमण्डलरूप कमलके || || * कोशस्थानीय जो सात द्वीप हैं, उनमें सबसे भीतर का कोश है। इसका विस्तार एक लाख योजन है और यह कमलपत्र के समान गोलाकार है ।। ५ ।। * इसमें नौ-नौ हजार योजन विस्तारवाले नौ वर्ष हैं, जो इनकी सीमाओंका विभाग करनेवाले आठ पर्वतोंसे बँटे र है ।। ६ ।। 8 इनके बीचों-बीच इलावृत नामका दसवाँ वर्ष है, जिसके मध्य में कुल- पर्वतोंका राजा मेरुपर्वत है। वह मानो भूमण्डलरूप कमलकी कर्णिका ही है । वह ऊपरसे नीचेतक सारा का सारा सुवर्णमय है और एक लाख योजन ऊँचा है । उसका विस्तार शिखरपर बत्तीस हजार और तलैटीमें सोलह हजार योजन है तथा सोलह हजार योजन ही वह भूमिके भीतर घुसा हुआ हैं । अर्थात भूमिके बाहर उसकी ऊँचाई चौरासी हजार योजन है ॥ ७ ॥ * * - इलावृतवर्ष के उत्तर में क्रमश: नील, श्वेत और शृङ्गवान् नामके तीन पर्वत हैं जो रम्यक, हिरण्मय और कुरु नामके वर्षोंकी सीमा बाँधते हैं। वे पूर्व से पश्चिमतक खारे पानीके समुद्रतक फैले हुए हैं । उनमेंसे प्रत्येककी चौड़ाई दो हजार योजन है तथा लम्बाई में पहले की अपेक्षा पिछला क्रमशः दशमांशसे कुछ अधिक कम है, चौड़ाई और ऊँचाई तो सभीकी समान है ॥ ८ ॥ एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्ष- -किम्पुरुषभारतानां यथासंख्यम् ।। ९ ।। तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषेधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदद्धति ।। १० ।। मन्दरों मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्लृप्ताः ॥ ११ ॥ चतुर्ध्वतेषु चूतजम्बुकदम्बन्यग्रोधार्थत्वारः पादपप्रवराः पर्वत केतव इवाधिसहस्त्रयोजनोनाहास्तावद्विट पविततयः शतयोजन परिणाहाः ॥ १२ ॥ हृदाश्वत्वारः पयोम ध्विक्षुरस मृष्टजला यदुपस्पर्शिन उपदेवगणा योगेश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ।। १३ ।। देवोद्यानानि च भवन्ति चत्वारि नन्दन चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४ ॥ येष्वमर परिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीय- मानमहिमानः नः किल किल विहरन्ति ।। १५ ।। मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेव चूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥ १६ ॥ viilwa Prer अन्वयः— एवम् इलावृतम् दक्षिणेन विषधः हेमकूटः हिमालयः इति प्रागायताः यथा नीलादयः अयुतयोजनोत्सेधाः यथासङ्ख्यम् हरिवर्षकिंपुरुषभारतांनाम् ॥ ९ ॥ तथा एवं इलावृतम् अपरेण च पूर्वेण आनीलनिषधायती माल्य- वद्रन्धमादनौ द्विसहस्रम् पप्रथतुः केतुमालभद्राश्वयोः सीमानम् विदधाते ।। १० ।। ॐ मंदरः मेरुमंदरः सुपार्श्वः कुमुदः ‘इति अयुतयोजनविस्तारोन्नाहा: मेरोः चतुर्दिशम् अवष्टम्भगिरयः उपक्लृप्ताः ।। ११ ।। * एतेषु चतुर्षु चूतजंबू कदम्बन्यग्रोधाः `चत्वारः पादपप्रवराः पर्वतकेतवः इव अधिसहस्रयोजनोन्नाहा: तावद्विटपविततयः शतयोजनपरिणाहाः ।। १२ ।। पयो- ‘मध्विक्षुरस मृष्टजलाः चत्वारः हवाः भरतर्षभ यदुपस्पर्शिनः उपदेवगणाः स्वाभाविकानि योगेश्वर्याणि धारयन्ति ॥ १३ ॥ नंदनम् चैत्ररथम् वैभ्राजकम् सर्वतोभद्रम् च इति चत्वारि देवोद्यानानि भवन्ति ॥ १४ ॥ ललामयूथपतयः उपदेवगणैः उपगीयमानमहिमानः अमरपरिवृढाः किल सह विहरन्ति ॥ १५ ॥ ‘शतयोजनोत्तुंगदेवचूतशिरसः गिरिशिखरस्थूलानि अमृतकल्पानि फलानि पतन्ति ॥ १६ ॥ १. प्रा० पा०-द्विसाहस्रं । २. प्रा० पा० तेष्वमरपरिवृढा। ३. प्रा० पा०– देवगिरिशिरसो *
-
- येषु सुरललना- ॐ मंदरोत्सँगे एकादश-
-
parisr Plus (Pap स्कं, ५ अ. १६ श्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् श्रीधरखामिविरचिंता भावार्थदीपिका ingrass indian in ३३५ अयुतयोजन उत्सेध उच्छ्रायो येषाम् । अयं चोत्सेधो नीलादीनामपि द्रष्टव्यः । नीलादिपृथुत्वं चैषामपि द्रष्टव्यम् । यथासंख्यं मर्यादागिरय इति शेषः ॥ ९ ॥ * आनीलनिषधायतौ उत्तरतो नीलपर्यन्तं दक्षिणतो निषधपर्यन्तं च दीर्घौ । पप्रथतुर्विस्तीर्णौ भवतः तावेव केतुमालभद्राश्वयोर्वर्षयोः सीमानं कुर्याते । नन्वेवं सति पूर्वापररेखायामिला वृतवेष्टितो मेरुर्मध्ये ततः पूर्वापरतो गिरिद्वयं वर्षद्वयं च नातः किंचिदस्ति । दक्षिणोत्तर रेखार्या तु तथैवेलावृतवेष्टितो मध्ये मेरुरुभयतस्त्रीणि त्रीणि वर्षाणि गिरयश्च षट् तत्कथं सर्वतो लक्षप्रमाणत्वं जम्बुद्वीपस्य । उच्यते, मेरोः षोडशसहस्राणि सर्वतः स्थितत्वादिला- वृतस्याष्टादश अन्येषां षण्णां चतुष्पंचाशदगिरीणां षण्णां द्वादशेत्येवं दक्षिणोत्तर रेखायां तावलक्षम् । पूर्वापर- रेखायामपि स मेरोरिलावृतस्य चतुस्त्रिंशद् गिर्योश्रत्वारि शेषाणि द्विषष्टिसहस्राणि पूर्वापरवर्षयोरासमुद्रं दैव्ये द्रष्टव्यान्यतो न विरोधः ॥ १० ॥ ॐ * अयुतयोजनप्रमाणौ विस्तारोन्नाहौ येषाम् । विस्तीर्णमूनों मेरोरवष्टंभत्वात्पूर्वपश्चिमौ गिरी दक्षिणोत्तरविस्तारौ च दक्षिणोत्तरी पूर्वापरविस्तारौ द्रष्टव्यौ । सर्वतो दशयोजन सहस्रविस्तारांगीकारे विलावृतलोपात्पूर्वेणेला- वृतमुपप्लावयतीत्यादिविरोधः स्यात् ॥ ११ ॥ * * अधिसहस्रमेकादशशतानि उन्नाहो येषाम् । तावत्प्रमाणा विटपवित- तिर्येषाम् । शतयोजनं परिणामो विस्तारो येषाम् ॥ १२ ॥ *यदुपस्पर्शिनो यत्सेविनः ।। १३-१४ ।। ऋ ललामो भूषणम्। सुरललनानां भूषणभूताः श्रेष्ठा याः स्त्रियस्तासां यूथस्य पतयः सह संभूय येषु विहरन्ति ॥ १५ ॥ एकादशशतयोजनमुत्तुङ्गो यो देवचूतस्तस्य शिरसः सकाशात् । फलप्रमाणमुक्तं वायुपुराणे “अरत्नीनां शतान्यष्टावेकषष्टय- धिकानि च । फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिः” इति ।। १६ ।। आ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः नीलादिप्रथुत्वं द्विसहस्रविस्तृतत्वम् ॥ ९ ॥ * * अपरेण पश्चिमायां पूर्वेण पूर्वस्यां दिशि । अत्राक्षिपति- नन्विति । अत इत्थं विचारणात् । न दोषो न विरोधः ॥ १० ॥ * * विस्तारोऽत्र देयम् । चतुर्दिशं चतस्रो दिशोऽ- भिव्याप्य चतसृषु दिवित्यर्थः ॥ ११ ॥ यावदुच्छ्राययोजनसंख्यानं तावत्संख्याकशाखाविस्ताराः परिणाहः सर्वतः स्थौल्यविस्तारः । “एकादशशतायामाः पादपा गिरिकेतवः” इति पुराणान्तरात् ॥ १२ ॥ * * मृष्टं निर्मलं पयश्व मधु माक्षिकं च इक्षुरसश्च मृष्टजलं च तानि पयोमध्विक्षुरसमृष्ट्रजलानि तानि विद्यन्ते येषु ते तथा । मत्वर्थीयोऽच प्रत्ययः । भरतर्षभेति । तवाप्येतादृशैश्वर्यं स्वाभाविकमेव महाराजभरतवंशश्रेष्ठत्वा दतस्त्वं तादृशस्थानाभिलाषी मा भूरिति भावः ।। १३-१४।। अमराणां परिवृढाः प्रभवः “प्रभौ परिवृढः” इति निपातितत्वात् । येषु उद्यानेषु । उपदेवा गन्धर्वादयस्तेषां समूहः ।। १५ ।। ** देवचूतो देवाम्रः । ‘बद्धमुष्टिकरोऽरत्निः’ इत्यमरः ।। १६ ॥ श्रीमद्वीरराघवव्याख्या एवं दक्षिणेनेलावृतमिलावृतवर्षस्य दक्षिणतः निषेधादयस्त्रयः पर्वताः क्रमेण नीलादिभिः समपरिमाणा अयुतयोजन उत्सेध उच्छ्रायो येषां ते, अयं चोत्सेधो नीलादीनामपि द्रष्टव्यः, नीलादिषु पृथुत्वं चैषामिति द्रष्टव्यं हरिवर्षादीनां त्रयाणां यथासङ्ख्यं मर्यादागिरयः ॥ ९ ॥ * तथेलावृतमपरेणेला वृतस्यापरेण पश्चात्पूर्वेण पुरस्ताच माल्यवगन्धमादनावपरेण माल्यवान् पूर्वेण गन्धमादनः इत्येतौ पर्वतौ क्रमेणानीलनिषधा यतो उत्तरतो नीलपर्यन्तं दक्षिणतो निषधपर्यन्तं च दीर्घो नीलनिपधपर्यन्तोन्तर- ‘दक्षिणामावित्यर्थः, तावेव द्विसहस्रपृथू विस्तीणौ इत्यर्थः । तावेव केतुमालभद्राश्वयोर्वर्षयोः सीमान मर्यादां विदधाते कुरुतः । नन्वेवं सति पूर्वापर रेखाया मिलावृतवेष्टितो मेरुमध्ये ततः पूर्वापरतो गिरिद्वयं वर्षद्वयं च नातः किञ्चिदस्ति दक्षिणोत्तर दिशा च तथैवेलावृतवेष्टितो मेरुर्मध्ये उभयतस्त्रीणि वर्षाणि गिरयश्च तत्कथं सर्वतो लक्षप्रमाणत्वं जम्बूद्वीपस्य । उच्यते, मेरोः षोडसहस्राणि सर्वतः स्थितत्वादिलावृतस्याऽष्टादश अन्येषां षण्णां वर्षाणां चतुष्पञ्चाशगिरीणां द्वादश चेत्येवं दक्षिणोत्तरदिशि तावलक्षं पूर्वापर- रेखायामपि सुमेरोरिलावृतस्य चतुस्त्रिंशद् गिर्योश्चत्वारि शेषाणि द्विषष्टिसहस्राणि केतुमालभद्राश्वयोरित्येवं लक्षं सर्वतः स्थितत्वादिलावृतस्याष्टादश पूर्वापरवर्षयोरा समुद्रदैर्घ्यं द्रष्टव्यं नातो विरोधः ॥ १० ॥ द्रष्टव्यं नावो विरोधः ॥ १० ॥ * ४ मन्दरादयश्चत्वारो गिरयः प्रागादिक्रमेण मेोचतुर्दिशमवष्टम्भगिरथः मेखला इव अवष्टम्भन्ति प्रतिबध्नन्तीत्यवष्टम्भास्ते च ते उपक्लृप्ताः विन्यस्ताः । कथम्भूता अयुतयोजनौ प्रमाणौ विस्तारोच्छ्रायौ येषां तथाभूताश्चतुष्वैतेषु सन्दरादिषु क्रमेणा जम्बू कदम्बन्यग्रोधाश्चत्वारः पादपश्रेष्ठाः पर्वतानां केतवो ध्वजा इवाधिसहस्रमेकादशशतान्युन्नाहो येषां तावत्प्रमाणानां विटपानां शाखानां विततिर्येषां शतयोजनपरिणाहो विस्तारो येषां ते उपक्लृप्ता इत्यनुषङ्गः ।। ११-१२ ।। * * तथा चत्वारो हृदाश्च क्रमेण क्षीरमध्विक्षुरसशुद्धजलात्मकाः सन्ति तानेव विशिनष्टि यदुपस्पर्शिनः तज्जलस्पर्शिनः सिद्धादयः स्वाभाविकान्यष्ट महैश्वर्याणि हे राजन! धारयन्ति ॥ १३ ॥ & देवोद्यानानि देववनानि क्रमेण नन्दनादीनि भवन्ति । तान्येव विशिनष्टि येषु देवोद्यानेषु Spating %% SC * ३३६ श्रीमद्भागवतम् [[ ५५. [ एक. ५ अ. १६ लो. ९-१६ । सुरललनानां सुरस्त्रीणां ललामभूषणं तद्वत्स्थिताः सुरवनितानां श्रेष्ठा इत्यर्थः । तासां यूथस्य पतयः ताभिः सह सम्भूय उपदेवगणैः उपगीयमानः महिमा येषां ते विहरन्ति । देवानां कीडा स्थानानीत्यर्थः ।। १४-१५ ।। * चूतादिप्रभवा नदीराह मन्दरेति । मन्दरशिखरस्याधस्तात्प्रदेशे एकादशशतयोजनमुत्तुङ्ग उन्नतो यो देवचूतः तस्य शिरसः सकाशादिरिशिखरवत्स्थूलानि फलानि । फलप्रमाणमुक्तं वायुपुराणे- “अरत्नीनां शतान्यष्टौ एकषष्टद्यधिकानि च। फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिः” इति । अमृतकल्पानि अमृततुल्यानि फलन्ति । फलानि फलन्तीति गौर्गच्छतीतिवत् कृदर्थविशेषणत्वाद्धात्वर्थस्याविवक्षा बोध्या । ग्राहका- भावात्पक्कानि भवन्तीत्यर्थः ॥ १६ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली. Prder ।
g म एवमिलावृतादक्षिणेन निषेधादयः यथा नीलादयो देर्येण हसन्ति तथा निषेधादयोऽपि । अत्राय विशेषः नीलनिषधौ लक्षप्रमाणावन्ये दशांशहीनाः। तदुक्तम् “लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे” इति वैष्णवे। “जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितः । तस्माच्च दशभागेन हेमकूटः प्रतीयते” इति वाराहे । यथासङ्ख्यं मर्यादागिरय इति शेषः ॥ ९ ॥ * तथैवे- लावृतमिति । यथेला घृतादुत्तरदक्षिणतो नीलनिषधादयस्तथेलावृत्तस्यापरेण पश्चिमेन पूर्वेण मास्यवदन्धमादनौ यथासङ्ख्यं स्त इति शेषः । आनीलनिषधायती नीलनिषधपर्यन्तविस्तारौ तत्संबद्धावित्यर्थः । सीमानमवधिम् ॥ १० ॥ अवष्टम्भगिरयः पीठस्थानीय पर्वताः ।। ११ ॥ * * एतेषु मन्दरादिषु पर्वतकेतचा मन्दरादिपर्वतानां ध्वजा इव स्थिताः अधिसहस्रयोज- नोन्नाहाः सहस्रादधिकैकशतयोजनोच्छ्रायाः । तदुक्तम् “एकादशशतायामाः पादपा गिरिकेतवः” इति । अत्रायामशब्देनोच्छ्राय उच्यते, तावद्विटपविततयः यावदुच्छ्राययोजनसंख्यानं तावत्संख्याकशाखाविस्ताराः शतयोजनपरिणाहाः परितः शतयोजन- स्थूलाः ।। १२-१३ ।। * * देवोद्यानानि देवानां क्रीडायोग्यस्थानानि अमरललनानां सुरस्त्रीणां मध्ये या ललामभूताः ॥ श्रेष्ठातासां यूथस्य पत्तयो याः स्त्रियस्ताभिः सहिताः सहामरललनाललाम यूथपतयः अमरपरिवृढा देवश्रेष्ठाः ।। १४-१५ ।। 8 मन्दरोत्सङ्गे मन्दरपर्वतस्याङ्कस्थानीये तदे देवोपभोगयोग्यत्वाद्देवचूतस्य शिरसोऽप्रदेशात् ॥ १६ ॥ ए * ॥ श्रीमद्विश्वनाथचक्रवतिकृता सारार्थदर्शिनी ए म अयुतयोजन उत्सेध उच्छ्रायो येषाम् । अयञ्चोत्सेधो नीलादीनामपि द्रष्टव्यः । नीलादिवत् पृथुत्वं चैषां दृष्टव्यम् । यथासंख्यं मर्यादागिरय इति शेषः ॥ ९ ॥ * * अपरेण पश्चिमस्यां दिशि पूर्वेण पूर्वस्यां दिशि आनीलनिषधायतौ उत्तरतो नीलपर्यन्तं दक्षिणतो निषधपर्यन्तमायतौ दीर्घौ । चतुस्त्रिंशत्सहस्रायामावित्यर्थः । एवञ्च दक्षिणोत्तर रेखायां भारतकिंपुरुषहरिवर्षाणां त्रयाणां सप्तविंशतिः सहस्राणि हिमालयहेमकूटनिषधानां षटसहस्राणि । सुमेरोरिलावृतस्य च चतुस्त्रिंशत् रम्यक- हिरण्मयकुरूणां सप्तविंशतिः नीलश्वेतशृङ्गवतां गिरीणां पडित्येव लक्षयोजनप्रमाणः पूर्वपश्चिम रेखायां भद्राश्वस्य एकत्रिंशत् सुमेरोरिावृतस्य चतुस्त्रिंशत् केतुमालस्यैकत्रिंशत् गन्धमादनमाल्यवतोश्चत्वारीत्येवं लक्षयोजन प्रमाणो जम्बूद्वीपो ऽवगमितः ॥ १० ॥ * * अयुतयोजनप्रमाणौ विस्तारोन्नाहौ येषां ते विस्तीर्णमूर्ध्ना मेरोस्वष्टम्भत्वात् पूर्वपश्चिमौ गिरी दक्षिणोत्तर विस्तारौ दक्षिणोत्तरौ च पूर्वापरविस्तारौ शेयौ । विस्तारोऽत्र देध्यं सर्वतो दर्शयोजनसहस्राङ्गीकारे विलावृतलोपात पूर्वेलावृतमुपप्लावयतीत्यादिविरोधः स्यात् । चतुर्दिशं चतलो दिशोऽभिव्याप्य चतुर्दिश्वित्यर्थः ॥ ११ ॥ * अधिसहस्रम् एकादशशतान्युन्नाहो येषां तावत्प्रमाणा विटपविततिर्देषां शतयोजनं परिणाहो विस्तारो येषाम् ।। १२-१४ ॥ * * परिवृढाः श्रेष्ठा ललामो भूषणम् ॥ १५ ॥ * फलानीति फलप्रमाणमुक्तं वायुपुराणे- “अरत्नीनां शतान्यष्टावेकषष्ट अधिकानि च । फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिः” इति ॥ १६ श्रीमच्छु des श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः सिद्धान्तप्रदीपः कुणि एवं नीलादिवत् द्विसहस्रपृथवः निषेधादयः हरिवर्षादीनां यथासङ्ख्यं मर्यादागिरय इत्यन्वयः । अयुतयोजन उत्सेधः उच्छ्राय येषां नीलादयोऽपि अयुतयोजनोत्सेधा इति ज्ञेयम् ॥ * * द्विसहस्रं पप्रथतुः विस्तीर्णौ भवतः । विधाते कुवते ॥ १० ॥ किन मन्दरादयश्चत्वारो गिरयः पूर्वादिक्रमेण मेरोचतुर्दिशमवष्टम्भगिरयः उपक्लृप्ता विन्यस्ताः अयुतयोजन प्रमाणी विस्तारोन्नाहों येषां तत्र मन्दरः पूर्वदिशि विन्यस्तः दक्षिणोत्तर विस्तारस्तद्वदन्येषामपि विस्तारो ज्ञेयो न सर्वतः, अत इलावृतलोपो न भवति ॥ ११ ॥ ॐ शतयोजनं परिणाहो विस्तारो येषामथिसहस्रं शताधिकसहस्रमुन्नाहः उच्छ्रायो येषां तावत्प्रमाणा अधिसहस्रप्रमाणा विटपविततिर्येषाम् ॥ १२ ॥ * * हदा उपलप्ता इति शेषः ।। १३-२४ ।। ** सुरललनानां ललामभूताः भूषणभूताः या स्त्रियस्तासां यूथस्य पतयः अमरपरिवृढाः देवश्रेष्ठाः सह सम्भूय विहरन्ति ।। १५-१६ ।। ।। ॥ तु एक. ५ अ. १६ लो. ९-१६] अनेकव्याख्या समलङ्कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी । कोडाम S 8: IIS IN 125 15] मर्यादागिरीन् दर्शयन् वर्षव्यवस्थामाह– उत्तरोत्तरेणेलावृतमिति । इलावृतस्योत्तरोत्तरतः क्रमेण स्थिता नीलः, श्वेतः शृङ्गवानिति त्रयः क्रमेण स्थितानां रम्यकहिरण्मयकुरूणां मर्यादागिरयो विभाजकाः पर्वताः आागायताः पूर्वपश्चिमतो दीर्घा उभयत भासेदः समुद्र एवाबधिर्येषां ते तथोभयतः समुद्रलग्ना द्विसहस्रष्टथवः पृथुत्वे द्विसहस्रयोजनविस्तीर्णाः । अयुतयोजनोत्सेधा इत्यपि ज्ञेयम् । पूर्वस्मात्पूर्वस्मात् दक्षिणतो दक्षिणतः स्थितात् उत्तरोत्तर उत्तरोत्तरस्थित एकैकशो दशांशादीषदधिको योंशस्तेन देर्घ्य एव हसन्ति । न तुश्चत्वे पृथुत्वे वा द्वीपस्य मण्डलाकारत्वात् ॥ ९ ॥ * * एवं दक्षिणेनेलावृतस्य दक्षिणतो दक्षिणतः क्रमेण स्थिताः निषेधो हेमकूटो हिमालय इति त्रयः पूर्वपश्चिमतो दीर्घा उभयतः समुद्रसँलग्नाः द्विसहस्रयोजनपृथवः अयुतयोजनमुत्सेध उच्छ्रायो येषां ते तथा क्रमेण स्थितानां हरिवर्षकिम्पुरुषभारतसज्ञानां वर्षाणां यथासङ्ख्यं मर्यादागिरयः । तत्राप्युत्तरत उत्तरतः स्थितादक्षिणतो दक्षिणतः स्थित एकैकशो दशांशाधिकांशेन दैर्ध्य एव इसन्ति न तुमत्वे पृथुत्वे वेति ज्ञेयम् ॥ १० ॥ * * तथैवेलावृतमपरेण पूर्वेण च इलावृतस्य पश्चिमतः पूर्वतश्च यथाक्रमेण स्थिती आनीलनिषधायती उत्तरतो नीलपर्वतपर्यन्तं दक्षिणतो. निषेधपर्वतपर्यन्तं च दीर्घौ मास्यवदन्धमादनी मर्यादापर्वतौ द्वियोजनसहस्रं पप्रथतुर्विस्तीर्णौ भवतः । अयुतयोजनोत्सेधावित्यपि ज्ञेयम् । तौ इलावृतस्य पश्चिमतः पूर्वतश्च स्थितयोः केतुमालभद्राश्वयोर्वर्षयोः सीमानं विधाते । तथाचेलावृतस्योत्तरतः स्थितानां रम्य कहिरण्मयकुरुसज्ञानां मर्यादागिरिसहितांना वर्षाणां सप्तविंशतियोजनसहस्रम् । तथा तस्य दक्षिणतः स्थितानां हरिवर्षकिम्पुरुष- भारतसज्ञानां मर्यादागिरिसहितानां वर्षाणां सप्तविंशतियोजनसहस्रम् । इलावृतं मेरुसहितं तु षट्चत्वारिंशद्योजनसहस्रकम् । एवं दक्षिणोत्तरतो जम्बूद्वीपस्य लक्षयोजनविततत्वं भवति । पूर्वपश्चिमतस्तु तस्य जम्बूद्वीपस्येलावृतस्य पश्चिमता नवयोजनसहस्रक केतुमालसञ्ज्ञं वर्ष तस्यैव पूर्वतो नवयोजनसहस्रकं भद्राश्वसञ्ज्ञं वर्षं तयोर्मध्ये मेरुसहितं द्वयशीतियोजनसहस्रकमिलावृतमिति लक्षयोजनविततत्वं भवतीति ज्ञेयम् । श्रीधरस्वामिना तु रम्यकादीनां षण्णां वर्षाणां चतुःपञ्चाशत्सहस्राणि योजनानि, मेरुसहित लावृतस्य चतुःस्त्रिंशत्सहस्राणि योजनानि, षण्णां नीलादिमयादागिरीणां द्वादशसहस्राणि योजनानि, एवं दक्षिणोत्तर रेखायां लक्षयो- जनानि, तथा पूर्वापररेखायामपि मेरुसहितस्येलावृतस्य चतुस्त्रिंशत्सहस्राणि योजनानि, मर्यादागिर्योर्माल्यवदन्धमादनयोश्चत्वारि सहस्राणि योजनानि, केतुमालभद्राश्ववर्षयोस्तु शेषाणि द्विषष्टिसहस्राणि योजनानि, एवं लक्षयोजनानि भवन्तीत्युक्तम् । तत्र भहा- श्वकेतुमालयोरेकत्रिंशद्योजनसहस्रायामत्वकल्पने मूलोक्तनवयोजनसहस्रायामत्वविरोधस्य स्पष्टत्वात् । न च तर्हि मूलोतानुसारेणे- लावृतस्यापि तावानेव विस्तारोऽङ्गीकार्य इति शङ्कथम्, भूलोकस्य मूले षोडशयोजन सहस्रविततस्य मेरोस्तत्र स्थितिवाधापत्त्या तस्य तथा कल्पयितुमशक्यत्वात् । किश्चेलावृतस्य चतुस्त्रिंशद्योजन सहस्रत्वे तत्र मूले षोडशयोजनसह स्रविततस्य मेरोश्चतुर्दिश- मवष्टम्भगिरीणां अयुतयोजनविस्तृतानां स्थित्यसम्भवेन पूर्वेणेला वृतमुपप्लावयतीत्यादिवक्ष्यमाणगङ्गावतरणादिविरोधभयात् पूर्वपश्चिमी गिरी दक्षिणोत्तरतोऽयुतयोजनविस्तारौ दक्षिणोत्तरौ च गिरी पूर्वापरतस्तावद्विस्ताराविति या कल्पना कृती साऽस्मत्पक्षे नास्ति इलावृतस्य षट्चत्वारिंशेयोजन सहस्रत्वेन " यथाश्रुतसर्वतोऽयुतयोजनविस्तृतानां गिरीणां यथेष्टस्थितिसम्भवादिति ध्येयम् ॥ ११ ॥ * * अयुतयोजनपरिमाणौ विस्तारोन्नाह। येषां ते तथाभूता मेवादयश्चत्वारो गिरयो मेरोश्चतुर्दिश तस्यावष्टम्भभूता उपक्लृप्ताः परमेश्वरेण रचिताः सन्ति । तेषां च सुवर्णमयत्वं मन्थानाकृतित्वं ‘अमरदानवावर्णयामास भारेण कनकाचलः’ इत्यष्टमस्कन्धे वक्ष्यमाणेन मन्दरस्य मन्थानत्वकरणेन च ज्ञेयम् ॥ १२ ॥ एतेषु मन्दरादिषु चतुषु चूतादयश्चत्वारः, अधिसहस्र मेकादशशतानि योजनान्युन्नाह उच्छ्रायों येषां तावती एकादशशतयोजन- प्रामाणिकी विटपविततिर्येषां शतयोजनं परिणाहो विस्तारः परितः स्थौल्यं येषां तथाभूताः पादपप्रवराः पर्वतानां तेषां केतव इव स्थिताः सन्ति ॥ १३ ॥ जलस्थानें मध्यादयो येषु तथाभूताश्चत्वारो हृदाश्च प्रत्येक चतुर्षु पर्वतेषु सन्ति । यदुपस्पर्शिनो यत्सेविन उपदेवगणाः स्वाभाविकानि योगप्रयत्नं विनैव सिद्धानि अणिमाद्यैश्वर्याणि धारयन्ति । है भरतर्षभेति सम्बोधनमा कार्य- सूचनाय ।। १४ ।। ॐ नन्दनादीनि चत्वारि देवोद्यानानि च तेषु चतुषु भवन्तीत्यर्थः ॥ १५ ॥ * * ललामों सुरललना देवस्त्रियस्तासामपि भूषणभूता याः श्रेष्ठाः स्त्रियस्तासां यूथपतय उपदेवगणैर्गन्धर्वादिभिरुपगीयमानो महिमा येषां तेऽमर परिवृढा विबुधश्रेष्ठास्ताभिः सह येषुयानेषु विहरन्तीत्यन्वयः । सन्देहवारणायाह- किलेति ।। १६ ।। । ॥ का । * 1 astiishe गाई श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । ललामो भाषण एवमिति । एवं इलावृतं दक्षिणेन इलावृतस्य दक्षिणस्यां दिशीत्यर्थः । अत्रापि दक्षिशब्दतः सप्तम्यर्थे एनप्रत्यय दक्षिणेनेति बोध्यम् । निषधः, हेमकूटः, हिमालयः, इत्येते त्र्यः पर्वताः । नीलादयः यथा तथैव प्रागायतीः नीलादिवत्पूर्वतो दीर्घाः, अयुतयोजनमुत्सेध उच्छ्रायो येषां तथाभूताः । अयं चोत्सेधो नीलादीनामपि द्रष्टव्यः । नीलादिप्रथुत्वं चैषामपि द्रष्टव्यम् । हरिवर्षश्च किंपुरुषश्च भारतं च तेषां वर्षाणां यथासंख्यं मर्यादागिरय इति शेषः ॥ ९ ॥ तथवेति । तथैव, इलावृतं, अरेण इलावृतस्य पश्चिमदिग्भागे इत्यर्थः । पूर्वेणेलावृतस्य पूर्वदिग्भागे चेत्यर्थः । अत्राप्यपरपूर्वशब्दाभ्यां सप्तम्यर्थे, एनप्प्रत्ययेऽपरेण पूर्वेणेति बोध्यमव्ययत्वाद्विभक्तेर्लोपः । माल्यवांश्च गन्धमादनश्च तौ पर्वती, क्रमेण आनीलनिषधायतौ उत्तरतो नीलपर्यन्तं * प ४१ ३३८ श्रीमद्भागवतम् दक्षिणतो निषधपर्यन्तं दीर्घो नीलनिषधपर्यन्तोत्तरदक्षिणामावित्यर्थः । द्विसहस्रं पप्रथतुः [ स्कं. ५ अ. १६ श्लो. १७-२४ बज्ज्ञेयः ।। १० ।। * केतुमालेति । केतुमालश्च भद्राश्वश्व तयाः, सीमानं मर्यादांश्थूभवतः । उच्छ्रायो नीलादि- विदधाते कुरुतः । नन्वेवं सति पूर्वापर रेखायामिलावृतवेष्टितो मेरुमध्ये ततः पूर्वापरतो गिरिद्वयं वर्षद्वयं च नातः परं किंचिदस्ति । दक्षिणोत्तर रेखायां तु तथैबेला- वृत्तवेष्टितो मेरुर्मध्ये उभयतस्त्रीणि त्रीणि वर्षाणि गिरयश्च तत्कथं सर्वतो लक्षप्रमाणत्वं जम्बूद्वीपस्येत्याशङ्कायामुच्यते - मेरोः षोडशसहस्राणि सर्वतः स्थितत्वान्मेरुमध्यतः दक्षिणोत्तर रेखायां पूर्वापर रेखायां च स अष्टावष्टौ सहस्राणि वर्त्तमानो जातः, एवं सतीलावृतः मेरुं विना दक्षिणोत्तर रेखायां पूर्वापररेखायां च नवनवसहस्रपरिमितः शिष्टः । नवनवसहस्रपरिमितः शिष्टः । एवं सत्यष्टादशेलावृतस्य षोडश मेरोरन्येषां षण्णां चतुष्पनाशगिरीणां षण्णां द्वादशेत्येवं दक्षिणोत्तर रेखायां तावलक्षप्रमाणं सिद्धम् । पूर्वापर रेखायां तु भद्राश्वे- लावृतकेतुमालानां चतुस्त्रिंशत्सहस्रायामोक्तेश्चतुः सहस्रसंख्याकगिरिद्वयेन सहैकलक्षाधिकषट्सहस्राधिकत्वं प्राप्तमिति चेत् पूर्वापर- रेखायामपि स मेरोरिलावृतस्य चतुस्त्रिंशत्, गिर्योश्चत्वारि, भद्राश्वस्यैकत्रिंशत्सहस्राणि, केतुमालस्यैकत्रिंशत्सहस्राणीत्येव पूर्वापर- वर्षयोरासमुद्रं देर्घ्यं द्रष्टव्यानि । तयोर्यचतुस्त्रिंशत्संख्यावत्त्वं तत्तयोदक्षिणोत्तररेखायां द्रष्टव्यमेवं सति न विरोधः ॥ ११ ॥ gh 4. मन्दर इति । मन्दरः, मेरुमन्दरः, सुपाश्वः, कुमुदः, इत्येते चत्वारः पर्वताः अयुतयोजनप्रमाणौ विस्तारोन्नाही येषां तथाभूताः, विस्तीर्णमूर्ध्ना मेरोरवष्टम्भत्वात् पूर्वपश्चिमी गिरी उपरि दक्षिणोत्तर विस्तारौ दक्षिणोत्तरौ गिरी च पूर्वापरविस्तारौ द्रष्टव्यौ । सर्वतो दशयोजनविस्ताराङ्गीकारे चतुर्दिश मेर्वपेक्षयावशिष्टनवसहस्रावकाशलोपे त्विलावृतलोपात्पूर्वेणेलावृतमुपप्लावयतीत्यादिविरोधः स्यात् । मेरोः चतुर्दिर्श, अवष्टम्भगिरयः प्रागादिक्रमेण उपक्लृप्ताः विन्यस्ताः ॥ १२ ॥ * * चतुष्विति । चतुषु मन्दरादि- चतुःसंख्याकेषु एतेष्ववष्टम्भपर्वतेषु, क्रमेण चूत आश्रमश्च जम्बूच कदम्बच न्यग्रोधो वदश्च ते चत्वारः पादपप्रवराः वृक्षश्रेष्ठाः, पर्वतकेतवः पर्वतानां ध्वजा इव, अधिसहस्रयोजनमेकादशशतयोजनानि उन्नाहो येषां ते तथाभूताः, तावत्प्रमाणं विटपानां शाखानां विततियेषां तथोक्ताः । सन्तीति शेषः ॥ १३ ॥ * * शतेति । चतुष्वैतैष्विति शेषः । पयो दुग्धं च मधु च इक्षुरसश्च मृष्टजल मिष्टं पानीयं च येषां ते । शतयोजनं परिणाहो विस्तारो येषां ते तथाभूताः, चत्वारः ह्रदाः सन्तीति शेषः । यदुपस्पर्शिनः यत्सेविनः उपदेवगणाः सिद्धादयः हे भरतर्षभ, स्वाभाविकानि स्वभावसिद्धानि, योगेश्वर्याणि अष्ट महैश्वर्याणि धारयन्ति ॥ १४ ॥ * * देवोद्यानानीति । किं च चतुर्ष्वतेषु नन्दनं, चैत्ररथं, वैभ्राजकं सर्वतोभद्रं, इत्येवविधाभिधानानि चत्वारि देवोद्यानानि चापि भवन्ति सन्ति ॥ १५ ॥ * * येष्विति । येषु देवोद्यानेषु, अमरपरिवृढाः देवेषु श्रेष्ठाः देवाः सुरललनानां सुरस्त्रीणां ललामा भूषणमूता याः स्त्रियस्तासां यूथस्य पतयः, ताभिरिति शेषः । सह संभूय, उपदेवगणैः उपगीयमानः महिमा येषां तथाभूताः सन्तः विरहन्ति किल ।। १६ ।। ॥ भाषानुवादः कृ इसी प्रकार इलावृतके दक्षिणकी ओर एकके बाद एक निषध, हेमकूट और हिमालय नामके तीन पर्वत हैं । नीलादि पर्वतोंके समान ये भी पूर्व-पश्चिमकी ओर फैले हुए हैं और दस-दस हजार योजन ऊँचे हैं। इनसे क्रमशः हरिवर्ष, किम्पुरुष और भारतवर्षकी सीमाओंका विभाग होता है ॥ ९ ॥ * * इलावृतके पूर्व और पश्चिमकी ओर - उत्तर में नील पर्वत और दक्षिणमें निषध पर्वततक फैले हुए गन्धमादन और माल्यवान् नामके दो पर्वत हैं । इनकी चौड़ाई दो-दो हजार योजन है और ये भद्राश्व एवं केतुमाल नामक दो वर्षोंकी सीमा निश्चित करते हैं ॥ १० ॥ * * इनके सिवा मन्दर, मेरुमन्दर, सुपार्श्व और कुमुदः चार दस-दस हजार योजन ऊँचे और उतने ही चौड़े पर्वत मेरु पर्वतकी आधारभूता भूमियोंके समान बने हुए हैं ॥ ११ ॥ * * इन चारोंके ऊपर इनकी ध्वजाओंके समान क्रमशः आम, जामुन, कदम्ब और बड़के चार पेड़ हैं। इनमेंसे प्रत्येक ग्यारह सौ योजन ऊँचा है और इतना ही इनकी शाखाओंका विस्तार है। इनकी मोटाई सौ-सौ योजन है ॥ १२ ॥ भरतश्रेष्ठ ! इन पर्वतोंपर चार सरोवर भी हैं जो क्रमशः दूध, मधु, ईखके रस और मीठे जलसे भरे हुए हैं । इनका सेवन करनेवाले यक्ष किन्नरादि उपदेवोंको स्वभावसे ही योगसिद्धियाँ प्राप्त हैं ॥ १३ ॥ * * इनपर क्रमशः नन्दन, चैत्ररथ, वैभ्राजक और सर्वतोभद्र नामके चार दिव्य उपवन भी हैं ॥ १४ ॥ * इनमें प्रधान प्रधान देवगण अनेकों सुरसुन्दरियोंके नायक बनकर साथ-साथ विहार करते हैं । उस समय गन्धर्वादि उपदेवगण इनकी महिमाका बखान किया करते हैं ॥ १५ ॥ * * मन्दराचलकी गोदमें जो ग्यारह सौ योजन ऊँचा देवताओंका आम्रवृक्ष है, उससे गिरिशिखर के समान बड़े-बड़े और अमृतके समान स्वादिष्ठ फल गिरते हैं ।। १६ ।। तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणर’ सोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥ १७ ॥ यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं १. प्रा० पा० रसोदेन नानारुणोदा नाम ।अनेकव्याख्या समलङ्कृतम् ३३८ स्व. ५ अ. १६ श्लो १७-२४ mance she और समन्तादनुवासयति ।। १८ ।। एवं जम्बूफलानामत्युच्च निपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥ १९ ॥ तावदुभयोरपि रोधसोर्या मृचिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्ण भवति ॥ २० ॥ यदु ह चाव विबुधादयः सह युवतिभिर्मुकुटकटक कटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥ यस्तु महाकदम्बः सुपार्श्वनि रूढो यास्तस्य कोटरेभ्यो विनिःसृताः पश्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनु मोदयन्ति ।। २२ ।। या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति ।। २३ ।। एवं कुमुदनिरूढो यः शतवन्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडा त्रायम्बरशय्यासनाभरणादयः सर्व एव कामदुधा नदाः कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृत- मुपयोजयन्ति ॥ २४ ॥ Ess ।। ।। अन्वयः विशीर्यमाणानाम् तेषाम् अतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेन, अरुणोदा नाम नदी मन्दरगिरिशिखरात् निपतन्ती पूर्वेण इलावृतम् उपप्लावयति ।। १७ ।। * * यदुपजोषणात् भवान्याः अनुचरीणाम् पुण्यजनवधूनाम् अवयव- स्पर्शसुगन्धवातः समंतात् दशयोजनम् अनुवासयति ॥ १८ ॥ एवम् इभकायनिभानाम् अनस्थिप्रायाणाम् अत्युच- निपातविशीर्णानाम् जम्बूफलानाम् रसेन जंबूनाम नदी अयुतयोजनात मेरुमंदरशिखरात् अवनितले निपतन्ती आत्मानम् दक्षिणेन इलावृतम् उपस्यन्दयति ॥ १९ ॥ ॥ ४ तावत् उभयोः अपि रोधसोः या मृत्तिका तद्रसेन अनुविध्यमाना वाय्वर्कसंयोग- विपाकेन सदा अमरलोकाभरणम् जांबूनदम् नाम सुवर्णम् भवति ॥ २० ॥ * यत् उ ह बाब विबुधादयः युवतिभिः सह मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥ यः तु सुपार्श्वनिरूढः महाकदम्बः तस्य कोटरेभ्यः विनिः- सृताः याः पञ्चायामपरिणाहाः सुपार्श्वशिखरात् पतन्त्यः ताः आत्मानम् अपरे इलावृतम् अनुमोदयन्ति ।। २२॥ - ४ उपयुञ्जानानाम् मुखनिर्वासितः वायुः हि समंतात् शतयोजनम् अनुवासयति ।। २३ ॥ * एवम् कुमुदनिरूढः यः शत- वल्शो नाम वटः तस्य स्कन्धेभ्यः नीचीनाः पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः कामदुधाः सर्वे एव नदाः कुमुदाप्रात् पतन्तः तम् इलावृतम् उत्तरेण उपयोजयन्ति ॥ २४ ॥ khan क ॥ श्रीधरखामिविरचिता भावार्थदीपिका । ॥ ॥ याः अतिमधुरश्वासौ स्वतः सुरभिश्च सुगन्धिश्च न चान्येषां गन्धैरधिवासितः । बहुलश्चारुणश्च रसः स एव उदमुदकं तेन ॥ १७ ॥ * * यदुपजोषणाद्यस्य रसस्य सेवनात् ॥१८॥ * अनस्थिप्रायाणामतिसूक्ष्मबीजानाम् । यत्र निपतति ततश्चारभ्यात्मनो दक्षिणतः सर्वमिलावृतं व्याप्य वहतीत्यर्थः ॥ १९ ॥ * * तावत्सर्वतः रोधसोस्तटयोः ।। २०-२१ ।। ।
-
- आयामोऽत्र व्यामः । स च “व्यामो बाह्रोः सकरयोस्ततयोस्तिर्यगन्तरम्” इत्युक्तलक्षणः । पंच व्यामाः परिणाहः स्थौल्यं यासामित्यर्थः । केचित्तु पंच व्यामपरिणाहा इत्येवं पठन्ति ।। २२-२३॥ * * नीचीना अधोमुखाः ।। २४-२६ ॥ महीं की porm ha * श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः) 1 सर्वतः स्वप्रवाहव्याप्तं करोति तेषामाम्रफलानां विशीर्यमाणानां स्फुटितानाम् । इलावृतस्य पूर्वदिग्देशमुपष्लावयति सर्वतः । ॐ ॥ १७ ॥ * * पुण्यजनवधूनां यक्षांगनानाम्। अनुवासयति सौरभ्ययुक्तं करोति ॥ १८ ॥ * * इत्यर्थ इति । आत्मनः पतनदेशाद्दक्षिणस्यां सर्वमिलावृतमुपप्लावयतीति भावः । सर्व मिलावृतमुपप्लावयतीति भावः । चक्रवर्ती तु — दक्षिणस्यां दिशि यावदिला वृतं तावदात्मानं वर्द्धयन्तीति शेषः । नवयोजन सहस्रपर्यन्तं निःसृत्येत्यर्थमाह ॥ १९ ॥ * * तावत्पर्यन्तमेव अनुविध्यमाना युज्यमाना या मृत्तिका सा सुवर्ण भवति । तत्र हेतुः – वाय्वर्केति ॥ २० ॥ * * यत्सुवर्णम्, आदिना गन्धर्वादिग्रहः । पुनरादिना ताटंकादिग्रहः ।। २१ ।। २१ ॥ * * । । सुपार्श्वे मेर्ववष्टंभीभूत पश्चिमदिवस्थगिरौ । निरूढः स्थितः । कोटरेभ्यो महाशाखा- विद्रेभ्यः । इत्यर्थः इति समास इति भावः । अनुमोदयन्ति तत्र लोकप्रशंसाभिरात्मानं हर्षयन्ति ।। २२ । या मधु- १. प्रा० पा० वृतमुपस्यन्दति । २. प्रा० दति । २. प्रा० पा०– रसेनानुविध्यमाना च वाय्व० | ३. प्रा० पा० सदा चामरलोकाभरणं । ४. प्रा० पा० सहस्रयुवतिभि० । ५. प्रा० पा० निरूढस्तस्य याः कोट० । ६. प्रा० पा०- मनुमादयन्ति । ७. प्रा० पा० यो धप० ।
८. प्रा० पा० - मुखनिःश्वसितो । ९० प्रा० पा०
नीलीनाः । १०. प्रा० पा० - गुडान्नाम्बरशय्या० । ३४० धाराः । उपयुंजानानां भुंजताम् ॥ भोजयन्ति ॥ २४ ॥ श्रीमद्भागवतम् स्क. ५ अ. १६ श्लो. १७-२४ २३ || SHE ॥ * * कुमुद उत्तरदिकस्थोऽवष्टंभगिरिः । आदिना शर्करान्नादिग्रहः । उपयोजयन्ति न श्रीमद्वीरराघवयाख्या FERTESFEIPFESTY तेषां फलानां विशीर्णानामधः पातेन भिद्यमानानामतीव मधुरवासी स्वतः सुरभिश्च सुगन्धिश्च चान्येषां गन्धैर- धिवासित इति उपरिष्टात् बहुलश्वारुणश्च रसः स एवोदकं तेनारुणोदानामारुणोदेति । प्रसिद्धा नदी मन्दरशिखरान्निपतन्त्यधोऽधः स्पन्दमाना पूर्वेणेलावृतमिलावृतवर्षस्य पूर्व प्रदेशमुपप्लावयति सिश्चति आत्मानमुपस्यन्दयतीत्यर्थः ।। १७ ।। * * अरुणोदां नदीं विशिनष्टि यदिति । यस्या अरुणोदाया उपजोषणाद्रसपानाद्भवान्या अनुचरीणां पुण्यजनानां यातुधानानां या वध्वः तासाम- व्यवसंस्पर्शेन सुगन्धसुरभिर्वातो वायुः समन्तात्सर्वतो दिश दशयोजनमनुवासयति सुरभीकरोति || १८ || * * एवं जम्बूफलानां मेरुमन्दरोत्सङ्गनिरूढजम्बूफलानामत्युञ्चान्मेरुमन्दरात् यो निपातस्तेन । विशीर्णानां भिन्नानामनस्थिप्रायाणामति- सूक्ष्मबीजानामिभकायनिभानां गजशरीरसदृशानां रसेन जम्बूनदीति प्रसिद्धा मेरुमन्दरस्य शिखरादयुतयोजनोच्छ्रायाद् भूतले निपतन्ती दक्षिणेनेलावृतमिलावृतस्य दक्षिणभागं यावदिलावृतमात्मानमुपस्यन्दयति इलावृतस्य दक्षिणं भागं प्राध्य वहतीत्यर्थः ॥ १९ ॥ * * यावदिलावृतमुपस्यन्दयति तावत्पर्यन्तमुभयोरपि रोधसोः तटयोर्या मृत्तिका तद्रसेन तस्या नद्या रसेनानु विध्यमाना संयुज्यमाना वाय्वर्कसंयोगतो यो विपाकः परिणामस्तेन जीम्बूनदं नाम सुवर्ण सदा निरन्तरममरलोकानामा- भरणोपयोगि भवति । एतदेवाह यदु सुवर्ण विबुधादयो युवतिभिः सह मुकुटाद्याभरणरूपेण धारयन्ति ।। २०-२१ ।। * * यस्त्विति । सुपार्श्वस्य पर्वतस्य यः पश्चिमी भागस्तत्र निरूढो यो महाकदम्बस्तस्य कोटरेभ्यो विनिःसृताः पचायामपरिणाहाः सकरयोर्बाह्वोः यन्तिर्यगन्तरं तदत्रायामः पश्चायामः परिणाहः स्थौल्यं यासां ताः पत्र मधुधाराः सुपाइर्वशिखरात्पतन्त्यः अपरेणे- लावृतस्य पश्चिमं भागं प्रत्यात्मानमनुमोदयन्ति सुरभीकुर्वन्ति स्यन्दन्त इत्यर्थः । धारा विशिनष्टि । यास्त्विति । उपयुआनानां धारा उपभुआनानां यो मुखनिर्वासितो मुखगन्धेन निर्वासितः नितरां सुरभीकृतो वायुः समन्ताच्छतयोजनं सुरभीकरोति निरतिशय- सौरभ्ययुक्ता धारा इत्यर्थः ॥ २२-२३ ॥ ४ एवं कुमुदपर्वते निरूढो यः शतवल्श इति प्रसिद्धो वटस्तस्य स्कन्धेभ्यो विनिर्गताः पयोदधिमधुघृतगुडान्नाद्युम्बरशय्यासनाभरणादीनि गुडान्नादीनि भक्ष्याणि अम्बराणि धार्याणि शय्यासनादीनि भोगस्थानानि आभरणानि च दुहन्तीति दुधाः सर्वे नदाः कुमुदस्य पर्वतस्याप्रात्पतन्तस्तमुत्तरेणेला वृतमिला वृतस्योत्तर भागमुपजोषयन्ति प्रीणयन्ति इलावृतस्योत्तरभागस्थान् लोकान् सुखयन्तीत्यर्थः एतदेवाह । यान्नदानुपजुषाणानां सेवमानानां प्रजानां बल्यादयः तापविशेषा न भवन्ति किन्तु यावज्जीवं निरतिशयं सर्वोत्कृष्टं सुखमेव भवति । वलिस्त्वग्गतो विकारः पलितं केशगतक्लमः श्रमः आमयो रोगः उपसर्गाः सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमदमात्सर्येर्ष्यादयः प्रागुक्ता ज्ञेया इत्यर्थः ।। २४-२५ ।। Ep 8 EC ENTRIES 7 श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली empire coin an in तेषां फलाना मतिमधुरादिलक्षणेन रसोदेन रसाख्यजलेन पूर्वेणेलावृतमिलावृतवर्षस्य पूर्वप्रदेशमुपधावतीति । केचित्तत्र “धावु गतिशुद्धयोः” इति धाताः शुद्धं करोतीत्यर्थः, स्वजलप्रवाहेणेति शेषः ।। १७ । * उपजोषान्निषेवणात् अनुचरीणां दासीनामनुवासयति सौरभ्ययुक्त करोति ॥ १८ ॥ अनस्थिप्रायाणां बहुलमनन्तर्बीजानामिभकायनिभानामिति । बुद्धयारोहार्थमुक्त न तु तावत्परिमाणनिश्चयन “अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि च । फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिः ।।” इति वायुपुराणवचनात् तत्प्रमाणमवगन्तव्यमयुतयोजनादिति । शिखरस्यैव तावत्त्वं न किन्तु शिखरादवनितलान्तरालप्रदेशस्य तावस्त्वमित्यवगन्तव्यमिलावृतमात्मानं दक्षिणेन दिग्भागेन यावदुपस्यन्दयति तावत्स्थलमुभयो रोधसोस्तीरयोर्जम्बूफलरसेनानु विध्यमाना प्रतिहन्यमाना या मृत्तिका स मृत्तिका सा जाम्बूनदं नाम सुवर्णं भवतीत्यन्वयः । तत्र हेतुर्वाय्वर्केति ।। १९-२१ ।। * कोटरेभ्यः वृक्षविवरेभ्यः “व्यामो हस्तावधिः स्मृतः” इति हलायुधः । अपरेण पश्चिम ।। २२ ।। मुखनिर्वासितः मुखनिर्गतः ॥ २३ ॥ * इलावृतस्थजनानुपभोजयन्ति ॥ २४ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी जिम काडीचा me SEE | १ स्वतः सुरभिश्चान्येषां गन्धैरधिवासितश्च ।। १७-१८ ।। * * अनस्थिप्रायाणामतिसूक्ष्मबीजानां दक्षिणेन दक्षिणस्यां दिशि यावदिलावृतं तावदात्मानं वर्द्धयन्तीति शेषः । नवयोजनसहरू पर्यन्त निःसृत्येत्यर्थः ॥ १९ ॥ तावत् पर्यन्तमेव उभयोरेव रोधसोस्तयोरनुविध्यमाना युज्यमाना या मृत्तिकास्ताः सुवर्ण भवति । २०-२१ ॥ * * आयामोऽत्र व्यामः स च । ‘व्यामो बाहोः सकरयोस्ततयो स्तिर्यगन्तरमित्युक्तलक्षणः, पञ्चभिव्यामः परिमितः परिणाहः स्थौल्यं यासां ताः । केचित्तु पञ्चव्यामपरिणाहा इति पठन्ति अनुमोदयन्ति तत्र लोकप्रशंसा भिरात्मानं हर्षयन्ति ।। २२-२३ ॥ शतस्कन्धः नीचीनाः अधोमुखाः ॥ २४-२८ ॥ शतवल्शः 1 —ना नह एक. ५ अ. १६ श्लो. १७-२४] अनेकव्याख्यांसमलङ्कृतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः PIPE 19 :BP BIBBIAPE HOPE HEP EP TPER तेषां फलानामतिमधुरश्चासौ सुरभिच सुगन्धिश्च गन्धान्तरानधिवासितः ब्रहुलश्चारुणश्च रसः स एवोदमुदकं तेन हेतुनाऽरुणोदा नाम प्रसिद्धा नदी ॥ १७ ॥ * * यद्यस्य रसस्योपजोषणात्सेवनात् ।। १८ ।। अनस्थिप्रायाणाम- नस्थिप्रायाणाम् ॥ १९ ॥ * * तावत्सर्वतः ॥ २०-२२ ॥ - ४ ६ स्कल्वेभ्यो नीचीनाः अधः पतमाना, काम्यन्ते इति कामाः पदार्थास्तान् दुहन्तीति तथाभूताः के कामा इत्याकाङ्गायामाह । पय इति ॥ २४ ॥ चिकन विक ।। गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी मन्दरस्योत्सङ्ग एकादशशतयोजनमुत्तुङ्गो यो देवचूतनामक आम्रवृक्षस्तस्य शिरसः सकाशात् गिरिशिखरवत्स्थूलानि अमृततुल्यानि मिष्टानि फलानि पतन्ति । फलप्रमाणं तु वायुपुराणे उक्त ज्ञयम्- अरत्नीनां शतान्यष्टावेकषष्टद्यधिकानि च । फलप्रमाण व्याख्यातमृषिभिस्तत्त्वदर्शिभिः’ इति ॥ १७ ॥ * * तेषां फलानामुखनिपातेन विशीर्यमाणानां योऽतिमधुरवासी सुरभिसुगन्धिश्च बहुलश्चारुणश्च रसः स एवादमुदकं तेन जाता अरुणोदा नाम नदी ॥ १८ ॥ यदुपजोषणात् यस्य रसस्य पानात ॥ १९ ॥ * * अनस्थिप्रायाणामतिसूक्ष्मबीजानां रसेन जाता जम्बूनाम नदी यत्र निपतन्ती भवति तत आरभ्य दक्षिणेनात्मानमात्मनो दक्षिणतः सर्वमिला वृतमभिव्याप्योपस्यन्दति, प्रवहतीत्यर्थः ॥ २० ॥ * * तस्या उभयोरपि रोधसोस्तटयोर्या मृत्तिका तस्या रसेनानुविध्यमाना विक्लिद्यमाना तावद्वाय्वर्क संयोगाद्विपाकेन सदा सर्वदाऽमरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति । अमरलोकेति मनुष्यगन्धर्वादीनामप्युपलक्षणम् ॥ २१ ॥ * * यत्सुवर्ण विबुधादयो युवतिभिः सह मुकुटाद्याभरणरूपेण धारयन्ति । उह वावेति तद्समहिम्न आश्चर्यसूचनाथ निपातद्वयम् । खल्विति निश्चयार्थम् ।। २२ ।। ततस्तु सुपाश्वनिरूढो महाकदम्बस्तस्य कोटरेभ्यो विनिरसृतायाः पचायामपरिणाहाः । आयामोऽत्र व्यामः । स च ‘बाहोः सकरया- स्ततयोस्तिर्यगन्तरम्’ इत्युक्तलक्षणः । पञ्च व्यामः परिणाहः स्थौल्यं यासां तथाभूताः पन मधुधाराः सुपार्श्वशिखरात् पतन्त्यो परेणात्मानमात्मनः पश्चिमत, इलावृतमनुमादयन्ति शोभयन्ति तत्रत्यं प्राणिजातं हर्षयन्तीति वाऽर्थः ॥ २३ ॥ * * उपयुआ- नाना सेवमानानां प्राणिनाम् ।। २४ ।। 20 Free Dog Das me | SIFÉS MIV JIPFIUSE PR || फिट श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी की Pino me तादिफलरसप्रभवा नदीराह मन्दरेति । मन्दरोत्सङ्ग मन्दराद्रिशिखरस्याधस्तात्प्रदेशे इत्यर्थः । एकादशशतयोजन- -मुसुङ्ग उन्नतो यो देवचूतस्तस्य शिरस्तस्मात्सकाशात् गिरिशिखरस्थूलानि, अमृतकल्पानि अमृततुल्यानि फलानि पतन्ति । फलप्रमाणमुक्तं वायुपुराणे ‘अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि च । फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिः” इति । फलानि फलन्तीति पाठे गौर्गच्छतीतिवत्कदर्थस्य विशेषणत्वाद्धात्वर्थस्य विवक्षा वेद्या । ग्राहकाभावात्पक्कानि भवन्तीत्यर्थः ॥ १७ ॥ तेषामिति । विशीर्यमाणानामधःपातेन भिद्यमानाना, तेषां फलानां, अतिमधुरश्वासी, सुरभिः स्वतः सुगन्धिश्च सुगन्धिरन्येषां गन्धेरनधिवासितश्च बहुलः घनीभूतश्चासावरुणी रक्तवर्णश्च योऽसी रसः स एवोदमुदकं तेन, अरुणोदा नामारुणोदेति नान्ना प्रिसिद्धा नदीं मन्दरगिरिशिखरात् निपतन्ती पतमाना अधोऽधः स्यन्दमाना सतीति यावत् । पूर्वेणेला वृत मिला वृत्तवर्षस्य पूर्वप्रदेशं, उपप्लावयति सिञ्चति । केचित्वत्र उपधावतीति क्रियां पाठीकृत्य ‘धावु गतिशुद्धयो::, इति धात्वर्थमुपादाय स्वजलप्रवाहेण शुद्धं करोतीत्यर्थं माहुः ॥ १८ ॥ * अरुणोदा नदीं विशिनष्टि यदिति । यदुपजोषणाद्यस्य रसस्य सेवनात, यद्वा यस्या अरुणोदाया ‘उपसेवनाद्रसपानात्, भवान्याः पार्वत्याः, अनुचरीणां दासीना, पुण्यजनवधूनां यातुधानाङ्गनानां अवयवस्पर्शेन प्रतीकसंस्पर्शमात्रेण सुगन्धिः शोभनगन्धवान् वातो वायुः समन्तात्सर्वतो दिशं दशयोजनं दशयोजनपरिमितं देशं, अनुवासयति सुरभीकरोति ।। १९ । एवमिति । एवमित्थमेव, अत्युच्चादत्युचतोपेतमेरुमन्दरगिरिशिखरात् यो निपातस्तेन विशीर्णानां भिन्नानां अनस्थिप्रायाणामतिसूक्ष्म बीजानां इकायनिभानां गजशरीर सदृशानां, जम्बूफलानां मेरुमन्दरोत्सङ्गनिरूटे जम्बूफलानां, रसेन जम्बूनाम नदी जम्बूनाम्ना विख्याता धुनी अयुतयोजनात् अयुतयोजनोच्छ्रायात् मेरुमन्दर शिखरात, अवनितले भूतले, निपतन्ती सती दक्षिणेन आत्मानम् आत्मन इलावृतस्य दक्षिणे भागे इत्यर्थः । यावदिलावृतम् उपस्यन्दयति । इलावृतस्य दक्षिणं भागं प्राप्य वहतीत्यर्थः ॥ २० ॥ तावदिति । तावत् यावदिलावृतमुपस्यन्दयति । तावत्पर्यन्तमित्यर्थः । उभयोः अपि, रोधसोदयो, या मृत्तिका सा, तद्रसेन तस्य नयाग रसेन, अनुविध्यमाना संयुज्यमाना, वायुश्चार्कश्च तयोः संयोगेन यो विपाकः परिणामस्तेन, सदा निरन्तरं, अमरलोकाभरणं देवलोकानामाभरणोपयोगि जाम्बूनदं नाम जाम्बूनदनाम्ना प्रसिद्ध सुवर्ण भवति ।। २१ ।। यदिति । उ ह वा व अनर्घ्यतया प्रसिद्धमेवेत्यर्थः । यत् जाम्बूनदं सुवर्णं विबुधादयः देवप्रभृतयः, युवतिभिः सह मुकुटकटक कटिसूत्राद्याभरणरूपेण, धारयन्ति खलु ॥ २२ ॥ ४ ४ यस्त्विति । सुपार्श्वे सुमेरुपश्चिम- भागगवसुपार्श्व पर्वते निरूढोऽवस्थितः, यस्तु यो वे, महाकदम्बः तस्य कोटरेभ्यः विवरेभ्यः, विनिःसृताः, सकरयोर्वाडोर्य तिर्यगन्तरं । ३४२ श्रीमद्भागवतम् [ स्क. ५ अ. १६ श्लो. २५-२९ तदत्रायामः, पञ्चायामाः परिणाहः स्थौल्यं यासां ताः, पञ्च पञ्चसंख्याकाः, मधुधाराः सुपार्श्वशिखरात् पतन्त्यः सत्यः, अपरेण आत्मानम् आत्मन इलावृतस्य पश्चिमे भागे इत्यर्थः । इलावृतम् अनुमोदयन्ति सुरभीकुर्वन्ति । वस्तुतस्त्वनुमोदयन्त्यः सत्यः स्यन्दन्ते इत्यर्थः ॥ २३ ॥ * * धारा विशिनष्टि । या हीति । याः धाराः उपयुञ्जनानामुपभुज्यमानानां, मुखनिर्वासितः मुखगन्धेन निर्वासितः नितरां सुरभीकृत इत्यर्थः । वायुः समन्तात्परितः शतयोजनं शतयोजनपर्यन्तायत प्रदेशमित्यर्थः । अनुवासयति सुरभी- करोति हि । निरतिशयसौरभ्ययुक्ता धारा इत्यर्थः ॥ २४ ॥ भाषानुवादः वे जब फटते हैं, तब उनसे बड़ा सुगन्धित और मीठा लाल-लाल रस बहने लगता है। वही अरुणोदा नामकी नदीमें परिणत हो जाता है। यह नदी मन्दराचलके शिखर से गिरकर अपने जलसे इलावृतवर्षके पूर्वी भागको सौंचती है ।। १७ ।। श्रीपार्वतीजीकी अनुचरी यक्षपत्नियाँ इस जलका सेवन करती हैं। इससे उनके अङ्गोंसे ऐसी सुगन्ध निकलती है कि उन्हें स्पर्श करके बहनेवाली वायु उनके चारों ओर दस-दस योजनतक सारे देशको सुगन्धसे भर देती है ।। १८ ।। * * इसी प्रकार जामुनके वृक्षसे हाथीके समान बड़े-बड़े प्रायः बिना गुठलीके फल गिरते हैं। बहुत ऊँचेसे गिरनेके कारण वे फट जाते हैं। उनके रससे जम्बू नामकी नदी प्रकट होती है, जो मेरुमन्दर पर्वतके दस हजार योजन ऊँचे शिखरसे गिरकर इलावृतके दक्षिणी भूभागको सींचती है ।। १९ ॥ * * उस नदीके दोनों किनारोंकी मिट्टी उस रससे भीगकर जब वायु और सूर्यके संयोगसे सूख जाती हैं, तब वही देवलोकको विभूषित करनेवाला जाम्बूनद नामका सोना बन जाती है || २० || * * इसे देवता और गन्धर्वादि अपनी तरुणी स्त्रियोंके सहित मुकुट, कङ्कण और करघनी आदि आभूषणोंके रूपमें धारण करते हैं ।। २१ ।। * * सुपार्श्व पर्वतपर जो विशाल कदम्बवृक्ष है, उसके पाँच कोटरोंसे मधुकी पाँच धाराएँ निकलती हैं, उनकी मोटाई पाँच पुरसे जितनी है। ये सुपार्श्वके शिखरसे गिरकर इलावृतवर्षके पश्चिमी भागको अपनी सुगन्धसे सुवासित करती हैं ।। २२ ।। जो लोग इनका मधुपान करते हैं, उनके मुखसे निकली हुई वायु अपने चारों ओर सौ-सौ योजनतक इसकी महक फैला देती ॥ २३ ॥ * * इसी प्रकार कुमुद पर्वतपर जो शतवल्श नामका वटवृक्ष है, उसकी जटाओंसे नीचेकी ओर बहनेवाले अनेक नद निकलते हैं, वे सब इच्छानुसार भोग देनेवाले हैं। उनसे दूध, दही, मधु, घृत, गुड़, अन्न, वस्त्र शय्या, आसन और आभूषण आदि सभी पदार्थ मिल सकते हैं, ये सब कुमुदके शिखरसे गिरकर इलावृतके उत्तरी भागको सींचते हैं ॥ २४ ॥ यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्कम स्वेददौर्गन्ध्यजर रामयमृत्युशीतोष्णवैवण्र्योपसर्गादयस्ताप- विशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव ।। २५ ।। कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिर पतङ्गरुचकनिषधशिनी- वासकपिलश वैदूर्यजारुधिर्वमनागकालखरनार दादयो विंशतिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ताः ।। २६ ।। जठरदेवकूटो मेरु पूर्वेणाष्टादशयोजनस हस्रमुदगायतौ द्वि सहस्रं पृथुतुङ्गौ भवतः । एवमपरेण पवनपारियात्रौ दक्षिणेन कैलास करवीरौ प्रागायतावेवमुत्तरतखिशृङ्गमकरावष्टभिरेतैः परिस्तृतोऽग्निरिव परितचकास्ति काञ्चनगिरिः ॥ २७ ॥ मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यतः उपक्लृप्तां पुरीमयुतयोजन साहस्रीं समचतुरस्रां शातकौम्भी ॐ वदन्ति ॥ २८ ॥ तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्लप्ताः ॥ २९ ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥ ॐ अन्वयः – यान् उपजुषाणानाम् प्रजानाम्। कदाचित् अपि वलीपलितलम स्वेददौर्गन्ध्यजरामय मृत्युशीतोष्ण वैवयप- ॥सर्गादयः तापविशेषाः न भवन्ति यावज्जीवम् निरतिशयम् सुखम् एव ।। २५ । कुरंगकुर र कुसुंभ वैककत्रिकूटशिशिरपतंग- रुचकनिषधशिनीवा सकपिलशंख वैदूर्य जारुधिहंसर्षभनागकालंजर नारदादयः विंशतिगिरयः मेरोः मूलदेशे कर्णिकायाः केसरभूताः इव परितः उपक्लृप्ताः ।। २६ ॥ मेरुम् पूर्वेण अष्टादशयोजन सहस्रम् उद्गायतौ द्विसहस्रम् पृथुलुंगी जठरदेवकूटौ भवतः एवम् अपरेण पवनपारियात्रौ दक्षिणेन कैलासकर वीरौ प्रागायती एव उत्तरतः त्रिश्ट गमकरी एतैः अष्टाभिः परितः परिस्तृतः अग्निः इव काञ्चनगिरिः चकास्ति ॥ २७॥ * * मेरोः मूर्धनि मध्यतः उपकूलप्ताः अयुतयोजनसहस्रीम् समचतुरखाम् भगवतः शातकौम्भीम् वदन्ति ।। २८ ।। * ताम् अनुपरितः अष्टानाम् लोकपालानाम् यथादिशम् यथारूपम् अष्टौ पुरः तुरीयमानेन उपक्लृप्ताः ।। २९ ।। Pre इति षोडशोऽध्यायः ॥ swe १. प्रा० पा०– कुवर० । २. प्रा० पा०— नीरदाययामा । ३. प्राचीने पाठे ‘विंशतिगिरयो’ - पाठः न । ४. प्रा० पा० साल । AS PEFIED १५ मा० पा० द्विसाहत प्रा० पा०-द्विसाहस्रं Reserebrume स्कं. ५म. १६ श्लो. २५-२९ अनेकव्याख्या समलङ कृतम् SPETITES HIM श्रीधरस्वामिविरचिता भावार्थदीपिका DEFI ३४३ चतुर्दिक्षु मेरुमूलायोजन सहस्रं त्यक्तवाग्नेः परितः परिधयः इव जठरदेवकूटादयस्तिष्ठन्ति अतोऽष्टादशयोजन सहस्रं प्रमाणमत्रोक्तम् । “वैष्णवादिपुराणेषु परिमाणादि यत्पुनः । अन्यथा वर्णितं तत्तु कल्पभेदाद्यपेक्षया ।।” द्विसहस्रं पृथू च तुंगी वैष्णवादिपुराणमा च. ।। २७-२८ ।। * * यथादिशं प्राच्यादिदिक्षु यथारूपमिन्द्रादिवर्णानतिक्रमेण तुरीयमानेन सार्धंद्विसहस्र- प्रमाणेन । नामानि पुराणान्तराज्ज्ञातव्यानि । यथोक्तम् “मेरौ नव पुराणि स्युर्मनोवत्यमरावती । तेजोवती संयमनी तथा कृष्णांगना परा परा ॥ श्रद्धावती गन्धवती तथा चान्या महोदया । यशोवती च ब्रह्मेन्द्रवह्नयादीनां यथा- क्रमम्” इति ।। २९ ।। Pms TERE This । इति पञ्चमस्कन्धे टीकायां षोडशोऽध्यायः ॥ १६ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः यान् नदान् । उपसर्गो भूताद्युपद्रवः । आदिना दैवादिग्रहः ।। २५ || * ‘शितिवास’ इति पाठोऽपि कचित् । आदिनामापि कचित्पर्वत एव ज्ञेयोऽन्यथा विंशतिसंख्यापूर्त्तिर्न स्यादिति । मेर्वाख्यकर्णिकायाः उपक्लृप्ता रचिताः । परिधयो हि कुंडस्थाग्नेः सन्ति तत्प्रकारो हि कुंडनिर्माणमन्येभ्योऽवसेयः । अतस्तिर्यग्भूतयोर्जठरदेव कूटयोरुदगायतयोर्मन्दरगिरेः परस्तात्स्थितिर्ज्ञेया । एवमपरेण पश्चिमायां सुपार्श्वात्परत्र पवनपारियात्रयोरप्युद्गायतोरष्टादशसहस्रयोजनयोः स्थितिस्तथैव मेरुमन्दरात्परत्र दक्षिणस्यां कैलासकरवीरयोस्तथा कुमुदादवष्टम्भगिरेः परत्रोत्तरस्यां त्रिशृङ्गमकरयोः पृथुत्वं तुंगत्वं चाष्टानां तुल्यमेव तथैवायामोऽपि । परिस्तृतः कुशैः कृतपरिस्तरणः । परितः सर्वतः ॥ २७ ॥ - * मूर्द्धनि द्वात्रिंशत्सहस्रयोजनविस्तृते । समाश्चत्वारोऽस्रयो यस्यास्ताम् । शातकौंभीं स्वर्णमयीम् । नाम तु तस्याः मनोवतीति पुराणान्तरवाक्यात् ।। २८ ।। * * तां ब्रह्मपुरीमनु । परित इत्यस्य । विवरणं यथादिशमिति ॥ २९ ॥ Castroasters ि इति श्रीमद्भागवत भावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे षोडशोऽध्यायः ॥ १६ ॥ ig श्रीमद्वीरराघवव्याख्या कुरङ्गेति । कुरङ्गादयः पर्वताः कुवलयकमलकर्णिका भूतस्य मेरोर्मूलदेशे केसरभूता इव परित उपक्लृप्ताः विन्यस्ता धात्रेति शेषः ।। २६ ॥ * * तथा मेरुं पूर्वेण मेरोः पुरस्तान्मेरुमूलायोजन सहस्रं त्यक्त्वा जठरदेवकूटौ पर्वतावष्टादश- योजन सहस्रदीर्घौ द्विसहस्रयोजनपृथुतुङ्गौ च भवतः । एवं मेरोरपरभागे पवनपारियात्रौ जठरदेवकूटाभ्यां तुल्यायामपृथुतुङ्गो भवतः तथा मेरो दक्षिणतः कैलासेकरवीरौ प्रागायती पूर्वतो दीर्घौ एवमुत्तरतस्त्रिशृङ्गमकरौ भवतः दर्भैः परिस्तृतोऽग्निरिवाष्टभिरेतैर्जठरा दिभिः काञ्चनगिरिर्मेरुः परितश्चकास्ति द्योतते ॥ २७ ॥ * मेरोर्मूर्द्धन्युपरिभागे मध्यतः मध्यप्रदेशे उपक्लृप्तां भगवतः: आत्मयोनेश्चतुर्मुखस्य पुरीमयुतयोजनविस्तारां समचतुरस्रां शातकौम्भीति प्रसिद्धां च वदन्ति, तां शातकौम्भी पुरीमनुसृत्य मेरो परितोऽष्टदिक्षु यथादिशं पूर्वादिदिशमनतिक्रममाणानामिन्द्रादीनां लोकपालानामष्टौ पुरः अंमरावती तेजोवतीसंयमनीकृष्णाङ्गना- श्रद्धावतीगन्धवतीमहोदयायशोवतीसंज्ञाः तुरीयमानेन अयुतस्य तुरीयभागेन उपक्लृप्ताः सार्द्धद्विशतसहस्रयोजनविशालाः कल्पिता इत्यर्थः ।। २८-२९ ।। maths । jeatres imeges free primate in Bless Trainer
F ॥ २६ ॥ इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां षोडशोऽध्यायः ॥ १६ ॥ II FIFTEE श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली Eren TP FE उपसर्गो भूताद्युपद्रवः ।। २५ ।। * * कुरङ्गकुररादिपर्वताः मेरोर्मूलदेशे परित उपक्लृप्ताः मेर्वाख्यपद्मकर्णिकायाः केसरा इव स्थिताः || २६ ।। ॐ अष्टादशयोजनसहस्रे दूरप्रदेशे मन्दरगिरिपूर्वभागे जठरदेवकूटौ स्थितौ भवतः । उद्गायतौ उत्तरदीर्घौ मेरुपर्वतः इलावृतमेर्वोर्मध्ये अष्टादशयोजन सहस्रे इति स एवार्थो योजनाभेद इति वा एवमपरेण एवं मेरोः पश्चिम- ये स भागस्थितसुपार्श्वगिरेः पश्चिमभागे इलावृतमेर्वोर्मध्ये अष्टादशयोजन सहस्रे दूरे पवनपारियात्रौ गिरी तिष्ठतः, तावप्युदगायतौ एवं मेरोदक्षिणतः कैलासकरबीरौ मेरुमन्दरगिरेरपि बहिर्भागे स्थितौ पूर्वपश्चिमायतौ एवं मेरोरुत्तरभागे कुमुदपर्वतादपि बहिर्भागे शृङ्गकरौ नाम गिरी आस्ताम् । अष्टादशयोजनानां सहस्रमिति सर्वत्र योन्यं तावपि प्रागायतौ द्विसहस्रपृथुत्तुङ्गत्वं च सर्वत्र समं यथा दर्भैः परिस्तृतोऽग्निस्तथैवैतैरष्टभिः पर्वतैः परितः परिस्तृतोऽलङ्कृत कास्ति कावनगिरिरित्यर्थः । एवमुक्तगिरिषु प्रागायत- ध्वादिकं लक्षणं द्विसहस्रपृथूत्तुङ्गमानमवगन्तव्यम् ॥ २७ ॥ * * मेरोर्मूर्द्धनि द्वात्रिंशत्सहस्रयोजनवितते तस्य मेरोर्मूर्ध्ना उ करोड डि .. ३४४ श्रीमद्भागवतम् स्क. ५ अ. १६ श्लो. २५-२९ मध्ये आत्मयोनेर्विरिवस्य शतकोटिं नाम पुरीं वदन्ति कभी सुवर्णमयीम् ॥ २८ ॥ तुरीयभागेन विरचि- पुर्याश्चतुर्थांशप्रमाणेन सार्धद्विसहस्रयोजनप्रमाणेनेत्यर्थः पुरः पूयैः । तामनुपरित इत्यस्य विवरणं यथादिशमिति ॥ २९ ॥ Sy * इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नाबल्यां षोडशोऽध्यायः ॥ १६ ॥ श्रीमद्विश्वनाथचक्रवर्ति कृता सारार्थदर्शिनी || को एक डिलड Teenage barice हिनू क यथादिशं प्राच्यादिदिक्षु । यथारूपमिन्द्रादिवर्णानतिक्रमेण तुरीयमानेन सार्द्धद्विसहस्रमानेन नामानि पुराणान्तराब्ज्ञात- व्यानि । यथोक्तम् “मेरौ नव पुराणि स्युर्मनोवत्यमरावती । तेजोवती संयमनी तथा कृष्णाङ्गना परा । श्रद्धावती गन्धवती तथा चान्या महोदया । यशोवती च ब्रह्मेन्द्रवह चादीनां यथाक्रमम् ॥” इति ॥ २९ ॥ । इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १६ ॥ कारंजा चिकोटी श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः :Pri PRISIP बलिस्त्वकसङ्कोचः पलित केशधावल्यं क्रमः कार्येषु श्रमः वल्यादिभियै उपसर्गास्तदादयस्तापविशेषाः न कदाचिद्भवन्ति ।। २५-२६ ।। * * एतैः परिश्रितः आवृतः अग्निरिव चकास्ति ॥ २७ ॥ मध्यतः मध्यप्रदेशे ॥ २८ ॥ तो पुरीमनु अनुसृत्य परितः यथादिशं पूर्वादिदिशमनतिक्रम्य यथारूपमिन्द्रादिवर्णानतिक्रमेण तुरीयमानेन सार्द्धद्विसहस प्रमाणेनाष्टौ । पुरः उपक्लृप्ताः । पुराणां नामानि पुरांणान्तराज्ज्ञातव्यानि । “मेरो नव पुराणि स्युर्मनोवत्यमरावती । तेजोवती संयमनी तथा कृष्णाङ्गना परा ॥ श्रद्धावती गन्धवती तथा चान्या महोदया । यशोवतीव च ब्रह्मेन्द्रवहथादीनां यथा क्रमम् ।।” इति ।। २९ । ISFIER इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे षोडशाध्यायार्थप्रकाशः ॥ १० ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी नीचीना अधोमुखाः पयआदिप्रवाहिणः सर्व एव कामदुघाः सर्वमनोरथपूरका नदाः कुमुदाप्रात् पतन्तस्तमुत्तरेणात्मन उत्तरत इलावृतं उपयोजयन्ति, उत्तरदिशि- प्रवहन्तीत्यर्थः ।। २५ ।। * * यान् नदसम्बन्धिपदार्थान् पयआदीनुपजुषाणा- नामुपभुञ्जानां प्रजानां कदाचिदपि वलीपलितादय उपसर्गादयस्तापविशेषाञ्च न भवन्ति । किन्तु यावज्जीवं निरतिशयं सर्वोत्कृष्ट सुखमेव तिष्ठतीत्यन्वयः । वलीपलितः शरीरचर्मसङ्कोचः । क्रुमः शरीरे श्रान्तिः । स्वेदादयः प्रसिद्धाः । मृत्युः अपमृत्युः । उपसर्गादयः पूर्व मूले एवोक्ता विवृताञ्च ज्ञेयाः ।। २६-२७ ।। * * मेरुं पूर्वेण मेरोः पूर्वतः जठरदेवकूटसौ पर्वतौ भवतः तिष्ठते इत्यन्वयः । अष्टादशयोजनं सहस्रप्रमाणमुदगायतौ दक्षिणोत्तरतो दीर्घौ द्वियोजनसहस्रं पृथू तुङ्गौ च । एवमपरेण मेरो पश्चिमतः पवनपारिजातसंज्ञी तिष्ठतः । तावपि दक्षिणोत्तरतोऽष्टादशयोजनसहस्रं पृथू तुङ्गौ च तथा मेरोर्दक्षिणतः कैलासकर वीरौ प्रागा- यतौ पूर्वपश्चिमतोऽष्टादशयोजन सहस्रं दीर्घौ द्वियोजनसहस्रं पृथुतुङ्गी च भवतः । एतेषां जठरादीनां रजतमयत्वं कैलासस्य राजतत्व- प्रसिद्धया तत्सादृश्येन ज्ञेयम् ॥ २८ ॥ शातकौर भी सुवर्णमयीं मनोवतीं नाम अयुतानि यानि योजन सहस्राणि तावद्विस्तृ- ताम् ।। २९ ।। * * तां ब्रह्मपुरीमनुपरितोऽन्येषाम् अष्टानां लोकपालानां यथादिशं प्राच्यादिदिक्षु यथारूपं यथानुरूपं तुरीय- मानेन ब्रह्मपुरीविस्तारस्य चतुर्थमानप्रमाणेन सार्धद्विसहस्रयोजनविस्तारेणाष्टौ पुर उपक्लृप्ता रचिताः सन्ति । तत्र प्राच्यामिन्द्रस्या- मरावती नाम, आग्नेय्यामग्नेस्तजीवती नाम, अवाच्यां यमस्य संयमिनी नाम, नैर्ऋऋत्यां निर्ऋतेः कृष्णाङ्गना नाम, प्रतीच्या वरुणस्य श्रद्धावती नाम, वायव्यां वायोर्गन्धवती नाम, उदीच्यां धनदस्य महोदया नाम, ईशान्यामीशानस्य यशोवती नाम । तथा चोक्तम्- ‘मेरी नव पुराणि स्युर्मनोवत्यमरावती । तेजोवती संयमिनी तथा कृष्णाङ्गना परा । श्रद्धावती गन्धवती तथा चान्या महोदया । यशोवती च ब्रह्मेन्द्रवादीनां यथाक्रमम् ॥’ इति ॥ ३० ॥ Colleges for histore इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायार्णा पादसेवाधिकारिणा ॥ श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र भूमिस्थाननिरूपणे । व्याख्यातः षोडशोऽध्यायः परिणामादिदर्शकः ॥ ३॥ । repear श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी Fe p hesh Premat র 1 एवमिति । एवं कुमुदनिरूढः कुमुदपर्वतमधिरूढः यः शतवल्शो नाम शतवलुशनाम्ना प्रसिद्धः वटो, न्यग्रोधः तस्य स्कन्धेभ्यः, विनिर्गता इति शेषः । नीचीना अधोमुखाः, पयश्च दधि च मधु घृतं च गुडश्च अन्नं च आदिर्यस्य तच्च अम्बराणि स्क. ५ अ. १६ श्लो. २५-२९ । " अनेकव्याख्या समलङकृतम् । । ३४५ नानाविधवस्त्राणि च शय्याश्च आसनानि च आभरणानि च आयो येषु ते सर्वे एव कामदुघाः नदाः कुमुदामात, पतन्तः सन्तः, तं इलावृतं उत्तरेण इलावृतस्योत्तरभागमित्यर्थः । उपयोजयन्ति तत्रत्यजनानुपभोजयन्ति । उपजोषयन्ति इति पाठे इलावृतस्योत्तर- भागस्थान् लोकान् सुखयन्तीत्यर्थः ॥ २५ ॥ * एतदेवाह यानिति । यान् नदान्, उपजुषाणानां सेवमानानां प्रजानां कदाचिदपि, वस्त्विग्गतो विकारश्च पलितं केशतो विकrtar कुमः श्रमश्च स्वेदश्च दौर्मन्ध्यं च जरा च आमयो रोगश्च मृत्युच शीतं च उष्णं च वैवर्ण्यं च उपसर्गाः सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलो भ्रमदमात्सर्येर्ष्यादयश्च ते आदयो येषां ते, ये तापविशेषाः, ते न भवन्ति । यावज्जीवं सुखमपि, निरतिशयमेव ।। २६ ।। * * कुरङ्गेति । कुरजा कुररक्ष कुसुम्भश्र वैकङ्कश्च त्रिकूटश्च शिशिरश्च पतङ्गश्च रुचकच निषधश्च शितिवासश्च कपिलश्च शङ्खश्च वैदूर्यच जारुधिश्व हंसश्च ऋषभच नागश्च कालञ्जरश्च नारदश्च आदिश्व ते, विंशतिगिरयो विंशतिसंख्याकाः पर्वताः, कर्णिकायाः जम्बूद्वीपस्येलावृतस्य वा कर्णिका- पर्यायमध्यप्रदेशावस्थितस्य मेरोः, केसरभूताः केसराचलाः इव मूलदेशे मेरोर्मूलप्रदेशे, परितः समंततः, उपकूलप्ताः विन्यस्ताः ! धात्रेति शेषः । अत्र कुरङ्गादीनां विंशति संख्यासिद्धये एषु कैश्चित्कपिशोऽधिकः पठितः कतिभिश्चिन्नीरनामाधिकः पठितः । वयं स्वादिनामानमेव विंशं ब्रूमः । यतः विंशतिसंख्यायां साध्यायां सत्यां प्रभृतिपर्यायस्यादिशब्दस्य प्रयोजनाभावात् । वैष्णवे पूर्वा- दिचतसृषु दिक्षु पञ्चपञ्चकेसराचलानामभिहितत्वात् । तथा हि, ‘शीतान्तश्चक्रमुञ्जच कुररो माल्यवांस्तथा । वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधादयो दक्षिणतस्तस्य केसरपर्वताः । शिखिवासाः प्रवैदूर्यः कपिलो गन्धमादनः । यारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः । शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापरः । कालञ्जरायाश्च तथा उत्तरे केसराचलाः’ इति एषां नामभेदः कल्पभेदाद्बोध्यः ।। २७ ।। * जठरेति । मेरु पूर्वेण मेरोः पूर्वस्यां दिशि मेरुमूला योजनसहस्रं त्यक्त्वेत्यर्थः । जठरश्च देवकूटश्च बौ, अष्टादशयोजन सहस्र, उद्गायतौ, द्विसहस्रं द्विसहस्रयोजन- परिमितं पृथुतुङ्गौ च भवतः । एवं अपरेण मेरोः, पश्चिमायां दिशि पवनश्च पारियात्रश्च तौ, दक्षिणेन मेरोर्दक्षिणस्यां दिशि, कैलासश्च करवीरच तौ प्रागायतौ पूर्वतो दीघौं । एवं उत्तप्तो मेरोरुत्तरस्यां दिशि, त्रिशृंगमक रौ भवतः । अष्टाभिः एतैः परितः परिसृतोऽलंकृतः काञ्चनगिरिमेंरुः, दर्भः परिस्तृतः अग्निः इव, चकास्ति । अयं भावः - मेरोः पूर्वतः इलावृतमेर्वोर्मध्ये तथा मेरोः पश्चिमत इलावृतमेर्वोर्मध्ये मेरुमूलायोजनसहस्र त्यक्त्वा पूर्वतों जठरदेवकूटौ पश्चिमतः पवनपारियात्रौ च भूमिमवष्टभ्योदक्तिर्यक्प्रसृतौ सन्तावष्टदश सहस्त्रयोजनायतौ द्विसहस्रयोजनपृथुतुङ्गौ च स्थितौ भवतः । एवं मेरोर्दक्षिणतः इलावृतमेर्वोर्मध्ये तथा मेरोरुत्तरत इलावृतमेर्वोर्मध्ये मेरुमूलायोजनसहस्रं त्यक्त्वा दक्षिणतः कैलासकरवीरौ उत्तरतत्रिशृङ्गमकरौ च भूमिमवष्टभ्य प्राकृक्तिर्यक्प्रसृतौ सन्ताष्टादशयोजन सहस्रायती द्विसहस्रयोजनपृथुतुङ्गौ च स्थितौ भवतः । एवमष्टस्वेतेषु गिरिषु उदकप्रागायतत्वादिकं लक्षणं द्विसहस्रपृथुतुङ्गत्वमानमवगन्तव्यमिति । वैष्णवादिषु पुराणेषु परिमाणादि यदन्यथा वर्णितमस्ति तत्तु कल्पभेदाद्यपेक्षया ज्ञेयम् ।। २८ ।। * मेरोरिति । मेरोः, मूर्द्धनि उपरिभागे, मध्यतो मध्यप्रदेशे, उपक्लृप्तां विश्वकर्मणा रचितां, भगवतः आत्मयोनेब्रह्मणः, पुरी अयुतयोजनसाहस्रीं अयुतसहस्रयोजनविस्तारां अत्र भागत्याग- लक्षणयाऽयुतशब्दवर्त्तिसहस्रार्थत्यागो बोध्यः । समचतुरस्रां, शातकौम्भीं सुवर्णमयत्वात् शातकौम्भीसंज्ञां वदन्ति । केचिदस्याः शतकोटिसंज्ञां च वदन्ति ॥ २९ ॥ तामिति । तां शातकौम्भी पुरी, अन्वनुसृत्य, परितः शातकौम्भ्याः समंततः, अष्टदिश्विति शेषः । यथादिशं प्राच्यादिदिक्षु पूर्वादिदिशमनतिक्रम्येत्यर्थः । यथारूपमिन्द्रादिवर्णानतिक्रमेण अष्टानां लोकपाला- नामिन्द्रादीनां, अष्टौ पुरः, तत्तुरीयभागेन शातकौम्भ्याः पुर्या मानाच्चतुर्थभागेन सार्द्धद्विसहस्रयोजनप्रमाणेनेत्यर्थः । उपक्लृप्ताः कल्पिताः । तथा चोक्तं पुराणान्तरे ‘मेरी नव पुराणि स्युर्मनोवत्यमरावती । तेजोवती संयमिनी तथा कृष्णाङ्गनापरा ॥ श्रद्धावती गन्धवती तथा चान्या महोदया । यशोवती च ब्रह्मेन्द्रवहायादीनां यथाक्रमम्’ इति । तत्र मनोवती ब्रह्मणः । अमरावतीन्द्रस्य । तेजोवत्यग्नेः । संयमिनी यमस्य । कृष्णाङ्गना निर्ऋतेः । श्रद्धावती वरुणस्य । गन्धवती वायोः । महोदया कुबेरस्य । यशोवती ईशानस्येति ॥ ३० ॥ 1 । इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुत श्रीरघुवीराचार्य सुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे षोडशोऽध्यायः ॥ १६ ॥ भाषानुवादः । इनके दिये हुए पदार्थोंका उपभोग करनेसे वहाँकी प्रजाकी त्वचा में झुर्रियाँ पड़ जाना, बाल पक जाना, थकान होना, शरीर में पसीना आना तथा दुर्गन्ध निकलना, बुढ़ापा, रोग, मृत्यु, सर्दीगरमीकी पीड़ा, शरीरका कान्तिहीन हो जाना तथा टूटना आदि कष्ट कभी नहीं सताते और उन्हें जीवनपर्यन्त पूरा-पूरा सुख प्राप्त होता है ।। २५ ।। * * राजन् ! कमलकी कर्णिकाके चारों ओर जैसे केसर होता है- उसी प्रकार मेरुके मूलदेशमें उसके चारों ओर कुरङ्ग, कुरर, कुसुम्भ, वैकङ्क, त्रिकूट, शिशिर, पतङ्ग, रुचक, निषध, शिनीवास, कपिल, शङ्ख, वैदूर्य, जारुधि, हंस, ऋषभ, नाग, कालंजर और नारद आदि ૪૪ ३४६ श्रीमद्भागवतम् पर्वत हैं। इन आठ पहाड़ोंसे चारों और [ स्कं. ६ अ. १६ श्लो. २५२९ बीस पर्वत और हैं ॥ २६ ॥ * इनके सिवा मेरुके पूर्वकी और जठर और देवकूट नामके दो पर्वत हैं, जो अठारह अठारह हजार योजन लंबे तथा दो-दो हजार योजन चौड़े और ऊँचे हैं। इसी प्रकार पश्चिमकी और पवन और पारियात्र, दक्षिणकी ओर कैलास और करवीर तथा उत्तरकी और विशुद्ध और मकर नामके घिरा हुआ सुवर्णगिरि मेरु अग्निके समान जगमगाता रहता है ।। २७ ॥ भगवान् ब्रह्माजीकी सुवर्णमयी पुरी है जो आकार में समचौरस तथा करोड़ योजन विस्तारवाली है ॥ २८ ॥ उसके नीचे पूर्वादि आठ दिशा और उपदिशाओं में उनके अधिपति इन्द्रादि आठ लोकपालोंकी आठ पुरियाँ हैं । वे अपने-अपने स्वामीके अनुरूप उन्हीं उन्हीं दिशाओंमें हैं तथा परिमाण में ब्रह्माजीकी पुरीसे चौथाई हैं ॥ २९ ॥
- कहते हैं, मेरुके शिखरपर बीचोंबीच ministeine remem नही प इति षोडशोऽध्यायः ॥ १६ ॥ काही The Fiot it free from fit fores ।। पाई Rampat is mea IRE KINDERS | AVER: DS Des mistas 4 prové farbigerian 1 DEERD ESPE free for free 1 एलडी mmstram lam T छ Page S Here tree शिका rasaifresh क rice tad uga additio http h See ale interestin fier goistine festhesio बाई ganesh desig 1 THE P PRETERS Pre EVE THIER / pic httisisir raft Paise milsina Betaalaa शिक wit in isote me 4 अथ सप्तदशोऽध्यायः Semains beeg isions श्रीशुक उवाच Een 1 तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्मिनो वण्डकटाह विवरेणान्तः प्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदी त्यनुपलक्षित- वचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १ ॥ यत्र’ ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढ क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविक्शामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक कुल को ऽधु- नापि परमादरेण शिरसा विभर्ति ॥ २ ॥ ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा या ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरत- भक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो युक्तिमित्रागतां मुमुक्षव इव सबहुमानमयापि जटाजूटैरुद्रहन्ति ॥ ३ ॥ ततोऽनेकसहस्रकोटिविमानानीकसकुलदेवयानेनावतरन्तीन्दु मण्डलमाचार्य प्रवासदने निपतति ॥ ४ ॥ तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिचतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥ सीता तु ब्रह्मसदनात्केसराचला दिगिरिशिखरेभ्योऽघोऽधः प्रसवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्ष प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६ ॥ एवं माल्यवच्छिखरानि प्पतन्ती ततोऽनुपरतवेगा केतुमाल- मभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ।। ७ ।। भद्रा चोचरतो मेरुशिरसो निपतिता गिरिशिखरागिरिशिखर- मतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८ ॥ अन्वयः - तत्र साक्षात् भगवतः यज्ञलिङ्गस्य विष्णोः विक्रमतः वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरण अन्तः प्रविष्टा या बाह्यजलधरा तञ्चरणपङ्कजावनेजनारुणकिअल्कोपरञ्जिता अखिलजगदघमलापहोपस्पर्शना अमला साक्षात् भगवत्पदी इति अनुपलक्षितवचोऽभिधीयमाना अतिमहता युगसहस्रोपलक्षणेन कालेन दिवः मूर्ध्नि अवततार यत् तत् विष्णुपदम् आहुः ।। १ ।। * * यत्र ह वा व वीरव्रतः परमभागवतः उत्कृष्यमाणभगवद्भक्तियोगेन दृढम् क्लिद्यमानान्तर्हृदयः औत्ता- नपादिः औत्कंठथविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलया अभिव्यन्यमानरोमपुलककुलकः याम् अस्मत्कुल- देवताचरणारविन्दोदकम् इति अधुना अपि परमादरेण शिरसा अनुसवनम् बिभर्ति ॥ २ ॥ ॐ ॐ ततः तत्प्रभावाभिज्ञाः सप्त ऋषयः ननु एतावती तपसः आत्यन्तिकी सिद्धिः भगवति सर्वात्मनि वासुदेवे अनुपरतभक्तियोगलाभेन एव उपेक्षितान्यार्थात्मगतयः मुमुक्षवः इव आगताम् मुक्तिम् इव अद्यापि याम् जटाजूटैः सबहुमानम् उद्वहन्ति ॥ ३ ॥ * * ततः अनेकसहस्रकोटि- विमानानीकसङ्कुलदेवयानेन अवतरती इंदुमंडलम् आवार्य ब्रह्मसदने निपतति ॥ ४ ॥ * * तत्र चतुर्धा भिद्यमाना सीता अलकनंदा चक्षुः भद्रा इति चतुर्भिः नामभिः चतुर्दिशम् अभिस्पन्दन्ती नदनदीपतिम् एव अभिनिविशति ॥ ५ ॥ Gods YMA
** सीता तु ब्रह्मसदनात् केसराचलादिगिरिशिखरेभ्यः अधोऽधः प्रस्रवन्ती गंधमादनमूर्धसु पतित्वा भद्राश्ववर्षम् अन्तरेण प्राच्याम् दिशि क्षारसमुद्रम् अभिप्रविशति ॥ ७ ॥ * * एवम् चक्षुः माल्यवच्छिखरात् केतुमालम् अभिनिष्पतन्ती ततः अनुपरत- वेगा प्रतीच्याम् दिशि सरित्पतिम् प्रविशति ॥ ७ ॥ * * भद्रा च मेरुशिरसः उत्तरतः निपतिता गिरिशिखरात् गिरिशिखरम् अतिहाय शृ गवतः शृ गात् अवस्यन्दमाना उत्तरान् कुरुन् अभितः उदीच्याम् दिशि जलधिम् अभिप्रविशति ॥ ८ ॥ ४. प्रा० पा०– निवि- १. प्रा० पा०—यत्र । यत्र वा ह वात्र । २. प्रा० पा० - युगलविगलितामल० । ३. प्रा० पा० न्ती चन्द्रमण्डल ३, प्रा॰ पा० – न्ती चन्द्रमण्डल० / ४. शते । ५. प्रा० पा०- मूधनि । ६. प्रा० पा० – निष्पतन्त्यनुपरतवेगा । ७. प्रा० पा० उदीच्यां प्रविशति । । । ३४८ श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका [ स्कं. ५ अ. १७ श्लो. १-८ ततः सप्तदशे गंगागमनं तच्चतुर्दिशम् । इलावृते च रुद्रेण संकर्षणनिषेवणम् ॥ १ ॥ 5 ल | यज्ञलिंगस्य बलेर्यज्ञे लिंगं त्रिविक्रममूर्तिर्यस्य । विक्रमतो दक्षिणेन पदा भुवं क्रांत्वा वामपदमुत्क्षिपतो वामपादांगुष्ठनखेन निर्भिन्नमूर्ध्वमुपरिभागो यस्यांडकटाहस्य तस्य विवरेणातः प्रविष्टा या बाह्यजलधारा सा दित्रो मूर्धन्यवततारेत्यन्वयः । तस्य यञ्चरणपंकजं तस्यावनेजनेन क्षालनेनारुणं तद्गतं कुंकुमं तदेव किंजल्कास्तैरुपरंजिता अत एवाखिलस्य जगतोऽघमलापहमुपस्पर्शनं यस्यास्तथाऽप्यमला तन्मलसंगशून्या साक्षाद्भगवत्पदीति यदनुपलक्षितं जाह्नवीभागीरथीत्याद्युपलक्षणांतररहितं वचो नाम तेनाभि- धीयमाना तस्मिन्समये भगवत्पदी नाम पश्चान्नामांतराणि जातानीत्यर्थः । कोऽसौ दिवो मूर्धा तमाह । यदिति ॥ १ ॥ * * किं द्विष्णुपद सदाहति” बीरबती दृढसंकल्प अस्मत्कुलदेवताया हरेश्वरणविदोदकमिति हेतोः परमादरेण बिभर्ती- त्यन्वयः । कथंभूतः सन् ? प्रतिक्षणं वर्धमानेन भगवद्भक्तियोगेन दृढमत्यत । ह्रिद्यमानमतिहृदयं यस्य । अत एवौत्कंठयेन विवशमा- मीलितं यल्लोचनयुगलं तदेव कुड्मले ताभ्यां विगलितममलं वाष्पं तस्य कळ्या सहाभिव्यज्यमानी रोमपुलकानां कुलं यस्य ॥ २ ॥ * * ततः सप्तऋषयस्तस्या गंगायाः प्रभावाभिज्ञाः संतो यां जटाजूटैरुद्वहंतीत्यन्वयः । एतावत्येव नातोऽधिका- स्तीत्यभिप्रायवतः । तत्र हेतुः । भगवति संततं भक्तियोगलाभेनैवोपेक्षिता अन्ये पुरुषार्था आत्मज्ञानं च यैः । कामिव क इव धारयति । प्रत्यक्षं मुक्तिमिव तामागताम् । मुमुक्षवो जना इव ते ॥ ३ ॥ ततो नेकसहस्रकोटीनां विमानानामनीकैः जना
- संकुलेन देवयानेनाकाशमार्गेणावतरंती । सप्तऋषिभ्योऽर्वागेव प्रायशः कर्मिणां गतिरिति ततोऽवमेव संकुलत्वमुक्तम् । आवार्य आप्लाव्य | मेरुमूर्धस्थे ब्रह्मसदने निपतति ॥ ४ ॥ * * अभिस्पंदती अभितो गच्छंती ॥ ५ ॥ मेरुसमानोच्छ्रायत्वात्प्रथमं तेषामादिशिखरेषु मुख्य मुख्य गेषु वसति ततस्तेभ्योऽघोषः प्रस्रवती सती ॥ ६ ॥ 8 * माल्य- बच्छिखरात् केतुमालाभिमुखं निष्पतंती चक्षुःसंज्ञा ॥ ७ ॥ *ा गिरिशिखरादिति ॥ कुमुदशिखरादुचलिता नीलशिखरं तत उच्चलिता श्वेतशिखरं तदुप्यतिहाय शृङ्गवतः शृगादधः स्रवंती ।। ८ ।। फ । चिकनी श्रीवंशीधरकृतो भावार्थदीपिका प्रकाश केसराचलानां क ततः सुवर्णनोत्तरं तचतुर्दिशं सुमेरुचतुर्विंशम् ( १ )। एवं मेरो परिधिकेसरादिशोभां वर्णयित्वा सर्वशोभाचूडा- मणिमतिदीर्घतरशाखा शिखरद्दीर कमुकुटविशेषायमाणां तन्मूर्ध्नि विराजमानां श्रीगंगां ध्नि विराजमानां श्रीगंगां वर्णयंस्तत्प्रादुर्भाव प्रकार माह-तत्र बुद्धिस्थ- परामर्शकत्वात्त्यदादीनां वामनावतारसमये ‘विक्रमतः त्रिसान्यसदनादुरुकंपयानम् इति । ब्रह्मोक्तौ तस्य प्रकृत्या वरणपर्यंतव्याप्ति- श्रवणाद्वाह्मपृथिव्याद्यष्टावरणेभ्यो बहिर्भूता कारणार्णवसंबंधिनी या चिन्मयी जलधारा सा दिवो मूर्द्धनि ध्रुवलोके अवततारे- त्यन्वयः । अत एव भगवच्चरणपंकजावमेजनत्वादेव । शालग्रामशिलाभिषेकांबुवन्न स्वौपचारिक किं तु साक्षादिति । यहा किंतु । यत्तत्प्रसिद्धं विष्णुपदं विज्ञा आहुस्तत्रावततारेति, संबंधोऽग्रिमनिगदेन । युगमिह ज्योतिःशास्त्रप्रसिद्धं पञ्चवर्षात्मकं ज्ञेयम् ‘युगं भवेद्वत्सरपंचकेन’ इति श्रीपत्युक्तेः ॥ १ ॥ * यत्र विष्णुपदे । यत्र विष्णुपदे । औत्तानपादिर्भुवः । अत एव विद्यमानांतर्हृदयत्वादेव । रोम पुलकानां रोमांचानाम् | कुलं समूहम् ॥ २ ॥ ** ततो ध्रुवादनंतरम् तत्र तपसं आत्यंतिकसिद्धित्वे । उपेक्षिताः (तत्रतपसं । त्यक्ताः। अन्ये धर्मार्थकामरूपाः ॥ ३ ॥ * * ततः सप्तर्षिमंडलात् ॥ ४ ॥ * * तत्र ब्रह्मसदनांगणे । नदनदीपति समुद्रम् ॥ ५ ॥ * * अंतरेण भद्राश्ववर्षे भद्राश्ववर्षमध्ये । पतित्वेति । इलावृतमल्लंध्येत्यर्थः ॥ ६ ॥ * * तत्तो निपतना- दुप्यनुपरतवेगा पूर्णवेगा सती ॥ ७ ॥ * * अभिलक्ष्य अधः स्रवंती इलावृतादिवर्षत्रयमुल्लंव्येत्यर्थः ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या : symovesgd PE FREE PBES BRIESER SEISE FIF PIPE FFTE FIFTIE FI USED एवं जम्बूद्वीपपर्वतवर्ष तत्परिमाणादिकमभिधायाथ गङ्गागमनकथनपूर्वकमिला वृतादिवर्षेषु रुद्रादीनां संकर्षणादि- भगवन्मूर्त्यपासनाप्रकारमुपद्वीपविन्यासं चाह सप्तदशादित्रिभिरध्यायैः तत्र भगवत इति । यज्ञस्य लिङ्गस्य यज्ञमूर्तेस्तत्र भगवतः पूज्यस्य विष्णोर्वामनरूपस्य विक्रमतस्त्रिलोकी पादत्रयेण क्रममाणस्य सतः तस्य वामपादाङ्गुष्ठनखेन निर्भिन्नमूर्ध्वमुपरिभागो यत्य तस्याण्डकटाहस्य विवरेण रन्ध्रेणान्तः प्रविष्ट या बाह्यजलधारा सातिमहता कालेन दिवो मूर्द्धन्यवततारेत्यन्वयः । जलधारां विशिनष्टि तस्य त्रिविक्रमस्य यच्चरणपङ्कजं तस्यावनेजनेन क्षालनेनारुणं कुङ्कुमं तदेव किअल्कास्तैरुपरञ्जिता एवाखिलस्य जगतोऽधुं पापमेव मलं तदपहं निवर्तकमुपस्पर्शनं जलं यस्याः सा तत्र हेतुरमला स्वरूपतो दुरितनिरसनक्षमा यहा अखिल जगद्घमला पहोपस्पर्शनाप्यमला अन्तरमलसङ्गशून्या साक्षाद्भगवत्पदीति यदनुपलक्षितं जाह्नवीभागीरथीत्याद्युपलक्षणान्तररहितं वचो नामधेयं तेनाभिधीयमाना भूस्पर्शनात्पूर्वं जाह्नव्यादिनामान्तररहिता तथा केवलं भगवत्पदीति नामधेयेनाभिधीयमानेत्यर्थः । कोऽसौ दिवो मूर्द्धा यत्रावतीर्णा तत्राह यत्तदिति । यद्विष्णुपदमाहुस्तत्रेत्यर्थः ॥ १ ॥ * * किन्तद्विष्णुपदं तत्राह यत्रेति । ध्रुवमण्डले इत्यर्थः । यत्र दिवो मूर्द्धनि वीरव्रतः दृढसङ्कल्पः भागवतश्रेष्ठः औत्तानपादिः भुवः अस्मत्कुलदेवता या भगवतः चरणारविन्दोदकमिति हेतोः परमा-स्क. ५ अ. १७ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् રૂપર दरेण यां धारा मनुसवनं त्रिकालं शिरसाऽद्यापि बिमर्तीत्यन्वयः । यद्वा अनुसवन प्रतिक्षणं वर्द्धमानो यो भगवद्भक्तियोगः तेन दृढमत्यन्तं क्लिद्यमानं प्रीयमाणमन्तःकरणं यस्यात एवौत्कंठ्येन विवशमामीलितं च यलोचनयुगलं तदेव कुड्मले ताभ्यां विगलितम- मलं बाष्पं तस्य कलया सहाभिव्यज्यमानं रोमपुलकानां कुलं यस्य तथाभूतः सन्नित्यर्थः ॥ २ ॥ * * ततः सप्तर्षयः तस्या गङ्गायाः प्रभावाभिज्ञाः सन्तो नोऽस्माकं तपः सिद्धिफलमियं विष्णुपदी सेवैतावती इतोऽधिका नास्तीत्येवं मन्वाना अद्यापि बहुमान जटा एव मुकुटानि तैरुद्वहन्तीत्यन्वयः । तत्र दृष्टान्तः मुमुक्षवो मुक्तिमिवागताम् इति । तत्र हेतुः सर्वात्मनि भगवति वासुदेव- ऽविच्छिन्नभक्तियोगलाभेनैव “उपेक्षिता “अनाहता अन्य पुरुषाथा अर्थकामादय आत्मगतिः कैवल्यं वचैस्त इति सप्तर्षि- विशेषणम् ॥ ३ ॥ * * ततोऽनेकसहस्रकोटीनां विमानानामनीकैः संधैः संकुलितेन देवयानेनाकाशमार्गेणावतरन्त्यधः प्रस्रव- न्तीन्दुमण्डलमावाय्र्याप्लाव्य मेरुमूर्द्धस्थे ब्रह्मसदने निपतति ॥ ४ ॥ * * तत्र चतुद्धा विभज्यमाना सीतादिसंज्ञाश्चतस्रो धारा भूत्वा सीतादिनामभिरभिधीयमाना चतुर्दिशं नदनदीपतिं समुद्रमेवाभिनिविशति समुद्रे प्रविशति अभिनिविशश्ध” इत्याधारस्य कर्मसंज्ञायां द्वितीया । नामान्याह सीतेति ॥ ५ ॥ * * तत्र चतसृणां धाराणां मध्ये सीता प्राचीना धारा ब्रह्मसदनात सरादिशिखरेभ्यः केसराचलादीनि मेरुसमानोच्छ्रायत्वात्प्रथमं तेषामादिशिखरेषु मुख्यशृङ्गेषु पतति ततस्तेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनस्य मूर्द्धसूपरिभागे पतित्वान्तरेण भद्राश्ववर्ष भद्राश्ववर्षस्य मध्ये च स्यन्दमाना प्राच्यां दिशि क्षारसमुद्रे प्रविशति ॥ ६ ॥ * * तथा चक्षुःसंज्ञा प्रतिचीना धारा माल्यवच्छिखरे निपतित्वा ततोऽधः प्रस्रवन्ती अनुपरतः अप्रतिहतो वेगो यस्याः सा केतुमालं वर्षमभितो व्याप्य केतुमालस्य मध्ये स्रवन्तीत्यर्थः । प्रतीच्यां दिशि सरिताम्पतिं समुद्रं प्रविशति आधारस्यैव कर्मत्वविवक्षयात्र द्वितीया । एवमुत्तरत्राप्यभिनिविशश्चेत्यत्रोपसर्गसङ्घातपूर्वत्वस्यैव विवक्षितत्वात् ॥ ७ ॥ * * तथा भद्रासंज्ञा धारा उत्तरतो। मेरुशिखरानिपतन्ती गिरिशिखरा कुमुदशिखरादुम्बलितोर्ध्वं गच्छन्ती नीशिखरमुश्चलिता चेत् पर्वतस्य शिखरमतिहायास्पृष्ट्वैव शृङ्गवतः पर्वतस्य शृङ्गे पतित्वा ततोऽधः स्यन्दमाना उत्तरान कुरूनभितो व्याप्य उदीच्यां दिनि लवणार्णवं प्रविशति ॥ ८ ॥ ।। FE FLUPID new FORF 16 PETA DIESEDIE श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली क तं अयत्नेन भागीरथीजलनिषेवया निर्मलान्तःकरणस्य पुंसो हरौ निरतिशयभक्तिः स्यादिति तन्महिमगर्भः तदवतारों निरूप्यतेऽस्मिन्नध्याये तत्रेत्यादिना या बाह्यजलधारा अण्डकटाहाद्बहिः स्थिता जलस्य निरन्तरसम्पातरूपा सा यत्तद्विष्णुपदं शिशुमारात्मनो हरेः स्थानमाहुः । तत्र दिवोऽन्तरिक्षस्य मूर्द्धनि ध्रुवलोके अवततार प्रकाशितस्वरूपाभूदित्यन्वयः । स्वतोऽमला धवला तथाप्यरुणैवेत्याह तच्चरणेति । यस्य हरेश्वरणरक्तपद्मयोरवनेजनेन प्रक्षालनेन चरणतललमरजोमिश्रितत्वादरुणकि अल्करजसो परञ्जिता रागीकृतेव तर्हि तन्निषेविणां रागजनकत्वेन पापजननी स्यादित्यत उक्तमखिलेति । अखिलजगतः पापमलापहमुपस्पर्शनं यस्याः सा तथा आचमनमात्रेण सर्वपापक्षयकरा किमुत स्नानादिनेत्यर्थः । नामकीर्तनादपि दुरितहरा किमुत स्पर्शनादिनेति भावेनाह साक्षादिति । अनुपलक्षितवचोभिरुपलक्षणरहितवचोभिर्वेदपुराणगतैः शालग्रामशिलाभिषेकजलस्य पादोदकत्वमिवौपचारिकं न भवतीत्यतः साक्षादनुपलक्षितेति पदद्वयं कल्पभेदाद्वामपादेति व्यत्यस्योक्तं न त्वेकस्मिन् कल्प इति । तदुक्तं “वाराहे वामपादं च तदन्येषु च दक्षिणम् । पार्क कल्पेषु भगवानुजहार त्रिविक्रमः” इति ॥ १ ॥ * * यत्र वलोके ॥ २ ॥ * * ततो ध्रुवलोकात उपेक्षिता अन्यार्था अन्यविषया आत्मगतियस्ते तथा ॥ ३ ॥ * ततः सप्तर्षिलोकात् देवयानेन मार्गेण इन्द्रादिपुर सम्बन्धेन ब्रह्मसदने मेरुमध्यस्थिते शतकोटिनाम्नि पुरे ॥ ४ ॥ * * तत्र ब्रह्मसदनाङ्गणे नदनदीपतिं समुद्रम् ॥ ५ ॥ Surajsthani मेरुशिरसो व्योम्ना चतुर्धा भिन्नाया गङ्गाया गतिभेदमाह सीतेति । क्षाररससमुद्रं लवणसमुद्रम् ॥ ६-७ ॥
कूटानि शृङ्गाण्यतिक्रम्याकाशेन निपतन्ती नीलगिरिशिखरे पतित्वा ततो नीलगिरिशिखरादाकाशेन श्वेतगिरिशिखरमवस्यन्दमाना पुनस्तदप्यतिहाय अतिक्रम्या- काशेन शृङ्गवतः शृङ्गं प्राप्ता ततोऽपि स्यन्दमानोत्तरकुरूनविकस्य निषेधस्य गिरेः बहूनि कूटानि हेमकूटहिमाचलयोगियोर्मध्ये व्योम्ना पतन्ती कूटान्यतिक्रम्य ॥ ८ ॥ HRTEES OR BE T sms (FIF श्रीमजीवगोरखामिकृतः क्रमसन्दर्भः ।। ISTRICTS TI युगसहस्रेत्यत्र युगं नाम ज्योतिःशास्त्ररीत्या पचवर्षात्मकं ज्ञेयम् ॥ १-२ ॥ * * अद्यापि अवतारसमयानन्तरं सर्वदापीत्यर्थः ।। ३-१३।। । hai se play SPIPE Bisnie-IPTI hange imp. inश्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी FISE TES गङ्गानामागमं भूमौ भौमस्वर्णसुखं तथा । सङ्कर्षणस्य रुद्रेण सेवां सप्तदशेऽब्रवीत् ॥ EFE सुमेरोः परिधिकेसरारादिशोभां वर्णयित्वा सर्वशोभाचूडामणिमतिदीर्घतरशाखाशिखर हीर कमुकुट विशेषायमाणां तन्मूर्ध्नि विराजमानां श्रीगङ्गां वर्णयंस्तत्प्रादुर्भावप्रकारमाह । तत्र वामनावतारसमये विक्रमतः दक्षिणेन पदा भुवं कान्त्वा वामपादमुत्- श्रीमद्भागवतम् ३५० [ स्कं. ५ अ. १७ श्लो. १८ क्षिपतः “त्रिसाम्यसद्नादुरुकम्पयानम्” इति ब्राह्मोतौ तस्य प्रकृत्यावरणपर्यन्तव्याप्तिश्रवणात् बाह्या पृथिव्याद्यष्टावरणेभ्यो बहिर्भूता कारणार्णवसम्बन्धिनी चिन्मयी या जलधारा सा दिवो मूर्द्धनि ध्रुबलोकेऽवततारेत्यन्वयः । तच्चरणपङ्कजयोरवनेजने क्षालनसमये अरुणः चरणतलस्यारुणिमैव किञ्जल्कस्तेनोपरञ्जिताखिलजगद घमलापहमुपस्पर्शनं यस्यास्तथाप्यमला तन्मलसङ्गशून्या साक्षात् भगवत्पदीति यदनुपलक्षितं तस्मिन् काले भागीरथीजाह्नवीत्याद्युपलक्षणान्तररहितं वचो नाम तेनाभिधीयमाना यत् यो दिवो मूर्द्धा तत् प्रसिद्धम् ॥ १ ॥ * * यत्र विष्णुपदे वीरव्रतो दृढसङ्कल्पः । उत्कृष्यमाणेन प्रतिक्षणमुत्कर्ष प्राप्नुवता । भक्ति- । योगेन अत एवोत्कण्ठयेन विवशमामीलितं यल्लोचनयुगलं तदेव कुड्मले ताभ्यां विगलितममलं बाष्पं तस्य कलया सह अभि- व्यज्यमानं रोमपुलकानां कुलं यस्य सः ॥ २ ॥ * * एतावतीति । इतोऽधिकपरिमाणा सिद्धिः कापि नास्तीत्यर्थः । भक्तियोग- लाभेनैव उपेक्षिता अन्ये पुरुषार्था आत्मज्ञानं च यैरिति श्रीस्वामिचरणाः ॥ ३ ॥ * * देवयानेन आकाशमार्गेण सप्तर्षि- भ्योऽर्वागेव प्रायशः कर्मिणां गतिरत एव ततोऽर्वागेव सङ्कुलत्वमुक्तम् । आवार्य आप्लाव्य मेरुमूर्द्धस्थे ब्रह्मसदने ।। ४-५ ॥ * * केसराचलानां मेरुसमानोच्छ्रायत्वात् प्रथमं तेषामादिशिखरेषु मुख्यशृङ्गषु पतति ततस्तेभ्योऽधोऽधः प्रस्रवन्ती सती भद्राश्ववर्षस्य मध्ये पतित्वेति इलावृतमुल्लङ्घयेत्यर्थः ॥ ६ ॥ * * केतुमालमभिलक्ष्य केसराचलात् तत्र पतित्वेत्यर्थः ॥ ७ ॥ * ।। ।। * गिरिशिखरादिति । केसराचलशिखरादुच्चलिता नीलशिखरं ततः श्वेतशिखरं तदप्यतिक्रम्य शृङ्गादधः स्रवन्तीति इलावृतादिवर्ष- त्रयमुल्लंध्येत्यर्थः ।। ८ ।। बैंकमा 1-jst श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः TEE TET & श्रीगङ्गावतरणमिलावृते श्रीसङ्कर्षणरुद्रयोः सेव्यसेवकसम्बन्धश्च वर्ण्यते तत्रेति सप्तदशेनाध्यायेन । तत्र पुर्खा गङ्गा आगतेति शेषः । एतदेव भगवत इत्यादिना ब्रह्मसदन निपततीत्यन्तेन प्रपञ्चयति । बलियज्ञे लिङ्ग त्रिविक्रममूर्तिर्यस्य साक्षाद्भगवतः विक्रमतः दक्षिणेन पदा भुवं क्रान्त्वा वामपाद मुत्क्षिपतो वामपदाङ्गुष्ठनखेन निर्भिन्नमूर्ध्वमुपरिभागो यस्याण्डकटाहस्य तस्य विवरण छिद्रेणान्तर्ब्रह्माण्डमध्ये प्रविष्टा या बाह्यजलधारा सातिमहता कालेन दिवो मूर्द्धन्यवततारेत्यन्वयः । तस्य विष्णोर्यश्चरणपङ्कजं तस्यावनेजनेन क्षालनेनारुणं कुङ्कुमं तदेव किञ्जल्कास्तैरूपरञ्जिता अत एवाखिलजगतः अयं पापमेव मलं तद्पहं तन्निर्नाशकमुप- स्पर्शनं यस्याः सा तथाप्यमला साक्षाद्भगवत्पदीति यदनुपलक्षितं जाह्नवीभागीरथीयाद्युपलक्षणान्तररहितं वचो नामधेयं तेनाभि- ।। २ ।। * * यत्र धीयमाना तदानीं भगवत्पदीत्येकेनैव नामधेयेन सङ्कीर्त्यमानेत्यर्थः, दिवो मूर्द्धानं दर्शयति । विष्णुपदे वीरे गरुडवाहने व्रतानि यस्य सः अस्मत्कुलदेवताचरणारविन्दुजलमिति हेतोः यामनुसवनं त्रिकालं परमादरेण शिरसा बिभर्ति । कथम्भूतः उत्कृष्यमाणेन भक्तियोगेन दृढं यथा तथा विद्यमानमन्तर्हृदयं यस्य सः अत एवोत्कण्ठ्यन विवशमामीलितं यल्लोचनयुगलं तदेव कुड्मले ताभ्यां विगलितस्यामलबाष्पस्य कलया सहाभिव्यज्यमानरोमपुलकानां कुलकं यस्य स एवंविध इत्यर्थः ॥ २ ॥ * * ततस्तदनन्तरं ननु अहो तपसः आत्यन्तिकी निरतिशया सिद्धिः एतावती का इयं विष्णुपदी इति एवं तस्याः प्रभावाभिज्ञा जटाजूटैरद्याप्युद्वहन्ति । कथम्भूताः भगवत्यनुपरतभक्तियोगला भेनैवोपेक्षिताः अन्यार्थात्मगतयः भक्तियोगे- तरपदार्थविषयकमनोवेगा यैस्ते ।। ३ ।। * * द्युमण्डलमावार्थ्याप्लाव्य ब्रह्मसदने मेरुमूर्द्धस्थे ।। ४-५ ॥ केसरा-
चलाः केसरभूताः कुरङ्गादयः तेषां मेरुसमानोच्छ्रायत्वात्तदादयो येऽन्ये गिरयो मन्दरादयस्तेषां शिखरेभ्यः ।। ६ ।। एवं क्रमतो ब्रह्मसदनादधोऽधः प्रस्रवन्ती चक्षुःसंज्ञा माल्यवच्छिखरात्केतुमालाभिमुखं निष्पतन्ती प्रतीच्यां दिशि सरित्पति प्रविशति ॥ ७ ॥ * * भद्रा च गिरिशिखरादुच्चलिता श्वेतशिखरं तद्द्व्यतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना अधः स्रवन्ती उत्तरान् कुरून् अभितः प्लाव्य लवणार्णवमभिप्रविशति ॥ ८ ॥ एक 2814 प्रिया का ne मूर्तिर्यस्य तस्य साक्षाद्भगवतो विष्णो- गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी की सप्तदशे तु गङ्गाया भूम्यवतारवर्णनात् । आगन्तुकगुणायोगान्तस्या उत्कर्ष उच्यते ॥ १ ॥ । ॥ तत्र यदा दैत्यविजयसमये वामनावतारो जातस्तदा यज्ञलिङ्गस्य बलेर्यज्ञे लिङ्ग वामनमूर्तिर्यस्य तस्य विक्रमतो दक्षिणेन पदा भुवं क्रान्त्वा वामं पदमुत्क्षिपतो वामपदाङ्गुष्ठनखेन निर्भिन्नमूर्ध्वमुपरिभागो यस्य तस्याण्डकटाहस्य विवरे - णान्तःप्रविष्टा या बाह्यजलधारा साऽतिमहिता कालेन दिवो मूर्द्धन्यवततारेत्यन्वयः । तस्या माहात्म्यमाह- अखिलेति, अखिलानां सर्वेषां स्वसम्बन्धिनां जगतां प्राणिनां अघान्यन्तःपापानि मलानि बहिष्ठान्यपहन्तीति तथाभूतमुपस्पर्शनं यस्याः सेत्यर्थः । तर्हि तस्यां तद्दोषसंसर्गः स्यादित्याशङ्कयाह — अमलेति, अन्येषां पापमलादिनिराकरणेऽपि स्वयं तत्संसर्गरहितैवेत्यर्थः । एवं परदोषनिवारणे स्वदोष- राहित्ये च हेतुमाह - तदिति, तस्य भगवतश्चरणपङ्कजस्यावनेजनं प्रक्षालनं तेनारुणं यत्तद्गतं कुङ्कुमं तदेव किञ्जल्काः केसरास्तैरु- परञ्जितेत्यर्थः । अत एव साक्षात्पदसम्बन्धाद्भगवत्पदीति यदनुपलक्षितं जाह्नवी भागीरथीत्यादिनाम्ना भूम्यवतरणानन्तरजातत्वात्त- त्समये तदुपलक्षणरहितं यद्वचो नाम तेनाभिधीयमाना भगवत्पदीति नाम्ना व्यवह्रियमाणेत्यर्थः । अतिमहतेत्युक्तं तत्क्रियतेत्यपेक्षाया- माह - युगसहस्रोपलक्षणेनेति, तथा च चतुर्युगसहस्रग्रहणे ब्रह्मणो दिनपरिमितकालोक्त्या तस्य रात्रौ ध्रुवलोके गङ्गावतरणं सिद्धयति । स्कं ५. अ. १७ श्लो. १८] अनेकव्याख्यास ख्यासमलङ्कृतम् तस्यापि दिवो मूर्द्धत्वोक्त्या त्रिलोक्या बहिष्ठत्वेन प्रलये नाशाभावात् । यथाश्रुतयुगसहस्रग्रहणे तु तद्दिन एव तंत्र गङ्गावतरणं सम्भवतीति ज्ञेयम् ।। १ ।। * * कोऽसौ दिवो मूर्द्धेत्यपेक्षायामाह - यदिति । तदपि किमिति वीक्षायां तद्दर्शयन् ध्रुवस्य भक्ति दर्शयति-यत्रेति । हेति प्रसिद्धौ । वावेति निश्चये । यत्र लोके औत्तानपादिः ध्रुवोऽस्मत्कुलदेवताया भगवतश्चरणार- विन्दोदकमिति निश्वयेनाधुनाऽपि यो गङ्गां परमादरेण शिरसा बिभर्ति साऽवततारेति पूर्वेणान्वयः । तथा धारणे हेतुमाह- परमभागवत इति, परमभागवतलक्षणस्य ध्रुवे सत्वात्तत्प्रदर्शनेन तस्य परमभागवतत्वमेव स्पष्टयति- अनुसवनमिति, प्रतिक्षणमुत्कृष्यमाणः सम्बध्यमानो यो भगवद्भक्तियोगस्तेन दृढमत्यन्तं क्लिद्यमानमन्तर्हृदयं यस्य स इत्यर्थः । अत एवौ- त्कण्ठ्येन विवशमामीलितं यल्लोचनयुगलं तदेव कुडमले ताभ्यां विगलितममलं बाष्पं तस्य कलया सहाभिव्यज्यमानं रोमपुलकानां कुलकं यस्य स इत्यर्थः । एवं भक्त्युत्कर्षहेतुत्वेन तेन बाल्य एवं दृढसङ्कल्पत्वेनानुष्ठितं तपश्चर्यादिसाधन- जात सूचयन्नाह वीरव्रत इति ॥ २ ॥ ततोऽधस्तात् सप्तर्षयो या गङ्गां सबहुमानं यथा तथाऽद्यापि जटा- जूटैरुद्वहन्ति धारयन्तीत्यन्वयः । तथा धारणे हेतुमाह—तदिति, तस्या गङ्गायाः प्रभावं यतो जानन्तीत्यर्थः । प्रभावं ते कथं जानन्तीति वीक्षायां तेषां ज्ञानमुपदर्शयति-नन्विति । नतु निश्वये । तपस आत्यन्तिकी परमोत्कर्षापन्ना सिद्धिः फलमेता- वती भगवच्चरणोदकप्राप्तिरेव नातोऽधिकाऽस्तीत्यभिप्रायवन्त इत्यर्थः । एवं प्रभावज्ञाने हेतुमाह – भगवतीति । ऐश्वर्यादिषडुणसम्पन्ने सर्वात्मनि सर्वान्तर्यामिणि वासुदेवसञ्ज्ञकेऽनुपरतो निरन्तरो यो भक्तियोगस्तस्य लाभेनैव कृतार्थत्वेनोपेक्षिता अन्ये धर्मादयः पुरुषार्थी आत्मगतिरात्मज्ञानं च यैस्ते तथेत्यर्थः । भगवद्भक्तानामेव भगवत्सम्बन्धिपदार्थमाहात्म्यज्ञानं भवति नान्येषां तद्विमुखाना- मिति भावः । बहुमानेनाङ्गीकारे दृष्टान्तमाह-मुक्तिमिवेति, यथा प्रत्यक्षत आगतां मुक्ति मुमुक्षवो जना यथा बहुमानेनाङ्गीकुर्वन्ति तथेत्यर्थः ॥ ३ ॥ * * ततः सप्तर्षिस्थानादनेकसहस्रकोटीनां विमानानामनीकैः सङ्कलेन व्याप्तेन देवयानेन देवलोकमार्गेणा- वतरन्ती चन्द्रमण्डलमावार्य आप्लाव्य मेरुमूर्द्धस्थे ब्रह्मसदने निपतति ‘न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम्’ इत्युक्तानुसारेण सप्तर्षिभ्योऽर्वागेव प्रायशः कर्मिणां गतिरिति ततोऽर्वागेव तद्विमानसङ्कलत्वमुक्तमिति ज्ञेयम् ॥ ४ ॥ * * अभिस्पन्दन्ती अभितो गच्छन्ती ॥ ५ ॥ तन्नामानि दर्शयति सीतेत्यादि । चतुर्दिशं समुद्रप्रवेशमेव दर्शयति सीता त्विति । केसराचलादीनां गन्धमादनादिमर्यादागियेपेक्षयाऽधिकोच्छ्रायत्वात् समीपत्वाच्च, सीता तु ब्रह्मसदनात् प्रथमं तेषां शिखरेषु मुख्यशृङ्गेषु पतिव्वा तेभ्योऽधोऽधः प्रस्रवन्ती सती गन्धमादनस्य मूर्द्धंसु पतित्वा ततो भद्राश्ववर्षमन्तरेण भद्राश्वखण्डस्य मध्यतः प्राच्यां दिशि क्षारसमुद्रमभिविशति ।। ६ ।। एवं चक्षुरसञ्ज्ञापि ब्रह्मसदनात् केसराचलादिशिखरेषु पतित्वा ततो माल्यवच्छिखरे निपत्य उपरतवेगा सती ततः केतुमालवर्षाभिमुखं निपतन्ती तन्मध्येन प्रतीच्यां दिशि सरित्पतिं समुद्रं प्रविशति ॥ ७ ॥ * भद्रा चोत्तरतो मेरुशिरसः केसराचलादिगिरिशिखरे पतिता तत उच्चलन्ती नीलगिरिशिखरं निपत्य तत उच्चलिता श्वेतगिरिशिखरं पतित्वा तदद्भ्यतिहाय त्यक्त्वा शृङ्गवतः शृङ्गं प्राप्य ततस्तु त्तरान् कुरूनभिलक्ष्यावस्पन्दमाना प्रस्रवन्ती उदीच्यां दिशि जलधिमभिप्रविशति ।। ८ ।। Green
श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ॐ चतुर्दिशं ततः सप्तदशे गङ्गागमः स्मृतः । संकर्षणस्य सेवा च रुद्रेणेलावृते कृता ॥ १ ॥ ऐसी एवं जम्बूद्रीपत गतवर्षपर्वततत्परिमाणादिकमभिधायाथ गङ्गागमनकथनपूर्वकमिलावृतादिवर्षेषु रुद्रादीनां संकर्षणादि- भगवन्मूत्युपासनाप्रकारमुपद्वीपविन्यासं चाह सप्तदशादित्रिभिरध्यायैः । तत्र भगवत इति । तत्र भगवतोऽतिपूज्यस्य, साक्षात्प्रत्यक्षस्य, यज्ञे बलेर्मखे लिङ्ग त्रिविक्रमा मूर्त्तिर्यस्य तस्य, विष्णोर्वामनरूपस्य, विक्रमतः त्रिलोकीं पादत्रयेण क्रममाणस्य सतः, दक्षिणेन पदा भुवं क्रान्त्वा वामपदमुक्षिपतः सत इत्यर्थः । वामश्वासी पादश्च तस्य योऽङ्गष्टस्तस्य नखस्तेन निर्भिन्नमूर्ध्वमुपरि भागो यस्य स चासावण्डकटाहश्च तस्य विवरं छिद्र तेन अन्तः प्रविष्टा या बाह्यजलधारा, तस्य त्रिविक्रमस्य यच्चरणपङ्कजं तस्यावनेजनं क्षालनं तेन अरुणं तच्चरणार्चनगतकुङ्मं तदेव किंजल्कास्तैरुपरञ्जिता अत एव, अखिलस्य जगतोऽघं पापमेव मलं तदपहं निवत्तकमुपस्पर्शनमाचमनाद्युपयोगि जलं यस्याः सा । तथापि, अमला स्वयं स्वतोऽमला सत्यन्येषां दुरितनिवर्त्तनक्षमा, साक्षाद्भगवतः प्रत्यक्ष परमेश्वरस्य पदमरुित्पत्तिकारणत्वेन विद्यतेऽस्या इति साक्षाद्भगवत्पदी । इत्येवं नाम्ना प्रसिद्धति शेषः । अत एव अनुपलक्षितवचोऽभिधीयमाना गङ्गाभागीरथ्याद्युपलक्षणवर्जितेन नाम्नैव व्यवहृता । एवंभूता सती, युगसहस्रोपलक्षणेन, अतिमहता कालेन, दिवो मूर्द्धनि, अवततार युगसहस्रोपलक्षणकालेन दिवो मूर्द्धन्यवतरणान्मन्दाकिनीत्यप्यस्या नामान्तरं सूचितम् ॥ १ ॥ * * कोऽसौ दिवो मूर्दा यत्र भगवत्पद्यवतीर्णा तत्राह यत्तदिति । यत् विष्णुपदं आहुः, तत् सः दिवो मूर्द्रा इत्यर्थः । किं तद्विष्णुपदं तत्राह यत्रेति । यत्र विष्णुपदे ह स्फुटतया पुराणादौ प्रसिद्धः, वीरव्रतः वा व दृढसंकल्प । । एवेत्यर्थः । परमभागवतः उत्तमभागवतेष्वपि श्रेष्ठः, औत्तानपादिरुत्तानपादनृपपुत्रो ध्रुवः, अस्माकं यत्कुलं तस्य देवतेष्टदेवः श्रीहरि- स्तस्याश्चरणारविन्दोदकमिदमिति हेतोः, यां धारां, अनुसवनं त्रिकालं उत्कृष्यमाणो बर्द्धमानो यो भगवद्भक्तियोगस्तेन, दृढं यथा ३५२ w श्रीमद्भागवतम् + 6 [ स्कं. ५ अ. १७ श्लो. १-८ तथा विद्यमानं प्रीयमाणमन्तर्हृदयमन्तःकरणं यस्य सः, अत एव, औत्कण्ठ्येन विवशमामीलितं च यल्लोचनयुगलं तदेव कुमले ताभ्यां विगलितं यद्मलं बाष्पं तस्य कला तया सह अभिव्यज्यमानं रोमपुलकानां कुलं यस्य तथाभूतः सन् शिरसा अधुनापि, अद्यापि परमादरेण, बिभर्त्ति ॥ २ ॥ * * तत इति । ततः तस्या गङ्गायाः यः प्रभावः तस्य अभिज्ञाः सर्वथा ज्ञातारः, सर्वात्मनि सर्वान्तर्यामिणि भगवति वासुदेवे, अनुपरतोऽविरतश्चासौ भक्तियोगश्च तस्य लाभस्तेन एव, उपेक्षिता अनादृता अन्यार्थी इतर पुरुषार्था अर्थ कामादयः आत्मगतिः कैवल्यं च यैस्ते तथोक्ताः सप्तर्षयः, या इयमस्माभिः प्राप्तेयं विष्णुपदी, सा एतावती एतावत्येव । स्वयमेवेत्यर्थः । तपसः, आत्यन्तिकी सिद्धिः, ननु अस्माकं तपसः आत्यन्तिकफलरूपाऽस्ति खल्वित्यर्थः । इत्येवं मन्वानाः सन्त इति शेषः । मुमुक्षवः आगतां मूर्त्तिमत्तया समायातां मुक्तिम् इव, बहुमानम् इव बहुसन्मानपूर्व यथा स्यात्त- थैवेत्यर्थः । इवात्रावधारणे। अद्यापि, जटाजूटे: जटा गुम्फैः उद्वहन्ति ॥ ३ ॥ * * तत इति । ततः अनेकसहस्रकोटीनां विमानानामनीकानि संघास्तैः संकुलं यद्देवयानमाकाशमार्गस्तेन अवतरन्त्यधः प्रस्रवन्ती, इन्दुमण्डलं आवार्याकाव्य, ब्रह्मसदने मेरुमूर्द्धस्थे इति शेषः । निपतति । सप्तर्षिभ्योऽर्वागेव प्रायशः कर्मिणां गतिरिति ततोऽर्वागेव विमानसंकुलत्वमुक्तम् ॥ ४ ॥ * * तत्रेति । तत्र ब्रह्मसदने, चतुर्धा भिद्यमाना चतुर्भिः नामभिः, अभिधीयमाना सतीति शेषः । चतुर्दिशं चतसृषु दिवित्यर्थः । अभिस्यन्दती अभितो गच्छन्ती सती, नदनदीपतिं समुद्रमेव अभिनिविशति । ‘अभिनिविशश्च’ इति आधारस्य कर्मसंज्ञायां द्वितीया ॥ ५ ॥ ॥ ऋ * नामान्याह सीतेति । सीता, अलकनन्दा, चक्षुः, भद्रा इति । तत्र चतसृणां धाराणां मध्ये इति शेषः । सीता तु सीतासंज्ञा या प्राचीना धारा सा त्वित्यर्थः । ब्रह्मसदनात् केसराचलादिगिरिशिखरेभ्यः, अधोऽधः प्रस्रवन्ती, केसराचलानां मेरुसमानोच्छ्रायत्वात्प्रथमं तेषामादिशिखरेषु पतित्वा ततस्तेभ्योऽधोऽधः प्रस्रवन्तीत्यर्थः । गन्धमादनमुद्धेसु पतित्वा, अन्तरेण भद्राश्ववर्ष भद्राश्ववर्षस्य मध्ये स्यन्दमाना प्राच्यां दिशि क्षारसमुद्रं अभिप्रविशति ।। ६ ।। ** एवमिति । एवं तथैव, चक्षुः चक्षुःसंज्ञा प्रतीचीना धारा, प्रथमं माल्यवच्छिखरे निपतितेति शेषः । ततः माल्यवच्छिखरात, rogant : प्रस्रवन्ती अनुपरतोऽप्रतिहतो वेगो यस्याः सा तथाभूता सती, केतुमालमभि केतुमालमभितो व्याप्यं केतुमालस्य मध्ये स्रवन्ती सतीत्यर्थः । प्रतीच्यां दिशि, सरित्पति समुद्र, प्रविशति ॥ ७ ॥ भद्राचेति तथ । भद्रा च भद्रासंज्ञा धारापि उत्तरतः मेरोरुत्तरदिशि, मेरुशिरसो मेरुशिखरात्, निपतिता गिरिशिखरात् गिरिशिखर, अतिहाय कुमुदशिखरात् उच्चलिता नीलगिरिशिखर, तत उच्चलिता श्वेतगिरिशिखर तदप्यतिहायेत्यर्थः । शृङ्गवतः शृङ्गात् अवस्यन्दमाना शृङ्गवच्छृङ्गे पतित्वा ततोऽधः स्रवन्ती सती, उत्तरान् कुरून उत्तरकुरूंस्तु, अभितो व्याप्य उदीच्यां दिशि, जलधिं लपणार्णवम्, अभिप्रविशति ॥ ८ ॥HEDE ८॥ 5 FIRS gif कार 1 0 एक भाषानुवाद शिक किगङ्गाजीका विवरण और भगवान् शङ्करकृत संकर्षणदेवकी स्तुति श्रीशुकदेवजी कहते हैं— राजन् ! जब राजा बलिकी यज्ञशालामें साक्षात् यज्ञमूर्ति भगवान् विष्णुने त्रिलोकीको नापने के लिये अपना पैर फैलाया, तब उनके बायें पैर के अंगूठे जो ब्रह्माण्डसे बाहरके जलकी धारा आयी, वह उस मण्डकटाहका ऊपर का भाग फट गया। उस छिद्र में होकर वह उस चरणकमलको धोनेमे उसमें लगी हुई केसर के मिलनेसे लाल हो गयी। उस निर्मल धाराका स्पर्श होते ही संसारके सारे पाप नष्ट हो जाते हैं, किन्तु स्वयं सर्वथा निर्मल ही रहती है। पहले किसी और नामसे न पुकारकर उसे ‘भगवत्पदी’ ही कहते थे वह धारा हजारों हजारा युग बातनपूर स्वर्गक) 1 बीतनेपर स्वर्गके शिरोभागमें स्थित ध्रुवलोकसे उतरी, जिसे ‘विष्णुपद’ भी कहते हैं ॥ १ ॥ * * बीरव्रत परीक्षित् | उस ध्रुवलोकमें उत्तानपादके पुत्र परम भागवत ध्रुबजी रहते हैं । वे नित्यप्रति बढ़ते हुए भक्ति-भावसे यह ‘हमारे कुलदेवताका चरणोदक है’ ऐसा मानकर आज भी उस जलको बड़े आदरसे सिरपर चढ़ाते हैं । उस समय प्रेमावेशके कारण उनका हृदय अत्यन्त गदद हो जाता है, उत्कण्ठावश बरबस मुँदे दोनों नयन -कमलोंसे निर्मल आँसुओं की धारा बहने लगती है और शरीर में रोमाञ्च हो आता है ॥ ॥ २॥ * इसके पश्चात् आत्मनिष्ठ सप्तर्षिगण उनका प्रभाव जाननेके कारण ‘यही तपस्याकी आत्यन्तिक सिद्धि है’ ऐसा मानकर उसे आज भी इस प्रकार आदरपूर्वक अपने जटाजूटपर वैसे ही धारण करते हैं जैसे मुमुक्षुजन प्राप्त हुई मुक्तिको । यों ये बड़े ही निष्काम सर्वात्म भगवान् वासुदेवकी निश्चल भक्तिको ही अपना परम धन मानकर इन्होंने अन्य सभी कामनाओंको त्याग दिया है, यहाँतक कि आत्मज्ञानको भी ये उसके सामने कोई चीज नहीं समझते ॥ ३ ॥ * वहाँ से गङ्गाजी करोड़ों विमानोंसे घिरे हुए आकाशमें होकर उतरती हैं और चन्द्रमण्डलको आप्लावित करती मेरुके शिखरपर ब्रह्मपुरीमें गिरती हैं ॥ ४ ॥ वहाँ ये सीता, अलकनन्दा, चक्षु और भद्रा नामसे चार धाराओंमें विभक्त होती है तथा अलग-अलग चारों दिशाओं में बहती हुई अन्तमें नद-नदियोंके अधीश्वर समुद्र में गिर जाती हैं ॥ ५॥ $ $ इनमें सीता ब्रह्मपुरीसे गिरकर केसराचलोंके सर्वोच्च शिखरोंमें होकर नीचेकी ओर बहती गन्धमादनके शिखरोंपर गिरती है और भद्राश्ववर्षको प्लावित कर पूर्वकी ओर खारे समुद्र में मिल जाती है ॥ ६ ॥ * इसी प्रकार चक्षु माल्यवान् के शिखर पर पहुँचकर वहाँसे बेरोक-टोक केतुमालवर्षमें ال محمد स्कं. ५ अ. १७ लो. ९-१६] अनेकव्याख्या समलङ्कृतम् ३५३ बहती पश्चिमकी ओर क्षारसमुद्रमें जा मिलती है । भद्रा मेरुपर्वत शिखरसे उत्तरकी ओर गिरती है तथा एक पर्वतसे दूसरे पर्वतपर जाती है अन्तमें शृङ्गवान्के शिखरसे गिरकर उत्तरकुरु देशमें होकर उत्तरकी ओर बहती हुई समुद्र में मिल जाती है ॥ ८ ॥ न तथैवालकनन्दा ‘दक्षिणेन ब्रह्मसदनाद्वहूनि गिरिकूटान्यतिक्रम्य हेमकूटार्द्ध मकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभि वर्ष दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्नानाथ चागच्छतः पुंसः पदे पदेऽश्वमेधराज- सूपादीनां फलं न दुर्लभमिति ॥ ९ ॥ अन्ये च नदा नद्यश्व वर्षे वर्षे, सन्ति बहुशो मेर्वादिगिरि- दुहितरः शतशः ।। १० PURIDE PÕHIO JED s तत्रापि भारतमेव वर्ष कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥ एषु पुरुषाणामयुत पुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननवलवयोमोद- पुरुषाणामयुतपुरुषायुर्वर्षाणां प्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्ष धृतैकगर्भकलत्राणां तत्र तु त्रेतायुगसमः कालो वर्तते ।। १२ ।। यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तवकफलकिसलयचियाऽऽनम्यमान विटपलताविटपिभिरुपशुम्भमानरु चिर- काननाश्रमायतन वर्ष गिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोद’ मुदितराजहंसजलकुक्कुटकारण्डव- सारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिल- विलासहासलीला वलोक कृष्टमनोदृष्टयः स्वैरं विहरन्ति ॥ १३ ॥ PDF P नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषार्णा तदनुग्रहाय ात्मतत्वव्य हेनात्मनाद्यापि सनिधी- यते ।। १४ ।। इलावृते तु भगवान् भव एक एव पुमान्न द्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्वाद्वक्ष्यामि भवानीनाथैः स्त्रीगण। र्बुदसहस्रैः स्वरुध्यमानो भगवतश्चतुर्मू मेहापुरुषस्य तुरीयां तामसीं मूर्ति प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण संनिधाप्यैतदभिगृणन् भव उपधावति ।। १६ ।। अन्त्रयः — तथैव अलकनंदा ब्रह्मसदनात् दक्षिणेन बहूनि गिरिकूटानि अतिक्रम्य हेमकूटात् हेमकूटानि अतिरंभस्तर- रहसा भारतवर्षम् लुठ्यन्ती दक्षिणस्याम् दिशि जलधिम् अभिप्रविशति यस्याम् स्नानार्थम् च आगच्छतः पुंसः पदे पदे अश्वमेध - राजसुयादीनाम् फलम् न दुर्लभम् इति ॥ ९॥ अन्ये च बहुश नदाः च मेर्वादिगिरिदुहितरः नथः वर्षे वर्षे शतशः सन्ति ।। १० ।। तत्र अपि भारतम् वर्षम् एव कर्मक्षेत्रम् अन्यानि अष्ट वर्षाणि स्वर्गिणाम् पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥ तत्र तु एषु अयुतंपुरुषायुर्वर्षाणाम् देवकल्पानाम् नागायुतप्राणानाम् वज्रसंहनन बलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्ष धृतैकगर्भकलत्राणाम् पुरुषाणाम्॥ कालः की त्रेतायुगसम्मः वर्तते ।। १२ ।। * यत्र ह स्वैः स्वैः गणनायकः विहितमहार्हणाः देवपतयः सर्वर्तुकुसुमस्तबक फल किसलयश्रिया आनम्यमानविटपलताविटपिभिः उपशुंभमानरुचिरकाननाश्रमा यतनवर्षगिरिद्रोणीषु तथाच विकचविविधनंवचन रुहामोदमुदित- राजहंस जलकुक्कुट कारंडवसारसचक्रवाकादिभिः च मधुकर निकरा कृतिभिः उपकूजितेषु अमलजलाशयेषु जलक्रीडादिभिः विचित्र- विनोदेः सुललितसुरसुंदरीणाम् कामकलिलविलासहासलीलावलो का कृष्टमनोदृष्टयः स्वैरम् विहरन्ति ॥ १३ ॥ * * नवसु अपि वर्षेषु भगवान् महापुरुषः नारायणः पुरुषाणाम् तदनुग्रहाय आत्मतत्त्वव्यूहेन आत्मना अद्यापि सन्निधीयते ॥ १४ ॥ इलावृते तु भगवान् भवः एकः एव पुमान् हि तत्र भवान्याः शापनिमित्तज्ञः अन्यः अपरः न निर्विशति यत् प्रवेक्ष्यतः स्त्रीभावः तत् पश्चात् वक्ष्यामि ॥ १५ ॥ * * भवानीनाथैः बीगणार्बुदसहस्रः अवरुध्यमानः भगवतः चतुर्मूर्तेः महापुरुषस्य तुरीयाम् तामसीम् आत्मनः प्रकृतिम् संकर्षणसंज्ञाम मूर्तम् आत्मसमाधिरूपेण संनिधाप्य एतत् अभिगृणन् भवः उपधावति ॥ २६ ॥ १. प्रा० पा०- दक्षिणेन तु ब्रह्म० । २. प्राचीने पाठे ‘क्रम्य’ पाठः खण्डितः । २० प्रा० पा० भारतवर्ष दक्षिणस्यां । ४. प्रा० पा० - लवण जलधिमधिप्रविशति । ५. प्राचीने पाठे ‘यस्यां स्नानार्थ त आरभ्य ‘फलं न दुर्लभमिति’ पर्यन्तोऽशो न । ६० प्रा० पा० वर्षे । बहुशो । ७. प्रा० पा० - रुचिराश्रमायतन० । ८. प्रा० पा० + मोदमदमुदितराजहंसबल ९० प्रा० प्रा० लोकाः स्वैरं विहरन्ति । १०. प्रा० पा० भ्यू हैरात्मनाद्यापि । ११. प्रा० पा० पश्चाद्वक्ष्यामः | १२. प्रा० पा०– सहवरुद्धमानो । । ३५४ श्रीमद्भागवतम् किमकी श्रीधरखामिविरचिता भावार्थदीपिका अतिरभसतररंहसा अस्खलिततीव्रतर वेगेन ॥ ९ ॥ TR [ स्कं ५ अ. १७ श्लो. ९-१६ बहुशो बहुविधा: । मेर्वादिगिरीणां दुहितर- स्तत्प्रसूताः ।। १० ।। * * दिव्यभौमबिलभेदात्रिविधः स्वर्गः तत्र भौमस्वर्गस्य पदानि स्थानानि व्यपदिशति ।। ११ ।। * * अयुतं पुरुषमानेन आयुर्वर्षाणि येषाम् । बञ्जबद् हुढं संहननं शरीरं तस्मिन्बलवयोमोदास्तैः प्रमुदितानि यानि महासौरतानि मिथुनानि तेषां व्यवायापवर्गे संभोगावसाने एकवर्षशेषे आयुषि धृत एको गर्भो यस्तादृशानि कलत्राणि येषाम् । त्रेतायुगसमः विषयसुखोत्कर्षात् । कृतयुगे हि सर्वे ध्याननिष्ठाः । द्वापरादौ दुःखबहुलाः ॥ १२ ॥ * यत्र ह येषु हि वर्षेषु देवपतयः स्वैः स्वैः सेवकगणेषु मुख्यैः कृतमहोपचाराः संतः स्वैर विहस्तीत्यन्वयः । केषु स्थानेषु ॥ सर्वेषु वर्षेषु ऋतुषु कुसुमस्तबकादीनां श्रिया समृद्धचात्यंतं नम्यमाना विटपास्तदाश्रिता लताश्च येषु तैर्विटपिभिरुपशुंभमानानि शोभमानानि रुचिराणि काननानि येषु तेष्वा श्रमायतनेषु वर्ष गिरिद्रोणीषु च। तथा अमलेषु जलाशयेषु विकचानि विकासीनि विविधानि नवानि च यानि वनरुहाणि नीरजानि तेषामामोदेन मुदितै राजहंसादिभिर्मधुकरनिकरराणां चाकृतिभिर्जातिविशेषैरुपकूजितेषु कामेन कलिलैः क्षुभितैर्विलासादिभि- राकृष्टं मनो दृष्टिश्च येषां ते ॥ १३ ॥ * ४ नवस्वपि वर्षेषु ये पुरुषास्तेषां तदनुग्रहाय स चासौ वक्ष्यमाणोऽनुग्रहस्तदर्थमात्म- तत्त्वव्यूहेन स्वमूर्तिसमूहेन सन्निधीयते सन्निहितो भवति ॥ १४ ॥ * * अपरोऽर्वाचीनः पञ्चान्नवमस्कवे ।। १५ ।। * भवानी नाथा स्वामिनी येषां तैः स्त्रीगणानामर्बुदसहस्रैरवरुद्धयमानः सर्वतः सेव्यमानः आत्मनः प्रकृतिं कारणम् । आत्मनि समाधिर्थ्यानं यस्य तेन रूपेण । एतद्वक्ष्यमाणं मंत्रादिकमभिगृणन् जपन् ॥ १६ ॥ bh श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । । * लग तथैव वर्षत्रयमुल्लंघ्य गिरिशिखरागिरिशिखरे पततीत्यर्थः । भारतमभिलक्ष्य । पतित्वेति शेषः । अत्र द्वीपमध्यवर्तीनि उल्लंघ्योल्लंघ्यापि चलंती प्राच्यादिषु चतुर्षु समुद्रसमीपवर्त्तिष्वेव वर्षेषु । कुलाचलेशादवरुह्य भूमौ यन्निपतति तत्खलु स्वपति समुद्रमभिलक्ष्य लज्जानम्रमुखी स्वमौद्धत्यं परिहरंतीवेति ज्ञेयम् । हेमकूटहिमकूटानीति । हेमकूटहिमालयोर्मध्ये व्योम्नः पतंती कूटान्यतिक्रम्य लुडंती स्खलित्वा परिवर्तमाना भुवं पतंती सतीत्यर्थः । यस्याम् अलकनंदायाम् । स्नानाथ पानार्थं चेति । बहुषु पुस्तकेषु यस्यामित्यारभ्य न दुर्लभमित्यंतः पाठो नास्ति, तत्रापि केषुचित्पानार्थमिति नास्तीति परं चातीतपञ्चशताब्द लिखित पुस्तके पानार्थमिति पाठसहित एवायं निगदो दृष्टस्तत एवात्र लिखितः । अत्रादिना सर्वमेधादिग्रहः । । न दुर्लभं किन्तु सुलभमतोऽप्यधिक- फलस्य मोक्षस्य शास्त्रेषु श्रवणादित्यर्थः ।। ९-१० ।। तत्रापि नववर्षशोभितजंबूद्वीपेऽपि । कचिदत्रापीति पाठ उभयत्रार्थस्तुल्य एव । तत्र त्रिविवेषु ॥ ११ ॥ * * पुरुषमानेन मनुष्यप्रमाणेन । मिथुनानि स्त्रीपुरुष युगलानि । बहुपुस्तकेष्वत्र तत्र तु’ इति पाठोस्ति स त्वाधुनिक एवासंबद्धत्वात्सर्वथानुपयुक्त एव ।। १२ ।। * * वर्षगिरयो वर्ष ख्याति - करपर्वतास्तेषां द्रोणीषु । उपकूजितेष्वत्राधिकरणे निष्ठा षष्ठयभावश्चार्ष एव ॥ १३ ॥ * * नवस्विति । सर्वेषामवताराणां नित्यं प्राकट्यं दर्शितं तत्र चात्मनेति स्वरूपेणैव न तु प्रतिमारूपेणेत्यर्थः । प्रद्युम्नाविर्भावे गतिविलासादेरपि वर्णयिष्यमाणत्वात् । अद्याप्यवतारसमयादारभ्याद्यापि सर्वदेत्यर्थ इति संदर्भः । अत्रोपास्यदेवता वर्षेषु भगवन्मूर्त्तय एव ज्ञेयाः । आविराविर्भवेति प्रह्लादस्योपरिष्टादुक्तेरिति विश्वनाथः । मम त्वित्थं प्रतिभाति तत्रत्यावतार मूर्त्तिषूपास्त्या झटित्याविर्भावो जायते इत्यत उक्तं संनिधाप्यत इति ॥ १४-१५ ॥ तामसीं तमःकार्यभूतस्य संहारस्य संप्रवर्त्तयित्रीम् । वस्तुतस्तु-तुरीयां तमोरजः- सवेभ्योऽपि परां शुद्धचिन्मयीमित्यर्थः । ‘न यस्य माया’ इत्यादिना ‘त्रिभिर्विहीनम्’ इत्यादिना च तथा प्रतिपादयिष्यमाणत्वात् । आत्मनः स्वस्य कारणं “यस्य भ्रमद्भुवोरंतरेण सांकर्षणो रुद्रव्यूह उदतिष्ठत्” इति वक्ष्यमाणत्वात् । स्त्रीणां बहुत्वं भगवता पार्वतीसेवार्थं युगपदेवाविर्भावितं तासां पुनरुत्पत्त्यादयः संतीति ध्येयम् ।। १६-१७ ।। श्रीमद्वीरराघवव्याख्या Eena । तथैवालकनन्दासंज्ञा धारा मेरो ब्रह्मसदनादक्षिणतः स्रवन्ती बहूनि गिरिशिखराण्यतिक्रम्य मध्यस्थपर्वतशिखराण्यस्पृष्ट्व हेमकूटहिमवत्कूटानि हेमकूद हिमवत्पर्वतयोः शृङ्गाण्यतिरभसतररंहसाविस्खलितवेगेन लुठन्ती भिन्दन्ती भारतं वर्षमभिव्याप्य दक्षिणस्यां दिशि समुद्रमनुप्रविशति । अन्ये च नदा नद्यश्च अन्ये चान्याश्चास्ये “पुमान् त्रिया” इत्येकशेषः, मेर्वादिगिरीणां दुहितरः तत्प्रसूता वर्षे शतशः सन्ति ।। ९-१० ॥ तत्रापि जम्बूद्वीपेऽपि भारतं वर्षमेव कर्मक्षेत्र कर्मणां सुखदुःखनिमित्तानां पुण्यापुण्यरूपाणां क्षेत्रमनुष्ठानस्थानं व्यपदिशन्तीत्युत्तरेणान्वयः । अन्यानि त्वष्टौ वर्षाणि स्वर्गिणां पुण्यकर्मणां पुण्यशेषस्य भुक्ता- वशिष्टस्य पुण्यकर्मण उपभोगस्थानान्यत एव भौमानि स्वर्गपदानि व्यपदिशन्ति न तु तानि पुण्यापुण्यकर्मक्षेत्राणीत्यर्थः । नन्वत्र केवलेष्टापूर्त दत्तकर्मकारिणां धूमादिना पितृयानेन पथा चन्द्रमसं गतानां तत्र सुखानुभवक्षीणपुण्यकर्मणां पुनरत्रागमनं श्रुतं " यावत्संपात - मुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त इति सम्पतन्त्यनेन स्वर्ग लोकमिति संपातः कर्मोच्यते श्रुत्यन्तरं च प्राप्यान्तं कर्मणस्तस्य यत्किं चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे’ इति पुण्यापुण्यकर्मानुष्ठानायेत्यर्थः । तत्कथं पुण्यशेषावस्थानं कथन्तरां स्क. ५ अ. १७ श्लो. ९-१६ ] अनेकव्याख्या समलङ्कृतम् ३५५ तेषां तद्भोगस्थानत्वम् । उच्यते तावदवश्यं भोगावशिष्टाना मनुष्यफलानामकृतप्रायश्चित्तानां कर्मणां सद्भावो वक्तव्यः । अन्यथेह कर्मनिमित्तस्य जन्मनोऽसम्भवात्पुनरवरोहणानुपपत्तेः । तथा च श्रूयते “रमणीयचरणा रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रिय- योनिं वैश्ययोनि वा " इति स्मृतिरपि “वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टतरजातिकुलरूपायुः- श्रुतवित्तसुखमेधसो जन्म प्रतिपद्यन्ते” इति एवं च भुक्तावशिष्टेन पुण्येन कर्मणातिशयविशिष्टभोगार्थं तद्देशेषुत्पत्तिः सम्भवतीति ।। ११ ।। * तान्यष्टौ वर्षाणि वर्णयति येष्विति यत्र हेति च गद्यद्वयेन । येष्विति येष्वष्टसु वर्षेषु पुरुषाणां त्रेतायुगसमः कालो वर्तते सुखोत्कर्षात् त्रेतायुगसाम्यमुक्तं कृतयुगे हि सर्वे ध्याननिष्ठाः द्वापरादौ तु दुःखबहुलाः कथम्भूतानां देवतुल्यानां नागायुतबलानां पुरुषाणामयुतं पुरुषमानेनायुर्वर्षाणि येषां वावद् दृढं संहननं शरीरं तस्मिन् बलवयोमोदास्तैः प्रमुदितानि यानि महान्ति सौरतानि येषां तानि मिथुनानि तेषां व्यवायापवर्गेऽलंभोगावसाने एकवर्षावशिष्टे आयुषि धूत एको गर्भो यैस्तादृशानि कलत्राणि येषाम् ॥ १२ ॥ * यत्र वर्षे देवपतयः देवश्रेष्ठाः स्वैः स्वैः सेवकगणानां नायकैः विहितमहार्हणाः कृतमहोपचाराः सन्तः स्वैरं विहरन्तीत्यन्वयः । एतेषु स्थानेषु सर्वेषु सत्सु कुसुमस्तबकादीनां श्रिया समृद्धद्यात्यन्तं नम्यमानाः प्रह्णीभूताः शाखा लताश्च येषां तैर्विटपिभिर्वृक्षैरुपशोभमानानि रुचिराणि काननानि येषु तेष्वाश्रमायतनेषु गिरिद्रोणीषु च तिर्यगन्तरान्तर्भूमिषु तथाम लेषु जलाशयेषु च विकचानि विविधानि नवानि बनरुहाणि नीरजानि तेषामामोदेन प्रमुदितै राजहंसादिभिर्मधुकराणां चाकृतिभिः जातिविशेषैरुपकूजितेषु सत्सु तेषु जलक्रीडायां ये विविधा विनोदास्तैः सुललितानामतिसुन्दरीणां सुरखीणां कामेन कलिलैः क्षुभितैः विलासादिभिराकृष्टं मनो दृष्टिच येषाम् एवम्भूताः सन्तः स्वेच्छापूर्वकं विहरन्तीत्यर्थः ॥ १३ ॥ * * इलावृतादिषु नवस्वपि वर्षेषु भगवान्नारायणः महापुरुषेण तत्तद्वर्षपतिना सेव्यमानः पुरुषाणां तत्तद्वर्षपुरुषाणां वक्ष्यमाणानुग्रहाय पुरुषाननुग्रहीतु- मात्मतत्त्वव्यूहेनात्मना विगत अहस्तकः व्यूह आत्मतत्त्वस्य जीवतत्त्वस्य व्यूहो यस्मिंस्तेन जीवैर्दृष्टवस्तुसजातीयत्वेन चिन्तयितुम- शक्येनात्मनेत्यर्थः । यद्वा आत्मनः स्वात्मनः तत्त्वं तस्य भावस्तत्त्वं कल्याणगुणास्तेषां व्यूहः समूहो यस्य तेनात्मना समस्तकल्याण- गुणविशिष्टेनात्मनेत्यर्थः । न त्वात्मतत्वव्यूहेन सङ्कर्षणादिरूपेणेत्यर्थः । हरिवर्षादिषूपास्यानां नरहर्यादिरूपाणां विभवत्वेन व्यूहत्वा- भावात् नवस्वपि वर्षेष्वित्यनेन सह विरोधापत्तेः, सन्निधीयते सन्निहितो भवतीत्यर्थः ।। २४ ।। * * तत्रेलावृतादिषु क्रमेणोपास्यः मानरूपं तदुपासकं चाह इलावृते वर्षे भगवान् भवो रुद्र एवैकः पुरुषो वसति नापरः पुरुषस्तत्र वसति । तत्र हेतुः भवान्याः शापरूपं यन्निमित्तं स्त्रीत्वनिमित्तं तज्जानातीति तथा भवान्याः शापनिमित्तज्ञोऽपरः पुरुषस्तत्र न वसति यदि शापमजानन्नपि तत्र प्रविशति तर्हि स्त्रीत्वमाप्नोतीत्याह । यत्प्रविष्टस्य यत्रेलावृते प्रविष्टस्य स्त्रीभाव आपद्यते तत्र प्रविष्टस्य स्त्रीत्वनिमित्तं शापरूपं पञ्चान्नवमस्कन्धे बक्ष्यामीत्यर्थः ॥ १५ ॥ * * तत्र भवानी रुद्राणी नाथा स्वामिनी ईश्वरी येषां तैः स्त्रीणामर्बुदसहस्त्रैरव- रुध्यमानः सेव्यमानः भवो रुद्रः भवानीनाथ इति पृथकपदं भवविशेषणं वा अनेन भवानीसामीप्यं विवक्षितम् । आत्मनः स्वस्य प्रकृतिं कारणभूतां चतुर्मूर्तेर्वासुदेवादिरूपेणावस्थितस्य भगवतो महापुरुषस्य सङ्कर्षणसंज्ञां तुरीयां मूत्तिरूपामित्यर्थः । वासुदेवप्रद्युम्ना- निरुद्धसङ्कर्षणक्रमविवक्षया तुरीयामित्युक्तं क्रमानादरणात् तामसीं तमोऽधिष्ठात्रीं तमः शब्देनात्र प्रधानं विवक्षितम् “तम आसीत्तमसा गूढमप्र प्रकेतम् अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते” इति प्रयोगात् ज्ञानावरणाच्च तमसो नियन्त्रीमित्यर्थः, आत्मनि चित्ते समाधिरेव रूपमाकारो यस्य तेन उपायेनेति शेषः, सन्निधाप्य साक्षात्कृत्य एतद्वक्ष्यमाणं मन्त्रात्मकं वाक्यमनुगृणन जपन्नुपधावति स्तौति भज इत्यादिभिरित्यर्थः ॥ १६ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली … रभसतरः सम्भ्रमातिशयस्तस्य वेगेनोपर्यधः पाषाणशिखरेषु लुठन्ती स्खलित्वा परिवर्तमाना ।। ९-१० ।। * * नवानां वर्षाणां विशेषमाह अत्रापीति । कर्मक्षेत्रं पुण्यपापलक्षणकर्माचरणस्थानं व्यपदिशन्ति अन्यान्यष्टवर्षाणि स्वर्गिणां पुण्यकर्मणा स्वर्ग प्राप्तानां तत्र स्थित्वा पुण्यफलभोगयोग्यानां स्वर्गप्राप्यवशिष्टपुण्यानुभवस्थानानि व्यपदिशन्तीत्यन्वयः । किन्नामानीत्यत्राह भौमानीति । भूमिसम्बन्धदुःखादिसंभिन्नस्थानानि ॥ ११ ॥ * * येषु वर्षेषु वसतां त्रेतायुगसमः कालो वर्तत इत्यन्वयः । नरवरावरोधे राजयोग्यगृहे मिथुनानां यो व्यवायः ग्राम्यधर्मलक्षणा रतिस्तस्यापवर्गे अवसाने धृत एकगर्भो यैस्तानि धृतैकगर्भाणि तानि च कलत्राणि येषां ते धृतैकगर्भकलत्रास्तेषां वज्रवद् दृढं संहननं शरीर बलं वयश्च मोदश्च साधारणं सुखं प्रमुदितं प्रमोदः विशिष्टसुखं च येषां ते तथा महत्सौरतं निरन्तरसुरतक्रिया तस्यां निरताश्च वज्रसंहननबलवयोमोदप्रमुदिताञ्च महासौरतनिरताश्च नरवरावरोधमिथुनव्यवायापवर्गघृतैकगर्भकलत्राश्च ते तथा तेषां बहुगर्भधारणे देहशैथिल्यात् कलत्रतारुण्यनाशात् सम्भोगानुपपत्ति- भयात्तदवसाने सन्तत्यर्थमेकमेव गर्भ धारयन्तीति किंवदन्ती ।। १२ ।। * यत्र येषु देवपतयः स्वैर विहरन्ति किलेत्यन्वयः केषु स्थानेविति तत्राह उपशोभमानेत्यादिना । सर्वर्तुसमुद्भूतानां पुष्पस्तबकानां फलानां किसलयानां च श्रिया सम्पदा आनम्यमाना भृशं नमन्त्यो विटपलता येषां ते तथा ते च आविटपिनः भारतखण्डवृक्षविलक्षणा वृक्षा ये तैरुपशोभमानेषु रुचिरेषु काननलक्षणाश्रमेष्वायतनेषु वर्षभवगिरीणां द्रोणीषु पार्श्वद्वयोन्नतमध्यान्निम्नलक्षणप्रस्थेषु अमलजलाशयेषु निर्मलसरस्सु विकचानां ३५६ श्रीमद्भागवतम् [ स्कं. ५.अ. १७ श्लो. ९-१६ विविधानां वनरुहाणां पद्मानामामोदजन्यमदेन मुदितैः राजहंसादिभिः भृङ्गाणामारुतिभिः शब्देरुप कूजितेषु शब्दितेषु सरो- विशेषणमेतत् सुष्ठु शृङ्गारयुतसुरखीणां कामेन कलिलैर्विलासादिभिराकृष्टा मनो मनोदृष्टयो येषां ते तथा मनांसि च दृष्टयश्च मनोदृष्टयः ॥ १३ ॥ * न केवलं नववर्षस्थानां व्यवायादिक्रियया कालयापनमपि तु श्रीनारायणसपर्ययेति भावेनाह नवस्थिति । आत्मनः स्वस्य तत्त्वानामनारोपितरूपाणां व्यूहेन नवसङ्ख्याविशिष्टेन समूहेनावाश्च सन्निधाप्य पूज्यत इत्यर्थः । वर्षस्थे. पुरुषैरिति शेषः ॥ १४ ॥ * * इलावृते इलावृते तु विशेषोऽस्तीत्याह इलावृत इति । तत्रेलावृतमारभ्य नववर्षसन्निहितरूपाणि तदुपासकाश्च क्रमेणेत्यतो वाह इलावृत इति ।। १५ ।। * * भवानी पार्वती नाथा येषां तानि तथा तैः अवरुध्यमानः परिब्रियमाणः वासुदेवादिचतुर्मूर्तेः तुरीयां चतुर्थांशभूतां तामसी संहारकारणतमोगुणप्रवर्तनीमात्मनः स्वस्य भवस्य प्रकृतिं प्रकृष्ट- कारणभूतामात्मसमाधिरूपेण मनस एकाग्रताकारणेन उपधावत्युपास्ते ।। १६ ।। | आई का TOPE ॥ BF CISCES PE श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः । नवस्वपीत्यादिना । सर्वेषामवताराणां नित्यप्राकट्य दर्शितम् । तत्र चात्मनेति । स्वरूपेणैव न तु प्रतिमारूपेणेत्यर्थः । प्रद्युम्नाविर्भावे गतिविलासादेरपि वर्णयिष्यमाणत्वात् । अद्यापि सन्निधीयत इति यथावसरं नित्यमेव ज्ञेयम् ।। १४-१५ ।। * तामसीं तमोगुणप्रेरिका प्रलयहेतुत्वात् ।। १६ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी श * .. किर तथैवेति वर्षत्रयमुलस्य गिरिशिखरादिरिशिखर पतन्तीत्यर्थः। भारतममिलक्ष्य पतित्वेति शेषः । अत्र द्वीपमध्य- वर्तीनि बहूनि वर्षाणि उल्लड पोलाद्यापि चलन्ती प्राच्यादिषु चतुर्षु समुद्रसमीपवर्त्तिष्वेव वर्षेषु कुलाचलादवरुह्य भूमौ यन्निपतति तत् खलु स्वपतिं समुद्रमभिलक्ष्य लज्जानम्रमुखी स्वमौद्धत्यं परिहरन्ती वेति ज्ञेयम् ॥ ९-१० ॥ * दिव्यभौमबिल- भेदात् त्रिविधः स्वर्गः । तत्र भौमस्वर्गस्य पदानि स्थानानि ॥ ११ ॥ * * अयुतं पुरुषस्य मनुष्यस्य मानेन आयुर्वर्षाणि येषां दृढं संहननं शरीर तस्मिन् बलवयोमोदास्तैः प्रमुदितानि यानि महासौरतानि मिथुनानि त्रीपुरुषयुगलानि तेषां व्यवायापवर्गे सम्भोगावसाने एकवर्षशेषे आयुषि धृतैकगर्भाणि कलत्राणि येषां तेषाम् । त्रेतायुगलम इति । विषयसुखोत्कर्षात् यतः कृतयुगे हि सर्वे ध्याननिष्ठाः द्वापरादौ दुःखबहुलाः ॥ १२ ॥ * * यत्र हे देवपतयः स्वैर विरहन्तीत्यन्वयः । सर्वेष्वेव ऋतुषु कुसुमादीनां श्रिया समृद्धया अत्यन्तं नाम्यमाना विटपाः येषां तैर्लताविटपिभिरुपशुम्भमानेषु शोभमानेषु रुचिरकाननादिषु तत्र वर्षगिरयो वर्ष- ख्यातिकरपर्वता राजहंसादिभिर्मधुकर निकराणाच आकृतिभिर्जातिविशेषैरुपकूजितेषु, अधिकरणे निष्ठा षष्ठयभाव आर्षः || १३।। * * पुरुषाणां तदनुग्रहाय स चासौ वक्ष्यमाणोऽनुग्रहश्वेति तस्मै तदर्थम् आत्मतत्त्वव्यूहेन स्वमूर्तिसमूहेन सन्निधीयते सन्निहितो भवति । अत्र उपास्यदेवतावर्षेषु भगवन्मूर्त्तयः प्रायः प्रतिमारूपा एव ज्ञेयाः । आविराविर्भवेति प्रह्लादस्योपरिष्टादुक्तेः ॥ १४ ॥ * * पश्चान्नवमस्कन्धे ॥ १५ ॥ * * भवानी नाथा येषां तैः अवरुध्यमानः सर्वतः सेव्यमानः तामसी तमः कार्यभूतस्य संहारस्य प्रवर्त्तयित्रीं वस्तुतस्तु तुरीयां तमोरजःसत्त्वेभ्योऽपि परां शुद्धचिन्मयीमित्यर्थः । न यस्य मायेत्यादिना त्रिभिर्विहिता मित्यादिना च तथा प्रतिपादयिष्यमाणत्वात् आत्मनः प्रकृतिमंशित्वात् कारणम् । आत्मनः समाधिर्ध्यानं यत्र येन रूपेण आकारेण ॥ १६ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ॥
- अतिरभसतररंहसा, अस्खलिततीव्रतर वेगेन लुठन्ती भिन्दन्ती ॥ ९–१० ॥ * * कर्मक्षेत्रं भोगमोक्षसाधना- नुष्ठानस्थानं दिव्यभौमबिलभेदात् त्रिविधः स्वर्गस्तत्र भौमस्वर्गस्य पदानि स्थानानि व्यपदिशन्ति “पदं व्यवसितत्राणस्थान- लक्ष्माङ्क्षिवस्तुषु” इति कोशात् ॥ ११ ॥ * * एषु अष्टवर्षेषु पुरुषाणामयुतं पुरुषमानेन आयुर्येषां तेषां देवकल्पानां गजायुतबलानां वज्रवत्संहनने दृढे शरीरे ये बलवयोमोदास्तैः प्रमुदितानि यानि महासोरतमिथुनानि महासम्भोगयुक्तस्त्रीपुरुष- युगलानि तेषां व्यवायापवर्गे सम्भोगान्ते धृत एको गर्भो यैस्तानि कलत्राणि येषां तेषां त्रेतायुगसमः कालो वर्त्तते विषयसुखाधिक्यात् कृतयुगे पुरुषाणां ध्यानसुखं द्वापरादौ दुःखाधिक्यमतस्त्रेतासम इत्युक्तम् ॥ १२ ॥ * * यन्न येषु अष्टवर्षेषु स्वैः स्वैगण- नायकैर्विहितानि रचितानि महार्हणानि महापूजनानि येषां ते देवपतयः सर्वषु कुसुमस्तबकादीनां श्रिया समृद्धया आनम्यमानाः विटपाः शाखाः तदाश्रिता लताश्च येषु तैर्विटपिभिः उपशुम्भमानानि शोभनानि रुचिरकाननानि येषु तेषु आश्रयमायतनेषु वर्षगिरिद्रोणीषु च विचित्रविनोदेः स्वेर विरहन्ति तथैव विविधानि नवानि च वनरुहाणि जलजानि तेषामामोदेन प्रमुदितैः राजहंसादिभिः मधुकरनिकराणां व आकृतिभिर्जातिविशेषैः उपकृजितेषु अमलजलाशयेषु जलकीडादिभिश्च स्वैरं विहरन्ति कथम्भूताः सुष्ठु ललितानां सुरसुन्दरीणां कामेन कलिलैः क्षुभितैर्विलासादिभिराकृष्टं मनो दृष्टिय येषां ते ॥ १३ ॥ पुरुषाणामु- ।। * * पासकानां स चासौ वक्ष्यमाणोऽनुग्रहस्तदर्थम् । नवस्वपि वर्षेषु आत्मना स्वत एव कर्मकालयात्तायात्ततयेत्यर्थः । आत्मतत्त्वस्य व्यूहः सङ्कर्षणादिमूर्त्तिसमूहस्तेन संनिधीयते संनिहितो भवति ॥ १४ ॥ परो भगवान् उपास्यः श्रीसङ्कर्षणः asik स्क. ५ अ. १७ क्लो. ९-१६ ] अनेकव्याख्यासमलङ्कृतम् ३५७ सङ्कर्षणापेक्षया अपरः उपासकरूपः भगवान् भवः एकः पुमान् अस्ति अन्यो भवान्याः शापनिमित्तज्ञो न निर्विशति पश्चाननम- स्कन्धे ॥ १५ ॥ अवरुध्यमानः परिसेव्यमानः आत्मनः प्रकृतिकारणभूताम् तामसी तमोऽधिष्ठात्रीमात्मनि समाधिर्थ्यानं यस्य तेन रूपेण संनिधाप्य साक्षात्कृत्य एतद्वक्ष्यमाणं मन्त्रादिकमभिगृणन् जपन उपधावति स्तौति ।। १६ ।।
Fi TRIPPEEPER FRI गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी तथैवालकनन्दापि दक्षिणतो ब्रह्मसदनात् पतिता बहूनि फेसरांचलादिकैलासनिषधादीनि गिरिकूटान्यतिक्रम्य हेमकूटं गिरिं प्राप्य ततोऽप्यतिरभसतररंहसाऽस्खलित तीव्र तरवेगेन हिमालयसम्बन्धीनि हेमकूटानि लुठयन्ती भारतं वर्षमभिगम्य दक्षिणस्यां दिशि जलधिमभिप्रविशति । कैलासे गङ्गावतरणमवश्यं वाच्यम् ‘नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपादपदाम्भोज रजसाऽतीव पावने’ इति चतुर्थस्कन्धे कैलासवर्णने उक्तत्वात् ॥ ९॥ भगवच्चरणसम्बन्धाद्गङ्गामाहात्म्यमाह–यस्यामिति । N यदा स्नानाद्यर्थं गच्छतस्तत्सम्बन्धं विनैव पुंस ईटी फलं तदा श्रद्धया तदनुसेवया संसारविमोक्षे भगवत्प्राप्तौ च कः सन्देह इति सूचितम्, स्वर्धुन्यापोऽनुसेवयेति प्रथमे तथोक्तत्वात् ॥ १०॥ मेर्वादिगिरीणां दुहितरस्ततः प्रभूताः बहुशो बहुप्रकार: शतशोऽन्येऽपि नदा नयश्च वर्षे सन्तीत्यन्वयः ॥ ११ ॥ * * दिव्यभौमबिलभेदेन स्वर्गस्य त्रिविधत्वादन्यान्यष्टवर्षाणि भौमानि स्वर्गपदानि व्यपदिशन्ति । तथा व्यपदेशे हेतुमाह- खर्गिणामित्यादि, ये पुण्योत्कर्षेण स्वर्ग गच्छन्ति तेषां तत्र पुण्यफलोप भोगेन येषां पुण्यशेषो भवति, तत्फलोपभोगस्थानानीत्यर्थः ॥ १२ ॥ एषु तु वर्षेषु पुरुषाणां त्रेतायुगसमः कालो वर्त्तते इत्यन्वयः । कृतयुगे प्राणिनां ध्याननिष्ठत्वाद् द्वापरादौ तु दुःखबहुलत्वात् त्रेतायामेव विषयसुखोत्कर्षात्तत्र सर्वदा त्रेतासमकालत्वं बोध्यम् । विषयसुखोत्कर्षमेव विशेषणैः स्फुटयति- अयुतं पुरुषमानेनायुषो वर्षाणि येषां तेषामयुतवर्षजीविनाम् । नीरोगत्व तेजस्वि- त्वादिकं सूचयन्नाह देवकल्पानामिति । नागायुतप्राणानामिति, नागायुतस्य हस्तिदशसहस्रस्य प्राणो बलं येषां तेषां वज्रवत्संहननं दृढं यच्छरीरं तस्मिन ये बलवयोमोदास्तैः प्रमुदितानि यानि महासौरतानि मिथुनानि तेषां व्यवायापवर्गे सम्भोगावसाने एकवर्षशेषे आयुषि धृत एको गर्भो यैस्तादृशानि कलत्राणि येषां तेषामित्यर्थः । अनेन खीणां पुत्राद्युत्पच्या शरीरशैथिल्येन सम्भोगे वैरस्यं निरस्तम् ॥ १३ ॥ यत्र देवानामपि सुखातिशयो भवति तत्र मनुष्याणां सुखातिशये किं वक्तव्यमिति कैमुत्यन्यायेन भौमस्वर्गत्वं सम्पादयन्नाह - यत्र हेतिः । येषु हि वर्षेषु देवपतय इन्द्रादयोऽपि स्वैः स्वैर्गणनायकैः सेवकगणेषु मुख्यैर्विहितमहार्हणाः समर्पित स्रक्चन्दनादिमहोपचाराः सन्तः स्वैरं यथेष्ट जलक्रीडादिभिर्विचित्रविनोदे स्त्रीभिः सह विहरन्तीत्यन्वयः । एवं बिहारे हेतुमाह– सुललितेति । सुललिताः मनोहराः याः सुरसुन्दयों देवाङ्गनास्तासामु बुद्धो यः कामस्तेन कलिलः सञ्जातो विलासः क्रीडा- हास लीलया कटाक्षेणावलोकन तैराकृष्टं क्षुभितं मनो दृष्टिय येषां ते, सुरखीणां कामोद्बोधको हेतुः । केषु वा स्थानेषु विहरन्तीति वीक्षायां कामोद्बोधहेतुत्वमप्यतिरम्यत्वात् स्थानानामेवेति सूचयंस्तानि दर्शयति–सर्वेति । सर्वेषु ऋतुषु कुसुमस्तबकादीनां श्रिया समृद्धया आनम्यमाना अत्यन्तं नम्यमाना विटपास्तदाश्रिता लताश्च येषु तैर्विटपिभिर्वृक्षैरुपशुम्भमानानि शोभमानानि रुचिराणि प्रीतिकराणि काननानि येषु तेष्वाश्रमेषु आयतनेषु वर्षगिरयो वर्षमध्यवर्तिगिरयस्तेषां द्रोणीषु तथा विकचानि प्रफुल्लानि यानि विविधानि नवानि वनरुहाणि नीरजानि तेषामामादेन मुदिते राजहंसादिभिः पक्षिभिर्मधुकरनिकाराणां चाकृतिभिर्जातिविशेषैरुप- कूजितेऽवमलजलाशयेषु ।। १४ ।। ननु ‘पादशेषं शौचशेषं पीतशेषं तथैव च । मद्यतुल्यं विजानीयात् इत्यादी पादोद- कस्याशुचित्वेन क्रियानर्हत्वोक्तेर्गङ्गायाः अपि भगवत्पादोदकत्वेन भगवत्सेवानर्हत्वात् ‘द्यौः शीर्षमाशा श्रुतिरङ्घ्रिरुव’ इत्यादी भगवचरणत्वोक्त्याऽपकर्षमाशङ्कध भूमेरपकृष्टत्वसूचताच गङ्गावतरणेऽपि कथं तस्या उत्कर्षः सिद्धयतीति चेत् न, लोके चरण- सम्बन्धस्याशुचित्वसम्पादकत्वेपि भगवतः सर्वाधिदैविकत्वेन तचरणसम्बन्धस्याशुचित्वासम्पादकत्वेन गङ्गाजलेन तत्सेवायां दोषा- भावात् । न च तहींदानीं तेन पादोदकस्यापि तत्सेवायोग्यत्वं स्यादिति शङ्कथम्, शुचित्वाशुचित्वनिर्णयस्य शास्त्राधीनत्वेन गङ्गा- जलस्य सेवा योग्यत्वस्य शास्त्रसिद्धत्वात् तत्र सदाचारसत्त्वाच । इदानीन्तनपादोदकस्य तथात्वाभावान्न तद्योग्यत्वम् । तचरण सम्बन्धन तत्सेवानर्हत्वाङ्गीकारे तु भूमेरपि तचरणत्वोक्ते तत्रत्यानां पदार्थानां सर्वेषामेव तत्सेवानर्हत्वं स्यात् । योग्यत्वं भूमेर्भगवदङ्घ्रित्वेऽपि ‘सवै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते । पात्रं तत्र निरुक्तं वै कविभिः पात्रवित्तमैः ॥ हरिरेवैक उर्वीश यन्मयं वै चराचरम् । यत्र गङ्गादयो नयः पुराणेषु च विश्रुताः । यत्र यत्र हरेरच स देशः श्रेयसां पदम् इत्यादौ भगवत्स्थानत्वेनोत्कर्षस्य वक्ष्यमाणत्वाद्भग- वत्पूजास्थानत्वेन तदुत्कर्षं सूचयन्नाह - नवस्वपीति । नवस्वपि वर्षेषु भगवानैश्वर्यादिषड्गुणपूर्णो नारायणः शेषशायी सर्वकारणभूतो महापुरुषः पुरुषोत्तमः पुरुषाणां स्वभक्तानां तदनुग्रहाय स चासावनुग्रहश्च प्रसिद्धस्तत्तत्पुरुषार्थदानलक्षणस्तदर्थम् आत्मतत्त्वव्यूहे न आत्मनस्तत्त्वानां गुणानां व्यूहः समूहो यत्र तेनात्मना स्वमूर्तिसमूहेन रूपेणाद्यापि सन्निधीयते सन्निहितो भवति ।। १५ ।। ** केन रूपेण कुत्र भगवान् सन्निधीयते को वा तत्र मुख्य उपासक इत्यपेक्षायां तद्दर्शयति- इलावृते त्विति । भगवान् भव एक एव पुमानस्ति न हि ततोऽन्योऽपरो जीवकोटिप्रविष्टो भवान्याः शापनिमित्तज्ञः पुमांस्तत्र प्रविशति । प्रवेशे किं स्यात्तत्राह यदिति । यस्मिन् प्रवेशं करिष्यतः पुंसः खीभावो भवति । एवं शापे किं कारणमित्यपेक्षायामाह तदिति, तच्छापस्य कारणं पञ्चानवमस्कन्धे वक्ष्यामीत्यर्थः । अयं च शापः कैलासकरवीरयोः पर्वतयोर्मध्ये इलावृतैकदेशविशेषे शेयः, अन्यथा सर्वस्येलावृतस्य शप्तत्वे तु
३५८ श्रीमद्भागवतम् [ स्कं. ५ भ. १७ लो. ९-१६ मेर्वाद देवस्थितिर्भीमादीना मैन्द्रामरस्थानहरणार्थ गमनं दशमे वक्ष्यमाणं यत्र देवपतयः स्वैरं विहरन्तीत्युक्तं च बाधितं स्यादिति ज्ञेयम् ॥ १६॥ms myma श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । * क तथैवेति । तथैव, अलकनन्दा अलकनन्दासंज्ञा धारा, ब्रह्मसदनात् मेरो वर्त्तमानात् ब्रह्मसदनसकाशात्, दक्षिणेन दक्षिणस्यां दिशि स्रवन्ती सती बहूनि गिरिकूटानि, अतिक्रम्य मध्यस्थपर्वतशिखराण्यस्पृष्ट्वैव हेमकूटहिमकूटानि हेमकूटहिमवत्- शृङ्गाणि अतिरभसतररंहसा अस्खलिततीव्रतर वेगेन लुठयन्ती भिन्दन्ती सती, भारतं वर्षम् अभि अभिव्याप्य, दक्षिणस्यां दिशि जलधिं समुद्र, अभिप्रविशति ॥ ९ ॥ । अन्ये चेति । अन्ये चान्याश्चेत्यन्ये । अन्ये इत्यत्र ‘पुमान् खिया’ इत्येकशेषः अन्ये च बहुशः, नदाः। नद्यञ्चापि, सन्ति। एवं वर्षे वर्षे शतशः मेर्वादिगिरिदुहितरः सन्ति ॥ १० ॥ ४ ४ तत्रापीति
- । तत्रापि जम्बूद्वीपेऽपि भारतं वर्षम् एव, कर्मक्षेत्रम् अन्यानि अष्टवर्षाणि तु स्वर्गिणां पुण्यशेषोपभोगस्थानानि स्वर्गोपभुक्तपुण्यकर्मणो- ऽवशिष्टस्य पुण्यफलस्योपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति । दिव्यभौमबिलभेदात् त्रिविधः स्वर्गः, तंत्र भौमस्वर्गस्य पदानि कथयन्तीत्यर्थः ॥ ११ ॥ - तान्यष्टौ वर्षाणि वर्णयति गद्यद्वयेन एध्विति । तत्र तेषु, एष्वष्टसु वर्षेषु, देवकल्पानां देवतुल्यानां नागायुतप्राणानामयुतगजबलानां अयुतं पुरुषायूंषि पुरुषमानेनायुर्वर्षाणि येषां तेषां वज्रवत् संहननं दृढं यत् अङ्गं शरीरं तस्मिन् बलं च वयश्च मोदच तैः प्रमुदितानि यानि महासौस्तानि निरन्तरसौरतक्रियाचन्ति मिथुनानि स्त्रीपुंसद्वन्द्वानि तेषां व्यवायापवर्गे संभोगावसाने वर्षे एकवर्षावशिष्टे धृत एको गर्भो यैस्तादृशानि कलत्राणि येषां तेषां पुरुषाणां तु त्रेतायुगसमः कालः, वर्त्तते । सुखोत्कर्षात् त्रेतायुगसाम्यमुक्तम् । कृतयुगे हि सर्वे ध्याननिष्ठाः । द्वापरादौ दुःखबहुलाः । ततः त्रेतासाम्यमुक्तम् । एकगर्भ- धारणं पुष्कलविषयभोगार्थम् । बहुगर्भधारणे कलत्रस्य देहशिथिलीभावः तारुण्यनाशश्च स्यादतः संभोगानुपपत्तिभयात्तदवसाने संतत्यर्थमेकमेव गर्भः तत्या धारयन्तीति किंवदन्ती श्रूयते ।। १२ ।। ४४ यत्र हेति । यत्र ह येषु वर्षेषु हि, स्वैः स्वैः गणनायकैः निजनिजसेवकगणेषु मुख्यैः, विहितमहार्हणाः कृतमहोपचाराः देवपतयः देवश्रेष्ठाः सर्वे च ते ऋतवश्च तेषु कुसुमानां ये स्तबका गुच्छाच फलानि च किसलयाश्च तेषां श्रीः समृद्धिस्तया, नंनम्यमाना अतिशयेन नमन्तः विटपाः शाखाः लताः वीरुधा येषां ते ये विटपिनो वृक्षास्तैः उपशुम्भमानानि शोभमानानि रुचिराणि काननानि येषु ते ये आश्रमाश्च आयतनानि च वर्षाणि च गिरिद्रोण्यश्च तासु तथा विकचानि विकाशीनि विविधानि नानाविधानि नवानि नूतनानि यानि बनरुहाणि नीरजानि तेषामा- मोदेन, मुदिता ये राजहंसाश्च जलकुक्कुटाच, कारण्डवाश्च सारसाश्च चक्रवाकाश्च ते आदयो येषां तैः मधुकरनिकराणामाकृतयों जातिविशेषास्तैश्च उपकूजितास्तेषु, अमलजलाशयेषु च सुललितसुरसुन्दरीणामतिसुन्दरदेवाङ्गनानां जलक्रीडादिभिः, विचित्र- विनोदैश्व, कामेन कलिलाः क्षुभिता ये विलासाः सुरसुन्दरीकृतहस्त अचापल्यादिका विलासाच हासाश्च लीलावलोकाश्च आकृष्टा मनोदृष्टयो येषां तथाभूताः सन्तः स्वैरं स्वेच्छापूर्वकं विहरन्ति ॥ १३ ॥ न केवलमुक्तवर्षस्थानां केवल- व्यवायादिक्रिययैव कालया पत्नमपि तु श्रीनारायणसपर्ययापीति भावेनाह नवस्वपीति । नवसु अपि वर्षेषु इलावृतादिषु नवस्वपि खण्डेष्वित्यर्थः । भगवान् नारायणः महापुरुषः । तत्तद्वर्षपतिना सेव्यमानः सन्निति शेषः । पुरुषाणां तत्तद्वर्षस्थजनानां तदनुग्रहाय वक्ष्यमाणरीत्या ताननुग्रहीतुमित्यर्थः । आत्मनः स्वस्यं तत्त्वं कल्याणगुणास्तस्य व्यूहः समूहो यस्य तेन, आत्मना समस्तकल्याण- गुणविशिष्टेन स्वात्मनेत्यर्थः । व्यूहशब्दस्य वासुदेवादिचतुर्व्यूह परत्वेऽप्यत्र समूहार्थत्वं तु हरिवर्षादिषूपास्यानां नरर्यादिरूपाणां विभवत्वेन व्यूहत्वाभावात्। विभवादिलक्षणानि तत्त्वत्रयं लघुभागवतामृतादेरवयन्तव्यानि । अद्यापि संनिधीयते संनिहितो भवतीत्यर्थः ॥ १४ ॥ * * अथेलावृतादिषु क्रमेणोपास्यभगवद्रूपं तदुपासकं चाह इलावृते त्विति । इलावृते इलावृतनानि वर्षे तु भगवान् भवः शिवः, एकः एव पुमान् भवान्याः शापनिमित्तज्ञः, अपरः अर्वाचीनः अन्यः पुरुषः, तत्र न हि निर्विशति । यत्प्रवेष्टुः यत्र प्रवेशं कुर्वाणस्य स्त्रीभावः भवति । तत् पश्चात् नवमस्कन्धे वक्ष्यामि ॥ १५ ॥ * * भवानीति । भवानी नाथा स्वामिनी येषां तैः, स्त्रीगणानामर्बुदसहस्रैः, अवरुद्वयमानः सर्वतः सेव्यमानः, भवः शिवः, आत्मनः स्वस्य प्रकृतिं कारणभूतां चतुर्मूर्तेः वासुदेवादिचतुर्मूर्त्तितयावस्थितस्य भगवतः महापुरुषस्य, संकर्षणसंज्ञां तुरीयां वासुदेवप्रद्युन्नानिरुद्धसंकर्षणक्रमविवक्षया चतुर्थां तामसी तमोऽधिष्ठात्रीं तमःशब्देनात्र प्रधानं विवक्षितम् । मूर्त्तिम् आत्मसमाधिरूपेण चित्ते तद्ध पानविधानरूपोपायेनेत्यर्थः । संनिधाप्य साक्षात्कृत्य एतद्वक्ष्यमाणमन्त्रात्मकं वाक्यं अभिगृणन् जपन् सन् उपधावति स्तौति ।। १६ ।। भाषानुवादः 8 miss nega Farme अलकनन्दा ब्रह्मपुरीसे दक्षिणकी ओर गिरकर अनेकों गिरि-शिखरों को लाँघती हुई हेमकूट पर्वतपर पहुँचती है, वहाँ से अत्यन्त तीव्र वेग से हिमालय के शिखरों को चीरती हुई भारतवर्ष में आती है और फिर दक्षिणकी ओर समुद्र में जा मिलती है । इसमें स्नान करनेके लिये आनेवाले पुरुषोंको पद-पदपर अश्वमेध और राजसूय आदि यज्ञोंका फल भी दुर्लभ नहीं है ॥ ९ ॥ * * प्रत्येक वर्ष में मेरु आदि पर्वतोंसे निकली हुई और भी सैकड़ों नद नदियाँ हैं ॥ १० ॥ * * इन सब वर्षों मेंस्कं ५ अ. १७ लो. १७-२० अनेकव्याख्या समलङ्कृतम् ५५९ भारतवर्ष ही कर्मभूमि है। शेष आठ वर्ष तो स्वर्गवासी पुरुषोंके। स्वर्गभोगसे बचे हुए पुण्योंको भोगने के स्थान हैं । इसलिये इन्हें भूलोकके स्वर्ग भी कहते हैं ।। ११ ।। * * वहाँके देवतुल्य मनुष्योंकी मानवी गणना के अनुसार दस हजार वर्षकी आयु होती है । उनमें दस हजार हाथियोंका बल होता है तथा उनके वज्रसदृश सुदृढ़ शरीरमें जो शक्ति, यौवन और उल्लास होते हैं- उनके कारण वे बहुत समयतक मैथुन आदि विषय भोगते रहते हैं । अन्तमें जब भोग समाप्त होनेपर उनकी आयुका केवल एक वर्ष रह जाता है, तब उनकी स्त्रियाँ गर्भ धारण करती हैं। इस प्रकार वहाँ सर्वदा त्रेतायुगके समान समय बना रहता है ॥ १२ ॥ * * वहाँ ऐसे आश्रम, भवन और वर्ष, पर्वतोंकी घाटियाँ हैं जिनके सुन्दर वन उपवन सभी ऋतुओंके फूलोंके गुच्छे, फल और नूतन पल्लवोंकी शोभासे झुकी हुई डालियों और लताओंवाले वृक्षोंसे सुशोभित हैं, वहाँ निर्मल जलसे भरे हुए ऐसे जलाशय भी हैं जिनमें तरह-तरके नूतन कमल खिले रहते हैं और उन कमलोकी सुगन्धसे प्रमुदित होकर राजहंस, जलमृग, कारण्डव, सारस और चकवा आदि पक्षी तरह तरहकी बोली बोलते तथा विभिन्न जातिके मतवाले और मधुर-मधुर गुंजार करते रहते हैं । इन आश्रमों, भवनों, घाटियों तथा जलाशयो में वहाँ के देवेश्वरगण परम सुन्दरी देवाङ्गनाओंके साथ उनके कामोन्मादसूचक हास- विलास और लीला कटाक्षोंसे मन और नेत्रोंके आकृष्ट हो जानेके कारण जलक्रीड़ादि नाना प्रकारके खेल करते हुए स्वच्छन्द बिहार करते हैं तथा उनके प्रधान प्रधान अनुचरगण अनेक प्रकारकी सामग्रियोंसे उनका आदर सत्कार करते रहते हैं ॥ १३ ॥ * ४ इन नवों वर्षोंमें परमपुरुष भगवान् नारायण वहाँ के पुरुषोंपर अनुग्रह करनेके लिये इस समय भी अपनी विभिन्न मूर्तियोंसे विराजमान रहते हैं ।। १४ ।। * * इलावृतवर्ष में एकमात्र भगवान् शङ्कर ही पुरुष हैं । श्रीपार्वतीजीके शापको जाननेवाला कोई दूसरा पुरुष वहाँ प्रवेश नहीं करता, क्योंकि वहाँ जो जाता है, वहीं खीरूप हो जाता है । इस प्रसङ्गका हम आगे ( नवमस्कन्ध में ) वर्णन करेंगे ॥ १५ ॥ * * वहाँ पार्वती एवं उनकी अरबों खरबों दासियोंसे सेवित भगवान् शङ्कर परम पुरुष परमात्माकी वासुदेव, प्रद्युम्नं, अनिरुद्ध और सङ्कर्षणसंज्ञक चतुर्व्यूह मूर्तियोंमेंसे अपनी कारणरूपा सङ्कर्षण नामकी तमःप्रधान चौथी मूर्तिका ध्यानस्थित मनोमयविग्रहके रूपमें चिन्तन करते हैं, और इस मन्त्रको उच्चारण करते हुए इस प्रकार स्तुति करते हैं ।। १६॥ || || श्रीभगवानुवाच ॐ ॐ ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्घ यानायानन्तायाव्यक्ताय नम इति ॥ १७ ॥ ॥ भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् । main fesi मक्तेष्वलं भावितभूतभावनं भवावहं त्वा भवभावमीश्वरम् ॥ १८ ॥ न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नोऽजितमन्पुरंहसां कस्तं न मन्येत जिगीषुरात्मनः ॥ १९ ॥ might fam ॥ | a man असद्द्दशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः । न नागवध्वोऽर्हण ईशिरे हिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ २० ॥ अन्वयः - ॐ भगवते सर्वगुणसंख्यानाय अनन्ताय अव्यक्ताय महापुरुषाय नमः नमः इति ॥ १७ ॥ * * भजन्य अरणपादपङ्कजम् कृत्स्नस्य भगस्य परम् परायणम् भक्तेषु अलंभावितभूतभावनम् भन्रापहम् भवभावम् ईश्वरम् त्वा भजे ।। १८ ।। * * मायागुणचित्तवृत्तिभिः इशे निरीक्षतः यस्य दृष्टिः अणु अपि यथा अजितमन्युरंहसाम् नः न अध्यते हि आत्मनः जिगीषुः कः तम् न मन्येत ।। १९ ॥ * * यः असद्दृशः मायया क्षीबः मध्वासवताम्रलोचनः इव प्रतिभाति ariarsः यत्पादयोः स्पर्शनधर्षितेन्द्रियाः हिया अर्हणे न ईशिरे || २० ॥ श्रीधर स्वामिविरचिता भावार्थदीपिका Se मज सर्वेषां गुणानां संख्यानं प्रकाशो यस्मात् । स्वयं त्वव्यक्तायाप्रमेयाय ।। १७ ।। *
- ऋ हे भजन्य भजनीय त्वा त्वां परमेश्वरं भज इत्यन्वयः । अरणं शरणं पादपंकर्ज यस्य । कृत्स्नस्य भगस्यैश्वर्यादिषाङ्गुण्यस्य परमयनमाश्रयम्। भक्तेष्वलमत्यर्थं भावितं प्रकटितं भूतभावनं स्वरूप येन । भवापहं संसारहरम् । भक्तेष्वित्यनुषंगः । भवं भावयतीति तथा तम् । अर्थादभक्तेष्विति द्रष्टव्यम् ।। १८ ।।
- ईश्वरत्वमुपपादयंस्तामसत्वेन प्रसक्तमनादरं वारयति न यस्येति । यस्य निरीक्षमाणस्यापि . १. भगवान्का विग्रह शुद्ध चिन्मय ही है; परन्तु संहार आदि तामसी कार्योंका हेतु होनेसे इसे तामसी मूर्ति कहते हैं । २. ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्ताया व्यक्ताय नमः इति । प ३६० ॥ श्रीमद्भागवतम् [. स्कं. ५ अ. १७ श्लो. १७-२० दृष्टिर्मायागुणैर्विषये चित्तवृत्तिभिः करणैश्चाण्वपीषदपि नान्यते न लिप्यते किमर्थं निरीक्षमाणस्य । ईशे ईशनाय नियमनाय । ईशन- मी संपदादित्वाद्भावे किपू । अत्र वैधर्म्यदृष्टांतः । यथा अजितक्रोधवेगानां नोऽस्माकं दृष्टि रज्यते न तथेति । अत आत्मन इंद्रियाणि जिगीषुर्जेतुमिच्छुर्मुमुक्षुस्तं को न मन्येत नाद्रियेत ॥ १९ ॥ * * ननु सुरामचद्याभ्यां मन्तस्य पुंसः कुतो दृष्टिर्नाज्यते तत्राह । असती दृष्टिर्यस्य तस्य स्वमायया श्रीबा मत्त इव यो भयंकरः प्रतिशति मध्वासवाभ्यां ताम्रलोचन इव च । नागवधूविमोहनेन तथा प्रतिभानं युक्तमित्याह नेति । पादार्चनेन यस्य पादयोः स्पर्शनेन धर्षितं मोहितमिंद्रियं मनो यासां ताः हिया भुजाद्यर्हणे न ईशिरे न शेकुः । कस्तं न मन्येतेति पूर्वेणैवान्वयः ॥ २० ॥ Tissite PHIRE FIRE SIFTCIES श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । हे भजनीयेति । न हि खकारणं विहायान्यभजनमुचितमिति भावः । यद्वा भिजे भजे न्यारणपादपङ्कजम्’ इति पाठे नितरामा सम्यगेवारणं शरणं पादपंकज यस्य तं भजे भजे इति हर्षाद् द्वित्वम् । भूतेष्वलमलंकारवद्वर्त्तमानं भावितः सृष्टो ध्यानं कारितो वा भूतभावनो ब्रह्मा एनं त्वा त्वां भवस्य मल्लक्षणस्य । दासस्य भावः प्रेमा यत्र तमिति वार्थः । स्वामिचरणैस्तु भवं संसारं भावयतीति व्याख्यातम् । यद्वा-भजन्य भजनीयं चारुण च पादपंकजं यस्य तम् । हे भक्तेष्वलंभावित अत्यर्थ ध्यात वशीकृतेति वा नित्यतृप्ततया स्थितेति । भवं संसारमप्रजहाति त्यजतीति भवापहो नित्यमुक्तस्तं भक्तसंसारं नाशयतीति वा । भवस्य पुण्यलक्षणभद्रस्य भाव उत्पत्तिर्यस्मात्स तथा तं भगस्येति पूर्ववत् । ईश्वरं सर्वसमर्थशीलं “स्थेशभासपिसकसो वर ताच्छीलिको वरच् । अनेन शेषाभिन्नत्वेन हरिस्तुतिर्ध्वनिता । यद्वा हे भक्ते मयि दृषुर्यस्य स भक्तेषुः कामस्तस्यालंभोऽभावो यस्मात्स भक्तेष्वलभः क्रोधः । “कार्म दहति कृतिनो ननु रोषदृष्टेः” इति ब्रह्मवाक्यात् । तस्मादवित इति भक्तेष्वलंभावितस्तत्संबुद्धौ तथा हे क्रोधाद्वक्षितेत्यर्थः । दक्षयज्ञेऽतीवावज्ञातोऽपि महादेवः क्रोधं न चकार तदपेक्ष्येय संबुद्धिः स्वात्मानं प्रत्येव रुद्रस्येति ज्ञेयं, स्वमीश्वरमंतर्यामिणं भज निषेवस्व । किंभूतम् । ईर्लक्ष्मीस्तया भजन्य सेव्यमरुणपादपंकजं यस्य तं कृत्स्नस्य सौभाग्यस्य परंपराया आश्रयम् । अनेन ब्रह्मादिसकलचेतनसमवेतसौभाग्यपरंपरायास्तारतम्योपेताया अयनमित्युक्तं भूतभावनमतीतानागतवर्तमान- जगज्जनकं भवत्युत्पद्यत इति भवो जगत्तस्यापहर्त्तारं स्वीयत्वेनांगीकर्त्तारम् । ‘ओहाङ् गतौ’ अतो डप्रत्यये रूपम् । यद्वा - हरतेष्टिलोपे रूपम् । “ईलक्ष्मीः प्रोच्यते विज्ञैरिः स्मर उर्भवः स्मृतः” इत्येकाक्षरकोशात् ।। १८ ।। * संपदादिसूत्रे समुपसर्गयोगा- यद्यपि सोपसर्गादेव किप् भवति, तथाप्यत्रार्षत्वमाश्रित्यैव निर्वाहोऽन्यथा पदादिभ्यः किप् इत्येव वदेदिति ।। १९ ।। अत्राक्षिपति - नन्विति । यद्वा-असद्दृशः कुबुद्धीन्प्रति । क्षीबेति ‘श्रीबृ-मदे’ अतो यवादित्वादौणादिके कनि प्रथमैकवचनांतम् । यथान्यः सुरासवाभ्यां ताम्रलोचनो विवेकहीनो भवति तथैवेत्यर्थः । वस्तुतस्तु भवान्न तथाभूतः किन्तु नित्यानंदसद्विवेक इति भाव इतीवशब्देनोक्तम् । सुरादिकं तु “पानसद्राक्षमाधूकं खार्जूरं ताउमैक्षवम् । माधूत्थं सारमादिष्टं मैरेयं नारिकेलजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव हि । द्वादशं तु सुरा मद्यं सर्वेषामधमं स्मृतम् ॥ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ॥” इति पुलस्त्यः । एषां लक्षणानि विस्तरभिया नोक्तानि । सामान्यलक्षणं तु यंत्रनिष्कृष्टत्वे सति मादकत्वे च सति द्रवद्रव्यत्वं मद्यत्वम् । भंगारसादावतिव्याप्तिवारणाय प्रथमं विशेषणम् । शतपुष्पार्कादाव - तिव्याप्तिवारणाय परं विशेषणम् । विशेष्यमात्रस्य लक्षणत्वे जलेऽतिव्याप्तिरतः सर्वमुपादेयम् । नागांगनाविमोहनेन हेतुना तथा प्रतिभातं मत्तवत्प्रतीयमानत्वम् । न शेकुरिति । अस्माकमंतः क्षोभं सर्वज्ञत्वादयं जानाति संप्रति कथं सेवेमहीति भावः ॥ २० ॥ कम श्रीमद्वीरराघवव्याख्या F 11 * * जप्यमन्त्रमाह ओं नम इति । ओमिति ब्रह्मणो निर्देशः “ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति वचनात्स्व- व्यतिरिक्तं चिदचिदात्मकं सर्वं जगन्नित्यविभूर्ति च स्वशेषतया स्वभावेनैव स्वीकृतवत इत्यर्थः । भगवत इत्यनेन पूर्णषाड्गुण्यं विवक्षितं महापुरुषायेत्यनेन निखिलजगदुदयविभवलयलीलत्वमभिप्रेतं महापुरुषशब्दस्य “वेदाहमेत पुरुष महान्तम्” इति पुरुष- सूक्तार्थप्रत्यभिज्ञापकत्वात् तत्र च ‘तस्माद्विराडजायते’ त्यादिना कृत्स्नजगत्कारणतत्त्वप्रतिपादनात् ‘अद्भयः सम्भूतः’ इत्यनुवाकोऽप्यत्र प्रत्यभिज्ञायते तत्रापि महापुरुषशब्दश्रवणात् अद्भयः सम्भूत इत्यनुवाकस्य हिरण्यगर्भः समवर्तताग्रे इत्यनेनाष्टर्चेन सहाद्भयः सम्भूतब्रह्मा गर्भः इत्यष्टावित्येकवाक्यत्वप्रतिपादनाद्धिरण्यगर्भादिकारणत्व च्छायानुकारिणामपि वैदिकवाक्यानां महापुरुषपर- त्वमवगतं सर्वगुणानां चेतनाचेतन योरसम्भावितानां जगत्कारणत्वौपयिकानामाश्रयणसौकर्यापादकानामाश्रितकार्यापादुकादीनां च सर्वज्ञत्वसर्वशक्तित्ववात्सल्यसौशील्यसौलभ्यज्ञानशक्तिमूर्त्तेः प्राप्त्यादीनां सङ्ख्यानं कथनं श्रुतिगणेन यस्मिंस्तस्मै अनेन “सर्वे वेदा यत्पदमामनन्ति” इति श्रुत्यर्थो विवक्षितः, सर्वगुणानां सङ्ख्यानं च न परिच्छिनत्वेन क्रियते, अपि त्वानन्त्येन स्वरूपतो गुणतञ्चानन्त्याभिप्रायेणानन्तायेत्युक्तमनेनोपास्यत्व प्राप्यत्वादिकं च विवक्षितम् एवम्भूत तत्प्राप्त्युपायस्तदुपासनं तञ्चरणवरण एव नान्य इति पुरुषसूक्तार्थप्रत्यभिज्ञानादेव स्फोरितस्तत्र “तमेवं विद्वानमृत इह भवति नान्यः पन्था” इति वेदनातिरिक्तो- पायान्तरनिषेधात् तदेव शब्दतो व्यञ्जयन्नाह अव्यक्तायेति । व्यक्तैरिन्द्रयादिभिर्न व्यज्यते न गृह्येते इत्यव्यक्तः, नि स्क. ५ म. १७ श्लो. १७-२०] अनेकव्याख्यासमलङ्कृतम् ३६१ चक्षुषा गृह्यते नापि वाचेत्यादिश्रुत्यर्थोऽनुसन्धेय एवंभूताय नमः नतिर्नमस्कारोऽत्र तत्पूर्वकोपासनोपलक्षकः तदेव नमः मद्रक्षणोपायमित्यर्थः ॥ १७ ॥ * तत्प्रतिरूपान् श्लोकांनाह भज इत्यादिना । ईश्वरं त्वां भज इत्यन्वयः । तमीश्वरं
- विशिनष्टि भजन्यारणपादपङ्कजं भजन्यं भजनीयमुपास्यमरणं प्राप्यं पादपङ्कजं यस्य तं अनीयर ईकारलोप आर्ष:- भजन्येति पृथक् पदं सम्बुद्धयन्तं वा ॥ यद्वा भजनं कुर्वाणा भेजनाः भजनशब्दाद्भावसाधना तत्करोतीति व्यन्तात् कृतटिलोपात्कर्तरि किप्, तान् याति प्राप्नोति तेषां सन्निहितो भवति इति भजन्य इति व्युत्पाद्यते भजन् शब्दे नान्ते कर्मण्युपपदे “आतोऽनुपसर्गे कः” । टिलोपस्य स्थानिवत्त्वान्न लोपः कृत्स्नस्य समग्रस्य भगस्यैश्वर्यादिवर्गस्य परं केवलं परायणमाश्रयं भक्तेष्वलमत्यर्थ भावितं प्रकटीकृतं भूतभावनं भूतानि भाव्यन्ते उत्पाद्यन्ते येन तत्तथा निखिलभूतकारणं स्वस्य रूपं येनेत्यर्थः । यद्वा भूतभावनं भूतानामभ्युदयहेतुं भक्तेषु भवापहं भवनाशनमित्यर्थः । भवभावं संसारस्य प्रवर्तकं स्वसङ्कल्पायन्त्तजीवसम्बन्धमोचक- मित्यर्थः ।। १८ ।। ४ ४ एवमुपास्यत्वप्रापयत्वषाङ्गुण्यपूर्त्यभ्युदयहेतुत्वं बन्धमोक्षकारणत्वादिभिर्द्धमैश्चिदचिद्वैलक्षण्यमुक्तम् । तदेव वैधर्म्यं दृष्टान्तेन विशदयति न यस्येति । यस्य निरीक्षतः सर्व स्वतः पश्यतः ईश इति षष्ठयन्तमीश्वरस्येत्यर्थः । दृष्टिर्ज्ञानं मायागुणचित्तवृत्तिभिः प्रकृतिगुणकार्यरागद्वेषादिचित्तवृत्तिभिरण्वध्यल्पमपि नाज्यते नानुविध्यते अजितमन्युरंहसामजितक्रोधवेगानां नोऽस्माकं यथेति वैधम्र्म्ये दृष्टान्तः । ईशे इति पाठे ईश ईशनं नियमनं तस्मै निरीक्षत इत्यन्वयः । तमेवंभूतं भगवन्तमात्मने इन्द्रियाणि देहान् वा तदुपलक्षितं संसारं जिगीषुर्जेतुमिच्छुः को नाम पुमान्नानुमन्येत नाद्रियेत सर्वोऽपि मुमुक्षुस्त्वां सेवत इत्यर्थः ॥ १९ ॥ * * रागद्वेषादिभिर्वृत्तिभिर्हष्टिर्नान्यते इत्युक्तं तत्कथं तामसत्वेन प्रतीयमानस्य रागादेरनुदय इत्याशङ्कयाह । असदृश इति । असद्दृशः अपरमार्थः असति देहे दृष्टिरात्मनोऽभिमानो यस्य तस्येति वा जनस्य माययाविद्ययाज्ञानेन मध्वासवः मादक आसवः मद्यं तेन मध्वासवाभ्यां वा ताम्रे रक्त लोचने यस्य तथाभूतो यः क्षीबः मत्तः स इवेति प्रतिभाति यो भवान् -क्षीबेवेत्यत्र सन्धिसर्षः- परमार्थ- तस्तु शुद्धसत्त्वमयाप्राकृतस्वेच्छोपात्ताकर्मवश्यकल्याणविग्रह इत्यर्थः । अत एव हि नागवध्वो नागानां स्त्रियः नागकन्यकाः यस्य तब पादपद्मयोः स्पर्शनेन धर्षितं व्याकुलितमिन्द्रियं मनो यासां ताः कामादिपारवश्या वयं रागादिप्रतिमाः शुद्धसत्त्वमूर्तेः पादौ कथं स्प्रष्टुं प्रभवाम इति धर्षितेन्द्रियाः सत्यः अर्हणं पूजां न ईशिरे न समर्था बभूवुः । निश्शङ्कं कर्तुमिति शेषः । एवंभूतं को नानु- मन्येतेति पूर्वेणान्वयः ।। २० ।। httish श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली पीपी ज्ञानादिसर्वगुणैः समभेदेन ख्याताय “विज्ञानमानन्दं ब्रह्म” इति श्रुत्यादिषु प्रख्याताय अनन्तायेत्यनेन शेषान्तः स्थितस्तन्नामा विष्णुस्तेन सह शिवेनोपास्यत इति ध्वनयति । तदुक्तम् “अनन्तान्तः स्थितो विष्णुरनन्तश्च सहामुना । इज्यते गिरिशनेश इलावृत- । । गतेन तु” इति । ननु यदि विष्णुना सह शेषोऽप्युपास्यते शिवेन तर्हि कथं भवापहमित्यादिगुणाः शेषे युज्यन्त इतीयमाशङ्का ‘जीवव्यपेक्षया चैव यथान्तर्याम्यपेक्षया । मिश्रास्तु स्तुतयो ज्ञेया विष्णोरन्यत्र केवलम् ॥’ इत्यनेन परिहर्तव्येति ।। १७ ।। * * भजन्यं भजनीयं चारुणं च पादपङ्कजं यस्य स तथा तं हे भक्तेष्वलंभावित ! अत्यर्थ ध्यात! वशीकृतेति वा नित्यतृप्ततया स्थितेति वा भवं संसारमपजहाति त्यजतीति भवापहः नित्यमुक्त इत्यर्थः, भक्तसंसार नाशयतीति वा, तं भवस्य पुण्यलक्षणस्य भद्रस्य भव उत्पत्तिः यस्मात्स तथा तं कृत्स्नस्य भगस्य ऐश्वर्यादिगुणसामग्रथाः परम्परायणमत्युत्तमाश्रयं सर्वस्योपपादकमीश्वरमिति सर्वसमर्थन- शीलम्, “स्थेशभासपिसकसो वरच्” इति ताच्छील्यसूत्रात् । अनेकशेषान्तर्यामिणो हरेः स्तुतिं ध्वनयति तथाहि भक्तेषु त्वत्सेवकेषु अलंभावितसंपूर्णानुग्रहलक्षणचित्तत्वदुत्तमत्वात्त्वदन्तर्यामिणां भज निषेवस्व । ईभजन्यारुणपादपङ्कजम् ईलक्ष्मीस्तया भजनीयरक्त- तलाङ्घ्रिपद्मं कृत्स्नस्य भगस्य सौभाग्यस्य परम्पराया आश्रयमनेन ब्रह्मादिसकलचेतनराशिसमवेतसौभाग्यस्य, परम्परायास्तारतम्यो- पेतायाः अयनमित्युक्तं भवति । भूतभावनमतीतानागतवर्तमानजगज्जनकं भवति प्रभवत्युत्पद्यत इति भवो जगन्तस्यापहर्तारं संहर्तारं न केवलमुत्पादकं संहर्तारमपीत्यर्थः । हरतेष्टिलोपेनापहेति रूपं साधु शिष्टं समम् “ई: स्मरः प्रोच्यते प्राज्ञैरीलक्ष्मी रुद्र उः स्मृतः” इत्यभिधानम् ।। १८ ।। * * ननु जगदुत्पत्तौ वर्तमानस्य हरेः सकलभगाश्रयत्वं कथं घटते मायागुणसंपर्केणानीशत्वापत्तेरस्मद्वदिति तत्राह नेति । प्रकृतिगुणनिर्मितशब्दादिषु गतचित्तवृत्तिभिः सर्वं निरीक्षतो यस्य ते दृष्टिः स्वरूपज्ञानं मायागुणचित्तवृत्तिभिः प्रकृति- । गुणसंबद्धचित्तव्यापारैरण्वपीषदपि नाव्यते न लिप्यते दृष्टेर्गुणसंबन्धाभिभवो नास्तीत्यर्थः । इहशब्द एवार्थे तत्र हेतुमाह ईश इति । ‘ईश ऐश्वर्य’ इतिधातोर्निरुपपदादपि किप्प्रत्ययेन ईडिति शब्दरूपं सिध्यति, तेनेश इति षष्ठी ईडयाहोषलेपनिवारणे निरतिशयेन समर्थत्वादित्यर्थः । अत्र व्यतिरेकदृष्टान्तमाह यथेति । अजितं मन्युरंहः क्रोधवेगो यैस्ते तथा तेषां नोऽस्माकं ज्ञानं यथा अभिभूयते तथा नान्यत इत्यर्थः । आत्मन इति ‘कृयोगे षष्ठी ‘ति वचनादात्मानं मनो जिगीषुः पुरुषः तं त्वां न मन्यते । श्रोत्रादीन्द्रियेषु सन्निधाय शब्दादिषु प्रयोज्य तज्ज्ञानमुत्पाद्य सुखसंपादनेनात्यन्तोपकारकं त्वां कृतघ्नमन्तरेण रसज्ञः को न सेवेत सेवेतैवेत्यर्थः । आत्मनः खरूपमिति वा ॥ १९ ॥ सर्वान्तर्यामित्वेनातिनिकटवर्तिनो हरेः स्वरूपज्ञानं सम्यग्ज्ञानेन एवं नान्यस्येत्या- शयवानाह असंदृश इति । यो माययाच्छादकशक्त्या संदृशः सम्यग्ज्ञानरहितस्य पुंसः वृक्षकोटरजन्यं मधु नारिकेरादिपुष्पजन्य आसवस्तयोरेकतरपानेन ताम्रे लोचने यस्य स तथा दुःशास्त्रश्रवणजनितान्यथाज्ञानलक्षणपरिणामविषायमाणमधुर सुरासेवानष्टज्ञानस्य ४६ । ३६२ श्रीमद्भागवतम् [[ स्कः ५.अ. १७ श्लो. १७-२० स्वयमपि तादृशः क्षीबेव मत्त इति प्रतिभाति । अत्र विभक्तिविपरिणामेनार्थकथनं द्रष्टव्यं मध्वासवताम्रविलोचनस्य मन्तस्यासंदृशः पुंसो मध्वासवताम्रविलोचनो मत्त इव प्रतिभाति दुष्टेन्द्रियस्य पुंसः स्थाणुः पुरुष इव यथा आभाति तथेति । क्षीबेति प्रयोगस्तु छन्दोभङ्गभयाद्वैदिकत्वाद्वा दर्शित इति ज्ञातव्यम् “न संदृशे तिष्ठति रूपमस्य” इति श्रुतेः, “विद्धवन्मुग्धवश्चैव केशवो वेदनार्तवत्” इति स्मृतेश्च । इदानीं हेतुकथनव्याजेन मिश्रस्तुतिमाह न नागेति । इन्द्रियधर्षणप्रवृत्तिमत्त्वान्मत्तत्वमिति अर्हणं पूजां कर्तुं नेशिरे इत्यन्वयः ॥ २० ॥ There ie this arrama rise tolerants for raee from ।। श्रीमज्जीवगोखामिकृतः क्रमसन्दर्भः श्रीभावोऽयं दास्यभक्त्योपास्त इत्याह । श्रीभगवानुवाचेति । सङ्कर्षणस्यैव प्रथमपुरुषत्वात् । तद्रूपेणैव स्तौति । ओं नम इति ॥ १७ ॥ * भक्तेषु निमित्तेषु अलमत्यर्थम् । भावितं कृतं भूतानां भावनं जननं पालनं वा येन. तम् ।। १८-१९ ॥ * * तत्र पातालस्थसङ्कर्षणे सन्दिह्य सिद्धान्तयति असदिति । वस्तुतस्तु क्षीवत्वादिकं न सुरामद्याभ्याम् । नागपत्नीषु भयङ्करत्वेनास्फूर्तेर्हे पकतया सावधानत्वेन स्फूर्तेश्च । किन्तु विलासविशेषेणेव तासां प्रेममोहादित्याह । न नागवध्व इति ।। २०-२१ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । । सर्वेषां गुणानां संख्यानं प्रकाशो यस्मात्तस्मै स्वयन्तु अव्यक्ताय अप्रमेयाय ॥ १७ ॥ * * नितरामा सम्यगेव अरणं शरणं पादपङ्कजं यस्य तं भजे भजे इति हर्षात् द्वित्वम् । भगस्य षडैश्वर्यस्य । भक्तेषु अलमलङ्कारवद्वर्त्तमानम् । भावितः सृष्टः ध्यानं कारितो वा भूतभावनो ब्रह्मा येन तं त्वा त्वां भवस्य मल्लक्षणदासस्य भावः प्रेमा यत्र तम् ॥ १८ ॥ अचिन्त्यमै-
-
- श्वयं विवृणोति न यस्येति । निरीक्षमाणस्यापि यस्य दृष्टिर्मायागुणरूपाभिरिन्द्रियवृत्तिभिर्विषयैर्न अन्यते न लिप्यते । किमर्थं निरीक्षमाणस्य ईशे ऐश्वर्याय ईशनमीट् सम्पदादित्वात् भावे किपू- तस्मै । वैधम्य दृष्टान्तः यथा अजितक्रोधवेगानां नोऽस्माकं दृष्टिरज्यते न तथेति । आत्मनो जिगीषुरन्तःकरणानि वशीकर्तुमिच्छुः कस्तं न मन्येत नाद्रियेत ।। १९ ।। ननु ६ ॐ 8 मदिरामत्तस्य कुतो दृष्टिर्नान्यते तत्राह । असंदृशः कुबुद्धीन् प्रति यो मायया श्रीबेव मत्त इव भाति । यथान्यः क्षीबा मध्वासवाभ्यां ताम्रलोचनः विवेकहीनो भवति तथैवेत्यर्थः । वस्तुतस्तु भवान्न तथाभूतः किन्तु नित्यानन्दसद्विवेक इति भावः । सौन्दर्येण नारीगणमोहनतामाह । अर्हणे चरणपूजायां न ईशिरे न शेकुः स्पर्शक्षुभितेन्द्रियाः ह्रियेति अस्माकमन्तःक्षोभं सर्वज्ञत्वादयं जानातीत्यतः सम्प्रतिं कथं सेवेमहीति भावः ॥ २० ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः जप्यं मन्त्रमाह ओमिति । सर्वेषां गुणानां संख्यानं यः सर्वज्ञ इत्यादिवेदकर्तृकं कथनं यस्मिन् तस्मै ॥ १७ ॥ स्तोत्रं दर्शयति भजे इति । हे भजनीय ! अरणं शरणं पादपङ्कजं यस्य तम् | भगस्यैश्वर्यादिषाङ्गुण्यस्य परमुत्कृष्टमयनमाश्रयम् । भावितम् आविष्कृतं भूतभावनं भूतकारणं रूपं येन तम् । भवापहं संसारघ्नम् । भवं मां भावयति उत्पादयतीति तं त्वा त्वां भजे ॥ १८॥ यथा नो मीलितनेत्राणामध्यस्माकं मायागुणेषु विषयेषु याश्चित्तवृत्तयस्ताभिः दृष्टिः अज्यते, तत्र हेतुः अजितमन्युरंहसामिति तथा यस्य तव भगवतस्तु ईशे ईशनाय जननियमनाय निरीक्षतोऽपि अण्वपि ईषदपि दृष्टिर्नाज्यते न लिप्यते । तत्र हेतुः आत्मनः सर्वात्मन इति तं त्वां जिगीषुः संसारं जेतुमिच्छुः को न मन्येत उपास्यतया को नाद्रियेत ॥ १९ ॥ * * अज्ञस्य तु रागादियुक्त एव भवान्भातीत्याह असद्दृश इति । असती त्वत्स्वरूपगुणादिज्ञानरहिता दृष्टिर्यस्य तस्य जनस्य मायया अविद्यया मध्वासवाभ्यां ताम्र लोचने यस्य तथाभूतः क्षीबा मत्त इव यो भाति स्वभावत एवायमेवंविधाद्भुतरूप इत्यसदृक् न जानातीत्यर्थः । अत एव तथाविधं भगवतो रूपं सूचयति । नागवध्वः यस्य पादयोः स्पर्शनेन धर्षितमिन्द्रियं मनो यासां ताः हिया लज्जया भुजाद्यर्हणे न ईशिरे न समर्था बभूवुः, तं को न मन्येत इति पूर्वेणान्वयः ॥ २० ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी fishse भवानी नाथा स्वामिनी येषां तैः स्त्रीगणानामर्बुदसहस्रैरवरुध्यमानः सर्वतः सेव्यमानो भवः वासुदेव प्रद्युम्नानिरुद्ध- सङ्कर्षणसज्ञाश्चतस्रो मूर्तयो यस्य तस्य भगवतो महापुरुषस्य तुरीयां चतुर्थी सङ्कर्षणसज्ञामात्मनः प्रकृतिं स्वस्य तामसत्वात् कारणभूतां तामसीं मूर्तिमात्मसमाधिरूपेण मनःसमाधानलक्षणेन ध्यानेन सन्निधाप्य सन्निधानमानीय एतद्वक्ष्यमाणं मन्त्रस्तोत्रादि- कमभिगृणन् जपन्नुपधावति उपास्ते इत्यन्वयः ॥ १७॥ ॐ ॐ तत्र मन्त्रमाह-ओन्नम इति । भगवते ऐश्वर्यादिषड्गुणपूर्णाय । महापुरुषाय पुरुषोत्तमाय । ननु तामसस्य कथं भगवत्त्वं वेत्याशङ्कयाह –सर्वेति, सर्वेषां गुणानां गुणकार्याणां सङ्ख्यानं प्रकाशो
स्कं. ५ अ. १७ श्लो. १७-२०१ अनेकव्याख्यांसमलङ्कृतम् ३६३. यस्मात्तस्मै । तर्हि कथं सर्वप्रकाशके तामसत्वव्यवहार इत्याशङ्कय कार्यार्थ तमोङ्गीकारेण तथा व्यवहारेपि वस्तुतस्तु देशकालवस्तु- परिच्छेदरहित एवेत्यभिप्रायेणाह - अनन्तायेति । तर्हि कथं न तथा प्रतीयते इत्याकाङ्गायामाह - अव्यक्तायेति, अचिन्त्यशक्तित्वेन वानसागोचरायेत्यर्थः । आद्यन्तयोर्नम इति प्रयोगः सर्वत्र चतुर्थ्यन्तपदेऽन्वय सूचनाय । इतिशब्दो मन्त्रसमाप्ति- सूचकः ॥ १८ ॥ ॐ * स्तुतिं करोति भज इति सप्तभिः । हे भजन्य भजनीय त्वा त्वामहं भजे इत्यन्वयः । भजनीयत्वमेव हि विशेषणैरुपपादयति–अरणं भक्तानां भयाद्रक्षकं पादपङ्कजं यस्य तम् । सकामभक्तमनोरथपूरकत्वं सूचयन्नाह - कृत्स्नस्य भगस्य ऐश्वर्यादिषाङ्गुण्यस्य परायणमाश्रयम् । निष्कामभक्तानां विमोक्षकत्वमाह भवापहमिति । तद्विमुखानां संसारहेतुरपि त्वमेवे- त्याह- भवं भावयतीति भवभावस्तम् । सर्वत्र हेतुमाह – ईश्वरमिति, सर्वथा कर्तुमकर्तुमन्यथाकर्तुं समर्थमित्यर्थः । तत्रापि हेतुमाह - परमिति, सर्वोत्तममित्यर्थः । नन्वेवम्भूतत्वेऽपि कदाचिद्रक्षितुं दातुं वा नेच्छेत्तदा किं स्यादित्याशङ्कयाह - भक्तेष्विति, भक्तेष्वलमत्यर्थ भावितं प्रकटितं भूतभावनं भक्तपालकं निजं रूपं येन तम् । भक्तरक्षादौ विलम्बं न करोतीति भावः ।। १९ ।। * ननु तामसस्य कथमीश्वरत्वं भजनीयत्वं वेत्याशङ्कथ न हि स्वातन्त्र्येण कस्मैचित्कार्यार्थमङ्गीकृतो गुण ईश्वरत्वं विघटयत्यतो विषया- सक्तिरहितत्वमेवेश्वरत्वं तदासक्तिमत्वं जीवत्वमिति विभागमङ्गीकृत्येश्वरत्वं भजनीयत्वं चोपपादयति-नेति । यस्य हि निरीक्षतो निरीक्षमाणस्यापि मायागुणैस्तत्तद्विषयेश्चित्तवृत्तिभिः करणैश्च दृष्टिरष्वपि ईषदपि नाज्यते न लिप्यते । तत्र वैधर्म्ये दृष्टान्तः - यथेति, न जितं मन्युरंहः क्रोधवेगो यैस्तेषां नोस्माकं यथा विषयैर्दृष्टिरन्यते तथा यस्य नाव्यते इत्यर्थः । तमीश्वरमात्मनः देहेन्द्रियप्राणादी- नात्मत्वेनाभिमतान् जिगीषुः वशीकर्तुमिच्छुः को न मन्येत को वा न सेवेतेत्यन्वयः । तर्हि किमर्थं निरीक्षत इत्यपेक्षयामाह - ईशे इति, ईशनं नियमनमीट् तदर्थमित्यर्थः ।। २० ।। ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी जप्यं मन्त्रमाह । ॐ नम इति । ओमिति ब्रह्मणो निर्देशः । ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति वचनात् । स्वव्यतिरिक्तं चिदचिदात्मकं सर्वं जगत्स्वविशेषणतया स्वभावेनैव स्वीकृतवते इति ओमित्यस्यार्थः । भगवते पूर्णषाड्गुण्याय, महापुरु- षाय निखिलजगदुदय - विभवलयलीलाय, सर्वेषां गुणानां संख्यानं प्रकाशो यस्मात्तस्मै, अनन्ताय स्वरूपतो गुणतञ्चान्तवर्जिताय, व्यक्तैरिन्द्रियादिभिर्न व्यज्यते न गृह्यते इत्यव्यक्तस्तस्मै नमः नमः, इति मन्त्रः ॥ १७ ॥ * * तत्स्तुतिरूपान् लोकानाह भज इत्यादिना । हे भजन्य भजनीय, ईकारलोप आर्षः । अरणं शरणं पादपङ्कजं यस्य तं यद्वा भजनीयमुपास्यमरणं प्राप्यं पादपङ्कजं यस्य तं, कृत्स्नस्य समग्रस्य, भगस्यैश्वर्यादिषट्कस्य, परं केवलं परायणमाश्रयम् । भक्तेषु निजैकाश्रितजनेषु, अलमत्यर्थ, भावितं प्रकटीकृतं, भूतानि जीवविशिष्टानि करणकलेवराणि भावयत्युत्पादयतीति भूतभावनं स्वरूपं येन तं यद्वा भूतभावनमिति भावप्रत्ययान्तार्थं तथा सति भावितं प्रकटीकृतं भूतभावनमभ्युदयहेतुत्वं येन तम् । भवापहं भवनाशनं, अनादिकालगतजीव- संबन्धविमोचकमित्यर्थः । भक्तेष्वित्यनुषङ्गः । भवं भावयतीति तथा तं, अर्थादभक्तेष्विति द्रष्टव्यम् । ईश्वरं त्वा त्वां भजे ॥ १८ ॥ 8 तामसत्वप्रयुक्तानादरवारणायास्योपास्यत्व प्राप्यत्व षाड्गुण्यपूर्णत्वाभ्युदयहेतुत्व बन्धमोक्षकारणत्वादि- धर्मानुक्त्वा वैधर्म्येणेश्वरत्वमुपपादयति न यस्येति । ईशनमीट तस्मै, संपदादित्वाद्भावे किपू । ईशे ईशनाय नियमनायेति यावत् । निरीक्षतो निरीक्षमाणस्य, ईशो यथेति पाठे ईश इति षष्ठयन्तम् । तदा निरीक्षतः ईश ईश्वरस्य यस्य तव दृष्टिर्ज्ञानं अजितमन्यु- रंहसामजितक्रोधवेगानां नोऽस्माकं यथा दृष्टिः अज्यते, तथा मायागुणा विषयाश्च चित्तवृत्तयो रागद्वेषादयश्च ताभिः करणैः, अण्वीषदपि न अन्यते न लिप्यते हि । अतः आत्मन इन्द्रियाणि जिगीषुर्जेतुमिच्छुः को नाम पुमान् तं भवन्तं न अनुमन्येत नाद्रियेत । सर्वोऽपि मुमुक्षुस्त्वामेव सेवेतेत्यर्थः ॥ १९ ॥ * * ननु सुरामद्याभ्यां मत्तस्य कुतो दृष्टिर्नाव्यते तत्राह असदृश इति । यो भवान् असद्दृशोऽपरमार्थदृष्टेः, यद्वा असति देहे दृष्टिरात्माभिमानो यस्य तस्य जनस्य, माययाऽविद्यया अज्ञानेनेत्यर्थः । मधु च आसवश्च ताभ्यां ताम्रे रक्ते लोचने यस्य तथाभूतः, अत एव क्षीबो मन्त इव, क्षीबेवेत्यत्र संधिरार्षः । प्रति- भाति । परमार्थतस्तु त्वं शुद्धसत्त्वमया प्राकृतस्वेच्छोपात्ताऽकर्मवश्य कल्याणविग्रह एवासीत्यर्थः । अत एव, नागवध्वः नागानां स्त्रियः त्वत्पादार्चनवेलायामिति शेषः । यस्य तव पादौ पादपद्म तयोः स्पर्शनेन धर्षितं व्याकुलितमिन्द्रियं मनो यासां ताः । कामादिपारवश्याद्वागादिमत्यो वयं, शुद्धसत्त्वमूर्त्तेः पादौ कथं स्प्रष्टुं प्रभवामेति प्रधर्षितेन्द्रियाः सत्य इत्यर्थः । ह्रिया लज्जया अर्हणं भुजादिपूजन कतु, न ईशिरे न समर्था बभूवुः । एवंभूतं त्वां को नानुमन्येतेति पूर्वेणान्वयः ॥ २० ॥ भाषानुवादः भगवान् शङ्कर कहते हैं - ॐ जिनसे सभी गुणोंकी अभिव्यक्ति होती है, उन अनन्त और अव्यक्तमूर्ति ओङ्कारस्वरूप परमपुरुष श्रीभगवान्को नमस्कार है।’ भजनीय प्रभो ! आपके चरणकमल भक्तोंको आश्रय देनेवाले हैं तथा आप स्वयं सम्पूर्ण ऐश्वर्यो के परम आश्रय हैं। भक्तों के सामने आप अपना भूतभावन स्वरूप पूर्णतया प्रकट कर देते हैं तथा उन्हें संसारबन्धनसे भी मुक्त कर देते हैं, किन्तु अभक्तोंको उस बन्धनमें डालते रहते हैं। आप ही सर्वेश्वर हैं मैं आपका भजन करता દૃષ્ટ ।। श्रीमद्भागवतम् in [ स्कं ५ अ. १७ लो. २१-२४ हूँ ।। १७-१८ ॥ * प्रभो ! हमलोग क्रोधके आवेगको नहीं जीत सके हैं। तथा हमारी दृष्टि तत्काल पापसे लिप्त हो जाती है । परन्तु आप तो संसारका नियमन करनेके लिये निरन्तर साक्षीरूपसे उसके सारे व्यापारोंको देखते रहते हैं। तथापि हमारी तरह आपकी दृष्टिपर उन मायिक विषयों तथा चित्तकी वृत्तियोंका नाममात्रको भी प्रभाव नहीं पड़ता। ऐसी स्थितिमें अपने मनको वशमें करनेकी इच्छावाला कौन पुरुष आपका आदर न करेगा ! ॥ १९ ॥ * आप जिन पुरुषोंको मधु-आसवादि पानके कारण अरुणनयन और मतवाले जान पड़ते हैं, वे मायाके वशीभूत होकर ही ऐसा मिथ्या दर्शन करते हैं तथा आपके चरणस्पर्शसे ही चित्त चञ्चल हो जानेके कारण नागपत्नियाँ लज्जावश आपकी पूजा करनेमें असमर्थ हो जाती हैं ॥ २० ॥ SHA ? * 1 प FPB | PRETKE Ab त्रिभिर्विहीनंयमनन्तमृषयः । यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमृषयः । शनि वेद सिद्धार्थमिव कचित्स्थितं भूमण्डलं मूर्धसहस्रधाम ॥ २१ ॥ यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल । प्रतीक यत्सम्भवोऽहं त्रिवृता स्खतेजसा वैकारिकं तामसमेन्द्रियं सृजे ॥ २२ ॥ को एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः महानहं वैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥ यनिर्मितां कापि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥ 1.Pls इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥ F agging syw?
अन्वयः–ऋषयः यम् अस्य स्थितिजन्मसंयमम् यम् त्रिभिः विहीनम् अनन्तम् आहुः मूर्धसहस्रधामसु कचित् सिद्धार्थम् इव स्थितम् भूमंडलम् न वेद ॥ २१ ॥ यस्य आद्यः गुणविग्रहः महान् विज्ञानधिष्ण्यः भगवान् अजः किल आसीत् यत्संभवः अहम् त्रिवृता स्वतेजसा वैकारिकम् तामसम् ऐन्द्रियम् सृजे ।। २२ ।। * * एते वयम् यस्य महात्मनः वशे सूत्रयंत्रिताः शकुंताः इव स्थिताः महानहवैकृततामसेन्द्रियाः सर्वे यदनुग्रहात् इदम् सृजाम ।। २३ ।। * * गुणसर्गमोहितः अयम् जनः यन्निर्मिताम् कर्मपर्वणीम् मायाम् अंजसा निस्तारणयोगम कर्हि अपि न वेद तस्मै विलयोदयात्मने ते नमः ॥ २४ ॥ HERE DIFIERSI FIREE R PPSC Ficus b { FREE FEFINDE BEISER FEIT DE TRE PISTEETH इति सप्तदशोऽध्यायः ॥ LIPES 1 despartipspl श्रीधरस्वामिविरचिता भावार्थदीपिका 10 NA Simp lugg अस्य विश्वस्य स्थितिजन्मसंयमहेतुं यमाहुः । अत एव त्रिभिः स्थित्यादिभिविहीनमनंतं च यमाहुः । ऋषयो मंत्राः । निस्स्थानानि छेदोऽनुरोधेन दीर्घपाठे ऋकारो देवमाता लक्ष्मीः सा च ऋषयश्चेत्यर्थः । अनंतत्वं दर्शयति । मूर्धसहस्रमेव धामानि तेषु क्वचिदेकदेशस्थित भूमंडल यो न वेद । सिद्धार्थ सर्षपमिव तस्मै नम इति चतुर्थनान्वयः ॥ २१ ॥ * * तत्र जन्म- हेतुत्वं महदादिद्वारेण प्रपंचयति । यस्य गुणनिमित्तो महान्नाम विग्रह आसीत्। विज्ञानं सत्त्वं धिष्ण्यमाश्रया यस्य सः तस्य चित्तरूपत्वेन सत्त्वप्रधानत्वात् । स एव किलाधिदैवो वास्तवाभेदविवक्षया भगवानजो ब्रह्मा । यत्संभवो यस्माद् ब्रह्मणः संभूतोऽह रुद्रः । त्रिवृता त्रिगुणेन स्वतेजसा स्वविभूतिरूपेणाहकारेण वैकारिक देवतावर्ग तामसं भूतवर्गमैंद्रियमिद्रियवर्ग च सृजे सृजामि ॥ २२ ॥ * * किं च एते वयं महदादयः सर्वे यस्यानुग्रहादिदं ब्रह्मांड सृजामः । कथंभूताः यस्य महात्मनो वशे ।। स्थिताः संतः यतः सूत्रेण क्रियाशक्त्या यंत्रिताः प्रोताः शकुताः पक्षिण इव लौकिकेन सूत्रेण । वयमित्युक्तं तानेवाह महानहंकारच वैकृतादयः पूर्वोक्ता वर्गाश्च ॥ २३ ॥ * * स्थितिलयहेतुत्वं दर्शयन्प्रणमति । येन निर्मितामेतां मायामेवायं जनोजसा वेद न तु तन्निस्तारणयोगमुपायं कर्हिचिदपि वेदेति स्थितिहेतुत्वं दर्शितम् । कीदृशीम् । कर्माण्येव पर्वाणि ग्रंथयस्तानि नयति प्रापयतीति तथा ताम् । प्रलयहेतुत्वमाह । विलीयतेऽस्मिन्निति विलयः उदेत्यस्मादित्युदयः विल्यश्चोदयश्चास्मा स्वरूपं यस्य तस्मै नमः ॥ २४ ॥ T इति पंचमस्कन्धे टीकायां सप्तदशोऽध्यायः ॥१७॥ Stephe १. प्रा० पा० नमस्तद्विलयो Fare Cele अ. १७ लो. २१-२४ ]] । अनेकव्याख्यासमलङ्कृतम् श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ३६५ अत त एव सर्वकारणत्वादेव । यद्यपि चतुस्त्रिंशल्लक्षोनपञ्चाशत्कोटियोजनप्रमाणस्य भूमंडलस्याधस्तादेव स्थितत्वात्तस्मा त्सकाशात्तन्मूर्ध्ना तावद्विस्ताराधिक्यं न युज्यते तदपि तत्र गतैस्तदीयाचित्यशक्त्यैव तन्मूध्न प्रमाणापरिच्छेद्यत्वं भूमंडलस्य च सर्षपायमानत्वं दृश्यते तच्च वास्तवमेव न तु मायिकमित्येतदप्येकमद्भुतमनन्तत्वमिति तथोक्तम् ।। २१ ।। * * सृजाभि सर्वोपयोगितां प्राप्नोमि । अग्निरेवान्नं पचतीतिवन्मत्कर्तृकत्वमिति भावः ॥ २२ ॥ * * अन्यदाह- अहचेति । महात्मनः सर्वेश्वरस्य || २३ ॥ $ * निर्मितां प्रापितां मायामेवायं जनो न वेद किमुत त्वामिति कैमुत्यं चोक्तम् । मायावृत्ताः संसार एव तिष्ठति तदंतमितास्संसारं तरंतीति स्थितिहेतुतो क्ता । निस्तारणोपायं भक्तियोगम् । तस्या मायाया विलयो भक्तेषु यतस्तस्मा आत्मने परमात्मने । ‘तद्विलयोदयात्मने’ इति पाठ एव चक्रवत्यदिभिर्व्याख्यातः । स्वामिचरणैस्तु नमस्त इति पाठोंगीकृतः प्रतीयते ।। २४ ।। ॥ Erie me FRE SPE 125 FRIEFIPS. Daini ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥ फीचर offices श्रीमद्वीरराघवन्याख्या पुनरैश्वर्यमेव व्यञ्जयन्नाह यमिति चतुर्भिः । अस्य चिदचिन्मिश्रस्ये जगतः स्थितिजन्मसंयमं स्थित्युत्पत्तिसंहारकारणम् ऋषयो वेदान्ता यमाहुः ऋषय इति दीर्घ आर्षः, कारणत्वेऽपि त्रिभिर्गुणैः सत्त्वादिभिर्विहीनं त्रैगुण्यापर वशमनन्तं स्वरूपतः स्वभाव- तश्च देशकालवस्त्वपरिच्छन्नमाहुः “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् अस्थूलमनण्वहस्वं सत्यं ज्ञानमनन्तम्” इत्यादयः श्रुतयोऽत्र ऋषिशब्दविवक्षिताः । अनन्तत्वमेवाह यो मूद्ध भूतानि सहस्रसंख्याकानि धामानि फणरूपाणि तेषु मध्ये कचित् सिद्धार्थमिव सर्षपमिव स्थितं भूमण्डल न वेद भारत्वेन नानुसन्धत्ते न जानाति वा । यच्छब्दानां करतं न मन्येतेति पूर्वेणा- न्वयः ॥ २१ ॥ * * यस्येति । अपादानस्य सम्बन्धमात्रविवक्षया षष्ठी, यस्मात् महाशरीरेषु मह्त्त्वाभिमानी विज्ञानधिष्ण्यः जगन्निर्माणाद्युपयुक्तज्ञानाश्रयः गुणविग्रहः रजः प्रचुरविग्रहः आद्यः रुद्राद्यपेक्षया आदौ भवः भगवानजो ब्रह्मा आसीत्, यत्संभवः यस्माद् ब्रह्मणः सकाशात्संभवोऽहं रुद्रः किमर्थं त्रिवृता त्रिवृताहङ्कारेण अध्ययनेन वसतीतिवत् फलस्यैव हेतुत्वविवक्षया तृतीया, देहेषु त्रिविधाहङ्कारप्रवृत्त्यर्थं जातोऽहमित्यर्थः । स्वतेजसा स्वस्य संकर्षणमूर्तेस्तेजसा स्वदत्तेनाहङ्कार प्रवर्तनोपयुक्तेन ज्ञानेन वैकारिकं सात्विकं तामसमैन्द्रियक राजसं सृजे देहेषु त्रिविधाहङ्कार प्रवर्त्तयामीत्यर्थः ॥ २२॥ एत इति महान्महत्तत्त्वम्
-
- अहमहङ्कारस्तद्विधा भेदमाह वैकृततामसैन्द्रियाः सात्त्विकाहङ्कारो वैकृतः तामसो भूतादिः ऐन्द्रियो राजसः सर्वे ब्रह्मादयो वयं यस्य महात्मनो भगवतो वशे सूत्रे रज्ज्वां यन्त्रिताः बद्धाः शकुन्ता इव सन्तो यस्य भगवतोऽनुग्रहादिदं ब्रह्माण्डं तदन्तर्वर्तिवस्तुजातं व्यष्टिसमष्टयात्मकं यथायथं सृजामः ॥ २३ ॥ एवं सर्वजगत्कारणत्व सत्यज्ञानानन्तत्वसर्वान्तरत्वानन्याधिपतित्वादि गुणविशिष्टं स्तुत्वा “प्रधानक्षेत्रपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः” इति बन्धमोक्षहेतुत्वेन स्तुवन्नमस्करोति यन्निर्मि- तामिति । येन भगवता निर्मिता कर्मपर्वणी कमाख्यग्रन्थिमती मायां प्रकृतिं गुणमयसर्गेण गुणपरिणामात्मकदेहेन्द्रियादिसम्बन्धेन मोहितः स्वात्मपरमात्मयाथात्म्यज्ञानरहितोऽब्रह्मात्मकत्वस्वतन्त्रात्मत्वादिभ्रमयुक्तो जनो जन्ममरणादिकसांसारिकधर्मभाक् जीवः न वेद मायास्वरूपमेव न वेद कि तन्निस्तारणोपाय न वेदेति वक्तव्यमित्याह । तन्निस्तारणयोगं मायानिस्तारणोपायमञ्जसा सुखेन न वेद तस्मै तद्विलयोदयात्मने तद्विलयः प्रकृतिसंबन्धविलयस्तदुदयः प्रकृतिसंबन्धः तदुभयापादनोपयुक्तमात्मज्ञानं यस्य तस्मै नम इति ॥ २४ ॥ wis इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृत भागवतचन्द्रचन्द्रिकायां सप्तदशोऽध्यायः ॥ १७ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली इदानीं भगवद्विज्ञानाय तलक्षणान्याह यमाहुरिति । अस्य जगतः स्थितिजन्मसंयमकारणं यतस्तग्ज्ञाने स्थित्यादीनि लक्षणानि इति ज्ञातव्यं स्वयमेतद्वेषञ्जितश्वेत्कथमेतक्षणैर्ज्ञेयः इत्यत उक्तं त्रिभिरिति । त्रिभिः स्थित्यादिभिर्विहीनं विरहितं जाग्रदाद्यवस्थाविशेषैर्वा कालत्रये अपरिच्छिन्नमहिमत्वा युक्तभावेनाह अनन्तमिति । तदपि कथमत उक्तमीश्वर मिति ईश्वरत्वं विशदयति वेदेति । न इत्यध्याहृत्यान्वेतव्यं मूर्धसहस्रधामसु मध्ये कचिदेकस्मिन्मूर्द्धनि सिद्धार्थं सर्षपमिव स्थितं भूमण्डलं न वेद गुरुत्वाभावादित्यन्वयः । लाघवात्तदृरिमाणं न जानातीत्यनेनान्तः स्थितान्तानामहरि महिम्ना शेषस्यापि भूमण्डलधृतिसामर्थ्यमिति बोद्धव्यम् ॥ २१ ॥ 8 पूर्वोक्तसृष्टेः क्रममाह यस्येति । यस्य तव सकाशात् अजो ब्रह्माद्यः सृज्यपदार्थानामादिभूत आसीत् प्रकृतिसृण्यवस्तुषु महत्तत्त्वस्यादित्वात्तदभिमानित्वेन ब्रह्मण आदित्वं युक्तमिति भावेनोक्तम् । महानिति । निर्देहस्याभिमानित्वं कथमित्यत उक्त गुणविग्रह इति । रजोगुणेन निर्मितो चित्रहो यस्य स तथा देहित्वेऽपि ज्ञान लोपो ऽन्यदेहिवदस्य नास्तीत्यभिप्रेत्याह । ॥ ३६६ श्रीमद्भागवतम् [ स्कं. ५ अ. १७ श्लो. २१-२४ विज्ञानेति । विज्ञानस्य धिष्ण्यं निधानस्थानं धिष्ण्य इति पाठे विज्ञानमेव स्वरूपं यस्य स तथेत्यर्थः । महत्तत्त्वस्य सृष्टया सृष्टिक्रमः कथं ज्ञाप्यत इत्यत् उक्तं यत्संभव इति । यस्मान्महत्तत्त्वात्संभवो यस्य स तथा अहं त्रिवृता वैकारिकादिभेदेन त्रिधा वर्तमानेन स्वतेजसा स्वरूपमहिम्ना वैकारिकादिकं तदभिमानिदेवादिक च सृज इत्यन्वयः ॥ २२ ॥ * * अस्मत्सर्जनच श्रीनारायणा- तुग्रहेण न स्वातन्त्र्येणेत्याह । एत इति । वयमिति के इति तत्राह महानिति । ब्रह्मप्रभृतय इत्यर्थः । सूत्रयन्त्रिताः सूत्रबद्धाः शकुन्ताः पक्षिणः बैकृता वैकारिकदेवाः तामसाः पञ्चभूतदेवाः ऐन्द्रिया इन्द्रियाभिमानिनो देवाः शब्दाद्यभिमानिदेवताश्च ।। २३ ।। * व्यतिरेकमुखेन संसारतरणोपायमाह यन्निर्मितामिति । अयं जनो येन भवता जनं मोहयत्विति विनिर्मितां कल्पितां कर्म पर्वणी विहितनिषिद्धलक्षणानि कर्माणि पर्वाणि यस्याः सा तथा तां मायां बन्धकशक्तिमासाद्य कापि कदापि मायाया निस्तारणोपाय- मञ्जसा न वेद तत्र किं कारणमिति तत्राह गुणैरिति । गुणेन सर्गो येषां ते गुणसर्गाः शब्दादिविषयास्तैर्मोहितः शब्दादि- निमित्तान्यथाज्ञानं कारणमित्यर्थः । अनेन तत्कर्तृज्ञानपूर्वकं तज्ज्ञानं संसारतरणोपाय इति ध्वनितमिति इदमेव भगवत्प्रीतिकरं सर्व- साधारणमयत्नसाध्यं साधनमिति भावेनोपसंहरति तस्मा इति । तद्विलयोदयात्मने तस्या मायाया निवर्तकज्ञानस्वरूपाय, अनेन प्रणतिप्रसन्न श्रीनारायणस्वरूपज्ञानं मायानिवर्तकमिति सूचितमतो मुमुक्षुणा तज्ज्ञानमापाद्यमिति भावः ॥ २४ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कंधे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्यां सप्तदशोऽध्यायः ॥ १७ ॥ की श्रीमज्जीवगोरखामिकृतः क्रमसन्दर्भः पिए महान् महत्तत्त्वं चित्ताख्यं गुणमयो विग्रहोऽधिष्ठानं स एव विज्ञानधिष्ण्यः बुद्धिरूपः स एव किल क्रमेण भेदविवक्षया भगवान् वासुदेवः अजो ब्रह्मा च । सृजे सर्वोपयोगितां प्राप्नोमीत्यर्थः । अग्निरेवान्नं पचतीतिवन्मत्कर्तृ कमिति भावः ||२२-२४|| इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजीवगोस्वामिकृतक्रमसन्दर्भे सप्तदशोऽध्यायः ॥ १७ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी IE HDIEPF SPE REFERE जगत्कारणत्वमाह यमिति । स्थित्यादिहेतुम् अथ च त्रिभिर्गुणैर्हीनमत एव तत्त्वज्ञानादनन्तं न वेदेति य इति शेषः । ऋषयः “ऋकारो देवमाता स्यात्” इत्यभिधानात् देवमातरश्च ऋषयश्च ते सिद्धार्थं सर्षपमिव कचित् कस्मिश्चिन्मूर्ध्नि एकदेशे स्थितमिति, यद्यपि चतुस्त्रिशल्लक्षोनपञ्चाशत् कोटियोजन प्रमाणस्य भूमण्डलस्य अधस्तादेव स्थितत्वात् तस्मात् सकाशात् तन्मूर्ध्ना तावद्विस्ताराधिक्यं न युज्यते । तदपि तत्र गतैर्जनैस्तदीया चिन्त्यशक्त्यैव तन्मूर्ध्ना प्रमाणापरिच्छेद्यत्वं भूमण्डलस्य च सर्ष- पायमाणत्वं दृश्यते तच वास्तवमेव न तु मायिकमित्येतदप्येकमद्भुतमनन्तत्वमिति तथोक्तम् ॥ २१ ॥ * * तत्र स्वजन्म- हेतुत्वं महदादिद्वारेण प्रपञ्चयति । यस्याद्यः प्रथमो गुणमयविग्रहो महान् महत्तत्त्वनामा तेन सङ्कर्षणः स्वयन्तु गुणातीतविग्रह इत्यायातं विज्ञानं सत्त्वं धिष्ण्यमाश्रयो यस्य स एवाजो ब्रह्मा यत्संभवो यदुत्पन्नोऽहमहङ्कारात्मको द्वितीयो रुद्रः त्रिवृता सत्त्वादि- वृत्तित्रयेण खतेजसा स्वशक्त्यैवाहं वैकारिकं देवतावर्ग तामसं भूतवर्गमैन्द्रियमिन्द्रियवर्ग सृजामि || २२ ॥ * * सर्व- नियन्तृत्वमाह एत इति । सूत्रयन्त्रिताः सूत्रप्रोताः शकुन्ताः पक्षिणः शाकुनिकाधीना इवेत्यर्थः । वयमेव के तानाह महानिति । वैकृतादयः पूर्वोक्ता वर्गाः ॥ २३ ॥ * * दुर्ज्ञेयत्वं कैमुत्येनाह । येन निर्मितां प्रापितां मायामेवायं जनो न वेद किमुत त्वां कर्मपर्वणी कर्मग्रन्थिप्रणेत्री तस्या अञ्जसा शैत्रयेण निस्तारणोपायं भक्तियोगं च न वेद तस्या मायाया विलयो भक्तेषु उदयस्त्वभक्तेषु यतः तस्मै आत्मने परमात्मने ॥ २४ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमेऽयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥ १७ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः सर्वहेतुत्वेन सर्वात्मत्वं दर्शयति अस्येति । अस्य चिदचिदात्मकस्य विश्वस्य स्थित्यादि यस्मात्स तथा तमाहुः त्रिभिः । स्थित्यादिभिर्विहीनमनन्तं कालाद्यपरिच्छिन्नं चाहुः । ऋषय इति दीर्घश्छन्दोऽनुरोधात् । मूर्द्धसहस्रमेव धामानि स्थानानि तेषु कचिदेकत्र स्थितं भूमण्डलं सिद्धार्थं सर्षपमिव यो न वेद तं को न मन्येतेति पूर्वेणैवान्वयः ॥ २१ ॥ ॐ विश्वहेतुत्वेन स्तुत्वा ब्रह्मादिजनकत्वादिना भगवन्तं स्तुवन् ब्रह्मादीनां भगवज्जन्यत्वं तदधीनत्वं तन्मायामोहितत्वं च दर्शयन् नमस्करोति यस्येति त्रिभिः । यस्येति पञ्चम्यर्थे षष्ठी, यस्मात् आद्यः अस्मदादिभ्यः पूर्वः अजः ब्रह्मा आसीत् कथम्भूतः गुणविग्रहः रजोगुण प्रधानशरीरः महान महत्तत्त्वरूपः बुद्धधष्ठातुर्ब्रह्मणो बुद्धिकारणेन महत्तत्वेन सहाभेदोक्तिः । विज्ञायते अनेनेति विज्ञानं शब्दब्रह्म धिष्ण्य- माश्रयो यस्य सः, यत्सम्भवः यस्मादजान् सम्भूतः अहङ्काररूपः रुद्रः अन्तःकरणभेदरूपाहङ्काराधिष्ठातुः रुद्रस्यान्तः करणभेदरूपा- हङ्कारकारणेन सहाभेदोक्तिः । त्रिवृता त्रिगुणेन तेजसा स्वविभूतिरूपेण वैकारिकं देवतावर्ग तामसं भूतवर्गम् । ऐन्द्रिय कमिन्द्रिय- स्कं. ५ अ. १७ श्लो. २१-२४] अनेकव्याख्यासमलङ्कृतम् 38 * ३६७ वर्ग सृजे सृजामि तस्मै ते नम इत्यन्तिमेन सम्बन्धः ॥ २२ ॥ * * तथा च महानस्मत्पिता ब्रह्माऽहञ्च सर्वे ब्रह्मपुत्रा मत्सृष्टा वैकृतादयः एते वयं यस्य वशे स्थिताः इदं यथायथं सृजामः तस्मै ते नमः ॥ २३ ॥ गुण सर्गेण मायागुण- कार्येण देहगेहादिना मोहितः जनः कर्माण्येष पर्वाणि ग्रन्थ यस्तानि नयतीति तथा तां येन निर्मितां देहेन्द्रियादिरूपेण रचितां मायां तनिस्तारणयोगं च कर्हि चिदपि न वेद यदनुग्रहं विना न जानातीत्यर्थः । तस्मै ते विलीयते अस्मिन्निति विलयः । विश्वप्रवेशस्थानम् । उदेत्यस्मादित्युदयः विश्वनिर्गमनस्थान स च स च तथा तस्य प्रकृत्यादेः कारणजातस्य आत्मा कारणं तस्मै ते नमः ॥ २४ ॥ e for ne E PEEE DIES PREHTE HOT PEF
- इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे सप्तदशाध्यायार्थप्रकाशः ॥ १७ ॥ आशु गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी mins ww की " ॥ 5 तर्हि कथं कश्चिन्नादर करोतीत्याशङ्कय भगवन्मायामोहेन दुष्टान्तःकरणत्वेन अन्यथाभानादित्यभिप्रेत्याह- असदिति । असति दृक् दृष्टिर्यस्य तस्य स्वमायया क्षीबा मत्तो भयङ्कर इव तथा मधु सुरा आसवस्तालादिरसस्ताभ्यामाताम्रे अतिरक्त लोचने यस्य स इव च तस्मै नम इत्यग्रे पचमेनान्वयः । प्रतिभाति अतः स नादरेण भजतीति भावः । निजभक्तानां शुद्धान्तःकरणानां त्वत्याह्लादजनकतया प्रतिभात्यतस्ते परमादरेण भजन्तीत्याशयेनाह-न नागेति, नागवध्वो यस्यार्हणे पूजायां न ईशिरे समर्था न जाताः । तत्र हेतुः —हिया लज्जयेति । लज्जायामपि हेतुमाह यत्पादेति, प्रथमवन्दनादौ यस्य पादयोः स्पर्शनेन धर्षितं मोहितमिन्द्रियं मनो यासां ताः । अस्माकमन्तःक्षोभं सर्वज्ञत्वादयं जानातीति कृत्वा लज्जा जाता इति भावः । कस्तं न मन्येतेति सर्वत्र यच्छब्दानां पूर्वेणैवान्वयस्तस्मै नम इत्यग्रे पचमेन वाऽन्वयः ॥ २१ ॥ * * जगदुत्पत्यादिकारणत्वेनापि ईश्वरत्वमुपपादयति- - यमिति । अस्य विश्वस्य स्थितिजन्मसंयमा यस्मात् तथाभूतं यमाहुः । तथा त्रिभिर्जन्मादिभिर्विहीनं च यमाहुः । अत एवानन्तं कालापरिच्छिन्नं च यमाहुः । क आहुस्तत्राह -ऋषय इति, ऋकारो देवमाता लक्ष्मीः ऋषयश्चेत्यर्थः । अतिमहत्त्वेनाप्यनन्तत्वं दर्शयति-न वेदेति । मूर्द्धसहस्रमेव धामानि स्थानानि तेषु कचिदेकदेशे स्थितं भूमण्डलं यो न वेद तस्मै नम इत्यन्वयः । अतिमहत्त्वेन तन्मस्तके भूभण्डलस्य तदपेक्षयाऽत्यल्पत्वं सूचयंस्तदननुसन्धाने दृष्टान्तमाह - सिद्धार्थमिवेति, सर्षपमिवेत्यर्थः ॥ २२ ॥ * ननु जगदुत्पत्त्यादिकारणत्वं प्रकृतिभर्तुः पुरुषस्य प्रसिद्धं तत्कथं सङ्कर्षणस्य तद्धेतुत्वमित्याशङ्कय कार्यार्थं खरूपभेदेऽपि वस्तुतस्तयोर- भेदादित्यभिप्रेत्य तस्य महदादिद्वारा जगज्जन्महेतुत्वं प्रपञ्चयति यस्येति द्वाभ्याम् । यस्य गुणनिमित्तो महानामाऽऽद्यो विग्रह आसीत् स च विज्ञानधिष्ण्यः चित्तरूपत्वेन सत्त्वप्रधानत्वात् । विज्ञानस्य चैतन्यस्य प्रकाशस्याश्रयभूतः । तत्रोपास्यत्वेन तदधिदेवस्य वासुदेवस्य ततो जातस्य ब्रह्मणश्च तदभिन्नत्वमङ्गीकृत्याह भगवानज इति । यत् यस्माद् ब्रह्मणः सम्भवो जन्म यस्य सोऽहं रुद्रः त्रिवृता गुणत्रयकार्थमहत्तत्त्वतो जातत्वात्रिविधेन स्वतेजसा स्वशक्तिरूपेणाहङ्कारेण वैकारिकं सात्त्विकं देवतावर्गं तामसं पञ्चमहाभूतवर्ग- मैन्द्रियं राजसमिन्द्रियवरां च सृजे सृजामि ॥ २३ ॥ * * एवं तर्हि यूयमेव परमेश्वराः स्वातन्त्र्येण जगत्कर्तृत्वादित्याशङ्कय स्वेषां तद्वशवर्तित्वमाह-एते वयमिति । एते वयं महदाद्यः सर्वे यस्य वशे स्थिताः सन्तो यदनुग्रहादेवेदं विश्वं सृजामः, न सृष्टी समर्था इत्यन्वयः । वशवर्तित्वे हेतुमाह-सूत्रेति, सूत्रेण कियाशक्तिप्राणेन यन्त्रिता निबद्धाः। एवं सर्ववशीकारे तस्य सामध्य सूचयन् विशिनष्टि महात्मन इनि, परमेश्वरस्यान्तर्यामिण इत्यर्थः । वशवर्तित्वे दृष्टान्तमाह-सूत्रेण निबद्धाः शकुन्ताः पक्षिण इव ।। २४ ।। * * नन्वेवमपि कश्चित्केनचिदुपायेन पक्षिवद्बन्धाद्विमुच्येत तदा स्वतन्त्रः स्यादित्याशङ्कच त्वत्कृपां विना नैव कश्चिदात्मानं विमोक्तुं शक्नोतीति वदन् स्थित्यादिहेतुत्वं च दर्शयन् प्रणमति यदिति । येन निर्मितां मायामेव तावदयं जनोऽञ्जसा तत्कृपां विना कह्येपि न वेद न जानाति, ततो निस्तारणयोगं मुक्त्युपायं तु सुतरां न जानाति तस्मै ते तुभ्यं नम इत्यन्वयः । स्थितिहेतुत्वप्रकारं सूचयन मायां विशिनष्टि कर्मेति । कर्माण्येव पर्वाणि बन्धहेतुत्वाद् ग्रन्थयस्तानि नयति प्रापयतीति तथा ताम् । प्रलयादिहेतुत्वमाह - विलयेति, विलीयतेऽस्मिन्निति विलयः उदेत्यस्मादित्युदयः चिलयश्चासावुदयश्चात्मा स्वरूपं यस्य तस्मा हृत्यर्थः ननु कथमयं जनो मायां न जानातीत्याकाङ्क्षायां तत्र हेतुमाह – गुणसर्गमोहित इति । गुणानां सत्त्वादीनां सर्गः देहेन्द्रियान्तः करणा- दिरूपः पुत्रकलत्रादिरूपः रूपरसादिविषयरूपश्च तत्र विमोहितः अहम्ममतयाऽऽसक्त इत्यर्थः ।। २५ ।। इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्भिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र भूमिस्थाननिरूपणे । सप्तदशो गतो वृत्तिं गङ्गागमनरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी पुनरप्यैश्वर्यमेव व्यञ्जयन्नाह यमिति चतुर्भिः यमिति । ऋषयो वेदान्ताभिज्ञाः, ऋषय इति दीर्घपाठे दीर्घ आर्षः । यद्वा ऋकारो देवमाता लक्ष्मीः सा च ऋषयश्चेत्यर्थः । यं अस्य चिदचिन्मिश्रस्य जगतः स्थितिश्च जन्म च संयमश्च यस्मात्तं, आहुः । d. ॥ श्रीमद्भागवतम् [ स्कं. ५ अ. १७ श्लो. २१-२४ यं त्रिभिः गुणैः, विहीनं ततस्त्रैगुण्यापरवशमित्यर्थः । अनन्तं स्वरूपतः स्वभावतश्चान्तवर्जितं, देशकाल वस्तु कृत परिच्छेदवार्जित- मित्यर्थः । आहुः । अनन्तत्वमेवाह । यः मूर्द्धसहस्रमेव धामानि फणरूपस्थानानि तेषु मध्ये, कचित् स्थितं कस्मिंश्चिदेकस्मिन् फणेऽवस्थितमित्यर्थः । भूमण्डलं भूवलयं, सिद्धार्थं सर्षपमिव ने वेद । भारत्वेन नानुमन्यते । यच्छन्दानां कस्तं न मन्येतेति पूर्वेण तस्मै नमः इति चतुर्थेन वान्वयः ॥ २१ ॥ * * यस्येति । अपादानस्य संबन्धमात्रविवक्षया यस्येति षष्ठी । यस्य यस्मात्, महान् महत्त्वाभिमानी, विज्ञानधिष्ण्यः जगन्निर्माणाद्युपयुक्तज्ञानाश्रयः, गुणविग्रहो स्जः प्रचुरशरीर आयः रुद्राद्यपेक्षया आदौ भवः, भगवान् जगत्सर्जनपटुत्वाद्यैश्वर्ययुक्तः, अजो ब्रह्मा आसीत् किल । यस्माद् ब्रह्मणः संभवो यस्य सः अहं रुद्रः, त्रिवृता त्रिविधाहंकारेण, अध्ययनेन वसतीतिवत्फलस्यैव हेतुत्वविवक्षया तृतीया । देवादिदेहेषु त्रिविधाहंकारप्रवृत्त्यर्थः । स्वतेजसा स्वस्य संकर्षणमूत्तेस्तेजसा संकर्षणेन त्वया दत्तेनाहंकार प्रवर्त्तनोपयुक्तेन ज्ञानेनेत्यर्थः । वैकारिक सात्त्विक, तामस, ऐन्द्रियं राजसं सृजे देहिदेहेषु त्रिविधाकारं प्रवर्त्तयामीत्यर्थः ॥ २२॥ * एत इति । महान महत्तत्त्वं, अहमहंकारः, तस्य त्रिधा भेदमाह । वैकृतः सात्त्विकाहंकारश्च तामसो भूतादिश्च ऐन्द्रियो राजसश्च ते एते सर्वे, ब्रह्मादयः वयं, महात्मनो महामहिम्नः यस्य भगवतः वशे सूत्रे रज्ज्वां यन्विता बद्धाः शकुन्ताः पक्षिणः ॥ बद्धाः शकुन्ताः पक्षिणः इव स्थिताः वर्त्तमानाः सन्तः, यदनुमहाद्यस्य भगवतोऽनुग्रहतो हेतोः, इदं ब्रह्माण्ड, तदन्तर्वर्त्ति वस्तुजातं च यथायथं सृजामः ।। २३ ॥ एवं सर्वजगत्कारणत्वसत्यज्ञानानन्तत्व सर्वान्तरात्मत्वानन्याधिप- तित्वादिगुणविशिष्टतया स्तुत्वा सांप्रतं ‘प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः’ इति बन्धहेतुत्वेन स्तुवन्नमस्करोति । यन्निर्मितामिति । यन्निर्मितां येन भगवता निर्मितां जगत्सर्गार्थं जगत्सजनेऽभिमुखीकृतामित्यर्थः । कर्मपर्वणी कर्माख्यग्रन्थिमतों मायां प्रकृतिं, गुणसर्गेण गुणपरिणामात्मकदेहेन्द्रियादिसंबन्धेन मोहितः स्वात्मपरमात्मयाथात्म्यज्ञानरहितोऽब्रह्मात्मकत्व स्वतन्त्र- त्वादिभ्रमयुक्तः अयं जनः जननमरणादिकसांसारिकधर्मभाक् जीवः, कह्येपि कदाचिदपि न वेद । सततपरिणामित्वादिमायास्वरू- पमेव न वेत्ति । तर्हि, निस्तारणयोगं मायानिस्तारणोपायम् अञ्जसा तत्त्वतः न वेद् तत्र किं वक्तव्यम् । विलयश्च उदयश्च विलयोदयौ तस्या मायायाः विलयोदयौ तयोरात्मा ज्ञानं यस्य तस्मै, जीवानां प्रकृतिसंबन्धविलयप्रकृतिसंबन्धज्ञानवते इत्यर्थः । तस्मै, ते तुभ्यं नमः । यद्वा गुणसर्गमोहितः अयं जनः यन्निर्मितां कर्मपर्वणीं मायामेव वेद सत्यतया जानाति । अञ्जसा तन्निस्तारणयोगं तस्या निस्तरणोपायभूतं भगवन्तं न वेद । ‘आरामं तस्य पश्यन्ति न तं पश्यति कश्चन’ इति श्रुतेः । विलयोदयात्मने जगदुत्पत्तिस्थिति- लयकारणाय तस्मै ते नमः । २४ ॥ ॥ Brains! इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्य सुनु भगवत्प्रसादाचार्यविरचिताया— मन्वयार्थावबोधिन्यां भक्तमनोरजन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥ ना Hosp भाषानुवादः वेदमन्त्र आपको जगत्की उत्पत्ति, स्थिति और लयका कारण बताते हैं; परन्तु आप स्वयं इन तीनों विकारोंसे रहित हैं, इसलिये आपको ‘अनन्त’ कहते हैं। आपके सहस्र मस्तकोंपर यह भूमण्डल सरसोंके दानेके समान रक्खा हुआ है, आपको तो यह भी नहीं मालूम होता कि वह कहाँ स्थित है ? ।। २१ ।। * * जिनसे
-
- जिनसे उत्पन्न हुआ मैं अहङ्काररूप अपने त्रिगुणमय तेजसे देवता, इन्द्रिय और भूतोंकी रचना करता हूँ - वे विज्ञानके आश्रय भगवान् ब्रह्माजी भी आपके ही महत्तत्त्वसंज्ञक प्रथम गुणमय स्वरूप हैं ॥ २२ ॥ * * महात्मन् ! महत्तत्त्व, अहङ्कारेन्द्रियाभिमानी देवता, इन्द्रियाँ और पञ्चभूत आदि हम सभी डोरीमैं बँधे हुए पक्षीके समान आपकी क्रियाशक्तिके वशीभूत रहकर आपकी ही कृपा से इस जगत्की रचना करते ॥ २३ ॥ * * सत्त्वादि गुणोंकी सृष्टिसे मोहित हुआ यह जीव आपकी ही रची हुई तथा कर्मबन्धनमें बाँधनेवाली मायाको तो कदाचित् जान भी लेता है, किन्तु उससे मुक्त होनेका उपाय उसे सुगमतासे नहीं मालूम होता। इस जगत्की उत्पत्ति और प्रलय भी आपके ही रूप हैं। ऐसे आपको मैं बार-बार नमस्कार करता हूँ ॥ २४ ॥ ॥ ॥ ॥ इति सप्तदशोऽध्यायः ॥ १७ ॥ rapes diese *** 1 WEPRIMETERIEngels en nt temperati ि 1 श्री उ eless Thorati Dpils to rare to pR BRE PER PIPING FREE BERE FIRES :P OF ONE FTSBDE ÁÆFTER ॥। ९ ॥ अथाष्टादशोऽध्यायः to ge bipimary Here म श्रीशुक उवाच E तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हृयशीर्षाभिधानां परमेण समाधिना संनिधाप्येदमभिगृणन्त उपधावन्ति ।। १ ॥ श्री भद्रश्रवस ऊचुः ।। ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २ ॥ File PE 4912000 SIES अहो विचित्रं भगवद्विचेष्टितं मन्तं जनोऽयं हि मिषन्न पश्यति । व्यायन्नसद्यर्हि विकर्म सेवितुं निर्हत्य पुत्रं पितरं जिजीविषति ॥ ३ ॥ ॥ B aibahnen imes वदन्ति विश्व कवयः स्म नवरं पश्यन्ति चाग्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४ ॥ विश्वोद्भवस्थाननिरोधकर्म रोधकमणि ५ ॥ ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्त च वस्तुतः ॥
- (?) वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः । R प्रत्याददे । कवयेऽभियाचते तस्मै नमस्तेऽवितथेहिताय इति ॥ ६ ॥ हरिवर्षे चापि भगवा नरहरिरूपेणास्ते । तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये । तद्दयितं रूपं महापुरुषगुणभाजनों महाभागवतो दैत्यदानवकुलतीर्थी करणशीलाचरितः प्रह्लादोऽव्य वधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इद चोदाहरति ॥ ७ ॥ ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयमभयमात्मनि भूयिष्ठा ॐ क्षम् ॥ ८ ॥ कृती PRE VIFTPED EFI काम श्रीम अन्वयः तथा च भद्रश्रवाः नाम धर्मसुतः तत्कुलपतयः पुरुषाः भंद्राश्ववर्षे साक्षात् भगवतः वासुदेवस्य प्रियाम् धर्ममयीम् हयशीर्षाभिधानाम् तनुम् परमेण समाधिना सन्निधाप्यं इदम् अभिगृणन्तः उपधावन्ति ॥ ॥ ॐ भगवते आत्मविशोधनाय धर्माय नमो नमः इति ॥ २ ॥ अहो भगवद्विचेष्टितम् विचिन्त्रम् हि अयम् जनः घ्नन्तम् मिषन् न पश्यति यहि असत् सेवितुम् विकर्म ध्यायन पुत्रम् पितरम् निहत्य जिजीविषति ॥ ३ ॥ ४ ४ कवयः विश्वम् मश्वरम् वदन्ति स्म च अध्यात्मविदः विपश्चितः पश्यन्ति तथा अपि अज तव मायया मुह्यन्ति कृत्यम् सुविस्मितम् तम् अजम् नतः अस्मि ॥ ४ ॥ * * हि अकर्तुः अपावृतः अपि ते विश्वोद्भवस्थाननिरोधकर्म अंगीकृतम् युक्तम् कार्यकारणे सर्वात्मनि च वस्तुतः व्यतिरिक्ते त्वयि न चित्रम् ॥ ५॥ * * या नृतुरंगविग्रहः युगान्ते तमसा तिरस्कृतान् वेदान् रसातलात् अभियाचते कवये वै प्रत्याददे तस्मै अवितथेहिताय ते नमः इति ॥ ६ ॥ * * हरिवर्षे च अपि भगवान् नरहरिरूपेण आस्ते तद्रूपग्रहणनिमित्तम् उत्तरत्र अभिधास्यें महापुरुषगुणभाजनः। महाभागवतः दैत्यदानव कुलतीर्थीकरणशीलाचरितः प्रह्लादः तद्वर्षपुरुषैः सह तत् दयितम् रूपम् अव्यवधानानन्यभक्तियोगेन उपास्ते इदम् च उदाहरति ॥ ७ ॥ - फ १० प्रा० पा०- विदन्ति । प्रा० पा० माययाऽऽशु विस्मितं । २० प्रा० पा भक्ति० । ५. प्रा० पा० – शयान् तमो ग्रस ॐ । ६. प्रा० पा० - भूयिष्टाः क्षौम् । । । ॥ ॐ ॐ भगवते Pre वस्तुनि ४. प्रा० पा०— व्यवधानमनन्य- Sa ४७ ३७० श्रीमद्भागवतम् [ स्कं. ५ म. १८ श्लो. १-८ तेजस्तेजसे नरसिंहाय नमः नमः आविः आविर्भाव वज्रनख वज्रदंष्ट्र कर्माशयान् रंधय रंधय तमः प्रस प्रस ॐ स्वाहा ॐ श्रौम् आत्मनि अभयम् अभयम् भूयिष्ठाः ॥ ८ ॥
श्रीधरस्वामिविरचिता भावार्थदीपिका अष्टादशे ततो मेरोः पूर्वादिक्रमतस्त्रिषु । त्रिषु चोत्तरवर्षेषु सेव्यसेवकवर्णनम् ॥ १ ॥
- || || भद्रश्रवा वर्षपतिः तस्य कुलपतयः सेवकमुख्याश्च ॥ १ ॥ भद्रश्रवस ऊचुरिति । “प्राणभृत उपदधाति " इतिवद्गुणलक्षणया तद्योगाद्गुणिषु लिंगसमवायन्यायेन बहुवचनम् ॥ २ ॥ * * अयं जनो मिषन्नपि पश्यन्नपि धनंतं हिंसतं न पश्यति नालोचयतीति भगवद्विचेष्टितमेव तच विचित्रम् | अदर्शने लिंगम् बालं पितरं वृद्धं मृतं निर्हत्य दग्ध्वा स्वयं तदुभयधनैर्जिजीविषति जीवितुमिच्छति । पाठांतरे तु छन्दः सामंजस्यं, कि धर्माद्यर्थम् । न यर्हि यतोऽसतुच्छं विषयसुखं सेवितुं विकर्म पापमेव ध्यायन् ॥ ३ ॥ नन्वविद्वान्न पश्यति किमत्र चित्र तत्राह । नश्वर वदति स्म शांखतः पश्यंति समाधौ । हे अज तथापि मायया मुह्यंति एतच्च तव कृत्यं चेष्टितं सुविस्मितमतिचित्रमतः शास्त्रादिश्रमं विहाय तं त्वामजं नतोऽस्मि ॥ ४ ॥ इदमपरं चित्रवत्प्रतीयमानमपि त्वयि न चित्रमित्याह । विश्वोद्भवादिकर्माकर्तुरप्यपगता आवृदावरणं यस्मात्तादृशस्यापि तेंगीकृतं वेदेन । त्वयि तन्न चित्रम् । यतो मायया सर्वात्मनि कार्यस्य कारणे स्रष्टरि कर्म | । कारणे स्रष्टरि कर्म युक्तम् । वस्तुतः सर्वव्यतिरिक्ते निरुपाधावनावृतत्वमकर्तृत्वं च युक्तम् ॥ ५ ॥ परमेश्वरत्वेन स्तुत्वा प्रस्तुतावतारचरितमाह वेदानिति । तमसा दैत्यरूपेण तिरस्कृतानपनीतान् । ना च सुरंगश्च नृतुरंगौ तद्रूपो विग्रहो यस्य । कवये ब्रह्मणे । तदर्थमवितथेहिताय सत्य- संकल्पाय ॥ ६ ॥ * * उत्तरत्र प्रह्लादचरित्रे । महापुरुषस्य गुणानां भाजन आश्रयः । दैत्यदानवकुलस्य तीर्थीकरणं शीलमाचरितं च यस्य । फलसंकल्पेन व्यवधानशून्यश्चासावनन्यश्चाव्यभिचारी यो भक्तियोगस्तेनोपास्ते सेवते ॥ ७ ॥ * * तेजसामपि तेजसे । आविराविः अतिप्रकटो भव वीप्सा वा । कर्माशयान्कर्मवासनाः । कर्माश्रयानिति पाठे रागादीन् रंधय निर्दह । भूयिष्ठाः भूयाः ॥ ८ ॥ निकडील कि । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः क तत इलावृतवर्णनोत्तरम्। पूर्वादिक्रमतः प्रथमद्वितीयतृतीया इत्येवं क्रमेणोत्तरदिक्स्थखंडेषु (१) । साक्षाद्भगवतः वासुदेवस्य श्रीकृष्णस्य प्रियां वेदाविर्भावकर्तृत्वात् । हयंति बुध्यते सर्वमिति हयाः सर्वज्ञास्तेषां शीर्ष प्रधान इति हयशीर्षा स एवाभिधानं नाम यस्यास्ताम् । संनिधाप्य साक्षात्कृत्य इदं वक्ष्यमाणम् । “ॐ नमो भगवते” इत्यादिमंत्रमित्यर्थः । उपधावंति स्तुवंति ॥ १ ॥ * * भद्रश्रवः शब्देना जहृस्वार्थलक्षणाया तदुगणोऽप्युच्यतेऽतः प्राणभूत उपदुधातीति । तद्योगाद्भद्रश्रवः- शब्दयोगात् । गणिषु भद्रश्रवः संबंधिषु । लिंगस्य वाच्यार्थस्य समवायः समुदाये प्रवेशः । तथाहि “अयं पुरो भुवस्तस्य प्राणो भौवायनः” इत्येकस्येव मंत्रस्य प्राणभृत्त्वेऽपि प्राणशब्दवत्त्वेपि तत्सहिताः सर्वे मंत्राः प्राणभृच्छब्देनोच्यते छत्रिणो यांतीतिवद्वहु- वचनमिति । आत्मनो जीवस्याविद्या मालिन्यापाकरणाद्विशोधनायेत्यर्थः ॥ २ ॥ * बालं स्वजनितं वृद्धं स्वजनकं जनस्तन्मध्यवर्ती जिजीविषुर्जिजीविषन्नित्युभयविधपाठांतरे छंदःसामंजस्यं छंदोभंगाभावः । मृत्युर्मा कथं हास्यतीति नानुसंधत्ते इत्यतिमौढ्यमिति भावः । ननु पञ्चषानपि वासरान् जिजीविषा भगवद्भक्त्यर्थं तादृश्यपि न विगीतेत्यभिप्रेत्याह- किं धर्माद्यर्थमिति । परिहरति-नेति । ननु भद्राश्वादिवर्षाणां भौमस्वर्गरूपत्वात्तद्वासिनां पितुः पुत्रस्य च युगपन्मृत्युदर्शनं न घटते । सत्यम्, सर्वा एव वाचो भारतभूमिवर्तिनो जनानालक्ष्यैवोच्यते । ‘वयमधन्याः स्वकर्मफलं मुंजानाः अत्र भद्राश्वादिवर्षे पशुवद्वत्तमहे ये त्वतिधन्या अपवर्गसाधने भारतभूमण्डले लब्धजन्मानः श्वपचादिजातयोऽपि यत्रानायासेनैव वैकुंठपदमपि साधयंति तत्रापि कथमेवं मुह्यंति’ इति रीत्या ॥ ३ ॥ अत्राक्षिपति-नन्विति । त्वां भजन्त एव विद्वांस इति भावः ॥ ४ ॥ * 8 अत्र विश्वनाथः– ननु विद्वांसोऽपि ममैव मायया मुह्यति चेत्तर्हि मय्येव दोषं प्रसंजयसीति तत्र मायायास्तत्कार्यस्य च त्वदीयत्वेऽपि त्वं ततः पृथक् वर्त्तस इत्याह-विश्वोद्भवेति । अकर्तुरिति । गुणानामेव कर्तृत्वादिति भावः । उक्तं त्वय्युपचारादिति भावः । न च जीव- बत्कर्तृत्वाभिमानादित्याह- अपावृतस्त्वं गुणैरावृतो न भवसीत्यर्थः । यद्वापावृत इति षष्ठ्यंतम् । एतच त्वयि युक्तमेव नतु चित्रं मायायास्त्वच्छक्तित्वा तत्कार्याणामपि कारणेऽतः सर्वात्मनि सर्वस्वरूपे मायाया स्वरूपशक्तित्वाभावात्सर्वतो व्यतिरिक्ते ॥ ५ ॥ * * दैत्यरूपेण मधुनामकदैत्येन ॥ ६ ॥ * नरहरिरूपेण नृसिंहरूपेण । उत्तरत्र प्रह्लादचरित्रे सप्तमस्कंधे । भाजन इह पुंस्त्वमार्षम् । महापुरुषगुणा वीर्यशौर्यादयो भक्तिज्ञानादयो वा । प्रकृष्टो हादः शांत्यादिगुणो यस्य स तथा । इदं वक्ष्यमाणम् ॥ ७ ॥ ॐ आत्मनि मन्मनसि । " श्रौम्” इति नृसिंहबीजम् इति बीजकोशे । “बीजं । । देवस्य मूर्त्तिर्हि तत्स्मृतेः स प्रसीदति” इति तांत्रिक सिद्धांतानुसारेणात्र तानि लिखितानीति ज्ञेयम् । महारोगाद्युपद्रवेऽस्य जपो सटिति सिद्धिः ॥ ८ ॥
-
स्क. ५.अ. १८ लो. १-८1 अनेकव्याख्या समलङ्कृतम् श्रीमद्वीरराघवव्याख्या ग Bite meme Shirodhee ३७१ एवमिलावृते उपास्यं रूपम् उपासनम् उपासनप्रकारं चाभिधाय भद्राश्ववर्षादिषु तानाहाध्यायद्वयेन तथा चेति । भद्रश्रवाः नाम धर्मसुतो भद्राश्ववर्षाधिपतिः तस्य कुलपतयः कुलश्रेष्ठाः सेवकमुख्या उपासकमुख्याच भद्रश्रवसः पुरुषा भद्राश्ववर्षे मेरोः पूर्वस्मिन्साक्षाद्भगवतो वासुदेवस्य साक्षांच्छन्दः यत्साक्षादपरोक्षाद् ब्रह्मेत्यादाविव ब्रह्मशब्दस्य भगवच्छब्दस्य च पौष्कल्येन प्रवृत्ति- निमित्तवत्परत्वसूचनार्थः । प्रियामिति वासुदेवकथनं न तु रामकृष्णादितनुभ्योऽस्या यशीर्षाभिधानायाः प्रीत्यतिशयद्योतनार्थं धर्ममय यज्ञोपासनादिधर्मावेदक वेदप्रचुरामित्यर्थः । ईदृशधर्ममयत्वं रामादिष्वप्यविशिष्टं तथापि प्राधान्येन विस्रस्तवेदाहरणतदु- पदेशार्थत्वादस्यास्तन्वा धर्ममयीमित्युक्तं हयग्रीवाख्यां तनुं परमेण साक्षात्कारपर्यन्तकाष्ठां गतेन समाधिना सन्निधाप्य साक्षात्कृत्वेदं वक्ष्यमाणं मन्त्रवच: अधिगृणन्तो जपन्त उपधावन्ति वक्ष्यमाणश्लोकैः स्तुवन्तीत्यर्थः ॥ १ ॥ * * ओंकारार्थः पूर्ववद्भगव- च्छब्दार्थश्च धर्माय पूर्वोत्तरभागात्मकवेदावेदिप्रमेयो धर्मस्तत्र पूर्वभागस्याराध्यस्वरूपशोधनप्रकारा वेदकत्वेनाराध्यतात्पर्य कत्वात् । ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् ||” इत्युक्तरीत्या भगवत एव पूर्वभाग- प्रमेयत्वम्, उत्तरभागप्रमेयं तु स्पष्टमेवेति । धर्मायेत्यस्य, पूर्वोत्तरभागप्रमेयायेत्यर्थः, आत्मविशोधनाय आत्मान्तःकरणं जीवो वा शोध्यते येन स आत्मविशोधनस्तस्मै यत्प्रसादादन्तःकरणं जीवो वा शुद्धिं रजस्तमोभ्यामनभिभवरूपां प्रकृतिसम्बन्धराद्दित्यद्वारा ब्रह्मप्राप्तिरूपां मुक्तिं च प्राप्नोति स तथोच्यते । अत्र धर्मायेत्यनेन प्रापकव्यापकपरम्परायामुपायत्वमुच्यते, आत्मविशोधनायेत्यनेन प्राप्यत्वमुक्तं भगवच्छब्देन तदुभयोपयुक्तगुणवत्त्वं विवक्षितम् ॥ २ ॥ * स्तुतिरूपान् श्लोकानाह अहो इति । तावद्भ- गवन्मायाया दुरत्ययत्वद्योतनाय विस्मयमाना आहुः । घ्नन्तं मृत्युं पित्रादिदृष्टान्तेनायं जनो मिषन् पश्यन्नपि न पश्यति नात्मनोऽनु- संघते इत्येतद्भगवद्विचेष्टितं भगवन्मायावैभवरूपम् एतच्छन्दादिचित्रं विस्मयनीयम् । अहो विचित्रमिति निपातसंघात आश्चर्य द्योतकः । कथम्भूतो न पश्यति पुत्रं पितरं च मृतं निर्हत्य दग्ध्वा स्वयं तदुपार्जितैर्जिजीविषुर्जीवितुमिच्छुः किमर्थमसत्तुच्छं विषयसुखं सेवितुं किं कुर्वन यहि यदा विक्रर्म विरुद्ध कर्मोपायं ध्यायन् ॥ ३ ॥ * * नन्वविद्वान पश्यति किमत्र चित्रमन्त्राह वदन्तीति । कवय अधीतवेदान्तविद्या विश्वं जगत् नश्वरं केवलं वदन्ति न त्वनुसन्दधते, नन्वात्मयाथात्म्यविदोऽनुसन्दधत एव तत्राह । अध्यात्मविदः अधीतवेदान्तविद्याः विपश्चितः उपासितखात्मपरमात्मानः यद्यपीदं विश्वं पश्यन्ति तथापि हे अज ! तब मायया मुन्ति मोहं प्राप्नुवन्ति विपश्चितामपि पुत्रमरणादिनिमित्तशोकदर्शनादिति भावः । अत इदं कृतं भगवद्विचेष्टितं सुविस्मयं विस्मय- नीयम् ईशमोह निवृत्तये केवलं त्वां प्रपत्स्यामहे इत्याहुः । अजं जन्ममरणादिसंसार धर्मप्रतिभटम् त्वां नतोऽस्मि ‘कर्तरिक्तः’ नमस्क- तवानस्मि प्रत्येकाभिप्रायमेकवचनम् ॥ ४ ॥ * * ननु किं यदेतश्चित्रं यज्जीवमोहनानुकूलमायाप्रेरणमिति ततोऽप्येतद्विचित्र- तरमकर्तुर्मम विश्वसृष्टयादिकर्तृत्वमस्ति तथाबन्धकं चेत्यत्राहुः । विश्वोद्भवेति । अकर्तुः “चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धय कर्तारमव्ययम् ॥” इत्युक्तरीत्या चातुर्वर्ण्यचातुराश्रम्यादिव्यवस्थयातिविचित्र जगत्सृष्टयादिकर्तृत्वेऽपि तत्तत्कर्माय तदेवादिवैचित्र्यादकर्तुस्ते तव कर्तरि षष्ठी त्वयेत्यर्थः । विश्वस्य जगतः उद्भवस्थाननिरोधकर्म सृष्टिस्थितिप्रलयरूपं कर्म अङ्गीकृतं स्वीकृतमिति यत्तद्युक्तमेव न तु त्वयि विचित्रं जीवस्येव न बन्धकमित्यभिप्रायः । कुतः यतस्त्वमपावृतः कदाचिदपि पुण्य- पापाख्यकर्मणा ज्ञानसङ्कोचरहितः । जीवानां तु “अनृतेन हि प्रत्यूढाः तेषां सत्यानां सतामनृतमपिधानम्” इति कर्माख्याविद्यया ज्ञानसङ्कोचरूपावरणसद्भावात् अविद्यावृतज्ञानैरनुष्ठितानां पूर्वपूर्ववासनानुरूपाणां सुखदुःखादिजननद्वारा बन्धकत्वं युक्तं, भगवतो नित्यनिरस्तनिखिलदोषस्य सार्वज्ञादिगुणविशिष्टस्य जगदुदयविभवलयलीलस्य विश्वसृष्टयादि कर्म न बन्धकमित्यभिप्रायः । अपावृतः अपगतावरणः अविद्याकृतावरणप्रतिभदस्त स्थापावृतस्य तवेति षष्ठयन्तत्वेन व्याख्येयम् । अपावृतमिति पाठे विश्वोद्भवादिकर्माङ्गीकृत- मनावरकं तिरोधानद्वारा न बन्धकमिति युक्तं जीवस्येवेत्यर्थः । आवरणद्वारा वैषम्यनैघृ ण्यादिहेयापादकं नेति बेत्यर्थः । कुतो मम विश्वोद्भवादि कर्म नावस्कं तत्राहुः । कार्यकारणे कार्यकारणरूपे स्थूलसूक्ष्मावस्थचिदचिद्वस्तुशरीरकत्वेन तद्रूप इत्यर्थः । कार्यकारण- रूपत्वं च न तादात्म्यनिबन्धनं किं त्वात्मा देवो जात इत्यादितदन्तरात्मप्रयुक्तमित्याशयेन सर्वात्मनीत्युक्तम्, एवंभूतेऽपि वस्तुतः प्रकृतिपुरुषाभ्यां विविक्तस्वरूपतः व्यतिरिक्त साक्षात्कार्यत्व कारणत्वोभयावस्थान्वयरहिते त्वयि न हि कर्तृत्वमात्रेण कर्मणो बन्धक- त्वमपि तु कर्मायत्तकर्तृत्वेन, अन्यथा मुक्तानामपि जक्षणादिकर्तृत्वस्य बन्धकत्वापत्तेः । अयं भावः यद्यपि बिम्बसृष्टयादिकर्तृत्वेन विश्वोपादानत्वेन च विश्वगतविकाराश्रयत्वाद्विश्वोद्भवादि कर्म तव बन्धकमिति सम्भाव्यते, तथापि विश्वोद्भवादिकर्मणो लीलारूप- त्वेन कर्मायत्तत्वाभावात्स्वरूपान्यथाभावस्वभावान्यथाभावरूपविकाराश्रय प्रकृतिपुरुषशरीरकस्यैव कार्यकारणोभयावस्थाश्रयत्वात्स- areeraस्थाश्रयत्वेऽपि साक्षादवस्थाश्रयत्वाभावाच न विश्वोद्भवादि कर्म बन्धकं यथा जीवस्य शरीराधिष्ठातृत्वमात्रेण शरीरगत- कौमारयौवनाद्याश्रयत्वमित्यर्थः ॥ ५ ॥ * * एवं विविधविचित्रशक्तिमत्वेन भगवन्तं स्तुत्वा अर्थतदवतार प्रयोजनमाविष्कुर्वन्तो नमस्कुर्वन्ति वेदानिति । युगान्ते कस्मिंश्चिद्दनंदिनप्रलये तमसा दैत्यरूपेण तिरस्कृतानपनीतान् वेदान् नृतुरङ्गविग्रहः ना च तुरङ्गश्व नृतुरङ्गविग्रहो यस्य स नृतुरङ्गविग्रहः हयशिरोमूर्तियों भगवान् अभियाचते कवये चतुर्मुखाय प्रत्याददे प्रत्यर्पितवान् तस्मै तेऽवि- तथेहितायामोषचेष्टाय ते तुभ्यं नमः नमस्करोमीति ॥ ६ ॥ अथ हरिवर्षे मेरोईक्षिणे उपास्योपासकोपासनाप्रकारानाह । ३७२ श्रीमद्भागवतम् [ स्के. ५ अ. १८ इलो. १-८ हरिवर्षे चेति । नरहरिरूपेण नृसिंहरूपेणास्ते सन्निहितो भवति तन्नृसिंहरूपपरिग्रहे निमित्तमुत्तरत्र सप्तमस्कन्धे वक्ष्यामः । तत्प्रियतमं रूपं प्रह्लादस्तद्वर्षपुरुषैः सहाव्यवधानानन्यभक्तियोगेन अव्यवधानः अविच्छिन्नः विघ्नानुपहतः अनन्यः न विद्यतेऽन्यत्फलं यस्य सोऽनन्यः प्रयोजनान्तररहितः तेन भक्तियोगेन उपास्ते आराधयतीत्यर्थः । प्रह्लादं विशिनष्टि महापुरुषो भगवांस्तस्य ये गुणास्तेषां भाजनमाश्रयः भगवद्गुणसमान गुणकः इत्यर्थः, महाभागवतो भागवतश्रेष्ठः दैत्यानां दानवानां च यत्कुलं तत्पचित्रीक्रियतेऽनेनेति दैत्यदानवकुलतीर्थीकरणम् एवंभूतं शीलमाचरितं शीलरूप आचारो यस्य । यहा उक्तविधं शीलं सद्वृत्तिः शौचाचमनसंध्योपासना- दिरूपमाचरितम् आचारो यज्ञदानहोमादिरूपश्च यस्य इदं वक्ष्यमाणमुदाहरति जपति ॥ ७॥ ॐ ॐ इदमादिष्टमेवाह ओमिति । ओं भगवच्छन्दार्थो पूर्ववत् तेजसामपि तेजसे तेजोऽन्तरैरप्रका श्याय सर्वतेजसा प्रकाशायेत्यर्थः । तथा च श्रुतिः न तत्र सूर्यो भाति न चन्द्रतारकम् । नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।” इति कठवलीष्वाम्ना- यते, तद्रूपमेव चाथर्वणे परं ब्रह्माधिकृत्य श्रूयते । अतोऽत्र परं ब्रह्मत्वं विवक्षितम् | आविराविर्भव आविर्भवाविर्भव । आविःशब्दो निपातः प्राकट्यद्योतकः, तस्य द्विर्वचनं पुनः पुनः प्रकटीभवेत्यर्थः । अत्र वज्रवदप्रतिहतनखदंष्ट्रेति सम्बोधनं कर्माशयान् कर्मवासनाः रन्धय रन्धय निर्दहेति द्विर्वचनं ये भूयिष्ठा बहुलास्तान् कर्माशयानित्याशयविशेषणमध्याहारेणेति बोध्यम् । आत्मने महामभयं भयप्रतिभटं यथा तथाविर्भवेत्यनुषङ्गः । यद्वा भूयिष्ठा इति विभक्तिप्रतिरूपकमन्ययं भूयसार्थकं भूयः अभयमाविर्भवेत्यर्थः । अथवाभयं यथा भयाभावं यथा तथा भूयिष्ठाः भूयांसोऽभयं बहुला वयं भवामेत्यर्थः ॥ ८ ॥ Spirits forea भावः ॥ ३ ק insignis OPPIR RESPIRE EE IFFICE E BEP ole pahe श्रीमद्विजयध्वजतीर्थकृता पदरतावली Židum. अनन्तजीवर शेः स्वयोग्यतानुसारेण पूज्या हरेरनन्ताः प्रादुर्भावविशेषाः सन्तीति दर्शयितुमिला वृत्तवर्षभवैः पूज्यां देवतां निगधावशिष्टवर्षभवैः पूज्या देवताः क्रमेणाभ्यामध्यायाभ्यां निरूपयति तथाचेत्यादिना । तस्य भद्रश्रवसः कुलपतयः धर्ममयों ज्ञानोपदेशेन सर्वजगद्धारणाप्रधानभूताम् “हय गतौ” इति धातोः हयन्ति अवगच्छन्ति बुद्धयन्ते सर्वमिति हयाः सर्वज्ञा ब्रह्मादयस्तेषां शीर्षः प्रधान इति हयशीर्षः ॥ १ ॥ * ज्ञानं दत्त्वात्मानं शोधयतीत्यात्मशोधनस्तस्मै ॥ २ ॥ * ॐ आत्मशोधन- पदार्थमाह अहो इति । अयं जनो धनन्तं स्वमृत्युं मिषन् पश्यन्नपि न पश्यति, हि यस्मात्तस्माद्विचित्रं भगवद्विचेष्टितमहो कालात्मनो मृत्योवरित निद्रालोरिव पश्यतोऽप्यदर्शने किं कारणमिति। तत्राह ध्यायन्निति ॥ शाखतोऽसदमङ्गलं शब्दादिविषयजातं ध्यायन् विकर्म सेवते यहि यस्मात्तस्मात् पापलक्षणाखन प्रतिबंद्धचक्षुर्न पश्यतीत्यर्थः । अत्र लुप्तोपमामाह निर्हत्येति । पुत्रो मृतं पितरं निर्हृत्य दहनादिपितृमेध क्रियां कृत्वा जिजीविषुः खजीवनमेवेच्छन्मत्पितृमरणवन्ममापि मरणं भवेदिति युक्तिबलाचिन्तयन्नपि स्वात्मनो मृत्युं न चिन्तयति यथा तथायं जन इति । अतस्तव प्रसादेन शुद्धान्तःकरणस्य पुरुषस्य करतलामलकवद्विश्वं प्रकाशत इति न केवल प्राकृतजनमोहकस्त्वं तु कवीनामप्यतो निरतिशय महिम्नस्तव चरितं चित्रमित्यतस्त्वन्नतिरेव त्वत्प्रसत्तौ प्रधानं साधनमित्याशयवानाह वदन्तीति । किं अनेन कवीनां परोक्षज्ञानिनां वचनमध्यात्मविदामपरोक्षज्ञानिनां दर्शनच जगत्प्रवाह नित्यत्वे प्रमाणमुक्तं भवति, तथापि ज्ञानसामग्रीमन्तोऽपि त्वदनुग्रहमन्तरेण तव विषये मुह्यन्ति । अनेन मुह्यन्ति यं सूरयः’ इत्येतद्विवृतं भवति । सुष्ठु विगतः स्मयाख्यो दोषो यस्मात्स तथा तं सुविस्मयो यथा भवति तथेति क्रियाविशेषणं वा, यत एवं ज्ञानिनोऽपि कर्तव्यं त्वन्मायया न जानन्ति अतो भवानेक एव तज्ज्ञ इत्याह । कृत्यविदमिति ॥ ४ ॥ इदं चास्माकं तब चरित्रं चित्रमित्याह विश्वेति । जगत्सर्जनादिलक्षणं कर्तव्यं त्वयैव कर्तव्यं नान्येनेति यदतस्त्वमेव तदभिज्ञ इत्यतो वै तत्प्रतिपाद- यन्ति विश्वेति न तस्य कार्य करण व विद्यते इति श्रुतेः कार्यकारणादिरहितस्य हरेः प्रपवनिर्माणादिक कथं घटते इत्याशङ्कय महाशक्तित्वादित्यतो वाह विश्वेति । अपिशब्द एवार्थे हिशब्दः अकर्तुः कर्तृत्वघटकयोतकः । हे हरे ! अकर्तुस्तव जगत्सर्जनादि- कर्माङ्गीकृतमेव नैतद्वुप्तमपावृतं वेदादिषु प्रकाशितं मृदब्रवीदित्यादिवेदसिद्धं मृदादिवत्कृत्वं युक्तिविरुद्धत्वाद्यथा नाङ्गीक्रियते तथा- त्रापीति तत्राह युक्तमिति । न हरेः कर्तृत्वमात्रं निषिध्यते किन्त्वायासेन अप्रयासेन कर्तृत्वमकर्तृत्वमिहोच्यते “महाशक्तित्वतस्तच युज्यते परमस्य तु” इति मृदादीनां वक्तृत्वस्य प्रत्यक्षतोऽदर्शनाद्व चाप्तिग्राहकप्रमाणाभावादनुपपत्त्या तनाङ्गीक्रियते अत्र तु ज्ञानिप्रत्यक्ष- सिद्धत्वाद्वैदिकत्वाच्च युक्तं हीत्यभिप्रायः, तथापि निर्विकारस्य हरेर्मायाकर्तृत्वमन्तरेण तात्त्विककर्तृत्वाङ्गीकरणं चित्रमिति तत्राह न चित्रमिति । ज्ञानदौर्बल्यादस्माकमेव चित्रं त्वयि न चित्रं कुतो न चित्र कार्यकारणेऽप्याश्चर्यलक्षणकार्यस्यापि कारणत्वात्, इतोऽपि नेत्याह सर्वात्मनि सर्वस्वामिनि । ननु कार्यकारणत्वे मृदादिवत्तदभिन्नत्वमापन्नमिति तत्राह व्यतिरिक्त इति । निमित्तकारणत्वेन तद्भिन्नत्वं युक्तमिति चशब्देन ध्वनयति । तर्हि लोकविलक्षणश्चेच्छून्यकल्प इति तत्राह वस्तुनीति ॥ ५॥ पदस्याभिप्रायमाह वेदानिति । तमसा मधुनाम्ना दैत्येन तिरस्कृता नपहतान् प्रत्याददे सृष्टी दत्तान् पुनश्च तानेव दैत्यापहतान् दत्तवानित्यर्थः । कवये ब्रह्मणे अवितथेहितायेत्यनेन भगवत इत्यस्यार्थ उक्तः ऐश्वर्यादिगुणसामग्रीमत एवं सत्यकर्मत्वोपपत्तेः “अशक्ताः सत्त्वसृष्टौ हि मायासृष्टिं वितन्वते” इत्यादेः ॥ ६ ॥ ॐ वीर्य शौर्यादयो भक्तिज्ञानादयो वा महापुरुषगुणास्तेषां भोजनं पात्रं महापुरुषगुणभाजनः पुल्लिङ्गस्तु छान्दसः, तान् भजतीति वा प्रकृष्टो हादः शान्त्यादिगुणो यस्य स तथा दैत्यदानवकुलस्य 350 al * धर्मायेति स्कं. ५ अ. १८ श्लो. १८ अनेकव्याख्यासमलङ्कृतम् तीर्थीकरणं शीलं बालचरितं च यस्य स तथा फलकामलक्षणव्यवधानरहितश्चानन्यः असदृशभक्तियोगस्तेन ॥ ७॥ सूर्यादितेजोऽभ्यधिक तेजोरूपाय तमो दैन्यमज्ञानं वा प्रस संहर भूयिष्ठादित्यव्ययं भावय ॥ ८ ॥ ॐ श्रीमजीवगोखा मिट्टतः क्रमसन्दर्भः ३७३ भद्रश्रवस्तु अद्भुतमय भक्तिरसेनोपासत इत्याह भद्रश्रवस इति । समाधिना तदेकावेशेन सन्निधाप्य साक्षात्कृत्य पश्यन्तीति द्रष्टुं प्रवर्तन्त इत्यर्थः । न चित्रमित्यचिन्त्यशक्त्येति भावः, श्रीमह्लादस्तु वीरकरुणाशान्तादिमयभक्तिरसेनोपास्त इत्याह । ओं नम इत्यादि ॥ १९॥ Time is E (ग) भद्रश्रवा ا دارد البتان در قیاست श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी अष्टादशे तु भद्राश्वादिषु षट्सु निरूप्यते । भद्रश्रवःप्रभृतिभिर्हयशीर्षादिसेवनम् ।। । ३ नाम वर्षपतिस्तस्य कुलपतयः सन्तानमुख्याः ॥ १ ॥ * * भद्रभवः शब्दे नाजहत्स्वार्थलक्षणया तणोऽयुच्यते। अतः प्राणभृतः उपदधाती’ तिबलिङ्गसमवायन्यायेन बहुवचनम् । आत्मनो जीवस्यावियामाहिन्यदूरीकरणाद्वि- शोधनाय ॥ २ ॥ घ्नन्तं हिंसन्तं मृत्युं मिषन् पश्यन्नपि न पश्यति, यतः पुत्रं खेन जनितं पितरं स्वस्य जनकञ्च निर्हत्य मृतं दग्ध्वा तन्मध्यवर्ती जनको जनितश्चापि सन् तदुभयधनैर्जीवितुमिच्छति मृत्युम कथं हास्यतीत्यपि नानुसन्धत्त * इत्यतिमोढ्यमिति भावः । ननु पश्चषानपि वासरान् जिजीविषा भगवद्भक्त्यर्थं तादृशस्यापि न विगीतेत्यत आह । विकर्म सेवितुं स्त्रीसङ्गादिसुखं कर्त्तुम् असत् स्वविवाहादिकं ध्यायन् यति तत्रापि यहि पुत्रादिकं निर्हृत्य विश्राम्यति तर्ह्येवेत्याश्चर्याधिक्यं, जिजीविषन्निति पाठः छन्दोभङ्गाभावादतिसमञ्जसः । ननु भद्राश्वादिवर्षाणां भौमस्वर्गरूपत्वात्तद्वासिनां युगपदेव पितुः पुत्रस्य च मृत्युदर्शनं न घटते, सत्यं सर्वा एव वाचो भारतभूमिवर्त्तिनो जनानालक्ष्यैवोच्यन्ते । वयमधन्याः स्वकर्मफलं भुञ्जानाः । अत्र भद्राश्वादिवर्षे पशुवद्वर्त्तामहे ये त्वतिधन्या अपवर्गसाधने भारतभूमण्डले लब्धजन्मानः श्वपचादिजातयोऽपि यत्रानायासेनैव वैकुण्ठपदमपि साधयन्ति तत्रापि कथमेवं मुह्यन्तीति रीत्या ॥ ३ ॥ * * नन्वविद्वान्न पश्यति किमत्र चित्रं तत्राह विदन्तीति । अतस्तव सुविस्मितमत्याश्चर्यमित्यन्वयः । अतः शास्त्रादिश्रमं विहाय तं त्वामजं नतोऽस्मि त्वां भजन्त एव विद्वांस इति भावः ॥ ४ ॥ * * ननु विद्वांसोऽपि ममैव मायया मुह्यन्ति चेत्तर्हि मय्येव दोषं प्रसञ्जयसीति तत्र मायायास्तत्कार्यस्य चि त्वदीयत्वेऽपि त्वं ततः पृथगेव वर्त्तस इत्याह विश्वोद्भवेति । अकर्तुरिति गुणानामेव कर्तृत्वादिति भावः । अङ्गीकृतमुक्तं वेदेनेति त्वय्युपचारादिति भावः । न च जीववत् कर्तृत्वाभिमानादित्याह । अपावृतः त्वं गुणैरावृतो न भवसीत्यर्थः । अपगता आवृदावरणं यस्य तस्येति वा, एतच्च त्वयि युक्तमेव न तु चित्रं मायायारत्वच्छक्तित्वात् तत्कार्याणां कारणे, अतः सर्वात्मनि सर्वस्वरूपे माययाः स्वरूपशक्तित्वाभावात् सर्वतो व्यतिरिक्ते चेति ।। ५ ।। ४ प्रस्तुतावतारचरित्रमाह वेदानिति । तमसा दैत्यरूपेण तिरस्कृतान् अपनीतान् । ना च तुरङ्गश्च तद्रूपो विग्रहो यस्य सः कवये ब्रह्मणे तदर्थमवितथेहिताय सत्य- सङ्कल्पाय ॥ ६ ॥ * उत्तरत्र । सप्तमस्कन्धे तीर्थीकरणं शीलमाचारश्च यस्य सः ज्ञानकर्माद्यमिश्रत्वादव्यवधानः अन्यदेवोपासना साहित्याभावादनन्यश्च यो भक्तियोगस्तेन ॥ ७ ॥ । तेजसामपि तेजसे । कर्माशयान् कर्मवासनाः । कर्माश्रयानिति पाठे रागादीन रन्धय निर्दह अभयं यथा स्यात्तथा आत्मनि मन्मनसि भूयिष्ठाः भूयाः ॥ ८ –SES BP श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः- मी * IPE अष्टादशे भद्राश्वादिषु षट्सु भगवन्नमूर्तयस्तत्सेवकसहिताः निरूप्यन्ते तथा चेति । श्रद्रश्रवाः तस्य कुलपतयः पुत्रादयः पुरुषाः सेवकमुख्याश्च भगवत इदं मन्त्ररूपमभिगृणन्तः तनुं सन्निधाप्य उपधावन्ति स्तुवन्ति ॥ १ ॥ * * भद्रश्रवसः राज्ञः पुत्रादयः सेवकमुख्याश्च तदीयत्वात्तद्गुणयोगाच्च तद्वाचकेन शब्देन गृह्यन्ते, अतो भद्रश्रवस ऊचुरिति बहुवचनम् । भद्रश्रवः प्रधानाः ऊचुरित्यर्थः ॥ २ ॥ घ्नन्तं मृत्युम् । निर्हृत्य दग्ध्वा तदुभयधनेन जिजीविषति जीवितुमिच्छति । किं कुर्वन् असदनित्यं विषयसुखं सेवितुं विकर्म विविधं कर्म ध्यायन् एतद्भगवद्विचेष्टितं विचित्रमत्यद्भुतमित्यन्वयः ॥ ३ ॥ किञ्च विपश्चितो विवेकिनः अध्यात्मविदः आत्मानात्मपरमात्मखरूपादियाथात्म्यविदः कवयः कान्तदर्शिनः विश्वं नश्वरमनित्यं वन्दति पश्यन्ति च तथापि हे अज ! तव मायया गुणमय्या मुह्यन्ति नित्यसुखे त्वयि प्रेम न कुर्वन्ति किन्तु देहगेहादिरूपायां भवदीयमायायामासक्ताः भवन्ति । एतश्च तव कृत्यं विचेष्टितं सुष्ठु चित्रमित्यन्वयः । त्वत्कृपां विना शास्त्रश्रमादिभिरपि त्वयि भक्तिर्न जायते इति भावः । तिथाह भगवान् पूर्वाचार्थ: “कृपास्य दैन्यादियुजि प्रजायते यथा भवेत्प्रेमविशेषलक्षणा । भक्तिर्ह्यनन्याधिपतेर्महात्मन” इति अतस्तं स्वामर्ज नतोऽस्मि, एकवचनमंत्र भद्रश्रवसो मुख्यत्वाभिप्रायेण प्रत्येकाभिप्रायेण वा ॥४॥ अनादितो विषयप्राण्य- भगवद्बहिर्मुखत्वादिस्वदोषसूचनाय एवं जीवानां स्वभावमुक्त्वाथ भगवद्गुणगणं वर्णयन्तस्ततत्वभावमाहुः । विश्वोद्भवेति । वस्तुतः * ૩૭૪ श्रीमद्भागवतम् [ रु. ५ अ. १८ श्लो. १-८ अनन्तशक्तियुक्त निजस्वरूपत एव न त्वन्याश्रयणेन विश्वोद्भवादिकं ते कर्म " तदात्मानं स्वयमकुरुत” इति श्रुतेः । अनेनान्यनिरपेक्षत्व- हेतुत्वादयो गुणा दर्शिताः, कथंभूतस्य अकर्तुः नास्ति कर्त्ता यस्य स तथास्य, अनेन नित्यसिद्धत्वनिः समानातिशयत्वादयो गुणा दर्शिताः । यद्वा संकल्पमात्रेणैव विश्वजन्मादिहेतुत्वात् भोगार्थ कर्तृत्वशून्यत्वात् अकर्तुरिति । अनेन सत्यसंकल्पत्वनित्यानन्द- निधित्वादयो गुणा दर्शिताः । पुनः कथंभूतस्य अपावृतः अपगतः आवृदावरणं यस्मात्तस्य, अनेन स्वरूपतो गुणतश्चापरिच्छिन्नत्वं दर्शितम् । तच्च विश्वोद्भवादिकर्म बुभुक्षुभोगार्थं मुमुक्षुमुक्त्यर्थञ्च वेदेनाङ्गीकृतं गीतमित्यनेन सर्वोपकारित्वकारुण्यवात्सल्यादयो गुणा द्योतिताः । तच्च कर्म त्वयि युक्तं न च त्वयि चित्रमित्यनेनोक्तकर्मणोऽन्यत्राभवत्वं भगवति किश्चिन्मात्रत्वं च दर्शितं भवति कथंभूते कार्यकारणे कार्याणि महदादितृणान्तानि तेषां कारणे पूर्वपूर्वरूपेण तचज्जनके प्रकृतिमधिष्ठाय महत्तत्त्वमुत्पादयति तदधिष्ठायाहङ्कारमित्येवमुत्तरोत्तरं बोध्यम् । अनेन सर्वान्तर्यामित्वादयो गुणा दर्शिताः । सर्वात्मनि सर्वेषां चेतनाचेतनपदार्थाना- मात्मन्याश्रये । ननु सर्वात्मत्वे संसारित्वजडत्वादीनां भगवति प्रसक्तिः स्यादत्राहुः । व्यतिरिक्ते चेति । सर्वचेतनाचेतनात्मत्वेऽपि संसारित्वाल्पज्ञत्वादिभिश्चेतनधर्मैर्जडत्वादिभिर चेतनधर्मैश्वास्पृष्ट इत्यर्थः, अनेन दोषास्पृष्टत्वमुक्तम् ॥ ५ ॥ * * तमसा दैत्यरूपेण तिरस्कृतान् लोपितान् ना च तुरङ्गश्च नृतुरङ्गौ तयोरिव विग्रहो यस्य सः, कवये चतुर्मुखाय यः आददे प्रत्यर्पितवान् तस्मै ते अवितथेहिताय सत्यचेष्टाय नमः ॥ ६ ॥ * * उत्तरत्र सप्तमे स्कन्धे, दयितं प्रियतमम् । महापुरुषगुणभाजनः सद्गुणाश्रयः दैत्यदानवकुलस्य तीर्थीकरणं शीलमाचरितं च यस्य सः अव्यवधानः निरन्तरश्चासावनन्योऽव्यभिचारी चयो भक्तियोगस्तेन उपास्ते आराधयति ॥ ७ ॥ * तेजस्तेजसे तेजसामपि तेजसे “यमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति श्रुतेः । आविराविर्भव प्रकटो भव प्रकटो भवेत्यर्थे द्विरुक्तिरा विर्निपातस्य, हे वज्रनख ! हे वज्रदंष्ट्र कर्माशयान् कर्मवासनाः रन्धय रन्धय निर्दह निर्दह तमोऽज्ञानं प्रस आत्मनि अभयमभयं भूयिष्ठाः भूयात् । मन्त्रस्य आदौ मध्ये अन्ते च बीजानि मङ्गलाद्यर्थानि ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी भद्राश्वादिपु वर्षेषु हरिपूजानिरूपणात् । अष्टादशे पुनश्चात्र भूम्युत्कर्षो निरूप्यते ॥ १ ॥ तदेवं पूर्वाध्याये तामसस्य सङ्कर्षणस्योपासनां तामसो रुद्रः करोतीति निरूपितम्, तथैवात्रापि समानगुणशीलयोरेब सेव्यसेवक भावो बोध्यः, रजस्तमः प्रकृतयः समशीला भजन्ति वा’ इति प्रथम उक्तत्वात् । अन्यथा स्वभाववैलक्षण्येन भजनानुग्रहौ नैव सिद्धयेताम् । तत्तणविशेषस्तु तत्तन्मन्त्रस्तोत्राभ्यामेव ज्ञेयः । एवमपि दोषस्य प्रकटाप्रकटभेदेन द्विविधत्वात्तन्निवृत्त्यर्थं भजनमपि मन्त्रस्तोत्राभ्यां द्विविधमेवेति ज्ञेयम्, कार्यार्थे स्वातन्त्र्येण गृहीतत्वान्न गुणकृतो भगवति कश्चिदोषः । तत्र भद्राश्वे वर्ष रजोयुक्तस्य तमःप्रधानस्य हयग्रीवस्य भद्रश्रवआदिभिस्तथाविधैरुपासनमाह तथा चेति । यथा सङ्कर्षणं रुद्र उपास्ते तथैवेत्यर्थः । भद्राश्ववर्षे भद्रश्रवा नाम वर्षपतिस्तत्कुलपतयः तस्य सन्तानमुख्या सेवकगणमुख्याः पुरुषाश्च साक्षाद्भगवतो वासुदेवस्य हयशीर्षा- भिधानां धर्ममयीं प्रियां तनुं मूर्ति परमेण समाधिना सन्निधाप्य सन्निधिमानीयेदं मन्त्रादिकमभिगृणन्त उच्चारयन्त उपधावन्ति उपासत इत्यन्वयः । हयग्रीवमूर्तेरपकृष्टत्वेन दोषनिवर्त्तकत्वं न स्यात्किं तद्भजनेनेत्याशङ्कयाह धर्ममयीमिति । तत्र हेतुः - साक्षा- दित्यादि । अत एवोपासकानां प्रियामिति ॥ १ ॥ तामसत्वद्योतनायैवैकस्य मुख्यस्य नाम्ना सर्वेषां व्यपदेशः ! भद्रश्रवस ऊचुरिति । तत्र मन्त्रमाहुः - ओमिति । धर्माय धर्ममूर्तये भगवतेऽत एवात्मविशोधनाय उपासकानां रागादिसर्वदोष- निराकरणेन अन्तःकरणविशुद्धिहेतवे नमो नम इतीत्यन्वयः । द्वितीयो नमश्शब्द आदरार्थः । इतिशब्दो मन्त्रसमाप्त्यर्थकः ॥ २ ॥ * * स्तोत्रमाहुः - अहो इति । अहो आश्चर्यं विचित्रमवितर्क्यं भगवतो विचेष्टितं लीला । किं तत्तत्राह - अयं जनो घ्नन्तं हिंसन्तं मृत्युं मिषन् पश्यन्नपि न पश्यति नानुसन्धत्त इति यत् । कथमेवं ज्ञायते इत्याशङ्कय तत्र हेतुमाह - निर्ह त्येति । मृतं पुत्रं बालं पितरं वृद्धं च निर्हृत्य दग्ध्वा स्वयं जिजीविषति जीवितुमिच्छति । नन्वेवं मृत्यवननुसन्धानेन भगवद्भज- नार्थजीवनेच्छा युक्तैवेत्याशङ्कयाहुः - ध्यायन्निति । यहि यतोऽसत्तुच्छं विषयसुखं सेवितुं विकर्म पापमेव ध्यायन् जिजीविषति न भजनार्थमतो नरकपातादिहेतुत्वात् सा न युक्तेति भावः । जिजीविषुरिति तु च्छन्दोनुरोधेन पाठान्तरम् ॥ ३ ॥ नवविवेकिनामेवमननुसन्धानं भवतु, विवेकिनां तु तत्कथं न स्यादित्याशङ्कयाहुः वदन्तीति । यद्यपि कवयो विवेकिनोऽध्यात्मविद उपनिषद्विदो विपश्चितो ज्ञानिनो विश्वं नश्वरं वदन्ति पश्यन्ति च, तथापि तव मायया मुह्यन्ति तन्नाशाननुसन्धानेन नित्यत्वबुद्धया तत्रासक्ता भवन्तीत्यन्वयः । ननु कथमेवं ज्ञानिनामपि मायावशवर्त्तित्वमित्याशङ्कय त्वदीयत्वेन प्रबलत्वादिति सूचयन्नाह- तवेति । मदीयत्वेऽपि कथं प्राबल्यमित्याशङ्कय जन्मादिविकाररहितस्येश्वरस्य शक्तिरूपत्वादित्याशयेन सम्बोधयति – हे अज इति । तथा च तव शरणागतानां साधनान्तरहीनानामपि मायातरणं त्वद्विमुखानां तु सकलसाधनसम्पन्नानामपि मायामोहेन विषया- सक्तिरिति तव कृत्यं कार्यं चरितं सुविस्मितमतिविचित्रमेव । अतः सर्वसाधनश्रमं विहाय त्वामजमहं नतोस्मि । अत्रोक्तेऽर्थे न सन्देहः कश्चित् विद्वज्जनप्रसिद्धमेतदिति द्योतयन्त आहुः- स्मेति । पूर्वं समुदायापेक्षयोपधावन्ति । ऊचुरिति । बहुवचनप्रयोगेऽपि स्तोत्रस्य प्रत्येक कृतिसाध्यत्वपर्यवसायित्वात् नतोस्मीत्येकवचनं न विरुद्धमिति ज्ञेयम् ॥ ४ ॥ * * इदानीं विरुद्धधर्मा- स्क. ५ अ. १८ श्लो १-८ ] । अनेकव्याख्या समलङ्कृतम् ॥ ३७५ श्रयत्वेन स्तुवन्ति–विश्वेति । अकर्तुरपि ते तवं यद्विश्वोद्भवादिकर्म वेदेनाङ्गीकृतं तत्त्वयि चित्रमसम्भावितं न भवति किन्तु युक्तमेवेत्यन्वयः । अकर्तृत्वे हेतुमाहुः - अपावृत इति, अपगता आवृत् मायाद्यावरणं यस्मात्तथाभूतस्येत्यर्थः । ननु कथमकर्तु- रसङ्गस्य कर्म सम्भवतीत्याशङ्कय वस्तुतो व्यतिरिक्तत्वेऽप्यनन्ताचिन्त्यशक्तित्वेन सर्वकार्यकारणत्वात् सर्वात्मकत्वाचेत्याहु:- कार्यकारण इत्यादिना | कार्यकारण इति निमित्तत्वोक्तिः सर्वात्मनीति चोपादानत्वोक्तिः । अचिन्त्यशक्तेर्न किञ्चिदनुपपन्नमित्या शयेनाहुः - हीति ॥ ५ ॥ * * एवं विश्वोद्भवादिकारणत्वेन स्तुत्वा प्रस्तुतावतारचरितं प्रदर्शयन् प्रणमति वेदानिति । युगान्ते प्रलये तमसा निद्रादोषेण तिरस्कृतान् ब्रह्मणो मुखतो विगलितान् सृष्ट्यादौ जातेन मधुदैत्येन हृतान् वेदान यो भगवान नृतुरङ्गविग्रहः ना च तुरङ्गश्व नृतुरङ्गौ तद्रूपो विग्रहो यस्य तथाभूतः संस्तं दैत्यं हत्वा रसातलादानीय अभियाचते कवये ब्रह्मणे प्रत्याददे समर्पितवांस्तस्मै ते तुभ्यं नम इत्यन्वयः । पितामहस्याप्यशक्यं कार्यं कथं कृतवांस्तत्राह – अवितथेहिता येति, सत्य- सङ्कल्पायेत्यर्थः । सङ्कल्पमात्रेण सृष्टयादिकर्तुः किमशक्यमिति भावः ।। ६ ।। ४ ४ हरिवर्षखण्डे भगवदुपासनं दर्शयति- हरिवर्षे चेति । हरिवर्षे चापि भगवान् हरिरूपेणास्ते तदपि तमात्मनः प्रियतमं रूपमव्यवधानानन्यभक्तियोगेन तद्वर्षपुरुषैः सह प्रह्लाद उपास्ते, इदं च मन्त्रस्तोत्रादिकमुदाहरति जपतीत्यन्वयः । तत्र भक्तेरव्यवधानत्वं निरन्तरत्वमनन्यत्वं फलाभिसन्ध्युपाधिराहित्यं बोध्यम् । नन्वेवं स्वरूपं केन निमित्तेन भगवता धृतमिति वीक्षायामाह – तद्रूपेति, तथाभूतस्वरूपग्रहणस्य निमित्तमुत्तरत्र सप्तमस्कन्धेऽभिधास्ये कथयिष्यामीत्यर्थः । ननु दैत्यकुलोत्पन्नस्य प्रह्लादस्य कथमेवंविधा भक्तिः सम्भवतीत्याशङ्का- यामाह - महापुरुषेति । दैत्यकुलोत्पन्नत्वेऽपि महापुरुषाणां ये गुणाः करुणामैत्र्यादयस्तेषां भाजनः पात्रम् । एवं गुणभाजनत्वेऽपि हेतुः- हरावभक्तस्य कुतो महहुणा इति वक्ष्यमाणत्वादनेकजन्मानुष्ठिता भक्तिरेवेत्यभिप्रेत्याह– महाभागवत इति । अत एव दैत्यदानवकुलानामन्येषामपि तीर्थीकरणं शीलमाचरितं च यस्य तथाभूतः ॥ ७ ॥ * * इमं मन्त्रं जपति - ओं नमो भगवते नरसिंहायेति । किमर्थं नमस्कारोऽपि तत्राह - हे वज्रनख वज्रदंष्ट्र त्वमाविराविर्भव प्रकटो भव । वीप्सा आदरार्था । प्रकटीभूय किं कार्यमिति वीक्षायामाह – कर्माशयान् जन्ममरणाद्यनेकविधहेतुभूताः कर्मवासना रन्धय रन्धय दह दह । ननु कर्मवासनामूलभूतस्याज्ञातस्य विद्यमानत्वे कथं तासां सर्वथा निरासः सम्भवति एकदा, तन्निरासेऽपि मूलसत्त्वे पुनरुत्पत्तिसम्भ- वादित्याशङ्कयाह - तमो प्रसेति, तमः सर्वमूलभूतमज्ञानं दूरीकुर्वित्यर्थः । तेन चात्मनि जीवे भयमभयं यथा स्यात्तथा त्वं भूयिष्ठाः भूयाः । उभयत्र वीप्साऽऽवश्यकत्वद्योतनार्था । नन्वज्ञाननिरासं कर्त्तुं मया कथं शक्यते इत्याशङ्कय सम्बोधनाभ्यां द्योतितमपि तत्सामर्थ्यं पुनर्नमस्कारपूर्वकमाह - नम इति, तेजसां तमोनिरासकानामग्न्यादीनामपि तेजसे प्रकाशनशक्तिरूपाय नम इत्यर्थः । नमस्कारावृत्तिराग्रह द्योतनार्था । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम्’ इति सिद्धान्तमङ्गीकृत्य तेजस्तेजस्त्वे हेतुमाह-भगवत इति ॥ ८ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी पूर्वादिक्रमतो मेरोस्ततश्चाष्टादशे त्रिषु । त्रिषूदग्गेषु वर्षेषु राध्याराधकवर्णनम् ॥ १ ॥ एवमिलावृते सेव्यसेवकावभिधाय भद्राश्वादिषु तावाहाध्यायद्वयेन तथेति । तथा च तद्वदेव, यथेलावृते वर्षे तथैवेत्यर्थः । भद्राश्ववर्षे मेरोः पूर्वदिग्वर्त्तमाने खण्डे धर्मसुतो धर्मप्रजापतेस्तनयः, भद्रश्रवाः नाम भद्रश्रवोनाम्ना प्रसिद्धस्तद्वर्षाधिपतिः, तत्कुल- पतयस्तस्य सेवकमुख्याः पुरुषाश्च, साक्षाद्भगवतो वासुदेवस्य, प्रियां धर्ममयीं धर्मप्रचुरां हयशीर्षाभिधानीं हयग्रीवाख्यां तनुम परमेण साक्षात्कारपर्यन्तकाष्ठां गतेन, समाधिना चित्तैकाग्येण, संनिधाप्य साक्षात्कृत्वा, इदं वक्ष्यमाणं वचः, अभिगृणन्तो जपन्तः, उपधावन्ति । वक्ष्यमाणश्लोकैः स्तुवन्तीत्यर्थः ॥ १ ॥ ॥ * भद्रश्रवस ऊचुरिति भद्रश्रवस एकत्वादेकवचनस्य वक्तुं योग्यत्वेऽपि ‘प्राणभृत उपदधाति’ इतिवद्बहुवचनम् । हन्त तर्हि तत्रापि, कुण्डाद्यर्थ कृतखाते कुण्डचयनार्थं प्रथमं वेदमन्त्रसंस्कृता या प्रथमेष्टिका स्थाप्यते सैव प्राणभृत्संज्ञाऽन्यासां तदभावात्तत्रापि न बहुवचनं युक्तमिति चेल्लिङ्गसमवायेन बहुवचनम् । ‘लिङ्गसमवायः’ इति जैमिनिप्रणीत पूर्वमीमांसासूत्रं तत्र लिङ्गे मुख्यलक्ष्मभूतेऽन्येषां समवायः सम्बन्ध इति कृत्वा मुख्यसंबन्धं प्राप्तानाममुख्यानामपि मुख्यनाम्ना व्यपदेशस्तत्रैकसंख्यावति मुख्ये बहुवचनदर्शनेनादौ गणलक्षणालब्धस्य गणस्य गणसंबन्धवति गणिनि योगान्न बहुवचनबाधः । ॐमिति । ओंकारार्थो भगवच्छब्दार्थश्च पूर्ववत् । धर्माय पूर्वोत्तरमीमांसाप्रमेयाय, आत्मान्तः- करणं जीवो वा विशोध्यते येन स आत्मविशोधनस्तस्मै भगवते नमो नमः । इति मन्त्रः ॥ २ ॥ * * अस्य स्तुतिरूपान् श्लोकानाह । तत्र तावद्भगवन्मायाया दुरत्ययत्वद्योतनाय विस्मयमाना आहुः । अहो इति । अयं जनः, पुत्रं स्वतो जातं सद्गुणा- द्युपेतं सुतं, पितरं स्वत्तः स्वयं जातस्तं स्वजनकं च, निर्ऋ त्य दग्ध्वा स्वयं तदुपार्जितैर्धनैरिति शेषः । जिजीविषुर्जीवितुमिच्छुः, तदपि न धर्मार्थं किं तु असतुच्छं, विषयसुखमिति शेषः, सेवितुं यर्हि यदा विकर्म विरुद्धं कर्म पापमेव, ध्यायन् भवति, तदा घ्नन्तं स्वं हिंसन्तं, मृत्युं मिषन्स्वपित्रादिदृष्टान्तेन पश्यन्नपि न पश्यति नात्मन उपसंधत्ते । नालोचयतीत्यर्थः । हि एतत् भगवद्विचेष्टितं भगवन्मायावैभवरूपं विचेष्टनमित्यर्थः । विचित्रं विस्मयनीयं, अहो आश्चर्यम् ॥ ३ ॥ नन्वविद्वान्न पश्यति किमत्र 1 * ३७६ श्रीमद्भागवतम् क .. [ स्कं. ५अ. १८ लो. १-८ चित्रं तत्राह वदन्तीति । कवयोऽधीतवेदान्तविद्याः विपश्चितः विश्वं नश्वरं वदन्ति । शास्त्रतो विचार्य कथयन्तीत्यर्थः । अध्यात्मविदः उपासितस्वात्मपरमात्मानः पश्यन्ति समाधौ निरीक्षन्ते च । तथापि हे अज, तव मायया, मुह्यन्ति मोह प्राप्नुवन्ति । वसिष्ठस्य शक्तिमरण इव विपश्चितामध्यात्मविदामपि पुत्रमरणादिनिमित्तशोकदर्शनादिति भावः । अतः इदं कृत्यं सुविस्मितं विस्मयनीयं ईदृशमोहनिवृत्तये केवलं त्वां प्रपत्स्यामह इत्याहुः । अजं जन्ममरणादिसंसार धर्मप्रतिभटं तं त्वां नतः अस्मि । कर्त्तरि क्तः । नमस्कृतवानस्मि । प्रत्येकाभिप्रायमेकवचनम् ॥ ४ ॥ * * ननु यज्जीवमोहनानुकूलमाया प्रेरण मित्येतचित्रं कियत्, ततोप्येतश्चित्रतरमकर्तुर्मम विश्वसृष्टयादिकर्तृत्वं तच्चाबन्धकमिति तत्राहुः । विश्वोद्भवेति । उद्भवश्च स्थानं च निरोधश्व ते विश्वस्य ये उद्भवस्थाननिरोधास्तदेव कर्म, अकर्तुः, अपगता आवृदावरणं यस्मात्तस्य ते तव वेदेनेति शेषः । अङ्गीकृतं, तत् अपि त्वयि न चित्रम् । हि यतः सर्वात्मनि त्वयि कार्यस्य कारणं तस्मिन् स्रष्टरि सति युक्तम् । कर्तृत्वमिति शेषः । वस्तुतश्च व्यतिरिक्ते निरुपाधौ सति, अनावृतत्वमकर्तृत्वं च युक्तम् । प्रकृतिपुरुषद्वारा जगद्विधातुस्तवा कर्तृत्वमेव तत्कारणत्वेन प्रयोजकत्वेन तत्कर्तृत्वमपि युक्तमुभयमतो न त्वय्येतच्चित्रमिति भावः ॥ ५ ॥ * एवंविधविचित्रशक्तिमत्त्वेन भगवन्तं स्तुत्वाऽथैतदवतारप्रयोजनमाविष्कुर्वन्तो नमस्कुर्वन्ति वेदानिति । युगान्ते कस्मिंश्चिद्दनंदिनप्रलये, तमसा तमः प्रधाने- नासुरेणेत्यर्थः । तिरस्कृतानपनीतान् वेदान, ना च तुरंगश्च नृतुरंगौ विग्रहौ यस्य सः, नृतुरंगभावोपेतशरीरधर इत्यर्थः । यः भवान्, अभियाचते याचमानाय ते तव पुत्रायेति शेषः । कवये ब्रह्मणे रसातलादानीयेति शेषः । प्रत्याददे असुरं हत्वा वेदानानीय ब्रह्मणे दत्तवानित्यर्थः । वै । अवितथेहिताय सत्यसंकल्पाय, तस्मै ते तुभ्यं नमः नमस्कुर्मः इति ॥ ६ ॥ अथ मेरो दक्षिणदिग्वर्त्तिनि
- हरिवर्षे उपास्योपासकोपासनाप्रकारानाह । हरिवर्षे चेति । हरिवर्षे चापि हरिवर्षाख्यखण्डेऽपि, भगवान् नरहरिरूपेण नृसिंहरूपेण, आस्ते अतिसंनिहितो भवति । तच्च तद्रूपं च तस्य ग्रहणं तस्मिन् यन्निमित्तं तत् उत्तरत्र सप्तमस्कन्धे अभिधास्ये वक्ष्यामि । दयित प्रह्लादस्यातिप्रियं तत् रूपं तद्वर्ष पुरुषैः, हरिवर्षखण्डवासिनरैः सह महापुरुषो भगवांस्तस्य ये गुणास्तेषां भाजनमाश्रयः भगवद्गुण- समानगुणक इत्यर्थः । महाभागवतो भागवतश्रेष्ठः । दैत्यानां दानवानां च यत्कुलं तत्तीर्थीक्रियते पवित्रीक्रियते आभ्यां तथाभूते शीलाचरिते यस्य सः, सद्वृत्तिः सदाचारश्चेत्यर्थः । प्रह्लादः, अव्यवधानः फलसंकल्परूपव्यवधानशून्यश्चासावनन्यः प्रयोजनान्तर रहित यो भक्तियोगस्तेन, उपास्ते सेवते । इदं वक्ष्यमाणं च उदाहरति जपति ॥ ७ ॥ * * इदमादिष्टमेवाह । ॐमिति । ओंभगवच्छब्दार्थो पूर्ववत् । तेजसामपि तेजस्तस्मै, तेजोन्तरैर प्रकाश्याय सर्वतेजसां प्रकाशकाय चेत्यर्थः । तथा च ‘न तत्र सूर्यो भाति’ इत्यादिना कठवल्लीष्वाम्नायते । नरसिंहाय नमो नमः । हे वज्रनख हिरण्यकशिपुरोविदारणाय वज्रवत्संपा दितनख, आविराविर्भव पुनः पुनः प्रकटोभव । हे वज्रदंष्ट्र कटकटाचरणेन दैत्यवृन्दमानसे भयोत्पादनाय संपादितवज्रसमानदंष्ट्र, कर्माशयानस्माकमनादिकालसंभूता वासनाः, रन्धय रन्धय निर्दह निर्दह । कर्माश्रयानिति पाठे रागादीनित्यर्थः । श्रौं हे ॐकारविशिष्ट, क्षौंबीजोपास्य, तमोऽस्माकमनाद्यज्ञानं ग्रस ग्रस । अज्ञाननिवृत्तिं कुरु कुर्वित्यर्थः । किं बहुना, आत्मनि अस्माक- मन्तःकरणे, अभयं कालकर्मादिजभयरहितता, स्वाहा देहीत्यर्थः । भूयिष्ठाः निर्भये नो मानसे सदा तिष्ठेत्यर्थः ॥ ८ ॥ " भाषानुवादः भिन्न-भिन्न वर्षोका वर्णन म ।
श्रीशुकदेवजी कहते हैं-राजन ! भद्राश्ववर्षमें धर्मपुत्र भद्रश्रव और उनके मुख्य-मुख्य सेवक भगवान् वासुदेवकी हयग्रीवसंज्ञक धर्ममयी प्रिय मूर्तिको अत्यन्त समाधिनिष्ठा के द्वारा हृदय में स्थापित कर इस मन्त्रका - जप करते हुए इस प्रकार स्तुति करते हैं ॥ १ ॥ * * भद्रश्रवा और उनके सेवक कहते हैं— ‘चित्तको विशुद्ध करनेवाले ओङ्कारस्वरूप भगवान् धर्मको नमस्कार है’ ॥ २ ॥ * * अहो ! भगवान्की लीला बड़ी विचित्र है, जिसके कारण यह जीव सम्पूर्ण लोकोंका संहार करनेवाले कालको देखकर भी नहीं देखता और तुच्छ विषयोंका सेवन करनेके लिए पापमय विचारोंकी उधेड़-बुनमें लगा हुआ अपने ही हाथों अपने पुत्र और पितादिकी लाशको जलाकर भी स्वयं जीते रहने की इच्छा करता है ।। ३ ॥ विद्वान् लोग जगत्को नश्वर बताते हैं और सूक्ष्मदर्शी आत्मज्ञानी ऐसा ही देखते हैं; तो भी जन्मरहित प्रभो ! आपकी मायासे लोग मोहित हो जाते हैं। आप अनादि हैं तथा आपके कृत्य बड़े विस्मयजनक हैं; मैं आपको नमस्कार करता हूँ ॥ ४ ॥ * * परमात्मन् ! आप अकर्ता और मायाके आवरणसे रहित हैं तो भी जगत्की उत्पत्ति, स्थिति और प्रलय — ये आपके ही कर्म माने गये हैं । सो ठीक ही है, इसमें कोई आश्चर्यकी बात नहीं है । क्योंकि सर्वात्मरूपसे आप ही सम्पूर्ण कार्योंके कारण हैं और अपने शुद्धस्वरूपमें इस कार्य कारणभावसे सर्वथा अतीत हैं ॥ ५ ॥ * * आपका विग्रह मनुष्य और घोड़ेका संयुक्त ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति । एक. ५ अ. १८ श्लो. ९-१६ अनेकव्याख्यासमलङ्कृतम् ३७७ रूप है । प्रलयकालमें जब तमः प्रधान दैत्यगण वेदों को चुरा ले गये थे, तब ब्रह्माजीके प्रार्थना करनेपर आपने उन्हें रसातलसे लाकर दिया। ऐसे अमोघ लीला करनेवाले सत्यसङ्कल्प आपको मैं नमस्कार करता हूँ’ ॥ ६ ॥ करता हूँ’ ॥ ६ ॥ * * हरिवर्षखण्डमें भगवान् नृसिंहरूपसे रहते हैं। उन्होंने यह रूप जिस कारणसे धारण किया था, उसका आगे ( सप्तम स्कन्धमें ) वर्णन किया जायगा । भगवान् के उस प्रिय रूपकी महाभागवत प्रह्लादजी उस वर्षके अन्य पुरुषोंकी सहित निष्काम एवं अनन्य भक्तिभाव से उपासना करते हैं । ये प्रह्लादजी महापुरुषोचित गुणोंसे सम्पन्न हैं तथा इन्होंने अपने शील और आचरणसे दैत्य और दानवोंके कुलको पवित्र कर दिया है। वे इस मन्त्र तथा स्तोत्रका जप-पाठ करते हैं ॥ ७ ॥
- ‘ओङ्कारस्वरूप भगवान् श्रीनृसिंह देवको नमस्कार है। आप अग्नि आदि तेजोंके भी तेज हैं, आपको नमस्कार हैं।’ ‘हे वज्रनख ! हे वज्रदंष्ट्र ! आप हमारे समीप प्रकट होइये प्रकट होइये;’ ‘हमारी कर्म-वासनाओंको जला डालिये, जला डालिये। हमारे अज्ञानरूप अन्धकारको नष्ट कीजिये, नष्ट कीजिये । ॐ स्वाहा । हमारे अन्तः करणमें अभयदान देते हुए प्रकाशित होइये । ॐ क्षौम् ॥ ८ ॥ । ।
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । आवेश्यतां नो मतिरप्यहैतुकी ॥ ९ ॥ मनश्च भद्र भजतादधोक्षजे आवेश्यतां मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृच्या परितुष्ट आत्मवान् सिद्धयत्यद्रान तथेन्द्रियप्रियः ॥ १० ॥ यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थ मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥ ११ ॥ यस्यास्ति भक्तिर्भगवत्यकिश्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ १२ ॥ हरिर्हि साक्षाद्भगवान् शरीरिणामात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३ ॥ तस्माद्रजोरागविषाद मन्युमानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति ॥ १४ ॥ केतुमालेऽपि भगवान् कामदेवखरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितृणां पुत्राणां तद्वर्षपतीनां पुरुषायु- बाहोरात्र परिसंख्यानानां यासां गर्भा महापुरुषमहास्त्रते जसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति ॥ १५ ॥ अतीव सुललितगतिविलसितरुचिरहासलेशाबलोकलीलया किञ्चिदुत्तम्भितसुन्दर भ्रमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ॥ १६ ॥ 14. The अन्वयः - विश्वस्य स्वस्ति अस्तु खलः प्रसीदताम् भूतानि धिया मिथः शिवम् ध्यायन्तु च मनः भद्रम् भजतात् नः मतिः अपि अहैतुकी अधोक्षजे आवेश्यताम् ॥ ९ ॥ * * नः अगारदारात्मजवित्तबन्धुषु संग ः मा यदि स्यात् भगवत्प्रियेषु प्राणवृत्त्या परितुष्टः आत्मवान् यः अदूरात् सिद्धयति तथा इन्द्रियप्रियः न ॥ १० ॥ हि यत्संगलब्धम् निजवीर्यवैभवम् मुकुन्दविक्रमम् श्रुतिभिः संस्पृशताम् अन्तः गतः अजः मानसम् हरति तीर्थम् तु मुहुः अङ्गजम् अतः तान् सत्पुरुषान् कः वै न सेवेत ॥। ११ ॥ यस्य भगवति अकिंचना भक्तिः अस्ति तत्र सुराः सर्वैः गुणैः समासते हरौ अभक्तस्य बहिः असति मनोरथेन धावतः महद्गुणाः कुतः ॥ १२ ॥ हि साक्षात् भगवान् हरिः झषाणाम् ईप्सितम् तोयम् इव शरीरिणाम् ।। ।। * आत्मा महान् तम हित्वा यदि गृहे सज्जते तदा दम्पतीनाम् वयसा महत्त्वम् ॥ १३ ॥ * * तस्मात् रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् संसृतिचक्रवालम् गृहम् हित्वा अकुतोभयम् नृसिंहपादम् भजत इति ॥ १४ ॥ * केतुमाले अपि भगवान् लक्ष्म्याः च पुरुषायुषा अहोरात्रपरिसंख्यानानाम् प्रजापतेः दुहितृणाम् पुत्राणाम् तद्वर्षपतीनाम् प्रियचिकीर्षया कामदेवस्वरूपेण महापुरुषमहास्त्रतेजसा उद्वेजितमनसाम् यासाम् गर्भाः विध्वस्ताः संवत्सरान्ते व्यसवः विनिपतन्ति ।। १५ ।। **
- ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा. अभयमभयमात्मनि भूयिष्ठाः ॐ क्षौम् । ४८ ३७८ श्रीमद्भागवतम् [ एकं ५ अ. १८ इलो. ९-१६ अतीव सुललितगतिविलासविलसित रुचिरहासलेशा व लोकलीलया किश्चिदुत्तम्भितसुन्दर भूमण्डलसुभगवदनारविंदद्भिया रमाम् रमयन् इन्द्रियाणि रमयते ।। १६ ।। more श्रीधरस्वामिविरचिता भावार्थदीपिका I & विश्वस्य स्वस्तिप्रार्थने खलस्यापि भवेत्तच साधुपीडां विना न स्यात् । अन्योन्यममंगलं ध्यायतां च भूतानामन्योन्यघातं विना न भवेदित्याशंक्याह । खलः प्रसीदतां प्रसीदतु कौयं त्यजतु । भूतानि च मिथः शिवमेव ध्यायंतु । तेषां मनच भद्रमुप- शमादिकं भजतु । नोऽस्माकमपि मतिरपिशब्दाद् भूतानां च मतिरहैतुकी निष्कामा सती ॥ ९ ॥ * * नः संगः क्वापि मा स्यात् यदि कथंचित्स्यात्ता गारादिषु मा स्यात् किन्तु भगवत्प्रियेष्वेव । अगारादिसंगे दोषमाह य इति । इंद्रियप्रियो गृहाद्यासक्तः ॥ १० ॥ * * भगवत्प्रियसंगे गुणमाह । येषां भगवत्प्रियाणां संगाल्लब्धं मुकुंदविक्रमं श्रुतिभिः श्रवणादिभिः संस्पृशतां सेवमानानां पुंसामंतर्गतोऽजो मानसं मलं हरति । कथंभूतं विक्रमम् । निजमसाधारणं वीर्यवैभवं प्रभावातिशयो यस्य । तीर्थं तु गंगादि मुहुः संस्पृशता मंगजं मलं केवलं हरति न तु वासनाः । तान्को वै न सेवेतेत्यन्वयः ।। ११ ।। मानसमलाप- गमफलमाह यस्येति । अकिंचना निष्कामा | मनःशुद्धौ हरेर्भक्तिर्भवति ततश्च तत्प्रसादे सति सर्वे देवाः सर्वैर्गुणैर्धर्मज्ञानादिभिः सह तत्र सम्यगासते नित्यं घर्सति । गृहाद्यासक्तस्य तु हरिभक्तयसंभवात्कुतो महतां गुणा ज्ञानवैराग्यादयो भवति । असति विषयसुखे मनोरथेन बहिर्धावतः || १२ * * ननु हरिविमुखस्य गृहाद्यासक्तस्यापि लोके महत्त्वं दृश्यते, सत्यं दृश्यते, तत्तू पहासास्पदमिति सहेतुकमाह हरिहति । यथा झषाणां मीनानामीप्सितं तोयमेवात्मा तेन विना जीवनाभावात् । महानति- प्रसिद्धोऽपि गृहे यदि सज्जते तदा दंपतीनां मिथुनानां शूद्रादिष्वपि प्रसिद्ध वयसैव केवलं यन्महत्त्वं तदेतस्य भवति न तु ज्ञानादिना | मिथुनेषु पूज्यमानेषु बीभ्यः पुंसां महस्वं बालमिथुनेभ्यश्च वृद्धमिथुनानां वयसा महत्त्वं यथेत्यर्थः ॥ १३ ॥ यस्मादेवं तस्माद् गृहं हित्वाऽकुतोभयं नृसिंहपादं भजतेत्यसुरानुपदिशति । कीदृशं गृहम् । रजस्तृष्णा रागोऽभिनिवेश: रजआदीनां मूलं कारणमत एव संसृतीनां जन्ममरणादीनां चक्रवाल मंडलमविच्छेदो यस्मात् ॥ १४ ॥ केतुमालेऽपि कामदेव- स्वरूपेणास्त इति शेषः । किमर्थमास्तेऽत आह । लक्ष्म्या इति । प्रजापतिः संवत्सरः । “संवत्सरो वै प्रजापतिः” इति श्रुतेः । तस्य दुहितरो राज्यभिमानिन्यो देवताः पुत्रा दिवसाभिमानिनो देवास्तेषां च प्रियचिकीर्षया । पुरुषायुषा वर्षशतेन यान्यहोरात्राणि तैः परिसंख्यानं गणना येषाम् । षत्रिंशत्सहस्राणामित्यर्थः । यासां दुद्दितॄणां महापुरुषस्य महास्त्रं चक्रं तस्य तेजसा ।। १५ ।। रमां रमयन् स्वीयानींद्रियाणि रमयते । केन साधनेन रमयंस्तदाह । अतीव सुललितया गत्या यो विलासस्तेन विलसितो रुचिरो ह्रासलेशो मंदस्मितं तत्सहितोऽवलोक एव लीला तथा किंचिदुत्तभितमुत्सुमित सुंदरं यद् किंचिदुत्तभितमुत्तुंगतं सुंदरं यद् भूमंडलं तेन सुभगं यद्वदनारविंदं तस्य श्रिया || १६ | || जी एस श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः सरकार की मंत्र जपित्वा प्रार्थयते तच खलस्य स्वस्ति च साधनांप
- तच खलस्य स्वस्ति च साधूनां पीडां कृत्वैव भवति नान्यथेति भावः । अमंगलमभद्रं न भवेत्स्वस्ति न स्यादिति । ननु विषयासक्तिमतां विषयत्यागं विना स्वस्ति न स्यादित्यत आह मनश्चेति । भद्रमनासक्तिं तदपि भक्ति विना भद्रमप्यभद्रमेवेति चेदाह - अधोक्षजे श्रीकृष्णे नो मत्सहितानां विश्वेषामेव मतिर हैतुकी निष्कामा सती आवश्यताम धोक्षजेनैव स्वदयालुतयेत्यर्थः । अत्राद्यैवेति युगपदिति पदोपन्यासाभावात्क्रमेण कालतः प्रह्लादवांछितं भगवान्संपादयिष्यत्येव । न च तर्हि सर्वमुक्तौ ब्रह्मांडानां शून्यत्वप्रसंग इति वाच्यं, जीवशक्तिमायाशक्त्योर्नित्यत्वात्तदैव तेषामनंतानां जीवानां प्रसवादिति विश्वनाथः ।। ९ ।। * * अधोक्षजासत्तेश्च यद्यपि सत्संगदुःसंगौ साधकबाधकौ तदपि सत्संगस्य प्राबल्यात्तस्मिन्सति दुःसंगः स्वत एवापयातीत्याह-मेति । नोऽस्माकं यदि भगवत्प्रियेषु संगः स्यात्तदागारादिषु मैव स्यात् । अत एव तेष्वासक्तिः शनैरपयास्य- तीत्यर्थः । ननु अगारादिराहित्ये भोगासिद्धया क्लिष्टदेहः कथं वर्त्तेतेत्यत आह-य इति । भिक्षान्नादिभिरुद्रपूत्यैव तुष्टः यत आत्मवान धृतियुक्तः अदूरादिति । इंद्रियप्रियस्तु विलंबेनैवेत्यर्थः । यद्वा-यदि भगवत्प्रियेषु संगः स्यात्तदाऽगारादिषु संगो मास्तु । यतो युगपदुभय- संगै सति भक्त्यसिद्ध्याऽसंगस्य ज्ञानजनकस्यापि वैफल्यमेवेति भावः । ननु तर्ह्यलमसंगेन केवलसाधुसंग एवं प्रार्थ्यतां सत्यं तदपि असंगसहितः साधुसँगः शीघ्रफलप्रदो भवतीत्याह-य इति । लब्धभगवत्प्रियसँगः । किञ्च यदि संगः स्यात्तदागारादिषु मा स्यात्किं तु भगवत्प्रियेषु स्यादिति व्याख्यानेऽसंगादपि भगवत्प्रियसंगस्थापकृष्टत्वे व्यंजनयावगमिते भक्तिसिद्धांतापगम उत्तरश्लोकस्यासंगतिः । ‘तुलयाम लवेनापि’ इत्यादि वचनं च विरुध्यते इत्याद्यवधेयम् । प्राणवृत्त्या क्षुत्तृण्मात्रनिवृत्त्या अत्रेत्थं विचार्य जुल्लीस्थाग्निस्तु कमंडलुजलमात्रेणैव शाम्यति दावाग्निस्तु जलघटकोटिभिरपि न शाम्यतीत्यतोऽतितृष्णा व्याप्त मनसां संगे तृष्णावृद्धौ महाननर्थ एव स्याद्विरक्तसंगे तु तद्वद्वैराग्योत्पत्त्या क्षुद्वारकान्नशीतादिव ारकवस्त्रमात्राप्त्यैव संतोषान्मनः:- स्थैर्येऽतीव सुखं स्यादिति ॥ १० ॥ ॐ भगवत्प्रियसंगस्य माहात्म्यमाह-येषां संगादेव लब्धं निजवीर्यवैभवं गोवर्द्धन- धारणादिप्रभावोत्कर्षं सत्त्वशोधकत्वात् तीर्थं श्रुतिभिः संस्पृशतां कर्णैराचम्यतां जनानां मानसमंगजं मनःसंबंधिनं कामंस्क. ५ अ. १८ श्लो. ९-९६ ] अनेकव्याख्या समलङ्कृतम् રં वासनामयम् अजः श्रीकृष्णो हरति दूरीकरोति श्लेषेण मानसं मनश्चाकर्षति कीदृशः सन् श्रुतिभिः श्रवणेंद्रियैरेवांतर्गतः । अतः को मुकुंदस्य विक्रमं गोवर्द्धनोद्धरणादिवीर्य न सेवेतेति तस्य च मुकुंदविक्रमस्य भगवत्प्रियसंगं बिना दुर्लभत्वात्तस्यै- वोत्कर्षः ।। ११ ।। ॐ मुकुंदविक्रमसेवनस्य भक्तित्वात्तस्याश्च साधुसंगलब्धायाः परमोत्कर्षकत्वात्तद्वतो भक्तस्याप्यु- त्कर्षमाह-यस्येति । नित्यं वसंतीति । सर्वदेवमयः स एव स्यात्तत्सेवयैव सर्वदेवसेवा स्यादिति भावः । यद्वा-सुरा इंद्रियाधिष्ठातारो रुद्रादयः सर्वैर्गुणैरेव सह न तु दोषैरित्यर्थः । तेन तस्याहंकारादीनामिंद्रियाणां दुरभिमानादयो दोषा नैव भवतीति भावः । अभक्तस्य तु महद्गुणा महतो भक्तिमतस्तस्य ये निर्दोषा गुणास्ते कुतः । यदि च शास्त्रज्ञत्वादयो गुणाः स्युस्तदा खल्वीयमत्सरा- दिदोषसहिता एव स्युः । असति सद्भिर्निद्येऽविद्यमाने वा बहिर्लाभप्रतिष्ठादिसुखे मनोरथेनापि धावतः । यद्वा- समासते इति सुरा इंद्रियाधिष्ठातारोऽन्यत्र सांसारिकलोके संसारप्रवर्त्तकत्वेन दोषैरेव सहासते, ज्ञानिलोके नित्यमध्यात्मादिलयभावनावति न सम्यगासते, किन्तु अस्मत्त एव ज्ञानमवाप्य पुनरस्मानेव संजिहीर्षावस्मित्कृतध्ने पुंसि स्थिता वयमद्य श्वो वा मरिष्याम एवेति सभयोत्कंपमेवासते । भक्तजने तु प्रतिदिनं भगवन्माधुर्य एवाध्यात्मादिकं संचारयति सति सर्वैर्गुणैरेव सम्यगासते । वयं कृष्णायसजातयः प्राकृता अप्यप्राकृताः कृष्णस्पर्शसंयोगात् कार्ण्य प्राप्तदिव्यजातरूपगुणा नित्यमेव भगवन्माधुर्यामृते विहरतोऽत्र पुंसि नूनमतिमृत्यवो भवामेति सानंदचमत्कारं निश्चलीभवतीत्यर्थः । अन्यत्समानम् ॥ १२ ॥ * * इत्यर्थ इति । वयोमहत्त्वं ।। ।। हि न महत्त्वहेतुरपि तु ज्ञानमहत्त्वस्यैव “छंदोभ्योऽन्यत्र नो ब्रह्मन्वयो व्येष्ठयस्य कारणम्” इति न्यायेन तद्धेतुत्वश्रुतेरिति भावः । अत्र विश्वनाथः कश्चिन्झषजातिर्यथा तोयमपि हित्वा बहिस्तदादिषु सुखार्थं प्रचरन् जीवन्मृतो भवति तथैव हरिविमुखो जीवन्मृत एव स न तु महानिति भावः । तदपि यदि लोके महान्स्यात्तदा वयसा यौवनेनैव दंपतीनां यथा महत्त्वं तथा यूनोदपत्योर्यथा परस्परमादरस्तथा न वृद्धयोनपि बालयोः दंपतिपूजायाश्च यौवनविशिष्टावेव दंपती वस्त्रालंकारादिभिरधिकं पूज्येते न तथा वृद्धाविति ॥ १३ ॥ * यस्मादेवं गृहे महत्त्वं नास्ति तस्माद्धेतोः । अत एक रजआदिमूलत्वादेव । गृह एवं संसृति- स्तिष्ठतीति भावः ॥ १४ ॥ * * लक्ष्मीस्तु दास्यसंवलितशुचिरसेन स्तौति कामेन कंदर्पविलासेन दीव्यतीति कामदेवस्त- त्स्वरूपेण । संवत्सरप्रजापतित्वे श्रुतिमाह-सँव्वत्सर इति । प्रजापतिः संवत्सरात्मकः कालस्तदभिमानी देव एव तस्य दुहितृणां पुत्राणां च रात्रिदिवसाभिमानिनां देवानां प्रियचिकीर्षया पुरुषायुषेति कथनसमकालकलियुगापेक्षयोक्तवर्षशतेन यान्यहोरात्राणि तैर्गणना येषाम् । इत्यर्थ इति । यः शतवर्ष जीवति स पत्रिंशत्सहस्रदिनानि जीवतीति भावः । दुहितृणां पतिमतीनां दिवस- सहितानां रात्रीणामित्यर्थः । महास्रतः कालचक्ररूपात् । गर्भाः क्षणलवाद्यात्मंकाः कालाः । यद्वा-वर्षभोन्यानि लोकानां प्रारब्ध- कर्मफलान्येव ता रात्रीनिमित्तीकृत्योद्भूतत्वात्तासामेव गर्भा इत्युत्प्रेक्षते तथा तेषां संवत्सरात्मस्थूल कालांते भोगेन क्षय एव गर्भपात - त्वेनोत्प्रेक्षितः । अहोरात्र्यधिष्ठात्र्यो देवतास्ताः प्राकृतलोकवर्त्तिन्यो भगवंतमुपास्य बैकुंठ एव तद्भक्तानामनश्वर प्रेमसेवासुख- निमित्तरूपा भविष्यतीत्युपासना फलं च द्रष्टव्यम् ।। १५-१६ ।। PT. ናፍቆ श्रीमद्वीरराघव्याख्या फ
- । । । श्लोकानाह स्वस्तीति । विश्वस्य जगतः स्वस्ति मङ्गलं भूयात् । ननु विश्वस्य स्वस्तिप्रार्थने खलस्यापि भवेत्तच साधुपीडा विना न स्यादन्योऽन्यमङ्गलं ध्यायतां भूतानां परस्परं घातं विना न भवेदित्याशङ्क्याह । खलः प्रसीदतां खलो दुर्मतिः प्रसन्नी भवतु क्रोधादिकं परित्यज्य सुमतिर्भवत्वित्यर्थः । भूतानि मिथः परस्परं केवलं शिवमेव धिया सुमत्या ध्यायन्तु तेषां भूतानां मनच भद्रमुपशमादिकं भजतु नोऽस्माकं मतिरपिशब्दाद् भूतानां च मतिः अहैतुकी फलाभिसंधिरहिता सत्यधोक्षजे भगवत्या वेश्य- तामावेशिता भवतु । भगवत्प्रवणा भवत्वित्यर्थः ॥ ९॥ मेति । नोऽस्माकं सङ्ग आसक्तिः कापि मा न स्यात् । यदि कापि कथंचित्स्यान्तर्ह्यगारादिषु न स्यात्किन्तु भगवत्प्रियेषु भागवतेष्वेव स्यात्तत्रागाराणि गृहाः भवत्वगारादिष्वप्यासक्तिस्तत्र को दोष इत्याशङ्कायां भागवतसङ्गगृहादिसङ्गयोर्गुणदोषावाह । यः पुमानात्मवान् भगवत्प्रियसङ्गेन समाहितमनाः प्राणवृत्त्या प्राणधारण- मात्रोपयुक्त वस्तुपरिग्रहेण परितुष्टः यथा सिध्यति भगवत्कथाश्रवणाचार्योपसत्त्यादिप्रणाड्या दूरादाशु मुक्तो भवति न तथा इन्द्रियप्रियः इन्द्रिय पोषणप्रियः शब्दादिविषयप्रवणचित्तः सिध्यतीत्यर्थः ॥ १० ॥ पुनः सत्सङ्गतेः सिद्धिहेतुत्वमेव प्रपनयति यत्सङ्गेति । येषां भगवत्प्रियाणां ज्ञानिनां सङ्गेनैव लब्धं प्राप्तं निजवीर्यवैभवं मचित्तस्य भगवद्धयानसामर्थ्यं भगवत्प्रिय- सङ्गेनैव मया लब्धमित्यर्थः । तथा हि तीर्थं गङ्गादितीर्थवत्पवित्ररूपं भगवद्यशः मुहुः संस्पृशतां सम्यक्सेवमानानां मानसं श्रुतिभिः श्रोत्रेन्द्रियैरन्तः प्रतिष्ठितो भगवानङ्गजमन्तर्गतमलं हरति निर्मलं च मनः तद्धयानसमर्थमिति भावः । अत ईदृशं मुकुन्दस्य विक्रमं यशः को वै पुमान्न सेवेत मुकुन्दविक्रमसेवा च भगवत्प्रियसङ्गायेति सङ्गतिरेव प्रार्थ्यते इति भावः । यद्वा येषां भगवत्प्रियाणां सङ्गाल्लब्धं प्राप्तं निजवीर्यवैभवं निजशब्दो भगवत्परः भगवद्वीर्यवैभवं मुहुः संस्पृशतां पुंसां श्रुतिभिः श्रोत्रेन्द्रियव्यापारैः श्रवणा- दिभिरन्तः प्रविष्टो भगवान्मानसं मनःसम्बन्धिमलं हरति । तत्र दृष्टान्तः यथा भगवच्चरणाम्बुजातं गङ्गादितीर्थ संस्पृशतामङ्गजं शारीरमलं हरतीति शेषः पूर्ववत् । अथवा यत्सङ्गलब्धं निजवीर्यवैभवं निजासाधारणं वीर्यवैभवं प्रभावातिशयो यस्य तथाभूतं मुकुन्दस्य विक्रमं मुहुः संस्पृशतां श्रुतिभिरन्तर्गतोऽजो मानलं मलं हरति यथा तत्पादाम्बुजतीर्थमङ्गजं मलमिति वा योजना | अन्न 1 ३८० श्रीमद्भागवतम् [ स्की ५ अ. १८ लो. ९-१६ न सेवेतेत्यत्र तं मुकुन्दविक्रममित्यध्याहारः, तस्य संस्पृशतामित्यनेनान्वितत्वादवृत्तिर्वा, मुकुन्दविक्रममित्यस्याद्ययोजनायां तु तीर्थप्रदस्य गौण्या वृत्त्या भगवद्यशसि वृत्तिः अङ्गशब्दस्य मनः परत्वं च । द्वितीययोजनायां तु न कोऽपि दोषः, एतत्सङ्गतेर्भगवद्यशःश्रवणं ततो मनोनैर्मल्यं ततस्तस्य भगवद्यानसामर्थ्यं ततश्च भगवदुपासना ततोऽपि च सिद्धिरिति प्रणाडी दर्शिता भवति ॥ ११ ॥ * * इदानीं भगवद्भक्ति प्रस्तौति यस्येति । अकिञ्चना नास्ति किञ्चन यस्याः सा अकिञ्चना किञ्चिदेहिकामुष्मिकं च फलमनवलम्बमाना सम्यगासते तमेवानु- भगवति भक्तिर्यस्य पुंसोऽस्ति तत्र भगवद्भक्तौ सत्यां देवा इन्द्रादयः सर्वैर्गुणैर्द्धमादिभिः शमदमादिभिश्च सह मनवलम्बमाना । वर्तन्ते इत्यर्थः । एवं भक्तस्य सद्गुणाश्रयत्वमुक्त्वाभक्तस्य तद्भावमाह हराविति । हरौ भगवत्यभक्तस्यात एवासति शब्दादौ मनोरथेन बहिर्द्धावतः विचिन्वतः महद्गुणा महतां भगवद्भक्तानां ये गुणा उक्तास्ते कुतः कस्माद्धेतोः भवेयुः । अतोऽभक्तस्य न महद्गुणाश्रयत्वमित्यर्थः ॥ १२ ॥ ननु विषयासक्तोऽपि कश्चिल्लोके महानेव दृश्यतेऽत आह हरिरिति । यथा झषाणां । मीनानामीप्सितं तोयं जलमिवात्मधारकं तेन विना जीवनाभावात् तथा शरीरिणां देहिनां साक्षाद्भगवानेवात्मा धारकः । तथा च श्रुतिः “को ह्येवान्यत्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्” । “निरतिशयानन्दरूप आकाशः सर्वप्रकाशकः परमात्मा यदि न स्यान्नोपासितः स्यात्तदा को ह्यन्यादैहिकामुष्मिक सुखसम्पादनेन जीवयेत् को वा प्राण्यादापवर्गिकसुख सम्पादनेनोज्जीवयेत्” इति श्रुत्यर्थः । तथा च स्मरति भगवान् वाल्मीकिः “न च सीता त्वया हीना न चाहमपि राघव ! मुहूर्त्तमपि जीवावो जलान्मत्स्या- विवोद्धृतौ ॥” इति हि यस्मादेवं तस्मात्तं भगवन्तं महानपि वयोरूपपश्वन्नपुत्रधनादिसमृद्धोऽपि हित्वा यदि गृहे सज्जते आसतो भवति । महान्तमिति पाठे महत्पुरुषं भगवन्तं विहायेत्यर्थः । तदा दम्पतीनां वयसा महत्त्वं न तु ज्ञानादिभिरित्यर्थः । मिथुनीभूतानां यद्वयआदिभिर्निर्वृत्तः क्षणिकोऽन्ततो निरतिशयदुःखहेतुः सुखलेशः तत्कृतमेव तेषां माहात्म्यं न तु निरतिशयानन्दापादकस्वात्मपर- मात्मयाथात्म्यानुभवकृतमिति भावः ॥ १३ ॥ * * तस्मादिति । तस्माद्भगवद्भक्तेर्निरतिशय सुखहेतुत्वाद्विषयासक्तेर्निरति- शयदुःखहेतुत्वाच रजआदीनां मूलं संसृतिचक्रवालं संसारपरिवृत्तिहेतुं गृहं संसृतिर्जन्ममरणरूपा तस्याश्चक्रवालं मण्डलमविच्छेदो यस्मात् गृहं हित्वेत्यर्थः, नृसिंहस्य पादं भजतां कुतो भयं दुःखं न तु कुतोऽपि भयमित्यर्थः । तत्र रजः कामः विषयाभिलाषरूपः रागः क्रोधः विषयानुभवविरोधिविषयः विषादः विषयविहतिनिमित्तः शोकः मानोऽहङ्कारः महाजनावमानहेतुः मन्युस्तज्जन्यः क्रोधः स्पृहा परदारधनादिष्वीप्सा भयमागामिदुःखे हेतुदर्शनज्ञानजं तब्जं दैन्यं मनसोऽवसादः आधिस्तत्कृता मनः- पीडा ॥ १४ ॥ * * अथ केतुमाले वर्षे उपास्योपासकादीनाह केतुमालेऽपीति । भगवान्कामदेवरूपेण प्रद्युम्नरूपेण केतुमाले वर्षे आस्त इति शेषः । किमर्थं लक्ष्म्याः प्रियं कर्तुमिच्छया किं च प्रजापतेः संवत्सरस्य “संवत्सरो वै प्रजापतिः” इति श्रुतेः । तस्य दुहितरो राज्यभिमानिन्यो देवताः पुत्रा अहरभिमानिनो देवाः केतुमालवर्षाधिपतयः तासां तेषां च पुरुषायुषा अहोरात्र- संख्यानानां पुरुषस्यायुः पुरुषायुषम् ‘अचतुरविचतुरे’ त्यादिना निपातनात्समासान्तो ऽच्प्रत्ययः । एकं पुरुषायुषं वर्षशतमहोरात्र - महोरात्र स्थानीयं परिसंख्यानं गणनं येषां ते तथोक्ताः अहश्च रात्रिश्चाहोरात्र: “अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः” इति समा सान्तोऽच्प्रत्ययः, पुरुषायुषपरिमाणकमहोरात्रं येषामित्यर्थः । षट्त्रिंशत्सहस्रपरिमितायुषाणामिति यावत् तेषां प्रियचिकीर्षया च यासां प्रजापतेर्दुहितृणां रात्र्यभिमानिनीनां देवतानां कथंभूतानां महापुरुषस्य भगवतो महास्त्रस्य चक्रराजस्य तेजसा उद्वेजितं भीतं मनो यासां तासां गर्भाः संवत्सरान्ते गर्भाधानादारभ्य तत्संवत्सरान्ते विध्वस्ता अत एव व्यसवः विगतप्राणाः सन्तो निपतन्ति ।। १५ ।। * * अतीवेति । तत्र रमां लक्ष्मी रमयन् स्वीयानीन्द्रियाणि रमयते, केन साधनेन रमयन् तदाह । अतीव सुललितया सुन्दरया गत्या यो विलासस्तेन विलसितो रुचिरो हासलेशो मन्दस्मितं तत्सहितोऽवलोक एव लीला तया- किञ्चिदुत्तम्भितमुत्तुङ्गितं सुन्दरं यद्भूमण्डलं तेन सुभगं यद्वदनारविन्दं तस्य श्रिया शोभया भगवतस्तन्मायामयं मायाप्रचुर- मात्मीयसङ्कल्पेन परिगृहीतमित्यर्थः । ज्ञानपर्यायोऽत्र मायाशब्दः, रमां लक्ष्मीं देवीं देवस्य भगवतः सम्बन्धिनीं “पुंयोगादाख्यायाम्” इति ङीष्, संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिः राज्यभिमानिनीभिर्देवताभिरुपेता सती संवत्सरस्याहस्सु च तद्भर्तृभिः राज्य- भिमानिदेवताभर्तृभिर्दिवाभिमानिभिर्देवैरुपेता परमेण समाधियोगेन उपास्ते ।। १६-१७ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली विश्वस्यार्थे स्वस्त्यस्तु नृसिंहः प्रसीदतां हे हरिवर्षजनाः ! भद्राण्युद्दिश्य नृहरिं ध्यायन्तु । शिवं नित्यशुद्धं मनोधिया शास्त्रमननेन उपासनालक्षणध्यानेन च मनश्च भद्रं सकलमङ्गलरूपं हरिं भजतात् नोऽस्माकं मतिरप्यधोक्षजे आविश्यताम् अहैतुकी फलाभिसन्धिरहिता ॥ ९ ॥ * * मनआदेयेकविषयत्वे इत्थंभावलक्षणं साधनमाह मागारेति । गृहादिषु सङ्गो मा भूत् यदि सङ्ग आवश्यकस्तर्ह्यस्माकं भगवत्प्रियेषु स्यात् । ननु गृहादिसङ्गाभावे जीवनाभावेन देहपातलक्षणानर्थः स्यादिति तत्राह य इति । यः प्राणवृत्त्या प्राणधारणलक्षणजीवनस्थितिमात्रेण परितुष्टः स आत्मवान् वशीकृतमना अदूराच्छीघ्रं सिद्धयति, संसारमुक्तो भवति यथा मुक्तसङ्गस्तथेन्द्रियप्रियो मुक्तो न स्यादित्यर्थः ।। १० ॥ ॥ १० ॥ * * महात्मनां सङ्गात्किं फलं स्यादवाह यत्सङ्गेति । येषां भगवत्प्रियाणां सेवालक्षणसङ्गाद्धरेर्निजमौत्पत्तिकं वीर्य माहात्म्यं वैभवं विभुत्वं व्याप्तत्वलक्षणं च यस्मिन् तीर्थे तत्तथा तादृशं तीर्थ वेदान्तशाखं मुहुर्निरन्तरं संस्पृशतां श्रवणादिनाभ्यस्यतां पुंसां मानसं विषयसंसर्गगतं मनोगतमंहो हरति, अजः : .: रुक. ५ अ. १८ श्लो. ९-९६ अनेकव्याख्यांसमलङ्कृतम् ३८६ कथं श्रुतिभिः श्रवणेन्द्रियद्वारेणान्तर्गतः हृदयं प्रविष्टः ततः किं यत एवंविधफलमतः को वै मुकुन्दविक्रमं न सेवेत रसज्ञ इति शेषः । यद्वा यस्य हरेः श्रीपादसङ्गाल्लब्धं यस्य तीर्थस्य निजवीर्यवैभवं तादृशं गङ्गादितीर्थं मुहुः संस्पृशतां दर्शनस्पर्शनादिना सेवमानानां पुंसां मानसमंहः सोऽजो हरति, हि यस्मात्तस्मान्मुकुन्दस्य गृहीतवामनांद्यवतारस्य विक्रमं त्रैलोक्यविक्रमलक्षणं चरितं कः पुरुषो न सेवेत । यद्यपि बाह्यं स्नानादिना हरत्यान्तरसंहः कथमित्यत उक्तम् अन्तरिति । बहुवारं श्रोतव्यमित्यभिप्रायेण श्रुतिभिरित्युक्त- मिति ॥ ११ ॥ * * भक्तेरिन्द्रियाधीनत्वेनेन्द्रियाणां च स्वाभिमानिदेवताधीनत्वेन तत्प्रसादमन्तरेण इन्द्रियाणामात्माव- शत्वेन भक्तिकरणानुपपत्तिरित्याशङ्कय भगवद्भक्त्या देवप्रीतिरपि तदविनाभूतेति भावेनाह यस्येति । व्यतिरेकेणापि हरौ भक्तिः कर्तव्येत्याह हराविति । महतां गुणा असत्यमङ्गले बहिः शब्दादिविषये धावनमेवावशिष्यते न त्वात्मसुखमित्यतो धावत इति ॥ १२ ॥ * * भगवद्भक्त्याभिमानिदेव प्रीतिमुपपादयति हरिहति । आत्मा जीवनः अत्रापि व्यतिरेकमाह हित्वेति । महान्तमनाद्यनन्तकालीनं हरिं हित्वा यदि गृहे सज्जते बहुकालं जीवति तदा वयसा आयुषा दम्पतीनां महत्त्वं न गुणतः गुणतो महत्त्वं हरिभक्त्यैवेत्यर्थः ॥ १३ ॥ उपसंहरति तस्मादिति । यस्माद्गृहं रजोरागादिमूलं तस्मान्नृसिंहपादं भजतेत्यन्वयः । संसृतिचक्रवालं संसारावृत्तिहेतुभूतम् ॥ १४ ॥ * कामदेवस्वरूपेण कामदेवसन्निहितप्रद्युम्नाख्यात्मरूपेण प्रजापतेर्दुहितृणां केतुमालवर्षपतीनां लक्ष्म्याश्च प्रियचिकीर्षयेत्यनेन हरेर्भक्तवत्सलतैव प्रयोजनं नान्यदिति दर्शितं, पुरुषायुषा शतवर्ष- सयानेन यान्यहोरात्राणि तैः षड्विंशत्सहस्रैः परिसङ्ख्यानं गणनं यासां तास्तथा तासां महापुरुषो हरिस्तस्य महास्त्रतेजसा सुदर्शनचक्रतेजसा व्यसवः गतप्राणाः ॥ १५ ॥ * * उत्तम्भितमूर्ध्वं नीतं सुभगं सुन्दरमिन्द्रियाणि रमयते, द्रष्ट्रीणा- मिति शेषः ।। १६ ।। ॥ १६ ॥ E F F ॥ ॥ * मित्र या घडी श्रीमजी वगोस्वामिकृतः क्रमसन्दर्भः TREET713 FISH FIS SIP PISE.
मागारेति तदेवोपपादयति । यः प्राणेत्यादिलक्षणः स यथा सिध्यति तथेन्द्रियप्रियो न सिध्यति, तदेवं तारतम्ये सत्यपि यदि नः सङ्गः स्यात् तदागारादिष्वन्येषु च सर्वथा मा स्यात् किन्तु भगवत्प्रियेषु स्यादेवेत्यर्थः । प्राणवृत्त्या क्षुतृणमात्र शान्त्येत्यर्थः । आत्मवान् सङ्गरहितः ।। १० ।। यत्सङ्गलब्धं तीर्थभूतं मुकुन्दविक्रमं संस्पृशतां श्रवणेन्द्रियैरन्तर्गतोऽजः मानसं मनो हरति । अकिञ्चनभक्त्युद्रेकेणाकर्षति । अन्यत् टीकया च समम् अङ्गजं कामं च हरति खण्डयतीत्यन्वयः ॥ ११ ॥ किन यस्येति । सुरा भगवदादयः सर्वैर्गुणैरिति यदृच्छयैवेत्यर्थः । समासते वशीभूय तिष्ठन्ति ।। १२ ।। * * हित्वेत्ययमर्थः । तं हित्वा यदि गृहे सज्जते तदा यदि महानुच्यते तदा दम्पतीनां कामार्थं युग्मीभूतस्त्रीपुंसानां वयसा यौवनमात्रेणापि महत्त्वमादरो दृश्यते । द्वयोर्यूनोः परस्परमादरः स्यात् । एकत्र तु एकत्रैवेति अर्थान्तरे तु नृणामादरमात्रेणैव चरितार्थता स्यात् । किं दम्पत्तीग्रहणेन दम्पत्योः पुरुषमहत्त्वे च वयसेत्यनन्वितं स्यात् ॥ १३-१४ ॥ * * लक्ष्मीस्तु स्वसम्वलितशुचिरसेन स्तौतीत्याह केतुमाल इत्यादिना । एवमग्रेऽप्यनुसन्धेया, तत्र पुरुषायुषेति कथनसमकाल कलियुगा- पेक्षयोक्तम् ।। १५-१६ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी मन्त्रं जपित्वा प्रार्थयते स्वस्तीति । विश्वस्य स्वस्तिप्रार्थने खलस्यापि भवेत् । तच्च साधुपीडां विना न स्यादित्यत आह । खलः प्रसीदतां क्रौर्यं त्यजतु, साधुमपीडयतामपि परस्परवैराणां भूतानां परस्परघातं विना स्वस्ति न भवेदित्यत आह ध्यायन्त्विति । तदपि विषयासक्तिमतां विषयभोगं बिना स्वस्ति न स्यादित्यत आह मनश्चेति । भद्रमनासक्ति तदपि भक्ति विना भद्रमध्यभद्रमेवेत्यत आह । अधोक्षजे श्रीकृष्णे नो मत्सहितानां विश्वेषामेव मतिरहेतुकी निष्कामा सती आवेश्यताम- धोक्षजेनैवेत्यर्थः । अत्र अद्यैवेति युगपदिति पदोपन्यासाभावात् क्रमेण कालतः प्रह्लादवाञ्छितं भगवान् सम्पादयिष्यत्येव । न च तहि सर्वमुक्तौ ब्रह्माण्डानां शून्यत्वप्रसङ्ग इति वाच्यम् । जीवशक्तिमायाशक्त्योर्नित्यत्वात्तदा तदेव तावतामनन्तानामन्येषां जीवानां प्रसवादिति ॥ ९ ॥ अधोक्षजासंक्तेश्व यद्यपि सत्सङ्गदुःसङ्गौ साधकबाधकौ तदपि सत्सङ्गम्य प्राबल्यात् तस्मिन् सति दुःसङ्गः स्वत एवापयातीत्याह । मेति । नोऽस्माकं यदि भगवत्प्रियेषु सङ्गः स्यात्तदा अगारादिषु मैव स्यात् स्वत एव तेष्वासक्तिः शनैरपयास्यतीत्यर्थः । नन्वगारादिराहित्ये भोगासिद्धया क्लिष्टदेहः कथं वर्त्तेतेत्यत आह य इति । प्राणवृत्त्या भिक्षान्नादिभिरुदरपूयैव तुष्टः यत आत्मवान् धृतियुक्तः । अदूरादिति । इन्द्रियप्रियस्तु विलम्बेनैवेत्यर्थः । यद्वा यदि भगवतप्रियेपु सङ्गः स्यात्तदा अगारादिषु सङ्गो मास्तु । यतो युगपदुभयसङ्गे सति शीघ्रं न भगवन्तं प्राप्नोतीत्याह य इति । यद्वा अगारादिषु सङ्गो मास्तु, यदि भगवत्प्रियेषु सङ्गः स्यात्तदेव । भगवत् प्रियसंगाभावे सति भक्त्यसिद्धया असंगस्य ज्ञानजनकस्यापि वैफल्य- मेवेति भावः । ननु तर्ह्यलमसंगेन केवलः साधुसंग एव प्रार्थ्यतां, सत्यं तदपि असङ्गरहितः साधुसङ्गः शीघ्रफलप्रदो भवतीत्याह य इति । लब्धभगवत् प्रियसङ्गः किञ्च यदि सङ्गः स्यात्तदा अगारादिषु मा स्यात् किन्तु भगवत् प्रियेषु स्यादिति व्याख्याने असङ्गादपि भगवत्प्रसङ्गस्याकृष्टत्वे व्यञ्जनयावगमिते भक्तिसिद्धान्तापराम उत्तर श्लोकार्थस्यासङ्गतिः ‘तुलयाम लवेनापी ‘त्यादि वचनच बार श्रीमद्भागवतम् । [स्क. ५ अ. १८ लो. ९-१६ विरुद्धचत इत्याद्यवधेयम् ।। १० ।। * * भगवत्प्रियसङ्गस्य माहात्स्यमाह । येषां सङ्गादेव लब्धं निजवीर्यवैभवं श्रीगोबर्द्धन- धारणादिप्रभावोत्कर्षं सत्त्वशोधकत्वात्तीर्थं श्रुतिभिः संस्पृशतां कर्णैराचम्यतां जनानां मानसमङ्गजं मनःसम्बन्धिनं कामं वासनामयमजः श्रीकृष्णो हरति दूरीकरोति श्लेषेण मानसं मनश्चाकर्षति । कीदृशः सन् श्रुतिभिः श्रवणेन्द्रियैरेव अन्तर्गतः, अतः को मुकुन्दस्य विक्रमं गोवर्द्धनोद्धारणादिवीयं न सेवेतेति तस्य च मुकुन्दविक्रमस्य भगवतप्रियसङ्ग विना दुर्लभत्वात्तस्यैवो- त्कर्षः ॥ ११ ॥ * * मुकुन्दविक्रमसेवनस्य भक्तित्वात्तस्याश्च साधुसङ्गदधायाः परमोत्कर्षत्वात्तद्वतो भक्तस्याप्युत्कर्षमाह यस्येति । अकिञ्चना निष्कामा सर्वे धर्मज्ञानवैराग्यादिभिः सह तत्रैव सम्यक्तया आसते वसन्ति, सर्वदेवमयः स एव स्यात्तत्सेवैव सर्वदेवसेवेति भावः । यद्वा सुरा इन्द्रियाधिष्ठातारो रुद्रादयः सर्वैर्गुणैरेव सह न तु दोषैः सहेत्यर्थः । तेन तस्याहङ्कारादीनामि- न्द्रियाणां दुरभिमानादयो दोषा नैव भवन्तीति भावः । अभक्तस्य तु महद्गुणा महतो भक्तिसमर्थस्य ये निर्दोषा गुणास्ते कुतः, यदि च शास्त्रज्ञत्वादयो गुणाः स्युस्तदा खवीर्ष्यामत्सरादिदोषसहिता एव स्युः । कुतः असति सद्भिर्निन्द्ये अविद्यमाने वा बहिर्लाभ- प्रतिष्ठादिसुखे मनोरथेनापि धावतः । यद्वा समासते इति सुरा इन्द्रियाधिष्ठातारोऽन्यत्र सांसारिक लोके संसारप्रवर्त्तकत्वेन दोषैरेव सहासते ज्ञानिलोके नित्यमध्यात्मादिलयभावनावति न सम्यगासते । किन्तु अस्मन्त एव ज्ञानमवाप्य पुनरस्मानेव संजिहीर्षावस्मिन् कृतघ्ने पुंसि स्थिता वयमद्य श्वो वा मरिष्याम एवेति सभयोत्कम्पमेवासते । भक्तजने तु प्रतिदिनं भगवन्माधुर्य एवाध्यात्मादिकं संचारयति सति सर्वैर्गुणैरेव समासते । वयं कृष्णायसजातयः प्राकृताः कृष्णस्पर्शसंयोगात् काष्र्णाः प्राप्तदिव्यजातिरूपगुणा नित्यमेव भगवन्माधुर्यामृते विहरन्तोऽत्र पुंसि नूनमतिमृत्यवो भवामेति सानन्दचमत्कारं निश्चलीभवन्तीत्यर्थः । अन्यत् समानम् ||१२|| * ननु भक्तिराहित्यादेव गृहे सज्जतां शास्त्रज्ञत्वादिगुणवतां लोके महत्त्वं दृश्यते, सत्यं तत्तु वस्तुत उपहासास्पदमेवेति सहेतुकमाह हरिहति । तोयमीप्सितमिति कश्चित् झषजातिर्यथा तोयमपि हित्वा बहिस्तदादिषु सुखार्थं प्रचरन् जीवन्मृतो भवति तथैव हरिविमुखो जीवन्मृत एव स न तु महानिति भावः । तदपि यदि लोके महान् स्यात्तदा वयसा यौवनेनैव दम्पतीनां यथा महत्त्वं तथा यूनोर्दम्पत्योर्यथा परस्परमादरस्तथा न वृद्धयोनपि बालयोः, दम्पतिपूजायाश्च यौवनविशिष्टावेव दम्पती बबालङ्कारादि- भिरधिकं पूज्येते न तथा वृद्धाविति ॥ १३ ॥ * * रजस्तृष्णा, रागोऽभिनिवेशः । संसृतेश्चक्रवालं मण्डलरूपं गृहमध्य एव संसृतिस्तिष्ठतीति भावः । भजतेत्यसुरान् प्रत्युपदेशः ॥ १४ ॥ कामेन कन्दर्पविलासेन दीव्यतीति कामदेवस्तत्स्वरूपेण * भगवानास्त इति शेषः । “संवत्सरो वै प्रजापतिः” इति श्रुतेः प्रजापतिः सम्वत्सरात्मकः कालस्तदभिमानी देव एच, तस्य दुहितृणां पुत्राणाञ्च रात्रिदिवसाभिमानिनां देवानां प्रियचिकीर्षया पुरुषायुषेति कथनसमकाल कलियुगापेक्षयोक्तेर्वर्षशतेन यान्यहोरात्राणि तैः परिसङ्ख्या गणना येषां षट्त्रिंशत्सहस्राणामित्यर्थः । यासां पतिमतीनां दुहितृणां दिवससहितानां रात्रीणामित्यर्थः । महास्त्रतः कालचक्ररूपात् गर्भाः क्षणलवाद्यात्मकाः कालाः । यद्वा वर्षभोज्यानि लोकानां प्रारब्धकर्मफलान्येव ता रात्रीर्निमित्तीकृत्योद्भूतत्वा- त्तासामेव गर्भा इत्युत्प्रेक्ष्यन्ते तथा तेषां सम्वत्सरात्मकस्थलकालान्ते भोगेन क्षय एव गर्भपातत्वेनोत्प्रेक्षितः । अहोरात्राधिष्ठात्र्यो देवतास्ताः प्राकृतलोकवन्तिन्यो भगवन्तमुपास्य वैकुण्ठ एव तद्भक्तानामनश्वरप्रेम सेवा सुखनिमित्तरूपा भविष्यन्तीत्युपासनाफलन द्रष्टव्यम् ।। १५ ।। * * अतीव सुललितो यो गतिविलासः विशेषेण लसितोऽतिकमनीयो रुचिरहासलेशयुक्तोऽवलोकश्च ताभ्यां या लीला तया कीदृश्या किञ्चिदुत्तम्भितेन सुन्दर चक्रमण्डलेन सुभगं यदनारविन्दं तस्यापि श्रीर्यतः तया स्वीयया रमां रमयन् रमासम्बन्धिन्या च तया इन्द्रियाणि स्वीयानि रमयते ॥ १६ ॥ se । ि श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः prefer खलः प्रसीदतां खलतां त्यजतु भूतानि शिवं मङ्गलं परस्परं ध्यायन्तु तेषां मनः भद्रं कल्याणं भजताद्भजतु नोऽस्माकं मतिः अहैतुकी फलाभिसन्धिरहिता सती अधोक्षजे त्वय्येव आवेश्यतां प्रविष्टा भवतु ॥ ९ ॥ प्राणवृत्त्या यथालाभेन ॥ १० ॥ * यत् येषां भवत्प्रियाणां संगाल्लब्धं निजमसाधारणं मुकुन्दसाक्षात्कारकरं वीर्य बलमेव वैभवं सामर्थ्यं यस्य तन्मुकुन्दविकमं श्रुतिभिः श्रुतिः श्रवणंः बहुवचनेन वागादिसङ्ग्रहः श्रवणवर्णनमननादिभिः संस्पृशतां सेवमानानां जनानाम् अन्तर्गतः हृद्रतोऽजः श्रीमुकुन्दः मानसम्मनोगतं सर्वाशुभबीजभूतं मलं हरति तीर्थं जलादिरूपन्तु मुहः संस्पृशता मङ्गजम्मलं केवल हरति, तान् भगवत्प्रियान् को न सेवेत ॥ ११ ॥ * अकिञ्चना भगवदितरफल - विषयरहिता भगवद्भक्तिरस्ति तत्र तस्मिन् भगवद्भक्ते सर्वैर्धर्मज्ञानादिसाधनरहितैर्गुणैः फलैः सह सर्वे सुराः फलदाः सम्यगासते सानुकूला भवन्ति असति सूक्ष्मे स्वप्नादौ बहिर्जागरे धावतः हरावभक्तस्य तु महान्तो गुणा येभ्यस्ते सुराः सर्वैर्गुणैः सह सानुकूलाः कुतः ? ।। १२ ।। * * झषाणां तोयमिव शरीरिणां हरिरात्माश्रयस्तं हित्वा महानपि यदि गृहे सज्जते तदा दम्पतीनां मिथुनानां शूद्रादीनामिव वयसा महत्वं तस्यापि भवति न तु हेयोपादेयविवेकादिना ॥ १३ ॥ असुरानुपदिशति तस्मादिति । रजआदिमूलं गृहं हित्वा अकुतोभयं नृसिंहपादं भजतेति ॥ १४ ॥ ॐ लक्ष्म्याः प्रियचिकीर्षया कामदेवरूपेण आस्ते इति शेषः । " सम्वत्सरो वै प्रजापतिः” इति श्रुतेः प्रजापतेः सम्वत्सरस्य दुहितृणां रात्र्यभिमानिनीनां देवतानां पुत्राणां दिनाभिमानिनां च प्रियचिकीर्षया यासां दुहितृणां महास्त्रं चकम् ॥ १५॥ अतीव सुललितगत्या यो विलासस्तेन ॥ स्क. ५ अ. १८ इलो. ९-१६] अनेकव्याख्या समलङ्कृतम् ३८३ बिलसितो रुचिरो हासलेशो मन्दस्मितं तेन सहितोऽवलोक एव लीला तया किंचिदुत्तम्भितेन सुन्दर भूमण्डलेन सुभगस्य वदनार- विन्दस्य श्रिया रमां रमयन् इन्द्रियाणि रमयते ॥ १६ ॥ 1 Pre pl: CAE PER HAR FISTER NEEL 4 गोस्वामिश्रीगिरिधरलालचिहिता बालप्रबोधिनीले
मा स्वयं भगवन्तं प्रार्थयमान एवं भगवान् सदा प्रार्थनीयो युष्माभिश्चैवं वर्तितव्यमिति दैत्यानपि शिक्षयति– स्वस्तीति षड्भिः । विश्वस्य सर्वस्य जगतः स्वस्ति मङ्गलमस्तु । मनु सर्वस्य मङ्गलं प्रार्थितं तत्कथं स्यात् खलस्यापि तन्मध्यपातित्वेन । तन्मङ्गलस्य साधुपीडां विनाऽसम्भवात् । परस्परममङ्गलं ध्यायतां प्राणिनामन्यतरमङ्गलस्यान्यतरामङ्गलं विनाभूतत्वादिति चेत्, सत्यम्, जीवैरेवं सर्वमङ्गलकरणमशक्यमपि तव सर्वान्तर्यामिणस्तत्सुकरत्वात् । कथमिति वीक्षायां तत्प्रकार माह-खल इति । साधुस्तु शान्तचित्तत्वान्न कस्याप्यमङ्गलं चिन्तयति, किन्तु खल एव तदमङ्गलं ध्यायति, अतः सः प्रसीदतां क्रौर्य त्यजतु । सर्वाण्येव भूतानि मिथः परस्परं शिवं मङ्गलं ध्यायन्तु । शान्ति विना कथमेव स्यादित्याशङ्कयाह- तेषां सर्वेषां मनश्च भद्रमुपशमं भजतु । तथा नोऽस्माकं सर्वेषां मतिरप्यहेतुकी निष्कामा सती अधोक्षजे त्वयि त्वया आवेश्यताम् । एवं विश्वस्य स्वस्ति स्यादिति ॥ ९ ॥ किन नोऽस्माकं सर्वेषां प्राणिनां कापि सङ्ग आसक्तिर्मा स्यात् । यदि कथञ्चित्सङ्गः स्यात्तर्हि अगारो गृहं दाराः स्त्रिय आत्मजः पुत्रः वित्तं धनं बन्धवः सम्बन्धिनस्तेषु मा स्यात् किन्तु भगवत्प्रियेषु भगवद्भकेष्वेव स्यात् । ननु गृहाद्यासक्त्या विषयभोगजन्यं सुखं स्यादपि भक्तसङ्गेन किं स्यादिति चेत् न, वैपरीत्यादित्याशयेनोभयत्र गुणदोषनिर्णय माह य इति । यो भगवद्भक्तसङ्गेन विषयानासक्तः केवलं प्राणवृत्या प्राणादिस्थितिहेत्वाहारमात्रेण परितुष्ट आत्मवान देहादिसङ्घातं वशीकृत्य भगवद्भजनपरायणः स यथा अदूरात् शीघ्रमेव सिद्धयति संसारदुःखाद्विमुक्तः सन् परमानन्दमनुभवति तथेन्द्रियप्रिय इन्द्रियतर्पणार्थ गृहादिविषयासक्तो न सिद्धयति किन्तु सदा दुःखमेवानुभवति ।। १० ।। भगवद्भक्तसङ्गस्य कथं सिद्धिहेतुत्वमित्यपेक्षायां श्रवणादिभक्ति- द्वारेत्याशयेनाह - यत्सङ्गति । येषां भगवद्भक्तानां सङ्गात् लब्धमुकुन्दविक्रमं मुक्तिदातुर्भगवतो यशश्रुतिभिः श्रवणकीर्त्तनस्मरणैः मुहुर्निरन्तरं संस्पृशतां सेवमानानां पुंसामन्तर्हृदि गतोऽजो भगवान् मानसं मलं हरति विनाशयति । ननु कथमेवं यशः श्रवणादि- मात्रेण भगवतो हृद्याविर्भाव इत्याशङ्कय तस्य तथा प्रभावमाह-निजेति । निजमसाधारणं वीर्यवैभवं भगवदाविर्भावहेतु प्रभावा- तिशयो यस्य तम् । तथा गङ्गादितीर्थं तु मुहुः सेवमानानामङ्गजं बहिर्मलमपि हरति हि यस्माद्भगवद्भक्तसङ्गस्ये हक् फलमतो भगवद्भक्तान को वै विवेकी न सेवेतेत्यन्वयः । वा इत्यनेन ये तत्सङ्गविमुखास्ते मूर्खा एवेति सूचयति ॥ ११ ॥ * * ननु धर्मज्ञान- वैराग्यादिगुणवतां देवानुगृहीतानामेव विमुक्तिः प्रसिद्धा तद्विना सा कथं स्यादित्याशङ्कय गुणादेवानुग्रहश्च भगवद्भक्तस्यैव नान्यस्ये- त्याह-यस्येति । यस्य भगवति वासुदेवेऽकिजना निष्कामा भक्तिरस्ति भवति तत्र तस्मिन्नेव धर्मज्ञानवैराग्यादिभिः सर्वैर्गुणैः सह सर्वे सुरा देवा सम्यगासते नित्यं वसन्ति, विषयासक्तस्य हरावभक्तस्यासति अतितुच्छे विषयसुखे मनोरथेन बहिः संसारे धावतस्तु कुतो महतां गुणा धर्मादयो भवन्ति नः कुतोऽपीत्यर्थः । तथा च भक्तसङ्गेन कथाश्रवणादिनिष्ठस्यान्तःकरणे भगवदा- विर्भावस्तत्प्रसादेन सर्वगुणाविर्भावः सर्वदेवप्रसादश्चान्ततो सायुज्यादिषु यथोचितं मुक्तिश्च भवति, नान्यस्य विषयासक्तस्येति सिद्धम् ॥ १२ ॥ * * ननु कथं भगवत्प्रसादेनैव सर्वदेवप्रसादः कथं वा हरिभक्तस्यैव महद्गुणत्वं नान्यस्येत्युच्यते । लोके यद्विमुखस्यापि महत्त्वव्यवहारस्य दृश्यमानत्वादित्याशङ्कयाह-हरिहति । हि यस्मात् हरिः शरीरिणां देवतिर्थ मनुष्यादीनां सर्वप्राणिनामात्मा जीवनहेतुः । तत्र हेतुमाह-साक्षाद्भगवानिति । भगवत एव सर्वात्मत्वसर्व पालकत्वस्य शास्त्रसिद्धत्वात् । जीवनहेतुत्वे दृष्टान्तमाह-झषाणामिति, यथा झषाणां मीनानामीप्सितं तोयमेव जीवनहेतुस्तथेत्यर्थः । अतो हरिप्रसादादेव सर्वदेव- प्रसादो महद्गुणत्वं च भवति तं हरिं हित्वा महानतिप्रसिद्धोऽपि यदि गृहे गृहोपलक्षितेषु विषयेषु सज्जते आसक्तो भवति तदा तस्य दम्पतीनां मिथुनानां बालमिथुनेभ्यो वृद्धमिथुनानां पुत्रेभ्यः पितुः कनिष्ठेभ्यो भ्रातृभ्यो ज्येष्ठस्य स्त्रीभ्यः पत्युर्वयसा केवलं यत् पश्वादिसाधारणं महत्त्वं तदेव नासाधारणं मनुष्ययोग्यं धर्मज्ञानादिगुणप्रयुक्तमित्यर्थः । तथा च येथा भ्रान्त्या सुखार्थ जलं हित्वा बहिर्निर्गता मीना मृता भवन्ति तथा हरिविमुखाः प्राणिनोऽपि भ्रष्टपुरुषार्थत्वान्मृततुल्या एवेति सूचितम् ॥ १३ ॥ * * उपसंहरति-तस्मादिति । यस्मादेवं तस्मात् हे दैत्याः ! रजआदीनां मूलं कारणं अत एव संसृतीनामहन्ता ममतादिद्वारा जन्म- मरणादीनां चक्रवालं मण्डलमविच्छेदो यस्मात्तथाभूतं गृहं हित्वाऽकुतोभयं न कुतोऽपि भयमुपासकानां यस्मात्तथाभूतं नृसिंहपादं भजतेत्यन्वयः । रजः विषये शोभनाध्यासः, ततः स्पृहा स्वीकारेच्छा, रागस्तत्रासक्तिः, मानस्तत्प्राप्तावभिमानः, भयं तद्विघट- काद्भीतिः, विषादस्तस्मिन् गते खेदः, मन्युस्तद्विनाशकर्त्तरि क्रोध:, यथाभिलषितकरणासामध्ये दैन्यम्, आधिः मनोव्यथा, एतेषां मूलं गृहमेव तत्रैवैतत्सम्भवान्नान्यन्नेति तत्त्यागेनैतन्निवृत्तिर्नान्यथेति तस्यागोपदेशः । गृहादित्यागेऽपि किचिदवलम्बनं विना मनसः स्थिरता न सम्भवतीति पुनर्विषयासक्तिः स्यादतो भजनोपदेशः । प्रह्लादस्यायमेवाद्भुतस्वभावो यद्भगवतः सर्वजनोद्धार- प्रार्थनया जनानांस्तद्भजने प्रवर्त्तनेन चान्योन्यं प्रीतिं सम्पादयति । अत्र मायागारेत्यादिसन्न्यासस्य हितस्त्वभावनया यस्यास्ति भक्तिरित्यादिभगवद्भक्त्या न तथेन्द्रिय इत्याद्यभक्तनिन्दया च महादस्य श्रीनृसिंहस्य सत्त्वयुक्ततमः प्रधानत्वं ज्ञेयम् । इतिशब्दः ३८४ श्रीमद्भागवतम् t [ स्कं. ५ अ, १८ श्लो. ९-१६ स्तोत्रसमाप्त्यर्थः ॥ १४ ॥ 8 8 केतुमालवर्षे भगवदुपासनामाह केतुमाले इति । केतुमाले भगवान् प्रद्युम्नाख्यः काम- देवस्य रूपेण आस्ते इति शेषः । किमर्थमास्तेऽत आह-लक्ष्म्या इति । लक्ष्म्यास्तद्वर्षपतीनां च प्रियचिकीर्षयेत्यन्वयः । के ते तद्वर्षपतयस्तत्राह - - प्रजापतेरिति । " संवत्सरो वै प्रजापतिः” इति श्रुतेः प्रजापतिः संवत्सरस्तदभिमानी देवस्तस्य दुहितरो रात्र्यभि- मानिन्यो देवताः पुत्रा दिवसाभिमानिनो देवास्तेषाम् । अत एव पुरुषायुषा पुरुषवर्षशतेन यान्यहोरात्राणि तैः परिसङ्ख्यानं गणना येषां तेषां षट्त्रिंशत्सहस्राणामित्यर्थः । यासां दुहितॄणां महापुरुषस्य विष्णोर्यन्महास्त्रं चक्रं तस्य तेजसा उद्वेजितमनसां विध्वस्ता अतो व्यसवो मृताः सन्तो गर्भाः संवत्सरान्ते विनिपतन्ति ॥ १५ ॥ * लक्ष्म्याः प्रियकरणमेव दर्शयति- अतीवेति । अतीव सुललितया गत्या यो विलासो विहारस्तेन विलसितो यो रुचिरो हासलेशो मन्दस्मितं तत्सहितोऽवलोक एव लीला तया किञ्चिदुत्तम्भितमुत्तुङ्गितं यत्सुन्दरं भ्रमण्डलं तेन सुभगमतिरमणीयं वदनारविन्दं तस्य श्रिया शोभया रमां लक्ष्मी रमयन् स्वीयानीन्द्रियाणि रमयते ॥ १६ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी अथ स्तुतिश्लोकानाह स्वस्तीति । विश्वस्य जगतः स्वस्ति मङ्गलं अस्तु भूयात् । ननु विश्वस्य स्वस्तिप्रार्थने खलस्यापि भवेत् स्वस्ति साधुजनपीडनं विना न स्यादत आह । खलः प्रसीदतां स्वखलतात्यागं कुरुतादित्यर्थः । भूतानि, धिया मिथोऽन्यो- न्यस्य शिवं मङ्गलं ध्यायन्तु । ननु भूतानामन्योन्यशिवध्यानं तु अन्योन्यघातं विना न भवेदित्यत्राह । मनो भूतानां मानसं भद्रं भजतात् । अन्योन्याभिघातसंकल्पं परित्यन्य सर्वेषां मनः सर्वहितसंसेवनं कुरुतात् । चकारादस्माकं मनोऽपि भद्रपर्यायोप- शमादिकं भजतात् । नोऽस्माकं अपिशब्दात् सर्वेषां च मतिः, अहैतुकी निष्कामा सती, अधोक्षजे भगवतः श्रीमूर्त्तिचिन्तने, आवेश्यतामाविशतां भगवदेकप्रवणा भवत्वित्यर्थः ॥ ९ ॥ * * मागारेति । नोऽस्माकं सङ्गः काप्यासक्तिः मा न भवतात् । यदि कापि कथंचित्सङ्गः स्यात्तर्ह्यपि, अगारं गृहं च दाराः स्त्री च आत्मजाः पुत्राश्च वित्तं धनं च बन्धवश्च तेषु मा न स्यात् । किं तु भगवत्प्रियेषु भागवतेष्वेव स्यात् । यतः यः, आत्मवान्सर्वकालं भगवद्धयाननिष्ठो भागवतः, प्राणवृत्त्या प्राणनपर्याप्तवृत्ति- मात्रेण, अदूरात् क्षिप्रमेव, परितुष्टः सन् सिद्धयति स्वसङ्गिनः सद्यः कल्याणसिद्धिप्रदो भवति । तथा इन्द्रियप्रिय इन्द्रियतर्पण- प्रसक्तः दारादिः न सिद्ध्यति, प्रत्युत नारकव्यथा संसाधको भवतीत्यर्थः । अतः दारादिसङ्गासक्ति नश्चित्तादुन्मूलयित्वा स्वधर्मनिष्ठ सत्प्रसक्ति कारयेत्यर्थः । आजन्मवाञ्छितप्रदानसंपोषितो दारादीन्द्रियप्रियो जनोऽकिंचित्तां मन्वानः सन्नन्ते यमपुरमार्गा- देशको जायते, प्राणवृत्तिप्रदानपूर्वमाराधितो भगवत्प्रियो भगवद्धाममार्गादेशको जायते, अतो नः सर्वकालं भगवत्प्रियसत्सङ्ग एव स्तादिति भावः ॥ १० ॥ पुनः सत्संगतेः सिद्धिहेतुत्वमेव प्रपञ्चयति यत्सङ्गेति । यत्सङ्गलब्धं येषां भगवत्प्रियाणां सङ्गात्प्राप्त, निजवीर्यवैभवं भगवद्वीर्यवैभवं, मुकुन्दपराक्रममित्यर्थः ॥ निशब्द भगवत्परः ग्राह्यः । संस्पृशतां श्रद्धया संवेदमानानां श्रुतिभिः श्रोत्रेन्द्रियैः, अन्तरन्तःकरणं गतः प्राप्तः, अजो भगवान, मानसं मनोगतं मलमिति शेषः । हरति हि । तीर्थं गङ्गादि तु, मुहुर्वारं वारं, संस्पृशतां त्रिकालस्नानादिना स्वजलस्पर्शं कुर्वाणानां जनानां, अङ्गजं शरीरभवमेव मलं हरति । अतः मुकुन्दविक्रमं मुक्तिप्रदस्य श्रीहरेर्विक्रमं को वै, न सेवेत ॥। ११ ॥ * * भगवद्भक्ति प्रस्तुवन्मानसमलापगमफलमाह यस्यास्तीति । यस्य नास्ति किंचन यस्याः सा अकिंचना किंचिदप्यैहिकामुष्मिक फलमनवलम्बमाना इत्यर्थः । भगवति भक्तिः, अस्ति । तत्र तथाविधभगवद्भक्तिमति भक्ते, सर्वैः गुणैः, शमदमादिसद्धः सह, सुराः सात्त्विका देवाः समासते । तमेवानुवर्त्तन्ते इत्यर्थः । एवं भगवद्भक्तस्य सद्गुणाश्रयत्वमुक्त्वाथाभक्तस्य महद्गुणाश्रयत्वाभावमाह । हरौ भगवति अभक्तस्य भगवद्भक्तिवर्जि- तस्येत्यर्थः । अत एव, असति शब्दादौ विषये, मनोरथेन, बहिः धावतः भ्रमतः पुंसः, महद्गुणाः कुतः स्युः हरिभक्त्यसंभवात्कुतो महतां ज्ञानवैराग्यादयो गुणास्तस्मिन्प्रवेशं कुर्युरिति भावः ।। १२ ।। * ननु विषयासक्तोऽपि कुतः स्युः । गृहाद्यासक्तस्य चिल्लोके महानिव दृश्यते तत्राह हरिरिति । झषाणां मीनानां, ईप्सितं तोयं जलं, आत्मात्मधारकं, तेन विना तस्य जीवना- संभवात् । इव यथा, तद्वदित्यर्थः । शरीरिणां साक्षात् भगवान् हरिः, आत्मा धारकः, हि । तथा च श्रुतिः ‘को ह्येवान्यात् कः प्राण्याद्यद्येष आकाश आनन्दो न स्यात्’ इति । अस्या अर्थः आनन्दः निरतिशयानन्दरूपः, आकाशः सर्वप्रकाशकः, एष परमात्मा, यदि न स्यात्, उपासितो न स्यादित्यर्थः, तदा को हि अन्यात् ऐहिकामुष्मिक सुखसंपादनेन को नु जीवेदित्यर्थः । को वा प्राण्यात् आपवर्गिकसुखसंपादनेनात्मानमुज्जीवयेन्मुक्तिभाजं कुर्यादित्यर्थः । यस्मादेवं तस्मादिति शेषः । महान्सन् तं भगवन्तं हित्वा विहाय यदि गृहे सज्जते, तदा दंपतीनां वयसा एव महत्त्वं न तु ज्ञानादिभिरित्यर्थः । भगवन्तं परित्यज्य लोकेषु महत्ताभाजां मिथुनानां यत्केवलं महत्त्वं प्रसिद्धमस्ति, तच्छूद्रादीनामिव वयोमात्रेणैव, न तु ज्ञानादिना । लोके मिथुनेषु पूज्यमानेपु स्त्रीभ्यः पुंसो महत्त्वं बालमिथुनेभ्यश्च वृद्धमिथुनानां यथा महत्त्वं तथेति भावः ॥ १३ ॥ * * तस्मादिति । तस्माद्भगव- ।। ।। इक्तेर्निरतिशय सुखहेतुत्वाद्विषयासक्तेर्निरतिशय दुःखहेतुत्वाच्चेत्यर्थः । रजस्तृष्णा च रागोऽभिनिवेशश्च विषादः खेदश्च मन्युः क्रोधश्च । मानो गर्वश्व स्पृहा भोगेच्छा च भयं भीतिश्च दैन्यं रङ्कत्वं च आधिर्मनस्तापश्च तेषां मूलम्, यद्वा रजो विषयाभिलाषरूपः कामः, रागो विषयानुभवविरोधिविषयः क्रोधः, विषादः विषयविहतिनिमित्तः शोकः, मानो महाजनावमानहेतुरहंकारः, मन्युस्तज्जन्यः । 7 स्कं ५ अ. १८ श्लो. १७-२४ ] । अनेकव्याख्या समलङ्कृतम् ३८५ क्रोधः, स्पृहा परदारधनादिलब्धिरीच्छा, भयमागामिदुःखहेतुदर्शनजा भीतिः, तज्जो मनसोऽवसादो दैन्यं, आधिस्तत्कृता मनः- पीडा तन्मूलम् । संसृतीनां जन्ममरणादीनां चक्रवालं मण्डलमविच्छेदो यस्मात्तत्, गृहं हित्वा अकुतोभयमदुःखं नृसिंहपाद भजत इत्यसुरानुपदिशति ।। २४ ।। * * अथ केतुमाले वर्षे उपास्योपासकावाह । केतुमालेऽपि केतुमालवर्षेऽपि भगवान कामदेवरूपेण प्रद्युम्नरूपेण, आस्ते इति शेषः । किमर्थ लक्ष्म्याः प्रियचिकीर्षया प्रियं कर्तुमिच्छया, महापुरुषस्य भगवतो महा चक्रं तस्य तेजसा उद्वेजित भीतं मनो यासां तासां गर्भाः विध्वस्ता वित्रस्ताः, अत एव व्यसवो विगतप्राणाः सन्तः संवत्सरान्ते विनिपतन्ति । तासां पुरुषायुषेण वर्षशतेन यान्यहोरात्राणि तैः परिसंख्यानं गणना येषां तेषां पृथक् पृथक् षट्त्रिंशत्सहस्राणा- मित्यर्थः । तद्वर्षपतीनां केतुमालवर्षाधिपतीनां प्रजापतेः संवत्सरस्य, ‘संवत्सरो वै प्रजापतिः’ इति श्रुतेः । दुहितॄणां रात्र्यभिमा- निदेवतारूपाणां प्रजापतेः सुतानां च पुत्राणां दिवसाभिमानिनां देवानां प्रियचिकीर्षया, आस्ते इति संबन्धः ॥ १५ ॥ * * अतीवेति । अतीव सुललितया सुन्दरया गत्या यो विलासस्तेन विलसितो रुचिरो हासलेशो मन्दस्मितं तत्सहितोऽवलोक एव लीला तया, किंचिदुत्तम्भितमुत्तुङ्गितं तेन सुन्दरं यद् भ्रमण्डलं सुभगं यद्वदनारविन्दं तस्य श्रीः शोभा तया च रमां लक्ष्मी रमयन् इन्द्रियाणि स्वकीयेन्द्रियवर्गमित्यर्थः । रमयते क्रीडयति ॥ १६ ॥ । भाषानुवादः ‘नाथ ! विश्वका कल्याण हो, दुष्टों की बुद्धि शुद्ध हो, सब प्राणियों में परस्पर सद्भावना हो, सभी एक दूसरेका हितचिन्तन करें, हमारा मन शुभ मार्ग में प्रवृत्त हो और हम सबकी बुद्धि निष्कामभावसे भगवान् श्रीहरि में प्रवेश करे ॥ ९ ॥ * प्रभो ! घर, स्त्री पुत्र, धन और भाई-बन्धुओंमें हमारी आसक्ति न हो; यदि हो तो केवल भगवान् के प्रेमी भक्तों में ही। जो संयमी पुरुष केवल शरीर निर्वाहके योग्य अन्नादिसे सन्तुष्ट रहता है, उसे जितनी शीघ्र सिद्धि प्राप्त होती है वैसी इन्द्रियलोलुप पुरुषको नहीं होती ॥ १० ॥ उन भगवद्भक्तोंके सङ्गसे भगवान् के तीर्थतुल्य पवित्र चरित्र सुननेको मिलते हैं। जो उनकी असाधारण शक्ति एवं प्रभाव के सूचक होते हैं। उनका बार-बार सेवन करनेवालों के कानोंके रास्ते से भगवान् हृदय में प्रवेश कर जाते हैं और उनके सभी प्रकारके दैहिक और मानसिक मलोंको नष्ट कर देते हैं। फिर भला उन भगवद्भक्तोंका सङ्ग कौन न करना चाहेगा ? ॥ ११ ॥ * * जिस पुरुषकी भगवान् में निष्काम भक्ति है, उसके हृदय में समस्त देवता धर्म-ज्ञानादि सम्पूर्ण सद्गुणोंके सहित सदा निवास करते हैं। किन्तु जो भगवान्का भक्त नहीं है, उसमें महापुरुषों के वे गुण आ ही कहाँ से सकते हैं ? वह तो तरह-तरह के सङ्कल्प करके निरन्तर तुच्छ बाहरी विषयोंकी ओर ही दौड़ता रहता है ।। १२ ।। जैसे मछलियोंको जल अत्यन्त प्रिय- उनके जीवनका आधार होता है, उसी प्रकार साक्षात् श्रीहरि ही समस्त देहधारियोंके प्रियतम आत्मा हैं । उन्हें त्यागकर यदि कोई महत्त्वाभिमानी पुरुष घर में आसक्त रहता है तो उस दशा में स्त्री-पुरुषोंका बड़प्पन केवल आयुको लेकर ही माना जाता है, गुणकी दृष्टिसे नहीं ॥ १३ ॥ * अतः असुरगण ! तुम तृष्णा, राग, विषाद, क्रोध, अभिमान, इच्छा, भय, दीनता और मानसिक सन्तापके मूल तथा जन्म-मरणरूप संसारचक्रका वहन करनेवाले गृह आदिको त्यागकर भगवान् नृसिंहके निर्भय चरणकमलोंका आश्रय लो’ ॥ १४ ॥ * केतुमालवर्षमें लक्ष्मीजीका तथा संवत्सर नामक प्रजापतिके पुत्र और पुत्रियोंका प्रिय करने के लिए भगवान् कामदेव रूपसे निवास करते हैं। उन रात्रिकी अभिमानी देवतारूप कन्याओं और दिवसाभिमानी देवतारूप पुत्रोंकी संख्या मनुष्यको सौ वर्षकी आयुके दिन और रातके बराबर अर्थात् छत्तीस - छत्तीस हजार वर्ष हैं, और वे ही उस वर्षके अधिपति हैं । वे कन्याएँ परमपुरुष श्रीनारायण के श्रेष्ठ अस्त्र सुदर्शनचक्र के तेजसे डर जाती हैं, इसलिए प्रत्येक वर्षके अन्त में उनके गर्भ नष्ट होकर गिर जाते हैं ।। १५ ।। * * भगवान् अपने सुललित गति-विलाससे सुशोभित मधुर-मधुर मन्द- मुसकानसे मनोहर लीलापूर्ण चारु चितवनसे कुछ उलझे हुए सुन्दर भूमण्डलकी छबीली छटाके द्वारा वदनारविन्दका राशि- राशि सौन्दर्य उँडेलकर सौन्दर्यदेवी लक्ष्मीको अत्यन्त आनन्दित करते और स्वयं भी आनन्दित होते रहते हैं ॥ १६ ॥ तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति ।। १७ ।। ॐ ह्रां ह्रीं हूँ ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकृतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥ १८ ॥ ४९ स्त्रियो व्रतैस्त्वा हृषिकेश्वरं स्वतो धाराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिषान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः ॥ १९ ॥ ३८६ श्रीमद्भागवतम् [ एक १ अ. १८ लो. १७-२४ सवै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् ।। २० ।। या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलका मलम्पटा । तदेव रासीप्सितमीप्सितोऽचितो यद्भशयाच्या भगवन् प्रतप्यते ॥ २१ ॥ मत्प्राप्तयेऽजेश सुरासुरादयस्तप्यन्त उग्र तप ऐन्द्रियेधियः । ऋते भवत्पादपरायणान मां विन्दन्त्यहं त्वया यतोऽजित ॥ २२ ॥ स त्वं ममाप्यच्युत शीर्णि वन्दितं कराम्बुजं यच्वदधायि सात्वताम् । विभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति ।। २३ ।। रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगे- नाराधयतीदं चोदाहरति ॥ २४ ॥ अन्वयः - संवत्सरस्य रात्रिषु प्रजापतेः दुहितृभिः च अहस्सु तद्भर्तृभिः उपेता रमा देवी तत् भगवतः मायामयम् रूपम् परमसमाधियोगेन उपास्ते इदम् च उदाहरति ॥ १७ ॥ ॐ ॐ ॐ ह्रां ह्रीं ह्र ॐ भगवते हृषीकेशाय सर्वगुणविशेषैः विलक्षितात्मने आकूतीनाम् चित्तीनाम् चेतसाम् च विशेषाणाम् अधिपतये षोडशकलाय छन्दोमयाय अन्नमयाय अमृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय ते उभयत्र नमः भूयात् ॥ १८ ॥ हि स्त्रियः स्वतः हृषिकेश्वरम् त्वा व्रतैः आराध्य लोके अन्यम् पतिम् आशासते ते वै तासाम् प्रियम् अपत्यम् धनायूंषि न परिपान्ति यतः अस्वतन्त्राः ॥ १९ ॥ * स्वयम् अकुतोभयः भयातुरम् जनम् समन्ततः पाति सः वै पतिः स्यात् सः एकः एव आत्मलाभात् परम् अधि न एव मन्यते इतरथा मिथः भयम् ॥ २० ॥ या तस्य ते पादसरोरुहार्हणम् निकामयेत् सा अखिलकामलम्पटा ईप्सितम् ईप्सितः अर्चितः ततः एव रासि भगवन् यत् भग्नयाच्या प्रतप्यते ।। २१ ।। अजित ऐन्द्रियेधियः अजेशसुरासुरादयः मत्प्राप्तये उग्रम् तपः तप्यन्ते भगवत्पादपरायणात् ऋते माम् न विन्दन्ति यतः अहम् त्वद्धृदया ॥ २२ ॥ ॐ अच्युत वन्दितम्
- यत् कराम्बुजम् सात्वताम् शीणि अधायि मम अपि निधेहि वरेण्य माम् लक्ष्म विभर्षि ईश्वरस्य मायया ईहितम् ऊहितुम् कः विभुः इति ॥ २३ ॥ * रम्यके च भगवतः प्रियतमम् मात्स्यम् अवताररूपम् तद्वर्षपुरुषस्य मनोः प्राक् प्रदर्शितम् सः इदानीम् अपि महता भक्तियोगेन आराधयति इदम् च उदाहरति ॥ २४ ॥
श्रीधरस्वामिविरचिता भावार्थदीपिका * तद्भर्तृभिर्दिवसाधिष्ठातृभिरुता ।। १७ ।। * * सर्वैर्गुणविशेषैः श्रेष्ठवस्तुभिर्विलक्षितो लक्षीकृत आत्मा यस्य आकृतीनां क्रियाणाम् । चेतसां संकल्पाध्यवसायादीनाम् । विशेषाणां तत्तद्विषयाणाम् । षोडश कला अंशा एकादशेंद्रियपंच- विषयलक्षणा यस्य । छन्दोमयाय वेदोक्तकर्म प्राध्याय । अन्नमयायान्नोपष्टभ्यत्वात् । अमृतमयाय परमानन्दाविष्कारकत्वात् । सर्वमयाय सर्वविषयत्वात् सहसे ओजसे बलाय तद्धेतुत्वात् ॥ १८ ॥ * त्वत्कामेनैव त्वत्सेवकत्वादहं कृतार्थाऽस्मि ।
- अन्यकामनया तु त्वामर्चन्त्यो न परिपूर्णमनोरथाः स्युरित्याह । स्त्रिय इति । स्वत एव हृषीकाणामीश्वरं पतिं सन्तं । । त्वामाराध्य याः स्त्रियोऽन्यं पतिं प्रार्थयन्ते । पतिकामानां हि कामाराधनं व्रतेषु प्रसिद्धम् । तासामपत्यादीनि ते पतयो न पातुं शक्ताः ॥ १९ ॥ * * अतस्ते पतय एव न भवतीत्याह स वा इति । स चैवंभूतः पतिर्भवानेक एव नान्यो यो भवानात्मलाभात्परमन्यदधिकं न मन्यते इतरथाऽन्याधीनसुखस्य न स्वतंत्रता । खतंत्रनानात्वे च मंडलेश्वराणामिव मिथो भयं स्यादित्यर्थः ॥ २० ॥ किं च निष्कामभजनेऽप्रार्थिता एव सर्वे कामा भवंति, सकामभजने तु कामितमात्रमनित्यं चेत्याह । या स्त्री तस्योक्तलक्षणस्य तव पादसरोरुहस्यार्हणं पूजामेव काम- येन्न फलान्तरं साखिलेषु कामेषु लम्पटा सर्वान्कामान्प्राप्नोतीत्यर्थः । ईप्सितमीप्सितः फलान्तरमाप्तुमपेक्षितः सन्नचितश्चेत्तर्हि तदेवैकं रासि ददासि । किं च यद्यतः फलभोगानन्तरं भग्ना याच्या याचितोऽर्थो यस्याः सा प्रतप्यते दुःखं प्राप्नोति तदेव रासि न तु नित्यम् ॥ २१ ॥ ननु ममार्हणे कुतः सर्वकामप्राप्तिस्त्वमेव कामार्थिभिः सेव्यसेऽत आह । मत्प्राप्तये ब्रह्मादयस्तपस्तप्यन्ते कुर्वन्ति । कथम्भूताः । ऐन्द्रिये सुखे धीर्येषां अलुक्समासः तथापि भवत्पादपरायणाहते मां न विन्दन्ति । मत्कटाक्षविलसिता विभूतीनं लभन्त इत्यर्थः । यतस्त्वय्येव हृदयं यस्याः साऽहं त्वत्परतन्त्रत्वात्त्वदनुवर्तिनमेव विलोकयामि नान्यमित्यर्थः ॥ २२ ॥ * * इदानीं कृपां प्रार्थयते स त्वमिति । यद्भजनं विना न कश्चित्पुरुषार्थः स त्वं त्वदिति त्वया यत्कराम्बुजं सात्वतां भक्तानां शीर्ण्यधायि कृपया न्यस्तं तन्ममापि शीर्डिंग निघेहीति शेषः । कथंभूतम् ? वन्दितं सर्वकाम- ।
स्कं. ५ अ. १८ श्लो. १७-२४] अनेकव्याख्यासमलङ्कृतम् ३८७ वर्षित्वेन सद्भिः स्तुतम् । न च मयि तवानादरः यतो वरेण्य मां वक्षसि लक्ष्म बिभर्षि । अहो विचित्रमेतत् मयि केवलमादरमात्रं भक्तेषु तु परमा कृपाSत ईश्वरस्य तव यन्मायया ईहितं तत्को वितर्कयितुं समर्थः ।। २३-२४ ।। श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः कृपामयत्वमेव मायामयं कृपाप्रचुरम् । यद्वा– मायाया जीवाविद्याया आमयो रोगो यतस्तम् ॥ १७ ॥ विवृण्वती मन्त्रं जपन्ती एतन्मत्रोपासकोऽन्योप्येवं स्वसम्बन्धेन मन्त्रार्थं भावयेदिति व्यंजयन्ती प्रणमति - कान्ताय मत्पतये कामाय नम इत्यन्वयः । देवपदानुक्तिस्तु पत्युः सम्पूर्णनामोच्चारणानौचित्यात् । “पत्युर्नाम न गृह्णीयादेकदेशादिकं विना” इति । केचित्तु “उच्चारे न हि दोषः स्याद्वयावहारिकनामनि । जन्मनाम न गृह्णीयात्कलनादेर्विनाऽऽपदम् ॥” इति संहितोक्तेः । अन्यस्तु लक्ष्म्या दासीभावेनैवात्मानं ध्यात्वा मन्त्रमिममुच्चारयेदिति सम्प्रदायः । हृषीकेशाय स्वसौन्दर्यादिना मन्नेत्रादीन्द्रियाकर्षकाय मन्नेत्रादिमाधुर्यसंभोक्त्रे इति वा । स्वस्य तथा योग्यतायां हेतुः सर्वैर्गुणविशेषैर प्राकृतैर्गुणैर्विलक्षिता विलक्षणीकृता आत्मानः देहमनबुद्धादयो भवन्ति यतस्तस्मै । हृषीकेशत्वं विवृणोति - आकूतीनां मम कर्मेन्द्रियाणां चित्तीनां ज्ञानेन्द्रियाणां चेतसां चित्ता- हंकार बुद्धिमनसां विशेषाणां तद्वृत्तीनां तत्तद्विषयाणां वाऽधिपतये स्वामिने तत्तन्माधुर्य्यस्वामिने अन्योपासकपक्षेऽधिष्ठात्रे तेषाम- प्राकृतीकरणात्स्वयमेवाधिष्ठाता न तु दिगादिदेवसमूह इति भावः । षोडशकलाय राकाचन्द्रतुल्यत्वात्पूर्णाय । छन्दोमयाय वेदरूपिणे स्वभक्त्युपदेष्ट्रे । अन्नमयाय अन्नरूपेण साधकभक्तपरिपालकाय । अमृतमयाय अमृतवदास्वाद्यरूपगुणलीलादिकाय मोक्षरूपाय वा । सर्वमयाय मम सर्वस्वरूपाय । महसे ओजसे बलाय त्वत्सेवायां मञ्चित्तेंद्रियदेहसामर्थ्यप्रदाय । उभयत्रेहलोके परलोके न्तर्बहिश्च । अत्र लज्जाबीजत्रिकं सप्रणवं चतुर्वर्गसिद्धिद्योतनायादौ लक्ष्म्या प्रयुक्तं कामो मे लब्जा रक्षतु वर्गचतुष्टय इति द्योतनाय बा ॥ १८ ॥ * * स्वयं निष्कामा सकामभक्तिमतीरन्याः शोचन्त्याह- त्वत्कामेनैवेति ॥ १९ ॥ यतः पातुं न शक्ता
- अतो हेतोः । इत्यर्थ इति । स्वप्रजापालकानामपि मिथो भयं ततश्च प्रजानामपि भयमतस्तदपालनमेवेति भावः । अत्र विश्वनाथ:– पतिशब्दार्थमेव ता न जानन्तीत्याह– स इति । यश्वात्मानमपि पातुं न शक्नोति स कथमन्यान्पातीत्यतः स्यात्स चैको भवानेव । इतरथा प्रकारान्तरेण । पतिशब्दस्य व्याख्यायामित्यर्थः । यद्वा-सप्तम्यर्थे थाल्प्रत्ययः । इतरत्रेति पूर्ववत् । अत एवात्मनः परमात्मनस्तव लाभात् । अधि अधिकं परं वस्तु न मन्यते शास्त्रज्ञैरिति शेषः । त्वत्प्राप्तेः सकाशादन्यप्राप्तिर्नैवाधिकेति त्वमेव वस्तुतः पतिशब्दवाच्य इत्यर्थः ॥ २० ॥ निष्कामसेवनस्याधिक्य माह-किश्वेति । इत्यर्थ इति । सा निष्कामापि सकामापदवाच्येति भावः । भगवन्निति । सर्वसम्पद्दानसामर्थ्यमाह । अत्रेप्सितान्तरकामायाः परितापः स्वस्वभावप्रातिकूल्य- दृष्ट्यैव लक्ष्म्या तामधिक्षिपन्त्योक्तः । वस्तुतस्तु-सकामभजनादपि कृतार्थत्वमुपरिष्टाद्वक्ष्यते ‘चतुर्विधा भजन्ते माम्’ इत्यारभ्य ‘उदाराः सर्व एवैते ’ इत्यन्तेन श्रीगीतासु भगवतापि तस्याप्युदारत्वं वर्णितमिति ॥ २१ ॥ अत्राक्षिपति - नन्विति । केचित्सकामास्त्वामपहाय मामेव ये सेवन्ते ते धूलिमेव लभन्ते इति तान्निदन्त्याह तत्प्राप्तये इति । इत्यर्थ इति । भवत्परायणा ध्रुवप्रह्रादादय एव विंदन्तीति भावः । इत्यर्थ इति । या तु त्वदभक्तेष्वपि देवासुरादिषु संपद् दृश्यते सा तु गुणमयी प्रतिस्वकर्म- फलरूपा मायाशक्तिदुर्गाया एव प्रसादाद्वा कामादितरंगजनिका कादाचित्की, न त्वत्स्वरूपभूताया ममेति मम मायात्वाभावात् मत्प्रसादोत्थायाः संपत्तेरपि त्वद्वैमुख्यापादकत्वाभावादिति भावः । अहो ब्रह्मादयोऽपि मया जिता न त्वमित्यभिप्रायेणाह - अजितेति ।। २२ ।। * तदेवं ब्रह्मादीनामाराध्याऽपि तव भार्याप्यहं निष्किचनो भक्तो यथा त्वत्तः सौभाग्यं लभते तथा नाही लभे, एवं मे ललाटमित्याह - स इति । ननु त्वत्सौभाग्यं सर्वतोऽप्यधिकं यतस्त्वामहं हृदय एव नित्यं दधामीति तत्र सत्रपं सांचलमुखाच्छादनं सहुङ्कारं नीचैराह - बिभषति । हे वरेण्येति । वरेण्यानामयमेव धर्मो यत्सर्वेषामाश्वासनमिति भावः । मा माम् । लक्ष्म कनकरेखाम् । चिह्नतया यद्वक्षसि दधासि तन्माययैव । हे अच्युतेति । च्युतिमतामेव स्त्रथाकांक्षा भवति न त्वच्युतस्य तवेति भावः । मद्भक्तसौभाग्यं दृष्ट्वा कुबुद्धिरेषा मध्यसूयां मा कार्षीदिति कपटेनैवेति भावः । ननु कोऽप्येवं न ब्रूने तत्राह – कः खल्वीश्वरस्य तवेहितमूहितुं वितर्कितुं क्षमः । यतः “न च संकर्षणो न श्रीर्नैवात्मा च यथा भवान्” इति तव भक्तमुद्धर्व प्रति निभृतोक्तिमहमश्रौषमेवेति ध्वनिः । सन्दर्भस्तु —स त्वमिति दैन्योक्तिः, यत्त्वया यत्कराम्बुजं स्वीकारव्यंजकं सात्वतानां शीष्णि अधायि तन्ममापि तादृशभक्तिहीनायाः शीर्षिण अधायीत्येकमाश्चर्यम् । किञ्च स तादृशस्त्वं मायया कृपया मा मां वक्षसि लक्ष्मरूपत्वेन बिभर्षीति ततोऽपि परमाश्वर्यं तस्मात्कः खल्वीश्वरस्येति ॥ २३ ॥ * * प्राक् चाक्षुषमन्वन्तरान्ते प्रलये सत्यव्रतराजावस्थायां मत्स्यत्वेन निकृष्टदृष्टिं प्रत्याह- प्रियतममिति । तदपि भगवतः परमस्वरूपमेव जानीयादित्यर्थः । तद्वर्षपुरुषस्य रम्यकखण्ड मुख्यस्य । मनोः वैवस्वतस्य ।। २४-२५ ।। श्रीमद्वीरराघवव्याख्या इदं वक्ष्यमाणमन्त्रवाक्यं चोदाहरन्ति जपन्ति बहुवचनं संवत्सर दुहितृतद्भर्त्रभिप्रायकं जप्यं मन्त्रमाह । ॐ भगवच्छन्दार्थः पूर्ववत् हृषीकाणामिन्द्रियाणामीशाय नियन्त्रे सर्वैः प्रकृतिपुरुषयोरसम्भावनीयैगुणविशेषैः सत्यज्ञानादिभिः ३८ श्रीमद्भागवतम् [ स्कं. ५ अ. १८ श्लो. १७-२४
गाम्भीर्यादिभिः “सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः” इत्यादिश्रुतिसिद्धैर्विवक्षितमाश्रयत्वेन वक्तुं प्रतिपादयितु- मिष्टमात्मस्वरूपं यस्य तस्मै कल्याणगुणाश्रयत्वेन वेदान्तैः प्रतिपाद्यमानायेत्यर्थः, सर्वत्राधिकरणार्थोऽनुसन्धेयः, आकूतीनां क्रियाणां चित्तीनां ज्ञानानां चेतसां संकल्पाध्यवसायादीनां कर्मेन्द्रियज्ञानेन्द्रियमनोव्यापाराणां विशेषः पृथिवी, भिप्रायकं पृथिवीप्रभृतिपञ्चमहाभूतानां चाधिपतये नियन्त्रे इदं चाधिपत्यं न सत्यपि पृथग्भावे भृत्यनिरूपितनियन्तृभावस्य पृथिवीप्रभृतिपञ्चमहाभूतान्यवस्या बहुवचनमाकाशाद्य राज्ञ इव, अपि त्वात्मत्वप्रयुक्तमिति द्योतयितुं शरीरात्मभावनिबन्धनसामानाधिकरण्यमाह षोडशकलायेति । षोडशकलाः पश्चभूतानि मनः सहितान्येकादशेन्द्रियाणि एतत्स्वरूपाय तच्छरीरकत्वेनावस्थितायेत्यर्थः, षोडशकला अंशा मूर्त्तयो यस्येति बहुव्रीहिर्वा । पञ्चभूतान्येकादश इन्द्रियाणि च जगत्कारणत्वमाह । छन्दोमयाय छन्दः प्रचुराय “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यद्यग्वेदः” इति श्रुत्यर्थोऽत्र विवक्षितः । एवं समष्टितत्त्वशरीरकत्वमभिधाय व्यष्टितत्त्वात्मकत्वमाह । अन्नमयाय अन्नमयशब्दोऽत्र व्यष्टयवस्थातत्त्व संघातात्मकदेहपरः, तद्रूपाय व्यष्टिशरीरकायेत्यर्थः । एवं व्यष्टिसमष्टयात्मकतत्त्वान्तरात्मकत्वम- भिधाय जीवान्तरात्मकत्वमपि सामानाधिकरण्येनाभिधत्ते अमृतमयायेति । अमृतशब्दोऽत्र जीववाची परमात्मपर्यन्तः अमृतशरीर- कायेत्यर्थः, , उक्तानुक्तकात्ाद्यन्तरात्मत्वाभिप्रायेणाह । सर्वमयायेति सर्वात्मकायेत्यर्थः । किं बहुना तत्तद्वस्तुगतशक्ति- रूपस्त्वमेवेत्याह । सहसे मनःसामर्थ्यरूपाय ओजसे इन्द्रियशक्तिरूपाय बलाय देहशक्तिरूपाय सहआदेर्हेतुत्वाच तादात्म्यव्यपदेशः कान्ताय निरतिशयप्रीतिविषयाय कामाय स्वीयेषु निरतिशयप्रीतिविशिष्टाय ते तुभ्यमुभयत्र पुरस्ता- त्पृष्ठतश्च नमो नमनं भूयादस्त्वित्यर्थः ॥ १८ ॥ * * एवमिमं मन्त्रमुदाहरन्ती इति पत्नी लक्ष्मीः पतिशब्दप्रवृत्ति- निमित्तपौष्कल्यविशिष्टस्त्वमेवेत्याह स्त्रिय इति । स्वतः हृषीकाणामिन्द्रियाणामधीश्वरमधिपतिं स्वतः शब्देनाधिपत्यस्य निरुपाधिकत्वं व्यज्यते, एवंभूतं त्वां व्रतैराराध्य लोके संसारे स्त्रियः अन्यं पतिमाशासते कामयन्ते ते चाशास्यमानाः पतयः तासां कामयमानानां स्त्रीणां प्रियं प्रीतिविषयमात्मापत्यधनायूंषि च न परिपान्ति न रक्षन्ति पातुमसमर्थत्वादिति भावः । तत्कुतः यतस्ते पतयः अन्यतन्त्राः कर्मवश्याः तेषां पतित्वं हि कर्मायत्तं न हि कर्मपरवशाः कर्मनिर्हरणे समर्था इति भावः । एवं निरुपाधिकरक्षकत्वस्यैव पतिशब्दप्रवृत्तिनिमित्तत्वात्ते ते पतय एव न भवन्तीत्यभिप्रायः ।। १९ ।। एवमन्यत्र पतिशब्दोऽमुख्यवृत्त इत्युक्तं भगवति तु मुख्यवृत्त इत्याह स वा इति । सः मन्त्रोक्तगुणसम्पन्नः भवान्पतिर्वै वैशब्दोऽवधारणे भवानेव पतिरित्यर्थः । तथा च श्रुतयः ‘एष सर्वेश्वरः एष भूताधिपतिरेष भूतपालः । पतिं विश्वस्यात्मेश्वरं न तस्य कश्चित्पतिरस्ति लोके’ इति सूत्रं चैतद्विषयकम् “अनन्याधिपतिः” इति । कुतो मम निरुपाधिकपतित्वं तत्राह । अकुतोभयः नास्ति कुतोऽपि भयं यस्य सोऽकुतोभयः अकर्मवश्यत्वेन कर्मकृतपारतन्त्र्याभावान्निरुपाधिकरक्षकत्वं त्वय्येवेति भावः । अत एव भयातुरं जनं समन्ततः पाति सर्वेभ्योऽपि भयेभ्यस्त्रायते स च निरुपाधिकपतिर्भवानेक एव, इतरथा ईश्वरद्वित्वे मण्डलेश्वराणामिव मिथोऽन्यो- ऽन्यं भयं स्यात् यतो भवानेक एव पतिरत एव भवानात्मलाभात्परमन्यदधि अधिकं न मन्यते आत्मनो लाभः परमात्मशेषत्वज्ञानं तस्मिन्नेव हि सत्यात्मनः सत्ता इतरथासत्प्रायतैव तन्मात्रमेव चेतनसंरक्षणे भवानपेक्षते न तु ततोऽन्यदित्यर्थः ॥ २० ॥ ॐ तदेव प्रपञ्चयति येति । अखिलेषु कामेषु पत्यपत्यधनायुरादिषु लम्पटा आसक्ता सती या स्त्री तस्योक्तविधस्य ते तव पादसरोरुहयो रर्हणमाराधनं न कामयेन्न कुर्यात्तस्यास्तदेवेप्सितं पत्यपत्यादिकं क्षुद्रं फलमर्चितस्त्वं रासि ददासि “रा दाने” इति धातुः कथंभूतः त्वमीप्सितः प्रीतिविषयः पुरुषार्थरूपः सर्वविधपुरुषार्थरूपं त्वामपुरुषार्थरूपं मत्वा त्वत्तोऽन्यं यत्किञ्चित्पुरुषार्थं त्वत्तः प्रार्थयते तस्यास्तदेव पुरुषार्थाभासं ददासि न तु स्वात्मानमित्यभिप्रायः, यतस्त्वत्तोऽन्यदपुरुषार्थरूपमत एव भग्ना याच्या याचितार्थो यस्या- स्तथाभूता सती हे भगवन् ! कामदेव ! प्रतप्यते दुःखिता भवति न तु लव्धात्माहमिति नितरां सुख्यतीत्यभिप्रायः । ईप्सितार्चितमिति पाठान्तरं तदा इष्टत्वेन पूजिते प्रकृतमीसितमिति यावत् तुच्छपुरुषार्थरूपमपि निरतिशय पुरुषार्थं रूपत्वेन मन्यमानं पत्यपत्याद्यन्य- तमं सांसारिकमेव फलं रासीत्यभिप्रायः ॥ २१ ॥ * ननु लक्ष्मीहि लोके पुरुषार्थत्वेन प्रसिद्धा, न त्वहं तत् कथमेवमुच्यते तत्राह मत्प्राप्तय इति । ऐन्द्रिये शब्दादौ धीर्येषां तथाभूताः ‘कण्ठेकालवदलुक्समासः’ अजो ब्रह्मा ईशो रुद्रः सुरा इन्द्रादयः असुराश्च ये यद्यपि मत्प्राप्तये मां प्राप्तुं भवत्पादपरायणादृते भवत्पादारविन्दशरणवरणं विनान्यदुत्रं तपः तप्यन्ति ‘पाकं पचती’ ति- वन्निर्देशः तपः कुर्वन्तीत्यर्थः, तथापि मां न विन्दन्ति न प्राप्नुवन्ति । कुतः हे अजित ! यतोहं त्वद्धृदया तव हृदया हृत् अया प्राप्ता त्वद्धृद्रताहं त्वदपृथसिद्धत्वेन मम त्वदन्तर्गतत्वेनैव पुरुषार्थरूपत्वं न तु पृथगित्यर्थः । यद्वा त्वन्निरतिशयपुरुषार्थरूपा त्वं हृदये हृतो यस्यास्तथाभूताहं त्वय्येव हृदयं यस्याः सेति निरतिशय पुरुषार्थरूपस्य तक नित्यं मद्धृद्गतत्वेनाहमपि पुरुषार्थं रूपा भवामि न तु स्वत इत्यर्थः, अतो ये भगवत्पादारविन्दपरायणास्ता नेवामनुवर्तयामीत्यभिप्रायः ।। २२ ।। * इदाना तत्कृपां प्रार्थयते । सत्वमिति । यः पुरुषार्थरूपः स त्वं हे अच्युत ! वन्दितं सर्वपुरुषार्थं प्रदत्वेन स्तुतं तत्कराम्बुजं मम शिरसि निधेहि । कथंभूतं यत्सात्वतामेकान्तिनां शीर्षिण अधायि कृपया निहितं मत्पूर्णकृपाविषया त्वमध्यपूर्वं किमिदं प्रार्थयसे, तत्राह हे वरेण्य ! मायया मायामयरूपेण श्रीवत्सेन सह मां चिह्नं वक्षसि बिभर्षि चिह्नरूपेण बिभर्षीत्यर्थः । श्रीवत्सस्य प्रधानात्मकत्वं " श्रीवत्सस्थानमपर- मनन्तेन समाश्रितम् । प्रधानबुद्धिरध्यास्ते गदारूपेण माधवम्” इति भगवता पराशरेणोक्तं माययेति दृष्टान्तार्थः यथा श्रीवत्सं तथा लक्ष्म तथाहमपि लक्ष्म अतः सात्वतस्य शिरसि कृपास्त्येवेत्यभिप्रायः । “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । ज्ञानी व्वात्मैव ४स्क. ५ अ. १८ श्लो. १७-२४] अनेकव्याख्या समलङ्कृतम् ३८५ मे मतम्” इत्युक्तभगवदभिप्रायमालोच्य शीणि सात्वतां यदधायीत्युक्तम् । अत्र कारणं न कोऽपि वेत्तु प्रभुरित्याह । ईश्वरस्य तवेहितं चेष्टितमभिप्रेतं वा ऊहितुं कथयितुं को वा प्रभुः समर्थः न कोऽपीत्यर्थः ॥ २३ ॥ * * एवं केतुमाले उपास्योपास- कादिकमुक्तमथ रम्यके तदाह रम्यके चेति । प्राग्युमान्तसमये मनो रम्यकवर्षाधिपतेः प्रदर्शितं यन्मात्स्यं रूपं भगवतः प्रियतमं तदेव रूपं स एव मनुः रम्यके वर्षे इदानीमपि महता विच्छिन्नेन भक्तियोगेनाराधयन्नास्ते ।। २४ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली * । मायामयमिच्छामयं रमा देवी भगवतो रूपमुपास्त इत्यस्येदं तात्पर्यमवगन्तव्यं रतिसन्निहिता रमा देवी कामान्तः स्थितं हरेः रूपमुपास्ते । रतिस्तु विष्णोः प्रतिमास्थानीयं कामदेवम् “कामदेवस्थितं विष्णुमुपास्ते श्री रतिस्थिता । कामदेवं रतिश्चापि विष्णोस्तु प्राकृतां तनुम्” इति स्मृतेः अनेन मायामयमित्यस्य प्राकृतमित्यर्थः सूच्यते । संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरहस्सु तासां भर्तृभिरुपेता ।। १७ ।। * * ये ये सर्वे विशेषा व्यावर्तकधर्मास्तांस्तान् विदन्तीति सर्वविशेषविदो ब्रह्मादयस्तेषां क्षेत्रमावास स्थानमात्मा देहो यस्य स तथा तस्मै आकृतीनामभिप्रायाणां पूर्वानुभवसंस्काराणां वा चित्तानां स्मरणकारणानामन्तःकरणविशेषाणां चेतसां बुद्धिवृत्तीनां वृत्तिविशेषाणां चाधिपतये सर्वमयाय सर्वोत्तमाय उभयत्रान्तर्बहिश्च भूयाद्रक्षाया इति शेषः ।। १८ ।। * लोके विद्यमानाः स्त्रियो नानाव्रतैरिन्द्रियस्वामिनं त्वामाराध्य त्वत्तोऽन्यं प्रतिमाशासते प्रविशन्ति प्राप्नुवन्तीत्यर्थः । त्वमनेन व्रत- लक्षणाराधनेन हेतुना तासामपत्यं प्रियं भर्तारमुपभोगसाधनं धानान्यायूंष्यहोरात्रगमागमलक्षणानि रक्षसि कुतस्ताः स्त्रियः पतित्वेन वृताः पुरुषाश्चास्वतन्त्रास्तत्पालने शक्तिहीना यतोऽतस्तत्पतित्वं व्यावहारिकमित्यर्थः ।। १९ ।। तर्हि मुख्यपतिः क इति तत्राह स वा इति । यः स्वयमकुतोभयः सन् भयातुरं जनं समन्ततः पाति स वै स एव पतिः स्यात् । नन्वेवं तर्हि बहवः किं न स्युरिति तत्राह एक इति । भवानिति शेषः, इतरथा बहूनां पतित्वे मिथोऽन्योऽन्यं भयं स्यान्मण्डलेश्वराणामिवेति शेषः । । अतस्त्वमेक एवं पतिरित्यर्थः, इतोऽपि त्वल्लाभ एव पुरुषार्थ इत्याह भजन्निति । त्वां भजन् पुरुष आत्मलाभात् त्वलाभात्परमन्य- मध्यधिकं नैव मन्यते, अभावादिति शेषः “एकमेवाद्वितीयम्” इति श्रुतेः ॥ २० ॥ अतोऽप्यस्यैव पुरुषार्थ प्राप्तिहेतुत्वा- दित्याह य इति । निरुपमचरित पतिर्यस्तस्य ते तव यः पादसरोरुहयोरर्हणं पूजनं नितरां कामयेत्सोऽखिलकामलम्पटः अपेक्षिता- शेषपुरुषार्थ प्राप्तिपटुतरः, हे ईप्सितप्रेष्ठ ! अतस्त्वदर्चितमेवाभीप्सितं नान्यदर्चनं विशिष्टफलहेतुत्वात् । व्यतिरेकमुखेन निर्धारयति यद्भग्नेति । अयं भावः यत्कामोऽन्यपादार्चनं करोति तस्मात्फलानुदयात् । प्रतप्यत इति यद्यस्मात्तस्मादिति । चशब्देन पूर्वमर्चितमिदा- नीमर्च्यते उत्तरत्रार्चिष्यत इति सूचयति ।। २१ ।। * अन्यपादाचकस्य भनयाच्यात्वमत्र द्रष्टव्यमित्याह मत्प्राप्तय इति । * । ये ऐन्द्रियेधियः इन्द्रियविषये धीर्येषां ते तथा शब्दादिविषय रागान्धीभूतबुद्धयः ससुरासुरादय उग्र तपस्तप्यन्ते ते मां न विन्दन्ति मत्तोऽभीष्टफलं न विन्दन्तीत्यत्र कारणमाह ऋत इति । भवत्पादपरायणमर्चनमृते त्वञ्चरणार्चनाभावः कारणं हेत्वन्तरमाह । अहमिति । अजित ! अहं त्वद्धृदया यतस्तस्मादिति शेषः, त्वयि हृदयं यस्याः सा तथा यस्त्वत्पादाचकस्तस्य मत्प्रसादः यो न तस्य नास्तीति अयं भावोऽसंप्रज्ञातस्तया मया ज्ञायत इति ॥ २२ ॥ * ४ स्वशिरसि नित्यधृतक राम्बुजत्वेऽपि भगवत्पूजकै- रेवं प्रार्थनीयमित्याशयवत्याह स त्वमिति । यत्कराम्बुजं सात्वतां स्त्रीणामिति शेषः, शिरस्स्वधायि येन त्वया स त्वं मम मूर्द्धन्यपि तत्कुर्वित्यन्वयः । किञ्च सर्वस्मान्मयि तव प्रसादाधिक्यमस्तीति द्योतयति विभषति । हे वरेण्य ! त्वद्वक्षसि मा मां लक्ष्म चिह्न विभर्षि यदतो माययेश्वरस्य ईहितमूहितु को विभुर्न कोऽपि समर्थः ॥ २३ ॥ * मनोर्वैवस्वतस्य ।। २४-२५।। । Y ॥ श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः । TE FES 130 FRIE मायामयं कृपाप्रचुरम् ॥ १७ ॥ * * षोडशशक्त्यधिष्ठात्रे वेदाधिष्ठात्रे पार्थिवबलदायक भोज्यशक्त्यधिष्ठात्रे दिविजबलदायकभोज्यशक्त्यधिष्ठात्रे किं बहुना सर्वशक्त्यधिष्ठात्रे अतः एव सर्वसहआद्यधिष्ठात्र इति क्रमेण ॥ १८ ॥ * * आत्मनस्तस्य स्वरूपस्यैव लाभात् । परमन्यत् सेवादिकं नाधिकं मन्यते । यथाह श्रीप्रह्लादः “यस्त आशिष आशास्ते न स भृत्यः सं वै वणिक्” इत्यादौ “नान्यथेहा वयोरर्थो राजसेवकयोरिव” इति ।। १९-२० ।। * * अखिलकामलम्पटेति सर्वकामस्यापि कामनीयार्थस्य प्रतिष्ठा हि त्वत्पादसरोरुहमिति ।। २१ ।। * * यद्यजादयोऽपि विषयधियों भूत्वा मह भूत्वा मत्प्राप्तये मदंशभूत - प्राकृतसम्पत्तये तप्यन्ते तदा मां मदंशभूतां सम्पत्ति न विन्दन्ति किन्तु प्राकृतीमेव विन्दन्तु नामेत्यर्थः । ऋत इति । यदि तेषु कोऽपि त्वत्पादपरायणो भवति तदा तु स विन्दत्येवेत्यर्थः । त्वद्दयेति गर्वप्राप्तेः ।। २२ ।। * * स त्वमिति । दैन्योक्तिः यवया यत् कराम्बुजं स्वीकारव्यञ्जकं सात्वतानां शीर्षण अधायि तन्ममापि तादृशभक्तिहीनायाः शीर्षण अधायीत्येकमाश्चर्यम् । किन स तादृशस्त्वं मायया कृपया मा मां वक्षसि लक्ष्मरूपत्वेन बिभर्षीति ततोऽपि परमाश्चर्यम् । तस्मात् क ईश्वरस्येति । मत्स्यत्वेनानुत्कृष्टदृष्टि प्रत्याह प्रियतममिति । तदपि भगवतः परमस्वरूपमेव जानीयादित्यर्थः । अथाध्यात्मना सन्निधीयत इति सामान्योक्तेराराधयतीत्यत्र सन्निहितं सन्तमिति ज्ञेयम् ।। २३-२४ ।। mp in s ३९० श्रीमद्भागवतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी 1 [ स्कं. ५ अ. १८ श्लो. १७-२४ Ma कृपाम- मायामयं कृपामयं मायाया जीवाविद्याया आमयो रोगो यतस्तमिति वा, रात्रिषु प्रजापतेर्दुहितृभिः राज्यभिमानिनी- भिर्देवताभिः सह अहःसु तासां राज्यभिमानिदेवतानां पतिभिर्दिवसाभिमानिभिर्देवैः सहितेत्यर्थः ॥ १७ ॥ यत्वमेव विवृण्वती मन्त्रं जपन्ती एतन्मन्त्रोपासकोऽन्योऽप्येवं स्वसम्बन्धेन मन्त्रार्थं भावयेदिति व्यञ्जयन्ती प्रणमति कान्ताय मत्पतये कामाय नम इत्यन्वयः । देवपदानुक्तिः पत्युः सम्पूर्णनामोच्चारणानौचित्यात् । अन्यस्तु लक्ष्म्या दासीभावेनैवात्मानं ध्यात्वा मन्त्रमिममुच्चारयेदिति सम्प्रदायः । हृषीकेशाय स्वसौन्दर्यादिना मन्नेत्रादीन्द्रियाकर्षकाय मन्नेत्रादीन्द्रियमाधुर्यसम्भोक्त्रे इति वा स्वस्य तथा योग्यतायां हेतुः । सर्वैर्गुणविशेषैर प्राकृतैर्गुणैर्विलक्षिता विलक्षणीकृता आत्मानो देहमनोबुद्धयादयो भवन्ति यतस्तस्मै, हृषीकेशत्वं विवृणोति आकूतीनां मम कर्मेन्द्रियाणां चित्तीनां ज्ञानेन्द्रियाणां चेतसां चित्ताहङ्कार बुद्धिमनसां विशेषाणां तत्तद्वृत्तीनां तत्तद्विषयाणां वा अधिपतये स्वामिने तत्तन्माधुर्यास्वादिने अन्योपासकपक्षे अधिष्ठात्रे तेषामप्राकृतीकरणात् स्वयमेवाधिष्ठाता न तु दिगादिदेवसमूह इति भावः । षोडशकलाय राका चन्द्रतुल्यत्वात् पूर्णाय छन्दोमयाय वेदरूपेण स्वभक्त्युपदेष्ट्रे अन्नमयाय अन्नरूपेण साधकभक्तप्रतिपालकाय अमृतमयाय अमृतवदास्वाद्यरूपगुणलीलादिकाय मोक्षरूपाय च सर्वमयाय मम सर्वस्वरूपाय सहसे ओजसे बलाय त्वत्सेवायां मचित्तेन्द्रिय देहसामर्थ्यप्रदाय उभयत्र इह लोके परलोके च ॥ १८ ॥ * * स्वयं निष्कामा सकामभक्ति- मतीरन्याः स्त्रीः शोचति स्त्रिय इति । स्वत एव हृषीकाणामीश्वरं पतिमपि त्वा त्वामाराध्य अन्यम् ॥ २९ ॥ * पति- शब्दार्थमेव ता न जानन्तीत्याह स वा इति । पातीति पतिर्यश्चात्मानमपि पातुं न शक्नोति स कथमन्यान् पातीत्यर्थः, अतः प्रथममकुतोभयः स्यात् स च एको भवानेवः इतरथा प्रकारान्तरेण पतिशब्दव्याख्यानमित्यर्थः । यद्वा सप्तम्यर्थ एव थाल्प्रत्ययः, इतरत्र मण्डलेश्वराणामिव स्वप्रजापालकानामपि मिथो भयं ततश्च प्रजानामपि भयमिति तदपालनमेव वस्तुत इत्यर्थः । अत एवात्मनः परमात्मनस्तव लाभात् अधि अधिकं परं वस्तु न मन्यते शास्त्रज्ञैरिति शेषः । त्वत्प्राप्तेः सकाशात् अन्यप्राप्तिनैवाधिकेति त्वमेव वस्तुतः पतिशब्दवाच्य इत्यर्थः ॥ २० ॥ * * किव निष्कामभजने अप्रार्थिता एव सर्वे कामा भवन्ति कामभजने तु कामितमात्रमनित्यचेत्याह । या स्त्री तस्य उक्तलक्षणस्य तव पादपद्मपूजामेव नितरां कामयेत् न तु फलान्तरं साखिलेषु कामेषु लम्पटा सर्वानेव कामान् प्राप्नोतीति अथ च निष्कामपदवाच्या भवेत् । यथा तु ईप्सितं प्रति ईप्सितः फलान्तरं प्राप्तुमपेक्षितः सन् अर्चितो भवसि । तस्यै तदेवैकं रासि ददासि यद्यतः फलभोगानन्तरं भग्ना यांच्या याचितोऽर्थो यस्याः सा प्रतप्यते दुःखं प्राप्नोतीत्यतः । सैव निष्कामापि सकामपदवाच्या भवेदित्यतो भगवन्तं कामयमाना भक्ता नैव, सकामशब्देन वाचनीया इति सिद्धान्तो व्यञ्जितः । अत्र ईप्सितान्तर कामायाः परितापः स्वस्वभावः प्रातिकूल्यदृष्टयैव लक्ष्म्या तामधिक्षिपन्त्यैवोक्तः । वस्तुतस्तु सकामभजनादपि कृतार्थत्वमुपरिष्टाद्वक्ष्यते ।। २१ ।। केचित् सकामास्तु त्वामप्यपहाय मामेव भजन्ते तेऽपि धूलिमेव लभन्त इति तान् निन्दन्त्याह । मत्प्राप्तये ब्रह्मादयस्तपस्तप्यन्ते कुर्वन्ति । ऐन्द्रिये विषयसुखे एव धीर्येषाम् - अलुक्समासः तदपि भवत्परायणात् ऋते विना मां मत्कदाक्षविलसितां सम्पत्तिरूपां लक्ष्मीं न लभन्ते भवत्परायणाः प्रह्लादध्रुवादय एवं विन्दन्ति । या तु त्वदभक्तेष्वपि देवासुरादिषु सम्पद् दृश्यते सा तु गुणमयी प्रतिस्वकर्मफलरूपा मायाशक्तेदुर्गाया एव प्रसादाद्वा कामादितरङ्गजनिका कादाचित्की न तु त्वत्स्वरूपभूताया ममेति, मम मायात्वाभावात् मत्प्रसादोत्थायाः सम्पत्तेरपि त्वद्वैमुख्यापादकत्वाभावात्तत्र हेतुः । त्वद्धृदया त्वन्मनस्का त्वन्मनस्का नेवावलोकयामि नान्यमित्यर्थः ॥ २२ ॥ तदेवं ब्रह्मादीनामाराध्यापि तव भार्याप्यहं निष्किञ्चनो भक्तो यथा त्वत्तः सौभाग्यं लभते तथा नाहं लभे एवं मे ललाटमित्याह स महृदयनित्यविहारोऽपि त्वं ममापि शीर्षिण कराम्बुजं धेहीति शेषः । त्वत् त्वया यत् सात्वतां शीणि अधायि । वन्दितं कृपासौभाग्यवर्षित्वेन सद्भिः स्तुतम् । ननु त्वत्सौभाग्यं सर्वतोऽप्यधिकं यतस्त्वामहं हृदये एव नित्यं दधामीति तत्र सत्रपं साञ्चलमुखाच्छादनं ** भित । हे वरेण्य ! मा मां लक्ष्म कनकरेखाचिह्नतया यद्वक्षसि दधासि तन्माययैव मद्भक्तकार नीचैराह निर्बुद्धिरेषा मय्यसूयां मा कार्षीदिति कपटेनैव । ननु कोऽप्येवं न ब्रूते तत्राह । कः खल्वीश्वरस्य तव ईहितमूहितुं वितर्कितुं क्षमः, यतः “न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान्” इति तव भक्तं प्रति निभृतोक्तिमहश्रौषमेवेति ध्वनिः । प्रागिति चाक्षुषमन्व- न्तरान्ते प्रलये स वैवस्वतो मनुः ।। २३-२४ ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः माया वयुनं सङ्कल्पस्तन्मयं स्वसङ्कल्पेनाविष्कृतमित्यर्थः, “माया च वयुनं ज्ञानम्” इति कोशात् । उदाहरन्तीति बहुवचनं प्रजापतिपुत्राद्यभिप्रायेण ॥ १७ ॥ ॥ ॥
- सर्वैर्गुणविशेषैः एष सर्वेश्वरः” इत्यादिश्रुतिप्रोक्तैस्तदसाधारणैः सर्वेश्वरत्वादिभिर्विवक्षितः वर्णयितुमिष्ट आत्मा यस्य तस्मै आकूतीनां ज्ञानेन्द्रियव्यापाराणां चेतसामन्तःकरणव्यापाराणां विशेषाणां तत्तद्विषयाणां चाधिपतये षोडशकलाय सूक्ष्मशरीरात्मने छन्दोमयाय वेदात्मने अन्नमयाय स्थूलशरीरात्मने अमृतमयाय स्क. ५ अ. १८ श्लो. १७-२४] अनेकव्याख्या समलङ्कृतम् ३९१ नित्यपदार्थात्मने सहसे मनः सामर्थ्यात्मने ओजसे इन्द्रियसामर्थ्यात्मने बलाय देहसामर्थ्यात्मने किं बहुना सर्वमयाय सर्वात्मने “ऐतदात्म्यमिदं सर्वम्” इति श्रुतेः कान्ताय प्रियाय काम्यते इति कामः ईप्सिताय भगवते अन्तर्बहिश्च नमः ॥ १८ ॥ ॐ ॐ स्वत एव हृषीकाणामीश्वरं पतिं सन्तं त्वामाराध्य अन्यं पतिमाशासते कामयन्ते याः स्त्रियः तासां ते असत्यादिकं न परिपान्ति रक्षन्ति त अतस्ते पतयो नेति फलितोऽर्थः ।। १९ ।। * * कस्तर्हि पतिरत आह स इति । यः आत्मलाभात्परमन्यदधिकं नैव मन्यते स पतिः स्यात् स च भवानेक एव “एष सर्वेश्वर एषः भूताधिपतिः प्रधानक्षेत्रज्ञपतिः” इत्यादिश्रुतेः । इतरथा अनेकेश्वराङ्गीकारे मिथो भयं स्यादित्यन्वयः ॥ २८ ॥ ॥ *
- या ते पादसरोरुहयोः अर्हणमर्चनमेव निकामयेत् नान्यत् साऽखिलकामानां लम्पटा वशीकरणे कुशला ईप्सितमीप्सितः पत्यपत्यादिकं प्राप्तुमपेक्षितः सन् अर्चितचेत्तदा तदेव रासि ददासि तद्यतः भग्ना याच्या याचितोऽर्थो यस्याः सा प्रतप्यते ॥ २१ ॥ * * ऐन्द्रिये मत्प्रसादलब्धविभूतिसुखे धीर्येषां ते कण्ठे- काल इतिवदलुक्समासः’ भवत्पादः परायणं यस्य तस्मादृते मां न विन्दन्ति विभूत्यर्थं मामनुकूलयितुं न शक्नुवन्ति भवत्पादपराय णस्तु मां विन्दति मम पुत्रत्वात् यतोऽहं त्वद्धृदया त्वं हृदये यस्याः सा तथा । अत्र गूढोऽभिप्रायः भवदीया भवत्पादयाना- मृततृप्ताः ध्यानविच्छेदकरीं मद्दत्तां विभूतिं न वान्छन्ति, किन्तु मम हृदयस्थं त्वां लब्धुं परां मातरं महतादरेण मां भजन्ति अहं च तान् पुत्रवत्सला कदाचिदपि न त्यजामि एवं ते मां विन्दन्तीति ।। २२ ।। * हे वरेण्य ! स उक्तप्रकारस्त्वं मां लक्ष्म वक्षसि बिभर्षि कृतार्था यद्यप्यहमिति भावः, तथाप्यनुग्रहविशेषं कुर्वित्याह । त्वत् इति पञ्चमी तृतीयार्थे त्वया यत्कराम्बुजं सात्वतां भक्तानां शीर्किंग मायया कृपया अधायि न्यस्तम् । तन्ममापि शीर्षिण हे अच्युत ! कृपया निधेहि । अत्र हेतु दर्शयितुं कराम्बुजं विशिनष्टि वन्दितं परानन्ददत्वेन सद्भिः स्तुतम् अथ किं वर्णये तवेहितस्य दुष्पारत्वादित्याह । ईश्वरस्य तवेहितं चेष्टितमूहितुमेतावदिति वितर्कयितुं कः विभुः समर्थः, न कोऽपीत्यर्थः ॥ २३-२४ ॥ नवभः ।। ॥ kingsirkari . । गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ॥ sooris.chu f 1 तद्भगवतो मायामयं राजसं रूपं रात्रिषु प्रजापतेः संवत्सरस्य दुहितृभिः रात्र्यभिमानिदेवताभिः तथाऽहस्सु दिवसेषु च तद्भर्तृभिर्दिवसाधिष्ठातृदेवताभिरुपेता मिलिता यत्समाधियोगेन चित्तैकाग्रलक्षणोपायेन रमा देवी उपास्ते सेवते, इदं च मन्त्रादिकमुदाहरति उच्चारयतीत्यन्वयः । चित्तैकाग्रता भगवत्सेवायां मुख्यं साधनमिति तदुक्तिरन्यसर्वसेवा सामम्युपलक्षणार्था । चित्तैकाग्र्यपूर्वकं विविधोपचारैः सेवते इत्यर्थः ॥ १७ ॥ * * इमं मन्त्रं जपति - ओमिति ओं कामाय कान्ताय भर्त्रे नम इत्यन्वयः । नतु नमस्कारेण किं स्यादित्याशङ्कय सर्वात्मकत्वात्त्वन्नमस्कारादिसत्कारेण सर्वमेव विश्वं सत्कृतं भवेदित्य- भिप्रायेणाह - सर्वमयायेति, सर्वात्मत्वोपपादनायैव अन्यानि विशेषणानि - हृषीकेशायेति हृषीकाणीन्द्रियाणि तेषामीशाय नियन्त्रे इत्यर्थः । नन्विन्द्रियनियन्तृत्वं तु आदित्यादिदेवानां प्रसिद्धं तत्कथं कामदेवस्येत्याशङ्कयाह- सर्वेति । सर्वैस्तेजखित्वा- दिभिर्गुणविशेषैर्विलक्षित आत्मा आदित्यादिमूर्तिर्यस्य तस्मै इन्द्रियनियामकतत्तद्देवतारूपायेत्यर्थः । तथापि तत्तद्देवतानामप्यन्त- योम्यधीनत्वान्न तत उत्तमत्त्वं सिद्वयतीत्याशङ्कय तदन्तर्यामित्वमपि तस्यैवेत्याह– षोडशकलायेति, एकादशेन्द्रियपञ्चमहाभूता- भिमानिदेवेषु षोडशसु कला अंशोऽन्तर्यामिरूपो यस्य तस्मा इत्यर्थः । अतो देहेन्द्रियादिप्रवृत्तिस्तदधीनैवेति फलितमाह- आकूती- नामिति, आकृतीनां वागादिपञ्चकर्मेन्द्रियजन्यभाषणादिपञ्चविधक्रियाणां, चित्तीनां चक्षुरादिपञ्चबुद्धीन्द्रियजन्यदर्शनादिपञ्च- विधज्ञानानां चेतसां चतुर्विधान्तःकरणजन्यचतुर्विध सङ्कल्पाध्यवसायादिवृत्तीनां विशेषाणां पृथिव्यादिपञ्चमहाभूतरूपादिपञ्चत- न्मात्रात्मकानां चाधिपतये स्वामिन इत्यर्थः । नन्वेवमपि तत्तदिन्द्रियाधिष्ठातृदेवादिसत्त्वेऽपि तत्तत्सामर्थ्याभावे यथेष्टप्रवृत्त्य- दर्शनात् कथं तच्छ्रेष्ठत्वं सिद्धयतीत्यशङ्कय तत्तत्सामर्थ्यरूपत्वमाह - सहस इति, सहसे अन्तःकरणसामर्थ्यरूपाय, ओजसे इन्द्रिय- सामर्थ्यरूपाय, कलाय देहसामर्थ्यरूपाय । ननु तथापि देहेन्द्रियादिसामर्थ्यस्य आहाराधीनत्वान्न स्वातन्त्र्येण श्रेष्ठत्व सिद्धिरित्याशङ्कय तद्रूपत्वमाह – अन्नमयाय मनुष्यादिभोज्यरूपाय, अमृतमयाय देव भोज्यरूपायेत्यर्थः । नन्वन्नादेरपि प्रारब्धकर्माधीनत्वात् । कर्मणश्च वेदाधीनत्वादेवमपि कथं स्वतन्त्रतासिद्धिरित्याशङ्कयाह — छन्दोमयायेति, सर्ववेदात्मकायेत्यर्थः । नन्वेकस्यैवैवं कथं नानारूपत्वं सम्भवतीत्याशङ्कयाह - भगवत इति, ऐश्वर्यादिगुणपूर्णायेत्यर्थः । न ह्यचिन्त्यानन्तशक्तेः किञ्चिदनुपपन्नमिति भावः । ननु किमर्थमेवं नमस्करोषि तद्वृणीष्वेत्यपेक्षायामाह नम इति । त्वत्तो वरयाचने तावन्मात्रमेव स्याद्याच्यां विनाऽपि त्वन्नमस्का- रसेवादिना त्वत्प्रसादेन तु सर्व एव मनोरथाः सर्वदैव सिद्धयेयुरतोऽन्तर्मनसा बहिश्च वचसा कायेन चेत्येवमुभयत्र ते तुभ्यं नमः सर्वदा भूयादित्यर्थः । यद्वा उभयत्र इहलोके परलोके च सर्वत्र सर्वदैत्यर्थः ॥ १८ ॥ नन्वेवं तर्हि लोके स्त्रियो मामाराध्य कुतो मत्तोऽन्यं पतिं प्रार्थयन्ते इत्याशङ्कय मन्त्रोक्ताभिप्रायकेण स्तोत्रेण तासां मौख्यं सूचयन्ती मन्त्रोक्तमर्थमेव दृढीक रोति - स्त्रिय इति पञ्चभिः । लोके हि याः स्त्रियो व्रतैस्त्वा त्वामाराध्य त्वत्तोऽन्यं पतिमाशासते प्रार्थयन्ते ते च पतयस्ता सामपत्यं धनानि आयूंषि अन्यच्च प्रियवस्तु न वै परिपान्ति नैव रक्षितुं शक्नुवन्तीत्यन्वयः । तेषां तत्र सामर्थ्याभावे हेतुमाह यत इति । यस्मात्तेऽस्व- तन्त्राः कालकर्मगुणाद्यधीनाः । न ह्यजगरगृहीतोऽन्यान् गोप्तुं शक्नोतीति भावः । अतस्त्वत्तोऽन्यप्रार्थना न युक्ता, किन्तु त्वमेव
- ર
- श्रीमद्भागवतम्
- [ स्कं. ५ अ. १८ श्लो. १७२४ वरणयोग्योऽन्तर्यामित्वादित्यभिप्रायेण विशिनष्टि - हृषीकेश्वरमिति । भगवतोऽपि जन्मादिमत्त्वे कालाद्यधीनत्वेन ततोऽपि रक्षा न स्यादित्याशङ्कयाह - स्वत इति, कालादिनियमकतया स्वतो विराजमानं निर्भयमित्यर्थः ॥ १९ ॥ * * उक्तमेव स्पष्टयति- सवा इति । यः स्वयमकुतोभयः न कुतोऽपि कालादितो भयं यस्य स तथा सर्वतो निर्भयः सन् भयातुरं कालादिभयेन व्याकुलं जनं समन्ततः सर्वतः पाति स वै पतिः स्यात् स एक यथार्थपतिशब्दवाच्यः स्यात् । स एवम्भूतः पतिर्भवानेक एव नान्य इत्यन्वयः । ननु मम कथं कालादिभयं नास्तीत्याशङ्कय तत्र हेतुमाह - नैवेति, यतो भवानात्मलाभात् पूर्णानन्दस्वरूपलाभात् परमन्यदधिकं न मन्यते । अविद्ययाऽऽवृतात्मनां दीनानां विषयसुखार्थं संसारे धावतां दुरदृष्टवतामेव कालादिभयं भवति भेददर्शित्वादित्यभिप्रेत्याह- इतरथेति, इतरथा आत्मदर्शनाभावेन विषयासक्त्या मिथो जनानां भयं भवतीत्यर्थः । तथा च लोके प्रतित्वेन प्रसिद्धा अपि कालादिभयग्रस्तत्वेन रक्षायामसमर्थत्वान्नैव वस्णयोग्याः, भवांस्तु कालादिभयरहितत्वेन रक्षायां समर्थत्वा- दूरणयोग्य एवेति सिद्धम् ॥ २० ॥ * * भगवञ्चरणारविन्दस्य निरन्तर निष्कामसेवयैव आत्मनः पूर्णमनोरथत्वं मत्वाऽ- न्येषामपि निष्कामभजने प्रार्थिता एव सर्वे कामा भगवत्कृपया स्वत एव भवन्ति, सकामभजने तु कामितमात्रमनित्यमेवेत्याह- येति । या स्त्री तस्योक्तलक्षणस्य ते तव पत्युः पादसरोरुहस्यार्हणं पूजामेव निरन्तरं कामयेत्, न फलांतरं साऽखिलेषु लम्पटा सर्वानेव कामान् प्राप्नोतीत्यर्थः । स्त्रीप्रसङ्गादेव येति स्त्रीत्वनिर्देशो वस्तुतस्तु स्त्रीपुंससर्वसाधारणैवेयं रीतिः । [ पादस्य सरोरुह- व्वोक्त्या सर्वतापहारकत्वाह्लादकत्वसुख सेव्यत्वादि सूचितम् ] ईप्सितमीप्सितः फलान्तरं प्राप्तुमपेक्षितः सन्नार्चितश्चेत्तर्हि तदेकैक- मीप्सितं फलं रासि ददासि यत् यतः पुनः । फलभोगानन्तरं भग्ना याच्या याचितोऽर्थो यस्याः सा प्रतप्यते दुःखं प्राप्नोती- त्यर्थः । अत्राखिलकामलम्पटत्वोक्त्याऽऽत्मनोऽपि तथात्वसूचनेन लक्ष्म्याः सत्त्वतमोमिश्रितशुद्धराजसत्वं ज्ञेयम् ॥ २१ ॥ * * ननु कामार्थभिस्तत्प्राप्त्यर्थं त्वं सेव्य से ब्रह्मादयश्च सेव्यन्ते ततः फलप्राप्तिरपि शास्त्रे लोके च प्रसिद्धा, तर्हि कथं ममार्हणेनैव सर्वकामप्राप्तिरित्याशङ्कयाह – मत्प्राप्तये इति । अजो ब्रह्मा ईशो महादेवः सुरा इन्द्रादयः असुराः हिरण्यकशिपुप्रह्लादादयः । आदिपदेन मनुष्यगन्धर्वादयो गृह्यन्ते । ऐन्द्रियसुखे धीर्येषां ते तथाभूता ब्रह्मादयो यद्यपि मत्प्राप्तये उग्रं तपस्तप्यन्ते कुर्वन्ति, तथापि भवत्पादपरायणादृते मां न विन्दन्ति मत्कटाक्षविलसिता विभूतीर्न लभन्ते इत्यर्थः । तत्र हेतुमाह - यतस्त्वय्येव हृदयं यस्याः साऽहं अतस्त्वत्परतन्त्रत्वात्त्वद्भक्तमेव अनुगृह्णामि नान्यमिति भावः । एवं सर्वोत्कृष्टाया अपि स्वस्यास्तद्वशवर्तित्वे तस्य कालाद्य पारतन्त्र्यं हेतुं दर्शयन्ती सम्बोधयति — हेऽजितेति । अत्रेदं फलितम् - यदि भक्ति विना ब्रह्मादीनामपि विभूतिदुर्लभा तदा काऽन्यस्य कथा ? लक्ष्मीकृपां विना तेषां स्वभक्तेभ्यो विभूतिदाने सामर्थ्याभावादिति भगवद्भक्तानामेव विभूतिलाभो नान्येषामिति नियमे सिद्धे यत्रान्यभक्तेभ्यस्तल्लाभस्तत्रापि भगवद्भक्तिरस्तीति तत्कृपयैव तल्लाभ यदि ज्ञेयम् ॥ २२ ॥ भक्तत्वेन भगवत्कृपां प्रार्थयते—स त्वमिति । यत्कराम्बुजं स्वहस्तकमलं त्वत् त्वया सात्त्वतां त्वया सान्त्वतां शीर्डिंग अधायि कृपया न्यस्तं तत्त्वं ममापि शीर्षिण निधेहीति शेषेणान्वयः । एवं करधारणे किं फलं तत्राह - वन्दितमिति । सर्वपुरु- पार्थपदत्वेन ब्रह्मादिभिः स्तुतमित्यर्थः । तथा च तस्य शीर्षिण निधाने सर्व एव पुरुषार्थः सिद्ध्येदिति भावः । श्रीहस्तस्य सर्वपुरुषार्थ- प्रदत्वे हेतुमाह - सत्वमिति । यतो यत्कृपयैव सर्वपुरुषार्थसिद्धिर्नान्यथा स तथाविधस्त्वं अतस्तव हस्तकमलमपि तथाविधमित्यर्थः । ननु त्वमपि मम कृपापात्रमेव अत एव त्वां वक्षसि विभर्मीत्याशङ्कयाह - बिभषति । हे वरेण्य यद्यपि त्वं वक्षसि लक्ष्मरूपेण मां बिभर्षि तथापि परमपुरुषार्थ हे तुहस्तकमलस्य भक्तशीष्णि स्थापना ज्ञायते भक्तेषु ममादरं दृष्ट्वेयं मय्यसूयां मा कार्षीदिति कृत्वा मयि केवलमादरविडम्बनमात्र, परमा कृपा तु भक्तेष्वेवेतीश्वरस्य सर्वकरणसमर्थस्य तव मायया कापट्येनेहितं चेष्टितमूहितुं तर्कयितुं को विभुः समर्थः ? न कोपीत्यर्थः । इतिशब्दः स्तोत्रसमाप्तिद्योतकः ॥ २३ ॥ * रम्यकवर्षे भगवत उपासनं दर्शयति- रम्यक इति । रम्यके च वर्षे तद्वर्षपुरुषस्य तस्य वर्षस्य स्वामिनः सत्यव्रतस्य राज्ञो मनोरिदानीं मनुत्वेन वर्त्तमानस्य श्राद्धदेव सञ्ज्ञस्य प्राक् राजावस्थायां चाक्षुषमन्वन्तरे भगवता यन्मात्स्यं रूपं प्रदर्शितं तद्भगवतोऽवतार रूपमात्मनः प्रलये रक्षकत्वात् प्रियतमं स मनुरिदानीं मन्ववस्थायामपि महता भक्तियोगेनाराधयति इदं च मन्त्रादिकमुदाहरति जपतीत्यन्वयः ।। २४ ॥
- | PILES
- श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी
- ।
- आत्मनोऽपि निजभक्तानां
- तदिति । भगवतः मायामयं मायाप्रचुरं आत्मीय संकल्पेन परिगृहीतमित्यर्थः । तत् रूपं रमा देवी संवत्सरस्य रात्रिषु प्रजापतेः संवत्सराभिमानिनो देवस्य दुहितृभिः राज्यभिमानिनीभिः देवताभिः उपेता सती, अहस्सु संवत्सरस्य दिवसेषु च, तद्भर्तृभिः दिवाभिमानिभिर्देवैः, उपेता सती च परमेण समाधियोगेन उपास्ते । इदं वक्ष्यमाणं मन्त्रवाक्यं च उदाहरति जप्रति ।। १७ ।। * * जप्यं मन्त्रमाह । ओमिति । हांकारादीनि त्रीण्यपि कामबीजानि । अभगवच्छब्दौ पूर्ववत् । हृषी- काणामिन्द्रियाणामीशो नियन्ता तस्मै, सर्वैर्गुणविशेषैः श्रेष्ठवस्तुभिः, विलक्षितो लक्षीकृत आत्मा यस्य तस्मै । विवक्षितात्मने इति पाठे, सर्वैः गुणविशेषैः सत्यज्ञानादिभिः विवक्षित आश्रयत्वेन वक्तु प्रतिपादयितुमिष्ट आत्मा स्वरूपं यस्य तस्मै । कल्याणगुणा- श्रयत्वेन वेदान्तैः प्रतिपाद्यमानायेत्यर्थः । आकूतीनां क्रियाणां चित्तीनां ज्ञानानां चेतसां संकल्पाध्यवसायादीनां कर्मेन्द्रियज्ञानेन्द्रिय- मनोव्यापाराणामित्यर्थः । विशेषाणां बहुवचनमाकाशाद्यभिप्रायकं तेन पृथ्वीप्रभृतिमहाभूतानां चेत्यर्थः । अधिपत्तये नियन्त्रे,
- रु.५ अ. १८ लो. १७-२४ ]
- अनेकव्याख्यासमलङ्कृतम्
- ३९३
- षोडशकलाय पञ्च भूतानि मनः सहितैकादशेन्द्रियाणि च तच्छरीरकत्वेनावस्थितायेत्यर्थः । छन्दोमयाय वेदोक्तकर्मप्राप्याय, अन्नमयाय अन्नोपष्टभ्यत्वात्तन्मयाय, अमृतमयाय अमृतशरीरकाय, सर्वमयाय सर्वविषयत्वात्सर्वात्मकाय, सहसे मनः सामर्थ्य- रुपाय, ओजसे इन्द्रियशक्तिरूपाय, बलाय देहशक्तिरूपाय, कान्ताय निरतिशयप्रीतिविषयाय, कामाय स्वीयेषु निरतिशयप्रीति- विशिष्टाय, ते तुभ्यं उभयत्र अन्तर्बहिश्च दिवा रात्रौ वा पुरस्तात्पृष्ठतो वा नमः नमः भूयात् ॥ १८ ॥ * * एवमिमं मन्त्रमुदाहरन्ती तत्पत्नी लक्ष्मीः प्रतिशब्दप्रवृत्तिनिमित्तपौष्कल्यविशिष्टस्त्वमे वातस्त्वत्सेवकाहं त्वत्कामेनैव कृतार्थास्मि । अन्य- कामनया त्वामर्चन्त्यः स्त्रियः न परिपूर्णमनोरथाः स्युरित्याह स्त्रिय इति । स्वतः हृषीकाणामिन्द्रियाणामीश्वरोऽधिपतिस्तं त्वां व्रतैः आराध्य लोके संसारे, स्त्रियः अन्यं पतिम आशासते कामयन्ते । पतिकामानां हि कामाराधनं व्रतप्रन्थेषु प्रसिद्धम् । ते ताभिराशास्यमानाः पतयः, तासां स्वान्कामयमानानां स्त्रीणां प्रियं प्रीतिविषयमपत्यं धनायूंषि च न परिपान्ति न रक्षन्ति वै । पातु- मर्थत्वादिति भावः । तत्कुतः । यतः ते तत्पतयः, अस्वतन्त्राः अन्यतन्त्राः कर्मवश्या इत्यर्थः । तेषां पतित्वं हि कर्मायत्तं न हि कर्मपरवशाः कर्मनिर्हरणे समर्था इति भावः । एवं निरुपाधिकरक्षकत्वस्यैव पतिशब्द प्रवृत्तिनिमित्तत्वात्ते पतय एव न भवन्तीत्यभि- प्रायः ।। १९ ।। * एवमन्यत्र पतिशब्दोऽमुख्यवृत्त इत्युक्तं सांप्रतं भगवति तु मुख्यवृत्त इत्याह स वा इति । स मन्त्रो- गुणसंपन्नः भवान् पतिः सत्यः पतिः वै । तथा च श्रुतयः स एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल:’ इति । ‘पतिं विश्वस्यात्मेश्वरम्’ इति ‘न तस्य कश्चित्पतिरस्ति लोके’ इति च । सूत्रं चैतद्विषयकं ‘अनन्याधिपतिः’ इति । कुतो मम निरुपाधिकं पतित्वं तत्राह । अकुतोभयः अकर्मवश्यत्वेन कर्मकृतपारतन्त्र्याभावात् । निरुपाधिकरक्षकत्वं केवले त्वय्येवेति भावः । अत एव, भयातुरं जनं समन्ततः स्वयं पाति । स उक्तविधः निरुपाधिकः पतिः भवान् एकः एव । इतरथा ईश्वरद्वित्वे, मिथः मण्डलेश्व- राणामिव परस्परं भयं स्यात् । यो भवान्स तु, आत्मलाभात् परम् अध्यधिकम्, अन्यत् न मन्यते एव ।। २० ।। एतदेव प्रपञ्चयति येति । यदा अखिलाः समग्रा ये कामाः पत्यपत्यधनादयस्तेषु लम्पटा आसक्ता सती, या स्त्री तस्य उक्तविषयस्य, ते तव पादसरोरुहयोरर्हणमाराधनं, निकामयेन्नितरां कुर्यात्, तदा ईप्सितस्तत्प्रीतिविषयः अर्चितस्तत्समाराधितस्त्वं यत् ईप्सितं तत्प्रार्थितपत्यादिकमित्यर्थः । तत् एव रासि ददासि । हे भगवन्, सा तत्प्राप्तनाशानन्तरमिति शेषः । भग्नयाच्या सती, प्रतप्यते दुःखिता भवति । यद्वा निष्कामभजनेऽप्रार्थिता एव सर्वे कामा भवन्ति, सकामभजने तु कामितमात्रमनित्यं चेत्याह येति । या स्त्री, तस्योक्तविधस्य ते तव, पादसरोरुहार्हणम् एव निष्कामयेत्, न फलान्तरं सा अखिलकामलम्पटा, सर्वान्कामानवाप्नोतीत्यर्थः । ईप्सितम् ईप्सितः फलान्तरं प्राप्तुमपेक्षितः सन्नित्यर्थः । अर्चितः पूजितश्चेत्, तर्हि तदेवैकं, रासि ददासि । यद्यतः फलभोगान्तर- मित्यर्थः । भग्ना याच्या याचितोऽर्थो यस्यास्तथाभूता सती, प्रतप्यते । तथाविधं रासि न तु नित्यमित्यर्थः ॥ २१ ॥ * * ननु कामार्थिभिः सर्वैस्त्वमेवोपास्यसे, तन्नाशभीता ममार्हणं न कुर्वन्तीति चेन्नाहं त्वदनुपासकान्प्राप्नोमि किं तु त्वदुपासकानेव, त्वत्परायणत्वादित्याह मत्प्राप्तय इति । हे हरे, मत्प्राप्तये, ऐन्द्रिये सुखे धीर्येषां ते, अलुक्समासः । अजो ब्रह्मा च ईशः शिवश्च सुरा देवाश्व असुराश्च ते आदयो येषां ते, उप्रं तपः तप्यन्ते कुर्वन्ति । तथापि भवत्पादपरायणात् ऋते अन्ये, मां लक्ष्मी, न विन्दन्ति । मत्कटाक्षविलसिता विभूतीने लभन्ते इत्यर्थः । हे अजित यतः, अहं त्वय्येव हृदयं यस्याः सा त्वत्परायणा इत्यर्थः ।
- । अहं त्वत्परतन्त्रत्वात्त्वदनुवर्त्तिनमेव विलोकयामि नान्यमित्यर्थः ।। २२ ।। * * इदानीं तत्कृपां प्रार्थयते स त्वमिति । हे अच्युत, यः स्वतः पुरुषार्थरूपः स त्वं यद्वा यद्भजनं विना न कश्चिदन्यः पुरुषार्थः स त्वमित्यर्थः । त्वदिति त्वया, सात्त्वतां भक्तानां शीष्णि, वन्दितं सर्वकामवर्षित्वेन सद्भिः स्तुतं यत् कराम्बुजं, अधायि कृपया न्यस्तं तत्कराम्बुजं ममापि, शीर्षिण निधेहीति शेषः । ननु किं त्वयि ममानादरः येनैवं प्रार्थयसे इति चेन्न च मयि तवानादर इत्याह । यतः हे वरेण्य, मा मां, लक्ष्म चिह्नरूपां, वक्षसि बिभर्षि । यथैकतः श्रीवत्सं लक्ष्मतया बिभर्षि, तथा मामपि स्वर्णरेखारूपलक्ष्मभावेन बिभर्षि । अहो आश्चर्यमेतन्मयि केवलमादरमात्रं भक्तेषु तु परमा कृपेति भावः । अतः, ईश्वरस्य तव, मायया स्वेच्छया ईहितं चेष्टितं, तत् ऊहितुं वितर्कयितुं कः विभुः समर्थः न कोऽपीत्यर्थः ॥ २३ ॥ * * एवं केतुमाले उपास्योपासकावभिधाय रम्यके तावाह रम्यके चेति । रम्यके च तद्वर्षपुरुषस्य रम्यकवर्षाधिपतेः, मनोः प्राक् युगान्तसमये, प्रदर्शितं भगवतः प्रियतमं मात्स्यं अवताररूपं, इदानीमपि स मनुः, महता भक्तियोगेन आराधयति । इदं च उदाहरति इमं मन्त्रं जपन् स्तौतीत्यर्थः ॥ २४ ॥
- भाषानुवादः
- ।
- ।
- श्रीलक्ष्मीजी परम समाधियोग द्वारा भगवान् के उस मायामय स्वरूपकी रात्रि के समय प्रजापति संवत्सरकी कन्याओं- सहित और दिनमें उनके पतियोंके सहित आराधना और वे इस मन्त्र का जप करती हुई भगवान् की स्तुति करती हैं ॥ १७ ॥ * * ‘जो इन्द्रियोंके नियन्ता और सम्पूर्ण श्रेष्ठ वस्तुओंके आकर हैं, क्रियाशक्ति, ज्ञानशक्ति और सङ्कल्प- अध्यव- साय आदि चित्तके धर्मों तथा उनके विषयोंके अधीश्वर हैं, ग्यारह इन्द्रिय और पाँच विषय - इन सोलह कलाओंसे युक्त हैं, * ॐ ह्रां ह्रीं हृ ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकृतीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छ- न्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय शान्ताय कामाय नमस्ते उभयत्र भूयात् ।
- ५०
- ३९४
- श्रीमद्भागवतम्
- [ एक. ५ अ. १८ लो. २५-३२
- वेदोक्त कर्मों से प्राप्त होते हैं तथा अन्नमय, अमृतमय और सर्वमय हैं - उन मानसिक, ऐन्द्रियक एवं शारीरिक बलस्वरूप परम सुन्दर भगवान् कामदेवको ‘ॐ ह्रां ह्रीं हूं” इन बीजमन्त्रोंके सहित सब ओरसे नमस्कार है’ ॥ १८ ॥ आप इन्द्रियोंके अधीश्वर हैं। स्त्रियाँ तरह-तरहके कठोर व्रतोंसे आपकी आराधना करके अन्य लौकिक पतियोंकी इच्छा किया करती हैं । किन्तु वे उनके प्रिय पुत्र, धन और आयुकी रक्षा नहीं कर सकते; क्योंकि वे स्वयं ही परतन्त्र हैं ।। १९ ।।
- ।
- २१.
- 5.
- ॥२१॥
- भगवन् !
- सच्चा पति (रक्षा करनेवाला या ईश्वर ) वहीं है, जो स्वयं सर्वथा निर्भय हो और दूसरे भयभीत लोगोंकी सब प्रकार से रक्षा कर सके। ऐसे पति एकमात्र आप ही हैं; यदि एकसे अधिक ईश्वर माने जायँ, तो उन्हें एक दूसरेसे भय होनेकी सम्भावना है। अत एव आप अपनी प्राप्तिसे बढ़कर और किसी लाभको नहीं मानते ॥ २० ॥ * भगवन्! जो स्त्री आपके चरणकमलोंका पूजन ही चाहती है, और किसी वस्तुकी इच्छा नहीं करती उसकी सभी कामनाएँ पूर्ण हो जाती हैं, किन्तु जो किसी एक कामना को लेकर आपकी उपासना करती है, उसे आप केवल वही वस्तु देते हैं और जब भोग समाप्त होनेपर “वह नष्ट हो जाती है तो उसके लिये उसे सन्तप्त होना पड़ता है ।। २१ ॥ * * अजित! मुझे पानेके लिये इन्द्रिय सुखके “अभिलाषी ब्रह्मा और रुद्र आदि समस्त सुरासुरगण घोर तपस्या करते रहते हैं, किन्तु आपके चरणकमलोंका आश्रय लेनेवाले भक्त के सिवा मुझे कोई पा नहीं सकता, क्योंकि मेरा मन तो आपमें ही लगा रहता है ।। २२ ।। अच्युत ! आप अपने जिस वन्दनीय करकमलको भक्तों के मस्तकपर रखते हैं, मेरे सिरपर भी रखिये । वरेण्य ! आप मुझे केवल श्रीलान्छन- रूपसे अपने वक्षःस्थल में ही धारण करते हैं, सो आप सर्वसमर्थ हैं, आप अपनी मायासे जो लीलाएँ करते हैं, उनका रहस्य “कौन जान सकता है ?’ ।। २३ ॥ रम्यकवर्ष में भगवान्ने वहाँके अधिपति मनुका पूर्वकाल में अपना परम प्रिय मत्स्यरूप दिखाया था । मनुजी इस समय भी भगवान्के उसी रूपकी बड़े भक्तिभावसे उपासना करते हैं और इस मन्त्रा का जप करते हुए स्तुति करते हैं- ‘सत्त्वप्रधान मुख्य प्राण सूत्रात्मा तथा मनोबल, इन्द्रियबल और शरीरबल ओङ्कारपदके अर्थ श्रेष्ठ भगवान् महामत्स्यको बार-बार नमस्कार है’ ।। २४-२५ ।।
ॐ नमो भगवते मुख्यतमाय नमः सच्त्राय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ।। २५ । अन्तर्बहिश्चाखिललोकपालकैर दृष्टरूपो विचरस्युरुस्वनः । । स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना यथा दारुमयीं नरः स्त्रियम् ।। २६ ।। यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ॥ २७ ॥ भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषथिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ॥ २८ ॥ हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं विभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥ २९ ॥ ॐ नमो भगवते अकूपाराय सर्वसत्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्मणे नमो भूने नमो नमोऽवस्थानाय नमस्ते ॥ ३० ॥ यद्रूपमेतनिजमाययार्पित मर्थस्वरूपं बहुरूपरूपितम् । । संख्या न यस्यास्त्ययथोपलम्भनात् तस्मै नमस्तेऽव्यपदेशरूपिणे ।। ३१ ।। जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपित भूतमैन्द्रियम् । mo द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहक्षेत्यभिधेय एकः ।। ३२ ।।
। अन्वयः - ॐ भगवते मुख्यतमाय नमः सत्त्वाय प्राणाय ओजसे सहसे बलाय महामत्स्याय नमः नमः इति ॥२५॥ * * अखिललोकपालकैः अदृष्टरूपः उरुस्वनः त्वम् अन्तः बहिः च विचरसि यथा नरः दारुमयीम् स्त्रियम् यः इदम् नाम्ना वशे अनयत् सः त्वम् ईश्वरः ॥ २६ ॥ * * मत्सरज्वराः लोकपालाः यम् हित्वा पृथक् च समेत्य द्विपदः ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायोजसे सहसे बलाय महामत्स्याय नम इति । पा० - ज्ञातुं न शेकु० ० । २. प्रा० पा० - हिरण्मये तु । ३. प्रा० पा० - पितॄणां गणाधिपति० । ४. प्रा० पा० । तत्त्वगुण० । 0 ५. प्रा० पा० तत्वपं । ’ । एक ५. अ. १८ श्लो. २५-३२ | अनेकव्याख्यासमलङ्कृतम् ३९५ ।। ॥ चतुष्पदः सरीसृपम् स्थाणु यत् अत्र दृश्यते पातुम् यतन्तः अपि किल न शेकुः ॥ २७ ॥ * * अजः भवान् मया सह ओषधिवीरुधाम् निधिम् इमाम् क्षोणीम् ऊर्मिमालिनि युगान्तार्णवे ओजसा ऊरु क्रमते तस्मै जगत्प्राणगणात्मने ते नमः इति ॥ २८ ॥ * * हिरण्मये अपि कूर्मतनुम् बिभ्राणः भगवान् निवसति पितृगणाधिपतिः अर्यमा वर्षपुरुषैः सह तस्य तत्प्रियतमाम् तनुम् उपधावति च इमम् मन्त्रम् अनुजपति ।। २९ ।। ॐ भगवते अकूपाराय नमः सर्वसत्त्वगुणविशेषणाय
- नोपलक्षितस्थानाय वर्मणे नमः भूम्ने नमः अवस्थानाय नमः नमः ते नमः ॥ ३० ॥ ॐ निजमायया अर्पितम् अर्थस्वरूपम् बहुरूपरूपितम् एतत् यद्रूपम् अयथोपलम्भनात् यस्य संख्या न अस्ति तस्मै अव्यपदेशरूपिणे ते नमः ॥ ३१ ॥ जरायुजम् स्वेदजम् अण्डजोद्भिदम् चराचरम् देवर्षिपितृभूतम् ऐन्द्रियम् द्यौः खम् क्षितिः शैलसरित्समुद्रद्वीपग्रहक्षेत्य- भिधेयः ।। ३२ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका i. एकः सत्त्वाय सत्त्वप्रधानाय । मुख्यतमाय प्राणाय सूत्रात्मने ॥ २५ ॥ * * उरुः स्वनो वेदात्मको नादो यस्य । य इदं विश्वं ब्राह्मणादिनाम्ना विधिनिषेधालम्बनभूतेन वशेऽनयन्नियमितवान्स त्वमीश्वरः । तथा च श्रुतिः “यस्य वाक्तन्तिर्नामानि दामानि” इति ॥ २६ ॥ * * नन्विद्रादयो वशं नयन्ति लोकपालत्वात्कुतोऽहं तत्राह यमिति । मत्सर एवं ज्वरो येषां ते । ॥ … .. । यं हित्वा द्विपदश्चतुष्पदः सरीसृपं जङ्गमं स्थाणु स्थावरं च यदत्र दृश्यते तत्किंचिदपि पातुं न शक्ताः स त्वमेव प्राणरूपेण पालक ईश्वरश्वेत्यर्थः । तथा च श्रुतिः — “ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मि” इत्यादि ॥ २७ ॥ * * अवतारचरित- माह । भवानिमां क्षोणीं मया मनुना सह मत्सहितां धृत्वेत्यध्याहारः ऊर्मिमालावति प्रलयार्णवे ओजसा क्रमते विचरति । यद्वा पातुमित्यस्यानुषंगः । क्षोणीं पातुं क्रमते उत्सहत इत्यर्थः । यतोऽजः कीदृशीम् । ओषधीनां वीरुधां च निधिमाश्रयभूताम् । तस्मै नमः जगतो यः प्राणगणस्तस्यात्मने नियन्त्रे ॥ २८ ॥ * * तत्प्रियतमां तां प्रियतमाम् ॥ २९ ॥ अकूपाराय कूर्माय । सर्वः संपूर्णः सत्त्वगुणो विशेषणं यस्य न उपलक्षितं स्थानं यस्य वारिचरत्वात् । वर्ष्मणे वर्षीयसे कालानवच्छिन्नाय भूम्ने सर्वगताय अवस्थानायाधाराय ॥ ३० ॥ * * निजमाययार्पितं प्रकाशितमेतदर्थं स्वरूपं दृश्यं पृथिव्यादि यस्यैव रूपं यतः पृथङ्नास्ति । कथंभूतम् । बहुभी रूपै रूपितं निरूपितम् । यस्य च संख्या नास्ति । कुतः अयथा मिथ्यैवोपलम्भनात् । न हि मरीचिजलमेतावदिति संख्यातुं शक्यते । अव्यपदेशरूपिणे निरुक्तप्रपंचाकाराय ॥ ३१ ॥ * * बहुरूपत्वं दर्शयंस्तस्येश्वरादव्यतिरेकमाह । जरायुजमिति । द्वीपग्रहर्क्षमित्यभिधेयस्त्वमेवैको न त्वद्वयतिरिक्तोऽस्ति । " सर्वं खल्विदं ब्रह्म " । । इत्यादिश्रुतेरित्यर्थः ॥ ३२ ॥ || ।। । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः अंजनक F । । सर्वत्रैवान्तर्बहिरपि चरसि अथ च लोकपालैरप्यदृष्टस्वरूपः कुतोऽन्यैः । ननु तर्हि ममास्तित्वमेव मास्तु तत्राह - उरुखन इति । “यतो वा” इत्यादिवेद एव तवास्तित्वं प्रतिपदमुच्चैत्र ते इत्यर्थः । अत एव य इदमिति । दारुमयीं पांचालिकां विश्वस्य पारतन्त्र्यादपि स्वतन्त्र ईश्वरस्त्वमनुमानेनापि ज्ञाप्यस इति भावः ॥ २६ ॥ * * अत्राक्षिपति – लोकपालत्वादीश्वराः स्वतन्त्राश्चेति चेत्तेषां लोकपालकत्वादिकमौपचारिकमेवेत्याह–यमिति । हित्वा पृथग्भूता वा समेता मिलित्वा वा । मत्सरज्वरत्वे प्रमाणमाह- तथा चेति । ता देवता अहिंसन्त समत्सरा बभूवुः । तत्र प्रत्येकं साभिमानमाहुः उ भो अहं कमाश्रित्यास्मि वर्त्ते अपि तु न कमपीति श्रुतेरर्थः । एवं त्वमेव प्राणरूपेण पालक ईश्वरश्वेत्यर्थः ।। २७॥ * *
-
- भक्त्या तु व भक्त्या तु त्वं दृष्टरूपः प्रत्यक्षतयाऽप्युप- लभ्यसे तत्र भक्ताभासोऽहमेव प्रमाणमित्याह – भवानिति । युगान्तार्णवे मन्वन्तरार्णवे । क्षोणी ‘वृतनौकारूपां ‘नाव्यारोप्य मही- मय्याम्’ इत्युक्तेः, धृत्वेत्यध्याहारे प्रयोजनापेक्षा न निवर्त्तत इत्यत आह-यद्वेति । इत्यर्थं इति । इह क्षोणीत्युपलक्षणं मां । च पातुमपाद्वैवस्वतं मनुमिति भावः ॥ २८ ॥ * भावः ॥ २८ ॥ साचा सा चासौ प्रियतमा तत्प्रियतमा ताम् । वर्षपुरुषैर्हिरण्मय खण्डजनैः ॥ २९ ॥ * * न कूपे आरो गतिर्यस्य सोऽकूपारस्तस्मै कूर्म्मरूपायेत्यर्थः । प्रायः कूपे कूर्मो न भवतीति विशेषणमाकारः शुद्धसत्त्वमूर्त्तये इत्यर्थः । यद्वा-सर्वे सत्वगुणा ज्ञानानन्दादयो विशेषणं यस्येति । सत्त्वस्य धैर्यस्य वा गुणाः शमादयः सर्वे विशेषणं यस्येति । नोपलक्षितं सर्वैरदृष्टं वैकुण्ठाख्यं स्थानं यस्येति वा । वर्ष्मणे महाप्रमाणाय || ३० ॥ * * माययाऽर्पित न तु स्वरूपभूतमिति वाऽर्थस्वरूपं वस्तुस्वरूपं त्ववस्तुभूतं त्वद्रूपत्वात् । बहुभिर्नरगोपशुपक्षिमत्स्यादिरूपै रूपितं निरूपितं किन्तु संख्या यस्य नास्ति । अयथोपलंभनाद्यथावदुपलब्धुमशक्यत्वात् । यैः प्रकारैरिदं विश्वमभूत्तेषामुपलभनाशक्यत्वादित्यर्थः। तथा. हि एकस्य स्थूलस्य नरजातेरेव प्रतिशरीरं वर्णस्वभावकण्ठस्वरादिभेदादनन्तप्रकारा ज्ञातुमशक्याः । सूक्ष्माणां स्वेदजोद्भिज्जादीनां का वार्तेत्यनन्तस्य तक शक्तिकार्यस्याप्यानन्त्यमिति भावः । अतस्तव स्वरूपभूतस्य रूपस्य सर्वागम्यत्वे कैमुत्यमेवेत्याह- अव्यपदेशं वक्तुमशक्यम् । नित्यं रूपं यस्य तस्मै । सन्दर्भस्तु यस्य च तव संख्या नास्तीत्याह ॥ ३१ ॥ * * तदेव- ॥२९॥ ३९६ श्रीमद्भागवतम् [स्क. ५ अ. १८ लो. २५०३२ मनन्तभेदस्यापि विश्वस्य त्वदेककारणत्वादेकविधत्वमपीत्यभिप्रायेणाह - बहुरूपत्वमित्यादि । प्रहर्क्षेतीत्यार्थः । इत्यर्थ इति । श्रुत्या ज्ञानदृष्टया सर्वस्यैक्यमेवोक्तमिति भावः ॥ ३२ ॥ র श्रीमद्वीरराघवव्याख्या गह मन्त्रमाह ओमिति । सत्त्वाय शुद्धसत्त्वमूर्तये मुखे भवः मुख्यः तस्मै प्रथमावतारायेत्यर्थः । प्राणाय जीवयित्रे प्राणव्यष्टयन्तरात्मने वा ओजसे इन्द्रियशक्त्यधिष्ठात्रे बलाय शरीरशक्त्यधिष्ठात्रे तत्तदवतारासाधारणगुणाः सर्वत्रोपासनार्थं मन्त्रेषूक्ताः, एवम्भूताय महते दृष्टविसजातीयमत्स्याय नमः ।। २५ ।। * * कृत्स्नचिदचिदात्मकजगन्नियन्तृत्वरक्षकत्व विशिष्टं स्तुवन्ति । अन्तर्बहिरिति । लोकपालैरन्तर्बहिरदृष्टं रूपं यस्य उर्वधिकं स्वनो वेदात्मको नादो यस्य तथाभूतस्त्वमीश्वर एव कोऽसावीश्वर इत्याह । य इदं विश्वं चिदचिदात्मकं कृत्स्नं जगद्विधिनिषेधावलम्बनभूतेन ब्राह्मणादिनाम्ना वशेऽनयन्नीतवान् नयनं चात्र नियमनपूर्वकं रक्षणं यथा दारुमयीं दारुणो विकाररूपां स्त्रियं स्त्रीप्रतिकृतिं नरः स्ववशीकृत्य नाटयति तथेति । अनेन कृत्स्नजगन्नि- यन्तृत्वकथनेन कारणत्वमप्युक्तं कारणत्वनेतृत्वयोरेकगतत्वात् “एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः " इति श्रवणात् सर्वभूतान्तरात्मेत्यनेन नेतृत्वमेक इत्यनेन कारणत्वोक्तम् “एको ह वै नारायण आसीत्” इत्यनेन संवादादि- त्यर्थः ॥ २६ ॥ * * इद जगन्नियतृत्वादिकमनितरसाधारणमित्याह यमिति । मत्सरज्वरं मत्सरः परैश्वर्या सहिष्णुत्वं स एव ज्वरस्तं हित्वापि पृथक् समेत्य संघीभूयापि वा यतन्तोऽपि लोकपाला इन्द्रादयो यं प्रपञ्चं पातुं रक्षितुं न शेकुः न प्राभवन् । प्रपञ्चं विशिनष्टि यद्विपदादिरूपं चरिष्णु स्थास्नु पर्वतादिरूपस्थावरजातं च अत्र प्रपचे दृश्यते त्वं तु रक्षितवानित्यर्थः ।। २७ ।। * * भवानिति । ऊर्मिमालिनि उच्चतरतरङ्गपङ्क्तियुक्ते युगान्तार्णवे कस्मिश्चि है नंदिनप्रलयार्णवे ओषधीनां वीरुधां गुल्मानां च निधिमाश्रयभूतामिमां क्षोणीं भूमिं मया मनुना सह वृत्वेति शेषः, यो भवानोजसा उर्वधिकं विक्रमते विचरति । यद्वा पातु- मित्यस्यानुषङ्गः क्षोणीं पातुं क्रमते उत्सहत इत्यर्थः, यतोऽजस्त्वम् । यद्वा हे उरुक्रम ! तेजओजसा तेजोरूपेण सङ्कल्परूपज्ञानात्मकेन ओजसा बलेन न तु साधनान्तरेणेमां क्षोणीं रक्षितवानित्यध्याहारः उवाह धृतवानित्यर्थः । तस्मै जगत्प्राणगणात्मने तुभ्यं नमः । जगत्प्राणगणः प्रतिशरीरं प्राणव्यष्टिगणः तदन्तरात्मन इत्यर्थः । जगत्प्राणगुणात्मन इति पाठे तु जगत्प्राणरूपगुणस्वभावाये- त्यर्थः ॥ २८ ॥ * * अथ हिरण्मयवर्षे उपास्योपासनादीनाह हिरण्मय इति । भगवान् कूर्मरूपं बिभ्राणो हिरण्मये वर्षे निवसति तस्य भगवतस्तां प्रियतमां कूर्मतनुं पितृगणानामधिपतिरर्यमा तद्वर्षस्थैः पुरुषैः सहोपधावति अनुवर्तते उपास्ते इत्यर्थः । शेषं पूर्ववत् ॥ २९ ॥ * अकूपाराय कूर्मरूपाय कुत्सिताः स्वल्पा आपो यस्मिंस्तत्कूपं स्वाश्रयतया तद्रात्यादधाति स्वीकरोतीति कूपारः स न भवतीत्यकूपारः, सर्वे सत्त्वा जन्तवः गुणास्तद्गता हेयाः कल्याणाश्च ज्ञानशक्तिबलैश्वर्यादयः ते विशेषणानि सद्वार- काण्यद्वारकाणि च प्रकारभूतानि यस्य तस्मै तत्र सर्वसत्त्वानां कल्याणगुणानां च साक्षाद्विशेषणत्वं सत्त्वगतगुणानां सत्त्वद्वारा विशेषणत्वमिति विवेकः । अनुपलक्षितस्थानायान्तःसमुद्र मन्दरमूले स्थितायेत्यर्थः, अवर्ष्मणे प्राकृतदेहरहिताय वर्ष्मणे इत्यप्राकृत- दिव्यदेहाय वमशब्दो देहिपर्यन्तवृत्तिः वर्ष्मण श्रेष्ठायेति वा गरीयसे वा गरीयस्त्वं च कालानवच्छिन्नत्वं भूम्ने महिमवतेऽवस्था- नायाधारभूताय अधिकरणे ल्युट् गुणभेदाभिप्राया नमः पदावृत्तिः ॥ ३० ॥ * * विश्वरूपत्वानन्तत्वादिगुणविशिष्टं स्तौति यद्रूपमिति । एतत् जगत् यस्य रूपं शरीरं तस्मै व्यवसायरूपिणे नम इत्यन्वयः । व्यवसायरूपिणे सम्यग्ज्ञान- प्रवर्तकायेत्यर्थः । यद्वा व्यवसायोऽत्र नित्यासंकुचितापरिच्छिन्नं ज्ञानं तदेव रूपमाकारस्तदस्यास्तीति तथा तस्मै नमस्ते व्यपदेशरूपिणे इति पाठान्तरं तत्र व्यपदेशरूपिणे व्यपदिश्यते इति व्यपदेशः वाग्व्यवहारार्हः देवमनुष्यादिनामरूपात्मकः प्रपवः स जगदेव रूपं तदस्यास्तीति तथा । न च यद्रूपमित्यनेन पौनरुक्तत्यं व्यपदेश्यरूपिण इत्यस्यैवोपपादकत्वात् श्लोकशेषस्य अव्यपदेशरूपिणे इति वा छेदः, अव्यपदेशं चेतनसजातीयत्वेन व्यपदेष्टुमशक्यं रूपं तदस्यास्तीति तथा तस्मै एतच्छब्दनिर्हिष्टं जगद्विशिनष्टि । निजमाययार्पितं प्रकृत्या निर्वाततम् अर्थरूपं भोग्यत्वेन प्रतीयमानं बहुरूपरूपितं जातिगुणादिनिरूप्यं एवंविधं जगत् यस्य रूपं यस्य च संख्यापरिच्छेदो नास्ति कुतः अयथोपलम्भनात् यथावत् साकल्येन उपलम्भाभावात् । यस्येत्यनेन जगद्वा परामृश्यते यस्य जगतः संख्या प्रकाशो नास्ति, कुतः अयथोपलम्भनादब्रह्मात्मकत्वेनोपलम्भात् । यद्यपि जगत्प्रतीयते एव तथाप्य- विदुषामब्रह्मात्मकत्वेन तत्प्रतीत्यभिप्रायेण संख्या न यस्यास्तीत्युक्तम् । यद्वा यस्य जगतः अयथोपलम्भनात्संख्या परिच्छेदो नास्ति अयथोपलम्भनात्साकल्येन उपलम्भनाभावात् “कोटिशो ह्यण्डराशयः” इति जगतोऽप्यानन्त्यादिति भावः । यद्वास्य जगतः अयथोपलम्भनादयथार्थत्वेनोपलम्भनात् मायार्पितत्वार्थ स्वरूपत्व बहुरूप रूपितत्वभगवच्छरीरत्वादिव्यतिरेकेणोपलम्भनात् संख्या प्रकाशो नास्ति जगतः, उक्ताकारविपरीताकारोपलम्भो भ्रमरूप इत्यर्थः ॥ ३१ ॥ एवं विश्वरूपत्वमनन्तत्वञ्चोक्तं यतो विश्वरूपस्त्वमत एव द्यौःखमादिशब्दैः भवानेवाभिधीयत इत्याह जरायुजमिति । हे देव! चराचरभेदेन द्विविधं पुनर्जरायु- जादिभेदेन चतुर्विधमेतज्जगत् तव विभूतिभेदं विभूतिविशेषरूपमित्यर्थः । अत एव द्यौः खमित्याद्येवमभिधेयस्त्वमेक एव द्यौरादि- शब्दैरभिधीयमानस्त्वमेवेत्यर्थः “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तत्सृष्ट्वा तदेवानुप्राविशत्तदनुप्रविश्य सच्चत्यश्चाभवत्” इति श्रुत्युक्तविधया नामरूपतद्बुद्धीनां परमात्मपर्यन्तत्वसिद्धेः द्यौरादीनां परमात्मशरीरत्वाच्छरीरवाचिनां چور स्क. ५ अ. १८ श्लो. २५-३२ ] अनेकव्याख्यासमलङ्कृतम् ૨૨૭ शब्दानां शरीरिपर्यन्ताभिधानस्य गवादिशुक्लादिजातिगुणादिशब्दानां व्यक्तिगुण्यादिपर्यन्ताभिधानवदाकृत्यधिकरणन्यायसिद्धत्वाच्च द्यौः खमित्येवं रूपेण त्वमेव वाच्यो बोध्यश्वेत्यभिप्रायः ।। ३२ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली उरुर्गुरुः यो नः परमपुरुषः इदं जगद्वशे अनयन्नीतवान् स त्वमीश्वरः साक्षान्नारायणः आत्मा स्वामी । यद्वा य आत्मा आदानसमर्थः इदं जगद्वशे नयन् वर्तते स त्वमीश्वर ऐश्वर्यादिगुणसमुद्र इति ।। २६ ।। * * लोकपालादिविश्वस्येश्वरवशत्वे तद्दृष्टरूपत्वं कथमस्येत्याशङ्कय स्पर्धाहेतोरिति भावेनाह यमिति । चशब्दो विकल्पार्थे, यं त्वां हित्वा लोकपालाः पृथग्वा समेत्य वा यतन्तोऽपि द्विपदश्चतुष्पद इत्यादि यत्सरीसृपस्थास्तुचराचरमंत्र दृश्यते श्रुतिदृष्टिविषयं तत्पातुं न शेकुरित्यन्वयः । अशक्तत्वे निमित्तमाह मत्सरेति । मात्सर्याख्यज्वरप्रस्तत्वादित्यर्थः “वार्तासम्भाव्ययोः किल " इति वचनादिदं स्पर्द्धालक्षणं मात्सर्यं सम्भावनामात्रं न तु मुख्यमाज्ञानिमित्तं देत्यावेशनिमित्तं वेति गमयितव्यं, तदुक्तम् “स्पर्द्धन्त इव देवास्तु हरिणा यत्र कुत्रचित् । हरेरेवाज्ञया कापि दैत्यावेशादथापि वा ॥” इति अनेन स्पर्द्धाया अन्यनिमित्तत्वेन पालनाशक्तिः स्वरूपकृतेति ज्ञातव्या ।। २७ ।। * * यद्यप्यस्तु मूलरूपस्य हरेर्जगत्पालनशक्तिः स्वरूपभूता तथाप्यवताराणां सा न समास्तीत्याशङ्कय द्वयोरपि कोऽपि माहात्म्यविशेषो नास्तीति भावेनाह भवानिति । भवान् युगान्तार्णव इमां क्षोणीमूहे उवाहेत्यन्वयः । तस्मै जगत्प्राणगुणात्मने जगश्चेष्टकगुणस्वरूपाय मत्स्याय हरये नम इत्यन्वयः ।। २८-२९ ।। * न कूपे आरो गमनं यस्य स तथा तस्मै महासमुद्रनिवासायेत्यर्थः, सर्वसत्त्वगुणाः पराक्रमगुणा एव विशेषणं यस्य स तथा तस्मै सर्वसत्त्वगुणा ज्ञानानन्दादिगुणा इति वा नोपलक्षितस्थानाय अज्ञातस्वरूपाय वर्ष्मणे भक्ताभीष्टवर्षणशीलाय प्रमाणाय सम्यग्वक्ते वा “प्रमाणं बोधनेयत्तामर्यादा- शास्त्रहेतुषु । सम्यग्वक्तरि चाथ स्यात्प्रयाणमरणे गतौ” इति यादवः “वर्ष्म देहप्रमाणयोः” इति चामरः । अनेन दिव्यतिर्यग्योनेरपि सम्यग्वक्तृत्वमाहात्म्यं सूचितम् । भूयसे महते " महतो महीयान्” इति श्रुतिः अवस्थानाय जगत्स्थितिहेतवे ।। ३० ।। * * मन्त्रसूचितगुणविशिष्टत्वेन श्रीहरिं स्तौति यद्रूपमिति । यद्रूपमेतद्विश्वं निजमायया तव स्वरूपेच्छयार्पितं मदाधारतया तिष्ठत्विति माययेत्युक्त्यानिर्वाच्याविद्या कल्पितं किं न स्यादित्यतोऽर्थेति अवधिरूपं जरायुरादिबहुरूपेण रूपितं शब्दितं यस्येयत्तेति सङ्ख्या च नास्ति “परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः” इति वचनात् यश्चोपलम्भनादयथा अद्य यथा दृश्यते श्वस्तथा न तिष्ठति विकारित्वात् उर्वारुकफलादेरन्यथा दर्शनान्न च तावता वैतथ्यं “विश्वं सत्यम्” इत्यादिश्रुतेः, अतः प्रवाहरूपेण नित्यमित्येष्टव्य- मित्यर्थः । रूपं सन्निधानयोग्यप्रतिमा स्थानीय मित्यर्थः, तस्मै तुभ्यं नम इत्यन्वयः । न व्यपदेशो यस्य तदव्यपदेशं तादृशं रूपमस्यास्तीति अव्यपदेशरूपी तस्मै वाङ्मनसा गोचर रूपत्वादित्यर्थः । अनेन सर्वसत्त्वविशेषणाय नोपलक्षितस्थानायेति पदद्वयं विवृतम् ॥ ३१ ॥ सन् घटः सन् पटः इति सदनुविद्धत्वेन प्रतीयमानत्वात् “सर्वं खल्विदं ब्रह्म” इति श्रुतेश्व विश्वस्य ब्रह्मात्मकत्वं मुख्यं किं न स्यादित्याशङ्कय ‘तत्सृष्ट्वा तदेवानुप्राविशदित्यादेः, “सर्वान्तर्यामिकत्वात्तु सर्वनामा हरिः स्वयम् । न तु सर्वस्वरूपत्वाद्रूपत्वं तूप- चारतः ।। " इति स्मृतेश्च सर्वान्तर्यामित्वेन तत्तत्सत्ताप्रदत्वेन तच्छब्दप्रवृत्तिनिमित्तस्य तदधीनत्वेन तत्तन्नामत्वं हरेरित्यभिप्रेत्याह जरायुजमिति । देवादीनां भेदो यस्मिंस्तत्तथा, इतिशब्द आदिवचनः, ऋक्षादिनामवानेक एवेत्यनेन “यो देवानां नामधा एक एव " इति श्रुति सूचयति “नमो वर्ष्मणे नमो भूयसे” इति मन्त्रावयवस्याभिप्रायः सूचित इति ॥ ३२ ॥ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः मुख्यतमायेत्यपि पूर्ववत् । सत्त्वादिपरमाश्रयत्वात् सत्त्वादिरूपाय ।। २५-२६ ।। * * यमित्यस्य टीकायां मत्सर एवेत्यत्र परस्परमिति ज्ञेयम् । ता देवताः अहिंसन्त समत्सरा बभूवुः । तत्र प्रत्येकं साभिमानमाहुः । कमाश्रित्याहमस्मि अपितु न कमपीति श्रुतेरर्थः ॥ २७ ॥ * युगान्तोत्र मन्वन्तरान्तः क्षोणीमिति धृतनौका रूपामित्यर्थः " नाव्यारोप्य महीमय्याम्” इत्युक्तेः ।। २८-३० ॥ * यस्य तवैतत् कूर्माकारं रूपं निजेषु भक्तेषु मायया कृपया अर्पितं प्रकाशितम् अयथोपलम्भनात् यथावदुपलब्धुमशक्यत्वात् वाङ्मनसातीतत्वादित्यर्थः । यस्य च तव सङ्ख्या नास्ति अव्यपदेशं वक्तुमशक्यं रूपं नित्यमेव विद्य यस्य तस्मै ॥ ३१ ॥ * * पूर्ववत् बहुरूपत्वं दर्शितम् । तच्च जरायुजेत्यादिना किञ्चित् सङ्ख्यातम् । यत्तु न यस्य सङ्ख्यास्ती- त्युक्त्वा तस्यैकत्वान्नामरूपादीनामेवा सङ्ख्यत्वमानीतं तेषां स्वरूपसिद्धत्वं दर्शयन् सङ्ख्यातानामारोपितत्वमाह ॥ ३२ ॥ ¿ श्रीमद्विश्वनाथचक्रवतिकृता सारार्थदर्शिनी मुख्यतमाय सत्त्वाय शुद्धसत्व स्थरूपायेत्यर्थः, प्राणादिनियन्तृत्वात् प्राणादिकाय ।। २५ ।। * * सर्वत्रैवान्त बहिरपि चरसि । अथ च लोकपालैरपि अदृष्टरूपः किमुतान्यैः । ननु तर्हि ममास्तित्वमेव मास्तु तत्राह । उरुर्वेदात्मकः स्वनो यस्य सः । वेद एव तवास्तित्वं प्रतिपदमुचैर्ऋत इत्यर्थः । अत एव य इदं विश्वं ब्राह्मणादिनाम्ना विधिनिषेधाश्रयभूतेन वशे अनयन्नियमितवान् स त्वमीश्वरः । तथा च श्रुतिः " तस्य वाकू तन्तिर्नामानि दामानि” इति । स्त्रियं पाश्र्खालिकाम् अतो ૩૮ श्रीमद्भागवतम् ६ [ स्कं. ५ अ. १८ श्लो. २५-३३ विश्वस्य पारतन्त्र्यादपि स्वतन्त्र ईश्वरस्त्वमनुमानेनापि ज्ञाप्यस इति भावः ॥ ६ ॥ * * नन्विन्द्रादयो वशं नयन्ति लोकपालकत्वादीश्वराः स्वतन्त्राश्च कुतोऽहं तत्र तेषां लोकपालकत्वादिकं सर्वमौपचारिकमित्याह । यं हित्वा पृथग्भूता वा समेत्य मिलित्वा वा द्विपदः चतुष्पदः सरीसृपं जङ्गमं स्थास्नु स्थावर यद्यदत्र दृश्यते तत् पातुं न शक्ताः अतो मत्सरज्वराः । तथा च श्रुतिः “ता अहिंसन्ताहमु कमस्मीति” अस्यार्थः – ता देवता समत्सरा बभूवुः । अहम् उ भोः कमाश्रित्य अस्मि व अपि तु न कमपीत्यर्थः । इत्येवमिति स त्वमेव प्राणरूपेण पालक ईश्वरश्वेत्यर्थः ।। २७ ।। ॐ भक्त्या तु त्वं दृष्टरूपः प्रत्यक्षतया - प्युपलभ्यसे तत्र भक्ताभासोऽहमेव प्रमाणमित्याह भवानिति । इमां महीं मया सह धृत्वेति शेषः । हे अज ! युगान्तार्णवे भवान् क्रमते विहरति जगतां यः प्राणगणस्तस्यात्मने नियन्त्रे ।। २८ ।। 888 सा चासौ प्रियतमा चेति ताम् ।। २८ ।। * * अकूपाराय कूर्माय । सर्वः सम्पूर्णः सत्त्वगुणो यत्र तथाभूतं विशेषणमाकारो यस्य तस्मै शुद्धसत्त्वमूर्त्तये इत्यर्थः । न उपलक्षितं सर्वैरदृष्टं वैकुण्ठाख्यं स्थानं यस्य तस्मै वर्ष्मणे महाप्रमाणाय भूम्ने व्यापकाय अवस्थानाय आधाराय || ३० ॥ * * एतद्विश्वं यस्य तवैव रूपं किन्तु मायाशक्त्या अर्पितं न तु स्वरूपभूतमित्यर्थः । अर्थस्वरूपं वस्तुस्वरूपं न त्ववस्तुभूतं बहुभिर्नर- गोपशुपक्षिमत्स्यादिरूपै रूपितं निरूपितं किन्तु सङ्ख्या यस्य नास्ति कुतः अयथोपलम्भनात् यथावदुपलब्धुमशक्यत्वात् यैः प्रकारैरिदं विश्वमभूत्तेषामुपलम्भनाशक्यत्वादित्यर्थः । तथा ह्येकस्य स्थूलस्य नरजातेरेव प्रतिशरीरं वर्णस्वभाव कण्ठस्वरादिभेदा- दनन्तप्रकारा ज्ञातुमशक्याः । सूक्ष्माणां स्वेदजोद्भिज्जादीनां का वार्त्तेत्यनन्तस्य तव शक्तिकार्यस्याप्यानन्त्यमिति भावः । अतस्तव स्वरूपभूतस्य रूपस्य सर्वागम्यत्वे कैमुत्यमेवेत्याह । अव्यपदेशं वक्तुमशक्यं नित्यं रूपं यस्य तस्मै ॥ ३१ ॥ * * तदेव- मनन्तभेदस्यापि विश्वस्य त्वदेककारणत्वादेकविधत्वमपीत्याह जरायुजेति । ग्रहत्यार्षम् इत्येषामेकस्त्वमेवाभिधेयः । तथा च श्रुतिः “सर्वं खल्विदं ब्रह्म” इति ।। ३२ ।। । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः मुख्यतमाय सर्वश्रेष्ठाय ।। २५ ।। * * अन्तर्यामिरूपेणान्तर्नानावतारै बहिरपि विचरसि तथापि अदृष्टरूपोऽयं परमात्मेति न दृष्टं निश्चितं रूपं यस्य सः । उरुर्विपुलः स्वनो वेदरूपो नादो यस्य सः ।। २६ ।। * * कुतस्तैरदृष्टरूपोऽस्मी-
-
- त्यत्राह मत्सरज्वरा इति । मत्सरः परोत्कर्षासहनं स एव ज्वरो येषां ते अत एव हित्वा साक्षाद्रूपेण सन्तमप्यनाद्दत्य द्विपदादि यदत्र दृश्यते तत् किञ्चिदपि पातुं न शेकुः ।। २७ ।। * * मया सह क्षोणीं पातुमित्यनुषङ्गः । अजः भवान् उरु ओजसा क्रमते विचरति जगत्प्राणगणस्य आत्मने आश्रयाय ।। २८ ॥ * * तस्य भगवतः तत् तां प्रियतमाम् ।। २९ ।। * * अकूपाराय कूर्माय सर्वः सम्पूर्णः सत्त्वगुणः नियम्यभूतः विश्वपालनादिहेतुविशेषणमितरव्यावर्त्तकं यस्य तस्मै वर्मणे वर्षीयसे कालानवच्छिन्नाय अवस्थानाय आधाराय ॥ ३० ॥ * * स्पर्द्धादिदोषनिवृत्तिपूर्वक भजननिष्टासिद्धये विश्वरूपेण भगवन्तं वर्णयति । बहुभिः रूपैरधिदेवादिभिः रूपितं निरूपितम् अर्थस्वरूपम् अर्थः दृश्यमानः पृथिव्यादिपदार्थः स्वरूपं मूर्त्तिर्यस्य तत् निजमायया प्रकृत्या स्वशक्त्या अर्पितं स्थापितम् एतद्विश्व यस्य रूपं शरीरं यस्य च यथावदुपलम्भाभावात्संख्यावान्तरा- वयवगणना नास्ति तस्मै व्यपदिश्यते इदमित्येवं वर्ण्यते इति व्यपदेशः दृश्यपदार्थः स एव रूपं यस्य तस्मै नमः || ३१ ॥ * * अत एव जरायुजादि तथा शैलसरित्समुद्रद्वीपग्रहर्क्षाभिधेयस्त्वमेवैकः सर्वस्य त्वदात्मकत्वात् सर्वनामा सर्वरूपः “सर्वं खल्विदं ब्रह्म” इत्यादिश्रुतेः || ३२ ॥ गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी गोस्वामिश्रीगिरिधरलालविहिता मन्त्रमेव दर्शयति-ओमिति । भगवते सत्त्वाय सत्व प्रधानाय मुख्यतमाय सर्वेन्द्रियनियन्त्रे प्राणाय सूत्रात्मने ओजआदिहेतवे महामत्स्याय नम इत्यन्वयः । आदावन्ते मध्ये च नमःपदप्रयोगः सर्वत्र पदान्ते तदन्वयबोधनार्थः । अत्र सस्व- वोक्तिस्तु सत्त्वमूर्तिविष्ण्ववतारत्वेन तदभेदाभिप्रायेण, वस्तुतस्तु तमोमिश्ररजः प्रधान एव प्राणत्वोक्तेः । तथाच ‘बुद्धिः प्राणश्च तैजसौ’ इति तृतीयोक्तिः ‘रजसा तामसो मत्स्यः’ इति निबन्धोक्तिश्च सङ्गच्छते इति बोध्यम् । इतिशब्दो मन्त्र समाप्त्यर्थः ।। २५ ।। १
- स्तोत्रमाह-त्रिभिः । तत्र प्राणरूपेण पालकत्वमाह - अन्तर्बहिरिति द्वाभ्याम् । यो विधिनिषेधा- लम्बभूतेन ब्राह्मणादिनाम्ना इदं विश्वं वशेऽनयत् नियमितवान् स एवेश्वरस्त्वं अखिललोकपालकैर्ब्रह्मेन्द्रादिभिरप्यदृष्टरूपः सन् प्राणरूपेण सर्वस्यान्तर्वायुरूपेण बहिश्च विचरसीत्यन्वयः । ननु ब्राह्मणादिनाम्ना वेदेनैव विधिनिषेधादिव्यवस्था कृता तत्कथ- मीश्वरेण कृतेत्युच्यते इत्याशङ्कय वेदस्य तदाज्ञारूपत्वात्तस्य तथा कर्तृत्वमित्यभिप्रेत्य विशिनष्टि - उरुवन इति, उरुर्महान् स्वनो वेदात्मको नादो यस्य स तथेत्यर्थः । वशीकरणे दृष्टान्तमाह-यथेति । यथा दारुमयीं स्त्रियं नरः सूत्रेण स्ववशीकृत्य इतस्ततो यथेष्टं भ्रामयति तथेश्वरोऽपि वेदद्वारा तत्तत्कर्मनियमनेन जनान् स्वर्गनरकादौ भ्रामयतीत्यर्थः । तथा च श्रुतिः- ‘तस्य वाक्तन्तिर्नामानि दामानि’ इति ॥ २६ ॥ * * नन्वेवं सर्वलोकपालादृष्टप्राणिरूपेण सर्वान्तर्विचरणेऽपि मम के उत्कर्षः सिद्धयति, लोकपाला- नामेव सर्वपालकत्वेन तत्तदिन्द्रियाधिष्ठातृत्वेन चोत्कर्षस्य प्रसिद्धत्वादित्याशङ्कयाह - यमिति । यं प्राणं हित्वा विहाय सर्वे YComirigh ५.अ. १८ श्लो. २५-३२ ] अनेकव्याख्या समलङकृतम् । । ।
३९९ लोकपाला ब्रह्मेन्द्रादयः पृथक स्थिताः सन्तः समेत्य परस्परं मिलिता वा द्विपदो मनुष्यादयः चतुष्पदो गवादयः सरीसृपं जङ्गमं स्थाणु स्थावरं च यदत्र दृश्यते तत्किञ्चिदपि पातुं न शेकुः न शक्ता भवन्ति स्म । स प्राणरूपेण पालकः सर्वेश्वरस्त्वमेवेति ‘शेषेणान्वयः । तथा च प्राणं विना कापि कस्यापि जीवनस्यादर्शनात् तद्रूपेण तवैव सर्वत उत्कर्षः सिद्धयतीति भावः । लोक- पालानां रक्षायामसामर्थ्य हेतुरनीश्वरत्वमेव तत्र लिङ्गमाह - मत्सरेति । मत्सरः परोत्कर्षासहनमेव ज्वरः सन्तापकरो येषां ते तथा । न हीश्वरस्य मत्सरः सम्भवतीत्याशयः । अत्र “ता अहिंसन्ताहमुक्थमस्मि” इत्यादिश्रुतिं द्योतयन्नाह — किलेति ॥२७॥ एवं प्राणरूपेण पालकत्वं निरूप्यावतारचरितं वर्णयन् प्रणमति - भवानिति । उर्मीणां मालाऽस्यास्तीति तथाभूते युगान्तार्णवे । “ताओ प्रलयसमुद्रे ओषधीनां वीरुधां च निधिमाश्रयभूतामिमां दृश्यमानां क्षोणीं पृथिवीं मया सह मत्सहितां नौरूपां मत्स्यरूपेण स्वशृङ्गे बध्वा उरु बहुधा ओजसा वेगेन यो भवान् क्रमते विचरति स्म तस्मै जगतः प्राणगणात्मने सूत्रात्मने नम इत्यन्वयः । एवं ‘प्रलये रक्षायां सामर्थ्यं प्राप्युपजीव्योषध्याद्याश्रय पृथिवीरक्षणं चेश्वरस्यैव घटते नान्यस्येत्यभिप्रायेण विशिनष्टि–अज इति, यतो जन्मादिविकाररहितः परमेश्वर इत्यर्थः । इतिशब्दः स्तोत्रसमाप्त्यर्थः । अत्र मनोरपि लोकपालनिन्दया तामसत्वं राजत्वाद्राजसत्वं च ज्ञेयम् ॥ २८ ॥ * * हिरण्मयेऽपि वर्षे भगवदुपासनां दर्शयति– हिरण्मयेऽपीति । हिरण्मयेऽपि वर्षे भगवान् रजोमिश्रसत्त्वप्रधानां कूर्मतनुं विभ्राणो निवसति तस्य भगवतस्तत् तामात्मनः प्रियतमां तनुं पितृगणाधिपतिरर्थमा तद्वर्षपुरुषैः सहोपधावति सेवते इमं वक्ष्यमाणं मन्त्रं चानु निरन्तरं जपतीत्यन्वयः ॥ २९ ॥ * तं मन्त्रमेवाह - ओं नम इति । भगवते ऐश्वर्यादिगुणपूर्णाय अकूपाराय कर्मरूपाय सर्वः सत्त्वगुणो विशेषणं यस्य तस्मै तत्सत्त्वप्रधानाय वारिचरत्वात् सर्वान्तर्या- मित्वाद्वा fierial न उपलक्षितं स्थानं यस्य तस्मै वर्ष्मणे वर्षीयसे कालानवच्छिन्नाय भूम्ने सर्वगताय । अवस्थानाय सर्वाधारभूताय नमः । नमश्शब्दा वृत्तिरादरद्योतनार्था ॥ ३० ॥ * * स्तोत्रमाह यद्रूपमिति । यस्यैतन्मत्स्य कूर्मवराहनृसिंहादिरूपं तस्मै ते तुभ्यं नम कथमेतस्य भगवद्रूपत्वमस्म हा दिव द्वौतिकत्व प्रतीतेरित्याशङ्कयाह- अर्थरूपमिति । तत्तत्कार्यार्थ - भगवते CETTELE सत्त्वादिगुणाङ्गीकारेण तत्तद्रूपाविष्कारेऽपि तैर्गुणैः सच्चिदानन्दरूपस्यानभिभवाद्वस्तुतः परमार्थस्वरूपत्वमेव नास्मदादिस्वरूपवत्तस्य कर्माद्यधीनत्वं भौतिकत्वं वेत्यर्थः । तदपि नैकधा किन्तु बहुरूपरूपितं ‘यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय ’ इति ब्रह्मणोक्तत्वात् । भक्तेच्छानुरोधेन बहुभी रूपै रूपितं प्रकाशितमित्यर्थः । तदपि गणयितुमशक्यमित्याह- सङ्ख्या न यस्यास्तीति । ननु कथं तर्ह्यस्मदादिवद्भौतिकत्वेन प्रतीयते इत्याशङ्कयाह-निजमाययाऽर्पितमिति । निजया भगवदीयया माययाऽनधिकारिणां चित्तविमोहेन भौतिकत्वदुःखित्वादिजीव धर्मविशिष्टत्वेनार्पितं प्रकाशितं, न तु वस्तुतस्तन्तथाऽस्ति स्वातन्त्र्येण गुणाद्यध्यासाभावात् । न च जीवधर्म प्रकाशनस्य प्रयोजनाभावात् किमर्थं तत्प्रकाशयतीति शङ्कयं तत्प्रकाशनं विना दैत्यादीनां मोहासम्भवेन युद्धादलीलैव न सिद्धयेत् । अतो जीवधर्मस्य भगवद्विग्रहे प्रतीयमानस्य मिध्यात्वमेवेत्याह–अयथोपलम्भनादिति । असत्त्वेऽपि मोहेन सत्त्ववत्प्रतीयमानत्वाद्भौतिकत्वदुः खित्वादीनां तत्र मिध्यात्वमेवेत्यर्थः । ननु भौतिकत्वानङ्गीकारे सत्त्वादिगुणा- नामाकारसमर्पकत्वासम्भवेन साकारत्वं प्रत्यक्षत्वं च न स्यादतोऽस्मदादिदेहादिषु प्रत्यक्षे भौतिकत्वव्यामेर्गृहीतत्वात् भगवद्विग्रहेऽपि प्रत्यक्षत्वेन भौतिकत्वमनुमीयते इत्याशङ्कय स्वप्नदृष्कामिन्यादौ प्रत्यक्षत्वस्य सत्त्वेऽपि भौतिकत्वस्य बाधितत्वेन हेतोर्व्यभिचारित्वा- दित्यभिप्रेत्याह–अव्यपदेशरूपिणे इति, न लौकिकैस्त कैर्व्यपदेशार्हं रूपमस्येति तथा तस्मै । तथा च अचिन्त्यानन्तशक्तित्वेन स्वेच्छया- Sऽविष्कृतनानारूपो भगवान् प्राणिनामधिकारानुसारेणैव भातीति ‘श्रेयांसि तत्र खलु सस्वतनोर्नृणां स्युः’ ‘मायागुणैरनुयुगं विगृहीतदेह : ’ ‘सत्वं यस्य प्रिया मूर्त्तिः’ ‘सङ्कर्षणाभिधानां तामसी मूर्ति’ इत्यादौ सगुणत्वोक्तिः । ‘आनन्दमात्रकरपाद मुखोदरादिः’ -इत्यादौ सच्चिदानन्दत्वोक्ति सङ्गच्छते विरोधाभावादिति ज्ञेयम् ।। ३१ ।। इदानों “सर्व खल्विदं ब्रह्म” इत्यादिश्रुतेः प्राकृतोऽपि सर्वः प्रपञ्चस्त्वत्स्वरूपमेवेत्याह– जरायुजमिति । जरायुगा गर्भे वेष्टितं सन्ततो जायते इति तथा मनुष्यादि, स्वेदाज्जायते * इति तथा मत्कुणादि, अण्डाज्जायते इति तथा पक्ष्यादि, ऊर्ध्वं भित्त्वा जायते इत्युद्भिज्जं वृक्षादि, तत्रापि चरं जङ्गमं मनुष्यादि, अचर वृक्षपर्वतादि, देवा इन्द्रादयः, ऋषयो वसिष्ठादयः, पितरः अर्थमादयः, भूतानि आकाशादीनि पञ्च, ऐन्द्रियमिन्द्रियवर्गः, haौः स्वर्गः, खमन्तरिक्षं, भुवर्लोकः, क्षितिः भूर्लोकः, शैलाः पर्वताः सरितो नद्यः, समुद्राः क्षारोदादयः, द्वीपा जम्ब्वादयः, ग्रहाः ॐ आदित्यादयः, ऋक्षाणि अश्विन्यादीनि नक्षत्राणि, इत्येवं तत्तन्नाम्नाभिधेयस्त्वमेक एव, न त्वद्व्यतिरिक्तं किञ्चिदप्यस्तीत्यर्थः ॥ ३२ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी मन्त्रमाह । इति । भगवच्छब्दार्थौ पूर्ववत् । मुखे भवः मुख्यः, अतिशयेन मुख्यो मुख्यतमस्तस्मै, प्रथमावताराय तुभ्यमित्यर्थः । नमः । सत्त्वाय शुद्धसत्त्वमयमूर्त्तये, प्राणाय जीवयित्रे, ओजसे इन्द्रियशक्त्यधिष्ठात्रे, सहसे मनःशक्त्यधिष्ठात्रे बलाय शरीरसत्ताधिष्ठात्रे महामत्स्याय दृष्टविजातीयमत्स्यरूपायेत्यर्थः । नमो नमः इति ।। २५ ।। * * कृत्स्नचिदचिदात्मकजगन्नि- यन्तृत्वरक्षकत्वविशिष्टतया स्तौति अन्तरिति । अखिलाच ते लोकपालाश्च तैः, अन्तः बहिश्व अदृष्टं रूपं यस्य सः उर्वधिकः स्वनो वेदात्मको नादो यस्य तथाभूतः सन् विचरसि । सः त्वं ईश्वरः एकः कोऽसावीश्वरस्तत्राह । यः इदं विश्वं चिदचिदात्मकं कृत्स्नं जगदित्यर्थः । नाम्ना विधिनिषेधावलम्बनभूतेन ब्राह्मणादिनाम्ना, नरः दारुमयीं स्त्रियं यथा तथा वशे, अनयत् । वशे नयनं चात्र , } ४०० श्रीमद्भागवतम् ܀܃ कू [ स्कं. ५ अ. १८ श्लो. २५-३२ नियमनपूर्वकं रक्षणं बोध्यम् ।। २६ ।। * नन्विन्द्रादयो विश्वं वशं नयन्ति लोकपालत्वात्कुतोऽहं तत्राह यमिति । मत्सर एव ज्वरो येषां ते, लोकपालाः, यं भवन्तं हित्वा त्वद्वलं परित्यज्येत्यर्थः । पृथक् पृथग्भूताः सन्तः समेत्य ओघीभूय, यतन्तः सन्ता अपि द्विपदः चतुष्पदः, सरीसृपं जङ्गमं स्थाणु स्थावरं च यत् अत्र लोके दृश्यते तत्किंचिदपि पातुं रक्षितुं, न शेकुः न शक्ताः किल । स त्वमेव सर्वप्राणरूपेण पालक ईश्वरश्चेत्यर्थः । तथा च श्रुतिः ‘ता अहिंसंताहमुक्थमस्म्यहमुक्थमस्मि’ इत्यादिः । मत्सरज्वरमिति पाठे मत्सरः परैश्वर्या सहिष्णुत्वं स एव ज्वरस्तं हित्वापि पृथक् पृथग्भूताः समेत्य संघीभूयाऽपि, यतन्तो यत्नं कुर्वाणाः सन्तोऽपि, लोकपालाः सन्तोऽपि, यमिमं प्रपञ्चं, पातुं न शेकुः । उत्तरार्द्धे द्विपदादिः प्रपञ्चस्यैव प्रपञ्चः ॥ २७ ॥ * * अवतारचरितमाह भवानिति । ऊर्मिमालिनि उच्चतरङ्गपक्तियुक्ते युगान्तार्णवे कस्मिनिंदिन- प्रलयाणवे, ओषधयश्च वीरुधो गुल्मानि च तासां निधिमाश्रयभूतां इमां क्षोणीं भूमिं मया सह धृत्वेति शेषः, भवान्, ओजसा उर्वधिकं यथा तथा क्रमते विचरति । हे अज जगतो यः प्राणगणस्तस्यात्मा नियन्ता तस्मै, तस्मै नमः । यद्वा पातुमिति शेषः । मया सह क्षोणी पातुं क्रमते उत्सहते । शेषं यथापूर्वम् इति ।। २८ ।। * * अथ हिरण्मये वर्षे उपास्योपासकावाह हिरण्मय इति । हिरण्मये हिरण्मयाख्ये वर्षेऽपि कूर्मतनुं विभ्राणः भगवान् निवसति । तस्य सा चासौ प्रियतमा तां तत्प्रियतमां तनुं कूर्मतनुं पितृगणानामधिपतिः अर्यमा, वर्षपुरुषैः तद्वर्षस्थजनैः सह, उपधावति अनुवर्त्तते उपास्ते इत्यर्थः । इमं वक्ष्यमाणं मन्त्रं च अनुजपति ।। २९ ।। * * ॐ इति । ओमिति पूर्ववत् । सर्वश्वासौ सत्त्वगुणश्च स विशेषणं शरीरभूतो यस्य तस्मै । अकूपाराय कूर्मरूपिणे नमः । भगवते कूर्मरूपधरत्वेऽप्यैश्वर्यपूर्णाय नमः । न उपलक्षितं स्थानं यस्य वारिचरत्वात्तस्मै नमः । वर्मणे वर्षीयसे कालानवच्छिन्नाय, यद्वा अवर्ष्मणे प्राकृतदेहरहिताय नमः । भूम्ने भूरिमहिमवते नमः । अवस्थानाय सर्वाधारभूताय, ते तुभ्यं नमः । गुणभेदाभिप्राया नमःपदावृत्तिः ।। ३० ।। * * अथ स्तुतिमाह यद्रूपमिति । निजमायया स्वप्रकृत्या अर्पितं, स्वेच्छाशक्त्या स्वेनोद्भावितमित्यर्थः । अर्थस्वरूपं भोग्यत्वेन प्रतीयमानं, बहुरूपरूपितं जातिगुणादिभिर्बहुरूपता प्रतीतिं नीतं, एतज्जगत्, यद्रूपं यच्छरीरभूतं यस्य संख्यापरिच्छेदः न अस्ति, कुतः । अयथोपलम्भनात् यथावत्साकल्येनोपलम्भाभावात् व्यप- दिश्यते इति व्यपदेशः नास्ति व्यपदेशो यस्येत्यव्यपदेशं रूपमस्यास्तीति तस्मै, वाङ्मनसागोचररूपत्वादित्यर्थः । तस्मै ते नमः ॥ ३१ ॥ * * एवं विश्वरूपत्वमनन्तत्वं चोक्तं यतो विश्वरूपस्त्वमत एव द्यौःखमादिशब्देः भवानेवाभिधीयते इत्याह । जरायुजमिति । हे देव, चराचरं चराचरभेदेन द्विविधमित्यर्थः । पुनः जरायुजं, स्वेदजं, अण्डजं च उद्भिदं च तत्समाहारः । एवं चतुर्विधं तत्रापि देवाश्च ऋषयश्च पितरश्च भूतानि च तत्समाहाररूपम् । ऐन्द्रियमिन्द्रियग्राह्यं एतज्जगत्, तथा द्यौः खं, क्षितिः शैलाश्च सरितश्च समुद्राश्च द्वीपाच ग्रहाश्च ऋक्षाणि च इत्येवंभूतोऽभिधेयः संज्ञा यस्येत्येवंभूतो यः कश्चनापि पदार्थः, सः एकः त्वमेवेति शेषः । द्यौरादिशब्दैरभिधीयमानस्त्वमेक एवेति भावः । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वाज्जागतसर्व- पदार्थानां परमात्मशरीरत्वात्सर्वैः पदार्थर्वाच्यः शरीरी त्वमेक एवेत्यभिप्रायः । छन्दसोऽननुरोधनमार्षम् ।। ३२ ।। भाषानुवादः 47 ‘प्रभो ! नट जिस प्रकार कठपुतलियोंको नचाता है, उसी प्रकार आप ब्राह्मणादि नामोंकी डोरीसे सम्पूर्ण विश्वको अपने अधीन करके नचा रहे हैं। अतः आप ही सबके प्रेरक हैं। आपको ब्रह्मादि लोकपालगण भी नहीं देख सकते; तथापि आप समस्त प्राणियोंके भीतर प्राणरूपसे, और बाहर वायुरूपसे निरन्तर सचार करते रहते हैं । वेद ही आपका महान् शब्द है ।। २६ ।। * * एक बार इन्द्रादि इन्द्रियाभिमानी देवताओंको प्राणस्वरूप आपसे डाह हुआ । तब आपके अलग हो जानेपर वे अलग-अलग अथवा आपस में मिलकर भी मनुष्य- पशु, स्थावर - जङ्गम आदि जितने शरीर दिखायी देते हैं— उनमेसे किसीकी बहुत यत्न करनेपर भी रक्षा नहीं कर सके ।। २७ ।। * * अजन्मा प्रभो ! आपने मेरे सहित समस्त ओषधि और लताओंकी आश्रयरूपा इस पृथ्वीको लेकर बड़ी-बड़ी उत्ताल तरङ्गोंसे युक्त प्रलयकालीन समुद्रमें बड़े उत्साहसे विहार किया था । आप संसारके समस्त प्राणसमुदायके नियन्ता हैं; मेरा आपको नमस्कार है’ ।। २८ ।। हिरण्मय- वर्ष में भगवान् कच्छपरूप धारण करके रहते हैं । वहाँ के निवासियोंके सहित पितृराज अर्यमा भगवानकी उस प्रियतम मूर्तिकी उपासना करते हैं और इस मन्त्र को निरन्तर जपते हुए स्तुति करते हैं ।। २९ ।। ‘जो संपूर्ण सत्त्वगुणसे युक्त हैं, जलमें विचरते रहनेके कारण जिनके स्थानका कोई निश्चय नहीं है तथा जो कालकी मर्यादाके बाहर हैं, उन ओंकार स्वरूप सर्वव्यापक सर्वाधार भगवान् कच्छपको बार-बार नमस्कार है’ ॥ ३० ॥ * ‘भगवन्! अनेक रूपोमें प्रतीत
- होनेवाला यह दृश्य प्रपञ्च यद्यपि मिथ्या ही निश्चय होता है, इसीलिये उसकी वस्तुतः कोई संख्या नहीं है, तथापि यह मायासे प्रकाशित होनेवाला आपका ही रूप है। ऐसे अनिर्वचनीयरूप आपको मेरा नमस्कार है ।। ३१ ।। * एकमात्र आप ही जरायुज, स्वेदज, अण्डज, उद्भिज्ज, जङ्गम, स्थावर, देवता, ऋषि, पितृगण, भूत, इन्द्रिय, स्वर्ग, आकाश, पृथ्वी, पर्वत, नदी, समुद्र, द्वीप, ग्रह और तारा आदि विभिन्न नामों से प्रसिद्ध हैं ।। ३२ ॥
- ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते । स्क. ५ अ. १८ श्लो. ३३-३६ ] अनेकव्याख्या समलङ्कृतम् यस्मिन्न संख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयम् । संख्या यया तशापनीयते तस्मै नमः सांख्यनिदर्शनाय ते इति ॥ ३३ ॥ ४०१ उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्ति- योगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥ ३४ ॥ ॐ नमो भगवते मन्त्रतच्चलिङ्गाय यज्ञक्रतवे महाध्व- रावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ।। ३५ ।। ॥ यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुविव जातवेदसम् । यस्य । मध्नन्ति मध्ना मनसा दिदृक्षवो गूढं क्रियाथैर्नम ईरितात्मने || ३६ ॥ ॐ अन्वयः — यस्मिन् असंख्येयविशेषनामरूपाकृतौ इयम् संख्या कविभिः कल्पिता यया तत्त्वदृशा अपनीयते तस्मै सांख्यनिदर्शनाय ते नमः इति ॥ ३३ ॥ * उत्तरेषु कुरुषु च भगवान् कृतवराहरूपः यज्ञपुरुषः आस्ते ह एषा भूः देवी कुरुभिः सह तम् तु अस्खलितभक्तियोगेन उपधावति च इमाम् परमाम् उपनिषदम् आवर्तयति ।। ३४ ।। भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय नमः त्रियुगाय ते नमः || ३५॥ विपश्चितः दिदृक्षवः कवयः दारुषु जातवेदसम् इव क्रियार्थेः गुणेषु गूढम् यस्य स्वरूपम् मनसा मध्ना मध्नन्ति ईरितात्मने नमः ।। ३६ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका ६ सप्रपंचतामनूद्य तन्निरासेन प्रणमति यस्मिन्निति । असंख्येया अनन्ता विशेषा येषां तानि नामानि रूपाण्याकृतयश्र तस्य तादृशे यस्मिंस्त्वयि कविभिः कपिलादिभिरियं चतुर्विंशत्यादिसंख्या कल्पिता सती यया तत्त्वदृशा येन तत्त्वज्ञानेनापनीयते तस्मै ते सांख्यसिद्धान्तरूपाय नमः परमार्थज्ञानरूपायेति वा ॥ ३३ ॥ * * एषा भूरुपधावति हेत्यन्वयः ॥ ३४ ॥ * * ॥ मन्त्रैस्तस्त्वेन लिंग्यत इति तथा तस्मै । यज्ञा अयूपाः क्रतवः सयूपास्तद्रूपाय अत एव महान्तोऽध्वरा अवयवभूता यस्य । कर्मणा शुक्लाय शुद्धाय यज्ञानुष्ठात्रे । त्रियुगाय कृतयुगे यज्ञाभावात् । यद्वा कलियुगे छन्नत्वात् ।। ३५ ।। * कवयो विद्वांसो | विपश्चितो निपुणा गुणेषु देहेन्द्रियादिषु मध्नन्ति विचिन्वन्ति । मध्ना विवेकसाधनेन मनसा । क्रियार्थैः कर्मभिस्तत्फलैश्च गूढमप्रकाशमानं दिदृक्षवः । एवं मथने ईरितः प्रकटित आत्मा स्वरूपं यस्य तस्मै नमः || ३६ || श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः $3 किश्च - विश्वस्य नश्वरत्वाज्ज्ञानिभिरनुपादेयत्वमाह–यस्मिन्निति । इयं जरायुजादिरूपा ॥ ३३ ॥ * उपनिषदं षट्कर्णागोचरं मंत्रम् । “उपनिषत्तु द्विजाध्येयवेदभागे समीपगे । षट्कर्णागोचरे मंत्रे” इति धरणिः । आवर्तयति जपति । इमाम् ॐ ‘नमो भगवते’ इत्यादिकाम् ॥ ३४ ॥ * * मंत्रैर्वेदमंत्र: “सहस्रशीर्षा पुरुषः” इत्यादिभिरेव तत्त्वेन याथार्थ्यतो यो ज्ञायते तस्मै । यद्वा-मंत्रा एव तत्त्वं लिंगं मूर्तिर्यस्य तस्मै । ‘मन्त्रमूर्त्तिममूर्तिकम्’ इति नारदोक्तेः । कृतयुगे यज्ञाभावात् " पुरूरवस एवासीत्त्रयी त्रेतामुखे नृप” इति नवमस्कन्धे वक्ष्यमाणत्वेन यज्ञकारणीभूतवेदत्रय्याः कृतयुगेऽना- विर्भूतत्वेन यज्ञानुष्ठानासिद्धेः । ननु कृतयुगेऽपि प्रथमोद्भूत हिरण्यगर्भादिकृतं “यज्ञेन यज्ञमयजन्त देवाः” इत्यादिश्रुतेर्यज्ञानुष्ठानं श्रूयते तत्कथमुक्तं कृतयुगे यज्ञाभावादिति चेत्तत्राह - यद्वेति । कलियुगे हि परमप्रीतिपूर्वकमत्यन्तभक्त्या कदाचित्प्रादुर्भवति न हि युगान्तरवत्सर्वगोचरीभवतीति भावः ॥ ३५ ॥ * * विपश्चितो भक्तिचतुरा यस्य गुणेषु शब्दरूपादिषु कृष्णरामेति नीलोत्पलदूर्वादलश्यामेत्यादिषु मनसा मध्ना मथनसाधनेन यस्य स्वरूपं दिदृक्षवो ‘मध्नन्ति दारुष्विव जातवेदसम्’ इति यथा मथनेनैव जातवेदा वह्निः प्रत्यक्षीभवति तथैवात्र यस्य नामरूपादिषु पुनः पुनर्मनोनिधानमेव मथनं तेनैव यत्स्वरूपं प्रत्यक्षी- कुर्वन्तीत्यर्थः । कीदृशं क्रियार्थैः कर्मभिस्तत्फलैश्च गूढं भक्त्यैव नैष्कम्यें सत्येव द्रष्टुं शक्यमित्यर्थः । एवमेवेरितः कथित आत्मा स्वभावो यस्य यत्नो वा यत्र तस्मै । यद्वा-गुणेषु श्रोत्रवागादिष्विद्रियेषु यस्य स्वरूपं स्वरूपभूतं नामगुणलीलादि श्रयमाणकीर्त्यमानादि मनसा मध्ना अन्यत्समानम् || ३६ ॥ १. प्रा० पा० महाध्वराय । ५१ मनन्ति । मनः सहितश्रवणकीर्त्तनादिदृढाभ्यासेनैव यं प्रत्यक्षीकुर्वन्तीत्यर्थः । } ४०२ श्रीमद्भागवतम् श्रीमद्वीरराघवव्याख्या [ स्कं. ५ अ. १८ श्लो. ३३-३३ एवमनन्तविविधविचित्रविभूतिमत्त्वमुक्तम् । ननु सङ्ख्या न यस्यास्तीत्यानन्त्यमुक्तं तदयुक्तं पृथिव्यादितत्त्वानां चतुर्विंशत्यादिसङ्ख्यावच्छिन्नत्वादत आह यस्मिन्निति । असङ्ख्येयान्यनन्तत्वात्परिच्छेत्तुमशक्यानि विशेषणानि विलक्षणानि देवादिनामानि रूपाणि चाकृतयश्च यस्य रूपशब्देन पृथिव्यादिद्रव्यं विवक्षितं तत्सङ्घातगतसङ्ख्यानमाकृतिशब्देन तद्वाचकशब्दो नामशब्देन विवक्षितः । असङ्घयेया विशेषा येषामिति पूर्वत्र बहुव्रीहिः उक्तानि नामानि रूपाण्याकृतयश्च यस्येति वा एतादृशे प्रकृतिपुरुषकालशरीर केऽसङ्घयेय वैभवे त्वयि इयं चतुर्विंशतिः पञ्चविंशतिरित्यादिरूपा सङ्ख्या कविभिः कपिलादिभिः पृथिव्यादितत्त्व- याथात्म्यविद्भिः कल्पिता मन्दबुद्धीनां सुखग्रहणाय सङ्कल्प्य संगृह्य प्रदर्शिता । वस्तुतः पृथिव्यादीनामचेतनतत्त्वानामनन्तावान्तर- भेदानां च चेतनानां च परमात्मनश्चानन्त्यादसङ्घयेयत्वमेवेति भावः । एवं कल्पिता सङ्ख्या यया तत्त्वदृशा यद्विषयया तात्त्विक- बुद्धधानन्तवैभवत्वयाथात्म्यबुद्ध्यापनीयते अपनुद्यतेऽसङ्ख्यातविभूतित्वात्तस्मै साङ्ख्यनिदर्शनाय संख्या बुद्धिर्व्यवसायात्मिका प्रकृतिपुरुषेश्वरयाथात्म्यविषया सैव साङ्ख्यं नितरां दृश्यतेऽनेनेति निदर्शनं यस्य साङ्ख्यज्ञानगम्यायेत्यर्थः । ननु भगवद्विभूतिभूतस्य जगत आनन्त्ये कथं भगवत्स्वरूपस्यानन्त्यं प्रकृतिपुरुषादिनिरूप्यं हि तस्यानन्त्यं प्रकृतिपुरुषपरत्वमेव न घटते नान्यथा, अत्रोच्यते- देशकालवस्तु परिच्छेद राहित्यरूपं हि तावदानन्त्यं तदेव त्रिविधमानन्त्यं परमात्मनि सुस्थम् । इदमत्रास्त्यत्र नास्तीदमिदानीमस्ति कल्पा- न्तरे नास्ति इति देशकालपरिच्छेदयोरभावादिदमिदं न भवतीति वस्तुपरिच्छेदस्यापि सर्ववस्तुसामानाधिकरण्याभावरूपस्याभावाद् ब्रह्मणः सर्वात्मकत्वेन सर्ववस्तुसमानाधिकृतित्वव्यपदेशविषयत्वात् जीवानां त्वणुपरिमाणविषयत्वेऽपि तेषामानन्त्याद्धर्मभूतज्ञानस्य संसारदशायां कर्मसङ्कुचितत्वेऽपि वस्तुतस्तदभावान्मुक्तिदशायाम् ‘स चानन्त्याय कल्पते’ इत्यानन्त्यश्रवणाद् ब्रह्मणोऽचेतनात्परत्वं जीवद्वारकतया “अनेन जीवेनात्मनानुप्रविश्य” इति श्रवणाज्जीवस्वरूपस्य नित्यत्वाच्च तेषामप्यानन्त्यं देशतः कालतश्चास्त्येव अचेतन- स्यापि कारणावस्थायां निरतिशयसूक्ष्मदशापन्नत्वेऽपि कार्यावस्थायामानन्त्यमस्त्येव, तर्हि प्रकृतिपुरुषापेक्षया परमात्मन आनन्त्ये को विशेष इति चेदियांस्तु विशेषः - यत्कार्यावस्थायां कारणावस्थायाच स्वरूपेण गुणैश्वानन्त्यमितरयोस्तु देशतः कालतश्च धर्मकृतं कालकृतं मुक्तावस्थाकार्यावस्थयोरिति । ननु ब्रह्मणः स्वरूपस्य सर्वात्मकत्वेन सर्ववस्तुसामानाधिकरण्यात्मकवस्त्वपरिच्छेदसत्त्वेऽपि कथं मद्गुणानां वस्त्वपरिच्छेद इति चेदेवं तर्हि वस्त्वपरिच्छेदः यद्गुणैर्निकर्षः तद्यथा दशवर्णस्वर्णापेक्षया नववर्णस्वर्णस्य पवित्रत्वों- उज्वलत्वगुरुत्वादिभिर्गुणैर्निकर्षस्तदपेक्षया च कलधौतस्यैवं गुणैर्निकर्षाभावो वस्तुपरिच्छेदो बोध्यः ॥ ३३ ॥ अथोत्तरेषु कुरुषूपास्यादिकमाह उत्तरेष्विति । कृतं धृतं वराहरूपं येन तादृशो भगवान् षाण्डुण्यपूर्णः यज्ञपुरुषः यज्ञशरीरकः तदाराध्य- स्तत्फलदश्चास्ते । तं तु वराहरूपं भगवन्तमेषा भूर्देवी कुरुभिः कुरुवर्षस्यैः पुरुषैः सहास्खलितभक्तियोगेनाविच्छिन्नभक्तियोगेनो- पधावत्यनुवर्त्तते भक्तियोगेनाराधयतीत्यर्थः । इमां वक्ष्यमाणां परमां श्रेष्ठामुपनिषद्मावर्तयति जपति ।। ३४ ।। भगवच्छब्दार्थौ पूर्ववत् । मन्त्रतत्त्वलिङ्गाय मन्त्रप्रतिपाद्यं वस्तु तदेव लिङ्गं शरीरं यस्य । यद्वा मन्त्रतत्त्वस्य स्वरूपस्य लिङ्गं ज्ञापको यस्य मन्त्रतत्त्वे मन्त्रतत्प्रतिपादिते लिङ्गे शरीरे ज्ञापके वा यस्येति वा । यद्वा मन्त्रगतानि तत्त्वानि इन्द्राद्यर्थस्वरूपाणि तानि लिङ्गानि शरीराणि यस्य तस्मै यज्ञक्रतवे असोमकाः यागाः, यज्ञाः ससोमाः क्रतवः, तदुभयाय तदन्तरात्मत्वात्तदाराध्यत्वात्तत्फलदत्वाच्च तत्तादात्म्यं विवक्षितं महान्तोऽध्वरा अवयवभूता यस्य यद्वाध्वरस्यावयवाः स्रकस्रुवेडादयः महान्तः अध्वरा अवयवाः स्रुगादयो यस्य स्रुगादिरूपेण यष्टुभिरनुसन्धेया यस्य तस्मै इत्यर्थः । तथा चोक्तं तृतीये “स्रुक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे” इत्यादिना महापुरुषाय " वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्” इति पुरुषसूक्तप्रतिपाद्यजगत्कारण- त्वाद्यनन्तकल्याण महागुणविशिष्टाय पुरुषाय सर्वान्तरात्मने कर्मशुक्लाय कर्मणा शुद्धाय विशुद्धाय विशुद्धकर्मणे संसृतिप्रतिभट- कर्मणे इति यावन्न तु कर्मरहितायेत्यर्थः “सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः” इति देवमनुष्यादिसजातीयविजातीयाबन्धक- सर्वकर्माश्रयत्वश्रवणात् “निष्क्रियं निष्कलम्” इत्यनेन बन्धककर्मानाश्रयत्वमुच्यते, त्रियुगाय कर्मशुक्लायापि त्रियुगाय षाड्गुण्यपूर्णाय त्रीणि युगानि ज्ञानशक्त्यादीनि यस्य तस्मै । यद्यपि भगवत इत्यनेनापि षाड्गुण्यपूर्णतोक्ता कर्मशुक्लायेत्यनेन क्रियाश्रयत्वकथनप्रयुक्तं जीवस्येवाज्ञानादिकं वारयितुं त्रियुगायेत्युक्तमतो न पौनरुक्त्यमरुणाय अरुणवर्णाय श्वेतवराहरूपत्वेऽपि चक्षुषोररुणवर्णत्वात्तद- भिप्रायेणारुणायेत्युक्तं भवतीति मन्त्रार्थो ज्ञेयः ॥ ३५ ॥ * सर्वान्तरात्मत्वमुमुक्षूपास्यत्वादिकमनुसन्दधाना नमस्करोति यस्येति । कवयः प्रकृतिपुरुषेश्वरयाथात्म्यविदः यस्य विपश्चितः सर्वज्ञस्य तव विविधं पश्यच्चिद्विपश्चित् पृषोदरादित्वात् पश्यच्छब्दस्य स्थाने पकारादेशः “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति विपश्चिच्छन्दो ब्रह्मणि प्रयुक्तः, स्वरूपम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इतिलक्षणलक्षितं गुणेषु गुणपरिणामरूपेषु देवादिशरीरेन्द्रियसंसृष्टेषु भूतेषु क्रियार्थेगूढं क्रियार्थैः कर्मफलैगूढं तिरोहितं जीवसम्बन्धिक्रियाफलैस्तेषां गूढम् “तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्” इति जीवानां कर्मभिः परमात्मस्वरूपस्य तिरोहितत्व श्रवणात् दिदृक्षवो द्रष्टुं साक्षात्कर्तुमिच्छवः दारुषु जातवेदसमिव मध्ना विवेकसाधनेन मनसा मध्नन्ति विविञ्चते पञ्चविंशतितत्त्वेभ्यः पृथक्कृत्य पश्यन्तीत्यर्थः । दारुष्विव जातवेदसमित्यनेन दृष्टान्तेन सर्वान्तरात्मत्वयुक्तं दिदृक्षवः कवय इत्यनेनोपास्यत्वमुक्तमीक्षितात्मने कर्त्तरि क्तः ईश्वराय परमात्मने नमः । ईरितात्मन इति पाठे ईरिताः नियमिता आत्मानो जीवा यस्य तस्मै इत्यर्थः || ३६ ||
ओं स्क. ५ अ. १८ श्लो. ३३-३६ ] अनेकव्याख्यासमल डे कृतम् श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली - સેવ્યું असङ्ख्येया विशेषाः व्यावर्तकधर्मा असङ्ख्येयानि नामानि नारायणादीनि शुक्लादीनि रूपाणि यस्याः सा तथा तादृशी आकृतिर्विग्रहो यस्य स तथा तस्मिन्नेवम्विधे यस्मिन् त्वयि दशावतारा इत्यादिकेयं सङ्ख्या कविभिः कल्पिता जगत्स्थितिलक्षण- रक्षणायेति शेषः । नेयं सङ्ख्या तात्त्विकीत्याह ययेति । यया दशावतारा इत्यादिकया सङ्ख्यया भवांस्तत्त्वदृशा वस्तुयाथात्म्यं पश्यता जातावेकवचनं विनीयते विशेषेण नीयते शिष्यप्रशिष्यादिषूपदिश्य प्रवर्त्यत इति । अनेन यथा कवयन्तः कवयो न भवन्ति किन्तु अपरोक्षं पश्यन्त इत्युक्तं न चेदं वृत्तिज्ञानं सङ्ख्याप्रणयनस्य विशेषग्रहणस्य व्यर्थत्वापातादतः स्वरूपज्ञानमेवाङ्गीकर्तव्यम् आचार्यैरप्येतदभिप्रायेणोक्तं तज्ज्ञानं तद्रूपमेव हीति जीवस्य तिरोहितं स्वरूपज्ञानं च श्रीनारायणप्रसादेनाविर्भवतीत्यभिप्रायेण तं श्रीहरिं विशिनष्टि । सांख्यनिदर्शनाय साङ्ख्यं यथार्थज्ञानं स्वरूपविषयं निदर्शयति सम्यग् ज्ञापयति प्रदीपप्राहिवत् इति साङ्ख्य- निदर्शनः तस्मै “ बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ॥” इति वचनात् स्वरूप- ज्ञानमस्तीत्यत्र किं निदर्शनमित्यतो वा तत्स्थलमाह साङ्ख्येति । हरेर्ज्ञानं यथा तद्रूपमेवं जीवज्ञानमित्यर्थः " सत्यं ज्ञानमनन्तं ब्रह्म” इति श्रुतेः । इदं च भगवत्पादाभिप्रेतमिति ज्ञायते तज्ज्ञानं तद्रूपमेवहीति । अनेन यथा ब्रह्मज्ञानं ब्रह्मस्वरूपं तथा जीवज्ञानं जीवस्वरूप- मेव । तत्र ब्रह्मज्ञानं नित्यं प्रकाशितं जीवज्ञानं स्वादृष्टेन तिरोहितं श्रीहरिप्रसादेन प्रकाशितं भवतीति विशेष हिशब्देन प्रथयति ॥ ३३ ॥ * * उपनिषदं षट्कर्णागोचरं मन्त्रम् ॥ ३४ ॥ मन्त्रतत्त्वलिङ्गाय मन्त्रतत्त्वमूर्तये मन्त्रार्थ - ॥ ज्ञापनाय वा यज्ञक्रतवे यज्ञसङ्कल्पविषयाय कर्मणा क्रियया पराक्रमलक्षणया शुक्लाय शुद्धाय त्रिषु युगेषु अवतारो यस्यासौ त्रियुग- स्तम्मै ॥ ३५ ॥ * वनगोचरस्य वराहस्य मन्त्रतत्त्वलिङ्गादिकं कथमुपपद्यत इत्याशङ्कय प्रेक्षावद्भिर्विमृग्यरूपत्वेन पुरुषोत्तम- त्वावगमात्तदव तारत्वेनोपपद्यत इत्याह यस्येति । काव्यकर्तृत्वेन कवय इति न तु वेदान्तवेद्यवस्तुज्ञत्वेनेत्यन्यथा प्रतीतिनिरासाय विपश्चित इति । गुणेषु सत्त्वादिकार्येषु शरीरेन्द्रियादिषु नियामकत्वेन सन्निहितं यस्य तव स्वरूपं विपश्चितः कवयो मनसा मध्ना योनिषु काष्ठेषु जातवेदसमग्निमिव मध्नन्ति आम्रेडयन्ति विचार्य जानन्तीत्यन्वयः । शरीरादौ सन्निहितश्चेत्कुतो न प्रकाशत इति तत्राह गूढमिति । “एको देवः सर्वभूतेषु गूढः विदं ज्योतिर्हृदय आहितं यत्” इत्यादिश्रुतिः क्रियार्थैयैज्ञविषयैरिन्द्राग्न्यादि- नामभिरीरितात्मने प्रतिपादितस्वरूपाय || ३६ || Depe peepin ।। ❀ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः यस्मिन्निति । इयं सङ्ख्या जरायुजादिरूपा कल्पिता । प्रथमोपासनार्थं त्वद्रूपत्वेनारोप्यैवोपदिष्टा । ययापनीयते तस्मै तदेक- गम्यायेत्यर्थः । साङ्ख्यानां साङ्ख्यविदां तेषां निदर्शनाय सिद्धान्तरूपाय ।। ३३-३६ ।। IBPS INSIDE श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी किञ्च । विश्वस्यास्य नश्वरत्वाज्ज्ञानिभिरनुपादेयत्वमाह यस्मिन्निति । असङ्घयेया अनन्ता विशेषा येषां तानि नामानि रूपाण्याकृतयश्च यस्य तत्र इयमुक्तलक्षणा जरायुजादिरूपा सङ्ख्या कल्पिता सती यया तु तत्त्वदृशा येन तत्त्वज्ञानेनापनीयते तस्मै ते सांख्यनिदर्शनाय ज्ञानस्वरूपाय नमः ।। ३३-३४ ॥ मन्त्रैरेव तत्त्वेन लिङ्गयते ज्ञायते यस्तस्मै । यज्ञा अयूपाः क्रतवः सयूपास्तद्रूपाय महान्तोऽध्वरा अवयवभूताः यस्य । कर्मभिः स्वीयचरित्रैः सह शुक्राय शुद्धसत्त्वस्वरूपाय | त्रियुगाय सत्यादियुगत्रय एव प्राकट्यात् कलौ छन्नत्वात् । यद्वा त्रीणि युगानि युगलानि यस्य तस्मै षडैश्वर्यायेत्यर्थः ।। ३५ ।। * * कवयो विद्वांसः विपश्चितः भक्तिचतुराः यस्य गुणेषु शब्दरूपादिषु कृष्णरामेति नीलोत्पलदूर्वादलश्यामेत्यादिषु मनसा मध्ना मथनसाधनेन यस्य स्वरूपं दिदृक्षवो मध्नन्ति दारुष्विव जातवेदसमिति यथा मथनेनैव जातवेदा वह्निः प्रत्यक्षीभवति तथैवात्र यस्य नामरूपादिषु पुनः पुनर्मनोनिधानमेव मथनं तेनैव यत्स्वरूपं प्रत्यक्षीकुर्वन्तीत्यर्थः । कीदृशं क्रियार्थैः कर्मभिस्तत्फलैश्च गूढं भक्तयैव नैष्कर्म्ये सत्येव द्रष्टुं शक्यमित्यर्थः । एवमेव ईरितः कथितः आत्मा स्वभावो यस्य यत्नो वा यत्र तस्मै । यद्वा गुणेषु श्रोत्रवागादीन्द्रियेषु यस्य स्वरूपं स्वरूपभूतं नामगुणलीलादिश्रूयमाणकीर्त्यमानादि मनसा मध्ना मध्नन्ति मनःसहितश्रवणकीर्त्तनादिदृढा भ्यासेनैव यं प्रत्यक्षीकुर्वन्ती- त्यर्थः । अन्यत् समानम् ॥ ३६ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ननु नानापदार्थानामेकत्वं कथं घटेतेत्यत्र कार्यदृष्टया नानात्वं कारणमात्रदृष्टयैकत्वं च सुघटमेवेति “उभयव्यपदेशात्त्वहि- कुण्डलवत्” इति न्यायेन जगद्ब्रह्मणोः स्वाभाविकभेदाभेदसम्बन्धमाह यस्मिन्निति । यस्मिन् कविभिः क्रान्तदर्शिभिर्वेदैः यया तत्त्व- दृशा सर्वात्मभूतब्रह्मविषयिण्या दृष्टया इयं नाना संख्या अपनीयते “सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन” इत्येवमपसार्यते तथैव तत्त्वदृशा “यतो वा इमानि भूतानि जायन्ते” इत्येवं कल्पिता तस्मै अत एवासंख्येया विशेषाः येषां तानि नामानि रूपाणि आकृतयश्च यस्य तथाभूताय सांख्यनिदर्शनाय सांख्यं सम्यक् ख्यायते प्रकथ्यते ब्रह्म अनयेति संख्या કુ श्रीमद्भागवतम् [ एक. ५ अ. १८ श्लो. ३३-३६ उपनिषत् तयावधारणीयं सांख्यं तथाभूतं निदर्शनं ज्ञानं यस्य तथाभूताय ते तुभ्यं नमः इत्यन्वयः ।। ३३ ।। * * एषां भूर्भूम्यधिष्ठात्री देवता ॥ ३४ ॥ मन्त्रा एव तत्त्वलिङ्गानि स्वरूपज्ञापका यस्य तस्मै, यज्ञा अयूपाः क्रतवः सयूपाः तद्रूपाय || * * महान्तो महाध्वराः अवयवा यस्य तस्मै । कर्मणा भुवः उद्धरणे शुक्लाय प्रकाशमानाय त्रियुगाय त्रीणि युगानि यस्य तस्मै । “उत्पत्ति प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥” इति स्मृतिप्रोक्तानि यस्मादुपासकानां स तथा यदुपासनया जीवोप्युक्तषाङ्गुण्ययोगाद्भगवान् भवति तस्मै इत्यर्थः || ३५ ॥ * * यस्य विपश्चितः सर्वज्ञस्य “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति श्रुतिप्रसिद्धस्य ते स्वरूपं क्रियार्थेगूढं जीवस्य स्वकृतकर्मफलैः सङ्कचितज्ञानस्य हृद्यप्रकाशमानं गुणेषु स्वकार्यभूतचतुर्विंशतिप्राकृततत्त्वसहितेषु जीवसहितेषु चाष्टाविंशतिपदार्थेषु वक्ष्यमाणेषु एकोनत्रिंशं मध्नन्ति विचिन्वन्ति दारुषु जातवेदसमग्निमिव मध्ना विवेकसाधनेन मनसा इत्थं कृते यत्ने ईरितः प्रकटितः आत्मा स्वरूपं यस्य तस्मै नमः ।। ३६ ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी । ननु यदि सर्व प्राकृतमपि विश्वं मद्रूपमेव तर्हि तथात्वेन कुतो न प्रतीयते इत्याशङ्कय भवच्छरणागमनं विना माया- निवृत्त्यभावेन तथात्वेन अप्रकाशमानत्वात्, त्वच्छरणानां तु त्वत्कृपया मायानिवृत्त्या तथा प्रतीयते एवेति वदन् प्रणमति- यस्मिन्निति । असङ्ख्येया अनन्ता विशेषा येषां तानि नामानि रूपाणि आकृतयश्च यस्य तादृशे यस्मिंस्त्वयि प्रपश्र्चात्मके कविभिः साङ्ख्याचार्यैः कपिलादिभिर्या इयं चतुर्विंशत्यादिसङ्ख्या विवेकाय कल्पिता सा यया तत्त्वदृशा येन तत्त्वज्ञानेनापनीयते तस्मै साङ्ख्यशास्त्रेण निदर्शनं प्रतिपादनं यस्य तस्मै ते तुभ्यं नम इत्यन्वयः । तथा च मायावरणदशायां तत्तद्भेदस्य स्फुरणेन तथा सङ्ख्यापि प्रतीयते । भगवत्कृपया मायानिवृत्तिदशायां त्वावरणाभावात् कार्यकारणैक्यं ब्रह्मतया स्फुरणे भेदास्फुरणात् सङ्ख्यायाश्च भेदाधी- नापेक्षा बुद्धिजन्यत्वात् साऽप्यपनीता भवतीति ज्ञेयम् । इतिशब्दः स्तोत्रसमाप्त्यर्थः । पितृमुख्यत्वाद्राजसत्वं तत्त्वज्ञत्वाच्च सात्त्वि- कत्वमर्यमणो ज्ञेयम् ॥ ३३ ॥ * * सर्वेभ्य उत्तरतो वर्त्तमाने कुरुवर्षे भगवदुपासनमाह - उत्तरेषु कुरुष्वति । बहुवचनं । तदवान्तर देशभेदाभिप्रायेण । उत्तरेषु कुरुषु च यज्ञपुरुषो यज्ञाभिमानी भगवान् कृतवराहरूपः स्वीकृततमोमिश्रसत्त्वप्रधानमूर्ति- रास्ते । तं तु एषा भूः देवी भूम्यभिमानिदेवतारूपा कुरुभिः कुरुखण्डवासिपुरुषैः सह अस्खलितभक्तियोगेनोपधावति, इमांच परमामुपनिषदं वक्ष्यमाणां मन्त्राद्यात्मिकामावर्त्तयति निरन्तरमभ्यासेन जपति । हेति सन्देह निवृत्त्यर्थः ॥ ३४ ॥ * * ओं नमो भगवते यज्ञक्रतवे यज्ञा अयूपाः क्रतवः सयूपास्तद्रूपाय ते तुभ्यं नमो नमो नम इत्यन्वयः । नमस्कारावृत्तिः भक्तिज्ञापिका- दरार्था । यज्ञरूपत्वमेवोपपादयति–मन्त्रैस्तत्त्वेन लिङ्गयते ज्ञायते इति मन्त्रतत्त्वलिङ्गस्तस्मै, महान्तोऽध्वरा अवयवाः यस्य स तथा तस्मै, तथा च मन्त्रः– " चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्ता सोऽअस्य । त्रिधाबद्धो वृषभो रोरवीति महोदेवो मर्त्यानाविवेश” इति । अस्य निरुक्तिर्यास्केन कृता– चत्वारि शृङ्गति वेदा एवोक्ताः, त्रयोऽस्य पादा इति सवनानि त्रीणि, शीर्षे प्रापणीयोदयनीये, सप्त हस्ताः सप्त च्छन्दांसि त्रिधा बद्धो मन्त्रब्राह्मणकल्पैः, वृषभो रोरवीति रोरवणं सवनक्रमेण ऋग्भिर्य- जुर्भिः सामभिर्यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्तीति कृतयुगे यज्ञप्रवृत्त्यभावात् कलियुगे यज्ञोच्छेदाद्वा त्रिषु युगेषु भावात् त्रियुगाय । ननु द्रव्यदेवतामन्त्राद्यात्मकस्य यज्ञस्य कथं भगवत्त्वमित्याशङ्कय “यज्ञो वै विष्णुः” इति श्रुतेः, तथापि तस्य भगवद्रूपत्वमेवेत्याह- महापुरुषायेति । भगवद्रूपत्वादेव यज्ञफलदाताऽपि त्वमेवेत्याह- कर्मशुक्लायेति, यज्ञादिकर्मणां शुकुं शुद्धं सुखं फलं यस्मात्तस्मा इत्यर्थः ॥ ३५ ॥ * भगवद्भजनं कर्मज्ञानभक्तिमार्गभेदेन त्रिविधं, तत् त्रिविधमपि भजनं भूमिः करोति । तन्निरूपयति– चतुश्लोक्यात्मकेन स्तोत्रेण । तत्र ‘योगः कर्मसु कौशलं’ इति वाक्याद्योगोऽपि कर्ममार्गीय एव । तत्र च वशीकृतं मन एवैकं मुख्यं साधनमिति वदन्ती योगेन भजनमाह–यस्येति । दिदृक्षवो गुणेषु देहेन्द्रियादिसङ्घातेषु गुणकार्येषु गूढं यस्य स्वरूपं मथ्ना साधनभूतेन वशीकृतेन मनसा मध्नन्ति विविच्य निष्कर्षन्ति तस्मा एवं मन्थनेनेरितः प्रकटित आत्मा स्वरूपं यस्य तस्मै नम इत्यन्वयः । कैगूढमित्यपेक्षायामाह - क्रियार्थैरिति, क्रियाभिः लौकिकवैदिककर्मभिः अर्थैस्तत्फलैर्विषय- भोगैश्वेत्यर्थः । ‘विषयाविष्टचित्तानां विष्ण्वावेशः सुदूरतः” इति सिद्धान्तात् विषयभोगाभिनिविष्टचित्तत्वेन तत्साधन क्रियापरत्वेन च व्यग्रचित्तानां सर्वात्माऽपि भगवान्नैव प्रकाशते । किन्तु विषयान्मनो विनिवर्त्य तदेकाकारत्वे प्रकाशते इति भावः । ननु भगव- द्दिदृक्षा तु बहूनां भवति ते सर्व एव कुतो नैवं निर्मन्थने प्रवर्त्तन्ते इत्याशङ्कय उपायानभिज्ञत्वाद्विवेकाभावेन विषयाभिनिवेशाश्चेति हेतुद्वयसूचनाय विशेषणद्वयमाह - कवय एतदुपायाभिज्ञाः विपश्चितो विवेकिन इत्यर्थः । तत्र दृष्टान्तमाह - दारुष्विवेति । काष्ठेषु निगूढं जातवेदसमग्निं यथा विवेकिन एव निर्मन्थनेन निष्कर्षन्ति नान्ये तथेत्यर्थः ॥ ३६ ॥
। । * g श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी नन्वेवं सकार्यचतुर्विंशतितत्त्वशरीरकतया यदाभिहितस्तदा परिच्छिन्नतामेवाप्तस्तदा श्रुत्याद्यभिहितमपरिच्छिन्नत्वं मम गतमेवेत्यत्राह यस्मिन्निति । असंख्येया अनन्ता विशेषा येषां तानि नामानि च रूपाणि च आकृतयश्च यस्य तस्मिन् । एवंभूते स्क. ५ अ. १८ श्लो. ३७-३९] अनेकव्याख्या समलङ्कृतम् यस्मिंस्त्वयि इयं पूर्वोक्ता संख्या कविभिः कपिलादिभिः कल्पिता अस्ति । मन्दबुद्धीनां सुखग्रहणाय, संकलय्य प्रदर्शिताऽस्ति सा न वास्तवी तव शक्तीनामानन्त्यादिति भावः । एवं कल्पिता संख्येति शेषः । यया तत्त्वदृशा यद्विषयया तात्त्विकबुद्धया । अनन्त- वैभवत्वयाथात्म्यमत्येति यावत् । अपनीयतेऽपनुद्यते । प्रकृतिपुरुषेश्वरयाथात्म्यविषया बुद्धिः संख्या, सैव सांख्यं नितरां दृश्यतेऽने- नेति निदर्शनं ज्ञानं, सांख्यं निदर्शनं यस्य तस्मै, सांख्यज्ञानगम्यायेत्यर्थः । तस्मै ते तुभ्यं नमः ॥ ३३ ॥ * * अथोत्तरेषु कुरुषुपास्यादिकमाह उत्तरेषु इति । उत्तरेषु कुरुषु चापि कृतं वराहरूपं येन तादृशः, यज्ञपुरुषः यज्ञशरीरकः, भगवान् आस्ते । तं तु तं वराहरूपं भगवन्तमेव, देवी एषा भूः कुरुभिः कुरुवर्षस्थेः पुरुषैः सह अस्खलितभक्तियोगेन अविच्छिन्नेन भक्त्यात्मकेन योगेन उपधावति अनुवर्त्तते हि । भक्तियोगेनाराधेयत्येवेत्यर्थः । इमां वक्ष्यमाणां, परमां श्रेष्ठां, उपनिषदं मन्त्रं चापि आवर्त्तयति जप्रति ॥ ३४ ॥ * * ॐ इति । शब्दार्थः पूर्ववत् भगवते नमः । भगवन्तं विशेषयन्नमस्करोति । मन्त्रः तत्त्वस्य- स्वरूपस्य लिङ्गं ज्ञापको यस्य तस्मै, यद्वा मन्त्रैस्तत्त्वेन च लिङ्गयते ज्ञाप्यते इति मन्त्रतत्त्वलिङ्गस्तस्मै, यज्ञा अयूपाः, क्रतवः सयूपा- स्तद्रूपाय, यद्वा असोमा यज्ञाः ससोमाः क्रतवस्तदुभयस्वरूपाय, तदन्तरात्मत्वात्तदाराध्यत्वात्तत्फलदत्वाश्च तत्तादात्म्यं विवक्षितम् । महान्तः अध्वराः अवयवा अवयवभूता यस्य तस्मै, महापुरुषाय ‘वेदाहमेतं पुरुषं महान्तम्’ इत्यादिसूक्तप्रतिपाद्यजगत्कारणत्वाद्य- नन्तकल्याणमहागुणविशिष्टाय, कर्मशुक्लाय कर्मणा शुद्धाय, त्रियुगाय षाड्गुण्यपूर्णाय, त्रीणि युगानि युगलानि यस्य तस्मै । तानि यथा - ज्ञानशक्ती, बलैश्वर्ये, वीर्यतेजसी, ‘ज्ञानशक्तिबलैश्वर्य वीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्महागुणैः’ इत्युक्तेः । यद्वा - उत्पत्ति प्र चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’ इति स्मृतेः । ते तुभ्यं नमः नमः
- । व इति ॥ ३५ ॥ सर्वान्तरात्मत्वमुमुक्षूपास्यत्वादिकमनुसंदधानो नमस्करोति यस्येति । कवयः प्रकृतिपुरुषेश्वर- याथात्म्यविदः, विपश्चितः सर्वज्ञस्य, तव गुणेषु गुणपरिणामरूपेषु, देवादिशरीरेन्द्रिय संसृष्टेषु भूतेषु, क्रियार्थैः कर्मफलैः, कर्मभिस्तत्फलैश्चेत्यर्थः । गूढं तिरोहितं जीवानां कर्मभिः तदन्तःस्थस्यापि परमात्मस्वरूपस्य तिरोहितत्वश्रवणात् । स्वरूपं दिदृक्षवः साक्षात्कत्तु मिच्छवः सन्तः, दारुषु काष्ठेषु, जातवेदसमग्निमिव, मध्ना मन्थनदण्डसमानेन विवेकसाधनेन मनसा मध्नन्ति विचिन्वन्ति । पञ्चविंशतितत्त्वेभ्यः पृथक्कृत्य पश्यन्तीत्यर्थः । ईरितः मन्थने कृते प्रकटित आत्मा स्वरूपं यस्य तस्मै नमः || ३६ ॥ 1 Risires. भाषानुवादः आप असंख्य नाम, रूप और आकृतियोंसे युक्त हैं, कपिलादि विद्वानोंने जो आपमें चौबीस तत्त्वोंकी संख्या निश्चित की है - वह जिस तत्वदृष्टिका उदय होनेपर निवृत्त हो जाती है, वह भी वस्तुतः आपका ही स्वरूप है-ऐसे सांख्य सिद्धान्तस्वरूप आपको मेरा नमस्कार है’ ॥ ३३ ॥ * * उत्तर कुरुवर्ष में भगवान् यज्ञपुरुष वराहमूर्ति धारण करके विराजमान है । वहाँ के निवासियोंके सहित साक्षात् पृथ्वीदेवी उनकी अविचल भक्तिभाव से उपासना करती और इस परमोत्कृष्ट मन्त्रीका जप करती हुई स्तुति करती हैं ॥ ३५ ॥ * * जिनका तत्त्व हैं तथा सजाना जाता है, जा यज्ञ और क्रतुरूप बड़े-बड़े यज्ञ जिनके अङ्ग हैं - उन ओङ्कारस्वरूप शुक्लकर्ममय त्रियुगमूर्ति पुरुषोत्तम भगवान् वराहको बार-बार नमस्कार है’ ।। ३५ ।। * * ‘ऋत्विजगण जिस प्रकार अरणिरूप काष्ठखण्डों में छिपी हुई अग्निको मन्थनद्वारा प्रकट करते हैं, रूप में उसी प्रकार कर्मशक्ति एवं कर्मफलकी कामनासे ि हुए जिनके रूपको देखनेकी इच्छासे परमप्रवीण पण्डितजन अपने विवेकयुक्त मनरूप मन्थनकाष्ठसे शरीर एवं इन्द्रियादिको बिलो डालते हैं । इस प्रकार मन्थन करनेपर अपने स्वरूपको प्रकट करनेवाले आपको नमस्कार है ॥ ३६ ॥ द्रव्यक्रियाहेत्वय नेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः ॥ ३७ ॥ करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः । माया या यथायो भ्रमते तदाश्रयं ग्रावणो नमस्ते गुणकर्मसाक्षिणे ॥ ३८ ॥
- दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसुकरः । प्रमथ्य कृ त्वाग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९ ॥ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोश वर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥
- ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते । १. प्रा० पा० - रसायां । २. प्रा० पा० - इत्वोग्रदंष्ट्रे । ३ प्रा० पा०- कोशानुवर्णनं ।
४०६ श्रीमद्भागवतम् [ स्क. ५ अ. १८ श्लो. ३७.३९ अन्वयः – द्रव्यक्रियाहेत्वयनेशकर्तृभिः मायागुणैः वस्तुनिरीक्षितात्मने अन्वीक्षया अंगातिशयात्मबुद्धिभिः निरस्त- मायाकृतये नमः नमः || ३७ ॥ * * ईक्षितुः यस्य ईप्सितम् ईप्सितम् न यथा अयः प्राव्णः तदाश्रयम् भ्रमते माया गुणैः विश्वस्थितिसंयमोदयम् करोति गुणकर्मसाक्षिणे ते नमः ॥ ३८ ॥ * ४ यः जगदादिसुकरः माम् उग्रदंष्ट्रे कृत्वा रसायाः उदन्वतः इभः इव प्रतिवारणम् दैत्यम् मृधे प्रमध्य क्रीडन् इव निरगात् तम् विभुम् प्रणता अस्मि इति ।। ३९ ।। इत्यष्टादशोऽध्यायः ॥ १८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका * मथनमेव दर्शयन्त्याह द्रव्येति । द्रव्यं विषयः क्रिया इन्द्रियव्यापारः हेतुर्देवता अयनं देहः ईशः कालः कर्ताऽहंकारः, एतै- मयागुणैः कायैरुपलक्षणैर्वस्तुत्वेन निरीक्षितो य आत्मा तस्मै । अन्वीक्षया विचा रणांगैर्यमनियमादिभिरतिशयात्मा निश्चयवती बुद्धिर्येषां तैर्निरस्ता मायानिमित्ता आकृतिर्यस्मात्तस्मै ॥ ३७ ॥ * तदेवं निर्गुणरूपेण नत्वा परमेश्वररूपेण प्रणमति करोतीति । यस्ये- क्षितुर्जीवार्थमीप्सितम् । अत्यन्तानिच्छायामीक्षणायोगात् । स्वार्थं तु नेप्सितम् । विश्वस्थित्यादि स्वगुणैर्माया करोति तस्या जडत्वेऽपी- श्वरसन्निधानात्प्रवृत्ति दृष्टान्तेनाह । यथाऽयो लोहं ग्राव्णोऽयस्कान्तान्निमित्ताद् भ्रमति तदाश्रयं तदभिमुखं सत् गुणानां कर्मणां जीवादृष्टानां च साक्षिणे तस्मै ते नमः ॥ ३८ ॥ * * अवतारचरितमाह प्रमध्येति । यो जगतामादिः कारणभूतः सूकरो मां पृथ्वीमप्रदंष्ट्रे दंष्ट्रा कृत्वा रसातलादादायोदन्वतः प्रलयार्णवादिभो गज इव निरगात् ततश्च प्रतिगजतुल्यं दैत्यं प्रमध्य यः क्रीडन् स्थितस्तं विभुं प्रणतास्मीत्यन्वयः ॥ ३९ ॥ । इति श्रीमद्भागवते पञ्चमस्कंधे टीकायामष्टादशोऽध्यायः ॥ १८ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः .. एवं स्थूलसूक्ष्ममायिकदेहद्वयसम्भवे एव मथनं सम्भवेत्सति च मथने तत्स्वरूपं दृश्यं स्यादित्याह - द्रव्यमिति । एतैर्मायागुणैः श्रवणकीर्त्तनपरिचरणादिभिर्भजनसाधकैरन्वीक्षया मनः कृतः पुनः पुनः परामर्शेन च अंगानां श्रवणकीर्त्तनादीनामतिशय आधिक्ये आत्मा यत्नो बुद्धिर्वा येषां तैर्वस्तुत्वेन सत्यत्वेन निरीक्षित आत्मा स्वरूपं यस्य तस्मै । तच ते स्वरूपं चिन्मयमेवेत्याह- निरस्तमायेति । सन्दर्भस्तु - मायागुणैरुपलक्षितं यद्वस्तु शुद्धजीवतत्त्वं तत्रापि निरीक्षितो य आत्मा परमात्मा तत्स्वरूपायेत्याह ॥ ३७ ॥ * * जगतो मायाकार्यत्वं दर्शयन्ती प्रणमति–करोतीति । यस्य ॥ ** स्वस्मिन्कृपातिशयं द्योतयन्त्यवतारचरितमाह-सुष्ठु करोति लोकस्थित्यर्थं धरोद्धरणलक्षणं शोभनं विदधातीति सूकर उपसर्गस्य दीर्घो निपातनात् । यद्वा – शुमित्यनुकारशब्दं करोतीति शूकरः शसयोरभेदो ज्ञेय आलंकारिक मतानुरोधात् । रसातलोपलक्षिताद्गर्भोदात् । इतिशब्दः समाप्तौ || ३९॥ । धरा अयस्कान्तात् चुबकमणः || ३८ | इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धेऽष्टादशोऽध्यायः ॥ १८ ॥ श्रीमद्वीरराघवव्याख्या गुणशब्दोपलक्षितचिदचिदात्मकजगदन्तरात्मत्वेन तद्वैलक्षण्यमुक्तं तदेव विशदयन्नमस्करोति द्रव्येति । अङ्गेत्यभि- मुखीकरणं हे भगवन्नतिशयात्मबुद्धिभिरतिशयितात्मपरमात्मविषयबुद्धिमद्भिः पुरुषैरन्वीक्षया निपुणनिरूपणेन वस्तुतः परमार्थतः प्रकृतिपुरुषविलक्षणत्वेनेति यावत् निरीक्षितः आत्मा स्वरूपं यस्य निरस्तमायाकृतये निरस्ता मायाकृतिः प्रकृतिकार्य यस्मात्तस्मै ते नमो नम इत्यन्वयः । कैः सह कुत्र निरीक्षणं तत्राह । द्रव्यं भूतपञ्चकं क्रियाक्रिया हेतुर्वागादिकर्मेन्द्रियमयनं ज्ञानेन्द्रियमीयतेऽनेनेति ज्ञानसाधनत्वाश्चक्षुरादेर्ज्ञानेन्द्रियस्य एषां समाहारद्वन्द्वः एतत्सङ्घातरूपे शरीरे सकर्तृभिः सपरिष्वञ्जकैः मायागुणैः सह निरीक्षिता- त्मने नमः । देहभूतेन्द्रियगुणत्रयजीवात्मभिः सह विविच्य निरीक्षितायेत्यर्थः । अनेन पूर्वश्लोके गुणपदं देवाद्यवस्थजीवोपलक्षणमित्या- वेदितुम् अन्यथास्मिन् श्लोके जीवोपस्थापककर्तृपदासङ्गतिः स्पष्टैव । एवञ्च गुणपदेन देहमात्रमभिप्रेत्य तेषु जीवतादात्म्येन मध्नन्तीति न भ्रमितव्यम् ॥ ३७ ॥ * * निरस्तमायाकृतय इत्यनेन मायाकार्यदोषप्रतिभटत्वमुक्तं तदुपपत्तये मायाया ईश्वरवश्यतामाह करोतीति । यो भगवान् यस्य प्रधानस्य गुणैः सत्त्वादिभिः प्रधानाभिप्रायेण यस्येति नपुंसकनिर्देशः विश्वस्य स्थितिसंयमोदयं स्थितिलयोदयं करोति, कथंभूतमीप्सितं धर्मार्थकाममोक्षार्थचतुष्टयस्य साधनोपयुक्तकरणकलेवरादिप्रदानेन जीवानुग्रहार्थत्वाज्जग- त्सृष्टया देस्तस्येप्सितत्वं जीवार्थत्वेनेप्सितमिति यावत्स्वार्थत्वेनानीप्सितमित्यर्थः, तस्मादीक्षितुः सङ्कल्परूपज्ञानवतस्तस्य ततः माया सत्त्वादिगुणात्मिका त्वच्छरीरभूता मायां यथा प्राव्णोऽयस्कान्तात्तदाश्रयं तदभिमुखं सदयो लोहं भ्रमति तथा त्वत्सङ्कल्पानुगुण- कारिणी भ्रमतीति भावः । यद्वा ईक्षितुः " तदैक्षत बहुस्यां प्रजायेय” इत्युक्तविधलक्षणवतः तस्य तव माया यस्येति षष्ठी शरीर-
एक. ५ अ. १८ श्लो. ३७-३९ ] अनेकव्याख्या समलङ्कृतम् ४०७ शरीरिभावसम्बन्धे त्वच्छरीरभूता माया । यद्वा तादधीन्ये षष्टी, दृष्टान्तस्य सामर्थ्यात्त्वदधीना माया त्वदाहितशक्तिर्विश्वस्य सृष्टयादि करोति इत्यर्थः । स्वतोऽशक्ता या कथमनुप्रवेशमात्रेण शक्तिमती स्यात्तत्राह । “यथायो भ्रमते तदाश्रयं ग्राव्ण” इति विश्वसृष्टयादिकर्तृत्वस्य परमात्मधर्मत्वेन माया करोतीत्युक्तमिति तदुच्यते भगवदवताररूपाणां ब्रह्मादीनां सृष्टयादिकर्तृत्वस्य रजआदिमायागुणप्राचुर्य प्रयुक्तत्वान्माया विश्वसृष्टयादिकं करोतीत्युक्तमिति नेप्सितमित्यनेन विश्वस्थित्यादिकं न भगवतो भोगार्थ - मित्युक्तम् । ईप्सितमित्यनेन जीवानुग्रहार्थं चेति सूचितम् । ननु विश्वस्थित्यादिकं न जीवानुग्रहार्थ किन्तु गर्भजन्मजरामरणादिदुःख- हेतुत्वेन जीवनिग्रहार्थमेव स्यात् । किञ्च हितकरणहिताकरणादिप्रयुक्त वैषम्यनैघृण्यं च भगवतः प्रसज्येत तत्राह । नमस्ते गुणकर्म- साक्षिण इति गुणानां मायागुणानां सत्त्वादीनां कर्मणां पुण्यपापरूपाणां चादृष्टादीनां साक्षिणे साक्षाद् द्रष्ट्र ते नमः जीवगुणकर्मानु- सारित्वात् हिताकरणादेर्न वैषम्यनैधृ व्यदोषप्रसक्तिरिति भावः । तथा च सूत्रम् “वैषम्यनैधृ ण्ये न सापेक्षत्वात् न कर्माविभागा- दिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च” इति । अयं भावः भगवान् जगदादौ स्वस्मिन्नुपसंहृतचिदचित्तत्त्वः सर्वज्ञः सर्वशक्तिः परमकारुणिकोऽवाप्तसमस्तकामः स्वस्मिन् प्रलीनमसत्कल्पं चेतनवर्गमालोक्य सर्वेषां सामान्येन धर्मादिपुरुषार्थसाधनत्वारा धनोप- युक्तकरणकलेवराणि प्रदायाराधनप्रकारावबोधि वेदाख्यं शास्त्र च प्रदर्श्य स्वयं जगत्सृष्टयादिलील आस्ते । ततस्ते जीवाः करण- कलेवराणि परिगृह्य प्राचीनकर्मवासनानुसारेण साध्वसाधुकर्माणि कुर्वन्तः स्वस्वकर्मानुसारेण ईश्वरादिष्टं फलं भुञ्जते इति नेश्वरस्य वैषम्यादिप्रसक्तिरिति ।। ३८ ॥ प्रकृतावतारचरित्रं वदन्ती नमस्करोति प्रमध्येति । यो जगतामादिः कारणभूतः ॥ * * सूकरः मां पृथ्वीं दंष्ट्रा कृत्वा निधाय रसातलादारभ्य उदन्वतः प्रलयार्णवादिभो गज इव निरगात्ततश्च प्रतिवारणं प्रतिगजतुल्यं दैत्यं हिरण्याक्षं प्रमथ्य हत्वा क्रीडन् स्थितः तं विभुं प्रणतास्मि ॥ ३९ ॥ , इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायाम् अष्टादशोऽध्यायः ॥ १८ ॥ श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली शरीरादिगूढेश्वर सद्भावे ब्रह्मादिप्रत्यक्षं च प्रमाणमित्याह द्रव्येति । द्रव्यक्रियाहेत्वयनेशाश्च कर्तारश्चेति तथा ईशशब्द: प्रत्येकमभिसम्बध्यते हेतुः कारणमयनमाधारः द्रव्यादीनामीशैः शङ्करगरुड ब्रह्मवायुभिर्जगत्कर्तृ भूतैर्मायागुणैर्हरीच्छानुसारिभि- वस्तु यथा तथा निरीक्षितात्मने साक्षात्कृतस्वरूपाय त्वत्प्रसादवलात्त्वत्साक्षात्कारे बुद्धिपाटवं चैषामस्तीत्याह तत्रेति । तत्र तव स्वरूपे यथाशक्तत्यखिलविशेषदर्शनपटुतरबुद्धिभिः यदुच्यते ब्रह्मविवर्तवादिभिर्मायारूपमेव गृह्यते न तात्त्विकमिति तत्राह । निरस्तेति । शङ्करादीनां द्रव्यादीशत्वम् " द्रव्येशः शङ्करः प्रोक्तः क्रियेशो गरुडः स्मृतः । कारणेशस्तथा ब्रह्मा वायुराधारवान् स्मृतः ||” इति वाक्यसिद्धं यथैषां वस्तुनिरीक्षणं शक्यते । तथेति । एवशब्देनान्येषामेतादृशशक्तिं निवारयति ।। ३७ ।। ब्रह्मादीनामपि त्वत्कटाक्षलेशमन्तरेण त्वज्ञानादौ पाटवं नास्ति, अतो निर्मातृत्वं च मुख्यं तवैवेत्यभिप्रेत्याह । करोतीति यो विश्वस्य स्थित्यादिकं करोति ब्रह्मादयश्च यस्य तवेप्सितमीक्षितुं नेशते सत्त्वादिगुणैर्मोहितत्वादिति शेषः, ब्रह्मादीनामपि तदीप्सित- ज्ञानशक्त्यभावेऽपि लक्ष्म्याः सास्तु तदनुवर्तमानत्वादित्याशङ्कयाह मायेति । यदाश्रया यस्त्वमाश्रयो यस्याः सा तथा माया लक्ष्मीर्भ्रमति अनन्तत्वात्स्वरूपं न परिच्छिनत्ति, अनुवृत्तिरपि न स्वाधीना किन्तु हर्यधीनेत्यत्र दृष्टान्तमाह यथेति । अयस्कान्त- रत्नसन्निधानाद्यथाऽयो भ्रमते चेष्टते तथेयमपि त्वत्सन्निधानात्त्वामनुवर्तत इत्यर्थः । त्वत्सन्निधानाभावे जडप्रायेति द्योतनायायो- निदर्शनमिति भावः । अनेन त्वत्सन्निहितलक्ष्मीसन्निधानाज्जडप्रकृतिः कार्येषु प्रवर्तते तत्रेदं निदर्शनमिति चोक्तं भवति । तथा च योजना -यस्य तवाश्रया माया जडप्रकृतिर्भ्रमतीति अयस्कान्तस्यायश्चेष्टकत्वशक्तिरीश्वरनियतेति ज्ञापनाय यदाश्रयेति । अत एव ग्राव्ण इति अयस्कान्ते सन्निधाय द्रव्यान्तरचेष्टाशक्तिप्रदत्वात्तद्वत्स्थिरत्वाद्वा तच्छब्दवाच्याय एतदेव सूचितं गुणकर्मेति । चेतनाचेतना - श्रयगुणकर्मणोः साक्षिणे कर्तृत्वेनेति शेषः ।। ३८ ।। प्रतिवारणं प्रतिगजस्थानीयं निरस्तनिवारणं वा अग्रदंष्ट्र दंष्ट्रा जगदादिः श्रीनारायण एवं सूकरः जगदादिश्चायं सूकरच सुष्ठु करोतीति सूकर एव सूकरः शुमित्यनुकारं शब्दं करोतीति सूकरो वराहः “बवौ शसाविति प्राच्या” इति सूत्रात् शसयोरभेदः ।। ३९ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्याम् अष्टादशोऽध्यायः ॥ १८ ॥ श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः ।। ।। द्रव्यादिभिर्मायागुणैरुपलक्षितं यद्वस्तु शुद्धजीवतत्त्वं तत्रापि निरीक्षितो य आत्मा परमात्मा तत्स्वरूपाय । अन्वीक्षादि- भिर्निरस्ता प्रत्याख्याता माया यतस्तथाभूताकृतिर्यस्य तस्मै ॥ ३७ ॥ * * तत्स्थापनाय वशीभूतमायां स्वरूपशक्ति योजयति । करोतीति ।। ३८-३९ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भस्याष्टादशोऽध्यायः ॥ १८ ॥ ४०८ श्रीमद्भागवतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी [ स्कं. ५ अ. १८ श्लो. ३७-३९ एवं स्थूलसूक्ष्ममायिकदेहद्वयसद्भावे एव मन्थन सम्भवेत् मन्थने च सति तत्स्वरूपं दृश्यं स्यादित्याह । द्रव्यं शब्दादि- क्रिया इन्द्रियव्यापारः हेतुर्देवता अयनं देहः ईशः कालः कर्ता अहङ्कारः । एतैर्मायागुणैः श्रवणकीर्तनपरिचरणादिभिर्भजनसाधकै- रन्वीक्षया मनः कृतेन पुनः पुनः परामर्शेन च अङ्गानां श्रवणकीर्त्तनादीनामतिशये आत्मा यत्नो बुद्धिश्च येषां तैर्वस्तुत्वेन निरीक्षित आत्मा स्वरूपं यस्य तस्मै । तच ते स्वरूपं चिन्मयमेवेत्याह । निरस्ता माया यत्र तथाभूता आकृतिराकारो यस्य तस्मै । श्लेषेण निरस्ता माया भक्तस्याप्याकृतिर्यतस्तस्मै ॥ ३७ ॥ * * ननु मत्कार्यत्वादचिदपि जगन्ममैवाकारो मृद्वटादिवत्तत्र जगदिदं न वस्तुतस्त्वत्कार्यं किन्तु मायाकार्यमित्याह करोतीति । यस्येक्षितुर्जीवार्थमीप्सितमत्यन्तानिच्छायामीक्षणायोगात् स्वार्थं तु नेप्सितं विश्वस्थित्यादिस्वगुणैर्माययैव करोति, तस्या जडत्वेऽपि ईश्वरसन्निधानात् प्रवृत्ति दृष्टान्तेनाह । यथा लोहं ग्राव्णोऽयस्कान्ताद्धेतो- भ्रमति तदाश्रयं तदभिमुखं सत् अतो गुणानां कर्मणां जीवादृष्टानान साक्षिणे तस्मै तुभ्यं नमः ।। ३८ ।। अवतार- चरित्र ब्रुवती स्वस्मिन् कृपातिशयं द्योतयति प्रमध्येति । प्रतिवारणं प्रतियोद्धारं हस्तिनमिव इभो हस्ती रसाया रसातलो पलक्षितात् गर्भोदान् जगदादिर्जगत्कारणभूतः सूकरः । उदन्वतः उदन्वति प्रलयार्णवे ।। ३९ ॥ … इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥ १८ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः पूर्वश्लोकं विवृणोति द्रव्येति । अन्वीक्षया विचारेण अर्यमनियमादिभिः अतिशयात्मा निश्चयवती बुद्धिर्येषां तैर्दिदृक्षुभिः द्रव्यादिभिः पञ्चविंशतितत्त्वैः सह त्रिभिर्मायागुणैश्च सह वस्तुतो याथात्म्येन निरीक्षितो य आत्मा एकोनत्रिंशः परमात्मा तस्मै नमो नमः । तत्र द्रव्याणि महाभूतानि पञ्च क्रियाशब्देन कर्मेन्द्रियाणि पञ्च हेतवः प्रकृतिमहदहङ्काराः पञ्चतन्मा- त्राणि चेत्यष्टौ प्रकृतयः अयनानि ज्ञानायनानि पञ्च ज्ञानेन्द्रियाणि ईशः इन्द्रियेशः मनः कर्ता जीवः एतैर्मायागुणाः सत्त्वरज- स्तमांसि तैश्र सहित इत्यर्थः । कथम्भूताय निरस्ता मायानिमित्ता आकृतिर्यस्मात् तस्मै अप्राकृताकृतय इत्यर्थः ।। ३७ ।। * * एवं चेतनाचेतनब्रह्माख्यानि त्रीणि तत्त्वान्युक्तानि । तत्र सेश्वरसाङ्ख्यपक्षे प्रकृतिर्यथेश्वरादत्यन्तभिन्नातः सैव जगत्कर्त्रीति शङ्का प्राप्ता तां वारयन् ब्रह्मणो जगत्कारणत्वमाह । करोतीति यस्य जगत्कारणस्य ईक्षितुः “तदैक्षत बहुस्याम्” इत्यादिश्रुतिप्रसि- द्वस्यैव सम्बधिनी शक्तिभूतैव माया न तदत्यन्तपृथग्भूता मायास्तीति “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” इति श्रुतेः । उपलक्षणमेतजीवादेरपि न ब्रह्मात्मकश्चेतनोऽचेतनश्च कश्चित्पदार्थोऽस्ति “सर्व खल्विदं ब्रह्म तेज्जलानिति” इति श्रुतेः, सा च माया ब्रह्माधीनस्थितिप्रवृत्तिमतीति दृष्टान्तेनाह । यथा अयो लोहं प्राव्णोऽयस्कान्ताद्धेतोस्तदाश्रयं तदभिमुखं भ्रमति तद्वमायापि स एव मायेशः ईप्सितं बुभुक्षोर्जीवस्य भोगार्थं मुमुक्षोर्मोक्षार्थं स्वार्थ तु नेप्सितं विश्वस्थित्यादिकं गुणैः स्वमायागुणैः करोति तस्मै ते जीवस्य गुणानां सात्विकत्वादीनां कर्मणां च गुणानुरूपाणां साक्षिणे नमः || ३८ ॥ * * प्रतिवारणं विरोधिनमिभमिभ इव मृत्रे युद्धे दैत्यं प्रमध्य रसायाः रसातलात् अप्रष्ट्र दंष्ट्रा ग्रे मां कृत्वा उदन्वतः प्रलयार्णवात् क्रीडन्निव निरगात् तं प्रणतास्मि ।। ३९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुक देवकृत सिद्धान्तप्रदीपेऽष्टादशाध्यायार्थप्रकाशः ॥ १८ ॥ गोस्वामिश्रीगिरिधरलाल विहिता बालप्रबोधिनी मायासम्बन्धराहित्यदर्शनमेव ज्ञानमार्गीयं भजनं तदेव निर्मन्थनेन निष्कर्षणमिति दर्शयन्ती प्रणमति - द्रव्येति । द्रव्यं विषयः, क्रिया इन्द्रियव्यापारः, हेतुस्तद्देवता, अयनं देहः, ईशः कालः, कर्त्ताऽहंकारः, एतैर्मायागुणैः प्रकृतिगुणकार्ये वस्तुत्वेन निरीक्षितो जडानां प्रवर्त्तकत्वेन ज्ञातो य आत्मा तस्मै । यद्वा द्रव्यं ब्रीह्यादि, क्रिया व्यापारः, तद्धेतुर्मन्त्रः, अयनं देशः, ईशः कालः कर्त्ता यजमानः, एतैः प्राकृतैर्वस्तुतया निरीक्षितो य आत्मा तस्मै नम इत्यन्वयः । कैर्ज्ञातो भवतीत्यपेक्षायामाह - अन्वीक्षयेति, अन्वीक्षया विचारेण अङ्गैर्यमनियम श्रवणमननादिसाधनैरतिशययुक्तो विवेकसमर्थ आत्मा स्वरूपं यस्याः सा बुद्धिर्येषां तैरित्यर्थः । कथम्भूत- स्तत्राह - निरस्तेति निरस्ता मायानिमित्ता आकृतिर्यस्मात् तस्मै । नमश्शब्दावृत्तिरादरार्था ॥ ३७ ॥ * * भक्तिमार्गेण स्तौति द्वाभ्याम् । तत्र माहात्म्यं प्रदर्शयन्ती प्रणमति — करोतीति । यस्येक्षितुरीक्षणमात्रेण माया स्वगुणैर्विश्वस्थित्यादि करोति तस्मै ते तुभ्यं नमः इत्यन्वयः । तत्र रजसोदयम्, सत्त्वेन स्थिति पालनम्, तमसा संयममुपसंहारमिति विवेकः । ननु भगवतोऽपि किमस्मदादिवत् किञ्चिदपेक्षितमस्ति येन स्थित्यादि कारयतीति चेत् न, आप्तकामत्वादित्याह नेप्सितमिति । नन्वत्यन्तानिच्छायां कथं मायेक्षितृत्वं सम्भवतीति चेत्, सत्यम्, स्वार्थमनीप्सितत्वेऽपि जीवार्थमीप्सितमेवेत्याह- ईप्सितमिति । ननु जीवार्थप्रवृत्ता- वपि तस्य पक्षपातादिना विकारप्रसक्तिः स्यादित्याशङ्कयाह– गुणकर्मेति, जीवानां सत्त्वादिगुणानां तत्प्रयुक्तकर्मणामदृष्टानां च
स्कं. ५ अ. १८ श्लो. ३७-३९] अनेकयाख्यासमलङ्कृतम् ४०९ साक्षिण इत्यर्थः । तथा च साक्षिमात्रस्य प्राणिनां कर्मानुसारेण फलं प्रयच्छतो न निर्घृणत्ववैषम्यादिविकारप्रसङ्ग इति भावः । ननु जडाया मायायाः कथमीक्षणमात्रेण प्रवृत्तिः सम्भवतीत्याशङ्कय दृष्टान्तेन तत्साधयति — यथेति । यथा ग्राव्णः अयस्कान्तान्नि- मित्तात्तदाश्रयं तत्सन्निहितं जडमपि अयो लोहं भ्रमति तथा भगवदीक्षणमात्रेणैव माया प्रकृतिः प्रवर्त्तते इत्यर्थः ॥ ३८ ॥ * * इदानीमस्मिन्नवतारे कृतं जगदुपकारं वर्णयन्ती प्रणमति–प्रमध्येति । यो जगतामादिः कारणभूतो भगवान् सूकरः सन् रसातलं गतां मां पृथिवीमप्रदंष्ट्रे दंष्ट्रा कृत्वा ततो रसातलादारभ्योदन्यतोऽर्णवात् निरगात् । ततश्च प्रतिवारणं प्रतिगजतुल्यं दैत्यं हिरण्याक्षं मृधे युद्धे प्रमध्य हत्वा स्थितस्तं विभुं समर्थ परमेश्वरमहं प्रणताऽस्मीत्यन्वयः । एवं तर्हि महान् श्रमो जातो भविष्यतीतीमां शङ्कां दृष्टान्तेन निरस्यति — क्रीडन्निवेभ इति, यथा गजो दंष्ट्राग्रे पद्मं कृत्वा क्रीडन् जलान्निस्सरति न चैवं श्रान्तो भवति तथा भगवानपि श्रमरहित एव क्रीडन्नेव पृथ्व्युद्धारं कृतवानित्यर्थः । इतिशब्दः स्तोत्रसमाप्यर्थकः । अत्र भूमेरपि तमः - प्रधानाहङ्कार कार्याभिमानित्वात् तामसत्वं भक्त्यनुसारिज्ञाननिरूपणाच्च सात्त्विकत्वं ज्ञेयम् ।। ३९ ।। Tre इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ PER श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र भूमिस्थाननिरूपणे । अष्टादशो गतो वृत्तिं पूजोत्कर्षनिरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी । मन्थनमेव दर्शयन्नमस्करोति द्रव्येति । अङ्गेति संबोधने । हे भगवन्, अतिशयात्तिशयिता आत्मबुद्धिः आत्मशब्द- वाच्यात्मपरमात्मज्ञानविषया बुद्धिर्येषां तैः पुरुषैः, अन्वीक्षया निपुणनिरूपणेन, द्रव्यं भूतपञ्चकं च क्रियाः कर्मेन्द्रियाणि च हेतुर्ज्ञा- नेन्द्रियाणि च तेषामयनं तस्मिन्नेतत्संघातरूपे शरीरे इत्यर्थः । सकर्तृभिर्जीवसहितैः, मायागुणैः सह वस्तुतः परमार्थतः प्रकृति- पुरुषविलक्षणत्वेनेति यावत् । निरीक्षित आत्मा स्वरूपं यस्य तस्मै । देहस्थभूतेन्द्रियगुणत्रयजीवात्मभिः सह विविच्य निरीक्षिता- । ॥ येत्यर्थः । अत एव, निरस्ता मायाकृतिः प्रकृतिकार्यं यस्मात्, तस्मै नमो नमः || ३७॥ निरस्तमायाकृतये इत्यनेन मायाकार्यदोषरहितत्वमुक्तं तदुपपत्तये मायाया ईश्वरवश्यतामाह करोतीति । ईक्षितुः साक्षिणः, यस्य तव, ईप्सितं जीवार्थं त्वदभिप्रेतं अत्यन्तानिच्छायामीक्षणायोगात्, न ईप्सितं, स्वार्थ त्वनभिप्रेतं, विश्वस्थितिसंयमोदयं जगदुत्पत्तिस्थितिलयानित्यर्थः । यथा अयः लोहं ग्राव्णोऽयस्कान्तान्निमित्तात्, तदाश्रयं तदभिमुखं सत्, भ्रमते । तथा माया, पुरुषद्वारा तवेक्षणतश्चेतनतां प्राप्ता । प्रकृतिः, गुणैः सत्त्वादिभिः करोति । अतः गुणानां मायाया गुणानां कर्मणां जीवादृष्टानां च साक्षिणे ते तुभ्यं नमः ।। ३८ ।। * * प्रकृतावतारचरित्रं वदन्नमस्करोति । प्रमध्येति । यः जगदादिसुकरः जगत्कारणभूतो वराहः, त्वं रसायाः रलातलात्सकाशात्, मां पृथ्वी अग्रदंष्ट्रे दंष्ट्रा ग्रे, कृत्वा निधाये, उदन्वतः समुद्रात् निरगात् । तत्रासुरण जाते इति शेषः । मृधे संग्रामे, प्रतिवारणं प्रतिगजतुल्यं दैत्यं हिरण्याक्षं प्रमध्य हत्वा क्रीडन इभो गज इव, स्थितः । विभुं तं प्रणता अस्मि ।। ३९ ।। इति श्रीधर्मधुरंधरश्रीधर्मात्मज प्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसनु भगवत्प्रसादाचार्यविरचिताया- समन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धेऽष्टादशोऽध्यायः ॥ १८ ॥ भाषानुवाद विचार तथा यम-नियमादि योगाङ्गों के साधनसे जिनकी बुद्धि निश्चयात्मिका हो गयी है - वे महापुरुष द्रव्य ( विषय ), क्रिया ( इन्द्रियोंके व्यापार ) हेतु ( इन्द्रियाधिष्ठाता देवता ), अयन (शरीर ), ईश, काल और कर्ता ( अहङ्कार ) आदि मायाके कार्यको देखकर जिनके वास्तविक स्वरूपका निश्चय करते हैं, ऐसे मायिक आकृतियोंसे रहित आपको बार-बार नमस्कार है ॥ ३७ ॥ जिस प्रकार लोहा जड होनेपर भी चुम्बककी सन्निधिमात्र से चलने-फिरने लगता है, उसी प्रकार जिन सर्वसाक्षीकी इच्छामात्र से जो अपने लिये नहीं, बल्कि समस्त प्राणियोंके लिये होती है-प्रकृति अपने गुणोंके द्वारा जगत् की उत्पत्ति, स्थिति और प्रलय करती रहती है; ऐसे सम्पूर्ण गुणों एवं कर्मों के साक्षी आपको नमस्कार है ।। ३७ ।।
आप जगत् के कारणभूत आदि सूकर है। जिस प्रकार एक हाथी दूसरे हाथीको पछाड़ देता है, उसी प्रकार गजराजके समान क्रीडा करते हुए आप युद्ध में अपने प्रतिद्वन्द्वी हिरण्याक्ष दैत्यको दलित करके मुझे अपनी दाढ़ोंकी नोकपर रखकर रसातलसे मलयपयोधिके बाहर निकले थे। मैं आप सर्वशक्तिमान् प्रभुको बार-बार नमस्कार करती हूँ’ ।। ३९ ॥ इत्यष्टादशोऽध्यायः ।। १८ ॥ etxe ५२ अथैकोनविंशोऽध्यायः क श्रीशुक उवाच कोटी किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसंनिकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते || १ | आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति ॥ २ ॥ ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलवताय नमः उपशिक्षितात्मन उपासित- लोकाय नमः साधुवाद निकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥ ३ ॥ । यत्तद्विशुद्धानुभवमात्रमेकं खतेजसा ध्वस्त गुणव्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं नामरूपं निरहं प्रपद्ये ॥ ४ ॥ मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्याद्रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ ५ ॥ न वै स आत्माऽऽत्मवतां सुहृत्तमः सक्तत्रिलोक्यां भगवान् वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति ॥ ६ ॥ न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः ।। ७ ।। सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति ॥ ८ ॥ ॐ अन्वयः - किंपुरुषे वर्षे तच्चरणसन्निकर्षाभिरतः परमभागवतः हनुमान् किंपुरुषैः सह अविरतभक्तिः भगवन्तम् आदिपुरुषम् लक्ष्मणाग्रजम् सीताभिरामम् रामम् उपास्ते ॥ १ ॥ आर्ष्टिषेणेन सह गंधर्वैः अनुगीयमानाम् परमकल्याणीम् भर्तृभगवत्कथाम् समुपशृणोति स्वयम् च इदम् गायति ॥२॥ ॐ भगवते उत्तमश्लोकाय नमः आर्यलक्षणशीलवताय नमः
-
- उपशिक्षितात्मने उपासितलोकाय साधुवादनिकषणाय नमः ब्रह्मण्यदेवाय नमः महापुरुषाय महाराजाय नमः इति ॥ ३ ॥ * * हि यत् विशुद्धानुभवमात्रम् एकम् स्वतेजसा ध्वस्तगुणव्यवस्थम् प्रत्यक् प्रशान्तम् सुधिया उपलंभनम् अनामरूपम् निरहम् तत् प्रपद्ये ॥ ४ ॥ इह विभोः मर्त्यावतारः तु केवलम् रक्षोवधाय एव न मर्त्यशिक्षणम् अन्यथा स्वे रमतः आत्मनः ईश्वरस्य सीताकृतानि व्यसनानि कुतः स्यात् ॥ ५ ॥ ६ सः आत्मवताम् आत्मा च सुहृत्तमः भगवान् वासुदेवः त्रिलोक्याम् न सक्तः स्त्रीकृतम् कश्मलम् न अश्नुवीत लक्ष्मणम् च अपि विहातुम् न अर्हति ॥ ६ ॥ * * नूनम् महतः जन्म तोषहेतुः न सौभगम् न वाक् न बुद्धिः न आकृतिः न यत् लक्ष्मणाग्रजः तैः विसृष्टान् अपि वनौकसः नः सख्ये बत चकार ॥ ७ ॥ *** सुरः असुरः वा वानरः अथ अपि नरः वा यः सुकृतज्ञम् उत्तमम् मनुजाकृतिम् रामम् हरिम् सर्वात्मना भजेत यः उत्तरान् कोसलान् अनयत् दिवम् इति ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ऊनविंशे किंपुरुषे भारते चोपवर्ण्यते । सेव्यसेवकभावश्च भारतश्रेष्ठ्यमेव च ॥ १ ॥ भर्ता चासौ भगवांश्च तस्य कथाम् ॥ २ ॥ * * आर्याणि लक्षणानि शीलं व्रतं च यस्मिन् । उपशिक्षितात्मने संयतचित्ताय उपासितोऽनुसृतो लोको येन । साधुवादः साधुत्वप्रसिद्धिस्तस्य निकषणाय निकषाश्मवन्निर्धारस्थानाय परमसीम्न ……. १. प्रा० पा० - वादधिषणाय । २, प्रा० पा० - सृष्टान्विपिने । स्क. ५ अ. १९ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् ४११ इत्यर्थः ॥ ३ ॥ * * श्रीरामं परमार्थरूपेण प्रणमति । यदेकं वेदान्तेषु प्रसिद्धं तत्त्वं तत्प्रपद्ये । तत्कथंभूतम् ? विशुद्धश्चा- सावनुभवश्च स एव मात्रा स्वरूपं यस्य । विशुद्धत्वे हेतुः प्रशान्तम् । तत्रापि हेतुः स्वतेजसा स्वरूपप्रकाशेन ध्वस्ता गुणानां विविधा जाग्रदाद्यवस्था यस्मिन् । अनुभवमात्रत्वे हेतुः । प्रत्यक् दृश्यादन्यत् । तत्कुतः । अनामरूपम् । ननु वस्तुत एवंभूतस्यापि जीवस्योक्तसर्वविपर्ययो दृश्यते तत्राह । निरहं अहंकाराभावान्न तथा वैपरीत्यमित्यर्थः । ननु श्रीरामस्य स्वरूपं नैवं तत्प्रीयते तत्राह । सुधिया पुंसा उपलभ्यत इत्युपलम्भनम् । शुद्धचित्तेन ब्रह्मत्वेनैवोपलभ्यत इत्यर्थः ॥ ४ ॥ 8 8 कथं तर्हि दशरथपुत्रत्वं तत्राह । विभोर्मयवतारस्तु रक्षसो रावणस्य वधाय तस्य मनुष्यादन्यतोऽवध्यत्वात् । न केवलमेतावत्किं त्विह संसारे स्त्रीसंगादिकृतं दुःखं दुर्वारमिति मर्त्यानां शिक्षणं च शिक्षार्थमपीत्यर्थः । अन्यथा स्वे स्वरूपे रममाणस्य जगदात्मनः सीताविरहकृतानि व्यसनानीति कुतः स्यात् ॥ ५ ॥ * * विषयासक्त्यभावेन व्यसनानर्हत्वमुपपादयति । न वै स भगवत्रिलोक्यां कापि सक्तः, यत आत्मवतां धीराणामात्मा सुहृत्तमश्च । अतो न स्त्रीकृतं मोहं प्राप्नुयात् । न लक्ष्मणं चेति । देवदूतेन श्रीरामं संमन्त्रयता विज्ञापितमत्रागतस्त्वया वध्य इति तदैव द्वारि स्थितं लक्ष्मणं दुर्वाससमागतं विज्ञापयितुं प्रविष्टं हन्तुमुद्यतो वसिष्ठवाक्यात्तत्याज तच न युज्येतेत्यर्थः ॥ ६ ॥ * * सर्वैः सेव्य इति वक्तुं न तस्य . अतः श्रीराम एव तोषहेतुः सत्कुलजन्मादि किं तु भक्तिरेवेत्याह लाह न जन्मेति । महतः पुरुषाज्जन्म महतः श्रीरामस्येति वा । सौभग सौन्दर्यम् आकृतिर्जातिः । यद्यस्मात्तैर्जन्मादिभिर्विसृष्ठांस्त्यक्तानपि नो वनचरान् बत अहो लक्ष्मणस्याग्रजोऽपि सखित्वे कृतवान ॥ ७ ॥ * * तस्मात्सुरो वान्यो वा यः कोऽपि श्रीराममेव सर्वप्रकारेण भजेत | सुकृतज्ञमल्पीयस्यपि भजने बहुमानिनम् । उत्तरान्कोसलान योध्यावासिनः ॥ ८ ॥ । ܀ । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः श्रेष्ठ्यं महत्त्वम् ( १ ) । सीतयाभिरामः सुन्दरस्तम् ॥ १ ॥ * आर्ष्टिषेण ऋषिविशेषो भारते प्रसिद्धः । भर्तृ- भगवत्कथामित्यनेन नारदादिरिव नावतारान्तरकथायामनुरज्यतीति द्योतितम् ॥ २ ॥ * आय्र्याणि सर्वैः शिरोधार्याणि लक्षणानि चरणतलगतध्वजवत्रादीनि आजानुबाहुत्वादीनि च शीलानि धीरोदात्तादीनि व्रतानि धर्मनिष्ठत्वादीनि यस्य तस्मैः । उपशिक्षितात्मने गुरुब्राह्मणादिशिक्षाप्राहिणे उपासितलोकाय स्वयं ब्रह्माद्युपास्यत्वेपि मया स्वाचरणेन रजकपर्यन्ता अपि लोकाः प्रसाद- नया इति विचारवत्वाल्लोकानां तदुपासितत्वं साधुवादानां ब्रह्मण्यत्वसत्यसंधत्व कृपालुत्वादीनां निकषणाय परमोत्कर्षप्रापकाय । लोका हि साधुवादैरुत्कृष्यन्ते रामं प्राप्य साधुवादा अप्युत्कृष्टा भवन्तीत्यर्थः । यथा परमोत्कृष्टस्यापि कनकस्य निकषं प्राप्तस्यैवोत्कर्षो लोके प्रमाणीभवति तद्वदित्यर्थः ॥ ३ ॥ * ननु शंखचक्रादिमत्त्वं गरुड वाहनाद्यैश्वय्र्यानाविष्कारादवतारस्यास्य ब्रह्मत्वे केचित्संशेरते तत्र ये संशेरते ते संशेरतां नाम, अहं तु साक्षादिमं परब्रह्मरूपमेवानुभवामीत्याह-यदिति । विशुद्धो मायासम्बन्ध- शून्यो योऽनुभवस्तन्मात्रम् । अन्यत् “न चक्षुषा पश्यति रूपमस्य, यमेवैष वृणुते तेन लभ्यस्तस्यैवात्मा विवृणुते तनुं स्वाम्” इति श्रुतेः । तत्कुतः अनामरूपं यतः “एतास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” इति प्रसिद्ध प्राकृतनामरूपरहितं तत्र हेतुर्निरहमिति । आत्मशब्देनास्यां श्रुतौ परमात्मनो जीवाख्यशक्तिरूपोंश उच्यतेऽनेनेति पृथनिर्देशात् । तद्रूपेण च प्रवेशो नाम देवताशब्दवाच्यतेजोवारिमृल्लक्षणोपाध्यभिनिवेशः । स च तस्य जीवस्य तत्राभ्यासादेव भवति । ततोन्तर्यामिरूपेण स्वयं तत्र स्थितस्यापि तदध्यासाभावादुपाधिकृतनामरूपराहित्यं युक्तमेवेत्यर्थः । सर्वथाहंकार राहित्ये सति व्याकरवाणीति प्रयोगानर्हत्वादिति भावः । अत्राक्षिपति — नन्विति । इत्यर्थं इति । चित्तशुद्धिं विना “दृश्यते स्वग्र्यया बुद्धया” इति श्रुतेस्तत्साक्षात्कारो न भवतीति भावः ॥ ४ ॥ * * नन्वेवंभूतस्य मर्त्येषु प्राकट्यं किंप्रयोजनकमित्यत्रोच्यते - गौणे सत्यपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीलामाधुर्थ्याभिव्यंजनमेवेत्याह–मत्येति । इत्यर्थं इति । मर्त्या हि द्विविधा धर्मवन्तो भक्तिमन्तश्च तेभ्यः क्रमेण स्वस्य धार्मिकत्व- प्रेमवश्यत्वयोः प्रदर्शनया धर्मशिक्षणार्थं प्रेमशिक्षणार्थं चेति भावः । अन्यथा मर्त्यशिक्षणाभावे कुतः स्यात् - स्युः किन्तु साध्वी स्वभार्या धार्मिकैः सर्वथैव नोपेक्षितव्या तदर्थं प्राप्तानि दुःखान्यपि सोढव्यानीति शिक्षणार्थं स्वस्मिन्नसन्त्यपि दुःखानि दर्शितानीति प्रथमे पक्षे । द्वितीये तु — सीताविरहकृतानि विषादादीनि कुतो दुःखानि किन्तु प्रेम्णः स्थायिभावस्य विप्रलम्भेन रसास्वादन - जनितानि दुःखत्वेन भासमानानि परमसुखान्येव न तु दुःखानीत्यर्थः । आत्मारामत्वदुःखित्वयोर्युगपदेकत्र विरोधात् । न च सीतया रममाणस्य कुत आत्मारामत्वमिति वाच्यं सीतायाः स्वरूपशक्तित्वेनात्मभूतत्वात् । ननु सीतायाः स्वरूपभूतत्वे कथं तद्विरहः सम्भवेत् उच्यते — एकमेव परमतत्त्वं चिच्छत्तिवृत्तिभेदेन महासारेण प्रेमाख्येनानादित एव द्विधा विभक्तं तिष्ठति ह्लादषडैश्वर्यमयं केवलं ह्लादमयं च प्रथमम् । प्रथमं परमेश्वराख्यं द्वितीयं भक्त्याख्यं पुनश्च तेनैव प्रेम्णा स्वस्य चतसृभिर्वृत्तिभि- द्वितीयं तत्त्वं चतुर्द्धा विभक्तं दाससखिपित्रादिप्रेयस्याख्यं प्रथमस्य तदेव तत्त्वस्य दास्यादिभावभावितत्वं व्यवस्थापितं प्राकृतेष्वपि जीवेषु यदृच्छयैतादृशभक्तिसाधनवत्सु भक्तिपरिपाके स्वयमाविर्भूयैतच्चतुष्कमावेश्यतेऽपि दासादित्वेन यथाकालं नित्यलोकं प्रापथ्य चतुष्केण तेन समनुगम्यते, पुनरपि तेनैव प्रेम्णा स्थायिभावतां प्राप्तेन स्वशक्त्यैवाविर्भाविताभिर्विभावादिभिः स्वं , O ર श्रीमद्भागवतम् स्कं. ५ अ. १९ श्लो. १-८ रसरूपीकृत्य तदेव युगलं स्वस्य विषयाश्रयीभावभावितं कृत्वा स्वाधीनीकृत्य योगवियोगाभ्यां सुखदुःखायितं स्वमाधुर्यमसाधारण- मपारमा स्वादयता कोऽप्यानन्दचमत्कार एव निष्पाद्यते । अतद्विदां तु केषाञ्चित् रामकृष्णादीनामप्येतावद् दुःखमनिर्वाच्यमिति केषाविज्जीवप्रदर्शनायै अनुकृतमित्येवं व्यामोह एव ॥ ५ ॥ ४ तस्य प्रेमवश्यत्व सत्यत्रतत्वब्रह्मण्यत्वादिभिरप्राकृतै- गुणैरेवैतदुपपद्यते नान्यथेत्याह - नेति । न सक्तोऽत्र हेतुः - आत्मा परमात्मा भगवान् परिपूर्णैश्वर्यादिः वासुदेवः सर्वाश्रयश्चेति । किं त्वात्मवतामात्मा स्वयमेव नाथत्वेन विद्यते येषां तेषां स्वविषयकममताधारिणां भक्तविशेषाणामित्यर्थः । तेषामेव सुहृत्तमः । तस्माद्यथान्ये स्त्रीकृतं स्त्रीहेतुकं कश्मलमश्नुवते तथा नासावश्नुवीत, अतस्तस्यात्मवत्त्वेनैव तादृशकश्मलहेतुतत्प्रीतिविषयतापीति भावः । तथा देवदूतसमयातिक्रमेणात्मवतोऽपि लक्ष्मणस्य परित्यागो यः स खलु नात्यन्तिक इत्याह-न लक्ष्मणमिति । इत्यर्थ इति । मर्यादारक्षणार्थमेव किञ्चित्तत्तदनुकरणमिति भावः ॥ ६ ॥ * यतः परमदयालुस्स रामोऽतो हेतोः । न हि रामादपरो महानिति कथमुक्तं महतः पुरुषादिति ततः पक्षान्तरमाह - श्रीरामस्य वेति । लक्ष्मणस्य सर्वसद्गुणलक्षितस्य श्री सुमित्रा - नन्दनस्याप्रजोत्यग्रजत्वेन तमपि दास्ये विदधानोऽस्मान्सर्व सल्लक्षणरहितत्वेन दास्ययोग्यानपि सीतान्वेषणादिभक्तितुष्टत्वेन सखित्वे कृतवान् । सहविहारादिना सखीनिव स्वीकृतवान्सुग्रीवमनुलक्ष्य वेयमुक्तिः ॥ ७॥ तस्माद्भजनीयेषु सर्वावतारेषु मध्ये राम एव कृपासिन्धुरतिशयेन भजनीयो यद्भजने सर्व एवाधिकारीत्याह-सुर इति । दिवं वैकुंठम् ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या ॥ एवमिलावृतादिषु वर्षेषु सप्तसूपास्यादिकमुक्तमथेदानीं किंपुरुषे भारते च वर्षे तद्वदन्येषां मध्ये भारतवर्षश्रेष्ठयं चाहेकोन- विंशेन । तत्रादौ किंपुरुषे उपास्यां भगवत्तनुं तदुपासकं जप्यं मन्त्रं चाह किंपुरुष इति । आदिपुरुषं जगत्कारणभूतं परमपुरुषं लक्ष्मणस्य सौमित्रेर प्रजं सीताया मैथिल्या अभिराममनुरूपं रामं दाशरथिं रामम् " रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ।।’ इति निरुक्तरामशब्दपुष्कलप्रवृत्तिनिमित्ताश्रयं तस्य श्रीरामस्य यो चरणौ तयोः सन्निकर्षः सान्निध्यं भजनमिति यावत्तस्मिन्नभिरत आसक्तो महाभागवतो हनुमानाञ्जनेयः किंपुरुषवर्षस्यैः सहाविरता अविच्छिन्ना भक्तिर्यस्य तादृश उपास्ते ॥ १ ॥ * * भगवतो भर्तुः श्रीरामस्य कथां गन्धर्वैरुप समीपे गीयमानां आर्ष्टिषेणेन किंपुरुषवर्षस्य पुरुषश्रेष्टेन सह सम्यगुपशृणोति स्वयमिदं वक्ष्यमाणमुपांशु गायति जपति ॥ २ ॥ ॐ * ॐ भगवच्छब्दार्थौ पूर्ववत् । उत्तमैर्ब्रह्मादिभिः श्लोक्यते स्तूयते, उत्तमः निरतिशयः श्लोकः यशो यस्येति वा तस्मै आर्याणां लक्षणानि व्रतानि च शीलानि यस्मिन् उपशिक्षितः संयतः आत्मा चित्तं येन, उपाश्रितः लोको येन साधुवादः साधुत्वसिद्धः तस्य निकषणाय निकषाश्मवन्निर्द्धारिणस्थानाय ब्रह्मणि कुले साधुः ब्रह्मण्यः, तत्र साधुरिति यत्प्रत्ययः “ये चाभावकर्मणोः” इति प्रकृतिभावान्न टिलोपः । “अप्यहं जीवितं जह्यां त्वां वा सीते ! सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥” इत्युक्तरीत्या ब्राह्मणसंरक्षणबद्धे कदीक्षत्वमेवात्र ब्रह्मण्यत्वं स चासौ देवः स्वतेजसा दीप्यमानः अस्पृष्टप्राकृतदोषस्तस्मै । यद्वा ब्रह्म वेद तत्र साधुः सम्यक् प्रतिपाद्यः स चासौ देवस्तस्मै महापुरुषाय पुंसूक्तप्रतिपाद्यजगत्कारणत्वोपयुक्तकल्याणगुणविशिष्टाय परमपुरुषाय महाराजाय । ‘राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीध्वं स पिता स प्रजापतिः ।। " इत्युक्तमहाराजाय नमःपदावृत्तिर्गुणभेदाभिप्राया ॥ ३ ॥ * * प्रकृतिपुरुष- || || विलक्षणपरमात्मस्वरूपं विशोध्य तच्छ्रीरामरूपेणावस्थितं नमस्करोति यदिति । विशुद्धं रागाद्यकलुषितं तदनुभवैकमात्रं । ज्ञानैकस्वरूपं मात्रचा कचिदप्यजडस्वरूपत्वं विवक्षितं विशुद्धानुभवैकमात्रमनेन स्वरूपं निर्दिश्यते स्वतेजसा स्वप्रकाशेन नित्या सङ्कुचितानन्दस्वरूपविषयकधर्मभूतज्ञानेन ध्वस्ता नित्यं निरस्ता गुणा रजआदयः तत्कृतास्तिस्र उत्पत्तिस्थितिमरणभूता अवस्था यस्य । स्वतेजसा ध्वस्तगुणव्यवस्थमित्यनेन प्रकृतिसंसृष्टचेतनव्यावृत्तिः, स ह्यध्वस्त गुणव्यवस्थः प्रशान्तमशनायापिपासाशोक- मोहजरामृत्युरूपोर्मिषड्डुणरहितानन्दस्वरूपम् । यद्वा विशुद्धशब्देनैन्द्रिय कानुभवव्यावृत्तिः प्रशान्तशब्देन नित्यं रागाद्यकलुषितत्व- मुच्यतेऽनेन मुक्तचेतन व्यावृत्तिः । स हि बद्धावस्थायां रागादिभिः कलुषितः प्रत्यक् स्वस्मै भासमानमनेन पराचोऽचेतनस्य व्यावृत्तिः, न चेतनं स्वस्मै अवभासते किन्तु परस्मै एव सुधिया सम्यग्ज्ञानेनोपलम्भनमुपलभ्यते इत्युपलम्भनम् “दृश्यते त्वम्यया बुद्धधा सूक्ष्मया सूक्ष्मदर्शिभिः । हृदा मनीषा मनसाभिक्लृप्तः” इति श्रुत्युक्तयोग परिशुद्धबुद्धयोपलभ्यमानमित्यर्थः । अनेनैव तत्कारणत्व- मप्युपलक्षितम् “कच ध्येयः कारणं तु ध्येयम्” इति ध्येयत्वकारणत्वयोरेकनिष्ठत्व श्रवणात् । यदि कारणं तर्हि कारणत्वस्य भाव्यवस्था- विशेषवतः प्रागवस्था योगित्वरूपत्वादेवादिनामरूपाश्रयत्वं स्यात्ततश्च “सत्यं ज्ञानमनन्तं निष्क्रियं निष्कलम्” इत्यादिनिर्विकारित्व- श्रवणविरोधस्तत्राह अनामरूपमिति । न विद्येते स्वमात्रनिष्ठे देवादिनामरूपे यस्य प्रकृतिपुरुषविशिष्टस्यैव कारणत्वादेवादिनाम- रूपयोः स्वविशेषणीभूत प्रकृतिपुरुषगतत्वात्तद्वारा सनामरूपत्वेऽपि साक्षादनामरूपमित्यर्थः, एवम्भूतं यद्वेदान्तेषु प्रसिद्धं तत्पर- ब्रह्मस्वरूपं नरहरिं पुरुषोत्तममिति यावत् । एवं च " द्वाविमौ पुरुषौ लोके” इत्यारभ्य “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इति भगवद्गीतोक्तनित्यमुक्तबद्धत्रिविधचेतन व्यावृत्तस्वरूपं विवक्षितं, तत्र हि कूटस्थशब्देन मुक्तो नित्यसिद्धश्च चेतन उच्यते, उभयोरपि प्राकृतविकारराहित्येनाक्षर कूटस्थशब्दवाच्यत्वात् । यद्यपि प्रशान्तशब्देन मुक्तव्यावृत्तिस्तथापि नित्यसिद्धव्यावृत्तये नृहरिमित्युक्तं निरहमिति पाठे त्वनामरूपत्वे निरहं हेतुः अहमर्थान्निर्गतः अहंशब्देनाहङ्कारः प्रकृतिपरिणामविशेषः जीवश्वोच्यते । आत्मनोऽप्यह- स्क. ५ अ. १९ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् । मर्थत्वात्ततश्च निरहं प्रकृतिपुरुषगतविकारातीतं हि यतस्तस्मादनामरूपमिति योजना बोध्या । एवंभूतं प्रपद्ये उपायोपेयभावेनाध्य- वस्यामीत्यर्थः ॥ ४ ॥ * * नन्वस्तु परस्य ब्रह्मणोऽनामरूपत्वं श्रीरामस्य त्वनारूपत्वमित्ययुक्तं तस्य मनुष्यनामरूपभाक्त्वा- तत्राह मन्येति । विभोः परस्यैव ब्रह्मण इह लोके श्रीरामरूपेण मर्त्यावतारः मनुष्यावतारः अवतारो नामाजहत्स्वभावस्यैव रूपान्तरपरिग्रहः । एवञ्च परब्रह्मेहाजहत्स्वभावं मनुष्यसजातीयरूपं परिगृहीतवदिति भावः । किमवतार प्रयोजनं तत्राह मर्त्यशिक्षणं मर्त्यानां संसार दोषज्ञापनेन धर्मसंस्थापनं साधुपरित्राणं प्रयोजनमिति भावः । ननु मर्त्यशिक्षणं नावतारप्रयोजनं किन्तु रावणादि- रक्षोवध एवेत्यत्राह । रक्षोवधायैव न केवलमिति । विभोर्मयवतारो न केवलं रक्षोवधार्थमेवापि तु मर्त्यशिक्षणमेव तस्य प्रधानं । । । । प्रयोजनमित्यर्थः । तथा चोक्तं भगवता “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। ” इति विनाशाय चेत्यत्र चशब्दोऽन्वाचयपरः भिक्षामट गामानयेतिवत् दुष्कृतविनाशनमानुषङ्गिकं प्रयोजनमित्यर्थः । धर्मो नाम चातुर्वर्ण्यचातुराश्रम्यव्यवस्थयावस्थित ईश्वराराधनरूपपञ्चमहायज्ञादिः तस्य संस्थापनं संसारदोषज्ञापनेन शिक्षणं दुष्कृतविनाशनं तु सङ्कल्पमात्रेणाप्युपपद्यते, साधूनां शय्यासनाटनभोजनादिषु भगवता सह वर्तमानानां तं विना क्षणमात्रमपि कल्पसहस्रं मन्वानानां दर्शनस्पर्शनसंभाषणादिभिः परित्राणं सुखीकरणं धर्मसंस्थापनश्च सङ्कल्पमात्रेणाप्युपपद्यत इति भावः । यदुक्तं मर्त्यशिक्षणार्थमेवावतार इति तदस्मिन्नेवावतारे निदर्शयति कुत इत्यादिना । अन्यथावतारस्य मर्त्यशिक्षणार्थत्वाभावे ईश्वरस्य । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्ज्जुन ! तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।।’ इत्युक्तसर्वनियन्तुः दारापहर्तृरावणाद्यन्तरात्मतया दारापहरणा- दिकं कारायितुः स्वे स्वस्मिन्निरतिशयापरिच्छिन्नानन्दस्वरूपे आत्मनि रमतः उक्तविधस्वस्वरूपानुभवेन नित्यसन्तुष्टस्य विषया- सक्तिरहितस्य सीताकृतानि सीताविश्लेषादिभिः कृतानि व्यसनानि दुःखानि कुतः कस्माद्धेतोः स्यात् । प्रत्येकाभिप्रायं स्यादित्येकवच- नम् । कुतोऽन्यथा स्यू रमत इति पाठस्तु सुगमः । सर्वनियन्तुः सर्वान्तरात्मनः स्वानुभवसन्तुष्टस्य श्रीरामस्वरूपेणावस्थितस्य परब्रह्मणः सीताविश्लेषादिकृत व्यसनानुकरणं निरतिशयदुःखावहः संसार इति लोकस्य प्रदर्शयितुमेव अन्यथोक्तविधस्य तस्य सीताकृतव्यसनादि न घटत इति भावः ॥ ५ ॥ * एतदेवोपपादयति नेति । स श्रीरामरूपेणावस्थितः परमात्मा आत्मवतां प्रशस्तमनसां निर्धूतनिखिलसांसारिकधर्माणां सनकादीनामात्मा सुहृत्तमः स्वाश्रितेषु निरतिशयसौहार्दनिष्ठः आश्रितानां निरतिशयप्रीतिविषयश्च भगवान् ज्ञानशक्तिबलैश्वर्यादिषाड्गुण्यपूर्णः वासुदेवः “सर्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः । ततो वासुदेवेति विद्वद्भिः । परिकीर्तितः ।। " इत्युक्त सर्वत्रावस्थितोऽपि तद्गतदोषैरसंस्पृष्टः सर्व स्वधार्यत्वेन स्वशेषत्वेन च परिगृहीतवांश्च त्रिलोक्यां । कृत्स्नजगदन्तर्भूते कस्मिंश्चिदपि शब्दादिविषयभूते वस्तुनि न सक्त:- वैशब्दोऽवधारणे-न सक्त एवेत्यर्थः । यतो न सक्तः अत एव स्त्रीकृतं स्त्रीविश्लेषादिकृतं कश्मलं दुःखं नाश्नुवीत, अवतारस्य मर्त्यशिक्षणार्थं त्वाभावे स्त्रीकृतं कश्मलमेवम्भूतो न प्राप्नुयादेवा- न्यथेत्यस्य सर्वत्रानुषङ्गः, तथा लक्ष्मणं चशब्दात्सीतां च विहातुं त्यक्तुं नार्हति । निवासशय्यासनपादुकांशु कोपधानवर्षातपवारणा- द्युपयुक्तशरीरभेदैः शेषत्वं गतस्य भगवतो नित्यानपायिनो न तस्यावताररूपम् । “भवांस्तु सह वैदेह्या गिरिसानुषु रस्यते । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ।। कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते । कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ।।” इति सर्वावस्थोचिता शेषशेषतै कर ति कृतनित्यकिङ्करतां प्रार्थयमानं लक्ष्मणम्। “नित्यैवैषा जगन्माता लक्ष्मीर्नित्यान- पायिनी । राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि ॥ अन्येष्वप्यवतारेषु विष्णोरेषानपायिनी ।” इत्युक्तविधां नित्यानपायिनीं लक्ष्म्यवताररूपां भगवतीं सीतां च मर्त्यशिक्षणमन्तरेण “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चन । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम ।।” इति वदन् कथं त्यक्तुमर्हति । अतः केवलं मर्त्यशिक्षणार्थं सांसारिक- पुरुषचेष्टामनुसृतवानित्यर्थः । सीतालक्ष्मणत्यागस्तु श्रीरामायणे उत्तरकाण्डे प्रसिद्धः । अत्रात्मवतामात्मेत्यनेन “अमृतस्य तु नाशास्ति वित्तेन, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति वीतरागोपास्यत्वप्रतिपादकश्रुत्यर्थप्रत्यभिज्ञानात्तस्य सर्गादिभिरकालुष्यं सूचितम् । अत एव स्त्रीसंयोगवियोगकृतसुखदुःखाद्यभावश्चावेदितः, भगवानित्यनेन पाडण्यपूर्णत्वोक्त्यांचात- समस्त कामत्वोक्तिलाभात् स्त्रीसङ्गादिनिमित्तसुखानादरचोक्तः, सुहृत्तम इत्यनेन ‘न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथञ्चि- दुपकारेण कृतेनैकेन तुष्यति ||’ इत्युक्तरीत्या दोषाननवेक्ष्य तारतम्यमनालोच्य उपकाराभासमवलम्ब्य स्वाश्रितत्वमात्रेणापरित्यजतो निरतिशय सुहृत्तमस्य मर्त्यशिक्षणमन्तरेण नित्यानपायिनोः सीतालक्ष्मणयोरत्यागो न घटत इत्युक्तं भवति ।। ६ ।। * कै तारतम्यमनादृत्य यस्याश्रितत्वमात्रेण निरतिशयप्रीतिविशिष्टत्वरूपं तदस्मिन्नेवावतारे दर्शयति नेति । महतः शरणागतशब्दभाजं निहीनजन्मादिविशिष्टं पापीयांसमपि रक्षितुं बद्धदीक्षस्य श्रीरामरूपेणावस्थितस्य ब्रह्मणः जन्म विप्रादिजन्म न तोषहेतुः तथा सौन्दर्याध्ययनसुबुद्धिजातयो न तोषहेतवः, तिर्यक्ष्वपि तस्यानुग्रह दर्शनादिति भावः तथाहि तिरचो भावः तैर्यचं तिर्यक्त्वं तेन सृष्टान् वनौकसः वनस्थानस्मान् कपीन् प्रति लक्ष्मणाग्रजः पूर्वोक्तविधानन्तावताररूपलक्ष्मणाग्रजो नित्यं तत्सहचरः श्रीरामः सख्यं चकार बतेत्याश्वर्ये । सख्य इति पाठे सख्ये विषये नचकारेत्यर्थः, तैर्यद्विसृष्टानिति पाठे यत् यस्मात्तैर्जन्म सौभगादिभिः विसृष्टान्परित्यक्तानपि नोऽस्मान् सख्ये चकार जन्मादिकतारतम्यमनवेक्ष्य संश्रयमात्रेणास्माभिर्होनैः सख्यं कृतवान् बताहो अस्य सुहृत्तमत्वमेवंविधमिति निर्वक्तुमशक्यमित्यर्थः ॥ ७ ॥ * * यत एव निरतिशयसुहृत्तमस्ततस्तं मनुजाकृतिं मनुष्याकारं श्रीहरिं सुकृतमुपकारा- भिज्ञम् “मय्येव जीर्णतां यातु यत्त्वयोपकृतं कपे ! । नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥” इति मां प्रत्युक्तविधोपकाराभिज्ञं કષ્ટ श्रीमद्भागवतम् [ स्कं. ५ अ. १९ श्लो. १८ पुरुषोत्तमं श्रीरामं सुरासुरनराणां मध्ये यः कश्चित्सर्वात्मना सर्वप्रकारेण केनापि तदीयतासम्पादन प्रकारेणेति यावत् भजेत कथं तन्मात्रेणैव तमनुगृह्णातीत्यत्राह । यः श्रीरामः उत्तर कोसलानुत्तर कोसलस्थान् लोकान् तरुगुल्मलतादींश्च स्वदेशवासित्वमात्रमवलम्ब्य दिवं स्वर्गमनयत् प्रापितवान् । न केवलं ज्ञानक्रियाभक्तियोगानेवापेक्ष्यानुगृह्णात्यपि तु यत्किञ्चिद्वयाजमात्रमवलम्ब्यानुगृह्णात्ययं श्रीराम इति भावः । तथा चोक्तं श्रीवत्साङ्कमिश्रैः “त्वामामनन्ति कवयः करुणामृताब्धे ! ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः । एतेषु केन वरदोत्तरको सलस्थाः पूर्वं सदूर्वमभजन्न हि जन्तवस्त्वाम् ॥” इति ॥ ८ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली “Sex सीतामभिरामयतीति सीताभिरामस्तम् ॥ १ ॥ * * भगवत्कथामित्युक्तेः कस्यचित्पूज्यस्य कथामिति तद्वयावृत्त्यर्थं भत्रिति “भर्ता सन् भ्रियमाणो बिभर्ति” इति श्रुतिरपि सङ्गृहीतानेनेति ज्ञातव्यम् ॥ २ ॥ * * आर्यस्य हरेर्लक्षणं शीलं नित्यनिर्दोषत्वं सत्यजगत्सष्टृत्वादि व्रतं च यस्य स तथा तस्मै “विश्वं सत्यं मघवानायुवोरिदापश्च न प्रमिनन्ति व्रतं वाम्” इति श्रुतिः उपाश्रिता आत्मानो जीवाः यस्य स तथा तस्मै लोकानुग्रहायाङ्गीकृतविग्रहायेति वा उपासित उपासनायुक्तो लोको यमुद्दिश्य को स तथा तस्मै साधुरयमिति वादस्य वचनस्य निकर्षणाय सम्यग्विचारकाय । यद्वा साधूनां वादस्य विवादस्य विरोधस्य निकर्षणाय परिहारकाय || ३ || * अहं तं त्वां शरणं प्रपद्य इत्यन्वयः । यत्तत्तव स्वरूपं विशुद्धानुभवमात्रं प्रकृतिप्राकृत वैकृतसम्बन्धरहितज्ञानात्मकेन्द्रियादिमत्स्वतेजसा स्वरूपसामर्थ्येन ध्वस्ता निरस्ता गुणाः सत्त्वादयश्व तिस्रो जाग्रदाद्यवस्थाश्च येन स तथा तं ध्वस्ता गुणनिमित्ताः तिस्रोऽवस्थायेन स तथा तं वा प्रत्यग् जीवाभिमुखावस्थितं प्रशान्तं प्रकृष्टसुखपूर्णं प्रसन्नाकारं वा सुधिया शोभनबुद्धयोपलभ्यत इति सुधियोपलम्भनं प्रत्यक्षपदार्थवत् प्रत्यक्षप्रमाणेन नोपलभ्यते प्राकृतनामरूपरहितत्वादित्याह - अनामरूपमिति । अत एव निरहमहङ्कारशून्यम् ॥ ४ ॥
- ननु श्रीरामस्य विशुद्धानुभवादिविशेषणानि कथं सङ्गच्छन्ते, सीतावियोगादिना दुःखाज्ञानादिप्रदर्शनादिति तत्राह मर्त्येति । विभोर्व्याप्तस्य हरेर्मर्त्यवतारः मर्त्याकाररूपग्रहणं रक्षोवधायैव न केवलं तावन्मात्रं न भवति किन्तु मर्त्यशिक्षणं यमुद्दिश्य गुरोराज्ञाकरणं शरणागतपालनमभीष्टदानमित्यादि मत्यैः कर्तव्यमिति एतत्कुतोऽनेन कृतमिति ज्ञायते इत्याशङ्कथ दशरथाज्ञाकरण- वनाभियानसीतान्वेषणादिप्राप्तव्यसनशरणागत सुग्रीवाभीष्टकरणविभीषणराज्यदानादिभ्योऽवगम्यत इत्याह कुत इति । स्वे आत्मनि स्वस्वरूपे रमतो रममाणस्य भगवतः “कस्मिन्प्रतिष्ठित इति स्वे महिम्नि” इति श्रुतेः ॥ ५ ॥ * * ईश्वरश्चेन्न दुःखानुभवी तदनुभवी चेन्नेश्वर इति तत्राह न वा इति स आत्मा इति पदद्वयेन । “आत्मा वा इदमेकमेवाग्र आसीत्” इति श्रुतिं परामृशति । वा इत्यनेन “निरनिष्ठो निरवद्यः” इति श्रुतिं प्रमाणयति । हिशब्दों हेत्वर्थः कश्मलं सुरतलक्षणमपिपदेन सीतामपीत्याह । अतो भक्तानुकम्पया कृतावतारस्य श्रीरामदेवस्य दुःखभोगाभावेनेश्वरत्वाविरोधात् भक्तिज्ञाने एव तत्प्रीतिजनके न जन्मादिकं वानरो- सुरादिपापयोनिजातस्यापि भक्तिज्ञानसद्भावे मोक्षस्य सुनियतत्वात्तदुक्तम् “यस्य सम्यग् भगवति ज्ञानं भक्तिस्तथैव च । निश्चितस्तस्य मोक्षः स्यात्सर्वपापकृतोऽपि तु । यो ममत्वादिना दोषस्स त्वन्यविषयः स्मृतः” इत्यभिप्रेत्याह न जन्मेति । अन्यविषयस्तदाश्रित- दुष्टजीवविषय इत्यर्थः । महतो महात्मनो मुक्तियोग्यस्य अङ्ग आर्ष्टिषेण ! कस्माज्जन्मादिस्तोषहेतुर्न भवतीति तत्राह । तैर्यग्विसृष्टा- निति । तिर्यक्सम्बन्धियोनौ विसृष्टान् जातान् वराहादियोंनेर्वानर योनेर्निकृष्टत्वद्योतनाय वनौकस इति । एतदेवाहापिपदेन गर्हित- त्ववाचिना चशब्देन कृपाशीलत्वमेव प्रयोजनमित्याह ।। ६-७ ॥ * * अतः पुरुषार्थी भक्तिज्ञानाभ्यां श्रीराममेव भजेते- त्याह सुरोऽसुरो वेति । यो । यो मुमुक्षुः स पुरुषः श्रीराममेव भजेतेत्यन्वयः । असुरादिजातेर्ममत्वादिदोषसम्भवेन रामभजनं कथं सम्भाव्यत इति चेन्न, तस्य मुक्तत्ययोग्यासुरजातिविषयत्वाद्योग्यस्य तज्जत्वेऽपि तदभावात् “यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः” इति स्मृतेश्च “महद्देवानामसुरत्वमेकम्” इति श्रुतेः मुक्तियोग्यानामसुरजातित्वमस्तीति ज्ञायते इत्यभिप्रायेणासुर इति । न तु तमोयोग्यजात्यभिप्रायेणेति । न केवलं मूलरूपस्यैव मोक्षदातृत्वशक्तिरपि त्ववताररूपस्याप्यस्तीति आशयेनाह य इति । । उत्तरान् कोसलानयोध्यावासिनो दिवं वैकुण्ठम् || श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः ॐ । " । । भर्तृभगवत्कथामिति । भर्तृत्वादिमननविशेषेण सुखवैशिष्टयं दर्शितम् ।। १-२ ।। ॐ नमो भगवते इति । अत्र भगवत इत्यैश्वर्यमुत्तमश्लोकायेति माधुर्य्यश्च दर्शितम् । आर्यत्वं पूज्यत्वम् ॥ ३ ॥ * ॐ स्वरूपज्ञानमाह यत्तदिति । यत्तत् प्रसिद्धं श्रीरामचन्द्रस्य दूर्वादलश्यामलं रूपम् । अत्र प्रकाशैकलक्षणवस्तुनः सूर्यादिज्योतिषः प्रकाशकत्वं शौक्ल्या दिमत्त्वमित्यादि धर्मवत् गुणरूपादिलक्षणतत्स्वरूपधर्मस्यापि तदात्मकत्वदृष्टया तन्मात्रत्वमुक्तं य एव धर्मस्वरूपशक्तिरिति भगवत्सन्दभादौ स्थापितम् । अत एवैकमपि तस्याच शक्तेर्मायातिरिक्तत्वमाह । स्वतेजसा ध्वस्त गुणव्यवस्थमिति । स्वरूपशक्त्या दूरीभूता त्रैगुण्यात्मिका मायाशक्तिर्यस्मादतः प्रशान्तं सर्वोपद्रवरहितम् । अनुभवमात्रत्वे हेतुः प्रत्यक् दृश्यादन्यत् “न चक्षुषा पश्यति रूपमस्य, यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्” इति श्रुतेः । तत् कुतः अनामरूपम् “एतास्तिस्रो देवता अनेन जीवेनात्मनानु- प्रविश्य नामरूपे व्याकरवाणि " इति प्रसिद्धप्राकृतनामरूपरहितं तत्र हेतुर्निरहमिति । आत्मशब्देन हि श्रुतावस्यां परमात्मनो 1 एक. ५ अ. १९ श्लो. १-८ ] अनेकव्याख्यासमलङ्कृतम् ४१५ जीवाख्यशक्तिरूपोंऽश उच्यते अनेनेति । पृथग निर्देशात् तद्रूपेण च प्रवेशो नाम देवताशब्दवाच्यतेजोवारिमृलक्षणोपाध्यभिनि- वेशः । स च तस्य जीवस्य तस्य तत्रान्ताभ्यासादेव भवति । ततोऽन्तर्यामिरूपेण स्वयं तत्र स्थितेस्यापि तदध्यासाभावादुपाधिकृत- नामरूप राहित्यं युक्तमेवेत्यर्थः । सर्वथाहङ्कारराहित्ये सति व्याकरवाणीति प्रयोगस्यानर्हत्वादिति भावः । ननु श्रीरामरूपं न सर्वैरेवं प्रतीयते तत्राह । सुधियोपलम्भनं शुद्धचित्तेन स्वरूपतयैवोपलभ्यत इत्यर्थः । नातः परम्परम! यद्भवतः स्वरूपमित्यादिश्रीब्रह्म- वाक्यात् ॥ ४ ॥ * * नन्वेवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम्, उच्यते– गौणे सत्यपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीला माधुर्याभिव्यञ्जनमेवेत्याह मत्येति । तुशब्द आशङ्कानिवृत्त्यर्थः । मर्त्यलोके योऽवतार आविर्भावः स तु साधुजनोद्वेजक- रक्षोवधायैव केवलं न भवति, किन्तु मर्त्यशिक्षणमपि मर्त्येषु शिक्षणं तत्तदर्थप्रकाशनं यत्तन्मयमपि तत्र बहिर्मुखेषु विषयासङ्ग- दुर्वारता प्रकाशनमानुषङ्गिकमुद्देश्यन्तु स्वभक्तिवासनेषु चित्तार्द्रताकरविरहसंयोगमयनिजलीला विशेष माधुर्यप्रकाशनम् । ततस्तदर्थं - मेवेत्यर्थः । अन्यथा यदि केवलं तद्वधायैव स्यात्तदा आत्मनः परमात्मत्वेन परिपूर्णस्य ईश्वरस्य सर्वान्तर्यामिणः स्वे स्वस्वरूपे तदेकरूपे वैकुण्ठे च रममाणस्य सीताकृतव्यसनानीति कुतः स्यात् । मनसैव तद्वधे शक्तत्वात्तद्वयसनासम्भवाच । निजमाधुर्यप्रकाशन- पक्षे तु तत्तत् सम्भवत्येवेति भावः । अत्र कृपारूपं तादृशलीलारूपंञ्च माधुर्यमधिकं श्लाघितम् । तत्र श्रीसीतावियोगदुःखच । लीला माधुर्यान्तर्गतमेवेति न दोष इत्यपि दर्शितम् ॥ ५ ॥ * तादृशलीला च न प्राकृतवत् कामादिसक्ततया किन्तु स्वजन - विशेषविषयक कृपाविशेषेणैवेत्याह न वै इति । स वै खलु त्रिलोक्यां न सक्तः, तत्र हेतुः आत्मा परमात्मा भगवान् परिपूर्णैश्वर्यादिः वासुदेवः सर्वाश्रयश्चेति । किन्तु आत्मवतामात्मा स्वयमेव नाथत्वेन विद्यते येषां तेषां स्वविषयकममताधारिणां भक्तविशेषाणा- मित्यर्थः । तेषामेव सुहृत्तमः । तस्माद्यथान्ये स्त्रीकृतं स्त्रीहेतुकं कश्मलमश्नुवते तथा नासावश्नुवीत । अतस्तस्या आत्मवत्त्वेनैव तादृशकश्मलहे तुतत्प्रीतिविषयतापीति भावः । तथा देवदूतसमयातिक्रमेण आत्मवतोऽपि लक्ष्मणस्य परित्यागो यः स खलु नात्यन्तिक इत्याह न लक्ष्मणमिति । विहातुमपि नार्हति न शक्नोति अनन्तरं झटित्येव स्वर्गस्थतया स्वागमनं प्रतीक्षमाणैस्तदादिभिः सह स्वधिष्ण्यारोहात अधुनापि तेन सीतादिभिश्च सहैवास्मिन् किंपुरुषवर्षेऽप्यस्माभिर्दृश्यमानत्वात् । ततो मर्यादारक्षार्थमेव किञ्चित्त- दनुकरणमिति भावः ॥ ६ ॥ * * पूर्वार्थमेव स्थापयितुं भक्त्येककारणका रुण्यप्रमुख पर ममाधुर्यं सर्वोर्ध्वमाह द्वाभ्याम् । महतः पुरुषाज्जन्म सौभगं सौन्दर्यं आकृतिर्जातिः यद्यस्मात् तैः जन्मादिभिर्विसृष्टान् त्यक्तान् नोऽस्मान् तदीयपरमभक्त श्रीसीतान्वे- षणादिभक्तितुष्टत्वेन अहो बत लक्ष्मणस्य सर्व सद्गुणलक्षितस्य श्री सुमित्रानन्दनस्याप्रजोऽपि सखित्वे कृतवान् दास्ययोग्यानपि सह विहारादिना सखीनिव स्वीकृतवानित्यर्थः । सुग्रीवमुपलक्ष्य वा तथोक्तम् । तस्मात् सुर इति । पूर्व स्वरूपज्ञानमयभक्त्या मनुजा- कृतावेव परमस्वरूपं दर्शितवान् । सम्प्रति माधुर्यज्ञानमयभक्त्यापि विशिष्य तामेवावधारयति मनुजाकृतिं हरिमिति । तत्रापि श्रीकपिलादिकं व्यावर्त्तयति राममिति । उत्तममसमोर्ध्वगुणं सुकृतज्ञं स्वल्पयापि भक्त्या सन्तुष्यन्तम् ।। ७-८ ।। 1 TE THIP THE श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी म SE E afte Chmpas me रामः किंपुरुषे नारायणः सेव्यश्च भारते । सर्वतो भारतत्रैष्ठयमूनविंशे निरूप्यते ॥ १ ॥ । । भर्तुरेव भगवतः कथामित्यनेन नारदादिरिव नावतारान्तरकथायामनुरज्यतीति द्योतितम् ॥ १-२॥ ** आर्याणि सर्वैः शिरोधार्याणि लक्षणानि चरणतलगतध्वजवत्रादीनि आजानुबाहुत्वादीनि च शीलानि धीरोदात्तादीनि व्रतानि धर्मनिष्ठत्वादीनि यस्य तस्मै उपशिक्षितात्मने गुरुब्राह्मणादिशिक्षाग्राहिणे उपासितलोकायति-स्वस्य ब्रह्माद्युपास्यत्वेऽपि मया स्वाचरणेन रजकपर्यन्ता अति लोकाः प्रसादनीया इति विचारवत्वाल्लोकानां तदुपासितत्वं साधुवादानां ब्रह्मण्यत्व सत्यसन्धत्वकृपालुत्वादीनां निकषणाय परमोत्कर्ष प्रापकाय लोका हि साधुवादैरुत्कृष्यन्ते, रामं प्राप्य साधुवादा अत्युत्कृष्टा भवन्तीत्यर्थः । यथा परमोत्कृष्ट- स्यापि कनकस्य निकषं प्राप्तस्यैवोत्कर्षो लोके प्रमाणीभवति तद्वदित्यर्थः ॥ ३ ॥ * * ननु शङ्खचक्रादिमत्त्वगरुडवाहनत्वाद्ये- श्वर्यानाविष्कारादवतारस्यास्य ब्रह्मत्वे केचित् संशेरते तत्र ये संशेरते ते संशेरतां नाम, अहन्तु साक्षादिमं परब्रह्मरूपमेवानुभवामी- । । त्याह यदिति । विशुद्धो मायासम्बन्धशून्यो योऽनुभवस्तन्मात्रमेकं केवलं यत्तदेवेमं प्रपद्ये । ननु शुद्धजीवोऽप्येवं भवति तत्राह । स्वतेजसा स्वरूपशतया दूरीभूता गुणव्यवस्थानरूपा मायाशक्तिर्यस्मात्तत् अत एव प्रत्यक् दृश्यादन्यत् “न चक्षुषा पश्यति रूपमस्य, यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्” इति श्रुतेः । यतः प्रशान्तं सर्वोपद्रवरहितम् । ननु श्रीरामस्य रूपं नैवं प्रतीयते तत्राह । सुधियैव पुंसा उपलभ्यत इत्युपलम्भनं यतो नामरूपम् “एतास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति” प्रसिद्धप्राकृतनामरूपरहितम् । श्रुतौ तिस्र इति तेजोवारिमृदः निर्निश्वयेनाहं प्रपद्ये । यद्वा अहङ्काररहितं यथा स्यात्तथा तत्प्रपत्तिरपि कृपया तेनैव कारितेति बुद्धचेत्यर्थः ॥ ४ ॥ * * ननु ॥ ॥ * * ननु तर्हि प्रपञ्च लोके कथमेव प्रकटीभवतीति तत्राह । मर्स्यावतारः मर्त्याकारस्य प्रपञ्च लोके प्राकटच न केवलं रक्षसो रावणस्यैव वधाय किन्तु मर्त्यशिक्षणं मर्त्यशिक्षणार्थोऽपि इत्यर्थः । प्रपञ्चलोके मर्त्या द्विविधाः धर्मवन्तो भक्तिमन्तश्च तेभ्यः क्रमेण स्वस्य धार्मिकत्वप्रेमवश्यत्वयोः प्रदर्शनया धर्मशिक्षणार्थं प्रेमशिक्षणार्थ वेत्यर्थः । अन्यथा स्वे स्वरूप एव रममाणस्य परमात्मनः सीताविरहकृतानि व्यसनानि दुःखानि कुतः स्यात् स्युः । किन्तु साध्वी स्वभार्या : । ४१६ B. श्रीमद्भागवतम् [ स्कं ५ अ. १९ श्लो. १-८ धार्मिकैः सर्वथैव नोपेक्षितच्या तदर्थं प्राप्तानि दुःखान्यपि सहेरन्नेवेति शिक्षणार्थं स्वस्मिन्नसन्त्यपि दुःखानि दर्शितानीति प्रथमे पक्षे । द्वितीये तु सीताविरहकृतानि विषादादीनि कुतो दुःखानि, किन्तु प्रेम्णः स्थायिभावस्य विप्रलम्भनरसास्वादनजनितानि दुःखत्वेन भासमानानि परमसुखान्येव न तु दुःखानीत्यर्थः । आत्मारामत्वदुःखित्वयोर्युगपदेकत्र विरोधात् । न च सीतायां रममाणस्य कुत आत्मारामत्वमिति वाच्यं सीतायाः स्वरूपशक्तित्वेनात्मभूतत्वात् । ननु सीतायाः स्वरूपभूतत्वे कथं तद्विरहः सम्भवेत् उच्यते, एकमेव परमतत्त्वं चिच्छत्तिवृत्तिभेदेन महासारेण प्रेमाख्येनानादित एव द्विधा विभक्तं तिष्ठति, ह्रादषडैश्वर्यमयं केवलं ह्लादमयं च प्रथमं परमेश्वराख्यं द्वितीयं भक्त्याख्यं पुनश्च तेनैव प्रेम्णा स्वस्य चतसृभिर्वृत्तिभिर्द्वितीयं तत्त्वं चतुर्द्धा विभक्तं दाससखिपित्रादिप्रेयस्याख्यं प्रथमस्य तदेव तत्त्वस्य दास्यादिभावभावितत्वं व्यवस्थापितं प्राकृतेष्वपि जीवेषु यदृच्छयैतादृश- भक्तिसाधनवत्सु भक्तिपरिपाके स्वयमाविर्भूय एतच्चतुष्कमावेश्य तेऽपि दासादित्वेन यथाकालं प्राप्य चतुष्केण तेन समनुगम्यते पुनरपि तेनैव प्रेम्णा स्थायिभावतां प्राप्तेन स्वशक्त्यैवाविर्भाविताभिर्विभावादिभिः स्वं रसरूषीकृत्य तदेव तत्त्वयुगलं स्वस्य विषयाश्रयीभावभावितं कृत्वा स्वाधीनीकृत्य योगवियोगाभ्यां सुखदुःखादितं स्वमाधुर्यमसाधारणमपारमा स्वादयता कोsध्यानन्दचमत्कार एवं तद्विदां निष्पाद्यते । अतद्विदां तु केषाञ्चित् रामकृष्णादीनामध्येता व दुःखमनिर्वाच्यमिति केषांचिज्जीव- प्रदर्शनायै अनुकृतमित्येवं व्यामोह एव ॥ ५ ॥ तस्य प्रेमवश्यत्व सत्यव्रतत्व ब्रह्मण्यत्वादिभिरप्राकृतैर्गुणैरेव एतदुपपद्यते नान्यथेत्याह नेति । स वै खलु त्रिलोक्यां न सक्तः यत आत्मा परमात्मा तदपि आत्मवतामात्मा सेव्यत्वेन वर्त्तते येषां तेषां दासादीनां सुहृत्तमः यतो भगवान् पूर्णषडैश्वर्यः अतः प्रेमवश्यत्वानङ्गीकारे प्राकृतानामिव स्त्रीकृतं कश्मलं मोहं नाश्नुवीत त्यक्तुं नार्हेत् । तथा हि देवदूतेन श्रीरामं मन्त्रयता विज्ञापितम् अत्रागतस्त्वया वध्य इति तदैव द्वारि स्थितं लक्ष्मणं दुर्वाससं विज्ञापयितुं प्रविष्टं हन्तुमुद्यतो वशिष्ठवाक्यान्तत्याजेति तस्मादेतादृश्या लीलया प्रेमाणं धर्मं च शिक्षयायामासेति युक्तमुक्तं मर्त्यशिक्षण- मिति ॥ ६ ॥ तत्तत्सर्वगुणाकरस्य तस्य कृपाया निरुपाधिं विशिष्याह न जन्मेति । महतो वंशाज्जन्म महतः श्रीरामस्येति वा । तैः सज्जन्मादिभिर्लक्ष्मणस्य सर्वसलक्ष्मपरिपूर्णस्य सुमित्रासूनोरग्रजोऽग्रजत्वेन तमपि दास्ये विदधानोऽस्मान् सर्वलक्षण- रहितानपि सख्ये चकारेति सुग्रीवमुपलक्ष्योक्तिः ॥ ७ ॥ तस्माद्भजनीयेषु सर्वेष्ववतारेषु मध्ये राम एव कृपासिन्धुर- तिशयेन भजनीयो यद्भजने सर्व एवाविशेषेणाधिकारीत्याह । सुर इति यः कोऽपि सर्वात्मना सर्वप्रकारेण उत्तरान कोसलान अयो- ध्यावासिनः सशरीरानेव दिवं वैकुण्ठम् ॥ ८ ॥
-
श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ॥ एकोनविंशे किंपुरुषे भारते च सेव्यसेवकभावः भारतश्रैष्ठ्यं च वर्ण्यते किंपुरुषवर्षे इति ॥ १ ॥ * * आर्ष्टिषेणो गन्धर्वमुख्यस्तेन राजर्षिरप्याष्र्ष्टिषेणस्तस्यां दिशि महाभारते प्रसिद्धस्तेन सह वा भर्ता चासौ भगवांश्च तत्कथाम् ॥ २ ॥ * * आय्र्याणि उत्तमानि लक्षणानि शीलं व्रतञ्च यस्मिन् तस्मै उपशिक्षितानां सद्नुशिष्टानामात्मोपास्यस्तस्मै उपासितः धर्मशिक्षार्थम- नुसृतो लोको येन तस्मै साधुवादस्य साधुत्वप्रसिद्धेर्निकषणाय परीक्षास्थानाय धर्मधुरन्धरशिरोभूषणायेत्यर्थः ॥ ३ ॥ ** उक्तगुणगणनिधिं वेदान्तैकवेद्यं श्रीरामाख्यं ब्रह्मैव मुमुक्षुध्येयमित्याह यदिति । यदेकं निःसमानातिशयं वस्तु तत्प्रपद्ये कीदृशं विशुद्धानां ध्यातॄणामनुभवो ययोस्ते मात्रे नामरूपे यस्य तत् अप्राकृतनामरूपमित्यर्थः, स्वतेजसा ध्वस्ता हेयाः गुणाः रागादयः विविधा अवस्था च यस्मात्तत् प्रत्यग् जीवः शान्तः यस्मात् स्मरणीयात्तत् सुधिया उपलभ्यते इत्युपलम्भनम् । अनामरूपं प्राकृत- नामरूपशून्यम् अहमेवंभूतोऽस्मीत्यभिमानशून्यम् ॥ ४ ॥ * * एवंभूतस्य मर्त्येषु अवतारस्तु रक्षोवधाय न केवलं मर्त्यशिक्षण- मपि तु मर्त्यचेष्टानुकरणेन मत्यैरेवं यथाशक्ति गुर्वाज्ञानुपालन स्वदार सन्तोषधार्मिकजनानुग्रहादिकं कर्तव्यमिति शिक्षार्थमित्यर्थः । अन्यथा मर्त्यानुकरणं विना आत्मनः सर्वात्मनः स्वे स्वासाधारणे निजानन्दे रमतः सीताविरहकृतानि व्यसनानि कुतः स्युः ॥ ५ ॥ एतदेवोपपादयति नेति । त्रिलोक्यामनित्यविभूतौ न सक्तः यतो वासुदेवो भगवान् अत एव स्त्रीकृतं शूर्पणखा कृतं कश्मलं सीताविरहादिरूपं नाश्नुवीत लक्ष्मणं विहातुं च नार्हति । एवं हि श्रीरामायण कथा एकदा योध्यायां यथासुखं वर्तमानं श्रीराममेकान्ते सम्मन्त्रयता देवदूतेन विज्ञापितमन्त्रागतस्त्वया वध्य इति तदैव द्वारि स्थितं लक्ष्मणं दुर्वाससमागतं विज्ञा- पयितुं प्रविष्टं दृष्ट्वा सत्यप्रतिज्ञः प्राणादपि प्रियतरं भ्रातरं हन्तुमुद्यतस्तदा बन्धुपरित्यागोऽपि बध एवातो लक्ष्मणं त्यक्त्वा सत्यप्रतिज्ञ एवेति वसिष्ठवाक्यात्तत्याज, तदुभयं नरचेष्टानुकरणमन्तरेण न युज्येतेत्यर्थः ॥ ६ ॥ * * सौभगं सौन्दर्यम् आकृतिर्जातिः तैर्जन्मादिभिर्विसृष्टांस्त्यक्तान् ॥ ७ ॥ · अतः सुरादिः यः कश्चित्सुधन्यो वा राममेव भजेतेत्यन्वयः । उत्तरान् कोसलान । अयोध्यावासिनः ॥ ८ ॥
-
- । T गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी रामसेवादिगंगादियोगेनैत्रोनविंशके । रामसेवादिगंगादि योगेनैवोनविंशके । किम्पुरुषस्य चोत्कर्षो भारतस्योपवर्ण्यते ॥ १ ॥ किम्पुरुषसञ्ज्ञके वर्षे भगवदुपासनं दर्शयति किम्पुरुष इति । किम्पुरुषे वर्षे भगवन्तं किम्पुरुषैः सह हनूमानुपास्ते इत्यन्वयः । को वा भगवान् यमुपास्ते तत्राह - आदिपुरुषमिति, सर्वकारणकारणमित्यर्थः । किंस्वरूपमित्यपेक्षायामाह – लक्ष्मण- स्क. ५ अ. १९ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् પૂર स्याप्रजं ज्येष्ठ भ्रातरं सीताया अभिरामं पतिं श्रीरामचंद्र मित्यर्थः । किमर्थमुपास्ते इत्यपेक्षायामाह तच्चरणयोरिति, तस्य भगवतश्चरणयोः सन्निकर्षे सेवायामेवाभिरतः, न ततः फलान्तराभिलाषीत्यर्थः । तथा सेवाभिरतौ हेतुमाह - परमभागवत इति । तस्य किं लक्षणमित्य- पेक्षायामाह - अविरतेति, अविरता फलाभिसन्धिराहित्येन विघ्नैरनुपहता भक्तिर्यस्य सः ॥ १ ॥ तस्योपासनप्रकार- । माह - आर्ष्टिषेणेनेति । गन्धर्वैरनुगीयमानां परमकल्याणी प्रार्थनां विनैव श्रोतृवक्तॄणां सर्वपुरुषार्थहेतुभूतां मनोहरां भर्तृभगवत्कथां भर्ता चासौ भगवांश्च यस्य कथामार्ष्टिषेणनामकेन किम्पुरुषमुख्येन सह सम्यक् सावधानतया उपशृणोति स्वयं चेदं मन्त्रादिकं मायति ॥ २ ॥ मन्त्रमाह- ओं नम इति । भगवते महाराजाय नम इत्यन्वयः । कथं तस्य भगवत्त्वं महाराजत्वं बेत्यपेक्षायां तदुभयमुपपादयति विशेषणैः- उत्तमाः श्रेष्ठाः मनोहराः श्लोकाः कवीनां पद्यानि यस्मिन् स तथा तस्मै । यद्वा- उत्तमसः तमसोऽज्ञानस्य निवर्त्तकाः श्लोका यशांसि यस्य तस्मै । आर्याणां श्रेष्ठानां लक्षणानि शीलं सुखभावः व्रतमाचारश्च यस्मिन् स तथा तस्मा इत्युत्तमश्श्लोकत्वे हेतुरुक्तः । उपशिक्षितो विषयेभ्यो व्यावर्त्तितो वशीकृत आत्माऽन्तः कारणं येन तस्मै । अत एव उपासितोऽनुसृतो लोकैर्यः स तथा तस्मै । यद्वा नैवं प्रतीयते शोकविलापादिदर्शनादित्याशङ्कयाह-उपासितोऽनुसृतो लोको येन तस्मै । शोकविलापादि तु लोकानुकरणमात्रं न वास्तवमिति भावः । साधुवादनिकषणाय साधुवादो लोके साधुत्वप्रसिद्धि- स्तस्य निकषणाय स्वर्णसाधुत्व निर्धारणार्थ निकषाश्मवन्निर्धारणस्थानाय यथा निकषं प्राप्तस्यैव कनकस्य लोके साधुत्वप्रसिद्धिस्तथा श्रीरामं प्राप्तानां सत्यसङ्कल्पादिगुणानामपि साधुत्वप्रसिद्धिरित्यर्थः । ब्रह्मण्यदेवाय ब्रह्मण्यः लोकसङ्ग्रहार्थं ब्राह्मणभक्तः देवः वस्तुतस्तु परमेश्वर एव स चासौ स तस्मै । यद्वा ब्रह्मण्यो ब्रह्मनिष्ठः गुणाध्यासरहितो देवस्तथापि क्रीडापरः स चासौ स च तस्मै । सर्वत्र हेतुः - महापुरुषायेति, पुरुषोत्तमायेत्यर्थः । यद्यपि जनापवादभीतिशोकविलापादिमोहलीलाबहुत्ववतः श्रीरामस्य सत्त्व- प्रधानरजोगुणत्वं अवसीयते, तथाप्ययोगोलके वह्नेः सङ्क्रमणमिव अधिष्ठानभूते गुणे सच्चिदानंदस्य भगवतः सङ्क्रमणमेवावतारत्वम् । तथा च गुणाभिभूतस्य स्वतन्त्रस्य सर्वदा स्वरूपानन्दानुभवतोऽनेकविधलीलों कुर्वतोऽपि भगवत्त्वे न शङ्कालेश इति भावः । इति शब्दो मन्त्रसमाप्तिद्योतकः ॥ ३ ॥ स्तोत्रमाह पञ्चभिः, तत्र परमार्थरूपेण श्रीरामं प्रणमति – यदिति यदेकमद्वितीयं तत्त्वं वेदान्तेषु प्रसिद्धं तदहं प्रपद्ये शरणं व्रजामीत्यन्वयः । तत्कथम्भूतमित्यपेक्षायामाह - विशुद्धेति, विशुद्धश्रासावनुभवश्च स एव मात्रा स्वरूपं यस्य तत् । अत्र विशुद्धपदं विषयानुभव व्यावृत्त्यर्थम् । विशुद्धत्वे हेतुमाह-प्रशान्तमिति, कामरागादिविकार- शून्यमित्यर्थः । तत्रापि हेतुमाह - स्वतेजसेति, स्वतेजसा स्वरूपप्रकाशेनैव ध्वस्ता दूरतो निरस्ता गुणानां विविधा जायदाद्यवस्था यस्मिंस्तत् । जाग्रदाद्यवस्थावतो हि रागादिविकार प्रसिद्धेः इदं तु तद्रहितमिति न तथेति भावः । ननु जाग्रदाद्यवस्था राहित्यमपि तस्य कुत इत्यपेक्षायामाह - निरहमिति, जाग्रदाद्यवस्थानम् अन्तःकरणाध्या सलक्षणाहङ्कारपूर्वकत्वात्, अहङ्कारशून्यस्य ताः कथं स्युरित्यर्थः । तदेव कुतस्तत्राह - प्रत्यगिति सर्वान्तरत्वेन अन्तःकरणसाक्षिमात्रमित्यर्थः । तत्रापि हेतुमाह-हीति, हि यस्मान्नाम- रूपात्मकात् प्रपञ्चाद्भिन्नमित्यर्थः । ननु श्रीरामस्य रूपं तु नैवं प्रतीयते इत्याशङ्कयाह- सुधियेति, सुष्ठु जन्मान्तरसहस्रेषु योगध्या- नादिभिः शोधिता धीः बुद्धिर्यस्य तेनोपलभ्यते इति । तथा तदेवम्भूतोपलम्भसाधनभूतस्य ‘दृश्यते त्वमचया बुद्धया’, ‘मनसैवानु द्रष्टव्यः’ इत्यादिप्रमाणसिद्धस्य बुद्धिशुद्धत्वस्याभावात् कथमेवमुपलभ्येत ? शुद्धचित्तेन त्वेवमुपलभ्यत एवेति भावः ॥ ४ ॥ नन्वेवम्भूतः परमेश्वरश्रद्रामस्तदा तस्य सङ्कल्पमात्रेणैव अनन्तकोटिब्रह्माण्डर चनसामर्थ्यसत्त्वेन सङ्कल्पमात्रेणैव रावणवधादि- कार्यस्य सुशक्यत्वात् कुतोऽतितुच्छ कार्यार्थं मनुष्यावतारग्रहणमित्याशङ्कयाह- मत्त्र्त्येति । विभोः सङ्कल्पमात्रेणैव सर्वं कर्तुं समर्थ- स्यापि मनुष्यावतारो न केवलं रक्षोवधायैव, किन्त्विह संसारे विषयाविष्टानां स्त्रीसङ्गादिकृतं दुःखं दुर्वारं तथा धार्मिकैः साध्वी भार्या सर्वथैव नोपेक्षितव्या तदर्थं प्राप्तानि दुःखानि सोढव्यानि स्वभक्तभक्तिपरवशो भगवान् भक्तदुःखेनैवं दुःखितो भवतीति मर्त्यानां शिक्षणं च शिक्षार्थमपीत्यर्थः । नन्वेतदर्थमवतार इत्यत्र किं प्रमाणमित्याशङ्कय तत्रार्थापत्तिप्रमाणमाह- कुत इति । अन्यथा शिक्षार्थं त्वानङ्गीकारे स्वे स्वरूपे रममाणस्य सर्वात्मनः परमेश्वरस्य सीताविरहकृतानि व्यसनानि दुःखानि कुतः स्यात् स्युरित्यन्वयः ॥ ५ ॥ * * तस्येश्वरत्वेन विषयासक्तिशून्यत्वात् व्यसनस्य च विषयासक्त्यधीनत्वात् तदासक्त्यभावे व्यसनानां सम्भवाल्लोकशिक्षार्थमेव विलापदुःखित्वादिनाट्यमात्रमेव, न वास्तवमिति वदन् पूर्वोक्तमेव द्रढयति-न वा इति । यतः स श्रीरामस्त्रिलोक्यां क्वापि विषये नैवासक्तोऽतः स्त्रीकृतं कश्मलं सीतावियोगकृतमोहेन दुःखं नाइनुबीत नैव प्राप्नुयात्, विषयाना- सक्तस्य तदसम्भवादिति शिक्षार्थं तद्विडम्बनमात्रमेवेत्यन्वयः । अनासक्तौ हेतुमाह-भगवानिति, यत. ऐश्वर्यादिषड्गुणपूर्णः । औपचारिकं भगवत्त्वं त्वन्यत्राप्यस्तीति तद्वारणायाह-वासुदेव इति । न चैतत्सज्ञामात्रमेव, किन्तु वसति सर्वत्रेति वासुः स एव नानारूपेण दीव्यति क्रीडतीति देव इति व्युत्पत्त्याऽपि वासुदेवसञ्ज्ञक इत्याशयेनाह - आत्मेति, सर्वस्वरूपः सर्वव्यापकश्चेत्यर्थः । किश्च न लक्ष्मणं चापि विहातुमर्हतीति, देवदूतेन श्रीरामं मन्त्रयता विज्ञापितमावयोः संवदतोरत्र कश्चिदागतश्चेत्स त्वया बध्यः स्यादिति, श्रीरामेण तथाऽस्त्विति प्रतिज्ञातं, तदाऽन्तः कश्चिन्मा प्रविशत्विति लक्ष्मणं द्वारि संस्थाप्य तयोः संवदतोस्तदा दुर्वासस- मागतं विज्ञापयितुं प्रविष्टं लक्ष्मणं हन्तुं राम उद्यतो जातः, पुनर्वसिष्ठवाक्यात्तं तत्याजेति वाल्मीकीये प्रसिद्धं तच्च सत्यसङ्कल्पत्व- ब्रह्मण्यत्वादि शिक्षार्थमेव, अन्यथा तत्कर्तुमपि स नार्हति तदपि न युज्यते, ईश्वरत्वेन प्रतिज्ञाहान्यादिनिमित्तदोषासम्भवादित्यर्थः । नन्वेवं लोकशिक्षामपि किमर्थं करोतीत्याशङ्कयाह- आत्मवतामिति, सर्वप्राणिनां सुहृत्तमः हितकर इत्यर्थः । प्राणिकल्याणार्थमेवैवं ५३ "
श्रीमद्भागवतम् પ [ स्कं. ५ अ. १९ श्लो. १८ शिक्षयति, न तेन तस्य किञ्चित् फलमस्तीति भावः ॥ ६ ॥ एवमैश्वर्यादिगुणवान परमेश्वर एवं चेद्रामस्तदा सत्कुल- - जन्मादिगुणवतामेव तद्भजनेऽधिकारो न जन्मादिगुणहीनानां तच्छून्यत्वेन तस्य सन्तोषाभावात् भजनस्य विफलत्वापत्तेरित्या - — नेति । शङ्कय न सत्कुलजन्मादि तस्य सन्तोषहेतुः, किन्तु भक्तिरेव निरूपाधिकृपासमुद्रत्वात् अतः सर्वैः स एव भजनीय इत्याह- नूनं निश्चितमेतत् महतः श्रीरामस्य सन्तोषहेतुः, सत्कुलजन्मादि न भवतीत्यन्वयः । कुत एवं निश्चितमित्यपेक्षायामाह - तैर्यदिति । यत् यस्मात् लक्ष्मणस्य सत्कुलजन्माद्यनेकलक्षणविशिष्टस्य अग्रजोऽग्रजत्वेन तेन सेव्यमानोऽपि तैर्गुणैर्विसृष्टानि त्यक्तानि नोऽस्मान् वनौकसो वानरान् सख्ये चकार सखित्वेन अङ्गीकृतवानित्यन्वयः । ननु सीतान्वेषणादिकार्यार्थं सख्यं कृतवांस्तेन किमाश्चर्यमित्या शङ्कय सर्वज्ञस्य सहायान्तरं विनैवानन्तब्रह्माण्ड कर्तुरन्यसहायानपेक्षणात् केवलं कृपैव सख्यकरणे हेतुर्नान्यदिति तत्कृपाया आश्चर्य- मेवेत्याह-बतेति । जन्म सत्कुले, सौभगं सौन्दर्यम्, वाक् वाड्याधुर्यम्, बुद्धिर्बुद्धिनैपुण्यम्, आकृतिर्जातिः ॥ ७ ॥ * * अथ तस्मात् सुरो देवोऽसुरो वा नरो मनुष्योऽनरो नरेतरः पशुपक्ष्यादिर्यः कोऽपि वा सर्वात्मना कायवाङ्मनोभिः यथासम्भवश्रव- णादिसर्व प्रकारेण श्रीराममेव भजेत । तद्भजने किं फलं स्यादित्यपेक्षायां सर्वदुःखनिवृत्तिरित्यभिप्रेत्य विशिनष्टि - मनुजाकृतिं हरिं सर्वदुःखहर्तारम् । भक्तदुःखहारित्वमेव दर्शयति-य इति यः कोसलानयोध्यावासिनः सर्वान् पशुपक्ष्यादीन् तिर्यग्योनिगतानपि जीवान् दिवं ब्रह्मलोकादुपरि वर्त्तमानं क्रममुक्तिस्थानं सान्तानिक नाम लोकमनयत् । यथोक्तं वाल्मीकीये- ‘लोकान् सान्तानिका - नाम यास्यन्तीमे समागताः’ इति । दुःखहारित्वे हेतुमाह- सुकृतज्ञमिति यतो भक्तानां सुकृतं भजनमेव जानाति, अपराधं तु नैवानुसन्धत्ते इत्यर्थः । तत्रापि हेतुमाह- उत्तममिति । उत्तमो हि परेषु गुणानेव गृह्णाति न दोषानतः सर्वोत्तमः कथं भक्तानुपेक्षे- तेति भावः ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी वर्षे किंपुरुषे चोनविंशे भारत उच्यते । सेव्यसेवकतात्रैष्ठयं भारतस्यापि सर्वतः ॥ १ ॥ किंपुरुषे वर्षे उपास्यां भगवत्तनुं तदुपासकं जप्यमन्त्रं स्तोत्रं चाह किंपुरुष इति । किंपुरुषे वर्षे, आदिपुरुषं जगत्कारण- भूतं परमपुरुषं लक्ष्मणस्य सौमित्रेरग्रजो ज्येष्ठस्तं, सीताया मैथिल्या अभिरामोऽनुरूपस्तं रामं भगवन्तं, श्रीदाशरथिं परमेश्वर- मित्यर्थः । तस्य श्रीरामस्य यो चरणौ तयोः संनिकर्षः सांनिध्यं भजनमिति यावत् । तस्मिन्नभिरत आसक्तः । परमभागवतो महाभागवतः, अविरता अविच्छिन्ना भक्तिर्यस्य सः, हनूमान् किंपुरुषैः किंपुरुषवर्षस्थजनैः सह, उपास्ते सेवते ॥ १ ॥ * * आर्ष्टिषेणेनेति । आष्टिषेणः किंपुरुषवर्षस्थः श्रेष्ठो जनस्तेन, आर्ष्टिषेणो मुनिरित्यन्ये । आर्ष्टिषेणो जाम्बवानित्यपरे । सह गन्धवः, अनुगीयमानां परमकल्याणी भर्त्ता चासौ भगवांश्च तस्य कथा तां समुपशृणोति । स्वयं च इदं वक्ष्यमाणम् उपोपांशु गायति जपति ।। २ ।। * ॐ नम इति । ओमिति पूर्ववत् । उत्तमैर्ब्रह्मादिभिः श्लोक्यते स्तूयते इत्युत्तमश्लोकस्तस्मै, उत्तमो निरतिशयः श्लोको यशो यस्येति वा तस्मै नमः | आर्याणि आर्याणां वा लक्षणानि शीलानि व्रतानि च यस्मिंस्तस्मै, भगवते नमः । उपशिक्षितः संयत आत्मा चित्तं यस्य तस्मै नमः । उपासित उपाश्रितो लोको येन तस्मै नमः साधुवादः साधुत्वप्रसिद्धिस्तस्य निराकर्षणः निकषाश्मवन्निर्द्धारस्थानं तस्मै, ब्रह्मणि ब्राह्मणकुले साधुर्ब्रह्मण्यः स चासौ देवश्च तस्मै नमः। महापुरुषाय परमपुरुषाय, महाराजो राजाधिराजस्तस्मै नमः । नमःपदावृत्तिर्गुणभेदाभिप्राया । इति मन्त्रः ॥ ३ ॥ * * प्रकृतिपुरुषविलक्षण- परमात्मस्वरूपं विशोध्य तच्छ्रीरामरूपेणावस्थितं नमस्करोति यदिति । हे राम, यत् तव स्वरूपमिति शेषः । विशुद्धानुभवमात्रं प्रकृतिसंबन्धरहितज्ञानात्मकेन्द्रियादिमत् स्वतेजसा स्वस्वरूपसामर्थ्येन ध्वस्ता निरस्ताः गुणाः सत्त्वादयः व्यवस्था जाग्रदाद्यास्तिस्रोऽ- बस्थाश्च येन तथाभूतं, प्रत्यक् स्वाश्रितजीवाभिमुखमवस्थितं, प्रशान्तं प्रसन्नाकारं सुधिया शोभनधीमता उपलभ्यते इति सुधियोपलम्भनं, अनामरूपं प्राकृतनामरूपवर्जितं निरहमहंकृतिशून्यं अत एव एकमद्वितीयं तत् प्रपद्ये हि ॥ ४ ॥ * एवंभूतस्य कथं तर्हि दशरथपुत्रत्वं तत्राह मर्त्यावतार इति । विभोः पूर्वोक्तप्रकारस्यास्य भगवतः, मर्स्यावतारः मनुष्येषु मर्त्यभावेनात्मप्रदर्शनं त्वित्यर्थः । रक्षोवधाय रावणविनाशाय एव । तस्य मनुष्यादन्यतोऽवध्यत्वात् । तर्हि किमेतदर्थमेव नेत्याह । न केवलं, नैतावदेव केवलं प्रयोजनं, किं त्वन्यदपि तत्प्रयोजनमस्तीत्यर्थः । तदाह इह संसारे, मर्त्यशिक्षणं मर्त्यानां शिक्षार्थं च, अत्र स्त्रीसङ्गादिकृतं दुःखं मर्त्यानां दुर्निवारमिति शिक्षार्थमपीत्यर्थः । अन्यथोक्तकारणार्थमवतारधारणं न चेत्, स्वे स्वकीये, आत्मनि स्वरूपे, रमतो रममाणस्य ईश्वरस्य सीताकृतानि सीता विरहजातानि, व्यसनानि कुतः स्युः । सर्वनियन्तुः सर्वान्तरात्मनः स्वानुभवसंतुष्टस्य श्रीरामरूपेणावस्थितस्य परब्रह्मणः सीताविश्लेषादिकृतव्यसनानुकरणं निरतिशयदुःखावहः संसार इति लोकस्य प्रदर्शयितुमेवान्यथोक्तविधस्य तस्य सीताकृतव्यसन स्वीकरणं न घटत एवेति भावः ॥ ५ ॥ * * अथास्य विषयासक्त्यभावेन व्यसनानर्हत्वमुपपादयति न वै इति । आत्मवतां निरस्तनिखिलसांसारिकधर्माणां सनकादीनां, आत्मा निरतिशयप्रीतिविषयः, सुहृत्तमः निरतिशयसौहार्द निष्ठः, भगवान् षाङ्गुण्यपूर्णः, वासुदेवः सर्वान्तरात्मतयावस्थितत्वेऽपि तद्वतदोषैरसंस्पृष्टः, सः श्रीरामरूपेणा- वस्थितः परमात्मा, त्रिलोक्यां कापि न सक्तः वै । अत एव स्त्रीकृतं स्त्रीविश्लेषादिकृतं कश्मलं दुःखं, न अश्नुवीत मर्त्यशिक्षणार्थं न* स्क. ५ अ. १९ श्लो. १-८] अनेकव्याख्या समलङ्कृतम् प्रादुर्भूतः स्याच्चेन्न प्राप्नुयात् । तथा च लक्ष्मणं विहातुं यक्तुं अपि, न अर्हति । चकारात्सीतामपि त्यक्तुं नार्हति । ‘भवांस्तु सह वैदेह्या गिरेः सानुषु रंस्यताम् । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ।। कुरुष्व मामनुचरं वैधम्यं नैव विद्यते । कृतार्थोऽहं भविष्यामि तब चार्थ प्रकाशनात्’ इत्युक्तवतः निवासशय्यासनपादुकांशु कोपधानवर्षातपवारणादिकं स्वानुचरवत्कृतवतो लक्ष्मणस्य त्यागं, तथा ‘नित्यैव सा जगन्माता लक्ष्मीर्नित्यानपायिनी । राघवत्त्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येष्वप्यवतारेषु विष्णो- रेषानपायिनी’ इति वाक्यालक्ष्म्यवताररूपाया भगवत्याः सीतायाश्च त्यागं मर्त्यशिक्षणमन्तरा स कर्तुं नार्हत्येव । ‘मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम’ इति स्ववाक्यं च मृषा न कुर्यात् । देवदूतेन श्रीरामं मन्त्रयता विज्ञापितं ‘अत्रागतस्त्वया वध्यः’ इति तदैव द्वारि स्थितं लक्ष्मणं दुर्वाससमागतं विज्ञापयितुं प्रविष्टं हन्तुमुद्यतो वसिष्ठवाक्या- तत्याजेति लक्ष्मणत्यागनमित्तं प्रदर्शितस्वशुद्धताया अपि सीतायाः परित्यागनिमित्तं तु हर तु हतकरजकवचनश्रवणमेवेति सर्वं जन- शिक्षणमेव ॥ ६ ॥ * * तारतम्यमनादृत्य यत्स्वाश्रितत्वमात्रेण निरतिशयप्रीतिविशिष्टत्वं तदस्मिन्नेवावतारे दर्शयति नेति । महतः शरणागतशब्दभाक् हीनजातिविशिष्टोऽपि पापीयानपि रक्षितव्य इति कृतप्रतिज्ञापूर्व श्रीरामरूपेण प्रादुर्भूतस्य परब्रह्मणः श्रीरामस्येत्यर्थः । जन्म विप्रादेः सत्कुले जन्म तोषहेतुः न । सौभगं सौन्दर्यातिशयः म । वाक् शास्त्राध्ययनं न । बुद्धिः सन्मतिः न । आकृतिर्जातिः न । तोषहेतुर्न भवतीत्यर्थः । नूनम् । तिर्यक्ष्वपि तस्यानुग्रहृदर्शनादिति भावः । यद्यस्मात् तैर्जन्मादिभिः विसृ- ट्रांस्त्यक्तानपि, वनौकसो वनचरान्, नोऽस्मान् बत अहो लक्ष्मणाग्रजः य एकबाणेनानन्तब्रह्माण्डविनाशं निमेषमात्रेण कुर्यात्तथा- विधलक्ष्मणस्याग्रजन्मा सन्नपि सख्ये चकार सखित्वेन कृतवान् ॥ ७ ॥ ४ सुर इति । यत एवायं निरतिशय- & * सुहृत्तमस्ततः, सुरो देवः, असुरो दैत्यो वा अथ वानरः कपिः, नरो मनुष्यो वा यः कोऽपि सर्वात्मना सर्वप्रकारेण सुकृतज्ञमल्पीयसि अपि भजने बहुमानिनं, यद्वा सुकृतज्ञमुपकारज्ञम् अत एव उत्तमं मनुजाकृतिं हरिं रामं भजेत । येन केनापि प्रकारेण तदनुग्राह्यतां संपाद्य सेवेतैवेत्यर्थः । कथं तावन्मात्रेण तमनुगृह्णाति तत्राह । यः श्रीरामः उत्तरान् कोसलान् उत्तर कोसलवासिनो लोकान् दिवं स्वर्गम् । अनयत् । तरुगुल्मलतादींश्च स्वदेशवासित्वमात्रमवलम्ब्य दिवं प्रापितवान् । न केवलं ज्ञानक्रियाभक्तियोगानपेक्ष्यैवानुगृह्णात्ययं श्रीराम इति भाव इति ॥ ८ ॥ भाषानुवादः किम्पुरुष और भारतवर्षका वर्णन Hall Fa अत्यन्त श्रीशुकदेवजी कहते हैं– राजन् ! किम्पुरुषवर्ष में श्रीलक्ष्मणजीके बड़े भाई, आदि पुरुष, सीताहृदयाभिराम भगवान् श्रीरामके चरणोंकी सन्निधिके रसिक परम भागवत श्रीहनुमानजी अन्य किन्नरोंके सहित अविचल भक्तिभाव से उनकी उपासना करते हैं ॥ १ ॥ * वहाँ अन्य गन्धर्वोके सहित आर्ष्टिषेण उनके स्वामी भगवान् रामकी परम कल्याणमयी गुणगाथा गाते रहते हैं। श्रीहनुमानजी उसे सुनते हैं और स्वयं भी इस मन्त्र का जप करते हुए इस प्रकार उनकी स्तुति करते हैं ॥ २ ॥ * * ‘हम ॐकार स्वरूप, पवित्रकीर्ति भगवान् श्रीरामको नमस्कार करते हैं, आपमें सत्पुरुषोंके लक्षण, शील और आचरण विद्यमान है; आप बड़े ही संयतचित्त, लोकाराधनतत्पर, साधुताकी परीक्षाके लिये कसौटीके समान और ब्राह्मणभक्त हैं। ऐसे महापुरुष महाराज रामको हमारा पुनः पुनः प्रणाम है’ ॥ ३ ॥ * * ‘भगवन् ! आप विशुद्ध बोध- स्वरूप, अद्वितीय, अपने स्वरूपके प्रकाशसे गुणों के कार्यरूप जाग्रदादि सम्पूर्ण अवस्थाओं का निरास करनेवाले, सर्वान्तरात्मा, परम शान्त शुद्ध बुद्धिसे ग्रहण किये जाने योग्य, नाम रूपसे रहित और अहङ्कारशून्य हैं; मैं आपकी शरणमें हूँ ॥ ४ ॥ * * प्रभो ! आपका मनुष्यावतार केवल राक्षसोंके वधके लिये ही नहीं है, इसका मुख्य उद्देश्य तो मनुष्योंको शिक्षा देना है। अन्यथा अपने स्वरूपमें ही रमण करनेवाले साक्षात् जगदात्मा जगदीश्वर को सीताजी के वियोग में इतना दुःख कैसे हो सकता था ॥ ५ ॥ * * आप धीर पुरुषोंके आत्मा और प्रियतम भगवान् वासुदेव हैं; त्रिलोकीकी किसी भी वस्तुमें आपकी आसक्ति नहीं है । आप न तो सीताजीके लिये मोहको ही प्राप्त हो सकते हैं और न लक्ष्मणजीका त्याग ही कर सकते हैं। ॥ ६ ॥ आपके ये
- ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलवताय नमः उपशिक्षितात्मन उपासितलोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नमः इति । यहाँ शङ्का होती है कि भगवान् तो सभी के आत्मा हैं, फिर यहाँ उन्हें आत्मवान् (धीर) पुरुषोंके ही आत्मा क्यों बताया गया ? इसका कारण यही है कि सबके आत्मा होते हुए भी उन्हें केवल आत्मज्ञानी पुरुष ही अपने आत्मारूपसे अनुभव करते हैं— अन्य पुरुष नहीं । श्रुतिमें जहाँ कहीं आत्मसाक्षात्कारकी बात आयी है, वहीं आत्मवेत्ताके लिये ‘धीर’ शब्दका प्रयोग किया है । जैसे ‘कश्विद्वीरः प्रत्यगात्मानमैक्षत’ इति ‘नः शुश्रुम धीराणाम्’ इत्यादि । इसीलिये यहाँ भी भगवान्को आत्मवान् या धीर पुरुषकी आत्मा बताया है ।
- एक बार भगवान् श्रीराम एकान्तमें एक देवदूत से बात कर रहे थे। उस समय लक्ष्मणजी पहरेपर थे और भगवान्की आज्ञा थी कि यदि इस समय कोई भीतर आवेगा तो वह मेरे हाथसे मारा जायगा । इतने में ही दुर्वासा मुनि चले आये और उन्होंने लक्ष्मणजी को अपने ४२० श्रीमद्भागवतम् [ स्कं ५ अ. १९ लो. १-८ व्यापार केवल लोकशिक्षा के लिये ही हैं ! लक्ष्मणाग्रज ! उत्तम कुल में जन्म, सुन्दरता, वाक्चातुरी, बुद्धि और श्रेष्ठ योनि- इनमें से कोई भी गुण आपकी प्रसन्नताका कारण नहीं हो सकता, यह बात दिखानेके लिये ही आपने इन सब गुणोंसे रहित हम वनवासी वानरोंसे मित्रता की है ॥ ७ ॥ * * देवता, असुर, वानर अथवा मनुष्य- कोई भी हो, उसे सब प्रकार से श्रीरामरूप आपका ही भजन करना चाहिये; क्योंकि आप नररूपमें साक्षात् श्रीहरि ही हैं और थोड़े किये को भी बहुत अधिक मानते हैं ! आप ऐसे आश्रितवत्सल हैं कि जब स्वयं दिव्यधामको सिधारे थे, तब समस्त उत्तरकोसलवासियों को भी अपने साथ ही ले गये थे ॥ ८ ॥
भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमो परमात्मोपलम्भनमनुग्रहाया- त्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ॥ ९ ॥ तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेच्यमाणः परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥ १० ॥ ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिश्चन वित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ॥ ११ ॥ गायति चेदम्-
ि कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि देहिकैः । क । द्रष्टुर्न दृग्यस्य गुणैर्विदुष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ।। १२ ।। इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥ १३ ॥ यथैहिकामुष्मिक कामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद् यस्तस्य यत्नः श्रम एव केवलम् ॥ १४ ॥ तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्मायया ममतामधोक्षज । भिन्द्याम येनाशु वयं सुदर्भिदां विधेहि योगं त्वयि नः स्वभावमिति ॥ १५ ॥ BEDIN HIT भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर्ऋष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोका मुख इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः ।। १६ । अन्वयः – भारते वर्षे अपि भगवान् नरनारायणाख्यः अव्यक्तगतिः अनुकंपया आत्मवताम् अनुग्रहाय आकल्पान्तम् उपचितधर्मज्ञानवैराग्यैश्वर्योपशमो परमात्मोपलम्भनम् तपः चरति ॥ ९ ॥ ॐ सावर्णेः भगवदनुभावोपवर्णनम् उपदेक्ष्य- तम् भगवत्प्रोक्ताभ्याम् सांख्ययोगाभ्याम् परमभक्तिभावेन उपसरति माणः भगवान् नारदः वणोश्रमवतीभिः भारतीभिः प्रजापरतानात्म्याय अकिञ्चनवित्ताय ऋषिऋषभाय नरनायणाय नमः नमः इदम् च अभिगृणाति ॥ १० ॥ ॐ ॐ ॐ भगवते परमहंस परमगुरवे आत्मारामाधिपतये नमः नमः इति ॥ ११ ॥ इदम् च गायति यः अस्य सर्गादिषु कर्ता अपि न बध्यते देहगतः अपि दैहिकैः न हन्यते द्रष्टुः यस्य दृक् गुणैः न विदूष्यते तस्मै असक्तविविक्तसाक्षिणे नमः ॥ १२ ॥ * ॐ योगेश्वर हिरण्यगर्भः भगवान् यत् यत् योगनैपुणम् जगाद इदम् हि उज्झितदुष्कलेवर: अंतकाले निर्गुणे त्वयि भक्त्या मनः आद- धीत ।। १३ ।। * * ऐहिकामुष्मिककामलंपटः सुतेषु दारेषु धनेषु चिन्तयन् यथा विद्वान् कुकलेवरात्ययात् शंकेत तस्य यत्नः केवलम् श्रमः एव ।। १४ ।। * * तत् प्रभो अधोक्षज त्वम् नः प्रसीद वयम् त्वन्मायया कुकलेवरार्पिताम् सुदुर्भिदाम् अहमम- आनेकी सूचना देनेके लिये भीतर जानेको विवश किया। इससे अपनी प्रतिज्ञा के अनुसार भगवान् बड़े असमञ्जसमें पड़ गये । तब वसिष्ठजीने कहा कि लक्ष्मणजीके प्राण न लेकर उन्हें त्याग देना चाहिये; क्योंकि अपने प्रियजनका त्याग मृत्युदण्डके समान ही है । इसीसे भगवान्ने उन्हें त्याग दिया ।
१. प्रा० पा०- परम गुरुवरायात्मारामा० । २. प्रा० पा० - कोलः । ३० प्रा० पा० प्राचीने ‘वेङ्कटो’ इति पाठो न । ४. प्रा० पा० - कोकामुखः । एक. ५ अ. १९ श्लो. ९-१६] अनेकव्याख्यांसमलङ्कृतम् ४२१ ताम् येन आशु भिंद्याम त्वयि स्वभावम् योगम् नः विधेहि इति ॥ १५ ॥ * * अस्मिन् भारते वर्षे अपि सरिच्छैलाः बहवः सन्ति मलयः त्रिकूट: ऋषभः कूटकः कोलकः सह्यः देवगिरिः ऋष्यमूकः श्रीशैलः बेङ्कटः महेन्द्रः वारिधारः विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रः द्रोणः चित्रकूटः गोवर्धनः रैवतकः ककुभः नीलः गोकामुखः इंद्रकीलः कामगिरिः इति अन्ये च शतसहस्रशः शैलाः च तेषाम् नितंबप्रभवाः नदाः च नद्यः असंख्याताः सन्ति ।। १६ । श्रीधरस्वामिविरचिता भावार्थदीपिका उपचितैर्धर्मादिभिरात्मोपलभ्यते येन तत्तपश्चरति । तत्रोपशम इन्द्रियाणां संयमः । उपरमो निरहंकारता, आत्मवतामनु- ग्रहाय न स्वार्थम् । ईश्वरत्वात् ॥ ९ ॥ भगवदनुवाद उपवर्ण्यते येन पंचरात्रेण तत् । सावर्णेर्मनोः । उपसरति सेवते ॥ १० ॥ उपरतानात्म्याय निरहंकाराय ॥ ११ ॥ असक्तश्चासौ विविक्तश्च साक्षी च तस्मै नमः | असक्तत्वं दर्शयति अस्य विश्वस्य सर्गादिषु कर्तापि यो न बद्धयतेऽहं कर्तेति न मन्यते । विविक्तत्वमाह देहगतोऽपि देहिकैः क्षुत्पिपासादिभिर्यो न हन्यते नाभिभूयते । साक्षित्वमाह यस्य द्रष्टुरपि सतो दृष्टिगुणैर्दृश्यैर्न विदूष्यते न विक्रियन्ते ।। १२ ।। योगकौशलं निरूपयन्योगं प्रार्थयते इदमिति त्रिभिः । हे योगेश्वर हिरण्यगर्भो यद्योगनैपुणं जगाद इदमेव तत् । किम् ? जन्मप्रभृति भक्त्यान्तकाले पुमांस्त्वयि मनो धारयेदिति यत् । कथंभूतः सन् । उज्झितं दुष्कलेवरं तदभिमानो येन ॥ १३ ॥ * * अन्यथा तस्य शास्त्राभ्यासादिश्रमो व्यर्थ इत्याह । यथैहिकामुष्मिक कामेषु लम्पटो मूर्खः सुतादिषु योगक्षेमं चिन्तयन्कुत्सितस्य कलेवरस्यात्ययान्मृत्योः शंकते तथा विद्वानपि सन्यः शंकेत तस्य यत्नः शास्त्रश्रवणादिः श्रम एव ॥ १४ ॥ * * यस्माद्विदुषोऽपीयमेव दशा तत्तस्माद्धे प्रभो अधोक्षज त्वमेव नो योगं विधेहि । कीदृशम्। त्वयि स्वभावं सहजवासनारूपम् । येन योगेन वयं त्वन्मायया नः कुकलेवरेऽर्पितामहममतां शीघ्रं भिन्द्याम त्यजेम । सुदुर्भिदा- मुपायान्तरैः सर्वथा त्यक्तुमशक्याम् ॥ १५ ॥ * इलावृतवदस्मिन्नपि वर्षे सरितः शैलाश्च सन्ति नितम्बप्रभवास्तटेभ्यः सम्भूताः ।। १६ ।। ॥९॥ * श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः 3 नरनारायणाख्य इति द्वयोरभेदो दर्शितः । आत्मवताम् आत्मा स एव भगवान् विद्यते नाथत्वेन येषां तेषां भक्तानामनुकम्पया हेतुना तद्विषयकानुकम्पाधीनः सन् तेषां मंगलार्थं स्वयमेव तपश्चरतीत्यर्थः । अहो एतावानपि तदनुकम्पा- परिणाम इति भावः । उपचितैर्वद्वितैः । आत्मा त्वंपदार्थ उपलभ्यते ज्ञायते । तत्र धर्मादिषु । यद्वात्मोपलम्भनं भगवत्स्कृति- हेतुकमित्यर्थः । लोकैस्तथा कथं नावगम्यत इति चेत्तत्राह– अव्यक्तगतिरिति । ईश्वरस्य स्वार्थं तदसंभवाद्वचक्तगतिर्वा प्रजाभिः सह ताश्च मुनिरूपा एव न सर्वाः । भगवता नरनारायणाख्येन प्रोक्ताभ्यां सांख्ययोगाभ्यां सारासारविवेकभगवन्निष्ठाभ्यां यद्भगवदनुभावोपवर्णनं तत्सावर्णि प्रत्युपदेक्ष्यति यः स इत्यर्थः । तीर्थस्तु - सांख्ययोगाभ्यां यथार्थज्ञानतत्साधनाभ्यामित्यर्थमाह ॥ १० ॥ * न विद्यते आत्मा ज्ञातव्यत्वेन यस्य सोऽनात्मा तस्य भावोऽनात्म्य मुपरतमनात्म्यं यस्मात्तस्मै निवृत्तदेहादिधर्माय ॥ ११ ॥ आत्माराम चूडामणित्वमाह- कर्त्तेति ।। १२ ।। योगाभ्यासिनां रहस्यमाह– इदमिति । यदिति शत्रन्तम् । अन्तकाले । यत् गच्छथपलमिति यावत् । मनस्त्वयि दधीत स्थिरी- कुर्यादित्यर्थः । योगेश्वरेति । भगवतो निजेष्टदाने सामर्थ्यमाह उज्झितेति । वर्त्तमाने निष्ठा ॥ १३ ॥ * * शंकेत मयि मृते सति मत्पुत्रादयः कथं वर्त्तेरन्निति भावयेत् श्रम एव तस्य शास्त्राभ्यासादि व्यर्थमेवेति भावः ॥ १४ ॥ कुकलेवरेति । कलिभवलोकापेक्षयोक्तम्-प्रभो इति । त्वमेवास्मदभिमतसम्पादने समर्थ इति भावः । अधोक्षजेति । तव कृपां बिना तब ज्ञानं दुर्लभमिति भावः । यद्वा यथा विषयेषु स्वभावस्तथा त्वथि स्वभावो निसर्गोस्त्वित्यर्थः ।। १५ ।। * * गोवर्द्धनोऽयं शास्त्रलोकप्रसिद्धः श्रीवृन्दावनगतः श्रीकृष्णाक्रीडत्वेन तमनु रैवतोऽपि पठ्यतेऽधुना तस्य स्वल्पत्वादिदृष्टिस्तु दिने दिनेन्तर्द्धानात् । चित्रकूटस्याभ्यां पूर्वपाठो हि श्रीरामावतारस्य कृष्णावतारात्प्राक्तनत्वेन तद्वासस्थानस्य तस्यापि प्राक्तनत्वे- नैवेति ज्ञेयम् ॥ १६ ॥ श्रीमद्वीरराघवव्याख्या । 18 अथ भारते वर्षे उपास्यं भगवद्रूपम् उपासकं जप्यमानं मन्त्रं स्तोत्रं चाह भारतेऽपीति । भारतेऽपि वर्षे भगवा- नारायणाख्यो बदरिकाश्रमे । आकल्पान्तं कल्पपर्यन्तमव्यक्तगतिरेतदर्थमेवं करोतीतीतरैरविज्ञातचेष्टस्तपश्चरति । कथंभूतम् उपचिताः प्रवृद्धा धर्मादयो येन तदुपचितधर्मज्ञानवैराग्यैश्वर्ययोगो परमात्मोपलम्भनमात्मा उपलभ्यते साक्षात्क्रियते येन तदात्मोपलम्भनं ततः कर्मधारयः, तत्र धर्मः कर्मयोगः ज्ञानमात्मयाथात्म्यज्ञानयोगः वैराग्यं मनोनिग्रहः ऐश्वर्याण्यणिमादीनि योगः प्राणजयः उपरमो बाह्येन्द्रियजयः । किमर्थमेवमनीश्वरवत्तपश्चरतीत्यत्राह । आत्मवतामनु महायात्मवतोऽनुग्रहीतुं मुमुक्षव एवम्बिधं तपः कुर्युरित्येवं ४२२ तस्य 1 । श्रीमद्भागवतम् " [स्क. ५ अ. १९ श्लो. ९-१६ शिक्षया ताननुग्रहीतुमिति यावत् आत्मवत्स्वनुग्रहे तस्य कृपैव कारणमित्याशयेनाह अनुकम्पयेति ॥ ९ ॥ * * तं श्रीमन्नारायण भगवान् षाड्गुण्यपूर्णः नारदः वर्णाश्रमवतीभिर्वर्णाश्रमधर्मानुवर्त्तनीभिः भारतीभिर्भरतवर्षवासिनीभिः प्रजाभिः सह साङ्खयमात्मयाथात्म्यज्ञानयोगः योगोऽसङ्गवर्णाश्रमोचितपञ्चमहायज्ञादिरूपः कर्मयोगः । आभ्यां भगवत्प्रोक्ताभ्यां भगवता गीताचार्येण प्रोक्ताभ्याम् “अशोच्यानन्वशोचस्त्वम्” इत्यारभ्य “एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु” इत्यारभ्य चोक्ताभ्यां गीताया वेदवदनादित्वादेवमुक्तं परमभक्तिभावेन परमभक्तिरूपेण भावेनाभिप्रायेण उपसरति अनुवर्तते कर्मयोगज्ञान- योगानुगृहीतनिरतिशयभक्तियोगेनानुवर्तत इत्यर्थः । कथंभूतः भगवतोऽनुभवः उपवर्ण्यते येन पञ्चरात्रेण तद्भगवद्नुभवोपवर्णनं तत्पञ्चरात्रं सावर्णेर्मनोरुपदेक्ष्यमाणः इदमुदाहरति ॥ १० ॥ * * मन्त्रमाह ओमिति । भगवच्छन्दार्थौ पूर्ववत् परमं निरतिशयं शीलं स्वभावो यस्य तस्मै सौशील्यविशिष्टायेत्यर्थः । महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वं सौशील्यम् अयमाश्रयण- सौकर्यापादको गुणः इदं वात्सल्यसौलभ्यस्वामित्वानामप्याश्रयणसौकर्यापादकानामुपलक्षणमुपरताना त्म्यायानात्मा देहेन्द्रियादिः भावः प्रकारः धर्मः अशनायादिषडूर्मिवर्गः उपरतं निरस्तमनात्म्यं यस्माद्येन वा तस्मै अकिञ्चनवित्ताय नास्ति किञ्चन प्रार्थनीयं येषां तेऽकिञ्चना निष्कामा मुमुक्षवस्तेषां वित्ताय निधये नरनारायणरूपेणावतीर्णाय परमहंसाय पर उत्कर्षो मा न भवति हंसो जीवो यस्मात् पृषोदरादित्वात् माशब्दस्य ह्रस्वः । यद्वा हन्ति निरस्यति निखिलान् दोषानिति हंसः पृषोदरादित्वात् साधुः “भवेद्वर्णागमास” इत्यानुशासनिकस्मरणात्, परमश्चासौ हंस इति कर्मधारयः, परमः निरतिशय कल्याणगुणगणः हंसो निरस्त - निखिलदोषः तस्मै परमगुरवे निरतिशय हितोपदेष्ट्रे आत्मारामाय नित्यासङ्कचितापरिच्छिन्नानन्दरूपस्वात्मानुभवपरायाधिपतये भूतानामधिपतये “एष भूताधिपतिः” इति श्रवणात् । नमस्काराभ्यासो गुणभेदाभिप्रायकः ॥ ११ ॥ * * इदं वक्ष्यमाण- श्लोकचतुष्टयं स्तुतिरूपं गायति पठतीत्यर्थः । यद्वा इदं वक्ष्यमाणं गुणजातं गायति तावज्जगत्कारणं चिदचिद्विलक्षणं निरस्त निखिल दोपं निरसमाभ्यधिकं सर्वज्ञं नमस्करोति कर्तेति । अस्य कृत्स्नस्य चिचिदात्मकस्य जगतः सृष्ट्यादौ कर्त्तापि यो न बध्यते नाभिमन्यते “चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्त्तारमव्ययम्” इति भगवदुक्तरीत्या कृत्स्नजगत्स्रष्टारमात्मानं तद्गुणकर्मायत्तदेवमनुष्यपशुपादपतारतम्येन कर्त्तारं न मन्यते सृज्यानां देवादिपदार्थानां देवत्वमनुष्यत्वादिनानाविधसर्गकर्मणि सृज्यशक्तीनामेव गुणकर्मणां प्रधानकारणत्वादात्मानं गुणकर्मानुगुणकर्त्तारं मन्यते, न तु साक्षाद्वैचित्र्यं प्रति हेतुं मन्यत इत्यर्थः । तथा देहगतोऽपि अन्तरात्मतया देवादिदेहस्थोऽपि दैहिकैर्देहसम्बन्धप्रयुक्तः सुखदुःखादिभिर्यो न हन्यते नाभिभूयते एवं द्रष्टुर्जीवस्य यद्दश्यमचेतनं प्रधानं तस्य गणैः रजआदिभिर्यो न दृश्यते न संकुचितज्ञानो भवति । कर्तृत्वेऽपि मोहाभावात् त्रिगुणात्मकप्रधान- शरीरकत्वेऽपि गुणकृतज्ञानसङ्कोचाभावाच्च जीवा द्वैलक्षण्यमुक्तं द्रष्टुर्जीवस्य गुणैः संसारित्वादिभिर्दृश्यस्य गुणैर्जात्यादिभिश्व न दूष्यत इति वा योजना । एवं चिदचिद्वैलक्षण्यमुक्तमत एवासक्तो रागादिरहितो विविक्तोऽसहायः स्वतुल्याधिकद्वितीयवस्तुरहितः साक्षी सर्वस्य चेतनाचेतनात्मकस्य जगतः द्रष्टा चेत्यसक्तविविक्तसाक्षी तस्मै ते नमः | “कर्त्तास्य सर्गादिषु यो न बध्यते” इत्यपि पाठः । तत्रास्य जगतः सर्गादौ सृष्टिस्थितिलयेषु कर्त्तापि न बध्यते असक्तत्वाज्जीवस्तु स्वगुणानुगुणपरमात्मायत्तः कर्त्ता स्वकर्मायत्तभोगसङ्गात् स्वातन्त्र्येण कर्त्तास्मीत्यभिमानेन बध्यते संसारी भवति, परमात्मा जगत्सर्गादौ निरपेक्षः कर्त्तापि न बध्यते जगद्वयापारस्य लीला- रूपत्वेन सुखदुःखादिफलभोगार्थत्वाभावात्तत्रासक्त्यभावादिति भावः । तथा देहगतोऽपि दैहिकैः देहसम्बन्धप्रयुक्तैः सुखदुःखादिभिर्न हन्यते नाभिहतो भवति, कुतः विविक्तत्वान्निरस्त निखिल दोषतया समस्त कल्याणगुणाकरतया च जीवपर्यन्तेभ्यो देहेन्द्रियादिभ्यो विलक्षणत्वाद्विलक्षणस्वस्वरूपावलोकनशीलत्वादिति भावः । तथा च शारीरकं सूत्रम् नि स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति सर्वत्रावस्थानतोऽपि न परस्य ब्रह्मणोऽपुरुषार्थगन्धः सम्भवति कुतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्मोभयलिङ्गमुभयलक्षणं निरस्तनिखिल- दोषमनन्तकल्याणगुणाकरमभिधीयत इति तदर्थः, “अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्य- “अपहतपाल सङ्कल्पः” इत्यादयः श्रुतयः । ‘समस्त कल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥’ इत्यादयः स्मृतयः । अयं भावः जीवस्य कर्मवश्यत्वात्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्धोऽपुरुषार्थ एवं स्यात्परस्य तु ब्रह्मणः स्वाधीनः स एव सम्बन्धस्तद्विचित्रनियमन रूपलीलारसायैव स्यादिति दिक् । तथा च श्रुतिः “तयोरन्यः पिप्पलं स्वाद्वस्यनन्नन्यो अभिचाकशीति” इति तथा द्रष्टुः स्वस्वकर्मानुगुणज्ञानाश्रयस्य “अनृतेन हि प्रत्यूढास्तेषां सत्यानां सतामनृतमपिधानम्” इति श्रुत्युक्तरीत्या कर्मणा तिरोहितज्ञानस्य जीवस्य यद् दृश्यं कर्मायत्तदर्शनविषयं यत्प्रधानं तस्य गुणैः रजआदिभिर्न दृष्यते च गुणपरवशो न भवति कुतः साक्षित्वात्साक्षाद् द्रष्टृत्वात् “साक्षाद्रष्टरि संज्ञायाम्” इति साक्षिशब्दो व्युत्पादितः, साक्षिशब्दोऽवयववृत्त्या समुदायरूढ्या च भगवत्येव मुख्यवृत्तः ‘अव्ययः पुरुषः साक्षी ‘ति भगवन्नामसहस्रपाठात् अतः संज्ञायामित्यस्य न विरोधः । द्रष्टुरिति दृष्टान्तार्थ यथा द्रष्टा दृश्यगुणैर्दृष्यते तथा साक्षी परमात्मा न दृष्यत इति । अयं भावः - जीवस्य स्वकर्मानुगुणमेव दृश्यदर्शनं न तु साक्षात्साकल्येनेति गुणैदूषणं परमात्मनस्तु निरुपाधिकं साक्षाद्दृश्ययाथात्म्य दर्शनमिति न गुणवश्यता किन्तु गुणानामेव परमात्म- वश्यतेति एवंभूताय असक्तसाक्षिणे नम इत्यर्थः ।। १२ ।। * * एवं जीवपरयोर्हेयास्पदत्वतत्प्रत्यनीकत्वे उक्ते, इदानीं जीवस्य हेयनिरसनोपायो देहाद्यनासक्त्या परमात्मनस्तव भक्तिरेव सैव पूरा पुरा चतुर्मुखेन मुखेन मामभिहितेत्याह इद हीति । हे योगेश्वर ! हिरण्यगर्भः योगे यन्नैपुणं कौशलं जगाद तदिदमेव । किन्तदित्यत्राह उज्झितदुष्कलेवरः उपेक्षितशरीरः कलेवरशब्दः तदनुबन्धिना - स्कं. ५ अ. १८ श्लो. ९-१६ ] अनेकव्याख्या समलङ्कृतम् ४२३ मप्युपलक्षकः, उपेक्षितदेहानुबन्धी पुमान् भवात् प्रभृति अन्तकाले अन्तकालपर्यन्तं भक्त्या ध्यानयोगेन त्वयि मनो धारयेत्स्थिरं कुर्यादिति यत् ।। १३ ।। * * एवं देहाद्युपेक्षया परमात्मभक्तिरेव जीवस्यानर्थं परिहारिणीत्युक्तमिदानीमुक्तविधभक्तिरहितस्य केवलशास्त्राध्ययनादिप्रयासो निष्फल इत्याह यदेति । ऐहिकेषु पशुपुत्रान्नादिष्वामुष्मिकेषु स्वर्गादिषु कामेषु लम्पटः आसक्तः सुतादिषु विषयेषु चिन्तयन् तेषामनपायोपेयत्वं चिन्तयन्नित्यर्थः । विद्वानधीतशास्त्रोऽपि कुत्सितस्य कलेवरस्यात्ययान्मृत्योः शङ्केत बिभीयात् तस्य यो यत्नः शास्त्राध्ययनादिरूपः स केवलं श्रम एव निष्फल एव, मरणभीतस्य शास्त्रश्रमो निष्फल इत्यर्थः ॥ १४ ॥ * * यतो विदुषोऽपीयमेव दशा तत्तस्मात्प्रभो ! हे अधोक्षज ! त्वमेव नो योगं विधेहि सम्पादय त्वत्प्रसादादेव नो योगसिद्धिरिति भावः । ईदृशं योगं त्वयि स्वभावजं निरुपाधिकं कामानुपहतमिति यावत्, येन योगेन वयं त्वन्मायया नः कुत्सिते कलेवरेऽर्पितामा हितां सुदुर्भिदामुपायान्तरैः सर्वदा त्यक्तुमशक्यामहं ममता महङ्कारममकाररूपामविद्यामाशु भिन्द्याम त्यजेम, त्वत्प्रसादायत्तत्वद्भक्तियोग एवानर्थनिवर्त्तक इति भावः ।। १५ ।। * * एवं भारते उपास्यभगवद्रूपादिकमुक्तमथास्मिन्नेव वर्षे प्राधान्येन पुण्यतमान् पर्वतान्नदीञ्चाह । तत्र प्रथमं पर्वतान् संग्रहेणाह । भारतेऽपीत्यपिशब्दाद्वर्षान्तरेऽप्यनुक्ताः पर्वता नद्यश्च सन्तीति सूचितम् । सरितः सरिच्छैलाः बहवः सन्ति तावच्छैलानुद्दिशति मलय इत्यादिना कामगिरिरित्यन्तेन । अन्ये च बहवः सन्तीत्याह । अन्ये च शतशः शैलाः सन्तीत्यनुषङ्गः, नदीर्वक्ष्यमाणास्तासामुत्पत्तिस्थानं प्रभाववाह तेषामिति । तेषां शैलानां नितम्बेभ्यस्तदेभ्यः प्रभवाः सम्भूताः नदाः प्रायेण पश्चिमाभिमुखाः न पूर्वाभिमुखा असङ्ख्याताः सन्ति ॥ १६ ॥ * श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली 8 उपशमोऽधिकभगवन्निष्ठा उपरमो मनआदीन्द्रियनिग्रहस्तपश्चरतामेवमपेक्षितमिति दर्शयितुं न तु स्वस्य नित्यनिगृहीतेन्द्रिय- स्वात् आत्मनः स्वरूपस्योपलम्भो नित्यापरोक्षता यस्य स तथा ॥ ९ ॥ * साङ्ख्ययोगाभ्यां यथार्थज्ञानतत्साधनाभ्यां भगवतो हरेरनुभावस्य माहात्म्यस्योपवर्णनं प्रतिपादनं यस्मिंस्तत्तथा तत्पञ्चरात्रं सावर्णेर्मनोः उपसरत्युपास्ते ।। १० ।। उपरता- नात्स्याय निवृत्तदेहादिधर्माय आत्मारामाणामधिपतये ।। ११ ।। सर्गादिषु कर्ता तथापि देवदत्तवद्यो न बध्यते देहगतोऽपि देहि देह सम्बन्धिभिर्दोषैः यो न हन्यते न पीड्यते द्रष्टुर्यस्य दृग् गुणैर्दर्शनयोग्यरूपादिभिः न दूष्यते दर्शननिमित्तपापैर्न सम्बद्धयते तस्मै नमः | अत्र हेतुगर्भविशेषणमाह असक्तेति । असङ्गत्वात् विलक्षणत्वात् साक्षित्वात् बन्धनादिदोषाभाव इत्यर्थः ॥ १२ ॥ * बहुजन्मार्जितधर्माद्युपायपाटयमिदमित्याह इदं हीति । हिरण्यगर्भो योगनैपुणं योगपाटवमिदमेव जगाद इदं किं तत्राह यदिति । निर्गुणे त्वयि भक्त्यान्तकाले मनो निधाय दुष्कलेवरमुन्झतीति यत्तदिदमिति भावः “यस्य सम्यक भगवति ज्ञानं भक्तिस्तथैव च” इत्यादिवाक्यमत्रापि प्रमाणमिति बोद्धव्यम् ।। १२ ।। यत एवं सर्वमनित्यं यस्माद्विदु- षाज्ञवदेहत्यागादौ शङ्का भयं न कार्यमित्याह यथेति । यथैहिकामुष्मिक कामेषु लम्पटो रागी सुतादौ नाशं चिन्तयन् शङ्केत मयि मृते सुतादौ नाशं चिन्तयन् शङ्केत मयि मृते सुतादयो नाशं गमिष्यन्तीति तथा विद्वानपि यदि कुशरीरत्यागाच्छङ्केत तर्हि तस्य यः शास्त्रश्रवणादौ प्रयत्नः स केवलं श्रम एव न किञ्चित्फलमित्यर्थः । अतो न शङ्कितव्यमित्यर्थः ।। १४ ।। * * यतस्त्वदनुगृहीतमेव सफलमत इमं त्वदनुग्रह जनकमुपायमस्मभ्यं देहीत्याह तन्न इति । योगं ज्ञानं ध्यानमुपायं वा येन योगेन अहंममतासम्भूतदोषस्य मुक्तिपरिपन्थित्वात्तन्नाशः प्रार्थ्यते । तदुक्तम् “यो ममत्वादिना दोषः स त्वन्यविषयः स्मृतः” इति ॥ १५ ॥ इदानीमस्मिन् भारतवर्षे पर्वततत्तटजा नदीः प्राधान्येन वक्ति भारत इति ।। १६ । । श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः * नरनारायणाख्य इति द्वयोरभेदो दर्शितः । आत्मवतामात्मा स एव भगवान् नाथत्वेन विद्यते येषां तेषां भक्तानामनु- कम्पया हेतुना तद्विषयकानुकम्पाधीनः सन् तेषां मङ्गलार्थं स्वयमेव तपश्चरतीत्यर्थः । अहो एतावानपि तदनुकम्पापरिणाम इति भावः । तमेव दर्शयति उपचितेति । स्वयमेव कृतैस्तैस्तैरङ्गैस्तेष्वात्मनो भगवतः स्फूर्तिहेतुकमित्यर्थः । तर्हि लोकैस्तथा नावगम्यते । ६ तत्राह अव्यक्तगतिरिति । ईश्वरस्य स्वार्थं तदसम्भवात् । व्यक्तगतिरिति वा ॥ ९ ॥ * * प्रजाभिः सह ताश्च मुनिरूपा एव न तु सर्वाः। भगवता नरनारायणाख्येन प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां सारासारविवेकभगवन्निष्ठाभ्यां यद्भगवदनुभावोपवर्णनं तत् सावर्ण्य प्रत्युपदेक्ष्यति यः स इत्यर्थः ।। १०-११ ।। ॐ तस्य परमहंसत्वं दर्शयन् गुरुत्वं योजयति कर्त्तेति । देहगतोऽ- न्तर्यामिरूपेण द्रष्टुः परमसाक्षिणः ।। १२ ।। * * अनासक्तत्वं कैमुत्येन स्थापयन् विशेषतो ज्ञेयस्य योगस्य सामान्यतो ज्ञानं ॥ तत्कारणवाह इदं हीति । उज्झितदुष्कलेवर इति । पार्षदकलेवरस्य शोभनत्वमुपादेयत्वं च बोधयति ।। १३ ।। * * तज्ज्ञानयोग्यत्वापादकं सारासारविवेकमपि सामान्यतो निवेदयति यथेति ॥ १४ ॥ ॐ अभीष्टमाह तन्न इति । कुकलेवरेति । स्वेतरेषां कलेवरापेक्षया प्रोक्तम् ।। १५ ।। * * कोन्नः कोन्नक इति पाठी । गोवर्द्धनोऽयं शास्त्रलोकप्रसिद्धः । श्रीवृन्दावनगतः श्रीकृष्णाक्रीडत्वेन तमनु रैवतोऽपि पठ्यते । अधुना तस्य स्वल्पत्वादिदृष्टिः काले कालेऽन्तर्द्धानात् ।। १६-१९ ।। ४२४ श्रीमद्भागवतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । [ स्कं ५ अ. १९ लो. ९-१६ ॥ ४ ४ उपचितैर्धर्मादिभिः सहित आत्मा त्वंपदार्थं उपलभ्यते येन तत्तपश्ररति । तत्र उपशमः इन्द्रियाणां संयमः उपरमो निरह- ङ्कारिता आत्मवतां ज्ञानिनामनुग्रहाय तपः शिक्षणरूपायेति तपसि प्रयोजनमनुकम्पयेति तत्र कारणमित्यपौनरुक्तयम् ॥ ९ ॥ भगवदनुभावो वर्ण्यते येन तद्भगवदनुभाववर्णनं पञ्चरात्रशास्त्रं साङ्ख्ययोगाभ्यां सह सावर्णेः सावर्णिम् ॥ १० ॥ * उपर- तानात्म्याय न विद्यते आत्मा ज्ञातव्यत्वेन यस्य सः अनात्मा अनात्मनो भावः आनात्म्यमुपरतमानात्म्यं यस्मात्तस्मै ॥ ११ ॥ ** आत्मारामचूडामणित्वमाह कर्त्तेति । न निबध्यत इत्यतस्तेष्वसक्ताय । दैहिकैः क्षुत्पिपासादिभिर्न हन्यते नाभिभूयते इत्यतो देहा- द्विविक्ताय द्रष्टुरपि सतो दृग् दृष्टिः गुणैर्हश्यैर्न दृष्यते अत एव असक्तश्चासौ विविक्तसाक्षी अलिप्तसाक्षी चेति तस्मै ॥ १२ ॥ ॥ * ॐ योगाभ्यासिनां रहस्यमाह इदमिति । यदिति शत्रन्तम्, अन्तकाले यत् गच्छत् चपलमिति यावत् मनस्त्वयि दधीत स्थिरीकुर्या- दित्यर्थः । उझिति वर्त्तमाने निष्ठा || १३ || अन्यथा योगाभ्यासो व्यर्थ एवेत्याह यथेति । चिन्तयन् चिन्तां
- कुकलेवरात्ययात् शङ्केत । मयि मृते सति मत्सुतादयः कथं वर्त्तेरन्निति भावयेत् तथैव विद्वानपि यः शङ्केत तस्य यत्नः श्रम । तस्मादन्यावेशं त्याजयित्वा त्वयि मनसोऽभिनिवेशं त्वमेव कृपया देहीत्याह तन्न इति । योगं विधेहि योग एव कस्तत्राह । त्वयि नोऽस्माकं स्वस्यात्मनो भाव रतिं यद्वा यथा विषयेषु स्वभावस्तथैव त्वयि स्वभावो निसर्गोऽस्त्वि- त्यर्थः ॥ १५ ॥ * अपीति । यथा इलावृते तथा अस्मिन्नपि वर्षे इत्यर्थः ॥ १६ ॥ एव ।। १४ ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः क उपचितैः समृद्धैर्धर्मादिभिः आत्मा परमेश्वरं उपलभ्यते येन तत्तेप आकल्पं कल्पपर्यन्तं चरति आत्मवतामात्मा विद्यते उपास्यत्वेन येषां तेषामनुग्रहाय शिक्षायै न च स्वार्थमीश्वरत्वात् उपशमो निरहङ्कारता उपरमः इन्द्रियसंयमः ॥ ९ ॥ ** भगवदनुभाव उपवर्ण्यते येन तत्पञ्चरात्रं शास्त्रं सावर्णेरुपदेक्ष्यमाणः भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्याम् एषा तेऽभिहिता सांख्ये बृद्धियोंगे त्विमां शृणु’ इति श्रीमुखवचनात् साङ्ख्यमात्मज्ञानं योगो निष्कामकर्मयोगस्ताभ्यां संबद्धितेन परभक्तिभावेन प्रजाभिः सह उपसरति सेवते इत्यन्वयः ॥ १० ॥ ॐ परमहंसानां परमगुरवे उपरतानात्म्याय निरहङ्काराय ॥ ११ ॥ देहगतोऽपि देहेषु अन्तर्यामिरूपेण संस्थितोऽपि दैहिकैः क्षुत्पिपासादिभिः असक्तः सर्वदा पूर्णकामत्वात् विविक्तः सर्वदा सर्वदोषा- स्पष्टत्वात् साक्षी सर्वदा सर्वदर्शी स च सः तस्मै ॥ १२ ॥ * * ज्ञानस्य देहादिविरक्तिपूर्वकं भगवति मनोनैश्चल्यं फलमन्यथा ज्ञानयत्नः केवलं श्रमोऽतस्तं ज्ञानयोगं नो विधेहि येन त्वयि मनोनैश्वल्यं भवेदित्याह इदमिति त्रिभिः । हे योगेश्वर ! हिरण्यगर्भः योगनैपुण्यं योगस्य ज्ञानयोगस्य नैपुण्यं यत् जगाद तदिदमेव किमुज्झितदुष्कलेवरः त्यक्तदुष्टजनदेहसङ्गः सन् भक्त्या त्वयि मनो दधीत धारयेत् किं बहुना अन्तकालेऽपि इति यत् ॥ १३ ॥ * * यदि यथा ऐहिकामुष्मिक कामलम्पदः अविद्वान् सुतादिषु चिन्तयन् योगक्षेममिति शेषः । कुकलेवराणां स्वकीयदेहस्य सुतादिदेहानां च अत्ययान्नाशात् शङ्केत तथा विद्वानपि सन् यः शङ्केत तर्हि तस्य यत्नः विद्यायत्नः श्रम एव ॥ १४ ॥ * * तत्तस्मात् हे प्रभो ! अधोक्षज ! त्वं तद्योगं तादृशं ज्ञानयोगं नो विधेहि येन त्वयि स्वभावं स्वकीयं भावं मनोनैश्चल्यलक्षणं ध्रुवास्मृत्याख्यं प्राप्नुयाम इति शेषः, येन च योगेन वयं त्वन्मायया न कलेवरे अर्पिता- महंममतां शीघ्रं भिन्द्याम ।। १५-१६ ।। | गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी भगवदवतारमाह-भारतेऽपीति । BI क भारतेऽपि वर्षे भगवदवतारमाह - भारतेऽपीति । भारतेऽपि वर्षे नरनारायणाख्यमूर्तिद्वयेन बदरिकाश्रमे स्थितस्तपश्चर- तीत्यन्वयः । ननु भगवत्वेन तु नैव प्रतीयते तत्राह–अव्यक्तगतिरिति, ऋषिरूपग्रहणेन न व्यक्ता प्रकटा गतिर्भगवत्त्वं यस्य सः । तपसोऽपरिच्छिन्नत्वमाह - - आकल्पान्तमिति, कल्पपर्यन्तं करिष्यामीति सङ्कल्पविषयमित्यर्थः । तपसः फलं किमित्यपेक्षायां तद्दर्शयन् विशिनष्टि - उपचितेति । उपचितैर्धर्मादिभिः आत्मा स्वयमेव सच्चिदानन्दविग्रहो भगवानुपलभ्यते येन तदित्यर्थः । अत्र समग्र- धर्मादिभिर्विशिष्ठो भगवान् अनेन तपसोपलभ्यते इति तपसा सिद्धेरूर्जितैर्धर्मादिभिः साधनभूतैर्भगवानुपलभ्यते इति वाऽर्थः । ननु तन्येषामनेन तपसैतत्फलं भवतु भगवतस्तु सदैव स्वरूपस्य लब्धत्वात् स किमर्थं तपश्चरतीत्याशङ्कयाह– अनुग्रहायेति, आत्मा स्वयमेवोपास्यतया विद्यते येषां ते आत्मवन्तस्तेषामनुग्रहाय स्वप्राप्तिसाधने तपसि प्रवर्त्तनेन स्वरूपसाक्षात्कार लक्षणमनुग्रहं कर्तुमित्यर्थः । एवमनुग्रहे तस्य किं फलमित्यपेक्षायां न किञ्चित्फलम् आप्तकामत्वात् केवलं कृपयैव तदित्याह – अनुकम्पयेति । धर्मः पुण्यं, ज्ञानं सर्वज्ञता, वैराग्यं विषयवैतृष्ण्यम् ऐश्वर्यमणिमादि, उपशम इन्द्रियसंयमः, उपरमो निरहङ्कारता ॥। ९ ॥ * * तस्योपासनमाह – तमिति । तं भगवन्तं भगवान् तदनुग्रहेण ज्ञानैश्वर्यादिमान्नारदो वर्णाश्रमवतीभिः भगवत्सेवाधिकारवतीभिः भारतवर्षनिवासिनीभिः प्रजाभिः सह परमभक्तिभावेन उपसरति सेवते, इदं च मन्त्रात्मकगद्यमभिगृणाति जपतीत्यन्वयः । नारदस्य परोपकारित्वं दर्शयति-भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां सह भगवदनुभाव उपवर्ण्यते येन तत् पञ्चरात्रं सावर्णैः सावर्णि भाविनं । F स्क. ५ अ. १९ इलो. ९-१६ ] अनेकव्याख्या समलङ्कृतम् ४२५ मनुमुपदेक्ष्यमाण इति ।। १० ।। * * मन्त्रमाह - ओं नम इति । भगवते नरनारायणाय नम इत्यन्वयः । भगवत्त्वमेवोप- पादयति- अधिपतये इति, विश्वपालकायेत्यर्थः । पालकत्वमेवोपपादयति - परमहंस परमगुरवे इति, परमहंसाः सारासारविवेकिन- स्तेषामपि परमगुरवे भक्तिज्ञानाद्युपदेशेन संसारभयाद्रक्षकायेत्यर्थः । ननु सर्वपालकस्य भगवतः कथं परमहंसपालकत्वमेवोच्यते इत्याशङ्कयाह- अकिञ्चनेति, नास्ति भगवद्वद्यतिरिक्तं किञ्चन येषां सारासार विवेकवतां स्वभक्तानां विषयविरक्तानां सर्वत्यागिनां ते अकिञ्चना एवं वित्तं वित्तवत्प्रीतिविषयत्वेन सर्वतः संरक्षणीया यस्य तस्मा इत्यर्थः । सामान्यतः सर्वपालकत्वेऽपि स्वभक्तेष्व- नुग्रहविशेषात् तत्पालकत्वमुच्यते इति भावः । ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति नियमात् लोके प्रयोजनमन्तरेण प्रवृत्त्यदर्शनाच्च तस्याप्तकामत्वेन प्रयोजनासम्भवात् कथमेवं निरुपाधिकोऽनुग्रहः सम्भवतीत्याशङ्कय लोके विवेकिनामिन्द्रियान्तःकरणवशवर्त्तिनां कामाधीनप्रवृत्तिदर्शनेऽपि परमविवेकिनः स्वतन्त्रस्य स्वेच्छया नानाविधलीला विदधतस्तथा प्रवृत्तिर्नानुपपन्ना । एतदर्थ एवायमवतार इति सूचयन्नकिञ्चनवित्तत्वे हेतुमाह - ऋषिऋषभायेति । ऋषिषु विवेकिषु ऋषभाय श्रेष्ठायेत्यर्थः । लोकेऽविवेकिनां विषयासक्तानां धनादिमन्त एव प्रिया भवन्ति, भगवतस्तु विवेकित्वेन विषयासक्त्यभावात् कृपया निष्किञ्चना एवं प्रिया इति भावः । विवेकित्वमेवोपपादयति-उपरतेति, उपरतं नित्यनिवृत्तं अना- त्म्यमनात्मनि आत्मातिरिक्त गुणकार्ये देहेन्द्रियादावहमित्यध्यासलक्षणं यस्य स तथा तस्मा इत्यर्थः । तत्र हेतुमाह उपशमेति, उपशम इन्द्रियान्तःकरणसंयमे शीलं स्वभावो यस्य तस्मै । अविवेकेनेन्द्रियादिपरतन्त्रस्यैव तत्रात्माध्यासः सम्भवति न वशीकृते- न्द्रियस्येति भावः । तत्रापि हेतुमाह - आत्मारामा येति, न ह्यात्मनि परमानन्दस्वरूपे रममाणस्य तुच्छैर्विषयभोगैः प्रयोजनमस्ति येनेन्द्रियादिपरतन्त्रता स्यादिति भावः । आत्मारामाधिपतये इत्येकपदपाठे आत्मनि भगवति रममाणा भक्तास्तत्पालकायेत्यर्थः । अन्यत्समानम् ।। ११ ।। * * चतुश्लोक्यात्मकं स्तोत्रं घटयतीत्याह – गायति चेदमिति । तत्रैकेन विषयानासक्तत्वगुणा- नभिभवत्वसाक्षित्वलक्षणमीश्वरत्वं वर्णयन् प्रणमति - कर्तेति, अस्य विश्वस्य सर्गादिषु कर्त्ताऽपि यो न बध्यतेऽहमस्य कर्ता ममेदं कार्यमित्यहम्ममाध्यासेन जीववन्निबद्धो न भवतीत्यर्थः । अनेनानासक्तिः प्रदर्शिता । विविक्तत्वमाह - नेत्ति, देहगतोऽपि देहिकैरि- । न्द्रियादिभिः क्षुत्पिपासादिभिश्च यो न हन्यते नाभिभूयते । साक्षित्वमाह-द्रष्टुरिति, यस्य द्रष्टुरपि सतो गुणैर्विषयेदृष्टिर्न दृष्यते न विक्रियते । एवमसक्तञ्चासौ विविक्तश्च साक्षी च तस्मै नमः ॥ १२ ॥ * - * योगं प्रार्थयितुं योगकौशलं निरूपयति- इदं हीति । यद्धिरण्यगर्भो योगनैपुणं योगस्य नैपुण्यं जगाद उक्तवांस्तदिदं हि इदमेवेत्यन्वयः । किं तदित्यपेक्षायामाह यदिति । उज्झितं त्यक्तं दुष्टं संसारदुःखकारणं कलेवरं तत्राहम्ममाभिमानो येन तथाभूतः सन् अन्तकाले निर्गुणे प्राकृतगुणरहिते त्वयि भक्त्या मनो दधीत धारयेदिति यदित्यन्वयः । एवंविधो योगस्तु त्वद्भक्तानां त्वत्कृपयैव सिद्ध्यति नान्येषां त्वद्विमुखानां साधनान्तर सम्पन्नानाम- पीत्याशयेन सम्बोधयति - हे योगेश्वर इति । ब्रह्मणो वेदगर्भत्वेन तदुपदिष्टं यथार्थमेवेत्याशयेन तं विशिनष्टि - भगवानिति । ‘सदा तद्भावभावितः’ इति न्यायेन पूर्वभक्तिरहितस्य अन्ते तदसम्भवात् अन्ते भक्त्येत्युक्त्या जन्मप्रभृति सदैव भक्तौ प्रयत्नो विधेय इति सिद्धयतीति ज्ञेयम् ॥ १३ ॥ * * एतद्योगं विना सर्वसाधनानुष्ठानश्रमो विफल इत्याह- यथेति । ऐहिकामुष्मिक कामेषु लम्पट आसक्तः अज्ञः सुतादिषु चिन्तयन् मयि मृते एते कथं वर्तेरन्निति चिन्तां कुर्वन् कुत्सितस्य विष्ठादिमलपूर्णस्य दुःखमूलस्यापि कलेवरस्य अत्ययान्नाशाच्छङ्कते बिभेति तथैव चेद्विद्वानपि शङ्केत तदा तस्य सर्वसाधनप्रयत्नः केवलं श्रम एवेत्यन्वयः । ‘अन्ते यथा मतिस्तथा गतिः’ इति सिद्धान्तेन संसारमध्यपातित्वेन तद्दुःखस्यावश्यम्भावित्वादिति भावः ॥ १४ ॥ * * एवं योग- प्रभावं निरूप्य योगं प्रार्थयते - तदिति । यस्माद्योगं विना न संसारदुःखनिवृत्तिः तल्लाभश्च त्वदनुग्रहेणैव तत्तस्मात् हे प्रभो योग- दानेन भक्तोद्धारे समर्थ हे अधोक्षज अचिन्त्यानन्तशक्तित्वेनेन्द्रियादिज्ञानातीतत्वमेव त्वयि स्वभावं स्वभावसिद्धं निरुपाधिकं प्रेमलक्षणं योगं नोऽस्माकं विवेहि विशेषेण निश्चलं कृपया सम्पादय । येन योगेन त्वन्मायया मोहितैर्नोऽस्माभिः कुकलेवरं विष्ठादि- मलपूर्णत्वेन भौतिकत्वेन नश्वरत्वेन दुःखादिहेतुत्वेन च निन्दिते शरीरे अर्पितामनेकजन्मस्वनुवर्त्तितां अत एव सुदुर्भिदामुपायान्तर- सहस्रैरपि भेत्तु त्यक्तुमशक्यां अहम्ममतां वयमाशु शीघ्रमेव भिन्द्याम त्यजेमेत्यन्वयः । इतिशब्दः स्तोत्रसमाप्तयर्थकः । अत्र यद्यपि ‘प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिकः’ इति प्रथमोक्तेः श्रीनारदस्य कलेवरस्य न भौतिकत्वं किन्तु शुद्धसत्त्वात्मकत्वमेव, तथापि नः इति बहुवचनप्रयोगादन्येषामपि प्राकृतदेहभक्तानामभिप्रायेण कुकलेवरत्व- मुक्तमिति ज्ञेयम्, तथा सर्वजगदुपकारावतारत्वात् श्रीनारायणस्यापि शुद्धसत्त्वविग्रहत्वं ज्ञेयम् ।। १५ ।। * एवं भगवत्सेवा- कृतं भूमेरुत्कर्षं निरूप्येदानीं पुण्यजलसम्बन्धेन भारतोत्कर्षं वर्णयति—भारते इलावृतवदस्मिन् भारतेऽपि वर्षे सरितः शैलाश्च बहवः सन्ति । तत्र शैलान् दर्शयति- मलय इत्यादिना । नितम्बप्रभवाः तटेभ्यः सम्भूताः ।। १६ ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी: अथ भारते वर्षे उपास्यं भगवद्रूपं तदुपासकं तज्जप्यमन्त्रं स्तोत्रं चाह । भारते वर्षे अपि, नरनारायणाख्यः, भगवान् बदरिकाश्रमे इति शेषः । धर्मः कर्मयोगच ज्ञानमात्मयाथात्म्यज्ञानयोगश्च वैराग्यं मनोनिग्रहश्च ऐश्वर्याण्यणिमादीनि च योगः ४२ श्रीमद्भगवतम् [ स्व. ५ म. १९ ली. ९-१६
नमः। जयश्च उपशमो बाह्यान्तरिन्द्रियसंयमश्च उपरमो निरहंकारता च उपचिता प्रवृद्धा धर्माद्युपरमान्ता येन तच तत् आत्मोपलभ्यते साक्षात् क्रियते येन तदात्मोपलम्भनं च एवंभूतं, तपः आत्मवतां अनुग्रहाय आत्मवतोऽनुग्रहीतुमित्यर्थः । अनुकम्पया स्वाश्रितानी तेषामुपरि परमकरुणया च, आकल्पान्तं कल्पावसानपर्यन्तं, अव्यक्तगतिः एतदर्थमयमेवं करोतीति इतरैरविज्ञातचेष्टः सन् चरति । तपः कृत्वा स्वाश्नितेभ्यस्तत्फलं दत्त्वा संसृतेस्तानुद्धारयितुं स्वयं परमेश्वरः सन्नपि महत्तपः करोतीति भावः ॥ ९ ॥ तमिति । तं नारायणं भगवन्तं भगवानाविर्भूतभगवद्गुणः नारदः भगवता गीताचार्येण दः भगवता गीताचार्येण प्रोक्ताभ्यां सांख्यमात्मयाथात्म्ययोगा योगोऽसङ्गतया वर्णाश्रमोचितधर्माचरणरूपः कर्मयोगश्च ताभ्यां सह, भगवदनुभाव उपवर्ण्यते येन तद्भगवदनुभावोपवर्णनं पञ्चरात्र- मित्यर्थः । सावर्णेः मनोः, उपदेश्यमाणः सन् वर्णाश्रमधर्मानुवर्त्तिनीभिः भारतीभिर्भरतवर्षवासिनीभिः प्रजाभिः सह, परमभक्ति- भावेन सप्रेम नवधा भक्तियोगेन, उपसरति उपास्ते । इदं वक्ष्यमाणं च अभिगृणात्युदाहरति ॥ १० ॥ मन्त्रमाह ओमिति । ॐ भगवच्छब्दी पूर्ववत् । भगवते नमः । उपशमो बाह्यान्तरिन्द्रियनियमनं शीलं यस्य तस्मै, परमशीलायेति पाठे परमं निरतिशयं शीलं स्वभावो यस्य तस्मै सौशील्यविशिष्टायैत्यर्थः । अनात्मा देहेन्द्रियादिस्तस्य भावोऽशनायादिषडूर्मिमत्वरूपो धर अनात्म्य, उपरतं निरस्तमनात्म्यं यस्मात्तस्मै, निवृत्तदेहाद्यहंकारायेत्यर्थः । अकिंचना निष्कामास्तेषां वित्ताय निधये, ऋषिषु ऋषभः श्रेष्ठस्तस्मै, नरनारायणाय नरनारायणरूपेण स्वरूपतोऽभिन्नत्वेऽपि रूपद्वयेन प्रादुर्भूताय नमः । परमः सर्वोत्तमो हंसो भगवान् येषा ते परमहंसास्तेषां परमगुरुस्तस्मै, परमहंसाय परमगुरवे इति पृथक पाठे, पर उत्कृष्टो मा न विद्यते, हंसो जीवो यस्मात्, यद्वा हिनस्ति निरस्यति निखिलान्दोषानिति हंसः पृषोदरादित्वात्साधुः । परमो निरतिशयकल्याणगुणगणञ्चासौ हंसो निरस्तनिखिल- दोषस्तस्मै, परमगुरवे निरतिशयोपदेष्ट्र, आत्मारामाय नित्यासंकुचिता परिच्छिन्नानन्दरूपं स्वात्मानुभवपराय नमः । अधिपतये ‘एष भूताधिपतिः’ इति श्रुत्या भूताधिपतित्वेनोक्ताय नमः । नमस्कारावृत्तिर्गुणभेदाभिप्राया इति ॥ ११ ॥ ॐ ॐ इदं
- वक्ष्यमाणं स्तुतिरूपं श्लोकचतुष्टयं गायति पठतीत्यर्थः । कर्त्तेति । यः भवान्, अस्य कृत्स्नस्य चिदचिदात्मकस्य जगतः सर्गादिषु । । सृष्टिस्थितिलयेषु कर्त्तापि कर्तृत्वभाक् सन्नपि न बध्यते । तथा देहगतः अपि देहिकैः देहसंबन्धप्रयुक्तः क्षुत्पिपासादिभिः । सुखदुःखादिभिर्वा, न हन्यते अभिहतो ने भवति । एवं द्रष्टुः सतः अपि यस्य दृक् दृष्टिः, गुणैर्हश्यैः न विदूष्यते न विक्रियते अत एव असतो रागादिरहितश्वासी विविक्तोऽसहायः स्वतुल्याधिकद्वितीयवस्तुरहितः, स चासौ साक्षी चेतनाचेतनात्मक जगतो दृष्टा च तस्मै, तस्मै नमः ॥ १२ ॥ * परमात्मनस्तव भक्तिरेव, जीवस्य संसृतिनिरसनोपायः एतदेव योगिनां योग- कौशल्यमिति द्वयं निरूपयन्नाह । इदमिति त्रिभिः । इदमिति । हे योगेश्वर, हिरण्यगर्भः भगवान् यत्, योगे नैपुणं योगकोशल्यं जगाद तत्, इदं हि इदमेव, किं तदित्यत्राह । उज्झितं दुष्कलेवरं तदभिमानो येन सः, उपेक्षितसशरीराभिमानः सन् कलेवरशब्द- स्तदनुबन्धिनामप्युपलक्षकः । पुमान् अन्तकाले स्वान्त कालपर्यन्तं भक्तथा ध्यानयोगेन, निर्गुणे मायिकगुणवर्जिते, त्वयि मनः दधीत धारयेत् स्थिरं कुर्यादिति यदेतदिति संबन्धः ।। १३ ।। संबन्धः ॥ १३ ॥ * * एवं देहाद्युपेक्षया परमात्मभक्तिरेव जीवस्यानर्थपरिहा रिणीत्युक्तमिदानीमुक्त विधभक्तिरहितस्य केवलः शास्त्राध्ययनादिप्रयासः निष्फल एवेत्याह यथेति । ऐहिकाः आमुष्मिकाः स्वर्गसुखादयो ये कामास्तेषु लम्पट आसक्तः, सुतेषु पुत्रेषु दारेषु पत्न्यां, धनेषु चिन्तयन् तदनपायोपार्य ध्यायन्नि । । तथा यः त्यर्थः । अज्ञः यथा कुकलेवरात्ययात् मृत्योः शङ्केत, हा हा एतत्सर्व त्यक्त्वा मरिष्यामीति शङ्कां प्राप्नुयादित्यर्थः । तत । मरण- विद्वानधीतसच्छास्त्रः सन्नपि शङ्केत तर्हि तस्य विदुषः, यः यत्नः शास्त्राध्ययनादिरूपः प्रयासः, स केवलं तस्य श्रम एव । मरण भीतस्य शास्त्रश्रमी निष्फल इत्यर्थः ॥ १४ ॥ ॐ तन इति । यस्माद्विदुषोऽपि इयमेव दशा तत्तस्मात्, हे प्रभो अधोक्षज, त्वं त्वयि स्वभावज योग विधेहि सम्पादय । त्वत्प्रसादादेव नो योगसिद्धिरिति भावः । येन योगेन, वयं त्वन्मायया नः, कुकलेवरे अर्पितामाहिता, सुदुर्भिदामुपायान्तरैः सर्वदा त्यक्तुमशक्या, अहममतामहङ्कारममकाररूपामविद्या, आशु भिन्द्याम संत्यजेम । त्वत्प्रसादायत्तत्वद्भक्तियोग एवानर्थनिवर्त्तक इति भावः ॥ १५ ॥ ॐ * एवं भारते उपास्यभगवद्रूपादिकमुक्तमथास्मिन्नेव वर्षे प्राधान्येन पुण्यतमान् पर्वतान्नदीच प्रवनादो पर्वतान् संग्रहेणाह भारतेऽपीति । इलावृतवत, अस्मिन् भारते वर्षे अपि, इलावृतवदिति अपिशब्देनाभिहितम् । सरिच्छलाः, सरितः शैलाश्चेत्यर्थः । बहवः सन्ति । तत्र शैलानाह । मलयः, मङ्गलप्रस्थः, मैनाकः, त्रिकूटः, ऋषभः, कूटकः, कोलकः, सहाः, देवगिरिः, ऋष्यमूकः, श्रीशैलः, बेङ्कटः, महेन्द्रः, वारिधारः, विन्ध्यः, शुक्तिमान, ऋक्षगिरिः, पारियात्रः, द्रोणः, चित्रकूटः, गोबर्द्धनः, रैवतकः, ककुभः, नीला, गोकामुखः, इन्द्रकीलः, कामगिरिः इत्येते अन्ये च शतसहस्रशः शतशः सहस्रशश्च शैलाः सन्ति । तेषां पर्वतानां नितम्बप्रभवाः कटजसम्भूताः, नदाः नद्यश्च असंख्याताः सन्ति ||१६|| …
।
- तन्न भाषानुवादः पुत्रान्नादयः भारतवर्षमें भी भगवान् दयावश नर-नारायणरूप धारण करके संयमशील पुरुषोंपर अनुग्रह करनेके लिये अव्यक्तरूपसे कल्पके अन्ततक तप करते रहते हैं। उनकी तपस्या ऐसी है कि जिससे धर्म, ज्ञान, वैराग्य, ऐश्वर्य, शान्ति और उपरतिकी उत्त- रोत्तर वृद्धि होकर अन्तमें आत्मस्वरूपकी उपलब्धि करा सकती है ॥ ९ ॥ वहाँ भगवान् नारदजी स्वयं श्रीभगवान् के ही कहे हुए सांख्य और योगशास्त्र के सहित भगवन्महिमाको प्रकट करनेवाले पाचरात्रदर्शनका सावर्णि मुनिको उपदेश करनेके लिये एक. ५ अ. १९. लो. १७-२४ ] अनेकव्याख्यासमलंकृतम् પરણે भारतवर्षकी वर्णाश्रमधर्मावलम्बिनी प्रजाके सहित अत्यन्त भक्तिभावसे भगवान् श्रीनर-नारायणकी उपासना करते और इस मन्त्र का जप तथा स्तोत्रको गाकर उनकी स्तुति करते हैं ॥ १० ॥ * ‘ओङ्कारस्वरूप, अहङ्कारसे रहित, निर्धनों को धन, शान्तस्वभाव ऋषिप्रवर भगवान् नर-नारायणको नमस्कार है। वे परमहंसोंके परम गुरु और आत्मारामोंके अधीश्वर हैं, उन्हें बार-बार नमस्कार है’ ।। ११ ।। # * यह गाते हैं जो विश्वकी उत्पत्ति आदिमें उनके कर्त्ता होकर भी कर्तृत्व के अभि- मानसे नहीं बँधते, शरीरमें रहते हुए भी उसके धर्म भूख-प्यास आदिके वशीभूत नहीं होते तथा द्रष्टा होनेपर भी जिनकी दृष्टि दृश्यके गुण दोषोंसे दूषित नहीं होती- उन असङ्ग एवं विशुद्ध साक्षिस्वरूप भगवान् नर-नारायणको नमस्कार है ॥ १२ ॥ * * योगेश्वर ! हिरण्यगर्भ भगवान् ब्रह्माजीने योगसाधनकी सबसे बड़ी कुशलता यही बतलायी है कि मनुष्य अन्तकाल में देहाभिमानको ! छोड़कर भक्तिपूर्वक आपके प्राकृत गुणरहित स्वरूपमें अपना मन लगाबे ॥ १३ ॥ * लौकिक और पारलौकिक भोगों के लालची मूढ़ पुरुष जैसे पुत्र, स्त्री और धनकी चिन्ता करके मौतसे डरते हैं-उसी प्रकार यदि विद्वान को भी इस निन्दनीय शरीर के छूटनेका भय ही बना रहा, तो उसका ज्ञानप्राप्तिके लिये किया हुआ सारा प्रयत्न केवल श्रम ही है ॥ १४ ॥ ह || 83 अतः अधोक्षज ! आप हमें अपना स्वाभाविक प्रेमरूप भक्तियोग प्रदान कीजिये, जिससे बद्धमूल हुई दुर्भेद्य अहंता-ममताको हम तुरंत काट डालें’ ।। १५ ।। राजन् ! इस भारतवर्ष में भी बहुत-से पर्वत और नदियाँ हैं-जैसे मलय, मङ्गलप्रस्थ, मैनाक, त्रिकूट, ऋषभ, कूटक, कोल्लक, सहल, देवगिरि, ऋष्यमूक, श्रीशैल, वेङ्कट, महेन्द्र, वारिधार, विन्ध्य, शुक्तिमान्, ऋक्षगिरि, पारियात्र, द्रोण, चित्रकूट, गोवर्धन, रैवतक, ककुभ, नील, गोकामुख, इन्द्रकील और कामगिरि आदि । इसी प्रकार और भी सैकड़ों-हजारों पर्वत हैं । उनके तटप्रान्तोंसे निकलनेवाले नद और नदियाँ भी अगणित हैं ।। १६ ।।
- एतासामपो भारत्यः प्रजा नामभिरेव पुनन्वीनामात्मना चोपस्पृशन्ति ॥ १७ ॥ चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयखिनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः शोणथ नदौ महानदी वेदस्मृतिर्ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोध खती सप्तवती सुषोमा शतद्र्वन्द्रभागा मरुदूवृधा वितस्ता असिक्री विश्वेति महानद्यः ॥ १८ ॥ अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन खारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्वच आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गथापि भवति ।। १९ । योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्ति- योगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः ।। २० ।।
- एतदेव हि देवा गायन्ति-
- ॥
- SEVEN TEST PETS के
- अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारता जिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ।। २१ ।। किं दुष्करैर्नः क्रतुभिस्तपोत्रतैर्दानादिभिर्वा चुजयेन फल्गुना । sar न यत्र नारायणपादपङ्कजस्मृतिः प्रष्टातिशयेन्द्रियोत्सवात् ॥ २२ ॥
- पायुषां स्थानजयात्पुनर्भवात् क्षणायुषां भारतभुजयो वरम् । क्षणेन मत्येन कृतं मनस्विनः संन्यस्य
- कृतं मनखिनः संन्यस्य संयान्त्यभयं पदं हरेः ।। २३ ॥ न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः ।
- ।
- न यंत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४ ॥
- ॐ नमो भगवते उपशमशीलायोपरतानाम्याय नमोऽकिञ्चन वित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारा-
- ति
- माधिपतये नमो नम इति
- १. प्रा० पा०—चन्द्रवंश्या ।
- ५. प्रा० पा० - शुषोमा। ६. प्रा० पा०
- RE FEETim
- FIRST A
- २. प्रा० पा०— वेन्ता । ३. प्रा० पा०—ईपद्वती अन्धः शोणश्च । ४. प्रा० पा०—रोभवती । तेऽजिरें । .
- ।
- ४२८.
- श्रीमद्भागवतम्
[ स्क. ५ अ. १९ श्लो. १७-२४ अन्वयः—भारत्यः प्रजाः नामभिः च एव पुनन्तीनाम् एतासाम् अपः आत्मना उपस्पृशन्ति ॥ १७ ॥ * * चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावत तुंगभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिंधुः अंधः शोणः च नदौ महानदी वेदस्मृतिः ऋषिकुल्या त्रिसामा कौशिकी मंदाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रः चन्द्रभागा मरुदूधा वितस्ता असिवनी विश्वा इति महानद्यः ॥ १८ ॥ * * अस्मिन् एव वर्षे लब्धजन्मभिः पुरुषैः शुक्कुटोहितकृष्णवर्णेन स्वारथेन कर्मणा बधः || || दिव्यमानुषनारकगतयः आत्मनः आनुपूर्येण विधीयन्ते हि सर्वाः एव सर्वेषाम् यथावर्णविधानम् अपवर्गः च अपि भवति ।। १९ ।। * * यः असौ भगवति सर्वभूतात्मनि अनात्म्ये अनिरुक्ते अनिलयने परमात्मनि वासुदेवे अनन्यनिमित्त- भक्तियोगलक्षणः नानागतिनिमित्ताविद्याग्रन्थिरंधनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः ।। २० ।। * * देवाः एतत् हि एव गायन्ति अहो अमीषाम् शोभनम् किम् अकारि उतस्वित् एषाम् हरिः स्वयम् प्रसन्नः यैः भारताजिरे मुकुन्दसेवौपयिकम् जन्म नृषु हि नः स्पृहा भवति ॥ २१ ॥ नः दुष्करैः क्रतुभिः वा तपोव्रतैः दानादिभिः फल्गुना द्युजयेन किम् यत्र नारायणपाद- पङ्कजस्मृतिः न अतिशयेन्द्रियोत्सवात् प्रमुष्टा ॥ २२ ॥ * * कल्पायुषाम् पुनर्भवात् स्थानजयात् क्षणायुषाम् भारतभूजयः वरम् मनस्विनः क्षणेन मर्त्येन कृतम् संन्यस्य अभयम् हरेः पदम् संयान्ति ॥ २३ ॥ * * यत्र वैकुंठकथासुधापगा न तदाश्रयाः भागवताः साधवः न यत्र महोत्सवाः यज्ञेशमखाः न सः सुरेशलोकः अपि न वै सेव्यताम् ॥ २४ ॥ ।। ! ॥ M न Sma श्रीधरस्वामिविरचिता भावार्थदीपिका - ि اتر آیا आत्मना च देहेनाप्युपस्पृशन्ति ।। १७-१८ ।। लब्धं जन्म यैस्तैः पुरुषैः । सात्त्विकादिना स्वकृतेन कर्मणा दिव्यादिगतय आत्मनो विधीयन्ते साध्यन्ते । हि यस्मात् सर्वा एवं गतयः कर्मानुसारेण सर्वेषां भवन्ति यस्य वर्णस्य यद्विधानं मोक्षप्रकारः संन्यासवनस्थत्वादिस्तदनतिक्रमेणास्मिन्नेव वर्षे नृणामपवर्गश्च भवति । एतच्च कर्मादि बहुसाधनसंभवाभिप्रायेणोक्तं त्वन्यत्रापवर्गाभावेन । तदुपर्यपि बादरायणः संभवादिति देवानामपि मोक्षस्य सूचितत्वात् ॥ १९ ॥ * * अपवर्ग- स्वरूपमाह योऽसाविति । अनात्म्ये आत्मनि भवमात्म्यं रागादि तद्रहिते । अनिरुक्ते वाचामगोचरे । अनिलयनेऽनाधारे अनन्यनिमित्तोऽहैतुजो भक्तियोग एवं लक्षर्ण स्वरूपं यस्य । कथं भवति । नानागतीनां निमित्तं यो विद्याग्रन्थिस्तस्य रन्धनं छेदनं तद्वारेण महापुरुषपुरुषा विष्णुभक्तास्तैः प्रकृष्टः संयोगो यदा भवति तदा || २० || एतदेव मानुष्यमेव सर्व- पुरुषार्थंसाधनं गायन्ति । अमीषामेभिः। उत खित् । अथवा स्वयमेव साधनं विनैव हरिरेषां प्रसन्नोऽभूव । एवंभूतस्य पुण्यस्य दुष्करत्वात् । भारताजिरे, भारतांगणे नः केवलं स्पृहैव यत्र तन्मुकुन्दसेवोपयोगि नृषु जन्म यैर्लब्धम् ॥ २१ ॥ * ॥२१॥ * स्पृहामेवाहुः किमित्यादिसप्तभिः दुष्करैः क्रत्वादिभिर्नः फल्गुना तुच्छेन द्युजयेन स्वर्गप्राप्त्या किं न किंचित्फलं कुतः यत्र नारायणपादपंकज स्मृतिर्नास्ति । प्रत्युतातिशयितादिन्द्रियाणामुत्सवाद्भोगात्प्रमुष्टाऽभूत् ॥ २२ ॥ क्षणमल्पमे वायुर्येषाम् । वरत्वे हेतुः । मर्त्येनापि देहेन क्षणेनैव कालेन कृतं कर्म संन्यस्य हरेः पदं सम्यग्यान्ति ॥ २३ ॥ * * अतो यत्र वैकुण्ठकथामृतनद्यो न सन्ति तदाश्रयाः कथाश्रयापगा महान्तो नृत्याद्युत्सवा येषु तादृशा यज्ञेशस्य मखाश्च पूजाः । स सुरेशस्य ब्रह्मणोऽपि लोको न सेव्यताम् ।। २४॥ ॥ । श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः * * एतासां भारतस्थानां नामभिर्नामोच्चारणमात्रेणैव गंगा गंगेति यो ब्रूयात्’ इत्युक्तन्यायेन ॥ १७ ॥ * * काश्चि- श्रामतोऽपि निर्दिशति - नर्मदेति । चर्मण्वत्या विशेषणं तेन न पौमरवत्यं कचिद् द्वयोरेकतरा एव पठितास्ति । अन्धो ब्रह्मपुत्रः ॥ १८ ॥ * * तदनतिक्रमेण यथा ब्राह्मणस्य चत्वार आश्रमाः । क्षत्रियस्य त्रयो बिना संन्यासम् । वैश्यस्य द्वौ विना वानप्रस्थसंन्यासी । शूद्रस्यैको गृहस्थाश्रम एवं नान्ये त्रयस्तस्यावैदिकत्वादिति निर्णीतमस्माभिराद्यपद्यव्याख्याशतके । एतच्च भारत एवापवर्गकथनं च । अन्यत्र भारतेतरवर्षेषु स्वर्गादिषु चापवर्गो नास्तीत्यभिप्रायेण नोक्तम् । अन्यत्रापि तत्सत्त्वे पारमष सूत्रं प्रमाणयति - तदुपर्यपीति । देवादीनां ब्रह्मविद्याधिकारोऽस्ति नास्ति वेति सन्देह आह तेषां मनुष्याणामुपरि ये देवादयस्तेषामपि आह-तेषां ब्रह्मविद्याधिकारोऽस्ति । संभवात् अर्थित्वसामर्थ्याद्यधिकारकारणस्य संभवात् । इति बादरायणो मन्यत इति सूत्रार्थः । अत्र विश्वनाथः – अस्मिन्नेव वर्षे नान्यत्र तत्रापि सहस्रयोजनप्रमाणे प्रदेश एवेति ज्ञेयम् । तदुक्तं विष्णुपुराणे – “भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥ नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्वीपः सागरसंभृतः ।। योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात्” सागरसंभृत इति । समुद्रप्रांतवर्त्तीति श्रीस्वामिव्याख्या नवमस्यास्य पृथङ्नामाकथनान्नाम्नापि नवद्वीपोऽयमिति गम्यते । विशेषश्च तत्रैव “पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्मृताः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । उण्ड्राः कलिंगा मगधा दाक्षिणात्याश्च कृत्स्नशः । मारुका मालवाश्च” इत्यादि । " चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापर कलिश्चान्यत्र न क्वचित् ॥” इति । वायवीये च “भारतस्यास्य वर्षस्य नवस्क. ५ अ. १९ श्लो. १७-२४ अनेकव्याख्यासमलङ्कृतम् i भेदान्निबोधत । सागरांतरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥” इति । शुक्ललोहितकृष्णवर्णेन सात्त्विक राजसतामसेन कर्मणा क्रमेण दिव्यादिगतयो बह्वयः आत्मनः स्वस्य विधीयन्ते साध्यन्ते । हि यस्मात्सर्वा एव गतयः सर्वेषां यथावर्णविधानमिति वर्णानां धर्मस्याधर्मस्य च करणं संभवेदिति विधीयन्ते वेदेनेति शेषः । तथाऽपवर्गश्चेति तस्य विधातुमशक्यत्वात्स स्वयमेव भवतीति चकारेणापवर्गस्य वैरल्यं द्योतितमिति ।। १९ ।। * ननु किंस्वरूपोऽपवर्गः कदा वा भवेदित्याकांक्षायामपवर्गस्वरूपमाह- भगवति परमकल्याणसौन्दर्यादिगुणवति अत एव सर्वभूतानामात्मा मनो यत्र माधुर्येण सर्वभूतचित्ताकर्षके इत्यर्थः । अनिलयने लयरहिते वा वासुदेवे श्रीनन्दनन्दने ॥ २० ॥ ननु दुरात्मनामपि तत्र जन्म दृश्यतेऽतो विशिषन्ति मुकुंदसेवाया उपयोगिब्राह्मणादिजन्मेत्यर्थः ॥ २१ ॥ * * ननु भवद्भिरपि भारते जन्म प्राप्यैव सत्कर्मभिर्दिवि सुखमुपभुज्यते इति चेद- स्माकं तज्जन्म धिक् तत्प्राप्यं दिवमपि धिक् तत्रत्यं सुखमपि धिगित्याद्यभिव्यंजयन्त आहु:– किमिति । यत्र दिवि ।। २२ ।। * * ब्रह्मलोकादपि भारतभूमेरुत्कर्षः खल्वपूर्वं एवेत्याहुः - कल्पायुषामिति । ब्रह्मलोके द्विपरार्द्धपर्यन्तनिवासादपि भारतभूमौ क्षणमात्रं वासोऽपि श्रेष्ठ इत्यर्थः । तत्र हेतुः — पुनर्भवाद् ब्रह्मलोके तावान्वासोऽपि पुनर्भवप्रद इत्यर्थः । भारते तु मत्येंन मरणधर्म केणापि देहेन मनस्विनो भगवच्चरणदत्तमनसः हरेः पदं वैकुण्ठं ब्रह्मलोकमूर्धन्यपि पादौ निधाय कृतं शुभाशुभं सर्वमपि कर्म संन्यस्य त्यक्त्वा ‘यत्करोषि यदश्नासि’ इति प्रोक्तन्यायेन भगवति समयेत्यर्थः । “एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्म- विनाशाय कल्पन्ते कल्पिताः परे ।” इत्युक्ते भगवदर्पितकर्मणां मोक्षहेतुत्वश्रवणादिति भावः ।। २३ । * * यतस्तत्र हरिकथादि नास्ति अतो हेतोरिति स्वामी । विवेकिनामयमेव विवेक इत्याहुः - नेति । सुधेव सर्वत आधिक्येन स्वाद्वी तदापगेव भूयसी न तु ज्ञानयोगादिकथेव श्रव्याऽल्पीयसी च । भागवता भगवदालम्बिनः । तदाश्रयास्तामेवाश्रयन्ते न तु परमात्मालम्बिनः ज्ञानादिसिद्धयर्थं तां किचिन्मात्रीमपेक्षमाणाः । यज्ञानां ब्रह्मयज्ञादीनामांगिरस बृहस्पतिसवादीनामन्येषामपीशस्य हरेर्मखाः “यज्ञेः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः” इति प्रमाणोक्तलक्षणाः संकीर्त्तनबहुलाः परिचरणरूपाः महान्त उत्सवा गीतनृत्यवाद्यभक्त्या - राधनाद्या येषु ते यत्र न सन्ति स सुरेशस्य ब्रह्मणोऽपि लोको न सेव्यतां नाश्रीयताम् ।। २४ ।। श्रीमद्वीरराघवव्याख्या एतासां नदनदीनाम् आपो जलानि भारत्यः भरतवर्षस्थाः प्रजाः कर्म पूर्वसवर्णदीर्घाभाव आर्षः, नामभिरेव पुनन्ति नामभिरेव पवित्रयन्ति हि । “गङ्गा गङ्गेति यो ब्रूयाद्येोजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ||” इत्याद्यभि- युक्तस्मरणमत्रानुसन्धेयं, या आपो नामभिरेव पुनन्ति प्रजास्ता अपः प्रजा आत्मना देहेनापि स्पृशन्ति । यद्वा भारत्यः भरतवर्ष- स्थपुण्याचापो नामभिरेव प्रजाः पुनन्ति नामतः आपः प्रजा आत्मना देहेनापि स्पृशन्तीत्यन्वयः । नदीरुद्दिशति चन्द्रमसेत्यादिना विश्वेत्यन्तेन । सिन्धुः शोणश्च नदावित्याह सिन्धुः शोणश्च नदाविति । कावेर्याः पृथगुक्तत्वान्मरुवृधेति नद्यन्तरपरः गोबली- बन्यायात् गङ्गा तु पूर्वं प्रपञ्चितैवेत्यत्रानुक्तेति बोध्यम् ।। १७-१८ ।। * * अस्य भारतवर्षस्य प्राशस्त्यप्रतिपादनपरानभि- युक्तैर्गीतान् श्लोकान् वक्ष्यन्नस्य प्राशस्त्ये कारणमाह अस्मिन्नेवेत्यादिना प्रसङ्ग इत्यन्तेन गद्येन । अस्मिन्नेव वर्षे भारते लब्धं जन्म विप्रादिजन्म येस्तैः पुरुषैः शुललोहितकृष्णवर्णेन सत्त्वरजस्तमोगुणकल्पितकुशलमिश्ररूपेण स्वारब्धेन स्वकृतेन कर्मणा बह्वयः दिव्यादिगतयः तत्र शुक्कुकर्मणा दिव्यगतिः रजःकर्मणा मनुष्यलोकगतिः तामसकर्मणा नारकगतिः । तथा च भगवता गीतम् ‘ऊर्ध्वं गच्छन्ति सवस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृतिस्था अधो गच्छन्ति तामसाः ।।’ इति अत्रापि तृतीये उक्तम् “आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजःस्वभावेन” इत्यादिना । एवं दिव्यादिगतय आत्मनः स्वस्य विधीयन्ते हि यस्मात्सर्वा एव गतयः आनुपूर्व्येण कर्मानुसारेण सर्वेषां भवन्ति, सर्वेषामविशेषेण त्रैगुण्यवश्यत्वाद् गुणानां हासोल्लादिभिः कृतानि कर्माणि दिव्यादिगतीः सर्वाः सर्वेषामापादयन्तीत्यर्थः । एवमस्मिन्नेव वर्षे यथावर्णविधानं यस्य ब्रह्मक्षत्रियादेः यद्विधानम् “शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ शौर्यन्तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥” इत्यादिविधानं गुर्वनलशुश्रूषा पञ्चमहायज्ञादिरूपविधानं च तदनतिक्रम्य यथावर्ण- विधानमनभिसंहितफलस्वस्ववर्णाश्रमोचितकर्मानुष्ठानानुगृहीतभक्तियोगेनेत्यर्थः, अपवर्गो मोक्षश्च भवति । एतचात्र वर्षे मोक्षसाधन- बहुधर्मानुष्ठानसम्भवाभिप्रायेणोक्तं न त्वन्यत्रापवर्गसाधनधर्मानुष्ठानासम्भवाभिप्रायेण । “तदुपर्यपि बादरायणः सम्भवात् " इत्युपरितन लोकेष्वपि ब्रह्मविद्याधिकारस्य भगवता बादरायणेनैव सूत्रितत्वात् सूत्रे तदुपर्यपीति रम्यकादिवर्षाणामयु- पलक्षणम् ॥ १९ ॥ * * ननु यथावर्णविधानं कदापवर्गो भवति को वा स्वस्ववर्णाश्रमोचितो धर्मः साक्षादपवर्गसाधनमुत कस्य- चिदनुग्राहकः, अनुग्राहकश्चेत् कोऽसावनुग्राह्यः कथं वा अनुग्राहकः अनुग्राह्यश्व कीदृशः अनुग्राह्यविषयश्च कीदृश इत्याशङ्कयाह योऽसाविति । यदा ह्यविद्याग्रन्थिरन्धनद्वारेणा विद्यापुण्यपापात्मकं कर्म भक्तियोगोत्पत्तिविरोधिप्राचीनकर्म तद्न्धनद्वारेण तन्निर- सनद्वारेण महापुरुषो भगवान् तस्मिन् प्रसङ्गो भवति तदा यथाविधानमपवर्गश्च भवतीत्यन्वयः । “धर्मेण पापमपनुदति, कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तत” इति श्रुतिस्मृत्युक्तरीत्या स्वस्ववर्णोचितानभिसंहितफलकर्मानुष्ठानेना विद्याग्रन्थिनिरसनं तद्द्वारेण महापुरुषे प्रसङ्गः प्रकृष्टः सङ्गः विजातीयप्रत्ययान्तरात्मवतो ध्यानरूपो मनोव्यापारो भवति तदापवर्गो भवतीत्यर्थः । अविद्याशब्दोऽत्र पत । श्रीमद्भागवतम् * [स्क. ५ अ. १९ श्लो. १७-२४ पुण्यपापात्मककर्मपरः, तदेव कर्म " अविद्यया मृत्युं तीर्त्वा विद्यया मृतमश्नुते । इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्म- विद्यामधिष्ठाय ततु मृत्युमविद्यया ।।” इत्यादिषु मृत्युशब्देनाभिधीयते अविद्यया मृत्युमित्यादावविद्याशब्देनानभिसंहित फलं वर्णाभ- मोचितं कर्मोच्यते । विद्येतरदन्यथा मृत्युतरणोपायत्वश्रवणविरोधात्तत्राविद्याशब्दस्थानीयोऽत्र यथा वर्णविधानशब्दः तत्रत्यमृत्युशब्द- स्थानीयोत्राविद्याशब्दः । अविद्याशब्दो हि विद्येतरदविद्याकर्मेत्येवं कर्ममात्रे वर्तमानो यथोचितं कचिदनभिसंहितफलं वर्णाश्रमोचितं विहितं कर्माभिदधाति कचिदून्धकं कर्मेति विवेकः । महापुरुषप्रसङ्ग विशिनष्टि । अनानागतिनिमित्तः नानागतिः स्वर्गनरकादिगतिस्त- निमित्तो न भवतीत्यनानागतिनिमित्तः स्वर्गादिगतिनिवारकः मोक्षसाधनमिति भावः । निमित्ताविद्याप्रन्थीति पाठे नानागतिनिमित्तेति छेदः, स्वर्गनरकादिनानागतिनिमित्तभूता याविद्या तद्रूपो यो प्रन्थिस्तस्य रन्धनद्वारेणेत्यर्थः । प्रन्थिशब्देनाविद्याया दुर्मोचनीयत्व- मभिप्रेतं, न विद्यते अन्यदेहिकामुष्मिकरूपं निमित्तं फलं यस्य अनन्यनिमित्तः निष्काम इत्यर्थः, स चासौ भक्तिलक्षणो भक्तिरूपश्चेति कर्मधारयः । एवं यदाहीत्यस्योत्तरमुक्तं वर्णाश्रमधर्मस्य भक्तियोगानुग्राहकत्वं तत्प्रकारचोक्तः । अविद्याग्रन्थिरन्धनद्वारेणेत्यनेन महापुरुषप्रसङ्ग इत्यन्तेन वानुग्राह्यं वोक्तम् । अनन्यनिमित्तभक्तियोगलक्षण इत्यनेनानुग्राह्याकारश्वोक्तः । महापुरुषपुरुषप्रसङ्ग इति पाठे महापुरुषाणां प्रकृष्टः सङ्गो यस्य सः भक्तियोगलक्षण इत्यर्थः । अथानुग्राह्यविषयं महापुरुष इत्यनेनाभिप्रेतं दर्शयति सर्वभूतात्मनेत्यादिना । यद्यपि सर्वभूतात्मवासुदेवशब्दयोस्तुल्यार्थता तथापि देवताविशेषं निर्दिधारयिषया वासुदेव इत्युक्तं वासुदेवशब्दावयवार्थ प्रदर्शनाय सर्वात्मनीत्युक्तम् । इत्यतो न पौनरुक्त्यं, भक्तियोगविषयं चिदचिद्विलक्षणत्वेन विशिष्टमनात्म्ये इति - आत्मनो भावः प्रकारः अप्रथसिद्धविशेषगं शरीरमात्म्यं ततोऽन्यस्मिन् । स किं जीवः नेत्याह । अनिरुक्ते देवमनुष्यादिनाम- रूपाभ्यामनिरुक्त अनात्म्ये इत्यचेतनव्यावृत्तिः, अनिरुक्त इति बद्धजीव व्यावृत्तिः, स तर्हि किं मुक्तजीवो नेत्याह । अनिलयने आधारान्तरानपेक्षाय अनेन मुक्तजीवव्यावृत्तिः । तेषां हि भगवानाधारः “ब्रह्मभूयाय कल्पते, ब्रह्मणो हि प्रतिष्ठाहम्” इत्युक्तत्वात् अत्र ब्रह्मशब्दो मुक्तजीवपर औचित्यात् स तर्हि नित्यसिद्धः नेत्याह परमात्मनीति | अक्षरशब्दवाच्याभ्यां मुक्तनित्यसिद्धाभ्यां क्षरशब्दवाच्याद्वद्धचेतनाञ्च योऽन्यत्वेन गीतः परमात्मा । “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽ- क्षर उच्यते ।। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।” इति तस्मिन्नित्यर्थः । एवंविधे भगवति षाड्गुण्यपूर्णे निरस्तनिखिल दोषे योऽसावनन्यनिमित्तभक्तियोगलक्षण इत्यन्वयः ॥ २० ॥ * * एवं स्वर्गापवर्गसाधनभूतबहुविधधर्मानुष्ठानोपयुक्त- प्रदेशत्वादस्य वर्षस्य प्राशस्त्यप्रतिपादनपरान् श्लोकान् वक्तुं तेषामविगीततां दर्शयति एतदेव हीति । एतद्वर्षं प्राशस्त्यं गायन्ति देवा इति शेषः । श्लोकानेवाह अहो इत्यादिना । अमीषामेभिः कर्तुः सम्बन्धविवक्षया षष्ठी, किं शोभनं सुकृतमकारि अहो अपिस्खित् किं स्वयं साधनं विनैव हरिर्भगवान् प्रसन्नः किं निरतिशय सुकृतमेवमेभिः कृतं किं वा स्वयमेवैषां भगवान् प्रसन्न एवंरूपस्य धर्मस्य दुष्करत्वादिति वितर्त्यते क इसे इत्यत्राह । यैर्जीवैः भारताज़िरे भारतवर्षाङ्गणे भारतप्रदेश इत्यर्थः । । एवम्भारताजिरस्य यत्रापि नृजन्मनश्च प्राशस्त्यमुक्तं तंत्र कारणं मुकुन्दसेवौपथिकमित्युक्तम् ।। २१ ।। वर्षान्तरस्थानां लोकान्तर स्थानां मनुष्याणां भगवत्सेवानुपयुक्ति वदंस्तान्निन्दन्ति त्रिभिः किमिति । दुःखेनापि कर्तुमशक्यैः क्रतुभिस्तपोत्रतैः तपः- सहितैर्वा व्रतैः तपः कृच्छ्रचान्द्रायणादिरूपं व्रतं प्राजापत्यादिकं दानं पात्रेषु द्रव्यत्यागात्मकं कृत्वादिभिस्तत्साध्येन फल्गुनाल्पास्थिर- फलेन युजयेन स्वर्गप्राप्त्या वा किं न किञ्चित्फलं कुतः यत्र स्वर्गादौ श्रीमन्नारायणस्य पादपङ्कजस्य स्मृतिर्नास्ति प्रत्युत निरतिशय- तादिन्द्रियाणामुत्सवात सुखात् स्मृतिः प्रनष्टाभून् । अधिकेन्द्रियोत्सव एव भगवत्सेवाविरोधीति भावः ।। २२॥ * * कल्प- मायुर्येषां पुनर्भवः जन्म यस्य तस्मात्स्थानजयादुपरितन लोकप्राप्तेः आकल्पानुभाव्यसुखोपरिलोकापेक्षयेत्यर्थः, क्षणमल्पमायुर्येषां तेषां भारतभूजयः भारतवर्षप्राप्तिः, जि-जये जय उत्कर्षप्राप्तिः ऊर्ध्वस्थानेषु सुखोत्कर्षप्राप्यपेक्षया भारतवर्षे जन्मला भरूपोत्कर्ष प्राप्तिरूपो जयो वरं श्रेष्ठ इत्यर्थः । भारतभूजय श्रेष्ठ्ये हेतुमाह । अस्थिरेण मन्येन मरणशीलेन शरीरेण कृतं क्रियाजातं संन्यस्य भगवति समर्प्य मनस्विनः प्रशस्तमनसः भगवदुपासकाः सन्तः हरेर भयं न विद्यते भयं कालकृतं जन्मजरामरणादिनिमित्तं यस्मिन् तत्पदं स्थानं श्रीवैकुण्ठरूपं यान्ति । कल्पायुषस्तु कल्पानन्तरं पुनर्भवमेव यान्तीत्यर्थः ॥ २३ ॥ * * अतो यत्र वैकुण्ठस्य भगवतः कथारूपाः सुधापगा अमृतनद्यो न सन्ति तदाश्रया भगवत्कथामुतनदीसेवापरा साधवः साधूनां लक्षणलक्षिता भागवताश्च न सन्ति यत्र च महान्तो नित्यपक्षमाससंवत्सरायनाद्युत्सवा येषां यज्ञेशमखाः यज्ञेशस्य भगवतः “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इति भगवदुक्ते: “इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः” इति श्रुतेश्च तस्य मखा आराधनरूपा यज्ञाः न सन्ति स सुरेशस्य ब्रह्मणो लोकोऽपि सेव्यतां प्राप्यतां न याति प्राप्यो न भवतीत्यर्थः ॥ २४ ॥ PIHDRPSTA OB श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली । " आत्मा कायेनान्तरेण उपस्पृशन्ति आचमनस्नानाभ्यामिति शेषः ।। १७-१८ ।। * पुण्यपापार्जनं सत्वादिगुणैः क्रियते तत्फलभूताः स्वर्गादिगतयोऽपीत्याह अस्मिन्नेवेति । शुकुलोहित कृष्णवर्णेन सात्त्विक राजसतामस भेदभिन्नेन स्वारब्धेन स्वफलदानायोपकान्तेन खर्गादिसतय आनुपूर्व्येण पर्यायणात्मनः परमात्मनः प्रेरणया सर्वेषां विधीयन्ते यथावर्णविधानं वर्णाश्रमविहितानुसारेण । ननु भारतीनां प्रजानां यदि तिस्रो गतयस्तर्हि निजानन्दाविर्भावलक्षणो मोक्षो दुरवस्थः किमिति तत्राहु • श्लो. १७-२४ ] १९ इ अनेकव्याख्यासमलङ्कृतम् अपवर्गश्चेति । न केवलं स्वर्गादिगतयोऽपि तु संसारदुःखनिवारणसमर्थो मोक्षश्चेति चशब्दार्थः ।। १९ ।। $ * अपि- शब्दाद्यदा महतां पुरुषाणां श्रीनारायणपरायणानां सङ्गतिस्तदा uisit भगवत्यनन्यनिमित्तभक्तियोगलक्षण उपाया भवतीत्यन्वयः । न अन्यदेश्वर्यादिप्राप्तिनिमित्तं यस्य सोऽनन्यनिमित्तः तादृशो भक्तियोगलक्षणस्तस्मात्स्वरूपानन्दाविर्भावलक्षणो मोक्षो भवतीति ज्ञातव्यम् । केन प्रकारेण तदुच्यते नानागतीति पूर्वोक्तानां नानागतीनां निमित्तहेतुभूतो यः अविद्याप्रन्थिस्तस्य रन्धनद्वारेण दहनप्रकारेण भक्तियोगोऽप्येव प्रकारेणोत्पादनीय इति दर्शयति- सर्वभूतात्मनि भूतभवद्भविष्यत्सर्वजगदन्तर्यामिणि अनात्म्ये जीवधर्मरहिते अनिरुक्ते वेदैरपि सर्वात्मना निर्वक्तुमशक्ये अनिलयने अनत्याधारे परा प्रकृष्टा मा श्रीर्येषां ते परमा मुक्ता- स्तेषामध्यानददानादिकर्तरि संज्ञामाह वासुदेव इति । अवताररूपाणामपि मुक्तिदानसामर्थ्यमस्तीति द्योतयितुं वा वासु- देव इति । हिशब्दो भक्त्युत्पत्तौ सत्सङ्गतिः प्रयोजिकेति दर्शयति, भक्तया मुक्तिभवतीत्येतदेव गायन्ति विद्वांसः ॥ २० ॥ एषामिति षष्ठी तृतीयार्थे किं शोभनं कर्म उत स्वित् किं भारतेऽजिरे भारताख्यप्राङ्गणे मुकुन्दसेवायामौपयिक जन्मलक्षणोपायस्तत्र स्पृहात्मभिरिच्छा मनस्कैः ।। २१ ।। * * सुजयेन स्वर्गजयेन यंत्र स्वर्गे श्रीनारायणपादपद्मस्मृतिः प्रमुष्टा, कुतः अतिशयेन्द्रियों- सर्वाद्विषयभोगातिरेकात् स्वर्गस्थान् कर्मिण उद्दिश्येदं वचनं न देवान् तेषां सन्ततहरि स्मरणस्य प्रमाणसिद्धत्वात् ॥ २३ ॥ भारतलब्धजन्मनामपि पुनर्जन्मसम्भवात् कथं भारतभूजयो वर इति प्रशस्यत इति तत्राह क्षणेनेति । मनस्विनः क्षणकालेन मत्येन नश्वरेण देहेन कृतं कर्म हरौ संन्यस्य हरेरभयं पुनर्जन्मभयरहितं पदं संयान्तीति यस्मात्तस्मादिति शेषः । कल्पायुषामित्यनेन महरादिलोकस्था लक्ष्यन्ते “कल्पायुषो विबुधा ये” इति स्वोक्तेः ॥ २३ ॥ * * महरादिलो के विशिष्टभोगसम्भवात् कथं नीचीक्रियते भारतखण्डादिति तत्राह न यत्रेति । यत्र महादिषु तदाश्रयाः श्रीनारायण चरणसरसिज स्मरणजनकाः साधवो रागद्वेषादिदोषलेशशून्या भागवता न सुलभाः यथेहात एव वैकुण्ठकथामृतापगा अपि न, अत एवं विष्णुविषययज्ञाश्र ने सन्ति, तैः प्राप्यफलाभावात् पूर्वचीर्ण कर्म फल भोगोत्सवनं “ध्यायन्तीव देवमनुष्याः” इति श्रुतेः सुरेशस्वामिलोको महरादिः सेव्यतां न याति प्राप्यफलान्तरत्वेनेति शेषः ।। २४ ।। ’ गच्छत्कालत्वेनावसनेषः ॥ ष्णभावाच श्रीमजीवगोस्वामिकृतः कर्मसन्दर्भः। Flouring Fu यथावर्णविधानमिति स्वस्वधर्मार्पणादिक्रमेणेत्यर्थः । एतच प्रायिक यदा हि महापुरुषपुरुषप्रसङ्ग इत्यस्यैव मुख्यत्वेन वक्ष्यमाणत्वात् श्रीनारदजन्मवत् । प्रथम एव तत्प्रसङ्गेन तत्प्रवृत्तेः भक्तियोगलक्षणोऽप्यपवर्गो भवति । किमुतान्य इत्यर्थः ।। २० ।। * । ।
- अहो इति । छत्रिन्यायेन प्राचुर्योक्तिरियम् । तज्जन्मत्वेऽपि केषादिदुष्कर्मत्वतत्प्रसादाविषयत्व- दर्शनात् । किं दुष्करैर्न इत्यादिवक्ष्यमाणाञ्च । स्वयमिति यदा हीति पूर्वोक्तरीत्या स्वपुरुषानुसरणस्वभावेन स्वेनैव साधने- नेत्यर्थः ॥ २१-२२ ॥ * * संन्यस्य हरावयित्वा ॥ ३३॥ यत्रति भगवद्भक्ती भारतभूमिनियमोऽपि ।। ।। || * * न । खंण्डितः, तत्सद्भावे सर्वस्यापि लोकस्य स्तुत्यत्वेनाभिप्रेतत्वात् । किन्तु भारतभूमी तत्प्राचुर्यमस्तीति प्रस्तुता स्तुतिरेव ।। २४-२५ ।। CIPE SITE PI BF Desse BITE श्रीमद्विश्वनाथचक्रदर्तिकृता सारार्थदर्शिनी Frie । आत्मना देहेन च ॥ १७ ॥ * * * अन्धो ब्रह्मपुत्रः ॥ १८ ॥ अस्मिन्नेव वर्षे नान्यत्र । ।। * * तत्रापि सहस्रयोजनप्रमाणे प्रदेशे एवेति ज्ञेयम् । यदुक्तं विष्णुपुराणे “भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥ नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्वीपः सागरसम्भृतः ॥ योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात् ।” सागरसम्भृत इति समुद्र प्रान्तवर्तीति श्रीस्वामिव्याख्या नवमस्यास्य पृथङ्नामाकथनात् नाम्नोऽपि नवद्वीपोऽयमिति गम्यते विशेष तत्रैव “पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्मृताः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । ओडा कलिङ्गा मगधा दाक्षिणात्याश्च कृत्स्नशः ॥ मारुका मालवाश्च” इत्यादि । " चत्वारि भारते वर्षे युगान्यत्र महामुने ! कृतं त्रेता द्वापरख कलिश्चान्यत्र न कचित् ॥” इति वायवीये च । “भारतस्यास्य वर्षस्य नव भेदान्निबोधत । सागरान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ||” इति । शुकुलोहितकृष्णवर्णेन सात्त्विकराजसतामसेन कर्मणा क्रमेण दिव्यादिगतयो बह्वयः आत्मनः स्वस्य विधीयन्ते साध्यन्ते हि यस्मात् सर्वा एक गतयः सर्वेषां यथावर्णविधानमिति वर्णानां धर्मस्य अधर्मस्य च करणं सम्भवेदिति तदनतिक्रम्य आनुपूर्व्येण विधीयन्ते वेदेनेति शेषः । तथा अपवर्गश्चेति तस्य विधातुमशक्यत्वात् स स्वयमेव भवतीति चकारेणापवर्गस्य वैरल्यं द्योतितम् ॥ १९ ॥ * * ननु किस्वरूपोऽपवर्गः कदा वा भवेदित्यपेक्षायामाह योऽसाविति । भगवति परमकल्याणसौन्दर्यादिगुणवति अत एव सर्वभूतानामात्मा मनो यत्र माधुर्येण सर्वभूतचित्ताकर्षक इत्यर्थः । अत एवानात्म्ये आत्मनो भाव आत्म्यं न युज्यते प्राप्यत्वेन आत्म्यं आत्मत्वं यत्र तस्मिन् यत्र आत्मसेव्यत्वमेव युज्यते न तु आत्मत्वमात्मैक्यमित्यर्थः । यन्माहात्म्यं प्राकृतरागादिभिर्निर्वक्तुमशक्यमित्याह । अनिरुक्ते महाप्रलयेऽपि यद्रूपगुणादे- नास्त्यभाव इत्याह । अनिलयने न विद्यते प्राकृतानां तत्त्वानामिव निलयनं लयो यस्य तस्मिन् सर्वेषामात्मा ह्यतिप्रेमास्पदं ततोऽपि परमत्वात् परमात्मनि विशेषणैरेतैर्भजनीयत्वातिशयो व्यञ्जितः । वासुदेवे वसुदेवनन्दनेऽनन्यनिमित्तोऽहेतुको भक्तियोग एव ।। ४३२ श्रीमद्भागवतम् [ स्कं. ५ अ. १९ श्लो. १७२४ लक्षणं स्वरूपं यस्य सः । नन्वपवर्गशब्देन रूढ्या मोक्ष एवोच्यते, सत्यमविद्याध्वंसरूपस्य मोक्षस्य भक्तावन्तर्भावात् भक्तियोगोऽपि मोक्षादिशब्दवाच्य इत्याह । नानागतीनां निमित्तं योऽविद्याप्रन्थिस्तस्य रन्धनं ध्वंसस्तद्वारेण तद्धेतुनैव अपवर्गसंज्ञ इत्यर्थः । कदा महापुरुषस्य विष्णोः पुरुषा भक्तास्तैः प्रकृष्टः सङ्गो यदा तदेव नान्यदा ॥ २० ॥ * * अमीषाममीभिः शोभनं सुकृतमुत स्विदथवा स्वयमेव साधनं विनैव हरिरेषां प्रसन्नोऽभूदेतादृशभाग्यस्य पुण्यजन्यत्वासम्भवादिति भावः । भारताजिरे भारताङ्गणे । ननु दुरात्मनामपि तत्र जन्म दृश्यते इत्यतो विशिषन्ति । मुकुन्दसेवौपयिकं हि यस्मान्नोऽस्माकं केवलं स्पृहैव यत्र न तु प्राप्तिः ।। २१ ॥ * * ननु भवद्भिरपि भारते जन्म प्राप्यैव सत्कर्मभिर्दिवि सुखमुपभुज्यते इति चेदस्माकं तज्जन्म धिक् तानि कर्माण्यपि धिक् तत्प्राप्यं दिवमपि धिग् अत्रत्यं सुखमपि धिगित्यभिव्यञ्जयन्त आहुः । किमिति जयेन स्वर्गप्राप्या किं न किञ्चिदपि फलं कुतः यत्र दिवि नारायणपादपङ्कजस्मृतिर्नास्ति । प्रत्युत अतिशयितादिन्द्रियाणामुत्सवा- द्भागात् स्मृतिः प्रमुष्टा ।। २२ ।। * * ब्रह्मलोकादपि सकाशात् भारतभूमेरुत्कर्षः खल्वपूर्व एवेत्याह कल्पायुषामिति । ब्रह्मलोके द्विपरार्द्धपर्यन्तनिवासादपि सकाशात् भारतभूमौ क्षणमात्रवासोऽपि श्रेष्ठ इत्यर्थः । तत्र हेतुः पुनर्भवात् ब्रह्मलोके तावान् वासोऽपि पुनर्भवप्रद इत्यर्थः । भारते तु मर्त्येन मरणधर्मणापि देहेन क्षणेन क्षणमात्रकालेनापि मनखिनो भगवच्चरणदत्तमनसः हरेः पदमभयं वैकुण्ठं ब्रह्मलोकमूर्म्यपि पादौ निधाय यान्ति कृतं शुभाशुभं सर्वमेव कर्म संन्यस्य परित्यज्य ।। २३ ।। * * तस्माद्विवेकिनामयमेव विवेक इत्याहुः न यत्रेति । वैकुण्ठकथासुधेव सर्वत आधिक्येन स्वाद्वी तदापगेव भूयसी न तु ज्ञानयोगादिकथेव श्रव्या अल्पीयसी च । भागवता भगवदालम्बिनः तदाश्रयाः तामेवाश्रयन्तः न तु परमात्मालम्बिनः ज्ञानादि- सिद्धयर्थं तां किञ्चिन्मात्रीमपेक्षमाणाः यज्ञानां ब्रह्मयज्ञादीनामाङ्गिरसबृहस्पतिसवादीनामप्यन्येषां चेशस्यापि हरेर्मखाः “यज्ञः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः” इति प्रमाणोक्तलक्षणाः सङ्कीर्त्तनबहुलाः परिचरणादिरूपाः महान्तः उत्सवा गीतनृत्यवाद्य- भक्तयाराधनाद्या येषु ते यत्र न सन्ति सः सुरेशस्य ब्रह्मणोऽपि लोकः न सेव्यतां नाश्रीयताम् ।। २४ ।। ।
श्रीमच्छुकदेवकृतः सिद्धांत प्रदीपः नामभिः पुनन्तीनामर्थात् हे गङ्गे ! हे यमुने ! इत्येवं नामाञ्चारणमात्रेणैव पवित्रीभूताः प्रजाः अपः आत्मना च देहेनाप्युपस्पृशन्ति ।। १७-१८ ।। अस्मिन्नेव वर्षे लब्धजन्मभिः शुक्लादिवर्णेन स्वारब्धेन स्वकृतेन कर्मणा आनुपूर्व्येण स्वकर्मानुसारेण दिव्याद्या गतयः सर्वा एव आत्मनो विधीयन्ते साध्यन्ते । किञ्च सर्वेषां वर्णानां यथावर्णविधानं यस्य ब्राह्मणादि- वर्णस्य यद्विधानं मोक्षोपायविधानं तदनतिक्रमेणापवर्गो मोक्षश्चापि भवति । अस्मिन् वर्षे मोक्षसाधनप्राशस्त्यमिति भावः । मुक्त्यधि- कारस्तु देवानामपि दर्शितः । तदुपर्य्यपि बादरायणः सम्भवात्’ इति ॥ १९ ॥ भगवन् ! कोऽसौ उपायः तद्वर्णनं स्वयमेव कृपया कुरु इत्यत्र मोक्षोपायमाह य इति । नानागतिनिमित्तायाः “अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा ।” इति स्मृतिप्रसिद्धायाः पुण्यपापरूपायाः अविद्यायाः ग्रन्थिरन्धनद्वारेण भगवति योऽसौ अनन्यनिमित्तो निष्कामः भक्तियोगलक्षणः इत्यन्वयः । कथम्भूते नास्ति आत्म्यम् आत्मभवं रागद्वेषादि यस्माद्भजनीयात्तस्मिन्ननिरुक्ते - एतावानित्येवं वाचामगोचरे अनिलयने स्वाश्रये स भक्तियोगः यदा महापुरुषस्य भगवतः पुरुषैर्दासैः प्रकृष्टः सङ्गो भवेत्तदा भवति ।। २० ।। * * एतदेव । भरतखण्डजानां कृतार्थत्वम् अमीषामेभिः ॥ २१ ॥ * * फल्गुना तुच्छेन ।। ।। अतिशयेन्द्रियोत्सवान् हेतोः प्रमुष्टा अभूत् अतः नारायणपादपङ्कजस्मृतिरप्यत्र नास्ति ।। २२ ।। ॥ २२ ॥ ॥ २२ ॥ * * क्षणायुषामल्पायुषां क्षणेनाल्पेनायुषा मयेन देहेन कृतं कर्म संन्यस्य अभयमपुनर्भवम् ।। २३-२४ ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ল आत्मना देहेनापि उपस्पृशन्तीत्यनेन यदि तासां नामोच्चारणमात्रेण पावित्र्यं भवति तदा तासु खानपानादिना पावित्र्ये किं वक्तव्यमिति कैमुत्यन्यायो दर्शितो ज्ञेयः ॥ १७ ॥ ** नदीनदानेव दर्शयति- चन्द्रवशेति ।। १८ ।। * * अस्मिन् भारते वर्षे एवं लब्धं जन्म यैस्तैः पुरुषैः स्वारब्धेन स्वानुष्ठितेन शुललोहितकृष्णवर्णेन साविक जसतामसेन कर्मणा आनुपूर्येण सात्त्विकादिकर्मानुसारेण दिव्यमानुषनारका दिबयो गतयः आत्मनो विधीयन्ते साध्यन्ते । हि यस्मादानुपूर्येण कर्मानुसारेण सर्वा एव गतयः सर्वेषामेव भवन्ति । यथावर्णविधानं यस्य वर्णस्य यद्विधानं मोक्षप्रकारः संन्यासवनस्थत्वगृहस्थत्वादि तद्नति- क्रमेण अस्मिन्नेव वर्षे नृणामपवर्गो मोक्षश्च भवति । चकारो मोक्षस्य दुर्लभत्वसूचनार्थः । युगधर्मप्रवृत्तिरप्यत्रैव बोध्या नान्यत्र ‘चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न कचित्’ इति विष्णुपुराणवचनात् । अन्यत्र त्रेतायुग- समकालस्य पूर्वमुक्तत्वाच्च । अस्मिन्नेवेति पुण्यक्षेत्रत्वेन कर्मादिबहुसाधनसम्भवाभिप्रायेणोक्तम् । न त्वन्यत्र कर्मोपासनादिसाधनानि मोक्षो वा नास्तीति । उपासनाया दर्शितत्वाद्वक्ष्यमाणत्वाच्च ‘तदुपर्यपि बादरायणः सम्भवादिति सूत्रेण देवानामपि तदुक्तत्वात् । भारतस्यापि अवान्तरदेशप्रभेदा विष्णुपुराणे दर्शिताः- ‘भारतस्यास्य वर्षस्य नय भेदान्निशामय । इन्द्रद्वीपः कशेरुश्च ताम्रवर्णी गभस्तिमान् ।। नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसम्भृतः । योजनानां सहस्रं तु द्वीपोऽयं Batmya. र रक. ५ अ. १९ श्लो. १७-२४] 1 / अनेकव्याख्यासमलङ्कृतम् .. ४३३ * दक्षिणोत्तरात्’ इति ।। १९ ।। * * अपवर्गस्य सायुज्याद्यनेकविधत्वादत्र किंलक्षणोऽपवर्गोऽभिमत इत्यपेक्षायां तद्दर्शयति य इति । योऽसौ भगवति ऐश्वर्यादिषड्गुणपूर्णे वासुदेवे वसुदेवनन्दने श्रीकृष्णेऽनन्यनिमित्तः फलाभिसन्धिशून्यो भक्तियोगलक्षणः सर्वाधिक प्रेमप्रवाहरूपः स भवतीत्यनुषङ्गेणान्वयः । ननु " आत्मनस्तु कामाय सर्व प्रियं भवति” इति श्रुतेदृश्यते च निरुपाधिक- प्रेमास्पदत्वं स्वात्मन्येवेति भगवति स कथं स्यादित्याशङ्कय स एव सर्वात्मेत्याह — सर्वभूतात्मनीति । ननु तस्य सर्वात्मत्वे सर्व- साम्यमेव स्यात्तर्हि किं तद्भजनेनेत्याशङ्कयाह - परमात्मनीति । जीवानां तद् शत्वाद्यो यदंशः स तं भजेदिति न्यायोक्तमेव जीवानां तद्भजनमिति भावः । नन्वेवमपि यदि तस्यैकदेशवृत्तित्वं तदा परिच्छिन्नत्वेनानीश्वरत्वप्रसङ्गः, यदि व्यापकत्वं तदापि सर्वशरीर- स्थत्वेन पुनरपि जीवसाम्यमेव किं तद्भजनेनेत्याशङ्कयाह-अनात्म्ये इति, आत्म्यं देहादावहम्भावस्तच्छून्ये । सर्वत्र व्यापकत्वेऽ- प्यहम्ममाध्यासरहितत्वात् नास्मत्सादृश्यं किन्त्वीश्वरत्वमेवेति भावः । ननु सर्वत्र स्थितस्य कथमध्यासराहित्यं सम्भवतीत्याशङ्कयाह- अनिरुक्त इति, अचिन्त्यानन्तशक्तित्वेन यस्य माहात्म्यं निर्धारण वक्तुं नैव शक्यते इति भावः । ननु भवत्वेवं सृष्टिसमये तद्भजनेन सुखित्वं महाप्रलये तु तस्यापि लयेन तद्भक्तानां तु सुतरामेव प्रलयः स्यादित्याशङ्कयाह–अनिलयने इति, न विद्यते प्राकृतानामिव निलयनं प्रलयो यस्य तस्मिन् सर्वप्रलयाधिष्ठानत्वात् । नन्वेवं भगवतः परमप्रेमास्पदत्वसम्भवेऽपि विषय | गादि मूलाविद्याया विद्यमानत्वे तद्भगवति कथं स्यादित्याशङ्कयाह– नानेति, नानाविधदेव तिर्यङनुष्यादिगतीनां कामकर्मादिद्वारा निमित्तभूतो योsविद्यालक्षणो ग्रन्थिः बन्धनं तस्य रन्धनं निरासस्तद्वारेणेत्यर्थः । तन्निरास एवं कदा स्यादित्यपेचायामाह–यदेति, यदाऽनेक- जन्मानुष्ठितयोगयागदानाद्यनेकसुकृतपरिपाकदशायां महापुरुषस्य भगवतः पुरुषैर्भक्तैः सह प्रकृष्टः सङ्गः स्यात्तदेत्यर्थः ‘जन्मान्तर- सहस्रेषु योगध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते’ इत्यादिप्रमाणप्रसिद्धिं सूचयति-हीति ।। २० ।। मोक्षोपयोगित्वेन भारतवर्षेऽधिकारिजन्ममाहात्म्यं देवा अपि गायन्तीत्याह – एतदेव हि गायन्तीति । तेषां गानमेव प्रदर्शयति- अहो इत्यष्टभिः । येर्भारताजिरे भारतखण्डे नृषु जन्म लब्धं तैरमीषाममीभिः किमाश्चर्यभूतं शोभनं सुकृतमकारि कृतमित्यन्वयः । ईदृशसुकृतस्यासम्भवं मत्वा पक्षान्तरमाह–प्रसन्न इति, उतस्वित् अथवा स्वयं साधनं विनैवैषां हरिः प्रसन्नोऽभूत् “यमेवोन्निनी- पति तं साधु कर्म कारयति” इति श्रुतेः स्वलीला प्रवेशार्थं स्वसेवोपयोगि जन्म प्रसन्नतया दत्तवानिति भावः । ननु दुरात्मनामप्यत्र जन्म दृश्यते किं तेनेत्याशङ्कय तद्व्यावृत्त्यर्थं विशिषन्ति—मुकुन्दसे वौपयिकमिति, मुक्तिदातुः सेवोपयोगि जन्मेत्यर्थः । यस्मिन्नोऽ- स्माकं देवानामपि केवलं स्पृहैवेत्यतिदुर्लभत्वमेव दर्शयन्ति ।। २१ ।। * ननु यज्ञदानादिसाधनैः स्वर्गं प्राप्य सुखानुभव- कर्तृणां भवतां किं भारतजन्मस्पृहयेत्याशङ्कयाहुः - किमिति त्रिभिः । दुष्करैरपि क्रत्वादिभिर्नोऽस्माकं फल्गुना तुच्छेन युजयेन स्वर्ग प्राप्तथाऽपि किं फलं जातं ? न किञ्चिदपीत्यर्थः । ननु सुखं तु भुज्यत एव कुतः फलं नास्तीत्याशङ्कयाहुः - न यत्रेति, यत्र स्वर्ग नारायणस्यान्तर्यामिणः पादपङ्कजयोः स्मृतिः सर्वसन्तापनाशिनी नास्ति । तत्र हेतुमाह-यतोऽतिशयितादिन्द्रियोत्सवात् विषयभोगात् सा प्रमुष्टा विलुप्तेत्यर्थः ।। २२ ।। आस्तां स्वर्गस्य वार्त्ता यतो ब्रह्मलोकादेरपि फल्गुत्वमेवेत्याह-कल्पायुषामिति । कल्पायुषां ब्रह्मादीनामपि स्थानजयात् क्षणमल्पमायुर्येषां तेषां स्थानं यद्भारतभूलक्षणं तस्य जयो वरः श्रेष्ठः । फल्गुत्वे हेतुमाह– पुनर्भवादिति, ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनः’ इति वाक्यान्ततः पुनरावृत्तिसम्भवात् । श्रेष्ठत्वे हेतुमाह-क्षणेनेति । मन्त्येंन क्षणभङ्गुरेणापि देहेन क्षणेनैव कालेन कृतं कर्म सन्न्यस्य हरौ समर्प्य मनस्विनो धीरा अभयं सर्वतापविवर्जितं हरेः पदं स्थानं सम्यक् पुनरावृत्तिवज यथा भवति तथा यान्तीत्यन्वयः ॥ २३ ॥ * * इदानी विवेकसिद्धमर्थमाहुः-नेति । यत्र वैकुण्ठस्य भगवतः कथा एव सुधापगा अमृतवत्तापहारिण्यः स्वाद्व्यश्च नदीवद्भूयस्यो न सन्ति यत्र च तदाश्रयाः भगवदेकशरणा भागवताः भगवद्भक्ताः साधवः भगवद्भजनं तदुपदेशाभ्यां स्वपरकार्यसाधका न सन्ति यत्र च महान्तो नृत्यगीतवाद्यभक्ताराधनादिरूपा उत्सवा येषु तादृशा यज्ञेशस्य यज्ञानां ब्रह्मयज्ञाङ्गीकार सबृहस्पतिसवादीनां भोक्तुः फलदातुश्च मखाः ‘यज्ञः सङ्कीर्त्तन प्रायैर्यजन्ति हि सुमेधसः’ इत्युक्तलक्षणाः सङ्कीर्त्तनबहुलाः पूजा न सन्ति स एवम्भूतः सुरेशस्य ब्रह्मणो लोकश्चेत्तदा न वै सेव्यतां नैवाश्रीयतां विवेकिभिरिति शेषः ॥ २४ ॥ … श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * एतासामिति । नामभिः एव प्रजाः पुनन्तीनां एतासां नदीनां अपो जलानि । भारत्यो भरतखण्डभवाः प्रजाः, आत्मना च देहेनापि उपस्पृशन्ति । आचमनस्नानाभ्यामिति शेषः ॥ १७ ॥ ता नदीरुद्दिशति चन्द्रवशेति । चन्द्रवशा, इमां केचिच्चन्द्रमसेति पठन्ति अन्ये चन्द्रवदेति । ताम्रपर्णी, अवटोदा, कृतमाला, वैहायसी, कावेरी, वेणा, पयस्विनी, शर्करावर्ता, तुङ्गभद्रा, कृष्णवेणा, भीमरथी, गोदावरी, निर्विन्ध्या, पयोष्णी, तापी, रेखा, सुरसा, नर्मदा, चर्मण्वती, सिन्धुः, अन्धः शोण नदौ, महानदी, वेदस्मृतिः, ऋषिकुल्या, त्रिसामा, कौशिकी, मन्दाकिनी, यमुना, सरस्वती, दृषद्वती, गोमती, सरयूः, रोधस्वती, सप्तवती, सुषोमा, शतद्रः, चन्द्रभागा, मरुदूधा, वितस्ता, असिक्नी, विश्वा, विश्वैव कचिदुन्मत्तगङ्गेति नाम्नाभिहिताऽस्ति । तन्माहात्म्यं हरिलीलाकल्पतरोर्बोध्यम् । इत्येता महानद्यः ॥ १८ ॥ ॐ अस्मिन्निति । अस्मिन् भारते वर्षे एव लब्ध ।। * विप्रादिषु प्राप्तं जन्म यैस्तैः पुरुषैः शुकुलोहितकृष्णवर्णेन सत्त्वरजस्तमोगुण कल्पितकुशलाकुशलमिश्ररूपेण, स्वारब्धेन स्वकृतेन, ५५ ४३४ श्रीमद्भागवतम् ।। • [ स्कं. ५ अ. १९ श्लो. १७२४ कर्मणा, बहुचः दिव्यमानुषनारकगतयः । तत्र शुलकर्मणा दिव्यगतिः, रजः कर्मणा मनुष्यलोकगतिः; तामसकर्मणा नारकगतिः, तथा च भगवता गीतम् ‘ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।।’ इति । आत्मनः स्वस्य विधीयन्ते संपाद्यन्ते । हि यस्मात्, सर्वा एव गतयः, आनुपूर्व्येण कर्मानुसारेण सर्वेषां भवन्ति । सर्वेषामविशेषेण त्रैगुण्यवश्यत्वाद् गुणानां हासोल्लासादिभिः कृतानि कर्माणि दिव्यादिकाः सर्वाः गतीः सर्वेषामापादयन्तीत्यर्थः । एवमस्मिन्नेव वर्षे, यथावर्णविधानं यस्य वर्णस्य ब्रह्मक्षत्रियादेः यद्विधानं ‘शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्’ इत्यादिविधानं गुरुवह्निशुश्रूषा- पञ्चमहायज्ञादिरूपं विधानं च तदनतिक्रम्येति यथावर्णविधानं अनभिसंहितफलस्वस्ववर्णाश्रमोचितकर्मानुष्ठानानुगृहीत भक्तियोगे- नेत्यर्थः । अपवर्गो मोक्षश्चापि भवति । एवञ्चात्र वर्षे मोक्षसाधनभूतबहुविधधर्मानुष्ठानसंभवाभिप्रायेणोक्तं, न तु अन्यत्रापवर्ग- साधनधर्मानुष्ठानाऽसंभवाभिप्रायेण | ‘तदुपर्यपि बादरायणः संभवादि’ त्युपरितनलोकेष्वपि ब्रह्मविद्याधिकारस्य भगवता बादराय- शेनैव सूत्रितत्वात्सूत्रे तदुपर्यपीति रस्यकादिवर्षाणामप्युपलक्षणम् ॥ १९ ॥ * * अपवर्गस्वरूपमाह योऽसाविति । हे राजन, यः असौ अपवर्गः स तु सर्वभूतानामात्मान्तर्यामी, तस्मिन् आत्मनि भवमात्म्यं रागादि, न विद्यते आत्म्यं यस्मिन् तस्मिन् अनिरुक्त निर्वतुमशक्ये । मनोवचोऽगोचरे इत्यर्थः । अनिलयने अनाधारे। आधारान्तरानपेक्षे इत्यर्थः । परमात्मनि वासुदेवे, भगवति अनन्यनिमित्तोऽहैतुकः यः भक्तियोगः स एव लक्षणं स्वरूपं यस्य सः एवंभूतो भवति । स केन द्वारेण कदा जायते इत्यत्राह । नानागतीना सुखनीचेतिकर्मानुसार्यनेकविश्वगतीनां निमित्तं योऽविद्याश्रन्थिस्तस्य रन्धनं छेदनं तद्द्द्वारेण भवति । तत्कदा जायते इत्यत्राह यदा हि यस्मिन्काले हि, महापुरुषाः विष्णुभक्तास्तैः प्रसङ्गः प्रकृष्टः सङ्गः भवति, तदा जायत इति संबन्धः ॥ २० ॥ * * एवं स्वर्गापवर्गसाधनभूतबहुविधधर्मानुष्ठानोपयुक्त प्रदेशत्वादस्य वर्षस्य प्राशस्त्यप्रतिपादनपरान् श्लोकान्वक्तुं तेषामविगोततां दर्शयति एतदिति । एतदेतद्वर्षप्राशस्त्यं देवाः गायन्ति । यद्वा एतदेव मानुष्यमेव सर्व- पुरुषार्थसाधनमिति देवा गायन्ति अहो इति । अहो आश्रयें, अमीषामेभिः कर्तुः संबन्धविवक्षया षष्ठी । किं शोभनं सुकृतं अकारि । नेदं सुकृतफलमेतेषां तथाविधसुकृतादर्शनात् । उताऽथवा, एषां स्वयं हरिभगवान् प्रसन्नः । साधनं विनैव प्रसन्नः स्वित् किम् । एवंविधस्य पुण्यस्य दुष्करत्वात् क इमे इत्यत्राह । यैर्जीवैः, भारताजिरे भारतवर्षाङ्गणे, मुकुन्दसेवौपयिकं विमुक्ति- प्रदभगवत्सेवोपयोगि नृषु जन्म लब्धम् । नोऽस्माकं तु स्पृहा हि । विद्यते इति शेषः । प्रथमतस्तु भारतवर्ष संप्राप्तिर्दुर्लभा ततोऽपि तत्र नृजन्मलब्धिर्दुर्लभतरा तत्रापि मुकुन्दसेवोपलब्धिर्याः सा तु दुर्लभतमा इति भावः ॥ २१ ॥ * * वर्षान्तर- स्थानां लोकान्तरस्थानां जीवानां भगवत्सेवानुपयुक्तिं वदन्तस्तान्निन्दन्ति त्रिभिः किमिति । दुष्करैर्दुःखेनापि कर्तुमशक्यैः, क्रतुभिर्यज्ञेः, तपोव्रतैः कठिनतपश्चरणसहितैर्ब्रतैः दानादिभिर्वा । तत्र तपः कृच्छ्रचान्द्रायणादिरूपं व्रतं प्राजापत्यादिकं, दानं पात्रेषु द्रव्यत्यागात्मक, साध्येनेति शेषः । फल्गुना अल्पास्थिरफलेन, युजयेन स्वर्गप्राप्त्या, किम् न किंचित्फलम् । ननु पुरुस्कृत- संलब्धस्वर्गादयो यूयमेवं किं ब्रूध्वे, तत्राहुः । यत्र स्वर्गादो अतिशयेन्द्रियोत्सवात् विषयभोगातिरेकात्, नारायणपादपङ्कजस्मृतिः न, प्रत्युत पूर्वसंस्कारवशतः कथंचिदुत्पाद्यमाना सत्यपि, प्रमुष्टा चोरिताऽभूत्। अधिकेन्द्रियोत्सव एव भगवत्सेवाविरोधीति भावः । अत्र केचित्तु स्वर्गस्थान कर्मिण उद्दिश्येदं वचनं न देवान् तेषां संततहरि स्मरणस्य प्रमाणसिद्धत्वादित्याहुः ।। २२ ।। ** कल्पायुषामिति । कल्पो ब्रह्मणो दिनं तावदायुर्जीवनकालो येषां तेषां पुनः भवो जन्म यस्मात्तस्मात्, स्थानजयात् स्थानप्राप्तेः सकाशात्, क्षणमल्पमायुर्येषां तेषां भरतभूर्भरतखण्डभूमिस्तस्या जयः प्राप्तिः, सः वरं श्रेष्ठः । यतः क्षणेन क्षणभङ्गुरेण मर्चेन मरणशीलेन शरीरेण, कृतं कर्म, संन्यस्य भगवति समर्प्य, मनस्विनः प्रशस्तमनसो भगवदुपासकाः सन्त इत्यर्थः । हरेः, न विद्यते भयं कालकृतं जन्ममरणादिनिमित्तं यस्मिंस्तत् पदं स्थानं गोलोकादिकमित्यर्थः । संयान्ति । कल्पायुषस्तु कल्पानन्तरं पुनर्भवं यान्तीत्यर्थः । कल्पायुषामित्यनेन महरा दिलोकस्था लक्ष्यन्ते । ‘कल्पायुषो यद्विबुधा रमन्ते’ इति समभिधानात् । ‘आब्रह्मभुवनाल्लोकाः पुनरावत्तिनोऽर्जुन’ इति भगवदुक्तिश्च ।। २३ ।। 8 * महरादिलोकेषु विशिष्टमोगसंभवात्कथं नीचीक्रियन्ते भस्तखण्डान्त- त्राह न यत्रेति । यत्र येषु लोकेषु, महरादिषु वा । वैकुण्ठस्य भगवतः कथा एव सुधापगाः भगवत्कथारूपा अमृतनद्यः, न सन्ति । तदाश्रयाः भगवत्कथामृतनदी सेवापराः । श्रीनारायणचरणसरसिज स्मरणजननैकपरायणा वा साधवः, राद्वेषादिदोषलेश- शून्याः सल्लक्षणलक्षिताः, भागवता भगवदेकान्तिकोपासकास्त्यागिजनाश्च न सन्ति । यत्र च यज्ञेशमखाः भगवतः पूजाः तथा महोत्सवाः नित्यपक्षमाससंवत्सरायनादिविधेया महामहाच, न सन्ति । सः सुरेशलोकः अपि, ब्रह्मादिलोकश्चेत्तथापि, न वै नैव सेव्यतां नाश्रीयताम् । यद्वा उक्तविधः सुरेशलोकोऽपि सेव्यतां सेवनयोग्यतां न वै । यातीति शेषः ॥ २४ ॥ भाषानुवादः র । नदियाँ अपने नामोंसे ही जीवको पवित्र कर देती है और भारतीय प्रजा इन्हींके जलमें स्नानादि करती हैं ॥ १७ ॥ * * उनमेंसे मुख्य-मुख्य नदियाँ ये हैं-चन्द्रवसा, ताम्रपर्णी, अवटोदा, कृतमाला, वैहायसी, काबेरी, वेणी, पयस्विनी, शर्करावर्ता, भद्रा, कृष्णा, वेण्या, भीमरथी, गोदावरी, निर्विन्ध्या, पयोषणी, तापी, सेवा, सुरसा, नर्मदा, स्क. ५ अ. १९ श्लो. २५-३१ j अनेकव्याख्यांसमलङ्कृतैम् चर्मण्वती, सिन्धु, अन्ध और शोण नामके नद, महानदी, वेदस्मृति, ऋषिकुल्या, त्रिसामा, कौशिकी, मन्दाकिनी, यमुना, सरस्वती, दृषद्वती, गोमती, सरयू, रोधस्वती, सप्तस्वती, सुषोमा, शतद्र, चन्द्रभागा, मरुदुवृधा, वितस्ता, असिक्नी और ।। १८ ।। * * इस वर्षमें जन्म लेनेवाले पुरुषोंको ही अपने किये हुए सात्त्विक, राजस और तामस कर्मों के अनुसार क्रमशः नाना प्रकार की दिव्य, मानुष और नारकी योनियाँ प्राप्त होती हैं; क्योंकि कर्मानुसार सब जीवोंको सभी योनियाँ प्राप्त हो सकती हैं। इसी वर्ष में अपने अपने वर्णके लिये नियत किये हुए धर्मका विधिवत् अनुष्ठान करने से मोक्षतककी माप्ति हो सकती है ॥ १९ ॥ * * परीक्षित् ! सम्पूर्ण भूतोंके आत्मा, रागादि दोषोंसे रहित अनिर्वचनीय, निराधार अनन्य एवं अहैतुक भक्तिभाव यह मोक्षपद है । यह भक्तिभाव तभी प्राप्त होता है, जब अनेक प्रकारकी गतियोंको प्रकट करनेवाली अविद्यारूप हृदयकी ग्रन्थि कट जानेपर भगवान् के प्रेमी भक्तोंका सङ्ग मिलता है ॥ २० ॥ * देवता भी भारतवर्ष में उत्पन्न हुए मनुष्यों की इस प्रकार
- वर्षमें भगवान्की सेवाके योग्य मनुष्य जन्म प्राप्त किया है. उन्होंने ऐसा क्या परमात्मा भगवान् वासुदेवमें :0 swine महिमा गाते हैं- ‘अहो जिन जीवोंने भारत-
- हमें बड़े कठार यज्ञ, ॥ उन पुण्य किया है ? अथवा इनपर स्वयं श्रीहरि ही प्रसन्न हो गये हैं ? इस परम सौभाग्यके लिये तो निरन्तर हम भी तरसते रहते हैं ।। २१ ।। तप, व्रत और दानादि करके जो यह तुच्छ स्वर्गका अधिकार प्राप्त हुआ है-इससे क्या लाभ है ? यहाँ तो इन्द्रियोंके भोगोंकी अधिकता के कारण स्मृतिशक्ति हिन जाती है, अतः कभी श्रीनारायणके चरणकमलोंकी स्मृति होती ही नहीं ॥ २२ ॥ यह स्वर्ग तो क्या - जहाँ के निवासियोंकी एक-एक कल्पकी आयु होती है किन्तु जहाँसे फिर संसारचक्र में लौटना पड़ता ब्रह्मलोकादिकी अपेक्षा भी भारतभूमिमें थोड़ी आयुवाले होकर जन्म लेना अच्छा है; क्योंकि यहाँ, धीरे, पुरुष एक क्षणमें ही … अपने इस मर्त्य शरीर से किये हुए सम्पूर्ण कर्म श्रीभगवान्को अर्पण करके उनका अभय पद प्राप्त कर सकता है ।। २३ ।। ‘जहाँ भगवत्कथा की अमृतमयी सरिता नहीं बहती, जहाँ उसके उगमस्थान भगवद्भक्त साधुजन निवास नहीं करते और जहाँ नृत्य-गीतादिके साथ बड़े समारोहसे भगवान् यज्ञपुरुषकी पूजा-अर्चा नहीं की जाती - वह चाहे ब्रह्मलोक ही क्यों न हो, उसका सेवन नहीं करना चाहिये ॥ २४ ॥ ॥ INIERE HIR BAIK JETIS ।। ।। S २६ ॥ प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ २५ ॥ श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः एक: पृथङ्नामभिराहुतो मुदा गृहाति पूर्णः खयमाशिषां प्रभुः ॥ सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं ।। विधत्ते भजतामनिच्छतामिच्छाविधानं निजपादपठनम् ॥ २७ ॥ to नः स्वर्गसुखावशेषित विष्टस्य सूक्तस्य कृर्तस्य शोभनम् । यत्र तेनाजनामे स्मृतिमज्जन्म नः स्याद् वर्षे हरिर्यद्भजतां शं तनोति ॥ २८ ॥ LINE TO Bes DEE PRE श्रीशुक उवाच ss Free h se stores Files ॥ २७ ॥ APES CAPSIPERIATE ww जम्बूद्वीपस्य च राजनपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो निखमद्भिरुप- कल्पितान् ।। २९ ।। तद्यथा स्वर्णप्रस्थथन्द्रशक्क आवर्तनो रमणको मन्दरहरिणः पाश्चजन्यः सिंहलो लति ॥ ३० ॥ एवं तव भारतोत्तम जम्बूद्वीपवर्ष विभागों यथोपदेशमुपवर्णित इति ॥ ३१ ॥ spirits इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥ अन्वयः - इह च ये जन्तवः तु ज्ञानक्रियाद्रव्यकलाप संभृताम् नृजातिम् प्राप्ताः अपुनर्भवाय न वै यतेरन ते भूयः वनौकाः इव बन्धनम् यान्ति ।। २५ ।। एकः पृथक् नामभिः आहुतः स्वयम् पूर्णः अ आशिषाम् प्रभुः यैः बर्हिषि श्रद्धया भागशः विधिमंत्रवस्तुतः निरुप्तम् इष्टम् हविः मुदा गृह्णाति ॥ २६ ॥ * * अर्थितः नृणाम् अर्थितम् सत्यम् दिशति अर्थदः न एव यत् यतः पुनः अर्थिता अनिच्छताम् भजताम् इच्छापिधानम् निजपादपलवम् स्वयम् विधत्ते ।। २७ ।। * * यदि अत्र कृतस्य स्विष्टस्य सूक्तस्य स्वर्गसुखावशेषितम् अजनाभे वर्षे नः स्मृतिमत् जन्म स्यात् यत् हरिः भजताम् शम् तनोति ॥ २८ ॥ १. प्रा० पा० चेद् । २. प्रा० पा० - सृज्यसुखा० । ३. प्रा० पा० - मन्दहरिणो ।
४३६ श्रीमद्भागवतम् [ स्कं ५ अ. १९ श्लो. २५-३१ राजन एके अश्वान्वेषणे इमाम् महीम् परितः निखनद्भिः सगरात्मजैः उपकल्पितान् जंबूद्वीपस्य च अष्टौ उपद्वीपान् ह उपदि- शन्ति ॥ २९ ॥ * * तत् यथा स्वर्णप्रस्थः चन्द्रशुक्लः आवर्तनः रमणकः मंदरहरिणः पाञ्चजन्यः सिंहलः लंका इति ॥ ३० ॥ * * भारतोत्तम तव एवम् जंबूद्वीपवर्षविभागः यथोपदेशम् उपवर्णितः ॥ ३१ ॥ ॥ … इत्यूनविंशोऽध्यायः ॥ १९ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका अमुमुक्षून्नरान्निदति प्राप्ता इति । ज्ञानं च तदर्थाः क्रियाश्च तदर्थानि द्रव्याणि च तेषां कलापेन संभृतां पूर्णाम् । अपुनर्भवाय मोक्षाय वनौकस इव वनौकसः पक्षिणो यथा लुब्धकान्मुक्ता अपि पुनर्यदि तस्मिन्नेव वृक्षे प्रमत्ता विहरन्ति तर्हि यथा बध्यन्ते तद्वत् ॥ २५ ॥ * * अहो भारतवासिनां भाग्यमित्याहुः । यैरिति । “अग्नये जुष्टं निर्वपाम इन्द्रा - । जुष्टं पामि” इत्येवं भागशो निरुप्तं पृथक्कृतम् । कथम् । विधिना प्रकारेण मन्त्रेण च वस्तुतश्चरुपुरोडाशादिभेदेन चेष्टं देवतामुद्दिश्य त्यक्तं निरुप्तं च ममेदमिति स्वीकृत्य त्यागानन्तरमनातीत्यर्थः । पृथगिन्द्रादिनामभिराहुत आहूतः आशिषां प्रभुः स्वयं पूर्णोऽपि हरिः ॥ २६ ॥ * * तत्रापि निष्कामाः कृतार्था इत्याहुः । सत्यमिति । प्रार्थितः सन्नर्थितं ददातीति सत्यं तथापि परमार्थदो न भवत्येव । यद्यस्माद्यतो दत्तादनन्तर पुनरप्यर्थिता भवति । ननु नार्थितश्चत्किमपि न दद्यादित्याशंक्याहः अनिच्छतां निष्कामानां तु इच्छानां पिधानमाच्छादकं सर्वकामपरिपूरकं निजपादपल्लवं स्वयमेव सम्पादयति ।। २७ ।। स्विष्टस्य सम्यग्यजनस्य । सूक्तस्य प्रवचनस्य । कृतस्यान्यस्यापि कर्मणः स्वर्गसुखादुपभुक्तादवशेषितं यदि किंचिदस्ति तेनाजनाभे वर्षे नोऽस्माकं जन्म स्यात् । कीदृशं स्मृतिमत् हरिरेव सेव्य इत्यनुसन्धानयुक्तम् । यतो हरिभजतां शं सुखं तनोति ।। २८-३१ । । इति श्रीभा० पंचमस्कंधे टीकायामेकोनविंशोऽध्यायः ॥ १६ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः तादृशं भारतं प्राप्ता अप्यकृतार्था अतिशयेन शोच्या एव । यथा लब्धचिन्तामणयोऽपि पूर्ववत्कृषीवला एवेत्याहु:- प्राप्ता इति । ज्ञानमधिदैवम् । क्रिया अध्यात्मम् । द्रव्यमधिभूतं तेषां समूहः सम्भृतां पूर्णां श्रवणादिसर्वेन्द्रियैः पूर्णामिति । हरिनाम - । श्रवणकीर्त्तनादिसम्भवेऽपीति भावः । अपुनर्मृताय भक्तियोगाय शेषं समानम् ॥ २५ ॥ * * अत्र भारते ‘एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्’ इत्यादिश्रीभगवदुक्तं भगवद्विभूतिबुद्धया विश्वरूपोपासनामपि कुर्वाणा धन्या एवेत्याहुः - चैरिति । इत्यर्थ इति । तमुद्दिश्यैव तत्तन्नाम्ना त्यक्तत्वादिति भावः ॥ २६ ॥ * * तत्रापि भारतेऽपि विश्वनाथस्तु - शुद्धां भक्ति कुर्वाणाः सकामा अपि कृतार्थी निष्कामभक्ततुल्या एव भवन्तीत्याहुः- सत्यमिति । नृणां भजताम् । अर्थितं कामितं पदार्थं तैरर्थितः सन् दिशति ददातीति सत्यम् । किं तु यत् यथा पुनरर्थिता भोगान्ते याचकत्वं स्यात् तथा नैवार्थदः एतत्कथमवगतमित्यत आह- यतः निजपादपल्लवमनिच्छतामपि भजतां स्वयमेव ध्रुवादीनामिवेच्छापिधानं सर्वकामाच्छादकं तदेव निजपादपल्लवं विधत्ते कृपया ददाति । निजपादपल्लवं स्वयमेव बलाद्दत्वा इच्छायाः पिधानमाच्छादनं करोतीति वा । ततश्चानभीप्सितामपि सितशर्करां पितुः सकाशात्प्राप्य शिशवो यथा मृदि स्पृहां त्यजन्ति तथैव कामानपीत्यर्थः । अत एव ‘अकामः सर्वकामो वा’ इत्यादौ तीव्रेण ज्ञानकमा- द्यमिश्रेण भक्तियोगेन यजेतेत्युक्तम् । तत्र सकामानां निष्कामाणां च भक्तानामन्ततः पादपल्लव प्राप्तावपि नैकरूप्यं भावनीयं, न हि जात्यैव शुद्धं बलाच्छोधितं च वस्तु तुल्यमूल्यं भवत्यतो ध्रुवादिभ्यः सकाशाद्धनमदादीनामुत्कर्षः परम एव दृश्यत इति । अत्र सन्दर्भः - अर्थितः प्रार्थितः सन्नृणामर्थितं सत्यमेव ददाति न तत्र कदाचिदपि व्यभिचार इत्यर्थः । किन्तु तथापि तन्मात्रेणार्थदो न भवति तन्मात्रं दत्त्वा निवृत्तो न भवतीत्यर्थः । यत उपासकस्तत्रा पूर्णत्वाद्भोगक्षये सति यदेव पुनरप्यर्थिता भवति " न जातु कामः कामानामुपभोगेन शाम्यति” इत्यादेस्तदेवमभिप्रेत्य स तु परमकारुणिकस्तत्पादपल्लव माधुर्यज्ञानेन तदनिच्छतामपि भजतामच्छा- पिधानं सर्वकामसमापकं निजपादपल्लवमेव विधत्ते तेभ्यो ददातीत्यर्थः । यथा माता चव्येमाणां मृत्तिकां बालकमुखादपसार्य्यं तत्र खण्डं ददाति तद्वदिति भावः । तथोक्तं गारुडे - " यदुर्लभं यदुष्प्राप्यं मनसो यन्न गोचरम् । तदप्यप्रार्थितं ध्यातो ददाति मधु- सूदनः ।। " इति ।। २७. ॥ * * अप्र अत एव प्रार्थयन्ते शाभनं सुकृतम् । तेन तेन शोभन ।। २८ ।। * अश्वान्वेषण
- अश्वमेधीयाश्वमार्गणावसरे ।। २९ ।। * तद्यथा तान् दर्शयात ।। ३० ।। ** जम्बूद्वीपस्य वर्षाणां विभागः । भारतोत्तमेति । भरतवंशे उत्तमस्त्वमेवासि राजन्यतस्तव विचित्रहरिलीलाकर्णनर तिरस्तीति भावः ।। ३१ ।। इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥ १७ ॥ श्रीमद्वीरराघवव्याख्या एवं भारतवर्षेऽन्तरस्थान् विनिन्द्याधुना भारतवर्षस्थानपि नरानमुमुक्षून्निन्दति प्राप्ता इति । इहास्मिन् भारते वर्षे ये च जन्तवो जीवाः नृजातिं मनुष्यजन्म प्राप्ताः कथम्भूता द्रव्यक्रियाज्ञानकलापसम्भृतां द्रव्यं भूतपञ्चकं क्रिया कर्मेन्द्रियाणि ज्ञानं स्क. ५ अ. १९ श्लो. २५३१ ] " अनेकव्याख्यासमलंकृतम् । ४३७ एवं- ज्ञानेन्द्रियाणि च एतेषां कलापेन सङ्घातेन च संभृतां पूर्णां भगवद्गुणकीर्तनार्चनपद प्रक्रमणगुणश्रवणविग्रहावलोकनसमर्पितफलस्या- घ्राणनोपयुक्त स्रग्गंधवासोऽलंकारच र्चितोच्छिष्टभोजनादिरूपसर्वविधभगवत्सेवोपयुक्तज्ञानकर्मेन्द्रियतदाश्रयभूतसङ्घातपूर्णामित्यर्थः, विधां नृजाति प्राप्ता अपि यद्यपुनर्भवाय मुक्तये न यतेरन् यत्नं न कुर्युश्चेन्तर्हि भूयः पुनः वनौका इव वने स्थिता ओकाः शकुन्ता इव “ओकः शकुन्तपृषतौ " इति कोश: “उच समवाये” इत्यस्माद्धातोः कप्रत्यये गुणः कुत्वं च “ओक उचः कः” इति सूत्रेण निपात्यते. कप्रत्ययस्तु “इगुपधज्ञाप्रीकिरः कः” इत्यधिकारे “घनर्थे कविधानम्” इति वचनेन, यद्यपि घञ्यप्येतद्रूपसिद्धिस्तथाप्यन्तोदात्तार्थ- मिदं निपातनं घनि सति मित्स्वरेणाद्युदात्तः स्यात्, दिवौकसः जलौकस इत्येवमादौ तु असुप्रत्यये “उणादयो बहुलम्” इति वचना- त्कुत्वं द्रष्टव्यम् । यथा शकुन्ता लुब्धकान्मुक्ता अपि पुनर्यदि तत्रैव प्रमत्ताः विहरन्ति तर्हि पुनर्यथा बध्यन्ते तद्वत् ॥ २५ ॥ * * अहो भारतवासिनां भाग्यमित्याहुः । चैरिति । भरतवासिभिर्नरैः बर्हिषि यज्ञे श्रद्धया विधिना प्रकारेण मन्त्रेण वस्तुतश्चरुपुरो- डाशादिभेदेन चेष्टं देवतोद्देशेन त्यक्तं तथा भागशः " अग्नये त्वा जुष्टं निर्वपामि” इत्येवं भागशो निरुप्तं च हविः अग्नीन्द्रादि- रूपेणैक एव स्थितः पृथग्नामभिरग्नीन्द्रादिनामभिरा हुतः -हुत इति दीर्घाभाव आर्षः पूर्णः स्वतोऽवाप्तसमस्त कामः अविजिघत्सोऽपि इति यावत् हविर्गृह्णातीत्यर्थः पूर्णः किमर्थं गृह्णाति तत्राह आशिषां प्रभुरिति । यत आशिषां पुरुषार्थानां प्रभुर्दाता अतो यष्टृणामाशिषः प्रदातुं तत्कृताराधनं परिगृह्णातीत्यर्थः । तदुक्तं भगवता “ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्” इति ॥ २६ ॥ * * आशिषां प्रभुरित्यनेन धर्मादिचतुर्विधपुरुषार्थेप्सुभिर्भगवान् भारते वर्षे आराध्य इत्युक्तं तत्रापि केवलमुमुक्षून स्तुवन्ति सत्यमिति । अर्थितस्तत्पुरुषार्थेप्सुभिः प्रार्थितः सन् भगवानर्थितं याचितं तं पुरुषार्थं दिशति ददातीति सत्यं तत्रापि नैवार्थदः न परमपुरुषार्थदः अस्थिराल्पपुरुषार्थदो न तु नित्यनिरतिशय मोक्षरूपार्थप्रदोऽभूदित्यर्थः । अर्वाचीन पुरुषार्थदानानन्तरमप्यर्थितुर्याच्या अनिवृत्ते - रर्थितं दिशन्नपि न दत्तवानिति भावः । एतदेवाह जनः अवाप्तपुरुषार्थोऽपि यद्यतः पुरुषार्थान्तरं पुनरीश्वरं प्रत्यर्थिता याचिता एवमितर पुरुषार्थेप्सूनां नित्ययाचकत्वान्नित्यदरिद्रत्वमुक्तं, तथा च वक्ष्यत्येकादशे “दरिद्रो यस्त्वसन्तुष्टः” इति, अथानिच्छतां मुमुक्षूणां सर्वपुरुषार्थानां मोक्षान्तर्भावादाढर्यत्वमाहुः अनिच्छतामकामयमानानां भजतां जनानाम् इच्छापिधानम् इच्छायाः पिधानमाच्छा- दकं स्वकीयं पादपल्लवं स्वयमेव विधत्ते समस्तपुरुषार्थरूपं स्वात्मानमेव ददातीत्यर्थः ॥ २७ ॥ * * एवं भारते मुमुक्षून् प्रस्तूयाथ स्वमनीषितमाविष्कुर्वन्तस्तमेव भारतं स्तुवन्ति यदीति । यदि नः अस्माकं कृतस्य स्विष्टस्य सम्यग्यजनस्य सूक्तस्य प्रवचनस्य स्वर्गसुखावशेषितं स्वर्गसुखेनावशेषितम् अस्माभिः कृतं यागादिरूपं स्वर्गादिसुखं सम्पाद्य किञ्चिच्छोभनं सुकृतमुप- भुक्तावशिष्टमस्ति चेद्यदीत्यर्थः । तेन आचरितेन शुभेन कर्मणा नोऽस्माकमजनाभे भारते वर्षे भगवद्विषयकस्मृतिमज्जन्म नृजन्म स्यात् । नृजन्मन्येव भगवद्विषयकस्मृतिसम्भवात् सम्भावितस्मृतिमात्रजीवनजन्मना किं स्यादित्यत्राहुः । यतः स्मृतिवशाद्भजतां हरिः शं सुखं मोक्षरूपं सुखं तनोति ददातीत्यर्थः ।। २८ ।। * * एवं नवखण्डात्मकं जम्बूद्वीपं ससंस्थानं सपर्वतनदीं सवर्णा- श्रमधर्मवन्मनुजमुपवर्ण्याथ जम्बूद्वीपस्योपद्वीपानष्टी आह जम्बूद्वीपस्येति । हे राजन् ! एके अभियुक्ता अद्धा जम्बूद्वीपस्योपद्वीपान् उपदिशन्ति ते जम्बूद्वीपाः न प्रियव्रतस्य रथचरणनेमिना परिक्लप्ता इत्याह । सगरात्मजैः यागीयाश्वस्यान्वेषणसमये इमां जम्बू- द्वीपात्मिकां पृथिवीं तत्र निखनगिरवदारयद्भिरुपकल्पिता ।। २९ ।। तेषामुद्देशं प्रतिजानीते तद्यथेति । तानुद्दिशति स्वर्णप्रस्थ इत्यादिना ॥ ३० ॥ एवं सोपद्वीपं जम्बूद्वीपमुपवर्ण्योपसंहरति एवमिति । हे भारतोत्तम! जम्बूद्वीपस्य ये वर्षा इलावृतादयस्तेषां विभागो यथोपदेशं यथाक्रममनुवर्णितः ।। ३१ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृत भागवतचन्द्रचन्द्रिकायाम् एकोनविंशोऽध्यायः ।। १९ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
इतोऽपि भारतं पुण्यक्षेत्रमाहुरित्याह प्राप्ता इति । इह भारते ये जन्तवः प्राणिमात्रनामानोऽपुनर्भवाय मोक्षाय न यतेरा ते भूयो वनौका इव निरयवासिन एव, न चैषां पुनरुत्थितिरित्याह यान्तीति “वनन्तु नरकं विन्द्याद्भजने” इत्यभिधानं ये च नृजातिपुरुषत्वेन जननं प्राप्ताः “जातिः सामान्यजन्मनोः” इत्यभिधानं मुक्तये न यतेरश्च ते सुतरां भूयो वनौका महातमः- स्थानयोग्याः, एधशब्दोकशब्दोऽकारान्तः नानार्थेषु शब्दानामनैकान्तत्वेन पाठात् “बर्हिर्नाग्नौ नपुंसकः” इत्यादिषु ये च नृ-नय इति धातोर्ज्ञानकर्मयोग्यविप्रजातिं प्राप्तास्ते ततोऽपि भूयो वनौकाः ।। २५ ।। अशेषसाधनत्वेन भारतस्योत्तमत्वमितर- खण्डेभ्यो यतोऽत्र क्रियमाणङ्कर्म यज्ञादिलक्षणं श्रीहरिप्रीतिजनकमतः स्तुवन्तीत्याह यैरिति । भारतवासिभिर्यैः श्रद्धया बर्हिपि यज्ञे निरुप्तं हविराशिषां प्रभुरेकः स्वयम्मुदा गृह्णाति । कथं निरुप्त विधिमन्त्रवस्तुतो भागश इष्टं ‘इन्द्राय निर्वपामि प्रजापतये निर्वपाम’ इति पृथङनिरुप्तम् “इन्द्रं यजाग्नि यज” इति पृथगिष्टं विधिमन्त्राणामिन्द्रादिविषयत्वेन सिद्धत्वात् कथमेको हरि- गृह्णातीत्युच्यत इति तत्राह नामभिरिति । इन्द्रादिनामभिरत्राहुतः विघ्नेश्वरादिवत्प्राप्तव्य फलापेक्षी नेत्याह पूर्ण इति । कुतः आशिषां प्रभुत्वात् ।। २६ ।। न केवलं हविरादाय तूष्णीमास्ते हरिः फलं च प्रयच्छतीत्याहुरित्याह सत्यमिति । अर्थितो हरिस्तेषां यज्वनां नृणाम् अर्थितं स्वर्गादिकं दिशतीति सत्यं शपथेन प्रतिजानीते प्राप्तस्वर्गैरर्थितोऽपि पुनः फलं नैव ૮ श्रीमद्भागवतम् 1 [ स्क. ५ अ. १९ श्लो. २५-३१ दिशतीति इदव्य सत्यम् अर्थिनो मदो भवतीति यद्यस्मात् “अपाम सोमम्” इत्यादेः तस्मात् पुनरर्थितं प्राप्य पुनः प्रार्थयमानस्य प्रार्थितो न दिशतीति । अमद इति । यदिति वा तत्रत्यानां स्वर्गादिकमेव दिशति न मोक्षमित्याशङ्का माभूदित्याहुरित्याह । स्वयमिति । इच्छाया विधानं यस्मात्तदिच्छाविधानम् अभीष्टदं निजपादपल्लवम्भजतां फलमनिच्छतां भक्तिमन्तरेण तेषां स्वय- मात्मानं विधत्ते ददातिः ॥ २८ ॥ * स्वाभिप्रेतमाहुरित्याह यद्यत्रेति । यत्र यस्मिन् भारतेऽपि वर्षे हरिर्निजपादपद्म’ भजतां शं सुखं तनोतीति यद्यस्मात्तस्मान्नः स्विष्टादेः स्वर्गसुखावशेषितं स्वर्गसुखमनुभूयावशिष्टं यच्छोभनं तेन पुण्येन नोऽस्मा- कमब्जनाभस्मृतिनिमित्तं जन्म स्यादिति प्रार्थयामाहे तदुक्तम् ‘अनधिकारिणो देवाः स्वर्गस्था भारतोद्भवम् । वाच्छन्त्यात्मविमो- क्षार्थमुद्रेकार्थेऽधिकारिणः ।।’ इति वेदैर्गीतमिति ज्ञायते । अनेन शास्त्रतात्पर्यार्थोऽपि निःसंदिग्ध इति बोद्धव्यम् ॥ २८ * * एक इति विशेषणाद् विशेषविवक्षवोऽष्टावुपद्वीपानुपदिशन्ति । सामान्यविवक्षवस्तान् समुद्रकदेशानिति ।। २९-३१ ॥ * इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्याम् एकोनविंशोऽध्यायः ॥ १९ ॥ श्रीमजी वगोखामिकृतः क्रमसन्दर्भः ॐ siremas हर्यर्पणमेव दर्शयति । यैर्नृभिरिष्टं देवतामुद्दिश्य त्यक्तं यत्तदेव भागशस्तत्तद्देवतामुद्दिश्य निरुतं पृथक कृतं सत् पृथ- गिन्द्रादिनामभिरप्याहूत एक एव मुदा गृह्णाति तमुद्दिश्यैव तत्तन्नाम्ना त्यक्तत्वादिति भावः ॥ २६ ॥ सत्यमिति । अर्थितः । प्रार्थितः सन् नृणामर्थित सत्यमेव ददाति न तत्र कदाचिदपि व्यभिचार इत्यर्थः । किन्तु तथापि तन्मात्रेणार्थदो न भवति । तन्मात्रं दत्त्वा निवृत्तो न भवतीत्यर्थः । यत उपासकस्तत्रा पूर्णत्वाद्भोगक्षये सति यदेव पुनरप्यर्थिता भवति “न जातु कामः कामानामुपभोगेन शाम्यति” इत्यादेः । तदेवमभिप्रेत्य स तु परमकारुणिकस्तत् पादपल्लवमा धुर्य्यज्ञानेन तदनिच्छतामपि भजतामिच्छापिधानं सर्वकाम- समापकं निजपादपल्लवमेव विधत्ते तेभ्यो ददातीत्यर्थः । यथा माता चर्व्यमाणां मृत्तिक बालकमुखादपसार्य तत्र खण्डं ददाति तद्वदिति भावः । एवमप्युक्तम् “अकामः सर्वकामो वा मोक्षकाम” इत्यादी तीव्रत्वं भक्तेः । तथोक्त गारुडे ‘दद्दुर्लभं यदप्राप्यं मनसो यत्र गोचरम् । तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ।।’ इति ।। २७-३१ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजीवगोस्वामिकृतक्रमसन्दर्भस्य एकोनविंशोऽध्यायः ॥ १९ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी तादृशं भारतं प्राप्ता अप्यकृतार्था अतिशयेन शोच्या एव यथा लब्धचिन्तामणयोऽपि पूर्ववत कृषीवा एवेत्याहुः प्राप्ता इति । ज्ञानमधिदेवं क्रिया अध्यात्मं द्रव्यमधिभूतं तेषां समूहैः संभृतां पूर्णां श्रवणादिसर्वेन्द्रियैः पूर्णामिति हरिनामश्रवण- कीर्तनादिसम्भवेऽपीति भावः । अपुनर्मृताय भक्तियोगाय बनौका इव वनौकसः पक्षिणो यथा लुब्धकान्मुक्ता अपि पुनर्यदि तस्मिन्नेव वृक्षे प्रमत्ता विहरन्ति तर्हि यथा बध्यन्ते तद्वत् ॥ २५ ॥ अब भारते “एकत्वेन पृथक्त्वेन बहुधा विश्वतो- मुखम्” इत्यादिश्रीभगवदुक्तां भगवद्विभूतिबुद्धया विश्वरूपोपासनामपि कुर्वाणा धन्या एवेत्याहुः चैरिति । बर्हिषि यज्ञे विधिना प्रकारेण मन्त्रेण वस्तुतश्च हविर्यज्ञीयद्रव्यमिष्टं शुद्धं भागशः इन्द्राय स्वाहा अग्नये स्वाहा इत्यादि पृथक् कृतं निरुतं दत्तं पूर्णोऽपि आशिषां प्रभुः हरिस्तेषां भक्त्या गृह्णाति एकोऽपि पृथगिन्द्रादिनामभिराहुतः आहूतः ॥ २६ ॥ शुद्धां भक्ति कुर्वाणास्तु सकामा अपि कृतार्था निष्कामभक्ततुल्या एव भवन्तीत्याहुः सत्यमिति तिनृणां भ भजतामर्थितं कामितं पदार्थ तैरर्थितः पदार्थ तरर्थितः सन् दिशति ददातीति सत्यं किन्तु यद्यथा पुनरर्थिता भोगान्ते याचकत्वं स्यात्तथा नैवार्थदः कथमेवमवगतमित्यत आह । यतः निजपादपलबम- निच्छतामपि भजतां स्वयमेव ध्रुवादीनामिव इच्छापिधानं सर्वकामाच्छादकं तदेव निजपादपल्लवं विधत्ते कृपया ददाति निज- पादपल्लवं स्वयमेव बलाद्दत्त्वा इच्छायाः पिधानमाच्छादनं विधत्ते करोतीति वा । ततश्चानभीप्सितामपि सितशर्करां पितुः सकाशात् प्राप्य शिशवो यथा मृदि स्पृहां त्यजन्ति तथैव कामानपीत्यर्थः । अत एव “अकामः सर्वकामो वा” इत्यादी तीव्रेण ज्ञानकर्माद्यमि- श्रेण भक्तियोगेन यजेतेत्युक्तम् । अत्र निष्कामाणां सकामानाच भक्तानामन्ततः पादपल्लवप्राप्तावपि नैव सर्वथा एकरूप्यं भाव- नीयम् । न हि जात्यैव शुद्धं बलात् शोधितच वस्तु तुल्यमूल्यं भवत्यतो ध्रुवादिभ्यः सकाशाद्धनुमदादीनामुत्कर्षः परम एव दृश्यत इति ।। २७ ।। & अत एव प्रार्थयन्ते यद्यत्रेति । स्विष्टस्येति स्विष्टादिजन्यात् स्वर्गसुखादुपभुक्ता दवशेषितं शोभनं सुकृतमस्ति तेन हेतुना अजनाभे भारते जन्म स्यात् स्मृतिमदेतादृशौत्सुक्यस्मरणयुक्तम् । ततश्च तत्र साधुसङ्गं कृत्वा हरिं भजिष्यामः यद्यस्माद्भजतां हरिः शं तनोत्येव ।। २८-३१ । DEDIA INB 45 इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । उनविंशः पश्चमस्य सङ्गतः सङ्गतः सताम् ॥ १९ ॥ TIRE श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः नित्यबद्धान्निन्दन्ति प्राप्ता इति । ज्ञानञ्च तत्पूर्विका क्रिया वासुदेवाराधनं तदर्थानि द्रव्याण्याराधनोपकरणानि च तेषां कलापेन संभृतां पूर्णां वनौका वनौकसः ॥ २५ ॥ * * सकामानामपि भगवद्भक्तानां भारतवासिना महोभाग्यमित्याहुः ।अ. १९ श्लो. २५-३१] अनेकव्याक्या समलङ्कृतम्, ४३९ यैरिति । बर्हिषि यज्ञे यैः भारतवासिभिः “अग्नये जुष्टं निर्वपामि इन्द्राय जुष्टं निर्वपामि” इत्येवं भागशो निरुमं पृथक् कृतम् श्रद्धया विधिना प्रकारेण च मन्त्रेण वस्तुतश्च चरुपुरोडाशादिभेदेन इष्ट देवतोद्देशेन त्यक्तं पृथगिन्द्रादीनां नामभिः आहुतः आहूतः आशिषां प्रभुः स्वयं पूर्णोऽपि भगवानेक एव हविः गृह्णाति “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति श्रीमुखवचनात् ||२६|| निष्कामभक्तास्तु कृतार्था इत्याहुः सत्यमिति । अर्थितः प्रार्थितः अर्थितं याचितं पुरुषार्थं ददातीति सत्यमथापि अर्थदः परमपुरुषार्थदो न भवति यद्यस्माद्यतो दत्तानन्तरं पुनरर्थिता इच्छा भवति अनिच्छतां निष्कामानां भजतां तु इच्छानां पिधानमाच्छादकं सर्वकाम- परिपूरकं निजपादपल्लवं स्वयमेव विधत्ते ददाति ।। २७ ।। * * यदि नोऽस्माकं स्विष्टस्य सम्यग्यजनस्य प्रवचनस्य कृतस्य अन्यस्यापि तपोत्रतादेरनुष्ठितस्य स्वर्गसुखादुपभुक्तादवशेषितमवशिष्टं शोभनं पुण्यं यत्किञ्चिदस्ति तर्हि तेन शोभनेन अजनाभे वर्षे नोऽस्माकं जन्म स्यात् । कीदृगत्र वर्षे हरिर्यजतां भजतां शं सुखं तनोतीति स्मृतिमत् ।। २८ ।। * इमां महीं निखनद्भिरि- त्यनेन नवसहस्रयोजनविस्तारो भरतखण्डस्तत्र भूखनन जलप्रवेशादिना लपविस्तारोपलब्धिर्न विरुध्यते इति सूचितम् ।। २९-३१ ॥ इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृत सिद्धान्तप्रदीपे ऊनविंशाध्यायार्थप्रकाशः ॥ १९ ॥ गोस्वामिश्रीगिरिधरलाल विहिता बालप्रबोधिनी य एवं परमपुरुषार्थोपयोगि जन्म प्राप्यापि विषयासक्त्या प्रमत्तस्तान्निन्दति - प्राप्ता इति । ज्ञानानि ज्ञानेन्द्रियाणि चक्षुरा- दीनि क्रियाः कर्मेन्द्रियाणि द्रव्याणि पचमहाभूतानि तेषां कलापेन सम्भृतामविकलदेहेन्द्रियादिसम्पन्नां नृजातिमिह भारतवर्षे प्राप्ता अपि ये तु जन्तवः प्राणिनो पुनर्भवायोक्तलक्षणमोक्षाय न यतेरन् प्रयत्नं न कुर्वन्ति ते वै भूयः पुनरपि बन्धनमेव यान्तीत्यन्वयः । तत्र दृष्टान्तमाहुः - वनौका इवेति । वनैौकसः पक्षिणो लुब्धकाद्विमुक्ता अपि यदि फललोभेन तस्मिन्नेव वृक्षे प्रमत्ता विहरन्ति तर्हि यथा बध्यन्ते तथा भारते जन्म लब्ध्वाऽपि मोक्षप्रयत्नं विहाय ये विषयासक्ता भवन्ति ते पुनर्बध्यन्त एवेत्यर्थः ॥ २५ ॥ ** तत्र भजनात् सकामनिष्कामभेदेन द्विविधभक्तानां फलमाहुः - चैरिति द्वाभ्याम् । यैर्भारतवासिभिरधिकारिभिर्बर्हिषि यागे श्रद्धया पृथगिन्द्रादिनामभिराहुत आहूत आशिषां चतुर्विधपुरुषार्थानां प्रभुर्दाता अत एव स्वयं पूर्णोऽपि हरिरागत्य विध्युक्तप्रकारेण मन्त्रेण वस्तुतश्चरुपुरोडाशादिभेदेनेष्टं तत्तदेवता योग्यमग्नये जुष्टं निर्वपामि इन्द्राय जुष्टं निर्वपामीत्येवं भागशो निरुतं पृथक्कृतं हविर्मुदा गृह्णातीत्यन्वयः । ननु तत्तन्नाम्नाहूता इन्द्रादय एव हविर्गृह्णन्ति हरिगृह्णातीति कथमुच्यते इत्याशङ्कयाहुः – एक इति, इन्द्रादिनाम- रूपभेदेऽपि वस्तुतस्तत्तद्रूपेण स एक एवेत्यर्थः ॥ २६ ॥ * * द्विविधभक्तानां मध्ये सकामानां नृणां तैरर्थितः प्रार्थितः सन्नर्थित फलं दिशति ददातीति सत्यं, तथापि अर्थदः परमार्थ फलदो नैव भवति । यत् यस्मात् दत्तस्य भोगेन क्षयादनन्तरं पुनरप्य- र्थिता भवति । निष्कामानां तु परमार्थदो भवत्येव । यतस्तेषामनिच्छतामपि भजतामिच्छापिधानं सर्वकामनिवर्त्तकं निजपादपल्लवं स्वयमेव विधते सम्पादयति । तथाच तेषां सर्वसन्तापमूलकामनाया अनुयान्नैव पुनः सकामवत् सन्तापानुभवः किन्तु निरन्तरं परमानन्दानुभव एव । तथोक्तं प्रचेतोभिः - ‘पारिजातेऽअसा लब्धे सारङ्गोऽन्यन्न सेवते । त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहे’ इति ॥ २७ ॥ एवं भारतवर्षे जन्मवतां भगवद्भक्तानां भाग्यं निरूप्य स्वयमपि सत्त्वगुणत्वात् स्वर्गसुखभोगा- वशिष्ठसुकृतार्पणेन तत्र तथाभूतं जन्म प्रार्थयन्ते - यदीति । यदि अनास्मिन् काले नोऽस्माकं स्विष्टस्य सम्यग्यजनस्य सूक्तस्य प्रवच- नस्य कृतस्यान्यस्य वा कर्मणः स्वर्गसुखादुपभुक्ताद वशेषितं शोभनं सुकृतं किश्चिदस्ति तर्हि येनाजनाभे वर्षे स्मृतिमत् हरिरेव सेव्यो नान्यदित्यनुसन्धानयुक्तं नोऽस्माकं जन्म स्यात् । यत् यस्मात् हरिर्भजतां शं स्वानुभवसुखं तनोति । भारते भजनसम्भवात्स्वर्गे तत्प्रति- बन्धवाल्या ||२८|| जम्बूद्वीपस्यान्येऽप्युपदीपाः सन्तीत्याह जम्बूद्वीपेति ॥ २९ ॥ ॐ ॐ तान् दर्शयति- तद्यथेति ॥ ३० ॥ * * * जम्बूद्वीपनिरूपणमुपसंहरति- एवमिति । हे भारतोत्तम इति सम्बोधनेन श्रवणयोग्यत्वं सूचयति ।। ३१ ।। ४ । ।। इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र भूमिस्थाननिरूपणे । ऊनविंशो गतो वृत्ति भारतोत्कर्षरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भकमनोरञ्जनी एवं भारतवर्षप्रशंसापूर्व तदितरवर्षादिस्थान्विनिन्द्य भारवर्षस्थेष्वपि मुमुक्षावर्जितान्निन्दन्ति प्राप्ता इति । इहास्मिन् भारते वर्षे चापि ये जन्तवो जीवाः तु ज्ञानं ज्ञानेन्द्रियाणि च क्रियाः कर्मेन्द्रियाणि च द्रव्यं भूतपञ्चकं च तेषां कलापः संघातस्तेन संभ्रता पूर्णां तां भगवत्सेवोपयुक्तज्ञानकर्मेन्द्रियतदाश्रयभूतामित्यर्थः । एवंविधां नृजातिं प्राप्ताः सन्तोऽपि, यदि अपुनर्भवाय मुक्तये न यतेरन् यत्नं न कुर्युत, तर्हि ते जन्तवः, भूयः पुनरपि वनौका बनवसत्तयः शकुन्ताः इव, बन्धनं यान्ति । यथा शकुन्ता न्ताः इव, बन्धनं यान्ति । यथा शकता लुब्धकान्मुक्ताः सन्तोऽपि पुनर्यदि तत्रैव प्रमत्ता विहरन्ति, तर्हि पुनर्वध्यन्ते तद्वत् ।। २५ ।। * * अहो भारतवर्षवासिनां भाग्यमित्याहुः । यैरिति । यैर्भारतवर्षवासिभिर्नरैः बर्हिषि यज्ञे, श्रद्धया विधिः प्रकारच मन्त्रस्तत्तदेवतामनुश्च वस्तु चरुपुरोडा- शादिकं च तेनेति विधिमन्त्रवस्तुतः । तृतीयार्थात्तसिलो द्वन्द्वान्तत्वात्प्रत्येकं संबन्धः । इष्टम् इन्द्राय स्वाहा इदमिन्द्राय न ममेति । ४४० । श्रीमद्भागवतम् [ स्कं. ५ अ. १९ श्लो. २५-३१ देवतोद्देशेन त्यक्तम् । तथा भागशः इन्द्राय जुष्टं निर्वपामि । अग्नये जुष्टं निर्वपामीत्येवं भागशः, निरुप्तं पृथक् कृतं हविः एकः अग्नीन्द्रादिरूपेण एक एव स्थितः, पृथङ्नामभिरनीन्द्रादिनामभिराहुतः आकारितो भगवान् । हुत इति दीर्घाभाव आर्षः । स्वयं पूर्णः स्वत एवावाप्तसमस्तकामः, आशिषां प्रभुर्दाता सन्नपि, मुदा गृह्णाति । यतः पुरुषार्थपर्यायाणामाशिषां दाताऽतो यष्टृणामा- शिषः प्रदातुं तत्कृताराधनं परिगृह्णातीत्यर्थः । तदुक्तं भगवता ‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’ इति ॥ २६ ॥ ** आशिषां प्रभुरित्यनेन धर्मादिचतुर्विधपुरुषार्थेच्छुभिर्भगवान् भारते वर्षे आराध्य इत्युक्तं तत्र पुरुषार्थेच्छुभ्यः केवला मुमुक्षव एव वरा इति ममुक्षून स्तुवन्ति सत्यमिति । अर्थितस्तत्तत्पुरुषार्थेच्छुभिः प्रार्थितः सन् भगवान् नृणां प्रार्थनाकर्तृजनानां अर्थितं तद्याचित पुरुषार्थं दिशति ददाति यत् इत्येतत् सत्यम् । तत्र अर्थदः न परमपुरुषार्थदो न भवति अस्थिराल्पपुरुषार्थदो, न तु निरतिशयमोक्षरूपपुरुषार्थप्रदः भवतीत्यर्थः । यतः पुनः अर्थिता भवति तथाविधं दत्ते । एवमितर पुरुषार्थेप्सूनां नित्ययाचकत्वान्नित्य- दरिद्रत्वमुक्तं ‘दरिद्रो यस्त्वसंतुष्टः’ इत्येकादशोक्तेः । अथानिच्छतां मुमुक्षूणां सर्वपुरुषार्थानां मोक्षान्तर्भावदाढर्थमाह । अनि- । । च्छतामकामयमानानां भजतां जनानां इच्छापिधानमिच्छामात्राच्छादकं निजपादपल्लवं, स्वयमेव विधत्ते सम्पादयति । समस्त- पुरुषार्थरूपं स्वात्मानमेव ददातीत्यर्थः ॥ २७ ॥ * * एवं भारतीयमुमुक्षून प्रस्तूयाथ स्वमनीषितमा विष्कुर्वन्तस्तमेव भारतं स्तुवन्ति यदीति । यदि नोऽस्माकं स्विष्टस्य सम्यक्कृतयजनस्य, सूक्तस्य प्रवचनस्य कृतस्य अन्यस्यापि शुभकर्मणः स्वर्ग सुखावशेषितं स्वर्गसुखमनुभूयावशिष्टमुपभुक्तात्स्वर्गसुखादवशेषितमिति यावत् । शोभनं सुकृतं चेदस्ति यदि, तेन शुभेन कर्मणा, नोऽस्माकम् अत्र अजनाभे भारते वर्षे, स्मृतिमद्भगवद्विषयकस्मृतियुक्तं जन्म स्यात् नृजन्मन्येव भगवद्विषयकस्मृतिसंभवादनेन हरिरेव सेव्य इत्यनुसंधानयुक्तं नृजन्म भवत्वित्यर्थः । यद्यतः स्मृतिवशतः, हरिः भजतां, शं मोक्षरूपं सुखं तनोति ददातीत्यर्थः ।। २८ ।। * * एवं नवखण्डात्मकं जम्बूद्वीपमुपवर्ण्यथाष्टौ तदुपद्वीपानाह जम्बूद्वीपस्येति । हे राजन्, एके अभियुक्ताः, जम्बूद्वीपस्य अष्टौ उपद्वीपान् ह स्फुटं यथा तथा उपदिशन्ति । न ते प्रियव्रतरथचरणनेमिना परिक्लृप्ता इत्याह । अश्वान्वेषणे पितृयागीयाश्वस्यान्वे- षणसमये, इमां जम्बूद्वीपात्मिकां महीं परितः, समंततः निखनद्भिरवदारयद्भिः, सगरात्मजैः उपकल्पितान्, उपदिशन्तीति संबन्धः ।। २९ ।। तेषामुद्देशं प्रतिजानते तद्यथेति । तदष्टकं यथा निर्द्दिशति । स्वर्णप्रस्थः, चन्द्रशुक्लः, आवर्त्तनः, रमणकः, मन्दर- हरिणः, पाञ्चजन्यः, सिंहलः, लङ्का, इत्येते महाभारते आदिपर्वणि शाकुन्तलोपाख्यानान्ते ‘त्रयोदश समुद्रस्य द्वीपानश्नन् पुरूरवाः’ एतच्छ्लोकव्याख्याने नीलकण्ठ एतट्टीकाकारः रोमकपत्तनं, सिद्धपुरं, यमकोटिरित्यन्यानपि त्रीन् द्वीपानाख्यत् ॥ ३० ॥ * * एवं सोपद्वीपं जम्बूद्वीपमुपवर्ण्योपसंहरति एवमिति । हे भारतोत्तम जम्बूद्वीपस्य ये वर्षा इलावृतादयस्तेषां विभागः, यथोपदेशं गुरूपदेशमनतिक्रम्य यथाक्रमं वा, एवमुक्तप्रकारेण तव पुरतः, उपवर्णितः । इतिः समाप्त्यर्थकः ।। ३१ । 7 इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दखामिसुतश्रीरघुवीराचार्य सुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥ भाषानुवादः ‘अहो ! इन जिन जीवोंने इस भारतवर्ष में ज्ञान ( विवेकबुद्धि), तदनुकूल कर्म तथा उस कर्मके उपयोगी द्रव्यादि सामग्रीसे सम्पन्न मनुष्य जन्म पाया है, वे यदि आवागमनके चक्रसे निकलनेका प्रयत्न नहीं करते, तो व्याधकी फाँसीसे छूटकर भी फलादिके लोभसे उसी वृक्षपर विहार करनेवाले वनवासी पक्षियोंके समान फिर बन्धन में पड़ जाते हैं ।। २५ ।। * * भारतवासियों का कैसा सौभाग्य है ! जब ये यज्ञमें भिन्न-भिन्न देवताओंके उद्देश्यसे अलग-अलग भाग रखकर विधि, मन्त्र और द्रव्यादिके योगसे श्रद्धापूर्वक उन्हें हवि प्रदान करते हैं, तब इस प्रकार इन्द्रादि भिन्न-भिन्न नामोंसे पुकारे जानेपर सम्पूर्ण काम- नाओंके पूर्ण करनेवाले स्वयं पूर्णकाम श्रीहरि ही प्रसन्न होकर उस हविको ग्रहण करते हैं ।। २६ ।। * भगवान् सकाम पुरुषोंके माँगनेपर उन्हे अभीष्ट पदार्थ देते हैं, किन्तु यह भगवान् का वास्तविक दान नहीं है; क्योंकि उन वस्तुओंको * यह ठीक है कि पा लेनेपर भी मनुष्य के मनमें पुनः कामनाएँ होती ही रहती हैं। इसके विपरीत जो उनका निष्कामभावसे भजन करते हैं, उन्हें तो वे साक्षात् अपने चरणकमल ही दे देते हैं- जो अन्य समस्त इच्छाओंको समाप्त कर देनेवाले हैं ।। २७ ।। * अतः अबतक स्वर्गसुख भोग लेनेके बाद हमारे पूर्वकृत यज्ञ, प्रवचन और शुभ कर्मों से यदि कुछ भी पुण्य बचा हो, तो उसके प्रभावसे हमें इस भारतवर्ष में भगवानकी स्मृति से युक्त मनुष्य जन्म मिले; क्योंकि श्रीहरि अपना भजन करनेवालेका सब प्रकार से कल्याण करते हैं’ ॥ २८ ॥ * * श्रीशुकदेवजी कहते हैं-राजन् ! राजा सगर के पुत्रोंने अपने यज्ञके घोड़ेको ढूँढ़ते हुए इस पृथ्वीको चारों ओरसे खोदा था । उसके जम्बूद्वीपके अन्तर्गत ही आठ उपद्वीप और बन गये, ऐसा कुछ लोगोंका कथन है. ॥ २९ ॥ * * वे स्वर्णप्रस्थ, चन्द्रशुक्ल, आवर्तन, रमणक, मन्दरहरिण, पाञ्चजन्य, सिंहल और लंका हैं ॥ ३० ॥ * * भरतश्रेष्ठ ! इस प्रकार जैसा मैंने गुरुमुखसे सुना था, ठीक वैसा ही तुम्हें यह जम्बूद्वीपके वर्षोंका विभाग सुना दिया ॥ ३१ ॥ इत्यूनविंशोऽध्यायः ॥ १९ ॥ exe * mana Fim formed B ि अथ विंशोऽध्यायः bho श्रीशुक उवाच भाग वर्षविभाग उपवण्यते उपव अतः परं पृक्षादीनां प्रमाणलक्षणसंस्थानो ॥ १ ॥ जम्बूद्वीपोऽयं यावत्प्रमाणविस्तार- स्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन । लक्षो जम्बुप्रमाणो द्वीपाख्याकरौ हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपर- राम ॥ २ ॥ शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यथ सप्तै वाभिज्ञाताः ॥ ३ ॥ मणिकूटो वज्रकूट इन्द्रसेनी ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति से तुशैलाः । अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः । यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्वत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४ ॥ प्रत्नस्य विष्णो रूपं यत्सत्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्यो सूर्यमात्मानमीमहीति ॥ ५ ॥ प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥ ६ ॥ प्रक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ॥ ७ ॥ यत्र ह वै शान्मली लक्षायामा यस्यां वाच किल निलय माहुर्भगवतश्छन्दः स्तुतः पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ॥ ८ ॥ * अन्वयः– अतः परम् लक्षादीनाम् वर्षविभागः प्रमाणलक्षणसंस्थानतः उपवर्ण्यते ।। १ ।। अयम् जंबूद्वीपः यावत्प्रमाणविस्तारः तावता क्षारोदधिना यथा मेरुः जम्ब्वाख्येन परिवेष्टितः लवणोदधिः अपि यथा परिखा बाह्योपवनेन ततः द्विगुणविशालेन प्रक्षाख्येन परिक्षिप्तः यत्र द्वीपाख्याकरः जंबूप्रमाणः हिरण्मयः पृक्षः उत्थितः यत्र सप्तजिह्नः अग्निः उपास्ते तस्य अधिपतिः प्रियव्रतात्मजः इध्मजिह्नः स्वम् द्वीपम् सप्तवर्षाणि विभव्य सप्तवर्षनामभ्यः आत्मजेभ्यः आकलय्य स्वयम् आत्मयोगेन उपरराम ।। २ । * * तत्र शिवम् यवसम् सुभद्रम् शान्तम् क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयः च नद्यः सप्त एव अभिज्ञाताः ।। ३ ॥ * * मणिकूटः वज्रकूटः इन्द्रसेनः ज्योतिष्मान् सुपर्णः हिरण्यष्ठीवः मेघमालः इति सेतुशैलाः अरुणा नृम्णा आंगिरसी सावित्री सुप्रभाता ऋतंभरा सत्यंभरा इति महानद्यः यासाम् जलोपस्पर्शनविधूतरजस्तमसः सपतंगो- र्ध्वायनसत्यांगसंज्ञाः चत्वारः वर्णाः सहस्रायुषः विबुधोपमसंदर्शनप्रजननाः त्रय्या विद्यया त्रयीमयम् स्वर्गद्वारम् भगवन्तम् आत्मानम् सूर्यम् यजन्ते ॥ ४ ॥ * * यत् प्रत्नस्य विष्णोः रूपम् च सत्यस्य ऋतस्य ब्रह्मणः अमृतस्य च मृत्योः आत्मानम् सूर्यम् ॥ ईमहि इति ।। ५ ।। * * प्रक्षादिषु पञ्चसु पुरुषाणाम् आयुः इन्द्रियम् ओजः सहः बलम् बुद्धिः च विक्रमः इति सर्वेषाम् औत्पत्तिकी सिद्धिः अविशेषेण वर्तते ॥ ६ ॥ * प्रक्षः स्वसमानेन इक्षुरसोदेन आवृतः यथा तथा शाल्मलः द्वीपः अपि द्विगुणविशालः समानेन सुरोदेन आवृतः परिवृक्ते ॥ ७ ॥ * * यत्र ह वै प्रक्षायामा शाल्मली अस्ति बाब किल यस्याम् भगवतः छंदःस्तुतः पतत्रिराजस्य निलयम् आहुः सा द्वीपहूतये उपलक्ष्यते ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका विंशे प्लक्षादिषद्वीपस्थितिमाह सहार्णवैः । लोकालोकस्थितिवांतर्बहिर्भागादिमानतः ॥ १ ॥ तावता लक्षविस्तारेण परिक्षिप्तः परिवेष्टितः । उपास्ते तिष्ठति । आकलथ्य समर्प्य ॥ २ ॥ * * अभिज्ञाताः प्रसिद्धाः सप्तैव । अन्ये च पर्वता नद्यश्च सहस्रशः संतीत्यर्थः । मानसोत्तरस्य मण्डलाकारत्वो तेरेतेषु प्लक्षादिपञ्चद्वीपेषु वर्षाद्रयस्तिर्य- 1 १. प्रा० पा०– ऋषिरुवाच । २. प्रा० पा० वान् । ३. प्रा० पा०- ख्यातिकरो । ४. प्रा० पा० - व पतन्त्यभिज्ञाताः । ५. प्रा० । [तिकरो ।। ४. प्रा॰ पाव पत पा०—टः शतशृङ्गमिन्द्र० । ६. प्रा० पा० - सप्तशैलाः । ७. प्रा० पा०- मृगगणाऽऽङ्गि । ८. प्रा० पा०- आसां । ९. प्रा० पा०- । । प्रक्षस्तु । ५६ ४४२ श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. १-६ देखाकाराः उभयतोऽब्धिस्पृश इति गम्यते, अन्यथा सप्तभिः सप्तवर्षविभागासम्भवात् । वैष्णवे पूर्वाणां पूर्वादिक्रमोक्तेश्च ॥ ३ ॥ ॥ * * जलोपस्पर्शनेन विधूतं रजस्तमश्च येषाम् । हंसादयो ब्राह्मणादिस्थानीयाः । विबुधोपमं संदर्शनं क्लमस्वेदादिरहितं रूपं प्रजननमपत्योत्पादनं च येषाम् ॥ ४ ॥ * * विगीता अपि द्वीपमन्त्रा व्याख्यायन्ते प्रत्नस्य पुराणपुरुषस्य विष्णोर्यद्रूपं तं सूर्यमीमहि शरणं व्रजेम । कथंभूतम् । सत्यादीनामात्मानमधिष्ठातारम् । तत्र सत्यमनुष्ठीयमानो धर्मः । ऋतं प्रमीयमाणो धर्मः । ब्रह्मणस्तद्बोधस्य वेदस्य अमृतस्य शुभफलस्य । मृत्योरभय- * “सुपर्णोसि गरुत्मान् त्रिवृत्ते शिरः” इत्यादिश्रुतेश्छंदोभिः स्वावयवभूतैः श्रीविष्णुं स्तौतीति छन्दःस्तुत् तस्य गरुडस्य निलयनं स्थानम् । सा शाल्मली । द्वीपस्य हूतये व्यपदेशाय ।। ८-११ ॥ FIFE FRI श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः -WIREIME BAIE TRIFE SI FISTEPE PIKEIFE 浴 IFFISHURSTUPE FISIES FE स्थितिः मर्यादा ( १ ) अतो जम्बूद्वीपात् । परं परत्र ॥। १॥ * * ततो जम्बूद्वीपात् । द्विगुणविशालेन द्विलक्ष- योजनविस्तारेण । परिखा दुर्गादिपरितोऽधः संकुचितः क्रमेणोपरिविस्तृतो भूसमः शत्रुप्रवेशवारकः खातविशेषः । ‘प्रक्षस्तु पर्कटी जटी’ इत्यमरः । उप अधिक्येनास्ते । तस्य प्रक्षद्वीपस्य । सप्तवर्षाणां नामान्येव नामानि येषां ते सप्तवर्षनामानस्तेभ्यो वैयधिकरण्य- बहुव्रीहित्वान्मध्यमपदलोपी समासः ॥ २ ॥ " यवसमित्यत्र यशस्यमिति तीर्थ: पपाठ । इत्यथं इति । मुख्यानामेव गणना भवति सूर्यादिवन्न त्वमुख्यानामपि तारादिवदिति भावः । अन्यथा उभयतोब्धिस्पर्शतिर्यमेखाकारत्वानङ्गीकारे मण्डलाकारत्वाङ्गीकारे वर्षाष्टकं स्याद्विष्णुपुराणोक्तवर्षाणां पूर्वादिकमोऽपि न सेत्स्यतीत्यर्थः ॥ ३-४ ॥ * * विगीता मून्थान्तरेऽवदर्शनावनिश्चित्ता अपि । यद्वा स्पष्टार्थत्वाद्विगतं गीतं व्याख्यानं येषां ते सुगमा अपीत्यर्थः । न तु निंदिताः श्रीशुकदेवेन श्रावितत्वादिति । रूपं प्रतिमा- स्थानीयम् । तत्र सत्यादिषु । प्रमीयमाणः श्रुत्यादिबोधितोऽवश्यं कर्त्तव्यः इत्यर्थः ॥ ५ ॥ * सर्वेषां पुरुषाणां स्वाभाविकी सिद्धिरापुरायाधिक्यरूपा सामान्यतोऽस्तीत्यर्थः ॥ आयुरारादिशब्दाः स्वाधिक्यें लाक्षणिकाः सप्त ॥ ६ ॥ चतुर्लक्षयोजनविशालः । परिक्त पृथग्वर्त्तते । बृजी- वर्जने’ रुधादिरुदात्तेत्। आत्मनेपदमर्षिम्॥७॥ शाल्मली तूलपूर्णफलवान्कदकीवृक्षः श्रुतौ त्रिवृदाख्यवेदभागस्य गरुडशिरस्त्वेनोक्तत्वाद्वेदभागानां गरुडावयवत्वं निश्चीयते ॥ ८ ॥ UREPERIFIE ।। श्रीमद्वीरराघवव्याख्या in
- ।
॥ mic द्विगुणविशालः द्वीपे । यत्र ॥ एवं जम्बूद्वीपः सप्रपन्नमुपवर्णितः । अथ शादीनां द्वीपानामुपवर्णनं प्रतिजानीते शुकः । अतः परमिति । प्रक्षादीनां ये वर्षास्तेषां विभागः प्रमाणं परिमाणं लक्षणं तेषु वसतामायुरिन्द्रियोजः सहोबल बुद्धिविक्रमादीनां स्वभावतो बर्द्धकत्वरूपं संस्थान- मनितरासाधारणाकारः एभिरुपवर्ण्यते ॥ १ ॥ * तावत् पृक्षद्वीपमुपवर्णयति । जम्बूद्वीप इत्यादिना जम्ब्वाख्येनेत्यन्तम् । दृष्टान्तार्थं यथा जम्बूद्वीपो यावद्विस्तारः लक्षयोजनविशालः । तावता लक्षयोजनविस्तीर्णेन क्षारोदधीना लवणसमुद्रेण परितो वेष्टित आवृतः यथा च मेरुद्वीपमध्यस्थो जम्ब्वाख्येन द्वीपेन परिवेष्टित इत्यनुषङ्गः । तथा लवणोदधिरपि ततः लवणोदधेर्द्विगुणविशालेन द्विलक्षयोजनविस्तीर्णेन लक्षाख्येन परितः अभितः क्षिप्तः आवृतो जम्बूद्वीपस्याप्यत्रत्यैः साकल्येनादृष्टत्वात् अप्रसिद्धत्वात् दृष्टान्तान्त- रमाह । यथा परिखा बाह्योपवनेन परिक्षिप्तेति लिङ्गपरिणामेनानुषङ्गः, द्वीपमध्यस्थः प्लक्षो वृक्षः जम्बूप्रमाणः जम्बूवृक्षतुल्योच्छ्रायः द्वीपस्य आख्यातिराख्यानं यत् प्रक्षेति नामधेयं तत्कर आपादकः हिरण्मयः प्रकाशबहुलः उत्थित ऊध्वं स्थितः यत्र यस्मिन् प्रक्षवृक्षमूले सप्त जिह्वाः ज्वाला यस्य तादृशोऽग्निरुपास्ते तिष्ठति तस्य द्वीपस्याधिपतिरित्यनेन चिरं तद्वीपाधिपत्यं कृतवानिति गम्यते । प्रियव्रतस्यात्मज आग्निधानुज इध्मंजिहः तं पुक्षद्वीप सीमाबन्धनेन सप्तवर्षात्मक विभव्य सप्तानां वर्षाणां नामानि तान्येव नामानि येषां तेभ्यः पुत्रेभ्यः सप्त वर्षांण्याकल्य्य समर्प्य स्वयमात्मयोगेन भगवदुपासनात्मकभक्तियोगेनोपररामोपरतः संसारान्मुक्तोऽभू- दित्यर्थः ॥ २ ॥ पुत्रनामानि वर्षाणि निर्दिशति शिवमित्यादिना । तान्पुत्रानाकरस्येति पूर्वेणान्वयः । तेषु वर्षेषु गिरयो नद्यश्च सप्त सप्तैवाभिज्ञाताः प्रसिद्धा आसन्नित्यर्थः । तावत्पर्वतान्नामभिर्निर्दिशति मणिकूट इति मेघमाल इत्यन्तेन । एते एवं वर्षाणां मर्यादागिरय इत्याह । सेतुशैला इति । नदीर्निर्दिशति नामभिः अरुणेत्यादिना विश्वम्भरेत्यन्तेन । इतिशब्देनैतैरेव नाम- भिस्तत्र तत्र शिवादिवर्षे व्यवह्रियन्त इति सूच्यते । नदीर्विशिनष्टि महानद्य इति । स्वच्छत्वपवित्रत्वविस्तृतत्वादिमहागुणाश्रया इत्यर्थः ।। ३ ।। * * पुनस्ता एव नदीर्विशिषस्तेषु प्रक्षद्वीपवर्षेषु चतुरो वर्णान्नामभिनिर्दिशन्नषामायुःपरिमाणमुपास्यचाह । यासामिति । यासामरुणा दिनदीनां जलस्योपस्पर्शेन स्नानपानादिना विधूत रजस्तमश्च येषां ते चत्वारो वर्णाः हंसादिसंज्ञाः ब्राह्म- णादिसंज्ञास्थानीया हंसादिसंज्ञा। सहस्रं वर्षाण्यायुरेषां ते यादृशाः विबुधोपमं संदर्शनं सौन्दर्यं येषां तानि प्रजननान्यपत्यानि येषा - मेवम्भूताः सन्तुस्त्रय्या विद्यया वेदविद्यया वेदोक्तकर्मयोगादिभिः तन्मूलस्मृत्यायुक्तमार्गेःश्च यथायोग्यं त्रयीमयम् ऋग्यजुरादिवेद- प्रचुरं तद्भास्क्रत्वात् तदध्यापयितृत्वात्तत्प्रतिपाद्यत्वाच्च तत्प्राचुर्य बोधयं सूर्य सूर्यशरीरकमात्मानं परमात्मानं यजन्ते आराध- यन्ति ॥ ४ ॥ * * तेषां जप्यमानमन्त्रमाह प्रत्नस्येति । प्रत्नस्य पुराणस्यानादेर्जगत्कारणस्येति यावत् सत्यस्य निर्विकारस्य । प्रत्नस्येत्यनेन समष्टिजीबव्यावृत्तिः तस्य सादित्वात् । सत्यस्येत्यनेन व्यष्टयवस्थचेनाचेतनन्यावृत्तिः, तयोर्विकारित्वाद्दतस्य निरति-
- । स्का ५ अ. अ. २० लो. 1 अनेकव्याख्यासमलङ्कृतम् . ॥ ४४३ शेयसुकृतस्य धर्माधर्वाचीनसुकृत फलप्रदस्येत्यर्थः । ऋतस्य तदधीनत्वादुपचारान्तदभेदेन निर्देशः । ऋतशब्दो हि सुकृतफलपर: “ऋतं पिबन्तौ सुकृतस्य लोके” इति श्रौतप्रयोगात् । यद्वा ऋतशब्दः पुण्यस्य कर्मणो वाचकः, उपचारात्तदन्तरात्मतया तत्कारथि- तरि प्रयुज्यते, पुण्यस्य कर्मणः कारयितुरित्यर्थः । तत्कारयितृत्वञ्च श्रुतेः ‘एष एव साधु कर्म कारयति यमुन्निनीषति” इति ऋतशब्दो हि पुण्यस्य कर्मणोऽपि वाचकः “यथा पुण्वस्य कर्मणां दुराङ्गन्धो वाति” इति पुण्यं कर्म प्रस्तुत्य तत्प्रतिसम्बन्धिनो पुण्यस्य कर्मण एवम् “अनृतादात्मानं जुगुप्सेत” इत्यनृतशब्देन निर्देशात्पुण्यस्य कर्मणः ऋतशब्दो वाचक इत्यवगम्यते । तथा अमृतस्य च मृत्योश्चेत्य- मृतमृत्युशब्दावपि बन्धमोक्षवाचकौ उपचारात्तद्वन्तौ प्रयुक्तौ । भगवतञ्च बन्धमोक्षहेतुत्वश्च श्रुतम् “संसारमोक्षस्थितिबन्धहेतुः” इति “उतामृतत्वस्येशानो यदन्नेनातिरोहति” इति च, एवम्भूतस्य ब्रह्मणो विष्णोर्यद्रूपं शरीरभूतं तत्सूर्याख्यमात्मानं जीवविशेषमीमहि शरणं अजेम । प्रतर्दनविद्यान्यायेनात्र सूर्यजीवशरीरकपरमात्मोपासनमुक्तमित्यवमन्तव्यम् ॥ ५ ॥ * * पक्षादिषु पञ्चसु द्वीपेषु अविशेषेण सामान्येन सर्वेषां पुरुषाणामायुरादिरूपा सिद्धिरोत्पत्तिकी जन्मसिद्धा वर्त्तते । अत्रेदमवगन्तव्यं मानसोत्तर- गिरेर्मण्डलाकारत्वोक्तेरेवेषु क्षादिषु पञ्चसु द्वीपेषु वर्षाद्रयस्तिर्यक्त्वाकारा उभयतोऽब्धिस्पृशः । अन्यथा सप्तभिः सप्तवर्षाणां विभागासम्भवाच श्रीवैष्णवे पुराणे वर्षाणां पूर्वादिक्रमेणोक्तेश्चेति ॥ ६ ॥ * * एवं लक्षद्वीपः सवर्षपर्वतनदीवर्णाश्रमपुरुष उपवर्णितः, अथ तद्दृष्टान्तेन शाल्मलीद्वीपमनुवर्णयति लक्ष इति । यथा लक्षद्वीपः समानेन स्वतुल्यविशालेनेक्षुरसोदेन द्विक्षयोजन- विशाळेनावृतस्तथा शाल्मलीद्वीपोऽपि द्विगुणविशालः लक्षद्वीपापेक्षया चतुर्लक्षयोजनविशाल इत्यर्थः । स्वमानेन चतुर्लक्षयोजनविशालेन सुरोदधिनाभितो वृत्तेनाका रेणावृतः परिवेष्टितः ॥ ७ ॥ * * यत्र द्वीपे शाल्मली द्वीपसमानविस्तारा आस्तां विशिनष्टि । यस्यां शाल्मल्यो वा वकिलशब्दो निपातसमुदायः प्रसिद्धियोतकश्छन्दस्तुतः छन्दोभिः “सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो मायत्र चक्षुः स्तोमः आत्मा साम ते तनू वामदेव्यं बृहद्रथन्तरे पक्षी यज्ञायज्ञीयं पुच्छं छन्दांस्यङ्गानि धिषिण प्रारिशिखा यंजूषि नाम” इत्यादिभिः छन्दोऽवयवत्वेन स्तूयते इति छन्दस्तुत् आर्षत्वात्कर्मणि किपू, तस्य छन्दसामक्षरेय त्तारूपपरिणामात्मकानां गायत्र्यादीनां तच्चक्षुराद्यवयवत्वं तेषां तचक्षुराद्यवयवदृष्टयोपासननिबन्धनमित्यवगन्तव्यम् छन्दः सुपर्णोऽसीत्यादिरूपं स्तुत्यं यस्य गायत्र्याद्यवयवकत्वेन स्तावकं यस्येत्यर्थः । एवम्भूतस्य पतत्रिराजस्य पक्षिराजस्य गरुत्मतः सौपर्णस्य निलयनं नीडमाहुः विपश्चितइतिशेषः शाल्मली । द्वीपहूतये हूतिर्व्यवहारः शाल्मलीद्वीप इति व्यवहारायेत्यर्थः, उपलभ्यते उपलक्ष्यते क दृश्यत इत्यर्थः ॥ ८ ॥ सपन
यद्वा श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ए ॥ नई BORAN प्रक्षादिद्वीपप्रमाणादिज्ञानेन श्रीनारायणमाहात्म्यमेव ज्ञाप्यतेस्मिन्नध्याये । प्रमाणमियत्ता “प्रमाणं बोधने यत्ता मर्यादाशास्त्र- हेतुषु” इति यादवः, लक्षणमेतावद्गिरिसरिद्वद्यावृत्तं संस्थानं वर्तुल चतुरस्रत्वादिस्वरूपप्रकारः ॥ १ ॥ * * तावता विस्तारेण लक्षयोजनप्रमाणेन ततो जम्बूद्वीपात प्रक्षाख्येन बहिः स्थितेन तत्र दृष्टान्तो यथेति । यत्र द्वीपे लक्ष उत्थितः असौ पृक्षः जम्बूप्रमाणः द्वीपख्यातिकरत्वे जम्बू प्रमाणीकरोति अधिसहस्रयोजनोनाह’ इति वा, यत्रेत्युत्तरत्रापि सम्बद्धयते श्रीहरिमिति शेषः । आकलय्य । दत्त्वा ॥ २ ॥ * अभिज्ञाताः प्रसिद्धाः प्रधाना वा ॥ ३ ॥ सेतुशैलाः मर्यादागिरयः विबुधोपमसंदर्शनं प्रजननं सुरतबलश्च येषां ते तथा सूर्यात्मानं सूर्यस्वरूपम् ॥ ४ ॥ * * प्रत्नस्ये पुरातनस्य विष्णोर्व्याप्तिस्य हरेर्यद्रूपं प्रतिमा- स्थानीय य यच सत्यर्तस्य वाचिककायिकसुकृतप्रेरकस्य ब्रह्मणो विरिवस्य रूपं सन्निधाननिमित्तं यश्चामृतस्यामरसमूहस्य मृत्योर्मारकस्य महेश्वरस्य रूपम् एवं त्रिमूर्तिनिवासयोग्यं तं सूर्यमात्मानमीमहि शरणं प्राप्नुम इति मन्त्रार्थः । ननु सूर्यान्तः स्थितं हरि शरणं प्रपद्यामह इति व्याख्यानं किंप्रमाणकं प्रतीतार्थ परित्यज्यान्यार्थाङ्गीकारस्य प्रमाणसापेक्षत्वादितीयमाशङ्का “सूर्यसोमाग्निवारीश- विधातृषु यथाक्रमम् । पृक्षादिद्वीपसंस्थासु स्थितं हरिमुपासतें ॥” इत्येतेन परिहर्तव्येति ॥ ५-६ ॥ ॥ ॥ - परिवृत्तेन वर्तुलेनेत्ये- तत्सर्वद्वीप समुद्रेष्वनुसन्धेयम् ॥ ७ ॥ * यत्र शाल्मली समुत्पन्ना स द्वीपः शाल्मलः प्रक्षायामेत्यनेन शाल्मल्या: परिमाणं सम्यङ् न ज्ञातं स्यादित्यतः साध्यर्धेति । “सुपर्णोऽसि गरुत्मान्” इत्यादिच्छन्दोभिर्वेदः स्तूयत इति छन्दस्तुत् ।। ८-११ ॥ PEEP PE TIPSIP का S FIBER डी श्रीमजी गोस्वामिकृतः क्रमसन्दर्भ क परिवृत इति” वृजी वजने “रुधादिरुदातेत आत्मनेपदमाष, पृथग वर्त्तत इत्यर्थः ॥ 8-8 Fie 11 2 11 RE || श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी का RE फ Tell As SpIOTE–BIRIES FIBER FIE लक्षद्वीपादिवर्षाब्धिनदीशैलेज्य देवताः । लोकालोकाचलश्चापि विंशे प्रोक्ता यथास्थितम् ॥ १ ॥ परिक्षिप्तः परिवेष्टितः उप अधिक्येनास्ते आकलय्य दत्वा ॥ २ ॥ गिरयो हि वर्षसीमाभिव्यञ्जका उभयतोऽधि स्पृशन्तस्तिर्यग्रेखाकाराः ।। ३ || हसादयो ब्राह्मणादिस्थानीयाः विबुधपम सन्दर्शनं रूपं प्रजननमपत्योत्पादन येषां ते ॥ ४ ॥ * * प्रत्नस्य पुराणपुरुषस्य यद्रूपं तं सूय्र्यमीमहि शरणं व्रजेम । कीदृशं सत्यादीनामात्मानमधिष्ठातारं सत्यमनुष्ठीयमानो धर्मः ऋतं प्रतीयमानो धर्मः ब्रह्मणस्तद्बोधकस्य वेदस्य । many बाफलस्य मृत्यो ‘सुपर्णोऽसि ર श्रीमद्भागवतम् स्कं. ५ म. २० श्लो. १-८ गरुत्मान् त्रिवृत्ते शिर” इत्यादिश्रुतेश्छन्दोभिः स्वावयवभूतैर्विष्णुं स्तौतीति छन्दस्तुत् तस्य, सा शाल्मली द्वीपस्य हूतये नाम्ने ।। ५- ११ ॥ name peese femi श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः ॥ किश जम्बूद्वीपं निरूप्य ततः परितः संस्थितान् क्षारोदादीन् समुद्रान् प्रक्षादीन् द्वीपांश्च वर्णयति भगवान् शुकः विंशेना- ध्यायेन ॥ १ ॥ तावता लक्षयोजनविस्तारेण क्षारोदधिना अयं वेष्टितः परिक्षिप्तः परितः आवृतः द्वीपाख्याकरः पृक्षद्वीप- संज्ञासम्पादकः जम्बूप्रमाणः जम्बूद्वीपसमानविस्तारः सप्तजिह्नः सप्तशिखः उपास्तै तिष्ठति । आकलय्य समर्प्य आत्मनि परमात्मनि यो योगो ध्यानयोगस्तेनोपरराम संसारान्मुक्तोऽभूदित्यर्थः ॥ २ ॥ * * अभिज्ञाताः प्रसिद्धास्तु सप्तैव अप्रसिद्धाः सहस्रशः इति भावः ॥ ३ ॥ * हंसादयः ब्राह्मणादिस्थानीयाः विबुधोपमं सम्यग्दर्शनं प्रजनन येषां ते सहस्रायुषः सहस्रं संवत्सराः आयुर्येषां ते स्वर्गद्वारं स्वर्गप्रापकं त्रयीमयं त्रयीप्रतिपाद्यं सूर्यात्मानं सूर्यरूपमात्मानं भगवन्तं त्रय्या विद्यया वेदत्रयोक्त- कर्ममार्गेण यजन्ते आराधयन्ति ॥ ४ ॥ * प्रत्नस्य पुरातनस्य जगत्कारणस्य विष्णोर्यद्रूपं तं सूर्य मात्मानं परमात्मान- मीमहि शरणं व्रजेम विष्णोः सर्वात्मत्वमाहुः । सत्यस्य समदर्शनरूपस्य ऋतस्य सूनृतवाणीरूपस्य ब्रह्मणः शब्दब्रह्मरूपस्य अमृतस्य जीवनहेतोः मृत्योर्मरणहेतोः चकारात्सर्व चराचररूपस्येत्यर्थः ॥ २ ॥ ॥ || दी औत्पत्तिकी सहजा ॥ ६-७ ॥ * * प्रक्षायामः लक्षद्वीपवदायामो विस्तारो यस्याः सा अत एव यस्यां विपुलविस्तारायां पतत्रिराजस्य निलयं नीडमाहुः प्राञ्चः । कथम्भूतस्य “सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्र चक्षुः स्तोम आत्मा साम ते तनू वामदेव्यं बृहद्रथन्तरे पक्षी यज्ञायज्ञीयं पुच्छं छन्दांस्यङ्गानि” इत्यादिश्रुतेः छन्दोभिः स्वावयवभूतैः श्रीविष्णु स्तौतीति छन्दस्तुत्तस्य द्वीपस्य हूतये व्यपदेशाय संज्ञासिद्धये इत्यर्थः ।। ८-११ ।। का आन गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी प्रक्षादीनां प्रमाणादि सावानां सभूभृताम्। भागलक्षणभेदेन विंशेऽध्याये निरूप्यते ॥ १ ॥ । । एवं चतुर्विधपुरुषार्थहेतुत्वाञ्चतुर्भिरध्यायैर्जम्बूद्वीपं निरूप्य क्रमप्राप्तं प्रक्षादीनां प्रमाणादिनिरूपणं सावधानतया श्रवणार्थं प्रतिजानीते - अतः परमिति । अतः परं जम्बूद्वीपस्य वर्षविभागप्रमाणादिनिरूपणानन्तरं पृक्ष इति आह्ना नाम यस्य द्वीपस्य स आदिर्येषां षण्णां द्वीपानां प्रमाणादितो वर्षविभाग उपवर्ण्यते । तत्र प्रमाणं योजनानि लक्षणमसाधारणं चिह्न नाम हेतुः प्रक्षादि संस्थानं मण्डलाकार तिरश्रीनाकारादि ॥ १ ॥ * * अयं जम्बूद्वीपो यावत्प्रमाणविस्तारः यावता लक्षयोजनेन प्रमाणेन विततस्तावता लक्षयोजनविस्तृतेन, क्षारोदधिना स्वयं परिवेष्टितः । तत्र दृष्टान्तः—यथा मेरुर्जम्ब्वाख्येन द्वीपेनेति । वेष्टितत्वमात्रे दृष्टान्तो न समप्रमाणत्वेऽपि षोडशसहस्रयोजनमे रुप्रमाणोक्तिविरोधात् । जम्बूद्वीपस्य सर्वे दोषाः समुद्रे गताः, अवस्तस्य क्षारत्वं राजसत्वं च ज्ञेयम् ॥ २ ॥ * * परिक्षिप्तः परिवेष्टितः । तत्र दृष्टान्तमाह—यथेति । अत्रेदं बोध्यम् प्रियव्रतेन स्वेच्छया रचितस्य ज्योतिर्मयरथस्य तदिच्छयैव प्रतिदिनं वेगाधिक्यात् तावतैव कालेन पूर्वस्मात्पूर्वस्मात् द्विगुणक्षेत्र- परिभ्रमणं तेन पूर्वस्मात्पूर्वस्मादुत्तरस्योत्तरस्य द्वीपस्य द्वैगुण्यं द्विगुणक्षेत्राभिघातेन अवयव विभागान्नवीन नवीन कल्पनाद्वा रथचक्रस्य द्वैगुण्यात् पूर्वस्मात्पूर्वस्मादुत्तरस्योत्तरस्य समुद्रस्य द्वैगुण्यं चेति ॥ ३ ॥ * * जम्बूप्रमाणं एकादशशतयोजनोच्छ्रायः शाखाभिरेकादशशतयोजनविततः शतयोजनस्थूलच पृक्षो यत्र द्वीपे द्वीपाख्याकरो द्वीपनामनिरुक्तिहेतुरस्ति । यत्र द्वीपे प्रक्षे वा उत्थितः अतिप्रज्वलितो हिरण्मयः प्रकाशमानः सप्तजिह्नः अग्निरुपास्ते तिष्ठतीत्यन्वयः ॥ ४ ॥ * * तस्य द्वीपस्य । आकलय्य दत्त्वा । आत्मयोगेन भगवद्धधाननिमित्तन राज्यभोगादित उपरराम | प्रियव्रतपुत्रत्वसाम्यात् आग्नीधवदिध्मजिह्वादीनामपि राज्यभोगोऽयुतायुतसंवत्सरपर्यन्तो ज्ञेयः ॥ ५ ॥ * * वर्षाणां नामान्येव नामानि येषां तेभ्यः पुत्रेभ्य इत्युक्त तत्र कानि वर्षेनामानीति बीक्षायां तानि दर्शयति – शिवमित्यादिसप्तभिः पदैः । द्वीपानां प्रियव्रतपुत्राणां द्वोपाधिपतीनां तत्तद्वीपवर्षाणां तद्विभाजकपर्वतानां नदीनां तत्तद्वर्षाधिपतीनां तत्पौत्राणां च सप्तसङ्ख्याकत्वं प्रियत्रतेषु सर्वत्रैश्वर्यादिषड्गुणयुक्तो भगवानेव स्थितः सर्व कार्य करोतीति सूचनाय भगवत्प्रेरितप्रियत्रतेच्छयैव कृतमिति ज्ञेयम् । तेषु लक्षद्वीपवर्षेषु गिरयो मयादापर्वता नद्यश्चाभिज्ञाताः प्रसिद्धाः सप्तैव । अन्ये च पर्वता नयश्च सहस्रशः सन्तीत्यर्थः । प्रसादीनां द्वीपानां मण्डलाकारत्वात् तद्वेषविभाजकाः पर्वतासि - र्यप्रखाकारा उभयतोऽधि स्पृशन्तः सन्तीति ज्ञेयम् । अन्यथा सप्तभिः पर्वतैः सप्तवर्षविभागासम्भवात् ।। ६ ।। * * तान् पर्वतान् दर्शयति–मणिकूट इति ॥ ७ ॥ * * नदीदेशयति अरुति ॥ ८ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी माह पृक्षादिषड्वीपस्थिति विशेऽर्णवैः सह । लोकालोकीं स्थिति चान्तर्बहिर्भागादिमानगम् ।। १ ।। अथ प्रक्षादीनामुपवर्णनं प्रतिजानीते शुकः । अतः परमिति अतः परं जम्बूद्वीपवर्णनानन्तरमित्यर्थः । पृक्षादीनां द्वीपानां प्रमाणमियन्ताच_लक्षणं बर्तुलादि च संस्थानमेतावद्विरिसरिदादिव्याहरणादिरूपसंनिवेशश्च तैरिति ततः, वर्षविभागः ४… अनेकव्याख्यासमलङ्कृतम् । v स्क. ५ अ. २० श्लो. १-८ ] ] उपवर्ण्यते ॥ १ ॥ * तत्र लक्षद्वीपमुपवर्णयति । जम्बूद्वीप इत्यादिना । अयं जम्बूद्वीपः यावत्प्रमाणविस्तारः लक्षयोजन- विस्तारः, अस्ति । तावता लक्षयोजनविस्तारेण, क्षारोदधिना लवणोदकेन समुद्रेण, परिवेष्टितः । कः केनेवेत्यत्राह । यथा, मेरुरि- 1 लावृतमध्यस्थः कनकाचल, जम्ब्वाख्येन द्वीपेन परिवेष्टितो भवति, यथा लवणोदधिः अपि ततो लवणोदधेः, द्विगुणविशालेन द्विलक्षयोजनविशालतावता, लक्षाख्येन लक्षनाम्ना दीपेन, परिक्षिप्तः परिवेष्टितः, लवणोदधेः प्रक्षद्वीपपरिवेष्टनेन कीदृशी शोभा जाता तत्राह । यथा परिखा बाह्योपवनेन परिवेष्टिता सती शोभते तथाविधा जाता । एवं च सति जम्बूद्वीपस्य पुरसादृश्यता लवणोदधेः परिखासादृश्यता लक्षद्वीपस्योपवनसादृश्यता जाता । अत्र लवणोदधेः, लक्षपरिमाणत्वं प्रक्षस्य ततो द्विगुणपरिमाणत्वं परिणाहत्वेन बोध्यं, न तु वर्तुलतया स्थितस्य समग्रस्य, लक्षद्वीपस्य लक्षसंज्ञा तु तत्रस्थप्लक्ष द्रुमेणास्ति, ततस्तं परिमाणादिसहितं वदति । यत्र लक्षद्वीपे, लक्षः लक्षाख्यो द्रुमः, जम्बूप्रमाणः यथा जम्बूद्वीपे जम्बूतरुरेकादशशतयोजनोच्छ्रायस्थोऽयमपि तावदुच्छ्रायः । द्वीपाख्याकरः तस्य द्वीपस्य लक्षद्वीपसंज्ञाधारकः, यत्र उत्थित उद्भूतः, हिरण्मयः सप्तजिह्नः सप्तार्चिः अग्निः, उपास्ते तिष्ठति । उच्छ्रित इति पाठे पृक्षः, जम्बू प्रमाणः, उच्छ्रित उन्नत इत्यन्वययोजना । तस्य पृक्षद्वपस्य अधिपतिः, प्रियव्रतात्मजः इध्मजिह्नः, स्वमात्मीयं द्वीपं, सप्तधा विभज्य सप्तवर्षात्मना द्वीपविभागान् कृत्वेत्यर्थः । सप्तानां वर्षाणां नामान्येव नामानि येषां तेभ्यः, आत्म- जेभ्यः पुत्रेभ्यः, आकलय्य यथायथं समर्प्य, स्वयं आत्मयोगेन भगवदुपासनात्मकभक्तियोगेन, उपरराम संसारान्मुक्तोऽभूदित्यर्थः । आत्मयोगेन समाधिनेति केचित् ॥ २ ॥ * * वर्षाणि विनिर्दिशति । शिवमिति । शिवं, यवसं, सुभद्रं, शान्तं, क्षेम, अमृतं, अभयं, इत्येतानि वर्षाणि । तेषु वर्षेषु गिरयः मर्यादार्थकाः पर्वताः, सप्त सप्तसंख्याकाः एव । नद्य एतेभ्यः प्रसृताः सरितश्च सप्तैव, अभिज्ञाताः प्रसिद्धाः । आसन्निति शेषः । एते एतास्तु प्रसिद्धाः । अन्ये पर्बता नद्यश्च सहस्रशः सन्तीत्यभिज्ञातपदतो बोध्यम् । मानसोत्तरस्य मण्डलाकारत्वोक्तेरेतेषु वृक्षादिषु पञ्चसु द्वीपेषु वर्षाद्रयस्तिर्यखाकारा उभयतोऽब्धि स्पृशन्त इति गम्यतेऽन्यथा सप्तवर्षविभागासंभवात् । वैष्णवे वर्षाणां पूर्वादिक्रमोक्ते || ३ || * * सप्त तांस्ताचाह । मणिकूट इति । मणिकूटः, वज्रकूटः, इन्द्रसेनः, ज्योतिष्मान् सुपर्णः, हरिण्यष्ठीवः, मेघमालः इत्येते सेतुशैला मर्यादा गिरयः । अरुणा, नृम्णा, आङ्गिरसी, सावित्री, सुप्रभाता, ऋतंभरा, सत्यंभरा, इत्येताः महानद्यः ॐ सत्यंभरा, इत्येताः महानयः। स्वच्छत्वपवित्रत्वविस्तृतत्वादिमहागुणाश्रया इत्यर्थः । पुनस्ता एव विशिषंस्तेषु लक्षद्वीपवर्षेषु चतुरो वर्णान्नामभिर्निर्दिशंस्तेषामायुर्मानं तदुपास्यं वाह । यासामरुणादिनदीनां जलस्य उपस्पर्शेन स्नानपानादिना विधूतं रजस्तमश्च येषां ते, हंसो ब्राह्मणस्थानीयश्च पतङ्गः क्षत्रियस्थानीयश्च ऊर्ध्वायनो वैश्यस्थानीयश्च सत्याङ्गः शूद्रस्थानीयश्च ते संज्ञा येषां ते, चत्वारः वर्णाः, सहस्रं वर्षाण्यायुर्जीवितकालो येषां ते तथाभूताः, विबुधोपमें संदर्शनं सौन्दर्यं कुमस्वेदादिरहितं रूपमित्यर्थः । तच्च प्रजननमपत्योत्पादनं च येषामेवंभूताः सन्तः, त्रय्या विद्यया वेदोक्तयागादिकर्मभिः, तन्मूलस्मृत्याद्युक्तमार्गैश्च यथायोग्यं त्रयीमयं ऋग्यजुरादिवेदप्रचुरं यद्धारकत्वात्तदध्यापयितृत्वात्तत्प्रतिपाद्यत्वाश्च तत्प्राचुर्यं बोध्यम् । स्वर्गद्वारं स्वर्गप्राप्तेर्द्वारभूतं, भगवन्तं सूर्य सूर्यशरीरकं, आत्मानं परमात्मानं यजन्ते आराधयन्ति ॥ ४ ॥ * * तज्जपनीय- मन्त्रानाह । प्रत्नस्येति । प्रत्नस्य पुरातनस्य जगत्कारणत्वादनादेः, सत्यस्य निर्विकारस्य, ऋतस्य निरतिशयसुकृतफप्रदस्य च, अमृतस्य मोक्षहेतोः, मृत्यो बन्धहेतोच, संसारमोक्षस्थितिबन्धहेतुः’ इति श्रुतेः । एवंभूतस्य, ब्रह्मणः विष्णोः यत् रूपं यत् शरीर- भूतस्तं सूर्य, आत्मानं ईमहि शरणं प्रनेम । प्रतर्द्दनविद्यान्यायेनात्र सूर्यजीवशरीरकपरमात्मोपासनमुक्तमित्यवंग- * * प्रक्षादिष्विति । पृक्षादिषु पञ्चसु द्वीपेषु, सर्वेषां पुरुषाणां आयुः, इन्द्रिय, ओजः, सहः, बल, बुद्धिः, विक्रमः, इत्येषां सिद्धिः, औत्पत्तिकी साहजिकी, अविशेषेण वर्त्तते ॥ १६ ॥ * * एवं प्रक्षद्वीपः सवर्षपर्वतनदीकः सवर्णा- श्रमपुरुषः उपवर्णितः । अथ तद्दृष्टान्तेन शाल्मलीद्वीपमुपवर्णयति लक्ष इति । यथा पृक्षद्वीपः, स्वसमानेन स्वतुल्यविशालेन, इक्षुरसोदेन द्विलक्षयोजनविशालेनेक्षुर साब्धिना, आवृतः अस्ति । तथा शाल्मलः द्वीपः अपि, द्विगुणविशालः लक्षद्वीपापेक्षया, चतुर्लक्षयोजनविशाल इत्यर्थः । समानेन चतुर्लक्षयोजनविशालेन, सुराब्धिना, आवृतः सन्, परिवृङ्क्ते अभितो वृत्तेनाकारेण परिवेष्टितः संस्तिष्ठतीत्यर्थः ॥ ७ ॥ * * * यत्र हेति । यत्र द्वीपे, ह स्फुटतया वर्त्तमाना शाल्मली कुक्षायामा प्रक्षसमान- विस्तारा, आस्ते वै । यस्यां शाल्मल्या, वावकिलेति निपातसमुदायः प्रसिद्धि द्योतयति ‘सुपर्णोऽसि गरुत्मानिवृत्ते शिरः’ इति श्रुत्या छन्दसा छन्दोऽवयवत्वेन स्तूयते इति छन्दस्तुत्तस्य छन्दस्तुतः, यद्वा छन्दोभिः स्वावयवैः, श्रीविष्णुं स्तौतीति छन्दस्तुत्तस्य, भगवतो महैश्वर्यवतः पतत्रिराजस्य गरुडस्य, निलयं नीडं, आहुः। सा शाल्मली, तत्र द्वीपहूतये द्वीपस्य व्यपदेशाय, यद्वा हूतिर्व्यवहारः, तथा सति शाल्मलीद्वीप इति व्यवहारायेत्यर्थः । उपलक्ष्यते दृश्यते ॥ ८ ॥ न्तव्यम् ।। ५ ।। भाषानुवादः अन्य छः द्वीपों तथा लोकालोकपर्वतका वर्णन । श्रीशुकदेवजी कहते हैं–राजन् ! अब परिमाण, लक्षण और स्थितिके अनुसार प्लक्षादि अन्य द्वीपोंके वर्षविभागका वर्णन किया जाता है ।। १ ।। जिस प्रकार मेरु पर्वत जम्बूद्वीपसे घिरा हुआ है, उसी प्रकार जम्बूद्वीप भी अपने ही समान परिमाण और विस्तारवाले खारे जल के समुद्रसे परिवेष्टित है। फिर खाई जिस प्रकार बाहर के उपबनसे घिरी रहती है, ४४६ श्रीमद्भागवतम् میلاد [ स्क . ५ अ. २० श्ली. ९१६ उसी प्रकार क्षारसमुद्र भी अपनेसे दूने विस्तारवाले प्लक्षद्वीपसे घिरा हुआ है। जम्बूद्वीप में जितना बड़ा जामुनका पेड़ है, उतने ही विस्तारवाला यहाँ सुवर्णमय प्लक्ष ( पाकर ) का वृक्ष है । उसीके कारण इसका नाम प्लक्षद्वीप हुआ है । यहाँ सात जिल्ह्नाओं- वाले अग्निदेव विराजते हैं। इस द्वीपके अधिपति प्रियत्रतपुत्र महाराज इध्मजिह्न थे। उन्होंने इसको सात वर्षोंमें विभक्त किया और उन्हें उन वर्षोंके समान ही नामवाले अपने पुत्रोको सौंप दिया तथा स्वयं अध्यात्मयोगका आश्रय लेकर उपरत हो गये ॥ २ ॥ * * इन वर्षों के नाम शिव, यवस, सुभद्र शान्त, क्षेम, अमृत और अभय हैं। इनमें भी सात पर्वत और सात नदियाँ ही प्रसिद्ध हैं ॥ ३ ॥ * * वहाँ मणिकूट, वज्रकूट, इन्द्रसेन, ज्योतिष्मान्, सुपर्ण, हिरण्यष्ट्रीव और मेघमाल ये सात मर्यादापर्वत हैं तथा अरुणा, नृम्णा, आङ्गिरसी, सावित्री, सुप्रभाता, ऋतम्भरा और सत्यम्भरा-ये सात महानदियाँ हैं । वहाँ हंस, पतङ्ग, ऊर्ध्वायन और सत्याङ्ग नामके चार वर्ण हैं । उक्त नदियोंके जलमें स्नान करनेसे इनके रजोगुण तमोगुण क्षीण होते रहते हैं । इनकी आयु एक हजार वर्षकी होती है। इनके शरीरोंमें देवताओंकी भाँति थकावट, पसीना आदि नहीं होता और सन्तानोत्पत्ति भी उन्हींके समान होती है। ये त्रयीविद्याके द्वारा तीनों वेदोंमें वर्णन किये हुए स्वर्गके द्वारभूत आत्मस्वरूप भगवान् सूर्यकी उपासना करते हैं ॥ ४ ॥ वे कहते हैं कि जो सत्य ( अनुष्ठानयोग्य धर्म) और ऋत ( प्रतीत होनेवाले धर्म ) वेद और शुभाशुभ फलके अधिष्ठाता है-उन पुराणपुरुष विष्णुस्वरूप भगवान् सूर्यकी हम शरण में जाते हैं ॥ ५ ॥ लक्ष आदि पाँच द्वीपोंमें सभी मनुष्यों को जन्मसे ही आयु, इन्द्रिय, मनोबल, इन्द्रियबल, शारीरिक बल, बुद्धि और पराक्रम समानरूपसे सिद्ध रहते हैं ॥ ६ ॥ प्रक्षद्वीप अपने ही समान विस्तारवाले इक्षुरसके समुद्रसे घिरा हुआ है। उसके आगे उससे दुगुने परिमाणवाला शाल्मलीद्वीप है, जो उतने ही विस्तारवाले मंदिर के सागरसे घिरा है ॥ ७॥ द्वीपके पाकर के पेड़के बराबर उसमें शाल्मली (सेमर) का वृक्ष है। कहते हैं। यही वृक्ष अपने वेदमय पंखोंसे भगवान की स्तुति करनेवाले पक्षिराज भगवान् गरुडका निवासस्थान है तथा यहाँ इस द्वीपके नामकरणका भी हेतु है । FER FROBOTS TOPP तद्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः खसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्ष पारिभद्रमाप्यायनमविज्ञातमिति ॥ ॥ तेषु वर्षाद्रयो नद्यश्च सप्तैचा भिज्ञाताः खरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति । अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ १० ॥ तद्वर्षपुरुषाः श्रुतधरवीर्यंधरवसुन्धरेषन्धर संज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११ ॥ गोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः । प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति ॥ १२ FIC ন एवं सुरोदा हिंस्तद्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्वीपा एवं रूप’।करो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति ।। १३ ।। तद्द्वीपप्रतिः प्रयन्त्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः खपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आविष्टत वसुवसुदान दृढ रुचिना भिगुप्तस्तुत्यव्रत विविक्तवामदेव- नामभ्यः ॥ १४ ॥ तेषां वर्षेषु सीमागिरयो नद्यथाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुन्या मित्राविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्र’ मालेति ।। १५ ।। यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्त कुलक संज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते ।। १६ । Si अन्वयः – तद्वीपाधिपतिः प्रियव्रतात्मजः यज्ञबाहुः तिः प्रियव्रतात्मजः यज्ञबाहुः सप्तभ्यः स्वसुतेभ्यः तन्नामानि सप्त वर्षाणि व्यभजत् सुरोचनम् सौमनस्यम् रमणकम् देववर्षम् पारिभद्रम् आप्यायनम् अविज्ञातम् इति ।। ९ ।। * * तेषु वर्षाद्रयः नद्यः च सप्त एव अभिज्ञाताः स्वरसः शतश्रृं गः वामदेवः कुंदः मुकुंदः पुष्पवर्षः सहस्रश्रुतिः इति अनुमतिः सिनीवाली सरस्वती कुहूः रजनी नंदा राका इति ।। १७ ।। ६ * तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुंधरेपंधरसंज्ञाः भगवन्तम् वेदमयम् आत्मानम् सोमम् वेदेन यजन्ते ।। ।। ॥ ११ ॥ * * कृष्णशुक्लयोः पितृदेवेभ्यः स्वगोभिः अधः विभजन् सोमः सर्वासाम् प्रजानाम् नः राजा अस्तु इति ।। १२ ।। * * एवम् सुरोदात् बहिः तद्विगुणः कुशद्वीपः यथापूर्वः समानेन घृतोदेन आवृतः यस्मिन् देवकृतः तद्वीपाख्याकरः कुशस्तंबः अपरः ज्वलनः इव स्वशष्पसेचिषा दिशः विराजयति ॥ १३ ॥ * * राजन् तद्वीपपतिः ।। ।। .. १. प्रा० पा० – कुमुदः पुष्पः । प्रा० पुरी / ३. प्राचीने पाठे ‘स्वगोभिः पितृदेवेभ्यो’’ २ पा० धरेपुन्धरसंज्ञा । त आरभ्य ‘सोमो न आस्तिति’ पर्यन्त एकश्लोको ४. प्राण प० ख्यायनी ज्वलन प्रापाविराजति । ६ प्रा० पाळ वरोमा नाम । ७. प्रा० न। पा० स्वयं तु तप । ८. प्रा०चिराभि ९ प्रा०पा० ज्ञाताः सप्तैव चक्र १०० प्रा० पा०-पिलो वित्रकूटों ११. प्रा० पार - मधुमालती म १ MIESIE RIFE ५२. २० लो. ९-१६] अनेकल्पाख्यासमलङ कृतम् ४४७ प्रेयत्रतः हिरण्यरेताः नाम स्वम् द्वीपम् सप्तभ्यः वसुवसुदा नहढ रुचिनाभिगुप्तस्तुत्यन्नतविविक्तवामदेवनामभ्यः स्वपुत्रेभ्यः यथाभागम् विभज्य स्वयम् तपः आतिष्ठत ॥ १४ ॥ तेषाम् वर्षेषु सप्त सप्त एव सीमागिरयः नद्यः च अभिज्ञाताः चक्रः चतुः- शृणः गः कपिलः चित्रकूटः देवानीकः ऊर्ध्वरोमा द्रविणः इति रेस इति रसकुल्या मधुकुल्या मित्रविदा श्रुतविंदा देवगर्भा धृतच्युता मंत्रमाला इति ॥ १५ ॥ * कुशद्वीपौकसः कुशलकोविदाभियुक्त कुलकसंज्ञाः यासाम् पयोभिः कर्म कौशलेन जातवेदसरूपिणम् भगवन्तम् यजन्ते ॥ १६ ॥ * ਇਸ ਸ || श्रीधरस्वामिविरचिता भावार्थदीपिका श्रीवंशीधरकृतो * 36 स्वगोभिः स्वरश्मिभिः । अन्धोऽन्नम् । सोमो नो राजा आस्तु आभिमुख्येन भवतु । ह्रस्वपाठे स्वविवक्षया संध्यभावः ॥ १२ ॥ * * एवं सुरोदाद्वहिट तोदेनावृतः कुशद्वीप इत्यन्वयः । स्वशष्पाणि स्वकोमलशिखास्तेषां रोचिषा ।। १३-१६ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः कहि तन्नामानि पुत्रनामकानि ॥ ९ ॥ तेषु खण्डेषु || १० ॥ * ॐ तस्य शाल्मली द्वीपस्य + वर्षेषु पुरुषाः । ॥ वेदमयं वेदप्रतिपाद्यम् ॥ ११ ॥ * * सन्धौ सति, नो इति पाठे छन्दोभङ्गः स्यादिति भावः ॥ १२ मृएवं पूर्ववत् । तस्माच्छाल्मलीद्वीपात् । द्विगुणोऽष्टलक्षणयोजनप्रमाणकः। यथा पूर्वः शाल्मलः सुरोदेनावृतस्तद्वदित्यर्थः । यस्मिन् द्वीपे । कुशस्तम्बः कुशगुल्मः तं द्वीपमाख्यातीति तद्वीपाख्यायनः । ल्युदि ‘आतो युक’ इति युक् । ब्वलनो बह्निः ।। १३ ।। * तद्वीपपत्तिः कुशद्वीपपतिः । राजनिति । राज्ञामियमेव गतिरिति भावः ॥ १४ ॥ यासां रसकुल्यादीनाम् । जातवदः स्वरूपिणं वहिं क्रियानैपुण्येन ।। १६ ।। F REFREISE TOT 15ER E HÆ DESPISE TUFASER PR । F श्रीमद्वीरराघवव्याख्या ।।
-
- तेषां वस्वादीनाम् ॥१५॥ Beeru SEEP CEP ISE BAIE BEET
- ४
- **
- तस्य द्वीपस्य शाल्मलस्याधिपतिः चिरं कृताधिपत्यो यज्ञबाहुः प्रियव्रतस्यात्मनः सप्तभ्यः स्वसुतेभ्यः तन्नामानि स्वपुत्रतुल्य- नामानि सप्त वर्षाणि व्यभजद्विभज्यादादित्यर्थः ॥ ९ ॥ * *, पुत्राणां वर्षाणां च साधारणैर्नामभिर्वर्माणि निर्दिशति सुरोचनमित्यादिना । तेषु सुरोचनादिषु वर्षेषु शैलाः सप्त नद्यश्व अभिज्ञाताः प्रसिद्धाः, अन्ये च शैला नद्यश्च सन्तीत्यर्थः । तावत्सप्त शैलानाह स्वरस इत्यादिना । सेतुशैलाः मर्यादागिरयः नदीराह । अनुमतिरित्यादिना ।। १० ।। ।
- तद्वषं पुरुषाणां चतुर्धा वर्णविभागं तेषामाराध्यं भगवद्रूपं जप्यमान मन्त्रवाह तद्वर्षेत्यादिना । श्रुतधरादिशब्दाः संज्ञानामानि येषां ते बेदमयं वेदप्रचुरं भगवदात्मक सोमाख्यं सोमाख्यमात्मानं जीवविशेषं वेदेन वेदेनोक्तेन तन्मूलस्मृत्याद्युक्तेन स्वस्ववर्णोचितस्वधर्मेण यजन्ते आराधयन्ति ॥ ११ ॥ * * खगोभिः स्वकिरणैः शुकुरुष्णयोः पक्षयोः स पिढदेवेभ्योऽन्धमन्नं शुक्लपक्षे देवेभ्यः कृष्णे पितृभ्यश्चान्नं विभजन् स्वगोभिश्चन्द्रस्य शुकृकृष्णपक्षविभाजकत्वाभावे उचितकाले पित्रादीनां खधास्वाहापूर्वकं हविर्दानमेव न स्यादिति भावः । यत एव पित्रादीनामप्यसाङ्कर्येणान्नस्य विभागेन प्रदापयिताऽतो नोऽस्माकं सर्वासां प्रजानां राजा चन्द्रः सोमः अमृतमस्तु सुखकरोऽस्त्विति यावत् ॥ १२ ॥ * * एवं शाल्मलीद्वीप उपवर्णितः, अथैतद्दृष्टान्तेन कुशद्वीपमनुवर्णयति एवमिति । यथा पूर्वः शाल्मलः तथा कुशद्वीपोऽपि सुरोदधेर्बहिः द्विगुणमानेनाष्टलक्षयोजनविशालेन घृतोदधिना परिवेष्टितः स्वयमप्यष्टलक्षयोजनविशालः यस्मिन् कुशद्वीपे द्वीपस्य कुशद्वीपस्य व्यपदेशकर! अपरोऽग्निरिव प्रकाशबहुल देवेन भगवता ब्रह्मणा निर्मितः स्वशष्पाणां स्वावयवानां कोमलतृणानां रोचिषा दिशो दश विराजयति प्रकाशयति ॥ १३ ॥ * ॐ तस्य कुशद्वीपस्या- धिपतिः हिरण्यरेतो नाम प्रियव्रतस्य पुत्रः स्वीयं सप्तभ्यः स्वपुत्रेभ्यो वस्वादिवर्षनामभ्यः यथाभागं विभज्य स्वयं तप आतिघ्त तपसा युक्तोऽभूदित्यर्थः ॥ १४ ॥ * वर्षनाम्नः सप्तपुत्रान्निर्दिशति बरिवत्यादिना । वस्वादीनामितरेतरयोगद्वन्द्वः, तेषां ॥ वर्षेषु तत्तुल्यनामसीमागिरयः सप्त तथा नयश्च सप्त बभूवुः । शैलान्निर्दिशति चक्र इत्यादिना । सेतुशैला मर्यादा- गिरयः ।। १५ ।।। * * नदीराह रसकुल्येत्यादिना । नदीर्घिशिनष्टि महानद्य इति । पुनर्नदीविशिषन् तद्वीपस्थानां पुरुषाणां चतुर्धा वर्णविभागं तेषामुपास्य भगवद्रूपं जप्यमान मन्त्रवाह यासामिति यासां रसकुल्यादिनदीनां पयोभिर्जलै- विधूतमला: कुशद्वीपो नीडः स्थानं येषा ते कुशलकोविदादिसंज्ञाः जातवेदसरूपिण जातवेदा एवं जातवेदसः- प्रज्ञादित्वात् स्वार्थि- कोण्प्रत्ययः, सः अग्निरेव रूप शरीर जातवेदसंरूप तदस्यास्तीति तथा तं भगवन्तं कर्मनैपुण्येन यजन्ते आराधयन्ति ।। १६ ।। 15 शुक्लकृष्णयोरुभय
श्रीमद्विजयध्वजतीर्थकृता पदरनावली * पक्षयोरपि स्वगोभिः सुधारक्षणैः पितृदेवानुद्दिश्य सोमलक्षणमन्धोऽन्नं विभजन् राजा चन्द्रान्तर्यामी सर्वासां प्रजानां नोऽस्माकश्च राजा रञ्जकोऽस्त्विति प्रजानां नोऽन्धो विभजन् पित्रादिभ्यः सोमं विभजन् राजा नः सोमं सुखम- स्त्विति वा ॥ १२ ॥ सङ्घच्या कुशद्वीपसमानेन यथापूर्वः शाल्मलः सुरोदेनावृतस्तथा स्वशष्पाणां निजबाद- ।। तृणानां तेजसा ।। १३-१६ || his पीए कला ४४८ श्रीमद्भागवतम् s श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी [ एक. ५ अ. २० इलो. ९-१६ स्वगोभिः स्वरश्मिभिः स्वरश्मिभिः । अन्धोऽन्नम् । अन्धोऽन्नम् । सोमो तो राजा आभिमुख्येनास्तु । नो राजा आभिमुख्येनास्तु । ह्रस्वपाठे त्वविवक्षया सन्ध्य- भावः ॥ १२ ॥ * * सुशष्पाणि सुकोमलशिखास्तेषां रोचिषा ।। १३-१६ ॥ ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः अन्धः अन्नं नोऽस्माकं राजा आ आभिमुख्येन अस्तु ॥ १२ ॥ तृणकान्त्या ।। १३-१६ ॥ PRITE TH TA ।। स्वशष्परोचिषा स्वगतबाल- Amarifie inpa गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी तासां माहात्म्यप्रदर्शनपूर्वकं तत्रत्यमुपासनमाह - यासामिति । यासां नदीनां जलोपस्पर्शनेन स्नानादिना विधूतं निरस्तं रजस्तमश्च येषां ते सहस्रं वर्षसहस्रमायुर्येषां ते । विबुधोपमं सन्दर्शनं कुमस्वेदादिरहितं रूपं प्रजननमपत्योत्पादनं च येषां ते हंसादयो ब्राह्मणादिस्थानीयाश्चत्वारो वर्णास्त्रय्या वेदत्रयात्मिकया विद्यया सूर्य यजन्ते पूजयन्तीत्यन्वयः । सूर्याराधने हेतुमाह-स्वर्ग- द्वारमिति स्वर्गप्रदमित्यर्थः । कथं सूर्यस्य तेजोमण्डलस्य भूतविशेषस्य स्वर्गप्रदत्वमित्याशङ्कय तं विशिनष्टि-भगवन्तमिति, यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यञ्चन्द्रमसि यश्चाग्नौ तत्तेजो विद्धि मामकम्’ इति स्मृतेः । अत एव त्रयीमयं वेदत्रयप्रतिपाद्यम, आत्मानं सर्वान्तर्यामिणम् ॥ ९ ॥ ॐ उपासनामन्त्रं दर्शयति-प्रत्नस्येति । सूर्यमीमहि शरणं व्रजेम सूर्यशरणागतौ किं फलमित्याकाङ्क्षायां सर्वाणि फलानि तत एव भवन्ति सर्वान्तर्यामित्वादित्यभिप्रेत्याह-सत्यस्येति, सत्यादीनामात्मानमधिष्ठातारमि- त्यर्थः । सत्यस्य समदर्शनस्य । ऋतस्य हितमितप्रिययथार्थभाषणस्य । ‘सत्यं च समदर्शनम्, ऋतं च सूनृता वाणी’ इत्येकादशे भगवता व्याख्यास्यमानत्वात् । अमृतस्य मोक्षस्य मृत्योः पुनः पुनर्जन्ममरणादिलक्षणसंसारस्य । ननु सर्वव्यवस्थाया वेदाधीनत्वात् कथं सूर्याधीनत्वमुच्यते इत्याशङ्कय वेदप्रवर्त्तकत्वमपि तस्यैवेत्याह-ब्रह्मण इति, ब्रह्मणः वेदस्य । नतु वेदप्रवर्त्तकत्वं तु भगवतो विष्णोरेव प्रसिद्ध, तत्कुतः सूर्यस्येत्याशङ्कय सत्यं, तस्यैव रूपान्तरत्वादित्याह-प्रत्नस्येति । यस्मात् प्रत्नस्य पुरातनस्य विष्णोरेव स्वरूपमित्यर्थः ॥ १० ॥ * * औत्पत्तिकी स्वाभाविकी । अविशेषेण समानत्वेन ॥ ११ ॥ यथा प्रक्षः पक्षद्वीपः स्वसमानेन द्विलक्षयोजनविस्तारेण सात्त्विकेनेक्षुरसोदेन आवृतस्तथा ततो द्विगुणविशालश्चतुर्लक्षयोजनविस्तृतः शाल्मलो द्वीपोऽपि स्वसमानविस्तारेण तामसेन सुरोदेनावृतः परिवृङ्क्ते सर्वतो विराजते इत्यन्वयः ।। १२ ।। ॥ * * यत्र द्वीपे यत्र द्वीपे हि पृक्षायामा शतयोजनस्थूला एकादशशतयोजनोच्छ्रिता सा वै प्रसिद्धा शाल्मली वृक्षः द्वीपस्य हूतये नामनिरुक्त्यै उपलक्ष्यते दृश्यते आस्ते । यस्यां शाल्मल्यां “सुपर्णोऽसि गरुत्मंत्रिवृत्ते शिरः” इति श्रुतेः छन्दोभिः स्वावयवैर्भगवन्तं स्तोतीति च्छन्दस्स्तुत्तस्य भगवतः भगव- द्रक्तत्वेन ततो लब्धैश्वर्यादिगुणस्य पतत्रिराजस्य गरुडस्य निलयं स्थानमाहुरित्यन्वयः । प्रसिद्धयर्थं वावेति । स्वस्मृतिं द्योतयितुं किलेति ।। १३-१४ ॥ * * तद्वर्षनामान्याह - सुरोचनमित्यादि ।। १५-१६ ।। । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * ॥ mps The 1 तद्वीपेति । तस्य शाल्मल्याख्यस्य द्वीपस्याधिपतिः प्रियव्रतात्मजः, यज्ञबाहुः, सप्तभ्यः, स्वसुतेभ्यः, तन्नामानि स्वपुत्र- तुल्यनामानि सप्त वर्षाणि व्यभजत । विभज्य प्रादादित्यर्थः । पुत्राणां वर्षाणां च साधारणैर्नामभिर्वर्षाणि निर्दिशति । सुरोचनं, सौमनस्यं, रमणकं, देववर्ष, पारिभद्रं, आप्यायनं, अविज्ञातं इत्येतानि ददावित्यर्थः । अदानपात्रत्वात् द्वितीया ॥ ९॥ तेष्विति । तेषु वर्षेषु, वर्षाद्रयः वर्षपर्वताः नद्यस्तन्निस्तम्बप्रभवाः स्रोतस्विन्यच, सप्त एवं सप्त संख्याका एवेत्यर्थः । अभिज्ञाताः ख्याताः । तत्र गिरीनाह । स्वरसः, शतशृङ्गः, वामदेवः, कुन्दः कुमुदः, पुष्पवर्षः सहस्रश्रुतिः इत्येते वर्ष पर्वताः । नदीराह । अनुमती, सिनीवाली, सरस्वती, कुहूः, रजनी, नन्दा, राका इत्येता महानद्यः ॥ १० ॥ * तद्वर्षेति । श्रुतधर इति ब्राह्मणस्थानीया, बीर्यधर इति क्षत्रिय स्थानीया, वसुन्धर इति वैश्यस्थानीया, इषुन्धर इति शूद्रस्थानीया, संज्ञा येषां ते । तद्वर्षपुरुषाः चतुर्वर्णात्मकास्तत्खण्डवासिनो जनाः, वेदमयं वेदप्रचुरं, भगवन्तं सर्वपोषकत्वैश्वर्योपेतं सोमं आत्मानं वेदेन वेदेनोक्तेन तन्मूलक- स्मृत्याद्युक्तेन च धर्मेण यजन्ते आराधयन्ति ॥ ११॥ ४ ४ स्वगोभिरिति । स्वगोभिः स्वकिरणैः, कृष्णशुकयोः पक्षयोः, पितृदेवेभ्यः, अन्धोऽन्नं, कृष्णपक्षे पितृभ्यः शुक्लपक्षे देवेभ्यश्चान्नं विभजन् नं विभजन् स्वगोभिश्चन्द्रस्य शुक्लकृष्णपक्षविभाजकत्वाभावे उचितकाले पित्रादीनां स्वधास्वाहापूर्वकहविर्दानमेव न स्यादिति भावः । यत एवं पित्रादीनामसांकर्येणान्नस्य विभागेन प्रदापयिता, ततः, नोऽस्माकं सर्वासां प्रजानां राजा सोमचन्द्रः, अस्तु । अमृतमयत्वात्सुखकरोऽस्तु । इति मन्त्र जपन्तो यजन्ते इति संबन्धः ।। १२ ।। * एवं शाल्मलीद्वीप उपवर्णितः । अथैतद्द्दष्टान्तेन कुशद्वीपमनुवर्णयति एवमिति । यथा पूर्वः शाल्मलीद्वीपः, एवं तथा कुशद्वीपः अपि, सुरोदात्सुरोदधेः बहिः, तद्विगुणः सुरोदमानतो द्विगुणमानः, अष्टलक्षयोजनविशालता- मानः समानेन अष्टलक्षयोजनविशालेन, घृतोदेन घृतोदधिना, आवृतः परिवेष्टितः भवति । यस्मिन् द्वीपे तद्वीपाख्याकरः तस्यस्क. ५ अ. २० इलो. १७-२४] । अनेकव्याख्या समलङ्कृतम् ४४९ द्वीपस्य कुशद्वीपव्यपदेशकरः, देवकृतो ब्रह्मणा निर्मितः, कुशस्तम्बः, अपरः ज्वलनः अग्निः इव प्रकाशबहुल इत्यर्थः । स्वशष्पाणां स्वावयवानां कोमलतृणानां रोचिर्दीप्तिस्तया, विराजयति दशापि दिशः प्रकाशयतीत्यर्थः ॥ १ यः ॥ १३ ॥ - तद्वीपेति । हे राजन्, तद्वीपाधिपतिः तस्य कुशद्वीपस्याधिनाथः, हिरण्यरेतो नाम हिरण्यरेत इति संज्ञया प्रसिद्धः प्रयव्रतः प्रियव्रतस्य पुत्रः, स्वं स्वीयं द्वीप, सप्तभ्यः स्वपुत्रेभ्यः, यथाभागं विभज्य स्वयं तपः आतिष्ठत तपसि युक्तोऽभूदित्यर्थः ॥ १४ ॥ * * वर्षनाम्नः सप्त पुत्रान्निर्द्दिशति वस्विति । वसुर्वसुनामा च वसुदानश्च दृढरुचिश्च नाभिगुप्तश्च स्तुत्यव्रतश्च विविक्तश्च वामदेवश्चेति नामानि येषां तेभ्यः, विभज्य दत्त्वा तपस्तप्तुं गत इति संबन्धः । तेषां वर्षेषु सीमागिरयः नद्यश्च सप्तैव अभिज्ञाता विख्याता भवन्तीत्यर्थः । सर्वशैलान्निर्दिशति । चक्रः, चतुःशृङ्गः, कपिलः, चित्रकूटः, देवानीकः, ऊर्ध्वरोमा द्रविणः इत्येते पर्वताः ॥ १५ ॥ । ।। ।। * धी नदीर्निर्दिशति रसकुल्येति । रसकुल्या, मधुकुल्या, मित्रविन्दा, श्रुतविन्दा, देवगर्भा, घृतच्युता, मन्त्रमाला इत्येता नद्यः । । नदीविशिषन् तद्वीपस्थानां वर्णविभागं तेषामुपास्यं भगवद्रूपं जप्यं मन्त्रं चाह यासामिति । यासां रसकुल्यादीनां पयोभिर्जलैः, विधूतमला इति शेषः । कुशद्वीप ओको निवासस्थानं येषां ते, कुशलो ब्राह्मणस्थानीयश्च कोविदः क्षत्रियस्थानीयश्च अभियुक्तो वैश्यस्थानीयश्च कुलकः शूद्रस्थानीयश्च ते संज्ञा येषां ते चत्वारो वर्णाः, जातवेदा एव जातवेदसः प्रज्ञादित्वात्स्वार्थिकोऽणू प्रत्ययः । सोऽभिरेव रूपं शरीरं तदस्यास्तीति जातवेदसरूपी तं, भगवन्तं कर्मकौशलेन कर्मसु नैपुण्येन, यजन्ते आराधयन्ति ॥ १६ ॥ श्र भाषानुवादः इस द्वीपके अधिपति प्रियव्रतपुत्र महाराज यज्ञबाहु थे। उन्होंने इसके सुरोचन, सौमनस्य, रमणक, देववर्ष, पारिभद्र, आप्यायन और अविज्ञात नामसे सात विभाग किये और इन्हें इन्हीं नामवाले अपने पुत्रोंको सौंप दिया ॥ ९ ॥ इनमें भी सात वर्षपर्वत और सात ही नदियाँ प्रसिद्ध हैं । पर्वतोंके नाम स्वरस, शतशृङ्ग, वामदेव, कुन्द, मुकुन्द, पुष्पवर्ष और सहस्रश्रुति हैं तथा नदियाँ अनुमति, सिनीवाली, सरस्वती, कुहू, रजनी, नन्दा और राका हैं ॥ १० ॥ इन वर्षों में रहनेवाले श्रुतधर, वीर्यधर, वसुन्धर और इषन्धर नामके चार वर्ण वेदमय आत्मस्वरूप भगवान् चन्द्रमाकी वेदमन्त्रोंसे उपासना करते हैं ।। ११ ।। * * *( और कहते हैं -) जो कृष्णपक्ष और शुक्लपक्ष में अपनी किरणोंसे विभाग करके देवता, पितर और सम्पूर्ण प्राणियोंको अन्न देते हैं, वे चन्द्रदेव हमारे राजा ( रञ्जन करनेवाले ) हों ॥ १२ ॥ * इसी सी प्रकार मदिराके समुद्रसे आगे उससे दूने परिमाणवाला कुशद्वीप है। पूर्वोक्त द्वीपोंके समान यह भी अपने ही समान विस्तारवाले घृतके समुद्रसे घिरा हुआ है। इसमें भगवान् का रचा हुआ एक कुशों का झाड़ है उसीसे द्वीपका नाम निश्चित हुआ है। वह दूसरे अग्निदेव के समान अपनी कोमल शिखाओंकी कान्तिसे समस्त दिशाओंको प्रकाशित करता रहता है। 11 23 11 8 * राजन् ! इस द्वीपके पिके अधिपति प्रियव्रतपुत्र महाराज हिरण्यरेता थे। उन्होंने इसके सात विभाग करके उनमें से एक-एक अपने सात पुत्र वसु, वसुदान, दृढ़रुचि, नाभिगुप्त, स्तुत्यव्रत, विविक्त और वामदेवको दे दिया और स्वयं तप करने चले गये । १४ । उनकी सीमाओंको निश्चय करनेवाले सात पर्वत हैं और सात ही नदियाँ हैं । पर्वतों के नाम चक्र, चतुःशृङ्ग, कपिल, चित्रकूट, देवानीक, ऊर्ध्वरोमा और द्रविण हैं। नदियोंके नाम हैं—रसकुल्या, मधुकुल्या, मित्रविन्दा, श्रुतविन्दा, देवगर्भा, घृतच्युता और मन्त्रमाला ॥ १५ ॥ इनके जल में स्नान करके कुशद्वीपवासी ।। * कुशल, कोविद, अभियुक्त पूजन करते हैं । और कुलक वर्णके पुरुष अग्निस्वरूप भगवान् हरिका यज्ञादि कर्म- कौशलके द्वारा १६ ।। प परस्य’ ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७ ॥ तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपक्लप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौंचो नाम पर्वतराजो दीपनामनिर्वर्तक आस्ते ॥ १८ ॥ योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ।। १९ ।। तस्मिन्नपि प्रयवतो घृतपृष्ठो नामाधिपतिः स्वे’ द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवतः परमकल्याण- यशस आत्मभूतस्य हरेश्वरणारविन्दमुपजगाम ॥ २० ॥ आमो मधुरुही मेघपृष्ठः || २० || आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पति- रिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्को वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः १. प्रा० पा० पाठे ‘परस्य ब्रह्मणः इलोको न । २. प्राचीने पाढे ‘तथा घृतोदाद्बहिः’ पाठोन् । ३ प्रा०पा० - श्वेतद्वीपे । ४, प्रा० पा० स्वयं भगवतः परम० । ५, प्रा० पा० - आम्रो । ६. प्रा० पा० - गिरयः सप्तैव नद्य० । ७ प्रा० पा० - नन्दनः सर्व ५७ श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. १७२४ सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती ‘वृत्तिरूपवती पवित्रवती शुक्रेति ॥ २१ ॥ यासामम्भः पवित्र- ममलमुपयुञ्जानाः ‘पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते ॥ २२ ॥ आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः । ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुव इति ॥ २३ ॥ एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः मः समानेन च दधिमण्डोदेन परीतो यस्मिन्’ शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ।। २४ ।। * “अन्वयः-जातवेदः साक्षात् परस्य ब्रह्मणः हव्यवाट् असि पुरुषांगानाम् देवानाम् यज्ञेन पुरुषम् यज इति ॥ १७ ॥ * * तथा घृतोदात् बहिः द्विगुणः क्रौंचद्वीपः स्वमानेन क्षीरोदेन परित: उपक्लृप्तः घृतः यथा कुशद्वीपः घृतोदेन यस्मिन् कौंचः नाम पर्वतराजः द्वीपनामनिर्वर्तकः आस्ते || १८ | यः असौ गुहप्रहरणोन्मथितनितंबकुञ्जः अपि क्षीरोदेन आसिच्यमानः भगवता वरुणेन अभिगुप्तः विभयः बभूव ॥ १९ ॥ * तस्मिन् अपि प्रेयत्रतः घृतपृष्ठः नाम भगवान् अधिपतिः स्वे द्वीपे सप्त वर्षाणि विभज्य पुत्रनामसु तेषु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयम् भगवतः परमकल्याणयशसः आत्मभूतस्य हरेः चरणारविन्दम् उपजगाम ॥ २० ॥ * आमः मधुरुहः मेघपृष्ठः सुधामा भ्राजिष्ठः लोहितार्णः वनस्पतिः इति घृतपृष्ठसुताः तेषाम् वर्षगिरयः च नद्यः सप्त सप्त एव अभिख्याताः शुक्कुः वर्धमानः भोजनः उपबर्हिणः नंदः नंदनः सर्वतोभद्रः इति अभया अमृतौघा आर्यका तीर्थघती वृत्तिरूपवती पवित्रवती शुक्ला इति ॥ २१ ॥ * * यासाम् पवित्रम् अमलम् अंभः उपयुंजानाः पुरुषऋषभद्रविणदेवकसंज्ञाः वर्षपुरुषाः आपोमयम् देवम् अपाम् पूर्णेन अञ्जलिना यजन्ते ॥ २२ ॥ आपः पुरुषवीर्याः स्थ भूर्भुवः सुवः पुनन्तीः आत्मना अमीवघ्नीः ताः स्पृशताम् नः भुवः पुनीत इति ॥ २३ ॥ एवम् पुरस्तात् क्षीरोदात् परितः उपवेशितः शाकद्वीपः द्वात्रिंशलक्षयोजनायामः समानेन च दधिमंडोदेन
- परितः यस्मिन् शाकः नाम महीरुहः स्वक्षेत्रव्यपदेशकः ह यस्य महासुरभिगन्धः तम् द्वीपम् अनुवासयति ।। २४ ।। श्रीधरखामिविरचिता भावार्थदीपिका हे जातवेदस्त्वं साक्षात्परस्य ब्रह्मणो हरेर्हव्यवाडसि अतो देवानां यज्ञेन पुरुषं हरिमेव यज । अङ्गानां नाम्ना दत्तमङ्गिने समर्पयेत्यर्थः ।। १७ ।। * * उपक्लप्तो वेष्टितः । यथा कुशद्वीपो घृतोदेन वृतः ॥ १८ ॥ ॐ * गुहस्य कार्तिकेयस्य प्रहरणेनायुधेनोन्मथिता नितम्बाः कुञ्जानि च यस्य ॥ १९ ॥ * * स्वयं भगवान् ज्ञानी । परमकल्याणं यशो यस्य ॥। २०-२१ ॥ * * आपोमयमभोमयम् ॥ २२ ॥ * हे आपः पुरुषवीर्या ईश्वराल्लब्धसामर्थ्याः स्थ भवथ अत एव भूर्भुवः स्वत्रैलोक्यं पुनन्त्यस्ता भवत्यो नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां भुवः शरीराणि पुनन्तु । यत आत्मना स्वरूपेणैवा- मीवघ्नीः पापहन्त्र्यः ॥ २३ ॥ * * दध्नो मण्डं रसः स एवोदकं यस्य । यस्य पर्णान्यन्तःखरस्पर्शानि बहिर्मृदुस्पर्शानि स शाको नाम वृक्षः ।। २४-२६ ।। ॥म वृक्षः ।। २४-२६ यह है
श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः हव्यवाट् हविषो नेता यतो हरेरपि हविनेतास्यतो हेतोः । यज्ञेन यजनेन इत्यर्थ इति । यथा पुरुषहस्ते दत्तं पुरुषदत्तं भवति तथेति भावः ।। १७ ।। * * तथा बहिः ततो घृतोदाद्वहिरमे द्विगुणः कुशद्वीपादिति शेषः । षोडशलक्षयोजन प्रमाणकः द्वीपनाम निर्वर्त्तयति साधयतीति तथा ।। १८ ।। * योऽसौ क्रौंचः आयुधेन तारकहननार्थ प्रक्षिप्तशक्तथा । नितम्बा रोधांसि ‘कटकोsस्त्री नितम्बोद्रेः’ इत्यमरः । कुञ्जानि लतापिहितोदराणि च । ‘नितम्बः स्कन्धरोधसोः’ इति मेदिनी । “कुओऽस्त्रियां निकुं- जेऽपि हनौ दन्ते च दन्तिनाम्” इति च । ‘स्यान्निकुञ्ज लतागृहे’ इति च । विभयो निर्भयः ॥ १९ ॥ * * तस्मिन् क्रौंचेऽपि स्वयं भगवान् इ ज्ञानी ‘ज्ञानी व्यात्मैव मे मतम्’ इति श्रीमुखोक्तेः । यद्वा-स्वयं भगवतो हरेः भगवान् ‘उत्पत्ति प्रलयं चैव’ इत्याद्युक्त- लक्षणः ।। २०-२२ ।। अत एवेश्वरालब्धसामर्थ्यत्वादेव || २३ || ॐ ॐ अनुवासयति सुगन्धयति ।। २४ ।। । श्रीमद्वीरराघवव्याख्या जातवेदः ! त्वं साक्षात्परस्य ब्रह्मणोऽसि तदीयोऽसि तच्छरीरभूतोऽसीत्यर्थः । तथा हव्यवाडसि हव्यमिन्द्रादीनां भगवदात्मकानां यज्ञियं हव्यं वहति प्रापयति इन्द्राद्यन्तर्यामिणं भगवन्तं प्रतीति तथाभूतोऽसीत्यर्थः । अतो देवानां पुरुषस्य परम- पुरुषस्याङ्गानां शरीरभूतानाम् “स आत्मा अङ्गान्यन्या देवताः” इति श्रुतेरात्मशब्द प्रतिसम्बन्धि अङ्ग शरीरमेवम्भूतानामिन्द्रादीनां १० प्रा० पा० - तृप्तिरूपवती । २. प्रा० पा० - प्रर्षभ । ३७ प्राचीने पाठे ‘आपः पुरुषवीर्याः श्लोको न । ४. प्रा० पा०- यस्मिन् हि शा० । स्क. ५ अ. २० श्लो. १७-२४ ] अनेकव्याख्यासमलङ्कृतम् । . सम्बन्धिनां भगवदात्मकेन्द्राद्याराधनभूतेन यज्ञेन तदन्तरात्मानं परमपुरुषं यज्ञमाराधय तत्प्रीतिं जनय, अङ्गेभ्यः समर्पितं हविरङ्गिने समर्पयेत्यर्थः ।। १७ ।। * * एतद्द्वीपदृष्टान्तेन क्रौञ्चद्वीपमनुवर्णयति । तथेति यथा कुशद्वीपः धृतोदेन स्वसमविशालेन वेष्टितस्तथा कुशद्वीपाद्बहिः क्रौञ्चद्वीपोऽपि द्विगुणः कुशद्वीपाद द्विगुणः षोडशलक्षयोजनविशालः स्वमानेन षोडशलक्षयोजनविशालेन दधिमण्डोदेन मथितदधिसमानोदकेन समुद्रेणाभित उपक्लृप्तः परिवृतः यस्मिन् क्रौ द्वीपे द्वीपस्य नाम क्रौन इति संज्ञा तन्निर्वर्तकः क्रौलो नाम पर्वतश्रेष्ठः आस्ते ।। १८ ।। * कौनपर्वतं विशिनष्टि य इति । योऽसौ क्रौनो गिरिः पूर्वं गुहस्य कार्तिकेयस्य प्रहरणे - नायुधेन उन्मथिता नितम्बाः कुञ्जानि च यस्य तथाभूतः पश्चादधिमण्डोदेना सिच्यमानः दधिमण्डोदे लीनः पश्चाद्भगवता वरुणेना- भिगुप्तः अभयप्रदानेनाभिरक्षितः निरस्तभयो बभूव ॥ १९ ॥ * * तस्मिन्नपि क्रौञ्चद्वीपेऽपि प्रियव्रतात्मजो घृतपृष्ठो नामाधिपतिः सप्तधा वर्षाणि विभज्य तेषु पुत्रतुल्यनामसु सप्तसु वर्षेषु रिक्थादान् दायादान् सप्त पुत्रान् वर्षाणामधिपतीन्निवेश्य प्रतिष्ठाप्य स्वयं परमकल्याणं निरतिशयमङ्गलरूपं यशो यस्य तस्यात्मभूतस्य स्वान्तरात्मनो भगवतः हरेबन्धहारिणश्चरणारविन्दं जगाम भक्त्या प्राप्तः ।। २० ।। घृतपृष्ठसुतानाह अमोघ इत्यादि । तेषाममोघादीनां यानि वर्षाण्यमोघादीनि तेषां गिरयो मर्यादागिरयः सप्त तथा नद्यः सप्तैवाभिज्ञाताः । अन्ये च ते ताश्च सन्तीति भावः । गिरीनाह शुक्ल इत्यादि । नदीराह अभयेत्यादिना ।। २१ ।। * * ता विशिषंस्तद्वर्षस्थानां चतुर्धा वर्णविभागं भजनीयं भगवद्रूपं मन्त्रं चाह यासामिति । यासामभयादीनां निर्मलं पवित्रमम्भ उपयुञ्जानाः स्नानाद्युपयुक्तं कुर्वाणा गुर्वादिचतुर्वर्णनामानः पुरुषाः आपोमयमप्शरीरकं देव भगवन्तं पूर्णेनापामञ्जलिना जलाअलिना आराधयन्त्यर्घादिप्रदानेनेति भावः ॥ २२ ॥ * * हे आपः ! यूयं पुरुषस्य भगवतो वीर्याः शक्तिरूपाः तदपृथक सिद्धविशेषणभूतास्तच्छरीरभूता इति यावत् स्थ भवथ तथा भूर्भुवः स्वः इति भूरादिलोकत्रयं पुनन्त्यः पवित्रयन्त्यः स्थेत्यनुषङ्गः । यत एवमतः स्पृशताममीवघ्नीः पापहराः आत्मनो भुवः परमात्मन उत्पन्नाः ताः युष्मान् स्पृशत इति शेषः, नोऽस्मान् पुनन्तु भगवत्य इत्यर्थः । आत्मना भवमिति पाठे आत्मना देद्देन स्पृशता ममीवघ्नीर्युष्मान्स्पृशतां नोऽस्माकं भवं जन्म पुनन्त्वित्यर्थः ॥ २३ ॥ * * एतद्दृष्टान्तेन शाकद्वीपमनुवर्णयति । एवं यथा क्रौञ्चस्तथेत्यर्थः, दधिमण्डोदात्परतः बहिः उपवेशितः विन्यस्तः शाकद्वीपः द्वात्रिंशलक्षयोजनविशालः समानेन द्वात्रिंशलक्षयोजनविशालेन क्षीरोदधिना परिवेष्टितः यस्मिन् शाक- द्वीपे शाकाख्यो महीरुहः स्वकीयस्य क्षेत्रस्य व्यपदेशकः नामनिर्वर्त्तकः आस्त इति शेषः । तं विशिनष्टि यस्येति । यस्य शाकस्य वृक्षस्य महासुरभिर्गन्धः निरतिशयसुगन्धः तं कृत्स्नं शाकद्वीपमनुवासयति सुरभीकरोति ॥ २४ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली 些 हे जातवेदः ! सर्वज्ञ ! त्वं साक्षात्परस्य ब्रह्मणः श्रीनारायणस्यार्थे हव्यवाडसि हव्यलक्षणहविषो नेतासि तथा पुरुषशब्द- वाच्यस्य हरेरङ्गभूतानां देवानाच हव्यवाडसि स त्वमस्मत्सन्निहितो भूत्वा यज्ञलक्षणेन कर्मणा पुरुषं यज्ञनामानं श्रीहरिं यज याजयास्माभिरिति शेषः ।। १७ ।। * * क्षीरोदेन मण्डोदेन । “मण्डोदे पूरणचैव व्यत्यासं क्षीरसागरे । राहुसोमरवीणाच मण्डलाद्विगुणोक्तिताम् ॥ विनैव सर्वमुन्नेयं योजना भेदतोऽत्र तु ।।” इति वचनाद्वद्यत्यासो ज्ञातव्यः ।। १८ ।। * * गुहस्य षण्मुखस्य प्रहरणेन शक्त्याख्येनोन्मथिताः पीडिताः नितम्बाच्च कुञ्जलतादिपिहितोदरा अणुतरा गिरिविशेषा मिथुनानां क्रियायोग्याश्च यस्य स तथा क्षीरोदेन मण्डोदेनाभिषिच्यमानः ॥ १९ ॥ रिक्थादान दायादान् पुत्रानित्यर्थः ।। २०-२१ ।। अम्मयं जलाधिदैवतं देवं क्रीडादिगुणसम्पन्नम् ॥ २२ ॥ * या आपः पुरुषवीर्याः श्रीनारायणस्य रेतोभूताः “आपो नारा ॥ इति प्रोक्ता आपो वै नरसूनवः” इति स्मृतेः भूर्भुवः सुवः पदं त्रैलोक्यमपि पुनन्तीः पुनन्त्यः याचापघ्नीः पापहराः भवे भवार्थं शुद्धिलक्षणसुखार्थमात्मना देहेन चान्तरेण च संस्पृशेत ता आपः पुनीयुः पुनन्त्विन्वयः ॥ २३ ॥ * * दधिमण्डोदेन “अनाम्लन्तु दधि क्षीरं क्षीरं सान्द्रं तथा दधि” इत्यभिधानात् क्षीरोदार्थ दधिमण्डोदशब्दः ।। २४-२७ ।। श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः तस्मिन्नपीति । स्वयमुपजगामेत्यन्वयः । स्वयं भगवत इति वा भगवान् ‘उत्पत्ति । । ज्ञानवान् ।। २०-२३ ॥ * * तं द्वीपमनुवासयति । तत् स्यात् ।। २४-२७ ।। तद्वीपस्थस्वाधारखण्डविशेषमित्यर्थः । प्रलय चे ‘त्यादिलक्षण- सर्वानुवासने त्वत्रापि श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ॥ हे जातवेदस्त्वं साक्षात् परस्य ब्रह्मणो हरेर्हव्यवाडसि । अतो देवानां यज्ञेन पुरुषं हरिमेव यज । अङ्गानां नाम्ना दत्तमङ्गिने समर्पयेत्यर्थः ।। १७ ।। ॐ ॐ उपक्लप्तः वेष्टितः वृत इति परत्रान्वितम् ।। १८ ।। * * गुहः कार्त्तिकेयः विभयः विगतभयः ।। १९ ।। * * भगवान् उत्पत्त्यादिज्ञानवान् ।। २०-२१॥ आपोमयम् अम्मयम् ॥ २२ ॥ * * हे आपः ! पुरुषवीर्या ईश्वरालब्धसामर्थ्या भवथ । अत एव भूर्भुवः सुवः त्रैलोक्यं पुनन्त्यस्ता यूयं नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां
४५२ श्रीमद्भागवतम् j भुवः शरीराणि पुनीत त आत्मना स्वरूपेणैव अमीवघ्नीः पापहन्त्र्यः ॥ २२ ॥ उदकं यस्य ।। २४-२७॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः PEEP SPE [ स्कं. ५ अ. २० श्लो. १७-२४ छे दध्नो मण्डं रस एव न हे जातवेदः ! देवानां परस्य आत्मनः “स आत्मा अङ्गान्यन्याः देवताः” इति श्रुतेः साक्षाद्ब्रह्मणः हव्यवाडसि, देवाना- मङ्गभूतानां नाम्ना दत्तं यज्ञियं हव्यं तस्मै वहसि अतो यज्ञेन स. अता यज्ञेन पुरुषं पुरुषं सर्वदेवाङ्गिनं यज तत्तन्नाम्ना दत्तं तस्मै समर्प- येत्यर्थः ॥ १७ ॥ * * उपक्लृप्तो वेष्टितः ।। १८ ।।
- उपक्लृप्तो वेष्टितः ।। १८ ।। * * गुहप्रहरणेन कार्त्तिकेयायुधेनोन्मथिता भग्नाः नितम्बाः कुआनि च यस्य सः ॥ १९ ॥ * * भगवान् “उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।’ इति स्मृत्युक्तविश्वोत्पत्त्यादिज्ञानवान् स्वयं, भगवतः “ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्य- योश्चापि षण्णां भग इतीङ्गना ॥” इति स्मृत्युक्तषाड्गुण्याश्रयस्य हरेर्बन्धहारिणश्चरणारविन्दमुपजगाम प्राप्तवान्मुक्तोऽभू- दित्यर्थः ।। २०-२१ ॥ * * आपोमयमम्मयम् । अपां पूर्णेनाञ्जलिना देवं यजन्ते “जलं ब्रह्मोपासीत” इति श्रुतेः ॥ २२ ॥ हे आपः ! पुरुषवीर्याः परमपुरुषशक्तिरूपाः स्थ भवथ अत एव भूर्भुवः स्वः लोकत्रयं पुनन्तीः पुनन्त्यः ताः भवत्यो नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां भुवः शरीराणि पुनीत पुनन्तु, यतः आत्मना स्वाश्रयेण पुरुषेण हेतुभूतेन अमीवघ्नीः पापहृन्त्रयः ॥ २३ ॥ * * दधिमण्डोदेन दध्नो मण्डं रसः एवोदमुदकं यस्य तेन ।। २४-२७ ॥ Breww FILL BE tress ॐ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी, । *. फोष्ट ए पर्वतान् दर्शयति-स्वरस इत्यादि ॥ १७ ॥ * नदीदर्शयति-अनुमतिरित्यादि ।। १८ ।। * तेषु वर्षेषु चतुरो वर्णास्तैश्चन्द्रोपासनं च दर्शयति तद्वर्षपुरुषा इति । वेदमयं वेदप्रतिपाद्य भगवन्तमैश्वर्यादिगुणपूर्णमात्मानं परमात्मानं सोमं चन्द्ररूपेण स्थितं वेदेन तदुक्तप्रकारेण यजन्ते आराधयन्तीत्यन्वयः ॥ १९॥ * * तेषां मन्त्रमाह - स्वगोभिरिति । यः कृष्णशुक्लपक्षयोः पितृदेवेभ्योऽन्धः अन्नं विभजन् वर्त्तते । पक्षयोः कृष्णत्वशुलत्वव्यवहारस्य चन्द्रदर्शनादर्शनहेतुकत्वात् तयोरेव यथाक्रमं पितृदेवाराधनस्य शास्त्रसिद्धत्वाच्च । सर्वासां च प्रजानामुभयोरपि पक्षयोः स्वगोभिः स्वकिरणैर्योऽनं विभजन् पशुपक्षि- मनुष्यादियोग्यं तत्तद्भोज्यभक्ष्याद्युत्पादयन् वर्त्तते । सूर्यकिरणैस्तप्तानामोषध्यादीनां चन्द्ररश्मिभिराध्यायनं विना प्रशोषप्रसङ्गादिति भावः । स सोमो नोऽस्माकं राजा आऽस्तु औ सर्वत्र सर्वदा रञ्जकः पालकोऽस्तु । इतिशब्दो मन्त्रसमाप्त्यर्थः ॥ २० ॥ ** यथा पूर्वः शाल्मलद्वीपः स्वसमानेन सुरोदेनावृत एवं सुरोदाद्वहिंस्तद्विगुणोऽष्टलक्षयोजनविस्तृतः कुशद्वीपोऽपि स्वसमानेन अष्ट- लक्षयोजनविततेन सात्त्विकेन घृतोदेन आवृतोऽस्तीति शेषेणान्वयः ॥ २१ ॥ यस्मिन् द्वीपे तस्य द्वीपस्य आख्यायनः नामनिरुक्तिकरः अपरः द्वितीयः ज्वलनः अग्निरिव प्रकाशमानः देवकृतः परमेश्वरेण रचितः कुशस्तम्बः स्वशष्पाणां कोमलशिखानां रोचिषा दीप्त्या सर्वा दिशो विराजयति प्रकाशयतीत्यन्वयः ॥ २२ ॥ ॐ वसुः वसुदानः दृढरुचिः नाभिगुप्तः स्तुत्यत्रतः विविक्तः वामदेव इति नामानि येषां तेभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य विभागेन दत्त्वा स्वयं च तप आतिष्ठत कृतवानि- त्यन्वयः ।। २३-२४ ।। ।। শপ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी प् परस्येति । हे जातवेदोऽग्ने, त्वं साक्षात्प्रत्यक्षस्य परस्य ब्रह्मणः, असि तच्छरीरभूतोऽसीत्यर्थः । तथा हव्यवाट् चासि । भगवदात्मेन्द्रादिनाम्ना दत्तं हव्यं तदङ्गभूतेन्द्रादये तदन्तर्यामिणे च प्रदातुं तत्तं तं प्रति वहतीति तथाभूतोऽसीत्यर्थः । अतः, पुरुषस्य परमपुरुषस्याङ्गानां शरीरभूतानां वेदानां यज्ञेन यजनेन, पुरुषं यज । देवानां भगवदङ्गत्वे श्रुतिः स आत्मा अङ्गान्यन्या देवता:’ इति । इन्द्रादिसंबन्धिना यज्ञेन तेषां भगवदात्मकत्वतः परमपुरुषयजनमेव संपन्नमतोऽङ्गेभ्यो युष्मभ्यमर्पितं हविरङ्गिने समर्पयेत्यर्थः ।। १७ ।। * * एतद्द्वीपदृष्टान्तेन क्रौञ्चद्वीपमनुवर्णयति । तथा बहिरिति । यथा कुशद्वीपः धृतोदेन स्वसमान- विशालतावता घृताम्बुधिना वृतः वेष्टित अस्ति तथा बहिः घृतोदाद्बहिः प्रदेशे क्रौञ्चद्वीपोऽपि द्विगुणः षोडशलक्षयोजनविशालः, स्वसमानेन षोडशलक्ष योजनविशालता वता क्षीरोदेन, दुग्धसमानोदकेन समुद्रेण परितोऽभितः, उपक्लृप्तः परिक्षिप्तः । यस्मिन् द्वीपे क्रौनः नाम प्रसिद्धः पर्वतराजः, द्वीपनामनिर्वर्त्तकः द्वीपस्य क्रौद्वीप इति संज्ञासंपादकः, आस्ते ।। १८ ।। * कौनं पर्वतं विशिनष्टि य इति । यः असौ क्रौञ्चगिरिः, पूर्व गृहस्य कार्तिकेयस्य प्रहरणमायुधं तेन उन्मथिता नितम्बः कुञ्जन च यस्य तथाभूतः अपि, पश्चात् क्षीरोदेन आसिच्यमानः, क्षीरोदे निलीन इत्यर्थः । पश्चात् भगवता वरुणेन, अभिगुप्तः अभयप्रदानेनाभि- रक्षितः सन् विभयः निरस्तभयः बभूव ॥ १९ ॥ * * तस्मिन्नपीति । तस्मिन् क्रौञ्चद्वीपेऽपि, भैयत्रतः प्रियव्रतात्मजः घृतपृष्ठो नाम घृतपृष्ठनामा अधिपतिः स्वे द्वीपे सप्त वर्षाणि विभव्य पुत्रनामसु तेषु वर्षेषु, सप्त रिक्थादान् दायादान, वर्षमान वर्षपतीन्, निवेश्य प्रतिष्ठाप्य, स्वयं परमकल्याणं निरतिशयमङ्गलरूपं यशो यस्य तस्य, आत्मभूतस्य स्वान्तरात्मनः, भगवतः हरेः चरणारविन्दं स्वाश्रितबन्धनिवर्त्तकभगवञ्चरणयद्ममित्यर्थः । उपजगाम भक्त्या प्राप्तः ॥ २० ॥ * आम इति । आमा, मधुरुहः, मेघपृष्ठः, । स्क. ५ अ. २० लो. २५-३२ ] अनेकव्याख्या समलङ्कृतम् મુરે सुधामा, भ्राजिष्ठः, लोहितार्णः, वनस्पतिः इत्येते घृतपृष्ठसुताः । तेदां वर्षगिरयः सप्त । नद्यश्चापि सप्तैव अभिज्ञाताः । अन्ये च ते ताश्च सन्तीति भावः । तत्र गिरीनाह शुक्ल इति । शुक्लः, वर्द्धमानः, भोजन, उपबर्हणः, नन्दः, नन्दनः, सर्वतोभद्रः, इत्येते गिरयः ।। २१ ।। * * नदीराह अभयेति । अभया, अमृतौघा, आर्यका, तीर्थंवती, रूपवती, पवित्रवती, शुक्ला इत्येता नद्यः । एता विशिषस्तद्वर्षस्थानां चतुर्धा वर्णविभागं भजनीयं भगवद्रूपं मन्त्रं चाह । यासामभयादीनां, चाह । यासामभयादीनां पवित्रं, अमलं निर्मलं च, अम्भो जलं, उपयुञ्जनाः स्नानाद्युपयुक्तं कुर्वाणाः पुरुषा ब्राह्मणस्थानीयाश्च ऋषभाः क्षत्रिय स्थानीयाश्च द्रविणा वैश्यस्थानीयाश्च देवकाः शूद्रस्थानीयाश्च ते संज्ञा येषां ते, वर्षपुरुषाः, आपोमयम् अपशरीरकं, देव भगवन्तं पूर्णेन, अपां अञ्जलिना, यजन्ते अर्घादि- प्रदानेनाराधयन्ति ।। २२ ।। * * आप इति । हे आपः यूयं पुरुषस्य भगवतः बीर्याः शक्तिरूपाः, तच्छरीरभूता इत्यर्थः । स्थ भवथ । भूरिति भूमिलोकं, भुवरित्यन्तरिक्षलोकं, सुवरिति स्वर्गलोक, एवं लोकत्रयं पुनन्तीः पवित्रयन्त्यः, स्थ । यतः एवं अतः, ताः भवत्यः, स्पृशतां भवत्स्पर्श कुर्वतां नोऽस्माकं, सुवः शरीराणि पुनीत । यतः आत्मना स्वरूपेणैव अमीवघ्नीः पाहन्यः स्थ । इति ।। २३ ।। * * एतद्दृष्टान्तेन शाकद्वीपमनुवर्णयति एवमिति । एवं पूर्वद्वीपवदेव यथा क्रौञ्चस्तथैवेत्यर्थः । क्षीरोदात् परस्तात्, परितः समंततः, उपवेशितो विन्यस्तः, शाकद्वीपः द्वात्रिंशलक्ष योजनायामः, आयामोऽत्र परिणाहपर्याया विशालता प्राह्या । समानेन द्वात्रिंशल्लक्षयोजनविशालेन, दधिमण्डोदेन मथितदधिसमानोदकेन समुद्रेण, परितः परिवेष्टितः, भवति । यस्मिन् द्वीपे, शाकः नाम महीरुहः, यस्य पर्णान्यन्तः खरस्पर्शानि बहिर्मुदुस्पर्शानि स शाको नाम वृक्षः, स्वक्षेत्रव्यपदेशकः स्वकीय नाम्ना द्वीपनामनिर्वर्त्तकः, हि आस्ते इति शेषः । यस्य शाकवृक्षस्य, ह निश्चितमेव, महासुरभिर्गन्धोऽतिसौरभ्योपेतो गन्धः निरतिशयः सुगन्ध इत्यर्थः । तं द्वीपं कृत्स्नमपि तमन्तरीपमित्यर्थः । अनुवासयति सुरभीकरोति ॥ २४ ॥ । | भाषानुवादः । ( तथा इस प्रकार स्तुति करते हैं— ) ‘अग्ने ! आप परब्रह्मको साक्षात् हवि पहुँचानेवाले हैं; अतः भगवान् के अङ्ग- भूत देवताओंके यजनद्वारा आप उन परमपुरुषका ही यजन करें’ ।। १७ । * * राजन् ! फिर घृतसमुद्रसे आगे उससे द्विगुण परिमाणवाला क्रौञ्चद्वीप है। जिस प्रकार कुशद्वीप घृतसमुद्रसे घिरा हुआ है, उसी प्रकार यह अपने ही समान विस्तार- वाले दूध के समुद्रसे घिरा हुआ है। यहाँ क्रौञ्च नामका एक बहुत बड़ा पर्वत है, उसीके कारण इसका नाम क्रौद्वीप हुआ है ।। १८ ।। पूर्वकालमें श्रीस्वामिकार्तिकेयजीके शस्त्रप्रहारसे इसका कटिप्रदेश और लता - निकुञ्जदि क्षत-विक्षत हो गये थे, किन्तु क्षीरसमुद्रसे सींचा जाकर और वरुणदेवसे सुरक्षित होकर यह फिर निर्भय हो गया ।। १९ ।। ** इस द्वीपके अधिपति प्रियव्रतपुत्र महाराज घृतपृष्ठ थे । वे बड़े ज्ञानी थे। उन्होंने इसको सात वर्षों में विभक्त कर उनमें उन्हीं के समान नामवाले अपने सात उत्तराधिकारी पुत्रोंको नियुक्त किया और स्वयं सम्पूर्ण जीवोंके अन्तरात्मा, परम मङ्गलमय कीर्तिशाली भगवान् श्रीहरिके पावन पादारविन्दोंकी शरण ली ॥ २० ॥ ॐ * महाराज घृतपृष्ठके आम, मधुरुह, मेघपृष्ठ, सुधामा, भ्राजिष्ठ, लोहितार्ण और वनस्पतिये सात पुत्र थे । उनके वर्षों में भी सात वर्षपर्वत और सात ही नदियाँ कही जाती हैं। पर्वतोंके नाम शुक्ल, वर्धमान, भोजन, उपबर्हिण, नन्द, नन्दन और सर्वतोभद्र हैं तथा नदियोंके नाम है- अभया, अमृतौया, आर्यका, तीर्थवती, वृत्तिरूपवती, पवित्रवती और शुक्ला ॥ २१ ॥ * इनके पवित्र और निर्मल जलका सेवन करनेवाले वहाँके पुरुष, ऋषभ, द्रविण और देवक नामक चार वर्णवाले निवासी जलसे भरी हुई अञ्जलिके द्वारा आपोदेवता ( जलके देवता) की उपासना करते हैं ॥ २२ ॥ ( और कहते हैं -) ‘हे जलके देवता ! तुम्हें परमात्मासे 1 * * सामर्थ्य प्राप्त है। तुम भुवः , और स्वः– तीनों लोकोंको पवित्र करते हो, क्योंकि स्वरूपसे ही पापोंका नाश करनेवाले हो। हम अपने शरीरसे तुम्हारा स्पर्श करते हैं, तुम हमारे अङ्गोको पवित्र करो’ ॥ २३ ॥ * इसी प्रकार क्षीरसमुद्रसे ॥ आगे उसके चारों ओर बत्तीस लाख योजन विस्तारवाला शाकद्वीप है, जो अपने ही समान परिमाणवाले मट्ठ के समुद्रसे घिरा हुआ है। इसमें शाक नामका एक बहुत बड़ा वृक्ष है, वही इस क्षेत्रके नामका कारण है । उसकी अत्यन्त मनोहर सुगन्धसे सारा द्वीप महकता रहता है ।। २४ ।। भवः तस्यापि प्रयन्त एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवप वमान धूम्रानीक चित्ररेफबहुरूपविश्वाधारसंज्ञा निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ।। २५ ।। एतेषां वर्षमर्यादागिरयो नद्यथ सप्त सप्तै व ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्र तिर्निजधृतिरिति ।। २६ ।। तद्वर्षपुरुषा ऋतत्रत- सत्यत्रतदानत्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायाम विधूतरजस्तमसः परमसमाधिना यजन्ते ॥। २७ ॥ १. प्रा० पा० वेपमान० । २. प्रा०पा० सप्त ईशान । ३. मा० सहसूतिर्निन श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. २५-३२ ‘अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः । अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८ ॥ एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूद केन समुद्रेण बहिरावृतो यस्मिन् वृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् ॥ २९ ॥ तद्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपर। चीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ।। ३० ।। तद्वीपस्याप्यधिपतिः प्रयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ।। ३१ ।। तद्वर्षपुरुषो भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराध- यन्तीदं चोदाहरन्ति ॥ ३२ ॥ Sul अन्वयः - तस्य अपि अधिपतिः प्रयत्रतः नाम्ना मेधातिथिः एव सः अपि पुत्रनामानि सप्त वर्षाणि विभज्य तेषु पुरोजवमनोजवपवमानधूम्रानीकचित्र रेफबहुरूपविश्वाधारसंज्ञान् स्वात्मजान् अधिपतीन् निधाप्य स्वयम् भगवति अनन्ते आवेशित- मतिः तपोवनम् प्रविवेश ॥ २५ ॥ * * एतेषाम् वर्षमर्यादा गिरयः च नद्यः सप्त सप्त एव ईशानः उरुशृङ्गः बलभद्रः शतकेसर: सहस्रस्रोतः देवपालः महानसः इति अनघा आयुर्दा उभयसृष्टिः अपराजिता पञ्चपदी सहस्रस्रुतिः निजधृतिः इति ।। २६ ।। ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानः तद्वर्षपुरुषाः प्राणायामविधूतरजस्तमसः वाय्वात्मकम् भगवन्तम् परमसमाधिना यजन्ते ।। २७ ।। * * यः भूतानि अन्तः प्रविश्य आत्मकेतुभिः बिभर्ति अन्तर्यामी ईश्वरः साक्षात् नः पातु यद्वशे स्फुटम् ॥ २८ ॥ * * एवम् एव दधिमंडोदात् परतः ततो द्विगुणायामः पुष्करद्वीपः समन्ततः उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिः आवृतः यस्मिन् ज्वलनशिखामल् कनकपत्रायुतायुतम् बृहत् पुष्करम् कमलासनस्य भगवतः अध्यासनम् परिकल्पितम् ॥ २९ ॥ * * तद्वीपमध्ये मानसोत्तरनामा अयुतयोजनोच्छ्रायायामः एकः एव अर्वाचीनपराचीनवर्षयोः मर्यादाचलः यत्र चतसृषु दिक्षु इन्द्रादीनाम् लोकपालानाम् चत्वारि पुराणि यदुपरिष्टात् मेरुम् परिभ्रमतः सूर्यरथस्य संवत्सरात्मकम् चक्रम् देवानाम् अहो- रात्राभ्याम् परिभ्रमति ।। ३० ॥ * * तद्वीपस्य अधिपतिः अपि प्रयत्रतः वीतिहोत्रः नाम एतस्य आत्मजौ रमणक- धातकिनामानौ वर्षपती नियुज्य सः स्वयम् पूर्वजवद्भगवत्कर्मशीलः एव आस्ते ॥ ३१ ॥ * * तद्वर्षपुरुषाः ब्रह्मरूपिणम् भगवन्तम् सकर्मकेण कर्मणा आराधयन्ति इदम् च उदाहरन्ति ।। ३२ ।।
श्रीधरखामिविरचिता भावार्थदीपिका ।। आत्मकेतुभिः प्राणादिवृत्तिभिः ॥ २८ ॥ * ज्वलनशिखावदमलानां कनकपत्राणामयुतानामयुतानि यस्य तत् ।। २९ ।। * देवानामहोरात्राभ्यामुत्तर दक्षिणायनाभ्यामित्यर्थः ।। ३०-३१ ।। ब्रह्मरूपिणं कमलासन मूर्तिम् । सकर्मकेण ब्रह्मसालोक्यादिसाधनेन ।। ३२ ।। श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः तस्यापि शाकद्वीपस्यापि । निधाप्य स्थापयित्वा ।। २५-२७।। ।। * * स्फुटं व्यक्तं जगदिति यावत् ||२८|| 8 ततः क्रौंचद्वीपात् । द्विगुणश्चतुःषष्टिलक्षयोजन प्रमाणकः ॥ २९ ॥ * * तस्य पुष्करद्वीपस्य मध्ये मनसोत्तरमण्डलाकारत्वात्त- त्पार्श्ववर्त्तिनी द्वे वर्षे अपि मण्डलाकारे एवेत्याह- अर्वाचीनेति ।। ३०-३१ ।। * * सकर्मकेण यतः कर्मणा कर्माण्येवो- द्भवन्ति न तु कर्मक्षयस्तेन सकामेनेत्यर्थः ।। ३२ ।। श्रीमद्वीरराघवव्याख्या ॥ २५ ॥ तस्यापि शाकद्वीपस्याप्यधिपतिर्मेधातिथिर्नाम प्रियव्रतात्मज एव सोऽपि पुत्रतुल्यनामानि वर्षाणि विभज्य तेषु वर्षेष्वात्मजान् पुरोजवादिसंज्ञान्निधाय प्रतिष्ठाप्य स्वयमनन्तेऽपरिच्छिन्नानन्दस्वरूपे भगवत्यावेशिता निहिता मतिर्येन तादृश- स्तपोवनं तपसो योग्यं वनं प्रविवेश तपसा सिद्धोऽभूदित्यर्थः * * अथ शाकद्वीप वर्षविभागं पुत्रनामपूर्वकं पर्वतान्नदी वाह एतेषामिति । तेषु पुरोजवादिषु वर्षेषु सप्त सीमापर्वताः तथा नद्यश्च सप्तैवासन् । पर्वतान्नदी चाह ईशानः शृङ्ग इति । अनघेत्याभ्यां गद्याभ्याम् । तद्वर्षस्थाः पुरुषाः ऋतव्रतादिचतुर्वर्णात्मकाः वाय्वात्मकं वायुशरीरकं भगवन्तं परमसमाधिना निरतिशयध्यानयोगेन यजन्ते आराधयन्ति । कथम्भूताः सन्तः प्राणायामैरासमन्ताद्विधूतं निरस्तं रजस्तमश्च येषां तादृशाः सन्तः १. प्राचीने पाठे ‘अन्तः प्रविश्य श्लोको न । २. प्रा० पा० - दकसमुद्रेण । ३. प्रा० पा० - पुष्करं ज्वलन० । ४. प्रा० पा०- सोत्तरो नामैक । ५. प्रा० पा० - प्राचीनयोर्वर्षयो० । ६. प्रा० पा० - चक्रमहोरात्राभ्यां । ७. प्रा० पा० णकघातकनामानौ । स्क. ५ अ. २० इलो. २५-३२ ] अनेकव्याख्या समलङ्कृतम्
४५५ ।। २६-२७ ।। * * यो वायुशरीरकः परमात्मान्तः प्रविश्य मुख्य प्राणरूपेणान्तः प्रविष्टः सन्नात्मनः स्वस्य चिह्नभूताभिः पञ्चभिः प्राणापानादिभिवृत्तिभिः “यः प्राणेन प्राणिति योऽपानेनापानिति” इत्यादिश्रुतिः भूतानि बिभर्ति स साक्षादीश्वरोऽन्तः प्रविश्य नियन्ता नः अस्मान् पातु यस्य प्राणशरीरकस्य भगवतः वशे इदं जगद्वर्तते भगवतो वायुशरीरकत्वादन्तर्यामीश्वरसामाना- धिकरण्यम् ॥ २८ ॥ * अथ पुष्करद्वीपमनुवर्णयति एवमिति । क्षीरोदधेः परस्तात्पुष्कर द्वीपः ततः शाकद्वीपाद् द्विगुणायामः द्विगुणविशालः चतुःषष्टिलक्षयोजनविशालः समन्ततश्चक्षुर्दिक्षु उपकल्पितः ईश्वरेणेति शेषः । यद्वा प्रियव्रतरथचरण- नेमिनेति शेषः । स्वसमानविशालेन चतुःषष्टिलक्षयोजनविस्तीर्णेन शुद्धोदकेन शुद्धोदकसमुद्रेण बहिः समन्ततः पिहितः परिवृतः यस्मिन् पुष्करद्वीपे बृहद् विपुलं पुष्करं कमलं ज्वलनशिखावदमलानां प्रकाशमानानां कनकपत्राणामयुतानामयुतानि यस्य तद्भगवतः कमलासनस्य चर्तुमुखस्याध्यासनं परिकल्पितं तत्कर्णिकामध्यगतत्वेन तद्वर्षस्थाः पुरुषा चतुर्मुखमुपासत इत्यर्थः ।। २९ ।। * * अस्मिन् द्वीपे मर्यादागिरिर्मानसोत्तरनामा एक एवेत्याह तद्वीपमध्य इति । पुष्करद्वीपमध्ये एक एव मानसोत्तराख्योऽयुतयोजनानि उच्छ्राय औन्नत्यमायामो विस्तारत्र्य यस्य सः अर्वाचीनपराचीनयोरन्तर्वर्त्तिबहिर्वर्तिनोर्वर्षयोर्मर्यादा- गिरिः यत्र मानसोत्तरे गिरौ चतसृषु दिक्षु इन्द्र आदिर्येषां तेषामिन्द्राग्निवरुणकुबेराणां लोकपालानां पुराणि सन्ति, यस्य मानसो- तरगिरेः उपरि स्थितेन्द्रादिलोकपालपुरीणामुपरि मेरुं परिक्रमतः परितो भ्रमतः सूर्यरथस्य यचक्रं संवत्सरात्मकं तदेवानामहो - रात्राभ्यामुत्तरायणदक्षिणायनाभ्यां स्वावयवाभ्यां चक्रवत् लौकिकरथचक्रवत्परिभ्रमति ॥ ३० ॥ * * तस्य पुष्करद्वीपस्यापि पतिर्वीतिहोन्नाख्यः प्रियव्रतात्मज एव तस्य वीतिहोत्रस्यात्मजौ पुत्रौ रमणघातकाख्यौ रमणधातकयोर्वर्षयोः पतीकृत्वेत्यर्थः, अयं वीतिहोत्रः पूर्वजवन्मेधातिथिवद्भगवदाराधनरूपकर्मशील एवास्ते आसीदित्यर्थः ॥ ३१ ॥ 8 * तत्पुष्करद्वीपवर्ष पुरुषाः ब्रह्मरूपिणं चतुर्मुखशरीरकं भगवन्तं कर्मणा कर्मयोगविशिष्टेन कर्मणा मनोव्यापाररूपेण भगवदुपासनयोगेन, कर्मशब्दो हि मनोव्यापार रूपोपासनायोगेऽपि वर्त्तते ‘प्रकाशादिवञ्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्’ इति सौत्रप्रयोगात् प्रकाशादिवत् ज्ञानानन्दादिस्वरूपवन्मूर्त्तामूर्त प्रपञ्चविशिष्टताया अपि ब्रह्मगुणत्वाद्वैशेष्यं प्रतीयते “तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यव” इत्यादिब्रह्मस्वरूप भूतप्रकाशानन्दादिवञ्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासादुपलभ्यते तद्वच्चा- भ्यस्तसंराधनानां तेषां मूर्त्तामूर्त्तादिना विशिष्टत्वमप्यविशेषेण प्रतीयते इति तदर्थः । तथा च “वाचिकैः पक्षिमृगता मानसैरन्त्य- जातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।। " इति भगवता मनुनापि मानसैः कर्मदोषैरिति मनोव्यापारे कर्मशब्दः प्रयुक्तः । अकर्मण इति पाठे अकर्मणे कर्मबन्धनिरासाय कर्मणा स्वस्ववर्णोचितकर्मणेत्यर्थः ॥ ३२ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ।। ।। आत्मकेतुभिः आत्मस्वरूपैः प्राणादिभिर्वृत्तिभेदैर्वा ॥ २८ ॥ * * दधिमण्डोदात् क्षीरोदात् ज्वलनशिखावदमलानां कनकषात्राणामयुतं यस्य तत्तथा अर्वाचीनपराचीनयोर्बाह्याभ्यन्तरप्रदेशस्थितयोर्यस्य मानसोत्तरपर्वतस्य " अहखिनाभिः सूर्यस्य एकचक्रस्य वै स्मृतम् । अराः संवत्सराः पञ्च तेभ्यः षड् ऋतवः स्मृत्ताः ॥” इति मत्स्यपुराणे चक्रस्य संवत्सरात्मकत्वमुक्तम् “त्रिणाभिचक्रमजरमनवं पचारे चक्र” इत्यादि च ।। २९-३१ ।। * अकर्मकेण ध्यानलक्षणेन कर्मणा ध्यानस्य चित्तनिरोध- लक्षणकर्मसाध्यत्वात् फलाभिसन्धिरहितेन वा ॥ ३२ ॥ $ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः जम्बूद्वीपदक्षिणदिक्स्थितानामेवोद्देशावगमादन्तः प्रविश्येति स्फुटं व्यक्तं जगदिति यावत् ।। २८-३१ ॥ * * सकर्मकेणेति । क्रियते साध्यते इति कर्मफलं तेन सह वर्त्तमानेन ब्रह्मसालोक्यादिसाधनेनेत्यर्थः ।। ३२ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी : आत्मकेतुभिः प्राणादिवृत्तिभिः ।। २८ ।।
- ज्वलनस्य तेजसः शिखाभिरमलानि यानि कनकवर्णादिपत्राणि तेषामयुतायुक्त यस्य ॥ २९ ॥ तद्वीपमध्य इति । मानसोत्तरस्य मण्डलाकारत्वात्तत्पार्श्वद्वयवर्त्तिनी द्वे वर्षे अपि मण्डलाकारे एवं ज्ञेये इत्याह अर्वाचीनेति । देवानामहोरात्राभ्यामुत्तरदक्षिणायनाभ्यामित्यर्थः ।। ३०-३१ ॥ केण । यतः कर्मणः कर्माण्येवोद्भवन्ति न तु कर्मक्षयः, तेन सकामेनेत्यर्थः ॥ ३२ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
-
- सकर्म- आत्मकेतुः प्राणापानादिवृत्तिभिः ॥ २८ ॥ ज्वलनोऽग्निस्तच्छिखावदमलानां कनकपत्राणामयुताना- मयुतानि यस्य तत् ॥ २९॥ अहोरात्राभ्यामुत्तरदक्षिणायनलक्षणाभ्याम् ॥। ३०-३१ ॥
भगवन्तं वासुदेवं ब्रह्मरूपिणं सकर्मकेण कर्मयोगसहितेन कर्मणा वन्दनस्तवनादिव्यापारेण आराधयन्ति । साक्षाद्वासुदेव न जानन्तीति भावः ।। ३२ ।। श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. २५-३२ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ४ ॐ ।। गिरिनामान्याह-चक्र इति ।। २५ । नदीनामान्याह - रसकुल्येति ।। २६ । यासां नदीनां पयोभिर्जलैर्विशुद्धाः सन्त इति शेषः । कुशलः कोविदः अभियुक्तः कुलक इति सव्ज्ञा येषां ते ब्राह्मणादिस्थानीयाश्चत्वारो वर्णाः । जातवेदा अभिस्तत्स्वरूपिणं कर्मकौशलेन यज्ञादिकर्मानुष्ठाननैपुण्येन यजन्ते ॥ २७॥ ४ ४ मन्त्रमाह- परस्येति । हे जातवेदः त्वं साक्षात्परस्य ब्रह्मणो भगवतो हव्यवाडसि । अतो देवानां यज्ञेन पुरुषं भगवन्तं हरिमेव यज । अङ्गानां नाम्ना दत्तमङ्गिने समर्पयेत्यर्थः ।। २८ ।। * द्विगुणः षोडशलक्ष योजनविततः । खसमानेन राजसेन क्षीरोदेन परित उपक्लृप्तो वेष्टितोऽस्तीति शेषः । तत्र दृष्टान्तः यथेति ॥ २९-३० ॥ गुहस्य कार्तिकेयस्य प्रहरणेनायुधेन शक्त्याख्येनोन्मथिता नितम्बाः प्रान्तभागाः कुखानि च यस्य स तथाभूतोऽसि ॥ ३१ ॥ ॐ तस्याधिपतिः प्रयन्त्रतः प्रियत्रतपुत्रो धृतपृष्ठो नाम सोऽपि तस्मिन् स्वे द्वीपे सप्त वर्षाणि विभव्य तेषु पुत्रनामसु पुत्राणां नामान्येव नामानि येषां तेषु वर्षेषु सप्त रिक्थादान् स्वपुत्रान् वर्षपान् प्रजापालकान निवेश्य संस्थाप्य स्वयं भगवतश्चरणारविन्दं चरणारविन्दध्यानार्थं वनमुपजगामेत्यन्वयः । ननु तद्बधाने किं स्यादित्या- शङ्कय तस्य स्वभक्तदुःखहरस्वभावत्वात् सर्वसंसारदुःखनिवृत्तिरेवेत्याशयेन विशिनष्टि - हरेरिति । तत्रैव कैमुत्यन्यायं सूचयन्नाह - परमेति, परमकल्याणं यशो यस्य तस्येत्यर्थः । यदि तस्य यशश्रवणादेरेव संसारदुःखनिवर्त्तकत्वं तदा तस्य तन्निवारकत्वे कः सन्देह इति भावः । ननु कारकर्म स्वभावादीनां दुःखकारणानां सत्त्वे कथं तस्य तन्निवर्त्तकत्वमित्याशङ्कयाह- आत्मभूतस्येति । सर्वात्मकत्वात् कालादिरूपोऽपि स एवेति न तद्रूपेण भक्तान् सन्तापयतीति भावः । एवम्भूतभगवज्ज्ञानं तस्य कथं जातमित्याशङ्कय भगवदावेशेन ज्ञानैश्वर्यादिमत्त्वादेवेत्याशयेन विशिनष्टि-भगवानिति ॥ ३२ ॥ এ PEHITREE NOPESI VIDE श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी , तस्यापीति । तस्य शाकद्वीपस्यापि, प्रयत्रतः प्रियव्रतपुत्रः, यः नाम्ना मेधातिथिः, सः एव अधिपतिः अभवत्। सोऽपि पुत्रतुल्यनामानि सप्त वर्षाणि पुत्रनामानि यथायथं विभज्य, तेषु वर्षेषु पुरोजवश्च मनोजवश्च पवमानश्च धूम्रानीकश्च चित्ररेफच बहुरूपश्च विश्वाधारश्च ते संज्ञा येषां तान् स्वात्मजान् अधिपतीन निधाप्य प्रतिष्ठाप्य, स्वयं अनन्ते अपरिच्छिन्नानन्दखरूपे भगवति, आवेशिता निहिता मतिर्येन तथाविधः सन्, तपोवनं तपसो योग्यं वनं प्रविवेश । तपसा सिद्धोऽभूदित्यर्थः । अत्र विष्णुपुराणे क्रौद्वीपाये दधिमण्डोदः शाकद्वीपाये क्षीरोदोऽभिहितोऽस्ति । सोऽब्धिव्यत्ययः कल्पभेदेन समाधेयः ।। २५ ।। अथ शाकद्वीपवर्षविभागं तत्तन्नामोक्तिपूर्वकं पर्वतान्नदी वाह एतेषामिति । एतेषां पुरोजवादिवर्षाणां वर्षमर्यादागिरयः सप्त, नद्यश्च सप्त एव । तत्र पर्वता यथा । ईशानः, उरुशृङ्गः, बलभद्रः, शतकेसरः, सहस्रस्रोतः, देवपालः, महानसः इत्येते नगाः || २६ ॥ * * अनघेति । अनघा, आयुर्दा, उभयस्पृष्टिः, अपराजिता, पञ्चपदी, सहस्रस्रुतिः, निजधृतिः, इत्येता नद्यः ।। २७ ।। * * तद्वर्षेति । तद्वर्षे ऋततो ब्राह्मणस्थानीयश्च सत्यव्रतो क्षत्रियस्थानीयश्च दानत्रतो वैश्यस्थानीयश्च अनुव्रतः शूद्रस्थानीयश्चेत्येतानि नामानि येषां ते पुरुषाश्चतुर्वर्णजनाः, वाय्वात्मकं वायुशरीरकं भगवन्तं प्राणायामैर्विधूतं निरस्तं रजस्तमश्च येषां तादृशाः सन्तः, परमसमाधिना निरतिशयध्यानयोगेन यजन्ते आराधयन्ति ।। २८ ।। अन्तरिति । यो वायुशरीरकः परमात्मा, अन्तः प्रविश्य मुख्यप्राणरूपेणान्तः प्रविष्टः सन्, आत्मनः स्वस्य, केतुभिचिह्नभूताभिः पञ्चभिः प्राणापानादिवृत्तिभिः, भूतानि बिभर्त्ति । यद्वशे यस्य प्राणशरीरकस्य भगवतः वशे, इदं जगत् वर्त्तते । सः, साक्षात् ईश्वरः अन्तर्यामी अन्तः प्रविश्य नियन्ता सन्, नोऽस्मान् पातु ।। २९ ।।
- अथ पुष्कर द्वीपमनुवर्णयति एवमिति । एवमुक्तप्रकारेणैव, दधिमण्डोदात् परतः परस्तात्, पुष्कर द्वीपः । ततः दधिमण्डोदात्, द्विगुणायामः द्विगुणविशालः चतुःषष्टिलक्षयोजनविशालः, समन्ततश्चतुर्दिक्षु उपक्लृप्तः उपकल्पितः प्रियत्रतरथ- चरणनेमिनेति शेषः । समानेन स्वसमानविशालेन चतुःषष्टिलक्षयोजनविस्तीर्णेनेति यावत् । स्वादूदकेन शुद्धोदकसमुद्रेण बहिः आवृतः यस्मिन् पुष्करद्वीपे, बृहद्विपुलं पुष्करं कमलं ज्वलनशिखावदग्निशिखावदमलानां प्रकाशमानानां कनकपत्राणामयुताना- मयुतानि यस्य तत्, इत्थंभूतं, भगवतः जगत्सर्जनाद्यैश्वर्यवतः, कमलासनस्य ब्रह्मणः अध्यासनमधिकतयोपवेशनस्थानं परिकल्पितं तस्य द्वीपस्य यन्नामाभिधानं तस्य निवर्त्तकं संपादकं, वर्त्तते इति शेषः । अस्मिन् द्वीपे मर्यादागिरिर्मानसोत्तरनामैक एवेत्याह । तद्वीपमध्ये पुष्करद्वीपमध्ये, एक एव मानसोत्तरनामा मानसोत्तराख्यः, अयुतयोजनानि उच्छ्राय औन्नत्यमायामो विस्तारच यस्य सः । अर्वाचीनपराचीनवर्षयोः अन्तर्वर्त्तिबहिर्वर्त्तिनोर्वर्षयोः, मर्यादाचलः मर्यादागिरिः, यत्र मानसोत्तरे गिरौ, तु चतसृषु दिक्षु इन्द्र आदिर्येषां तेषां, लोकपालानामिन्द्रयमवरुणकुबेराख्यदिक्पालानां चत्वारि पुराणि सन्तीति शेषः । यदुपरिष्टात् यस्य मानसोत्तरस्योपरितनप्रदेशे, मेरुं परिभ्रमतः सूर्यरथस्य, संवत्सरात्मकं चक्रं देवानां अहोरात्राभ्यामुत्तरायणदक्षिणायनाभ्यां परिभ्रमति लौकिकचक्रवत्परिवर्त्तते ॥ ३० ॥ * एतदिति । प्रयव्रतः प्रियव्रतपुत्रः वीतिहोत्रः नाम, वीतिहोत्रनाम्ना प्रसिद्ध इत्यर्थः । एतद्वीपस्यास्य द्वीपस्य अपि, अधिपतिः अस्ति । सः रमणकधातकिनामानौ आत्मजौ कर्मभूतौ, एतस्य द्वीपस्य, वर्षपती वर्षस्वामिनी, नियुष्य कृत्वा, स्वयं पूर्वजवन्निजन्येष्ठ भ्रातृवत्, भगवत्कर्मशीलः भगवदाराधनरूपकर्मशीलः एव, आस्ते आसी- दित्यर्थः । इतीत्थं अवेहीति शेषः ॥ ३१ ॥ तदिति । तद्वर्षपुरुषाः, भगवन्तं ब्रह्मरूपिणं ब्रह्मशरीरकं सकर्मकेन कर्मयोग- । : एक. ५ अ. २० श्लो. ३३-४० ] अनेकव्याख्या समलङ्कृतम् ४५७ विशिष्टेन कर्मणा मनोव्यापाररूपेण, भगवदुपासनयोगेनेत्यर्थः, आराधयन्ति । इदं वक्ष्यमाणं मन्त्रं, उदाहरन्ति जपन्ते च । ननु जम्ब्वादिषु षट्सु द्वीपेषु संज्ञान्तरेण ब्राह्मणादिचतुर्वर्णविभाग उक्तोऽस्ति । अत्र तु तद्वर्षपुरुषा इत्येवोक्तं न तु संज्ञान्तरेण तद्विवेचनमुक्तं, तत्र को हेतुः स्यादिति चेदत्र विष्णुपुराणवाक्यानि शृणु एकश्चात्र महाभाग: प्रख्यातो वर्षपर्वतः । मानसोत्तर- संज्ञो वै मध्यतो वलयाकृतिः ।। योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः । पुष्कर- द्वीपवलयं मध्येन विभजन्निव । स्थितोऽसौ तेन विच्छिन्नं जातं तद्वर्षकद्वयम् ॥ वलयाकारमेकैकं तयोर्मध्ये महागिरिः । दशवर्ष- सहस्राणि तत्र जीवन्ति मानवाः || निरामया विशोकाच रागद्वेषविवर्जिताः । तत्राधमोत्तमावास्तां न वध्यवधकौ द्विज || नेर्ष्या सूया भयं रोषो दोषो लोभादिको न च । सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञके ॥ तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः । वर्णाश्रमाचार- हीनं धर्माधर्मविवर्जितम् ॥ त्रयीवार्त्तादण्डनीतिशुश्रूषारहितं च यत् । वर्षद्वयं तु मैत्रेय भौमः, स्वर्गोऽयमुत्तमः ॥ सर्वस्य सुखदः कालो जरारोगादिवर्जितः । तस्मिन्निवसति ब्रह्मा पूज्यमानः सुरासुरैः’ इति । एतदीक्षया तत्र वर्णविवेकाभावात्स नात्राभिहित इति ज्ञेयम् ।। ३२ ।। मेधातिथि नामक उसके अधिपति भी भाषानुवादः 1 राजा प्रियव्रतके ही पुत्र थे। उन्होंने भी अपने द्वीपको सात वर्षों में विभक्त किया और उनमें उन्हींके समान नामवाले अपने पुत्र पुरोजव, मनोजव, पवमान, धूम्रानीक, चित्ररेफ, बहुरूप और विश्वा अधिपतिरूपसे नियुक्त कर स्वयं भगवान् अनन्तमें दत्तचित्त हो तपोवनको चले गये ।। २५ ।। धारका
- इन वर्षों में भी सात मर्यादापर्वत और सात नदियाँ ही हैं। पर्वतोंके नाम ईशान, उरुशृङ्ग, बलभद्र, शतकेसर, सहस्रस्रोत, देवपाल और महानस हैं तथा नदियाँ अनघा, आयुर्दा, उभयस्पृष्टि, अपराजिता, पञ्चपदी, सहस्रस्रुति और निजधृति हैं ।। २६ ।। ** उस वर्ष के ऋतव्रत, सत्यव्रत, दानव्रत और अनुव्रत नामक पुरुष प्राणायाम द्वारा अपने रजोगुण तमोगुणको क्षीणकर महान समाधिके द्वारा वायुरूप श्रीहरिकी आराधना करते हैं ।। २७ ।। ( और इस प्रकार उनकी स्तुति करते हैं -) ‘जो प्राणादि वृत्तिरूप अपनी ध्वजाओंके सहित प्राणियों के भीतर प्रवेश करके उनका पालन करते हैं तथा सम्पूर्ण दृश्य जगत् जिनके अधीन है, वे साक्षात् अन्तर्यामी वायु भगवान् हमारी रक्षा करें’ ॥ २८ ॥ इसी तरह मट्ठेके समुद्रसे आगे उसके चारों ओर उससे दुगुने विस्तारवाला पुष्करद्वीप है । वह चारों ओरसे अपने ही समान विस्तारवाले मीठे जलके समुद्रसे घिरा है। वहाँ अग्निकी शिखाके समान देदीप्यमान लाखों स्वर्णमय पंखड़ियोंवाला एक बहुत बड़ा पुष्कर ( कमल) है, जो ब्रह्माजीका आसन माना जाता है ।। २९ ॥ * * उस द्वीपके बीचोबीच उसके पूर्वीय और पश्चिमीय विभागोंकी मर्यादा निश्चित करनेवाला मानसोत्तर नामका एक ही पर्वत है। यह दस हजार योजन ऊँचा और उतना ही लम्बा है । इसके ऊपर है। चारों दिशाओंमें इन्द्रादि लोकपालोंकी चार पुरियाँ हैं । इसपर मेरुपर्वतके चारों ओर घूमनेवाले सूर्यके रथका संवत्सररूप पहिया देवताओंके दिन और रात अर्थात् उत्तरायण और दक्षिणायनके क्रमसे सर्वदा घूमा करता है ॥ ३० ॥ तू । । با کاند
उस द्वीपका अधिपति प्रियव्रतपुत्र वीतिहोत्र भी अपने पुत्र रमणक और धातकिको दोनों वर्षोंका अधिपति बनाकर स्वयं अपने बड़े भाइयोंके समान भगवत्सेवा में ही तत्पर रहने लगा था ॥ ३१ ॥ * * वहाँ के निवासी ब्रह्मरूप भगवान् हरिकी ब्रह्मसालोक्यादिकी प्राप्ति करानेवाले कमसे आराधना करते हुए इस प्रकार स्तुति करते हैं- ॥ ३२ ॥ यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्ग जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३ ॥ … । ऋषिरुवाच ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः ॥ ३४ ॥ यावन्मानसोत्तरमेवोरन्तरं तावती भूमिः काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते तस्मात्सर्वसत्वपरि- हृवाऽऽसीत् ।। ३५ ।। लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६ ॥ स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्री लोकानावि- तन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः ॥ ३७ ॥ $ एतावाँरलोक विन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीय- भागोऽयं लोकालोकाचलः ॥ ३८ ॥ तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणा विनिवेशिता ये द्विरदपतय १. प्रा० पा० - भूगोलकस्य । २, प्रा० पा० - भिनिवेशिता । ५८ ४५८ श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. ३३-३० ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः ।। ३९ ।। तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहा- सिद्धयुपलक्षणं विष्वक्सेनादिभिः स्त्रपार्षदप्रवरैः परिवारितो निजवर । युधोपशोभितैर्निजभुजदण्डैः सन्धारयमाणस्तसिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥ ४० ॥ अन्वयः – जनः तत् कर्ममयम् ब्रह्मलिङ्गम् एकान्तम् अद्वयम् शान्तम् यत् लिंगम् अर्चयेत् तस्मै भगवते नमः इति ॥ ३३ ॥ * * * ततः परस्तात् लोकालोकनामा अचलः लोकालोकयोः अन्तराले परितः उपक्षिप्तः ।। ३४ ।। मानसोत्तरमेर्वोः यावत् अंतरम् तावती भूमिः काञ्चनी अन्या आदर्शतलोपमा यस्याम् प्रहितः पदार्थः कथंचित् पुनः न प्रत्युपलभ्यते तस्मात् सर्वसत्त्वपरिहृता आसीत् ॥ ३५ ॥ * * यत् लोकालोकस्य अन्तर्वर्तिना अनेन अचलेन अवस्थाप्यते लोकालोकः इति समाख्या ।। ३६ ।। * * ईश्वरेण सः लोकत्रयान्ते परितः विहितः यस्मात् सूर्यादीनाम् ध्रुवापवर्गाणाम् ज्योतिर्गणानाम् गभस्तयः अर्वाचीनान् त्रीन् लोकान् आवितन्वानाः कदाचित् पराचीनाः भवितुम् न उत्सहन्ते तावदुन्नहनायामः || ३७ ॥ * * कविभिः एतावान् लोकविन्यासः मानलक्षणसंस्थाभिः विचितितः सः तु पंचाशत्कोटिः च अयम् लोकालोकाचलः गणितस्य भूगोलस्य तुरीयभागः ॥ ३८ ॥ तदुपरिष्टात् चतसृषु आशासु अखिलजगद्गुरुणा आत्मयोनिना ऋषभः पुष्करचूडः वामनः अपराजितः इति ये द्विरदपतयः अधिनिवेशिताः सकललोकस्थितिहेतवः ।। ३९ ।। * * तेषाम् स्वविभूतीनाम् लोकपालानाम् विविधवीर्योपबृंहणाय भगवान् परममहापुरुषः महाविभूतिपतिः धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध युपलक्षणम् आत्मनः विशुद्धसत्त्वम् अन्तः याम्याः विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितः निजवरायुधोपशोभितैः निजभुदण्डैः संधारयमाणः गिरिवरे समन्तात् सकललोकस्वस्तये आस्ते ॥ ४० ॥ 8 * श्रीधरस्वामिविरचिता भावार्थदीपिका कर्ममयं कर्मफलरूपम् । ब्रह्म लिंग्यते यस्मात् एकस्मिन्नेव परमेश्वरन्तो निष्ठा यस्य तदत एव वस्तुतोऽद्वैतम् ॥ ३३ ॥ * * ततः शुद्धोदात्परस्तात् । लोकः सूर्याद्यालोकवान्देशः अलोकस्तद्रहितस्तयोरन्तराले मध्ये तयोर्विभागार्थमि- त्यर्थः ॥ ३४ ॥ * * ततः परस्तादित्युक्तं तदेव कियतान्तरेणेत्यपेक्षायां तदन्तर्वर्तिनीं भूमिमाह । यावन्मानसोत्तरमेर्वोरन्तरं सार्धसप्तलक्षोत्तरसार्धकोटिपरिमितं तावती भूः शुद्धोदात्पराऽस्ति तत्र च प्राणिनोऽपि सन्ति ततः कांचनी भूमिरन्याऽस्तीत्यर्थः । सा चैकोनचत्वारिंशलक्षोत्तर को ट्यष्टकपरिमिता ज्ञेया । एवं हि सति मेरुलोकालोकयोरन्तरे सार्धंद्वादशकोटिपरिमितं वक्ष्यमाण- मुपपन्नं भवति । एतदेव शैवतन्त्रेषूक्तम् “कोटिद्वयं त्रिपश्वाशलक्षाणि च ततः परम् । पश्चाशच सहस्राणि सप्तद्वीपाः ससागराः ॥ ततो हेममयी भूमिदेशकोट्यो वरानने । देवानां क्रीडनार्थाय लोकालोकस्ततः परम् ॥” इति । अत्र च दशकोटित्वं पूर्वोक्तभूम्या सह द्रष्टव्यम् । सर्वसत्त्वपरिहृतेति देवव्यतिरेकेणेति विज्ञेयं, देवानां क्रीडनार्थायेत्युक्तत्वात् ।। ३५-३६ ॥ * लोकत्रय- स्यान्ते परितो मर्यादारूपो विहितः । यस्मात्प्रतिबन्धकात् । सूर्य आदिर्येषाम् । ध्रुवोपवगतो येषाम् । आवितन्वानाः समंतात्प्रकाश- यन्तः परतो गन्तुं न शक्नुवन्ति तावदुन्नहनमुत्सेधस्तदनुरूप आयामश्च विस्तारो यस्य । ध्रुवादप्युच्छ्रितत्वास्त्रिलोकीमर्यादामूत इत्यर्थः ।। ३७ ।। सोऽयं तु लोकालोकाचलस्तुरीयभागञ्चतुर्थांशः सार्धंद्वादशकोट्यः मेरोरेकत इति द्रष्टव्यम् ॥ ३८ ॥ * * आशासु दिक्षु येऽधिनिवेशिवास्ते आसते ।। ३९ ।। * तेषां दिग्गजानां स्वविभूतीनां स्वांशभूतानां महेन्द्रादीनां च विविधवीर्योपबृंहणाय सकललोकस्वस्तये च भगवांस्तस्मिन्नास्ते इत्यन्वयः । किं कुर्वन् आत्मनः स्वस्य यद्विशुद्धं सत्त्वं तत्संधारयमाण आविष्कुर्वन् । कीदृशम् । धर्मज्ञानादीन्यष्टमहासिद्धयश्चोपलक्षणं यस्य तत् । दोदंडैरुपलक्षितः सन्महाविभूतेः पर- मैश्वर्यस्य पतित्वादेकयैव मूर्त्या समन्तादास्ते ।। ४० ।। श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः कर्ममयं ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिंचतामेति’ इत्युक्तः कर्मप्राप्यं लिंगं मूर्त्तिमत् ब्रह्म लिंग्यते ज्ञायते येन तत् । अत एव ब्रह्मनिष्ठत्वादेव । वस्तुतः सत्यमेवाद्वैत ‘यो यच्छ्रद्धः स एव सः’ इति न्यायेन परमेश्वरादभिन्नम् ॥ ३३ ॥ * परितोऽष्टदिक्षु मण्डलाकारतयोपक्षिप्तो रचितः । इत्यर्थं इति । अन्यथा विभागः कथं स्यादिति भावः ॥ ३४ ॥ ॐ * तत्र च मृन्मयभूमौ च । इत्यर्थ इति । अन्या मृन्मयभूम्यपेक्षया भिन्नेति भावः । एतदेवोक्तप्रमाणमेव । प्रहितोऽवगलितः ||३५|| समाख्या निरुक्तिः । अनेन मध्यवर्त्तिनाऽवस्थाप्यते तुल्यतया ज्ञाप्यते ॥ ३६ ॥ इत्यथ इति । त्रिलोकीमर्यादापर्यन्ता- च्चैतावाँलोकालोकगिरिरिति भावः ॥ ३७ ॥ स तु लोकालोकस्तु । भूगोलस्य भूसम्बद्धांडगोलकस्येत्यर्थः । १. प्रा० पा० - स्वाधिपतीनां महेन्द्रादीनां लोकपालानां विविध । २. प्रा० पा०-भितैर्भुजदण्डैः ।स्क. ५ अ. २० श्लो. ३३-४० ] अनेकव्याख्या समलङ्कृतम् । ४५९ सूर्यस्येव भुवोप्यंडगोलकयोर्मध्यवर्त्तित्वात् । खगोलमिव भूगोलमपि पञ्चाशत्कोटियोजनप्रमाणं तस्य तुरीयभागः सार्द्धद्वादश- कोटियोजनविस्तारोच्छ्राय इत्यर्थः । भूस्तु चतुशिल्लक्षोनपञ्चाशत्कोटियोजनप्रमाणा ज्ञेया । यथा मेरुमध्यान्मानसोत्तरमध्य- पर्यन्तं सार्द्धसप्तपञ्चाशलक्षोत्तरकोटियोजनप्रमाणं मानसोत्तरमध्यात्खादूदक समुद्रपर्यन्तं षण्णवतिलक्षयोजनप्रमाणं ततः काञ्चनी भूमिः सार्द्धसप्तपञ्चाशलक्षोत्तरकोटियोजनप्रमाणा । एवमेकतो मेरुलोकालोकयोरन्तरालमेकादशलक्षाधिकचतुष्कोटिपरिमितमन्य- तोऽपि तथेत्यतो लोकालोकालोकपर्यन्तं स्थानं द्वाविंशतिलक्षोत्तराष्टकोटिपरिमितं लोकालोकाद्वहिरप्येकत एतावदेवान्यतोप्येतावदेव यद्वक्ष्यते यतर्विस्तारः, एतेन ह्यलोकपरिमाणञ्च व्याख्यातं यद्बहिर्लोकालोकाचलादिति । एकतो लोकालोकः सार्द्धद्वादशकोटियोजन- प्रमाणोऽन्यतोपि स तथेत्येवं चतुखिंशलक्षोनपञ्चाशत्कोटियोजनप्रमाणा भूः साधिद्वीपपर्यन्ता शेयाऽत एवांडगोलकात्सर्वतो दिक्षु सप्तदशलक्षयोजनावकाशे वर्त्तमाने सति पृथिव्याः शेषनागेन धारणं दिग्गजैश्च निश्चलीकरणं सार्थकं भवेदन्यथा तु व्याख्यान्तरे पञ्चाशत्कोटिप्रमाणत्वा दंडगोलकलग्नत्वे तत्तत्सर्वमकिंचित्करं स्यात् । चाक्षुषमन्वन्तरे चाकस्मान्मज्जनं श्रीवाराहदेवेनोत्थापनं च दुर्घट स्यादित्यादिकं विवेचनीयम् । श्रीमन्महाभारतीयभीष्मपर्वणि श्रीनीलकण्ठेनाप्यत्र विचारितम् - अत्रेयं शास्त्रानुभवयोरविरोधेन भूकल्पना प्रतिभाति । यथा हस्तमात्रस्य चतुरस्रस्य चतुर्विंशत्यङ्गुलानि परिणाहः षष्णवत्यङ्गुलानि परिधिः । किञ्चिन्न्यूनानि कर्णो भवति, एवमष्टादशसहस्राणि षट्शतानि च जम्बूपर्वसंज्ञिताया भुवः प्रमाणमुक्तं, तदेवात्र परिधित्वेन कल्पितं तचतुर्थांशत्वेन चत्वारि सहस्राणि षट्शतानि पञ्चाशश्च योजनानि एकैको भुज इति तदेव समचतुरस्रस्य विष्कंभप्रमाणम् । अस्य कर्णः शुल्बशास्त्रोक्तरीत्या षट्सहस्राणि पञ्चशतानि षट्सप्ततिश्च योजनानि । तस्यास्य भूचतुरस्रस्य चतुर्भिः समुद्रेर्वेष्टितस्य कोणा दिक्षु वर्तते, तेन दक्षिणस्यां दिशि रामसेतौ द्वयोः समुद्रयोः सन्धिः । एवमितरास्वपि दिक्षु समुद्रसन्धयो ज्ञेयाः । यस्त्वत्र ज्योतिर्विदां भूपरिधिः सप्ताङ्गचन्दान्धि- ४९६७ योजनसम्मितोऽभिमतः स एवास्माकं चतुरस्रविष्कम्भः खबाणरसवेद ४६५० मितः । यत्तु एतयोरन्तरं सप्तेन्दुरामाः ३१७ तदपि यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन समपादस्थितेन वा उन्मितस्य सूत्रस्य यः पचमशः स हस्त इति विकल्पस्य कात्यायना- दिभिरुक्तत्वाद्धस्तप्रमाणभेदकल्पनया योजनबहुत्वाल्पत्ववचनेन समाधेयम्। तथा भूमेश्चतुरस्रत्वेपि तन्मध्यस्थमत्युच्छ्रितं मेरु प्रदक्षिणीकुर्वतः सूर्यस्य मार्गो मण्डलाकारोऽस्तीति न बौद्धाभिमतं सूर्यद्वयं कल्प्यं भवति । अन्यत्सर्व युक्तषविरुद्धं ज्योतिर्विन्मत- मेवात्रानुसर्त्तव्यम् । यत्तु पुराणे पञ्चाशत्कोटियोजनं भूगोलप्रमाणमित्युक्तं तदपि “अचिंत्याः खलु ये भावा न तांस्तर्केण साधयेत्” इत्यनेनैव प्रत्युक्तमव्यवस्थितत्वान्मतानामनिर्वचनीयवाद एव शरणीकरणीय इत्येव वरम् । यद्वा-सर्वत्र यत्प्रमाणं दृष्टं तद्विशांशेन तद्बोद्धव्यं तेन पञ्चाशत्कोटिस्थाने सार्द्धकोटिद्वयविस्तारा भूमिः । लक्षस्थाने पञ्चसहस्रविस्तारो जम्बूद्वीपः । नवसहस्रस्थाने सार्द्ध चतुः- शतयोजनायामं भारतखण्डम् । अस्मिन्पक्षे तदाहरिष्यमाणवैष्णवादिवाक्येभ्यो जम्बूद्वीपचतुर्दलकमलाकारस्तस्य चांत परिधिः षट्- शताधिकान्यष्टादशयोजनसहस्राणि । त्रयस्त्रिंशच्छतानि मध्यव्यासः । तेन फलतः पञ्चसहस्रव्यासता ज्ञेया । एवं सति यदा प्रागायतो हिमाचल: पूर्वपश्चिमसमुद्री स्पृष्ट्वास्ति तदायं भरतवर्षत्रिकोणो भवति । तेन पृथिवी त्रिकोणेति लोकप्रवादोऽनुभवञ्चानुसृतो भवति । अन्यथा भरतवर्षस्य धनुराकारत्वे भूमध्यरेखाया लंकातः सेतुमार्गेण प्रस्थितायाः “पुरी रक्षसां देवकन्याथ काली सितः पर्वतः पर्यली वत्सगुल्मम् । पुरी बोज्जयिन्याहया गर्गराटं कुरुक्षेत्रमेषा भुवो मध्यरेखा ।।” इति स्मर्यमाणया मध्यरेखया कुरुक्षेत्रस्य रामसेतुः सन्निहितो द्वारका च दूरे स्यात् । द्वारकासमीपे सेतुश्च दूरे इति प्रत्यक्षमुपलभ्यते । भारतवर्षस्य त्रिकोणत्वमित्येषैव कल्पना साधीयसीति दिक् । इत्थं नीलकण्ठेन भारते तदुक्तरीत्या विचारित विरोधोप्यपहृत इति । किन “हस्तोंगुलिविंशत्या चतुर- न्वितया चतुष्करो दण्डः । तद्विसहस्रं कोशो योजनमेकं चतुष्कोशम् ॥” इति स्मृतिसारादौ द्वात्रिंशत्सहस्रहस्तैरेकं योजनं भवति । “द्वात्रिंशत्सहस्रेस्तु हस्तैः स्याद्योजनं भुवः” इति संहितोक्तेः । “चतुर्विशैरंगुलैस्तु हस्त एकोभिधीयते” इति च । अत्र च सद्योजात- बालयुवाद्यंगुलभेदस्य तारतम्यवशाद्धस्तस्यापि तारतम्यं भवति, तेन च क्रोशयोजनादेरपि तारतम्यं सेत्स्यति । यद्वा-“पाणिः शयः शमो हस्तः पचशाखः करस्तथा” इति कोशात्प्रसिद्धमणिबन्धादुपरितनो भागः कनिष्ठाद्यङ्गुलितोष्टांगुलनवांगुलान्यतरमित एव हस्तो भवति । “दानानि देयानि च विप्रहस्ते” इत्युक्तेर्भुग्रहस्तेनैव संकल्पग्रहणात्तत्रापि हस्तशब्दप्रयोगात् । सोपि भुप्राङ्गुलित्वे चांगुलचतुष्टयात्म- कोपि भवति । बालस्य ततोऽपि तथैव न्यूनं भवति । तथा च तत्तन्मितहस्तैर्योजनगणनया ज्योतिःशास्त्रपुराणेतिहासानां विरोधो यथाकथंचित्परिहृतः स्यादेव । न हि ‘व्यासो नारायणः स्वयम्’ इत्यादिपुराणोक्तेः साक्षान्नारायणोक्तिमुल्लंध्य ज्योतिःशाखं प्रवृत्तम् । किन ‘ज्योतिषं चक्षुरुच्यते’ इति साक्षाद्वेदचक्षुर्भूतं ज्योतिःशास्त्रमुल्लंघ्य श्रीव्यासोऽपि प्रवृत्तस्तेन तत्तदंगुलहस्ताद्यभिप्रायैव तत्तद्यो- जनोक्तिस्तत्र तत्रोह्या । किवासुरजनकर्तृकशास्त्रप्रवृत्तिसंकोचार्थं श्रीव्यासदेवस्तत्र तत्र ज्योतिःशास्त्रविरुद्धमिव वदति न वस्तुत इति तत्त्वमन्यथा श्रीव्यासस्य वेदान्धकारता स्यादिति ध्येयं सुधीभिः । ननु कथं तर्हि भागवतव्योतिःशास्त्रयोर्विरोधः भागवते लक्ष- योजनमिता जंम्बूद्वीपभूर्वर्णिता, ज्योतिःशास्त्रे पञ्चसहस्रयोजन परिमितैवाखिलेति चेदस्य समाधिर्गोलादर्शे विहितः । तदनुरोधेन सारतः किञ्चिदुच्यते- पृथिव्या आकारद्वयमस्ति एको महापरिमाणको विशेषाकारः । द्वितीयो ज्योतिःशास्त्रोक्तः स्वल्पपरिमाणको गोलाकार एव । एवमेव परीक्षिन्महाराजेन पृष्टं श्रीशुकयोगीन्द्रेणाप्युत्तरितं भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्याम इति भूगोलक- पदेन ज्योतिःशास्त्रोक्तो गोलाकारो मार्त्तिकोण्डः । विशेषपदेन मण्डलाकारपुराणोक्तो हिरण्मयोण्डः । उक्तं च योगिनिर्याणे द्वितीय- स्कन्धे ‘ततो विशेषं प्रतिपद्य निर्भयः’ इति । पश्चमेऽप्युक्तं - “काञ्चनी ततोन्यादर्शतलोपमा” इत्यादि । तृतीयेप्युक्तम् " एतदण्डं ४६० श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. ३३-४० विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः” इत्यादि । “यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इन लक्ष्यते” इति सिद्धार्थदृष्टान्तेन गोलाकारत्वं प्रतीयते । “प्रेक्षयित्वा भुवो गोलं यावद्यद्वै स्वसंस्थया ” इति कर्दमविहारे- प्युक्तम् । श्रीदशमेऽप्यष्टमाध्याये “सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः । साद्रिद्वीपान्धिभूगोलम्” इत्यादिप्रामाण्यात्पृथिवी- द्वयं स्वीकार्यम् । ननु खल्पा पृथिवीयं महती कुत्रास्ति परेति, उच्यते– महती तु नक्षत्रकक्षाया ऊर्ध्वं प्रतिबिम्बरूपा तन्मानं पञ्चमे लक्षोत्तर सार्द्धनवकोटियोजनं परिमण्डलं भूवलयस्येति स्थूलदृष्टया भकक्षोर्ध्वभाग एवायाति । अथ कथं प्रतिबिम्बवत् कथमेतदा- - कारा सा तद्यथा समन्तात्पञ्चसहस्रयोजनात्मकस्य समन्ता योजनान्तरितोऽनलगोलस्तेन दूरकान्तवत्स्वल्पाया अप्यस्या नक्षत्रकक्षाया उपरि या काञ्चनी भूमिर्निर्मलरूपा तत्तेजोव्यवधानकारी तत्र महाप्रतिबिम्बरसमन्तात् यथा दूरकान्ते एकत्र महतोऽल्पत्वं दृश्यते परत्राल्पस्य महत्त्वम्, एवं बाह्यांगानां चन्द्रादीनामल्पत्वमन्तर्गतस्य भूगोलस्य महत्त्वम् । नन्वनलगोले कि प्रमाणम् ? उच्यते, सवासनं प्रमाणं भूष्पृष्ठतः खगकक्षापर्यन्तमष्टौ वायव आवहादयः सन्ति उभयोर्योगे जलगोलः । तदुक्तं पुलिशसिद्धान्ते— “भू वातो- द्वयोर्योगे जलगोलोस्ति काचवत् । दृश्यन्ते येन संलग्ना भिन्नाः सूर्यादिरश्मयः” इति । सूर्यसिद्धान्तेऽपि - “अत्यासन्नतया तेन ग्रीष्मे तीब्राः करा - रवेः” इति, अत्यासन्नत्वं दूरत्वं चानलगोलप्रतिबिम्बतारकेण विना न सम्भवति । श्रीशुकयोगीन्द्रैस्तु पुराणानुगैर्मह- प्रमाणमेव व्याख्यातम् । स्वल्पप्रमाणन्तु सूचितमेव इत्थं कैश्चिद्विरोधः परिहृतः । एवं खगोलविरोधोऽपि परिहृतः । तथा हि- “एतेन दिवो मानं तद्विद उपदिशन्ति” इति । अस्यार्थः- एतेन भूगोलकेन्द्रेण दिवो मण्डलानां ग्रहनक्षत्रादिकक्षादिकक्षाणामौ- व्यपरिध्यादीनामिति । “यथा द्विदलयोर्निष्पावादीनामन्तरेणान्तरिक्षमुभयसन्धितम्” इति । अस्यार्थः – भूगोलघु मण्डलयोः सन्धितम् अन्तरिक्षमन्तरेण मानं विनान्तरिक्षस्य तु मानं नास्ति । यथा द्विदलयोर्निष्पावादीनां मानं नास्ति " यन्मध्यङ्गतो भगवां- स्तपतां पतिः” इति । अस्यार्थः– यस्यान्तरिक्षस्य मध्यमिव मध्यं जलगोलः यथान्तरिक्षस्य मध्याभावस्तथा गोलरूपत्वाज्जलगोलस्यापि तत्र गतः प्रतिबिम्बरूपेण संस्थितः इति । बिम्बरूपेण तु भूकेन्द्रात्सपादलक्षयोजनेष्वस्ति । एवं “नवकोट्य एकपञ्चाशलक्षाणि मानसोत्तर परिवर्तनस्योपदिशन्ति” इति । अस्यार्थः – मानसश्चन्द्रस्तदपेक्षया उत्तरः परः शनिस्तन्मण्डलस्य मानं ज्योतिषोक्तकरणार्थ शन्यंशयुतं जातं द्वादशकोटिमितमष्टषष्टिलक्षमिति । “सूर्यांडगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ।” अस्यार्थः- सूर्यस्य बिम्बितार्कस्यांडगोलो हिरण्मयोंड परिधिस्तयोर्मध्येन्तः पञ्चविंशतिकोट्यः स्युरिति । “अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम्” अस्यार्थः - द्यावाभूम्योर्नक्षत्र कक्षा भूम्योर्यदन्तरं तदेवांडस्य हिरण्मयांडस्य । तत्रांतः सूर्यो जलगोलप्रतिबिम्बितार्थो भवतीति ज्ञेयम् । एवमादि समाधानं गोलदर्पणे तचद्रीत्या ज्ञेयम् । अनेन यथार्थार्थसार्थसमर्थनेन निःसंशयं श्रीमद्भागवतं परमाप्तवाक्यत्वात्सर्वथा प्रमाणमेवाप्रतिहृतं सकलशास्त्रसिद्धान्तसाद्गुण्यादिति हि निर्विवादम् । एतद्विरोधपरिहारो यः पूर्वमेव मयाऽलेखि स एव समीचीनः प्रतिभातीति किं बहुना ।। ३८ ॥ * * तस्य लोकालोकस्योपरिष्टादुपरिदेशे परत्र वा सकललोकानां स्थितिहेतवोऽन्यथा भूमेर्नमनोन्न- मनादिना लोकस्थितिभ्रंश्येतेति भावः ॥ ३९ ॥ * * आदिना यशःश्रियोर्ग्रहणम् । पुनरादिना नन्दसुनन्दादिग्रहः ।। ४० ।। • श्रीमद्वीरराघवव्याख्या भेदेन वर्णाश्रमभेदेनोपलक्षितो जनः यद् ब्रह्मणः परस्य लिङ्गं शरीरभूतम् । यद्वा ब्रह्म देवस्तदेव लिङ्गं ज्ञापकं यस्य तद्ब्रह्मलिङ्ग वेदावबोध्यं कर्ममयं जगत्सृष्टयात्मककर्मप्रचुरमादिक्षेत्रज्ञत्वाद् ब्रह्मणः परमात्मनो लिङ्गं शरीरमर्चयेदाराधयेत् कथमद्वैतमिति क्रिया- विशेषणं देवमनुष्यादिकार्यवर्गं प्रति ब्रह्मणः समष्टिरूपत्वात्कार्यकारणयोरभेदाध्यवसायादद्वैतं यथा भवति तथार्चयेदित्यर्थः। यश्चतुर्मुख- रूपं केवलदेवावबोध्यं व्यष्टिसृष्टयात्मककर्मप्रचुरं ब्रह्मणः परस्य शरीरभूतमद्वैतं यथा तथार्चयेदिति यावत्, तथैकान्तमित्यपि क्रियाविशे- पण मेकान्तमव्यभिचरितं यथा तथार्चयेदिति तस्मै भगवते हिरण्यगर्भाय ते नमः ।। ३३ ।। * एवं शुद्धोदधिपर्यन्तं सप्तद्वीपात्मकं भूमण्डलमनुबर्ण्याथ ततः परमनुवर्णयति तत इति । ततः शुद्धोदात्परस्ताद् बहिर्लोकालोकाख्यः पर्वत आस्ते इति शेषः, तस्य टोकालोक इति नाम्नि प्रवृत्तिनिमित्तमाह । यतो लोकालोकयोरन्तराले मध्ये उपकल्पितः ||३४|| ननु ततः परस्तादित्युक्तं तदेव कियतान्त- रेणेत्यपेक्षायां तदन्तर्वर्त्तिनीं भूमिमाह । मानसोत्तर मेर्वोरन्तराले मध्ये यावती भूमिरास्ते मेरोर्मध्यादारभ्य मानसोत्तरपर्यन्तं सार्द्धसप्त- लक्षोत्तर सार्द्धकोटियोजनपरिमता भूमिरास्ते तावती भूमिः शुद्धोदात्परतोऽस्तीत्यर्थः । ततोऽन्यामेकोनचत्वारिंशल्लक्षोत्तर राष्टकोटि- योजनमितां भूमिमाह काञ्चनीति । काञ्चनी स्वर्णमयी आदर्शतलोपमा दर्पणोदरतुल्या निर्जना भूमिर्लोकालोकशुद्धोदध्योरन्तराले वर्तत इत्यर्थः । ततस्तां विशिनष्टि यस्यां लोकालोकान्तरालवर्तिन्यां सार्धं सप्तलक्षोत्तर सार्द्ध कोटि योजनात्मिकायां शुद्धादाद बाह्याया भूमेः परस्ताद्विद्यमानायामेकोनचत्वारिंशलक्षोत्तराष्टकोटिपरिमितायां भूम्यां निहितः कश्चित्पदार्थः पुनर्नोपलभ्यते दर्पणोदर तुल्यत्वात्तस्या इत भावः । न हि दर्पणोदरे निहितमाषादिस्तिष्ठतीति लोकालोकाद्वाहामाह तस्मादिति । तस्माल्लोकालोक पर्वताद्बहिः सर्वैः सवैर्जन्तुभिः । परिहृता रहिता आसीद् भूमिरित्यनुषङ्गः । अलोका भूमिरास्त इत्यर्थः, इदमेव हि पर्वतस्य लोकालोकसमाख्यायां निमित्तमित्याह लोकेत्यादिना । स्वपर्यन्ताया अन्तर्भूम्या लोकशब्दवाच्यत्वात्स्वस्माद्वाह्माया अलोकशब्दवाच्यत्वाच्चो भयोरन्तरालवर्तिनानेन पर्वतेन स्वनिष्ठान्तरालवर्त्तित्वेन धर्मेण हेतुना स्वस्मिलोकालोक इति समाख्या व्यवस्थाप्यते व्यवहृतसमाख्योऽयं पर्वतो भवतीत्यर्थः । पर्वतं विशिनष्टि स इति । लोकालोकः भूरादिलोकत्रय मन्तरमन्तर्गतं यस्य तस्मिन्विषये ईश्वरेण परिवृताकारेण निहित इत्यर्थः । गर्भस्थ - स्क ५. अ. २० श्लो. ३३-४०] अनेकव्याख्या समलङ्कृतम् ક लोकत्रयत्वेन लोकालोकयोर्मर्यादात्वेन चेश्वरेणायमचलो निहित इत्यर्थः । एतदेव प्रपञ्चयति यस्मादिति । सूर्यप्रभृतीनां ध्रुवपर्यन्तानां ज्योतिर्गणानां गभस्तयो मरीचयः त्रिलोकान् भूरादीनर्वाचीनानधःस्थान् वितन्वानाः समन्तात्प्रकाशयन्तो यस्माल्लोकालोकपर्वत- रूपात्प्रतिबन्धात्कदाचिदपि पराचीनाः परितो व्याप्ताः पर्वताद् बहिः प्रकाशमाना भवितुं नोत्सहन्ते न शक्नुवन्ति तावदुन्नहन मौन्नत्यं तदनुरूप आयामो विस्तारश्च यस्य सः ध्रुवादप्युन्नतत्वाद् गर्भस्थत्रिलोकीत्वाच्च लोकालोकयोर्मर्यादारूपः इत्यर्द्धपर्वताद् बहिः सूर्यादि प्रकाशाद बाह्य लोक आलोकस्तद्वान् लोकः आलोकर हितोऽलोक इति च लोकालोकशब्दयोः प्रवृत्तिनिमित्तमुक्तं भवति ।। ३५-३७ ॥ * * तावदुन्नहनायाम इत्युक्तमौन्नत्यं कियद्योजनपरिमितमित्यपेक्षायां तद्वक्तुं तस्य कृत्स्नभूमण्डल- परिमितेः कथनापेक्षत्वात्तत्परिमाणमाह एतावानेवेति । लोकस्य कृत्स्नभूमण्डलस्य विन्यासः संस्थानमानादिभिरेतावानिति पचा- शतकोटियोजनपरिमित इति कविभिः भूमण्डलयाथात्म्यविद्भिः चिन्तितः सम्यग् ज्ञातः । पर्वतस्यौन्नत्यपरिमितिमाह स त्विति । पञ्चाशत्कोटियोजनविस्तृतस्य भूगोलस्य यस्तुरीयो भागः सार्द्धद्वादशकोटियोजनात्मकः तत्परिमितौन्नत्यवान् तदनुगुणायाम - त्यर्थः ॥ ३८ ॥ * * तस्य लोकालोकस्य गिरेरुपरिष्टाचतसृष्वाशासु पूर्वादिषु दिक्षु अखिलजगद्गुरुणा आत्मयोनिना ब्रह्मणा ऋषभादिसंज्ञाश्चत्वारो द्विरदपतयः गजश्रेष्ठा ये निवेशितास्ते सकललोकानां स्थितिहेतवः क्षेमहेतवः आसते ॥ ३९ ॥ * * तेषां द्विरदपतीनां स्वांशभूतानामिन्द्रादिलोकपालानाञ्च नानाविधसामर्थ्याभिवृद्धये सकललोकस्वस्तये भगवान् तस्मिन्पर्वते आस्ते इत्यन्वयः । कथम्भूतः परमः सर्वोत्कृष्टः निरतिशयकल्याणगुणाश्रयः पुरुषः विभूतिद्वयाधिपतिः सर्वान्तरात्मा आत्मनः स्वस्य यद्विशुद्धं सत्वं तद्धारयमाणः शुद्धसत्त्वमयाकर्मवश्यं दिव्यमङ्गलविग्रहं बिभ्राण इत्यर्थः । कथम्भूतं शुद्धसत्त्वं धर्मादयः उपलक्षणानि दर्शन- साधनानि यस्य तद्धर्माद्युपलक्षणं तत्र धर्मो वर्णाश्रमोचितकर्मयोगः, ज्ञानं प्रकृतिविविक्तात्मज्ञानयोगः, वैराग्यमन्तर्बाह्येन्द्रियनियमः, ऐश्वर्यादयः अष्टौ सिद्धयः, अणिमादयो योगसिद्धयः एभिरुपलक्ष्यते कर्मयोगज्ञानयोगानुगृहीतेनाणिमाद्यष्टैश्वर्यसिद्धिपर्यन्तेनोपासने- नोपलक्ष्यमित्यर्थः, स्वपार्षदश्रेष्ठैर्विष्वक्सेनप्रभृतिभिः परिवृतः स्वकीयः श्रष्ठेश्चक्रादिभिरायुधैरुपशोभिताः दोषः भुजा दण्डाकारास्तै- रुपलक्षितः तस्मिलोकालोके गिरिवरे सर्वत्र सकलजगता स्वस्तय आस्ते इत्यर्थः । कियन्तं कामान्त इत्यत्राह आकल्पमिति । एष भगवानात्ममायया विरचितो विविधो यो लोकः तस्य यात्रा जीवनं तस्या गोपीथाय रक्षणाय चाकल्पमेवम्भूतं वेषं लीलया प्राप्त आस्त इत्यर्थः । एवं जम्बूद्वीपादीनां परिमाणकथनेन शुद्धोदधिपर्यन्तभूमण्डलस्य मेरोर्मूलस्य मध्यादारभ्याभितः शुद्धोदधिपर्यन्तमृजु- गमने पञ्चशतसहस्राधिकत्रिपञ्चाशल्लक्षान्तर कोटिद्वययोजनात्मकं परिमाणमुक्तं भवति । तथा चोक्तमन्यत्रापि “कोटिद्वयं त्रिपञ्चाश- लक्षाणि च ततः परम् । पचाशच सहस्राणि सप्तद्वीपाः ससागराः । ततो हेममयी भूमिदेशकोट्यो वरानने! देवानां क्रीडनाथाय लोकालोकस्ततः परम् ।” इति एवं शुद्धोदधेर्बाह्यायाः कावनीभूमेर्गर्भभूतायाः परिमाणमपि यावन्मानसोत्तरमेवोरन्तरा तावती भूमिरित्यनेन सार्द्धसप्तलक्षोत्तर सार्द्धकोटियोजनात्मकमुक्तं, यद्यप्यादर्शभूमेर्विशिष्य परिमाणं नोक्तं तथापि कृत्स्नभूमण्डलस्य पचा- शत्कोटियोजन परिमितत्वोक्तस्तत्र सप्तद्वीपससागरात्मकस्य परिमाणोक्तेर लोकस्य लोकसमान परिमाणस्य वक्ष्यमाणत्वाच्च “ततो हेममयी भूमिर्देशकोट्यः” इति वचनान्तरानुरोधाश्च परिशेषादेकोनचत्वारिंशहक्षोत्तराष्ट्र कोटियोजनात्मकं परिमाणं वेदितव्यं, हेमभूमेर्दश- कोटियोजनपरिमितत्वकथनं पूर्वोक्तसार्द्धसप्तलक्षोत्तर सार्द्धकोटियोजनसङ्ख्या पूर्वोक्तभूम्या सह किनिदूनमस्तीत्यभिप्रायेणेति द्रष्टव्यम् ।। ४०-४१ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली हे भगवन् ! यत्तव लिङ्गं सर्वलक्षणसम्पन्नं स्वरूपं कर्मणा यज्ञलक्षणेन मीयते ज्ञायत इति कर्ममयं वेदप्रतिपाद्येषु प्रधानं वा ब्रह्मा चतुर्मुखो लिङ्ग प्रतिमा यस्य तत्तथा जनोऽर्चति । कथं वेदेन विरिवात्सर्वजगतश्च वैलक्षण्येन एकान्तं नियमेन अद्वैतं स्वगतभेदवर्जितं यत्तस्मै भगवते तुभ्यं नम इति मन्त्रार्थः । विरिवस्य यत्तलिङ्ग शरीर पुण्यकर्मनिर्मितं ब्रह्मणो हरेर्लिङ्ग विशेषसन्निधानयोग्यमेकान्तमवसाने प्रलये केवलं निव्र्व्यापारम् “एके मुख्यान्यकेवलाः” इत्यभिधानमद्वैतं मुक्तौ संसारे च श्रीनाराय- णमत्यभेदेन प्रवर्तमानं " गच्छामि विष्णुपादाभ्याम्” इत्याद्यनुसन्धानवचनात्, मुख्याद्वैतं किं न स्यादत्राह भेदेनेति । विरिन- परमात्मनोर्भेदेन जनः पूजयति तस्मै भगवते पूज्याय विरिवाय नम इति वा ।। ३३ ॥ * * ततः परस्ताद् बहिः ॥ ३४ ॥ मानसोत्तरमेवः पर्वतयोरन्तरमन्तरालं स्थलं यावद्येोजनं षोडशलक्षाधिकदशकोटिप्रमितमस्ति तावती भूमिः काञ्चनी ततो हिरण्मयी भूमिरित्यन्यत्र प्रसिद्धिः । “ततो हेममयी भूमिर्दंशकोट्यो वरानने! देवानां क्रीडनार्थाय लोकालोकस्ततः परः ।। " इति षण्णवति- लक्षमिति केचिदादर्शतलोपमा दर्पणतलसदृशी देवतदनुगव्यतिरिक्त सर्वसत्त्व परिहृता द्विगुणा काञ्चनी भूमिः । सर्वसत्त्वविवर्जितेत्यत्र पूर्वभूमेः सकाशात् काचन्या भूमेर्द्विगुणसुखहेतुत्वं देवान् प्रत्युच्यते न पुनः सङ्ख्याया द्विगुणत्वं ग्रन्थान्तरविरोधात् ॥ ३५ ॥ लोकालोक इति समाख्या सम्यगाख्या अन्वर्थसंज्ञा तत्कथमिति तदाह यदिति । अनेनाचलेन लोकश्चालोकश्च स्थाप्येते विविच्य ज्ञाप्येते अन्तर्वर्तिना लोकालोकयोर्मध्यवर्तिनेति यद्यस्मात्तस्मादिति शेषः, असौ लोकालोकाचल इति ॥ ३६ ॥ * * स लोकालोकाचलो लोकत्रयान्ते लोकत्रय सृष्टयनन्तरं मर्यादासिद्धयर्थं परित उपक्लृप्तः केन परमेश्वरेण अथवा लोकत्रयान्ते लोक- त्रयाबसाने । कि लोकत्रयं योजनत एकपञ्चाशलक्षतया यावदुषं तावानयं चोबविस्तृतत्वे सार्द्धपनाशलक्ष इति शेषः, ४६२ श्रीमद्भागवतम् [स्क. ५ अ. २० श्लो. ३३-४० तावदुलहनायाम इति वचनन्न आयामे कथचिदेव तावानिति ज्ञातव्यं स पञ्चाशत्सहस्रश्चेति वचनात् ध्रुवापवर्गास्तेषां पराचीना उपरि वर्तमानाः ॥ ३७ ॥ * * एतावाँलोकविन्यासः देवमनुष्यादिव्यवहारयोग्यं लोक इत्युच्यमानप्रदेशस्य स्वरूपस्थिति - परिमाणमेतावत् सार्द्धत्रिकोटियोजनात्मकं स लोकविन्यासश्च पञ्चाशत्कोटिगुणितस्य पञ्चाशत्कोटिविस्तारयोजनात्मकस्य भूगोलकस्य ब्रह्माण्डलक्षणस्य तुरीयभागेन चतुर्थांशत्वेन तिष्ठति ब्रह्माण्डप्रदेशे चतुर्द्धा त्रिभक्त एकांशः सर्वस्मात्प्रान्ते विद्यमानो घनोदकाख्यः द्वितीयस्तत आभ्यन्तरोऽन्धतम आख्यः तृतीयो लोकालोकाचलाख्या, चतुर्थस्तु कानीं भूमिमारभ्य मेरुपर्यन्तप्रदेशः, अयं चतुर्थभागो लोकशब्दितः, अयन यावलोकालोकः यत्र लोकालोकाचलस्तिष्ठति तावत्पर्यन्तत्वेन विद्यते योऽन्तर्विस्तारः लोकालोकाचलाद्यलोक- परिमाणं सार्द्धत्रिकोटियोजनात्मकमेतेन परिमाणेनालोकपरिमाणं व्याख्यातं भवति । लोकालोकाचलाद् बहिः स्थलं तस्यालोकशब्द- वाक्यस्य लोकपरिमाणेन व्याख्यातमित्यर्थः- योगेश्वराणामष्टाणिमादिसिद्धानां गतिमुदाहरन्ति ।। ३८-४२ ।। श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः लिङ्गं मूर्तिस्तस्मै लिङ्गरूपाय । तेषामिति धर्माद्यष्टमहासिद्धयः उपलक्ष्यन्ते प्रकाश्यन्ते येन तत् ।। ३३४० ॥ त्यक्ता ।। ३५ ।। श्रीमद्विश्वनाथचक्रवतिकृता सारार्थदर्शिनी || कर्ममयं “स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिश्वतामेति” इत्युक्तेः कर्मप्राप्यं लिङ्गं मूर्ति ब्रह्म लिङ्गयते ज्ञायते येन तत् । भेदेन सेव्यसेवकभावेन अर्श्वयेत् । एकस्मिन्नेव परमेश्वरे अन्तो भक्तिनिष्ठा यस्य तत् । अत एवाद्वेत “यो यच्छ्रद्धः स एव सः इति न्यायेन परमेश्वरादभिन्नम् ।। ३३ ।। * * ततः शुद्धोदालोकः सूर्याधालोकवान् देशः अलोकस्तद्रहितः तयोरन्तराले मध्ये तयोर्विभागार्थमित्यर्थः । परितोऽष्टदिक्षु मण्डलाकारतयेत्यर्थः ॥ ३४ ॥ * ततः परस्तादित्युक्तं तदेव कियदन्तरमित्य- पेक्षायामाह । यावन्मानसोत्तरमेर्वोरन्तरं मानसोत्तरमध्यान्मेरुमध्यपर्यन्तं स्थलमित्यर्थः । सार्द्धसप्तपञ्चाशलोत्तरको टियोजन- परिमितं तावती भूमिः शुद्धोदात् कानी ततः परत्र लोकालोको वर्त्तत इत्यर्थः । सर्वैः सर्वैः प्राणिमात्रैरेव परिहृता समाख्या निरुक्तिः, अनेन अन्तर्वर्त्तिना मध्यवर्तिना सता लोक: आलोकमयो देशः, अलोक आलोकाभावमयो देशः व्यवस्थाप्यते तुल्यप्रमाणत्वेन ज्ञाप्यते ॥ ३६ ॥ 83 लोकत्रयं भूर्भुवः स्वस्तदन्ते परितोऽष्टदिक्षु तर्हि तस्य कियानुच्छ्रायो विस्तारश्चेत्यपेक्षायामाह । यस्मात् प्रतिबन्धकाद्धेतोः सूर्यादीनां भुवान्तानां गभस्तयः किरणास्त्रींल्लोकान् व्याप्य आवितन्वानाः समन्तात् प्रकाशं विस्तारयन्तः परतो गन्तुं न शक्नुवन्ति । तावन्तावुन्नहनायामौ उच्छ्रायविस्तारौ यस्य सः ध्रुवादप्युच्छ्रितत्वात्रिलोकीमर्यादाभूत इत्यर्थः ॥ ३७ ॥ * * स तु लोकालोकस्तु भूगोलकस्य भूसम्बन्धाण्डगोलकस्येत्यर्थः । सूर्यस्येव भुवोऽप्यण्डगोलकयोर्मध्यवर्त्तित्वात् खगोलमिव भूगोलमपि पञ्चाशत्कोटियोजनप्रमाणं तस्य तुरीयभागः सार्द्धद्वादशकोटियोजनविस्तारोच्छ्राय इत्यर्थः । भूस्तु चतुस्त्रिंशलोनपञ्चाशत्कोटियोजनप्रमाणा ज्ञेया । यथा मेरुमध्यान्मानसोत्तरमध्यपर्यन्तं सार्द्धसप्तपञ्चाशलक्षोत्तरकोटियोजनप्रमाणं मानसोत्तरमध्यात् स्वादूदकसमुद्रपर्यन्तं षण्णवतिलक्ष- योजनप्रमाणं ततः काञ्चनी भूमिः सार्द्धसप्तपञ्चाशलक्षोत्तर कोटियोजनप्रमाणा एवमेकता मेरुलोकालोकयोरन्तरालमेकादशलक्षाधिक- चतुष्कोटिपरिमितमन्यतोऽपि तथेत्यतो लोकाल्लोकालोकपर्यन्तं स्थानं द्वाविंशतिलक्षोत्तराष्ट्र कोटिपरिमितं लोकालोकाद्बहिर प्येकतः एतावदेव अन्यतोऽप्येतावदेव । यद्वक्ष्यते " योऽन्तविस्तार एतेन ह्यलोकपरिमाणख व्याख्यातं यद्बहिर्लोकालोका चलातू तू” इति एकतो लोकालोकः सार्द्धद्वादशकोटियोजनप्रमाणः, अन्यतोऽपि स तथेत्येवं चतुखिंशलक्षोनपञ्चाशत्कोटिप्रमाणा भूः साब्धिद्वीपपर्यन्ता ज्ञेया । भूः अत एवाण्डगोलकात् सर्वतो दिक्षु सप्तदशलक्षयोजनावकाशे वर्त्तमाने सति पृथिव्याः शेषनागेन धारणं दिग्गजैश्च निश्चलीकरणं सार्थकं भवेदन्यथा तु व्याख्यान्तरे पचाशत्कोटिप्रमाणत्वादण्डगोलकलग्नत्वे तत्तत् सर्वमकिंचित्करं स्यात् चाक्षुषे मन्वन्तरे चाकस्मान्मज्जनं श्रीवराहदेवेनोत्थापनश्च दुर्घटं स्यादित्यादिकं विवेचनीयम् ॥ ३८ ॥ ॥ ॥ $ येऽधिनिवेशितास्ते आसते ।। ३९ ॥ * * स्वविभूतीनां स्वांशभूतानां हस्तिनामुपबृंहणं वर्द्धनं तदर्थं धर्माद्युपलक्षयतीति तादृशं शुद्धसत्वं धारय- माणः सकललोक स्वस्तये च ॥ ४० ॥ । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः कर्ममयं कर्मसाध्यं लिङ्गं फलं ब्रह्मलिङ्गं वेदज्ञाप्यमेकस्मिन् प्रजोत्पादने अन्तो निष्ठा यस्य तदद्वयमस्माकमुपासकानामु- पास्यान्तरस्याभावाद्यत्तदादिशब्देर्वेदे वर्णितं तस्मै भगवते नमः ॥ ३३ ॥ * * ततः शुद्धोदात् लोकः सूर्यादिप्रकाशितदेशो- Sलोकस्तमोव्याप्तो देशस्तयोः ॥ ३४ ॥ शुद्धोदलोकयोरन्तर्गतं भूमण्डलं द्वेधा विभज्य दर्शयति यावदिति । यावन्मानसोत्तरमेर्वोरन्तरमन्तराले भूमण्डले तयोरप्यर्द्धमादायेति बोध्यं सार्द्धसप्तलक्षाधिकसार्धकोटियोजनपरिमितमित्यर्थः । तावती भूरेव सामान्यतोऽस्ति तस्यां केषाञ्चित्प्राणिनां संस्थितिरप्यस्ति “स्वादूदकस्य परितो दृश्यते लोकसंस्थितिः” इति विष्णुपुराणात् एवं सति पञ्चदशलक्षोत्तरयोजनकोटित्रयं भवति अवशिष्टपुष्कर द्वीपस्वादूदकगता षण्णवतिलक्षयोजनपरिमिता । एवं स एकादशलक्षोत्तर- योजन कोटिचतुष्टयं भवति तदनन्तरमन्या काञ्चनी भूमिरस्ति, सा च “द्विगुणा काञ्चनी भूमिः सर्वसत्वविवर्जिता” इति श्रीविष्णु- एकं. ५ अ. २० लो. ३३-४० ] अनेकव्याख्या समलङ्कृतम् पुराणात्, एवं सति अधिकत्रिंशलक्षोत्तरद्वादशकोट्यः स्युः । ततोऽयुतयोजनविस्तारः लोकालोकाचलः “लोकालोकाचलः शैलो योजनायुत- विस्तरः” इति श्रीविष्णुपुराणवचनात् काञ्चन्याः परिमाणमत्र नोक्तं तेनायुतोनसप्तदशलक्षयोजन परिमितभूमिलाभः । तदित्थं सलोका- लोका चलायाः सार्द्धद्वादशकोटियोजनायामत्वं ज्ञेयं ततः परितः सार्द्धद्वादशकोटियोजनपरिमिता तमोव्याप्ता ज्ञेयेति सर्व समअसं न प्रत्युपलभ्यते काचनभावं गतत्वात्तस्मात्सर्वैः सत्त्वैः परिहृता परिवर्जिता ।। ३५-३६ ।। * लोकत्रयस्यान्ते मर्यादारूपः परितो विहित उपक्लृप्तः यस्माल्लोकालोकात्प्रतिबन्धात्सूर्यादीनां भुवापवर्गाणां ध्रुवान्तानां गभस्तयः आवितन्वानाः समन्तात्प्र- काशयन्तः कदाचिदपि पराचीनाः पर्वताद्बहिर्गमनशीलाः भवितुं नोत्सहन्ते स तावदुन्नहनायामः तावदुन्नहनमुत्सेधः तदनुरूपः आयामश्च यस्य सः || ३७ ॥ * * तावदुन्नहनायाम इत्युक्तं तत्रायामः पूर्वत्र प्रतिपादित उन्नहनमाह स त्विति । तुरीय- भागः सार्द्धद्वादशकोटियोजनोच्छ्राय इत्यर्थः ॥ ३८ ॥ * आशासु दिक्षु अधिनिवेशितास्तिष्ठन्तीति शेषः ।। ३९ ।। * * तेषामृषभादीनां स्वविभूतीनां स्वांशानां महेन्द्रादीनां च विविधवीर्योपबृंहणाय नानासामर्थ्यवृद्धये सकललोकस्वस्तये च भगवांस्त- स्मिन् गिरिवरे आस्ते । किं कुर्वन् आत्मनः स्वस्य यद्विशुद्धमप्राकृतरूपं श्रीमन्मङ्गलविग्रहं सन्धारयमाणः कीदृशं धर्मज्ञानादीनि अष्टमहाविभूतयश्चोपलक्षणं यस्य तत् । ननु प्राकृतलोकादन्योऽप्राकृतलोकः कस्य यत्रत्यं विग्रहमाविष्कुर्वन् तस्मिन् गिरौ आस्ते इत्यत आह महाविभूतिपतिरिति । महाविभूतिः परमव्योमविष्णुपदादिशब्दवाच्यं परमं धाम तदधिपतिः “योऽस्याध्यक्षः स परमे व्योमन् ” इति श्रुतेः, वनपर्वणि मुद्गलोपाख्याने “ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम् । शुद्धं सनातनं ज्योतिः परब्रह्मेति यद्विदुः ॥” इति स्मृतेश्च । विस्तरस्तु वेदान्तकौस्तुभे सूत्रभाष्ये द्रष्टव्यः । दोर्दण्डैः उपलक्षितः सन् ॥ ४० ॥ 1 | * गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी पुत्रनामान्याह - आम इति ॥ ३३ ॥ * * गिरिनामान्याह-शुक्ल इत्यादि ॥ ३४ ॥ * * नदीनामान्याह- अभयेति ।। ३५ ।। * * अमलं निर्मलमुपयुञ्जानाः सेवमानाः पुरुषादिसञ्ज्ञका ब्राह्मणादिस्थानीया वर्षपुरुषा आपोमयमम्मयं देवं भगवन्तमपोभिः पूर्णेनाञ्जलिना यजन्ते पूजयन्ति ॥ ३६ ॥ तेषां मन्त्रमाह-आप इति । हे आपः पुरुषवीर्याः स्वपुरुषाद्भगवतो लब्धसामर्थ्या भवथ । अत एवात्मना स्वरूपेणैवामीवघ्नीः पापहन्त्र्यो भूर्भुवस्वत्रैलोक्यं पुनन्तीः पुनन्त्यस्ता भवत्यो नोऽस्माकं स्पृशतां स्पर्शनं कुर्वतां भुवः शरीराणि पुनीत पुनन्त्वित्यन्वयः । इतिशब्दो मन्त्रसमाप्त्यर्थः ॥ ३७ ॥ * एवं क्रौद्वीपवत् क्षीरोदात् परस्तात् दध्नो मण्डं रसः स एवोदकं यस्य तेन स्वसमानविस्तारेण समुद्रेण परिवेष्टितो द्वात्रिंशलक्षयो- जनमायामो विस्तारो यस्य तथाभूतः शाकद्वीपः परितः सर्वत उपवेशितो रदितोऽस्तीत्यन्वयः ॥ ३८ ॥ * स्वक्षेत्रव्यपदेशको द्वीपनामनिरुक्तिहेतुरस्ति । यस्य पर्णान्यन्तः खरस्पर्शानि बहिर्मृदुस्पर्शानि ॥ ३९-४० ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी तत्रत्यजनजप्यं मन्त्रमाह यत्तदिति । ब्रह्म वेदः तदेव लिङ्गं ज्ञापकं यस्य तत् कर्ममयं सृष्टयात्मककर्मप्रचुरं लिङ्ग परमात्मनः शरीरभूतं, अत एवं एकस्मिन् परमात्मन्येवान्तो निष्ठा यस्य तत् । अत एव, अद्वयमप्रतिमं शान्तं रजोवरत्वेऽपि शान्तस्वभावं, यत्तत्स्वरूपं तत् जनः अर्चयेत् । पूजयतीत्यर्थः । भगवते आविर्भूतभगवद्गुणाय तस्मै तुभ्यं नमः इति जपन्तीत्यर्थः ।। ३३ ।। ** तत इति । ततः शुद्धोदात् परस्ताद्बहिः, लोकालोकनामा लोकालोकाख्यः, अचलः पर्वतः, आस्ते इति शेषः । अस्य लोकालोकसंज्ञाप्रवृत्तौ निमित्तमाह । यतः लोकालोकयोः, अन्तराले मध्ये, परितः सर्वतः, उपक्षिप्तः उपकल्पितः बहिरन्तरात्मकभागद्वयवतोऽस्य बहिर्भागोऽलोकात्मकः अन्तर्भागो लोकात्मकस्तद्वयान्तः पतितत्वेनास्य लोकालोक- संज्ञाभाक्त्वमस्तीति भावः ।। ३४ ।। * * ननु ततः परस्तादिति यदुक्तं तत्कियतान्तरेण इत्यपेक्षायां शुद्धोदलोकालोक- योरन्तर्वर्त्तिनी भूमिमाह यावदिति । यावद्यावत्प्रमाणं, मानसोत्तरमेवः, अन्तरं मानसोत्तरमेर्वन्तर्गता भूमिः सार्द्धसप्तलक्षोत्तर- सार्द्धकोटियोजन परिमितास्तीत्यर्थः । तावती भूमिः, शुद्धोदात्परतः अस्ति । तत्र च प्राणिनोऽपि सन्तीति शेषः । अतः परं लोकालोका चलोऽस्ति वा उक्तभूमि लोकालोकयोरन्तराऽन्या भूमिरप्यस्ति तत्राह । ततः परस्तादिति शेषः । उक्तभूमेः परस्तादिति तदर्थः । अन्या आदर्शतलोपमा दर्पणोदरतुल्या, कावनी भूमिरप्यस्ति । सा चैकोनचत्वारिंशलक्षोत्तरकोटथष्टकपरिमिता ज्ञेया । सा तु निर्जनैव । एवं सति हि मेरुलोकालोकयोरन्तरं सार्द्धद्वाशकोटिपरिमितं वक्ष्यमाणमुपपन्नं भवति । यस्यां काश्चनभूमी, प्रहितो निहितः पदार्थः, कथंचिद्येन केनापि प्रकारेण, पुनर्भूयः, न प्रत्युपलभ्यते । तथाभूतास्ति । तस्मात् सर्वसत्त्वपरिहृता आसीत् । सर्वसत्त्वपरिहृतेति देवव्यतिरेकेण विज्ञेयं, ‘देवानां क्रीडनार्था या’ इति शैवतन्त्रेषूत्तेः ॥ ३५ ॥ ** लोकालोक इति । यद्यस्मात् अनेन अचलेन पर्वतेन, लोकालोकस्य अन्तर्वर्त्तिना, अवस्थाप्यते अन्तर्वर्त्तित्वेनावस्थीयते, तस्मात् अस्य लोकालोक इति समाख्या | लोकालोक इति संज्ञा जातास्तीत्यर्थः ॥ ३६ ॥ * स इति । लोकालोकः लोकत्रयं भूरादिलोकत्रिकमन्ते- ऽन्तर्गतं यस्य तत्तस्मिन् तथाविधे स्थाने इत्यर्थः । परितः समन्ततः, ईश्वरेण मर्यादारूपेणेति शेषः । विहितः वृत्ताकारेण निहित इत्यर्थः । यस्मात् प्रतिबन्धकात्, सूर्य आदिर्येषां तेषां ध्रुवोऽपवर्गोऽन्तर्भूतो येषां तेषां ज्योतिर्गणानां सूर्यादिभुवान्तर्ज्योतिर्गणाना- , * १६४ " श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. ४१-४६ मित्यर्थः । गभस्तयः मरीचयः, अर्वाचीनानधस्तनान् त्रीन् लोकान् भूरादीन् आवितन्वानाः समन्तात्प्रकाशयन्तः सन्तः कदाचि - कहिचिदपि, पराचीनाः भवितुं, पर्वताद्बहिः प्रकाशमाना भवितुमित्यर्थः । न उत्सहन्ते न शक्नुवन्ति । तावदुन्नहन मौन्नत्यं आयामस्तदनुरूपो विस्तारश्च यस्य तथाभूतः अस्ति ।। ३७ ।। * * तावदुन्नहनायाम इत्युक्तं तदौन्नत्यं कियद्योजन - परिमितमित्यपेक्षायां तद्वक्तुं कृत्स्नभूमण्डलपरिमितेः कथनापेक्षत्वात्तत्परिमाणमाह एतावानेवेति । लोकस्य कृत्स्नभूमण्डलस्य विन्यासः संस्थानं, मानं च लक्षणं च संस्था च ताभिः, एतावान् पञ्चाशत्कोटि योजनपरिमितः, कविभिः भूमण्डलयाथात्म्यविद्भिः, विचिन्तितः सम्यक ज्ञातः । लोकालोक पर्वतस्यैौन्नत्यमिति मानमाह स त्विति । अयं लोकालोकाचलः तु, पञ्चाशत्कोटिगुणितस्य पञ्चाशत्कोटि- योजनविस्तृतस्य भूगोलस्य यः तुरीयभागः सार्द्धद्वादशकोटियोजनात्मकः, तत्परिमितौन्नत्यायामवानस्तीत्यर्थः ॥ ३८ ॥ * * तदुपरिष्टादिति । तदुपरिष्टाल्लोकालोकस्य गिरेरुपरिष्टात् चतसृषु चतुःसंख्याकासु आशासु पूर्वादिदिक्षु अखिलजगद्गुरुणा, ब्रह्मणा, ऋषभः, पुष्करचूडः, वामनः, अपराजितः इत्येते चत्वारः ये द्विरदपतयः गजश्रेष्ठाः अधिनिवेशिताः, ते सकललोकस्थिति- हेतवः सकललोकानां क्षेमहेतवः सन्तः आसते ।। ३९ ।। * तेषामिति । स्वविभूतीनां स्वस्य भगवतोऽशभूतानां तेषां द्विरदपतीनां लोकपालानामिन्द्रादिदिक्पालानां च विविधवीर्योपबृंहणाय नानाविधसामर्थ्याभिवृद्धये, सकललोकस्वस्तये च । महाविभूतिपतिः अन्तर्यामी, परमश्चासौ महापुरुषश्च सर्वोत्कृष्टनिरतिशयकल्याणगुणगणाश्रयपुरुषविशेषः, धर्मः वर्णाश्रमोचित- सदाचारश्च ज्ञानं प्रकृतिविविक्तात्मज्ञानं च वैराग्यमन्तर्बाह्येन्द्रियनियमनं च ऐश्वर्यं च अष्टौ महासिद्धयोऽणिमादयश्चाऽऽभिरुप- लक्ष्यते एता उपलक्षणं यस्य वा तथाभूतं, आत्मनः विशुद्धसत्त्वं, संधारयमाणः विष्वक्सेनादिभिः स्वपार्षद प्रवरैः परिवारितः परिवृतः । निजानि स्वकीयानि यानि वरायुधानि चक्रादीनि श्रेष्ठायुधानि तैरुपशोभितास्तैः, दोर्दण्डैर्दण्डाकारभुजैः उपलक्षितः भगवान्, तस्मिन् गिरिवरे लोकालोकाचले, परमैश्वर्यपतित्वादेकयेव मूत्येति शेषः । समन्तात्परितः आस्ते तिष्ठति ॥ ४० ॥ भाषानुवादः 攀 ‘जो साक्षात् कर्मफलरूप हैं और एक परमेश्वर में ही जिनकी पूर्ण स्थिति है तथा जिनकी सब लोग पूजा करते हैं, ब्रह्मज्ञानके साधनरूप उन अद्वितीय और शान्तस्वरूप ब्रह्ममूर्ति भगवान्को मेरा नमस्कार है’ ।। ३३ ।। * श्रीशुकदेवजी कहते हैं– राजन् ! इसके आगे लोकालोक नामका पर्वत है। यह पृथ्वीके सब ओर सूर्य आदिके द्वारा प्रकाशित और अप्रकाशित प्रदेशों के बीच में उनका विभाग करनेके लिये स्थित है ॥ ३४ ॥ * * मेरुसे लेकर मानसोत्तर पर्वततक जितना अन्तर है, उतनी ही भूमि शुद्धोदक समुद्रके उस ओर है। उसके आगे सुवर्णमयी भूमि है, जो दर्पण के समान स्वच्छ है । इसमें गिरी हुई कोई वस्तु फिर नहीं मिलती, इसलिये वहाँ देवताओंके अतिरिक्त और कोई प्राणी नहीं रहता ।। ३५ ।। * * लोकलोकपर्वत सूर्य आदिसे प्रकाशित और अप्रकाशित भूभागों के बीच में है, इससे इसका यह नाम पड़ा है || ३६ ॥ * * इसे परमात्माने त्रिलोकीके बाहर उसके चारों ओर सीमाके रूपमें स्थापित किया है । यह इतना ऊँचा और लम्बा है कि इसके एक ओर से तीनों लोकोंको प्रकाशित करनेवाली सूर्य से लेकर ध्रुवपर्यन्त समस्त ज्योतिर्मण्डलकी किरणें दूसरी ओर नहीं जा सकतीं ।। ३७ ।। * * विद्वानोंने प्रमाण, लक्षण और स्थितिके अनुसार सम्पूर्ण लोकोंका इतना ही विस्तार बतलाया है । यह समस्त भूगोल पचास करोड़ योजन है । इसका चौथाई भाग ( अर्थात् साढ़े बारह करोड़ योजन विस्तारवाला ) यह लोका- लोकपर्वत है ।। ३८ ।। * इसके ऊपर चारों दिशाओं में समस्त संसारके गुरु स्वयम्भू श्री ब्रह्माजीने सम्पूर्ण लोकोंकी स्थिति के लिये ऋषभ, पुष्करचूड, वामन और अपराजित नामके चार गजराज नियुक्त किये हैं * दिग्गजोंकी ओर अपने अंशस्वरूप इन्द्रादि लोकपालोंकी विविध शक्तियोंकी वृद्धि तथा समस्त लोकांके कल्याणके लिये परम ऐश्वर्य के अधिपति सर्वान्तर्यामी परम पुरुष श्रीहरि अपने विष्वक्सेन आदि पार्षदों के सहित इस पर्वतपर सब ओर विराजते हैं । वे अपने विशुद्ध सत्त्व ( श्रीविग्रह ) को जो धर्म, ज्ञान, वैराग्य और ऐश्वर्य आदि आठ महासिद्धियोंसे सम्पन्न हैं, धारण किये हुए हैं । उनके करकमलोंमें शङ्ख-चक्रादि आयुध सुशोभित हैं ।। ४० ।। 1 ॥ ३९ ॥
- इन आकल्पमेव वेषं गत एष भगवानात्मयोगमायया विरचितवि विधलोकयात्रा गोपीथायेत्यर्थः ॥ ४१ ॥ योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्वहिर्लोकालोका चलात् । ततः परस्ताद् योगेश्वरगतिं विशुद्धा- मुदाहरन्ति ।। ४२ ।। अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् । सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ ४३ ॥ मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेशः । हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ॥ ४४ ॥ १. प्रा० पा० - मेष एवमात्मयोग० । २. प्रा० पा० त्रिविधलोकयात्रा ० । स्कं. ५ . २० श्लो. ४१-४६ ] अनेकब्याख्यासमलङ्कृतम् सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ ४५ ॥ देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् । । सर्वजीवनिकायानां सूर्य आत्मा हगीश्वरः ॥ ४६ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णने समुद्रवर्षसंनिवेशपरिमाणलक्षणो विंशोऽध्यायः ॥ २० ॥ res કન अन्वयः - एवम् वेषम् गतः एषः भगवान् आत्मयोगमायया आकल्पम् विरचितविविधयात्रागोपीथाय इति अर्थः ॥ ४१ ॥ * * यः अन्तर्विस्तारः एतेन हि अलोकपरिमाणम् च व्याख्यातम् यत् लोकालोकाचलात् बहिः ततः परस्तात् विशुद्धाम् योगेश्वरगतिम् उदाहरन्ति || ४२ ॥ * * सूर्यः अंडमध्यगतः द्यावाभूम्योः यत् अन्तरम् सूर्यांडगोलयोः मध्ये पञ्चविंशतिः कोटयः योजनानि स्युः ॥ ४३ ॥ * * * यत् एषः एतस्मिन् मृते अंडे अभूत् ततः मार्तण्डः इति व्यपदेशः यत् हिरण्याण्डसमुद्भवः हिरण्यगर्भः इति ॥ ४४ ॥ हि दिशः खम् द्यौः मही स्वर्गापवर्गो नरकाः रसौकांसि सर्वशः सूर्येण भिदा विभज्यन्ते सूर्यः देवतिर्यङ्मनुष्याणाम् सरीसृपसवीरुधाम् सर्वजीवनिकायानाम् आत्मा हगीश्वरः || ४६ ॥
इति विंशोऽध्यायः ॥ २० ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ।। नन्वन्तर्यामिणान्तःस्थेनैव सर्वं कर्तुं शक्यं किं तस्य बहिः समंतादवस्थानेनेत्याशंक्य तस्यार्थं स्वयमेव व्याचष्टे आत्मनो योगमायया विरचिता या विविधलोकयात्रा तस्या गोपीथाय रक्षणाय एष भगवानेवंभूतमाकल्पं वेषं गतो लीलया प्राप्त इति समंतादास्त इत्यस्यार्थः ॥ ४१ ॥ * * अलोकपरिमाणं च मेरोरेकतः सार्धंद्वादशकोट्यः ततो लोकालोकात् अलोकाद्वा । परस्तात् विशुद्धां द्विजपुत्रानयनेऽर्जुनस्य श्रीकृष्णेन प्रदर्शिताम् ॥ ४२ ॥ विस्तरेणोक्तं ब्रह्मांडमानं
- सर्वतोऽपि निरूपयति । अंडमध्यगतः किं तन्मध्यं तदाह । द्यावाभूम्योः पूर्वोत्तरकपालयोर्यदंतरं मध्यस्थानम् । सर्वतः पंचविंशति- कोट्यः ॥ ४३ ॥ * * अंडमध्यावस्थाने कारणं तन्नामनिर्वचनेनाह । मृतेऽचेतने एष सूर्यो वैराजरूपेण यस्मात्प्रविष्टः ॥ ४४ ॥ * * किं च । सूर्येणैव विभज्यन्ते दिशः । खमंतरिक्षम् । भिदा अन्योऽपि विभागः । स्वर्गापवर्गौ भोगमोक्षदेशौ रसौकांस्यतलादीनि ।। ४५ ।। * * उपासनार्थमाह । देवादीनां सूर्य आत्मा हगीश्वरो नेत्राधिष्ठाता च ॥ ४६ ॥ ॥ इति श्रीमद्भागवते पञ्चमस्कंधे टीकायां विंशतितमोऽध्यायः ॥ २० ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः अत्राशंकते नन्विति । ‘आकल्पः कल्पने वेषे’ इति मेदिनी । यद्वाssकल्पपर्यन्तमेवं प्रकारेण गतः लोकालोकं प्राप्त इत्यर्थः । स्वशक्त्या रचितं विश्वं स चेन्न पालयेत्तर्हि कः पालयेदिति भावः ॥ ४१ ॥ * * विश्वनाथस्तु द्वाविंशति- लक्षोत्तरं कोट्यष्टकं बहिः सर्वदिदिवत्याह । लोकालोकात्परत्र तु तम एव “लोकालोकं तथातीत्य विवेश सुमहत्तमः” इति श्रीदशमे वक्ष्यमाणत्वाद्योगेश्वरास्तमो गच्छन्तीत्यायातं तत्राहालोकाद्वेति । योगेश्वराणामावरणाष्टकं विभिद्य मुमुक्षूणां नारदादीनां वा । विशेषेण शुद्धो विशुद्धः श्रीकृष्णस्तेन दर्शितां विशुद्धाम्, वृद्धिङीबभावौ त्वाष ॥ ४२ ॥ * * द्यावाभूम्योर्भू लोक भुवर्लोकयोः । सूर्यादूर्ध्वगोलकपर्यन्तं यथा पञ्चविंशतिकोट्यस्तथाऽधोगोलकपर्यन्ते चेत्यर्थः । उपरिष्टादुपपत्तिमत्रत्यां व्याख्यास्यामः ॥ ४३ ॥ एष सूर्य इत्यन्तयम्यभेदविवक्षयोक्तम् । स एव क इष्यत आह-हिरण्यगर्भः समष्टिजीवसूक्ष्मोपाधिरूपः यद्यत एष हिरण्यांडस्य तदीयस्थूलस्य सम्भवः सम्यविद्यमानता ॥ ४४ ॥ * * अन्यद्विशेषमाह–किं चेति । अत्रोपपत्तिमाह–दिशां विभागस्तूद - यादिना यत्रोदेति सा प्राची यत्रास्तमेति सा प्रतीची यत्र मध्याह्नं सा दक्षिणा यत्र निशीथः सोत्तरेति यत्र दिक्स्थेन स्पृश्यते सा विद्विगिति । खदिवोस्तु विभागस्तदंतर्गत्या मह्यास्तु प्रकाश्यत्वेन तद्भिदानां द्वीपादीनामपि तथैव स्वर्गापवर्गयोस्तत्प्राप्तिद्वारत्वेन सूर्यमण्डलं प्राप्तस्यैव तत्प्राप्तिश्रुतेः । ‘तरणिर्देवयानं द्वारं विमुक्तेः’ इत्यष्टमे वक्ष्यमाणत्वात् । “तेऽर्चिरभिसम्भवन्ति” इत्यादिश्रुतेश्च नरकरसौकसां विभागस्तु स्वप्रकाशवर्जनद्वारेति ध्येयं सुधीभिः । सर्वंशः सर्वथा प्रकारेपि, शस् अत्रार्षः ।। ४५ ।। * * “सूर्य आत्मा जगतस्तस्थुषश्च” इति श्रुतेः । सर्वेषां जीवानां ये निकाया संघास्तेषामात्मा दृग् द्रष्टा च । “निकायस्तु पुमांलक्ष्ये सधर्मिप्राणिसंहतौ । समुच्चये संहतानां निलये परमात्मनि ।। " इति मेदिनी । तान्निर्दिशति – देवेति ।। ४६ ।। হ…. इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे विंशोऽध्यायः ॥ २० ॥ १. प्रा० पा० खुपमृगवीरुधाम् । २. प्राचीने पाठे ‘भुवनकोशवर्णने’ पाठो न । ५९ ४६६ श्रीमद्भागवतम् श्रीमद्वीरराघवव्याख्या " [ स्कं. ५ अ. २० इलो. ४१-४६ -in rington एवं लोकालोकपर्यन्तस्य लोकस्य मेरोरारभ्य सार्द्धद्वादशकोटियोजन परिमाणमुक्तमथा लोकपरिमाणमाह अथेति । ननु हे राजन! तेन लोकालोकान्तर्वर्तिनः परिमाणकथनेन लोकालोकाद्बहिर्बाह्य देशः तस्य लोकस्य परिमाणमपि व्याख्यातमलोकोऽपि लोकेन तुल्यपरिमाणः सार्द्धद्वादशकोटियोजनपरिमाण इत्यर्थः । अत्रेदमवगन्तव्यं पञ्चाशत्कोटियोजनात्मकभूमण्डले मेरुर्मध्ये वर्तते, तस्मादारभ्य चतुर्दिक्षु अण्डभित्तिपर्यन्तमृजुगमनेन पञ्चविंशतिकोटियोजनानि भवन्ति । दक्षिणाण्डभित्तिमारभ्योत्तर भित्तिपर्यन्त- मृजुगमने तु पञ्चाशत्कोटियोजनानि भवन्ति एवं पश्चिमत आरभ्य पूर्वभित्तिपर्यन्तेऽपि द्रष्टव्यम् । तत्र मेरोरारभ्याण्डभित्तिपर्यन्ते पञ्चविंशतिकोटियोजनात्मके भूभागे जम्बूद्वीपविभागः पञ्चाशत्सहस्रयोजनात्मकः ततो लवणोदध्यादयः समुद्राः लक्षादयो द्वीपाच यथोक्तयोजनपरिमाणाः। एवं पञ्चाशत्सहस्रौत्तरपञ्चाशल्लक्षाधिककोटिद्वययोजनपरिमिता सप्तसागरसप्तद्वीपात्मिका भूमिः शुद्धोदधेर्बाह्य- भूमिः सार्द्धसप्तलक्षोत्तर सार्द्धकोटियोजनपरिमिता बाह्या आदर्शभूमिरेकोनचत्वारिंशल्लक्षोत्तराष्ट्रकोटियोजनपरिमिता, सङ्कलय्य गणनया सार्द्धद्वादशकोटियोजनानि भवन्ति । ततो लोकालोकात्परालोकभूमिः सार्द्धद्वादशकोटियोजनपरिमितेति तत्र न लोकानां सञ्चार इत्याह । ततः परस्तादिति। ततो लोकालोकाद्वहिर्विशुद्धां योगप्रभावविशुद्धां योगेश्वराणामेव गतिं सञ्चारमुदाहरन्ति कथयन्तीत्यर्थः । वस्तुतस्त्वत्र शुद्धोदधेः परस्तात्काञ्चनभूम्यतिरिक्ता भूमिर्न प्रतीयत एव किन्तु काञ्चन्या एव भूमेर्मेरुमानसोत्तरमध्यस्य भूपरिमाणं गम्यते । अत एव हि श्रीवैष्णवे पुराणे “स्वादूदकस्य परतः दृश्यते लोकसंस्थितिः । द्विगुणा कावनी भूमिः सर्वजन्तुविवर्जिता” इति काञ्चनभूमि- रेवोक्ता । अत एव हि “ततः कानभूमिस्तु दशकोट्यो वरानने !” इति वचनान्तरमप्युपपन्नं तत्रायमर्थः । अथालोकपरिमाणमाह अथेति । ननु योऽन्तर्विस्तारः लोकालोकपर्यन्तवर्त्तिनो भूमण्डलस्य विस्तारः कथित इति शेषः, एतेनान्तर्वर्तिनः परिमाणकथनेना- लोकस्य लोकालोकपर्यन्ताद् बाह्यवर्त्तिनोऽपि परिमाणमाख्यातं कथितप्रायं पञ्चाशत्कोटियोजन परिमिते भूमण्डले लोकालोकान्तर्वर्त्तिनो विस्तारे कथितेऽवशिष्ट लोकस्य परिमाणमपि कथितप्रायमेवेत्यर्थः । अत्रेदमवगन्तव्यं पञ्चाशत्कोटियोजनपरिमितं भूमण्डलं मेरोर्मूल- मध्यादारभ्याभितचतुर्द्धाण्डगोलपर्यन्तं विभजनीयमेवं विभक्ताश्चत्वारो भागा अल्पमूला विपुलाग्रभागास्त्रिकोणाकारा भवन्ति यथा मेरोरारभ्य लवणोदधिविभक्ता भागाः । तत्रैकैकस्मिन्भागे मेरोरारभ्याण्डभित्तिपर्यन्तमृजुगमने पञ्चविंशतिकोटियोजनानि भवन्ति तेषामेव भागानामाद्यन्तभागयोः समीकरणेन गणनायां सार्द्धद्वादशकोटियोजनानि भवन्ति यथा च मेरोरारभ्य लवणोदधिपर्यन्तेषु चतुर्षु भागेष्वेकैकस्मिन् भागे मेरुमूलादारभ्य ऋजुगमनेन शुद्धोदधिपर्यन्तं पञ्चाधिकसहस्राधिकत्रिपञ्चाशल्लक्षोत्तरकोटिद्वय- योजनात्मकः शुद्धोदादारभ्य लोकालोकपर्यन्तं सार्द्धसप्तलक्षोत्तर सार्द्धकोटियोजनपरिमितः लोकालोकादारभ्याण्डभित्तिपर्यन्तो लोक- भाग एकोनचत्वारिंशल्लक्षाधिकाष्ठ कोटियोजन परिमितः मिलित्वा सार्द्धद्वादशकोटियोजन एकैको भागो भवति । चतुर्णां भागानां मेलनेऽण्डभित्तेर्दक्षिणत आरभ्योत्तरभित्तिपर्यन्तमृजुगमने पञ्चाशत्कोटियोजनानि भवन्ति । एवं पाश्चात्यामण्डभित्तिमारभ्य पूर्वभित्ति- पर्यन्तं गमनेऽपीति बोध्यम् । भागानां समीकारेण गणनायां त्वन्यदेव परिमाणं भवतीति अयमप्यपरो विशेषः । सार्द्धद्वादशकोटया- त्मके एकैकस्मिन् भागे योऽयं शुद्धोदधिपर्यन्तः पञ्चाशत्सहस्राधिकत्रिपञ्चलक्षोत्तर कोटिद्वययोजनपरिमित एकैको भागस्तस्मिन्नपि भागे मेरोर्मूलादारभ्य ऋजुगमने लवणोद्धिपर्यन्तो जम्बूद्वीपविभागः पञ्चाशत्सहस्रयोजनपरिमितः, ततो लवणोदधिभागोऽपि ऋजु- गमनेन लक्षयोजनपरिमितः ततः लक्षद्वीपो द्विलक्षयोजनात्मकः, तत इक्षुरससमुद्रोऽपि द्विलक्षयोजनात्मकः, एवं ततः शाल्मलादयो द्वीपाः सुरोदादयश्च समुद्राः चतुर्लक्षादिरूपयथोक्तपरिमाणा एव वेदितव्याः । एवं शुद्धोदधिपर्यन्तं सङ्कलय्य गणनायां पञ्चाधिक- सहस्राधिकत्रिपञ्चाशल्लक्षोत्तर कोटिद्वययोजनात्मकोक्तसङ्ख्या सम्पन्ना भवतीति ततः “काञ्चनी भूमिः” सार्द्धसप्तलक्षोत्तर सार्द्धकोटि- योजनपरिमिता ततो “द्विगुणा कावनी भूमिः” इति तु श्रीविष्णुपुराणवचनं पूर्वोक्तशुद्धोदधिपर्यन्तया भूम्या सह षण्णवतिलक्षन्यून- द्विगुणेत्येव तात्पर्य के दशकोट्य इति वचनान्तरं तु लोकादारभ्य पुनर्लोकालोक पर्यन्तमृजुगमनेन चतुर्द्दशलक्षोत्तरदशकोटियोजन प्रमिता भूमिर्भवतीत्येतदभिप्रायकं द्विगुणत्वदशकोटित्वकथनं न्यूनाधिक भागावनादृत्येत्यतो न विरोध इति । ततो लोकालोकाचलः ततोऽन्ध- कारभूमिः सा च पारिशेष्यादवशिष्टकोटियोजनपरिमिता, एवञ्च मेरोरारभ्य पञ्चविंशतिकोटियोजनानि भवन्तीति द्रष्टव्यम् ।। ४२ ।। * * एवं मेरुमध्यस्थमवधीकृत्य भूमण्डलस्य परिमाणमुक्तमथ ब्रह्माण्डस्य कियत्परिमाणकं वावधीकृत्य परिमातव्यमित्यपेक्षा- यामाह । अण्डमध्यगत इति । अण्डमध्यगतः अण्डमध्ये स्थितः सूर्यः यथा भूमण्डलस्य मध्ये मेरुः स्थितस्तद्वदित्यर्थः । किं तन्मध्यं यत्र स्थितः सूर्यस्तत्राह द्यावाभूम्योर्यदन्तरमिति । द्यावाभूम्योरूर्ध्वाधः कपालयोर्यदन्तरं मध्यस्थानमित्यर्थः । अनेन सूर्यमवधीकृत्याण्डस्य परिमाणं कार्यमेवेत्युक्तं भवति । सूर्याण्डभित्त्योर्मध्ये पञ्चविंशतिकोट्यः स्युरित्यर्थः । सूर्यमवधीकृत्याण्डभित्तिपर्यन्तमूर्ध्वमधस्तात्पार्श्व- तश्च पञ्चविंशतिकोटियोजनानि भवन्तीत्यर्थः ॥ ४३ ॥ * * अण्डप्रसङ्गात्सूर्य चतुर्मुखादीनामण्डसम्बन्धादेव मार्तण्डहिरण्य- गर्भादिनामवत्त्वमित्याह मृतेऽण्ड इति । मृते नश्वर एतस्मिन्नण्डे यतः स्थितः ततोऽसौ सूर्यो मार्तण्ड उच्यते, मृतञ्च । nepalis h मृताण्डं मृताण्डे भवः मार्ताण्डः-शकन्ध्वादित्वात्पररूपे मार्तण्ड इत्यपि साधुः, यद्यस्माद्धिरण्ये हिरण्यमये समुद्भवो यस्य स ब्रह्मा हिरण्यगर्भ इत्युच्यते । हिरण्याण्डस्य गर्भभूतत्वाद्धिरण्यगर्भ इत्युच्यते इत्यर्थः । यद्वा हिरण्यगर्भ इति सूर्यस्यैव कचिद्वयपदेश- निर्वाहार्थमेव ॥ ४४ ॥ * * यदुक्तमण्डपरिमाणे सूर्यस्यावधित्वं तदेव न केवलं किन्तु दिगादिविभागेऽप्यवधित्वं सूर्यस्या - ॥ स्क. ५ अ. २० श्लो ४१-४६] अनेकव्याख्यांसमलङ्कृतम् પ્ર૬૭ स्तीत्याह सूर्येणेति । दिशः पूर्वादयः एवं खमन्तरिक्षं द्यौः स्वर्लोकः मही भूमिः भिदान्योऽपि विभागः स्वर्गापवर्गी भोगमोक्षदेशी नरकाः रसौकांसि अतलादीनि च सर्वशः कृत्स्नशः सूर्येणैव विभव्यन्ते ज्ञायन्त इत्यर्थः ॥ ४५ ॥ * * न केवलं दिगादि- विभाजक एव सूर्यः किन्तु देवादीनां चक्षुरिन्द्रियाधिष्ठाता चेत्याह देवेति । आत्मा भगवदात्मकः सूर्यः देवादीनां सर्वेषां जीवनिका- यानां जीवसमूहानां गीश्वरः गधिष्ठाता अगानां स्थावराणां वीरुधाञ्च चक्षुरिन्द्रियस्यानभिव्यक्तस्य भासकत्वाश्च चक्षुरिन्द्रिया- धिष्ठातृत्वमप्युक्तम् ॥ ४६ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां विंशोऽध्यायः ॥ २० ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
- पञ्चाशत्कोटिगुणितो ब्रह्माण्डकटाह इत्युक्तं तस्य दशदिगपेक्षया मध्यप्रदेश: कियानिति तत्राह अण्डेति । द्यावापृथि- व्योर्यदन्तरमन्तरिक्षं तस्मिन् यत्र स्थितः सूर्यः अण्डमध्यगतः अन्तरिक्षप्रदेशे यत्र सूर्यमण्डलसारः सोऽण्डमध्यप्रदेश: सर्वदिग- पेक्षया सूर्याण्डगोलयोर्मध्ये सर्वदिक्ष्वपि सम्भूय पञ्चविंशतिकोटियोजनानि स्युरित्यर्थः ॥ ४३ ॥ * एष सूर्य एतस्मिन् मृते जीवरहिते अचेतन इति यावदण्डे अभूदचेतनब्रह्माण्डमध्ये वर्तत इति यद्यस्मात्तस्मान्मार्तण्ड इति व्यपदेशः यद्यथा हिरण्याण्डसम्भवो विरिचो हिरण्यगर्भ इत्युच्यते तथेति ॥ ४४ ॥ * * सूरिप्राप्यत्वात्तदन्तर्यामित्वाच्च सूर्यस्थेन हरिणा दिगाद्यो विभज्यन्ते यदतः सूर्य आत्मा श्रीनारायणः सर्वेषां दृग् दृष्टिरिति कथितः ।। ४५-४६ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्यां विंशोऽध्यायः ॥ २० ॥ श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः आकल्पं प्रलयपर्यन्तमेव समन्तात् स्थितिप्रकारेण गतस्तत्र प्राप्त इत्यर्थः । इति स एव मदीयपूर्वोक्तस्याभिप्राय इत्यर्थः ॥ ४१ ॥ * * योऽन्तरिति । लोकालोकस्तु लोकमलोकं चार्द्धेनार्द्धेन व्याप्य स्थितः, अतः काञ्चन्या भूमेः परभागमा- क्रान्तः शिवतन्त्रे च “लोकालोकं ततः परम्” इत्युक्तम् । अन्यथा ब्रह्माण्डगर्भस्य पञ्चाशत्कोव्यतिक्रमः स्यादिति विशुद्धान्तर्गतमिति विशुद्धगतिहेतुत्वात् ।। ४२-४३ ।। * * एष सूर्य इत्यन्तर्याम्यिभेदविवक्षया ।। ४४-४६ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रम सन्दर्भे विंशोऽध्यायः ॥ २० ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी । ननु किं तस्यैतावता प्रयासेनेत्यतः सकललोकस्वस्तय इत्येतत् स्वयमेव व्याचष्टे । आकल्पं कल्पपर्यन्तम् एवमनेन प्रकारेण गतः लोकालोकं प्राप्तः आकल्प वेषं प्राप्त इति वा आत्मनो योगमायया विरचिता या विविधलोकयात्रा तस्या गोपीथाय रक्षणाय तस्यैव शक्त्या रचितं विश्वं स चेन्न पालयेत्तर्हि कः पालयेदिति भावः ।। ४१ ।। * अलोकपरिमाणं द्वाविंशति- लक्षोत्तरं कोटचष्टकं बहिः सर्वदिक्षु योगेश्वराणामावरणाष्टकं विभिद्य मुमुक्षूणाम् । यद्वो नारदादीनाम् ।। ४२ ।। * * विस्तरेणोक्तमण्डगोलकमानमूर्ध्वाधोऽपि निरूपयति । अण्डमध्यगत इति । किन्तन्मध्यं तदाह । द्यावाभूम्योः भुवर्लोकभूर्लोकयो- यन्मध्यगतः सूर्यश्च अण्डगोलकञ्च तयोर्मध्ये सूर्यादूर्ध्वगोलकपर्यन्तं यथा पञ्चविंशतिकोटथः यथा पञ्चविंशतिकोटयः तथा अधोगोलकपर्यन्तचेत्यर्थः । उपपत्तिस्तूपरिष्टाद्वयाख्येया ॥ ४३ ॥ - * * अण्डमध्यावस्थाने कारणं तन्नामनिर्वचनेनाह । मृते अचेतने एष सूर्योऽभूत् प्रविष्टः, ततो मार्त्तण्डः स एव क इत्यत आह । हिरण्यगर्भसमष्टिजीवसूक्ष्मोपाधिरूपः यद्यत एष हिरण्याण्डस्य तदीयस्थूलदेहस्य सम्भवः सम्यग्विद्यमानता ॥ ४४ ॥ * * भिदा अन्योऽपि विभागः स्वर्गापवर्गी भोगमोक्षदेशौ रसौकांसि अतलादीनि ।। ४५ ।। * * सूर्य आत्मा आत्मत्वेनोपास्यः ।। ४६ । इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । विंशोऽध्यायः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥ २० ॥ ।। : श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
पूर्ववाक्यार्थं व्याचष्टे । एष महाविभूतिपतिः आत्मयोगमाययाद्भुतया शक्तिविशेषरूपया विविधलोकयात्रा तस्याः । गोपीथाय रक्षणायैवमाकल्पं वेषं गतः प्राप्तो भवतीत्यर्थः ॥ ४१ ॥ अन्तर्विस्तारः सार्द्धद्वादशकोटियोजनपरिमितः लोकालोकसहितो मेरोरेकतः एतेनैवालोकपरिमाणं व्याख्यातमलोकमेवाह । यल्लोकालोकाद्वहिरिति । ततो लोका- लोकात् ॥ ४२ ॥ * * विस्तरेणोक्त परिमाणं संक्षिप्यानुवदति । अण्डस्य मध्ये सूर्यो गतः प्रविष्टः किं तन्मध्यमित्यत आह । द्यावाभूम्योः पूर्वोत्तर कपालयोर्यदन्तरं मध्यं स्थानं तदेवम्भूतस्य सूर्याण्डस्य प्रकाश्यतया सूर्यसम्बन्धिनः अण्डस्य लोकाचल- मण्डलस्य गोलयोरुभयपार्श्वयोर्मध्ये पञ्चविंशतिः कोटयः स्युः योजनानामिति शेषः । लोकालोकविस्तारोऽप्यत्रैव ज्ञेयः पूर्वोक्त- निर्णयबलात् ॥ ४३ ॥ * * अण्डप्रसङ्गात्सूर्यनामान्तरमाह । मृतेऽण्डे प्रकाशशून्ये एषः सूर्यो यतोऽभूदतो मार्तण्डः, मृतश्च तदण्डं च मृतण्डं शकन्ध्वादित्वात् पररूपं तत्र भवो मार्तण्डः इति व्यपदेशः, हिरण्यस्य हिरण्याण्डस्य गर्भभूतत्वाद्धिरण्यगर्भ છૂટ श्रीमद्भागवतम् ।। ।। [ स्क. ५ अ. २० श्लो. ४१-४६ * इति व्यपदेशः, यद्य एव हिरण्याण्डे समुद्भवतीति हिरण्याण्डसमुद्भव इति च व्यपदेशः ॥ ४४ ॥ * खमन्तरिक्षं महीभिदा अन्योऽपि भूविभागः स्वर्गापवर्गनरकाः भोगमोक्षयातना रसौकांस्यतलादीनि ॥ ४५ ॥ ॐ देवादीनां यथासम्भवमुपकार- कर्तृत्वादात्मा आश्रयः हगीश्वरः हगधिष्ठाता च ॥ ४६ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे विशाध्यायार्थप्रकाशः ॥ २० ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ।। * * तेषु वर्षेषु आत्मजानधिपतीन्निधाय स्वयं तपोवनं प्रविवेशेत्यन्वयः ॥ ४१-४२ ।। तेषां पर्वतानाह - ईशान इत्यादि ॥ ४३ ॥ * * नदीनामान्याह अनघेति ॥ ४४ ॥ * * तेषु वर्षेषु ऋतव्रतादिनामानो ब्राह्मणादिवर्णस्थानीयाः पुरुषाः प्राणायामेन विधूतं रजस्तमश्च येषां ते परमसमाधिना वाय्वात्मकं भगवन्तं यजन्ते ध्यायन्तीत्यन्वयः ।। ४५ ।। तन्मन्त्रं दर्शयति - अन्त इति । योऽन्तः प्रविश्य स्थावरजङ्गमात्मकानि भूतानि आत्मकेतुभिः प्राणादिवृत्तिभिर्बिभर्ति धारयति पोषयति च । अत एव साक्षादन्तर्यामी ईश्वर एव । यस्य वशे सर्वं जगद्वर्तते स्फुटमेवैतत् स नोऽस्मान् पात्वित्यन्वयः ।। ४६-४७ ॥ ( अस्यां टीकायां श्लोकास्तु षट्चत्वारिंशदेव परं क्रमभेदेनोनसप्ततिः, सं.) । ….. Say । * द्वीपस्य पुष्करसज्ञायां हेतुमाह - यस्मिन्निति । ज्वलनोऽग्निस्तच्छिखावत् अमलानां कनकपत्राणां अयुतानामयुतानि यस्य तत् ब्रह्मण आसनभूतं पुष्करं परिकल्पनीयमित्यन्वयः ।। ४८ ।। तद्वीपमध्ये मानसोप्तरनामकः पर्वतो द्वीपवनमण्डला- कारो ज्ञेयः, न पूर्ववत्तिर्यश्रेखाकारः । उभयपार्श्ववर्त्तिनी द्वे वर्षे अपि मण्डलाकारे ज्ञेये । अयुतयोजनमुच्छ्राय आयामो विस्तारश्च यस्य स तथाभूतोऽस्ति । यत्र च पर्वते पुराणि सन्ति ॥ ४९ ॥ * * देवानामहोरात्राभ्यां उत्तरायणदक्षिणायनाभ्यामि- त्यर्थः ॥ ५० ॥ * * एतस्यात्मजौ सुतौ स तत्र वर्षपती नियुज्य संस्थाप्य स्वयं भगवत्कर्मणि तत्परिचर्यायां शीलं यस्य स तथाभूत इत्येवं तत्सेवापरतयैवास्ते स्मेत्यन्वयः ॥ ५१ ॥ * * सकर्मकेण अनेकजन्मानुष्ठितस्वकर्मसंस्कारपूर्वकेण कर्मणा ब्रह्मरूपिणं कमलासनमूर्त्तिमाराधयन्ति ।। ५२ ।। इदं च मन्त्रात्मक पद्यमुदाहरन्ति जपन्ति । यत्तत्सृष्टिकर्तृत्वेन प्रसिद्ध लिङ्ग मूत्ति श्रेयोर्थी जनो भेदेन सेव्यसेवकभावेनार्चयेत्तस्मै भगवते नम इत्यन्वयः । ननुं तदचनस्य किं फलमित्यपेक्षायां ‘धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठयसौ’ ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिचितामेति’ इत्यादिप्रामाण्ये तत्प्राप्तिरेवेत्याशयेनाहुः - कर्म- मयमिति, कर्मफलभूतमित्यर्थः । ननु तत्प्राप्तेरपि किं फलमित्यपेक्षाय ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्थान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति प्रामाण्याद्भगवत्प्राप्तिरेवेत्यभिप्रेत्याहुः – ब्रह्मलिङ्गमिति —— ब्रह्म लिङ्गयते प्राप्यते यस्मात्तत् । भगवत्प्राप- पकत्वे हेतुमाह – एकान्तमिति, एकस्मिन् भगवत्येव अन्तो निष्ठा
यस्य तत् । तत्रापि पि हेतुमाह-अद्वयमिति, सृष्टयादिकार्यार्थं मूर्त्तिभेदेऽपि वस्तुतस्तु तयोर्न भेद इत्यर्थः । ‘एकान्तमद्वयं शान्तं- इति’ तु तृतीयचरणे पाठान्तरम् । इतिशब्दो मन्त्रसमाप्त्यर्थः । पुष्करद्वीपवासिनामायुर्मानं वैष्णवे उक्तं ज्ञेयम् । तथाहि - ‘दशवर्षसहस्राणि तत्र जीवन्ति मानवाः । निरामया विशोकाच राग- द्वेषादिवर्जिताः’ इति ॥ ५३ ॥ ततः शुद्धोदात् परस्तालोकः सूर्याद्यालोकवान् देशः अलोकस्तद्रहितो देशस्तयोरन्तराले मध्ये तयोर्विभागार्थं लोकालोकनामाचलः परितः उपक्षिप्तः परमेश्वरेण स्थापितोऽस्ति ॥ ५४ ॥ शुद्धोदात्परस्तादित्युक्तं तत्कियताऽन्तरेणेत्यपेक्षायां तदन्तर्वर्तिनी भूमिमाह–यावदिति । यावन्मानसोत्तर मेर्वोरन्तरं सार्द्धसप्तलक्षोत्तर सार्द्ध कोटिपरिमितं तावती भूः शुद्धोदात्परतो लोकालोकसँल्लमा आदर्शतलोपमा दर्पणसदृशी काञ्चनी अन्याऽस्तीत्यन्वयः । यत्रान्येत्युक्ते कुतोऽन्येति प्रतियोग्यपेक्षाऽतः आदर्शतलोपमत्वोक्तेश्च ततोऽन्या शुद्धोदात्परतस्तत्पर्यन्तैकोनचत्वारिंशलक्षोत्तर कोट्यष्टकपरिमिता कानी पूर्वोक्तविलक्षणा भूमिरस्तीति ज्ञेयम् । तथा च मेरुमारभ्यैकतोऽर्द्धजम्बूद्वीपोऽर्द्धलक्षयोजनः । ततः क्षारोदः समुद्र एकलक्षयोजनः । ततः लक्षद्वीपो द्विलक्षयोजनः । ततः इक्षुरसोदोऽपि द्विलक्षयोजनः । ततः शाल्मलद्वीपश्चतुर्लक्षयोजनः । ततः सुरोदोऽपि चतुर्लक्ष- योजनः । ततः कुशद्वीपोऽष्टलक्षयोजनः । ततो घृतोदोऽप्यष्टलक्षयोजनः । ततः क्रौञ्चद्वीपः षोडशलक्षयोजनः । ततः क्षीरोदोऽपि षोडशलक्षयोजनः । ततः शाकद्वीपो द्वात्रिंशल्लक्षयोजनः । ततो दधिमण्डोऽपि द्वात्रिंशल्लक्षयोजनः । ततो मानसोत्तरपर्यन्तमर्द्ध- पुष्करद्वीपो द्वात्रिंशल्लक्षयोजनः । एवं मेरुमारभ्य मानसोत्तरपर्यन्तं सार्द्धसप्तलक्षोत्तर सार्द्धकोटिपरिमिता भूमिः । ततो मानसोत्तर- तोऽर्द्धपुष्करद्वीपो द्वात्रिंशल्लक्षयोजनः । ततः शुद्धोदश्चतुःषष्टिलक्षयोजनः । तते उभयविधाऽपि काञ्चनी भूमिः सार्द्धषण्णवति- लक्षाधिकनवकोटिपरिमिता । तथा च मेरुमारभ्य लोकालोकपर्यन्तं सार्द्धद्वादशकोटिपरिमिता भूमिर्भवति । शैवतन्त्रेऽप्येवमेवोक्तम् ‘कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परम् । पश्चाशश्च सहस्राणि सप्त द्वीपाः ससागराः । ततो हेममयी भूमिदेशकोटयो वरानने । देवानां क्रीडनार्थाय लोकालोकस्ततः परः’ इति । अत्र दशकोटित्वमपि स्थूलदृष्टचैवोक्तम् ।। ५५ ।। * यस्यामादर्श -
- तलोपमायां प्रहितोऽवगलितः पदार्थो न कथचित् पुनः प्रत्युपलभ्यते । यस्मादेवं तस्मात् सर्वसत्त्वपरिहृता सर्वप्राणिवर्जिता आसीत् अस्ति । सर्वप्राणिवर्जनं च देवव्यतिरेकेण ज्ञेयम् । अन्यथा देवक्रीडार्थत्वोक्तिविरोधः स्यात् ॥ ५६ ॥ तस्य पर्वतस्य लोकालोक इति नाम कथमित्यपेक्षायामाह - लोकालोक इति । यत् यस्मादनेन लोकालोकप्रदेशस्य मध्यवर्तिनाऽचलेन तदवस्थाप्यते अयं लोकमयो देश: अयमलोकमयो देश इति व्यवहारः सम्पाद्यते तस्मादस्य लोकालोक इति समाख्या व्यपदेशः ।। ५७ ॥ * * : । *५ म. २० श्लो. ४१-४६ । अनेक व्याख्या समलङकृतम् { ४६५ भग- स लोकालोकाचलो लोकत्रयान्ते ततः परत्र लोकव्यवहाराभावात् स एव त्रिलोकव्यवहारावधि प्रदेशस्तत्र परितस्त्रिलोकीव्यवहार- मर्यादारूप ईश्वरेण विहितो रचितः । त्रिलोकीमर्यादारूपत्वोक्त्याऽत्युञ्चत्वं सूचितं तत् स्पष्टयति — यस्मादिति । यस्मात् प्रतिबन्ध- कीभूतात् पर्वतात् सूर्य आदिर्येषां ध्रुवः अपवर्गोऽन्तो येषां तेषां ज्योतिर्गणानां गभस्तयः किरणा अर्वाचीनांस्तन्मण्डलान्तर्वर्त्त- मानान् त्रीन् लोकान् आवितन्वानाः समन्तात् प्रकाशयन्तः कदाचिदपि पराचीना भवितुं नोत्सहन्ते परतो गन्तुं न शक्नुवन्ति । तावदुन्नहनमुत्सेधस्तदनुरूप आयामो विस्तारश्च यस्य स धुवादपि उच्छ्रितत्वात् त्रिलोकीमर्यादाभूत इत्यर्थः । उच्छ्रायायामौ विष्णुपुराणाज्ज्ञातव्यौ । तथाहि ‘लोकालोकस्ततः शैलो योजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः’ इति । तावन्ति अयुतसङ्ख्यानि सहस्राणि कोटियोजनोच्छ्रित इत्यर्थः ॥ ५८ ॥ वर्णितं लोक प्रमाणादिसङ्ग्रहेणोप- संहरति - एतावानिति । लोकविन्यासः लोकविस्तारो मानादिभिः सहितः कविभिर्विवेकिभिर्व्यासादिभिचिन्तितो विचारेण निश्चित एतावानित्यन्वयः ॥ ५९ ॥ * * एतावानित्युक्तं तत्कियानित्यपेक्षायामाह - सत्विति । स त्वेवं लोकविस्तारो मेरुमारभ्यैकतो यावल्लोका चलस्तावत् साकल्येन पञ्चाशत्कोटियोजन गणितस्य भूगोलस्य तुरीयभागः चतुर्थीशः सार्द्धद्वादशकोटि- योजन इत्यन्वयः । एवं लोकालोकाद्बहिरपि अण्डकटाहपर्यन्तं सार्द्धद्वादशकोटियोजनपरिमिता अलोकभूमिः । एवं तत्समानसूत्रे मेरुमारभ्यान्यतोऽप्यण्डकटाहपर्यन्तं पञ्चविंशतिकोटियोजनपरिमिता भूमिः । तथा च समानसूत्रे सर्वत्र कटाहातू कटाहपर्यन्तं पञ्चाशत्कोटियोजनत्वं सिद्धम् । लोकालोकमानसोत्तरयोः प्रमाणं तु मर्यादापर्वतत्वात् स्वनिकटभूमावेवान्तर्भूतमतो न तस्य पृथग्गणनेति ज्ञेयम् ॥ ६० ॥ * तस्य लोकालोकस्योपरिष्टात् चतसृषु आशासु दिक्षु आत्मयोनिना स्वतस्सिद्धेन जन्मा- दिविकाररहितेन सर्वकारणेन अत एवाखिलस्य जगतो ‘गुरुणा स्वामिना पूज्यतमेन परमेश्वरेण सकललोकस्य स्थितिहेतवः ऋषभः पुष्करचूडः वामनः अपराजित इति चत्वारो द्विरदपतयः हस्तिश्रेष्ठाः अधिनिवेशिताः स्थापिताः, आसत इति शेषेणान्वयः । हस्तिनां लोकस्थितिहेतुत्वं तु जलस्योपरि स्थिताया भुवी नमनोन्नमनादिप्रतिबन्धकत्वेन ज्ञेयम् ।। ६१ ।। * * ननु महद्भिरपि लोकालोकाचलादिभूभृद्भिर्धियमाणाऽपि भूर्यदि सुस्थिरा न भवति तदा तैर्द्विरदैरपि कथं तन्निश्चलत्वं कर्तुं शक्यमित्याशङ्कय वानेव तत्तद्विभूतिरूपैर्निजरूपेण च सर्वलोकनिर्वाहं करोतीत्याह — तेषामिति । धर्मज्ञानादीनि भगशब्दवाच्यानि अणिमा- सुदर्शनादीनि तैरुपशोभितैर्निजै- र्दोर्दण्डैश्चोपलक्षितं आत्मनः स्वस्य विशुद्धसत्त्वं रजस्तमोभ्यां अमिश्रविशुद्धसत्त्वात्मिकां मूर्ति सन्धारयमाण आविष्कुर्वन् स्व- पार्षदप्रवरैर्विष्वक्सेनादिभिः परिवारितः सर्वतः सेव्यमानो भगवान् तस्मिन् लोकालोकाख्ये गिरिबरे समन्तादास्ते इत्यन्वयः । किमर्थमेवमास्ते इत्यपेक्षायामाह - तेषामिति । तेषां दिग्गजानां तथा स्वविभूतीनां निजांशभूतानां लोकपालानां महेन्द्रादीनां विविधवीर्योपबृंहणाय अनेकविधपराक्रमसिद्धये इत्यर्थः । अनेनैव तस्मिन् गिरावपि यथादिशमष्टलोकपालानामपि पुर्थः सन्तीति ज्ञेयम् । लोकपालादीनां वीर्योपबृंहणमपि किमर्थमित्याकाङ्क्षायामाह - सकललोकस्वस्तये इति । कथमन्येषां तेषां वीर्यं तेनोपट हयितुं शक्यमिति शङ्कानिरासायाह – अन्तर्यामीति । औपचारिकभगवत्त्ववारणाय विशेषणान्तरमाह — परममहापुरुष इति । तर्हि संकलकल्याणेनापि तस्य किमिति शङ्कानिरासायाह–महाविभूतिपतिरिति । महती विश्वात्मिका सर्वा या विभूतिस्तस्याः पतिः । तथा च अचिन्त्यानन्तशक्तिः सर्वस्वामी चेन्न पालयेत्तदा कः पालयेदिति भावः ॥ ६२ ॥ * * नन्वन्तर्यामिणाऽन्तस्थेनैव सर्वं कर्तुं शक्यं किं तस्य बहिस्स्वरूपधारणेनेत्य न हि Faraar विहरन्नेव नियन्तु शक्य इति इति सूचयन् एवं स्वरूपाविष्कारावधिं वदन् सकललो केत्यादि व्याचष्टे - आकल्पमिति । आत्मनो योगमायया विरचिता या विविधा लोकयात्रा तस्या गोपीथाय रक्षणाय एष भगवान् आकल्पम् एवम्भूतवेषगतो लीलयाप्त इत्यर्थं इत्यन्वयः || ६३ ॥ * * योऽयमन्तर्विस्तारः मेरुमारभ्यैकतो लोकालोकपर्यन्तः सार्द्ध- द्वादशकोटियोजनलक्षण, उक्तः, एतेनैवालोकस्यापि परिमाणं व्याप्तं ज्ञेयम् । कोऽसावलोक इत्यपेक्षायामाह – यदिति । योऽसौ लोकालोकाइ हिरण्डकटाहपर्यन्तो देशः तथा लोकालोकाद्बहिः समानसूत्रेऽण्डकटाहपर्यन्तमपि अष्टदिक्षु सार्द्धद्वादशकोटि योजन- परिमिता भूमिर्ज्ञेयेत्यर्थः ॥ ६४ ॥ * * ततो लोकात् परस्तात् योगेश्वराणामावरणाष्टकं भित्त्वा भगवत्पदं गन्तॄणां गतिं विशुद्धामेतां गतिं भोगवतीमिति द्वितीयस्कन्धोक्तामुदाहरन्ति वृद्धाः कथयन्ति ।। ६५ ।। * * एवं विराट्पुरुषस्य कटिभागं भूमिं निरूप्य तत उपरि काचीदाममणिवत्स्थितं सूर्य निरूपयन् ब्रह्माण्डमध्यं दर्शयति- अण्डमध्यगतः सूर्य इति । किं तन्मध्यं तदाह- द्यावाभूम्योर्यदन्तरं सन्धानरूपमन्तरिक्षम् । तथा च सूर्याण्डगोलयोर्मध्ये सर्वतः समानसूत्रे पञ्चविंशतिकोटियोजनानि स्युरित्यर्थः ।। ६६ ।। * * विरादपुरुषान्तर्गतस्य भगवतः सूर्यान्तर्गतस्य चैक्यात्तयोः सूर्यवैराजयोरैक्येनोपासनं कर्त्तव्य- मित्यभिप्रेत्याह- मृत इति । यत् यस्मात् मृते अचेतने एवास्मिन्नण्डे एष सूर्योऽभूत् सृष्टिसमये, वैराजरूपेण प्रविष्टः ततो मार्त्तण्ड इति व्यपदेशोऽस्य नामः । यत् यस्माच्च हिरण्याण्डसमुद्भवः हिरण्यमये प्रकाशबहुलेऽण्डे सम्यक तत्प्रकाशकतया भवति वर्त्तते ६७ ॥ * * योऽष्टमहासिद्धयोपलक्षणं यस्य तत् । तथा निजानि स्वकीयानि वराणि श्रेष्ठानि आयुधानि शब्दवाच्यानि अणिमा- सर्वस्वामी स्वतन्त्रः स्वैर । इति तथा ततो हिरण्यगर्भ इति व्यपदेशः लौकिक सर्वव्यवहारनियामकत्वाच्च सूर्य उपास्यः, अन्यथा कृतघ्नतादिदोषः स्यादित्यभिप्रेत्याह - सूर्येणेति द्वाभ्याम् । प्राच्यादिदिशः सूर्येणैव विभज्यन्ते । हिरवधारणे । खमन्तरिक्षं च सूर्येणैव विभज्यते । एवमग्रेऽपि विभक्तिपरिणामेन सम्बन्धः । द्यौः स्वर्गः महीभिदा पृथिवीगतस्तदवान्तरभेदोऽपि सूर्येणैव ४७० श्रीमद्भागवतम् [ स्कं. ५ अ. २० श्लो. ४१-४६ सिद्धयति । महीति भिन्नं वा पदं तदा भिदा तत्तद्वस्तुभेदोऽपि तेनैव सिद्धयति, अन्यथा तमोव्याप्तत्वेन सर्वव्यवहारलोपापत्तेः । स्वर्गः सुखस्थानं अपवर्गो मोक्षस्थानं सत्यलोकादि, तस्यापि यज्ञादिकर्मप्राप्यत्वात्तस्य च सूर्याधीनत्वात् । नरका दुःखस्थानानि । रसौकांसि अतलादीनि । सर्वश इति किं बहुना ? लौकिकालौकिकः सर्वोऽपि व्यवहारस्तेनैव सिद्धयतीत्यर्थः ।। ६८ ।। 83 किन देवादिसर्वप्राणिनिकायानां सूर्य एवात्माऽन्तर्यामी हगीश्वरः नेत्राधिष्ठाता च ।। ६९ ।। इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र भूमिस्थाननिरूपणे । अध्यायो विवृतो विंशः प्रक्षादिमानरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी नन्वन्तर्यामिणान्तःस्थेनैव सर्व कर्तुं शक्यं, किं तस्य बहिः समन्तादवस्थानेनेत्याशङ्कच तस्यार्थं स्वयमेव व्याचष्टे आकल्पमिति । एषः भगवान्, एवमेवंविधं, आकल्पं वेषं गतः प्राप्तः सन्, आत्मयोगमायया विरचितो यो विविधलोकस्तस्य यात्रा जीवनं तस्या गोपीथो रक्षणं तस्मै, इति पूर्वोक्तप्रकारेण आस्ते । लीलयैवं विग्रहवान् भगवान् समन्तादास्ते इत्यर्थः ॥ ४१ ॥ * * य इति । यः अन्तर्विस्तारः मेरोरेकतः सार्द्धद्वादशकोटियोजनपरिमाणात्मकः, भवति । एतेन यत् लोकालोकाचलात्, बहिः अलोकपरिमाणं च यो लोकालोका चलात्परोऽलोकोऽस्ति तस्य परिमाणं चापीत्यर्थः । व्याख्यातं हि ततः परस्तात्, लोकालोकादलोकाद्वा परस्तादित्यर्थः । विशुद्धां विशुद्धां योगेश्वरगतिं द्विजपुत्रानयनेऽर्जुनस्य श्रीकृष्णेन प्रदर्शितां उदाहरन्ति ।। ४२ ।। * * विस्तरेणोक्तं ब्रह्माण्डमानं सर्वतो निरूपयति अण्डमध्येति । सूर्यः अण्डमध्यप्रदेशं संप्राप्तः भवति । किं तदण्डमध्यं तदाह । द्यावाभूम्योः पूर्वोत्तरकपालयोः यत्, अन्तरं मध्यं तत्, ऊर्ध्वाधः कपालयोर्यन्मध्यस्थानं तदण्डमध्यं सूर्यस्तद्गतो भवतीति भावः । अनेन सूर्यमवधीकृत्याण्डस्य परिमाणं कार्यमित्युक्तं भवति । सूर्याण्डगोलयोः सूर्याण्ड- भित्त्योः, मध्ये पञ्चविंशतिः कोटयः स्युः | सूर्यमवधीकृत्याण्डभित्तिपर्यन्तमूर्ध्वमधस्तात्पार्श्वतश्च पञ्चविंशतिकोटियोजनानि भवन्तीत्यर्थः ॥ ४३ ॥ * * सूर्यब्रह्मणोरण्डसंबन्धादेव मार्त्तण्डहिरण्यगर्भनामवन्त्वमित्याह । मृतेऽचेतनप्राये एतस्मिन्नण्डे, एषः सूर्यः अभूत्, ततः मार्त्तण्डः इति व्यपदेशः निर्दिष्टः । मृतेऽण्डे भवो मार्त्तण्डः । शकन्ध्वादित्वात्साधुः । ब्रह्मा हिरण्याण्ड - समुद्भवः हिरण्यब्रह्माण्डे समुद्भूतः यत्, इति हेतोः, हिरण्यगर्भः इति व्यपदेशः । यद्वा हिरण्यगर्भ इति सूर्यस्यैव क्वचिद् व्यपदेश- निर्वाहार्थमेवमुक्तमिति बोध्यम् । तदा हिरण्याण्डात्समुद्भवो यस्येति विग्रहयोजना ॥ ४४ ॥ ** न केवलमण्ड- परिमाणे सूर्यस्यावधित्वं, कि तु दिगादिविभागेऽप्यस्तीत्याह सूर्येणेति । दिशः पूर्वादयः, खमन्तरिक्षं, द्यौः स्वर्लोकः, मही भूमिः, भिदाऽन्योऽपि विभागः, स्वर्गापवर्गौ भोगमोक्षदेशी, नरकाः, रसौकांस्यतलादीनि च सर्वशः सर्वेऽप्युक्तविधा विभागाः, सूर्येणैव विभज्यन्ते ज्ञायन्ते हि ।। ४५ ।। * न केवलं दिगादिविभाजक एव सूर्यः, किं तु देवादीनां वीरुत्पर्यन्तानां चक्षुरिन्द्रियाधिष्ठाता चाप्यस्तीत्याह देवेति । देवाश्च तिर्यञ्चश्च मनुष्याश्च तेषां, सरीसृपाश्च सवीरुधश्च तेषां, सरीसृप - वीरुधामिति पाठे सरीसृपाश्च वीरुधश्च ताभिः सह वर्त्तमानास्तेषां सर्वे च ते जीवनिकायाश्च तेषां आत्मा भगवदात्मकः सूर्यः, हगीश्वरो राधिष्ठाता भवति ।। ४६ ।। । । इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दखामिसुतश्रीरघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे विंशतितमोऽध्यायः ॥ २० ॥ भाषानुवादः इस प्रकार अपनी योगमायासे रचे हुए विविध लोकोंकी व्यवस्थाको सुरक्षित रखनेके लिये वे इसी लीलामय रूपसे कल्पके अन्ततक वहाँ सब ओर रहते हैं ॥ ४१ ॥ लोकालोकके अन्तर्वर्ती भूभागका जितना विस्तार है, उसीसे उसके दूसरी ओरके अलोक प्रदेशके परिमाणकी भी व्याख्या समझ लेनी चाहिये। उसके आगे तो केवल योगेश्वरोंकी ही ठीक-ठीक गति हो सकती है ।। ४२ ।। * राजन् ! स्वर्ग और पृथ्वीके बीच में जो ब्रह्माण्डका केन्द्र है, वहीं सूर्यकी स्थिति है। सूर्य और ब्रह्माण्डगोलक के बीच में सब ओरसे पच्चीस करोड़ योजनका अन्तर है ॥ ४३ ॥ सूर्य इस मृत अर्थात् मरे हुए
- ( अचेतन ) अण्ड में वैराजरूपसे विराजते हैं, इसीसे इनका नाम ‘मार्त्तण्ड’ हुआ है ये हिरण्यमय ( ज्योतिर्मय ) ब्रह्माण्डसे प्रकट हुए हैं, इसीलिये इन्हें ‘हिरण्यगर्भ’ भी कहते हैं ॥ ४४ ॥ * * सूर्यके द्वारा ही दिशा, आकाश, द्युलोक ( अन्तरिक्षलोक ), भूर्लोक, स्वर्ग और मोक्ष के प्रदेश, नरक और रसातल तथा अन्य समस्त भागोंका विभाग होता है ॥ ४५ ॥ ॐ सूर्य ही देवता, तिर्यक्, मनुष्य, सरीसृप और लतावृक्षादि समस्त जीवसमूहों के आत्मा और नेत्रेन्द्रियके अधिष्ठाता हैं ।। ४६ ।। इति विंशोऽध्यायः ॥ २० ॥ ः ॥ २० ॥ ༡ ཕ w… अथैकविंशोऽध्यायः श्रीशुक उवाच एतावानेव भूवलयस्य संनिवेशः प्रमाणलक्षणतो व्याख्यातः ॥ १ ॥ एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् ॥ २ ॥ यन्मध्यगतो भगवांस्तपताम्पति- स्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष उदगयनदक्षिणायनवै षुवतसंज्ञाभिर्मान्द्यशैध्य समाना- भिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घहस्वसमानानि विधत्ते ॥ ३ ॥ यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति दा तदाहान्येव वर्धन्ते इसति च मासि मास्येकैका घटिका रात्रिषु ॥ ४ ॥ ।। * अन्वयः – एतावान् एव भूवलयस्य सन्निवेशः प्रमाणलक्षणतः व्याख्यातः ॥ १ ॥ तद्विदः हि एतेन यथा निष्पावादीनाम् द्विदल्योः दिवः मंडलमानम् उपदिशन्ति ते अन्तरेण तदुभयसंधितम् अन्तरिक्षम् ||२|| * * ॥२॥ क यन्मध्यगतः भगवान् तपताम् पतिः तपनः आतपेन त्रिलोकीम् प्रतपति आत्मभासा अवभासयति सः एषः उदगयनदक्षिणायन वैषुवतसंज्ञाभिः मांद्यरौद्रयसमानाभिः गतिभिः आरोहणावरोहणसमानस्थानेषु यथासवनम् मकरादिषु राशिषु अभिपद्यमानः दीर्घहस्वसमानानि विधत्ते ॥ ३ ॥ * यदा मेषतुलयोः वर्तते तदा अहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु राशिषु चरति तदा अहानि एव वर्धन्ते मासि मासि च रात्रिषु एका एका घटिका ह्रसति ॥ ४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका १ ॥ एवमध्यायविंशत्या भूमर्यादा निरूपिता । अतः परं धुमर्यादापालनं त्रिभिरुच्यते ॥ एकविंशे रवेः कालचक्रेण भ्रमतोऽन्वहम् । स्वगत्या राशिसंचारैर्लोकयात्रा निरूप्यते ॥ २ ॥ एतावान्विस्तारेण कोट्यः पंचाशत् । उत्सेधेन पंचविंशतिः ॥ १ ॥ * * परस्य मध्ये यथकस्य .. मानमुपदिश्यते तद्वत् ते अन्तरेण तयोर्मध्ये तदुभयसंघितं ताभ्यामुभयतः संलग्नम् ॥ २ ॥ * * उदगयनादिसंज्ञाभिर्मन्दक्षिप्र- समगतिभिर्यथाकालमा रोहणादिस्थानेष्वारोहणाद्यभिपद्यमानो मकरादिष्वहोरात्राणि दीर्घहस्वसमानानि विधत्ते ॥ ३ ॥ * * तत्प्रपञ्चयति यदेति । अत्यन्त वैषम्याभावात्समानानीत्युक्तं सर्वथा साम्यं त्वेकस्यैवाहोरात्रस्य यद्यपि वृषभमिथुनयोरेवाह्नां वृद्धिः कर्कटादिषु ह्रासस्तथापि राज्यपेक्षयाऽधिकत्वाद्वर्धन्त इत्युक्तम् । एवं रात्रिवृद्धावपि दिनापेक्षया हसतीत्युक्तम् । एकैकेति स्थूलदृष्टयो- क्तम् । वृद्धिहासयोः प्रतिमासवैषम्यात् ॥ ३ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः अतो भूमर्यादाकथनानन्तरम (१) कालचक्रेण शिशुमारेण सह (२) भूवलयस्येति । भुवः पर्यक् स्थितानां देशानां ग्रहणम् ॥ १ ॥ * * एतेन भूगोलकमानेन । तद्विदः ज्योतिः सिद्धान्तज्ञाः । निष्पावः शूकशिंबी राजमाषो वा । तदादीनामिति तद्गुणसंविज्ञानबहुव्रीहिणा कलायादीनामित्यर्थः । “निष्पावः शूर्पपवने राजमाषे कडंगके । पवने शिबिकायां ना निर्विकल्पेऽन्यलिंगकः ॥” इति मेदिनी । ते अन्तरेणेति । विनादियोगे द्वितीया । अन्तरिक्षं लक्षद्वयप्रमाणमिति चक्रवर्ती । यस्यान्तरिक्षस्य मध्यगतः ॥ २ ॥ * * मान्द्यशैध्येति स्वार्थष्यनन्तम् । उदगयननाम्ना मन्दया गत्याऽऽरोहणस्थाने यथा- सवनं सवनमतिक्रम्याभिपद्यमानश्चलन् मकरादिषु पंचसु राशिषु अहानि क्रमेण दीर्घाणि रात्रीच ह्रस्वा विधत्ते । दक्षिणायननाम्ना farmarsa रोहणे कर्कादिषु पंचसु राशिषु अहोरात्रान् ह्रस्वदीर्घान् विधत्ते । वैषुवतसंज्ञया उत्तरायणदक्षिणायनमध्यवर्त्तिन्या समानया गत्याऽहोरात्रान्समानान्विधत्ते ॥ ३ ॥ * * तत् पूर्वोक्तम् । यदेति । एकस्य दक्षिणोत्तरगोलसंज्ञस्येत्यर्थः ॥ ४ ॥ । । १. प्रा० पा० एतदेव दिवो । २. प्रा० पा०-विदलयोनिं० । ३. प्रा० पा० - त्रीलोकान् । ४. प्रा० पा० शैध्यप्रसमानाभि- गतिभिरारोहणस्थानेषु । ५. प्रा०पा० - वृषादिषु । ६. प्रा० पा०-विवर्धन्ते । ૩૦૨ श्रीमद्भागवतम् श्रीमद्वीरराघवव्याख्या [ स्कं. ५ अ. २१ श्लो. १-४ एवं कृत्स्नस्य भूमण्डलस्य सन्निवेशं तत्परिमाणाभिधायाथ दिवो मण्डलपरिमाणं सूर्यगतिञ्च विवक्षुर्वक्ष्यमाणस्योक्त- सापेक्षत्वादुक्तमनुवदति त्रिभिरध्यायैः । एतावानेवेति । भूमण्डलस्य सन्निवेशः संस्थानं प्रमाणादिभिरेतावानेव पञ्चाशत्कोटि- योजन परिमित एवमाख्यातः । एवकारेण उक्ताधिक परिमाणव्यावृत्तिः, वक्ष्यमाणमवतारयति एतेन भूमण्डलपरिमाणेन दिवो मण्डलस्यापि मानं परिमाणं तद्विदः दिवो मण्डलमपि पञ्चाशत्कोटियोजनपरिमितमित्येवोपदिशन्ति कथयन्तीत्यर्थः । कथमन्यस्य परिमाणकथनेनान्यस्यापि परिमाणं ज्ञातुं शक्यमित्यपेक्षायां दृष्टान्तमाह । यथा द्विदलयोर्निष्पावादीनामिति । निष्पावो गोधूमादि- धान्यानि चूर्णयितुं शिल्पिभिर्निर्मितः द्विदलात्मकः पाषाणविशेषः बाह्यद्वयदलविशिष्टो धान्यविशेषो निष्पूयते सूर्पादिभिरिति निष्पावः “निरभ्योः पूल्बोः” इति घन् निष्पावप्रभृतीनां द्वयोर्दलयोमध्येऽधः स्थितस्य दलस्य परिमाणे कथिते उपरितनदलमपि तत्तुल्य- परिमाणमिति कथितं भवति तथेत्यर्थः । अस्तु दिवो मण्डलं भूमण्डलेन तुल्यपरिमाणं किन्तद्भूमण्डलयुमण्डलयोर्मध्यं यत्र स्थितं सूर्यमवधीकृत्य परिच्छेदः कार्य इत्युक्तं तत्राह तयोरिति । तयोर्भूमण्डलघु मण्डलयोरन्तरेण मध्येऽन्तरिक्षमन्तरिक्षलोकमुपदि- शन्तीत्यनुषङ्गः । कथम्भूतं तदुभयसन्धितं ताभ्यां भूमण्डलघु मण्डलाभ्यामुभयतः अध ऊर्ध्वश्व सन्धितं संलग्नं सन्दधमित्यर्थः । यस्यान्तरिक्षस्य मध्यगतो मध्ये स्थितो भगवांस्तपतां पतिः तापं कुर्वतां पतिरग्न्यादीनां मध्ये पतिः श्रेष्ठः तपनः सूर्य आतपेन त्रिलोकीं भूर्भुवः सुव इत्यात्मिकां प्रतपति प्रकाशयत्यात्मनः स्वस्य भासा कान्त्या त्रिलोकीमवभासयति प्रकाशयति स्वस्वकर्मणि प्रवृत्तां करोतीत्यर्थः । किमयं सूर्य एकत्र स्थित एव त्रिलोकी प्रतपत्यवभासयत्ति उतान्नेव । यद्यन्नेव तर्हि सदैकरूपेणाटति उत कदाचित्वरया कदाचिच्छनैः कदाचित्समं किम्वोर्ध्वमेवाटति अथवा अधः आहोस्विदुभयतः केषु स्थानेष्वटति कथम्वा तद्गतिकृतो भवत्यहोरात्र- परिमाणविभाग इत्याद्यपेक्षायामाह स एष इति । स एष अन्तरिक्षमध्यगतः सूर्य उदगयनादिसंज्ञाभिर्मान्द्यादिगतिभिरारोहणा- दिस्थानेषु यथाकालमारोहणादिकमभिपद्यमानः सकरादिषु राशिषु वर्तमानः अहानि रात्रीश्च दीर्घहस्वसमानानि विधत्ते कुरुते । मार्गस्य अल्पीयस्त्वं तावत् “अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरब्देन या गतिः” इति श्रीवैष्णव- पुराणोक्तरीत्या शेषप्रहर्क्षताराच येऽन्तर्मध्यवहिर्वल्यत्रयाकारे अशीतिशतकुण्डलाकारे रेखामये अवाक्रशिरस्क दक्षिणावर्त कुण्डली- भूतसर्पाकारे भगवदात्मके शिशुमाराख्ये कालचक्रेऽधिश्रित्यारोहणा वरोहणसमवस्थानेष्वन्तर्वढ्य बाह्यवल मध्यमव लयेषूदगयनादि- संज्ञाभिर्मान्यादिगतिभिर्यथासवनमीश्वरा दृष्टकाल मनतिक्रम्याभिपद्यमानः प्राप्तः सन्मकरादिषु शिशुमाराख्यस्य मकाराद्याकाररेखा- मयमण्डलेषु नक्षत्राभिमुखतया सञ्चरन्नहरादीनि हस्वानि दीर्घाणि समानानि च कुरुते । तत्र बहिर्वलयादन्तर्वलयगमनमारोहणं तदेवोदगयनमारोहे च चिरगतिमार्गस्य राशीकृतभूयस्त्वादन्तर्बलयाद् बहिर्वलयगमनमवरोहणं तदेव दक्षिणायनमवरोहे च इति गतेर्मार्गस्य राशीकृतस्याल्पीयस्त्वात् समवस्थानशब्दनिर्दिष्टेषु मध्यमवलये गमनं समवस्थितिः तदेव विषुवस्थितिः तत्र समगति- मार्गस्य राशीकृतस्य साम्याद् आरोहणादिकम्’, “ध्रुवेण मुच्यमानेन पुरा रश्मियुगेन तु । तस्यैव बाह्यतः सूर्यो भ्रमते मण्डलानि: च” इति | आरोहणे चिरगत्यैव दिनवृद्धिरात्रिहासश्च भवति, अवरोहणे द्रुतगमनेऽह्रां ह्रासः रात्रिवृद्धिश्च समवस्थितावहोरात्रस्य साम्यमिति भेदः । १-३॥ ।। $ * एतदेव प्रतिपिपादयिषुस्तावत्कासु राशिषु चरन्नहोरात्रस्य साम्याधिकं विधते इति शङ्कायामहोरात्रिकृतसाम्याधिकविभागमाह यदेति । यदा वृषभादिषु वृषभ आदिर्यासां तासु वृषभ मिथुन कर्कटसिंह- कन्यासु राशिषु पञ्चसु यदा चरति तदाहान्येव वर्द्धन्ते न तु रात्रय इत्यर्थः ॥ ४ ॥ । । म श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अध्याय “चतुर्भिः साकं नवतिञ्च नामभिश्चक्रं न वृत्तं व्यतीं रवीविपत्, भीषास्माद्वातः पवते भीषोदेति सूर्यः” इत्यादिश्रुतेर- खण्डस्वामिनो हरेराज्ञया स्वाधिकारेषु प्रवर्तमानानामिष्टदेवतात्वेन लोकैर्निषेव्यमाणानां तस्यैव विशेषनिवासस्थानानां सूर्यादीनां स्वरूपज्ञानमपि भगवब्ज्ञानोपयोगीत्यभिप्रायेण । तत्रातीताध्यायार्थानुवादमुखेनैतमध्या यमवतारयति एतावानिति । भूवलयस्य लोकात्मकस्य सन्निवेशः विस्तारविशेषः || १ || द्विदलनिष्पावादीनां निष्पावराजमाष- द्विदलानां सर्वप्रकारेण परिमाणतः समत्वमेवं भूवलयस्य सर्वस्य परिमाणतः समत्वमेव, यस्यान्तरिक्षस्य मध्यगतस्तदन्तरिक्षं तयोर्द्यावापृथिव्योरन्तरेण मध्य उपसंधितं स्थापितम् ॥ २ ॥ आत्मनः परमात्मनो भासा “यदादित्यगतं तेजः” इत्यादेः एष सूर्य उदगयनमुत्तरायणं तत्संज्ञया गत्या आरोहणसंज्ञेषु मकरादिमिथुनान्तेषु राशिषु यथासवनं तत्तन्मकरादिमासकाल- मनतिक्रम्य तत्तन्नक्षत्रैश्चोदयमभिपद्यमानो दक्षिणायनसंज्ञया गत्यावरोहणसंज्ञकेषु कर्कटादिधनुः पर्यन्तेषु राशिषु तत्तत्कर्कटादि- मःसकालमनतिक्रम्य तत्तन्नक्षत्रैश्चोदयमभिपद्यमानस्तथा वैषुवसंज्ञया गत्या समस्थानसंज्ञयोर्मेषतुलयोराइयोस्तन्नक्षत्राभ्यामुदयं प्राप्नुवन्नहोरात्राणि दीर्घ ह्रस्वसमानानि करोति ॥ ३-४ ॥ श्रीमज्जीव गोस्वामिकृतः क्रमसन्दर्भः { भूवलयस्येति भुवः पर्यक् स्थितानां देशानां ग्रहणम् ॥ १ ॥ * * ते अन्तरेणान्तरिक्षमिति सूर्यमण्डलस्यो दलप्रमाण एव देशो ज्ञेयः ॥ २-६ ।। स्क. ५ अ. २१ श्लो. १-४ अनेकव्याख्यासमलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी एकविंशे रवेरुक्तं राशिगत्ययनादिकम् । उदयास्तमनादीनां व्यवस्था च गतेर्मितिः ॥ १ ॥ ४७३ एतेन भूगोलकमानेन निष्पावः शूकशिम्बी तदादीनामित्यतद्गुणसंविज्ञानबहुव्रीहिणा कलायादीनामित्यर्थः । तेषां यथा द्वयोर्दयोर्मध्ये एकस्य मानेनापरस्य मानमुपदिश्यते तथैव भूगोलकखगोलकयोर्विस्तारेण तुल्यमेव मानमित्यर्थः । ते अन्तरेण तयोर्मध्ये अन्तरिक्षं लक्षद्वयप्रमाणं तदुभयसन्धितं ताभ्यामुभयतः संलग्नम् | यस्य अन्तरिक्षस्य मध्यगतः सः सूर्यः मान्द्यरौध्ये स्वार्थष्यञन्ते, उदगयननाम्न्या गत्या आरोहणस्थाने यथासवनं समयमनतिक्रम्य अभिपद्यमानान् मकरादिषु षट्सु राशिषु अहानि क्रमेण दीर्घाणि रात्रीस्तु हृस्वा विधत्ते दक्षिणायननाम्न्या क्षिप्रगत्या अवरोहणे कर्कटादिषु षट्सु राशिषु अहोरात्रान् ह्रस्वदीर्घान् विधत्ते । वैषुवतसंज्ञया उत्तरायणदक्षिणायनमध्यवर्तिन्या समो समानया गत्या मेषतुलयोः अहोरात्रान् समानान् विधत्ते अभिपद्यमानश्चलन् । १-३ ।। * * एतत् प्रपञ्चयति यदेत्यादिना । अत्यन्तवैषम्याभावात् समानी- त्युक्तम् । सर्वथा साम्यं त्वेकस्यैवाहोरात्रस्य यद्यपि वृषभ मिथुनयोरेवाहो वृद्धिः कर्कटादिषु ह्रासस्तथापि राज्यपेक्षया अधिकत्वा- द्वर्द्वन्त इत्युक्तम् । एवं रात्रिवृद्धावपि दिनापेक्षया हसतीत्युक्तं, वस्तुतस्तु मकरादिषु अह्नां वृद्धिप्रक्रमः कर्कटादिषु ह्रासप्रक्रम इत्यये स्पष्टं वक्ष्यते । एकैकेति स्थूलदृष्टयोक्तं वृद्धिहासयोः प्रतिमासं वैषम्यात् ॥ ४ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः एवं भूर्लोकः वर्णितः “पादगम्यं तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥ " इति श्रीविष्णुपुराणात तदुपरि लोकाः सन्ति तत्र भूर्लोकात् सूर्यलोकपर्यन्तो भुवर्लोकः “भूमिसूर्यान्तरं यत्तु सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम !” इति तत्रैवोक्तत्वात् तदुपरि सूर्यमण्डलाद् ध्रुवपर्यन्तः स्वर्गलोकः तदुपरि कोटियोजनोच्छ्रायो महर्लोकः, तदुपरि द्विगुणोच्छ्रायो जनलोकः, तदुपरि तच्चतुर्गुणोच्छ्रायस्तपोलोकः, तदुपरि द्वादश- कोटचुच्छ्रायः सत्यलोकः, ततो यथासम्भवं तमस्ततो गर्भोदकं ततोऽण्डकटाहः । एवं सर्वदिक्षु तमः गर्भोदकञ्च परितो ज्ञेयं तत्परितोऽण्डकटाहः तमसः परिमाणं प्रागुक्तं गर्भोदककटाहमानम् " समस्तसागरमानस्तु गर्भोदस्तदनन्तरम् । कोटियोजन- मानस्तु कटाहः संव्यवस्थितः ||” इत्यादिवचनाद् बोध्यं तथा कटाहादुपरि दशगुणोत्तराणि जलाद्यावरणानीति संक्षेपः । तत्र भुवर्लोकस्वर्गयोः स्थितिमाह । एतावानित्यध्यायत्रयेण सन्निवेशः संस्थानमेतावानेव पञ्चाशत्कोटियोजनपरिमितः ॥ १ ॥ $ निष्पूयते वाय्वादिनेति निष्पावो द्विदलयुक्तोऽन्नविशेषः “निरभ्योः पूल्वोः” इति घञ्, निष्पावस्यान्न विशेषत्वं मार्कण्डेयपुराणे प्रसिद्धम् “श्रीहयश्च यवाश्चैव गोधूमार्कगुणास्तिलाः । प्रियङ्गवः कोविदारः कोरदूषः सचीकणः । माषा मुद्रा मसूराच निष्पावाच कुलत्थकाः ।” इति एतदादीनां द्विदलयोर्मध्ये यथैकस्य माने वर्णिते अपरस्य मानं वर्णितं भवति तद्वत् ते अन्तरेण तयोर्मध्ये तत्ताभ्यामुभयतः सन्धितं लग्नम् ॥ २ ॥ * * तपनः सूर्यः स एव सूर्यः उदगयनादिसंज्ञाभिर्मान्द्यादिगतिभिः आरोहणादि- स्थानेषु यथासवनं यथाकालमा रोहणादिकमभिपद्यमानः मकरादिष्वहोरात्राणि दीर्घ ह्रस्वसमानानि विधत्ते करोति ॥ ३ ॥ * * समानानि भवन्ति अत्यन्तवैषम्य र हितानि भवन्तीत्यर्थः । एकमहोरात्रं तु समं भवति वृषभमिथुनयोरह्नां वृद्धिः कर्कटादिषु तु ह्रासस्तथापि अह्नां रात्रिभ्योऽधिकत्वाभिप्रायेण पञ्चसु वर्द्धन्ते इत्युक्तं, रात्रिषु एकैका घटिका मासि हसतीति स्थूलदृष्टयोक्तम् । प्रतिमासं वैषम्यात् ॥ ४ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी एवं पञ्चभिरध्यायैर्भूमिस्थानं निरूपितम् । अथातस्त्रिभिरध्यायैरूर्ध्वस्थानं निरूप्यते ॥ १ ॥ एकविंशे तु सूर्यस्य ज्योतिश्चक्रस्थितस्य वै । मान्द्यरौध्यादिभेदेन गमनं विनिरूप्यते ॥ २ ॥ एवं भूमौ सर्वत्र भगवदाराधनप्रदर्शनेन भगवद्विजयः प्रदर्शितः, इदानीं “भीषास्माद्वातः पवते, भीषोदेति सूर्यः” इत्यादिश्रुत्यनुरोधेन भगवत्कृतमर्यादानुसारेण सूर्यादिगमनस्थित्या दिनिरूपणेन तस्य विजयं निरूपयति त्रिभिरध्यायैः, तत्र पूर्वं वर्णित- भूमण्डलमानं धूमण्डलेऽतिदिशति - एतावानिति । भूवलयस्य सन्निवेश: रचनाविशेषः प्रमाणतः पञ्चाशत्कोटियोजनविस्तारतः लक्षणतः जम्ब्वादितत्तदसाधारणचिह्नता व्याख्यातः कविभिः प्रकथितः ॥ १ ॥ * * एतेन हि पञ्चाशत्कोटियोजनात्मकेन मानेन दिवो मण्डलमानं तद्विदः प्रमाणविद उपदिशन्ति । तत्र दृष्टान्तमाह-यथेति । ‘निष्पावः शूर्पपवने राजमाषे करण्डके || पवने शिविकायां ना निर्विकल्पेऽन्यलिङ्गकः’ इति मेदिनीकोशात् निष्पावादीनां करण्डकादीनां द्विदलानां द्विदलयोर्मध्ये यथैकस्य मानेनापरस्यापि मानमुपदिश्यते तथेत्यर्थः ॥ २ ॥ * * ते अन्तरेण तयोर्मध्ये तदुभयसन्धितं ताभ्यां भूगोल गोलाभ्यां उपर्यधो भागे उन्नयतः संहृनमन्तरिक्षलोकमस्तीति तद्विस्तारोऽपि तावानेवेति भावः ॥ ३ ॥ * * यस्यान्तरिक्षस्य मध्यगतो ६० ४७४ श्रीमद्भागवतम् [ स्कं. ५ अ. २१ श्लो. १-४ भगवान् तपसां प्रकाशवतां चन्द्रादीनां स्वरश्मिभिः पोषकत्वात्पतिः तपनः सूर्य आतपेन ऊष्मणा त्रिलोकी प्रतपति प्रतापयति आत्मनः स्वान्तस्थस्य भगवतो भासा त्रिलोकीमवभासयति ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम्’ इति वचनात् । अत एव भगवानित्युक्तम् ॥ ४ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी निरूपितेति विंशत्याध्यायैर्मर्यादिका भुवः । अतः परं त्रिभिः प्रोक्तं द्युमर्यादाप्रपालनम् ॥ १ ॥ भ्रमतः कालचक्रेण चैकविंशेऽन्वहं रवेः । लोकयात्रोदिता सम्यक् स्वगत्या राशिसंचरैः ।। २ ।। । 1 । एतावानिति । भूवलयस्य, भूमण्डलस्य संनिवेशः संस्थानं प्रमाणलक्षणतः प्रमाणादिः, एतावान् विस्तारेण पचाशत्कोटियोजन परिमितः एव, व्याख्यातः । एवकारेणोक्त्ताधिक परिमाणव्यावृत्तिः । एतेन हि भूमण्डलपरिमाणेनैवेत्यर्थः । । एवकारेणोक्त्ताधिकपरिमाणव्यावृत्तिः । । दिवः मण्डलमानं दिवो मण्डलस्यापि परिमाणं तद्विदः द्युमण्डरमानज्ञाः उपदिशन्ति कथयन्ति । मेरुतः पूर्ववर्त्तिलोकालोकाच- लान्तात्प्रत्यग्वर्त्तिलोकालोकाचलान्तमन्तर्वर्त्तिप्रदेशं भूवलयं भूमण्डलं चोच्यते । सूर्यतः पूर्ववर्त्तिलोकालोका चलान्तात् सूर्यत एव प्रत्यग्वर्त्तिलोकालोका चलान्तमन्तर्वर्त्तिप्रदेशं द्यमण्डलं दिवो मण्डलं चोच्यते । उभे अधः कपालोत्तरकपालसंज्ञयापि व्यवह्रियेते । तन्मध्यवर्त्तिप्रदेशं नभोवलयं नभोमण्डलं चोच्यते । तत्र भूमण्डलस्य तुक्तरीत्या पञ्चाशत्कोटिपरिमाणतथा बुद्धिग्राह्यत्वान्न संशयः, दिवो मण्डलस्य तावत्प्रमाणतायाः बुद्धिग्राह्यतासिद्धये एतावानेव भूवलयसंनिवेश इत्युक्त्वा एतेन हि दिवो मण्डलमानं तद्विद् उपदिशन्तीत्यभिहितमिति भावः ॥ १ ॥ * * अन्यस्य परिमाणकथनेन कथमन्यस्यापि परिमाणं ज्ञातुं शक्यमित्य- पेक्षायां दृष्टान्तमाह यथेति । यथा निष्पावो वल्ल आदिर्येषां राजमाषवतु लादीनां तेषां द्विदलयोः, यथा निष्पावादीनां द्वयोर्दलयोः मध्ये, एकस्य दलस्य परिमाणकथनेनान्यस्य दलस्य परिमाणं कथनं विनापि बुद्धयते, तथा एकस्य परिमाणेना परस्य परिमाणं ज्ञेयमित्यर्थः । ते अन्तरेण तयोर्भूद्युमण्डलयोर्मध्ये, अन्तरिक्षमन्तरिक्षलोकं उपदिशन्तीत्यस्यानुषङ्गः । कथंभूतमन्तरिक्षं तत्राह । तदुभयसंधितं ताभ्यां भूमण्डलद्यु मण्डलाभ्यामुभयतोऽध ऊर्ध्वं च संधितं संलग्नं दृष्टम् ॥ २॥ * * तन्मध्येति । तन्मध्यगतस्तस्यान्तरिक्षस्य मध्ये स्थितः, भगवान् तपतामग्न्यादीनां पतिः श्रेष्ठः । तपनः सूर्यः आतपेन स्वप्रकाशेन, त्रिलोकीं भूर्भुवः स्वरित्यात्मिकां प्रतपति प्रकाशयति । आत्मभासा स्वस्य कान्त्या, अवभासयति त्रिलोकीं स्वस्वकर्मणि प्रवृत्तां करोतीत्यर्थः । किमयं सूर्य एकत्र स्थित एव त्रिलोकी प्रतपत्यवभासयत्युतान्नेव, तर्हि स सदैकरीत्या चरति उत कदाचित्त्वरया कदाचित्समं वा । किं च सर्वदाऽसमभावेन चरत्यूर्ध्वाधः समभावेन वा, यदि तथा तर्हि केषु स्थानेषूध्वं केष्वधः केषु समं, यदि तथाविधस्थानभेदेनास्य तथात्वं तर्हि तत्तद्रतिकृतोऽहोरात्रपरिमाणविभागो भवति न वेत्याद्यपेक्षायामाह स एष इति । स अन्तरिक्षमध्यगतः एषः सूर्यः, उदगयनं च दक्षिणायनं च वैषुवतं च संज्ञा यासां ताभिः, मान्द्यं च शैब्यं च समानं च तानि विद्यन्ते आस्विति ताभिः । अर्शआद्यजन्तम् । गतिभिः, आरोहणं च अवरोहणं च समवस्थानं च तेषु यथासवनं यथाकालं अभिपद्यमानः आरोहणादिकमिति शेषः । मकरादिषु राशिषु वर्त्तमानः सन् अहोरात्राणि अहानि रात्रिश्चेत्यर्थः । दीर्घह्रस्वसमानानि विधत्ते करोति । अत्र विष्णुपुराणे ‘अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरब्देन या गतिः’ इति वाक्यम् । अस्यार्थस्तु द्वयोः काष्ठयोर्दिशोः, उत्तरदक्षिणदिकसंबन्धि उत्तरदक्षिणमार्गसीनोः, अन्तरं मध्ये इत्यर्थः । प्रत्येकं अशीतिमण्डलशतमशीत्यधिकशत- योजनपरिमित मण्डल, उत्तरमार्गमण्डल दक्षिणमार्गमण्डल चोक्तप्रमाणमेवेत्यर्थः । तत्र अब्देन वर्षमध्ये इत्यर्थः । भानोः या गतिः सा आरोहणाव रोहाभ्यां भवतीति शेषः । उत्तरमार्गमण्डले सूर्यस्य गमने आरोहणं दक्षिणमार्गमण्डले सूर्यस्य गमनेऽवरो- हणमित्यर्थः । अनया रीत्याऽशेषग्रहगमनरीतिः ॥ ३ ॥ * * एतदेव प्रतिपिपादयिषुस्तावत्कासु राशिषु चरन्नहोरात्रस्य साम्याधिक्यं दिवि धत्ते इति शङ्कायां राशिकृतं साम्याधिक्यादिविभागमाह यदेति । यदा सूर्यः मेषतुलयोः वर्त्तते, तदा अहो - रात्राणि समानानि भवन्ति । यदा वृषभ आदिर्येषां तेषु, पञ्चसु राशिषु, वृषभ मिथुन कर्क सिंह कन्यासु इत्यर्थः । सूर्यः चरति, तदा अहानि दिनान्येव वर्द्धन्ते । न तु रात्रय इत्यर्थः । यद्यपि वृषभमिथुनयोरेवाह्नां वृद्धिः, कर्कटादिषु ह्रासस्तथापि राज्यपेक्षयाधि- कत्वाद्वर्धन्त इत्युक्तम् । मासि मासि, एकैका घंटिका रात्रिषु ह्रसति । अहस्स्वेकैका घटिका वर्द्धते चेत्यर्थः ॥ ४ ॥ ? W भाषानुवादः " सूर्यके रथ और उसकी गतिका वर्णन A श्रीशुकदेवजी कहते हैं—राजन् ! परिमाण और लक्षणोंके सहित इस भूमण्डलका कुल इतना ही विस्तार है, सो हमने तुम्हें बता दिया ॥ १ ॥ * * इसीके अनुसार विद्वान्लोग द्युलोकका भी परिमाण बताते हैं । जिस प्रकार चना मटर आदिके दो दलों में से एकका स्वरूप जान लेनेसे दूसरेका भी जाना जा सकता है, उसी प्रकार भूलोकके परिमाणसे ही चुलोकका भी परिमाण जान लेना चाहिये। इन दोनों के बीच में अन्तरिक्षलोक है। यह इन दोनोंका सम्धिस्थान है ।। २ ॥ * * इसके स्क. ५ अ. २१ श्लो. ५-८ 1 अनेकव्याख्या समलङ्कृतम्
- ४७५
- मध्यभागमें स्थित ग्रह और नक्षत्रोंके अधिपति भगवान् सूर्य अपने ताप और प्रकाशसे तीनों लोकोंको तपाते और प्रकाशित करते रहते हैं । वे उत्तरायण, दक्षिणायन और विषुवत् नामवाली क्रमशः मन्द, शीघ्र और समान गतियोंसे चलते हुए समयानुसार मकरादि राशियों में ऊँचे नीचे और समान स्थानोंमें जाकर दिन रातको बड़ा, छोटा या समान करते हैं ॥ ३ ॥ * जब सूर्य भगवान् मेष या तुलाराशिपर आते हैं, तब दिन-रात समान हो जाते हैं, जब वृषादि पाँच राशियों में चलते हैं, तब प्रतिमास रात्रियों में एक-एक घड़ी कम होती जाती है और उसी हिसाबसे दिन बढ़ते जाते हैं ॥ ४ ॥
- यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ॥ ५ ॥ यावदक्षिणायन महान वर्धन्ते यावदुद्गयनं रात्रयः ॥ ६ ॥
- •
- एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्व- स्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनी नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम ताम्रयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ॥ ७ ॥ तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति ॥ ८ ॥
- अन्वयः –यदा वृश्चिकादिषु पंचसु वर्तते तदा अहोरात्राणि विपर्ययाणि भवन्ति ॥ ५ ॥ * * यावत् दक्षिणायनम् अहानि वर्धन्ते यावत् उदगयनम् रात्रयः ।। ६ ।। * एवम् मानसोत्तर गिरिपरिवर्तनस्य योजनानाम् नव कोटयः एकपंचाशत् लक्षाणि तस्मिन् मेरोः पूर्वस्मात् ऐन्द्रीम् पुरीम् दक्षिणतः याम्याम् संयमिनीम् नाम पश्चाद् वारुणीम् निम्लोचनीम् नाम उत्तरतः सौम्याम् विभावरीम् नाम चतुर्दिशम् भूतानाम् प्रवृत्तिनिवृत्तिनिमित्तानि तासु उदयमध्याह्नास्तमयनिशीथानि इति समयविशेषेण उपदिशन्ति ।। ७ ।।
- तत्रत्यानाम् सदा दिवसमध्यगतः एव आदित्यः तपति अचलम् सव्येन कुर्वन् अपि दक्षिणेन
- करोति ॥ ८ ॥
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- ॥
- विपर्ययाणीति अहानि न्यूनानि रात्रयोऽधिका इत्यर्थः ॥ ५ ॥
- तद्वृद्धिहासकालमाह । यावदिति ॥ ६ ॥ * * एवं मन्दादिगतिभिः नव कोटय इति मेरोरुभयतो मानसोत्तरस्यान्तर्विस्तारेण पंचदशलक्षाधिककोटि- त्रयपरिमितेनेदं परिमण्डलमानमुन्नेयम् । एवं पंचदशभिर्घटिकाभिरित्यादिष्वपि त्रैराशिकगणितेन तत्तन्मानमुन्नेयम् । अत्रापेक्षितो विशेषः पुराणान्तरादवगन्तव्यः । तत्रारोहणादिस्थानानि वायुपुराणे दर्शितानि “सर्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः । स्थानं जरद्रवं मध्यं तथैरावतमुत्तरम् ॥ वैश्वानरं दक्षिणतो निर्दिष्टमाह तत्त्वतः” इति तदेव मध्यमोत्तरदक्षिणमार्गत्रयं प्रत्येकं वीथीत्रयेण त्रिधा भिद्यते । त्रिभिस्त्रिभिरश्विन्यादिनक्षत्रैर्नागवीथी गजवीथी ऐरावती चेत्युत्तरमार्गे वीथीत्रयम् | आर्षभी गोवीथी जरद्रवी चेति वैषुवते मध्यममार्गे वीथीत्रयम् । अजवीथी मृगवीथी वैश्वानरी चेति दक्षिणमार्गे वीथीत्रयम् । तदप्युक्तं तत्रैव । “अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ॥ पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फाल्गुन्यौ मघा चैवार्षभी मता । हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखाऽनुराधा वीथी जारद्रवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलाषाढोत्तराषाढा अजवीध्यभिशब्दिता || श्रवणं च धनिष्ठा च मार्गी शतभिषस्तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ।। एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते” इति । याम्या भरणी । आदित्या अदितिदेवताका पुनर्वसुः । मार्गी मृगवीथी । एवं स्थिते उत्तरायणे ध्रुवेण युगाक्ष कोटिनिबन्धवायुपाशद्वयाकर्षणे रथस्यारोहणम् । तदाभ्यन्तरमण्डलप्रवेशो गतिमाद्यं चेति दिनवृद्धी रात्रिहास | दक्षिणायने च पाशप्रेरणादवरोहणे बहिर्मण्डलप्रवेशो गतिशैत्र्यं चेत्यहोरात्रयोर्विपर्ययः । वैषुवते तु पाशसाम्या- त्समावस्थाने मध्यमण्डलप्रवेशो गतिसाम्यं चेत्यहोरात्रयोः साम्यमिति । तथा च पुराणान्तरे “आकृष्येते यदा
- तौ तु ध्रुवेण समधिष्ठितौ। तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि तु । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु । तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च” इति । तदेतदुक्तम्- “यदा मेषतुलयोः” इत्यादिना । उदयास्तान्तिकं वक्तुमाह । तस्मिन्मानसोत्तरे मेरोः पूर्वत ऐन्द्री पुरीमुपदिशन्तीत्यनुषंगः । तासु पुरीषूदयादीन्युपदिशन्ति । चतुर्दिशमित्युक्ते ये मेरा दक्षिणे देशे तेषामैन्द्रीमारभ्य पूर्वादयः । ये पश्चिमेतेषां याम्यामारभ्य ये
- उत्तर तेषां वारुणीमारभ्य ये पूर्व तेषा सौम्यामारभ्य ॥ ७ ॥ * * तत्रत्यानां मेरुस्थानाम् । सव्येनेति । नक्षत्राभिमुखतया स्वगत्या मेरुं वामतः कुर्वन्नपि प्रदक्षिणावर्तमवहाख्यवायु भ्राम्यमाणज्योतिश्चक्रवशात्प्रत्यहं दक्षिणतः करोति । अतश्चक्रगतिवशादतिदूरतो भूसंलग्नस्येव दर्शनमुदयः आकाशमारूढस्येव दर्शनं मध्याह्नः भूमिं प्रविष्टस्येव दर्शनमस्तमयः ततोऽतीवदूरगमने निशीथ इति समुद्रतीरस्थदृष्टया च । “अद्भयो वा एष प्रातरुदेत्यपः सायं प्रविशति” इति श्रुतिव्यवहारो न वस्तुतः । तदुक्तं वैष्णवे “उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥ यैर्यत्र
- ४७६
- श्रीमद्भागवतम्
- [ स्कं. ५ अ. २१ श्लो. ५-८
- दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रेति तत्रैवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा स्मृतः । उदयास्त- मनाख्यं हि दर्शनादर्शनं रवेः ॥ शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान् द्वे पुरे तथा” इति । अत एव तत्रैवोक्तम् “तस्माद्दिश्युत्तरस्यां वै दिवा रात्रिः सदैव हि । सर्वेषां द्वीपवर्षाणां मेरोरुत्तरतः स्थितिः” इति । यतो यत्र यः पश्यति सैव तस्य प्राची तस्य वामतो मेरुस्तिष्ठतीति ॥ ८ ॥
- *
- श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः
- इत्यर्थ इति । वृषादिपंचापेक्षया विपरीतानि भवतीति भावः ॥ ५ ॥ * * यावद्दक्षिणायनमिति । उत्तरायणा- दक्षिणायनपर्यन्तमित्यर्थः । एवमग्रेपि ॥ ६ ॥ * * मेरुमानसोत्तरयोरन्तरस्य मानं पञ्चदशलक्षाधिककोटित्रयं सूर्यरथवर्त्मनश्च लक्षद्वयमित्येवं सप्तदशलक्षोत्तरकोटित्रयेण त्रिगुणीकृतेनैतत्परिमण्डलमानं सर्वमण्डलमानम् । एवं त्रिविधगतिभिस्त्रिविधराशिषु वर्त्तमानस्य सूर्यरथस्यैकस्मिन्नहोरात्रे मानसोत्तर शिखरे यत्परिवर्त्तमानं परितो गमनं तस्य मार्गमेकपञ्चाशल्लक्षाधिकनव कोटय इति तन्मार्गज्ञा उपदिशन्तीत्यर्थः । एवं परिमण्डलमानवत् । त्रैराशिको नाम सूत्रमस्ति लीलावत्यां “प्रमाणमिच्छा च समानजाती आद्यन्तयोस्तत्फलमन्यजातिः । मध्ये तदिच्छाहतमाद्यवृत्स्यादिच्छाफलम्” इत्युक्तलक्षणं तच्च गणितज्ञैर्ज्ञेयमस्ति । तत्तन्मानं तस्य तस्य लंघितदेशादेः प्रमाणमुन्नेयं ज्ञेयम् । अत्र प्रकृतेऽपेक्षितोऽपेक्षा विषयो विशेषो भेदः । तत्र विशेषापेक्षायाम् । उदयमध्याह्नयोः प्रवृत्तिनिमित्तत्वं निशीथास्तमनयोर्निवृत्तिनिमित्तत्वं समयविशेषेण संकेतविशेषेण । न हि सर्वदा संचरत उदयादिकमस्तीति भावः । “समयः शपथाचार सिद्धान्तेषु तथा घियि । क्रियाकारेऽथ निर्देशे संकेते कालभाषयोः ।। " इति मेदिनी । आभ्यन्तर- मण्डलप्रवेशो मन्दगतिश्चेति आभ्यन्तरमण्डलस्य स्वल्पभूमित्वात्परिवर्त्तस्य बह्वंशेऽपि सूर्यादिदृष्टिविषयो भवति मेढीसंनिकृष्ट- वृषभवतेश्व मान्यं भवतीत्यर्थः । मण्डलं चेदमेतद्वर्षोपय्यैव गच्छति उत्तरायणमध्याह्ने मूर्द्धन्येव सूर्यो दृश्यत इति । एवं बहिर्मण्डलस्य बहुभूमित्वादस्तमारभ्य परिवर्तस्य स्वल्पांश एव सूर्यादिश्यते मेढीविप्रकृष्टवृषभवद्गतेश्च शैध्यं भवतीत्यर्थः । एवमग्रेऽपि ॥ ७ ॥ * उदयास्तमध्याह्ननिशीथानां वर्षभेदेन व्यवस्थामाह — यत्रेति । समानसूत्रनिपाते निश्चितसंमुखदेशे ।
- व्यवस्थामाह-यत्रेति । निम्लोचयस्तं गच्छति । उद्यानन्तरं त्रिंशद्वटिकान्ते स्पन्देनाकाशमध्यस्थः सन्प्रस्वेदोद्गमेन तस्य देशस्य समानसूत्रपातविषयीभूते देशे त्रिंशद्धटिकानन्तरं गतः सन्निति शेषः । प्रस्वापयति निशीथं करोति येऽस्तमुदयचानुपश्येरंस्ते जनास्तत्र गतं सूर्यं न पश्यन्त्यत एव स्वपन्ति तेन च मेरोर्दिकचतुष्टये स्थितेषु मध्ये यदा यत्र सूर्यस्योदयो दृश्यते तदैव तस्मात्पूर्वे वर्षे मध्याह्नः पश्विमे वर्षे निशीथः उत्तरवर्षे निम्लोचो ज्ञेयः । एवं मध्याह्नदर्शनसमय एवं पूर्ववर्षे निम्लोचः पश्चिमवर्षे उदय उत्तरवर्षे निशीथश्च ज्ञेयः । अस्तदर्शन- समये एव पश्चिमवर्षे मध्याह्नः पूर्ववर्षे निशीथ उत्तरवर्षे उदयश्व ज्ञेयः । तदेवं सर्ववर्षस्था अपि मेरो दक्षिणदेशस्थाने चात्मनो मन्यमानाः स्ववर्षे सूर्यस्योदयमध्याह्ननिम्लोचान्पश्यन्त एवान्येषु वर्षेषु तान्पूर्वोक्तविवेकेन जानन्तीति संक्षेपः । विष्णुपुराणीय- श्लोकव्याख्या - यदा शक्रपुर्यां तिष्ठति तदा पुरत्रयमिन्द्रयमसौम्यानां पुरं विकर्णौ द्वावीशानवह्निकोणौ स्पृशति अन्यपुरेषु विकर्णेषु च स्पर्शाभावो मेरुणा व्यवायात् । एवं विकर्णस्थो वह्निपुरस्थो यदा भवति तदा त्रीन्वह्निनिर्ऋतीशानकोणान्द्रे पुरे इन्द्रयमपुरे च स्पृशति नान्यद्वोक्तयुक्तेरिति । एवं याम्यादिपुरस्थस्यापि बोद्धव्यम् । एतद्भग्यन्तरेणाह - शक्रपुरे तिष्ठन् शक्रदिग्वर्षे मध्याह्न दक्षिणदिग्वर्षे उदयम् उत्तरदिग्वर्षेऽस्तमनं करोतीति पुरत्रयस्पर्शः । अग्निकोणवर्षे प्रथमं याममीशानकोणवर्षे तृतीयं यामं करोतीति विकर्णद्वयस्पर्शः । विकर्णस्य अग्न्याद्यन्यतम कोणस्थः संस्त्रीन्कोणान्द्वे पुरे द्वे दिशौ च स्पृशति । तथाहि - अग्निकोणे तिष्ठन् अग्निकोणवर्षे मध्याह्नं नैर्ऋतकोणवर्षे उदयम् ईशानकोणेऽस्तमनं करोतीति कोणत्रयस्पर्शः । तथा दक्षिणदिग्वर्षे प्रथमो यामः पूर्वदिग्वर्षे तृतीयो याम इति पुरद्वयस्पर्शो दिग्द्वयस्पर्शश्च । एवमन्येषु कोणेष्वपि च द्रष्टव्यम् । अत एव व्युदयास्तमनस्यानियतत्वा- देव । तत्रैव विष्णुपुराण एव ।। ८-९ ।।
- श्रीमद्वीरराघवव्याख्या
- यद्यपि वृषभमिथुनयोरेवाह्नां वृद्धिः कर्कटादिषु ह्रासस्तथापि राज्यपेक्षयाधिकत्वाद्वर्द्धन्त इत्युक्तं ह्रसति चेति मासि मासि रात्रिषु एकैका घटिका ह्रसति चाहस्सु एकैका घटिका वर्द्धते चेत्यर्थः । वृश्चिकधनुर्मकर कुम्भराशिषु पञ्चसु वर्तते चरति तदाहोरात्राणि विपर्ययाणि रात्रयो वर्द्धन्तेऽहानि हसन्तीत्यर्थः । पूर्ववद्दिनापेक्षयात्र हासो बोध्यः । अत्राप्यकैका घटिका रात्रिषु वर्द्धतेऽहस्सु हसतीत्यवगन्तव्यमिदं च स्थूलदृष्टयोक्तं वृद्धिहासयोः प्रतिमासवैषम्यादथ तात्त्विकं वृद्धिहासमाह यावदिति । दक्षिणायनपर्यन्तमहान वर्द्धन्ते रात्रयो हसन्ति तत उत्तरायणपर्यन्तम् अहानि सन्ति रात्रयो वर्द्धन्त इत्यर्थः । एतदेव प्रपचितं श्रीवैष्णवे -
- " अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशिराश्यन्तरं द्विज ।। त्रिष्वेतेषु च भुक्तेषु ततो वैषुवती गतिः । प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥
स्क. ५ अ. २१ श्लो. ५०८ ] अनेकव्याख्यासमलङ्कृतम् ततो रात्रिः क्षयं याति वर्द्धतेऽनुदिनं दिनम् । ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः ॥ राशि कर्कटकं प्राप्य कुरुते दक्षिणायनम् । कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्त्तते ॥ अतिवेगितया कालं वायुवेगगतश्चरन् । तस्मात् प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ सूर्यो द्वादशभिः शैध्यान्मुहूर्तेर्दक्षिणायने । त्रयोदशार्द्धमृक्षाणां ह्रासमाचरते द्विज ॥ मुहूर्त्तेस्तावक्षाणि वक्तुमष्टादशैश्चरन् । कुलालचक्रमध्यस्थो यथा मन्दं प्रवर्त्तते ॥ तथोदगयने सूर्यः सर्पते मन्दविक्रमः । तस्माद्दीर्घेण कालेन भूमिमल्पां च गच्छति ॥ अष्टादशमुहूर्तं तु उत्तरायणपश्चिमम् । अहो भवति तत्रापि चरते मन्दविक्रमः ॥ त्रयोदशार्द्धमह्नां वै ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् || । अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते ॥ ध्रुवस्तथा हि मैत्रेय ! तत्रैव परिवर्तते । उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु ।। दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः । एवं प्रमाणमेवैष मार्गं याति दिवाकरः ॥ अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज । षडेव राशीन् यो भुङ्क्ते रात्रावान्यांश्च षदिवा ।। राशिप्रमाणजनिता दीर्घ स्वात्मता ततः । तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता || दिनान्ते दीर्घस्वत्वं तद्भागेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा || दक्षिणे व्वयने सैव विपरीता विवस्वतः ।।” ४७७ इति यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति इत्यनेन उत्तरायणे मेषमा से साम्यमहोरात्रस्य दक्षिणायने तुलामासे साम्यमित्युक्तमेतदेव श्रीवैष्णवेऽप्युक्तम् “तुला मेघगते भानौ समं रात्रिदिनं तु तत्” इति । एवं सूर्यस्य मन्दादि - गतिभिरहोरात्रपरिमाणविभाग उक्तः । अथाहोरात्रविभागात्परिमाणविभागाद्यर्थम् । मानसोत्तरे मेरुं परिभ्रमता सूर्येण कति योजनानि परिभ्रमितानि भवन्तीत्यपेक्षायामाह एवमिति । एवं मन्दादिगतिभिर्मानसोत्तरगिरिपरिवर्त्तमानस्य मानसोत्तरे मेरुपरिवर्तमानस्य योजनानां तेन परिभ्राम्यमाणानां नवकोटय एकपञ्चाशल्लक्षाणि चेत्युपदिशन्ति इत्यर्थः । अथोदयास्तमयादि- स्वरूपं विविक्षुस्तदुपोद्घातं प्रपञ्चयति तस्मिन्नित्यादिना विभावरी नामेत्यन्तेन । तस्मिन्मानसोत्तरगिरौ पूर्वस्मात्पूर्वस्मिन् दिशि देवधानीं नाम पुरीं दक्षिणदिशो नाम्ना संयमनी पुरौं पश्चिमे वारुणीं नाम वरुणाधिष्ठितां निम्लोचनीं नाम उत्तरतः सौम्यां सोमाधिष्ठितां विभावरीं नाम पुरीमुपदिशन्तीति पूर्वेणान्वयः । ऐन्द्रीमिति इन्द्राधिष्ठितामिन्द्रेण रक्ष्यमाणामित्यर्थः । तथा याम्यामिति यमेन पाल्यमानामिति ज्ञेयम् । अथोदयादिकमाह ताविति । तासु देवधान्यादिचतसृषु पुरीषु मेरोचतुर्दिशं चतुर्दिक्षु समयविशेषेण कालविशेषेण भूतानां भूमण्डलस्थानां प्रवृत्तिनिवृत्तिनिमित्तानि व्यापारतदभावनिमित्तानि उदयादीनि भवन्ति । तत्रास्तमयान्तानि प्रवृत्तिनिमित्तानि उद्यादीनि प्रवृत्तिनिमित्तानि निशीथादीनि निवृत्तिनिमित्तानि तदा भूतानां सुप्तत्वादिति विवेक: । आदिशब्दा- त्पूर्वोत्तररात्रेर्मार्गाविवक्षिताः, मेरोश्चतुर्दिशमित्यस्यायं भावः यानि मेरोर्दक्षिणतः भूतानि तेषामैन्द्रीमारभ्य पूर्वादयो दिशस्तु क्रमेण उदद्यादयश्चत्वारो भवन्ति यानि पश्चिमतः येषां याम्यामारभ्य यान्युत्तरतस्तेषां वारुणीमारभ्य यानि पूर्वतस्तेषां सौम्यामारभ्येति ज्ञेयमिति मेरौ स्थितानां तु नोदयादिकमस्तीत्याह तत्रत्यानामिति । तत्रत्यानां मेरी स्थितानां तु भूतानामादित्यः दिवसमध्यं गतः एव मध्याह्नगत एव सदा विधानः व्यापारयन् तपति प्रकाशते, किञ्च सर्वेषां द्वीपवर्षाणां मेरुमुत्तरं करोतीत्याह सव्येनेति । आदित्यं पश्यतां सव्येन स्थितं मेरुमारभ्य स्वदक्षिणभागे स्थितं करोतीत्यर्थः । यत्र यः पश्यत्यादित्यं सैव तत्र प्राची तस्य च वामतो मेरुस्तिष्ठतीति भावः । समयविशेषेणेत्यस्यायमभिप्रायः “उदयास्तमने चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा मैत्रेय ! विदिशासु च ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः। उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान् द्वे पुरे तथा ॥” इति विष्णुपुराणोक्तरीत्या दक्षिणावर्त्तमवहाख्यवायुना भ्रममा ज्योतिश्चक्रवशादतिदूरतो भूसंलग्नस्येव कालविशेषे दर्शनमुदयः, आकाशमारूढस्येव दर्शनं मध्याह्नः, भूमिप्रविष्टस्येव दर्शनमस्तमयः, ततोऽति दूरगमने निशीथ इति काल- विशेषकृताविर्भावादिकमेवोदयास्तादिकमिति । एवम् “अद्भयो वा एष प्रातरुदेति अपः सायं प्रविशति” इति श्रौतव्यवहारोऽपि समुद्रतीरस्थदृष्टिकृतः, मानसोत्तरे भ्रमतो रवेरप्सु प्रवेशासम्भवादिति भावः ॥ ५-८ ॥ श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली एतदेव विविच्य दर्शयति यदेति । वृषभादिकन्यान्तेषु वृद्धिश्च ह्रासश्च भवतः तौ कियन्ताविति तत्राह । मासीति वर्द्धते ह्रसति चेति शेषः । अत्र वृद्धिहासयोरेकैका घटिकेति नियमो नास्ति त्रिचतुरादिवृद्धिदर्शनात्तर्हि मुहूर्तानामपि वृद्धि- हासौ स्यातामिति नेत्याह । तुल्यं दिवसमिति । त्रिंशन्मुहूर्तमेव दिवसमाहुरित्यर्थः । कथं तुल्यतेति तत्राह । वर्द्धमानानीति । वर्द्धमानान्य- Use श्रीमद्भागवतम् [ स्कं. ५ अ. २१ श्लो. ५-८ हानि भवन्ति तावतीस्तावत्यो वर्द्धमाना रात्रयश्च संक्षीयमाणाः हसन्त्यश्न यास्ताः समुद्धृत्य घटिकाभिरेकीकृत्य त्रिंशन्मुहूर्तान्यहो- रात्राणि समानानि भवन्ति । वृश्चिकादिषु मीनान्तेषु अहोरात्राणि विपरीतानि अहानि इसन्ति रात्रयो वर्द्धन्ते ॥ ५ ॥ * * मकरादिषु वृश्चिकादिषु मेषतुलयोरित्येतेषु कथितं सङ्गृह्याह यावदिति । अथवा आवहप्रवहोद्वहसंवविवह परा वह परिवहना- मानः सप्त वायवो ज्योतिश्चक्रस्य प्रवर्तकास्तत्र ज्योतिश्चक्राधिपत्यादित्यगमनस्य तिस्रो वीथ्यो मध्यमोत्तरा दक्षिणा च तदुक्तम् “सर्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः ! । स्थानं जारद्रवं मध्यं तथैरावतमुत्तरम्। वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ।। " इति तच वीथीत्रयमेकैकं त्रिधाभिपद्यते अश्विन्यादिनक्षत्राणां त्रिभिस्त्रिभिर्नक्षत्रैर्नागवीथी गजवीध्यैरावती वीथीत्युत्तरमार्गे वीथी- त्रयम् । आर्षभी गोवीथी जारद्रवी चेति वैषुवे मध्यमार्गे वीथीत्रयम् । एतद्वायुपुराणे कथितम् । ‘अश्विनी कृत्तिका याम्या नागवीथी तु शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीध्यभिधीयते ॥ पुण्याश्लेषा तथादित्या वीथी चैरावती मता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फाल्गुन्यौ मघा चैवार्षभी मता । हस्तचित्रे तथा स्वाती गोवीथीति तु शब्दिता ।। ज्येष्ठा विशाखानुराधा वीथी जारद्रवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।। ’ याम्या भरणी, आदित्या अदितिदेवताका, पुनर्वसुः, मार्गी मृगवीथी । तत्र च युगानकोटिसम्बद्धवायुपाशद्वयस्य ध्रुवेणा- कर्षणं यदा तदाभ्यन्तरमण्डलगमनाय रथनीडस्यारोहणं वायुपाशशैथिल्ये च बहिर्मण्डलगमनार्थमवरोहणम् । ‘आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ । तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि तु ॥ ध्रुवेण मुच्यमानेन पुरा रश्मियुगेन तु । तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ।।’ इति तत्र बाह्यवीध्यां गतस्य शीघ्रगतित्वाद्दिनहासो रात्रिवृद्धिश्च अभ्यन्तरबीध्यां गतस्य मन्दगतित्वाद्रात्रिक्षयो दिन- वृद्धिश्च मध्यान्तरवीभ्यां गतस्य समानगतित्वादहोरात्र साम्यमित्यादिविशेषस्तु कालविशेषवेदिभिरवगम्यत इति तदधिकारित्वादस्मा- भिरत्र यत्नो न क्रियत इति ॥ ६ ॥ * * इदानीमेकाहोरात्रगन्तव्य मार्गसङ्ख्यामाह एवमिति । एवं त्रिविधगतिभिः त्रिविधराशिषु वर्तमानस्यादित्यस्य रथचक्रस्यैकस्मिन्नहोरात्रे मानसोत्तर शिखरे यत्परिवर्तमानं परितो भ्रमणं तस्य मार्गमेकपञ्चा- शलक्षाधिकनवकोटय इति व्यपदिशन्ति तन्मार्गज्ञा इति शेषः । तस्मिन्मानसोत्तरपर्वते पूर्वस्मान्मेरोः पूर्वदिक्सूत्रनिपाते दक्षिणत आदिष्वेवं सौम्या सोमस्य विद्यमाना तासु पुरीषु तत्पुरद्वारेष्वादित्यस्य यानि गमनान्युदयादिसंज्ञानि स्युः समयविशेषेण सङ्केत- विशेषेण । न हि सर्वदा सञ्चरतः उदयादिकमस्ति मेरोश्चतुर्दिशं स्थितानां भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि तत्रोदयमध्याह्न प्रवृत्ति- निमित्ते अस्तङ्गमनमीषन्निवृत्तिनिमित्तम्। निशीथगतिरह्ना संचरमाणानां सम्यङ् निवृत्तिनिमित्तभूता, निशीथमर्द्धरात्रम् ॥ ७ ॥ * * तत्रत्यानामिलावृत्तखण्डनिवासिनां सत्येनाचलमचलस्य मेरुनाम्नो वामपार्श्वतो गच्छन्नचलं दक्षिणेन स्वस्य दक्षिणतः सर्वदा करोति “सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः” इति न्यायेन सर्वदिङ्मुखस्यापि मेरोः पूर्वाभिमुखत्वात् सर्वत्र गच्छन् सव्येनैव गच्छत्यादित्य इत्यर्थः । गतिघटनोपरि वक्ष्यते च ॥ ८ ॥ श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः به ندای بسته एकपञ्चाशल्लक्षाणि चेति विचार्यम् । मण्डलत्रैगुण्येन पञ्चचत्वारिंशल्लक्षाधिकत्वमेव स्यात, किन्तु मूलमते मानसोत्तरः पुष्करद्वीपार्द्धमतिक्रम्य लक्षद्वययोजनोपरि स्यात् । टीकायां वायुपुराणमतेन वीथीगणना न तु नक्षत्राणामवस्थितिक्रमेण तेषामन्यत्रा- न्यत्र दृश्यमानत्वात् । न च भोगक्रमेण । तथा च सति आरोहावरोहाभ्यां रेवत्यश्विन्योरव्यवहितवीध्योर्व्यवहितवीथ्योश्चित्राश्विन्यो- चैकस्यामेव वीथ्यां गणना स्यात् । ततस्तेषां नक्षत्राणां तत्र तत्र सम्बन्धः केनचित् प्रकारान्तरेणैव स्यात् । तच तासां तत्तद्वीथ्य- धिष्ठातृदेवतात्वेनैवेति ज्ञेयम् । तथा टीकायामेव तदाभ्यन्तरमण्डलप्रवेशो गतिमांद्यचेति । अन्तंमण्डलस्य स्वल्पभूमित्वात् परिवर्त्तस्य बह्वंशेऽपि सूर्यादिदृष्टिविषयो भवति । मेढिसन्निकृष्टवृषभवद्गतेश्च मान्यं भवतीत्यर्थः । मण्डलचेदमेतद्वर्षोपर्येव गच्छति । उत्तरायण- मध्याह्ने मूर्द्धन्येव सूर्यो दृश्यते इति । एवं बहिर्मण्डलस्य बहुभूमित्वादस्तमारभ्य परिवर्त्तस्य स्वल्पांश एव सूर्यादिश्यते । मेदि - विप्रकृष्टवृषभवतेश्व शैघ्यं भवतीत्यर्थः ।। ७-८ ।। I श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी विपर्ययाणीति । अहानि न्यूनानि रात्रयोऽधिका इत्यर्थः ॥ ५ ॥ यावद्दक्षिणायनमिति । उत्तरायणाद्दक्षिणा- यनपर्यन्तमित्यर्थः । एवमग्रेऽपि ॥ ६ ॥ नवकोटय इति । मेरोरुभयतो मानसोत्तरस्यान्तर्विस्तारो यस्तस्य परिमाणं पञ्चदशलक्षाधिककोटित्रयं सूर्यरथवर्त्मनश्च लक्षद्वयमित्येवं सप्तदशलक्षोत्तर कोटित्रयेण त्रिगुणीकृतेनैतत् परिमण्डलमानमुन्नेयं मेरोः पूर्वस्मात् पूर्वस्यां दिशि यन्मानसोत्तरं तस्मिन्नैन्द्रीं पुरीमुपदिशन्तीत्यनुषङ्गः । तासु पुरीषूदद्यादीन्युपदिशन्ति । चतुर्दिशमित्युक्तेर्थे मेरोर्दक्षिणे देशे वर्त्तेरन् तेषामैन्द्रीमारभ्य पूर्वादयः ये पश्चिमे तेषां याम्यामारभ्य ये उत्तरे तेषां वारुणीमारभ्य ये पूर्वे तेषां सौम्या - 1स्कं. ५ अ. २१ श्लो. ५-८ ] अनेकव्याख्या समलङ्कृतम् ४७९ मारेभ्य अत एव “सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः” इति वैष्णवोक्तिः ॥ ७ ॥ * * तत्रत्यानां मेरुस्थानां सव्येनेति नक्षत्राभिमुखतया स्वगत्या मेरु वामतः प्रकुर्वन्नपि प्रदक्षिणावर्त्तप्रवर्त्तकप्रवहाख्यवायुना भ्राम्यमाणज्योतिश्चक्रवशात् प्रत्यहं दक्षिणतः करोति । अतश्चक्रगतिवेशादतिदूरतः भूसंलग्नस्येव दर्शनमुदयः आकाशमध्यमारूढस्येव दर्शनं मध्याह्नः भूमिप्रविष्ट- स्येवादर्शनमस्तमयः । ततोऽतिविदूरगमने निशीथ इति । अत एव समुद्रतीरस्थदृष्टया च “अद्भयो वा एष प्रातरुदेत्यपः सायं प्रविशति” इति श्रुतिरपि व्यवहारतो न तु वस्तुतः ॥ ८ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः विपर्ययाणीति रात्रयो वर्द्धन्ते अहःसु एकैका घटिका हसति अत्रापि रात्रीणां वृद्धि: मासि मासि घटिकाहासश्च पूर्ववदेव ।। ५-६ ।। * * एवं मन्दादिगतिभिः मानसोत्तर गिरिपरिवर्तनस्य नव कोटयः एकपञ्चाशल्लक्षाणि चेत्युपदिशन्ति तस्मिन्मानसोत्तरे मेरोः पूर्वतः ऐन्द्री देवधानीं नामोपदिशन्तीत्यनुषङ्गः । मेरोश्चतुर्दिशं तासु पुरीषु समयविशेषेण कार्यप्रवृत्तिनिवृत्ति- कालभेदेन भूतानां कार्यप्रवृत्तिनिवृत्त्योः निमित्तानि उदद्यादीन्युपदिशन्ति । चतुर्दिशमित्यनेन मेरोर्दक्षिणा दिदेशस्थानामैन्द्यादिषु क्रमेणोदयादीनि स्युरित्युक्तम् । यथोक्तं श्रीविष्णुपुराणे “यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवा- स्तमनं रवेः ॥” इति ॥ ७ ॥ * मेरुस्थानां तूयादिकं नेत्याह । तत्रत्यानामिति । सव्येनाचलं दक्षिणेन करोतीति नक्षत्रा-
- । णामभिमुखतया स्वगत्या मेरुं सव्येन कुर्वन्नपि प्रदक्षिणावर्त प्रवहाख्यवायुप्रचालितज्योतिश्चक्रगतिवशाद्दक्षिणेन करोति दक्षिणतः करोति ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी स एष सूर्यः यथासवनं यथाकालं आरोहणादिस्थानेषु मकरादिराशिष्वभिपद्यमानः प्राप्तः सन् उदगयनादिसञ्ज्ञाभिर्मन्दा- दिभिः गतिभिरहोत्राणि दीर्घहस्वसमानानि विधत्ते इत्यन्वयः ॥ ५ ॥ * * एतदेव प्रपञ्चयति यदेत्यादिना । मेषतुलयोः समानस्थानयोर्वैषुवतसज्ञेया समानगत्या वर्त्तते प्रचलति । अत्यन्त वैषम्याभावात् समानानीत्युक्तम् । सर्वथा साम्यत्वं त्वेकस्यैवा- होरात्रस्येति ज्ञेयम् ॥ ६ ॥ * * यद्यपि वृषभमिथुनयोरेवाह्नां वृद्धिः कर्कटादिषु च ह्रासस्तथापि राज्यपेक्षयाऽधिकत्वाद्वर्द्धन्ते इत्युक्तम् । एवं रात्रिवृद्धावपि द्रष्टव्यम् । दिनापेक्षया न्यूनत्वाद्ध्रसतीत्युक्तम् । वस्तुतस्तु मकरादिष्वहां वृद्धिप्रक्रमः । कर्कटादिषु ह्रास प्रक्रमः । एकैका घटिकेत्यपि स्थूलदृष्टचैवोक्तम् । वृद्धिहासयोः प्रतिमासं वैषम्यात् ॥ ७ ॥ * विपर्ययाणि भवन्तीति अहानि न्यूनानि रात्रयश्चाधिका भवन्तीत्यर्थः ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी यदेति । यदा वृश्चिकादिषु पञ्चसु राशिषु वर्त्तते, वृश्चिकधनमकरकुम्भमीनेषु पञ्चसु राशिषु विचरतीत्यर्थः । तदा अहोरात्राणि विपर्ययाणि, रात्रयो वर्द्धन्तेऽहानि हसन्तीत्यर्थः । अत्रापि पूर्ववद्दिनापेक्षया हासो बोध्यः । अत्राप्येकैका घटिका रात्रिषु वर्द्धतेऽहस्तु च हसतीत्यवगन्तव्यम् । तद्यथा मेषे त्रिंशद्वटिकात्मकमहः, वृषभे एकत्रिंशद्धटिकात्मकं मिथुने द्वात्रिंशद्ध- टिकात्मकं कर्के त्रयस्त्रिंशद्धटिकात्मकं, सिंहे द्वात्रिंशद्वटिकात्मकं कन्यायामेकत्रिंशद्धटिकात्मकं तुलायां पुनस्त्रिंशद्धटिकात्मकं, एवं मेषे त्रिंशद्धटिका रात्रिः, वृषभे एकोनत्रिंशद्धदीमिता, मिथुनेऽष्टाविंशतिघटीमिता, कर्के सप्तविंशतिघटीमिता, सिंहेऽष्टाविंशति- घटीमिता, कन्यायामेकोनत्रिंशद्धदीमिता, पुनस्तुलायां त्रिंशद्धदीमितैवं वृश्चिकादिषूक्तवैपरीत्यम् । इदं च स्थूलदृप्रयोक्तं वृद्धिह्रासयोः प्रतिमासं तदन्तरवर्त्यहःसु वैषम्य दर्शनात् ॥ ५ ॥ * * अथ तात्त्विकं तद्वृद्धिहासकालमाह यावदिति । यावद्दक्षिणायनं दक्षिणायनपर्यन्तं, सूर्यस्य मकरसंक्रमणमारभ्य कर्कसंक्रमणपर्यन्तमित्यर्थः । अहानि दिवसाः वर्द्धन्ते । यावदुद- गयनमुदगयनपर्यन्तं, सूर्यस्य कर्क संक्रमणमारभ्य मकरसंक्रमणपर्यन्तमित्यर्थः । रात्रयः वर्द्धन्ते । एतदेव प्रपचितं श्रीवैष्णवे पुराणे द्वितीयेऽशेऽष्टमेऽध्याये ‘अयनस्योत्तरस्यादौ मकरं याति भास्करः । त्रिष्वेतेषु च भुक्तेषु च ततो वैषुवतीगतीः ॥ प्रयाति सविता कुर्वन्नहोरात्रं ततः समम्’ इत्यादिना । अत्रापेक्षितो विशेषः पुराणान्तरादवगन्तव्यः । तत्रारोहणादिस्थानानि वायुपुराणे दर्शितानि ‘सर्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः । स्थानं जारद्रवं मध्यं तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ’ इति । तदेवं मध्यमोत्तरदक्षिणमार्गत्रयं प्रत्येकं वीथीत्रयेण त्रिधा भिद्यते, त्रिभिस्त्रिभिरश्विन्या दिनक्षत्रैर्नागवीथी गंजवीथी ऐरावती चेत्युत्तरमार्गे वीथीत्रयम् । आर्षभी वीथी गोवीथी जरद्रवी वीथी चेति वैषुवताख्ये मध्यममार्गे वीथीत्रयम् । अजवीथी मृगवीथी वैश्वानरी बीथी चेति दक्षिणमार्गे वीथीत्रयम् । तदप्युक्तं तत्रैव ‘अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीध्यभिधीयते । पुण्याऽश्लेषा तथादित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग || । उयते । तथा द्वे चापि फागुभ्यो मघा चैवार्षभी मता । हस्तचित्रा तथा स्वातिगवीथीति तु शब्दिता । ज्येष्ठ विशाखानुराधा || । ॥ श्रीथी जारद्रवी मता । पतास्तु बीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ मूलाषादोन्तराषाढा अजवीध्यभिशब्दिता । श्रवणं च धनिया | ४८० श्रीमद्भागवतम् [ स्कं. ५ अ. २१ श्लो. ९-१२ च मार्गी शतभिषक तथा || वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।’ याम्या भरणी, आदित्या अदितिदेवताका पुनर्वसुः, मार्गी मृगवीथी, एवं स्थिते नाक्षत्रे मण्डले सति उत्तरायणे ध्रुवेण युगाकोटिनिबद्धवायु पाशद्वयाकर्षणे रथस्यारोहणं भवति । तथाभ्यन्तरमण्डलप्रवेशो गतिमान्धं चेति दिनवृद्धिः । रात्रिहासश्च दक्षिणायने च पाशप्रेर- णादवरोहणे बहिर्मण्डलप्रवेशो गतिशैध्यं चेत्यहोरात्रयोर्विपर्ययः । वैषुवते तु पाशसाम्यात्समवस्थाने मध्यमण्डल प्रवेशो गतिसाम्यं चेत्यहोरात्रयोः साम्यमिति । तथा च पुराणान्तरम् ‘आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ । तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि तु || ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु । तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च’ इति । तदेतदुक्तं यदा मेषतुलयोरि- त्यादिना ॥ ६ ॥ * * एवं सूर्यस्य मन्दादिगतिभिरहोरात्रपरिमाणविभाग उक्तः । अथाहोरात्रेण सूर्यस्य ज्योतिश्चक्रद्वारा- तिक्रमाध्वपरिमाणविभागं वक्तुं मानसोत्तरगतचक्रवद्रथस्थेन मेरुं परिभ्रमता सूर्येण कति कतिपरिमितयोजनानि परिभ्रमितानि भवन्तीत्यपेक्षायामाह एवमिति । एवं मन्दादिगतिभिः मानसोत्तरगिरिपरिवर्तनस्य मानसोत्तर गिरेः परिक्रमणस्य संबन्धिनां योजनानां तेन परिभ्रम्यमाणाध्वयोजनानामित्यर्थः । नव कोटय एकपञ्चाशल्लक्षाणि च इति उपदिशन्ति । तज्ज्ञा इति शेषः । तस्मिन्मानसोत्तर गिरौ मेरोः पूर्वस्मात् पूर्वस्यां दिशीत्यर्थः । देवधानों नाम ऐन्द्रीमिन्द्रसंबन्धिनीं पुरीं दक्षिणतो मेरोर्दक्षिणस्यां दिशि, संयमनी नाम याम्यां यमस्य पुरी, पश्चान्मेरोः पश्चिमायां दिशि निम्लोचनीं नाम वारुणीं वरुणस्य पुरी, मानसोत्तरस्था वरुणपुरी पिम्लोचनीसंज्ञा, मेरुस्था श्रद्धावती संज्ञा, समुद्रान्तःस्था विभावरीति विवेकः । उत्तरतः मेरोरुत्तरतः, विभावरी नाम सौम्यां कौबेरी पुरीम् उपदिशन्ति वदन्ति । अथोदयास्तादिकं वक्तुमाह । तासु देवधान्यादिचतसृषु पुरीषु, मेरोः चतुर्दिशं समय- विशेषेण, भूतानां भूमण्डलस्थानां प्रवृत्तिनिवृत्तिनिमित्तानि व्यापारतदभावहेतुभूतानि, उदयच मध्याह्नच अस्तमयश्च निशीथं च तानि । निशीथशब्दस्य क्लीबत्वमार्षम् । करोतीति शेषः । तत्रास्तमयादीनि निवृत्तिनिमित्तानि, उदद्यादीनि प्रवृत्तिनिमित्तानि । आदिशब्दात् रात्रेरह्नश्च पूर्वोत्तरभागा विवक्षिताः । चतुर्दिशमित्युक्तेर्ये मेरोर्दक्षिणे देशे तेषामैन्द्रीमारभ्य पूर्वादयः, ये पश्चिमे तेषां याम्यामारभ्य, ये उत्तरे तेषां वारुणीमारभ्य, ये पूर्वे तेषां सोम्यामारभ्य पूर्वादय इति ज्ञेयम् ॥ ७ ॥ * मेरी स्थितानां तु नोदयादिकमस्तीत्याह तत्रत्यानामिति । तत्रत्यानां मेरौ स्थितानां भूतानां तु आदित्यः, दिवसमध्यं गतः मध्याह्नतां गतः सन्नेव, सदा तपति संप्रकाशते । किं च सर्वेषां द्वीपवर्षवासिनां मेरोरुत्तरगतत्वमाह सव्येनेति । अचलं मेरुं, सव्येन नक्षत्राभिमुखतया स्वगत्या वामतः कुर्वन्नपि दक्षिणेन प्रदक्षिणावतं प्रवहाख्यवायु भ्राम्यमाणज्योतिश्चक्रवशात्प्रत्यहं दक्षिणतः करोति । आवहप्रवहोद्वहसंवहविवहपरा वह परिवहनामा नः सप्त वायवो ज्योतिश्चक्रप्रवर्त्तका इत्येके । प्रवह एव तत्प्रवर्त्तक इत्यन्ये । ‘सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः ।’ इत्युक्तः सूर्यस्य मेरोर्वामकरणत्वम् । एवं चक्रगतिवशादतिदूरतो गमनेन भूसंल- प्रस्येव दर्शनं तूदयः । आकाशमारूढस्येव दर्शनं मध्याह्नः । भूमिं प्रविष्टस्येव दर्शनमस्तमयः । ततोऽतीव दूरगमने निशीथ इति । समुद्रतीरस्थदृष्टया च, ‘अद्भयो वा एष प्रातरुदेत्यपः सायं प्रविशति’ इति श्रुतिव्यवहारो न वास्तवः । तदुक्तं वैष्णवे ‘उदयास्तमये चैव सर्वकालं तु संमुखे । दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावं च यत्रेति तत्रैवास्तमनं रवेः ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः । शक्रादीनां पुरे तिष्ठन्स्ट- शत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान् द्वे पुरे तथा’ इति । अतो यत्र यः पश्यति सैव तस्य प्राची तस्य च वामतो मेरुस्तिष्ठति इति ॥ ८ ॥ भाषानुवादः · ‘” जब वृश्चिकादि पाँच राशियोंमें चलते हैं, तब दिन और रात्रियोंमें इसके विपरीत परिवर्तन होता है ॥ ५ ॥ * इस प्रकार दक्षिणायन आरम्भ होनेतक दिन बढ़ते रहते हैं और उत्तरायण लगनेतक रात्रियाँ ॥ ६ ॥ * * इस प्रकार पण्डितजन मानसोत्तर पर्वतपर सूर्यकी परिक्रमाका मार्ग नौ करोड़, इक्यावन लाख योजन बताते हैं। उस पर्वतपर मेरुके पूर्व की ओर इन्द्रकी देवधानी, दक्षिणमें यमराजकी संयमनी, पश्चिममें वरुणकी निम्लोचनी और उत्तर में चन्द्रमाकी विभावरी नामकी पुरियाँ हैं । इन पुरियों में मेरुके चारों ओर समय- समयपर सूर्योदय, मध्याह्न, सायङ्काल और अर्धरात्रि होते रहते हैं; इन्हींके कारण सम्पूर्ण जीवोंकी प्रवृत्ति या निवृत्ति होती है ॥ ७ ॥ * राजन् ! जो लोग सुमेरुपर रहते हैं उन्हें तो सूर्यदेव सदा मध्याह्नकालीन रहकर ही तपाते रहते हैं । वे अपनी गतिके अनुसार अश्विनी आदि नक्षत्रोंकी ओर जाते हुए यद्यपि मेरुको बायों ओर रखकर चलते हैं, तो भी सारे ज्योतिर्मण्डलको घुमानेवाली निरन्तर दायीं ओर बहती हुई प्रवह वायुद्वारा घुमा दिये जानेसे वे उसे दायीं ओर रखकर चलते जान पड़ते हैं ॥ ८ ॥ यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ ९ ॥ १. प्रा० पा० प्रस्थापयति । स्क. ५ अ. २१ श्लो. ९-१२] अनेकव्याख्यासमलङ्कृतम् ૪૮° यदा चैन्द्याः पुर्याः प्रचलते पञ्चदशघटिकाभियम्यां सपादकोटिद्वयं योजनानां सार्थद्वादशलक्षाणि साधि- कानि चोपयाति ॥ १० ॥ एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति ॥ ११ ॥ एवं मुहूर्तेन चतुस्त्रिशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयी- मयोऽसौ चतसृषु परिवर्तते पुरीषु ॥ १२ ॥ •
-
अन्वयः - यत्र उदेति तस्य ह समानसूत्रनिपाते निम्लोचति एषः यत्र वचन स्यंदेन अभितपति तस्य ह समानसूत्रनिपाते प्रस्वापयति ये तम् समनुपश्येरन् तत्र गतम् न पश्यन्ति ॥ ९ ॥ यदा ऐन्द्रयाः पुर्याः प्रचलते तदा पंचदशघटिकाभिः योजनानाम् सपादकोटिद्वयम् साधिकानि सार्धंद्वादशलक्षानि च याम्याम् उपयाति ॥ १० ॥ * * एवम् ततः वारुणीम् सौम्याम् च पुनः ऐन्द्रीम् उपयाति तथा अन्ये च सोमादयः ग्रहाः नक्षत्रैः सह ज्योतिश्वके समभ्युद्यन्ति वा सह निम्लोचन्ति ॥ ११ ॥ * * एवम् सौरः त्रयीमयः असौ रथः मुहूर्तेन अष्टशताधिकानि चतुस्त्रिंशल्लक्षयोजनानि चतसृषु पुरीषु परिवर्तते ।। १२ ।। श्रीधर स्वामिविरचिता भावार्थदीपिका यथोक्तमुदयास्तमनाद्यनियमं दर्शयति यत्रोदेतीत्यादिना स्यन्देन स्वेदोद्रमेन । प्रस्वापयति निशीथं समनुपश्येरन् प्रस्वापसमानसूत्रस्थाः ॥ ९ ॥ * * साधिकानि पंचविंशतिसहस्राधिकानि ॥ १० ॥ * * यद्यपि वस्तुतः सूर्यस्यापि नक्षत्रैः सहैवोदयास्तमयौ तथापि तस्य तत्साहित्यादर्शनात्सोमादीनामेव तत्साहित्यमुक्तम् ॥ त्रयीमय इत्याद्युपासनार्थम् ।। १२ ।। श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः करोति । ये तं सह वा सहैव । ११ ॥ * * साधिकानीति । पादोनाष्टत्रिंशलक्षोत्तर कोटिद्वयमित्यर्थः । चतुर्गुणितान्येतानि योजनान्ये कपञ्चाशलक्षाधिकनवकोटि- संख्याकानि भवन्तीति तत्त्वम् ।। १०-११ ॥ * * चतुस्त्रिंशदिति । मानसोत्तरमानं न त्वन्यत्र एवं पूर्वत्रापि । यत्तु ज्योतिः- शास्त्ररीत्या तत्तद्देशे व्युदयक्रमविचारेण रविपरिक्रमणीयं मण्डलमिदं स्वल्पमेव प्रतीयते तत्स्वल्पचलताविदूरस्य स्वल्पस्यापि वृक्षादेः समसूत्रता बहुलदेशेन नैव त्यक्तुं शक्यते, तथातिदूरं व्योमगतेनापि रविणा स्वल्पभूमिसमसूत्रतेति रविचलनस्य स्वल्पत्व- व्यवहारान्न विरुद्धं न च दृष्टिभ्रममात्रमिदं छायापि दृश्यमानतगतिमांद्यमनुकरोतीति ।। १२ ।। श्रीमद्वीरराघवव्याख्या । यथोक्तमस्योदयास्तमनादेर्नियमं दर्शयति यत्रोदेतीत्यादिना । यत्र ऐन्द्यादिपुरे उदेति उदयं प्राप्नोति दृष्टो भवतीति यावत् तस्य उदयस्थानस्य समानसूत्रनिपाते वारुण्यां निम्लोचत्यस्तं गच्छति न तिर्यग्दर्शनं प्राप्नोतीत्यर्थः । यत्र हि याम्यादौ पुरि स्यन्देनाभितपति स्वेदोद्गमेनाभितपति मध्याह्नस्थितो भवतीति यावदेष भगवान् सूर्य्यस्तस्य समानसूत्रनिपाते न्यूनाधिकदेशे सौम्यादी पुरे स्थितः प्रस्वापयति याम्यदिकस्थितानामर्द्धरात्रं करोतीत्यर्थः । ये याम्यदिशि स्थिताः अस्तं गते सूर्यमनुपश्येरन् ते तत्र गतं सौम्यदिग्गतं न पश्यन्ति एवं याम्यादिषु पुरीषु उदयादिनियमो द्रष्टव्यः ।। ९॥ * एवमुदयादिदेशनियम उक्तः, अथेन्द्रादिपुर्याः याम्यादिपुरी कियता कालेन कति योजनानि गच्छतीत्यपेक्षायामाह यदेति । यदा ऐन्द्यादिपुर्याः प्रचलति निष्क्रान्तो भवति तदा पञ्चदशघटिकात्मकेन कालेन त्रैराशिकगणितेन योजनानां सार्द्धद्वादशलक्षाणि साधिकानि पञ्चविंशति- सहस्राधिकानि सपादकोटिद्वयं पञ्चविंशतिलक्षाधिककोटिद्वयं चातिक्रम्येति शेषः, याम्यां पुरीमुपयाति ।। १० ।। * * एवं ततो याम्यायाः प्रचलति एवमुक्तकालेन उक्तयोजनानि वारुणीं पुरीं गच्छति । एवमुत्तरत्रापि योन्यमेवं सूर्यस्योदयास्तमयादि- स्वरूपं तद्देशनियमं कालपरिमाणं योजनपरिमाणं चाभिधायाथ सोमादीनामपि ग्रहाणामभ्युदयादिकमाह तथेति । ज्योतिश्चक्रेण तारागणेन सह वर्त्तमाना अन्ये सोमादयो ग्रहा अपि नक्षत्रैरश्विन्यादिभिः सह तथा सूर्यवदिन्द्रादिपुरीषु गमनं प्रत्यभ्युद्यन्ति उगच्छन्ति उदयं प्राप्नुवन्ति सहैव निम्लोचन्त्यस्तं प्राप्नुवन्तीत्यर्थः । यद्यपि वस्तुतः सूर्यस्यापि नक्षत्रैः सहैव उदयास्तमयौ तथापि तत्साहित्यादर्शनात्सोमादीनामेव तत्साहित्यमुक्तमिति भावः ॥ ११ ॥ * * पञ्चदशघटिकाभिः सपादकोटिद्वयं साधिकानि ॥ सार्द्धद्वादशलक्षाणि योजनानि गच्छतीत्युक्तं तत्रैकेन मुहूर्त्तेन कति योजनानि गच्छतीत्यपेक्षायामाह । एवमिति । त्रयीमय इत्युपासनार्थमुक्तं वेदरूपेणोपास्यः सौरो रथ एकमुहूर्तेनाष्टशताधिकचतुस्त्रिंशल्लक्षयोजनानि चतसृषु देवधान्यादिषु पुरीषु परिभ्रमते । कोऽसौ सौरो रथः एकेन मुहूर्त्तेन यः परिभ्रमते तत्राह यस्येति । यस्य सौरथस्यैकं चक्रं संवत्सरात्मकं समामनन्त्यु- १. प्रा० पा० - शभिर्घदिकाभिः । २. प्रा० पा० - वामिनिम्लोचन्ति । ६१ ४८२ श्रीमद्भागवतम् [ स्कं. ५ अ. २१ लो. ९-१२ पासते । चक्रं विशिनष्टि द्वादशारं द्वादश मांसा अरा यस्य षडृतवो नेमयो यस्य त्रीणि चातुर्मास्यानि नाभयो यस्य इदमप्युपासनार्थ- मेवोक्तं मासादिरूपेण संवत्सरेण रूपेण चोपास्यमानमित्यर्थः । सौरो रथः परिवर्त्तत इत्युक्तं स किं निरवलम्ब एव एष भ्रमतीत्यत्र विशिनष्टि यस्येति । यस्य रथस्याक्षो मेरोर्मूर्ध्नि कृतमूलः अक्षशब्दोऽत्रोपचारात्तत्स्थितायां धुरि वर्तते, एवं द्वितीयोऽक्ष इत्यत्रापि यत्र रथो मानसोत्तरे कृतोत्तरभागः मानसोत्तरगिरौ लक्षार्थोपरि वायुबद्धभूमौ कृतोत्तरभागः वायुना निबद्धोत्तरभागः, अन्यथा- युतार्द्धमात्रोच्छ्रायत्वान्मानसोत्तर गिरेर्मेरोश्चतुरशीतियोजनोच्छ्रायत्वादतस्तस्य साम्यानुपपत्तेः । कोऽसावितरभागः यो मानसोत्तरे कृतमूलः तत्राह यत्रेति । यत्र इतरभागे प्रोतं सद्रविरथचक्रं तैलयन्त्रवन्मानसोत्तर गिरौ परितो भ्रमति ।। १२-१३ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली यत्रोदेति । तत्समानसूत्रनिपाते पश्चिमभागे निम्लोचति दक्षिणायने किञ्चित्किञ्चिद्दक्षिणभागोदये सति किञ्चत्किञ्चिद् दक्षिणभागे पश्चिमे निम्लोचति एवमुत्तरायणे किञ्चित् किञ्चिदुत्तरतः उदयनिम्लोचौ याति एवमुद्यन्नादित्य उदयप्रदेशस्थस्तत्र निपातं विहाय यत्र क्वापि न स्पन्दते न चलति तस्योदयस्थस्य समानसूत्रनिपाते विभावरीपुरि द्वारि स्थितोऽन्यजनान् प्रस्वापयति निद्रितानि करोति उद्धतशृङ्गच्छायापिहितं तत्र विभावर्यां गतं न पश्यन्ति जना इति शेषः ॥ ९ ॥ * * सार्द्धद्वादशलक्षाणि साधिकानीति । पञ्चविंशतिसहस्राधिकानि सार्धद्वादशलक्षाणीत्यर्थः ।। १०-११ ।। देवधान्या निर्गत्य संयमनी प्रवेक्ष्यन् पञ्चदशघटिकाभिः कालावयवैः पादोनाष्टत्रिंशलक्षोत्तर कोटिद्वयमतिक्रम्य प्रविशति तपनः । एवं चतुर्गुणितान्येतानि योजनानि सैकपाशल्लक्षनव कोटिसङ्ख्यानीति सर्वात्मना ज्ञातव्यम् ॥ १२ ॥ 1 .. श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः * यत्रेति । यद्वीध्यधोगतदेश इत्यर्थः ॥ ९-११ ॥ * * मुहूर्त्तेन चतुस्त्रिंशदिति मानसोत्तरमानं न त्वन्यत्र एवं पूर्वत्र । यत्तु ज्योतिःशास्त्ररीत्या तत्तद्देशे व्युदयक्रमविचारेण रविपरिक्रमणीयं मण्डलमिदं स्वल्पमेव प्रतीयते तत् खलु चलता विदूरस्य स्वल्पस्यापि वृक्षादेः समसूत्रता बहुलदेशेन नैव त्यक्तुं शक्यते तथातिदूरं व्योमगतेनापि रविणा स्वल्पभूमिसमसूत्रतेति रविचलनस्य स्वल्पत्वव्यवहारान्न विरुद्धं न च दृष्टिभ्रममात्रमिदं छायापि दृश्यमानतगतिमान्द्यमनु करोति इति ।। १२ ।। श्रीमद्विश्वनाथचक्रवर्ति कृता सारार्थदर्शिनी उदयास्तमयमध्याह्ननिशीथानां वर्षभेदेन व्यवस्थामाह यत्रेति । “यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः” इति वैष्णवोक्तेः सूर्यस्य प्रथमदर्शनमेवोदयः निम्लोचत्यस्तं गच्छति उदयानन्तरत्रिंशद्घटिकान्ते स्यन्देन आकाशमध्यस्थः सन् प्रस्वेदोद्गमेन तस्य देशस्य समानसूत्रपातविषयीभूते देशे त्रिंशद्वघटिकानन्तरं गतः सन्निति शेषः । प्रस्वापयति निशीथं करोति । ये अस्तमुदयञ्च अनुपश्येरंस्ते जनास्तत्र गतं सूर्यं न पश्यन्त्यत एव स्वपन्ति । तेन च मेरोर्दिक्चतुष्टये स्थितेषु मध्ये यदा यत्र सूर्यस्योदयो दृश्यते तदैव तस्मात् पूर्वे वर्षे मध्याह्नः पश्चिमे वर्षे निशीथः उत्तरवर्षे निम्लोचो ज्ञेयः । एवं मध्याह्नदर्शनसमय एव पूर्ववर्षे निम्लोचः पश्चिमवर्षे उदयः उत्तरवर्षे निशीथश्च ज्ञेयः । अस्तदर्शनसमय एवं पश्चिमवर्षे मध्याह्नः पूर्ववर्षे निशीथः उत्तरवर्षे उदयश्च ज्ञेयः । तदेवं सर्ववर्षस्था अपि मेरोदक्षिणदेशस्थानेवात्मनो मन्यमानाः स्ववर्षे सूर्यस्योदयमध्याह्ननिम्लोचान् पश्यन्त एवान्येषु तान् पूर्वोक्तविवेकेन जानन्तीति संक्षेपः । विष्णुपुराणे त्वितोऽपि विशिष्योक्तम् “शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन् लोकान् द्वे पुरे तथा ॥” इति, अस्यार्थः शक्राद्यन्यतमस्य पुरे तिष्ठन् पुरत्रयं युगपन् स्पृशति द्वौ विकर्णी कोणौ च । तथा हि शक्रपुरे तिष्ठन् शक्रदिग्वर्षे मध्याह्न दक्षिणदिग्वर्षे उदयमुत्तर दिग्वर्षे अस्तमनं करोतीति । । पुरत्रयस्पर्शः । अग्निकोणवर्षे प्रथमं याममीशानकोणवर्षे तृतीयं यामं करोतीति विकर्णद्वयस्पर्शः । विकर्णस्थः अग्न्याद्यन्यतम कोणस्थः संस्त्रीन् कोणान् द्वे पुरे द्वे दिशौ च स्पृशति । तथा हि अग्निकोणे तिष्ठन् अग्निकोणवर्षे मध्याह्नं नैर्ऋतकोणवर्षे उदयमीशानकोणे अस्तमनं करोतीति कोणत्रयस्पर्शः । तथा दक्षिणदिग्वर्षे प्रथमो यामः पूर्वदिग्वर्षे तृतीयो यामः इति पुरद्वयस्पर्शः दिग्द्वयस्पर्शश्च । एवमन्येषु कोणेषु पुरेष्वपि द्रष्टव्यम् ॥ ९ ॥ * * साधिकानि पञ्चविंशतिसहस्राधिकानि ॥ १० ॥ ॥ ।। ।। सहैव ॥ ११ ॥ त्रयीमय इत्युपासनार्थम् ॥ १२ ॥
- ।। श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः N ।
-
- सह वा यत्र स्थाने उदेति उदितो दृष्टो भवति तस्योदयस्थानस्य समानसूत्रनिपाते निम्लोचति अदृष्टो भवति । न च प्रातरधः स्थानादुद्गच्छति सायं चाधः स्थाने प्रविशतीति मन्तव्यम् “अद्भयो वा एष प्रातरुदेत्यपः सायं प्रविशति” इति भगवती श्रुतिस्तु द्रष्टृजन मत्यनुसारिणीति भावः । यत्र वचन जनविषये एष सूर्यः स्यन्देन स्वेदोद्गमेन प्रतपति मध्याह्नं करोति अभि आभिमुख्येन समानसूत्रनिपाते प्रस्वापयत्यर्द्धरात्रं करोतीति यावत् ये अस्तं गतं सम्यक् अनुपश्येरन् ते एव तत्र स्थाने स्थिताः न पश्यन्ति सूर्यस्तु सदा वर्त्तत एव तथाह भगवान् पराशरः “नैवास्तमनर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥” एक ५. अ. २१ इलो. ९-१२ | अनेकत्र्याख्यासमलङ्कृतम् ૮૩ इति ॥ ९ ॥ * * अधिकेन पञ्चविंशतिसहस्रात्मकेन सहितानि ।। १०-११ ।। एकेन मुहूर्त्तेन कतियोजनानि गच्छतीत्यत आह । एवमिति त्रयीमयः वेदत्रयीत्वेनोपास्यः ॥ १२ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी तद्वृद्धिहासकालमाह–यावदिति । उत्तरायणादक्षिणायनपर्यन्तं यावदुदगयनसंज्ञया मन्दया गत्या आरोहणस्थानेषु मकरादिषु षट्सु राशिषु प्रचलति तावद्दिनानि वर्द्धन्ते पूर्वपूर्वदिनापेक्षया उत्तरोत्तरदिनानि वृद्धिं प्राप्नुवन्ति, रात्रयस्तु पूर्वपूर्वराज्य- पेक्षया उत्तरोत्तरा हसन्ति । यावदुद्गयनमिति, दक्षिणायनादुदगयनपर्यन्तं यावद्दक्षिणायनसंज्ञया क्षिप्रगत्यावरोहणस्थानेषु कर्कटा- दिषु षट्सु राशिषु प्रचलति तावत्पूर्वपूर्व राज्यपेक्षया उत्तरोत्तररात्रयो वर्द्धन्ते, दिनानि तु पूर्वपूर्वदिनापेक्षया उत्तरोत्तराणि हसन्ती- त्यर्थः । अत्र उत्तरायणे ध्रुवेण रथयुगानकोटिनिबद्ध वायुपाशद्वयाकर्षणे रथस्यारोहणमभ्यन्तरमण्डलप्रवेशश्च । दक्षिणायने च ध्रुवेण पाशप्रेरणाद्रथस्यावरोहणं बहिर्मण्डलप्रवेशश्च । वैषुवते तु पाशसाम्यात् समावस्थानं मध्यमण्डलप्रवेशश्च । तथोक्तं विष्णुपुराणे- ‘आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ । तदाऽभ्यन्तरतः सूर्यो भ्रमते मण्डलानि तु । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु । तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च’ इति । अत्रारोहणादिस्थानानि विशेषतो वायुपुराणे दर्शितानि - ‘सर्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः । स्थानं जरद्भवं मध्यं तथैरावतमुत्तरम् ॥ वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वत:’ इति । तदपि मध्यमोत्तर- दक्षिणमार्गत्रयं प्रत्येकं वीथीत्रयेण त्रिधा भिद्यते त्रिभिस्त्रिभिरश्विन्यादिनक्षत्रैः । तथा हि- नागवीथी गजवीथी ऐरावती चेत्युत्तरमार्गे वीथीत्रयम् । आर्षभी गोवीथी जरद्रवी वेति वैषुवते मध्यममार्गे वीथीत्रयम् । अजवीथी मार्गी वैश्वानरी चेति दक्षिणमार्गे वीथी- त्रयम् । तदप्युक्तं तत्रैव– ’ अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्यार्द्रा मृगशिरो गजवीध्यभिधीयते || पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥ तथा द्वे चापि फाल्गुन्यौ मघा चैवार्षभी मता । हस्तचित्रा तथा स्वातिर्गोवीथीति तु शब्दिता ।। ज्येष्ठा विशाखाऽनुराधा वीथी जारद्रवी मता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ मूलाषाढोत्तराषाढा अजवीध्यभिशब्दिता । श्रवणं च धनिष्ठा च मार्गी शतभिषस्तथा ॥ वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते मार्गस्य समानत्वेऽप्यहोरात्रस्य वृद्धिहासादिवैषम्य अत्र याम्या भरणी, आदित्या अदितिदेवताका पुनर्वसुः, रात्रौ प्रचलतीति । न शङ्कनीयं, यतो मार्गस्य समानत्वेऽपि राशिप्रमाणयोर्भेदेन वैचित्र्यं घटते । तथाहि– ज्योतिश्चक्रस्य द्वादशोंशः संपादनक्षत्ररूपात्मक एकैको राशिः । तत्र च प्रायशो मीनमेषौ हस्खौ । वृषकुम्भौ ततः किश्चिदधिक। मकरमिथुने ततः किञ्चिद्दीर्घे । सिंहवृश्चिकौ दीर्घतरौ । कर्कचापे दीर्घतमे । कन्यातुले समे । तत्रार्काक्रान्तां राशि- मारभ्य षड्राशिक्षेत्रदर्शनकालो दिनम् । इतरराशिषट्कदर्शनकालो रात्रिः । तथा च राशीनां दीर्घहस्वादिवैषम्याद्राशिप्रमाणाधीना- वेव दिनरात्रि वृद्धिहासावित्यादिज्योतिःशास्त्रप्रसिद्धा प्रक्रिया पुराणाविरुद्धत्वादत्राप्यनुसन्धेया । तथा चोक्तं विष्णुपुराणे- ‘एकप्रमाण- मेवैष मार्ग याति दिवाकरः । अहोरात्रेण यो भुंक्ते समस्ता राशयो द्विज ॥ षडेव राशयो भुंक्ते रात्रावन्याश्च षड् दिवा | राशि प्रमाणजनिता दीर्घहस्वात्मता दिने । तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता । दिनादेर्दीर्घह्रस्वत्वं तद्भोगेनैव जायते ॥ इति । राशय इति राशीनित्यर्थः ॥ ९ ॥ * * एवं सूर्यगतिं निरूप्य तन्मार्गपरिमाणापेक्षायां यथा मेरोरेकतः सूर्योदयादि भवति तथैव मेरोचतुर्दिशमपीत्याह – एवमिति । एवं मेरोश्चतुर्दिशमुदयादीन्युपदिशन्त्यभिज्ञा इति शेषेणान्वयः । मण्डलमध्ये एकत आरभ्या- परतः समानसूत्रे यो विस्तार स्तत्रिगुणः किश्चिदधिको विस्तारो मण्डलस्येति नियमात् मेरोरुभयतः समानसूत्रे मानसोत्तराभ्यन्त- विस्तारस्य पञ्चदशलक्षाधिककोटित्रययोजनस्योक्तत्वात्किञ्चिदधिकं तत्रिगुणीकृत्य मानसोत्तरगिरिपरिवर्तनस्य तन्मण्डलस्य योजनानां नव कोटय एकपञ्चाशलक्षाण्युपदिशन्ति । तस्मिन् मानसोत्तरे पूर्वतो मेरोः पूर्वस्यां दिशि ऐन्द्रीं दक्षिणस्यां याम्यां पश्चिमायां दिशि वारुणीमुत्तरस्यां सौम्यां च पुरीमुपदिशन्तीत्यन्वयः । मेरोश्चतुर्दिशं तासु पुरीषु उदयास्तमयानि भवन्तीत्यन्वयः । चतुर्दिशमित्युक्तेर्ये मेरो दक्षिणे देशे तेषामैन्द्रीमारभ्य ये पश्चिमे तेषां याम्यामारभ्य ये उत्तरे तेषां वारुणीमारभ्य ये पूर्वदेशे तेषां सौम्यामारभ्य पूर्वादय इति ज्ञेयम् । अत एव वैष्णवे उक्तम्- ‘सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः’ इति । सूर्यस्य परिभ्रमणेन उदयादिकरणप्रयासस्य आनर्थक्यमाशङ्कय तत्प्रयोजनमाह-भूतानामिति । भूतानां प्राणिनां लौकिकालौकिककर्मसु प्रवृत्तिनिवृत्ति- व्यवस्थया निमित्तानि समयविशेषेण कालविशेषेण भवन्तीत्यर्थः । यद्वा एवं मन्दादिगतिभिर्गमने सिद्धे तन्मार्गप्रमाणापेक्षायां नव कोटय इत्याद्युपदिशन्तीति शेषेणान्वयः । अन्यत्समानम् ॥ १० ॥ एवमुदयादीनि कथं भवन्तीत्यपेक्षायां तत्र कारणं वदन्मेरौ तु सदा मध्याह्न एवेत्याह– तत्रत्यानामिति, मेरुस्थानां प्राणिनामित्यर्थः । सव्येनेति । नक्षत्राभिमुखतया स्वगत्या मेरुं वामतः कुर्वन्नपि दक्षिणावर्त्तप्रवाहाख्यवायु भ्राम्यमाणज्योतिश्चक्रवशात् प्रत्यहं दक्षिणतः करोति । अतश्चक्रगतिवशादतिदूरतो भूसँल्लभस्येव दर्शनमुदयः । आकाशमारूढस्येव दर्शनं मध्याह्नः । भूमिं प्रविष्टस्येवादर्शनमस्तमयः । ततोऽतीव दूरगमने निशीथ इति । समुद्रतीरस्थदृष्टया च “अद्भयो वा एष प्रातरुदेत्यपः सायं प्रविशति” इति श्रुत्यादिव्यवहारोऽन्यकल्पीयो वा । तदुक्तं वैष्णवे – ‘उदयास्तमये चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥ यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । ।
। ▸ ૨૮૩ श्रीमद्भागवतम् [ स्कं. ५ अ. २१ श्लो. ९-१२ उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ।।’ इति । एवं सूचितामेवोदयास्तमयमध्याह्ननिशीथानां वर्षभेदेन व्यवस्थामाह–यत्रेति । यत्रो- देति यस्मिन् देशे प्रथमतो दर्शनं याति, निम्लोचति अस्तं याति उद्यानन्तरं गच्छन् त्रिंशद्धटिकान्ते यत्र वचन स्यन्देनाकाशमध्यस्थः सन् प्रस्वेदोद्गमेनाभितपति तस्य देशस्य समानसूत्रनिपातविषयीभूते देशे एष सूर्यो जनान् प्रस्वापयति निशीथं करोति । हेति प्रसि- मेवैतत् । तेषां शयने हेतुमाह -तत्रेति । यस्मात् ये प्रथमं तमुदयास्ताद्यवस्थायां समनुपश्येरंस्ते तदा तत्र गतं स्वसमानसूत्रनिपात- देशस्थं न पश्यन्ति । तथा च मेरोर्दिकचतुष्टयस्थितेषु वर्षेषु मध्ये यदा यत्र सूर्यो दृश्यते तदैव तस्मात्पूर्ववर्षे मध्याह्नः, पश्चिमे वर्षे निशीथ उत्तरे वर्षे निम्लोचः । एवं मध्याह्नदर्शनसमय एव पूर्ववर्षे निम्लोचः, पश्चिमवर्षे उदय उत्तरवर्षे निशीथश्च । तथाऽस्तदर्शन- समय एव पश्चिमे मध्याह्नः, पूर्ववर्षे निशीथः, उत्तरे वर्षे उदयश्च ज्ञेयः । तथा निशीथसमये पश्चिमे निम्लोच उत्तरे मध्याह्नः पूर्ववर्षे प्रातः कालः । तदेवं सर्ववर्षस्था जना आत्मनो मेरोर्दक्षिणदेशस्थाने मन्यमानाः स्ववर्षे सूर्यस्योदयमध्याह्ननिम्लोचनिशीथानि पश्यन्त एवान्येषु वर्षेषु तानि पूर्वोक्तविवेकेन जानन्ति । विष्णुपुराणे त्वितोपि विशिष्योक्तम् -‘शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन कोणान् द्वे पुरे तथा ’ इति । अस्यार्थः – शक्राद्यन्यतमपुरे तिष्ठन सूर्यः पुरत्रयं दिक्त्रयं द्वौ विकर्णी कोणी च युगपत्स्पृशति । तथाहि शक्रपुरे तिष्ठन् शक्रदिग्वर्षे मध्याह्नं दक्षिणदिग्वर्षे उदयमुत्तरदिग्वर्षेऽस्तमनं च करोतीति पुरत्रयस्पर्शः । अग्निकोणवर्षे प्रथमं याममीशानकोणवर्षे च तृतीयं यामं करोतीति विकर्णद्वयस्पर्शः । एवं यमपुरे तिष्ठन् दक्षिणदिग्वर्षे मध्याहं पश्चिमदिवर्षे उदयं पूर्वदिग्वर्षेऽस्तमनं च करोतीति पुरत्रयस्पर्शः । नैर्ऋतकोणवर्षे प्रथमं यामं अग्निकोणवर्षे तृतीयं यामं च करोतीति विकर्णद्वयस्पर्शः । तथा वरुणपुरे तिष्ठन् पश्चिमदिग्वर्षे मध्याह्नमुत्तरदिग्वर्षे उदयं दक्षिणदिग्वर्षेऽस्तमनं च करोतीति पुरत्रयम्पर्शः । वायुकोणवर्षे प्रथमं यामं नैर्ऋतकोणवर्षे च तृतीयं यामं करोतीति कोणद्वयस्पर्शः । तथा सोमपुरे तिष्ठन्नुत्तरदिग्वर्षे मध्याह्नं पूर्वदिग्वर्षे उदयं पश्चिमदिग्वर्षेऽस्तमनं च करोतीति पुरत्रयस्पर्शः । ईशानकोणवर्षे प्रथमं यामं वायुकोणवर्षे च तृतीयं यामं करोतीति विकर्णद्वयस्पर्शः । विकर्णस्थः अग्नयाद्यन्यतमकोणस्थः संखीन कोणान् द्वे पुरे द्वे दिशौ च स्पृशति । तथाहि अग्निकोणे तिष्ठन्नग्निकोणवर्षे मध्याह्नं नैर्ऋतकोणे उदयमीशानकोणवर्षेऽस्तमनं च करोतीति कोणत्रयस्पर्शः । दक्षिणदिवर्षे प्रथमं यामं पूर्वदिग्वर्षे च तृतीयं यामं करोतीति पुरद्वयस्पर्शः । एवं नैर्ऋतकोणे तिष्ठन् नैर्ऋत कोण वर्षे मध्याह्नं वायुकोणवर्षे उदयमग्निकोणवर्षेऽस्तमनं च करोतीति कोणत्रयस्पर्शः । पश्चिमदिग्वर्षे प्रथमं यामं दक्षिण- दिग्वर्षे तृतीयं यामं च करोतीति पुरद्वयस्पर्शः । तथा वायुकोणे तिष्ठन्वायुकोणवर्षे मध्याह्नं नैर्ऋतकोण वर्षेऽस्तमनमीशान कोण वर्षे उदयं च करोतीति कोणत्रयस्पर्शः । उत्तरदिग्वर्षे प्रथमं यामं पश्चिमदिग्वर्षे च तृतीयं यामं करोतीति दिग्द्वयस्पर्शः । तथा ईशान- कोपो तिष्ठन्नीशानकोणवर्षे मध्याहं अभिकोणवर्षे उदयं वायुकोणवर्षेऽस्तमनं च करोतीति कोणत्रयस्पर्शः । पूर्वदिग्वर्षे प्रथमं याममु- त्तरदिग्वर्षे च तृतीयं यामं करोतीति पुरद्वयस्पर्शश्च ज्ञेयः ॥ ११ ॥ मानसोत्तर परिमण्डलमानमेव चतुर्धा विभज्य तत्तुरीयोंश एकां पुरीमारभ्य द्वितीयपुरीपर्यन्तमार्गों भवतीत्याह यदेति । यदा च ऐन्द्रयाः पुर्याः सकाशात् याम्यां पुरीं प्रति प्रचलते तदा पञ्चदशघटिकाभिर्योजनानां सपादकोटिद्वयं साधिकानि पञ्चविंशतिसहस्राधिकानि सार्द्धद्वादशलक्षाणि चोपयाति गच्छतीत्यन्वयः । एवं ततो याम्यया यदा वारुणीं प्रति गच्छति तदाऽपि पञ्चदशघटिकाभिः तावन्ति योजनानि गच्छति । यदा वारुण्याः सकाशात् सौम्यां प्रति प्रचलति तदाऽपि पञ्चदशघटिकाभिः तावन्ति योजनानि गच्छति । यदा तु सौम्यायाः सकाशादेन्द्री पुरीं प्रति प्रचलति तदाऽपि पञ्चदशघटिकाभिः तावन्ति योजनानि गच्छति । एवं च षष्टिघटिकात्मकाहोरात्रप्रचलनेन पुरीचतुष्टया- क्रान्त्या मानसोत्तर परिमण्डलमानोक्तमार्गः समाप्यते । पुनश्च दिनान्तरे तथैव प्रचलतीत्याह — पुनस्तथेति ॥ १२ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी औ यथोक्तमुदयास्तमनाद्यनियमं दर्शयति यत्रेति । एषः सूर्यः, यत्र यस्मिन्निन्द्रादिपुरे, उदेति उदयं प्राप्नोति उदयं प्राप्नुवन् दृष्टो भवति इति यावत् । तस्य ह् उदयदर्शनस्थानस्यैव, समानसूत्रनिपाते समानसूत्रनिपातस्थानभूतवारुण्यामित्यर्थः । निम्लोचव्यस्तं गच्छति न तु तिर्यग्दर्शनं प्राप्नोतीत्यर्थः । यत्र वचन यस्यां कस्यचिद्याम्यादिपुर्यामित्यर्थः । स्यन्दनेन, अभितपति स्वेदोद्गमविधानेनाभितपति, मध्याह्नतां कुर्वन् वर्तमानो भवतीत्यर्थः । तस्य ह तस्यैव समानसूत्रनिपाते अन्यूनाधिकदेशवर्ति- सौम्यादिपुर्यामित्यर्थः । प्रस्वापयति अर्द्धरात्रं करोतीत्यर्थः, ये याम्यदिस्थिता अस्तमस्तं यान्तं समनुपश्येरन् ते तत्र गतं सौम्यदिग्गतं सूर्यं न पश्यन्ति । एवं याम्यादिपुरीषूदयादिनियमो द्रष्टव्यः ॥ ९ ॥ * * एवमुदयादिदेशनियम उक्तोऽथेन्द्रादिपुर्याः सकाशाद्याम्यादिपुरीं कियता कालेन प्राप्नोति, कियता कालेन कति योजनानि गच्छतीत्यपेक्षायामाह यदेति । यदा च ऐन्द्रयाः पुर्याः, इन्द्रनगर्याः सकाशात्, प्रचलते निष्क्रान्तो भवति, तदा च पञ्चदशघटिकाभिः याम्यां यमस्य संयमनी नगरी, उपयाति । योजनानां सपादकोटिद्वयं साधिकानि पञ्चविंशतिसहस्राधिकानि, सार्द्धद्वादशलक्षाणि अतिक्रामतीति शेषः । एतत् त्रैराशिकगणितेन ज्ञेयम् । इदमेवंविधसूर्य प्रचलनाभिधानं यत्तत्सूर्याश्रय शिशुमारात्मक प्रवह- वातप्रेरितज्योतिश्चक्रगत्या बोध्यं, सूर्येण कृतस्य साकल्येन ज्योतिश्चक्रातिक्रमस्य षष्ट्यधिकशतत्रयाहोरात्रैः साध्यत्वात् ॥ १० ॥ * * एवमिति । ततः याम्यायाः सकाशात् यदा प्रचलति तदापि एवमुक्तप्रकारेणैव वारुणीं सौम्याम् स्व. ५ अ. २१ श्लो. १३१९] अनेकव्याख्या समलङ्कृतम् ૪૮૬ ऐन्द्री च पुनः उपयातीति शेषः । एवं सूर्यस्योदयास्तमयादिस्वरूपं तद्देशनियमं कालपरिमाणं योजनपरिमाणं चाभिधायाथ सोमादीनां ग्रहाणामपि उदयास्तादिकमाह यथेति । ज्योतिश्चक्रेण तारागणेन सह सहवर्त्तमाना इत्यर्थः । अन्ये सोमादयश्चन्द्र- प्रभृतयः ग्रहाः चापि, नक्षत्रैरश्विन्यादिभिः सहैव तथा सूर्यवदेव, समभ्युद्यन्ति उदयं प्राप्नुवन्ति । सहैव निम्लोचन्त्यस्तं प्राप्नु- वन्तीत्यर्थः । यद्यपि सूर्यस्यापि वस्तुतः नक्षत्रैः सहैवोदयास्तमयौ भवतस्तथापि तत्साहित्यादर्शनात्सोमादीनामेव तत्साहित्य- मुक्तम् ।। ११ ।। * * पञ्चदशघटिकाभिः सपादकोटिद्वयं साधिकानि सार्द्धद्वादशलक्षाणि योजनानि गच्छतीत्युक्तं, तत्रैक- मुहूर्तेन कति योजनानि गच्छतीत्यपेक्षायामाह एवमिति । त्रयीमयः वेदरूपेणोपास्यः, असौ सौरः सूर्यसंबन्धी रथः स्यन्दनः एकेन मुहूर्त्तेन, अष्टशताधिकानि चतुस्त्रिंशल्लक्षयोजनानि चलन् सन् चतसृषु ऐन्द्रयादिचतुःसंख्याकासु, पुरीषु परिवर्त्तते परि- भ्रमति । अत्रेदं मुहूर्त्तेन यद्यानमुक्तं वक्ष्यमाणं क्षणेन सगव्यूत्युत्तरं द्विसहस्रयोजनानीति च सौररथप्रचरणं ज्योतिश्चक्रचरणं वेति निर्णेतुमशक्याऽस्माकं जायते गणनाविधाने अत्रोक्तगणनाया असंमेलनात् ॥ १२ ॥ " भाषानुवादः जिस पुरी में सूर्य भगवान् का उदय होता है, उससे ठीक दूसरी ओर की पुरी में वे अस्त होते मालूम होंगे और जहाँ वे लोगोंको पसीने-पसीने करके तपा रहे होंगे, उसके ठीक सामनेकी ओर आधी रात होनेके कारण वे उन्हें निद्रावश किये होंगे । जिन लोगोंको मध्याह्न के समय वे स्पष्ट दीख रहे होंगे, वे ही जब सूर्य सौम्यदिशा में पहुँच जायँ, तब उनका दर्शन नहीं कर सकेंगे ॥ ९ ॥ *
-
- सूर्यदेव जब इन्द्रकी पुरीसे यमराजकी पुरीको चलते हैं, तब पंद्रह घड़ी में वे सवा दो करोड़ और साढ़े बारह लाख योजनसे कुछ-पचीस हजार योजन-अधिक चलते हैं ॥ १० ॥ फिर इसी क्रमसे वे वरुण और चन्द्रमा की पुरियोंको पार करके पुनः इन्द्रकी पुरीमें पहुँचते हैं। इस प्रकार चन्द्रमा आदि ग्रह ज्योतिश्चक्र में अन्य नक्षत्रों के साथ- साथ उदित और अस्त होते रहते हैं ॥। ११ ॥ इस प्रकार भगवान् सूर्यका वेदमय रथ एक मुहूर्तमें चौंतीस लाख आठ सौ योजन के हिसाब से चलता हुआ इन चारो पुरियों में घूमता रहता है ।। १२ ।।
यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तर गिरौ परिभ्रमति ।। १३ ।। तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभागः || १४ || रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्त- तुरीयभागविशालस्तावान् रविरथयुगो यत्र हयाइछन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥ १५ ॥ पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते ।। १६ ।। तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्व मात्राः षष्टिसहस्राणि पुरतः सूर्य सूक्त’ वाकाय नियुक्ताः संस्तुवन्ति ॥ १७ ॥ तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामानः पृथक्कर्मभिर्द्वन्द्वश उपासते ।। १८ ।। लक्षोत्तरं साधनवकोटियो जनपरिमण्डलं भूवलयस्य क्षणेन सगव्युत्युत्तरं द्विसहस्रयोजनानि स भुङ्क्ते ॥ १९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्च क्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥ अन्वयः — यस्य एकम् चक्रम् द्वादशारम् षण्नेमि त्रिणाभि संवत्सरात्मकम् समामनन्ति तस्य अक्षः मेरोः मूर्धनि कृतः मानसोत्तरे कृतेतर भागः यत्र प्रोतम् रविरथचक्रम् तैलयंत्रचक्रवत् मानसोत्तरगिरौ भ्रमत् परिभ्रमति ॥ १३ ॥ तस्मिन् अक्षे कृतमूलः द्वितीयः अक्षः तुर्यमानेन संमितः ध्रुवे तैलयंत्राक्षवत् कृतोपरिभागः ॥ १४ ॥ * रथनीडः तु षट्त्रिंशलक्ष- योजनायतः तत्तुरीयभागविशालः तावान् रविरथयुगः यत्र छंदोनामानः अरुणयोजिताः सप्त हयाः देवम् आदित्यम् वहन्ति ।। १५ ।। सवितुः पुरस्तात् च पश्चात् नियुक्तः अरुणः किल सौत्ये कर्मणि आस्ते ॥ १६ ॥ तथा अंगुष्ठपर्वमात्राः षष्टिसहस्राणि || * * वालखिल्याः ऋषयः सूर्यं पुरतः सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥ १७ ॥ * * तथा अन्ये च ऋषयः गंधर्वाप्सरसः नागाः ।। ।। ग्रामण्यः यातुधानाः देवाः इति एकैकशः चतुर्दश द्वंद्वशः सप्त गणाः पृथङ्नानानामानः मासि मासि भगवन्तम् सूर्यम् आत्मानम् नानानामानम् पृथक् कर्मभिः उपासते ॥ १८ ॥ * * भूवलयस्य लक्षोत्तरम् सार्धनवकोटियोजनपरिमंडलम् सः क्षणेन सगव्युत्युत्तरम् द्विसहस्रयोजनानि भुङ्क्ते ।। १९ ।। १. प्रा० पा० इत्येकविंशोऽध्यायः ॥ २१ ॥ सूक्तवाक्याय । २० प्रा० पा० योजनमण्डलं । ५० प्रा० पा०सगत्युत्तरं । ६. प्रा० पा० दश मासि भगव० । ३० प्रा० पा०त्मानं पृथगात्मानः पृथ० १४० प्रा० पा०- वक्रानुवर्णनं । પ્ર૮૬ श्रीमद्भागवतम् श्रीधरस्वामिविरचिता भावार्थदीपिका [स्क. ५ अ. २१ व्लो. १३-१९ द्वादश मासा अरा यस्य । षडृतवो नेमयो यस्य । श्रीणि चातुर्मास्यानि नाभयो यस्य । कृत इतरभागो यस्य । मानसो - तर गिरौ लक्षार्धादुपरि वायुबद्धभूमाविति द्रष्टव्यं चक्रं वा तावदुच्छ्रितमिति मन्तव्यम् । अन्यथाऽयुतमात्रोच्छ्रायत्वान्मान सोत्तरस्य मेरोश्चतुरशीत्युच्छ्रायत्वादक्षस्य साम्यानुपपत्तेः ॥ १३ ॥ * * तस्मिन्नक्षे चक्रप्रान्ते कृतमूलो निबद्धपूर्वभागः प्रथमाक्षो मेरुमानसोत्तरो यतः सार्धसप्तलक्षाधिक सार्धकोटिप्रमाणस्तस्य तुर्यमानेन सार्धं सप्तत्रिंशत्सहस्राधिकैकोनचत्वारिंशल्लक्षमानेन । धुवे कृतो वायुपाशेन निबद्ध उपरिभागो यस्य ॥ १४ ॥ * * नीड उपवेशस्थानम् । गायत्र्यादिच्छन्दोनामानः । अरुणेन योजिताः सन्तो देवं वहन्ति ।। १५ ।। * * पुरस्तात्स्थितोऽपि पश्चात्प्रत्यङ्मुख आस्ते । यद्वा यत्सूर्यस्य पुरस्तात्तस्य वै पश्चिमत्वात्पञ्चादित्युक्तम् । अश्वस्थानं च वायुनोक्तम् “सप्ताश्वरूपच्छन्दांसि वहते वामतो रविम् । चक्रपक्षनिबद्धानि चक्रे चाक्षः समाहितः” इति ॥ १६ ॥ * * सूक्तवाकाय सुभाषिताय ।। १७ ।। * एकैकशश्चतुर्दश द्वंद्वशः सप्तगणाः सन्तो मासि मास्युपासत इत्यन्वयः ॥ १८ ॥ * * गव्यूतिः कोशद्वयं सगव्यूत्युत्तरं यथा भवति तथा ।। १९ ।। इति श्रीमद्भागवते पञ्चमे टीकायामेकविंशोऽध्यायः ॥ २१ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ब्रह्मणाज्ञप्ताः " यस्य रथस्य ॥ १३॥ * * अक्षो धूः । तस्मिन्नक्षे दीर्घाक्षे ॥ १४ ॥ * * रथनीडोऽत्र रथश्रमानुगत- वायुमभूमिर्न तु सूर्योपवेशरथमध्यपीठं रथस्य स्वल्पप्रमाणत्वात् । तथैव वैष्णवे – “योजनानां सहस्राणि भास्करस्य रथो नव’ इति । एवमेव हि दशसहस्रयोजनात्मकं वक्ष्यमाणं तन्मण्डलं घटेतेति सन्दर्भः । गायत्र्यादीत्यादिना उष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टु- ब्जगतीनां ग्रहः । तदुक्तं मात्स्ये पञ्चविंशाध्याये – “गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुप्तथैव च ।। पंक्तिश्च बृहती चैव उष्णिगेव तु सप्तमः । सप्ताश्वरूपाः छन्दांसि वहते वायुरंहसः || ” इति ।। १५ ।। * पुरस्तात्पश्चाच्च नियुक्त इति कायव्यूहेनापि घटेतेति सन्दर्भः । प्रत्यङ्मुखः सूर्याभिमुख इत्यर्थः । ननु सूर्याभिमुखस्थितौ तु पूर्वाभिमुखता स्यात्सूर्यस्य प्रत्यङ्मुखत्वादित्यभिप्रेत्याह- यद्वेति । सूर्यस्य यः पुरस्तात्पुरोभागस्थितस्यैव पश्चिमत्वादत उक्त- पश्चादिति । सूर्यस्य पुरस्तात्पश्चिमाभिमुख एव स्थितः सारथ्यं करोतीत्यर्थः । यद्वा-पश्चात्पदेन प्रत्यग् लक्ष्यते तच्च प्रत्यभिमुखमञ्चति प्राप्नोतीति प्रत्यङ् संमुख इत्यर्थः । नियोगोऽत्र ब्रह्मण एव ज्ञेयः ।। १६ ।। * * नियुक्त ब्रह्मणाः ॥१७॥ तथा वालखिल्यादिवत् । ग्रामण्यो यक्षाः । यातुधाना राक्षसाः । " वृक्षे ग्रामाधिपे तक्ष्णि नापिते ग्रामणीर्मतः” इति निरुक्तिः । ‘यातुधाना रक्षांसि नैर्ऋता’ इति नाममाला । देवा इहा- दिया एव तदन्यानुक्तेस्तेऽपि स्वीयोपासनं कुर्वते । ‘भगवन्तं सूर्यमात्मानम्’ इत्युक्तेश्च मासि मासि एकैकस्मिन्मासि द्वाभ्यां द्वाभ्या- मृष्यादिभ्यां सप्त गणा भवन्तः । अत एव द्वादशे वक्ष्यति ‘संयुक्तानामधीश्वरैः’ इति । एकैकस्यर्ष्यादेरेकैको नियन्ता नामतोऽनुक्तोऽपि संयुक्तानामधीश्वरैरित्युक्तेर्ज्ञेयः । किं च द्वन्द्वशः स्त्रीसहितास्सन्तः । सप्तेत्यर्थांगीकारे तु महाभारतशान्तिपर्वान्तर्गतमोक्षधर्मोपाख्या- नीयात्रेयद्विजपद्मनाभनागोपाख्यानविरोधः स्यात् । तथाहि कश्चनात्रेयो विप्रस्समागतातिथेः सकाशाद्धर्मनिश्चयमलभमानस्तत्प्रेरितो गोमतीतीरस्थनागपुरे पद्मनाभनागपाश्र्वं तन्निश्चयार्थं गतः । स च तत्पत्न्याऽचित उक्तश्च - भो विप्र मत्पतिः पद्मनाभः सूर्यरथं परि- वोढुं स्वावसर प्राप्तमासि गतस्तं समाप्यात्रागमिष्यतीत्यतः स्त्रीरहिता एव सूर्यं प्रति मासमृध्यादय उपासतेऽन्यथा विरोधः स्यादस्य प्रकृतस्येति व्याख्यातृभिरपि महाविज्ञैः प्राक्तनैरित्यमव्याख्यातत्वाच्चेत्यलम् ॥ १८ ॥ सन्दर्भस्तु - भूवलयस्येत्यन्तं गद्यमाह । गव्यूतिरूपं यदुत्तरमधिकं तत्सहितं यथा भवति तथेत्यर्थः । सः सूर्यः । “निमेषस्त्रिलवो ज्ञेय आम्नातास्ते त्रयः क्षणाः” इत्युक्तेस्त्रिनिमेषलक्षण कालेन क्षणेन । यत्तु भविष्ये उक्तं “योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्द्धन क्रममाण नमोस्तु ते ।। " इति । तदित्थं समाधेयं निमेषौ चार्द्धे चैषां समाहारो निमेषार्द्धं तेन निमेषार्द्धेन । एकेन किंचिदधिकेनान्येन तेन द्वे शते इति लभ्यते । कर्तुः श्रीव्यासदेव स्योभयत्रैकत्वा देवान्यथोन्मत्तप्रलपितत्वापतेः ।। १९ ।। । इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥ श्रीमद्वीरराघवव्याख्या तस्मिन्नक्षे चक्रप्रान्ते कृतमूलः निबद्धपूर्वभागः द्वितीयोऽक्षः प्रथमोऽक्षः मेरुमानसोत्तरायतः सार्द्धसप्तलक्षोत्तर सार्द्ध कोटि- योजनप्रमाणः तस्य तुर्यमानेन सार्द्धं सप्तत्रिंशत्सहस्राधिकैकोनचत्वारिंशलक्ष्योजनमानेन संमितः परिमितः ध्रुवे कृतः- वायुपाशेन बद्ध उपरिभागो यस्य तथाभूतः । तं निदर्शयति तैलयन्त्राक्षवत्तैलयन्त्राक्षदृष्टान्तेन ज्ञातव्य इत्यर्थः ॥ १४ ॥ * * रथनीडादेः परिमाणमाह रथनीड इति । नीडो रथिन उपवेशस्थानं षट्त्रिंशलक्ष योजनायामः तुरीयभागविशालः नवलक्षयोजनविशालः रविरथ- युगोऽपि तावान् पत्रिंशलक्ष योजनायामः तुरीयभागविशालः । युगं विशिनष्टि । यत्र युगेऽरुणेन सूतेन योजिताः सप्त दया गायत्र्या -: स्कं. ५ अ. २१ श्लो. १३-१९] अनेकव्याख्यासमलङ्कृतम् ૪૮૭ दिच्छन्दोनामानः देवं द्योतमानमादित्यं वहन्ति गन्तव्यदेशं प्रापयन्तीत्यर्थः । अश्वनामानि श्रीवैष्णवे पुराणे उक्तानि - ‘हयाच सप्तच्छन्दांसि तेषां नामानि मे शृणु। गायत्री च बृहत्युष्णम् जगती त्रिष्टुबेव च ।। अनुष्टुप्पङ्क्तिरित्युक्तः छन्दांसि हरयो रवेः ।’ इति । नन्वेवम् “एकोऽश्वो वहति सप्तनामा” इति श्रुतिविरोध इति चेदुच्यते एक इत्यनेनैकसूर्य उच्यते अश्व इति जात्यभिप्राय एकत्वनिर्देशः “एको व्रीहिः सुसम्पन्नः” इत्यादिवत् सप्तनामेत्यादिसप्तनामान इत्युच्यते तथा चैकरूपा गायत्र्यादि- सप्तनामानोऽश्वा वहन्तीति श्रुत्यर्थः । उपबृंहणानुसरणादेव हि श्रुत्यर्थनिर्णय इति तेषां गायत्र्यादिनामकत्वं तद्दृष्टयोपासनार्थ- मुक्तम् ।। १५ ।। * * अरुणयोजिता देवं वहन्तीत्युक्तं कुत्र स्थितोऽश्वान् योजयति इति तत्राह पुरस्तादिति । सवितुः पुरस्तात्पुरस्थितोऽरुणः सौत्ये अश्वयोजनरूपे कर्मण्यास्ते इत्यर्थः । पुरस्तात्स्थितोऽपि किं सवितुरभिमुखतो वर्तते नेत्याह । पश्चाच नियुक्तः पुरस्तात्स्थितोऽपि प्रत्यङ्मुख आस्ते । यद्वा यत्सूर्यस्य पुरस्तस्यैव पश्चिमत्वादित्युक्तमेवं वालखिल्या ऋषयोऽपि षष्टिसहस्र- संख्याका अङ्गुष्ठपर्वप्रमिताः सूर्यस्य पुरतो रथे स्थिताः सूक्तवाकाय वाक उक्तिः सूक्तरूपो वाकः सूक्तवाकः तस्मै सुभाषितरूपोक्तये संस्तुतये इति यावन्नियुक्ताः आदिष्टाः सन्तः सूर्य संस्तुवन्ति ।। १६-१७ ।। * * तथान्ये ऋष्यादयः सप्त गणा एकैकशः चतुर्दश चतुर्दश द्वन्द्वशः मासे मासे पृथङ्नामभिरादित्यमुपासत इत्यन्वयः । तत्र ग्रामण्यो यक्षाः, कथंभूतमादित्यमात्मानं सर्वेषां दिगधिष्ठातृत्वादात्मानं भगवदात्मकत्वाद्वात्मानं मासभेदभिन्ननामानं कथंभूताः पृथङ्नामानः परस्परविलक्षणनामानः । पृथक्कर्माणि श्रीवैष्णवे प्रपञ्चितानि " स्तुवन्ति ऋषयस्स्तवैर्गन्धर्वैर्गीयते पुरः । नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः । वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य सहासते” इत्यादिना । यद्यप्यत्र मासि चतुर्दश चतुर्दश उपासत इति प्रतीयते, श्रीवैष्णवे तु सप्त सप्तेति तथा हि– “सप्तधाधिष्ठितो देवैरादित्यो मुनिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामण्यैर्यक्षराक्षसैः ॥ धाता कृतस्थली चैव पुलस्त्यो वासुकिस्तथा । रथकृद्ग्रामणीर्हे तिस्तुम्बुरुचैव सप्तमः । एते वहन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय ! स्यन्दने भानोः सप्त मासाधिकारिणः ॥ अर्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थली । प्रहेतिः कच्छनीरश्च नारदश्च रथे रवेः । माधवे निवसन्त्येते शुक्रसंज्ञे निबोध मे । मित्रोऽत्रिस्तक्षकः कक्षः पौरुषेयोऽथ मेनका । महारथश्च नश्चैव मैत्रेयैते वसन्ति वै ।।” इत्यादि, तथाप्येकैकस्मिन्मासाधिकारिणि गणे प्रधानभूताः सप्त वैष्णवे कथिता इत्यतो न विरोधः ॥ १८ ॥ पूर्वे मानसोत्तरं परिवर्तमानस्य लक्षोनसार्द्धनवकोटियोजनानि भवन्ति इत्युक्तं भवति, कियता कालेन कति योजनानि गच्छतीत्यत्र उक्तमेव मुहूर्त्तेन चतुस्त्रिंशल्लक्ष योजनान्यष्टशताधिकानीति । इदानीं क्षणेन कति योजनानि गच्छतीत्यत्राह लक्षोत्तरमिति । नव- पञ्चाशल्लक्षयोजन परिमितं सूर्येण परिभ्राम्यमाणं भूमण्डलं तस्य भूवलयस्य क्रोशद्वयाधिकद्विसहस्रयोजनानि स सूर्यः क्षणेन कालेन भुङ्क्ते गच्छतीत्यर्थः ।। १९ ।। * इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृत भागवतचन्द्र चन्द्रिकायाम् एकविंशोऽध्यायः ॥ २१ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली यस्य रविरथस्यैकमेव चक्रं द्वादशमासाभिमानिदेवताभिमन्यमाना द्वादशाराः यस्य तत्तथा षड्ऋत्वभिमानिदेवताभि- मन्यमानाः षण्मयो यस्य तत्तथा चातुर्मास्याभिमानिदेवताभिमन्यमाना स्त्रिनाभयो यस्य तत्तथा स्वयं संवत्सराभिमानिदेवताभि- मन्यमानं तस्य रथस्याक्षप्रमाणं सार्धं कोटिद्वयं सप्तलक्षाधिकम् “सार्द्धं कोटिद्वयं प्रोक्तं सप्त लक्षाधिकं तथा । रथाक्षस्य रवेर्मेरोर्मान- सोत्तरवर्तिनः ।।” इति यत्रेतरभागे रविरथचक्रं प्रोतं यः सूर्यरथाक्षश्चक्र प्रोतेतरभागो मेरुमूर्ध्नि प्रोतैकभागः ॥ १३ ॥ * तस्मिन् दीर्घाक्षे चक्रप्रोतैकभागस्तस्मिन् दीर्घाक्षे चक्रप्रोतदेशे कृतमूलः कीलित पृष्ठभागस्तुरीयमानेन सम्मितः दीर्घाक्षचतुर्भाग- समानः द्वितीयाक्षोऽस्ति, स तु ध्रुवलोके कृतोपरिभागः रथनीडः सूर्यस्य पीठस्थानीयः तुरीयभागविशालो नवलक्षविस्तारस्तावान् रविरथयुग इति पूर्वप्रस्तुतदीर्घाक्षसमानः प्रकृते सम्बन्धाभावात् दूरस्थपरामर्शः प्रमाणान्तरसिद्धत्वाच्च । “अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयोः । ह्रस्वाक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वा ।” इति अक्षप्रमाणमक्षयोः दीर्घाक्षह्नस्वाक्षयोः परिमाणमुभयोर्युगं च तदर्धं च युगार्धे तयोर्युगार्धयोर्यथाक्रमं प्रमाणं युगस्योत्तरभागोऽश्वस्कन्धे निवेशितः दक्षिणभागस्तु ध्रुवस्थानादवलम्बमानो वायुपाशेन बद्धः युगार्धस्त्वश्वस्कन्धान्निर्गतयुगामे कीलितः चक्रप्रोतदीर्घाक्षाग्रे कीलितापरभागः तत्र रथस्य यो ह्रस्वाक्षस्तत्रैव कीलितस्तेन युगार्धेन सह ह्रस्वाक्षः ध्रुवाधारो भवति उत्तानपादपुत्रलोके वायुपाशेन बद्ध इत्यर्थः । अवस्थित्या चायमर्थोऽवगम्यते “सप्ता- श्वरूपच्छन्दांसि वहन्तो वामतो धुरम् । चक्रपक्षनिबद्धानि चक्रे चाक्षः समाहितः || ” इति रविरथनीडविशालसमान इति केचित्, तत्त्वमरुणो विजानाति । ईषादण्डपरिमाणमपि तदनुसारेणोत्प्रेक्षणीयं युगमध्ये निर्गता ईषादण्डः ।। १४-१५ ॥ * * सवितुः पुरस्तात् अश्वानां पञ्चात्पृष्ठे ॥ १६-१७ ॥ * * ग्रामण्यस्तक्षाणः " ग्रामाधिपे तक्षणि च ग्रामणीः परिकीर्तितः” इति यादवः ।। १८-१९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कंधे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्याम् एकविंशोऽध्यायः ॥ २१ ॥ પ श्रीमद्भागवतम् श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः [ स्कं. ५ अ. २१ श्लो. १३-१९ तस्याक्ष इत्यत्र टीकायां चक्र वा तावदुच्छ्रितमिति पक्षे युगपद्गतिद्वयी न सम्भवति, वैपरीत्येनाकर्षणयोः परस्परस्तम्भ- भावात् अश्वानां बलवत्त्वेऽपि वायुचक्रस्यैव रथमतिक्रम्य किञ्चिन्निष्क्रमः स्यात् । न तु रथस्य प्राच्याः ततो रथस्य नक्षत्रान्तरप्राप्तौ सम्भवन्त्यामपि देशान्तरप्राप्तिर्न सम्भवति । चन्द्रादौ तु प्रत्यहं देशान्तरप्राप्तिश्च दृश्यते कुलालचक्रपिपीलिकादृष्टान्तेन च सा लभ्येत इति विचार्य ततो मानसोत्तरोपरि वायुबद्धभूमित्व एव पर्यवसितेषु मेरोरुपर्यपि तज्ज्ञेयं किन्तु मानसोत्तरस्योपरि नवतिसहस्रात्मकं मेरोस्तु षोडशसहस्रात्मकमिति ॥ १३ ॥ तस्मिन्नक्षे रविरथस्यैव चक्रप्रान्ते तुर्यमानेन चतुर्थांशेन सम्मितः अधिक इत्यर्थः ॥ १४ ॥ * * रथनीडोऽत्र रथाश्रयो रथानुगतवायुमयभूमिः न तु सूर्योपवेशरथमध्यपीठं रथस्यात्पप्रमाणत्वात् । यथैव वैष्णवे " योजनानां सहस्राणि भास्करस्य रथो नव” इति । एवमेव हि दशसहस्रयोजनात्मकं वक्ष्यमाणं तन्मण्डलं घटत इति ।। १५ ।। * * पुरस्तात् पश्चाश्च नियुक्त इति कायव्यूहेनापि घटते || १६ ॥ * * ऋषयश्चतुर्दश गन्धर्वाश्चतुर्दशेत्येवमेकैकशश्चतुर्द्दश द्वन्द्वशो मिलित्वेत्यर्थः । समासवाचिद्वन्द्वशब्दवत् तथा सप्त गणाः मासि मास्युपासत इत्यन्वयः ।। १७-१८ ।। लक्षेत्यादिभूवलयस्येत्यन्तकं गद्यं, स सूर्यः ॥ १९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे एकविंशोऽध्यायः ॥ २१ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी यस्य रथस्य द्वादश मासा अरा यस्य षड़तवो नेमयो यस्य त्रीणि चातुर्मास्यानि नाभयो यस्य मेरोर्मूर्द्धनि मूर्द्धाधः प्रदेशे इत्यर्थः । तैलयन्त्रीयाक्षस्य तथा दृष्टेः । मानसोत्तरे लक्षार्द्धादुपरि वायुबद्धभूमाविति श्रीस्वामिचरणाः । ततो मानसोत्तरस्यायुत- मात्रोच्छ्रायत्वात् षष्टिसहस्रोपरि वर्त्तमानः स च किञ्चिन्न्यून सप्तपञ्चाशल्लक्षाधिककोटिप्रमाणः ।। १३ ।। * * तस्मिन्नक्षे चक्रप्रान्तवर्त्तिनि कृतमूलः निबद्धपूर्वभागो द्वितीयोऽक्षः । तुर्यमानेन प्रथमाक्षस्य चतुर्थांशप्रमाणेन सप्तत्रिंशत्सहस्राधिकोन- चत्वारिंशलक्षमानेन सम्मित इत्यक्षोऽयं लवणसागरसमानसूत्रपाते प्रथमाक्षप्रदेशे प्रथित इति ज्ञेयम् । द्वितीयाक्षस्य प्रथमाक्षादल्प- प्रमाणत्वाद् धुवे कृतः वायुपाशेन निबद्ध उपरिभागो यस्य सः ॥ १४ ॥ * * रथस्य नीडोऽन्तर्गृहं षट्त्रिंशल्लक्षयोजनोच्छ्रितो नवलक्षयोजनविस्तारः । चक्राच्चत्वारिंशत्सहस्रोपरितने स्थाने नीडमध्ये सूर्य उपविष्टो ज्ञेयः । गायत्र्यादिच्छन्दोनामानः अरुणेन सारथिना योजिताः ॥ १५ ॥ * * पुरस्तात् स्थितोऽपि पश्चात् प्रत्यङ्मुख आस्ते । अश्वस्थानं वायुनोक्तम् ‘सप्ताश्व- रूपच्छन्दांसि वहन्ते वामतो रविम् । चक्रपक्ष निबद्धानि चक्रे वाक्षः समाहितः ।।” इति ॥ १६ ॥ * * सूक्तवाकाय सुभाषिताय ॥ १७ ॥ ** मासि मासि एकैकस्मिन् मासि द्वाभ्यां द्वाभ्यामृष्यादिभ्यां सप्त गणा भवन्त एकैकशः एकेनैकेन ऋष्यादिना तु चतुर्द्दशगणा भवन्तो मासि मासि उपासत इत्यन्वयः ॥ १८ ॥ * * गव्यूतिः उत्तरं यथा स्यात्तथा ॥ १९ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । एकविंशः पञ्चमस्य सङ्गतः सङ्गतः सताम् ॥ २१ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः यस्य रथस्यैकं चक्रं परिभ्रमणसंवत्सरात्मकमामनन्ति उपासनार्थं कथम्भूतं द्वादश मासा अरा यस्य तत् षट् ऋतवो नेमयो यस्य तत् त्रीणि चातुर्मास्यानि नाभयो यस्य तत् यस्य रथस्य अक्षः मेरोर्मूर्द्धनि कृतः उत्तरभागो यस्य सः तथा मानसोत्तरे कृत इतरभागो यस्य सः । अयुतयोजनोच्छ्रायमान सोत्तरोपरि रविरथचक्रमत्युच्छ्रितं मन्तव्यमन्यथाक्षसाम्यानुपपत्तेः ।। १३ ।। * तस्मिन्मेरुमानसोत्तरायते सार्धं सप्तलक्षोत्तर सार्धकोटियोजनदीर्घे कृतमूलो द्वितीयाक्षः पूर्वाक्षस्य तुर्यमानेन सार्धंसप्तत्रिंशत्सहस्रोत्तरै- कोनचत्वारिंशल्लक्षमानेन सम्मितः ध्रुवे कृतो वायुपाशेन मानसोत्तरगताक्षाग्रबद्धेन निबद्ध उपरिभागो यस्य सः । अत्रेदं बोध्यम् “भूमेर्यो जनलक्षं तु सौरं मैत्रेय ! मण्डलम्” इति श्रीपराशरवचनात् लक्षयोजने भूमण्डलतो रविस्ततो वक्ष्यमाणप्रकारेणाष्ट- त्रिंशलक्षयोजनान्तरे विष्णुपदं तत्र ध्रुवः, एवं सति द्वितीयाक्षस्य यत्किञ्चिदाधिक्यं तद्यथासम्भवमुपर्य्यधो वा संगत- मिति ॥ १४ ॥ गायत्र्यादिच्छन्दोनामानः ।। १५ ।। अरुणः सौत्ये सारथ्ये नियुक्तः सवितुः पुरस्तात्स्थि- तोऽपि पश्चात्प्रत्यङ्मुखः सवितुरभिमुखमास्ते ।। १६ ।। सूक्तः सुभाषितः वाको वचनं स्तोत्रमित्यर्थस्तस्मै ।। ।। * एकैकशञ्चतुर्दश द्वन्द्वशः ऋषयो गन्धर्वा अप्सरसः नागाः ग्रामण्यः यातुधाना देवा इति सप्त गणाः पृथक्कर्मभिः पृथङनामानं सूर्यं तत्र भगवदुपासनार्थमात्मानं मासि मासि उपासते इत्यन्वयः ।। १८ ।। * क्षणेन कति योजनानि गच्छतीत्याकाङ्क्षा- यामाह । लक्षोत्तर मिति तत्र स सूर्यः सगव्यूत्युत्तरं यथा भवति तथा द्विसहस्रयोजनानि क्षणेन भुङ्क्ते गच्छति ।। १९ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे एकविंशाध्यायार्थप्रकाशः ॥ २१ ॥ * P 8स्क. ५ अ. २२ श्लो. १३-१९] अनेकव्याख्यासमलङ्कृतम् गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी || ॥ S ૨૮૨ सहवास सह वा सहैव । यद्यपि वस्तुतः सूर्यस्यापि नक्षत्रैः सहैवोदयास्तमयौ तथापि तस्य तत्साहित्यादर्शनात् सोमादीनामेव तत्साहित्यमुक्तम् ॥ १३ ॥ एवं वैषुवतसज्ञया समानगत्या मध्यममार्गप्रमाणमुक्त्वा दक्षिणायनसञ्ज्ञया क्षिप्रगत्या- Sवरोहणमार्गस्य प्रमाणमाह-एवमिति । अत एकपञ्चाशलक्षाधिक नवकोटियोजनपरिमितस्य पूर्वोक्तमार्गस्य त्रिंशन्तमो भागः सप्तति- सहस्राधिकैकत्रिंशल्लक्षयोजनात्मक एकमुहूर्त्तगमनयोग्यो भवति, मुहूर्त्तस्य दिनत्रिंशत्तमभागत्वात् । अत्र च अष्टशताधिकचतु- । त्रिशलक्षयोजनोक्तिर्न पूर्वोक्तविरुद्धा, रथस्यावरोहणे बहिर्मण्डलप्रवेशेन मार्गस्याधिक्यात् गतेः क्षिप्रत्वाच । पुरीष्विति, एकेन मुहूर्त्तेन तावन्ति योजनानि गच्छन् क्रमेण चतसृषु परिभ्रमते इत्यर्थः । त्रयीमय इत्याद्युपासनार्थम् ॥ १४ ॥ ॐ ॐ द्वादश- मासा अरा यस्य, षट् ऋतवो नेमयो यस्य, त्रीणि चातुर्मास्यानि नाभयो यस्य तत् ॥ १५ ॥ तस्य सूर्यरथस्याक्षो दण्ड- विशेषः। यत्र यस्मिन्नने मान सोत्तर गिराविति तत उपरि वायुबद्धभूमाविति ज्ञेयम् । अन्यथा मानसोत्तरस्य अयुतयोजनोच्छ्राय- त्वात् मेरोश्च चतुरशीतियोजनोच्छ्रायत्वादक्षस्य साम्यता न स्यात् ॥ १६ ॥ * * तस्मिन्नक्षे चक्रप्रान्ते कृतमूलः कीलित- पूर्वभागः तुर्यमानेन मेरुमान सोत्तरायतस्य सार्द्धसप्तलक्षाधिकसार्द्धकोटि प्रमाणस्य प्रथमाक्षस्य चतुर्थभागेन सार्द्धसप्तत्रिंशत्सहस्रा- धिकैकोनचत्वारिंशल्लक्षमानेन सम्मितः । तैलयन्त्राक्षवत् धुवे कृतो वायुपाशेन निबद्ध उपरिभागो यस्य सः, द्वितीयोऽक्षोऽस्तीति शेषः ॥ १७ ॥ * * स्थनीड उपवेशस्थानम् । आयतो दीर्घः । तत्तुरीयभागेन नवलक्षयोजनेन विशालो विस्तृतः । तावानिति, नवलक्षयोजनदीर्घ इत्यर्थः । यत्र युगेऽरुणेन गरुड भ्रातृत्वाच्छन्दोमयेन सारथिना योजिताः गायत्र्यादिच्छन्दोनामानः सप्त हया आदित्यं देवं वहन्तीत्यन्वयः ॥ १८ ॥ * सौत्येऽश्ववाहनरूपे सूतकर्मणि नियुक्तोऽरुणः पूर्वमुखोपविष्टस्य सवितुः पुरस्तादग्रे पश्चात् पृष्ठप्रदर्शनदोषपरिहाराय तत्सम्मुखे प्रत्यङ्मुख आस्ते । ननु कथमेवं प्रत्यावृत्त्या स्थितस्य सारथ्यं कर्म निर्वहती - त्याशङ्कय छन्दोमये तस्मिन्न किञ्चिदसम्भवीत्यभिप्रेत्याह-किलेति ॥ १९ ॥ * सूक्तवाकाय सुभाषिताय स्तुतय ईश्वरेण नियुक्ताः प्रत्यङ्मुखाः पुरतो गच्छन्तः सूर्य संस्तुवन्तीत्यन्वयः ॥ २० ॥ * * तथा वालखिल्यवदन्ये च ऋष्यादय एकैक- शश्चतुर्दशसङ्ख्याका द्वन्द्वशः सप्तराणाः सन्तो मासि मासि पृथङ्नामानः पृथक्कर्मभिः मासि मासि नानानामानं सूर्यमुपासते इत्यन्वयः । ननु सूर्यस्य कथमेवं महिमेत्याशङ्कयाह - भवन्तमिति, अत एवात्मानं सर्वात्मानमित्यर्थः । प्रामण्यो यक्षाः । यातुधाना राक्षसाः । तत्तन्नामकर्मविवेचनं तु द्वादशस्कन्धे भविष्यति । संयुक्तानामधीश्वरैरिति द्वादशोक्तेः स्वस्वपतिसाहित्येन द्वन्द्वं ज्ञेयम् ॥ २१ ॥ * * सूर्यस्यैव प्रभावातिशयं सूचयन्नुक्तमपि तस्य परिक्रमणं पुनः सूक्ष्मक्रमेणाह - लक्षोत्तरमिति । लक्षोत्तरं सार्द्धनवकोटियोजनपरिमण्डलं भूवलयस्य मानसोत्तरस्य यदुक्तं तन्मध्ये सगव्यूत्युत्तरं क्रोशद्वयाधिकं यथा भवति तथा द्विसहस्र- योजनानि क्षणेन स आदित्यो भुङ्क्ते परिक्रामतीत्यन्वयः । गव्यूतिः क्रोशद्वयम् ॥ २२ ॥ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ * रचिता पञ्चमे तत्र स्वर्गस्थाननिरूपणे । एकविंशो गतो वृत्तिं सूर्यगतिनिरूपकः ॥ P MA STERF श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी कोऽसौ सौरो रथ एकेन मुहूर्त्तेन यः परिभ्रमते तत्राह यस्येति । यस्य सौररथस्य एकं चक्रं संवत्सर रात्मक द्वादश मासा आरा यस्य तत्, षट् ऋतवो नेमयो यस्य तत् त्रीणि चातुर्मास्यानि नाभयो तत् इत्थंभूतं समामनन्ति । ज्योतिश्चक्रेणास्य रथचक्रस्य साम्यतोक्तिरुपासनार्था एव । सौरो रथः परिवर्तत इति यदुक्तं स किं निरवलम्ब एवैष भ्रमति इत्यत्र रथं विशिनष्टि तस्येति । तस्य सौररथस्य अक्षः, मेरोः मूर्द्धनि कृत उत्तरभागो यस्य सः, मानसोत्तरे कृत इतरभागो यस्य सः । अक्षशब्दोऽत्रोपचा यस रादुरि वर्त्तते । नृभाषायां यं ‘घरी’ इति वदन्ति । एतदेव स्पष्टमाह । यत्र अक्षे, प्रोतं रविरथचक्रं तैलयन्त्र चक्रवत्, मानसोत्त- । । रगिरौ परिभ्रमति । मानसोत्तर गिरौ लक्षार्द्धादुपरि वायुबद्धभूमाविति द्रष्टव्यम् । चक्रं वा तावदुच्छ्रितमिति मन्तयम् । अन्यथा अयुतमात्रोच्छ्रायत्वान्मानसोत्तरस्य मेरोश्चतुरशीत्युच्छ्रायत्वादक्षसाम्यानुपपत्तेः ॥ १३ ॥ * * तस्मिन्निति । तस्मिन् अक्षे कृतमूलः चक्रप्रान्ते निबद्धपूर्वभागः, द्वितीयः अक्षः चक्रस्य ततो बहिर्निःसरणप्रतिरोधाय महाक्षरन्ध्रवेशितः शङ्कपर्यायोऽपरोऽक्ष इत्यर्थः । प्रथमोक्षो मेरुमानसोत्तरायतः सार्द्धसप्तलक्षोत्तर सार्द्धकोटियोजनप्रमाणः । तस्य तुर्यमानेन सार्द्धसप्तत्रिंशत्सहस्राधिकैको- नचत्वारिंशल्लक्षयोजनमानेनेत्यर्थः । संमितः परिमितः । तैलयन्त्राक्षवत् ध्रुवे कृतः वायुपाशेन बद्धः उपरिभागो यस्य सः । तथा- भूतोऽस्ति ॥ १४ ॥ * * अथ रथनीडादेः परिमाणमाह रथनीड इति । रथनीडो रथिन उपवेशनस्थानं स तु षट्त्रिंश- लक्षयोजनायामः, तत्तुरीयभागविशालः नवलक्षयोजनविशालतावान् तावान् रविरथयुगः षट्त्रिंशल्लक्ष योजनायामः तत्तुरीयभाग- विशालश्च यत्र युगे, अरुणयोजिताः अरुगाख्यसूतेन संयोजिताः, छन्दोनामानो गायत्र्यादिच्छन्दोऽभिधानाः सप्त हया अश्वाः, आदित्यं देवं वहन्ति । गन्तव्यदेशं प्रापयन्तीत्यर्थः । अश्व नामान्युक्तानि श्रीवैष्णवे ‘हयाश्च सप्त छन्दांसि तेषां नामानि मे ६२ ४९० श्रीमद्भागवतम् [ रु. ५. अ. २१ श्लो. १३-१९ शृणु । गायत्री च बृहत्युष्णिक् जगती त्रिष्टुबेव च ॥ अनुष्टुप् पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः’ इति ।। १५ ।। * * अरुणः कुत्र स्थितोऽश्वान् योजयतीत्यत्राह पुरस्तादिति । अरुणः सवितुः सूर्यस्य, पुरस्तात् नियुक्तः सौत्यकर्मविधानार्थं विहिते पुरः प्रदेशवर्त्तिसमुपवेशस्थाने नियोजितः सन्नपि, सौत्ये कर्मणि, पश्चात् आस्ते किल । अनया रीत्यान्वययोजनाविधानाभावे उदय- कालेऽरुणोदयस्य प्राग्भावो न संगतः स्यात् ॥ १६ ॥ * * तथेति । तथा पुरतः सूर्यं सूर्यस्य पुरः प्रदेशे अङ्गुष्ठपर्वमात्रा अङ्गुष्ठपर्वप्रमिताः, षष्टिसहस्राणि षष्टिसहस्रसंख्याकाः, वालखिल्या वालखिल्यनामानः ऋषयः, सूक्तवाकाय सुभाषितरूपोक्तये संस्तुतये इति यावत् । नियुक्ताः ब्रह्मणादिष्टाः सन्तः, सूर्य संस्तुवन्ति ॥ १७ ॥ * * तथेति । तथा अन्ये च ऋषयः, गन्धर्वा- । वाप्सरसा । नागाः सर्पाः, ग्रामण्यो यक्षाः, यातुधाना राक्षसाः, देवाः सवितारः, इत्येवम् एकैकशः एकैकगणसंख्याने, चतुर्द्दश गंगाः, एवं द्वन्द्वशः ऋतून लक्षीकृत्य गणगणने सप्त गणाः सन्तः पृथक् नाना, नानाविधानि नामानि येषां तथाभूताः सन्तश्च मासि मासि, आत्मानं भगवदात्मकत्वादात्मशब्दाभिहितं नाना नामानि यस्य तं भगवन्तं सूर्य, पृथक्कर्मभिः उपासते । ननु ऋष्यादिसप्तकात्मक एको गणः, एवं सति द्वादशमासानां द्वादश गणा युक्ताः ऋतूनुद्दिश्य मासद्वयेनैकऋतुगणने गणद्वयं मिलित्वै- कगणगणने च षट गणा इति वक्तुं युक्तं, तत्र एकैकशश्चतुर्दश द्वन्द्वशः सप्तेति कथमुक्तमिति चेत् पक्षद्वयात्मकस्याधिकमासस्य पूर्वापरमा सान्ताद्यपक्षगणस्याधिकमासाद्यन्तपक्षनिर्वाह्यत्वात्पृथग्गणने चतुर्दशत्वं, द्वन्द्वीभावेन गणने पक्षद्वयगणस्यैकी भावेन गणने सप्तत्वमपि निर्विवादमेव । ऋष्यादीनां तेषां पृथक् कर्माणि श्रीवैष्णवे प्रपचितानि ‘स्तुवन्ति ऋषयस्तं वै गन्धर्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति तस्य चानु निशाचराः ॥ वहन्ति पन्नगा यज्ञैः क्रियतेऽभीष्टसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य सहासते’ इत्यादिना । द्वादशे एतत्सविस्तरं वक्ष्यति ।। १८ ।। इदानीं क्षणेन कति योजनानि सूर्यो गच्छतीत्यत्राह लक्षोत्तरमिति । भूवलयस्य लक्षोत्तरं लक्षाधिकं सार्द्धनव कोटियोजनपरिमण्डलं नवकोट्येक पञ्चाशल्लक्षयोजन परिमितं यद्भूवलयं भवति तदित्यर्थः । स सूर्यः, क्षणेन कालेन सगव्यूत्युत्तरं द्विसहस्रयोजनानि क्रोशद्वयाधिकद्विसहस्रयोजनानि इत्यर्थः । भुङ्क्ते गच्छतीत्यर्थः ॥ १९ ॥ इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तम सहजानन्द स्वामिसुत श्रीरघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥ भाषानुवादः ‘इसका संवत्सर नामका एक चक्र ( पहिया ) बतलाया जाता बतलाया जाता है । उसमें मासरूप बारह अरे हैं, ऋतुरूप छः नेमियाँ ( हाल ) हैं, तीन चौमासेरूप तीन नाभि ( आँगन है ) । इस रथकी धुरीका एक शिरा मेरुपर्वत की चोटी पर है और दूसरा मानसोत्तर पर्वतपर । इसमें लगा हुआ यह पहिया कोल्हूके पहिये के समान घूमता हुआ मानसोत्तर पर्वतके ऊपर चक्कर लगाता है ॥ १३ ॥ * * इस धुरीमें जिसका मूल भाग जुड़ा हुआ है, ऐसी एक धुरी और है। वह लम्बाई में इससे चौथाई है । उसका ऊपरी भाग तैलयन्त्रके धुरे के समान ध्रुवलोकसे लगा हुआ है ।। १४ ।। 8 इस रथ में बैठनेका स्थान छत्तीस लाख योजन लंबा और नौ लाख योजन चौड़ा है। इसका जुआ भी छत्तीस लाख योजन ही लंबा है । उसमें अरुण नाम के सारथिने गायत्री आदि छन्दोंके से नामवाले सात घोड़े जोत रक्खे हैं, वे ही इस रथपर बैठे हुए भगवान् सूर्यको ले चलते हैं ।। १५ ।। * सूर्यदेवके आगे उन्हींकी ओर मुँह करके बैठे हुए अरुण उनके सारथिका कार्य करते हैं ।। १६ ।। * भगवान् सूर्य के आगे अँगूठेके पोरुएके बराबर आकारवाले वालखिल्यादि साठ हजार ऋषि स्वस्तिवाचनके लिये नियुक्त हैं । वे उनकी स्तुति करते रहते हैं ॥ १७ ॥ इनके अतिरिक्त ऋषि, गन्धर्व, अप्सरा, नाग, यक्ष, राक्षस और देवता भी- जो कुल मिलाकर चौदह हैं, किन्तु जोड़ेसे रहने के कारण साथ गण कहे जाते हैं— प्रत्येक मासमें भिन्न-भिन्न नामोंवाले होकर अपने भिन्न-भिन्न कर्मों से प्रत्येक मासमें भिन्न-भिन्न नाम धारण करनेवाले आत्मस्वरूप भगवान् सूर्यकी दो-दो मिलकर उपासना करते हैं ।। १८ ।। इस प्रकार भगवान् सूर्य भूमण्डलके नौ करोड़, इक्यावन लाख योजन लंबे घेरेमेंसे प्रत्येक क्षण में दो हजार दो योजनकी दूरी पार कर लेते हैं ।। १९ ।। * इत्येकविंशोऽध्यायः ॥ २१ ॥ । यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च वर्णितममुष्य वयं कथमनुमिमीमहीति ।। १ ।। The अथ द्वाविंशोऽध्यायः राजोवाच प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगनतोप स होवाच यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेव नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राज्यन्तरे चोपलभ्यमानत्वात् || २ || स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु यथोपजोपमृतुगुणान् विदधाति ।। ३ ।। तमेतमिह पुरुषास्त्रस्या ‘विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति ॥ ४ ॥ अन्वयः - मेरुम् ध्रुवम् च प्रदक्षिणेन परिक्रामतः भगवतः आदित्यस्य यत् एतत् राशीनाम् अभिमुखम् प्रचलितम् अप्रदक्षिणम् च भगवता उपवर्णितम् अमुष्य वयम् कथम् अनुमिमीमहि इति ॥ १ ॥ यथा भ्रमता कुलालचक्रेण सह भ्रमताम् तदाश्रयाणाम् पिपीलिकादीनाम् गतिः प्रदेशान्तरेषु अपि उपलभ्यमानत्वात् अन्या एव एवम् ध्रुवम् मेरुम् च प्रदक्षिणेन मच परिधावता नक्षत्रराशिभिः उपलक्षितेन कालचक्रेण सह परिधावमानानाम् तदाश्रयाणाम् सूर्यादीनाम् ग्रहाणाम् गतिः नक्षत्रान्तरे राश्यन्तरे च उपलभ्यमानत्वात् अन्या एव ॥ २ ॥ ॐ सः एषः भगवान् आदिपुरुषः साक्षात् नारायणः एव कविभिः
- अपि वेदेन विजिज्ञास्यमानः लोकानाम् स्वस्तये त्रयीमयम् कर्मविशुद्धिनिमित्तम् आत्मानम् द्वादशधा विभज्य षट्सु वसन्तादिषु ऋतुषु यथोपजोषम् ऋतुगुणान् विदधाति ॥ ३ ॥ * * इह वर्णाश्रमाचारानुपथाः पुरुषाः त्रय्या विद्यया आम्नातैः उच्चावचैः || || ॥ कर्मभिः योगवितानैः च श्रद्धया तम् एतम् यजन्तः अंजसा श्रेयः समधिगच्छन्ति ॥ ४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका द्वाविंशे सोमशुक्रादेः स्थानमाहोत्तरोत्तरम् । तत्तद्रत्यनुसारेण इष्टानिष्टे तथा नृणाम् ॥ १ ॥ राशीनामभिमुखमप्रदक्षिणं चोपवर्णितम् । सव्येन चलन् दक्षिणेन करोतीति वदता । अमुष्य वयं कथमनुमिमीमहि एतत्कथं ज्ञास्यामो विरुद्धत्वादित्यर्थः ॥ १ ॥ चक्रवशात्स्वतश्च गतिद्वयमविरुद्धमिति परिहारार्थः ॥ २ ॥ तत्तत्कालनियमेन कर्मणां विशुद्धेः साद्गुण्यस्य निमित्तभूतमात्मानं विभज्य । विजिज्ञास्यमानो वितर्क्यमाणः । यथोवजोब यथा- कर्मभोगम् ऋतुगुणान् शीतोष्णादीन् ॥ ३ ॥ * * वर्णाश्रमाचारानुवर्तिनः पुरुषास्त्रय्या आम्नातैः कर्मभिरिन्द्रादिरूपं योग- वितानैश्च ध्यानादिभिरन्तर्यामिरूपं पूजयन्तः ॥ ४ ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः तद्रत्यनुसारेण वक्रादिरूपगत्या (१) अमुष्येति द्वितीयार्थे षष्ठी । इत्यर्थ इति । न ह्येकस्य युगपङ्गतिद्वयं सम्भवतीति भावः ॥ १ ॥ * * सह भ्रमतां चक्रवैपरीत्येन चलताम् । अन्यैव स्वप्रयत्नसाध्या गतिः पृथगेव । तत्र हेतुः प्रदेशान्त- रेष्विति ॥ २ ॥ * * स प्रसिद्धः । एष कालरूपी ॥ ३ ॥ * वर्णाश्रमाचास्मानुपयंतीति तथा पथ-गतौ’ धातुः । तमेतं सूर्यम् ॥ ४॥ १. प्रा० पा० तं भगवतोपवर्णित । २. प्रा० पा० न्या च । ३. प्रा० पा० - दक्षिणतः । ४. प्रा० पा० जिज्ञास्यमानो । ५. प्रा० पा० - विद्याया | પૂરે श्रीमद्भागवतम् श्रीमद्वीरराघवव्याख्या [ स्कं. ५ अ. २२ श्लो. १-४ पूर्वमादित्यो नक्षत्राभिमुखं मकरादिषु राशिषु चरतीत्युक्तं तथा मेरुं ध्रुवं च परिवर्तत इति चोक्तं तदिदं गतिद्वयं युगपदे- कस्याघटमानमुक्तानुवादपूर्वकं पृच्छति राजा यदिति । यदेतदित्यादिनोपवर्णितमित्यन्तेनोक्तस्यानुवादः, अमुष्येत्यादिना प्रश्नः, भगवता त्वया यदुपवर्णितं किं तम्मेरुं ध्रुवं च प्रदक्षिणेन परिभ्रमतो भगवत आदित्यस्य पुनः राशीनामभिमुखं नक्षत्राभि- मुखतया राशिषु प्रचलनमित्येतत् द्वयं विरुद्धममुष्य सूर्यस्य कथमनुमिमीमहि कथमुपपन्नं भवतीति विश्वसिम इत्यर्थः ॥ १ ॥ ** एवमापृष्टो बादरायणिरा हेत्याह सूतः सहोवाचेति । शुकोक्तिमाह यथेत्यादिना राश्यन्तरे चोपलभ्यमानत्वादित्यन्तेन । विरुद्ध- मध्येकस्य गतिद्वयमुपपन्नमिति सदृष्टान्तमाह यथेति । भ्रमता कुलालचक्रेण सह भ्रमतां कुलालचक्राश्रयाणां पिपीलिकादीनां गतिरन्यैव दृश्यते दृष्टान्तेऽपि कथं तत्राह । प्रदेशान्तरे चक्रस्यैव प्रदेशान्तरे उपलभ्यमानत्वात् पिपीलिकादीनामित्यनुषङ्गः, यदि गतिरनन्या तर्हि प्रदेशान्तरे नोपलभ्येरन् अत उपलम्भाद्गतिरन्यैवेत्यर्थः । एवं दृष्टान्ते प्रदर्शितं गतिद्वयं दार्शन्ति के साधयति एवमिति । एवं तथा नक्षत्रै राशिभिश्च उपलक्षितेन निराश्रयाणां नक्षत्रादीनामवस्थानासम्भवात्तदाश्रयं कालचक्रमनुमीयत इत्यभिप्रायेण उपलक्षितेनेत्युक्तं मेरुं ध्रुवं च प्रदक्षिणेन परिभ्रमता कालचक्रेण शिशुमारेण परिभ्रमतां तदाश्रयाणां कालचक्राश्रयाणां सूर्यादीनां प्रहाणां नक्षत्राभिमुखतया राशिषु गतिरन्यान्या उपपद्यते एव, कुतः नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वा- दित्यन्वयः ।। २ ।। * एवं प्रश्नस्योत्तरमभिधायाथ सूर्यरूपेणावस्थितस्य भगवतस्तत्तद्वर्णाश्रमधर्माराध्यत्वं स्वगत्या संवत्सरायनतुमालपचदिवान पक्षदिवान कादिरूपेण कालविभाजकत्वं चाह स इति । भगवानादिपुरुषः जगत्कारणभूतो नारायण एवं स सूर्यरूपेणावस्थितः अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इति सूर्यस्य भगवदात्मकत्व श्रवणात् शरीरात्मभाव- निबन्धनं स एष नारायण इति सामानाधिकरण्यम् एवमादित्यवर्णो भगवान्नारायणो लोकानां स्वस्तये त्रयीमयं तत्कालनियमनेन कर्मणां विशुद्धेः साद्गुण्यस्य निमित्तं साद्गुण्यार्थमात्मानं द्वादशधा विभज्य बसन्तादिषु षट्सु ऋतुषु यथोपजोषं यथाकर्मभोग- मृतुगुणान् शीतातपवातवर्षान् विदधाति करोतीत्यन्वयः । तत्र द्वादशधा विभागो नामादित्याख्यक्षेत्रज्ञे प्रतिमासमृतुगुणविधानोप- युक्तसङ्कल्परूपज्ञानेनानुप्रवेशः । “मासि मासि रविर्यो यस्तत्र तत्र भिदापरा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ विष्णुशक्तिरवस्थानं सदादित्ये करोति सा । न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी ॥ एवं सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी । अतः सप्तमतोपेतं स्वस्वान्तमधितिष्ठति । तथा वाधिष्ठितः सोऽति जाज्वलीति स्वरश्मिभिः । ततः समस्तजगतां नाशं नयति चाखिलम्॥” इति श्रीवैष्णवपुराणोक्तः, त्रयीमयत्वं नाम प्राचुर्येण प्रय्या स्तुत्यत्वं तदपि चोक्तं तचैव ऋचः स्तुवन्ति पूर्वाह्न मध्याह्ने च यजूंषि च । बृहद्रथन्तरादीनि सामान्याहुः क्षये रवेः ॥ त्रयमेषा त्रयी विष्णोः ऋग्यजुःसामसंज्ञिता” इति । कथम्भूतो विदधाति वेदेन तब्ज्ञैः कविभिश्व जिज्ञास्यमानो वेदैर्बोध्यमानः कविभिरुपास्यमान इत्यर्थः । एतदेवोपपादयति तमिति । तमेतमादित्यरूपेणावस्थितं भगवन्तमिह लोके पुरुषा वर्णाश्रमाचारानुवर्तिनः त्रय्या विद्यया श्रद्धया यजन्तः त्रय्या यजनमेव प्रपञ्चयति-उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्चेति उच्चानुच्चैर्नानाविधैराम्नातैवैदिकैः कर्मभिर्यज्ञादिभिः योगवितानैः उपासन- विस्तरैश्च आम्नातैरिति पूर्वोत्तराभ्यां सम्बध्यते वैदिकैरुपासनैवेत्यर्थः, यजन्त आराधयन्तोऽञ्जसा सुखेन आशु वा श्रेयः स्वर्ग- मोक्षादिरूपं सम्यक् प्राप्नुवन्तीत्यर्थः ॥ ३-४ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली उक्तैवाध्यायसङ्गतिः राशीनां प्रचलनमपि प्रदक्षिणत इति । यस्मात्तस्मादेतस्यादित्यस्य राशीनामभिमुख प्रचलनम- प्रदक्षिणगमनं घटते तदनुपपन्नं भगवता तदभिमुख प्रचलनमुपवर्णितं यस्मात्तस्मादमुष्यादित्यस्याभिमुखतया गमनस्य राशीनां प्रचलनस्याभिप्रायं कथमनुमिमीमहि युक्तिपूर्वकं बुद्धधामह इति ॥ १ ॥ * * प्रदक्षिणतो भ्रमता कुलालचक्रेण सह प्रदक्षिणीक्रियमाणा अपि तद्गताः पिपीलिकादयो यथा स्वप्रयत्नसाध्यगत्या विपरीतं गच्छन्त्येवं प्रदक्षिणेन भ्रमता ज्योतिश्चक्रेण सह प्रदक्षिणीक्रियमाणोऽपि सविता स्वगत्या पूर्वापरीभावतया शीघ्रमन्दमध्यभेदेन राशीनामभिमुखं चलतीत्यभिप्रायः । राश्यादयः प्रत्यादित्यं स्वपृष्ठतो गच्छन्तीत्येके बिम्बप्रतिबिम्बवत् ॥ २ ॥ वसन्तादिष्वृतुषु क्रियमाणानां कर्मणां विशुद्धेर्निमित्तं तदर्पणत्वेनेति शेषः। कविभिः भूतभविष्यद्वर्तमानज्ञैः ब्रह्मविद्भिः यथोपजोषं यथाक्रमम् ॥ ३ ॥ * ॐ द्वादशधा विभक्तेः कारणमाह तमेतमिति । वर्णाश्रमाचारमनुपथन्ति अनुगच्छन्तीति वर्णाश्रमाचारानुपथाः ‘पथ-गती’ इति धातोः । योगवितानै- रीश्वरार्पणबुद्धिलक्षणोपायविस्तारै आम्नातैः प्रतिपादितैः ॥ ४ ॥ श्रीमजीवगोस्वामिकृतः कर्मसन्दर्भः अभिमुखमत्र प्रदक्षिणमित्यर्थः ।। १-२ ।। * * साक्षान्नारायणः सूर्यरूपो विष्णुः ॥ ३-४ ॥ ॥ … स्क. ५ अ. २२ श्लो. १-४] अनेकव्याख्या समलङ्कृतम् श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी द्वाविंशे चक्रसूर्याद्योर्गतिभेदव्यवस्थितिः । ग्रहाणां स्थानमेषाचेष्टत्वानिष्टत्वमीर्यते ॥ १ ॥ ૨૨ पूर्वाध्याये सज्येन चलन दक्षिणेन करोतीत्यत्र संशयानः पृच्छति यदेतदिति । प्रदक्षिणेन परिक्रमत इति प्रत्यहं दृश्यमानत्वात् । राशीनामभिमुखं तु अप्रदक्षिणं प्रचलनममुष्य त्वया वर्णितम् एतत्कथमनुमिमीमहि ज्ञास्यामो विरुद्धत्वा- । दित्यर्थः ।। १ ।। * स शुकः ह स्पष्टमुवाच । सह भ्रमतां चक्रवैपरीत्येन चलतां चक्रवशात् स्वतश्चेति गतिद्वयमविरुद्धमिति वाक्यार्थः ।। २ ।। * * * स प्रसिद्धः एष कालरूपी भगवान् कर्मणां विशुद्धेर्निमित्तं तेषां तत्तत्कालनियतत्वादित्यर्थः । द्वादशधा विभज्य ऋतुरूपेण षोढा च विभज्य यथोपजोषं यथा कर्मभोगम् ऋतुगुणान् शीतोष्णादीन् ॥ 11 3 11 ॥ * * अनुपथा अनुवर्त्तिनः त्रय्या आम्नातैः कर्मभिरेनं सूर्यमेव इन्द्रादिरूपं योगवितानैश्चाष्टाङ्गैरन्तर्यामिरूपं च यजन्तः ॥ ४ ॥ श्रीमच्छुकदेवकृतः सिद्धांत प्रदीपः द्वाविंशे सोमादीनां स्थानानि वर्णयति । तत्र तावत्सव्येनाचलं दक्षिणेन करोतीति यदुक्तं गतिद्वयं तत्पृच्छति । यदेतदिति । मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतः आदित्यस्य पुनः राशीनामभिमुखं नक्षत्राभिमुखतया अप्रदक्षिणं च प्रचलितं प्रचलनं भगवतोपवर्णितम् इत्येतत् द्वयममुष्य सूर्यस्य वयं कथमनुमिमीमहि ज्ञास्यामो विरुद्धत्वात् ॥ १ ॥ परिहरति । यथा कुलालचक्रतः स्वतश्च गतिद्वयमविरुद्धमिति फलितोऽर्थः ॥ २ ॥ * * सूर्ये भगवदुपासनार्थ मंशांशिनोर्भेदाभेदसम्बन्धा- भिप्रायेण च साक्षान्नारायण इत्याद्युक्तिः कर्मणां तत्तत्काले क्रियमाणानां विशुद्धेर्निमित्तमात्मानं द्वादशधा विभज्य यथोपजोषं प्राणिनां कर्मभोगमनतिक्रम्य ऋतुगुणान् शीतोष्णादीन् विदधाति करोति ॥ ३ ॥ * कर्मभिः पुरुषा बुभुक्षवः यजन्तः श्रेयः स्वर्गसुखं योगवितानैः ज्ञानभक्त्यादिसाधनविस्तारैर्य जन्तो भगवद्दृष्टया यजन्तो मुमुक्षवः श्रेयो मोक्षं समधिगच्छन्ति ॥ ४ ॥ गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी चन्द्रादीनां च मर्यादा स्थानगत्यादिभेदतः । इष्टानिष्ठे ततो नृणां द्वाविंशे विनिरूप्यते ॥ १ ॥
पूर्वाध्याये सव्येन चलम् दक्षिणेन करोतीति श्रुत्वा तत्र संशयानः पृच्छति यदेतदिति । अमुष्य भगवत आदित्यस्य भगवता सर्वज्ञेन त्वया यदेतदप्रदक्षिणं प्रचलितमुपवर्णितं तद्वयं कथमनुमिमीमहि अनुमानात्मकतर्केण निश्चितं ज्ञास्याम इत्यन्वयः। इतिशब्दः प्रश्नसमा त्यर्थः । यदि कश्चित् साधारणः एवं श्रूयात्तदा प्रत्यहं प्रदक्षिणं कुर्वतो दृश्यमानत्वात्तद्विरोधेन तद्वाक्यस्याप्रामाण्यं निश्चित्य शङ्का निवर्तेतापि भवतस्तु सर्वज्ञत्वाद्विरुद्धगतिद्वयासम्भवाच्च महान् संशयो वर्त्तते इति सूचयितुं * स श्रीशुकः, ह स्पष्टम्, दृष्टान्तेनानुमानं सूचयन्नुवाच । चक्रेण सह || १ || त्वयेति पदं विहाय भगवतेत्युक्तम चक्रवशात् स्वतश्च विरुद्धगतिद्वयमविरुद्धमिति वाक्यार्थः । यद्यप्यत्र राज्ञा सूर्यगति- भ्रमतां चक्रगतिवैपरीत्येन विपरीतं चलतां विषयक एव प्रश्नः कृतस्तथापि न्यायस्य तुल्यत्वाद् ग्रहान्तरेष्वपीयं शङ्का मा भूदिति मनसि निधाय सर्वेषामेव ग्रहाणामियं रीतिरिति परिहारः कृत इति ज्ञेयम् ॥ २ ॥ * * इयमपि सर्वस्वामिनो भगवतो जगद्यात्रानिर्वाहार्था लीलैवेत्याह- स एष इति । स प्रसिद्ध एष सूर्यः साक्षादादिपुरुषः सकलजगत्कारणीभूतो भगवान् बहुधा भवनसमर्थः अत एव कविभिरपि वेदेन च विजिज्ञास्यमानोऽपि तर्क्यमाणो नारायण एव त्रयीमयं वेदत्रयप्रतिपाद्यकर्मविशुद्धिनिमित्तं कर्मणां विशुद्धेस्तत्तत्कालाधीनत्वात् कालस्वरूपमात्मानं द्वादशधा विभज्य लोकानां सर्वप्राणिनां स्वस्तये वसन्तादिषु षट्सु ऋतुषु यथोपजोषं यथाकर्मभोगं ऋतुगुणान् शीतोष्णादीन् विदधाति ॥ ३ ॥ * * तमेतमादित्यरूपं भगवन्तमिह मर्त्यलोके वर्णाश्रमाचारानुवर्तिनः पुरुषाः त्रय्या विद्यया आम्नातैरुचावचैः सन्ध्योपासनाग्निहोत्रादिकर्मभिः योगवितानैश्च ध्यानादिभिः श्रद्धया यजन्तः पूजयन्त एव अञ्जसाऽ- ‘नायासेनात्मनः श्रेयः कल्याणं समधिगच्छन्ति । अन्यथा निन्दाश्रवणादनिष्टं स्यात् । तथा हि वैष्णवे- ‘सन्ध्याकाले च सम्प्राप्ते रौद्रे परमदारुणे । मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति खादितुम् ॥ प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षणम् । अक्षयत्वं शरीराणां मरणं च दिने दिने । ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् । ततो द्विजोत्तमास्तोयं यत् क्षिपन्ति महामुने । ओङ्कार ब्रह्मसंयुक्तगायत्र्या चाभिमन्त्रितम् । तेन दयन्ति ते पापा वत्रीभूतेन वारिणा ॥ अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः । सूर्यो ज्योतिः सहस्रांशुः सूर्यो दीप्यति भास्करः ॥ ओङ्कारो भगवान् विष्णुबिधामा वचसाम्पतिः । तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः । वैष्णवांशः परं सूर्यो योऽन्तर्ज्योतिर सम्प्लवम् । अभिधायक ओङ्कारस्तस्य सम्प्रेरकः परः । तेन सम्प्रेरितं ज्योतिरोङ्कारेणाथ दीप्तिमत् । दहत्य- शेषरक्षांसि मन्देहाख्यानि तानि वै । तस्मान्नोलानं कार्यं सन्ध्योपासनकर्मणः । स हन्ति सूर्य सन्ध्यायां नोपास्तिं कुरुते तु यः ।। सन्ध्या मुहूर्त्तमात्रा वै हासवृद्धौ समा स्मृता’ इति । अत्र सूर्यो ज्योतिरिति ‘सूर्यो ज्योतिज्योंतिः सूर्यः स्वाहेति मन्त्रस्य प्रतीकग्रहणम् । असम्प्लवं निर्विकारं तस्य ज्योतिषः सम्प्रेरकः रक्षोवधे प्रवर्त्तकः ॥ ४ ॥ હ 1 श्रीमद्भागवतम् श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी [ एक. ५ अ. २२ श्लो. १-४ सोमशुक्रादिकस्थानं द्वाविंशे तूत्तरोत्तरम् । प्राह गत्यनुसारेण तेषां नृणां सुखासुखे । १ ॥ * यदेतदिति । मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतः प्रदक्षिणकरणपूर्वं परिभ्रमतः भगवतः, आदित्यस्य यत् एतत् राशीनाम्, अभिमुखं अप्रदक्षिणं प्रचलितं च भगवता उपवर्णितं सव्येनाचलं दक्षिणेन करोतीति वदता भवता समुपवर्णितमित्यर्थः । अमुष्य सूर्यस्य तत् द्वयं कथं अनुमिमीमहि । इत्येवंभूतो नः प्रश्नः । तत्र यदेतदित्यादिनोपवर्णितमित्यन्तेन तुक्तानुवादः । अमुष्येत्यादिना प्रश्नः ॥ १ ॥ * * यः परीक्षिता राज्ञैवं पृष्टः स शुकः ह स्फुटं यथा स्यात्तथोवाचेति सूतोक्तिः । यथेति । यथा भ्रमता परिभ्रमणं कुर्वता, कुलालचक्रेण सह भ्रमणं कुर्वतां तदाश्रयाणां कुलालचक्राश्रयाणां पिपीलिकादीनां गतिः अन्या एव दृश्यते । प्रदेशान्तरेषु चक्रस्यैवेतरप्रदेशेषु, उपलभ्यमानत्वात् । पिपीलिकादीनामित्यस्यैवानुषङ्गः । यदि तद्गतिरनन्या स्यात्तर्हि प्रदेशान्तरे नोपलभ्येरन्, यदा तथोपलभ्यन्ते तर्हि तद्द्वतिरन्यैवेत्यर्थः । एवं दृष्टान्तेन प्रदर्शितं गतिद्वयं दाष्टन्तिके साधयति एवमिति । एवं तथैव नक्षत्राणि च राशयश्च तैः उपलक्षितेन निराश्रयाणां नक्षत्रादीनामवस्थानासंभवात्तदाश्रयं कालचक्र मनुमातव्यमित्यभि- प्रायेणोपलक्षितेनेत्युक्तम् । मेरुं ध्रुवं च प्रदक्षिणेन परिधावता परिभ्रमता कालचक्रेण ज्योतिश्चक्रेण सह परिधावमानानां परिभ्रमतां तदाश्रयाणां कालचक्राश्रयाणां सूर्यादीनां ग्रहाणां गतिः अन्या नक्षत्राभिमुखतया भिन्ना । उपपद्यते एव । नक्षत्रान्तरे राश्यन्तरे च उपलभ्यमानत्वात् । चक्रवशात्स्वतश्च गतिद्वयमविरुद्धमिति परिहारार्थः ॥ २ ॥ एवं प्रश्नोत्तरमभिधायाथ सूर्यरूपे- णावस्थितस्य भगवतस्तद्वर्णाश्रमधर्माराध्यत्वं स्वगत्या संवत्सरायनर्तुमा सपक्षदिवानक्तादिरूपेण कालविभाजकत्वं चाह स इति । स उक्तविधः, एष प्रत्यक्षेक्ष्यः भगवानलौकिकैश्वर्यः, आदिपुरुषः साक्षात् नारायणः एव, लोकानां स्वस्तये कल्याणाय, कर्मविशुद्धि- निमित्तं तत्तत्कालनियमेन कर्मणां विशुद्धद्यात्मकसाद्गुण्यस्य निमित्तभूतमित्यर्थः । त्रयीमयम् आत्मानं द्वादशधा विभज्य कविभिः अपि, वेदेन विजिज्ञास्यमानो वितर्क्यमाणः सन्, षट्सु वसन्तादिषु यथोपजोषं यथाकर्मभोगम् ऋतुगुणान् शीतातपवातवर्षादीन्, विदधाति करोति । चोऽवधारणे । अत्र द्वादशधात्मविभागो नामादित्यक्षेत्रज्ञे प्रतिमासमृतुगुणविधानोपयुक्तसंकल्परूपज्ञानेन हरे- रनुप्रवेशः । ‘मासि मासि रविर्यो यस्तत्र तत्र भिदा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै’ इत्यादिना विष्णुपुराणे तथोक्तेः । त्रयीमयत्वं नाम प्राचुर्येण त्रय्या स्तुत्यत्वम् । ‘ऋचः स्तुवन्ति पूर्वाह्न मध्याह्ने च यजूंषि च । बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम्’ इत्यादिना तदपि तत्रैवोक्तम् । यथोपजोषमृतुगुणविधानं तु एक एव शीतकालः सत्कर्मशालिनां सद्वासोनीशारतूलिकावह्नया- दिसेविनां सुखकरः स एवासत्कर्मवतां वस्त्रप्रावरणाद्यभाववशतया शीतार्त्तिसहनद्वारा दुःखोत्पादकः । एवमेक एवोष्णकालः सत्कर्मवतामारामसुमनोमनोहरतरुवल्लीयुत स्थानजलयन्त्रसुसौधादिसेविनां सुखकरः, स एवानधिगतपादत्राणानामहमध्यप्रतप्त- वालुका संचारादिमतामसत्कर्मणां दुःखदः । एवमेव वर्षाकालः नूत्नसत्सौधसच्छत्रादिशालिनां सुखकरः । पतनोन्मुखकुड्यवत्तितउ- वद् गलज्जलादिजीर्णकुटीमतामसत्कर्मणां दुःखकर इति एकविधस्यापि तस्य यथाकर्म फलजनकत्वमिति ॥ ३ ॥ * * एत- देवोपपादयति तमिति । तमेतमादित्यरूपेणावस्थितं भगवन्तम् इह लोके, वर्णाश्रमाचारानुपथाः श्रुतिस्मृतिविहितवर्णाश्रमाचारानु- वर्त्तिनः पुरुषाः, उच्चावचैः आम्नातैवैदिकैः कर्मभिः आम्नातैः योगवितानैरुपासनविस्तरैश्च त्रय्या विद्यया श्रद्धया यजन्तः आराधयन्तः सन्तः, अञ्जसा सुखेन आशु वा श्रेयः खर्गलोकादिरूपं समधिगच्छन्ति सम्यक् प्राप्नुवन्ति ॥ ४ ॥ भाषानुवादः भिन्न-भिन्न ग्रहों की स्थिति और गतिका वर्णन राजा परीक्षितने पूछा - भगवन् ! आपने जो कहा कि यद्यपि भगवान् सूर्य राशियोंकी ओर जाते समय मेरु और ध्रुवको दायीं ओर रखकर चलते मालूम होते हैं, किन्तु वस्तुतः उनको गति दक्षिणावर्त नहीं होती- इस विषय को हम किस प्रकार समझें ? ।। १ ।। * * श्री शुकदेवजीने कहा- राजन् ! जैसे कुम्हार के घूमते हुए चाकपर बैठकर उसके साथ घूमती हुई चींटी आदिकी अपनी गति उससे भिन्न ही है, क्योंकि वह भिन्न-भिन्न समय में उस चक्रके भिन्न-भिन्न स्थानों में देखी जाती है-उसी प्रकार नक्षत्र और राशियों से उपलक्षित कालचक्र में पड़कर ध्रुव और मेरुको दायें रखकर घूमनेवाले सूर्य आदि ग्रहों की गति वास्तव में उससे भिन्न ही है; क्योंकि वे कालभेदसे भिन्न-भिन्न राशि और नक्षत्रों में देख पड़ते हैं ॥ २ ॥ वेद और विद्वान लोग भी जिनकी गतिको जाननेके लिए उत्सुक रहते हैं, वे साक्षात् आदिपुरुष भगवान् नारायण ही लोकोंके कल्याण और कमोंकी शुद्धिके लिये अपने वेदमय विग्रह कालको बारह मासोंमें विभक्त कर वसन्तादि छः ऋतुओं में उनके यथायोग्य गुणोंका विधान करते हैं ।। ३ ॥ ॐ* इस लोक में वर्णाश्रमधर्मका अनुसरण करनेवाले पुरुष वेदत्रयीद्वारा प्रतिपादित छोटे-बड़े कर्मोंसे इन्द्रादि देवताओंके रूपमें और योग के साधनोंसे अन्तर्यामीरूपमें उनकी श्रद्धापूर्वक आराधना करके सुगमता से ही परम पद प्राप्त कर सकते हैं ॥ ४ ॥ रुक. ५ अ. २२ इलो. ५-१२] अनेकव्याख्या समलङकृतम् ४९५ अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते राशिसंज्ञान् संवत्सरारावयवान्मासः पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः || ५ || अथ च यावतार्थेन नभोवीभ्यां प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥ अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योमण्डलाभ्यां कात्स्न्र्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सर- मनुवत्सरं वत्सरमिति भानोर्मान्द्यशैध्य समगतिभिः समामनन्ति ॥ ७ ॥ ॥७॥ एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्ति पक्षाभ्यां मासमुक्ति सपादक्षम्यां दिनेनैव पक्षशुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥ अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षावर पक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्र त्रिंशता मुहूर्तेर्भुङ्क्ते ॥ ९ ॥ य एष षोडशकलः पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्य भूतपशुपक्षि- सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति ॥ १० ॥ तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टा- विंशतिः ।। ११ ।। तत उपरिष्टादुशना द्विलक्षयोजनत’ उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य शैष्यमान्यसाम्याभिर्गतिभि- रर्कवच्चरति लोकानां नित्यदानुकूल एवं प्रायेण वर्षयश्चारेणानुमीयते स ष्षृष्टिविष्टम्भग्रहोपशमनः ॥ १२ ॥ अन्वयः – अथ सः एषः लोकानाम् आत्मा द्यावापृथिव्योः अन्तरेण नभोवलयस्य कालचक्रगतः राशिसंज्ञान् संवत्सरा- वयवान् द्वादशमासान् भुङ्क्ते मासः पक्षद्वयम् दिवा नक्तम् च सपादर्क्षद्वयम् इति उपदिशन्ति यावता षष्ठम् अंशम् भुंजीत सः वै संवत्सरावयवः ऋतुः इति उपदिश्यते ॥ ५ ॥ अथ च यावता अर्धेन नभोवीभ्याम् प्रचरति तम् कालम् अयनम् आचक्षते ॥ ६ ॥ * अथ च सः ह यावत् नभोमंडलम् द्यावापृथिव्योः मंडलाभ्याम् सह कात्स्न्र्त्स्न्येन भुंजीत म् कालम् संवत्सरम् परिवत्सरम् इडावत्सरम् अनुवत्सरम् वत्सरम् इति भानोः मान्द्यशैध्य समगतिभिः समामनन्ति ॥ ७ ॥ * * मान्द्यशैघ्यसमगतिभिः ॥ एवम् अर्कगभस्तिभ्यः उपरिष्टात् लक्षयोजनतः उपलभ्यमानः अप्रचारी द्रुततरगमनः चंद्रमाः अर्कस्य संवत्सरभुक्तिम् पक्षाभ्याम् मासभुक्तिम् सपादर्क्षाभ्याम् पक्षभुक्तिम् दिनेन एव भुङ्क्ते ॥ ८ ॥ * * अथ च पूर्वपक्षापरपक्षाभ्याम् आपूर्यमाणाभिः कलाभिः अमराणाम् च क्षीयमाणाभिः कलाभिः पितृणाम् अहोरात्राणि वितन्वानः च सर्वजीवनिवहप्राणः जीवः एकम् एकम् नक्षत्रम् त्रिंशता मुहूर्तेः भुङ्क्ते ॥ ९ ॥ 8 8 यः एषः षोडशकलः पुरुषः भगवान् मनोमयः अन्नमयः देवपितृमनुष्यभूतपशुपक्षि- सरीसृपवीरुधाम् प्राणाप्यायनशीलत्वात् सर्वमयः इति वर्णयन्ति ।। ॥ १० ॥ * * ततः ततः उपरिष्टात् त्रिलक्षयोजनतः कालायने ईश्वरयोजितानि अभिजिता सह अष्टाविंशतिः नक्षत्राणि मेरुम् दक्षिणेन एव ।। ११ ।। * ततः उपरिष्टात् द्विलक्षयोजनतः
- उशनाः उपलभ्यते अर्कस्य पुरतः पश्चात् वा सह एवं शैध्यमांद्यसाम्याभिः गतिभिः अर्कवत् चरति लोकानाम् नित्यदा अनुकूलः एव सः प्रायेण वर्षयन् चारेण वृष्टिविष्टम्भग्रहोपशमनः अनुमीयते ॥ १२ ॥ समा श्रीधरस्वामिविरचिता भावार्थदीपिका । । । स एव स्वगत्या मासादिव्यवहारकारणमित्याह । स एष लोकानामात्मा द्यावापृथिव्योरन्तरेण मध्ये यन्नभोवलयमन्तरिक्षं तस्य मध्ये यत्कालचक्रं तद्रतः । राशिभिर्मेषादिभिः संज्ञा येषाम् । चैत्रादिसंज्ञास्तु चान्द्रमासानाम् । मासमाह पक्षद्वयं मास इति चान्द्रेण मानेन सपादं महानक्षत्रद्वयम् । सौरेण दिवा नक्तं चाहोरात्रमिति पित्र्येण । षष्ठमंशं राशिद्वयम् ।। ५-६ ।। * * मण्डलाभ्यां सह भुंजीत । स ह स हि सूर्यः । यदा शुक्लप्रतिपदि संक्रान्तिर्भवति तदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स । संवत्सरः ततः सौरमानेन वर्षे षट् दिनानि वर्धन्ते चान्द्रमानेन षट् हसन्तीति द्वादशदिनव्यवधानादुभयोरप्रपञ्चाद्भावो भवति । एवं पञ्च वर्षाणि गच्छन्ति तन्मध्ये द्वौ मलमासौ भवतः, ततः पुनः षष्ठः संवत्सरो भवति । तदेवमवान्तरभेदेन संवत्सरादिपञ्चकं समामनन्ति ॥ ७ ॥ * * सोमादीनामपि स्थानं कार्यं चाह एवं चन्द्रमा इति । अर्कगभस्तिभ्यो मण्डलरूपेभ्यः सपाद- क्षभ्यां सपाददिनद्वयेन ॥ ८ ॥ सर्वेषां जीवनिवहानां प्राणः अन्नमयत्वादमृतमयत्वाश्च अत एव जीवने हेतुत्वा- जीवश्च ॥ ९ ।। * तदेवाह । य एष इति ॥ १० ॥ ॐ दक्षिणेनैव न तु तेषां पृथगन्या गतिरस्तीत्यर्थः । कालायने । । १. प्रा० पा०—द्वयं सपादर्क्षद्वयं दिवा नक्तमुपवदन्ति यावता । २. प्रा० पा०–ध्याः । ३. प्रा० पा०—यहः प्राणो । ४. प्रा० पा० -जन उपलभ्यते । ५. प्रा० पा०- -कानू नित्यदा० । ४९६ श्रीमद्भागवतम् [ एक. ५ अ. २२ श्लो. ५-१२ कालचक्रे उत्तराषाढा श्रवणसन्धावभिजिन्नक्षत्रं फलविशेषेण पृथकल्पितं तेन सह । तथा च श्रुतिः “अभिजिन्नाम नक्षत्रमुपरिष्टादा- पाढानामधस्ताच्छ्रोणायाः” इति ॥ ११ ॥ * * पुरतः सूर्येण भोक्ष्यमाणे नक्षत्रे पश्चाद् भुंक्ते । सदैव भुज्यमाने चारेण क्रमस्थनक्षत्राद्यतिक्रमेण । वृष्टर्विष्टंभः स्तम्भनं यस्माद् गृहात्तमुपशमयतीति तथा ।। १२ ।। श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ।। ।। * * अथ वाक्यालंकारे ॥ ५ ॥ * * अर्द्धेन मासषट्केन ॥ ६ ॥ द्यावापृथिव्योरिति । घुमण्डलपृथिवी- मण्डलयोर्मध्यवर्त्तिना नभोमण्डलेन तुल्यत्वमेव ज्ञापितं न त्वाधिक्यम् । यदा शुक्लप्रतिपदीत्यादि तृतीयस्कन्धे विवृतमेवेत्युपरम्यते ॥ ७ ॥ * * अर्कंगभस्तयोऽकैमण्डलं ततो लक्षयोजनत इति भूतलाद्विलक्षयोजनत इत्यर्थः । यद्युप्रचारी कदाचित्स्यात्तदा द्रुततरगमनः सन् दिनेनैव पक्षभुक्ति भुंक्तेऽन्यथा तु सार्द्धसप्तघटिकोत्तरेण दिनेनेत्यर्थः ॥ ८ ॥ " आपूर्यमाणाभिरिति । शुकुकृष्णपक्षाभ्यां देवानामहोरात्रौ कृष्णशुरूपक्षाभ्यां पितॄणामिति देवपितृपूजार्थमहोरात्रव्यवस्थेयम् । वस्तुतो देवाहोरात्रौ त्वायन- द्वयेनैव ‘वर्षेण देवतः’ इत्युक्तेः । ओषधीशत्वेनान्नमयत्वात्प्राणः ‘अनं हि प्राणिनां प्राणः इति स्मृतेः । अत एव जीवनहेतुत्वादमृत- मयत्वाच्च जीवः ॥ ९ ॥ * पुरुषः सर्वतोऽग्रगामी । ‘पुर- अग्रगमने’ धातुः । भगवान्सुरूपः मनोधिष्ठातृत्वान्मनोमयः | अमृतमयः जलमयः । ’ पयः कीलोलममृतम्’ इत्यमरः । सुधामयो वा । प्राणानामाप्यायनं पूरणं स्वरश्मिभिरमृतवर्षणद्वारा धारणं तत्स्वभावत्वात्सर्वमयः सर्वपालकः ॥ १० ॥ * ततः चन्द्रात् । त्रिलक्षेति । भूतलात्तु पञ्चलक्षयोजनतः । इत्यर्थ इति । । नक्षत्राणामपि कालचक्रस्थत्वास द्रत्यैव तेषां गतिः । मेरुं प्रदक्षिणीकुर्वता कालचक्रेण तान्यपि प्रदक्षिणीकुर्वन्तीति भावः । अभिजि- सन् प्रमाणमाह- तथा चेति । उत्तराषाढाचरमपादः श्रवणघटिकाचतुष्कञ्चाभिजिन्मानं ज्योतिःशास्त्रे प्रोक्तमिति ॥ ११ ॥ * * ततो नक्षत्रेभ्यः । उशनाः शुक्रः । द्विलक्षेति । भूतलात्तु सप्तलक्षयोजनतः । वर्षयन्वर्षं कुर्वन् । क्रमस्थनक्षत्राद्यतिक्रमो यथा – अश्विनीतो भरणी मन्तव्या तामुल्लंघ्य कृत्तिकासु गमनमित्येवंरूपं यस्माद् ग्रहाद्धौमादेः तं ग्रहम् । स्वदृष्ट्या स्वयोगेन वोपशमयति वृष्टिं कारयतीति भावः । “बुधशुक्रसमीपस्थः करोत्येकार्णवां महीम्” इत्याद्युक्तेः ॥ १२ ॥ श्रीमद्वीरराघवव्याख्या अथ ननु लोकानामन्तरात्मा भगवानेष आदित्यरूपेणावस्थितो द्यावापृथिव्योर्मध्ये यन्नभोवलयमन्तरिक्षं तस्य मध्ये यत्कालचक्रं शिशुमारं कालचक्रस्थमेषादिराशिषु नक्षत्राभिमुखं चरन्नित्यर्थः । द्वादश मासान् भुङ्क्ते संवत्सरावयवान् मासाख्यान् । यानेवादित्यो द्वादश संवत्सरावयवान् भुङ्क्ते तानेव राशिसंज्ञान् मेषादिसशिसञ्चारनिमित्ता मासादिसंज्ञाः येषां तान् सम्वत्सरावयवान् मासादीन्मान- भेदेन वदन्ति । तत्र चान्द्रेण मानेन मासः पक्षद्वयमिति वदन्ति तेषामेव चित्रादिनक्षत्रयुक्तत्वाच्चैत्रादिसंज्ञा भवन्ति । सौरेण मानेन सपादमहानक्षत्रद्वयमिति वदन्ति पित्र्येण मानेन दिवानक्तमहोरात्र इति वदन्तीत्यर्थः । एतद्द्वादशभागात्मकस्य संवत्सरस्य यावता भागेन मासद्वयात्मकेन षष्ठमंशं राशिद्वयं भुञ्जीत चरेत् आदित्य इति कर्तृपदमध्याहार्थं स वै तावान् काल ऋतुरित्युच्यते । स च सम्वत्सरस्य षष्ठोंऽश इत्यर्थः । अथ संवत्सरस्य यावता षण्मासात्मकेनार्द्धेन कालेन नभोवीध्यां कालचक्रस्य राशिषट्के संचरित प्रचलति तं कालमयनमाचक्षते, यावता कालेन मकरादिराशिषट्कं भवति तावन्तं कालमयनमाचक्षत इत्यर्थः । अथवा द्यावापृथिव्योर्मण्डलाभ्यां सह सन्धितमिति शेषः, यावन्नभोमण्डलं द्वादशर श्यात्मकं कात्स्न्र्त्स्न्येन यावता कालेनायनद्वयात्मकेन भुञ्जीत द्वादशराश्यात्मकं कृत्स्नं नभोमण्डलं भानोर्मन्दादिगतिभिर्यावता कालेन सञ्चरितं भवति तं कालं संवत्सरादिकमिति समामनन्ति इत्यर्थः । अत्रेदमवधेयं यदा शुक्लप्रतिपदि संक्रान्तिर्भवति तदा सौरचान्द्रमानयोर्युगपदुपक्रमो भवति स संवत्सरः सौरमानवर्षे षड् दिनानि वर्द्धन्ते चन्द्रमाने षट् हसन्तीति द्वादशदिनव्यवधानादुभयोरप्रपञ्चाद्भावो भवति । एवं पञ्च वर्षाणि गच्छन्ति तन्मध्ये द्वौ मलमासौ भवतः । ततः पुनः षष्ठः सम्वत्सरो भवति तदेवमवान्तरभेदेन सम्वत्सर परिवत्सरेडावत्सरानुवत्सरादिक्रमेण समा- मनन्तीति ।। ५-७ ॥ * * एवं सूर्यस्य गतिभेदस्तत्कृतः कालविभागश्वोक्तः, अथ सोमज्ञशुक्रादीनां स्थानानि तद्वतिभेदान तत्कृतशुभाशुभादिकार्यं चाह एवमित्यादिना यावदध्यायम् । अर्कगभस्तिभ्यो मण्डलरूपेभ्यः लक्षयोजनतः उपरिष्टादुपलभ्यमानः द्रुततरगमनोऽत एवं उमं चरतीत्युप्रचारी सन्नर्कस्य या सम्वत्सरभुक्तिः सम्बत्सरेण द्वादशराशिसनारात्मिका भुक्तिः तां पक्षाभ्यामेव भुक्तं करोति एवमर्कस्य या मासभुक्तिः तां सपादक्षभ्यां पादाधिकाभ्यां नक्षत्राभ्यां सपादनक्षत्रद्वयाभिमुख- गमनेनैव सार्द्धसप्तोत्तर षष्टिमुहूर्तात्मकका लेनेति यावत्, पक्षभुक्ति दिनेनैव त्रिंशन्मुहूर्त्तात्मककालेनैव करोतीत्यर्थः ॥ ८ ॥ अथ हे राजन् ! पूर्यमाणाभिः शुकपक्षेऽपक्षीयमाणाभिः कृष्णपक्षे कलाभिः विभक्ताभ्यां पूर्वपक्षापरपक्षाभ्यां शुरूकृष्णपक्षाभ्यां पितॄणामहोरात्राण्यहोरात्रात्मकमेकं दिनं कुर्वाणः सर्वेषां जीवसमूहानां प्राणः प्राणाप्यायनकरः अत एव जीवः जीवयतीति जीवः जीवनहेतुः एवंभूत एकमेकं नक्षत्रं त्रिंशता मुहूर्तेर्भुङ्क्ते । षोडशकला यस्य स एव पुरुषश्चन्द्रशरीरको भगवान्मनोमयः मानसाधि - देवतात्वादन्नमयः ओषधीशत्वादमृतमयः सर्वप्राणिजीवनहेतुत्वाद्देवादीनां ये प्राणास्तेषामाप्यायनस्वभावत्वात्सर्वमय इति वर्णयन्ति द्वादश भुक्तऽनुभवति मकरादिषु राशिषु द्वादशस्वादित्येषु चरत्सु सत्सु द्वादशमासा सम्वन मासादीन्मान- स्क. ५ अ. २२ इलो. ५-१२] अनेकव्याख्या समलङ्कृतम् ४९७ तत्स्वरूपज्ञा इति शेषः ।। ९-१० ।। * * ततश्चन्द्रमण्डलस्योपरिष्टात्रिलक्षयोजनतः अभिजिता सहाष्टाविंशतिर्नक्षत्राणि भवन्ति तथा च श्रुतिः कालायने कालचक्रे ईश्वरेणान्तरात्मभूतेन चोदितानि प्रेरितानि मेरुं प्रदक्षिणेनैव न तु तेषां सूर्यादिवत् पृथगन्या गतिरस्तीत्यर्थः, उत्तराषाढाश्रवणसन्धावभिजिन्नाम नक्षत्रं फलविशेषेण पृथक्कल्पितं तेन सहाष्टाविंशतिर्नक्षत्राणि भवन्ति । तथा च श्रुतिः “अभिजिन्नाम नक्षत्रमुपरिष्टादाषाढानाम्” इति ॥ ११ ॥ * * ततो नक्षत्रमण्डलद्विलक्षयोजनत उपर्युशना शुक्रः उपलभ्यते स चार्कस्य पुरतः पश्चात् पुरतः सूर्येण भोक्ष्यमाणं नक्षत्रं पश्चाद् भुङ्क्ते सदैव भुज्यमाने तु नक्षत्रे शैघ्यादिगति- भिरकंबञ्चरति । स च लोकानां सदानुकूल एव वर्त्तते यस्य शुक्रस्य चारेण क्रमस्थनक्षत्राद्यतिक्रमेण प्रायशो वर्षं वृष्टिरनुमीयतेऽतः स वृष्टिविष्टम्भग्रहोपशमनः वृष्टर्विष्टम्भः स्तम्भनं यस्माद् ग्रहान्तमुपशमयतीति तथा उशनसा शुक्रेणेति प्रकारेण बुधोऽपि बुधगतिरपि व्याख्यातेत्यर्थः । सूर्यस्य पुरः पश्चात्सहैव वा चरतीति व्याख्यात इति भावः । किश्चिद्विशेषमाह तत इत्यादिना । ततः शुक्रमण्डलाद् द्विलक्षयोजनत उपरि सोमस्य सुतो बुधः उपलभ्यमानः लोकानां प्रायेणाशुभकृत् दुःखकृत्, अशुभकृत्त्वमेवाह यदार्काद्वयतिरिच्यते- ऽर्केण सह न चरति तदातिवातः अभ्रप्रायं मेघप्राचुर्यमनावृष्टिरित्यादिरूपं भयमाशंसते सूचयति ।। १२-१३ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अथ स इति तच्छब्देन सूर्यान्तर्यामी नारायणः परामृश्यते प्रस्तुतत्वाल्लोकानामात्मेत्युक्तेश्च । अथशब्दान्नारायणाधिष्ठानभूतः सूर्यो वाद्यावापृथिव्योरन्तरेण मध्ये स्थितस्य नभोवलयस्य मध्यवर्ती कालचक्रगतः भुङ्क्ते वर्तयति राशीनां संज्ञा येषां मासानां ते तथा तान् मेषवृषादीनित्यर्थः । संवत्सरस्य द्वादशांशो मास इति ज्ञापनाय सम्वत्सरावयवानिति विशेषणं, पक्षद्वयमित्यनेन मास- परिमाणं सपादर्क्षद्वयमित्यनेन नक्षत्रनिमित्तमासपरिमाणं तिध्यात्मककालांशभोक्तृत्वं चेत्यनेनोक्तं कृत्तिकापादयुक्ताश्विनीभरण्यौ मेष इत्यादिक्रमेण बोद्धव्यं पक्षद्वयात्मक कालभोगेन सह सपादर्क्षद्वयात्मकालस्य भुज्यमानत्वादुभयं च युज्यत इत्यर्थः । सम्वत्सरस्य षष्ठमंशं मासद्वयं यावता कालेन नभोवीथ्या अर्द्धेन प्रचरति तं कालमयनमाहुः । दक्षिणायनमुत्तरायणमुत्तरायणे मन्दगतिर्दक्षिणायने त्वरिता गतिर्वेषुवे समाना गतिरिति ।। ५-६ ।। * द्यावापृथिव्योर्मण्डलाभ्यां सह नभोमण्डलं प्रचलति तं कालं सम्वत्सरादि- पञ्चभेदेन सूर्यस्य मन्दाद्गितिभेदाद्वदन्ति तज्ज्ञा इति शेषः ॥ ७ ॥ * * अर्कस्य सम्वत्सरभुक्तिं द्वादशराशिप्राप्ति पक्षाभ्यां शुक्लकृष्णसंज्ञाभ्यां भुङ्क्ते मासभुक्तिं सपादर्भाभ्यां सकृत्तिकाश्विनीभरणीभ्यामित्यादिक्रमेण प्राप्नोति पक्षभुक्तिमेकनक्षत्र सम्मितां दिनेनैव भुङ्क्ते चन्द्र इत्यर्थः । अत्र हेतुमाह अग्रचारीति । नक्षत्राणामप्रणीत्वमप्रचारित्वम् ॥ ८ ॥ * * सर्वजीवराशि- चेष्टकः जीवश्च प्राणधारकच दिनेन पक्षभुक्तिं स्पष्टयति । एकमिति त्रिंशन्मुहूर्ते त्रिंशद्भिर्मुहूर्तेः ॥ ९ ॥ * सर्वजीवनिवह- प्राण इत्युक्तं स्पष्टयति देवेति । उपजीव्यप्रधानत्वात्सर्वमय इत्यर्थः ॥ १० ॥ * * कालानयने तादर्थ्ये सप्तमी, काल- ज्ञापनार्थमीश्वरनियुक्तानि कालचक्र इति वा अभिजिदुत्तराषाढाश्रवणयोः संयोगः अश्विनी रेवत्योः सन्धिरिति केचित् ॥ ११॥ यस्योशनसः स्थितद्वारेण वृष्टिविष्टम्भग्रहोऽङ्गारकः ॥ १२ ॥ ॥ श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः पक्षद्वयं मास इत्युपदिशन्ति । चान्द्रेण मानेन दिवा नक्तं चेत्युपदिशन्ति पैत्र्येण सपादर्क्षद्वयच मास इत्युपदिशन्ति सौरेण ॥ ५-७ ।। * * उग्रचरणशीतलत्वादेव द्रुततरगमनः ।। ८-१७॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजीवगोस्वामिकृतक्रमसन्दर्भस्य द्वाविंशोऽध्यायः ॥ २२ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी सूर्यगत्यैव मासादिव्यवहार इत्याह अथेति । द्यावापृथिव्योर्मध्ये यन्नभोवलयं तस्य कालचक्रगतः तत्सम्बन्धिज्योतिश्चक- स्थितः मास एव कस्तत्राह पक्षद्वयं मास इति । चान्द्रेण मानेन दिवा नक्तमिति पैत्र्येण सपादनक्षत्रद्वयं सौरेण । स्वगम्यस्य नभो- मण्डलस्य यावता द्वादशमंशं भुङ्क्ते सूर्यः स कालो मासः अत्रानुक्तोऽपि ज्ञेयः । षष्ठमंशं मासद्वयम्, अर्द्धेन अर्द्ध मासषट्कं भुङ्क्ते इत्यर्थः ।। ५-६ ।। * * * द्यावापृथिव्योरिति घुमण्डल पृथिवीमण्डलयोर्मध्यवर्तिना नभोमण्डलेन तुल्यत्वमेव ज्ञापितं न त्वन्यथाधिक्यं संवत्सरादिनामभेदः सौरचान्द्रादिकृत्योपयोगित्वेन तृतीयस्कन्ध एव विवृतः ॥ ७ ॥ * * चन्द्रादीनामपि स्थानं कार्यवाह अकंगभस्तयोऽर्कमण्डलं ततः लक्षेति भूतलाद्विलक्ष इत्यर्थः । सपादर्क्षाभ्यां सपाददिनद्वयेन दिनेनैवेति । यद्युप्रचारी कदाचित्स्यात् तदा द्रुततरगमनः सन् दिनेनैव पक्षभुक्तिं भुङ्क्ते अन्यदा तु सार्द्धसप्तघटिकोत्तरेण दिनेन ॥ ८ ॥ * * आपूर्यमाणाभिरिति शुकृष्णपक्षाभ्यां पितॄणामिति देवपितृपूजार्थं देवपित्रोरहोरात्रव्यवस्थेत्यर्थः । ओषधीशत्वेनान्नमयत्वात् प्राणः । “अन्नं हि प्राणिनां प्राणः” इति स्मृतेः । अत एव जीवनहेतुत्वादमृतमयत्वाश्च जीवः ॥ ९ ॥ * * मनसोऽधिष्ठातृत्वान्मनो: मयः ।। १० ।। ॐ त्रिलक्षेति भूतलात्तु पञ्चलक्षतः दक्षिणेनैवेति तेषां पृथग्गत्यभावात् । कालायने कालचक्रे सहाभिजितेति “अभिजिन्नाम नक्षत्रं उपरिष्टादापाढानामधस्ताच्छ्रोणायाः” इति श्रुतेः । “उत्तराषाढ़ा शेषार्द्धात् श्रवणादौ लिप्तिकाचतुष्के च ६३ ….. ४९८ PRE श्रीमद्भागवतम् [ स्कं. ५ . २२ श्लो. ५-१२ अभिजित्” इति ज्यौतिषाच्च लिप्तिका दण्डः ॥ ११ ॥ * * द्विलक्षेति । भूतलात्तु सप्तलक्षतः चारेण सञ्चारेण वृष्टेर्विष्टम्भः स्तम्भनं यस्मात्तमरिष्टमुपशमयतीति सः ।। १२ ।। । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः सूर्य एव स्वगत्या मासादिव्यवहारहेतुरित्याह अधेति । लोकानामात्मा परमपुरुषतयोपास्यत्वाद् द्यावापृथिव्योरन्तरेण मध्ये यन्नभोवलयमन्तरिक्षं तस्य मध्ये यत्कालचक्रं तत्तद्वतिराशिभिः संज्ञा येषां तान् मासान् भुङ्क्ते चैत्रादिसंज्ञास्तु चान्द्रमासानां मासमाह पक्षद्वयं मास इति । चान्द्रेण मानेन सपादं महानक्षत्रद्वयं मास इति सौरेण मानेन दिवा नक्तमहोरात्रं मास इति च पैत्र्येण मानेनोपदिशन्ति मासज्ञाः षष्ठमंशं राशिद्वयं भुञ्जीत चरेत् ।। ५-६ ।। * * स हि सूर्यः द्यावापृथिव्योर्मण्डलाभ्यां सह सन्धितं नभोमण्डलं कात्स्न्येन यावद् भुञ्जीत तं कालं भानोरेव मन्दादिमतिभिरवान्तरभेदवशात् संवत्सरादिपश्च समामनन्ती- त्यन्वयः । यदा शुक्लप्रतिपदि संक्रान्तिर्भवति तदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स सम्वत्सरः । ततः सौरमानेन वर्षे षड् दिनानि वर्धन्ते चान्द्रमानेन षड् दिनानि हसन्तीति द्वादशदिनव्यवधानादुभयोरपश्चाद्भावो भवति । एवं पञ्च वर्षाणि गच्छन्ति तन्मध्ये द्वौ मलमासौ भवतः । ततः पुनः षष्ठः सम्वत्सरो भवति तदेवमवान्तरभेदेन सम्वत्सरादिपञ्चसमा भवन्ति ॥ ७ ॥ * * अर्कगभस्तिभ्यो मण्डलरूपेभ्यः सपादर्क्षाभ्यां पादाधिकदिनयुग्मेन ॥ ८ ॥ कार्य ॥ * * आपूर्यमाणाभिः शुकपक्षे अपक्षीयमाणाभिः कृष्णपक्षे पितृरूपाणाममराणां देवानामहोरात्राणि वितन्वानः सर्वेषां जीवनिवहानां प्राणः अन्नमयत्वादमृतमयत्वाच्च, अत एव जीवयतीति जीवः ।। ९-१० ।। कालायने कालचक्रे सहाभिजितेति उत्तराषाढा श्रवणसन्धौ फलविशेषार्थं पृथक्कल्पितेना- ९-2011 ४ * ‘भिजिन्नक्षत्रेण सहाष्टाविंशतिः । तथा च श्रुतिः “अभिजिन्नाम नक्षत्रमुपरिष्टादाषाढानामधस्ताच्छ्रोणायाः” इति ॥ ११ ॥ * * ‘चारेण क्रमस्थनक्षत्राद्यतिक्रमेण प्रायेण वर्षयन् वृष्टिं प्रवर्तयँल्लोकानामनुकूलोऽनुमीयते निश्चीयते अत एव स शुक्रः वृष्टेर्विष्टम्भः स्तम्भनं यस्माद् ग्रहात्तमुपशमयतीति तथा ।। १२ ।। गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी
- ویو
- ।। ।।
- हैं
- सूर्य एव स्वगत्या मासादिव्यवहारहेतुरित्यर्थान्तरमाह अथेति । स एष लोकानामात्मा सूर्यो द्यावापृथिव्योरन्तरेण मध्ये यन्नभोवलयमन्तरिक्षं तस्य मध्ये यत्कालचक्रं तद्गतो राशिभिर्मेषादिभिः सज्ञा येषां तान् संवत्सरस्यावयवभूतान् मासान् ‘भुङ्क्ते इत्यन्वयः । भुक्तिरतिक्रमणम् । चैत्रादिसञ्ज्ञास्तु चान्द्रमासानाम् ||५ ॥ मासभेदानाह - मास इति । - पक्षद्वयं मास इति चान्द्रेण मानेन । तदेव दिवा नक्तं चाहोरात्रं च पितॄणामिति शेषः । सपादर्क्षद्वयं सपादं महानक्षत्रद्वयं मास
- इति तु सौरेण मानेन इत्युपदिशन्तीति प्रमाणोक्तिः सर्वत्र सम्बध्यते ॥ ६ ॥
- संवत्सरस्य षष्ठमंशं राशिद्वयम् ॥ ७ ॥ * अर्द्धन अर्द्ध यावता मासषट्केन प्रचरति तं कालम् ॥ ८ ॥ अथ च अपि च । मान्द्यादिगतिभिः द्यावापृथि- व्योमण्डलाभ्यां सह कात्स्न्र्त्स्न्येन नभोमण्डलं यावत् सह स हि प्रसिद्धः भुञ्जीत तं कालं भानोरेव निमित्तात् संवत्सरादिसंज्ञया समामनन्ति कथयन्ति वृद्धा इति शेषेणान्वयः । तत्र यदा शुक्लपक्षप्रतिपदि संक्रान्तिर्भवति तदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स संवत्सरः । ततः सौरमानेन वर्षे षट् दिनानि वर्द्धन्ते चान्द्रमानेन च षट् दिनानि हसन्तीति द्वादशदिनव्यवधानात् उभयोरपश्चाद्भावो भवति, एवं पञ्च वर्षाणि गच्छन्ति तन्मध्ये द्वौ मलमासौ भवतः, वर्षाणां च यथाक्रमं संवत्सरादिसंज्ञा भवति ततः पुनः षष्ठः संवत्सरसंज्ञको वर्षः प्रवर्त्तते । एवमवान्तरभेदो ज्ञेयः ॥ ९ ॥ * * इदानीं चन्द्रादीनामपि स्थानं कार्यं च दर्शयति - एवमित्यादिना । अर्कगभस्तिभ्यः सूर्यमण्डलरूपेभ्यः । अर्कस्य संवत्सरभुक्ति पक्षाभ्यां भुङ्क्ते । तस्य मासभुक्ति तु सपादर्क्षाभ्याम्, सपादनक्षत्रद्वयेन सपाददिनद्वयेन भुङ्क्ते ।
- पानि । यदि
- भुङ्क्ते । यदि तु कदाचिदुग्रचारी भवति तदा द्रुततरगमनः सन्नेकेनैव दिनेनाहोरात्रात्मकेन पक्षभुक्तिं भुङ्क्ते ॥ १० ॥ ॐ तत्कृतं सर्वोपकार प्रदर्शनपूर्वकं दिनेने पक्षभुक्तिमेव स्पष्टयति- अथ चेति। आपूर्यमाणाभिश्च कलाभिः शुक्लपक्षेण अमराणामहानि पूजादिनानि वितन्वानः, “तस्मादापूर्यमाणाः पक्षे यजन्ते " इति श्रुत्या देवपूजायाः शुक्लपक्षे विधानात् । तेन पक्षेण पितॄणां रात्रीच वितन्वानः । क्षीयमाणाभिश्च कलाभिः कृष्णपक्षेण - पितॄणामहानि पूजादिनानि वितन्वानः, “अपरपक्षे पितॄणाम्” इति श्रुत्या कृष्णपक्षे पितृपूजाविधानात् । तदा च देवपूजाया अप्रशस्तत्वादेव तेषां रात्रीर्वितन्वान इत्युक्तम् । न हि शुक्लपक्षकृष्णपक्षाभ्यां देवानामहोरात्रं भवति, उत्तरायणदक्षिणायनाभ्यां तदहोरात्रस्य तृतीयस्कन्धे प्रतिपादितत्वात्, अन्यथा तद्विरोधापत्तेः । सर्वेषां जीवनिवहानां प्राणिसमूहानां प्राणः सर्वौषधिपोषक- स्वेनान्नमयत्वात् ‘अन्नं हि प्राणिनां प्राणः’ इति स्मृतेः । अत एव जीवनहेतुत्वाज्जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूतैरेकदिवस - परिमितकालेन भुङ्क्ते । चन्द्रादीनामपि रथा उक्ता विष्णुपुराणे- ‘यावन्त्यश्चैव तारास्तास्तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रमयन्ति तम् ॥ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो मुक्ता दश तेन चरत्यसी’ इति ॥ ११ ॥
- स्वोक्तं प्रमाणीकर्तुं वृद्धवचनेनैव तद्विवृणोति - य इति । य एष षोडशकलः पुरुषश्चन्द्रस्तं सर्वमय इति वर्णयन्तीत्यन्वयः । कथं तस्य षोडशकलत्वमित्यपेक्षायां दशेन्द्रियाणि पञ्च महाभूतानि एक मनश्चेत्येवं षोडशसङ्घातप्रधान-एक. ५ अ. २२ श्लो. ५-१२]
- अनेकव्याख्या समलङ कृतम्
- मनो नियन्तृत्वादित्यभिप्रेत्याह- मनोमय इति । कथं सर्वमयत्वं तत्राह - देवेति । देवादीनां प्राणानामाप्यायनशीलत्वात् । सर्वजीवन- हेतुत्वात् सर्वमयत्वमित्यर्थः । आप्यायनहेतुत्वमपि कथं तत्राह–अन्नमयोऽमृतमय इति । कथमेवम्प्रभावोऽसावित्यत आह–
- भगवानिति, भगवतो मनोरूपत्वादित्यर्थः ।। १२ ॥
- 1
- श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी
- अथेति । यथेत्यर्थान्तरे लोकानाम् आत्मात्मरूपेणावस्थितः । सः एषः सूर्यः एव द्यावापृथिव्योः, अन्तरेण मध्ये, यन्नभोवल- यमन्तरिक्षं तस्य मध्ये, यत्कालचक्रं तद्वतः सन् राशिभिर्मेषादिभिः संज्ञाऽभिधानं येषां तान् संवत्सरावयवान्, द्वादशद्वादश- संख्याकान् , मासान् भुङ्क्तेऽनुभवति । सूर्यस्य मेषसंक्रमणमारभ्य यावद्वृषभसंक्रमणं मेषमासस्ततो वृषसंक्रमणमारभ्य यावन्मि- थुनसंक्रमणं वृषभो मासः । एवं राशिसंज्ञत्वं तन्मासानामेषामतः संख्यायां तात्पर्यं नास्ति संक्रमण प्राधान्याभिधानादेव सौरो मास इति दैवज्ञाः । एतद्विविनक्ति । पक्षद्वयं मासः । एतच्चान्द्रमानेन, शुक्लप्रतिपदमारभ्य दर्शपर्यन्तो मासश्चान्द्रमानेनेत्यर्थः । एषां चैत्रादिसंज्ञा तु चित्रादिनक्षत्रयुक्त पौर्णमासीयुक्तत्वतो बोध्या । दिवानक्तमहोरात्रं मासः इति तु पित्र्येण मानेन । सपादर्क्षद्वयं मासः इति च समुपदिशन्ति । सौरेण मानेन सपादमहानक्षत्रद्वयं मास इति कथयन्तीत्यर्थः । यावता कालेन, षष्ठम् अंशं भुञ्जीत, द्वादशभागतो हि संवत्सरात्मकचक्रस्य मासद्वयात्मकेन यावता भागेन राशिद्वयात्मकं षष्ठमंशमादित्योऽतिचरेदित्यर्थः । स वै तावान्कालः संवत्सरावयवः संवत्सरस्य षष्ठांशभूतः ऋतुः इति उपदिश्यते ॥ ५ ॥ * अथेति । अथ यावता
- अर्द्धन, संवत्सरसंबन्धिना यावता षण्मासात्मकेनार्द्धन भोगेनेत्यर्थः । नभोवीध्या इत्यर्थः प्रचरति तं
- पक्षाभ्यां
- कालम् अयनम् आचक्षते । यावता कालेन मकरादिशिषट्कं सूर्येण संचरितं भवति, तं कालमुत्तरमयनं, अथ च यावता कालेन कर्कादिराशिषट्कं सूर्येण संचरितं भवति, तं कालं दक्षिणमयनमाचक्षते इत्यर्थः ॥ ६ ॥ * * अथ चेति । द्यावापृथिव्योः मण्डलाभ्यां सह, संधितमिति शेषः । यावत् नभोमण्डलं द्यावापृथिवीमण्डलान्तर्वत्तिद्वादशराश्यात्मकं यावन्नभोमण्डलमित्यर्थः । स सूर्यः ह स्फुटं यथा तथा, कार्त्स्न्येन अयनद्वयात्मकेन यावता कालेनेत्यर्थः । भुञ्जीत । द्वादशराश्यात्मकं कृत्स्नं नभोमण्डलं भानुना मन्दादिगतिभिर्यावता कालेन संचरितं भवतीत्यर्थः । तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरम् वत्सरम् इत्येवं भानोः मान्यशैत्र्यसमरातिभिः समामनन्ति । अत्रेदमवधेयम्-यदा शुक्लप्रतिपदि संक्रान्तिर्भवति, तदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स संवत्सरः । ततः सौरमानेन वर्षे वर्षे षट् दिनानि वर्द्धन्ते, चान्द्रमानेन षट् दिनानि सन्ति । इत्येवं द्वादशदिनव्यवधा नादुभयोरपश्चाद्भावो भवति । एवं पञ्च वर्षाणि गच्छन्ति । तन्मध्ये द्वौ मलमासौ भवतः । ततः पुनः षष्ठः संवत्सरो भवति । तदेवमवान्तरभेदेन क्रमेण संवत्सरादिपञ्चकं समामनन्तीति ॥ ७ ॥ * * एवं सूर्यस्य गतिभेदस्तत्कृतः कालविभागश्रोक्तः । अथ सोमशुक्रादीनां स्थानानि तद्गतिभेदान् तत्कृतं लोकानां शुभाशुभादिकं चाह एवमित्यादिना यावदध्यायम् । एवमिति । अर्कगभस्तिभ्यः मण्डलरूपेभ्यः लक्षयोजनतः उपरिष्टात् लक्षयोजनप्रमाणेन सूर्यमण्डलादुपरीत्यर्थः । उपलभ्यमानः, द्रुततरगमनः, अतिशीघ्रगमनः, चन्द्रमाः उयं चरतीत्युप्रचारी सन्, अर्कस्य संवत्सरभुक्ति संवत्सरेण द्वादशराशिसंचारात्मिकां भुक्तिमित्यर्थः । शुक्लकृष्णात्मकपक्षद्वयेनेत्यर्थः । भुङ्क्ते । एवं मासभुक्ति, अर्को मासेन यावद्भुङ्क्ते तावदित्यर्थः । सपादर्क्षाभ्यां सपाददिन- द्वयेन एव, शताधिकपञ्चत्रिंशद्वटिकाभिरित्यर्थः । भुङ्क्ते । परिभुक्ति, अर्क एकेन पक्षेण यावद्द्भुङ्क्ते तावदित्यर्थः । दिनेन त्रिंशन्मुहूर्त्तात्मककालेनेत्यर्थः । भुङ्क्ते ॥ ८ ॥ अथ चेति । अथ च हे राजन्नित्यर्थः । चन्द्रः, आपूर्यमाणाभिः शुक्लपक्षे
- । ॥ * * । अमृतपूर्णाभिः कलाभिः, अमराणां गन्धर्वाद्युपदेवानां क्षीयमाणाभिः क्षीणभावमुपयान्तीभिः कलाभिः, पितॄणाम् अहोरात्राणि पूर्व- पक्षापरपक्षाभ्यां वितन्वानः शुक्लपक्षादिपक्षद्वयेनोपदेवानां कृष्णपक्षादिपक्षद्वये पितॄणामित्थं द्वयोरहोरात्राणि क्रमेण विदधानः सन्नित्यर्थः । सर्वजीवनिवहप्राणः सर्वेषां
- सर्वेषां जीवसमूहानां प्राणाप्ययनकर इत्यर्थः । जीवो जीवनहेतुश्च सन्, एकमेकं नक्षत्रं त्रिंशता मुहूर्तेः, भुङ्क्ते ॥ ९ ॥ * य इति । यः
- त । यः षोडश कला यस्य सः, एषः पुरुषः
- एषः परुषः भगवान् चन्द्रशरीरकः प्रभुः, मनोमयः मनोऽधिदेवतात्वात् । अन्नमयः ओषधीशत्वात् । अमृतमयः सर्वप्राणिजीवनहेतुत्वात् । देवाश्च ऋषयश्च पितरश्च मनुष्याश्च भूतानि च पशवश्च पक्षिणश्च सरीसृपाश्च वीरुधच तासां प्राणाप्यायनशीलत्वात्सर्वप्राणसमूहाप्यायनस्वभावत्वात् सर्वमयः इत्येवं वर्णयन्ति । तत्स्वरूपज्ञा इति शेषः ।। १० ।। तत इति । ततः उपरिष्टात् चन्द्रमण्डलस्योपरितनप्रदेशे इत्यर्थः । त्रिलक्ष- योजनदूरवर्त्तिनः प्रदेशे, अभिजिता सह अष्टाविंशतिः, नक्षत्राणि कालायने कालचक्रे, ईश्वरेणान्तरात्मभूतेन परमात्मना, योजितानि संप्रेरितानि सन्ति, मेरुं दक्षिणेन एव प्रचरन्ति । न तु तेषां सूर्यादिवत्पृथगन्या गतिरस्तीत्यर्थः । उत्तराषाढान्त्यचरणः श्रवणस्या- द्याश्रतस्रो नाडिकाचाभिजिन्नामनक्षत्रं फलविशेषेण पृथक्कल्पितं तेन सहाष्टाविंशतिर्नक्षत्राणि भवन्ति । तथा च श्रुतिः ‘अभि जिन्नाम नक्षत्रमुपरिष्टादाषाढानामधस्ताच्छ्रोणायाः’ इति ॥ ११ ॥ ४ तत इति । ततः नक्षत्रमण्डलात्, उपरिष्टात् द्विलक्षयोजनतः द्विलक्षयोजनदूरवर्त्तिप्रदेशे वर्त्तमानः, उशना शुक्रः, उपलभ्यते । स च अर्कस्य पुरतोऽग्रे वर्त्तमानः, पश्चात् पश्चाद्भागे वर्त्तमानः, सहैव वार्केण साकमेव वर्त्तमानः संश्च शैत्र्यं च मान्यं च साम्यं च तानि विद्यन्ते आस्खिति शैध्यमान्यसाम्यास्ताभिः, अर्श आदिरच् । गतिभिः अर्कवत् चरति च लोकानां नित्यदा अनुकूलः एव वर्त्तते । यस्य चारेण क्रमस्थनक्षत्राद्यतिक्रमेण, प्रायेण
- य
- ५००
- श्रीमद्भागवतम्
- [ स्कं. ५ अ. २२ श्लो. १३-१७ प्रायशः वर्ष वृष्टिः, अनुमीयते । यतः सः, वृष्टिविष्टम्भग्रहोपशमनः, यस्माद्द्महाद् वृष्टेर्विष्टम्भनं तदुपशमयति तथाभूतोऽस्यातिचार इत्यर्थः । वर्षाकाले चेदन्यग्रहैर्वर्षनिरोधः कृतः स्यात्तदवसरेऽस्यातिचारश्चेद्भवेत्तर्ह्यवग्रहकृतं तदुपरोधं मिध्या विधायावश्यं प्रवर्षणं विधापयेदेवंभूतोऽस्य प्रताप इति भावः । उशनसा शुक्रेण बुधोऽपि व्याख्यातः । बुधोऽप्यर्कस्य पुरतः पश्चात्सहैव वा शुक्रवदेव चरतीत्यर्थः ।। १२ ।।
- भाषानुवादः
- भगवान् सूर्य सम्पूर्ण लोकोंके आत्मा हैं । वे पृथ्वी और चुलोकके मध्य में स्थित आकाशमण्डलके भीतर कालचक्र में स्थित होकर बारह मासों को भोगते हैं, जो संवत्सर के अवयव हैं और मेष आदि राशियों के नामसे प्रसिद्ध हैं । इनमेंसे प्रत्येक मास चन्द्रमानसे शुक्ल और कृष्ण दो पक्षका, पितृमानसे एक रात और एक दिनका तथा सौरमानसे सवा दो नक्षत्रका बताया जाता है। जितने कालमें सूर्यदेव इस संवत्सरका छठा भाग भोगते हैं, उसका वह अवयव ‘ऋतु’ कहा जाता है ॥ ५ ॥
- आकाशमें
- भगवान् सूर्यका जितना मार्ग है, उसका आधा वे जितने समय में पार कर लेते हैं, उसे एक ‘अयन’ कहते हैं ।। ६ ।। तथा जितने समय में वे अपनी मन्द, तीव्र और समान गतिसे स्वर्ग और पृथ्वी मण्डलके सहित पूरे आकाशका चक्कर लगा जाते हैं, उसे अवान्तर भेद से संवत्सर, परिवत्सर, इडावत्सर, अनुवत्सर अथवा वत्सर कहते हैं ॥ ७ ॥ * इसी प्रकार सूर्य की किरणोंसे एक लाख योजन ऊपर चन्द्रमा है। उसकी चाल बहुत तेज है, इसलिये वह सब नक्षत्रोंसे आगे रहता है। यह सूर्यके एक वर्षके मार्गको एक मासमें, एक मासके मार्गको सवा दो दिनोंमें और एक पक्षके मार्गको एकही दिनमें तै कर लेता है ॥ ८ ॥ * * यह कृष्णपक्षमें क्षीण होती हुई कलाओंसे पितृगणके और शुक्लपक्षमें बढ़ती हुई कलाओंसे देवताओंके दिन-रातका विभाग करता है तथा तीस-तीस मुहूर्तोंमें एक-एक नक्षत्रको पार करता है । अन्नमय और अमृतमय होनेके कारण यही समस्त जीवोंका प्राण और जीवन है ।। ९ ।। * * ये जो सोलह कलाओंसे युक्त मनोमय, अन्नमय, अमृतमय पुरुषस्वरूप भगवान् चन्द्रमा हैं-ये ही देवता, पितर, मनुष्य, भूत, पशु, पक्षी, सरीसृप और वृक्षादि समस्त प्राणियोंके प्राणोंका पोषण करते हैं; इसलिये इन्हें ‘सर्वमय’ कहते हैं ॥ १० ॥ चन्द्रमासे तीन लाख योजन ऊपर अभिजितके सहित अट्ठाईस नक्षत्र हैं। भगवान ने इन्हें कालचक्रमें नियुक्त कर रक्खा है, अतः ये मेरुको दायीं ओर रखकर घूमते रहते हैं ॥ १२ ॥
- इनसे दो लाख योजन ऊपर शुक्र दिखाई देता है । यह सूर्य की शीघ्र, मन्द और समान गतियोंके अनुसार उन्हींके समान कभी आगे, कभी पीछे और कभी साथ-साथ रहकर चलता है। यह वर्षा करने वाला मह है, इसलिये लोकोंको प्रायः सर्वदा ही अनुकूल रहता है। इसकी गति से ऐसा अनुमान होता है कि यह वर्षा रोकनेवाले ग्रहों को शान्त कर देता है ।। १२ ।।
- उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदाकद व्यतिरिच्येत तदातिवाताम्रप्रायानावृष्टयादिभयमाशंसते ।। १३ ।। अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्य- मानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंसः ॥ १४ ॥ तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति’ यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मण कुलस्य ॥ १५ ॥
- ॥
- तत उपरिष्टाद्योजन लक्षद्वयात्प्रतीयमानः शनैश्वर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ।। १६ ।। तत उत्तरस्मादृषय एकादशलक्षयोजनान्तरं उपलभ्यन्ते य एवं लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥
- इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ।। २२ ।।
- अन्वयः – उशनसा बुधः व्याख्यातः ततः उपरिष्टात् द्विलक्षयोजनतः उपलभ्यमानः सोमसुतः बुधः प्रायेण शुभकृत् यदा अर्कात् व्यतिरिच्येत तदा अतिवाताभ्रप्रायानावृष्टयादिभयम् आशंसते ॥ १३ ॥ * * अतः ऊर्ध्वम् योजनलक्षद्वितये उपलभ्य-
- ।। ।। मानः अंगारकः अपि यदि वक्रेण न अभिवर्तते त्रिभिः त्रिभिः पक्षैः एकैकशः द्वादश राशीन अनुभुङ्क्ते प्रायेण अघशंसः अशुभ- ग्रहः ॥ १४ ॥ * * ततः उपरिष्टात् द्विलक्षयोजनान्तरगतः भगवान् बृहस्पतिः यदि वक्रः न स्यात् एकैकस्मिन् राशौ
- १. प्रा० पा० - प्रचरति । २. प्रा० पा० - प्रायशोऽनु० । ३. प्रा० पा० न्तरत उपलक्ष्यन्ते । ४. प्रा० पा० एवं । ५. प्रा० पा०क्षिणमुपक्रामन्ति । ६. प्रा० पा० चक्रानुवर्णनो ।
- स्क. ५ अ. २२ श्लो. १३-१७]
- अनेकव्याख्यासमलङङ्कृतम्
- ६
- ५०१
- परिवत्सरम् परिवत्सरम् चरति प्रायेण ब्राह्मणकुलस्य अनुकूलः ॥ १५ ॥ * तत् उपरिष्टात् योजनलक्षद्वयात् प्रतीयमानः शनैश्वरः एकैकस्मिन् राशौ त्रिंशन्मासान् विलंबमानः तावद्भिः अनुवत्सरैः सर्वान् एव राशीन् अनुपर्येति प्रायेण सर्वेषाम् अशान्ति- करः अस्ति ।। २६ ।। * * ततः उत्तरस्मात् एकादशलक्ष योजनान्तरे ऋषयः उपलभ्यन्ते ये एव लोकानाम् शम् अनुभावयन्तः भगवतः विष्णोः यत् परमम् पदम् तत् प्रदक्षिणम् प्रक्रमन्ति ।। १७ ।।
- इति द्वाविंशोऽध्यायः ॥ २२ ॥
- श्रीधरखामिविरचिता भावार्थदीपिका
- बुधो व्याख्यातः, पुरतः पश्चात्सहैव वा चरतीति किंचिद्विशेषं चाह तत इत्यादिना । आशंसते सूचयति ॥ १३ ॥ * * अघशंसो दुःखसूचकः । यदि न वक्रेणाभिवर्तते तर्हि त्रिभिस्त्रिभिः पक्षैः ॥ १४ ॥ * * यदि न वक्रः स्यात्तर्हि परिव- त्सरम् ।। १५-१७ ॥
- इति श्रीमद्भागवते पञ्चमे टीकायां द्वाविंशोऽध्यायः ॥ २२ ॥
- श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः
- ।
- ॐ तत उशनसः । द्विलक्षेति । भूतलात्तु नवलक्षयोजनतः । प्रायेणेत्युक्तेः । कदाचिदशुभमपि करोतीति तदाह-यदार्कादिति । व्यतिरिच्येत पृथग्भवति । अतिवाता भ्राधिक्यवर्षणाद्यभावरूपं भयम् । आदिना करकादिग्रहः ॥ १३ ॥ * अतो बुधात् । योजनलक्षद्वितय इति । भूतलादेकादशलक्ष योजने । अघशंसः प्रायेणेत्युक्तथा “दशमेंगारको यस्य स जातः कुलदीपकः” इत्यादिसूचि - तम् । यदि वक्रः स्यात्तदा बहूनपि मासानेकत्र तिष्ठतीत्यर्थः ॥ १४ ॥ * * ततोंगारकात् । द्विलक्षेति भूतलात्त्रयोदशलक्षे । वक्रत्वे तु परिवत्सरादधिकमपि भुंक्त इत्यर्थः । प्रायेणेत्युक्तेः स्थानविशेषस्थित्या दुःखमपि ददातीत्यर्थः ।। १५ ।। ततो बृहस्पतेः । लक्षद्वयेति । भूतलात्तु पञ्चदशलक्षेति । तावद्भिस्त्रिंशद्भिः । प्रायेणेत्युक्तेस्त्रिषडायगतः ] शान्तिकरोऽपि स्यादित्यर्थः ॥ १६ ॥ * * ततः शनैश्चरात् । उत्तरस्मादुत्तरदिशि सप्तम्यर्थे पञ्चमी । एकादशलक्षेति । भूतलात्तु षड्विंशलक्षयोजनेति । परमं पदं ध्रुवलोकम् ॥ १७ ॥
- ।। ४
- ।
- इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥
- श्रीमद्वीरराघवव्याख्या
- *
- ततो बुधमण्डलाद् द्विलक्षयोजनतः उपरिष्टादङ्गारक उपलभ्यमानम् एकैकं राशि पक्षत्रयेण भुङ्क्ते यदि न वक्रेणाभिवर्तते त्रिभिस्त्रिभिः पक्षैर्यदि न वक्रस्थ: स्यात्तर्हि द्वादशराशीन् क्रमेण भुङ्क्ते इति पूर्वेणान्वयः । अयं प्रायेणाशुभग्रहोऽघशंसः दुःखसूचको वेत्यर्थः । यद्वा यदि न वक्रेणाभिवर्त्तते तदानुकूल इति शेषः, यदि वक्रेणाभिवर्त्तते तदाघशंसोऽपीत्यन्वयः ॥ १४ ॥ ततोऽङ्गार मण्डलाद्विलक्षयोजनानामन्तर उपरि तेन उपरि भागं गतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिचरति सोऽपि यदि न वक्रः स्यात्तर्हि ब्राह्मणकुलस्य प्रायशोऽनुकूलः । ततो बृहस्पतिमण्डलायोजनानां लक्षद्वयादुपरि शनैश्वरः प्रतीयमान उपलभ्यमान एकैकस्मिन् राशौ त्रिंशत् त्रिंशन्मासान् विलम्बमानः शनैः शनैर्गच्छन् सर्वानेव द्वादश राशीन उपर्येति क्रमेण सचरति तावद्भिः परिवत्सरैर्द्वादशजन्मा दिराश्यवस्थानसहचरितत्रिंशस्त्रिंशन्मासानां गणनावशात् सम्पन्नैरनुवत्सरैः प्रायशः सर्वेषामशुभकर इत्यर्थः ।। १५-१६ ॥ * * ततः शनैश्वर मण्डलादुत्तरस्मादुपरिष्टादेकादशलक्षयोजनानामन्तरे देशे सप्तर्षय उपलभ्यन्ते के ते ये ऋषयः लोकानां शं सुखमेवानुभावयन्तः सम्पादयन्तः विष्णोर्यत्पदं स्थानं परममुत्कृष्टं ध्रुवमण्डलं तत्प्रदक्षिणं यथा तथा परिक्रमन्ति परिभ्रमन्ति ।। १७ ।।
- इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृत भागवतचन्द्रचन्द्रिकायां द्वाविंशोऽध्यायः ॥ २२ ॥
- श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
- तस्योपशान्तिकृत् शुभग्रह संयोगे शुभसूचकोऽन्यथाघशंसो दुःखसूचक इत्यतः प्रायेणाशुभग्रह इति ।। १३-१५ ।। * * तावद्भिस्त्रिंशद्भिरनुवत्सरैः सर्वराशीननुपर्येति राशिषु विलम्ब्य सञ्चरणाच्छनैश्वर इति नाम प्रायेणैकादशे शुभकरत्वात् ।। १६-१७ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृत पदरत्नावल्यां द्वाविंशोऽध्यायः ॥ २२ ॥
- श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
- उशनसा बुधो व्याख्यात इति पुरतः पश्चात् सहैव वा चरतीत्यंशेन तत्तुल्यः । द्विलक्षेति भूतलातु मवलक्ष इत्यर्थः ॥ १३ ॥ * * लक्षद्वितीय इति भूतलादेकादशलक्षे । यदि न वक्रेणेति पूर्वेणान्वयः । अघशंसः दुःख-
- ५०२
- श्रीमद्भागवतम्
- [ एक. ५ अ. २२ इलो. १३ १७
- सूचकः ॥ १४ ॥ * * द्विलक्षेति । भूतलात्तु त्रयोदशलक्षे यदि न वक्र इति पूर्वेणान्वयः ॥ १५ ॥ * * योजन- लक्षद्वयादिति । भूतलात्तु पञ्चदशलक्षे ॥ १६ ॥ ॐ * एकादशलक्ष इति । भूतलात्तु षड्विंशलक्षे परमं पदं ध्रुवलोकम् ।। १७ ।।
- ।।
- इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । द्वाविंशः पञ्चमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥ २२ ॥
- श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
- उशनसोपमानभूतेनोपमेयतया बुधः अर्कस्य पुरतः पश्चात्सहैव चरतीति व्याख्यातः,
- ‘चरतीति व्याख्यातः किञ्चिद्विशेषं दर्शयति तत इति । आशंसते द्योतयति ॥ १३ ॥ * * अघशंसो दुःख्योतकः यदि वक्रेणाभिवर्तते अभिवर्तते तदा त्रिभिः त्रिभिः पक्षैः एकैकशो राशीन भुङ्क्ते ॥ १४ ॥ * * यदि वक्रो न स्यात्तदा परिवत्सरम् ।। १७-१७ ।।
- इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे द्वाविंशाध्यायार्थप्रकाशः ॥ २२ ॥
- गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी
- .’
- ततश्चन्द्रमण्डलात् दक्षिणेनैव गच्छन्ति न हि तेषां सूर्यादिवत् पृथगन्या गतिरस्तीत्यन्वयः । कालायने कालचक्रे । उत्तराषाढा श्रवणसन्धावभिजिन्नक्षत्रं पृथक्कल्पितं तेन सहाष्टाविंशतिः । तथा च श्रुतिः– “अभिजिन्नाम नक्षत्रमुपरिष्टादाषाढानाम- धस्ताच्छ्रोणायाः” इति ॥ १३ ॥ * * अर्कस्य पुरतः पश्चात् सहैव वा रौद्रयादिगतिभिर कंवचरति । चकारो वाकारार्थः ।
- ।। ।। सूर्येण सहास्य गतिसाम्यमेव अग्रपश्चाद्धावस्त्वतिचारवशात् । चारेण क्रमस्य नक्षत्राद्यतिक्रमेण । वृष्टेर्विष्टम्भः स्तम्भनं यस्माद्ग्रहा तमुपशमयतीति तथा । शुक्रस्य रथ उक्तः सवरूथः सानुकर्षो युक्तो भूसम्भवैर्हयैः । सोपाङ्गः सपताकस्तु शुक्रस्यापि रथो महान्’ इति । उपाङ्गो रथोपस्थः ॥ १४ ॥ * * व्याख्यात इति, पुरतः पश्चात् सहैव वा चरतीत्यंशेन तुल्यतया निरूपित बुधस्यापि रथ उक्तः – ‘वाय्वग्निद्रव्यसम्भूतो रथचन्द्र- * यदि वक्रेणाभिवर्त्तते तर्हि त्रिभिस्त्रिभिः पक्षैरेकै
- इत्यर्थः । कश्चिद्विशेषोऽस्ति तदाह– तत इत्यादिना । आशंसते सूचयति ।
- । सुतस्य च । पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः’ इति ।। १५ ।। कशो द्वादशराशीन् भुंक्ते इत्यन्वयः । अघशंसः
- अघशसः दुःखसूचकः । अस्यापि रथ उक्तः - ‘अष्टात्रिः काञ्चनः श्रीमान् भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः’ इति ॥ १६ ॥ यदि वक्रो न स्यात्तर्हि परिवत्सरं चरति । अस्यापि 1 रथ उक्तः – ‘अष्टाभिः पाण्डुरैर्युक्तो वाजिभिः काञ्चनो रथः । तस्मिंस्तिष्ठति वर्षान्ते राशौ राशौ बृहस्पतिः’ इति ॥ १७ ॥ * * अनुपर्येति अनुक्रामति । अस्यापि रथ उक्तः– ‘आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर्याति मन्दगामी शनैश्वरः ’ इति । शबलैश्चित्रवर्णैः ॥ १८ ॥ * * यत्परमं पदं ध्रुवस्थानं तत् ॥ १९ ॥ । ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र स्वर्गस्थाननिरूपणे । द्वाविंशो विवृतिं यातश्चन्द्रादिस्थानरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी बुधस्य तथात्वेऽपि शुक्रात्किंचिद्विशेषमाह तत इत्यादिना । ततः शुक्रात्, उपरिष्टात् द्विलक्षयोजनतः द्विल्झयोजन- दूरवर्त्तिनि प्रदेशे उपलभ्यमानः वर्त्तमान इत्यर्थः । सोमसुतः, बुधः भवति । तु प्रायेण, लोकानां शुभकृत् सुखकारकः यदा अत् व्यतिरिच्येत अर्केण सह न चरति, तदा अतिवातश्च तदा अतिवातश्च अभ्रप्रायं च अनावृष्टयादिभयं च । तत्समाहार, आशंसते सूचयति ॥ १३ ॥ * * अथाङ्गारकस्य बुधादुपरिस्थत्वं राशिभोगकालत्वं प्रायेणाशुभ सूचकत्वं चाह अत इति । अतः बुधमण्डलात, योजनलक्षद्वितये द्विलक्षयोजनतः, ऊर्ध्वमुपरिष्टात्, उपलभ्यमानः अङ्गारकः भौमोऽपि त्रिभिः त्रिभिः पक्षैः, एकैकशः एकमेकं राशिमतिक्रामतीति शेषः । यदि वक्रेण न अभिवर्त्तते, यदि न वक्रस्थः स्यात्तहत्यर्थः । द्वादश राशीन् क्रमेण अनुभुङ्क्ते । अयं प्रायेण अशुभग्रहः । अघशंसः दुःखसूचकः । अयं भावः अयं यदि वक्रत्वादिदोषवान्न स्यात्तर्हि तु अनुकूलसदृश एव । यदि वक्रत्वादिनाभिवर्त्तते तदा तु अघशंसको बहुधा जायत इति । केचित्तु वक्रचार्ययं शुभोऽवक्रचारी दुःखद इत्याहुः ॥ १४ ॥ * * अथ बृहस्पतेः स्थानादिशुभाशुभसूचकत्वं चाह तत इति । ततः अङ्गारकमण्डलात्, उपरिष्टात् द्विलक्षयो- जनान्तरगतः द्विलक्षयोजनानामुपरितनभागं संप्राप्तः, भगवान्महैश्वर्यसंपन्नः बृहस्पतिः, एकैकस्मिन् राशौ, यदि वक्रः न स्यात्, तर्हि परिवत्सरं परिवत्सरमेकैकं वर्ष चरति । अयं प्रायेण ब्राह्मणकुलस्य अनुकूलः एवं ।। १५ ।। * इति । ततः बृहस्पति- मण्डलात्., योजनलक्षद्वयात् उपरिष्टात् शनैश्वरः प्रतीयमानः भवति । सः एकैकस्मिन् राशौ त्रिंशत् त्रिंशन्मासान्, विलम्बमानः सन् एव, सर्वान् राशीन् अनुपर्येति सर्वाननुक्रमेण संचरतीत्यर्थः । तावद्भिः अनुवत्सरैः सर्वेषां प्रायेण अशान्तिकरः जायते । स्क. ५ अ. २२ श्लो. १३-१७ ] अनेकव्याख्यासमलङ्कृतम् ५०३ हि ।। १६ ।। * * अथ ऋषीणां सर्वेभ्य अतीवोश्चस्थानत्वं सदा लोकानां शुभसंपादकत्वं चाह । तत इति । ततः शनैश्चर मण्डलात् उत्तरस्मात् एकादशलक्ष योजनान्तरे, ऋषयः सप्तर्षयः उपलभ्यन्ते उपलक्ष्यन्ते । के ते । ये ऋषयः, लोकानां शं सुखम् अनुभावयन्तः संपादयन्तः सन्तः, भगवतः विष्णोः, यत् परमं पदं, ध्रुवमण्डलमित्यर्थः, तत् प्रदक्षिणं यथा तथा प्रक्रमन्ति परिक्रमन्ति परिभ्रमन्तीत्यर्थः । भुतलात् षड्विंशतिलक्षयोजन मुच्च प्रदेशे सप्तर्षयः वैष्णवं पदं प्रदक्षिणं प्रक्रमन्तीति भावः ।। १७ ।। इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्षपुरुषोत्तमसहजानन्द स्वामिसुत श्रीरघुवीराचार्य सुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥ atidesi sadidasis चलता शुक्रकी गति के साथ-साथ बुधकी भी व्याख्या हो गयी —-शुक्र के अनुसार ही बुधकी गति भी समझ लेनी चाहिये । यह चन्द्रमाका पुत्र शुक्रसे दो लाख योजन ऊपर है यह प्रायः मङ्गलकारी ही किन्तु जब सूर्य की गतिका उल्लङ्घन करके ता है, तब बहुत अधिक आँधी, बादल और सुखे भी आँधी, बादल और सूखेके भयकी सूचना देता है ।। १३ ।। * इससे दो लाख योजन ऊपर मङ्गल है । वह, यदि वक्रगतिसे न चले तो, एक-एक राशिको तीन-तीन पक्ष में भोगता हुआ बारहों राशियों को पार करता है। यह अशुभ ग्रह
- और प्रायः अमङ्गलका सूचक है ॥ १४ ॥ * * इसके ऊपर दो लाख योजनकी दूरीपर भगवान् बृहस्पतिजी
। ये यदि वक्रगतिसे न चलें, तो एक-एक राशिको एक-एक वर्षमें भोगते हैं । ये प्रायः ब्राह्मणकुलके लिये
वक्रगतिसे न चलें, तो एक-एक योजन रहते हैं ।। १५ ।।
१५ ।। * * बृहस्पतिसे दो लाख योजन ऊपर शनैश्चर दिखायी देते हैं । ये तीस-तीस महीनेतक एक-एक
हैं। राशिमें रहते हैं । अतः इन्हें सब राशियोंको पार करने में तीस वर्ष लग जाते हैं। ये प्रायः सभी के लिये अशान्तिकारक ॥ १६ ॥ इनके ऊपर ग्यारह लाख योजनकी दूरीपर कश्यपादि सप्तर्षि दिखायी देते हैं । ये सब लोकोंकी मङ्गल कामना
mij
अनुकूल
करते हुए भगवान् विष्णुके परम पद ध्रुवलोककी प्रदक्षिणा किया करते हैं ।। १७ ॥
।। १७॥
फ
इति द्वाविंशोऽध्यायः ॥ २२ ॥
dad.
SEM FITTER पेपर
को
RIP प
Kitntestine anusuall: slaps की आप passpoil get against a
SEL
ज्ञाकथनात
satt nagdent leisdehat selpersons
Suite aani at Ass
Sitor on 2
क
DEMIET TO Thrine spre
क अथ त्रयोविंशोऽध्यायः श्रीशुक उवाच अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औतान- पादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविना- माजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥ स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते ॥ २ ॥ यथा मेढीस्तम्भ’ आक्रमणपशवः संयोजितास्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥ केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥ अन्वयः—अथ तस्मात् परतः त्रयोदशलक्षयोजनान्तरतः यत् तत् विष्णोः परमम् पदम् अभिवदन्ति यत्र ह महाभागवतः औत्तानपादिः ध्रुवः अभिना इन्द्रण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानम् दक्षिणतः क्रियमाणः इदानीम् अपि कल्पजीविनाम् आजीव्यः उपास्ते तस्य अनुभावः इह उपवर्णितः ॥ १ ॥ * * सः हि ईश्वरेण अव्यक्तरंहसा अनिमिषेण भगवता कालेन भ्राम्यमाणानाम् सर्वेषाम् ग्रहनक्षत्रादीनाम् ज्योतिर्गणानाम् अवष्टंभः स्थाणुः इव : विहितः शश्वत् अवभासते ।। २ ।। * यथा मेढीस्तंभे संयोजिताः आक्रमणपशवः त्रिभिः त्रिभिः सवनैः यथास्थानम् मंडलानि चरन्ति एवम् एतस्मिन् कालचक्रे अन्तर्बहिर्योगेन आयोजिताः प्रहादयः भगणाः ध्रुवम् एव अवलंब्य वायुना उदीर्यमाणाः आकल्पान्तम् परिचक्रमन्ति यथा वायुवशाः मेघाः च श्येनादयः नभसि परिवर्तन्ते एवम् प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयः कर्मसारथियः ज्योतिर्गणाः भुवि न पतन्ति ॥ ३ ॥ * * केचन एतद् ज्योतिरनीकम् भगवतः वासुदेवस्य योगधारणायाम् शिशुमार संस्थानेन अनुवर्णयन्ति ॥ ४ ॥ श्रीधर स्वामिविरचिता भावार्थदीपिका त्रयोविंशे ध्रुवस्थानं ज्योतिश्चक्राश्रयं ततः । शिशुमारस्वरूपेण हरेश्व स्थितिरुच्यते ॥ १ ॥ यत्तत्प्रसिद्धं विष्णोः पदं यत्र ध्रुव उपास्ते तिष्ठतीत्यन्वयः । समकालमेव युज्यन्त इति तथा तैर्नक्षत्ररूपैः ॥ १-२ ॥ ** मेढीस्तम्भे बद्धा धान्यक्रमणपशवो बलीवर्दाः । कर्म सारथिः सहायो येषाम् ॥ ३ ॥ * ईश्वराधारत्वात्पतनशंकैव नास्तीति वक्तुं मतान्तरमाह केचनेति । ज्योतिरनीकं ज्योतिषश्चक्रम् । योगधारणायां स्थितमिति शेषः ॥ ४ ॥ 1 श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः भे ततो ध्रुवस्थानवर्णनोत्तरम् । शिशुमारो जलचरो जीवविशेषः (१) अथेति । ध्रुवाधिक्यवर्णने । तस्मादृषिमण्डलात् । त्रयोदशलक्षेति – भूतला त्वेकोनचत्वारिंशल्लक्षेति । ध्रुवेण समकालयुग्भिः सायुज्यभाग्भिरिति तीर्थः । आजीव्य आश्रयः कल्पजीविनो हि भृग्वादयस्तावत्कालमेव तिष्ठन्ति यावद्ध्रुवलोकस्तिष्ठति ध्रुवलोकस्यापि “किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः” इति हिरण्यकशिपोरभिप्रायं वर्णयद्भिर्देवैर्ब्रह्मणे प्रोक्तत्वादनित्यत्वमेवेति उपास्ते हरिमिति शेषः १. प्रा० पा० ऋषिरुवाच । २. प्रा० पा०दाभासते । ३. प्रा० पा० - मेधीस्तम्भ । ४, प्रा० पा०तास्त्रिभिः सवने० । एकं ५ अ. २३ श्लो. १-४] अनेकव्याख्या समलङ्कृतम् ५०५ निकटमध्यदूरवर्त्तिभिर्विभागैर्यथास्थानं स्वस्वस्थानस्थितिमनतिक्रम्य चरन्ति । दाष्टन्तिके त्रिभिः सवनैरुत्तर । यणवैषुवतदक्षिणायनैः समयैः । अन्तरधोधःस्थलं बहिरुपर्युपरितनं स्थलं तत्र योगेन स्थित्या कालचक्र एव योजिताः । यथा सप्तर्षीणामधोधः स्थित्या योजिताः शनैश्वरादयस्तथा सूर्यादीनामुपर्युपरि स्थित्या योजिताः सोमादयस्तत्र तत्रायोजिता ईश्वरेणैव । वायुना तु प्रवहादिनोदीर्यमाणाञ्चाल्य- मानाः पुरुषाधिष्ठित मायावशीकृताः ॥ ३ ॥ नन्वेते निरालम्बाः कथं न पतन्तीति शंकां निराकर्तुमाह– ईश्वराधीनत्वा- दिति । केचन योगिनः योगधारणायां विराडुपासना वेशार्थं यथेष्टकल्पनामध्याम् । अत एव मनसि चन्द्र इति वक्ष्यमाणेन मनोपि । कल्पयिष्यते स्पष्टमपि वक्ष्यते एतदुहैवेति ॥ ४ ॥
श्रीमद्वीरराघवव्याख्या एवं सूर्यादीनां गतिविशेषास्तत्स्थानविशेषाः कार्यविशेषाश्वोक्ताः अथ ध्रुवस्य स्थानं व्यापारं चाह अथेति । तस्मादृषि- मण्डलात्परतस्त्रयोदशलक्षयोजनानां परस्ताद्यत्तत्प्रसिद्धं विष्णोः परमं पदमामनन्ति विष्णोरभिव्यक्तिस्थानत्वात्परमं पदमित्युक्तं किन्तत्परमं पदं तत्राह यंत्रेति । यत्र परमे पदे महाभागवतो औत्तानपादिः उत्तानपादपुत्रः अग्न्यादिभिः सबहुमानं प्रदक्षिणतः क्रियमाणः उपास्ते तिष्ठति तस्य ध्रुवस्यानुभावः प्रभावः उपवर्णितचतुर्थस्कन्धे इति शेषः ॥ १ ॥ * * स हि ध्रुवः भगवदात्मकेनानभिव्यक्तवेगेन कालचक्रेण भ्राम्यमाणानां ग्रहाणां सूर्यादीनामश्विन्या दिनक्षत्राणां च सर्वेषां स्थाणुरिव निश्चलो - वष्टम्भोऽवलम्ब ईश्वरेण विष्टम्भत्वेन विहितः स्थापितः शश्वत् सदा एकत्रैवावभासते ॥ २ ॥ ॐ स्थाणुरिवावष्टम्भ इत्येतदेवोपपादयति । यथा मेढीस्तम्भः त्रिभिम्विगुणितैः सूत्रैः संयोजिता बद्धा धान्यक्रमणपशवो बलीवर्दाः मेढीस्तम्भमवलम्ब्येह मण्डलानि पादविक्षेपस्थानानि चरन्त्येवं नक्षत्रगणाः सूर्यादयो ग्रहाच एतस्मिन् कालचक्र अन्तर्बहिर्योगेन आयोजिताः केचिदन्त- योजिताः केचिद् बहियोंजिताः सन्तो ध्रुवमवलम्ब्यैव वायुना वायुपाशेनोदीर्यमाणाः धार्यमाणा आकल्पान्तं परितः भ्रमन्ते कर्मवशाद्वायुपाशवश्यत्वात् ध्रुवावलम्बत्वाच्च भुवि न पतन्तीति भावः । एतदेव दृष्टान्तेन स्पष्टयति नभसीति । यथा मेघाः श्येनादयः पक्षिणश्च वायुपाशवशाः कर्मसारथयः कर्मावलम्बाः नभसि परिवर्तन्ते न तु भुवि पतन्ति एवं ज्योतिर्गणा अपि प्रकृतिपुरुषयोर्यः संयोगः सम्बन्धः कर्मायत्तः तेनानुगृहीताः नक्षत्रादिरूपतां प्राप्ता जीवा एव कर्मायत्तप्रकृतिसम्बन्धवशान्नक्षत्रादि- शरीरभाज इत्यर्थः । अत एव कर्म निमित्तं यासां ता गतयो येषामिति तथा केवलनभः सचारापादककर्मायत्तनभोमात्र गतयो भुवि न पतन्ति । कर्मणां तत्परिणामानां च वैचित्र्यादग्नेरूर्ध्वज्वलन वद्वायोस्तिर्यग्गतिवन्नभसि भ्रमणं भुव्यपतनं च उपपद्यत इति भावः ॥ ३ ॥ * * एवं ज्योतिर्गणानां कर्मायत्तो नभस्सार उक्तः, अथ सर्वाधारस्य भगवत एव शिशुमाराकारेणा- वस्थितत्वात्तदाश्रयाणां पतनशङ्केव नास्तीत्यभिप्रयन् ज्योतिर्गणस्य शिशुमाराश्रयत्वं योगिनामुपासनेन सम्पादयति केचिदिति । शिशुमार संस्थानस्य शिशुमारशरीरस्य भगवतो वासुदेवस्य कृत्स्नचिदचिदात्मकजगद्वारकस्य योगधारणायां वासुदेवविषयकमनः- समाधिरूपधारणायामेवैतज्ज्योतिरनीकं ज्योतिजलं केचिद्वेदभागे योगिनो वर्णयन्ति ज्योतिरनीकाश्रयं शिशुमारं भगवदात्मक- मुपास्यं बोधयन्तीत्यर्थः । ज्योतिरनीकाश्रयं शिशुमारं योगधारणायां विषयीकुर्वन्तीति वार्थः ॥ ४ ॥ T * ii श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ፨። एक ध्रुवेण समकालं सायुज्यभाग्भिरुपास्ते श्रीहरिमिति शेषः ॥ १ ॥ $ * अनिमिषेणोन्मीलित लोचनेनाक्रमणपशवः परिवर्त्तमाना बलीवर्दा मेढीस्तम्भे बद्धास्तामभितो भ्रमन्त इत्यर्थः । त्रिभिः सवनैः शैध्यमान्द्यसमसचारैर्यथास्थानं विहितादन्यथा न कचिचरन्ति भूमण्डलानि मेढीस्तम्भं परितः स्थानानि आदिशन्दगृहीतास्तारकाः केचिद् ध्रुवस्यान्तर्योगेन केचिद्वहिर्योगेन सञ्चरन्तीत्यर्थः । आवहादिशब्दवाच्येन वायुनोदीर्यमाणाः प्रेर्यमाणाः । नन्वेते निरालम्बाः कथं न पतन्तीति तत्राह यथेति । अयनादिलक्षणं कर्मैव सारथिर्येषां ते तथा औत्पत्तिकवेगाख्यसंस्कारो वा अदृष्टं वा स्त्रीपुरुषसंयोगेनानुगृहीतैरापादितैर्नभःसञ्च- रणहेतुभूतैः कर्मभिर्निर्मितगतित्वात् ॥ २-३ ॥ * ॐ शिशुमारसंस्थानस्य शिशुमारावयवोपेतस्य योगबलेन धारणक्रियायां स्थितिमनुवर्तयन्ति ॥ ४ ॥ श्रीमजी वगोस्वामिकृतः क्रमसन्दर्भः त्रिभिः सवनैः पूर्वमध्यापराह्णेषु कृषककर्तृकपरिवर्त्तनेनेत्यर्थः । प्रकृतिपुरुषसंयोगानुगृहीताः पुरुषाधिष्ठितमायावशीकृताः ॥ १-३॥ * * शिशुमार संस्थानेनोपलक्षितं योगधारणायां विराड्वदुपासनावेशार्थे यथेष्टकल्पनामात्रमय्यां तस्यामित्यर्थः । अत एव मनसि चन्द्र इति वक्ष्यमाणेन मनोऽपि कल्पयिष्यते स्पष्टमपि वक्ष्यते एतदुहैवेति ॥ ४ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ध्रुवलोकं त्रयोविंशे प्राह विष्णुपदाभिधम् । शिशुमाराकारतया ज्योतिश्चक्रश्च दर्शितम् ॥ १ ॥ त्रयोदशेति । भूतलादेकोनचत्वारिंशलक्षे समकालमेव युज्यन्त इति तैरम्न्यादिभिर्नक्षत्ररूपैः ॥ १ ॥ * * स्थाणुरिवेति श्लेषेण कालचक्रेण चालयितुमशक्यत्वात् स एवैकः स्थिर इत्यर्थः । प्रत्युत कालचकस्यावष्टम्भः । तेन सर्वे कालचक्रा ૪ ५०६ श्रीमद्भागवतम् [ स्कं. ५ अ. २३ श्लो. १-४ धीनाः ध्रुवस्तु कालचक्रमध्यधीनीकरोतीति ध्वनिः । नन्वीदृशी योग्यता तस्य कथमभूत्तत्राह । ईश्वरेण कर्तुमकर्तुमन्यथा कर्तुमपि समर्थेन विहितः स्वभक्तोत्कर्षख्यापनार्थमिति भावः ॥ २ ॥ * धान्याद्याक्रमणपशवो बलीवर्दाः खलमध्य निखातस्तम्भो मेढी, तत्र संयोजिताः कृषीव लेनेत्यर्थः । त्रिभिः सवनैर्मेढीस्तम्भनिकटमध्यदूर वर्त्तिभिर्विभागः यथास्थानं स्वस्वस्थानस्थितिमनतिक्रम्य चरन्ति, दाष्टन्तिके त्रिभिः सवनैरुत्तरायणवैषुवतदक्षिणायनैः समयैः । अन्तरधोऽधः स्थलं बहिरुपर्युपरितन स्थलं तत्र योगेन स्थित्या कालचक्र एव योजिताः । यथा सप्तर्षीणामधोऽधः स्थित्या आयोजिताः शनैश्वरादयः तथा सूर्यादीनामुपर्युपरि स्थित्या आयोजिताः सोमादयः तत्र तत्र आयोजिताः ईश्वरेणैव वायुना तूदीर्यमाणाञ्चाल्यमानाः । ननु कथन्तेऽन्तरिक्षान्न पतन्ति तत्राह नभसीति । कर्मसारथयः कर्मसहायाः ॥ ३ ॥ * ज्योतिरनीकं ज्योतिश्चक्रम् ॥ ४ ॥ । श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः त्रयोविंशे ध्रुवस्थानं शिशुमारचक्रं च वर्णयति अथेति । यद्विष्णोः पदं स्थानं वदन्ति तदस्ति अग्न्यादिभिः समकाले युज्यन्ते इति समकालयुजस्तैर्नक्षत्ररूपैर्बहुमानं यथा भवति तथा दक्षिणतः क्रियमाणः यत्र विष्णुपदे उपास्ते तिष्ठति इह अस्मिन्महा- पुराणे उपवर्णितः चतुर्थस्कन्धे उक्तः ॥ १-२ ॥ * * आक्रमणपशवो धान्याक्रमणपशवो बलीवर्दाः कर्म सारथिः सहायो येषां ते तथा प्रकृतिः कार्यकारणरूपा पुरुषो जीवस्तयोरनादिसंयोगानुगृहीताः प्रकृतिगुणवत्परिणामदेहेन्द्रियादियुक्ताः ज्योतिर्गण- भूताः जीवा इत्यर्थः, कर्म निमित्तं यासां ताः गतयो येषां ते भुवि न पतन्ति ॥ ३ ॥ किञ्च पतनशङ्केव नास्तीत्याह केचिदिति । केचित् सिद्धान्तिन इत्यर्थः, ज्योतिरनीकं ज्योतिश्चक्रं शिशुमारसंस्थानेन शिशुमा राख्यस्वांशरूपेण या योगधारणा तस्यां स्थितमिति शेषः, अनुवर्णयन्ति ॥ ४ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ज्योतिश्चक्रे ध्रुवस्थानं तन्माहात्म्यं तथैव च । शिशुमारस्वरूपं च त्रयोविंशे निरूप्यते ॥ १ ॥ यत्प्रसिद्धं विष्णोः परमं पदमभिवदन्ति तदस्तीति शेषः । यत्र ध्रुव उपास्ते तिष्ठतीत्यन्वयः । समकालमेव युज्यन्त इति तथा तैरग्न्यादिभिर्नक्षत्ररूपैः । कल्पजीविनामवान्तर कल्पे वर्त्तमानानां मर्त्यलोकान्तरिक्षलोकादिलो के जीवतामाजीव्यः, महर्लोकाद्यु- परितनस्थानां भूमेरधरस्थानां च तद्विनाऽपि स्थितिसम्भवात् । तस्य ध्रुवस्येह मनुष्यलोके योऽनुभवः भगवचननादिरूपः । स तु चतुर्थस्कन्धे उपवर्णितः ॥ १ ॥ ॐ स्वर्लोकस्थस्य प्रभावमाह - स हीति । अनिमिषेण विश्रान्तिरहितेन अव्यक्त रहो वेगो यस्य तेन भगवद्रूपेण कालेन । कथमेवम्प्रभावः स तत्राह - ईश्वरेणेति, सर्वथा समर्थेन विहितः स्वभक्तोत्कर्षस्थापनार्थ तथा स्थापित इत्यर्थः ॥ २॥ * * स्थाणुवस्थितिं दृष्टान्तेन स्पष्टयति-यथेति । स्थूलमध्यनिखाते मेढीस्तम्भे धान्याक्रमणपशवो बलीवर्दाः कृषीवलेन संयोजितास्त्रिभिः सवनैः प्रातरादिकालविभागैर्यथास्थानं स्वस्वस्थानमनतिक्रम्य यथा मण्डलानि चरन्ति, एवमेतस्मिन् कालचकेऽन्तर्बहिर्योगेनोपर्यधः स्थानविभागेन चेश्वरेणायोजिताः सूर्यादयो भगणा ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणाः प्रवर्त्त्यमाना आकल्पान्तं मेरुं परिचक्रमन्तीत्यन्वयः ॥ ३ ॥ * * ननु ते कथमन्तरिक्षान्न पतन्तीत्याशङ्कय दृष्टान्तेन तत्सम्भावयति- नभसीति । कर्म सारथिः सहायो येषां ते ॥ ४ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी -ध्रुवस्थानं त्रयोविंशे ज्योतिश्चक्राश्रयं हरेः । स्थितिः प्रोक्ता शिशुमारात्मना योगेशितुस्ततः ।। १ ।। * । एवं सूर्यादीनां गतिविशेषा स्तत्स्थानविशेषास्तत्कार्यविशेषाश्वोक्ता अथ ध्रुवस्य स्थानं व्यापारं चाह । अथेति । अथेत्या- रम्भे । तस्मादृषिमण्डलात् परतः त्रयोदशलक्षयोजनान्तरतस्त्रयोदशलक्षयोजनानां परस्तात्, यस्तत्प्रसिद्धमित्यर्थः । विष्णोः परमं पदं, परमपदसंज्ञं विष्णोरभिव्यक्तिस्थानमित्यर्थः । अभिवदन्ति । मुनय इति शेषः । यत्र परमे पदे ह स्फुटं यथा भवति तथा महाभागवतः, उत्तानपादपुत्रः ध्रुवः, समकालयुग्भिर्यावत्कालं ध्रुवस्थितिस्तावत्कालं नक्षत्ररूपेण सह योगभाग्भिः, अग्निना इन्द्रेण, प्रजापतिना कश्यपेन धर्मेण च अग्न्यादिपञ्चभिरित्यर्थः । सबहुमानं यथा तथा, दक्षिणतः प्रदक्षिणतः, क्रियमाणः कल्पजीविनाम् आजीव्यः समाश्रयभूतः संच इदानीमपि उपास्ते तिष्ठति । तस्य ध्रुवस्य, अनुभावः प्रभावः इह उपवर्णितः । चतुर्थस्कन्धे इति शेषः ॥ १ ॥ * * स इति । स हि ध्रुव एव अनिमिषेण उन्मीलितलोचनेन, अव्यक्तरंहसा अनभिव्यक्तवेगेन, भगवता भगवदात्मकेन कालेन कालचक्रेण, भ्राम्यमाणानां ग्रहाः सूर्यादयश्च नक्षत्राण्यश्विन्यादीनि तान्यादयो येषां सर्वेषां, व्योतिर्गणानां ईश्वरेण स्थाणुः इव, अवष्टम्भोऽवलम्बः आधाररूप इति यावत् विहितः । अवष्टम्भत्वेन स्थापित इत्यर्थः । एवंभूतः सन् शश्वत्सदा, अवभासते ॥ २ ॥ * * स्थाणुरिवावष्टम्भ इत्येतदुपपादयति यथेति । यथा मेढीस्तम्भे संयोजिता बद्धा:, आक्रमणपशवः धान्याक्रमणप्रयोजना बलीवर्दादयः पशवः, त्रिभिः सवनैः शैध्यमान्द्यसमसंचारैरित्यर्थः । यथास्थानं स्वस्वपादविक्षेपस्थानमतिक्रम्य तमभित इति शेषः । मण्डलानि विचरन्ति । एवं तथा, भगणा नक्षत्रगणाः ग्रहाः सूर्यादय आदयो येषां तारागणानां ते, एतस्मिन् कालचक्रे अन्तर्बहिर्योगेन, आयोजिताः केचिदन्तयोजिताः केचिद्बहियोंजिताश्च सन्तः ध्रुवम् अवलम्ब्य एव वायुना वाय्वात्मना " एक. ५ अ. २३ श्लो. ५-९] अनेकव्याख्यासमलङ्कृतम् ५०७ पाशेनेत्यर्थः । उदीर्यमाणा धार्यमाणाः सन्तश्च, आकल्पान्तं सकलकल्पपूर्णतावधि परि परितः चकमन्ति भ्रमन्ते । कर्मवशत्वा- द्वायुपाशवश्यत्वाद् भुवोवलम्बत्वाच्च भुवि न पतन्तीति भावः । एतदेव दृष्टान्तेन स्पष्टयति नभसीति । यथा मेघा बलाहकाः, श्येनादयः पक्षिणश्च वायुवशाः वायुपाशवशाः, कर्मसारथयः कर्मावलम्बाः सन्तः, नमसि परिवर्त्तन्ते प्रचरन्ति । न तु भुवि पतन्ति । एवं ज्योतिर्गणाः अपि प्रकृतिपुरुषयोर्यः संयोगः कर्मायन्त्तः संबन्धः, तेनानुगृहीताः जीवा एव कर्मायत्तप्रकृतिसंबन्धवशान्नक्षत्रा दिशरीरभाज इत्यर्थः । अत एव, कर्मनिर्मिता गतयो येषां ते, पाठान्तरे कर्म निमित्तं यासां ता गतयो येषां तथाभूताः, भुवि न पतन्ति । कर्मणां तत्परिणामानां च वैचित्र्यादम रूर्ध्वज्वलनवद्वायोस्तिर्यग्गतिवन्नभसि भ्रमणं भुव्यपतनं चैषामुपपद्यत इति भावः ॥ ३ ॥ * * एवं ज्योतिर्गणानां कर्मायत्तत्वेन नभःसंचार उक्तोऽथ सर्वाधारस्य भगवत एवं शिशुमाराकारेणाव- स्थितत्वात्तदाश्रयाणां पतनशङ्केव नास्तीत्यभिप्रयन् ज्योतिर्गणस्य शिशुमाराश्रयत्वं मतान्तरेणोपन्यस्यति केचिदिति । केचिद्वेदभाग- विदो योगिजनाः, एतत् ज्योतिरनीकं ज्योतिर्वृन्दं शिशुमारोम्बुकूर्मस्तस्येव संस्थानमवस्थानं तेन वासुदेवस्य भगवंतः योगधारणायां योगधारणयावस्थितमित्यर्थः इति अनुवर्णयन्ति ॥ ४ ॥ । भाषानुवादः डीचिताना शिशुमारचक्रका वर्णन श्रीशुकदेवजी कहते हैं— राजन् ! सप्तर्षियोंसे तेरह लाख योजन ऊपर ध्रुवलोक है। इसे भगवान् विष्णुका परम पद कहते हैं । यहाँ उत्तानपादके पुत्र परम भगवद्भक्त ध्रुवजी विराजमान हैं । अग्नि, इन्द्र, प्रजापति कश्यप और धर्म- ये सब एक साथ अत्यन्त आदरपूर्वक इनकी प्रदक्षिणा करते रहते हैं । अब भी कल्पपर्यन्त रहनेवाले लोक इन्हींके आधार पर स्थित हैं। इनका इस लोकका प्रभाव हम पहले ( चौथे स्कन्ध में ) वर्णन कर चुके हैं ॥ १ ॥ * * सदा जागते रहनेवाले अव्यक्तगति भगवान् कालके द्वारा जो ग्रह-नक्षत्रादि ज्योतिर्गण निरन्तर घुमाये जाते हैं, भगवान्ने ध्रुवलोकको ही उन सबके आधारस्तम्भ रूपसे नियुक्त किया है । अतः यह एक ही स्थानमें रहकर सदा प्रकाशित होता है || २ || * * जिस प्रकार दाँय चलानेके समय अनाजको खूँदनेवाले पशु छोटी, बड़ी और मध्यम रस्सी में बँधकर क्रमशः निकट दूर और मध्य में रहकर खंभे के चारों और मण्डल बाँधकर घूमते रहते हैं, उसी प्रकार सारे नक्षत्र और प्रहगण बाहर-भीतर के क्रमसे इस काल में नियुक्त होकर These “ध्रुवलोकका भी आश्रय लेकर वायुकी प्रेरणासे कल्पके अन्ततक घूमते रहते “वायुकी प्रेरणासे कल्पके अन्ततक घूमते रहते हैं, जिस प्रकार मेघ और बाज आदि पक्षी अपने कमोंकी सहायतासे वायुके अधीन रहकर आकाशमें उड़ते रहते हैं, उसी प्रकार ये ज्योतिर्गण भी प्रकृति और पुरुषके संयोगवश अपने-अपने कर्मों के अनुसार चक्कर काटते रहते हैं, पृथ्वीपर नहीं गिरते || ३ || कोई-कोई पुरुष भगवानकी योगमायाके आधारपर स्थित इस ज्योतिश्चक्रका शिशुमार (सूँस) के रूप में वर्णन करते हैं ॥ ४ ॥ यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य । लाङ्गले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छ- मूले धाता विधाता च कट्यां सप्तर्षयः । तस्य दक्षिणावर्त कुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्रा- युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५ ॥ पुनर्वसुपुष्यो दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे च दक्षिण- वामयोः पश्चिमयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्टा मूलं च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववड क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युद्गय- नानि दक्षिणपार्श्ववङ क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोदक्षिणवामयोर्न्यसेत् ॥ ६ ॥ उत्तराहनाब- गतिरधरानौ यमो मुखेषु चाङ्गारकः शनैश्वर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाम्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो- राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ।। ७ ॥ एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥ १. प्रा० पा० च्छ्राग्रेऽवक्छिरसः । २. प्रा० पा० - योरार्द्राश्लेषे च । ३. प्राचीने पाटे ‘दक्षिणवामयो:’ पाठो न । ४. प्रा० पा०- पार्श्ववक्षःसु । ५ प्रा० पा०– मृगशीर्षर्क्षादीन्यु० । ६. प्रा० पा०-क्षिणपार्श्वेषु प्रातिलोम्येन शतभिषाज्येष्ठे । ७. प्रा० पा० उत्तरहनाच त्योsarद्दनौ यमो मुखे चा० । ८० प्रा० पा० नासायामुशना स्तनयोः । ९. प्रा० पा० - नमो नमो ज्यो० । ५०८ श्रीमद्भागवतम् ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ६ ॥ [ स्कं.५ अ. २३ श्लो. ५९ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ अन्वयः- -यस्य अवाक्शिरसः कुंडलीभूतदेहस्य पुच्छाने ध्रुवः उपकल्पितः तस्य लांगूले प्रजापतिः अग्निः इंद्रः धर्मः इति सन्ति पुच्छमूले धाता विधाता च कटयाम् सप्तर्षयः तस्य दक्षिणावर्तकुंडलीभूतशरीरस्य यानि उदगयनानि नक्षत्राणि दक्षिणपार्श्वे उपकल्पयन्ति दक्षिणायनानि तु सव्ये तथा कुंडला भोगसंनिवेशस्य शिशुमारस्य उभयोः अपि पार्श्वयोः समसंख्याः अवयवाः भवन्ति पृष्ठे तु अजवीथी च उदरतः आकाशगंगा ( अस्ति ) ॥ ५ ॥ * * दक्षिणवामयोः श्रोण्योः पुनर्वसुपुष्यो दक्षिणवामयोः पश्चिमयोः पादयोः आर्द्राश्लेषे दक्षिणवामयोः नासिकयोः अभिजिदुत्तराषाढे दक्षिणवामयोः लोचनयोः यथा- संख्यम् श्रवणपूर्वाषाढे दक्षिणवामयोः कर्णयोः धनिष्ठा च मूल: मघादीनि अष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववक्रिषु युंजीत तथैव उदगयनानि मृगशीर्षादीनि दक्षिणपार्श्ववंक्रिषु प्रातिलोम्येन प्रयुंजीत दक्षिणवामयोः स्कंधयोः शतभिषाज्येष्ठे न्यसेत् ॥ ६ ॥ * * उत्तराहनौ अगस्तिः अधराहनौ यमः मुखेषु च अंगारकः उपस्थे शनैश्वरः ककुदि बृहस्पतिः वक्षसि आदित्यः हृदये नारायणः मनसि चंद्रः नाभ्याम् उशना स्तनयोः अश्विनौ प्राणापानयोः बुधः गले राहुः सर्वांगेषु केतवः रोमसु सर्वे तारागणाः ॥ ७ ॥ * * उह एव भगवतः विष्णोः एतत् सर्वदेवतामयम् रूपम् अहः अहः संध्यायाम् प्रयतः वाग्यतः निरीक्षमाणः उपतिष्ठेत ज्योतिर्लोकाय कालायनाय अनिमिषाम् पतये महापुरुषाय नम इति अभिधीमहि ।। ८ ।। * * त्रिकालम् मंत्रकृताम् पापापहम् आधिदैविकम् प्रहर्क्षतारामयम् त्रिकालम् नमस्यतः वा स्मरतः तत्कालजम् पापम् आशु नश्येत ।। ९ ।। i इति प्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका लांगूले अप्रादधोभागे । उदगयनान्यभिजिदादीनि पुनर्वस्वन्तानि चतुर्दश दक्षिणपार्श्वे । दक्षिणायनानि पुष्यादीन्युत्तरा- षाढान्तानि चतुर्दश वामपार्श्वे ।। ५ ।। तदेव स्थानविशेषेण विभज्य दर्शयति पुनर्वसुपुष्यावित्यादिना । पुनर्वसु- रुदगयनान्त्यं नक्षत्रं पुष्यो दक्षिणायनस्याद्यम् आर्द्राऽऽश्लेषे तयोर्निरन्तरे अभिजिदुत्तराषाढे उत्तरदक्षिणायनयोराद्यन्तनक्षत्रे श्रवणपूर्वाषाढे तयोरुत्तरपूर्वे धनिष्ठामूलं च तयोरप्युत्तरपूर्वे मघादीनि यान्यनुराधान्तानि दक्षिणायनान्यष्ट तानि वामपार्श्ववधिषु वामपार्श्वास्थिषु । मृगशीर्षादीनि प्रातिलोम्येन पूर्वाभाद्रपदान्तानि यान्युदगयननक्षत्राण्यष्ट तानि दक्षिणपाश्र्श्ववधिषु । शतभिष- ज्येष्ठे उत्तरदक्षिणायनयोर्ये अवशिष्टे ते स्कन्धयोः ॥ ६ ॥ * * यमो नक्षत्ररूपः तथा नारायणोश्विनौ च । ककुदि गलपृष्ठव ॥ ७ ॥ * * ज्योतिषो लोकायाश्रणाय । कालायनाय कालचक्ररूपाय । नमोऽभिधीमहीति मन्त्रेणोपतिष्ठेत ॥ ८ ॥ * * मन्त्रकृतां पूर्वोक्तं मन्त्रं जपताम् ॥ ९ ॥ ४ APP FINE इति पञ्चमे टीकायां त्रयोविंशोऽध्यायः ॥ २३ ॥ SERUNTS P श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः कुण्डलीभूतदेहस्य चक्रीकृतशरीरस्य कुण्डलीभूतत्वं पार्श्वतः न तु पृष्ठतः क्रोडतो वाइत एव दक्षिणपार्श्वे उदगयनानि मन्त- । तिर्यगूर्ध्वाधो व्यानि । अत्र यद्वैपरीत्यं दृश्यते तत्तु मण्डवेऽपि त्वं मन्तव्यमतो नारायणादीनां हृदयास्थितम् । " बहुधा वक्रत्वं अजवीथी दक्षिणमार्गस्य प्रथमो भागः । “मूलाषाढोत्तराषाढा अजवीथीति ‘शब्दिते’ तत्र तत्रापि तत्तदंशस्य क्रोडभागो मन्तव्यः । आकाशगतायास्तत्रागमनादिति शब्दिते इत्युक्तः । यदेषां कर्णादौ स्थितिं वक्ष्यति भावः ॥ ५॥ * * श्रोण्योर्नितम्बयोः वधिषु अस्थिषु “नितम्बः श्रोणिराख्यातो वधि प्रोक्तं तथास्थिति” इति विश्वनाथः । प्रातिलोम्येन मृगशिरा रोहिणी कृत्तिका भरणीत्येवं व्युत्क्रमेण । वक्रिष्विति पाठो हि लेखकप्रमादत एव ॥ ६ ॥ उत्तराहना वुत्तरकपोलावयवेऽधरकपोलावयवे ‘हनुर्हट्ट - ॥ विलासिन्यां सूनावत्रे गदे स्त्रियाम् । द्वयोः कपोलावयवे” इति मेदिनी । यद्यप्यङ्गारकादीनां राश्यन्तरचलनत्वं तथापि तत्तदङ्गस्थित- त्वमङ्गानां चलनत्वमननाद्बोध्यम् । केतव इति । बहुत्वं केतूनां सहस्रत्वं शतत्वं च व्योतिःशास्त्रे वर्णितमिति तदपेक्षम् ||७|| ** न निमिषन्ति निमीलनं कुर्वन्तीत्यनिमिषो देवाः । ‘मिष-दर्शने’ इति किपि रूपम् ॥ ८ ॥ ॐ ॥ मन्त्रं कुर्वन्ति वाग्विषयमिति मन्त्रकृतस्तेषां पूर्वोक्तं ‘नमो ज्योतिर्लोकाय ’ इत्यादिकं मन्त्रं जपतां पापापहम् । आधिदैविकं परमेश्वरस्य रूपमिदं नमस्यतः स्मरतो वा पुंसः पापं नश्येतेत्यन्वयः । अत्र सूर्यमण्डला दष्टत्रिंशलक्षे ध्रुवः ध्रुवात्कोटियोजने महलोंको महर्लोकात्कोटिद्वये जनलोको जनलोका- aritra तपोलोकस्तपोलोकाद् द्वादशकोटिषु सत्यलोकः । एवं सूर्यात्सत्यलोकपर्थ्यन्तमष्टत्रिंशलक्षोत्तर त्रयोविंशतिकोट्यः सत्यलोकाद्- द्विषष्टिलक्षोत्तरायां कोटौ वैकुंठस्ततोडगोलक इति विष्णुपुराणदर्शितया दिशा सूर्यात्पञ्चविंशतौ कोटिषु कटाहः । एवं सूर्यालक्षेस्क्र. ५ अ. २३ लो. ५-९ अनेकव्याख्यास मलङ्कृतम् ५०९ भूतलं ततः सप्तसप्ततिसहस्रेषु सप्तपातालानि ततस्त्रिंशत्सहस्रेषु शेषः । एवं सूर्यान्नक्षद्वये गर्भोदः स च लक्षद्वयन्यूनपञ्चविंशतिकोटि- -परिमित एवं मिलित्वोर्ध्वाधः पञ्चाशत्कोटिपरिमाणमण्डगोलकमिति ॥ ९ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीमद्वीरराघवव्याख्या एतदेव प्रपञ्चयति यस्येत्यादिना । यस्य भगवदात्मकस्य कुण्डलीभूतदेहस्य सर्पवत्कुण्डलीभूतो वलयीभूतो देहो यस्य अर्वागधस्ताच्छिरो यस्य अनेनोर्ध्वपुच्छस्येत्यवगम्यते तस्य शिशुमारस्य पुच्छा ध्रुव उपकल्पितः उपास्यः, योगिभिरिति शेषः । शिशुमारावयवेषु यत्र यस्यावस्थानं तदाश्रयत्वेन तत्र तस्यावयवस्योपासनं कृतं कैचित्तथैवाधुनापि कर्तव्यं तेषामवस्थितिस्तत्र तत्रैव ज्ञेयेत्यत्र प्रतिपाद्यते । पुच्छाये हि ध्रुवो व्यवस्थितः, तथा च श्रीवैष्णवे पुराणे “उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् । सतार शिशु- मारस्य ध्रुवः पुच्छे व्यवस्थितः ।। " इति तस्य शिशुमारस्य लाङ्गूले पुच्छाप्रादधोभागे प्रजापत्यादयश्चत्वारो व्यवस्थिताः, अतः प्रजापत्याद्याश्रयत्वेन लाङ्गूलोपासनं कर्तव्यमित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । पुच्छस्य मूले धाता विधाता चोपकल्पित इत्यनुषङ्गः । कटयां सप्तर्षय इत्यत्रापि प्रजापत्यादयश्चैवं व्यवस्थिताः लागूले प्रजापतिः प्रजापतेरधस्तादग्निस्ततोऽधस्तादिन्द्रः ततोऽप्यधो धर्म इति तस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य दक्षिणपार्श्वे यान्युद्गयननक्षत्राण्यभिजिदादीनि पुनर्वस्वन्तानि चतुर्दश उपकल्पयन्ति उपासते, यानि दक्षिणायननक्षत्राणि पुष्यादीन्युत्तराषाढान्तानि च तानि वामपार्श्वे उपकल्पयन्ति । एतदेव स्थानविशेषेण विभन्य दर्शयितुं दक्षिणोत्तर पार्श्वयोरवयवसाम्यं तावदाह यस्येति । कुण्डलाकारः सर्पाकारः सन्निवेशो यस्य तस्य शिशुमारस्य उभयोरपि पार्श्वयोर्यथावयवाः समसङ्ख्या भवन्ति तस्य पृष्ठे त्वजवीथी नाम सूर्यस्य दक्षिणायनाख्या शीघ्रगतिर्मार्गविशेषः, उदरे आकाशगङ्गा उपकल्पिताः, आर्द्रेत्यादि युञ्जीत ॥ ५ ॥ * * स्थानविशेषेणोभयनक्षत्राणां स्थानविभागकल्पनामाह पुनर्वस्वित्यादिना | पुनर्वसु- रुद्गयनान्तं नक्षत्रं पुष्यो दक्षिणायनस्याधस्थावुभौ क्रमेण दक्षिणवामयोः श्रोण्योरुपकल्पयौ आर्द्रेत्यादि युञ्जीतानुसन्दधीत उत्तरायण- नक्षत्रेष्वभिजिदादिषु पुनर्वस्वन्तेषु पुनर्वस्वाद्रोभिजिच्छ्रवणधनिष्ठा दक्षिणश्रोणिपादनासिका लोचन कर्णनासिकास्थानेषु ज्ञेयाः । मृग- शीर्षारोहिणीकृत्तिकाभरण्यश्विनी रेवत्युत्तराभाद्रपूर्वाभाद्रपदा अष्टौ नक्षत्राणि दक्षिणपार्श्वेऽवगन्तव्यानि । शतभिषग्दक्षिणस्कन्धे दक्षिणायननक्षत्रेषु पुण्यप्रभृत्युत्तराषाढान्तेषु पुष्याश्लेषोत्तराषाढापूर्वाषाढामूलाख्यानि पच नक्षत्राणि पादनासिका लोचनकर्णस्थाने पु योज्यानि मघादीन्यनुराधान्तानि क्रमेणाष्टौ नक्षत्राणि वामपार्श्वे योज्यानि । ज्येष्ठाख्यं वामस्कन्धे योज्यं, हनुः कपोलप्रान्तदेशः, अगस्त्ययमावपि नक्षत्ररूपेण वर्तेते इत्यभिप्रायः, बृहस्पतिः ककुदि गलपृष्ठे केतव इति बहुवचनं केत्वाकारनक्षत्राणां तारासद्भावा- भिप्रायेण प्रयुक्तं शेषं स्पष्टम् ॥ ६-७ ॥ * * एवं प्रतिनियतस्थान ग्रहनक्षत्रतारामयं शिशुमारचक्र नित्यमुपास्यमित्याह ॥ ॥ एतदिति । एतदुहैव एतद्वै सर्वदेवतामयं भगवतो विष्णो रूपं शरीरं शिशुमार चक्रम् अहरहः सन्ध्यायां प्रयतः समाहितचित्ता वाग्यतो मौनी सन्निरीक्षमाण उपतिष्ठेत वक्ष्यमाणमन्त्रेण स्तुवीत मन्त्रमेवाह नम इति । ज्योतिषां लोकाय कालायनाय कालस्या- श्रयभूताय कालचक्रस्वरूपाय वा अनिमिषां ब्रह्मादीनामपि पतये तेषामपि कालवश्यत्वान्महापुरुषाय परमपुरुषात्मकाय नमः अभिधीमहीति उक्तरूपं महापुरुषं ध्यायेम इत्यर्थः ॥ ८ ॥ * * एवं शिशुमाराकृतेर्भगवतोऽनुसन्धाननमस्कारयोः फलमाह ग्रहोंति । ग्रहनक्षत्रतारामयमा धिदैविकमधिदेवे वर्त्तमानं देवेभ्यः उत्कृष्टमित्यर्थः । हरे रूपं शिशुमारं त्रिकालं नमस्यतः नमस्कुर्वतः स्मरतो वा त्रिकालं मन्त्रकृतां उक्तमन्त्रं जपतां वा तत्कालजं पापमाशु शीघ्रं नश्येत नष्टं भवेदित्यर्थः । तत्कालजमित्यनेन तत्तद्भूत- भविष्यद्वर्त्तमानकालजं विवक्षितम् ॥९॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य कृत भागवतचन्द्रचन्द्रिकायां त्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ।। कुण्डलीभूतदेहस्य विक्रीकृतशरीरस्य पुच्छा उपकल्पितो ध्रुवः पुच्छाप्रव्यतिरिक्ते स्थळे लागले पुच्छमध्य इत्यर्थः, यान्युद्गयनानीत्यादेर्विस्तरो मघादीनीत्यादिः प्रातिलोम्येन पूर्वाभाद्रपदमारभ्य मृगशीर्षान्तानीति ॥ ५-७ ॥ * * अनि मिषां देवास्तेषां नाथाय किप्प्रत्ययान्तत्वेना निमीरिति रूपं सिद्धयति ॥ ८ ॥ * * शिशुमाररूपग्रहणप्रयोजनमाह प्रहेति । मन्त्रकृतो जपतो नमस्यतो नमस्कारं कुर्वतः पुंस इति शेषः । प्रातरादित्रिकालं कृतं पापं स्वयं सर्वात्मना नश्यते इत्यन्वयः । वा इत्यनेन “नारायणो नाम नरो नराणाम्” इत्यादिवाक्यं प्रमाणयति ।। ९॥ इति श्रीमद्भागवत महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थकृतपदरत्नावल्यां त्रयोविंशोऽध्यायः ॥ २३ ॥४॥ श्रीमजी वगोस्वामिकृतः क्रमसन्दर्भः -FERREDIENT FOREST । तत्र कुण्डलीभूतत्वं पार्श्वतः न तु पृष्ठतः क्रोडतो वा अत एव दक्षिणपार्श्व उदगयनानि मन्तव्यानि । अत्र यद्वैपरीत्यं दृश्यते तत्तु मण्डलत्वेऽपि तिर्यगूर्ध्वाधो बहुधा वक्रत्वं मन्तव्यम् । अतो नारायणादीनां हृदयादौ स्थितत्वमिति । अजवीथी दक्षिण- " ५१० श्रीमद्भागवतम् [ स्कं. ५ अ. २३ श्लो. ५-९ मार्गस्य प्रथमो भागः । " मूलपाढोत्तराषाढा अजवीथीति शब्दिता” इति तत्रोक्तेः । अग्रे तु यदेषां कर्णादौ स्थितिर्वक्ष्यते तत्र तत्रापि तत्तदङ्गस्य क्रोडभागो मन्तव्यः । आकाशगङ्गायाश्च क्रोडसंस्थत्वं तत्रागमनात् ।। ५-६ ॥ * अङ्गारकादीनां राश्यन्तरचलन- त्वेऽपि तत्तदङ्गस्थितत्वमङ्गानाचलनत्वमननात् ।। ७-९ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भस्य त्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी उदगयनानि अभिजिदादीनि पुनर्वस्वन्तानि चतुर्दश दक्षिणपार्श्वे दक्षिणायनानि पुष्यादीनि उत्तराषाढान्तानि चतुर्द्दश वामपार्श्वे अजवीथी दक्षिणमार्गस्य प्रथमो भागः ॥ ५ ॥ * * उक्तान्येव नक्षत्रस्थानानि विशेषेण विभज्य दर्शयति । पुनर्वसु- पुष्यावित्यादीना । वामपार्श्वस्य वधिषु अस्थिषु प्रातिलोम्येन मृगशिरा रोहिणीकृत्तिकेत्येवं व्युत्क्रमेण पूर्वभाद्रपदान्तान्यष्ट दक्षिण- पार्श्वास्थिषु ॥ ६-८ ॥ * * मन्त्रकृतां पूर्वोक्तमन्त्रं जपतां पापापहमाधिदैविकं परमेश्वरस्य रूपमिदं नमस्यतः स्मरतो वा पुंसः पापं नश्येतेत्यन्वयः । अत्र सूर्यमण्डलाष्टत्रिंशलक्षे ध्रुवः ध्रुवात् कोटियोजने महर्लोकः महर्लोकात् कोटिद्वये जनलोक: जन- लोकात् कोष्टके तपोलोकः । तपोलोकाद् द्वादशकोटिषु सत्यलोकः । एवं सूर्यात् सत्यलोकपर्यन्तमष्टत्रिंशलक्षोत्तर त्रयोविंशतिकोटथः सत्यलोकाद् द्विषष्टिलक्षोत्तरायां कोटौ वैकुण्ठस्ततोऽण्डगोलक इति श्रीविष्णुपुराणे दर्शितया दिशा सूर्यात् पञ्चविंशतौ कोटिषु कटाहः । एवं सूर्यालले भूतलं ततः सप्तसप्ततिसहस्रेषु सप्त पातालानि ततस्त्रिंशत्सहस्रेषु शेषः । एवं सूर्यालक्षद्वये गर्भोदः स च लक्षद्वयन्यूनपञ्चविंशतिकोटिपरिमितः । एवं मिलित्वा ऊर्ध्वाधः पञ्चाशत्कोटिप्रमाणमण्डगोलकमिति ॥ ९ ॥ इति सारार्थदर्शिन्यां हर्षिरयां भक्तचेतसाम् । पञ्चमस्य त्रयोविंशः सङ्गतः सङ्गतः सताम् ॥ २३ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः यस्य शिशुमारस्य लाङ्गूले पुच्छाप्रादधोभागे तस्य दक्षिणपार्श्वे अभिजिच्छ्रवणधनिष्ठाशतभिषापूर्वाभाद्रपदोत्तराभाद्र- पदरेवत्यश्विनीभरणी कृत्तिका रोहिणी मृगशिर आर्द्रापुनर्वस्वाख्यान्युद्गयनानि चतुर्दश नक्षत्राणि कल्पयन्ति सव्ये वामपार्श्वे तु पुष्याश्लेषामघापूर्वाफाल्गुन्युत्तराफाल्गुनीहस्तचित्राखातिविशाखानुराधान्येष्ठामूलपूर्वाषाढोत्तराषाढाख्यानि दक्षिणायनानि चतुर्दश नक्षत्राणि शिशुमारस्योभयोः पार्श्वयोरवयवा यथा भवन्ति तथा कल्पयन्ति तज्ज्ञाः । उदरतः उदरे ॥ ५ ॥ उद्गयन- दक्षिणायननक्षत्राणां स्थानानि विभज्य दर्शयति पुनर्वसुपुष्यावित्यादिना । पुनर्वसुपुष्यावुद्गयनान्त्यं नक्षत्र पुण्यो दक्षिणाय- नान्त्यम् । आर्द्राश्लेषे तयोर्निरन्तरे स्कन्धयोरिति सूच्यमानपादद्वयापेक्षया पश्चिमयोः पादयोः अभिजिदुत्तराषाढे उदगयन- दक्षिणायननक्षत्रगणयोराद्यन्ते नक्षत्रे श्रवणपूर्वाषाढे तयोरप्युत्तरपूर्वे धनिष्ठामूलं च तयोरप्युत्तरपूर्वे च पुनबेस्वाद्रभिजिच्छ्रवण- धनिष्ठा पश्च नक्षत्राणि दक्षिणश्रोणिपादनासिकालोचनकर्णेषु पुष्यादीनि पञ्च वामश्रोण्यादिषु च यथासङ्ख्यं युञ्जीतेत्यर्थः । मघादीनीति मघापूर्वाफाल्गुनी- उत्तराफाल्गुनी- हस्त चित्रास्वातिविशाखानुराधाख्यानि अष्टनक्षत्राणि वामपार्श्ववङ्किषु वाम- पार्श्वास्थिषु युञ्जीत अनुसन्दधीत । मृगशीर्षादीनि प्रातिलोम्येन पूर्वाभाद्रपदान्तानि मृगशिरोरोहिणीकृत्तिकाभरण्यश्विनी रेवत्युत्तरा- भाद्रपदपूर्वाभाद्रपदाभिधानि अष्ट नक्षत्राणि दक्षिणपाश्र्ववक्रिषु प्रतियुञ्जीत शतभिग्ज्येष्ठे शतभिङ्नक्षत्रम् उदगयनेष्ववशिष्टं दक्षिणायनेष्ववशिष्टं वामस्कन्धे न्यसेत् ॥ ६ ॥ * * यमो नक्षत्ररूपः बृहस्पतिः ककुदि गलपृष्ठशृङ्गे ॥ ७ ॥ * एतच्छिशुमाराख्यं विष्णोः रूपमुपतिष्ठेतानन्तरमन्त्रेण स्तुवीत मन्त्रमाह नम इति । ज्योतिषां लोकाय वासस्थानाय कालायनाय कालचक्ररूपाय नमोऽभिधीमहीति ॥ ८ ॥ * * ग्रहर्क्षतारामयं महाद्याश्रयमत एवाधिदैविकमधिदेव नियन्तृरूपं शिशु- मारचक्रं नमस्यतः स्मरतः मन्त्रकृतामुक्तमन्त्रं जपतां च पापमाशु नश्येत ॥ ९ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे त्रयोविंशोऽध्यायः ॥ २३ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी ईश्वराधारत्वात् पतनशङ्कैव नास्तीत्यभिप्रेत्य मतान्तरमाह- केचनेति । ज्योतिरनीकं ज्योतिश्चक्रम् | योगधारणायां स्थितमिति शेषः ॥ ५ ॥ * * लाङ्गलेऽप्रादधोभागे यानि उदगयनानि अभिजिदादीनि पुनर्वस्वन्तानि चतुर्दश नक्षत्राणि तानि वामपार्श्वे | दक्षिणायनानि पुष्यादीन्युत्तराषाढान्तानि चतुर्दश सव्ये पार्श्वे कल्पयन्ति । तत्र दृष्टान्तमाह-यथेति । शिशुमारस्य सर्पविशेषस्य अजवीथी दक्षिणमार्गस्य प्रथमो भागः । उक्तान्येव नक्षत्रस्थानानि विशेषेण विभव्य दर्शयति- पुनर्वसुपुष्यावित्यादिना । पुनर्वसुरुद्गयनान्त्यनक्षत्रम्, पुष्यो दक्षिणायनस्याद्यम्, आर्द्राश्लेषे तयोर्निरन्तरे, अभिजिदुत्तराषाढे उत्तर दक्षिणायनयोराद्यन्त- नक्षत्रे, श्रवणपूर्वाषाढे धनिष्ठा मूलं च तयोरप्युत्तरपूर्वे, मघादीनि यान्यनुराधान्तान्यष्टदक्षिणायननक्षत्राणि तानि वामपार्श्ववक्रिषु वामपारवस्थिषु युञ्जीत । प्रातिलोम्येन मृगशिरा रोहिणी कृत्तिकेत्येवं व्युत्क्रमेण पूर्वाभाद्रपदान्तानि यान्यष्टोदगयननक्षत्राणि तानि दक्षिणपार्श्ववक्रिषु युञ्जीत । शतभिषग्ज्येष्ठे उत्तरदक्षिणायनयोर्ये अवशिष्टे ते स्कन्धयोः ॥ ६ ॥ * * यमो नारायणोऽश्विनौ स्क. ५ अ. २३ लो. ५.९] अनेकव्याख्या समलङ्कृतम् । ।
च नक्षत्ररूपेण स्थिताः । ककुदि गलपृष्ठे ॥ ७ ॥ * * वर्णितस्य भगवद्रूपस्य शिशुमारस्योपासनं विधत्ते - एतदिति । भगवत । एतद्रूपमहरहः सन्ध्यायां निरीक्षमाण उपतिष्ठेतेत्यन्वयः । उपस्थानमन्त्रं दर्शयति-नम इति । ज्योतिर्लोकाय ज्योतिषामाश्रयाय कालाय कालचक्ररूपाय अनिमिषां सूर्यादीनां पतये महापुरुषाय नमोऽभिधीमहीति मन्त्रेण उपतिष्ठेतेति पूर्वेणान्वयः ॥ ८ ॥ * * एवमुपस्थानस्य फलमाह-प्रहेति । यस्मादेतद् ग्रहतारामयं आधिदैविकं सर्वदेवाधिदेवस्य भगवतो विष्णोः स्वरूपं त्रिकालं मन्त्रकृतां पूर्वोक्तं मन्त्रं जपतां पापापहं पापनाशकं तस्मात् त्रिकालमेतत् स्मरतो नमस्यतो वा पुंसस्तत्तत्कालजं पापमाशु नश्येदित्यन्वयः । अत्रेदं बोध्यम्-सूर्यादुपरिष्टात् एकलक्षयोजने चन्द्रः । तत उपरि त्रिलक्षयोजनतो नक्षत्राणि । तत उपरि द्विलक्षयोजनतः शुक्रः । तत उपरि द्विलक्षयोजनतो बुधः । तत उपरि द्विलक्षयोजनतो भौमः । तत उपरि द्विलक्षयोजनतो बृहस्पतिः । तत उपरि द्विलक्षयोजनतः शनैश्वरः । तत उपरिष्टादेकादशलक्षयोजनतः सप्तर्षयः । तत उपरि त्रयोदशलक्षयोजनतो ध्रुवः । एवं सूर्याद् ध्रुवपर्यन्तमष्टत्रिंशलक्ष- योजनानि भवन्ति । ध्रुवादुपरिष्टादेककोटियोजने महर्लोकः । तत उपरि कोटिद्वययोजने जनलोकः । तत उपरि योजनकोट्यष्टके तपोलोकः । तत उपरि द्वादशकोटियोजनतः सत्यलोकः । तदुक्तं वैष्णवे - ‘ध्रुवस्योर्ध्वं महलोंको यत्र ते कल्पवासिनः । एकयोजन- कोटिस्तु यन्त्र ते कल्पवासिनः । द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्यास्तिष्ठन्ति मैत्रेयामलचेतसः ॥ चतुर्गुणोत्तरे चोर्ध्वं जनलोकात्तपः स्मृतः । वैराजा यत्र ते देवाः स्थिता दोषविवर्जिताः ।। षाड्गुण्येन तपोलोकात् सत्यलोको विराजते । अपुन- मरिका यत्र ब्रह्मलोको हि स स्मृतः’ इति । ततोप्युपरिष्टादेककोटियोजनतो वैकुण्ठलोकः । तथोक्तं ब्रह्मवैवर्त्ते कृष्णजन्मखण्डे- ‘वैकुण्ठ परमं धाम जरामृत्युहरं परम् । कोटियोजनमूर्ध्वं च ब्रह्मलोकात् सनातनम्’ इति । अवशिष्टानि द्विषष्टिलक्षयोजनानि तदुपर्यवकाशे ज्ञेयानि । एवं च सूर्यादुपर्यण्डकटाहपर्यन्तं पञ्चविंशतिकोटियोजनानि भवन्ति ॥ ९ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमगिरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र स्वर्गस्थाननिरूपणे । त्रयोविंशो गतो वृत्ति शिशुमारनिरूपकः ॥ ३ ॥ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी एतदेव प्रपञ्चयति यस्येस्यादिना यस्येति । कुण्डलीभूतः सर्पस्येव वलयीभूतो देहो यस्य तस्य अवागधस्ताच्छिरो यस्य तस्य, भगवदात्मशिशुमारस्य, अनेनोर्ध्वपुच्छ स्येत्यवगम्यते । पुच्छाये ध्रुवः उपकल्पितः । तस्य शिशुमारस्य, लाङ्गूले पुच्छा- ग्रादधोभागे प्रजापतिः, तस्याधस्तात् अग्निः, तस्याधस्तात् इन्द्रः ततोऽप्यधः धर्मः इत्येते प्रजापत्यादितारका उपकल्पिताः । पुच्छमूले तत्पुच्छीय मूलप्रदेशे, धाता, विधाता च धातृविधात्रोस्तारके तत्पुच्छमूले उपकल्पिते इत्यर्थः । कट्यां तत्कटिप्रदेशे, सप्तर्षयः, शकटाकारं सप्तर्षितारकसप्तकं तत्कटिप्रदेशे कल्पितमित्यर्थः । दक्षिणावर्त्तकुण्डलीभूतशरीरस्य, तस्य शिशुमारस्य, दक्षिण- पार्श्वे तु यानि उदगयनानि सूर्यस्योत्तरायणगमने संभोग्यानि, नक्षत्राणि अभिजित् श्रवणं, धनिष्ठा, शततारका, पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती, अश्विनी, भरणी कृत्तिका, रोहिणी, मृगशीर्षम्, आर्द्रा, पुनर्वसुः, इति चतुर्दश, उपकल्पयन्ति । यानि दक्षणायनानि सूर्येण दक्षिणायने भोग्यानि पुष्यः, आश्लेषा, मघा, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, हस्तः, चित्रा, स्वातिः, विशाखा, अनुराधा, ज्येष्ठा, मूलम्, पूर्वाषाढा, उत्तराषाढा, इत्येतानि तु सव्ये वामपार्श्वे उपकल्पयन्ति । एतान्येव स्थानविशेषेण विभज्य दर्शयितुं दक्षिणोत्तर पार्श्वयोरवयवसाम्यं तावदाह यथेति । कुण्डला- भोगसंनिवेशस्य कुण्डलीभूतसर्पशरीरसमानस्य शिशुमारस्य उभयोः अपि, पार्श्वयोः अवयवाः यथा यथावदेव, समसंख्याः भवन्ति । तस्य शिशुमारस्य, पृष्ठे तु अजवीथी नववीथीष्वन्यतमा सूर्यस्य दक्षिणायनाख्यशीघ्रगतिमार्गविशेष इत्यर्थः । कल्पिता उदरतो यस्योदरप्रदेशे, आकाशगङ्गा च उपकल्पिता भवति ॥ ५ ॥ * * उभयायनस्थनक्षत्राणां स्थानविशेषेण स्थान- विभागकल्पनामाह पुनर्वस्वित्यादिना । पुनर्वसुरुद्गयनान्त्यनक्षत्रं च पुष्यो दक्षिणायनस्याद्यनक्षत्रं च तौ यस्य दक्षिणवामयोः श्रोण्योः युञ्जीत अनुसंदधीत । आर्द्राश्लेषे आर्द्राम् आश्लेषां चेत्यर्थः । दक्षिणवामयोः पश्चिमयोः पादयोः अभिजिदुत्तराषाढे, उत्तरदक्षिणायनयोराद्यन्तनक्षत्रे, दक्षिणवामयोः, नासिकयोः यथासंख्यं कल्पनीये । श्रवणपूर्वाषाढे, दक्षिणवामयोः लोचनयोः, धनिष्ठा मूलं च धनिष्ठां मूलं चेत्यर्थः । दक्षिणवामयोः कर्णयोः युञ्जीत । मघादीनि अनुराधान्तानि दक्षिणायनानि, अष्ट नक्षत्राणि, वामपार्श्ववक्रिषु वामपार्श्वास्थिषु युञ्जीत । तथैव उद्गयनानि मृगशीर्षादीनि अष्टौ नक्षत्राणि, पूर्वाभाद्रपदान्तानि मृगशीर्षादीनि यान्युदगयनान्यष्टौ नक्षत्राणि तानि प्रातिलोम्येन दक्षिणपार्श्ववक्रिषु प्रयुञ्जीत, तस्य दक्षिणवामयोः स्कन्धयोः शतभिग्न्येष्ठे उत्तरदक्षिणायनयोरवशिष्टे न्यसेत् ॥ ६ ॥ * * उत्तरेति । तस्य उत्तराहनौ अगस्तिरगस्तेस्तारकः, अधराहनौ यमो यमस्य तारकः, मुखे यद्वदने च, अङ्गारकः भौमतारकः, उपस्थे यदुपस्थप्रदेशे शनैश्वरः, ककुदि यत्ककुत्प्रदेशे बृहस्पतिः, वक्षसि यद्वक्षः प्रदेशे, आदित्यः सूर्यः, हृदये यदीयहृदयप्रदेशे नारायणः, मनसि यन्मनः प्रदेशे चन्द्रः नाभ्यां यदीयनाभिप्रदेशे, उशना शुक्रतारकः, स्तनयोर्यदीय स्तन प्रदेशयोः अश्विनौ तारकरूपावश्विनीकुमारौ प्राणापानयोः यदीयप्राणापानग्रन्थिस्थाने, बुधो ५११ श्रीमद्भागवतम् [ स्कं. ५ अ. २३ लो. ५-१० बुधतारकः, गले यदीयगलप्रदेशे राहुः, सर्वाङ्गेषु यदीयसर्वाङ्गप्रदेशेषु केतवः, रोमसु यदीयाङ्गस्थरोमवृन्देषु, सर्वे तारागणाः, योजनीयाः ॥ ७ ॥ * * एतदिति । एतदु हैव एतदेव हि सर्वदेवतामयं भगवतः विष्णोः रूपम्, अहरहः प्रतिदिनं । संध्यायां, प्रयतः समाहितचित्तः, वाग्यतो मौनी सन् निरीक्षमाणः एव, उपतिष्ठेत वक्ष्यमाणमन्त्रेण स्तुवीत मन्त्रमाह । नमः इति । ज्योतिषां लोकस्तस्मै, कालायनाय कालस्याश्रयभूताय, कालचक्रस्वरूपाय वा । अनिमिषां ब्रह्मादीनामपि पतये, तेषामपि । । | कोळवश्यत्वात् । महापुरुषाय परमपुरुषात्मकाय नमः । अभिधीमहि उक्तरूपं महापुरुषं ध्यायाम इत्यर्थः । इति मन्त समाप्तौ ॥ ८ ॥ * * अथ शिशुमाराकृतेर्भगवतोऽनुसंधाननमस्कारयोः फलमाहुः । ग्रहोंति, प्रहर्क्षतारामयं ग्रहनक्षत्र– तारात्मकम्, आधिदैविकमधिदेवत्वेन वर्त्तमानं देवेभ्य उत्कृष्टमित्यर्थः । पापापहं ध्यातॄणां पापनिवर्त्तकं, हरेः रूपं शिशुमारमिति शेषः । त्रिकालं नमस्यतो नमस्कुर्वतः वा स्मरतः स्मरणं कुर्वतः, त्रिकालं मन्त्रकृतां मन्त्रजपं कुर्वाणानां च तत्कालजं पापं आशु शीघ्रमेव नश्येत नष्टं भवेत् ॥ ९ ॥ ल इति श्रीधर्मधुरंधर श्रीधर्मात्मज प्रत्यक्ष पुरुषोत्तमसहजानन्द स्वामिसुतश्रीरघुवीराचार्य सुनु भगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्त मनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे त्रयोविंशतितमोऽध्यायः ।। २३ ॥ भाषानुवादः यह शिशुमार कुण्डली मारे हुए है इसका मुख नीचेकी ओर है। इसकी पूँछके सिरेपर ध्रुव स्थित है । पूँछके मध्य- भागमें प्रजापति, अग्नि, इन्द्र, और धर्म हैं। पूँछकी जड़में धाता और विधाता हैं । इसके कटिप्रदेशमें सप्तर्षि हैं। यह शिशुमार दाहिनी ओरको सिकुड़कर कुण्डली मारे हुए है। ऐसी स्थितिमें अभिजित्से लेकर पुनर्वसुपर्यन्त जो उत्तरायण के चौदह नक्षत्र हैं, वे इसके दाहिने भाग में हैं और पुष्यसे लेकर उत्तराषाढ़ापर्यन्त जो दक्षिणायनके चौदह नक्षत्र हैं, वे बायें भागमें हैं । लोक में भी जब शिशुमार कुण्डलाकार होता है, तब उसके दोनों ओरके अङ्गोंकी संख्या समान रहती है, उसी प्रकार यहाँ नक्षत्र - संख्या में भी समानता है। इसकी पीठमें अजवीथी ( मूल, पूर्वाषाढ़ा और उत्तराषाढ़ा नामके तीन नक्षत्रों का समूह है) और उदर में आकाशगङ्गा है ॥ ५ ॥ * * राजन् ! इसके दाहिने और बायें कटितटोंमें पुनर्वसु और पुष्य नक्षत्र हैं, पीछेके दाहिने और बायें चरणों में आर्द्रा और आश्लेषा नक्षत्र हैं तथा दाहिने और बायें नथुनोंमें क्रमशः अभिजित् और उत्तराषाढ़ा हैं । इसी प्रकार दाहिने और बायें नेत्रों में श्रवण और पूर्वाषाढ़ा एवं दाहिने और बायें कानोंमें धनिष्ठा और मूल नक्षत्र हैं । मघा आदि दक्षिणायनके आठ नक्षत्र बायीं पसलियों में और विपरीत क्रमसे मृगशिरा आदि उत्तरायणके आठ नक्षत्र दाहिनी पसलियों में हैं । शतभिषा और ज्येष्ठा—ये दो नक्षत्र क्रमशः दाहिने और बायें कंधोंकी जगह हैं ।। ६ ।। * * इसकी ऊपरकी थूथनी में अगस्त्य, नीचेकी ठोडीमें नक्षत्ररूप यम, मुखोंमें मङ्गल, लिङ्गप्रदेशमें शनि, ककुद में बृहस्पति, छातीमें सूर्य, हृदय में नारायण, मनमें चन्द्रमा, नाभिमें शुक्र, स्तनोंमें अश्विनीकुमार, प्राण और अपानमें बुध, गलेमें राहु, समस्त अङ्गों में केतु और रोमोंमें सम्पूर्ण तारागण स्थित हैं ।। ७ ॥ * * राजन् ! यह भगवान् विष्णुका सर्वदेवमय स्वरूप है। इसका नित्यप्रति सायंकालके समय पवित्र और मौन होकर दर्शन करते हुए चिन्तन करना चाहिये तथा इस मन्त्रका जप करते हुए भगवान् की स्तुति करनी चाहिये - ‘सम्पूर्ण ज्योतिर्गणोंके आश्रय, कालचक्रस्वरूप, सर्वदेवाधिपति परमपुरुष परमात्माका हम नमस्कारपूर्वक ध्यान करते हैं’ ॥ ७ ॥ * * ग्रह, नक्षत्र और ताराओंके रूपमें भगवान्का आधिदैविकरूप प्रकाशित हो रहा है; वह तीनों समय उपर्युक्त मन्त्रका जप करनेवाले पुरुषोंके पाप नष्ट कर देता है। जो पुरुष प्रातः, मध्याह्न और सायं-तीनों काल उनके इस आधिदैविक स्वरूपका नित्यप्रति चिन्तन और वन्दन करता है, उसके उस समय किये हुए पाप तुरंत नष्ट हो जाते हैं ॥। ९ ॥ इति त्रयोविंशोऽध्यायः ॥ २३ ॥ गाव vिse S ईशा get mess me A FREE आहा कि PPT PIPRI एक 22ལྷ་ དུ་ས 2. पोष्ट प अथ चतुर्विंशोऽध्यायः gree 11 श्रीशुक उवाच अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयम- सुरासदः सैंहिकेयो तदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः || १ || यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोयः पर्वणि तद्व्यवधान कृद्वैरानुबन्धः सूर्याचन्द्रमसाव- भिधावति ।। २ ।। तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः ॥ ३ ॥ ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥ ४ ॥ ततोऽधस्ताद्यक्षरक्षः पिशाचप्रेतभूत-, गणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते ।। ५ ।। ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ।। ६ ।। उपवर्णितं भूमेर्यथासंनिवेशावस्थान मवनेरप्यधस्तात् सप्त भूविवरा एकैकशो योजनायुतान्तरेणायाम’ विस्तारेणोपक्लप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पाताल- मिति ।। ७ ।। एतेषु हि विलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानव काद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा माया विनोदा निवसन्ति ॥ ८ ॥ अन्वयः - सवितुः अधस्तात् योजनायुते स्वर्भानुः नक्षत्रवत् चरति इति एके ( वदन्ति ) यः असौ स्वयम् असुरापसदः सैंहिकेयः भगवदनुकम्पया अमरत्वम् ग्रहत्वम् च अतदहं हि अलभत तात तस्य जन्म कर्माणि च उपरिष्टात् वक्ष्यामः ॥ १ ॥ यत् अदः प्रतपतः तरणेः मंडलम् तत् विस्तरतः योजनायुतम् सोमस्य द्वादशसहस्रम् राहोः त्रयोदश- सहस्रम् आचक्षते यः पर्वणि तद्वयवधानकृत वैरानुबन्धः सूर्याचंद्रमसौ अभिधावति ।। २ ।। * * भगवता तत् निशम्य उभयत्र अपि रक्षणाय प्रयुक्तम् सुदर्शनम् नाम तत्तेजसा दुर्विषहम् मुहुः परिवर्तमानम् भागवतम् दयितम् अस्त्रम् अभि मुहूर्तम् अवस्थितः उद्विजमानः चकितहृदयः आरात् एव निवर्तते लोकाः तत् उपरागम् इति वदन्ति ॥ ३ ॥ * * ततः तावन्मात्रः एव अधस्तात् सिद्धचारणविद्याधराणाम् सदनानि ॥। ४ ॥ * * ततः अधस्तात् यक्षरक्षः पिशाचप्रेतभूतगणानाम् विहारा- जिरम् अन्तरिक्षम् यावत् वायुः प्रवाति यावत् मेघाः उपलभ्यन्ते ॥ ५ ॥ * ** ततः अधस्तात् शतयोजनान्तरे इयम् पृथिवी यावत् हंसभासश्येनसुपर्णादयः पतत्त्रिप्रवराः उत्पतन्ति इति ॥ ६ ॥ * * भूमेः यथासंनिवेशा वस्थानम् उपवर्णितम् अवनेः अपि अधस्तात् सप्त भूविवराः एकैकशः योजनायुतान्तरेण आयामविस्तारेण उपक्लृप्ताः अतलम् वितलम् सुतलम् तदातलम् महातलम् रसातलम् पातालम् इति ॥ ७ ॥ * * हि एतेषु बिटस्वर्गेषु नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचराः गृहपतयः ईश्वरात् अपि अप्रतिहतकामाः मायाविनोदाः दैत्यदानवकाद्रवेयाः स्वर्गात् अपि अधिककामभोगैश्वर्यानन्दविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु निवसन्ति ॥ ८ ॥ बिलस्थले 1: ६ PRON REE श्रीधरस्वामिविरचिता भावार्थदीपिका एवं त्रिभिर्युमर्यादापालनं वर्णितं तथा । अधोभुवनमर्यादापालनं त्रिभिरुच्यते ॥ १ ॥ ३ चतुर्विशे रवेरर्वाक्स्वर्भान्वादिस्थितिः क्रमात् । अतलादिबिलस्वर्गमर्यादाः सप्त वर्णिताः ॥ २ ॥ १. प्रा० पा० – मविस्ताराः सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ततोऽधस्तादुरगाणामुपक्लसा अतलं । २, प्रा० पा०- ६५ ५१४ श्रीमद्भागवतम् स्कं. ५ अ. २४ इलो. १८ सूर्यमारभ्य ध्रुवान्तं सन्निवेशं निरूप्येदानीं सूर्यादधस्तान्निरूपयति अधस्तादिति । स्वर्भानू राहुः । अलभत लेभे ! सिंहिकायाः पुत्रः ॥ १ ॥ * * ग्रहणं वक्तुमाह । यददः प्रतपतस्तरणेर्मण्डलम् | अमृतपाने मध्यप्रवेशेन तयोर्व्यवधानं । || || करोतीति तथा । अत एवैताभ्यां सूचितत्वाद्वैरमनुबध्नातीति तथा ॥ २ ॥ * * भागवतं चक्रं परिवर्तमानं परिभ्रमदभि अभिमुखं मुहूर्तमवस्थितः सन् इत्येवमन्तरा तदवस्थानमुपरागं ग्रहणं वदन्ति । तत्र च ऋजुवक्रस्थितिभ्यां सर्वप्रासासर्वग्रासौ न तु वस्तुतो प्रासोऽस्ति दूरान्तरत्वात् ॥ ३ ॥ * * तावन्मात्रे योजनायते ॥ ४ ॥ * अन्तरिक्षं ग्रहहीनम् । तस्यावधि - माह । यावद्वायुः प्रवाति तीव्रो वाति । तस्याप्यवधिमाह यावन्मेघाः ॥ ५ ॥ * * पृथिव्या उपरि भूर्लोकावधिमाह । याव- ** द्धंसादयः पार्थिवा विकाराः ॥ ६ ॥ * * योजनायुतान्तरेण प्रत्येकमुच्छ्रिताः आयामो यः कटाहस्य तावद्विस्तारेण ॥७॥ सामान्येन विवराणि वर्णयति एतेष्वित्यादिना अथातल इत्यतः प्राक्तनेन ग्रन्थेन । एतेषु दैत्यादयो निवसन्तीत्यन्वयः । कथंभूतेषु । अधिकः कामभोगञ्च ऐश्वर्यानन्दश्च विभूतिश्च सम्पत्तिस्ताभिः सुसमृद्धा भवनादयो येषु । कथंभूताः । नित्यप्रमुदिता अनुरक्ताः कलत्रादयो येषाम् । न प्रतिहतः कामो येषाम् । मायया विनोदो येषाम् ॥ ८ ॥ BRE BEF BIRT श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः
- । 1 तथा मर्यादापालनवत् ( १ ) अर्वाक् प्राक्तनदेशे । आदिना पिशाचादिग्रहः ( २ ) । एके पौराणिकाः । नक्षत्राणि यथा कालचक्रयोजितानि मेरुं प्रक्रमन्ति तथेत्यर्थः । स्वमते तु प्रबद्दाख्यवायु वहिर्भूतत्वान्नक्षत्रवञ्चरणं नास्ति किन्तु स्वगत्यैवेति । अतदर्होऽ- मरत्वानर्हः । तस्य राहोः । उपरिष्टात् षष्ठस्कन्धादौ ॥ १ ॥ * * अदो विश्वं मण्डलं रथनीडाभ्यन्तरस्थितं तेजश्चक्रम् । पर्वणि अमावास्यापौर्णमास्योः । तयोर्भूतलस्थजनचक्षुषां व्यवधानं कर्तुममृतपाने तयोर्मध्यप्रवेशेन व्यवधानं पूर्वं कृतवानिति । अत । एव व्यवधानकरणादेव || २ ॥ तं वैरानुबन्धनम् । निशम्य दृष्ट्वा । उभयत्रापि सूर्ये चन्द्रे च । तत् प्रसिद्धम् । दृष्ट्वेति शेषः : । आरात् दूरात् अन्तरा मध्ये । तदवस्थानं राह्ववस्थानम् । तंत्र चोपरागे । “उपरागो ग्रहो राहुमस्ते लिं ग्रहो राहुमस्ते विंदौ च पूष्णि च” इत्यमरः । दूरान्तरत्वादयुतयोजनान्तरत्वात् ॥ ३ ॥ * * ततो राहोरधस्तात् ॥ ४ ॥ 8 ततः सिद्धादिस्थानाद- धस्तात् । अत्र प्रमाणानुक्तः पूर्ववत्प्रमाणमुन्नेयम् ‘अनुक्ते पूर्ववद् ग्राह्यम्’ इत्युक्तेः ॥ ५ ॥ * ततो यज्ञादिस्थानात् । आदिना गृधादिग्रहः । पतत्त्रिप्रवराः पक्षिगणमुख्याः । उत्पतन्ति स्वगत्या गच्छन्ति । पार्थिवानां पृथिव्यामेव गतिर्नान्यत्रेत्यर्थः ॥ ६ ॥ * * अधस्तादधोऽधोऽवयवेष्वित्यर्थः । भूविवरा भुवो विवरभूतान्येवातलादीनीत्यर्थः । योजनायुतावधावित्यर्थः । ‘अन्तरमवकाशावधि’ इत्यमरः । भूतलाद्योजनायुतावधावतलं तस्माद्योजनायुतावधौ वितलमित्येवमायामविस्तारेण । योजनायुता- वधिनोपक्लृप्ताः दैर्घ्यविशालताभ्यां समा एवेत्यर्थः । उच्छ्रिता इति । अयुतयोजनोच्छ्रिताः । प्रत्येकमतलादय इत्यर्थः ॥ ७ ॥ * एतेष्वतलादिषु । बिलरूपाः स्वर्गा बिलस्वर्गास्तेषु भवनं गृहम् । आक्रीडः क्रीडास्थानम् । विहारो भ्रमणस्थानं “बिहारो भ्रमणे स्कन्धे लीलायां सुगतालये” इति मेदिनी ॥ ८ ॥ ܀ श्री र श्रीमद्वीरराघवव्याख्या क
एवं सूर्यादारभ्य ध्रुवपर्यन्तं दिवो मण्डलसन्निवेशमनुवर्ण्याथ सूर्यादधस्तात्स्वर्भान्वादिमण्डलमनुवर्णयति अधस्तादि- त्यादिना । सूर्यस्याधस्ताद्योजनानामयुते स्वर्भानुः राहुनक्षत्रवचरतीत्येके वदन्ति तं विशिनष्टि योऽसाविति । योऽसौ स्वर्भानुर्भ- गवत्कृपयामरत्वं ग्रहत्वं चालभत लेभे केवलभगवत्कृपैव तस्यामरत्वादों हेतुः, न तु तस्य तद्योग्यतास्तीत्याह । हि यतः सिंहिकायाः पुत्रः राहुरसुराधमः अत एवामरत्वाद्यनहः किं तस्य भगवत्कृपाविषयत्वोपपादकमित्याह तस्येति । तस्य राहोर्जन्म कर्माणि च उपरिष्टादष्टमस्कन्धे वक्ष्यामः नाधुनेत्यर्थः । तत्रैव स्फुटीभविष्यतीति नात्रावसर इति भावः ॥ १ ॥ राहुप्रसङ्गादुपराग- * स्वरूपं वक्तुमाह यदद इति । प्रतपतस्तरणेः सूर्यस्य यददः यत्तत्प्रसिद्धं मण्डलं तद्विस्तारतो योजनायुतमयुतयोजनविस्तृतमाचक्षते ततः सूर्यमण्डलादुपरितनसोममण्डलं द्वादशसहस्रयोजनविस्तृतं सूर्यमण्डलादधस्ततो राहोर्मण्डलं तु त्रयोदशसहस्रयोजनविस्तृतमतः सूर्यसोममण्डलाभ्यां स्वर्भानोर्मण्डलस्य विस्तृतत्वात्कदाचित्सूर्य सोममण्डलाच्छादकत्वं सम्भवतीति भावः । यः स्वर्भानुस्तद्वय- वधानकृदमृतपानदशायां तयोः सूर्याचन्द्रमसोरभिमुखं धावति ताभ्यां कलहायाभिमुखं गच्छतीत्यर्थः ॥ २ ॥ * तदभिधावनं निशम्य दृष्ट्वोभयोरपि रक्षणाय भगवता परमपुरुषेण भागवतं भगवत्सम्बन्धि तत् सुदर्शनाख्यमस्त्रं तेजसा दुर्विषहं दुःखेनापि सोढुमशक्यं मुहुर्मुहुः परिभ्रममाणं प्रति मुहूर्तमभिमुखतयावस्थितो राहु रुद्विजमानो भयमापन्नश्चकितहृदयश्चञ्चलचित्तः आरादेव दूरादेव निवर्तते तदेवोपरागो ग्रहणमिति जनाः वदन्ति । अभिधावनदशायां यत् यत् स्वमण्डलेन सूर्याचन्द्रमसोर्मण्डला- च्छादनं तदेव ग्रहणमिति जना उपरागस्वरूपाभिज्ञा वदन्तीत्यर्थः । तत्र ऋजुवस्थितिभ्यामर्धग्रास सर्वग्रासौ न तु वस्तुतो प्रासोऽस्तीति दूरान्तरत्वात् ॥ ३ ॥ * * ततः स्वर्भानोरधस्तात्तावन्मात्र एवायुतयोजनान्तर एवं सिद्धादीनां सदनानि स्थानानि ततोऽधस्तात्सिद्धादिसदने भ्योऽधस्तात् यक्षादीनां विहाराजिरं विहारस्थानमन्तरिक्षं गृहहीनं वर्तते तस्यावधिमाह । यावद्वायुः प्रधावति भृशं धावति तस्याप्यवधिमाह । यावन्मेघा उपलभ्यन्त इति ततो यक्षादीनां विहारान्तरिक्षादधस्ताच्छतयो- जनान्तरेणेयं पृथिवी भूर्लोको वर्तते, पृथिव्या उपरि भूर्लोकस्यावधिमाह यावदिति । यावद्धंसादयः पक्षिश्रेष्ठा बलिनः उत्पतन्त्यु- स्क. ५ अ. २४ इलो. १-८1 अनेकव्याख्यांसमलङ्कृतम् ५१५ इच्छन्ति तावद्भूर्लोकमित्यर्थः ॥ ४-६ ॥ * * भूमण्डलं तु सप्रपञ्चमुपवर्णितं प्रागित्याह उपवर्णितमिति । यद्भूमेः सन्निवेशेनावयवविन्यासेनावस्थानं तद्यथा तदुपवर्णितमेव ध्रुवमण्डलादारभ्य भूपर्यन्तो लोकसन्निवेश उक्तः । अथ भूमेरधस्तनानां लोकानां सन्निवेशमाह अवनेरपीत्यादिना उत्तराध्यायान्तेन ग्रन्थेन । अवनेर्भूलोकादधस्तात् सप्तभूविवरा भूम्यामेव विवराः सन्ति ते चैकशो योजनानामयुतं तेनान्तरा मध्य उच्छ्रितं भावे क्तः उच्छ्रायः औन्नत्यं योजनायुतान्तरोच्छ्रितमायामो दैर्घ्यं विस्तारश्चा- युतयोजनपरिमितस्तेषां समाहारद्वन्द्वः तेन योजना युतान्तरोच्छ्रितायामविस्तारेण उपकल्पिता विवराणामूर्ध्वं भूमेः योजनायुतो- च्छ्रितस्तथा बिलानामायामो विस्तारश्चायुतयोजनपरिमित इत्यर्थः । तारतम्येन भोगतारतम्येन चोपक्लृप्ताः भूर्लोकापेक्षया विवरेषु भोगाधिक्यमस्तीत्यर्थः । विवराणि सप्त निर्दिशति अतलमित्यादिना पातालमित्यन्तेन ग्रन्थेन ॥ ७ ॥ * * तारतम्येनेत्ये- तदेव सप्तविवरासाधारण्येन दर्शयति एतेष्वित्यादिना अथातल इत्यतः प्राक्तनेन ग्रन्थेन । एतेषु बिलस्वर्गेषु दैत्यादयो निवसन्ती- त्यन्वयः । कथम्भूतेषु स्वर्गादप्यधिकः कामभोगश्चैश्वर्यानन्दः ऐश्वर्यप्रसक्तिसन्तोषश्च भूतिः सम्पत्तिश्च विभूतिरीशितव्यवर्गश्चाधीश- शब्दस्य नित्यसापेक्षत्वात् समासः अभितः सुसमृद्धानि भवनान्यागाराणि उद्यानादीनि क्रीडास्थानानि विहारस्थानानि च येषु यत्र क्रीडा खेल्नं विहारः स्त्रीसम्भोगः, कथंभूताः- नित्यप्रमुदिता अनुरक्ताः कलत्रादयो येषां तथाभूताः ॥ ८ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अथावशिष्टातला दिलोकनिवासिनामैश्वर्य श्रीनारायणमाहात्म्यव्यञ्जकमिति तदिह निरूपयति । तत्रादौ शनैश्चरपर्यन्तानां ग्रहाणां स्थितिं निरूप्य राहोः स्थितिः किमिति न निरूपितेति त्वरितमतेर्मन्दस्याशङ्कां परिहरंस्तां निरूप्य सूर्यादीनां मण्डलपरिमाणं निरूपयति अधस्तादिति । एके पौराणिकाः स्वर्भानुर्नक्षत्रवन्नभोमध्यमण्डले मेरुं परितः प्रादक्षिण्येन चरतीति वदन्ति । केचिन् मौहूर्तिकाः मानसोत्तर बहिर्भूतप्रान्तभूमेरागत्य समुदेत्य पुनः पश्चिमभागे भूमावेवास्तमित्वा पातालविवरमध्य एव पूर्वदिशं गत्या मानसोत्तरे बहिः प्रान्तभूमेरेव पूर्वस्यां दिशि उदेस्य पश्चिमस्यां दिशि भूमावेवास्तमेतीत्येवं सङ्गिरन्ते । अत एव कदा- चित्पातालग्रहणमभूदिति च भाषन्ते, अपरमेरोरप्रादक्षिण्येन नभोवलये चरन् पश्चिमत उदेत्य पूर्वस्यां दिश्यस्तं गच्छतीत्याचक्षते, अतदहं : अमरत्वायोग्यः ॥ १ ॥ * * तरणिमण्डलं दशसहस्रयोजनविस्तृतं ततो द्विगुणं सोममण्डलं विंशत्सहस्र- योजनविस्तृतं विंशत्सहस्रयोजनविस्तृतं द्वादशसहस्रद्विदशसहस्रमित्यर्थः । सोममण्डलाद् द्विगुणं चत्वारिंशत्सहस्त्रयोजनेन विस्तृतं राहुमण्डलं त्रयोदशसहस्रमित्यनेन त्रिदशेति युक्त्या युक्त्या वा त्रिंशत्संख्या लभ्यते । पुनश्च दशसंख्या सोममण्डलाद् द्विगुणोक्त्या कुत एवं कल्पना यथास्थितव्याख्यानमन्तरेणेति चेन्न । “राहुसोमरवीणां तु मण्डलाद् द्विगुणोक्तिताम् । विनैव सर्वमुन्नेयम्” इति वचनात् ॥ २ ॥ ॐ भागवतं भगवतः प्रियं “तदस्य प्रियम्” इत्यस्मिन्नर्थे अण्प्रत्ययः परिवर्तमानं मण्डलमिति शेषः । चक्राभिमुखमवस्थितः उद्विजमानः वेगेन चलन् आरात् दूरात् || ३ | ४ ॐ तावन्मात्रे अयुतमात्रे ॥ ४-६ ॥ * * भूविवराः पातालादयः तारतम्येनोपक्लृप्ताः सुखादिसामान्यविशेषाभ्यामूर्ध्वाधः क्रमेणेति वा ॥ ७ ॥ * समृद्धिरुद्रेकः विभूतिः सन्ततिपरम्परा समृद्धभवनोद्याना क्रीडेषु आविहारो यत्र ते तथा तेष्वाक्रीडः मिथुनक्रीडायोग्यपर्वत आविहारो भूलोक विहारविलक्षणत्वादीश्वराच्छिवान्तथात्वं वराद्वा ।। ८ ।। | श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः i एक इति । स्वमते तु प्रवहाख्यवायुबहिर्भूतत्वान्नक्षत्रवञ्चरणं नास्ति । किन्तु स्वगत्यैवेति ॥ १ ॥ * * तरणेर्मण्डलं रथनीडाभ्यन्तरस्थितं तेजश्चक्रम् ॥ २७ ॥ * ईश्वरात् समर्थादपि ॥ ८-२८ ॥ पी एक श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी प सूर्यादधोऽधः स्वर्भानुसिद्धादीनां स्थिति भुवः । अतलादीनि सप्तापि चतुर्विंशेऽवदन्मुनिः ॥ PURBIN KI BF । न तदमरत्वं महत्वं चार्हतीति सः ॥ १ ॥ * * ग्रहणं वक्तुमाह यदद इति । पर्वणि अमावास्या पौर्णमास्योः तयोर्भूतलस्थजनचक्षुषां व्यवधानं कर्तुममृतपाने मध्यप्रवेशेन तयोर्व्यवधानं पूर्वं कृतवानित्यतः ताभ्यां सूचितत्वात् वैरमनुबध्ना- तीति स यथा ॥ २ ॥ * * उभयत्र सूर्ये चन्द्रेऽपि तत् प्रसिद्धं चक्र परिवर्तमानं परिभ्रमत् दृष्ट् ति शेषः । अभि अभिमुख- मवस्थितः सन् तदवस्थानमेवोपरागं वदन्ति । तत्र च ऋजुवक्रस्थितिभ्यां सर्वप्रासार्द्धग्रासौ न तु वस्तुतो ग्रासोऽस्ति अयुत- योजनान्तरत्वात् ॥ ३ ॥ * * तावन्मात्रे योजनायुते ।। ४-५ ।। * * पृथिव्या उपरि भूर्लोकावधिमाह । यावद्धंसा- दयः पार्थिवा विकाराः ।। ६ ।। * *
-
- अधोऽधोऽवयवेष्वित्यर्थः । भूविवरा भुवो विवरभूतान्येवातलादीनीत्यर्थः । योजनायुतान्तरेण योजना युतावधावित्यर्थः । “अन्तरमवकाशावधि” इत्यमरः । भूतलाद्योजनायुतावधौ अतलं तस्माद्यो - जनायुतावधौ वितलमित्येवमायामविस्तारेणापि योजनायुतावधिना उपक्लृप्ताः दैर्ध्य विशालताभ्यां समा एवेत्यर्थः । अधस्तात् ॥ ५१६ ॥ * श्रीमद्भागवतम् [ एक. ५ अ. २४ लो. १-८ स्क उच्छ्रितत्वं तु यथासम्भवं ज्ञेयम् ॥ ७ ॥ * सामान्येन विवराणि वर्णयति एतेष्वित्यादिना । भूतिः प्रभावः विभूतिः सम्पत्तिः । ईश्वरादिन्द्रादेरपि ॥ ८ ॥ न श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः अथ सूर्यादधः स्वर्भान्वादिस्थितिमतलादिस्थिति चाह अधस्तादित्याभिस्त्रिभिरध्यायैः । “भूमेर्योजनलक्षे तु सौरं मैत्रेयमण्डलम् " इति श्री पराशरोक्तिः । तत्र सवितुरधस्तात् योजनायुते स्वर्भानू राहुः अतदर्होऽपि भगवदनुकम्पया अमरत्वं महत्वं चालभत लेभे उपरिष्टादष्टमे स्कन्धे ॥ १ ॥ अदो जगत् प्रतपतस्तरणेर्यत्प्रसिद्धं मण्डलं तद्विस्तरतो योजनायुतं योऽमृतपाने मध्यप्रवेशेन तयोः सूर्याचन्द्रमसोर्व्यवधानं करोतीति तथा अत एव ताभ्यां सूचितत्वात् वैरमनुबध्नातीति वैरानुबन्धो यः सपर्वणि सूर्याचन्द्रमसावभिधावति ॥ २ ॥ 8 8 तदभिधावन्तं निशम्य दृष्ट्वा दयितं प्रियतमं भागवतं स्वकीयं दुर्विषह सुरासुरैर्दुःखेनापि सोदुमशक्यं सुदर्शनं नामास्त्रमुभयत्र उभयोः रक्षणाय भगवता प्रयुक्तमत एवं परिवर्तमानं परिभ्रममाणं निशम्येत्यत्रापि योज्यं तत्तेजसा सुदर्शनतेजसा मुहुश्चकितहृदय अभि तयोरभिमुखे मुहूर्तमवस्थितः सन् आराद् दूरादेव निवर्तते इतीत्थमभिमुखावस्थानात्तदुपरागं लोका वदन्ति । तत्र च समविषमावस्थितिभ्यां सर्वग्रासार्द्धग्रासौ प्रतीयेते ॥ ३ ॥ स्वर्भानोः तावन्मात्रे योजनायुते ॥ ४ ॥ ततः सिद्धादिसदनमर्थ्यादातः यक्षादिविहाराजिरमन्तरिक्षमनेनैव सूर्य- भूम्योरन्तरस्य योजनलक्षपरिमितत्वं मन्तव्यम् ।। ५-६ ।। एकैकशो योजनायुतान्तरेण योजनायुतोच्छ्रायेण आयाम- विस्तारेण वैपुल्यस्य तावता विस्तारेण च उपक्लृप्ताः उपन्यस्ताः ॥ ७ ॥ * * अतलादिसाधारणगुणान् दर्शयति । एतेष्वित्यादिना । अधिकं काम्यन्ते इति कामाः भोग्यपदार्थास्तेषां भोगश्च ऐश्वर्यानन्दश्च भूतिरनुभूतिर्भोग्यपदार्थ सम्पत्तिश्च ताभिः समृद्धा भवनादयो येषु नित्यप्रमुदिता अनुरक्ताश्च कलत्रादयो येषां ते ईश्वरा लोकेश्वरादिन्द्रादेः न प्रतिहतः कामो येषां ते मायया स्वविद्याकौशलेन विमोहो येषां ते दैत्यादयो निवसन्ति ॥ ८ ॥ । च एक गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी अध्यायानां त्रयेणैवं धुमर्यादा निरूपिता । तावद्भिरधुनाऽध्यायैरधरस्थानं निरूप्यते ॥ १ ॥ वेरधोधः स्वर्भानुसिद्धादीनां स्थितिः क्रमात् । अनलादिस्थितिश्वापि चतुर्विशे निरूप्यते ॥ २ ॥ SISEON E MEIRIEND ॥
- ततः तदेवं सूर्यादुपरितनं सन्निवेशं निरूप्येदानीं ततोऽधः स्थितिसन्निवेशं निरूपयति - अधस्तादिति । एके पौराणिका इत्येवं वदन्ति केचिन्मौहूर्त्तिकास्त्वन्यथा वदन्तीत्यर्थः ॥ १ ॥ न तदमरत्वं महत्वं चाहतीत्यतदहः । तत्र हेतुमाह-स्वयमिति, असुरेष्वप्यपसदः अतिनीचः । हि यस्मात् सैंहिकेयः सिंहिकायाः पुत्रः ॥ २ ॥ * * हे तातेति सम्बोधनं स्नेहसूचकम् । उपरिष्टात् षष्ठस्कन्धाष्टमस्कन्धयोः ॥ ३ ॥ * * प्रतपतस्तरणेः सूर्यस्य यददो मण्डलं तद्विस्तरतो योजनायुतमाचक्षते इत्यन्वयः । सोमस्य मण्डलं विस्तरतो द्वादशसहस्रयोजनमाचक्षते । राहोर्मण्डलं विस्तरतस्त्रयोदशसहस्रयोजनमाचक्षते इत्यन्वयः॥४॥ * * यः राहुः पर्वणि अमावस्या पौर्णमास्योः सूर्याचन्द्रमसौ अभि अभिभवितुं धावतीत्यन्वयः । तथा धावने हेतुमाह - वैरानुबन्ध इति, वैरमनुबध्नातीति तथा । वैरानुबन्धे हेतुमाह-तद्व्यवधान कृदिति, अमृतपानसमये मध्यप्रदेशेन तयोः ‘सूर्याचन्द्रमसोर्व्यवधानं करोतीति तथा । अतस्ताभ्यां सूचनेन भगवता शिरश्छेदनात्तयोर्वैरं निबद्धवानिति भावः ॥ ५ ॥ * * तर्हि यस्य प्रबलत्वात् कथं ततस्तयोर्निस्तार इत्यपेक्षायामाह तदिति । तत्तस्य तयोरभिभवोद्योगं निशम्य ज्ञात्वा भगवता भागवतं स्वकीयं दयितं प्रियमस्त्रं सुदर्शनमुभयत्र सूर्ये चन्द्रे च रक्षणाय प्रयुक्तम् । तत् प्रसिद्धं परिवर्तमानं परिभ्रमत् दृष्ट्वेति शेषः । अभि अभिमुखं मुहूर्त्तमवस्थितः सन् उद्विजमानः भीतः अत एव चकितहृदयः कम्पितहृदयः आरात् दूरादेव निवर्त्तते ॥ ६ ॥ * * इत्येवं तद्राहोर्मध्यस्थित्या व्यवधानेन सूर्याचन्द्रमसोरदर्शनमेव लोकाः प्राणिन उपरागं ग्रहणं वदन्ति । तत्र च ऋजुवक्रस्थितिभ्यामेव सर्वग्रासार्द्धग्रासव्यवहारः, न हि वस्तुतो ग्रासोऽस्ति योजनायुतान्तरत्वात् ॥ ७ ॥ * * तावन्मात्रे योजनायुते ॥ ८ ॥ * * अन्तरिक्षस्यावधिमाह - यावद्वायुः प्रवाति तीव्रो वाति । तस्याचाक्षुषत्वा तज्ज्ञापकमाह यावन्मेघा उपलभ्यन्ते इति ॥ ९ ॥ * * पृथिव्या उपरि भूर्लोकावधिमाह-यावर्द्धसादयः पार्थिवा विकारा उत्पतन्तीति । इतिशब्द उपरितनलोक- वर्णनसमाप्त्यर्थः ॥ १० ॥ * * भूमिनिरूपणं स्मारयति - उपवर्णितमिति ॥ ११ ॥ अवनेरिति षोडशसहस्र- योजनमेरोर्भूप्रवेशस्योक्तत्वात् तावत् भूखण्डो ज्ञेयस्ततोऽधस्तादित्यर्थः । योजनायुतान्तरेणेति योजनायुतोश्चमानेनेत्यर्थः आयाम- विस्तारेणेति, कटाहस्य य आयामो विस्तारः तावद्विस्तारेणेत्यर्थः । भूविवरा इति ‘भूलोकः कल्पितः पद्भयां’ इत्युक्त्यनुरोधेन तेषां भूलोकान्तःपातित्वं दर्शितम् ॥ १२ ॥ * * तान् दर्शयति-अतलमिति ॥ १३ ॥ * * सामान्येन विवराणि वर्णयति- एतेष्वित्यादिना अथातल इत्यतः प्राक्तनेन ग्रन्थेन । एतेषु दैत्यादयो निवसन्तीत्यन्वयः । कथम्भूतेषु स्वर्गादपि अधिकः कामभोगश्च ऐश्वर्यानन्दश्च भूतिः प्रभावश्च विभूतिः सम्पत्तिश्च ताभिः समृद्धा भवनादयो येषु तेषु । आक्रीडं मिथुन क्रीडास्थानमाविहारः स्कॅ. ५ अ. २४ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् ५१७ प्रकटविहारस्थानम् । कथम्भूताः नित्यप्रमुदिताः परस्परमनुरक्ताश्च कलत्रादयो येषां ते । ईश्वरादतिसमर्थादिन्द्रादपि अप्रतिहतः कामो येषां ते । मायया यथेष्टं विनोदो येषां ते ॥ १४ ॥ ( अस्यां टीकायां श्लोकसंख्या पौर्वापर्य संलक्ष्यते - सं० ) ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी त्रिभिः प्रोक्तं द्युमर्यादापालनं च त्रिभिस्त्वथ । अधःस्थभुवनानां च मर्यादावनमुच्यते ॥ १ ॥ । च रवेरर्वाक् चतुर्विंशे प्रोक्ता राह्वादिसंस्थितिः । बिलस्वर्गत लादीनां मर्यादाः सप्त चोच्यते ।। २ ।। ། “: एवं सूर्यादारभ्य ध्रुवपर्यन्तं दिवो मण्डलसन्निवेशमनुवर्ण्याथ सूर्यादधस्तात्स्वर्भान्वादिमण्डलमनुवर्णयति अधस्तादि- त्यादिना । सवितुः सूर्यस्य, अधस्तादधः प्रदेशे, योजनानाम् अयुते, स्वर्भानू राहुः, नक्षत्रवत् चरति । इत्येवम् एके केचन वदन्ति । केचिन्मौहूर्त्तिकाः प्राग्वर्त्तिमानसो तर बहिर्भूतप्रान्तभूमेरागत्य पश्चिमभागे भूमावेवास्तमित्वा पातालमध्यविवरद्वारा एव पूर्वदिशं गत्वा पुनः मानसोत्तर बहिर्भूमेरेव पूर्वस्यां दिश्युदेत्यथ पश्चिमायां दिशि भूमावेव पुनरस्तमेतीत्येवं सङ्गिरन्ते । अत एव कदाचित् पातालग्रहणमभूदिति च भाषन्ते । अपरे मेरोरप्रादक्षिण्येन नभोवलये चरन् पश्चिमत उदेत्य पूर्वस्यां दिश्यस्तं गच्छतीत्याचक्षते । एव- मत्र मतबाहुल्ये किंचित्स्वसिद्धान्तानुरोधित्वादेके इत्यनेन सूचितं तृतीयं मतमुपन्यस्तम् । राहुं विशिनष्टि योऽसाविति । योऽसौ स्वर्भानुः भगवदनुकम्पया भगवतः कृपया, अमरत्वं ग्रहत्वं च, अलभत लेभे । केवलभगवत्कृपैव तस्यामरत्वादौ हेतुर्न तु तस्य तद्योग्यतास्तीत्याह । हि यतः, स्वयं सैंहिकेयः सिंहिकासुतः, असुरापसदः असुराधमः, अतदहः अमरत्वानहः, तस्य राहोः, जन्म कर्माणि च, हे तात उपरिष्टात् वक्ष्यामः । जन्म षष्ठस्कन्धे कर्माष्टमस्कन्धे कथयिष्याम इत्यर्थः ॥ १ ॥ * राहुप्रसङ्गादुपराग- स्वरूपं वक्तुमाह यदिति । प्रतपतः ब्रह्माण्डमिति शेषः । तरणेः सूर्यस्य यत् अदः मण्डलं, तत् विस्तरतः योजनायुतमयुत- योजनविस्तारं आचक्षते । सोमस्य मण्डलं, सूर्यादुपरि वर्त्तमानं चान्द्रं मण्डलमित्यर्थः । द्वादशसहस्रं द्वादशसहस्रयोजनविस्तृतम् आचक्षते । राहोः मण्डलं, सूर्यमण्डलादधो वर्त्तमानं राहोर्मण्डलं त्वित्यर्थः । त्रयोदशसहस्रं त्रयोदशसहस्रयोजनविस्तृतं चाचक्षते । सूर्यसोममण्डलाभ्यां स्वर्भानोर्मण्डलस्य विस्तृतत्वात्कदाचित्सूर्यसोममण्डलाच्छादकत्वं सम्भवतीति भावः । यः स्वर्भानुः, तयो- स्तरणिसोमयोर्मध्येऽमृतपानदशायामन्तः प्रवेशेन व्यवधानं करोतीति तथा भूतोऽभवत् । अत एव ताभ्यां तदा सूचितत्वात् वैरमनु- नातीति तथा भूतो जातोऽस्ति । अतः, पर्वणि पर्वणि विषये अमापूर्णिमयोरित्यर्थः । सूर्याचन्द्रमसौ अभिधावति । ताभ्यां कलहा- चरणायाभिमुखं गच्छतीत्यर्थः ॥ २ ॥ तदिति । तत्तदभिधावनं निशम्य दृष्ट्वा, उभयत्रापि उभयोरपीत्यर्थः । रक्षणाय परित्राणाय, भगवता परमपुरुषेण, प्रयुक्तं नियोजितं तद्दिनमारभ्य कृताभ्यनुज्ञमित्यर्थः । भागवतं भगवत्सम्बन्धि, दयितं भगवतोऽति- प्रियं, मुहुः परिवर्तमानं परिभ्रमणमाचरत् सुदर्शनं नाम अस्त्रं, तं प्रति धावतीति शेषः । दुर्विषहेण सोढुमशक्येन तत्तेजसा उद्विजमानः मुहूर्त्त मुहूर्त्तप्रमाणं अभ्यवस्थितस्तत्सम्मुखमवस्थितः सन्नपि चकितहृदयः सन् आरात् दूरादेव निवर्त्तते । तत् अन्तरा तदवस्थानम्, उपरागं ग्रहणम् इति, लोका जनाः, वदन्ति । अभिधावनदशायां यत्स्वमण्डलेन सूर्याचन्द्रमसोर्मण्डलाच्छादनं तदेव उपरागं तत्स्वरूपाभिज्ञाः कथयन्तीत्यर्थः । तत्र तदृजुवक्रस्थितिभ्यामर्द्धग्राससर्वग्रासौ न तु वस्तुतो ग्रासोऽस्ति दूरान्तरत्वात् ॥ ३ ॥ तत इति । ततः स्वर्भानोः, अधस्तात् तावन्मात्र एवायुतयोजनान्तरत एव । सिद्धाश्र चारणाश्च विद्याधराश्च तेषां सदनानि भवन्तीति शेषः ॥ ४ ॥ * तत इति । ततः अधस्तात्, सिद्धादिसदनेभ्यो ऽधः प्रदेशे इत्यर्थः । यक्षाच रक्षांसि च पिशाचाश्च प्रेताश्च भूतानि च तेषां गणाः तेषां विहाराजिरं विहारस्थानम्, अन्तरिक्षं वर्त्तते । तस्यावधिमाह यावत् वायुः, प्रवाति भृशं वाति । तस्याप्यवधिमाह यावत् मेघाः, उपलभ्यन्ते । भूतस्थानादधस्ताद्यावन्मेघोपलब्धिस्तावत्पर्यन्तं प्रकृष्ट- वायुप्रवाहणस्थानं तच नवशताधिकनवसहस्रयोजनपरिमितमस्ति ॥ ५ ॥ * * तत इति । ततो मेघावस्थानात्, अधस्तात् शतयोजनान्तरे, इयं पृथिवी भूर्लोको वर्त्तते इत्यर्थः । पृथिव्या उपरि भूर्लोकस्यावधिमाह । यावत् हंसाच भासाश्च श्येनाश्च सुपर्णाश्च ते आदयो येषां ते, पतत्त्रिप्रवराः पक्षिश्रेष्ठाः, उत्पतन्ति उद्गच्छन्ति इति तावद्भूर्लोक इत्यर्थः ॥ ६॥ *. उपवर्णितमिति । भूमेः यथासन्निवेशावस्थानम्, उपवर्णितम् । भूमेरवयवविन्यासेन यथावस्थानमस्ति, तत्तु यथावदेवोपवर्णितमित्यर्थः । अवनेर्भुवोऽपि, अधस्तात्, अवनेर्गर्भ इत्यर्थः । यत्रायं लोको वर्त्तते तदधस्तादिति भावः । सप्त सप्तसंख्याकाः, भूविवराः सन्ति । ते च, च, एकैकशः एकैको विवर इत्यर्थः । योजनायुतान्तरेण, उच्छ्रिताः । आयामविस्तारेण आयामो यः कटाहस्य तावत् विस्तारेण उपक्लृप्ताः । केचित्तु योजनायुतान्तरोच्छ्राया आयामा इत्याहुः । केषुचित्पुस्तकेषु योजनायुतायामविस्तारा इत्यपि पाठो दृश्यते । सप्त भूविवराणि निर्दिशति अतलमिति । अतलं, वितलं, सुतलं, तलातलं, महातलं, रसातलं पातालम्, इत्येतानि सप्तभूविवराणीत्यर्थः ॥ ७ ॥ * सामान्येन विवराणि वर्णयति एतेष्वित्यादिना अथातल इत्यतः प्राक्तनेन ग्रन्थेन एतेष्विति । स्वर्गात् अपि, अधिकः कामभोगच ऐश्वर्यानन्दश्च विभूतिः सम्पत्तिश्च ताभिः सुसमृद्धाः भवनोद्यानाक्रीडविहारा येषु तेषु तत्र भवनान्यगाराणि उद्यानानि पुष्पप्रधान- स्थानानि, आक्रीडं खेलनस्थानं, विहारः स्त्रीसम्भोगस्थानं, एतेषु हि बिलस्वर्गेषु नित्यप्रमुदिताः अनुरक्ताः कलत्रादयो येषां ते, तत्र कलत्राणि सुन्दर्यः, अपत्यानि पुत्राः पुत्रिकाश्च बन्धवो बन्धुजनाः, सुहृदो मित्रादयः, अनुचरा भृत्याः, गृहपालकाः, ईश्वरात् अपि,
- ।
- ५१८
- श्रीमद्भागवतम्
- [ स्कं. ५ अ. २४ श्लो. ९-१२
- न प्रतिहतः कामो येषां ते, मायया विनोदो येषां ते, दैत्याश्च दानवाश्च काद्रवेयाश्च ते, तत्र दैत्या दितेः सुताः, दानवा दनोः सुताः, काद्रवेयाः कद्रोः सुताः, त्रयोऽप्येते काश्यपेयाः निवसन्ति ॥ ८ ॥
- भाषानुवादः
- राहु आदिकी स्थिति, अतळादि नीचेके लोकोंका वर्णन
- श्रीशुकदेवजी कहते हैं—परीक्षित्! कुछ लोगोंका कथन है कि सूर्यसे दस हजार योजन नीचे राहु नक्षत्रोंके समान घूमता है । इसने भगवान की कृपासे ही देवत्व और ग्रहत्व प्राप्त किया है, स्वयं यह सिंहिकासुत असुराधम होने के कारण किसी प्रकार इस पदके योग्य नहीं है । इसके जन्म और कर्मोंका हम आगे वर्णन करेंगे ॥ १ ॥ * सूर्यका जो यह अत्यन्त तपता हुआ मण्डल है, उसका विस्तार दस हजार योजन बतलाया जाता है। इसी प्रकार चन्द्रमण्डलका विस्तार बारह हजार योजन है और राहुका तेरह हजार योजन। अमृतपान के समय राहु देवताके वेषमें सूर्य और चन्द्रमाके बीच में आकर बैठ गया था, उस समय सूर्य और चन्द्रमाने इसका भेद खोल दिया था; उस बैरको याद करके यह अमावस्या और पूर्णिमाके दिन उनपर आक्रमण करता है || २ ॥ * यह देखकर भगवान्ने सूर्य और चन्द्रमाकी रक्षाके लिये उन दोनोंके पास अपने प्रिय आयुध सुदर्शन चक्रको नियुक्त कर दिया है। वह निरन्तर घूमता रहता है, इसलिये राहु उसके असह्य तेजसे उद्विग्न और चकितचित्त होकर मुहूर्त्तमात्र उनके सामने टिककर फिर सहसा लौट आता है। उसके उतनी देर उनके सामने ठहरनेकों ही लोग ‘ग्रहण’ कहते हैं ॥ ३ ॥ * * राहुसे दस हजार योजन नीचे सिद्ध, चारण और विद्याधर आदिके स्थान हैं ॥ ४ ॥ * * उनके नीचे जहाँतक वायुकी गति है और बादल दिखायी देते हैं, अन्तरिक्ष लोक है। यह यक्ष, राक्षस, पिशाच, प्रेत और भूतोंका विहारस्थल है ॥ ५ ॥ * उससे नीचे सौ योजनकी दूरीपर यह पृथ्वी है । जहाँतक हंस, गिद्ध, बाज और गरुड आदि प्रधान प्रधान पक्षी उड़ सकते हैं, वहींतक इसकी सीमा है ॥ ६ ॥ * पृथ्वीके विस्तार और स्थिति आदिका वर्णन तो हो चुका है। इसके भी नीचे अतल, वितल, सुतल, तलातल, महातल, रसातल और पाताल नामके सात भू-विवर ( भूगर्भस्थित बिल या लोक ) हैं । ये एकके नीचे एक दस-दस हजार योजनकी दूरीपर स्थित हैं और इनमें से प्रत्येककी लंबाई-चौड़ाई भी दस दस हजार योजन ही है ॥ ७ ॥ * ये भूमिके बिल भी एक प्रकारके स्वर्ग ही हैं । इनमें स्वर्गसे भी अधिक विषयभोग, ऐश्वर्य, आनन्द, सन्तान सुख और धन, सम्पत्ति है । यहाँ के वैभवपूर्ण भवन, उद्यान और क्रीडास्थलों में दैत्य, दानव और नाग तरह-तरह की मायामयी क्रीडाएँ करते हुए निवास करते हैं। वे सब गार्हस्थ्यधर्म का पालन करनेवाले हैं । उनके स्त्री, पुत्र, बन्धु, बान्धव और सेवकलोग उनसे बड़ा प्रेम रखते हैं, और सदा प्रसन्नचित्त रहते हैं । उनके भोगों में बाधा डालनेकी इन्द्रादिमें भी सामर्थ्य नहीं है ॥ ८ ॥
- येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवर प्रवेक विरचितविचित्रभवन प्राकारगोपुरसभा- चैत्यचत्वरायतनादिभिर्नागासुर मिथुनपारावतशुकसारिकाकीर्ण कृत्रिम भूमिभिर्विवरेश्वरगृहोत्तमैः समलंकृताश्च- कासति || ९ || उद्यानानि चातितरां मनइन्द्रियानन्दिभिः कुसुमफलस्तवक सुभग किसलयावनतरुचि ‘रविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोनक्षुभितनीर नीरज कुमुद कुवलय- कहारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेक विहाराकुलमधुर विविधखनादिभिरिन्द्रियोत्सवैरमरलोकश्रिय- मतिशयितानि ॥ १० ॥ यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते ॥ ११ ॥ यत्र हि महाहिप्रवर- शिरोमणयः सर्वं तमः प्रबाधन्ते ।। १२ ।।
- अन्वयः - महाराज येषु मायाविना मयेन विनिर्मिताः नानामणिप्रवर प्रवेर्काविरचितविचित्रभवनप्राकार गोपुरसभा चैत्य- चत्वरायतनादिभिः नागासुर मिथुनपारावतशुकसारिका कीर्ण कृत्रिमभूमिभिः विवरेश्वरगृहोत्तमैः समलंकृताः पुरः चकासति ॥ ९ ॥ * * अतितराम् च मनइन्द्रियानन्दिभिः लताङ्गालिङ्गितानाम् कुसुमफलस्तबकसुभग किसलयावनतरुचि- रविटपविटपिनाम् अमलजलपूर्णानाम् समिथुन विविधविहंगमजलाशयानाम् श्रीभिः झषकुलोल्लंघनक्षुभितनीरनीरज कुमुदकुवलय- कहारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानाम् पक्षिणाम् एकविहाराकुलमधुरविविधस्वनादिभिः इन्द्रियोत्सवैः अमर-
- –
- १. प्रा० पा० निर्मिताः । २. प्रा० पा० शारिका । ३. प्रा० पा०-नितरां । ४. प्रा० पा०-चिरविटपिनां । ५. प्रा० पा०- नीलनीरज ० । ६. प्रा० पा० - यत्र महाहि० ।स्कं. ५ अ. २४ श्लो. ९-१२]
- अनेकव्याख्या समलङ्कृतम्
- ५१९
- लोकश्रियम् अतिशयितानि उद्यानानि ॥ १० ॥ * * ह बाब यत्र अहोरात्रादिभिः कालविभागैः भयम् न उपलक्ष्यते ।। ११ ।। * * हि यत्र महाहिप्रवरशिरोमणयः सर्वम् तमः प्रबाधन्ते ।। १२ ।।
- ।
- श्रीधरस्वामिविरचिता भावार्थदीपिका
- किं च । हे महाराज येषु मयेन निर्मिताः पुरश्चकासतीत्यन्वयः । कथंभूताः । नाना ये मणिप्रवरास्तेषां प्रवेका मुख्या- स्तैर्विरचितैर्विचित्रैर्भवनादिभिस्तथा विवरेश्वराणां गृहोत्तमैश्च समलंकृताः । कीदृशैर्गृहोत्तमैः । नागाश्रासुराश्च मिथुनभूताः पाराव- तादयश्च तैराकीर्णाः कृत्रिमा भूमयो येषु तैः । पाठान्तरे नानास्वनत्वं मिथुनविशेषणम् ॥ ९ ॥ * उद्यानानि चातितराम- मरलोकश्रियमतिशयितानि येषु चका सतीत्यन्वयः । काभिः श्रीभिः । केषां कुसुमफलस्तबकाश्च सुभगकिसलयानि च तैरवनतारुचिरा विटपा येषां तेषां विटपिनां लतानामंगैरालिंगितानां श्रीभिः तथा समिथुनाश्चक्रवाका दिमिथुनसहिता ये विविधा विहङ्गास्तद्युक्तानां जलाशयानां च श्रीभिः । कीदृशानाम् । अमलैर्जलैः पूर्णानाम् । पुनरपि कैः अतिशयितानि झषकुलोल्लंघनेन क्षुभितं यज्जलाशयानां नीरं तस्मिन्यानि नीरजादीनि तेषां वनेषु कृतं निकेतनं यैस्तेषामर्थात्पक्षिणामेकोऽखण्डो यो विहारस्तेनाकुलाश्च ते मधुराश्च ते विविधाः स्वनादयस्तैर्ये इन्द्रियोत्सवास्तैश्च यद्वा समिथुनेत्यादेरुत्तरेणैव सम्बन्धः । मनइन्द्रियानन्दिभिरिति स्वनादीनां विशेषणम् । तत्र नीरजं सामान्येन कमलम् । लोहितं शतपत्रं तद्विशेषः ॥ १० ॥ * * अहोरात्रादिभिर्यद्भयं तन्नोपलक्ष्यते सूर्याद्य-
- भावात् ॥ ११-१२ ॥
- श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः
- ।
- अन्यदाह - किचेति । हे महाराजेति । तत्र त्वया न दृष्टिर्विधेया तवापि महाराजत्वात्सर्वं तादृशमेवेति भावः । ‘प्रवेको मुख्यभिन्नयोः’ इति धरणिः । चैत्यं देवालयम् । आयतनं पाषाणबद्धवृक्षमूलस्थानम् । आदिना चत्वरादिग्रहः । कृत्रिमा भूमयः कुट्टिमभुवः । पाठान्तरे ‘नानास्वनमिथुन’ इति पाठे ॥ ९ ॥ * * मनइन्द्रियानन्दिभिरिति । पुंस्त्वमार्षम्। जलाशयेत्युक्ते
- । पुनरमलजलपूर्णानामित्युक्त्या पुनरुक्तिमाशंक्याह - यद्वेति । अमलजलै पूर्णानां सरसामित्यनेन सम्बन्धः । किंभूतानाममलजलपूर्णानां मिथुना द्वन्द्वीभूता ये विविधा विहङ्गमास्तथा जलाशया मत्स्याद्यास्तैः सहितानामित्यर्थः । आर्षकल्पनाया अगतिगतिकत्वं चाशं- क्याह- मनइन्द्रियानन्दिभिरिति । तत्र नीरजादिषु कुमुदकुवलयौ सितवर्णो रात्रिविकाशौ । कहारं सौगन्धिकम् । लोहितं रक्तवर्णं शतपत्रयुतं च । आदिना पुण्डरीकादिग्रहः । स्वनादिभिरिहादिना गत्यादिग्रहः । इन्द्रियोत्सवा इन्द्रियकौतुकास्तैः ।। १० ।। यत्र अतलादिषु ।। ११ ।। यत्र येषु विवरेषु ।। १२ ।।
- श्रीमद्वीरराघवव्याख्या
- *
- किन हे महाराज ! येषु बिरस्वर्गेषु मायाविनासुरेण मयेन निर्मिताः पुरः पुराणि चकासति इत्यन्वयः । कथम्भूता नानाविधा ये मणिप्रवरास्तेषां प्रवेका मुख्यास्तैर्विरचितैर्विचित्रैर्भवनादिभिस्तथा विवरेश्वराणां गृहोत्तमैश्च समलंकृताः कथम्भूतैः गृहोत्तमैर्नागाश्चासुराश्च मिथुनीभूताः पारावतादयश्च तैराकीर्णाः सङ्कटाः कृत्रिमा वेदिकादिरूपा भूमयो येषु तैः, नानास्वन- मिथुनेति पाठे नानास्वनत्वं मिथुनीभूत पारावतादिविशेषणम् ॥ ९ ॥ * * तथा कनकलताभिरालिङ्गितानां संश्लिष्टानां कुसुमस्तबकैः फलस्तबकैः सुन्दर किसलयैश्चावनता नम्रा रुचिरा विटपाः शाखा येषां तेषां विटपिनां वृक्षाणामुद्यानानि क्रीडावनानि मनस इन्द्रियाणां चानन्दिनीभिरानन्दकारिणीभिः स्त्रीभिर्विवरेश्वर स्त्रीभिर मरलोकश्रियमतिशयितानि अतिक्रान्तानि येषु विवरेषु चका सतीत्यन्वयः । पुनः कैरमरलोकश्रियमतिशयितान्युद्यानानि चकासति अमलैः स्वच्छः जलैः पूर्णानां समिथुनानां चक्रवाकादिभि- मिथुनसहिता ये विविधा विहङ्गास्तेषां कुलं समूहस्तस्य कोलाहलो येषु तेषां जलाशयानां सम्बन्धिझषसमूहस्योलङ्घनेन विहारेण क्षुभितं सचलितं यन्नीरं जलं तस्मिन् यानि नीरजादीनि तेषां वनेषु कृतं निकेतनं स्थानं येषां पक्षिणामिति शेषः, सामर्थ्यान्नानाविधै- विहारैराकुला मधुरा ये विविधाः स्वरादयः आदिशब्देन गमनेक्षणादयो विवक्षिताः । तैः कथम्भूतैः इन्द्रियाणामानन्दजनकैः स्त्रीभिरिति यावत् उक्तविधविटपिनामुक्तविधानां मनइन्द्रियाणां चानन्दिभिस्त्रीभिरिन्द्रियोत्सवैः उक्तविधानां पक्षिणां चोक्तविधैः स्वरादिभिश्चामरलोकश्रियमतिशयितान्युद्यानानि येषु विवरेषु चकासतीत्यर्थः ॥ १० ॥ * * यत्र ह वाव येषु हि विवरेषु कालविभागैः कालावयवैः अहोरात्रादिभिर्भयं नोपलक्ष्यते तत्रत्यानामायुषो भूयस्त्वादिति भावः । यत्र येषु विवरेषु ये महान्तोऽहि- प्रवराः सर्पश्रेष्ठास्तेषां ये शिरोमणयः फणामणयः ते सर्वं कृत्स्नं तमोऽन्धकारं प्रबाधन्ते निरस्यन्ति ।। ११-१२ ।
- श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली
- ।
- येषु विवरेषु पुरः पुराणि चकासति विलसन्तीत्यन्वयः । माययार्थ क्रियाकरणशक्तिलक्षणोपादानभूतया निर्मिताः नाना- मणीनां प्रवेकैः श्रेष्ठैर्विरचितविचित्रभवनादिभिरुपलक्षिताः चैत्यं देवालयमायतनं पाषाणबद्धवृक्षमूलस्थानं नाना स्वनैः मिथुनतो वर्तमानैः पारावतादिभिराकीर्णाः कृत्रिमभूमयो येषु ते तथा तैर्विवरेश्वराणां गृहोत्तमैरन्तःपुरश्रेष्ठैः ॥ ९ ॥ * * येषु
- ५२०
- श्रीमद्भागवतम्
- [ एक. ५ अ. २४ श्लो. ९-१२ विवरेषूद्यानानि चकासति विटपिनां वृक्षाणां मनआदीन्द्रियानन्दहेतुभिर्विटपैः शाखाभिः कृताभिः श्रीभिः समृद्धिभिः कनकेति वृक्षविशेषणममृतजलपूर्णानां समिथुनानां विहङ्गकुलानां कोलाहलशब्दयुक्तानां जलाशयानां सरसां सम्बन्धिनां मत्स्यकुलानामु- लङ्घनेोत्पत्य पतनेन क्षुभितनीरचचलनीरजादिसमुदायेषु कृतनिवासानामनेकविहाराकुलानां मधुकराणामिन्द्रियोत्सवैर्मधुकर- स्वनादिभिः स्वर्गश्रियमतिशयितानि अतिशयोपेतान्युद्यानानीति सम्बन्धः । नीरजं सामान्येन कमलं कहारं सौगन्धिकं शतपत्रं रक्तकमलम् | आदिशब्देन पुण्डरीकादयो गृह्यन्ते “पुण्डरीक सिताम्बुजम्” इत्यभिधानम् ॥ १०-११ ॥ * * शार्वर शर्वरीजन्यमिव स्थितं तमः ।। १२ ।।
- श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी….
- पुरका सतीत्यन्वयः । कीदृश्यः नानाभूतेषु मणिप्रवरेष्वपि ये प्रवेका मुख्याः तैर्विरचिता विचित्रा ये भवनादयस्तै- गृहोत्तमैचालङ्कृताः कीदृशैः नागाश्च असुराश्च मिथुनभूताः पारावतादयश्च तैराकीर्णाः कृत्रिमा भूमयो येषु तैः । नानाखन इति पाठः सुगमः ॥ ९ ॥ यासु उद्यानानि अमरलोकश्रियमतिशयितानि अतिक्रान्तानि चकासतीत्यन्वयः । काभिः कुसुमादिभिर- वनता रुचिरा विटपा येषां तेषां विटपिनां श्रीभिः मनइन्द्रियानन्दिभिरिति पुंस्त्वमार्षम् । तथा समिथुनाः सस्त्रीपुंसा विविधा
- । विहङ्गमा येषु तेषां जलशयानां झषकुलोलङ्घनैः क्षुभितेषु नीरेषु यानि नीरजादिवनानि तेषु कृतनिकेतनानामर्थात् पक्षिणामेकोऽखण्डो यो विहारस्तेनाकुला मधुरा विविधाः स्वनादयस्तैर्ये इन्द्रयोत्सवास्तैश्च । अत्र लोहितं शतपत्रच नीरजविशेषौ लौहित्यदलशत- पत्रत्वाभ्याम् ।। १०-१२ ॥
- श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
हे महाराज ! येष्वतलादिषु मायाविना आश्चर्यकारकासुरीविद्यावता मयेन विनिर्मिता नानाविधानां मणिप्रवराणां प्रवेकैर्मुख्यैर्विरचितानि यानि विचित्राणि भवनादीनि तैः नागैरसुरैर्मिथुनभूतैः पारावतादिभिराकीर्णाः कृत्रिमा भूमयो येषु तैर्विवरेश्वर गृहोत्तमैश्च समलङ्कृता पुरः पुराणि चकासति ॥ ९ ॥ * किञ्च । येषु कुसुमफलस्तबकैः सुभग किसलयैश्चा- वनता रुचिरा विटपा येषां विटपिनां लतानामङ्गेरालिङ्गितानां श्रीभिः तथा अमलजलपूर्णानां समिथुनाः चक्रवाकादिमिथुनसहिता ये विविधा विहङ्गास्तद्युक्तानां जलाशयानाञ्च स्त्रीभिः झषकुलोल्लङ्घनक्षुभितेषु नीरेषु यानि नीरजादीनि तेषां वनेषु कृतनिकेतना- नामर्थाद् भ्रमरादीनामेकोऽखण्डो यो विहारस्तेनाकुलाश्च ते मधुराश्च विविधस्वनादयस्तैर्मनइन्द्रियानन्दिभिः ये इन्द्रियोत्सवास्तैश्च अतितराममरलोकश्रियमतिशयितानि उद्यानानि चकासति, यत्र येषु अहोरात्रादिभिर्यद्भयं तन्नोपलक्ष्यते सूर्याद्य- भावात् ॥ १०-११ ॥ * * तर्हि कुतस्तत्र प्रकाश इत्यत आह यत्रेति ।। १२ ।। गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी येषु पुरश्चकासतीत्यन्वयः । हे महाराजेति सम्बोधनेन मह महाराजेति सम्बोधनेन महाराजानामपि युष्माकं ता दुर्लभा इति सूचयति । कथम्भूतास्ता इति वीक्षायामाह - नाना ये मणिप्रवरास्तेष्वपि ये प्रवेका मुख्यास्तैर्विरचितैः विचित्रभवनादिभिः तथा विवरेश्वराणां गृहोत्तमैश्च समलङ्कृताः । कीदृशैर्गृहोत्तमै रित्यपेक्षया तान् विशिनष्टि नामाचासुराश्च मिथुनीभूताः पारावतादयश्च तैराकीर्णाः संकुलाः कृत्रिमा भूमयो येषु तैः । ननु देवलोकात् स्वर्गादपि तासां कथमद्भुतत्वमित्यपेक्षायामाह - मायाविना मयेन विनिर्मिता इति । भवनानि प्रजानां गृहाः, प्रकाराः प्रसिद्धाः, गोपुराणि पुरद्वाराणि, सभा राजोपवेशस्थानानि, चैत्यानि देवालयाः, चत्वराणि चतुष्पथाः, आयतनानि प्रवासिजनविश्रामस्थानानि । नानास्वनेति पाठे तु नानास्वनत्वं मिथुनविशेषणम् ॥ १५ ॥ * * यासु उद्यानानि चामरलोकश्रियमतिशयितानि अतिक्रान्तानि चकासतीत्यनुषङ्गेणान्वयः । कैः साधनैरतिशयितानीत्यपेक्षायामाह - कुसुमफलस्तबकाञ्च सुभगकिसलयानि च तैरवनता रुचिरा विटपा येषां विटपिनां लतानामङ्गः आलिङ्गितानां श्रीभिः । तथा समिथुनाः सस्त्रीकाः विविधाः विहङ्गमाः येषु जलाशयेषु तेषाममलजलपूर्णानां च श्रीभिः । तथाऽतितरां मनइन्द्रियानन्दिभिः झोन क्षुभितं यज्जलाशयानां नीरं तस्मिन् यानि नीरजादीनि तेषां वनेषु कृतं कृतं निकेतनं यस्तेषां पक्षिणामेकोऽखण्डो यो विहारस्तेनाकुलाश्च ते मधुराश्च ये विविधाः स्वनादयस्तैर्ये इन्द्रियोत्सवास्तैश्च ॥ १६ ॥ यदहोरात्रादिभिर्भयं तद्यत्र नोपलक्ष्यते सूर्याद्यभावात् ॥ १७ ॥ * यत्र मणिकृत एव प्रकाश इत्यर्थः ।। १८ । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * अत्र येविति । हे महाराज, येषु बिलस्वर्गेषु, मायाविना अतिशयितमायाभिज्ञेन, मयेन मयनाम्नासुरेण, विनिर्मिताः पुरः नगर्यः, नाना नानाविधा ये मणिप्रवरास्तेषां प्रवेका मुख्यास्तैर्विरचितैर्भवन प्राकार गोपुर सभाचैत्यचत्वरायतनादिभिः, तत्र भवनानि गृहाणि, प्राकारा वरणाः, गोपुराणि पुरद्वाराणि सभा आस्थानिकाः, चैत्यान्यायतनानि च चत्वराण्यजिराणि, एकं. ५ अ. २४ लो. १३-२०] " अनेकव्याख्या समलङ्कृतम् ५२१ आयतनानि यज्ञस्थानानि, नागाश्व असुराश्च मिथुनानि मिथुनीभूताः याः पारावतशुकसारिकास्ताभिराकीर्णाः संकुलाः कृत्रिमा भूमयो येषु तैः, तत्र पारावताः कलरवाः, शुकाः कीराः, सारिकाः सूक्ताः, विवरेश्वरगृहोत्तमैः विवरेश्वराणामुत्तमसौधैश्च समलंकृताः सत्यः चकासति । सर्वा अपि पुरोऽत्यन्तं शोभन्ते इत्यर्थः ॥ ९ ॥ * * उद्यानानीति । लतानां यान्यङ्गानि तैरालिङ्गता- स्तेषां कुसुमानि च फलानि च स्तबकाच सुभगकिसलयाः शोभनाः पल्लवाश्च तैरवनताः रुचिरा विटपा येषां ते ये विटपिनस्तेषां श्रीभिः अमलानि च तानि जलानि च तैः पूर्णास्तेषां समिथुनाश्चक्रवाकादिमिथुनसहिताः विविधा विहंगा येषु ते ये जलाशया- स्तेषां च श्रीभिः मनइन्द्रियानन्दिभिः झषाणां मत्स्यानां कुलानि वृन्दानि तेषामुल्लङ्घनमुत्प्लवनं तेन क्षुभितं यन्नीरं जलाशयानां पानीयं तस्मिन् यानि नीरजानि च कुमुदानि च कुवलयानि च कह्नाराणि च नीलोत्पलानि च लोहितशतपत्राणि च तान्यादयो येषां पीतपद्मादीनां वनानि तेषु कृतं निकेतनं यैस्तेषामर्थात्पक्षिणां, एकोऽखण्डो यो विहारस्तेन आकुलाश्च ते मधुराश्च ये विविधाः स्वनादयस्तैः ये इन्द्रियोत्सवास्तैश्च कृत्त्वा यत्र उद्यानानि चापि, अतितरामतिशयेन, अमरलोकश्रियम् अतिशयितानि अतिक्रम्य वर्त्तमानानि सन्ति, चकासतीत्यर्थः ॥ १० ॥ * यत्रेति । यत्र ह वाव येषु विवरेषु हि, कालविभागैः कालावयवभूतैः अहोरात्रादिभिः भयं यत्तत्, न उपलक्ष्यते । तत्रत्यानामायुषो भूयस्त्वात्सूर्याद्यभावाच्च ॥ ११ ॥ * * यत्र हीति । यत्र येषु विवरेषु, महान्तो येऽहि प्रवराः सर्पश्रेष्ठाः तेषां ये शिरोमणयः फणामणयः, सर्वं कृत्स्नं, तमोऽन्धकारं प्रबाधन्ते ।। १२ ।। "
- । भाषानुवादः महाराज ! इन बिलों में मायावी मयदानव की बनायी हुई अनेकों पुरियाँ शोभासे जगमगा रही हैं; जो अनेक जातिकी सुन्दर-सुन्दर श्रेष्ठ मणियोंसे रचे हुए चित्र-विचित्र भवन, परकोटे, नगरद्वार, सभाभवन, मन्दिर, बड़े-बड़े आँगन और गृहोंसे सुशोभित हैं; तथा जिनकी कृत्रिम भूमियों (फर्शो ) पर नाग और असुरोंके जोड़े एवं कबूतर, तोता और मैना आदि पक्षी किलोल करते रहते हैं, ऐसे पातालाधिपतियोंके भव्य भवन उन पुरियोंकी शोभा बढ़ाते हैं ॥ ९ ॥ * वहाँके बगीचे भी अपनी शोभासे देवलोकके उद्यानोंकी शोभाको मात करते हैं । उनमें अनेकों वृक्ष हैं, जिनकी सुन्दर डालियाँ फल-फूलों के गुच्छों और कोमल कोंपलोंके भारसे झुकी रहती हैं तथा जिन्हें तरह-तरह की लताओंने अपने अङ्गपाशसे बाँध रक्खा है । वहाँ जो निर्मल जलसे भरे हुए अनेकों जलाशय हैं, उनमें विविध विहंगों के जोड़े विलास करते रहते हैं। इन वृक्षों और जलाशयोंकी सुषमासे वे उद्यान बड़ी शोभा पा रहे हैं। उन जलाशयों में रहनेवाली मछलियाँ जब खिलवाड़ करती हुई उछलती हैं, तब उनका जल हिल उठता है । साथ ही जलके ऊपर उगे हुए कमल, कुमुद, कुवलय, कहार, नीलकमल, लालकमल और शतपत्र कमल आदिके समुदाय भी हिलने लगते हैं । इन कमलोंके वनों में रहनेवाले पक्षी अविराम क्रीडा-कौतुक करते हुए भाँति-भाँति की बड़ी मीठी बोली बोलते रहते हैं, जिसे सुनकर मन और इन्द्रियोंको बड़ा ही आह्लाद होता है । उस समय समस्त इन्द्रियों में उत्सव सा छा जाता है ॥ १० ॥ * * वहाँ सूर्यका प्रकाश नहीं जाता, इसलिये दिन-रात आदि कालविभागका भी कोई खटका नहीं देखा जाता ॥ ११ ॥ * * वहाँ के सम्पूर्ण अन्धकार को बड़े-बड़े नागोंके मस्तकोंकी मणियाँ ही दूर करती हैं ।। १२ ।। न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवण्य- दौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोsवस्थाथ भवन्ति ॥ १३ ॥ न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसचक्रापदेशात् ॥ १४ ॥ यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च ॥ १५ ॥ अथातले मय पुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुत महाग जबलमात्मानमभिमन्यमानः कत्थते मदान्ध इव ।। १६ ।। ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिवति तन्निष्ठ्यतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ १७ ॥ ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिभंगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादिते- लैब्धकायो भृत्वा बटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया १. प्रा० पा० पारिषदभू० । २. प्रा० पा० भूय । ३. प्रा० पा० तयोर्वीर्येण । ४. प्रा० पा० - परिक्षिप्तस्वर्लोकत्रयो । ६६
५२२ श्रीमद्भागवतम् [ स्कं. ५ अ. २४ लो. १३-२० सुसमृद्धया श्रियाभिजुष्टः स्वधर्मे गाराधयंस्तमेव भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ १८ ॥ नो एचैत- त्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्विलनिलयैश्वर्यम् ॥ १९ ॥ यस्य ॥ ह बाब क्षुतपतनप्रस्खलनादिषु विवशः सकुन्नामाभिगृणन् पुरुषः कर्मबन्धनमनसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते ॥ २० ॥ अन्वयः - एतेषु वा वसताम् दिव्यौषधिरसायनान्नपानस्नानादिभिः आधयः व्याधयः च वलीपलितजरादयः च देहवै- वर्ण्य दौर्गन्ध्यस्वेदक्कुमग्लानिः इति वयोवस्थाः न भवन्ति ॥ १३ ॥ * * तेषाम् कल्याणानाम् चक्रापदेशात् भगवत्तेजसः विना कुतश्चन मृत्युः न हि प्रभवति ॥ १४ ॥ * * यस्मिन् प्रविष्टे प्रायः असुरवधूनाम् पुंसवनानि भयात् एव स्रवन्ति पतन्ति च ।। १५ ।। * * अथ अतले मयपुत्रः बलः असुरः निवसति ह वा येन इह षण्णवतिमायाः सृष्टाः मायाविनः काश्चन अद्य अपि धारयन्ति यस्य जृम्भमाणस्य मुखतः स्वैरिण्यः कामिन्यः पुंश्चल्यः इति त्रयः स्त्रीगणाः उदपद्यन्त याः वै बिलाय- नम् प्रविष्टम् पुरुषम् हाटकाख्येन रसेन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरम् किल रमयन्ति यस्मिन् उपयुक्ते आत्मानम् अयुतमहा गजबलम् अभिमन्यमानः पुरुषः अहम् ईश्वरः अहम् सिद्धः इति मदांधः इव कत्थते ।। १६ ।। ** ततः अधस्तात् वितले हरः भगवान् हाटकेश्वरः स्वपार्षद भूतगणावृतः भवः प्रजापतिसर्गोपबृंहणाय भवान्या सह मिथुनीभूतः आस्ते यतः प्रवृत्ता भवयोः वीर्येण हाटकी नाम सरित्प्रवरा यत्र चित्रभानुः मातरिश्वना समिध्यमानः ओजसा पिबति तन्निष्ठ्यूतम् हाटकाख्यम् सुवर्णम् असुरेंद्रावरोधेषु पुरुषाः पुरुषीभिः सह भूषणेन धारयन्ति ॥ १७ ॥ * * ततः अधस्तात् सुतले उदारश्रवाः पुण्यश्लोकः विरोचनात्मजः बलिः महेन्द्रस्य प्रियम् चिकीर्षमाणेन भगवता अदितेः लब्धकायः भूत्वा बटुवामन- रूपेण पराक्षिप्तलोकत्रयः भगवदनुकम्पया एव पुनः प्रवेशितः इंद्रादिषु अविद्यमानया सुसमृद्धया श्रिया अभिजुष्टः स्वधर्मेण आराधनीयम् तम् एव भगवन्तम् आराधयन् अपगतसाध्वसः अधुना अपि आस्ते ॥ १८ ॥ * * यत् बिलनिलयैश्वर्यम् एतत् यत् तत् भगवति अशेषजीवनिकायानाम् जीवभूतात्मभूते परमात्मनि तीर्थतमे पात्रे वासुदेवे उपपन्ने परया श्रद्धया परमा- दरसमाहितमनसा संप्रतिपादितस्य साक्षात् अपवर्गद्वारस्य भूमिदानस्य साक्षात्कारः नो एव ॥ १९ ॥ * * ह वाव क्षुतपतन- प्रस्खलनादिषु विवशः पुरुषः यस्य नाम सकृत् अभिगृणन् कर्मबंधनम् अंजसा विधुनोति ह एव मुमुक्षवः यस्य प्रतिबाधनम् अन्यथा उपलभन्ते ॥ २० ॥ श्रीधरखामिविरचिता भावार्थदीपिका । । । क्लमः श्रमः ग्लानिरनुत्साहः ॥ १३ ॥ * * कल्याणानां मङ्गलरूपाणाम् ॥ १४ ॥ * * यस्मिन् भगवत्ते- जसि प्रविष्टे । पुंसवनानि गर्भाः । “आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः” इति स्रावपातौ ज्ञेयौ ॥ १५ ॥ * * सवर्णे रताः स्वैरिण्यः कामिन्यस्त्वसवर्णेऽपि तत्राप्यतिचंचलाः पुंश्चल्यः । बिलायनं बिलायतनम् | साधयित्वा सम्भोगसमर्थं कृत्वा । स्वे ये असाधारणा विलासास्तत्पूर्वको ऽवलोकस्तेनानुरागयुक्तं स्मितं तेन संलाप उपगूहनं च तदादिभिः । यस्मिन्हाटकाख्ये रसे उपयुक्त सेविते ।। १६ ।। * * भवयोर्भवस्य भवान्याञ्च । चित्रभानुरभिः । तेन निष्ठ्यूतं फूत्कृत्य त्यक्तम् । असुरेन्द्राणामवरोधे- ध्वन्तःपुरेषु । पुरुषीभिः स्त्रीभिः ॥ १७ ॥ * * सुतले बलिरघुनाप्यास्त इत्यन्वयः कथंभूतः । महेन्द्रस्य प्रियं कर्तुमिच्छता. भगवता प्रथमं पराक्षिप्तमपहतं लोकत्रयं यस्य सः । पुनर्भगवतोऽनुकम्पयैव तत्र प्रवेशितः सन् । कीदृशेन । योऽदितेः सकाशाद् भूत्वा बटुवामनरूपेण लब्धकायस्तेन ॥ १८ ॥ * * केचित्तस्य सुतलराज्यं भूमिदानफलं मन्यन्ते तन्निराकरोति नो एवैतदिति । यद्विलनिलये विवरस्थाने ऐश्वर्यमेतद्भूमिदानस्य साक्षात्कारः फलं न भवत्येव । कुत इत्यपेक्षायामेवंभूतस्य दानस्य साक्षादपवर्गहेतुत्वा- दित्याह । यत्प्रसिद्धं दानं तस्य तदेवाह भगवत्यशेषजीवनिकायानां जीवभूतश्चासावात्मभूतश्च सर्वजीवनियन्ता चासावात्माराम- श्चेत्यर्थः । तस्मिन्सम्प्रतिपादितस्य ॥ १९ ॥ * किं च । यस्य नाम क्षुतादिषु च विवशोऽपि सकृदपि गृणन्कर्मबन्धं विधुनोति । कथंभूतम् । यस्य प्रतिबाधनं त्विह मुमुक्षवोऽन्यथैवोपलभन्ते । यन्निवृत्त्यर्थं योगसांख्यादिक्लेशाननुभवन्तीत्यर्थः । तं कर्मबन्धं त्यजन्ति ॥ २० ॥ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । एतेषु वसतां पुंसां दिव्यौषधिरसरसायनयोरशनादेव हेतोरन्नपानादिभिरप्याधिव्याधयो न भवन्ति तथा द्विविधा वयोव- स्थाश्च न तत्र प्रथमा वलिप्रभृतयश्चरमाः द्वितीया देहवैवर्ण्यादयोऽचरमा इति । रसायनं तु “वार्ध्यध्नं देहपुष्टचादेः कारकं बलदायकम् । १, प्रा० पा० यद्येतरसाक्षात्कारो । २ प्रा० पा० इन्यथेवेहोप० । स्क. ५ अ. २४ श्लो. १३-२०१ अनेकव्याख्यासमलङ्कृतम् ५२३ रसायनमिह प्रोक्तं मृगांकादिभिदा बहु” इति दिव्यौषधयो विशल्याद्याः । समस्तपाठे तु देहवैवर्ण्यादिसहिता ग्लानिरिति मध्यमपदलोपी समासः ॥ १३ ॥ * * तेषां दिव्यौषधिरसरसायनसेविनां चक्रापदेशाच्चक्रनाम्नः ॥ १४ ॥ * * प्रायो बाहुल्येन समकालं वा । “प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः” इति मेदिनी ॥ १५ ॥ * * सामान्येन विवरलक्षण- मुक्त्वा विशेषेणाह - अथेति । अथ आरम्भे । षभिरधिका नवतिः षण्णवतिः । यस्य बलस्य । अपिना सवर्णेपीति । तत्रापि स्वैरि- ण्याद्यास्वपि पुरुषमात्रेण रतिमाकांक्षमाणाः पुरुषदर्शनमात्रेण परिप्लुतेन्द्रिया वा पुंश्चल्यः । उपगूहनमालिंगनम् । आदिना चुंबनादि- ग्रहः । महागजो यूथमुख्यहस्ती । कत्थते लाघते ॥ १६ ॥ * * ततः अतव्यत् । ब्रह्मसृष्टिवृद्धयै यतो यत्र भवयोः भवानी- भवयोः “पुमान् स्त्रिया” इत्यनुशासनात् । पिबति संशोष्य कठिनीकरोति । तेन अग्निना निष्ठ्यूतं दाहोत्तीर्णीकृतम् । यद्वा - ताभ्यां भवभवानीभ्यां निष्ठ्यूतं भूषणेन रत्नालङ्कारेण सहात्यादरात् हरभवयोर्विशेषणविशेष्यभावेन पुनरुक्त्यभावो ज्ञेयः ।। १७ ।। * * ततो वितलात् । श्रवो यशः । पुण्याश्चारवः श्लोका वर्णनार्थपद्यानि यस्य सः ‘पुण्यं शोभने त्रिषु’ इति मेदिनी । अपगत साध्वसो निर्भयः । ‘भीतिर्भीस्साध्वसं भयम्’ इत्यमरः ॥ १८ ॥ * * अत्र भूमिपदेन त्रिभुवनमेवोपलक्षितम् । किश्व - वेदविज्ञब्राह्मण- मात्रे एव भूप्रदेशदानादक्षयः प्रसिद्धस्वर्गभोगो लभ्यत इति शास्त्रे श्रवणाद्भगवति त्रिभुवनदानजन्यफलस्य सुतलैश्वर्यभोग एब पर्याप्तेरसम्भावितत्वादपवर्गस्यैव फलत्वम् । किच- अस्यानुषङ्गिकस्यापि सुतलैश्वर्यभोगस्य सर्वस्वर्गभोगेभ्योऽपि परमोत्कर्षो ध्वनितः । जीवभूतो जीवनरूपो य आत्मान्तर्यामी तद्भूते परमात्मनि विष्टभ्याहमिदं कृत्स्नम्’ इत्युक्तेरन्तर्यामिणोष्यंशित्वात् । साक्षादपवर्गेति । यत्र पुष्पादिदानस्यापवर्गफलत्वं तत्र त्रिभुवनदानस्य तथात्वेऽतिकै मुत्यमिति भावः ॥ १९ ॥ * * त्रैलोक्य- दाने का वार्त्ता भक्त्या यत्र पुष्पार्पणमपि दूरे वर्ततां नामाभ्यासोऽपि सुकृतिभिर्दुर्वारं कर्मबन्धनमप्यनायासेनैव ध्वंसयतीत्याह यस्येति । न च कर्मबन्धोऽपि सुगमप्रतीकार इत्याह-यस्य कर्मबन्धस्य प्रतिबाधनं सर्वथा ध्वंसनं मुमुक्षव एव न तु भूमिदानादि- सुकृतको टिमन्तोऽपि । इत्यर्थं इति । सर्वथा दुःशकोपायमप्यनायासेनैव कुर्वन्तीति भावः ।। २० ।। 1 श्रीमद्वीरराघवव्याख्या एतेषु विवरेषु वसतामाधयो मनःपीडा व्याधयो रोगाः वलिस्त्वग्गतो विकारः पलितं केशेषु शौक्कथमेतदुभयमूलभूता जरा आदिशब्देन मतिभ्रंशादिर्गृह्यते तथा देहस्य वैवर्ण्यं रूपान्तरं दुर्गन्धः पूतिगन्धः स्वेदः खेदः क्लमः भ्रमः ग्लानिरनुत्साह इति एते वयोऽवस्थाश्च दिव्यौषधै रसायनपानैर्दिव्यैरशनस्नानादिभिश्च न भवन्ति ॥ १३ ॥ ।। । $ तथा तेषां बिलस्थानां कल्याणानां निर्दुःखानां कस्मादपि मृत्युर्न हि प्रभवति कोऽपि तान्मारयितुं समर्थो न भवतीत्यर्थः । भवतीति पाठे मृत्युर्मरणं कुतश्चिदपि तेषां नास्तीत्यर्थः । तर्ह्यमरास्ते किं तत्राह विनेति । चक्रापदेशाश्चक्रसंज्ञाद्भगवत् तेजसोऽत्ररूपाद्विना सुदर्शना- स्त्राद्विना नान्यस्मान्न मृत्युस्तस्मात्त्वस्त्येवेत्यर्थः ॥ १४ ॥ * * तदेवाह । यस्मिन् सुदर्शनास्त्रे विवरेषु प्रविष्टे सत्यसुरवधूनां पुंसवनानि गर्भाः प्रायेण चक्रभयात् प्रस्रवन्ति पूर्णाश्चेत्पतन्तीत्यर्थः ॥ १५ ॥ * एवं सामान्यतो विवरानुपवर्ण्याथ विशेषेण विवर्णयिषुस्तावदतलं विवरमनुवर्णयति अथेति । अतलाख्ये बिवरे मयस्य पुत्रो बलो नाम निवसति तं विशिनष्टि । येनेति । येन बलेनैव सृष्टा इह षण्णवतिसंख्याका मायाः तासां मायानां मध्ये काश्चन माया अद्यापि केचिन्मायाविनो धारयन्ति यस्य बलस्य विजृम्भमाणस्य सतः तन्मुखात्रयः स्त्रीणां गणा उद्बभूवुः । गणानेवाह स्वैरिण्यः कामिन्यः पुंश्चल्य इति सवर्णरताः स्वैरिण्यः कामिन्यस्त्वसवर्णरताः तत्राप्यति चञ्चलाः पुंश्चल्यः त्रिविधास्ता विशिनष्टि । या वै स्वैरिण्यादयः स्त्रियो बिलायनं विवरं प्रविष्टं पुरुषं हाटकाख्येन रसेन रसायनेन साधयित्वा स्ववशीकृत्य बलायनमिति पाठे तत्र प्रविष्टं पुरुषं रसेन बलायनं साधयित्वा सम्भोगसमर्थं कृत्वा स्वेऽसाधारणा विलासास्तत् पूर्वको योऽवलोकः अनुरागयुक्तं यत् स्मितं संलापो रहोभाषणमुपगूहनमालिङ्गन- मेवमादिभिः स्वैरं रमयन्ति किल । हाटकाख्यं रसं विशिनष्टि यस्मिन्निति । यस्मिन् रसे उपयुक्त सेविते सत्युपयोक्ता पुरुषः आत्मानमयुत महादिग्गजबलं मन्यमानो मदान्ध इवाहमीश्वरः सिद्धोऽहमिति कत्थते लाघते ॥ १६ ॥ * एवमतलाख्यो विवर उपवर्णितः । अथ वितलं वर्णयति तत इति । ततोऽतलादधस्ताद्वितले विवरे भगवान् हरो रुद्रः हाटकेश्वरः स्वपार्षदैर्भूत- गणैः प्रमथगणैः परिवृतः प्रजापतिसर्गः ब्रह्मणादिष्टः सर्गस्तस्योपबृंहणाय वृद्धये भवान्या सह मिथुनीभूयास्ते, यदुक्तं हाटकेश्वर इति नाम तस्मिन्निमित्तं स्पष्टयति यत इति । भवानीभवयोर्मिथुनीभूतयोर्वीर्येण हाटकिन्याख्या सरित्प्रवरा यतः प्रवृत्ता तस्माद्भबो हाटकस्य सुवर्णस्य ईश्वर उत्पादकत्वाद्धाटकेश्वर इत्युच्यते इति भावः । ननु हाटकिन्याख्यसरित्प्रवरायाः प्रभवत्वेऽपि न हाटक- प्रभवत्वं तत्राह । यत्र हाटकिन्यां सरित्प्रवरायां चित्रभानुरभिः मातरिश्वना वायुना समिध्यमानः सम्यग्दीप्यमानः ओजसा बलेनापिबत् हाटकिनीं पीतवान् तेनाग्निना निष्ठयूतं फूत्कृत्य त्यक्तं हाटकाख्यं सुवर्णमसुवर्णमसुरेन्द्राणां विवरवासिनामवरोधेष्वन्तः- पुरेषु पुरुषा पुरुषीभिः स्त्रीभिः सह भूषणेनाभरणेन धारयन्ति भूषणानि कारयित्वा धारयन्तीत्यर्थः । हाटकिन्या अन्ततो हाटकाख्य- सुवर्णरूपेण परिणामात्तत्प्रभवोऽपि हाटकेश्वर इति भावः ।। १७ ।। * * अथ सुतलं वर्णयति तत इति । ततो वितलाद- धस्तात्सुतले विवरेऽप्युरुश्रवा विपुलकीर्तिः पुण्यश्लोकः स्मरतां पुण्यापादकयशः सम्पन्नः महाभागवतो भागवताग्रगण्यः विरोचन- स्यात्मजो बलिरधुनाप्यास्ते इत्यन्वयः, कथम्भूतः महेन्द्रस्य प्रियं कर्तुमिच्छता प्रथमं दितेः सकाशाद् भूत्वा बटुवामनरूपेण लब्धः રજી श्रीमद्भागवतम् [ स्कं. ५ अ. २४ श्लो. १३-२० कायो देहो येन तेन भगवता प्रथमं परिक्षिप्तमपहृतं लोकत्रयं यस्य तथाभूतः पुनर्भगवतोऽनुकम्पयैव सुतले विवरे प्रवेशित इन्द्रादीनामपि दुर्लभया सुसमृद्धया श्रिया सम्पदा जुष्टः सेवितः भयरहितः तमेव भगवन्तं स्वधर्मेण स्वोचितधर्मेणा- राधयन् ॥ १८ ॥ * * एतत् सर्वसम्पत्समृद्धं सुतलाधिपत्यं तद्भूदानफलमिति न मन्तव्यमित्याह नो एवैतदिति । यद्विलनिलये विवरस्थाने ऐश्वर्यं तदेतद्भूमिदानस्य साक्षात्कारः फलं न भवत्येव । कुत इत्यपेक्षायामेवंभूतस्य दानस्य साक्षादपवर्ग- हेतुत्वादित्याशयेन भूमिदानं विशिनष्टि । भगवति षाड्गुण्यपूर्णेऽशेषभूतजातानां ये जीवभूताः प्रत्यगात्मानस्तेषामप्यात्मभूते परमात्मन्यन्तः प्रविश्य धारके वासुदेवे तीर्थतमे पावनतमे पात्र उपपन्ने समीपं प्राप्ते सति तस्मिन् परया निरुपाधिकया श्रद्धया कर्तव्यविषयत्वरया समाहितं मनश्चित्तं येन तेन बलिना सम्प्रतिपादितस्य कृतस्य साक्षादपवर्गसाधनभूतस्य भगवतस्तीर्थतमत्व- मेवोपपादयति यस्येति । यस्य हि भगवतो नाम सकृदपि विवशोऽपि क्षुत्पतनस्खलनादिष्ववस्थास्वपि गृणन् पुरुषः कर्मरूपबन्धनं- मञ्जसा सुखेन विधुनोति निरस्यति सकृत् स्मरणमात्रेणापि समस्तवृजिननिरासक्षमनामवतो भगवतस्तीर्थतमत्वं कैमुत्यन्याय- सिद्धमिति भावः । कर्मबन्धं विशिनष्टि यस्य ह वा इति । यस्य हि कर्मबन्धस्य प्रतिबाधनं निरसनोपायमिह मुमुक्षवोऽन्यथा कर्मयोगादिरूपेण उपलभन्ते जानन्ति तत् कर्मबन्धनं धुनोतीति पूर्वेणान्वयः । प्रतिसाधनमिति पाठे प्रतिक्षेपसाधनं निरसनोपाय- मित्येवार्थः, यथा कर्मयोगादिकं भगवद्भक्तियोगोत्पत्तिप्रतिबन्धकप्राचीन कर्मबन्धनिरसनद्वारा भक्तियोगानुग्राहकत्वेन भक्तियोगद्वारा कृत्स्नपूर्वोत्तराघनिवर्तकमेवं नामस्मरणमपीत्यत्राभिप्रेतोऽर्थः, अन्यथा भक्तियोगानर्थक्यापत्तेरित्यवगन्तव्यम् । एवं तीर्थतमे सर्वेषा- मात्मनि भागवतानामात्मदे आत्मपर्यन्तवदान्ये आत्मतमे निरतिशयप्रियतमे भगवति विनियुक्तस्य लोकत्रयस्य न बिलनियमनैश्वर्यं फलमिति पूर्वेणैवान्वयः ॥। १९-२१ ।। श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली पानसहितस्नानात् आधयो मनोदुःखानि ग्लानिर्मनोबलक्षयः कुमः शारीरबलक्षयः वयोवस्थाः शैशवादिवयो- लक्षणाः ।। १३-१४ ।। * * यस्मिंश्चक्रे पुंसवनानि गर्भाः ॥ १५ ॥ * * एवं सामान्येन विवरलक्षणमुक्त्वा विशेषेणाह अथेति । नाम्ना बलः तासु काश्चन मायाः त्रयो जातिभेदेन स्वैरिण्यः स्वेच्छानुवृत्तयः कामिन्योऽन्तर्गतकामोद्रेकाः पुंश्चल्यः पुरुषमात्रेण सुरतमाकांक्षमाणाः पुरुषदर्शनमात्रेण परिप्लुतेन्द्रिया वा सर्वा अपि नियतपुरुषा न भवन्तीत्याह या इति । बिलायनं बिलस्थानं संलापो मिथो भाषणमुपगूहनमालिङ्गनं चुम्बनादिकमादिपदगृहीतम् ॥ १६ ॥ यस्मिन् रसे भवयोः पार्वती- परमेश्वरयोर्यत्तद्वीर्यं चित्रभानुरेध्यमानो वर्द्धमानः अवरोधा अन्तःपुराणि तेषु पुरुषीभिः पुरुषवद्बलोपेताभिः स्त्रीभिः ।। १७ ।। * * उरुणः बहुनः शास्त्रस्य श्रवः श्रवणं यस्य स तथा पराक्षिप्तमाकृष्टं स्वाधीनं लोकत्रयं यस्य स तथा प्रवेशितः लोकत्रयेण प्रतिवत्सरं क्रियमाणपूजायामिति शेषः । सर्वस्य जीवराशेरधिकं बलैरैश्वर्यं हरये भूमिदानफलं न तस्य फलं मुक्तिरेव किन्तु पूर्वजन्मार्जितकि- चित्पुण्यफलं भवितुमर्हतीत्याह अधुनापीति । अधुनापि बलेर्बिलनिलये सुतललोके यदैश्वर्यमेतद् भूमिदानस्य साक्षाद्वरो नो एव मुख्यफलं नैव कुतो नेति तत्राह भगवतीति । परमात्मनि सम्यक् प्रतिपादितस्य स पात्रं न चेत्कथं तदिति तत्राह पात्र इति । पात्रगुणमाह तीर्थतम इति । अतिशयेन शुद्धे अतो युक्तमित्याह । उपपन्न इति अन्येषु महात्मसु सत्स्वस्यैवोपपत्तिः कथमिति तत्राह । जीवेति केषामत्राह अशेषेति । जीवभूतत्व दुःखित्वेनाशुद्धिरापन्नेति तत्राह आत्मभूत इति । सदा स्वामिनि इदं स्वामित्वं न लोकवत् किन्तु सदातनमित्यतो भूत इात स्वतन्त्रत्वाद् दुःखनिवारणसमर्थ इत्यर्थः । आत्मवत्सर्वभूतप्रेष्ठ इति वा तर्हि किं तस्य फलमत्राह साक्षादिति । ननु “अश्रद्धया हुतं दत्तम्” इत्यादेः श्रद्धया सहितेन दत्तस्यासङ्कल्पत्वादस्यापि तथात्वेन कथं मुक्तिद्वारत्वमिति तत्राह परयेति । प्रत्यक्षफलदर्शनाश्चायमेव पात्रभूत इत्याह । यस्येति “निर्भयं विष्णुनाम्नैव यथेष्टं पदमागतम् ” इत्येतदस्मिन्नर्थे प्रमाणमित्याह हेति । यथा नामसङ्कीर्तनात् कर्मबन्धविध्वंसो भवत्येवं बलेरपीत्यस्मिन्नर्थे वेति “वा विकल्पोप- मानयोः” इत्यमरः । आदिशब्दात् स्वप्नादिभयदर्शन इति गृह्यते " तमेवं विद्वानमृत इह भवति” इति श्रुतेज्ञनिमन्तरेण नाम्नः कर्मबन्धहानिः कथमत्राह यस्येति । प्रतिबोधनं ज्ञानं नाम सङ्कीर्तनलक्षणकर्मद्वारा ज्ञानं भवति “कर्मणा ज्ञानमातनोति” इति श्रुतेरित्येतद्वेत्यनेनाह । अविगानेन सर्वेषां चेतनानामात्मदं ज्ञानजननद्वारा सायुज्यफलप्रदं यद्यस्मात्तद्भगवन्नाम मुमुक्षुभिरभ्यस- नीयमेवेत्याह यत्तदिति । तस्मिन् वासुदेव इति पूर्वत्रान्वयः ।। १८-२१ ॥ । श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः नो एवैतदेतावन्मात्रमित्यर्थः ।। १९-२० ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी एतेषु वसतां दिव्यौषधिरसरसायनयोरशनादेव हेतोरन्नपानादिभिरप्याधिव्याधयो न भवन्ति । तथा हि द्विविधा वयोऽव- स्थाश्च न तत्र प्रथमा वलिप्रभृतयश्चरमाः द्वितीया देहवैवर्ण्यादयोऽचरमाः कुमः श्रमः ग्लानिर्हर्षक्षयः ।। १३-१४ ॥ ॐ ॐ पुंसवनानि गर्भाः “आचतुर्थाद्भवेत् स्रावः पातः पञ्चमषष्ठयोः” इति स्रावपातौ ज्ञेयौ । सवर्णे रताः स्वैरिण्यः कामिन्यस्त्वसवर्णेऽपि । स्क ५. अ. २४ श्लो. १३-२० ] अनेकव्याख्या समलङ्कृतम् ५२५ तत्राप्यतिचञ्चलाः पुंश्चल्यः बिलायनं स्वबिलरूपमायतनं साधयित्वा स्वसम्भोगसमर्थ कृत्वा यस्मिन् रसे उपयुक्त सेविते सति चित्रभानुरग्निः पिबति संशोप्य कठिनीकरोति तेन अग्निना निष्ठयूतं दाहोत्तीर्णीकृतम् । यद्वा यद्वा ताभ्यां भवभवानीभ्यां फूत्कृत्य त्यक्तम् । भूषणेन रत्नालङ्कारेण सह स्टार अत्यादरात् ।। १५-१७ ॥ ४ * श्रवो यशः अत एव पुण्याचारवः श्लोका वर्णनार्थकपद्यानि यस्य सः । प्रवेशित इति सुतलमेवेति शेषः ।। १८ ।। * * कैश्चित्तस्य तादृशबिलस्वर्गभोगप्राप्तिर्भूमिदानफलं मन्यते तन्निराकरोति नो एवैतावदिति । यद्विलनिलयैश्वर्यमेतद्भूमिदानस्य साक्षात्कारः फलं न भवति यद्भूमिदानं तदिति प्रसिद्धमित्यन्वयः । अत्र भूमिपदेन त्रिभुवनमेवोपलक्षितम् । अत्र वेदविज्ञब्राह्मण- | । मात्रे एव भूप्रदेशदानादयः प्रसिद्धस्वर्गभोगो लभ्यते इति शास्त्रे श्रवणाद्भगवति त्रिभुवनदानजन्म फलस्य सुतलैश्वर्यभोग एव पर्याप्ते - रसम्भावितत्वादपवर्गस्यैव फलत्वम् । किश्र्वास्यानुषङ्गिकस्यापि सुतलैश्वर्यभोगस्य सर्वस्वर्ग भोगेभ्योऽपि परम एवोत्कर्षो ध्वनितः । भूमिदानस्य कथम्भूतस्य भगवति वासुदेवे प्रतिपादितस्य जीवभूतो जीवनरूपो य आत्मा अन्तर्यामी तद्भूतेन परमात्मनि “विष्ट- भ्याहमिदं कृत्स्नमेकांशेन” इत्युक्तेरन्तर्यामिणोऽप्यंशित्वात् परमः सर्वोत्कृष्टचासावात्मा चेति तस्मिन्नुपपन्ने परमसमुचिते तीर्थ त मे परमपावने फलं न भवतीत्यत्र हेतुः साक्षादपवर्गेति । तत्र पुष्पादिदानस्याप्यपवर्गफल दत्वादत्रातिकैमुत्यमेवेति भावः ।। १९ ।। * त्रैलोक्यदानस्य का वार्त्ता भक्त्या पत्रपुष्पाद्यर्पणमपि दूरे वर्त्ततां नामाभासोऽपि सुकृतिभिर्दुर्वारं कर्मबन्धमपि अनायासेनैव ध्वंसयतीत्याह यस्येति । न च कर्मबन्धोऽपि सुगमप्रतीकार इत्याह यस्य कर्मबन्धस्य प्रतिबाधनं सर्वथा ध्वंसनं मुमुक्षव एव न तु भूमिदानादिसुकृतकोटिमन्तोऽपि अन्यथैवेति यन्निवृत्त्यर्थमष्टाङ्ग योगसाङ्ख्या दिक्लेशाननुभवन्तीत्यर्थः ॥ २० ॥ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः Brare phanton आधयः मनोव्यथाः व्याधयः देहव्यथाः वली त्वग्विकारः पलितं केशविकारः क्लमः श्रमः ग्लानिरनुत्साहः || १३|| कल्याणानां तत्तललोकानुरूपमङ्गलरूपाणाम् ॥ १४ ॥ * * पुंसवनानि गर्भाः “आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ” इति स्रावपातलक्षणम् ॥ १५ ॥ स्वैरिण्यः स्वेच्छाचारिण्यः तत्र कामिन्यो मदनमोहिताः तत्रापि पुंश्चल्यः पुंसि पुंसि भ्रममाणः निर्मर्यादा इत्यर्थः । साधयित्वा स्वानुरूपं कृत्वा यस्मिन् रसे उपयुक्त सेविते सति ॥ १६ ॥ * * भवयोः भवान्याः भवस्य च मातरिश्वना वायुना समिध्यमानः चित्रभानुना निष्ठचूतं थूत्कृत्य त्यक्तमसुरेन्द्राणामवरोधेष्वन्तःपुरेषु ॥ १७ ॥ * * ॥ ॥ यतो तिलादधस्तात् सुतले बलिरघुनाप्यास्ते इत्यन्वयः । कीदृशः अदितेर्महेन्द्रस्य च प्रियं चिकीर्षमाणेन बटुवामनरूपेण भगवता प्रथमं पराक्षिप्तमपहृतं स्वलोकत्रयं यस्य स लब्धः नागपाशैर्गृहीतः कायो देहो यस्य सः पुनश्च भगवतानुकम्पयैव तत्र प्रवेशितः । किं सः कुर्वन्नास्ते अपगतसाध्वसो भूत्वा तमेव स्वधर्मेणाराधयन् ||१८|| ननु भगवता भूमिदानफलभोगार्थं तत्र प्रवेशितः किमित्य- त्राह नो एवेति । यद्विलनिलये सुतलाख्ये विवरस्थाने ऐश्वर्यमेतद्भूमिदानस्य साक्षात्कारः फलं नो एव । तत्र हेतुं वदन् भूमिदानं विशिनष्टि । यत् यस्मात् तत् तस्मिन् सर्वलोकवेदप्रसिद्धे सर्वजीवनिकायानां तीर्थतमे जीवानां क्षेत्रज्ञानां भागवतानां क्षेत्राणाम् आत्मभूते उपपन्ने योग्यतातिशयेन प्राप्ते पात्रे श्रद्धादिना सम्प्रतिपादितस्य सम्यगर्पितस्य अत एव साक्षादपवर्ग- द्वारस्य ॥ १९ ॥ किञ्च । यस्य नाम क्षुदादिषु विवश: ज्वरमरणादिकालेऽपि सकृदपि गृणन् कर्मबन्धनमअसा अनायासेन विधुनोति मुक्तो भवतीत्यर्थः यस्य कर्मबन्धस्य प्रतिबाधनमन्यथा नामोच्चारणादिहरिभजनव्यतिरिक्तं कर्म चित्तवृत्ति- निरोधप्रकृतिपुरुषविवेकादिकं मीमांसकपातञ्जलसांख्यादय उपलभन्ते न तु परमपुरुषाराधने परमानन्दसाधने रुचि कुर्वन्तीत्यर्थः । ते मायामोहिता इति भावः । “न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥” इति श्रीमुखवचनात् । “येऽन्येरविन्दाक्ष ! विमुक्तमानिनस्त्वय्य स्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधो नादृत- युष्मदङ्घ्रयः ॥” इति तेषामघः पतनार्हतायाः वक्ष्यमाणत्वात् । “निरीशैः कर्मभिः केचित् केचिच्छ्रन्यसमाधिना । पुंप्रकृत्योर्विवेकेन मन्यन्ते कृतकृत्यताम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । इत्येवं वादिनो दासा वयं त्वर्जुनसारथेः " ॥ २० ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी वै अवधारणे । एतेषु विलस्वर्गेषु बसतां प्राणिनां दिव्यौषध्यादिपानादिभिराध्यादयो नैव भवन्तीत्यन्वयः । आधयो मनोव्यथाः । व्याधयो देहव्यथाः । वलीपलितश्चर्मसङ्कोचः । क्रुमः श्रमः । ग्लानिरुत्साहहानिः ॥ १९ ॥ * * कल्याणानां मङ्गलरूपाणाम् । चक्रापदेशात् सुदर्शननाम्नः ॥ २० ॥ * यस्मिन् सुदर्शने प्रविष्टे पुंसवनानि गर्भा भयात्स्रवन्ति पतन्ति च । ‘आचतुर्थाद्भवेत् स्रावः पातः पञ्चमषष्ठयोः इति स्रावपातयोर्भेदो ज्ञेयः ।। २१-२४ ।। तान् दर्शयति- स्वैरिण्य इति । सवर्णे रताः स्वैरिण्यः, असवर्णेऽपि रताः कामिन्यः, तत्राप्यतिचञ्चलाः पुंश्चल्य इति भेदः ।। २५ ।। नियतपुरुष राहित्यं तु सर्वसाधारणमित्याह -या वा इति । बिलायनं बिलरूपमायतनम् | साधयित्वा येऽसाधारणा विलासास्तत्पूर्वको योऽवलोकस्तेन अनुरागयुक्तं यत्स्मितं तेन संलाप उपगूहनं च तदादिभिः स्वैरं यथेष्टं रमयन्ति ॥ २६ ॥ * यस्मिन् हाटकाख्ये रसे उपयुक्त सेविते सति ।। २७-२८ ।। * * * सम्भोगसमर्थ कृत्वा स्वे ५१६ श्रीमद्भागवतम् [ स्कं. ५ अ. २४ श्लो. १३-२० भवयोर्भवस्य भवान्याश्च ।। २९ ।। यत्र वितले चित्रभानुरग्निर्मातरिश्वना पवनेन समिद्धद्यमानः प्रज्वलित ओजसा बलेन तद्वीर्यं पिबति ॥ ३० ॥ * * तन्निष्ठद्यूतं तेनाग्निना उत्कृत्य त्यक्तम् । असुरेन्द्राणामवरोधेषु अन्तःपुरेषु । पुरुषीभिः स्त्रीभिः || ३१ ॥ * * ततोऽधस्तात् सुतले बलिरधुनाप्यास्ते इत्यन्वयः । कोऽसौ बलिरित्यपेक्षायामाह - अदितेः सकाशाल्लब्धकायो भूत्वा स्वरूपमाविष्कृत्य महेन्द्रस्य प्रियं चिकीर्षमाणेन बटुवामनरूपेण भगवता पराक्षिप्तं त्रिपदद्याच्नयाऽ- पहृतं लोकत्रयं यस्य स विरोचनात्मज इत्यन्वयः । तथाऽपहरणे हेतुमाह - उदारश्रवाः धर्मिष्ठतया प्रथितकीर्तिः । अत एव पुण्याः पापनिवर्तकाः श्लोका पद्यानि यस्मिन् सः । एवम्भूताद्वलाद् ग्रहणमयुक्तं मत्वा याच्याऽपहृतमिति भावः । स तत्र कथमास्ते तत्राह - अनुकम्पया पुनर्भगवतैव तत्र प्रवेशित इति । सर्वस्वस्यापहृतत्वात् सम्भोगविहीनः स्यादित्याशङ्कयाह - इन्द्रादिष्व- विद्यमानया सुसमृद्धया श्रियाऽभिजुष्ट इति । तर्हि भोगासक्त्या प्रमत्तः स्यादित्याशङ्कयाह - आराधनीयं तमेव भगवन्तं स्वधर्मेण भगवदुपदिष्टेन आराधयन्निति । तथापि तस्य सर्वस्वापहरणान्मनसि क्षोभः स्यादित्याशङ्कयाह - गतसाध्वस इति ।। ३२ ॥ * * बुद्ध मया तेन यत् त्रिलोकीदानं कृतं तस्येदं फलं जातमिति मन्यमानं राजानं प्रति स्वसिद्धान्तमाह - नो एवैतदिति । यद्विलनिलये सुतले बलिना भुज्यमानमैश्वर्यं तदेतद्भगवति सम्प्रतिपादितस्य भूमिदानस्य त्रिलोकीदानस्य साक्षात्कारः फलं नो एव न भवत्ये- वेत्यन्वयः । कुत इत्यपेक्षायामेवम्भूतस्य दानस्य साक्षान्मोक्षफलकत्वादित्याह - यत्तदेत्युत्कृष्टत्वेन प्रसिद्धं दानं तस्य साक्षादपवर्ग- द्वारस्येत्यन्वयः । कथमस्य दानस्य अत्युत्कर्ष इत्याशङ्कय तत्पात्रस्यालौकिकत्वादित्याशयेनाह - पात्र उपपन्ने प्राप्त इति । अलौकिक- त्वमेव प्रतिपादयति - अशेषेति । अशेषजीवनिकायानां सर्वप्राणिसमूहानां जीवरूपो य आत्मा तद्रूपे । सर्वजीवरूपत्वे जीव दोषा अज्ञत्वादयस्तत्र प्रसज्जेरन्निति शङ्कानिवृत्त्यर्थमाह- परमात्मनीति, जीवानां तदंशत्वात्तदभिप्रायेण जीवरूपत्वमुक्तम् । वस्तुतस्तु परमस्तत उत्कृष्टः तद्दोषासंस्पृष्ट एवेत्यर्थः । अत एव तदन्तर्यामी सदानन्दात्मनि रममाणत्वेन सर्वापेक्षारहितश्चेत्याह- सर्वजीव- नियन्तात्माराम इति । अत एव तीर्थतमे परमपावने । नन्वेवम्भूतस्तु श्रीवसुदेवनन्दनो वासुदेव एव प्रसिद्ध इत्याशङ्कथ सत्यं तस्यैवावतारान्तरत्वादित्याशयेनाह - वासुदेव इति । ननु तथापि श्रद्धाविरहेण दानेऽपि किं स्यात् ‘अश्रद्धया हुतं दत्तं’ इति तस्य । निष्फलत्वश्रवणादित्याशङ्कयाह - परया श्रद्धया परमादरसमाहितेन मनसेति ॥ ३३ ॥ * * त्रैलोक्यदानस्य तु का वार्त्ता क्षुतादिषु विवशोऽपि सकृदपि पुरुषो यस्य नामाभिगृणन् दुर्निवारमपि कर्मबन्धं विधुनोति । वाव एव हेति शास्त्रप्रसिद्धिं सूचयति ॥ ३४ ॥ * * न च कर्मबन्धनिवृत्तिः सुकरेत्यभिप्रेत्याह-यस्येति । यस्य कर्मबन्धस्य प्रतिबाधनमन्यथैव साङ्ख्य- योगाभ्यासमहाक्लेशेनैवोपलभन्ते । एतच्छास्त्रे सुप्रसिद्धमेवेति सूचयितुं निपातद्वयमाह - हैवेति ।। ३५ ।। • ।। श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी S न वेति । एतेषु विवरेषु, वसतां प्राणिनां दिव्यानि यानि औषधिरसर सायनान्नपानस्नानादीनि तैः, तत्रौषधयो नाना- विधौषधिकाः, रसा नानाविधाम्रफलादीनां द्रवाः, रसायनानि मारितपारदादीनि, अन्नानि व्रीहिगोधूमादीनि पानानि माध्वीकादि- पानविधानानि, स्नानानि अभ्यङ्गविधानपूर्वकालवनानि, आधयो मनःपीडाः, व्याधयो रोगाः, वली त्वग्गतो विकारश्च पलितं केशेषु शौचं च जरा एतदुभयमूलभूता जरावस्था चादिर्येषां मतिभ्रंशादीनां ते । तथा, देहवैवर्ण्य च दौर्गन्ध्यं च स्वेदश्च क्लमश्च तैः सहिता ग्लानिः इत्येता वयोवस्थाश्च न भवन्ति वै । देहवैवयं रूपान्तरं दौर्गन्ध्यं दुर्गन्धः पूतिगन्ध इति यावत् । स्वेदः प्रसिद्धः, कुमः श्रमः, ग्लानिरनुत्साहः ॥ १३ ॥ * * न हीति । तथा, कल्याणानां निदुःखानां तेषां बिलस्थानां, कुतश्चन कस्माच्चिदपि, मृत्युः, न हि प्रभवति कोऽपि तान्मारयितुं समर्थो न भवतीत्यर्थः । तर्हि किं तेऽमरास्तत्राह । चक्रापदेशाश्चक्रसंज्ञात्, भगवत्तेजसः विना सुदर्शनाद्विना, अन्यस्मान्मृत्युर्न तस्मात्वस्त्येवेत्यर्थः ॥ १४ ॥ * यस्मिन्निति । यस्मिन् सुदर्शनाखे, प्रविष्टे बिलेषु कृतप्रवेशे सति असुरबधूनां, पुंसवनानि गर्भाः, प्रायः प्रायेण, भयाच्चक्रागतिनिरीक्षणमात्रजन्यभयहेतोः स्रवन्ति स्रावं प्राप्नुवन्ति । पतन्ति पूर्णाः स्युश्चेत्पतन्ति अपि आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः’ इति स्रावपाती ज्ञेयौ ।। १५ ।। * एवं सामान्यतो विवराण्युपवर्ण्याथ विशेषेण विवर्णयिषुस्तावदतलं विवरमनुवर्णयति । अथातले इति । अथेत्यतलसंवर्णनारम्भे । अतले अतलाख्यविवरे, मयपुत्रो मयनामासुरस्य सुतः, बलः नाम असुरः, निवसति । येन बलेनैव, ह वा प्रसिद्धाः, इह लोके, सृष्टाः षण्णवतिः षडधिकनवतिसंख्याकाः, मायाः सन्ति । तासां मध्ये, काश्चन मायाः, अद्यापि मायाविनः केचन मायिनः, धारयन्ति । यस्य बलस्य, जृम्भमाणस्य सतः, मुखतो व्यात्ततदास्यात्, त्रयस्त्रिप्रकाराः स्त्रीगणाः उदपद्यन्त उद्बभूवुः । गणानाह । स्वैरिण्यः सवर्णरताः, कामिन्योऽसवर्णरताः, पुंश्चल्यस्ताभ्योऽप्यतिचञ्चलाः । इत्येते त्रिविधाः ता विशिनष्टि । यास्त्रिविधाः स्त्रियस्ताः वै निश्चितमेव, बिलायनं विवरस्थानं, प्रविष्टं पुरुषं, हाटकाख्येन रसेन रसायनेन साधयित्वा स्ववशीकृत्य, बलायनमिति पाठे, प्रविष्टं स्वबिलमिति शेषः । पुरुषं, याः, हाटकाख्येन रसेन, बलायनं सामयैकाश्रयं, साधयित्वा स्वतृप्तिपर्यन्तसंभोगसमर्थ कृत्वेत्यर्थः । स्वे असाधारणा ये विलासास्ते च अवलोकनं तत्पूर्वकं निरीक्षणं च अनुरागस्मितं अनुरागयुक्तमन्दहासाचरणं च । क्षिणअनुरागस्थित अनुरागयुक्तमन्दहासाचरणं च संलापो रहो भाषणं च उपगूहनमालिङ्गनं च तान्यादयो येषां भ्रूक्षेपादीनां तैः स्वैरं यथेच्छं रमयन्ति किल । यस्मिन् रसे, उपयुक्त सेविते सति, पुरुषो रसोपयोक्ता पुरुषः, आत्मानं स्वम्, अयुतमहा गजबलं अभिमन्यमानः सन् मदान्ध इव, अहम् ईश्वरः अहं स्क. ५ अ. २४ श्लो २१-२८ ] अनेकव्याख्या समलङ्कृतम् , ५२७ सिद्धः, इत्येवं कत्थते स्वं लाघते ॥ १६ ॥ * * एवमतलाख्यं विवरमुपवर्ण्याथ वितलं वर्णयति तत इति । ततः अतलात् अधस्तात्, वितले वितलाख्यद्वितीयविवरे, भगवान् महैश्वर्योपेतः, हाटकेश्वरो हाटकेश्वरनामा, हरो रुद्रः स्वपार्षदभूतगणावृतः स्वपार्षद भूतैः भूतैः गणैः प्रमथादिभिश्च संवेष्टितः सन् प्रजापतिसर्गोपबृंहणाय, अयमर्थो रुद्रोत्पत्तिकाले तृतीयेऽभिहितः । भवान्या सह मिथुनीभूय आस्ते । हाटकेश्वर इति यदुद्रनामाभिहितं तन्निमित्तं स्पष्टयति यत इति । भवयोर्मिथुनीभूतयोर्भवानीभवयोः, वीर्येण हाटकी नाम सरित्प्रवरा यतः प्रवृत्ता । ननु हाटकाख्यसरित्प्रवरायाः प्रभवेऽपि न हाटकप्रभवत्वं तत्राह । यत्र हाटकाख्य- । नद्यां, चित्रभानुरग्निः मातरिश्वना वायुना समिध्यमानः सम्यगुद्दीप्यमानः सन्, ओजसा पिबति । तद्रसमिति शेषः । तन्निष्ठ्यूतं तेनाग्निना फूत्कृत्य त्यक्तं, हाटकाख्यं सुवर्णं, असुरेन्द्राणां विवरवासिनामसुरश्रेष्ठानामवरोधाः अन्तःपुराणि तेषु पुरुषीभिः स्त्रीभिः सह, पुरुषाः भूषणेन नानाविधाभरणेन धारयन्ति । भूषणानि कारयित्वा स्वाङ्गेषु धारयन्तीत्यर्थः । हाटक्या अन्ततो हाटकाख्य- सुवर्णरूपेण परिणामात्तत्प्रभवोऽपि हाटकेश्वर इत्युच्यत इति भावः ॥ १७ ॥ * * अथ सुतलाख्यं बिलमनुवर्णयति । तत इति । ततो वितलात्, अधस्तात् सुतले सुतलाख्ये तृतीये बिले, उदारश्रवाः विपुलकीर्त्तिः, पुण्यश्लोकः पवित्रयशाः स्मरतां पुण्यापादकयशःसम्पन्न इत्यर्थः । महाभागवतो भागवताग्रगण्यः, विरोचनात्मजः विरोचनसुतः बलिः, महेन्द्रस्य प्रियं चिकीर्ष- माणेन प्रियं कर्तुमिच्छतेत्यर्थः । अदितेः सकाशात् भूत्वा, बटुवामनरूपेण लब्धः कायो देहो येन सः एवंविधेन तेन, भगवता पराक्षिप्तं प्रथममपहृतं लोकत्रयं यस्य सः, पुनः भगवतः अनुकम्पया एव, प्रवेशितः सुतलविवरे प्रवेशं कारितः, इन्द्रादिषु अविद्यमानया इन्द्रादीनामप्यतिदुर्लभया, सुसमृद्धया, श्रिया सम्पदा, जुष्टः सेवितः, अपगतं साध्वसं प्रतिपक्षभयं यस्य सः, आराधनीयं तमेव स्वसर्वस्वापहर मेव भगवन्तं, स्वधर्मेण आराधयन्सन, अधुनापि आस्ते || १८ | * केचित्तस्य यदिदं सुतलराज्यमभवत्तद्भगवते दत्तस्य भूमिदानस्य फलमिति मन्यन्ते तान्निराकुर्वन् सर्वसंपत्समृद्वमस्य यदेतत्सुतलाधिपत्यं तद्भूदान- फलमिति न मन्तव्यमित्याह नो एवैतदिति । यत् बिलनिलये विवरस्थाने ऐश्वर्यं तत् एतत् भगवति षाड्गुण्यपूर्णे, अशेषजीवनिकायानां सकलभूतजातानां, जीवाः ये प्रत्यगात्मानस्तेषामध्यात्मभूतस्तस्मिन् परमात्मन्यन्तः प्रविश्य धारके तीर्थतमे पावनतमे, यद्यस्मिन् वासुदेवे पात्रे उपपन्ने समीपं प्राप्ते सति, तस्मिन्वासुदेवे परया निरवधिकातिशयया श्रद्धया कर्तव्यविषयया त्वरया, परमादरसमा- हितमनसा सर्वोत्तमादरैकाग्रीकृतेन मनसा, संप्रतिपादितस्य कृतस्य, साक्षादपवर्गद्वारस्य साक्षान्मोक्षसाधनभूतस्य भूमिदानस्य, साक्षात्कारः फलं नो भवत्येव ॥ १९ ॥ * * भगवतस्तीर्थतमत्वमुपपादयति यस्येति । यस्य ह वा व यस्य हि भगवतः, नाम सकृदपि च पतनं च प्रस्खलनं च तान्यादयो येषां तेषु, विवशः सन्नपि, अभिगृणन्नुच्चारयन् पुरुषः कर्मबन्धनं कर्मरूप बन्धं अञ्जसा सुखेन, विधुनोति निरस्यति । सकृत्स्मरणमात्रेणापि समस्तवृजिननिरासक्षमनामवतो भगवतस्तीर्थतमत्वं कैमुत्यनय- सिद्धमिति भावः । कर्मबन्धं विशिनष्टि यस्य हैव इति । यस्य हैव यस्य कर्मबन्धस्यैव, प्रतिबाधनं निरसनोपार्य, मुमुक्षवः अन्यथा कर्मयोगज्ञानयोगादिरूपेण एव, उपलभन्ते जानन्ति । यद्वा यन्निवृत्त्यर्थं योगसांख्यादिक्केशाननुभवन्तीत्यर्थः । तत्कर्मबन्धन विधुनोतीति पूर्वेणान्वयः ॥ २० ॥ritsar ।। ।। भाषानुवादः الله इन लोकोंके निवासी जन औषधि, रस, रसायन, अन्न, पान और स्नानादिका सेवन करते हैं, वे सभी पदार्थं दिव्य होते हैं; इन दिव्य वस्तुओंके सेवनसे उन्हें मानसिक या शारीरिक रोग नहीं होते । तथा झुर्रियाँ पड़ जाना, बाल पक जाना, बुढ़ापा आ जाना, कान्तिहीन हो जाना, शरीरमेंसे दुर्गन्ध आना, पसीना, चूना, थकावट अथवा शिथिलता आना तथा आयुके साथ शरीरकी अवस्थाओंका बदलना - ये कोई विकार नहीं होते। वे सदा सुन्दर, स्वस्थ, जवान और शक्तिसम्पन्न रहते हैं ।। १३ ।। * * उन पुण्यपुरुषोंको भगवान् के तेजरूप सुदर्शन चक्र के सिवा और किसी साधन से मृत्यु नहीं हो सकती ।। १४ । * सुदर्शन चक्रके तो आते ही भय के कारण असुररमणियों का गर्भस्राव और गर्भपात हो जाता है ॥ १५ ॥ * * अतल लोक में मयदानवका पुत्र असुर बल रहता है। उसने छियानबे प्रकारकी माया रची है। उनमेंसे कोई-कोई आज भी मायावी पुरुषोंमें पायी जाती है। उसने एक बार जँभाई ली थी, उस समय उसके मुखसे स्वैरिणी (केवल अपने वर्णके पुरुषों में रमण करनेवाली), कामिनी ( अन्य वर्णोंके पुरुषोंसे भी समागम करनेवाली ) और पुंश्चली ( अत्यन्त चचल स्वभाववाली )-तीन प्रकारकी स्त्रियाँ उत्पन्न हुईं। ये उस लोकमें रहनेवाले पुरुषोंको हाटक नामका रस पिलाकर सम्भोग करनेमें समर्थ बना लेती हैं । और फिर उनके साथ अपनी हाव-भावमयी चितवन, प्रेममयी मुसकान, प्रेमालाप और आलिङ्गनादिके द्वारा यथेष्ट रमण करती हैं । उस हाटक - रसको पीकर मनुष्य मदान्ध-सा हो जाता है और अपनेको दस हजार हाथियों के समान बलवान् समझकर ‘मैं ईश्वर हूँ’ ‘मैं सिद्ध हूँ’ इस प्रकार बढ़-बढ़कर बातें करने लगता है ॥ १६ ॥ * उसके नीचे बितल ।
- ‘आचतुर्थाद्भवेस्स्रावः पातः पञ्चमषष्ठयोः अर्थात् चौथे मासतक जो गर्भ गिरता है, उसे ‘गर्भस्राव’ कहते हैं तथा पाँचवें और छठे मासमें गिरने से वह ‘गर्भपात’ कहलाता है । ५२८ श्रीमद्भागवतम् [ स्कं. ५ अ. २४ इलो. २१-२८ लोक में भगवान् हाटकेश्वर नामक महादेवजी अपने पार्षद भूतगणोंके सहित रहते हैं । वे प्रजापतिकी सृष्टिकी वृद्धि के लिए भवानीके साथ विहार करते रहते हैं । उन दोनोंके तेजसे वहाँ हाटकी नामकी एक श्रेष्ठ नदी निकली है। उसके जलको वायुसे प्रज्वलित अग्नि बड़े उत्साहसे पीता है। वह जो हाटक नामका सोना थूकता है, उससे बने हुए आभूषणों को दैत्यराजोंके अन्तःपुरमें स्त्री-पुरुष सभी धारण करते हैं ।। १७ ।। * * वितलके नीचे सुतल लोक है । उसमें महायशस्वी पवित्रकीर्ति विरोचनपुत्र बलि रहते हैं । भगवान्ने इन्द्रका प्रिय करनेके लिए अदिति के गर्भसे बटु वामनरूपमें अवतीर्ण होकर उनसे तीनों लोक छीन लिए थे। फिर भगवान् की कृपासे ही उनका इस लोकमें प्रवेश हुआ । यहाँ उन्हें जैसी उत्कृष्ट सम्पत्ति मिली हुई है, वैसी इन्द्रादिके पास भी नहीं है । अतः वे उन्हीं पूज्यतम प्रभुकी अपने धर्माचरण द्वारा आराधना करते हुए यहाँ आज भी निर्भयतापूर्वक रहते हैं ॥ १८ ॥ * * राजन् ! सम्पूर्ण जीवोंके नियन्ता एवं आत्मस्वरूप परमात्मा भगवान् वासुदेव जैसे पूज्यतम, पवित्रतम पात्रके आनेपर उन्हें परम श्रद्धा और आदर के साथ स्थिर चित्तसे दिये हुये भूमिदानका यही कोई मुख्य फल नहीं है कि बलिको सुतल लोकका ऐश्वर्य प्राप्त हो गया । यह ऐश्वर्य तो अनित्य है । किन्तु वह भूमिदान तो साक्षात् मोक्षका ही द्वार है || १९|| * * भगवानका तो छींकने, गिरने और फिसलनेके समय विवश होकर एक बार नाम लेने से भी मनुष्य सहसा कर्म बन्धनको काट देता है, जब कि मुमुक्षुलोग इस कर्मबन्धनको योगसाधन आदि अन्य अनेकों उपायों का आश्रय लेनेपर बड़े कष्टसे कहीं काट पाते हैं ।। २० ।। ।। तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥ २१ ॥ न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ २२ ॥ यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृत- स्वशरीरावशेषितलोकत्रयो वरुणपाशैश्र सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ।। २३ ।। नूनं बतायं भगवा- नर्थेषु न निष्णातो योsसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय’ स्वयमुपेन्द्रेणात्मानमयाच- तात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं क्रियल्लोकत्रयमिदम् ॥ २४ ॥ यस्यानुदास्य- मेवास्मत्पितामहः किल वत्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपर ते खलु स्वपितरि ।। २५ ।। तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिग- मिषतीति ।। २६ ।। तस्यानु चरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदा- पाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ।। २७ ॥ ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुर- त्रयस्तत्प्रसादाल्लब्धपदो ‘मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८ ॥ अन्वयः – तत् भक्तानाम् सर्वेषाम् आत्मवताम् आत्मदे आत्मनि आत्मतया एव ।। २१ ।। * भगवान् अमुष्य नूनम् न वै अनुजग्राह उत यत् पुनः आत्मानुस्मृतिमोषणम् मायामयभोगैश्वर्यम् एव अतनुत इति ॥ २२ ॥ * * अनधि- गतान्योपायेन भगवता याच्याछलेन अपहृतस्वशरीरा वशेषितलोकत्रयः च वरुणपाशैः संप्रतिमुक्तः गिरिदर्याम् अपविद्धः यत् तत् अपहृतस्वशरीरावशेषितलोकत्रयः इति ह उवाच ॥ २३ ॥ * * यः असौ इन्द्रः यस्य मंत्राय वृतः एकांततः बृहस्पतिः सचिवः अयम् भगवान् नूनम् अर्थेषु न निष्णातः बत तम् अतिहाय स्वयम् उपेंद्रेण आत्मानम् आत्मनः आशिषः अयाचत तद्दास्यम् नो एव अतिगंभीरवयसः कालस्य मन्वन्तर परिवृत्तम् इदम् लोकत्रयम् कियत् ॥ २४ ॥ अस्मत्पितामहः स्वपितरि उपरते यस्य अनुदास्यम् एव किल वत्रे उत भगवता दीयमानम् अकुतोभयम् स्वपित्र्यम् यत् पदम् तु भगवतः परम् इति मत्वा न खलु अयाचत ।। २५ ॥ ** अमृजितकषायः परिहीणभगवदनुग्रहः * * अस्मद्विधः कः वा महानुभावस्य तस्य अनुपथम् उपजिगमिषति इति ।। २६ ।। तस्य अनुचरितम् उपरिष्टात् विस्तरिष्यते निजजनानुकम्पितहृदयः भगवान् अखिलजगद्गुरुः नारायणः स्वयम् गदापाणिः यस्य द्वारि अवतिष्ठते येन दिग्विजये अंगुष्ठेन पदा दशकन्धरः योजनायुतायुतम् उच्चाटितः ॥ २७ ॥ $ * ततः अधस्तात् तलातले त्रिलोकीशम् चिकीषुणा पुरारिणा भगवता निर्दग्धस्वपुरत्रयः तत्प्रसादात् लब्धपदः मायाविनाम् आचार्यः त्रिपुराधिपतिः मयः नाम दानवेन्द्रः महादेवेन परिरक्षितः विगतसुदर्शनभयः महीयते ।। २८ ॥ १. प्रा० पा० – मन्त्राय एकान्ततो वृतो बृह० । २. प्रा० पा०-हायोपेन्द्रेणत्मानमाशिषो नो एव तदनुदास्यमति० । ३. प्रा० पा० ग्रहमुपजि० । ४. प्रा० -मुत्तरस्माद्विस्तरिष्यते यद्भगवान् । ५० प्रा० पा० त्रिपुरारिणा त्रिलोक्यर्थं । ६. प्रा० पा० - मायानामाचार्यो ।रुक. ५ अ. २४ श्लो. २१-२८ ] । अनेकव्याख्यासमलङकृतम् श्रीधरस्वामिविरचिता भावार्थदीपिका ५२९ तत्तस्मिन्भगवति भक्तानां ज्ञानिनां च यथायथमात्मन्यात्मदे ज्ञानदे चात्मतयैव समर्पितस्य भूमिदानस्य न तत्फलमिति पूर्वेणैव सम्बन्धः ॥ २१ ॥ * * कि च । नेदं भगवदनुकम्पाफलमपि किं त्वेकान्तभक्तस्य तस्यान्तरायमात्रमित्याह नेति । भगवानमुष्य अमुं नैवानुगृहीतवान् । तत्र हेतुः । यदुतेति आत्मन ईश्वरस्यानुस्मृति मुष्णातीति तथा । तदुक्तम् " वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्” इति ।। २२ ।। 8 तस्यैकान्तभक्ति सप्रपचामाह । यत्तदतिप्रसिद्धमिति वक्ष्यमाणमुवाच हेत्यन्वयः । कथंभूतः । अनधिगतोऽन्य उपायो येन तेन भगवता याच्या च्छलेनापहृतं स्वशरीर- मात्रावशेषितं लोकत्रयं यस्य । सम्यक् प्रतिमुक्तो बद्धः अपविद्धः प्रक्षिप्तोऽपि सन् ।। २३ ।। * बतेति खेदे | भगवान्विद्वा- नपि योऽसाविन्द्रो यस्यैकान्तेन बृहस्पतिः सचिवः सहायो यतो मन्त्रार्थं वृतः सोऽपि पुरुषार्थेषु नूनं न निष्णातो न निपुणः यतः उपेन्द्रेण द्वारभूतेन तमुपेन्द्रं विहायात्मानं मां लोकत्रयमयाचत तं मन्त्रपदं बृहस्पतिमतिहायेति वा । तस्मिन्प्रसन्ने स एव वरणीयो न लोकत्रयं यतस्तदतितुच्छमित्याह । अतिगम्भीरमनन्तं वयो यस्य तस्य कालस्य यन्मन्वन्तरं तेन परिवृत्तं विपर्यस्तं लोकत्रयमिदं कियत् ॥ २४ ॥ * प्रह्लादस्त्वेक एवार्थे निष्णात इत्याह यस्यानुदास्यमिति । स्वपितरि उपरते मृते सति स्वपित्र्यं पदं भगवता दीयमानमपि भगवतः खलु परमन्यदिति कृत्वा न तु जमाहेत्यर्थः ।। २५ ।। * * ननु त्वमतिवीरः कुतस्तमेव बहु मन्यसे तत्राह । तस्यानुपथमनुवर्त्म । अमृजिता अक्षीणाः कषाया रागादयो यस्य । परिहीणो भगवदनुग्रहो यस्य । स को वा उपगंतुमिच्छ- तीति ।। २६ ।। * * अथ शुकोक्तिः । नन्वेवंभूतश्चेद्बलिस्तर्हि तस्यैव चरितं विस्तरेण कथ्यतां तत्राह । तस्य बलेरनुचरित- मुपरिष्टादष्टमे विस्तरिष्यते । यस्य द्वार्यवतिष्ठते निजजनेष्वनुकंपितं कृतानुकंप हृदयं यस्य । द्वारपालकर्म दर्शयति । येन श्रीनारायणेन बलेद्वारि विशन्दशकंधर उच्चाटितः । केन पदा तत्राप्यंगुष्ठेनैव ।। २७ ।। * यथा हरिणा स्वभक्तो बलिः सुतले निहितः सुखमास्ते एवं महादेवभक्तोऽपि मयस्तलातले सुखमास्त इत्याह- तत इति । लब्धं पदं स्थानं येन । महीयते पूज्यते ॥ २८ ॥ 1 श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः
" तत्तस्मात्सर्वेषामात्मनि परमेश्वरे प्रतिपादितस्य न तत्फलमिति पूर्वेणैवान्वयः । कथंभूते भगवतां नारदादीनां भक्तानामा- त्मदे वशीभूयात्मानमपि दत्तवति आत्मवतां सनकादीनां ज्ञानिनामात्मत मे परमात्मानुभवरूपे इति क्रमेण प्रेमानन्द ब्रह्मानन्द- दायिनस्तस्य तद्विषयानंदमात्र फलदायित्वं कथं घटेतातो बलिराजाय स्ववशीकारमेव प्रेमानंदं खलु भूमिदानस्य फलं ददौ, यतः स्वभक्तस्य तस्यं स्वयं द्वारपालो बभूवेति भावः ॥ २१ ॥ ॐ परमतमनूद्य खंडयति-न वा इति । यन्मायामयभोगैश्वर्यमतनुत तेनामुं बलिं प्रत्यनुजग्राहेति न किन्तु स्वसान्निध्यादिनैवेत्याह-किश्चेति । वस्तुतस्तु भोगैश्वर्यन्न भगवदनुकंपाफलमतो भोगैश्वर्य- दानादेवेंद्रस्यैकांतिकभक्त्यभावोऽनुमीयते इत्याह- नेति । अमुष्य अमुमिंद्रम् । तथा च बलिमेवैकांतभक्तमनुजग्राहेति भावः । भोगैश्वर्यस्यातरायत्वे पुरांणातरसंमतिमाह-तदुक्तमिति ॥ २२ ॥ ॐ * बलेस्त्वैकांतिकी भक्तिर्भगवदनुग्रहप्राप्तिश्च तद्वचनेनैव व्यक्तीबभूवेत्याह-तस्यैकांतेत्यादि ॥ २३ ॥ सोऽपि बृहस्पतिरपि न निष्णातः । यस्मादिद्रं प्रति युक्तं नोपदिदेशेति भावः । तमुपेंद्रं विहायेति । तमेव कथं नायाचत यद्ययाचिष्यत तदा किं स दातुं नापारयिष्यत् स्वप्रभुं तं याचकं कथमकरोदिति भावः । तत्राप्याशिषो विषयसुखानीति परममोहांध इव स इति भावः । स्वेष्टदेवस्य न्यूनकर्मणि प्रेरणं सर्वथानुचितमित्याह- यद्वेति । तं बृहस्पतिमतिहायेति । बृहस्पतिं प्रेष्य तेनैव मां कथं नायाचत यदि बृहस्पतिर्मामयाचिष्यत तदा तस्मै ब्राह्मणाय त्रिलोकीं किं नादास्यं कथं स्वेष्टदेवं तं याचकमकरोदिति भावः । तस्मिन् भगवति ।। २४ ।। * * “अनुदास्यं नय मां निजभृत्यपार्श्वम्” इत्यनेन तद्दास्यदास्यम् । स्वपित्र्यं त्रैलोक्यराज्यं यदुत अकुतोभयं पदं मोक्षं तत्तन्न वत्रे कथं भगवतः परमन्यदिति कृत्वा तदंशाभास- तदंशमात्रात्मकत्वात्तयोः । कदैवं व्यवहृतमित्याकांक्षायामाह भगवतेति । इत्यर्थ इति । राज्याभिनिवेशाद्भगवदनुरागादि नश्येदिति भावः ॥ २५ ॥ * अत्राक्षिपति नन्विति । तस्य प्रह्लादस्य न कोपीति भावः ॥ २६ ॥ * विशन् दिग्विजया- वसरे । उच्चाटितः प्रक्षिप्तः । अयुतायुतं कोटिः । यत्तूत्तरकांडे वाल्मीकीये उक्तं ‘नैनं हन्म्यधुना पापं चिंतयित्वेति रूपधृक् । अंतर्द्धानं गतो राम ब्राह्मणः प्रियकाम्यया । न च तं पुरुषं तत्र पश्यते रजनीचरः । हर्षान्नादं विमुञ्चन्वै निष्क्रामद्वरुणालयात् ॥ येनैव स प्रविष्टः स पथा तेनैव निर्ययौ” इति तत्कल्पांतराभिप्रायमिति ध्येयम् ॥। २७ ॥ * * ततः सुतलात् ॥ २८ ॥ ।। ।। ।। / श्रीमद्वीरराघवव्याख्या ननु यद्येतद्दानमपवर्गद्वारं यदि वा बलिमहाभागवतः यदि वा भगवानात्मदस्तर्ह्यस्यापवर्गमेव प्रदाय किं नानुजग्राहेत्य- पेक्षायामभ्युपगतप्रारब्धस्य विद्ययाऽविनाश्यस्यावश्यानुभाव्यत्वादेनमपवर्गदानेन न तदेवानुजग्राह किं त्वभ्युपगतप्रारब्धफल- बिलनिलयनैश्वर्यमेवादादित्याह न वा इति । भगवानमुष्य बलेर्न निजग्राह तदेवानुग्रहं न कृतवान् आत्मानुस्मृतिमोषणं स्वविषयस्मृतिघातकं स्वमायाया विलसितं भोगरूपमैश्वर्यं भोगनिमित्तं वा ऐश्वर्यं बिलनिलयनैश्वर्य तदेवातनुत तेने दत्तवा- नित्यर्थः ॥ २२ ॥ * * महाभागवत इत्यनेन भगवद्दास्ये एवाभिलाषित्वं विवक्षितं तत्तस्य तदुक्तयैव स्पष्टयितुमाह यदिति । ६७ ५३० श्रीमद्भागवतम् ? [ स्कं. ५ अ २४ श्लो. २१-२८ यत्तत्प्रसिद्धमिति वक्ष्यमाणमुवाचेत्यन्वयः । कथम्भूतः अनधिगतः अरब्धः अन्यः याच्येतरः उपायो येन तेन भगवता बलेर्भागवत- त्वाद्दण्डनानर्हत्वादुपायान्तराभावादनधिगतान्योपायेनेत्युक्तम्, एवंभूतेन भगवता याच्याव्याजेनापहृतं स्वशरीरमात्रावशेषित- मुर्वरितस्वशरीरमात्रं यल्लोकत्रयं तद्यस्य तथाभूतः स्वव्यतिरिक्तभगवदपहृतलोकत्रय इत्यर्थः, वरुणपाशैश्च प्रतिमुक्तः प्रतिश्रुतार्थन्यूनतायां वरुणपाशैः प्रतिबद्ध इत्यर्थः । गिरिर्यामपविद्धः प्रक्षिप्तोऽपि सन् ॥ २३ ॥ * * उक्तिमेवाह नूनमिति । बतेति खेदे, भगवान् विद्वानप्यसाविन्द्रः पुरुषार्थेषु नूनं न निष्णातः न कुशलः पुरुषार्थेषु तारतम्यानभिज्ञ इत्यर्थः, यस्यैकान्तेन बृहस्पतिः सचिवः सहायो मन्त्रायालोचनाय वृतः सोऽपि पुरुषार्थेषु नूनं न निष्णातः अनिष्णातः । अनिष्णातत्वमेवाह तमिति । यतस्तं पुरुषार्थरूपं भगवन्तमतिहाय तद्दास्यमयाचतेत्यर्थः, तं मन्त्रप्रदं बृहस्पतिमतिहायेति वा उपेन्द्रेणेन्द्रावरजरूपेण श्रीवामनेन द्वारभूतेनेन्द्र एवात्मानं मामात्मनः स्वस्याशिषः लोकत्रयरूपा याः आशिष अयाचत याचितवान्न त्वेतस्य भगवतो दास्यमयाचतेत्यर्थः । तस्मिन् प्रसन्ने तद्दास्यमेव याचितव्यं न त्वितरदल्पमित्याह । अतिगम्भीररंहसः निरतिशयगम्भीरवेगस्य कालस्य वश्यमिदं मन्वन्तर परिवृत्तं मन्वतरपर्यन्तवर्तिलोकत्रयं लोकत्रयाधिपत्यं कियदत्यल्पमेतदित्यर्थः, अतस्तन्न याचितव्यमिति भावः । अत इन्द्रः पुरुषार्थेषु न निष्णातः ॥ २४ ॥ * * अस्मत्पितामहस्तु प्रह्लादः एक एव पुरुषार्थेषु निष्णात इत्याह यस्येति । अस्मत्पितामहः प्रह्लादो यस्य भगवतोऽनुदास्यं दासानुदासत्वमेव वृतवान्किल न तु स्वपितुर्हिरण्यकशिपोः सम्बन्धि ऐश्वर्य्यम्, अवरणहेतुं तस्याभिप्रायं प्रकाशयति यदुतेति । भगवता नृहरिणा स्वपितरि हिरण्यकशिपौ उपरते हते सति भगवता दीयमानमपि स्वपित्र्यं न वत्रे । कुतः यद्यस्मात्परिमितमिति परिमितत्वात्पित्र्यं न वव्रे उतापि त्वकुतोभयं पदं वत्रे स्वयं देहावसाने मुक्तिं याचितवानित्यर्थः । भगवतः परमिति पाठे भगवतोऽन्यदिति पित्र्यं न वत्रे इत्यर्थः ।। २५ ॥ * * मक्षिकेव गरुत्मतो गतिं को वा तस्य प्रह्लादस्य पन्थानमनुसर्तुं शक्नोतीत्याह-तस्यातः को वा अमृदिता अनुपहताः कषायाः कर्मबन्धा येन परिक्षीणः अपसृतः भगवदनुग्रहो यस्य तथाविधोऽस्मद्विधो मादृशः पुमान् तस्य महानुभावस्य प्रह्लादस्यानुपथं पन्थानमुपजिगमिषति उपगन्तुमिच्छति इति ।। २६ ।। * * नन्वेवम्भूतश्चेद्बलिस्ततस्तस्यैव चरितं विस्तरेणोच्यतां तत्राह । तस्य बलेरनुचरितमुपरिष्टादष्टमे विस्तरिष्यते विस्तरेण कथयिष्यत इत्यर्थः । कात्स्न्येन तत्प्रभावः केनापि वर्णयितुं न शक्य इत्यभिप्रायेण पुनस्तमेव विशिनष्टि ग्रस्येति । यस्य बलेद्वारि भगवानवतिष्ठते कथम्भूतः स्वयमखिलजगतां गुरुः, अनेन द्वारपालकत्वानर्हता सूच्यते, नारायणः सर्वशेषी अनेनापि तदेव सूच्यते एवंभूतो ह्याश्रितवात्सल्यवशो गदापाणिः सन् । गदापाणि तं भगवन्तं विशिनष्टि-येन गदापाणिना बलेर्द्वाःस्थेन भगवता कर्त्रा अङ्गुष्ठेन पदा पादावयवेनाङ्गुष्टेन दिग्विजयसमये स्वसमीपमागतो दशकन्धरो रावणो योजनायुतानामयुतम् उच्चाटितः उच्चाटनं प्रापितः । दिग्विजयं कुर्वन् रावणः कदाचिद्वलेर्द्वारि विशन् द्वाःस्थेन गदाभृता भगवता बहुदूरतः क्षिप्त इति श्रीरामायणादौ प्रसिद्धम् ॥ २७ ॥ * * एवं सुतलमुपवर्ण्याथ तलातलं वर्णयति तत इति । ततः सुतलादधस्तात्तलातले. विवरे मयाख्यो दानवेन्द्रः महीयते तलातलस्थैर्बहुमन्यत इत्यर्थः । कथंभूतः प्रथमं त्रिपुराधिपतिर्भूत्वा त्रिलोक्यां शं सुखं कर्तुमिच्छता भगवता त्रिपुरारिणा रुद्रेण निर्दग्धं पुरत्रयं यस्य तस्य पुरारेः प्रसादाल्लब्धं पदं तलातलाख्यं विवरं यस्य स मायाविनामाचार्यो मायातन्त्रोपदेष्टा महादेवेन रुद्रेण परिरक्षितो विगतं सुदर्शनाद्भयं यस्य तथाभूतः सन् सुदर्शनभक्कमता महादेवेन परिरक्षितत्वा-. द्विगतसुदर्शनभय इत्युक्तम् ॥ २८ ॥ । श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली । 2 भगवन्नामात्मदं चेत्तन्नामजापिनो मनुष्यान् किमिति नानुजग्राह भगवानित्याशङ्क्य भक्तिज्ञानाद्यतिशयाभावादित्यभि- प्रेत्याह न वा इति । नूनशब्दसामर्थ्यादत्र मनुष्यशब्देन सृतियोग्या गृह्यन्ते मनुष्यानुद्दिश्य नानुजग्राह प्रस्तुत्वादेतादृशमैश्वर्यमिति शेषः, तह्यत्मदानलक्षणमोक्षमनुजग्राह किन्नेत्याह यदिति । पूर्ववाक्यस्थितननः अध्याहारः कर्तव्यः । यत्पुनरात्मानुसंसृतिमोक्षणं तत् “यवाग्वा अपि सन्देहे कोकुन्दस्य तु का कथा” इतिवन्नानुजग्राहेति किमुत तर्हि तन्नामोपासनं व्यर्थ किमिति नेत्याह मायामयेति । मायामयं प्रकृतिनिर्मितं नश्वरं न त्वनश्वरमित्येवार्थः ।। २२ ।। * इतो भक्त्याद्यतिशय एवैश्वर्ये निमित्तं यतो राज्यापहरणादिलक्षणापकारिणि हरौ भक्प्रतिशया दरीदृश्यते बलेदरीलक्षणकारागृहे निवसतस्तेन बद्धप्रमुक्तस्य न हि मनुष्याणामेतादृश्यामापद्येतादृशी या भक्तिः समस्तगुणेष्वसूयिनामित्याशयवानाह यत्तदिति । न अधिगतो भिक्षाव्यतिरेकेणान्यः सुखसाध्य उपायो येन स तथा तेन भगवता याच्याव्याजेनाहृतं स्वशरीरावशेषितं लोकत्रयं यस्य स तथा भगवदाज्ञया गरुडेन प्रथमं वरुणपाशैर्बद्धश्चशब्दाद् ब्रह्मादीनां याच्या पश्चान्मुक्तः पुनश्च त्वया प्रतिश्रुतं दत्वैव गन्तव्यमिति तेन कारागृह इति गिरिदर्यामपविद्ध इव निरुद्धो बलिरिति वक्ष्यमाणप्रकारेण जगाद ॥ हेत्यनेन प्राणात्ययेऽपि भगवद्भक्ति न मुखामीत्यभिसन्धि दर्शयतीति यद्यस्मात्तस्मान्मनुष्यान्नानुजग्राहेत्युच्यते ॥ २३ ॥ इन्द्रस्य सचिवो बुद्धिसहायभूतो यदा योऽसौ बृहस्पति- रस्मत्सन्धानार्थमिन्द्रेण प्रेषित एकान्ततो मन्त्राय धृतः सन्नद्धस्तदा तमप्यविहाय सन्धानात्पूर्वमेव समागत्य ममार्थेषु स्वपादसेव- नाद्यभिप्रायेषु निष्णातस्तत्सेवनादिकमेव दातुमुद्युक्तोऽयं भगवान् स्वयमुपेन्द्रेण बटुवामनरूपेणात्मने स्वस्मै त्रीणि पदान्यतदहं याचनायोग्यं मामयाचत नो एवाशिष इति यत्तस्यायमभिप्रायः - इदं लोकत्रयं चतुर्दशभुवनापेक्षया कियदल्पं हि तदपि कालग्राह- ‘स्कं. ५ अ. २४. २१-२८ ] अनेकव्याख्यासमलङ्कृत्नम् ५३१ प्रस्तमित्याह । गम्भीरवेगस्य महतः कालस्य मन्वन्तरलक्षणावयवमितमत एवानित्यं तस्मादैश्वर्यनिमित्तमदो न स्यादित्यस्मै बलये राज्यं न दास्यामीति त्रिपदच्छलेनापहृतं नूनं निश्चितं बत भक्ते मय्यनुकम्पया " यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनैः” इत्यादि- स्ववचनात् ॥ २४ ॥ * * हरेरिममभिप्रायमस्मत्पितामह एव वेत्ति न मादृश इत्याह यस्येति । स्वपितरि हिरण्यकशिपु- नाम्नि विरमिते मृते भगवता दीयमानं स्वपित्र्यं पितृधनत्वाद्योग्यमपि यदकुतोभयं निहतकण्टकत्वात् पदं राज्यलक्षणं तन्न वत्रे किन्तु यस्य हरेरनुदास्यं सेवाख्यमेव वत्रे । कोऽसावित्यस्मत्पितामहः प्रह्लादः तस्य चास्माकं महदन्तरमस्तीत्याह तस्येति । तस्य प्रह्लादस्यानुगमनमनुवर्तितुमस्मादृशः पुरुषः को वालं न कोऽपीत्यर्थः । कीदृशः परिहीणः भगवदनुग्रहो यस्य स तथा अमृदितकषायो- Sनिरस्तपापो नालमिति किं वक्तव्यमित्यर्थः । इतिशब्दो वाक्यसमाप्तौ वर्तते ।। २५-२६ ।। तस्य प्रह्लादस्य उत्तरस्मात् सप्त इदं श्रीशुकवाक्यं पुनरपि हरेर्भक्तानुकम्पितत्वमाह यस्येति । वामनाख्यो नारायणः स्वदत्तात् वरात्तथावस्थानमिति द्योतयि- तुमवतिष्ठते इति आत्मनेपदप्रयोगः, अखिलजद्गुरुत्वमुपपन्नं तस्यापदि स्वपाद प्रणतजनरक्षकत्वेनेत्यभिप्रेत्याह येनेति । रावणस्य दिग्विजये उच्चाटितः प्रक्षिप्तः दूरीकृत इत्यर्थः । एवंविधस्य हरेर्भक्तजनप्रयोजनार्थितया नापीन्द्रस्य राज्यदानेच्छयास्मद्राज्यापहरण- लक्षणं कार्यं नान्यदिति वाक्यशेषः ।। २७ ।। * शं सुखं महीयते स्वभृत्यैरिति शेषः ।। २८ ।। Auto श्रीमजीवगोस्वामिकृतः क्रमसन्दर्भः तद्भगवतामिति । तत्तु तस्य दानं न चान्यस्मिन्न फले निमित्ते तत्र सर्वेषामात्मनि परमात्मनि तथापि ज्ञानिनां विविक्ततया तत्तास्फुरणादात्मतमे भक्तानां त्वात्मदे वशवर्त्तितया स्फुरतीति सर्वथा सर्वेषु परमोपकारकस्वभावत्वं दर्शितम् । ततस्तेनैतादृशतुच्छ फलदानं न सम्भवतीत्यर्थः । तत्र परमतमनूय खण्डयति न वै इति । यन्मायामयं भोगैश्वर्यमतनुतेति नैवामुं बलिं प्रत्यनुजग्राहेति नै किन्तु स्वसान्निध्यदानादिनैवेत्यर्थः, तत्र हेतुः आत्मानुस्मृतिमोषणमिति । यद्वा तत्रेन्द्रानुग्रहवादं खण्डयति । नं वै इति । अमुष्य इन्द्रस्य तं प्रतीत्यर्थः ॥ २१-२२ ।। तत्र श्रीबलिवाक्यमेव प्रमाणयति । यत्तदिति गद्यपचकेन बत्तदतिप्रसिद्धम् । इति एतदुवाच श्रीबलिः ।। २३ ।। * * तमुपेन्द्रमतिहाय पुरुषार्थत्वेनानभिलष्य स्वयमुपेन्द्रेणैव द्वारभूतेन आत्मानं मां परमक्षुद्रं लोकत्रयमयाचते । ‘अनुदास्यं नय मां निजभृत्यपार्श्वमित्यनेन तद्दासदास्यम् ।। २४ ।। * * स्वपित्र्यं त्रैलोक्यराज्यं यदुत अकुतोभयं पदं मोक्षं तत्तन्न तु वत्रे । कथं भगवतः परमन्यदिदमिति कृत्वा तदंशाभासतदंशमात्रात्मक- त्वात्तयोः कदैवं व्यवहृतमित्याशङ्कयाह भगवतेति ।। २५ । ४ ४ परि सर्वतो भावेन हीनस्त्यक्तो नात्यादृतो भगवदनुग्रहों येन सः । अनुग्रहः प्रार्थनादिबन्धनान्तः ।। २६-२७ ।। मयस्तु मायावीति महेशप्रसादाभासेन तलातले व्यवहार सुखेन तिष्ठन्नपि न तु श्रीबलिवत् परमार्थसुखसम्पन्न इति दर्शयितुमाह ततोऽधस्तादिति । विगतेति । महादेवस्य महाभागवतस्यानु - रोधादिति भावः ।। २८ ।। 1 * श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी $ तत्तस्मात् सर्वेषामात्मनि परमेश्वरे प्रतिपादितस्य भूमिदानस्य न तत्फलमिति पूर्वेणान्वयः । कथम्भूते भगवतां नारदादीनां भक्तानामात्मदे वशीभूयात्मानमपि दत्तवति आत्मवतां सनकादीनां ज्ञानिनामात्मतमे परमात्मानुभवरूपे इति क्रमेण प्रेमानन्दब्रह्मानन्ददायिनस्तस्य तद्विषयानन्दमात्र फलदायित्वं कथं घटतामतो बलिराजाय स्ववशीकास्मयप्रेमानन्दं खलु भूमिदानस्य फलं ददौ, यतः स्वभक्तस्य तस्य स्वयं द्वारपालो बभूवेति भावः ॥ २१ ॥ वस्तुतस्तु भोगैश्वर्यमेकान्तभक्तस्यान्तराय एवेति न तद्भगवदनुकम्पाफलमतो भोगैश्वर्य्यदानादेवेन्द्रस्यैकान्तिकभक्त्यभावोऽनुमीयत इत्याह नेति । अमुष्यामुमिन्द्रं तदुक्तम् “वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलम् ||” इत्यतो वस्तुतस्त्वेकान्तभक्तं बलिमेवानुज- ग्राहेति भावः ।। २२ ।। * * बलेस्त्वैकान्तिकी भक्तिर्भगवदनुग्रहप्राप्तिश्च तद्वचनेनैव व्यक्तीबभूवेत्याह । यद्यस्मादति- प्रसिद्धमिति वक्ष्यमाणमुवाच हेत्यन्वयः । न अधिगतः अन्य उपाय येन तेन भगवता याच्चाच्छलेन अपहृतं स्वशरीरमात्रावशेषितं लोकत्रयं यस्य सः । प्रतिमुक्तो बद्ध “आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्” इत्यमरः । अपविद्धः प्रक्षिप्तः ॥ २३ ॥ भगवान् विद्वानपि यस्य सचिवो बृहस्पतिः सोऽपि पुरुषार्थेषु न निष्णातः यस्मादिन्द्रं प्रति युक्तं नोपदिदेशेति भावः । यत उपेन्द्रेण द्वारभूतेन आत्मानं मां लोकत्रयमयाचत तमुपेन्द्रं विहायेति तमेव कथं नायाचत यद्ययाचिष्यत तदा किं स दातुं नापार- यिष्यत् स्वप्रभुं तं याचकं कथमकरोदिति भावः । तंत्राप्यात्मन आशिषो विषयसुखानीति परममोहान्ध इव स इति भावः । यद्वा तं बृहस्पतिमपहायेति बृहस्पतिं प्रेष्य तेनैव कथं मां नायाचत, यदि बृहस्पतिर्मामयाचिष्यत तदा तस्मै ब्राह्मणाय त्रिलोकीं किं नादास्यं कथं स्वेष्टदेवं तं याचकमकरोदिति भावः । कामितस्य वस्तुनस्तुच्छत्वमाह । अतिगम्भीरमनन्तं रयो वेगो यस्य तस्य कालस्य यन्मन्वन्तरं तेन परिवृत्तं पर्यन्तं लोकत्रयमिदं कियत् ॥ २४ ॥ किवात्र जगत्येकः प्रह्लाद एव परमार्थे निष्णात इत्याह यस्येति । उपरते मृते सति ॥ २५ ॥ ननु त्वमपि प्रह्लादसदृश एवेति तत्र सत्रपं सदैन्यमाह तस्येति । अनुपथमनुरूपं वर्त्म ।। २६ ।। तस्य बलेः ।। २७ ।। * महीयते पूज्यते ॥ २८ ॥
४ * ५३२ श्रीमद्भागवतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः [ स्कं ५ अ. २४ श्लो. २१-२८ तत्तस्मिन् सर्वेषां चेतनाचेतनानां पदार्थानामात्मनि स्थितिप्रवृत्त्यादिमूले विशेषतो भगवताम् । ‘उत्पत्ति प्रलयचैव भूतानामागतिं गतिम् । वेत्ति याच स वाच्यो भगवानिति ।।’ इति स्मृत्युक्तानां सर्वज्ञानां कथम्भूतानामात्मवतामात्मा उपास्यत्वेन विद्यते येषां तेषामेवंभूतानां ज्ञानभक्तिसम्पन्नानां महानुभावानामात्मपर्यन्तसर्वपुरुषार्थं प्रदे आत्मतमे च वासुदेवे समर्पितस्य भूमिदानस्य बिलनिलयैश्वय्यं फलं न भवतीति पूर्वेणैवान्वयः ॥ २१ ॥ * बिलनिलयैश्वर्य भगवदनुकम्पा - फलमपि न भक्तस्य बलेरन्तरायमात्रमित्याह नेति । भगवानमुष्य अमुं नैवानुगृहीतवान् कर्मणः सम्बन्धमात्रविवक्षया षष्ठी, यद्यस्मान्मायामयं भोक्तृव्यामोहकत्वादनित्यत्वादिदोषयुक्तम् । किञ्च आत्मस्मृति भगवद्विषयकं ज्ञानं मुष्णातीति तथा तथैवाह भगवान् पराशरः " वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलम् ॥” इति " यस्याहमनु- गृह्णामि हरिष्ये तद्वनं शनैः ।” इत्यादिभगवद्वचनमप्यत्रानुसन्धेयम् ॥ २२ ॥ बलेरेकान्तभक्तत्वं वर्णयति यत्तदि- त्यादिना । यद्यदा तत्तेन वामनेन अनधिगतः अन्य उपायो येन तेन भगवता याच्या च्छलेनापहृतं स्वशरीरमात्रावशेषितं लोकत्रयं यस्य सः सम्प्रतिमुक्तः सम्यग्बद्धोऽपि गिरिदर्यामपविद्धः प्रक्षिप्तोऽपि सन् स्फुटम् । इति वक्ष्यमाणमुवाच ॥ २३ ॥ * * बतेति खेदे भगवान् बहुविदपि अयं प्रसिद्धो योऽसाविन्द्रः यस्यैकान्तेनाव्यभिचारिप्रयत्नेन बृहस्पतिः सचिवः कार्य्याकार्य्यज्ञापकः यतो मन्त्राय वृतः सोऽप्यर्थेषु कार्य्याकार्येषु नूनं निश्चितं न निष्णातः कुशलः, यतस्तं बृहस्पतिमतिहायोलङ्घय उपेन्द्रेण इन्द्रस्योपरि वर्त्तमानेन भगवता भक्तवत्सलेन द्वारभूतेन आत्मानं मां लोकनाथमात्मनः आशिषः लोकानयाचत । नो एव तस्योपेन्द्रस्य दास्यमति- गम्भीरमनन्तं वयो यस्य तस्य कालस्य मन्वन्तरं तेन परिवृतं विपर्य्यस्तं लोकत्रयमिदं कियन्न कियदपि सातिशयत्वादनित्यत्वादि- दोषयुक्तत्वादनुपादेयमिति भावः ॥ २४ ॥ * अस्मत्पितामहः प्रह्लादः स्वपितरि हिरण्यकशिपौ उपरते मृते सति स्वपित्र्यं पदमनुपादेयमिति हेतोः इतिशब्दः हेतुवाचको न वत्रे । भगवतः पदमकुतोभयं धामापि भगवता दीयमानमपि न वत्रे, किन्तु यस्य भगवतोऽनुदास्यमेव वत्रे स अर्थेषु निष्णात इति भावः ॥ २५ ॥ तस्य प्रह्लादस्य अनुपथमनुवर्त्य अमृजिताः कषायाः रागादयो यस्य परिहीणो भगवदनुग्रहो यस्य सः को वा उपजिगमिषति उपगन्तुमिच्छति । इतिशब्दों बलिवाक्य- समाप्तिपरः ।। २६ ।। * * तस्य बलेः उत्तरस्मादष्टमस्कन्धे यस्य बलेः येन भगवता दिग्विजये प्रवृत्तो बलिद्वारि प्रविशन् दशकन्धरो रावणः पदा तत्राप्यङ्गुष्ठेनैव ॥ २७ ॥ * * लब्धपदः प्राप्तस्थानः महीयते ।। २८ ।। ।। ।। * 咬 गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी उक्तमुपसंहरति-तदिति । यस्माद्यस्य नामोच्चारणमात्रमपि संसारदुःखनिवर्त्तकं तत्तस्मात् तस्मिन् सर्वेषां प्राणिनामात्मनि भगवतां नारदादिभक्तानां आत्मदे वशीभूयात्मानमपि दत्तवति । आत्मवतां ज्ञानिनां तु आत्मत मे आत्मत्वेन प्रतीयमाने । कृतस्य त्रिलोकीदानस्यैतत्फलं न भवतीति पूर्वेणैव सम्बन्धः ॥ ३६ ॥ * * तो भगवत्प्राप्तिरेव भगवत्प्रसादफलमिन्द्राद्यैश्वर्यप्राप्तिस्तु ‘वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलमिति पराशरवचनाद्भक्तस्यान्तरायमात्रमेव । अतो वस्तुत इन्द्रस्यापि न भगवतः परमानुग्रहपात्रत्वमित्याह - नेति । नूनं निश्चितमेतत् । अमध्य अमुम् इन्द्रं भगवान्, न वा अनुजग्राह स्वकीयपरमभक्तत्वेन नैवानुगृहीतवानित्यर्थः ॥ ३७ ॥ * * इन्द्रार्थमवतारं कृत्वापि परमानुग्रहं नैव कृतवान् परमानुग्रहं तु बलावेवेति भगवल्लीलाया आश्चर्यं सूचयति - उतेति । कुतोऽनुग्रहाभावो लोकेऽनुग्रहस्य प्रसिद्धत्वात्तत्राह - यदिति, यस्मात् पुनरात्मनः स्वस्य भगवतोऽनुस्मृतिं मुष्णातीति तथाभूतं मायामयं प्रकृतिकार्य भोगैश्वर्यमेव अतनुत विस्तारितवानिति ॥ ३८ ॥ * * बलेस्तु परमभक्तत्वादेन्द्रमैश्वर्यं तस्य स्वभजनान्तरायं मत्वाऽनुग्रहेण ततस्तदपहृतवानिति सूचयंस्तस्य परमभक्तत्वं दर्शयति — यत्तदिति । यस्मात् याच्यां विनाऽनधिगतो न प्राप्तोऽन्य उपायो येन तेन भगवता याच्याछलेनैवापहृतं स्वशरीरमात्राव- शेषितं लोकत्रयं यस्य स तथाभूतोऽपि वरुणपाशैश्च मन्त्रात्मकैः सम्यक् प्रतिमुक्तः निबद्धश्च गिरिदर्यामपविद्धः प्रक्षिप्तोऽपि इति वक्ष्यमाणमुवाच तत् तस्मादसौ परमभक्त एवेति शेषेणान्वयः । तद्धैर्यस्याश्चर्यं सूचयति - हेति ॥ ३९ ॥ * * तद्वाक्यमेव दर्शयति - नूनमित्यादिना । भगवान् विद्वानप्ययमर्थेषु स्वप्रयोजनेषु न निष्णातो न निपुण इति नूनं निश्चितमेव । अयमिति क इत्यपेक्षायामाह - योऽसाविन्द्र इति । कथं तस्य विद्वत्त्वं सम्भवति तन्त्राह-यस्येति, बृहस्पतिः सचिवः सहायः यत एकान्ततः परया भक्त्या तेन मन्त्राय मन्त्रविचारार्थं वृतः । कथं तस्य स्वार्थेऽकुशलत्वं तत्राह - तमिति, यतो भगवति प्रसन्ने सति स एव सेव्यतया वरणीयो नान्यत् । अयं तु स्वयं तं भगवन्तमतिहाय उपेन्द्रेणैव द्वारभूतेनात्मानं मासात्मनः स्वस्य आशिषः लोकत्रयस्य भोगानेवायाचत तद्दास्यं तु नो एवायाचतातो मूर्ख इत्यर्थः । चकार एवकारार्थः, यद्वा तं बृहस्पतिमतिहायेत्यर्थः । तथा च यदि तस्य त्रिलोक्यपेक्षा तर्हि बृहस्पतिं प्रेष्य तद्द्वारा कुतो न याचितवांस्तावन्मात्रं तु ब्राह्मणत्वात्तस्मा अप्यहं दद्यामेव तदर्थं तु भगवत्प्रेषणमत्यनुचितमेवेति भावः । अतस्तदास्यवरणमेवोचितं तदपेक्षयाऽतिगम्भीरः अनिवार्यो वेगो यस्य तस्य कालस्य यन्मन्वन्तरं तेन परिवृत्तं पर्यस्तमिदं लोकत्रयं कियत् । ननु कथं विदुषोऽप्येवं मोह इत्याशङ्कय भगवन्मायायाः सर्वमोहकत्वादिति 3 स्क. ५ अ. २४ श्लो. २१-२८ ] ॥ ॥ अनेकव्याख्यासमलङ्कृतम् ५३३
- सूचयन्नाह - बतेति ॥ ४० ॥ * अस्मत्पितामहः प्रह्लादस्तु स्वार्थे निपुण एव यतः खलु स्वपितरि उपरते मृते सति स्वपित्र्यं पदमकुतोभयं निर्भयं भगवता दीयमानमपि भगवतः परमन्यदिति कृत्वा न तु वत्रे, किन्तु किल निश्चयेन यस्यानुदास्यमेव वत्रे इत्यन्वयः । तद्वैर्यस्याश्चयं सूचयति—उतेति ।। ४१ ।। * * अतोऽस्माकमपि तदेवोचितं परन्तु दुष्करमित्याह–तस्येति । अनुपथमनुवर्त्म अमृजिता अक्षीणाः कपाया रागादयो यस्य सः । परिहीणभगवदनुग्रहः भगवदनुग्रहरहितः को वाऽस्मद्विध उपगन्तुमिच्छति ? भगवदनुग्रहं विनाऽन्योपेक्षापूर्वकतदास्याङ्गीकारोऽशक्य इत्यर्थः । इतिशब्दो बल्युक्तिसमाप्त्यर्थः ।। ४२ ।। * * एवमेकान्तभक्तश्चेद्बलिस्तर्हि तस्यैव चरितं विस्तरेण कथ्यतामिति राज्ञोऽभिप्रायमालक्ष्याह - अथेति । तस्य बलेरनु- चरितमुत्तरस्मादुपरिष्टादष्टमस्कन्धे विस्तरिष्यते विस्तरेण कथयिष्यते । तच्चरितस्य सद्धर्मनिरूपणोपयोगित्वेन अत्र स्थाननिरूपण- स्कन्धे उपयोगाभावादष्टमस्कन्धस्य सद्धर्मनिरूपकत्वेन तत्रैव तन्निरूपणमुचितमिति भावः ॥ ४३ ॥ * एवमुक्तेऽपि ॥ ॥ बलिचरितश्रवणोत्सुकं राजानमालक्ष्य तच्छ्रवणोत्सुकस्य समीचीनतया प्रस्तुतकथाश्रवणं न स्यादिति तदौत्सुक्यनिवृत्तये संक्षेपतो बलिमाहात्म्यमाह—यस्येति । यस्य बलेर्द्वारि ब्रह्मादिस्थावरान्ताखिलजगद्गुरुः सर्वपूज्योऽपि भगवान् निजजने स्वभक्ते बलावनु- कम्पितं कृतानुकम्पं हृदयं यस्य सः तद्रक्षार्थं गदापाणिः सन् स्वयमवतिष्ठते इत्यन्वयः । द्वारि स्थितस्य तस्य द्वारपालकर्म दर्शयति- येनेति । येन श्रीनारायणेन दिविजये निमित्ते बलेर्द्वारि निविशन् दशकन्धरो रावणो राक्षसाधिपो विख्यातविजयः पदा तत्राप्यङ्गुष्ठेनैव योजनायुतमुच्चाटितः प्रक्षिप्तः ॥ ४४ ॥ * * यथा हरिणा रक्षितः सुतले बलिः सुखमास्ते तथा महादेवेन रक्षितो मयोपि तलातले सुखमास्ते इत्याह- तत इति । लब्धं पदं स्थानं येन सः विगतं सुदर्शनात् भयं यस्य स महीयते पूज्यते ।। ४५ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी تر و الأمر 1 ܀ तदिति । तत्तस्मिन् सर्वेषां भागवतानां भक्तानां आत्मवतां ज्ञानिनां च, आत्मदे स्वभक्तानां स्वमूर्त्तिप्रदे आत्मवतामा- त्मप्रदे ज्ञानप्रदे चेत्यर्थः । अत एव आत्मनि अन्तः प्रविश्य धारके, अत एव आत्मतमे निरतिशयप्रियतमे हरौ, समर्पितस्य भूमिदानस्य न तत्फलमिति पूर्वेणैव संबन्धः ॥ २१ ॥ * * ननु यद्येतद्दानमपवर्गद्वारं यदि वा बलिर्महाभागवतः यदि वा भगवानात्मदस्तर्हि तदानीमेवापवर्गं प्रदाय किं नानुजग्राहेत्यपेक्षायामभ्युपगतप्रारब्धस्य विद्ययाऽविनाश्यत्वात्तस्यावश्यानुभाव्य- वामपवर्गप्रदानेन न तदेवानुजग्राह किं त्वभ्युपगतप्रारब्धफलं बिलनिलयनैश्वर्यमेवादादित्याह न वा इति । भगवान्, अमुष्य बले:, न अनुजग्राह तदैवानुग्रहं न कृतवान् । वै निश्चितमेव । यत् यतः, उत प्रत्युत, पुनः आत्मन ईश्वरस्य अनुस्मृति मुष्णातीति आत्मानुस्मृतिमोषणं स्वविषयक स्मृतिविघातकमित्यर्थः । मायामयभोगैश्वर्यं स्वमायाविलसितभोगरूपमैश्वर्यमेव अतनुत दत्तवान् इति । ‘वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्’ इति वैष्णववाक्यं चात्मानुस्मृतिमोषणमि- त्यनेन स्मारितम् ॥ २२ ॥ ॐ महाभागवत इत्यनेन बलेर्भगवद्दास्येतरानभिलाषित्वं विवक्षितं तत्सूचितां तस्यैकान्तिकभक्ति सप्रपञ्चां तदुक्त्यैव स्पष्टयितुमाह यत्तदिति । अनधिगतोऽलब्धोऽन्यो याच्चेतर उपायो येन तेन, बलेः प्रह्लादातिप्रसङ्गेन भागवतत्वाद्दण्डनानर्ह त्वादुपायान्तराभावादनधिगतान्योपायेनेत्यर्थः । भगवता याच्याछलेन याच्याव्याजेन, अपहृतं स्वशरीर मात्रा- वशेषितम् उर्वरितस्वशरीरमात्रं लोकत्रयं यस्य सः, स्वव्यतिरिक्तभगवदपहृतलोकत्रय इत्यर्थः । वरुणपाशैश्च संप्रतिमुक्तः, प्रतिश्रुतार्थ- न्यूनतायां वरुणपाशैः प्रतिबद्ध इत्यर्थः । गिरिदय पर्वतगुहायां च अपविद्धः प्रक्षिप्तः सन्नपि यत्तत्प्रसिद्धं इति वक्ष्यमाणं, ह स्फुटं उवाच ।। २३ ।। * * उक्तिमेवाह नूनमिति बतेति खेदे । भगवान्विद्वानपि यः असाविन्द्रः सोऽयं, अर्थेषु पुरुषार्थेषु, नूनं न निष्णातः, न पुरुषार्थेषु तारतम्याभिज्ञः । यस्य एकान्तत एकान्तेन, बृहस्पतिः सचिवः सहायः मन्त्राय उत्तमार्थालोचनाय वृतः सोऽपि पुरुषार्थेषु नूनं न निष्णातः । यतः, तं सकलपुरुषार्थरूपं भगवन्तम् अतिहाय विहाय, स्वयम् उपेन्द्रेण, आत्मानं मां, आत्मनः स्वस्य, आशिषश्च लोकत्रयरूपाः अयाचत । तद्दास्यं नो एव अयाचत । तस्मिन्प्रसन्ने सति स एव वरणीयो न लोकत्रयं अया यतस्तदतितुच्छमित्याह । अतिगभीरमनन्तं रहो यस्य तस्य निरतिशयगम्भीरवेगस्येत्यर्थः । कालस्य, वश्यं मन्वन्तरपरिवृत्तं मन्वन्तर- पर्यन्तपरिवर्त्ति, इदं लोकत्रयं कियत् । लोकत्रयाधिपत्यं भगवदग्रे अत्यल्पमेव । अतो यदि दक्षता भवेत्तर्हि यदिदं लोकत्रयाधिपत्यं न याचेदिति भावः ॥ २४ ॥ * * अस्मत्पितामहः प्रह्लाद एक एवार्थेषु निष्णात इत्याह यस्येति । अस्मत्पितामहः प्रह्लादः, स्वपितरि उपरते मृते सति, स्वपित्र्यम् अकुतोभयं निष्कण्टकं पदं यत् तत् भगवता दीयमानमुत दीयमानमपि, भगवतः सकाशात् परमेतदन्यत्, इति कृत्वा न वत्रे न जग्राहेत्यर्थः । किल । किं तु, यस्य भगवतः, अनुदास्यम् एव वत्रे खलु ॥ २५ ॥ * * ननु त्वमप्यतिवीरः कुतस्तमेव बहु मन्यसे तत्राह तस्येति । अमृजिता अक्षीणाः कषाया रागादयो यस्य सः, अमृदितकषाय इति पाठे अमृदितोऽनुपहतः कषायः कर्मबन्धो येन सः, परिहीणो भगवदनुग्रहो यस्य सः, अस्मद्विधो मादृशः को वा पुमान्, तस्य महानुभावस्य अनुपथं पन्थानम् अनु, मक्षिका गरुत्मतः पन्थानमिवेति शेषः । उपजिगमिषति उपगन्तुमिच्छति । इतीति बल्युक्ति- समाप्तौ ।। २६ ।। * * नन्वेवंभूतो बलिश्चेत्तदा तचरितमपि विस्तरेणेदानीमुच्यतां तत्राह । अथेति । अथेति शुकोक्तिः । तस्य बलेः, अनुचरितम् उपरिष्टादष्टमस्कन्धे, विस्तरिष्यते विस्तरेण कथयिष्यते इत्यर्थः । कात्स्न्र्त्स्न्येन तस्यापि प्रभावः केनापि वर्णयितुं ५३४ श्रीमद्भागवतम् [ स्कं. ५ अ. २४ श्लो. २९-३१ न शक्य इत्यभिप्रायेण पुनस्तमेव विशिनष्टि । यस्य बलेः, द्वारि स्वयम्, अखिलजगद्गुरुः, अनेन तस्य तद्द्द्वारपालकत्वानर्हता सूचिता । निजजनानुकम्पितहृदयः भगवान्, नारायणः गदापाणिः सन्, अवतिष्ठते । येन तद्द्वारपालपदस्थेन भगवता, पदा अङ्गुष्ठेन, पादावयवेनाङ्गुष्ठेनेत्यर्थः । दशकंधरः दिग्विजये दिग्विजयसमये, योजनायुतायुतम् उच्चाटितः उच्चाटनं प्रापितः । दिग्विजयं कुर्वन् रावणः कदाचिद्वद्वारि विशन् द्वाःस्थेन गदाभृता भगवता योजनायुतं क्षिप्त इति श्रीरामायणादौ प्रसिद्धम् ॥ २७ ॥ * * एवं सुतलमुपवर्ण्याथ तलातलं वर्णयति । ततोऽधस्तादिति । ततः सुतलात्, अधस्तात् तलातले तलातलाख्ये चतुर्थे बिले, त्रिलोकीशं. चिकीर्षुणा त्रिलोक्याः सुखं कर्तुमिच्छता, पुरारिणा त्रिपुरपुरदाहकेन, भगवता रुद्रेण, प्रथमं निर्दग्धं भस्मभावं गमितं स्वं पुरत्रयं यस्य सः । पुनः, तत्प्रसादात्तमाराध्य तत्प्रसादं प्राप्येत्यर्थः । लब्धं पदं तलातले निवासस्थानं येन सः, मायाविनाम् आचार्यः, त्रिपुराधिपतिः मयः नाम, दानवेन्द्रः, महादेवेन परिरक्षितः । अत एव विगतं सुदर्शनाद्भयं यस्य सः, एवंभूतः सन् महीयते । तद्विवरस्थैर्बहु मन्यते इत्यर्थः ॥ २८ ॥ c
भाषानुवादः watsarली अत एव अपने संयमी भक्त और ज्ञानियोंको स्वस्वरूप प्रदान करनेवाले और समस्त प्राणियोंके आत्मा श्रीभगवान्को आत्मभावसे किये हुए भूमिदानका यह फल नहीं हो सकता ।। २१ ।। * * भगवान्ने यदि बलिको उसके सर्वस्वदानके- बदले अपनी विस्मृति करनेवाला यह मायामय भोग और ऐश्वर्य ही दिया तो उन्होंने उसपर यह कोई अनुग्रह नहीं किया ।। २२ ।। * * जिस समय कोई और उपाय न देखकर भगवान् ने याचनाके छलसे उसका त्रिलोकीका राज्य छीन लिया और उसके पास केवल उसका शरीरमात्र ही शेष रहने दिया, तब वरुणके पाशोंमें बाँधकर पर्वतकी गुफामें डाल दिये. जानेपर उसने कहा था ॥ २३ ॥ * * ‘खेद है, यह ऐश्वर्यशाली इन्द्र विद्वान् होकर भी अपना सच्चा स्वार्थ सिद्ध करने में कुशल नहीं है । इसने सम्मति लेनेके लिये अनन्यभावसे बृहस्पतिजीको अपना मन्त्री बनाया; फिर भी उनकी अवहेलना करके. इसने श्रीविष्णु भगवान् से उनका दास्य न माँगकर उनके द्वारा मुझसे अपने लिये ये भोग ही माँगे । ये तीन लोक तो केवल एक नाक हार हैं, जो अनन्त कालका एक अवयवमात्र है । भगवान् के कैर्यके आगे भला, इन तुच्छ भोगोंका क्या मूल्य है ॥२४॥ * * हमारे पितामह प्रह्लादजीने- भगवान् के हाथों अपने पिता हिरण्यकशिपुके मारे जानेपर - प्रभुकी सेवाका ही वर माँगा था। भगवान देना भी चाहते थे, तो भी उनसे दूर करनेवाला समझकर उन्होंने अपने पिताका निष्कंटक राज्य लेना स्वीकार नहीं किया ।। २५ । ६ ४ वे बड़े महानुभाव थे । मुझपर तो न भगवान् की कृपा ही है और न मेरी वास- नाएँ ही शान्त हुई हैं, फिर मेरे जैसा कौन पुरुष उनके पास पहुँचने का साहस कर सकता है ? ॥ २६ ॥ राजन् ! ।। ।। इस बलिका चरित हम आगे ( अष्टम स्कन्धमें ) विस्तारसे कहेंगे। अपने भक्तोंके प्रति भगवान्का हृदय दयासे भरा रहता है। इसीसे अखिल जगत् के परम पूजनीय गुरु भगवान् नारायण हाथमें गदा लिये सुतललोकमें राजा बलिके द्वारपर सदा उपस्थित रहते हैं । एक बार जब दिग्विजय करता हुआ घमंडी रावण वहाँ पहुँचा, तब उसे भगवान्ने. अपने पैर के अंगूठेकी ठोकरसे ही लाखों योजन दूर फेंक दिया था ।। २७ ।। * * सुतललोकसे नीचे तलातल है । वहाँ त्रिपुराधिपति दानवराज मय रहता है। पहले तीनों लोकोंको शान्ति प्रदान करनेके लिये भगवान् शङ्करने उसके तीनों पर भस्म कर दिये थे। फिर उन्हींकी कृपासे उसे यह स्थान मिला। वह मायावियोंका परम गुरु है और महा- देवजीके द्वारा सुरक्षित है, इसलिये उसे सुदर्शन चक्र से भी कोई भय नहीं है । वहाँ के निवासी उसका बहुत आदर करते हैं ।। २८ ।। • ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालिय सुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्वि जमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥ २९ ॥ 172 DPIRE ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पच्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरे रेव तेजसा प्रति हतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्विभ्यति ॥ ३० ॥ १. प्रा० पा० मुद्विग्नमनसा स्वक० । प्रा० पा० - हरेरिव ।. ३. प्रा० पा० हतावलेपा बिलशया इव वसन्ति ये वै सुरमये० । -स्कं. ५ अ. २४ श्लो. २६- ३१] अनेकव्याख्यासमलङकृतम् ५३५ ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूड कम्बला- श्वतरदेवदत्तादयो महाभोगिनो महामर्षाः निवसन्ति येषाम् ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ३१ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे राह्रादि स्थितिबिलस्वर्गमर्यादा- ও निरूपणं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ अन्वयः—–ततः अधस्तात् महातले काद्रवेयाणाम् नैकशिरसाम् सर्पाणाम् क्रोधवशः नाम गणः महाभोगवन्तः कुहक- तक्षकका लियसुषेणादिप्रधानाः पुरुषवाहात् पतत्त्रिराजाधिपतेः अनवरतम् उद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुंबप्रसंगेन कचित् प्रमत्ताः विहरन्ति ॥ २९ ॥ $3 ततः अधस्तात् रसातले पणयः निवातकवचाः कालेयाः हिरण्यपुरवासिनः इति नाम विबुधप्रत्यनीकाः उत्पत्त्या महौजसः महासाहसिनः दैतेयाः दानवाः भगवतः हरेः एव तेजसा प्रतिहतबलावलेपाः बिलेशयाः इव वसन्ति ये वै सरमया इंद्रदूत्या मंत्रवर्णाभिः वाग्भिः इंद्रात् बिभ्यति ॥ ३० ॥ ततः अधस्तात् पाताले वासुकिप्रमुखाः -नागलोकपतयः शंखकुलिकमहाशंखश्वेतधनंजयधृतराष्ट्र शंखचूड कंबलाश्वतरदेवदत्तादयः महामर्षाः महाभोगिनः निवसन्ति उह वै येषाम् पंचसप्तदशशतसहस्रशीर्षाणाम् फणासु विरचिताः रोचिष्णवः महामणयः स्वरोचिषा पातालविवरतिमिर निकरम् विधमन्ति ॥ ३१ ॥ MENU A सकाळ निट अ इति चतुर्विंशोऽध्यायः ॥ २४ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका ।
- नैकशिरसामनेकफणानां गणोऽस्ति । एतत्प्रपंचयति कुहकेति । महाभोगवंतो महाकायाः । पुरुषवाहाद्धरेर्वाह- नात् ॥ २९ ॥ * * विबुधप्रत्यनीका देवशत्रवः । सकलेष्वपि लोकेष्वनुभावो यस्य तस्यैव तेजसा सुदर्शनेन प्रतिहतो - बलावलेपो वीर्यमदो येषाम् । बिलेशयाः सर्पा इव इंद्रदूत्या प्रत्युक्ताभिमंत्ररूपाभिर्वाग्भिः । एवं हि वैदिकमाख्यानम् - पणिभिरसुरै- निगूढां गामन्वेष्टुं सरमां देवशुनीमिंद्रेण प्रतिहतां संधिमिच्छतः पणयः प्राहुः किमिच्छती सरमेत्यादि । सा च संधिमनिच्छंतीद्र- - स्तुतिपूर्वकं तान्प्रति परुषमाह ‘हता इन्द्रेण पणयः शयध्वमित्यादि । ते च तच्छ्रुत्वा विभ्यतीति ॥ ३० ॥ ॐ महाभोगिनो महाफणाः । महानमर्षः क्रोधो येषाम् । पंचादिसंख्यानि शीर्षाणि येषाम् । शीष्र्णामिति वक्तव्ये शीर्षाणामित्यर्थः ।। ३१ ।। इति श्रीभा० पंचमस्कंधे टीकायां चतुर्विंशोऽध्यायः ॥ २४ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाश ततः तलातलात् । पतन्त्रिराजा हंसादयस्तेषामधिपतेर्गरुडात् अनवरतं सदा । उद्विजमाना भीताः । क्वचिन्महात- प्रदेशेषु ।। २९ ।। * * ततो महातलात् । पण्यादयो दैत्यगणभेदाः । निगूढां निह्नुताम् । गां धेनुम् । हे पणयो यूयमिंद्रेण ३० ॥ ततो रसातलात् । आर्षः युधि हताः शयध्वं शयनं कुरुध्वमिति श्रुतिपदार्थः । बिभ्यति सभया भवतीति ॥ ३० ॥ * "” शीर्ष छंदसि” इति भगवान्पाणिनिः ॥ ३१ ॥ इति श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
- श्रीमद्वीरराघवव्याख्या T । अथ महातलमनुवर्णयति । तत इति । ततः तलातलादधस्तान्महातले विवरे नैकं शिरो येषां तेषामनेकशिरसामित्यर्थः । काद्रवेयाणां कद्रोरपत्यभूतानां सर्पाणां गणः क्रोधवशसंज्ञकोऽस्ति । गणे कांश्चित्प्रधानान्निर्दिशन् विशिनष्टि कुहकेत्यादिना । कुहकादयः प्रधानाः मुख्या येषां ते महाभोगवन्तः दीर्घकायाः महापुरुषस्य भगवतो वाहनभूतात्पक्षिराजानामप्यधिपतेर्गरुत्मतोऽनवरतं निरन्तरम् उद्विजमाना बिभ्यतः स्वकलत्रादिरूपकुटुम्बासक्तथा प्रमत्ताः सन्तः कचिद्विहरन्ति ||२९|| अथ रसातलमनुवर्णयति । ततो महा- तलादधस्ताद्रसातले विवरे दैतेयदानवाः दितेः पुत्राः दनुपुत्राच पणय इति प्रसिद्धास्ते च निवातकवचाः कालकेया हिरण्यपुरवासिन इति त्रिविधाः विबुधानां देवानां प्रत्यनीकाः प्रतिपक्षिणः उत्पत्त्यैव महाबलशालिनः महान्तश्च ते साहसिकाः सहसा दर्पेण चरन्तीति साहसिकाः तथाभूताः सन्तः सर्वेषु लोकेष्वनुभावो यस्य तस्य भगवतो हरेस्तेजसैव सुदर्शनात्रेण प्रतिहतः बलावलेपः बलनिमित्तो गर्वो येषां ते तादृशा बिलेशया इव सर्पा इव वसन्ति । तानेव विशिनष्टि य इति । ये वै पणयः इन्द्रदूत्या सरमया देवशुन्या प्रयुक्ता- १. प्रा० पा० मर्षाः सन्ति । २. प्रा० पा० विवरावयववर्णनं नाम । ५३६ श्रीमद्भागवतम् [ स्कं. ५ अ. २४ श्लो. २९-३१. भिर्मन्त्रवर्णभूताभिर्वाग्भिरिन्द्राद् बिभ्यति भयं प्राप्नुवन्ति । एवं हि वैदिकमाख्यानं पणिभिरसुरैर्निगूढां गामन्वेष्टुं सरमां देवशुनी- मिन्द्रेण प्रहितां सन्धिमिच्छ्वः पणयः प्राहुः किमिच्छन्ती सरमे ! इत्यादिना, सा च सन्धिमनिच्छन्ती इन्द्रस्तुतिपूर्वकं प्रति तान्प्रति घर्षणमाह “हता इन्द्रेण पणयः शयध्वम्” इत्यादि । ते च तच्छ्रुत्वा विभ्यतीति ॥ ३० ॥ * * एवं रसातलमनुवयथ पातालमनुवर्णयति तत इति । ततो रसातलादधस्तात्पाताले विवरे नागलोकानां सर्परूपाणां जनानां पतयो वासुकिः प्रमुखः प्रधानो येषां ते शङ्खादयो महाभोगिनः फणिनः महाफणिनः महानमर्षः क्रोधो येषां महाक्रोधाः निवसन्ति, तानेव विशिनष्टि । येषामुह वै येषां हि पञ्चादिसंख्यानि शीर्षाणि येषां शीर्ष्णामिति वक्तव्ये शीर्षाणामित्यार्षं तेषां सर्पाणां फणानां फणासु आधारस्य सम्बन्धमात्रविवक्षया षष्ठी, विरचिता वृता ये महामणयो रोचिष्णवः सदा प्रकाशनशीलाः तेषां स्वरोचिषा पातालविवरं पातालविवरसम्बन्धितमोजालं विधमन्त्यपनुदन्तीति ॥ ३१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृत भागवतचन्द्रचन्द्रिकायां चतुर्विंशोऽध्यायः ॥ २४ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली महाभोगवन्तः स्थूलशरीरवन्तः पुरुषोत्तमस्य वाहो वाहनं तस्मात् ॥ २९ ॥ * पणयो दैत्या दानवा निवात- कवचाः कालकन्यापुत्राः कालकेयाः विबुधप्रत्यनीका देवशत्रवः प्रतिहतावलेपा विनाशितगर्वाः योगबलात् बिलेशयाः सर्पाकारा ये पणय इन्द्रदूत्या सरमया शुन्योक्ताभिर्मन्त्रवर्णाभिर्वाग्भिः “इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधी च” इत्यादि- मन्त्रवर्णात्मकगीर्भिः श्रुताभिरिन्द्राद् बिभ्यति भीतास्तिष्ठन्तीति यस्मात्तस्माद् बिलेशयाकारा निवसन्तीत्यर्थः “सरमा त्वं दूरादध्वनो बहिर्गताभिर्जिह्वाभिर्जगुरिः किमपि निगरन्ती किमिच्छन्त्यत्र प्रानद् प्रायासीः " हि गताविति धातोः अस्यास्तव अस्मे अस्मासु हितिर्गतिः का किं कार्यमुद्दिश्यात्रागमनं ते तव कापरितक्म्या तस्यार्थे दूतस्यार्थे दूतक्रियासीत् त्वं रसायाः पयांसि कथमतर इति पणिभिः पृष्टा सरमा ब्रूते अहमिन्द्रस्य दूती तेन प्रेषिता चराम्यागतास्मि “ व्यत्ययो बहुलम्” इति सूत्रात् किमिच्छन्तीत्यस्य परिहार - माह । हे पणयः ! वो महोलक्षणनिधीनिच्छन्ती अपहर्तुमिति शेषः नोऽस्माकमतिस्कन्दोऽभियसा स्वामिनो भयेन तत्तदावत् आवा- सागमं तथा तस्माद्रसायाः पयस्यतरमिति सरमायाः पणीन्प्रति परिहारवचनमिति मन्त्रवर्णार्थः ॥ ३० ॥ * 8 महा- भोगिनः स्थूलशरीरा बहुभोगयुक्ता वा शीर्ष्णामिति वक्तव्ये शीर्षाणामितीतर पुरुषशिरो वैलक्षण्यद्योतनाय, विगतं रचितं रचनं येषां ते तथा औत्पत्तिका इत्यर्थः । विधमन्ति निरस्यन्ति ।। ३१ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्विजयध्वजतीर्थ कृत पदरत्नावल्यां चतुर्विंशोऽध्यायः ॥ २४ ॥ श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः शीर्षस्य " शीर्षश्छन्दसि " इति भगवान् पाणिनिः ।। २९-३१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भस्य चतुर्विंशोऽध्यायः ॥ २४ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी क नैकशिर सामनेकफणानाम् । एतत् प्रपञ्चयति कुहकेति । पुरुषवाहात् हरेर्वाहनात् ॥ २९ ॥ * ॐ दैतेयादयोऽ- सुरभेदाः प्रत्यनीकाः शत्रवः इन्द्रदूत्या प्रयुक्ताभिर्मन्त्ररूपाभिर्वाग्भिः । एवं हि वैदिकमाख्यानं पणिभिरसुरैर्निगूढां गामन्वेष्टुं सम देवशुनीमिन्द्रेण प्रहितां सन्धिमिच्छन्तः पणयः प्राहुः - किमिच्छन्ती सरमेत्यादि । सा च सन्धिमनिच्छन्ती इन्द्रस्तुतिपूर्वकं तान् प्रति परुषमाह “हता इन्द्रेण पणयः शयध्वम्” इत्यादि । ते च तत् श्रुत्वा विभ्यतीति ॥ ३० ॥ * * महाभोगिनो महाफणाः ।। ३१ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमस्य चतुर्विंशः सङ्गतः सङ्गतः सताम् ॥ २४ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः महाभोगवन्तो महाकायाः ।। २९ ।। * * तेजसा सुदर्शनेन प्रतिहतो बलावलेपो वीर्य्यगर्यो येषां ते बिलेशया सर्पा इव ये पणयः सरमया प्रयुक्ताभिः “हता इन्द्रेण पणयः शयध्वम्” इत्यादिमन्त्रवर्णाभिः बिभ्यति ।। ३० ।। * * महा- भोगिनो बृहत्काया महामर्षाः अतिक्रोधवन्तः येषां वासुकिप्रमुखानां पञ्चादिसङ्ख्यानि शीर्षाणि येषां तेषां पञ्चादिशीष्णम् शीर्षाणा- मित्याषः प्रयोगः ॥ ३१ ॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे चतुर्विंशाध्यायार्थप्रकाशः ॥ २४ ॥ स्क. ५ अ. २४ श्लो. २५-३१] अनेकव्याख्या समलङ्कृतम् गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी ५३७ नैक शिरसामनेक कणानां गणोऽस्तीति शेषः ॥ ४६ ॥ * * एतत्प्रपञ्चयति– कुहकेति । महाभोगवन्तः महाकायाः पुरुषवाहात् भगवद्वाहनात् गरुडात् अनवरतमुद्विजमानाः भीता अपि स्वकलत्रादिसङ्गेन कचित् कदाचित् प्रमत्तास्तद्भयानु- सन्धानरहिताः विहरन्ति ॥ ४७ ॥ दैतेयादयः असुरभेदाः । विबुधप्रत्यनीकाः देवशत्रवः । सकलेष्वपि लोकेष्वनुभावो यस्य तस्यैव तेजसा सुदर्शनेन प्रतिहतो बलावलेपो वीर्यमदो येषां ते, अत एव गरुडागीता बिलेशयाः सर्पा इव रसातले वसन्तीत्यन्वयः ।। ४८ ।। * * कुतो भीतास्ते तथा संतीत्यपेक्षायामाह - ये वा इति । इन्द्रदूत्या सरमया प्रत्युक्ताभि- र्मन्त्ररूपाभिर्वाग्भिरिन्द्राद्विभ्यति । एवं हि वैदिकमाख्यानम् – पणिभिरसुरैर्निगूढाङ्गामन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रतिहितां सन्धिमिच्छन्तः पणयः प्राहुः किमिच्छन्ती सरमा इत्यादि । सा च सन्धिमनिच्छन्तींद्र स्तुतिपूर्वकं तान् प्रति परुषमाहू - ‘हुता इन्द्रेण पणयः शयध्वमित्यादि । ते च तच्छ्रुत्वा बिभ्यतीति ॥ ४९ ॥ * * महाभोगिनो महाकायाः । महान् अमर्षः क्रोधो येषां ते ।। ५० ।। * पञ्चादिसङ्ख्यानि शीर्षाणि येषां ते । शीष्णमिति वक्तव्ये शीर्षाणामित्यार्षः ।। ५१ ।। । इति श्रीवल्लभाचार्य वंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येन भजनानन्दसिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र ह्यधःस्थाननिरूपणे । चतुर्विंशो गतो वृत्तिमतलादिनिरूपकः ॥ ३ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी अथ महातलमनुवर्णयति ततोऽधस्तादिति । ततस्तलातलात्, अधस्तात्, महातले महातलाख्ये पञ्चमे बिले, न एक शिरो येषां तेषाम्, अनेकशिरसामित्यर्थः । काद्रवेयाणां कद्रोः कश्यपपत्न्या अपत्यभूतानां सर्पाणां क्रोधवशः नाम गणः, अस्ति । गणे कचित्प्रधानान्निर्दिशन् तान् विशिनष्टि । कुहका तक्षक कालिया सुषेणश्च तदादयः प्रधाना येषां ते सर्पाः, महाभोगवन्तः दीर्घकायाः, पुरुषवाहात् महापुरुषस्य भगवतो वाहनभूतात्, पतविराजाधिपतेः पक्षिराजानामप्यधिपतेर्गरुत्मतः सकाशात्, अनवरतं निरन्तरम्, उद्विजमानाः स्वकलत्रापत्य सुहुत्कुटुम्बसङ्गेन स्वकलत्रादिरूप कुटुम्बासक्त्या, प्रमत्ताः सन्तः, क्वचित् विरहन्ति ||२९|| अथ रसातलमनुवर्णयति ततोऽधस्तादिति । ततो महातलात्, अधस्तात् रसातले रसातलाख्ये षष्ठे विवरे, दैतेया दितिपुत्राः, दानवा दनुपुत्राश्च, पणयः नाम पणय इति प्रसिद्धाः, ते पणयस्तु निवातकवचाः कालेयाः हिरण्यपुरवासिनः इति त्रिविधाः । विबुधानां देवानां प्रत्यनीकाः प्रतिपक्षिणः, उत्पत्त्या एव महौजसः महाबलशालिनः, महासाहसेन चरन्तीति तथाभूताः, सकलेषु लोकेषु अनुभावो यस्य, तस्य भगवतः हरेः, तेजसा सुदर्शनास्त्रेण एव, प्रतिहतो बलावलेपो बलगर्वो येषां तादृशाः सन्तः, बिलेशयाः सर्पाः इव वसन्ति । तान्विशिनष्टि । ये वै, पणयः इन्द्रदूत्या सरमया देवशुन्या, प्रयुक्ताभिः मन्त्रवर्णाभिः मन्ववर्णभूताभिः वाग्भिः, इन्द्रात् बिभ्यति महाभयं प्राप्नुवन्ति । एवं हि वैदिकमाख्यानम् - पणिभिरसुरैर्निगूढां गामन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितां संधिमिच्छन्तः पणयः प्राहुः ‘किमिच्छन्ती सरमा’ इत्यादि । सा च संधिमनिच्छन्तीन्द्रस्तुतिपूर्वकं तान्प्रति परुषमाह ‘हता इन्द्रेण पणयः शयध्वम्’ इत्यादि । ते च तच् श्रुत्वा बिभ्यतीति ।। ३० ।। एवं रसातलमनुवर्ण्याथ पातालमनुवर्णयति तत इति । ततो रसातलात्, अधस्तात् पाताले पातालाख्ये सप्तमे विवरे, नागलोकानां सर्परूपाणां जनानां पतयः, वासुकिः प्रमुखः प्रधानं येषां ते शंखच कुलिकश्च महाशंखच श्वेतश्च धनञ्जयश्च धृतराष्ट्रश्च शंखचूडश्च कम्बलश्च अश्वतरश्च देवदत्तश्च ते आदयो येषां ते, महा- नमर्षः क्रोधो येषां ते महाभोगिनः महाफणिनः निवसन्ति । तानेव विशिनष्टि तेषामिति । उ ह वै प्रसिद्धौ । पञ्च च सप्त च दश च शतं च सहस्रं च शीर्षाणि येषां तेषां शीर्ष्णामिति वक्तव्ये शीर्षाणामित्यार्षम् । तेषां नागानां, फणासु विरचिता धृताः, ये रोचि - ष्णवः महामणयः ते, स्वरोचिषा पातालविवर तिमिर निकरं पातालविवरसम्बन्धि तमोजालं, विधमन्ति अपनुदन्ति ॥ ३१ ॥ इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दस्वामिसुतश्रीरघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचितायामन्व- यार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे चतुर्विंशतितमोऽध्यायः ॥ २४ ॥ भाषानुवादः उसके नीचे महातल में कद्रूसे उत्पन्न हुए अनेक सिरोंवाले सपका क्रोधवश नामका एक समुदाय रहता है । उनमें कुहक, तक्षक, कालिय और सुषेण आदि प्रधान हैं। उनके बड़े-बड़े फन हैं। वे सदा भगवान् के वाहन पक्षिराज गरुडजीसे डरते रहते हैं; तो भी कभी-कभी अपने स्त्री, पुत्र, मित्र और कुटुम्बके सङ्गसे प्रमत्त होकर बिहार करने लगते हैं ।। २९ ।। * * उसके नीचे रसातल में पणि नामके दैत्य और दानव रहते हैं। ये निवातकवच, कालेय और हिरण्यपुरवासी भी कहलाते हैं । इनका देवताओंसे विरोध है। ये जन्मसे ही बड़े बलवान् और महान् साहसी होते हैं । किन्तु जिनका प्रभाव सम्पूर्ण लोकोमें ६८ ५३८ श्रीमद्भागवतम् [ स्कं. ५ अ. २४ श्लो. २९-३१ फैला हुआ है, उन श्रीहरिके तेजसे बलाभिमान चूर्ण हो जानेके कारण ये सर्पोंके समान लुक-छिपकर रहते हैं तथा इन्द्रकी दूती सरमाके कहे हुए मन्त्रवर्णरूपवाक्यके कारण सर्वदा इन्द्रसे डरते रहते हैं ।। ३२ ॥ * * रसातलके नीचे पाताल है । वहाँ शङ्ख, कुलिक, महाशङ्ख, श्वेत, धनञ्जय, धृतराष्ट्र, शङ्खचूड, कम्बल, अश्वतर और देवदत्त आदि बड़े क्रोधी और बड़े बड़े फनों वाले नाग रहते हैं । इसमें वासुकि प्रधान है। उनमें से किसीके पाँच, किसीके सात, किसीके दस, किसीके सौ और किसी के हजार सिर हैं । उनके फनोंकी दमकती हुई मणियाँ अपने प्रकाशसे पाताललोकका सारा अन्धकार नष्ट कर देती हैं ॥ ३१ ॥ इति चतुर्विंशोऽध्यायः ॥ २४ ॥
- एक कथा आती है कि जब पणि नामक दैत्योंनें पृथ्वीको रसातलमें छिपा लिया, तब इन्द्रने उसे ढूँढनेके लिये सरमा नामकी एक दूतोको भेजा था । उन्होंने सरमासे सन्धि करनी चाही, परन्तु सरमाने सन्धि न करके इन्द्रकी स्तुति करते हुए कहा था- ‘हता इन्द्रेण पणयः शयध्वम्’ (हे पणिगण ! तुम इन्द्रके हाथसे मरकर पृथ्वीपर सो जाओ ) इसी शापके कारण उन्हें सदा इन्द्रका डर लगा रहताअथ पञ्चविंशोऽध्यायः श्रीशुक उवाच तस्य मूलदेशे त्रिंशद्योजन सहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति साच्वतीया द्रष्ट- दृश्ययोः सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥ यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्र- शिरस एकस्मिन्नेव शीर्षणि त्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ २ ॥ यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचित- रुचिरभ्रमभ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् || ३ || यस्यां - कमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतयः सह सात्त्वतर्षभैरेकान्तभक्तियोगेनावन मन्तः स्ववदनानि परिस्फुर- त्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥ यस्यैव हि नागराजकुमार्य आशिष आशासानाचार्वङ्गवलयविलसित विशद विपुलधवलसुभगरुचिरभुज रजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेना वलिम्प- मानास्तदभिमर्श नोन्मथित हृदय मकरध्वजा वेशरु चिरललितस्मितास्तदनुरागमद मुदितमदविघूर्णितारुणकरुणावलोकन यनवद- नारविन्दं सत्रीडं किल विलोकयन्ति ।। ५ ।। स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्ष रोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥ ध्यायमानः सुरासुरोरगसिद्धगन्धर्व विद्याधर मुनिगणैरनवरत मदमुदित विकृतविह्वललोचनः सुललितमुखरिकामृते- नाप्यायमानः स्वपार्षदविबुधय् “थपतीनपरिम्लानरागन ‘वतुलसिकामोदमध्वासवेन माद्यन्मधुकरत्रातमधुर गीतश्रियं वैज- यन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षा- मुदारलीलो बिभर्ति ॥ ७ ॥ य एष एवम’ नुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालक’ र्मवासनाग्र थितमविद्यामयं हृदयग्रन्थि सत्त्वरजस्तमोमय- मन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोक- यामास ।। ८ ।। अन्वयः - तस्य मूलदेशे त्रिंशद्योजन सहस्रान्तरे भगवतः या वै तामसी कला आस्ते अनंतः इति समाख्याता सात्त्वतीयाः यम् संकर्षणम् अहम् इति अभिमानलक्षणम् संकर्षणम् इति आचक्षते ॥ १ ॥ * * यस्य अनन्तमूर्तेः सहस्रशिरसः भगवतः एकस्मिन् एव शीर्षणि ध्रियमाणम् इदम् क्षितिमंडलम् सिद्धार्थः इव लक्ष्यते ॥ २ ॥ * * ह वा इदम् कालेन उपसं- जिहीर्षतः यस्य अमर्षविरचितरुचिरभ्रमभ्रुवोः अन्तरेण सांकर्षणो नाम एकादशव्यूहः ज्यक्षः रुद्रः त्रिशिखम् शूलम् उत्तम्भयन् उदतिष्ठत् ॥ ३ ॥ * * यस्य अंध्रिकमलारुणविशद नख मणिषण्डमण्डलेषु सात्त्वतर्षभैः सह एकांतभक्तियोगेन अवनमन्तः अहिपतयः प्रमुदितमनसः परिस्फुरत्कुण्डप्रभामंडितगंडस्थलानि अतिमनोहराणि स्ववदनानि खलु त्रिलोकयन्ति ॥ ४ ॥ * * हि यस्य एव आशिषः आशासानाः चार्वंगवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तंभेषु अगुरुचंदन कुंकुमपङ्कानुलेपेन अवलिपमानाः तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मिताः नागराजकुमार्यः तदनुरागमदमुदितमदविघूर्णितारुण- करुणावलोकनयनवदनारविन्दम् सत्रीडम् किल विलोकयन्ति ॥ ५ ॥ * * सः एव अनन्तगुणार्णवः आदिदेवः उपसं- ! ८. प्रा० पा० स १. प्रा० पा० - द्रष्टृदर्शनयोः सन्निकर्षेण । २. प्रा० पा० तस्येदं । ३. प्रा० पा० - संकर्षणो । ४. प्रा० पा० - मण्डलं ह्यधिपतयः । ५. प्रा० पा०– नमन्ति स्व० । ६. प्रा० पा० परिस्फुरत्प्रभामण्डलीमण्डित० । ७. प्रा० पा० न विलिम्पमाना० । भगवानन० । ९. प्रा० पा० - मुखविकारामृतेना० । १०. प्रा० पा०—यूथपपतीनां परि० । ११. प्रा० पा० बनतुलसि० । १२. प्रा० पा०- मनुश्रुतोऽभिध्याय । १३. प्रा० पा०कर्मणां वा० । १४. प्रा० पा० भावमुद्वहन् भग० । ५४० श्रीमद्भागवतम् [ स्कं. ५ अ. २५ श्लो. १-८ हृतामर्षंरोषवेगः भगवान् अनन्तः लोकानाम् स्वस्तये आस्ते ।। ६ ।। * * सुरासुरोरगसिद्धगंधर्वविद्याधरमुनिगणैः ध्यायमानः अनवरतमदमुदितविकृतविह्वललोचनः सुललितमुखरिकामृतेन स्वपार्षदविबुधयूथपतीन् आप्यायमानः नीलवासाः एककुंडल: हलककुदि कृतसुभगसुंदर भुजः उदारलीलः भगवान् अपरिम्लानरागन तुलसिकामोदमध्वासवेन माद्यन्मधुकर व्रातमधुरगीतश्रियम् वैजयन्तीम् स्वाम् वनमालाम् माहेंद्रः वारणेन्द्रः काञ्चनीम् कक्षाम् इव बिभर्ति ॥ ७ ॥ * * एवम् अनुश्रुतः ध्यायमानः यः एषः मुमुक्षूणाम् अन्तर्हृदयम् गतः अनादिकालकर्मवासनाप्रथितम् अविद्यामयम् सत्त्वरजस्तमोमयम् हृदयग्रन्थिम् आशु निर्भिनत्ति भगवान् स्वायंभुवः नारदः तुंबुरुणा सह तस्य अनुभावान् ब्रह्मणः सभायाम् संश्लोकयामास || ८ || श्रीधरस्वामिविरचिता भावार्थदीपिका पंचविंशे ततोऽधस्तादाह शेषस्य संस्थितिम् । संजिहीर्षोरिदं काले यत्र रुद्रसमुद्भवः ॥ १ ॥ 1 । तस्य पातालस्य । कोऽसावनंतः । सात्त्वतीयाः सात्त्वततंत्रनिष्ठाश्चतुर्व्यूहोपासने यं संकर्षणमित्याचक्षते । तथाख्याने हेतुः । द्रष्टृश्ययोः सम्यक्कर्षण मेकीकरणं येन । तत्कुतः । अहमित्यभिमानो लक्षणं चिह्नमधिष्ठातुर्यस्य । अहंकाराधिष्ठानेन द्रष्टृदृश्य- संकर्षणात्संकर्षण इत्यर्थः॥ १ ॥ अनन्तत्वमाह यस्येदमिति । यच्छब्दानां स एष भगवाननंत इत्युत्तरेणान्वयः ||२|| तामसत्वमाह । यस्येदं विश्वमुपसंहर्तुमिच्छतः अमर्षेण विरचिते कुटिलीकृते रुचिरीकृते । भ्रमन्यौ भ्रुवौ तयोर्मध्ये उत्तंभय- न्नुन्नमयन् ||३|| * * सुभगत्वमाह । यस्यांघ्रिकमलयुगलेऽरुणा विशदा नखा एव मणयस्तेषां षंडः समूहस्तस्य मंडलेषु । परिस्फुरतां कुंडलानां प्रभया मंडितानि गंडस्थलानि येषु तानि ॥ ४ ॥ * * चारुण्यंगवलये विलसिताश्च ते विशदाश्च विपुलाच धवलाका सुभगाच रुचिराश्च भुजा एवं रजतस्तंभास्तेष्वगुरुचन्दन कुंकुमानां पंक एवानुलेपस्तेनावलिपमानाः तेषामभिमर्शनेनोन्मथिते हृदये मकरध्वजस्यावेशेन रुचिरं च ललितं च स्मितं यासां ताः । तस्यानुरागेण मदेन च मुदितं च तन्मदेन विघूर्णिते प्रचलिते च आ ईषदरुणे करुणावलोकयुक्ते नयने यस्मिंस्तद्वदनारविंदं विलोकयति ।। ५ ।। * * अमर्षोऽसहनं रोषः क्रोधः उपर क्रोधः उपसंहृतस्तयोर्वेगो येन ॥ ६ ॥ ६ ॥ उपासनार्थमाह । सुरादिभिर्ध्यायमानश्चित्यमानः । अनवरतं मदेन मुदितश्चासौ विकृतविह्वललोचनश्च सुललितेन मुखरिकामृतेन वचनामृतेन स्वपार्षदान्विबुधयूथपानां पतिश्चाप्यायमानो हर्षयन् नीले वाससी यस्य । एकमेव कुंडलं यस्य । हलस्य ककुदि पृष्ठे कृतो न्यस्तः सुभगश्च सुन्दरश्च भुजो येन । उदारा लीला यस्य सः । न परिम्लानो रागः कांतिर्यस्यास्तस्या नवतुलसिकाया आमोदमध्वासवेन सुरभिमधुरसेन माद्यतां मधुकराणां ये त्रातास्तेषां मधुर- गीतेन श्रीर्यस्यास्तां वनमालाम् । कक्षां वरत्राम् ॥ ७ ॥ * संश्लोकयामास वर्णयामास ॥ ८ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः 3 ततः पातालान् । यत्र यतः ( १ ) तस्य पातालस्य । तामसी तमः कार्यसंहारप्रवर्त्तयित्री न तु तमोमयी ‘मूर्तिं नः कृपया बभार सत्त्वं संशुद्धम्’ इत्यादिविरोधात् । द्रष्टृदृश्ययोर्भोक्तृभोग्ययोः । तदेकीकरणं तच्च कर्षण महमस्य भोक्ता इदं मे भोग्यमित्यभिमान - लक्षणमेव । इत्यर्थ इति । अभिमंतुरहंता ममतयोः शुद्धयर्थं यं ध्यायंतीति भावः ॥ १-२ ॥ * * उपसंजिहीर्षत इति । यदैवेदं जगदाधिक्येन संहर्तुमैच्छत्तदैव मायायास्तदधीनत्वात्तदपि तमः कार्यरोषात्मको रुद्रो भ्रूमध्ये प्रादुरभूत् एकादशव्यूह एकादशधा विभक्तरूपविशेषः । अमर्षविरचित इति रुद्रविशेषणं सुलोप आर्ष इति विश्वनाथः । यथा सिसृक्षतोऽद्वितीयपुरुषस्य नाभिमध्ये रजोगुणात्मकं पद्मं प्रादुर्भवति तद्वत् ॥ ३ ॥ * सुभगत्वं मनोहरत्वम् यस्य शेषस्य ॥ ४ ॥ * * अंग- वलये अंगमंडले । विशदाः शुद्धाः । विपुला विस्तृताः । धवलाः श्वेताः । सुभगा मनोहराः । रुचिरा दीप्ताः, उन्मथिते क्षुभिते, रुचिरं भावसूचकम्, ललितं शोभनम् तस्य शेषस्य | अनुरागेण भक्तविषयकेण । मदेन हर्षेण ॥ ५ ॥ * * उपसंहृतेति । संप्रति स्थितिकाले रोषस्यानौ चित्यादिति भावः ॥ ६ ॥ * * कक्षाम् उदरबन्धम् । “कक्षा बृहतिकाया स्यात्कांच्या मध्येभ- बंधने । हर्म्यादीनां प्रकोष्ठे च” इति मेदिनी । माहेंद्रो वारणेंद्र ऐरावतः ॥ ७ ॥ * अनुभावान् प्रभावान् । पुरुषाद्यवता- रत्वेन श्लोकैस्तुष्टावेत्यर्थः ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या एवं पातालान्तान् भूविवराननुवयथ पातालपर्यन्तस्य भूमण्डलस्य धारकं रसाया मूले स्थितमनन्तमनुवर्णयति प- विंशेन । तस्य पातालस्य मूलदेशेऽधस्तात्रिंशद्योजन सहस्रान्तरे आस्ते का सा या चास्ते तत्राह या वा इति । अनन्त इति समाख्याता प्रसिद्धानन्तसंज्ञिकेत्यर्थः । तामसी तामसाहङ्काराधिष्ठात्री या भगवतः कला अंशरूपा सा इत्यर्थः । सैव सङ्कर्षण इत्युच्यते तदाह प्रमातार इति । सात्त्वतीयाः सङ्कर्षणप्रोक्तसात्त्वताख्यपञ्चरात्रनिष्ठाः प्रमातार उक्तभगवत्कलायाथात्म्यविदस्तमनन्तं सङ्कर्षण इत्या- चक्षते। किमिदं सङ्कर्षणनामाश्वकर्णादिवत्केवलरूढं किम्बा पङ्कजादिवद्योगरूढमित्यपेक्षायां योगरूढमित्याह द्रष्टृदृश्ययोरिति । यतोऽ- यमनन्तः द्रष्टृदृश्ययोर्ज्ञातृज्ञेययोः सन्निकर्षणं सन्निकृष्यते विषयीक्रियतेऽतीन्द्रियार्थोऽनेनेति सन्निकर्षणमतीन्द्रियार्थविषयक ज्ञानसाधनं स्कं ५ अ. २५ श्लो. १-८] अनेकव्याख्यासमलङ्कृतम् ५४१ स्वयं यथातीन्द्रियार्थविषयकज्ञानवानेव मितरेषामप्यतीन्द्रियार्थविषयकज्ञानापादक इत्यर्थः । यत एवमनन्तस्ततस्तं सङ्कर्षण इत्याचक्षते । सङ्कर्षणत्वमेव स्पष्टयति अहमित्यभिमानलक्षण इति । अहमिति प्रतीयमानोऽतीन्द्रियो यो जीवस्तद्विषयकोऽभिमानः अहमिति प्रतीतिस्तस्य लक्ष्यतेऽनेनेति लक्षणं कारणं हेतुरिति यावज्जीववर्गाभिमानिदेवतात्वात्तेषामहमिति बुद्धिवृत्तिहेतुरित्यर्थः ॥ १ ॥ * * एवमनन्तशब्दोऽपि तस्मिन् योगरूढ इत्याह यस्येति । यच्छब्दानां स एव भगवाननन्त इत्युत्तरेणान्वयः । यस्य भगवतः सहस्र- शिरसः अनन्तमूर्त्तेरेकस्मिन्नेव शीर्षणि ध्रियमाणं धार्यमाणमिदं कृत्स्नभूमण्डलं सिद्धार्थ इव श्वेतसर्षप इव लक्ष्यते दृश्यतेऽतोऽप- रिच्छिन्नत्वादनन्त इत्युच्यत इति भावः ॥ २ ॥ * यदुक्तं तामसीति तामसाहङ्काराधिष्ठातृत्वं तद्विशदयति यस्य ह वेति । कालेन द्विपरार्द्धावसानरूपकालेनेदं कृत्स्नं जगत् संजिहीर्षतः संहर्तुमिच्छतः यस्य सङ्कर्षणस्यामर्षेण क्रोधेन विरचिते कुटिलीकृते रुचिरे भ्रमन्त्यौ भ्रुवौ तयोरन्तरेण मध्ये साङ्कर्षणाख्यः एकादशानां व्यूहः गणः एकादश रुद्रसमुदायरूपः कथम्भूतस्त्र्यक्षः त्रीण्य- क्षीणि यस्य स त्र्यक्षः तिस्रः शिखा यस्य तादृशं शूलमुत्तम्भयन्नूर्ध्वं धारयन्नुदतिष्ठद्बभूव । तामसाहङ्काराधिष्ठातृत्वाज्जगत्संहर्तृ तामस- रुद्रगणोत्पादक इत्यर्थः ॥ ३ ॥ सुभगत्वमाह यस्येति । अहीनां पतयः सात्त्वतश्रेष्ठैः सह यस्य सङ्कर्षणस्यांघिकमलयुग- asरुणा विशदा नखा एव मणयस्तेषां षण्डस्तस्य मण्डलेषु एकान्तभक्तियोगेनाव्यभिचरितभक्तियोगेनावनमन्तः प्रणमन्तः उक्त- विधेषु नखमणिमण्डलेषु प्रतिबिम्बितानि अतिमनोहराणि परितः स्फुरतां कुण्डलानां प्रभया मण्डितानि गण्डस्थलानि येषु तानि स्ववदनानि प्रमुदितं मनो येषां तादृशाः सन्तः मुखं विलोकयन्ति खलु नूनम् ॥ ४ ॥ * * तथा नागराजानां कुमार्यः आशिषः पुरुषार्थानाशासानाः कामयमानाः यस्य सङ्कर्षणस्य चारुभिः सुन्दरैरङ्गदैर्वलयैश्च विलसिताः प्रकाशिताश्च ते विशदा निर्म- लाश्च विपुला दीर्घाः सुभगाः कोमलाश्च रुचिराः सुन्दराश्र भुजास्त एव रजतस्तम्भास्तेष्वगरुकुङ्कुमचन्दनानां पश्चानुलेपस्तेनाव- लिम्पमाना लेपनं कुर्वाणास्तेषां भुजानामभिमर्शेन स्पर्शेन उन्मथिते हृदये मकरध्वजस्य कामस्या वेशेन रुचिरं च ललितं च यत्स्मितं तद्यासां तथाभूताः सत्यः तस्य सङ्कर्षणस्यानुरागमद मुदितमदविघूर्णिता रुणकरुणावलोकनयनवदनारविन्दं सव्रीडं यथा तथा विलोक- यन्ति । स्वाश्रितेषु मदेन स्वानुभवजनितेन च मुदिते तन्मदेन विघूर्णिते प्रचलिते च ईषदरुणे करुणावलोकनयने यस्मिन् तद्वदनार- विन्दमिति तस्यार्थः ॥ ५ ॥ * स उक्तविध एष सङ्कर्षणाख्योऽनन्तस्त्रिविधपरिच्छेदरहितः अनन्तकल्याणगुणार्णवः जगत्कारणभूतो देवः स्वतेजसा दीप्यमानः उपसंहृतः अमर्षरोपयोर्जगत्संहारविषययोर सहनक्रोधयोर्वेगो येन तथाभूतः लोकानां साधुजनानां स्वस्तये सुखायास्ते तिष्ठतीत्यर्थः ॥ ६ ॥ पुनः कथम्भूतः सुरादीनां गणैर्ध्यायमानः अनवरतं मदेन स्वानु-
-
- भवजनितमदेन मुदितः स चासौ विकृतविह्वललोचनः विकृते घूर्णिते विह्वले परवशे इव स्थिते लोचने यस्य सः सुललितेन सुन्दरेण भावगर्भेण स्मितेन मुखरिकामृतेन वचनामृतेन स्वपार्षदान् स्वविबुधयूथानां पतींश्चाप्यायमानः हर्षयन् अपरिम्लानः अक्षीणः रागो रक्तिमा यस्यास्तस्या नवतुलसिकाया नूतनकृष्णतुलस्या आमोदः मधुरूपः आसवश्च तयोः समाहारस्तेन माद्यतां मधुकराणां त्राता- स्तेषां मधुरगीतेन श्रीर्यस्यास्तां स्वामसाधारणी वैजयन्त्याख्यां वनमालां दधदिति शेषः । बिभर्तीत्यनेन वान्वयः । नीले वाससी यस्य एकमेव कुण्डलं यस्य हलस्य ककुदि पृष्ठे कृतो न्यस्तः सुभगः सुकुमारश्र सुन्दरो भुजो येन एवम्भूतो भगवान् सङ्कर्षणः माहेन्द्रः महेन्द्रसम्बन्धी वारणेन्द्र इव ऐरावत इव शुभ्रः उदारा लीला यस्य सः काननों स्वर्णमयीं कक्षां रसनां बिभर्ति । कक्षे भवा कक्षा वरत्राख्या चर्ममयी वधिका “नधी वधी वरत्रा स्यात्” इत्यमरकोशोक्ता तामध्यस्य जान्वोश्चावष्टम्भार्थं योगपट्टिकाख्यां स्वर्णमयीं बिभर्ति इत्यर्थः ॥ ७ ॥ * *
-
- एवं सङ्कर्षण उपवर्णित इदानीमुक्तविध उपास्यमान उपासकानामन्तर्हृदयं गतः प्रकृतिसम्बन्धं निरस्यतीत्याह य एष इति । एष भगवाननन्तः एवमनुश्रुतः उक्तविधत्वेन गुरुमुखाच्छुतः अभिध्यायमानः “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति श्रुत्यर्थोऽत्र प्रत्यभिज्ञातः । अतः सामर्थ्याच्छ्रवणानन्तरम्मत इति लभ्यते मुमुक्षूणां संसारादात्मानं मोक्तुमिच्छतामनादिकालप्रवृत्ताभिः कर्मवासनाभिर्ग्रथितं सन्दर्भितमविद्यामयं देहात्मभ्रान्तिस्वतन्त्रात्मभ्रान्तिरूपाज्ञानमयं ग्रन्थि ग्रन्थिवद् दुर्मोच्यं सत्त्वरजस्तमोमयं सत्त्वादिगुणप्रचुरं गुणत्रय सम्बन्धप्रयुक्ताना दिकालप्रवृत्तकर्मवासनाविद्याग्रन्थिरूपं संसारमित्यर्थः । ध्यानेन मुमुक्षूणामन्तर्हृदये सन्निहितः आशु भिनत्ति नितरां निरस्यतीत्यर्थः, तस्य भगवतः सङ्कर्षणस्येममुक्तमनुभावं प्रभावं तुम्बुरुणा सह स्वयम्भुवः पुत्रो नारदो ब्रह्मणश्चतुर्मुखस्य सभायां संश्लोकयामास वर्णयामास ॥ ८ ॥ श्रीमद्विजयध्वज तीर्थ कृता पदरत्नावली तस्य पातालस्य तामसी तमोगुणप्रवर्त्तनी अनन्तस्य यत्स्वरूपं द्रष्टुश्चेतनस्य दृश्यस्य शरीरस्य सन्निकर्षणं सामीप्या- पादकमभेदग्राहकं कथं देहोऽहमिति तर्हि इदं सत्यं किं नेत्याह । अभिमानलक्षणं भ्रान्तिप्रत्यापादकमित्यर्थः, तत्स्वरूपं सङ्कर्षण- मित्याचक्षते ॥ १ ॥ * * सात्त्वतः गुरुतरक्षितिमण्डलं सर्षपलाघववद्धारयतोऽपरिमित बलत्वेनानन्तत्वं युक्तमित्यभिप्रेत्याह तस्येति । सिद्धार्थः सर्षपः ।। २ ॥ * एकादशव्यूहः एकादशधा विभक्तरूप विशेषः उत्तम्भयन्नुत्कम्पयन् ।। ३-४ ॥ * * तदभिमर्शनेन भुजस्पर्शनेन सव्रीडमिति क्रियाविशेषणम् ।। ५ ।। 8 * शृङ्गाराद्यनन्तगुणार्णवः ।। ६ ।। * * अपरिम्लानो रागः कान्तिर्यस्याः सा तथा आमोदमध्वासवेन सौरभरूपमधुरसेन हलस्य निजायुधस्य ककुद्य कक्ष्यामुदर - बन्धम् ।। ७ ।। * * संश्लोकयामास पद्यलक्षणवाक्यैः कथयामास ॥ ८ ॥ {
५४२ श्रीमद्भागवतम् श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः [ स्क. ५ अ. २५ श्लो. १-८ तामसीति तमोगुणाधिष्ठातृरुद्रस्यान्तर्यामित्वात् । “मूर्त्ति नः पुरुकृपया बभार सत्त्वं संशुद्धम्” इत्यादिविरोधात् ॥ १-२ ॥ * * अमर्षकारणन्तु प्रायः सर्वेषां युगपद्भगवद्बहिर्मुखत्वं ज्ञेयम् ॥ ३-९॥ श्रीमद्विश्वनाथचक्रवर्त्तिकृता सारार्थदर्शिनी पञ्चविंशे तु पातालतले शेषस्य भूभृतः । जगत् संहर्तृ रुद्रस्याप्यंशिनो वर्णिता गुणाः ॥ १ ॥ तामसी तमः कार्यसंहारप्रवर्त्तयित्री न तु तमोमयी “मूर्त्ति नः पुरुकृपया बभार सत्त्वं संशुद्धम्” इत्यादिविरोधात् । सान्त्वतीयाः सात्त्वततन्त्रनिष्ठाः द्रष्टृदृश्ययोर्भोक्तृभोग्ययोः सम्यक्कर्षणं यतः सङ्कर्षण इति तच्च कर्षणमहमस्य भोक्ता इदं मे भोग्यमित्य- भिमानलक्षणमेव अभिमन्तुरहन्ताममतयोः शुद्धयर्थं तदधिष्ठातृत्वेन यं ध्यायन्तीति भावः ॥ १-२ ॥ * उपसंजिहीर्षत इति । यदैवेदं जगदाधिक्येन संहर्तुमैच्छत्तदेव मायायास्तदिच्छाधीनत्वात्तदीयतमः कार्यरोषात्मको रुद्रो भ्रमध्ये प्रादुरभूदमर्ष- विरचित इति रुद्रस्य विशेषणं सुलोपः आर्षः । यथा सिसृक्षतो द्वितीयपुरुषस्य नाभिमध्ये रजोगुणात्मकं पद्मं प्रादुर्भवति तद्वत् ॥ ३ ॥ * * लावण्येन मनोहरत्वमाह । यस्येति । नखमणीनां षण्डः समूहस्तस्य मण्डलेषु दर्पणायमानेष्वित्यर्थः ॥४॥ * * यस्य चारुणि अङ्गवलये अङ्गमण्डले विलसितादिविशेषणविशिष्टा ये भुजरजतस्तम्भास्तेषु अगुर्वादिपङ्क एवानुलेपः अनुलेपसाधनं तेन अवलिम्पन्त्यः तदभिमर्शनं तत्समय एव यत्तदङ्गस्पर्शस्तेन उन्मथिते हृदये यो मकरध्वजा वेशस्तेन रुचिरं भावसूचकं स्मितं यासां ताः तस्यानुरागमदः साहजिको भक्तविषयकस्तेन मुदिते मदविघूर्णितारुणे च नागकुमारीविषयक - करुणावलोकविशिष्टे नयने यत्र तद्वदनारविन्दं सव्रीडं हन्त हन्तास्मद्धृदयविकारं प्रभुरयं ज्ञातवानिति लज्जापर्याकुलं यथा स्यात्तथा ॥ ५ ॥ * उपसंहृतेति । स्थितिकाले सम्प्रति रोषस्यानौचित्यादिति भावः । अमर्षोऽसहिष्णुता तदुत्थो रोषः क्रोधः ॥ ६ ॥ * * सुललितेन मुखरिकामृतेन वचनामृतेन कक्षां वरत्राम् ॥ ७ ॥ * * संश्लोकयामास पुरुषाद्यवतारत्वेन श्लोकैस्तुष्टाव ॥। ८ ।। + श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
- 8 श्रीमत्सङ्कर्षणवैभवं वर्णयति पञ्चविंशेनाध्यायेन तस्येति । तामसी प्रलयनिमित्तभूतरुद्रादिनियन्त्री सात्त्वतीयाः वेदार्थभूतभगवत्प्रोक्तसान्त्वततन्त्रनिष्ठाः श्रीमन्नारदादयश्चतुर्व्यूहोपासने यमनन्तं सङ्कर्षण इत्याचक्षते । तथाख्याने हेतुं दर्शयंस्तमेव विशिनष्टि । द्रष्टृदृश्ययोः सम्यक्कर्षण मेकीकरणं येन तं पुनः कीदृशमहमित्येवंभूतस्य रुद्रस्य लक्षणं स्वरूपं यस्मात्तम् ॥ १ ॥ यस्येत्यादियच्छब्दानां स एव भगवानित्यग्रिमेणान्वयः ॥ २ ॥ * * इदं विश्वमुपसंहर्तुमिच्छतः अमर्षेण विरचिते कुटिलीकृते रुचिरे भ्रमन्यौ भ्रुवौ तयोरन्तरेण मध्ये एकादशव्यूहः एकादशभेदवान् रुद्रः शूलमुत्तम्भयन्नुन्नमयन्नुदतिष्ठत् ।। ३ ।। * * सात्वतर्षभैः सह अहिपतयः अवनमन्तः यस्य सङ्कर्षणस्य अधिकमलयुगले अरुणाश्च विशदाश्च नखा एव मणयस्तेषां षण्डः समूहस्तस्य मण्डलेषु परिस्फुरतां कुण्डलानां प्रभया मण्डितानि गण्डस्थलानि येषु तानि वदनानि विलोकयन्ति ॥ ४ ॥ * * किञ्च यस्य सङ्कर्षणस्य आशिषः सम्पद आशासानाः चारूणि यान्यङ्गवलयान्यङ्गदानि तद्विलक्षिताश्च ते विशदा विपुलाच धवलाः सुभगाश्च रुचिराश्च भुजा एव रजतस्तम्भास्तेषु अगर्वादिपङ्क एवानुलेपस्तेनावलिम्पमानास्तेषामभिमर्शेनोन्मथिते हृदये मकरध्वज- स्यावेशेन रुचिरं च ललितं च स्मितं यासां ताः । तस्यानुरागमदेन भक्तविषय कस्नेहजनितेन मदेन मुदिते च मदविघूर्णिते स्वानन्द- मदेन प्रचलिते च आ ईषदरुणे च करुणावलोकयुक्ते नयने यस्मिन् तच्च तद्वदनारविन्दं विलोकयन्ति ।। ५ ।। अपराधा सहनममर्षः अपराधिदमनचेष्टा रोषः उपसंहृतस्तयोर्वेगो येन ॥ ६ ॥ सुरादिभिर्ध्यायमानः अनवरतमदेन नित्यनिरूढानन्दद्योतकस्वाङ्गचेष्टाविशेषेण मुदितश्चासौ विकृतविह्वललोचनश्च सुललितेन मुखरिकामृतेन वचनामृतेन स्वपार्षदादीन् आध्यायमानः संहर्षयन् नीले वाससी यस्य एकमेव कुण्डलं यस्य हलस्य ककुदि पृष्ठे कृतो न्यस्तः सुभगश्चासौ सुन्दरो भुजो येन उदारलीलः रुचिरक्रीडः न परिम्लानो रागः कान्तिर्यस्यास्तस्याः नवतुलसिकाया आमोदमध्वासवेन सुरभिमधुररसेन माद्यतां मधुकराणां व्रातास्तेषां मधुरगीतेन श्रीर्यस्यास्तां बिभर्ति कक्षां वरत्रां वारणेन्द्र ऐरावत इव ॥ ७ ॥ * तुम्बुरुणा गन्धर्वेण सह संश्लोकयामास || ८ ॥ ! गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी शेषाद्रुद्रसमुद्भूतिस्तन्माहात्म्यं तथैव च । नारदेन स्तुतिस्तस्य पञ्चविंशे निरूप्यते ॥ १ ॥
-
तस्य पातालस्य मूलदेशेऽधस्तात् त्रिंशद्योजन सहस्रान्तरे या वै प्रसिद्धा भगवतस्तामसी कला मूर्त्तिः अनन्त इति समाख्याता सा आस्ते इत्यन्वयः ॥ १ ॥ सात्त्वतीयाः सात्त्वतन्त्रनिष्ठा भक्ता वासुदेवादिचतुर्व्यूहोपासने यं सङ्कर्षण स्क. ५ अ. २५ श्लो. १-८ ] अनेकव्याख्यासमलङ्कृतम् | ५४३ इत्याचक्षते वदन्ति । तथा व्याख्याने हेतुमाह - द्रष्टृदृश्ययोश्चेतनाचेतनयोर्जीवशरीरयोः सम्यक् कर्षणमेकी करणं येन तम् । तच्च सङ्कर्षणं किमात्मकमिति जिज्ञासायामभिनयेन तद्दर्शयति- अहमिति । देहेन्द्रियादौ अहमित्यभिमानलक्षणमित्यर्थः । अतो जन्म- मरणादिसर्वानर्थ हेत्वहङ्कारनिवृत्तये तमुपासत इति भावः ॥ २ ॥ नन्वेवं सङ्कर्षण इत्यन्वर्थसचा सिद्धयति । अनन्त इति सज्ञा कथं तत्राह - यस्येदमिति । सिद्धार्थ इव सर्षप इव । यच्छब्दानां स एष भगवाननन्त इत्युत्तरेणान्वयः ॥ ३ ॥ * * तस्य तमोगुणाङ्गीकार कार्यमाह - यस्येति । कालेन प्रलयसमयेनोपलक्षितमिदं विश्वमुपसञ्जिहीर्षत उपसंहर्त्तुमिच्छतो यस्यामर्षेण क्रोधेन विरचिते कुटिलीकृते रुचिरे भक्तानां हृदयङ्गमे भ्रमन्यौ ये भ्रुवौ तयोरन्तरेण मध्यात् त्रिशिखं शूलमुत्तम्भयन्नुन्नमयन् त्र्यक्ष एकादशव्यूहः साङ्कर्षणो नाम रुद्र उदतिष्ठदित्यन्वयः || ४ || * * एवमुपसंहारार्थं तमोगुणाङ्गीकारेण तदा भयङ्करो - ऽपीदानीं स्वभक्तानां तु सत्त्वगुणाविष्कारेण प्रतीयमानो मनोहर एवेत्याशयेनाह - यस्येति । यस्याङ्घ्रिकमलयुगले येऽरुणा विशदाः स्वच्छा नखा एव मणयस्तेषां खण्डः समूहस्तन्मण्डलेषु अहिपतयः स्ववदनानि विलोकयन्तीत्यन्वयः । कथम्भूतानि ? परिस्फुरतां कुण्डलानां प्रभामण्डलेन मण्डितानि गण्डस्थलानि येषु तानि ॥ ५ ॥ * * नागराजकुमार्यो हि आशिषो भोगानाशासाना अभिकाङ्क्षन्त्यो यस्य चारुणि अङ्गवलये अङ्गमण्डले विलसिताश्च ते विशदाश्च विपुलाश्च धवलाश्च सुभगाश्च रुचिराश्च भुजा एव रजतस्तम्भास्तेषु अगरुचन्दनकुङ्कुमानां पङ्क एवानुलेपोऽनुलेपसाधनं तेनावलिम्पमाना अवलिम्पन्त्य एव तेषामभिमर्शनेनोन्मथिते हृदये मकरध्वजस्यावेशेन रुचिरं च ललितं च स्मितं यासां तास्तस्यानुरागेण मदेन च मुदितं च तन्मदेन विघूर्णिते प्रचलिते च आ ईषदरुणे करुणावलोकयुक्ते नयने यस्मिंस्तद्वदनारविन्दं सत्रीडं यथा भवति तथा विलोकयन्तीत्यन्वयः ॥ ६ ॥ * * उपसंहृतो- मर्षस्यासहनस्य तथा रोषस्य क्रोधस्य वेगो येन स तथा । तस्य प्रलयहेतुत्वेनेदानीं स्थितिसमयेऽनौचित्यात् ॥ ७ ॥ * ‘लोकानां स्वस्तये आस्ते’ इत्युक्तं तत्कथं स्वस्तीत्यपेक्षायां तद्ध्यानेनेत्यभिप्रेत्याह- ध्यायमान इति । निरन्तरं सुरादिभिर्थ्यायमानश्चिन्त्यमानः । स कथम्भूतस्तैश्चिन्त्यते तत्राह - अनवरतं निरन्तरं मदेन मुदितञ्चासौ विकृतविह्वललोचनश्च सः सुललितेन मुखरिकामृतेन वचनामृतेन सुन्दरश्च स्वपार्षदान् विबुधयूथानां पतींश्चाप्यायमानः हर्षयन् नीले वाससी यस्य सः, एकं कुण्डलं यस्य सः, हलस्य ककुदि पृष्ठे कृतः न्यस्तः सुभगश्च भुजो येन सः, उदारा भक्तानां मनोरथपूरिका लीला यस्य सः, न परिम्लानो रागः कान्तिर्यस्यास्तस्या नवतुलसिकाया आमोदमध्वासवेन सुरभिमधुररसेन माद्यतां मधुकराणां ये बाताः समूहास्तेषां मधुरगीतेन श्रीर्यस्यास्तां स्वां वैजयन्तीं चित्ररूपपुष्पग्रथितां वनमालां भगवान् बिभर्त्तीत्यन्वयः । तत्र दृष्टान्तमाह- माहेन्द्रो वारणेन्द्रः काञ्चनी कक्षां वरत्रामिवेति ॥ ८ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी शेषस्य संस्थितिः प्रोक्ता पञ्चविंशे ततोऽप्यधः । इदं काले जिहीर्षोस्तु यस्माद्रुद्रस्य संभवः ॥ १ ॥ 9 T , एवं पातालान्तानि भूविवराण्यनुवयथ पातालपर्यन्तभूमण्डस्य धारकं रसामूळे स्थितमनन्तमनुवर्णयति तस्येति । तस्य पातालस्य, मूलदेशे मूलप्रदेशे, अधस्तादिति शेषः । त्रिंशद्योजन सहस्रान्तरे, अनन्तः इति समाख्याता संप्रसिद्धा, अनन्तसंज्ञका इत्यर्थः । तामसी तामसाहंकाराधिष्ठात्री, या भगवतः कला अंशः मूर्त्तिरिति यावत् सा आस्ते वै । सात्त्वतीयाः संकर्षण- प्रोक्तसात्त्वताख्यपञ्चरात्रनिष्ठाः चतुर्व्यूहोपासने यामिति शेषः । संकर्षणम् इति, आचक्षते । नन्वस्या इदं संकर्षणमिति यन्नाम तत्किमश्वकर्णादिवत्केवलं रूढं किं वा पङ्कजादिवद्योगरूढमित्यपेक्षायां योगरूढमित्याह । द्रष्टृदृश्ययोः जीवदेहयोः, संकर्षणं सम्यक्कर्षणमेकीकरणं येन तं तत् कुतः, अहमित्यभिमानो लक्षणं चिह्नं यस्य तमहङ्काराधिष्ठातारं संकर्षणं, वदन्तीति शेषः । अहंकाराधिष्ठानेन द्रष्टृदृश्यसंकर्षण इत्यर्थः ॥ १ ॥ * *
-
- एवमनन्तशब्दोऽपि तस्मिन्योगरूढ इति वक्तुं तस्यानन्तत्वमाह यस्येदमिति । सहस्रशिरसः अनन्तमूर्त्तेः, यस्य भगवतः, एकस्मिन् एव शीर्षणि ध्रियमाणम् इदं क्षितिमण्डलं कृत्स्नं भूमण्डलं, सिद्धार्थः श्वेतसर्षपः इव लक्ष्यते दृश्यते । अतोऽपरिच्छिन्नत्वादनन्त इत्युच्यत इति भावः । यच्छब्दानां स एष भगवाननन्त इत्युत्तरेणान्वयः || २ || * * यदुक्तं तामसीति तामसाहंकाराधिष्ठातृत्वं तद्विशदयति यस्येति । कालेन द्विपरार्द्धावसान- रूपेणाने हसा, इदं कृत्स्नं जगत्, उपसंजिहीर्षतः संहर्तुमिच्छतः यस्य संकर्षणस्य, अमर्षेण क्रोधेन विरचिते कुटिलीकृते रुचिरे सुन्दरे भ्रमन्यौ ये भ्रुवौ तयोः, अन्तरेण तन्मध्यप्रदेशत इत्यर्थः । सांकर्षणः नाम संकर्षणनाम्ना प्रसिद्धः रुद्रः रुद्रसंज्ञितः एकादशानां व्यूहो गणः, त्रीणि अक्षीणि यस्य स त्र्यक्षः, तिस्रः शिखा यस्य तादृशं शूलं, उत्तम्भयन्नूर्ध्वं धारयन् ह स्फुटं यथा तथा उदतिष्ठत् उद्भूव वै ॥ ३ ॥
-
- सुभगत्वमाह यस्येति । अहिपतयः सर्पश्रेष्ठाः सात्त्वतर्षभैः सात्त्वतश्रेष्ठैः सह यस्य संकर्षणभगवतः, अङ्घ्रिकमलयोश्चरणपद्मयोर्य युगलं युग्मं तस्मिन्नरुणास्ताम्रवर्णा विशदाः शुद्धा नखा एव मणयस्तेषां पण्डः समूहस्तस्य मण्डलानि तेषु, एकान्तभक्तियोगेनाव्यभिचरितभक्तियोगेन अवनमन्तः प्रणमन्तः, उक्तविधनखमणिमण्डलेषु प्रतिबिम्बितानीति शेषः । अतिमनोहराणि परितः स्फुरतां कुण्डलानां प्रभाया मण्डलेन मण्डितानि गण्डस्थलानि येषु तानि, स्ववदनानि, प्रमुदितं मनो येषां तादृशाः सन्तः, विलोकयन्ति खलु ॥ ४ ॥ * * यस्यैवेति । नागराजकुमार्यः आशिषः पुरुषार्थान् आशासानाः कामयमानाः, यस्य संकर्षणस्य, एव हि । चारुभिरतिसुन्दरैरङ्गदैर्वल्यैश्च विलसिताः प्रकाशिताच ते विशदा निर्मलाश्च विपुला दीर्घा धवला ज्योत्स्नोज्ज्वलाः सुभगाः कोमलाः रुचिराः सुन्दराश्च ये भुजास्त एव रजतस्तम्भास्तेषु अगुरुचन्दनकुङ्कुमानां पङ्क , ge श्रीमद्भागवतम् J [ स्क. ५ अ. २५ श्लो. १-८ एवानुलेपस्तेन, अवलिम्पमानाः लेपनं कुर्वाणाः तेषां भुजानामभिमर्शेन स्पर्शेनोन्मथितं यद्धृदयं तस्मिन् यो मकरध्वजस्य कामस्यावेशस्तेन रुचिरं च ललितं च स्मितं यासां तास्तथाभूताः सत्यः, तस्य संकर्षणस्य अनुरागेण मदेन च मुदितं च तत् मदेन विघूर्णिते प्रचलिते च आ ईषदरुणे करुणावलोकयुक्ते नयने यस्मिंस्तच्च तद्वदनारविन्दं च तत् सत्रीडं यथा तथा विलोकयन्ति किल ।। ५ ।। ** स इति । स उक्तविधः, एष संकर्षणाख्यः भगवान्, अनन्तस्त्रिविधपरिच्छेदरहितः, अनन्तगुणार्णवः, आदिदेवो जगत्कारणभूतो देवः उपसंहृतः अमर्षरोषयोर्वेगो येन तथाभूतः सन् अमर्षोऽसहनं, रोषः क्रोधः, लोकानां साधुजनानां स्वस्तये सुखाय, आस्ते तिष्ठति ॥ ६ ॥ * उपासनार्थे पुनस्तं विशिनष्टि ध्यायमान इति । सुराश्च असुराश्च उरगाश्च सिद्धाश्च गन्धर्वाश्च विद्याधराश्च मुनिगणाश्च तैः ध्यायमानः अनवरतं मदेन मुदितश्चासौ विकृते विह्वले लोचने यस्य स च, सुललितं सुन्दरं यन्मुखरिकामृतं वचनामृतं तेन, स्वपार्षदाच विबुधयूथपतयश्च तान् आप्यायमानः संहर्षयन्, नीले वाससी यस्य सः, एकमेव कुण्डलं यस्य सः, हलस्य ककुदि पृष्ठे कृतो न्यस्तः सुभगः सुकुमारः सुन्दरो मनोहरो भुजो येन स एवंभूतः, भगवान् संकर्षणः, अपरिम्लानः अक्षीणः रागः कान्तिर्यस्याः सा चासौ नवतुलसिका च तस्या आमोद: मध्वासवो मधुररसश्च तयोः समाहारेण माद्यन्तो मदमुपगच्छन्तो ये मधुकराणां भ्रमराणां व्राताः समूहास्तेषां मधुरगीतेन श्रीर्यस्यास्तां, स्वामसाधारणी वैजयन्तीं वैजयन्त्याख्यां वनमालां, माहेन्द्रः महेन्द्रसंबन्धी, वारणेन्द्रो गजेन्द्र ऐरावतः स्वर्णमयीं कक्षां वरत्रां, इव उदारा लीला यस्य तथाभूतः सन्, बिभर्त्ति ॥ ७ ॥ * * एवं संकर्षण उपवर्णित इदानीमुक्तविधयोपास्यमानः सन्नुपासकानामन्तर्हृदयं गतः प्रकृतिसंबन्धं निरस्यतीत्याह य एष इति । यः एषः, भगवान् अनन्तः एवं अनुश्रुतः उक्तविधत्वेन गुरुमुखाच्छ्रतः, ध्यायमानोऽभिध्यायमानः सन्, ‘श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः’ इति श्रुत्यर्थोऽनेनात्र प्रत्यभिज्ञापितः, मुमुक्षूणां संसारादात्मानं मोक्तुमिच्छतां, अनादिकालप्रवृत्ताभिः कर्मवासना- भिर्ग्रथितं संदर्भितं, अविद्यामयं देहात्मभ्रान्ति स्वतन्त्रात्मभ्रान्तिरूपाज्ञानमयं हृदयग्रन्थि ग्रन्थिवत् दुर्मोच्यं, सत्त्वरजस्तमोमयं सत्त्वादिगुणत्रयप्रचुरं संसारमिति शेषः । गुणत्रयसंबन्धप्रयुक्तानादिकालप्रवृत्तां कर्मवासनाऽविद्याग्रन्थिरूपां संसृतिमित्यर्थः । अन्तहृदयं गतः सन्, आशु शीघ्रं, निर्भिनत्ति विनाशयति । ध्यानेन मुमुक्षूणामन्तहृ दये संनिहितः सन् शीघ्रं निरस्यतीत्यर्थः । तस्य भगवतः संकर्षणस्य, अनुभावमुक्तप्रकारं प्रभावं तुम्बुरुणा सह स्वायंभुवो ब्रह्मणः पुत्रः भगवान् नारदः ब्रह्मणश्चतुर्मुखस्य सभायां संश्लोकयामास वर्णयामास ॥ ८ ॥ । भाषानुवादः श्री सङ्कर्षणदेवका विवरण और स्तुति : श्रीशुकदेवजी कहते हैं— राजन् ! पाताललोकके नीचे तीस हजार योजनकी दूरीपर अनन्त नामसे विख्यात भगवान् की तामसी नित्य केला है । यह अहंकाररूपा होनेसे द्रष्टा और दृश्यको खींचकर एक कर देती है, इसलिये पाञ्चरात्र आगम के अनुयायी भक्तजन इसे ‘सङ्कर्षण’ कहते हैं ॥ १ ॥ * इन भगवान् अनन्तके एक हजार मस्तक हैं। उनमेंसे एकपर रक्खा हुआ यह सारा भूमण्डल सरसोंके दानेके समान दिखायी देता है ।। २ ।। प्रलयकाल उपस्थित होनेपर जब इन्हें इस विश्वका उपसंहार करनेकी इच्छा होती है, तब इनकी क्रोधवश घूमती हुई मनोहर भ्रुकुटियोंके मध्यभागसे सङ्कर्षण नामक रुद्र प्रकट होते हैं। उनकी व्यूहसंख्या ग्यारह है। वे सभी तीन नेत्रोंवाले होते हैं और हाथमें तीन नोकोंवाले शूल लिये रहते हैं ॥ ३ ॥ * भगवान् सङ्कर्षणके चरणकमलोंके गोल-गोल स्वच्छ और अरुणवर्ण नख मणियोंकी पक्तिके समान देदीप्यमान हैं। जब अन्य प्रधान प्रधान भक्तोंके सहित अनेकों नागराज अनन्य भक्तिभाव से उन्हें प्रणाम करते हैं, तब उन्हें उन नखमणियों में अपने कुण्डलकान्तिमण्डित कमनीय कपोलोंवाले मनोहर मुखारविन्दोंकी मनमोहिनी झाँकी होती है और उनका मन आनन्दसे भर जाता है ॥ ४ ॥ * * अनेकों नागराजोंकी कन्याएँ विविध कामनाओंसे उनके अङ्गमण्डलपर चाँदी के खम्भोंके समान सुशोभित उनकी वलयविलसित लंबी-लंबी श्वेतवर्ण सुन्दर भुजाओंपर अगरुजा, चन्दन और करती हैं । उस समय अङ्गस्पर्शसे मथित हुए उनके हृदय में कामका सञ्चार हो जाता है। तब वे उनके मदविह्वल करुण अरुण कुङ्कुमपङ्कका लेप नयनकमलोंसे सुशोभित तथा प्रेममदसे मुदित मुखारविन्दकी ओर मधुर मनोहर मुसकानके साथ सलज्जभावसे निहारने लगती हैं ॥ ५ ॥ * * रोके हुए वहाँ समस्त लोकोंके कल्याण के लिये विराजमान हैं ॥ ६ ॥ देवता, असुर, नाग, सिद्ध, गन्धर्व, विद्याधर और मुनिगण भगवान् अनन्तका ध्यान किया करते हैं। उनके नेत्र निरन्तर प्रेममदसे मुदित, चञ्चल और विह्वल रहते हैं । वे सुललित वचनामृत से अपने पार्षद और देवयूथपोंको सन्तुष्ट करते रहते हैं । उनके अङ्गपर नीलाम्बर और कानों में केवल एक कुण्डल जगमगाता रहता है तथा उनका सुभग और सुन्दर हाथ हलकी मूठपर रक्खा रहता है। वे उदारलीलामय भगवान् सङ्कर्षण गलेमें वैजयन्ती माला धारण किये रहते हैं, जो साक्षात् इन्द्रके हाथी ऐरावतके गले में पड़ी हुई सुवर्णकी शृङ्खला के समान । ४ वे अनन्त गुणोंके सागर आदिदेव भगवान् अनन्त अपने अमर्ष ( असद) और रोषके वेगको " FF. 4.37. 24 237. 9-23] अनेकव्याख्यासमलङ्कृतम् … ५४५ जान पड़ती है। जिसकी कान्ति कभी फीकी नहीं पड़ती, ऐसी नवीन तुलसीकी गन्ध और मधुर मकरन्दसे उन्मत्त हुए भौरे निरन्तर मधुर गुंजार करके उसकी शोभा बढ़ाते रहते हैं ॥ ७ ॥ * परीक्षित्! इस प्रकार भगवान् अनन्त-माहात्म्य- श्रवण और ध्यान करनेसे मुमुक्षुओंके हृदय में आविर्भूत होकर उनकी अनादिकालीन कर्मवासनाओंसे ग्रथित सत्त्व, रज और तमोगुणात्मक अविद्यामयी हृदयग्रन्थिको तत्काल काट डालते हैं । उनके गुणोंका एक बार ब्रह्माजीके पुत्र भगवान् नारदने तुम्बुरु गन्धर्व के साथ ब्रह्माजीकी सभा में इस प्रकार गान किया था ॥ ८ ॥ उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सच्चाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् । यद्रूपं ध्रुवमकृतं यदेकमात्मन् नानाधात्कथमुह वेद तस्य वर्त्म ॥ ९ ॥ मूर्ति नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र । यल्लीलां मृगपतिराददेऽनवद्यामादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥ यन्नाम श्रुतमनुकीर्तयेद कस्मादार्तो वा यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥ मूर्धन्यर्पितमणुवत्सहस्रमूनों भूगोलं सगिरिसरित्समुद्रसत्त्वम् | आनन्त्यादनिमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्रजिह्नः ॥ १२ ॥ ’ X P अन्वयः - अस्य उत्पत्तिस्थितिलयहेतवः सत्त्वाद्याः प्रकृतिगुणाः यदीक्षया कल्पाः आसन् यद्रूपम् ध्रुवम् अकृतम् यत् एकम् आत्मन् नाना अधात् तस्य वर्त्म उह कथम् वेद ॥ ९ ॥ * यत्र इदम् सदसत् विभाति सः उदारवीर्यः नः पुरुकृपया संशुद्धम् सत्यम् मूर्तिम् बभार स्वजनमनांसि आदातुम् अनवद्याम् यल्लीलाम् मृगपतिः आददे ॥ १० ॥ * * यदि पतितः श्रुतम् यन्नाम अकस्मात् आर्तः वा प्रलंभनात् अनुकीर्तयेत् नृणाम् अशेषम् अंहः सपदि हन्ति मुमुक्षुः भगवतः शेषात् अन्यम् कम् आश्रयेत् ॥ ११ ॥ * * सगिरिसरित्समुद्रसत्त्वम् भूगोलम् सहस्रमूर्ध्नः मूर्धनि अणुवत् अर्पितम् सहस्रजिह्नः कः आनंत्यात् अनिमितविक्रमस्य भूम्नः वीर्याणि अधिगणयेत् ॥ १२ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका अस्य जगत उत्पत्यादिहेतवो गुणा यस्येक्षया कल्पाः स्वस्वकार्यसमर्था आसन् यस्य तु रूपं ध्रुवमनंतमकृतमनादि । तत्र हेतुः यदेकमेव सदात्मन्नात्मनि नानाकार्यप्रपंचमधात् तस्य ब्रह्मरूपस्य वर्त्म तत्त्वं जनः कथमुह वेद नैव वेदेत्यर्थः ॥ ९ ॥ * * * तर्हि कथमसौ मुमुक्षुभिः सेव्यते तत्राह मूर्तिमिति । यत्रेदं सदसद्विभाति स नोऽस्माकं भक्तानां बहुकृपया संशुद्धं सत्त्वं मूर्ति बभार | स्वजनानां मनांस्यादातुं वशीकर्तुं कृतां यस्य लीलां मृगपतिः सिंह आददे अशिक्षत् । यतः उदाराणि वीर्याणि यस्य तस्मादन्यं मुमुक्षुः कमाश्रयेदित्युत्तरेणान्वयः । यद्वा कृपयेत्यत्र हेतुः । यद्यस्मात्स्वजनानां मनांस्यादातुं लीलामाददे मृगपतिरिवोदार- वीर्यः । यद्वा मृग्यंत इति मृगाः कामप्रदास्तेषां पतिर्मुख्यः ॥ १० ॥ * * किं च । आस्तां तस्य कृपया वपुर्धारणं तद्भजनं वा तन्नामौदार्यमेवातिचित्रमित्याह । यस्य नाम यदि पतितो महापातक्यप्यनुकीर्तयेत्तर्हि स शुद्धयेदिति किमु वक्तव्यम् । यतोऽ- सावेव नृणामशेषमहः सद्यो हंति । कथमनुकीर्तयेत् । अन्ततः श्रुतं वा कस्माद्वा आर्तो वा सम्प्रलंभनाद्वा परिहासात् तस्माच्छेषा- दन्यम् ।। ११ ।। गिर्यादिसहितं भूगोलं सत्त्वानि प्राणिनः । सहस्रजिह्वोऽपि गणयेत् ॥ १२ ॥ श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः तत्रानाद्यादित्वे । इत्यर्थ इति । अनंतत्वादिति भावः । चक्रवर्त्ती - कल्पा इति । यावत्पुरुषस्य प्रकृतावीक्षणं नासीत्ता- वत्सत्त्वाद्या गुणा महत्तत्त्वादीनामुत्पत्त्यादिषु न समर्था अभूवन्नित्यर्थः । यस्य रूपमाकारं ध्रुवं नित्यं यतोऽकृतमकृत्रिमं चिन्मयत्वा- दित्यर्थः । किं च यदेकमेव स्वदेहे रोमकूपप्रदेशेषु नाना कार्य प्रपञ्चमधाद्दधार पुपोष तस्य वर्त्म तत्त्वं प्राप्तिमार्ग वेति ॥ ९ ॥ * * अत्राशंकते - तर्हीति । मूर्त्ति रामकृष्णादिरूपाम् । यत्र यस्यां चिन्मय्यां मूत सदसदिदं जगद्विभाति । श्रीव्रजेश्वर्यापि दृष्टत्वादिति भावः । यद्यया मूर्त्या मृगपतिः सिंह इवानवद्यां लीलां " रुदन्निव हसन् मुग्धबालसिंहावलोकन: " इत्युक्तेः । किमर्थं स्वजनानां मनांसि हस्तिन इवाकृष्य ग्रहीतुं य एवोदारवीर्यः गिरिवरधारणादिपराक्रमवान् । संदर्भस्तु-मृगपतिः श्रीवराहः “जहास चाहो वनगोचरो मृगः” इति तत्रापि मृगशब्दप्रयोगात् यस्य लीलां पृथिवीधारणलक्षणां स्वीकृतवानिति परममाहात्म्यं दर्शितमिति । DINES १. प्रा० पा० भूगोलकं । २. प्रा० पा०र्याण्यभिगण० । ६९ गोल किए श्रीमद्भागवतम् [ स्कं.५ अ. २५ श्लो. ९-१२ 4 स्वामिव्याख्याने मनांस्यादातुमिति । मन्मूर्त्तिदर्शनेन तेषां मयि प्रीतिर्भविष्यतीत्यर्थः । सिंह आददे शौर्यादिलक्षणां लीलां सिंहोऽपि शेषादेवाशिक्षदित्यर्थः । सिंहे तल्लीला प्रायो न दृश्यतेऽत आह-यद्वेति । मृगपतिरिति लुप्तोपमा । मृगपर्तिर्यथा झटिति हस्त्यादि स्वीकरोति तथायमपि दुष्टानित्यर्थः । लुप्तोपमास्वीकारोऽप्यगतिक एवेति चेत्तत्राह - यद्वेति ॥ १० ॥ * * अन्यदाधिक्यमाह - यन्नामापि पतितपावनमिति किं वक्तव्यं यतः पतितमपि पावनीकरोतीति वदन्नेव शेषरूपेणापि स्तौति द्वाभ्यां यस्य नाम संकर्षण इत्यादि । सद्योंहो हंति अजामिलादौ तथा दर्शनादिति भावः ॥ ११ ॥ * * भगवद्विग्रहस्य मध्यमपरिमाणायमानत्वेऽपि बिभुत्वाद्भूमंडलस्याणुत्वमित्याह मूर्ध्नाति । न कोऽपीत्यर्थलब्धम् ॥ १२ ॥ श्रीमद्वीरराघवव्याख्या प्रथमं तद्वर्णने स्वस्यानधिकारद्योतनाय तत्स्वरूपस्य दुर्ज्ञेयत्वमभिप्रयन्कारणत्वेन तमुपलक्षयति उत्पत्तीति । अस्य जगतः उत्पस्यादिहेतुभूताः सत्त्वाद्याः प्रकृतिगुणाः सत्त्वरजस्तमोगुणाः क्रमोऽत्राविवक्षितः रजःसत्त्वतमोगुणाः क्रमेण जगदुत्पत्त्यादिहेतु- भूता यस्य भगवत ईक्षया सिसृक्षया कल्पाः सृष्टयादिसमर्था आसन बभूवुः गुणत्रयात्मिका प्रकृतिः स्वयं महदादिकार्य वर्गहेतुभूतापि स्वयमसमर्था सती यस्य सिसृक्षारूपेक्षया सृष्टयादिसमर्थाभूदित्यर्थः । अनेन जगन्निमित्तकारणत्वमुक्तम् “तदेक्षत बहु स्याम्” इति श्रौतस्य कर्तृत्वस्यात्र प्रत्यभिज्ञानात् निमित्तकारणत्वं नाम स्वशरीरभूत प्रकृतिपुरुषकालानां स्वकार्याकारेण परिणामोपयुक्तप्रवर्तना- श्रयत्वं यथा कुलालादेः स्वकीय मृत्पिण्डादेर्घटादिरूपपरिणामोपयुक्त प्रवर्तनाश्रयत्वम् । अथोपादानकारणत्वेन लक्षयति यद्रूपमिति । आत्मन्नात्मनि स्वस्मिन्नेवं देवादिनामरूपाद्यभावादविभागेन स्थितं ध्रुवं नित्यम् “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि " इति गीतोक्तेः कारणावस्थायामेवम्भूतं यद्रूपं प्रकृतिपुरुषात्मकं शरीरं तत्सिसृक्षानन्तरमात्मनि नानाकृतं देवादिनामरूपविभागविभक्तं कृतमधाद् धृतवान् तस्य भगवतः वर्त्म स्वरूपं लोकविलक्षणं कथमुह कथं हि वेद मादृशः इति शेषः । पूर्वमात्मन्यविभागेन स्थितमा - त्मनि नानाकृतं रूपमधादित्यनेनैकत्वनानात्वे आत्मपर्यन्त इति विज्ञायते । इदमेव हि तस्य उपादानत्वं यत्प्रकृतिपुरुषगतदेवादि- विभागस्य स्वशरीरभूतप्रकृतिपुरुषद्वारा आत्मपर्यन्तत्वमिति । यद्वा पूर्वमेकत्वेनात्मनि स्थितं पश्चान्नानाकृतमात्मन्यधादित्यन्वयः । धारणं चात्र अन्तः प्रविश्य प्रशासनेन । इयमेव हि परमात्मनः कारणता कार्यता च यदविभक्तनामरूप प्रकृतिपुरुषनियमनं विभक्त- नामरूपावस्थ प्रकृतिपुरुषनियमनं चेति ज्ञातव्यम् ॥ ९ ॥ * * यद्यप्येवं दुर्ज्ञेयं स्वरूपं तथापि भक्तानुजिघृक्षयैवं साङ्कर्षणं रूपं कृतवानिति कतिपयधर्मैर्वर्णयितुं शक्य इत्याह मूर्त्तिमिति । यत्र यस्मिन् भगवतीदं परिदृश्यमानं सदसश्चिदचिदात्मकं जगद्विभाति स भगवान्नोऽस्माकं कृपयास्मासु कृपयेत्यर्थः । संशुद्धं रजस्तमोभ्याममिश्रितं यच्छुद्धं सत्त्वं तन्मूर्त्तिं बभार दिव्यमङ्गलविग्रहरूपेण धृत- वानित्यर्थः । भक्तानां नोऽनुग्रहायैव निरतिशयकृपया मूर्त्तिमिमां बभारेति भावः । कथमेवं ज्ञायत इत्यत आह यदिति । यद्यस्मान्मृग- पतिः सिंह इवोदारवीर्यः । यद्वा मृग्यन्तेऽन्विष्यन्त इति मृगा ब्रह्मादयो देवास्तेषामपि पतिः “तं देवतानां परमं च दैवतं पतिं पतीनां परमं परस्तात्” इति श्रुतेः ब्रह्मादीनामप्यन्वेषणीय इति भावः । अनेन परत्वं सूच्यते, उदारवीर्यः जगत्कर्तृत्वादिसामर्थ्ययुक्त एवम्भूतोऽपि स्वजनानामस्माकं मनांस्यादातुं ग्रहीतुं स्ववशीकर्तुमिति यावत् अनवद्यामकर्मनिर्मितां लीलामहिपतिः सात्त्वतर्षभः नागराजकुमार्यादिसुखाराध्यः सात्वततन्त्रं प्रणयन् भूमण्डलभरणादिरूपां लीलामाददे परिगृहीतवान् । सात्त्वततन्त्रप्रणेतृत्वं महा- भारते उक्तम् “सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः । अस्मान् प्रवक्ष्यते धर्मान् मनुः स्वायम्भुवस्तथा ॥” इति । लीलामादद इत्यनेन सौलभ्यं सूच्यते, अनेनैव तद्वर्णने मादृशानामधिकार इति तात्पर्यम् ॥ १० ॥ * * एवं परत्वसौलभ्ययोगः समाश्रय- rangoक्तः, अथ नाम प्रभावपर्यालोचनयापि स एव समाश्रयणीय इत्याह यन्नामेति । आर्त्तः रोगादिपीडितः महापातक्यपि यस्य भगवतोऽनन्तस्य नाम यद्यनुकीर्तयेदकस्माद्वा प्रलम्भनाद्वा परिहासाद्वा यस्य नाम यदि श्रुतं च वा स्यादार्तेन पतितेन वा तर्हि स एव पतितादिः स्वपातित्यादिभिर्विमुक्त इतरेषामपि नृणामात्मानं स्मरतामशेषमहो दुरितं हन्ति । अतः मुमुक्षोः परम्परयाप्यशेष- दुरितनिरसनक्षमनामधेयाच्छेषादन्यं कमाश्रयेदित्यर्थः । शेषयति स्वाश्रितमिति नामनिर्वचनमत्राभिप्रेतम् ॥ ११ ॥ * कै “इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥” इत्युक्तरीत्या अनन्तकल्याणगुणगणराशे- रनन्तस्य साकल्येन कल्याणगुणान् वर्णयितुं कः प्रभुरित्याशयेनाह मूर्द्धनीति | गिरिभिः पर्वतैः सहिताः सरितः समुद्राः सत्त्वा जन्तवः यस्मिंस्तद्भूमण्डलं यस्य सहस्रशिरसोऽनन्तस्य मूर्द्धन्यणुवदर्पितं तस्य भूम्नोऽपरिच्छिन्नस्यानन्त्यादेवेतरैरियन्तयाविदितः विक्रमः प्रकारो यस्य तस्यानन्तस्य वीर्याणि कल्याणगुणरूपाणि सहस्रजिह्वोऽपि को वा गणयेदेतावन्तीति गणयेद्गणनां करोतीति भावः ।। १२ ।। . श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली हरेचतसृषु मूर्तिषु द्वितीयमूर्तेः शेषे विशेषसन्निधानात्तस्योपपन्नान् गुणांश्छेषस्यैव कीर्तयति उत्पत्तीति । अस्य जगतः उत्पत्यादिहेतवः सत्त्वाद्याः प्रकृतिगुणा यदीक्षया कल्पाः समर्था आसन्नुत्पत्त्यादाविति शेषः । नन्वचेतनस्य स्वतः प्रवृत्त्यनुपपत्ते- स्तत्सम्बन्धेन प्रवृत्तौ तस्यापि तद्विकारापत्तिरिति तत्राह यद्रूपमिति । ध्रुवं शश्वदेकप्रकारं कुतः अकृतमकृत्रिमत्वान्नित्यस्यापि जीवस्य S स्क. ५ अ. २५ श्लो. ९-१२ वर्तनं अनकव्याख्यासमलङ्कृतम् शरीरसम्बन्धेन विकारादकृतस्यापि प्रधानस्य कार्यरूपेण तु तत्त्वदर्शनादस्याकृतत्वमौपचारिकं किं न स्यादिति तत्राह यदेकमिति । यदेकं केवलं कार्यात्मना तत्संगेन वा विकारि न भवति “सच्च त्यच्चाभवत्” इति श्रुतेः कार्यत्वश्रुतेः कथं न तन्मुख्यं स्यादित्यत्राह आत्मन्निति । आत्मन्नात्मनि स्वाधारतया नानाविधं जगदधाद् धृतवान्न तु तद्रूपत्वेन “य उ त्रिधा तु पृथिवीमुतद्याम्” इति श्रुतेः । किञ्चाचिन्त्यमहिमत्वात्तत्स्वरूपं दुर्ज्ञेयमित्यभिप्रेत्य यत्तदौ सम्बध्नाति कथमिति । तस्य शेषान्तर्यामिणः सङ्कर्षणनामधेयस्य हरेर्वर्त्म कथमुह वेद् न कथमपीत्यर्थः “मुह्यन्ति यं सूरयः” इति स्वोक्ति हेत्यनेन स्मारयति ॥ ९ ॥ ** आत्मन्नानाधादित्ये- तत्संक्षिप्याह मूर्तमिति । सत्त्वं बलज्ञानसमाहारलक्षणमत एव संशुद्धं लोकदृष्ट्या मूर्तं परिमितं यत्र रूपे इदं सदसत्कार्य कारणा- त्मकमधिकरणाधेययोर्नामभेदः शङ्कनीयः, मृगपतिः सिंहो यस्य लीलां शौर्यादिलक्षणामाददे अशिक्षत लीलाकरणप्रयोजनमाह आद:- तुमिति । अनेनात्मन्नानाधादित्यत्र स्वाभिन्ना मत्स्यादिनानावतारा अप्यकृता इति ज्ञायते ॥ १० ॥ * * यन्नामस्मरणमात्रेणा- शेषजन्मार्जितपापक्षयश्रवणात्तन्नामकीर्तनेनाघक्षयो भवतीति किं वक्तव्यमित्यभिप्रेत्य स्तुवता शेषान्तर्यामी श्रीनारायण एवं स्तूयते अजामिलादौ दर्शनाच्चान्यनामकीर्त्तनेन तादृक्फला दर्शनाच्चेति भावेनाह यन्नामेति । शेषान्तर्यामिणो हरेरन्यं कं पुरुषं मुमुक्षुरित्य- नेन “अहं भोगप्रदो वत्स ! मोक्षदस्तु जनार्दनः” इत्युक्तिं स्मारयति ॥ ११ ॥ * * गुरुगिर्यादिधरधरागोलधृतिरपि शेषस्य हरिसन्निधानादेवान्यकृता नेति भावेनाह मूर्द्धनीति | विक्रमाणामानन्त्यात्साकल्येनाज्ञातपराक्रमस्य सहस्रजिह्नः शेष इत्यनेन स्पष्टयते ।। १२ ।। श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः मृगपतिः श्रीवराहदेवः ‘जहास चाहो वनगोचरो मृगः’ इति । तत्रापि मृगशब्दप्रयोगाद्यस्य लीलां पृथिवीधारणलक्षणामाददे स्वीकृतवानिति परममाहात्म्यं दर्शितम् ॥ १०-११ ॥ * * भगवद्विग्रहस्य मध्यमपरिमाणायमानत्वेऽपि विभुत्वाद्भूमण्डल- स्याणुत्वम् ।। १२-१५॥ इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमज्जीवगोस्वामिकृतक्रमसन्दर्भे पञ्चविंशोऽध्यायः ॥ २५ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी कल्पाः स्वस्वकार्यसमर्थाः यदीक्षयैव आसन् यावत्पुरुषस्य प्रकृतावीक्षणं नासीत्तावत् प्रकृतिगुणाः सत्त्वाद्या महत्तत्त्वा- दीनामुत्पत्त्यादिषु न समर्था अभूवन्नित्यर्थः । यस्य रूपमाकारः ध्रुवं नित्यं यतोऽकृतमकृत्रिमं चिन्मयत्वादित्यर्थः । किन यदेकमेव आत्मनि स्वदेहरोमकूपप्रदेशेषु नाना कार्यप्रपचमधाद्दधार पुपोष तस्य वर्त्म तत्त्वं तत्प्राप्तिमार्ग वा को वेद ।। ९ ।। * * राम- कृष्णाद्यवतारत्वेन स्तौति मूर्ति बभार । ननु किं प्रकृतिं न हि न हि संशुद्धं सत्त्वमत एव यत्र यस्यां चिन्मय्यां मूत सदसदिदं जगद्विभाति श्रीजेश्वर्यापि दृष्टत्वादिति भावः । यद्यया मूर्त्या मृगपतिः सिंह इव अनवद्यां लीलामाददे “रुदन्निव हसन्मुग्धबाल- सिंहावलोकन: " इत्युद्धवोक्तः, किमर्थं स्वजनानां मनांसि हस्तिन इव आदातुमाकृष्य ग्रहीतुं य एव उदारवीर्यः गिरिवरधारणादि- पराक्रमवान् ॥ १० ॥ * * यन्नामापि पतितपावनमिति किं वक्तव्यं यतः पतितमपि पावनीकरोतीति वदन्नेव शेषरूपत्वे- नापि स्तौति । द्वाभ्यां यस्य नाम सङ्कर्षण इति । पतितो महापातक्यपि यद्यनुकीर्त्तयेत्तर्हि संशुद्धयेदिति किं वक्तव्यं यतोऽसावेव स्वदर्शनदानादिना नृणामशेषमंहः सद्यो हन्ति कथमनुकीर्त्तयेदन्यतः श्रुत्वा अकस्माद्वा आत वा सन् प्रलम्भनात् परिहासाद्वा किं पुनः श्रद्धाभक्तिभ्याम् || ११ ॥ * * मूर्द्धनि एकस्मिन्नेव भूगोलमणुवत्तिष्ठति सत्त्वानि प्राणिनः सहस्रजिह्नः सन्नपि को गणयेत् ॥ १२ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः तस्य विश्वस्योत्पत्त्यादिहेतवः सत्त्वाद्या गुणा यस्य सङ्कर्षणस्येक्षयैव कल्पाः स्वकार्ये समर्थाः आसन्, यस्य रूपं मूर्ति ध्रुबं नित्यं यतोऽकृतमनादिसिद्धं यदेकमन्यनिरपेक्षं ब्रह्मैव आत्मन्नात्मनि विश्वाधारे नानाकार्यजातं विश्वमधात् तस्य वर्त्म कथं वेद जन इति शेषः, यदनुग्रहं विना न वेदेत्यर्थः ॥ ९ ॥ नन्वेकस्य स्वरूपमात्रस्य ब्रह्मणः सदानन्दमयस्य मूर्ति- धारणे सत्त्वादिना विश्वसृष्टयादिलीलायां च किं प्रयोजनमत्राह मूर्तिमिति । यत्र भगवति इदं सदसत् स्थूलसूक्ष्मरूपं विश्वं विभाति स नोऽस्माकमुपासकानां पुरुकृपया विपुलकरुणया सम्यक शुद्ध प्राकृतसत्त्वादिसंसर्गरहितं सत्त्वमप्राकृतं सत्वं मूर्त्तिं बभार दधार स्वजनानां मुमुक्षूणां मनांसि आदातुं विश्वसृष्टयादिलीलामाददे । विश्वसृष्टयादिलीलाभावे मुमुक्षूणां मनांसि ध्याने निगृहीतानि न भवेयुरित्यर्थः । कथम्भूतामनवद्यां स्वभावतः समस्तदोषशून्याम् । किञ्च मृगाः बुभुक्षवो जीवा अत्र मृगशब्दवाच्याः तेषामपि पतिः यत् यद्य एव तद्भोगसिद्धयेऽपि विश्वसृष्टयादिलीलामाददे यदुदारवीर्यः तस्मादन्यं मुमुक्षुः कमाश्रयेदित्युत्तरेण सम्बन्धः ॥ १० ॥ * * किन । यन्नामेति यस्य नाम श्रुतं गुर्वादितः अकस्माद्वा आत वा सन् 2 ५४८ श्रीमद्भागवतम् [ स्कं. ५ अ. २५ श्लो. ९-१२ प्रलम्भनात्परिहासाद्वा पतितो महापातक्यपि यदि कीर्त्तयेत्तर्हि अशेषमंहो हन्ति तत्रापि सपद्येव न च केवलमात्मन एवांहो हन्ति किन्तु नृणां स्वकीयानामन्येषामपि तस्माच्छेषादन्यं मुमुक्षुः कमाश्रयेत् । स्वयं भगवतः उपासनायाः परमपुरुषार्थत्वे का कथा यदंशः सङ्कर्षणो यदशः शेषस्तन्नामोच्चारणमात्रेणापि पतितोऽपि कृतार्थो भवेदिति फलितोऽर्थः ।। ११-१२ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी किं लक्षणं त्वस्तीत्यपेक्षायां सर्वानर्थं हेत्वध्यासनिवृत्तिरेवेत्याह- य एष इति । एवमुक्तप्रकारकोऽनुश्रुतो ध्यायमानश्र मुमुक्षूणामन्तर्हृदयं गतो हृदयग्रन्थिमाशु निर्भिनत्तीत्यन्वयः । ग्रन्थेर्दा माह-अनादीत्यादि । तत्र हेतुमाह- अविद्यामयमिति । तस्यैव विवरणं सत्त्वं रज इति ॥ ९ ॥ * 8 सह तुम्बुरुणा तुम्बुरुनाना गन्धर्वेण सह संश्लोकयामास वर्णया- मास ।। १० ।। * * किं वर्णयामासेत्यपेक्षायां तद्दर्शयति- उत्पत्तीति पञ्चभिः । अस्य जगत उत्पत्तिस्थितिलयहेतवः सत्त्वाद्याः प्रकृतिगुणा यस्येक्षया कल्पाः स्वस्वकार्ये समर्था आसन् । यस्य तु रूपं ध्रुवं नित्यम् । यतः अकृतमकृत्रिमं सच्चिदानन्दात्मकमित्यर्थः । एवं निमित्तत्वमुक्त्वा प्रकृत्या द्वैतापत्तिमाशङ्कय तस्यास्तच्छक्तित्वेनाभिन्नत्वमभिप्रेत्य सर्वोपादानकारणत्वमपि तस्यैवेत्याह-यदिति । यत् पूर्वमेकमेव सदात्मनि स्वस्मिन्नेव नाना कार्यं प्रपमधात् सङ्कल्पमात्रेणोत्पाद्य दधार । तस्य ब्रह्मणो वर्त्म तत्त्वं प्राप्तिमार्ग वा तत्कृपां विना जनः कथमु ह वेद ? कथमपि नैव वेदेत्यर्थः ॥ ११ ॥ तत्कृपां विना तन्मार्गस्य दुर्ज्ञेयत्त्वादेव स्वभक्तो- द्धारार्थं रामकृष्णादिनानाविधस्वरूपं विधाय लीलां करोति, तथा च तच्छ्रवणस्मरणसेवनादिना ते कृतार्था भवन्तीत्याह - मूर्तिमिति द्वाभ्याम् । यत्रेदं सदसत् स्थूलसूक्ष्मात्मकं कार्यकारणात्मकं वा विश्वं विभाति स सच्चिदानन्दात्मको भगवान् नोऽस्माकं भक्तानां पुरुकृपया मूर्ति बभार धार । कथम्भूतां मूर्तिमित्यपेक्षायामाह - सत्त्वं संशुद्धमिति, रजस्तमोभ्याममिश्रां शुद्धसत्त्वात्मिकामित्यर्थः । यश्चानवद्यां सर्वानर्थनिवर्तिकां लीलामाददे कृतवान् । किमर्थमित्यपेक्षायामाह - स्वजनानां भक्तानां मनांस्यादातुं लीलाश्रवणादिना स्वैकनिष्ठानि कर्त्तुमित्यर्थः । कथमेवंविधलीलां कर्त्तुं शक्नोति तत्राह - उदारवीर्य इति । एवं जनोद्धारे तस्य किं प्रयोजनमित्या - शङ्कयाह - मृगपतिरिति । यत् यस्मात् मृग्यन्ते फलादानार्थमिति मृगा वरप्रदा ब्रह्मादयस्तेषामपि पतिः एवम्भूतो भगवान् यदि जनोद्धारं न कुर्यात्तदा कः कुर्यादिति भावः ॥ १२ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी प्रथमं तद्वर्णनविधाने स्वस्यानधिकारत्वद्योतनाय तत्स्वरूपस्य दुर्ज्ञेयत्वमभिप्रयन्कारणत्वेन तमुपलक्षयति उत्पत्तीति । अस्य जगतः उत्पत्तिश्च स्थितिश्च लयश्च तेषां हेतवो निमित्तभूताः सत्त्वाद्याः प्रकृतिगुणाः प्रकृतिसत्त्वरजस्तमोगुणाः क्रमोऽत्राविवक्षितः । रजःसत्त्वतमोगुणाः क्रमेण जगदुत्पत्त्यादिहेतुभूताः सन्तीत्यर्थः । ते च यदीक्षया यस्य भगवतः सिसृक्षात्मिकया ईक्षया, कल्पाः सृष्टयादिसमर्थाः आसन्बभूवुः । गुणत्रयैकस्वरूपा प्रकृतिर्महत्तत्वादिकार्य वर्गहेतुभूता सत्यपि स्वयमसमर्थत्वाद्यदीयसिसृक्षारूपेक्षया सृष्टयादिसमर्थाभूदित्यर्थः । अनेनास्य जगन्निमित्तकारणत्वमुक्तम् । तदैक्षत बहु स्याम्’ इति श्रौतस्य कर्तृत्वस्यात्र प्रत्यभिज्ञानात् । निमित्तकारणत्वं नाम स्वशरीर भूतप्रकृतिपुरुषका लानां स्वकार्याकारेण परिणामोपयुक्तप्रवर्त्तनाश्रयत्वम् । यथा कुलालादेः स्वकीय- मृत्पिण्डादेर्घटादिरूपपरिणामोपयुक्तप्रवर्त्तनाश्रयत्वं, अथोपादानकारणत्वेन लक्षयति यद्रूपमिति । आत्मन्नात्मनि स्वस्मिन् यत्, एकं देवादिनामरूपाद्यभावादविभागेन स्थितं ध्रुवं प्रकृतिं पुरुषं चैव विद्वचनादी उभावपि’ इति गीतोक्तेः । यद्रूपं प्रकृतिपुरुषात्मकं शरीरं, तत् त्सिसृक्षानन्तरमिति शेषः। नाना उ एव कृतम् । देवादिनामरूपविभागविभक्तं कृतं सदित्यर्थः । अधात् धृतवान् । तस्य भगवतः, वर्त्म लोकविलक्षणस्वरूपं, कथमु ह कथं हि वेद मादृश इति शेषः । अत्र च पाठान्तरे, यद्यस्य रूपं तु, ध्रुवमनन्तम् । अकृतमनादि यत् एकम् एव सत् आत्मन्नात्मनि, नानाकार्यप्रपच’, अधातु । तस्य वर्त्म तत्त्वं, जनः कथं, उ ह वेद, न वेदैवे - त्यर्थः ॥ ९ ॥ * * यद्यप्येवं दुर्ज्ञेयं तत्स्वरूपमस्ति तथापि भक्तानुजिघृक्षयैवं सांकर्षणं रूपं कृतवानिति कतिपयधर्मैर्वर्णयितुं शक्य इत्याह मूर्त्तिमिति । यत्र यस्मिन् भगवति, इदं परिदृश्यमानं, सदसच्चिदचिदात्मकं जगत् विभाति । सः भगवान्, नोऽस्माकं पुरुकृपया, अस्मा स्वतिशयया दययेत्यर्थः । संशुद्धं रजस्तमोभ्याममिश्रितं, सत्त्वं शुद्धसत्त्वात्मिकमित्यर्थः । मूर्त्ति, बभार दिव्यमङ्गलरूपेण धृतवानित्यर्थः । कथमेवं ज्ञायत इत्यत आह । यद्यस्मात् मृग्यन्ते जनैरिति मृगा ब्रह्मादयो देवास्तेषां पतिः, ‘तं दैवतानां परमं च दैवतं पतिं पतीनां परमं परस्तात्’ इति श्रुतेः । यद्वा । इवेति शेषोपादाने । मृगपतिः सिंह इव, उदारवीर्यः जगत्कर्तृत्वादिसामर्थ्ययुक्तः । एवंभूतः परमेश्वरो भगवान्, स्वजनमनांसि स्वजनानामस्माकं मानसानि, आदातुं ग्रहीतुं, स्ववशंवदानि विधातुमिति यावत् । अनवद्यां निर्दोषां, लीला महिपतित्वसात्त्वतपालकत्वनागराज कुमार्यादिसुखाराध्यत्वसात्त्वततन्त्रप्रणेतृत्व- भूमण्डलसंधारणादिरूपां लीलामित्यर्थः । आददे परिगृहीतवान् । अनेनैवंविधस्य तव वर्णने मादृशामनधिकार इति तात्प । र्यम् ।। १० ।। * * किं चास्तां तस्य कृपया वपुर्धारणादिकं तन्नामौदार्यमेव तावदतिचित्रावहमित्याह यन्नामेति । आत रोगादिना पीडितः पतितो महापातक्यपि, यस्यानन्तस्य भगवतो नाम, यदि अकस्मात् अनुकीर्त्तयेदुच्चारयेत्, प्रलम्भनात्परिहा- साद्वा, यदि अनुकीर्त्तयेत् । यदि वा श्रुतं यः कैश्चिदुश्चारितं यन्नाम आर्तेन पतितेन वा श्रवणं कृतं भवेदित्यर्थः । तर्हि नृणां V , Iस्क. ५ अ. २५ श्लो. १३-१५ अनेकव्याख्यासमलंङ्कृतम् ५४९ श्रवणादिकर्तृणां पतितादिनराणां, अशेषम् अंहो दुरितं, सपदि हन्ति । यन्नामेति शेषः । अतः, शेषात् परंपरयाप्यशेषदुरितनिरसन- क्षमनामधेयादनन्तात्, भगवतः अन्यं कं मुमुक्षुः आश्रयेत् । अनेन शेषयति दुरितेभ्योऽवशेषयति स्वाश्रितानिति नामनिर्वचन- मप्यत्राभिप्रेतम् ॥ ११ ॥ * * ‘इषुश्चयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्त्तन्ते न गोविन्दगुणक्षयात्’ इत्युक्तरीत्यानन्तकल्याणगुणगणराशेर नन्तस्य साकल्येन गुणगणान्वर्णयितुं कः प्रभुरित्याशयेनाह मूर्द्धनीति | गिरिभिः पर्वतैः सहिताः सरितो नद्यः समुद्रा अर्णवाः सत्त्वा जन्तवो यस्मिंस्तत्, भूगोल, सहस्रमूर्ध्नः यस्यानन्तस्य मूर्द्धनि एकस्मिन्नेव यस्मिन्कस्मिंश्चिच्छिरसि, अर्पितम् अणुवत् भासते । भूम्नोऽपरिच्छिन्नस्य, अनिमितोऽगणितो विक्रमः पराक्रमो यस्य तस्यानन्त- भगवतः, वीर्याणि कल्याणगुणरूपाणि सामर्थ्यानि, आनन्त्यादन्तवर्जितत्वाद्धेतोः सहस्रजिह्नः सन्नपि को वा अधिगणयेत् । एतावन्ति सन्तीति गणनां कर्तुं समर्थः स्यादित्यर्थः ।। १२ ।। भाषानुवादः है ४ जिनकी दृष्टि पड़ने से ही जगत् की उत्पत्ति, स्थिति और प्रलय के हेतुभूत सत्त्वादि प्राकृत गुण अपने-अपने कार्य में समर्थ होते हैं, जिनका स्वरूप ध्रुव (अनन्त) और अकृत ( अनादि ) है तथा जो अकेले होते हुए ही इस नानात्मक प्रपञ्चको अपने में धारण किये हुए हैं - उन भगवान् सङ्कर्षणके तत्त्वको कोई कैसे जान सकता है ? ॥ ९ ॥ * * जिनमें यह कार्य-कारणरूप सारा प्रपञ्च भास रहा है तथा अपने निजजनोंका चित्त आकर्षित करनेके लिये की हुई जिनकी वीरतापूर्ण लीलाको परमपराक्रमी सिंहने आदर्श मानकर अपनाया है, उन उदारवीर्य सङ्कर्षण भगवान् ने हमपर बड़ी कृपा करके यह विशुद्ध सत्त्वमय स्वरूप धारण किया है ॥ १० ॥ * * जिनके सुने-सुनाये नामका कोई पीड़ित अथवा पतित पुरुष अकस्मात् अथवा हँसी में भी उच्चारण कर लेता है तो वह पुरुष दूसरे मनुष्योंके भी सारे पापोंको तत्काल नष्ट कर देता है - ऐसे शेषभगवान् को छोड़कर मुमुक्षु पुरुष और किसका आश्रय ले सकता है ? ॥। ११ ॥ * * यह पर्वत, नदी और समुद्रादिसे पूर्ण सम्पूर्ण भूमण्डल उन सहस्रशीर्षा भगवान् के एक मस्तकपर एक रजःकणके समान रक्खा हुआ है । वे अनन्त हैं, इसलिये उनके पराक्रमका कोई परिमाण नहीं है । किसीके हजार जीमें हों, तो भी उन सर्वव्यापक भगवान् के पराक्रमोंकी गणना करनेका साहस वह कैसे कर सकता है ? ।। १२ । ।। 1 एवम्प्रभावो भगवाननन्तो दुरन्तवी यरुगुणानुभावः । मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये विभर्ति ॥ १३ ॥ एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान् कामयमानैः ॥ १४ ॥ एतावतीहि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥ काय वर इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ अन्वयः— एवं प्रभावः अनन्तः दुरन्तवीर्योरुगुणानुभावः आत्मतंत्रः भगवान् रसायाः मूले स्थितः यः स्थितये लीलया क्ष्माम् बिभर्ति ॥ १३ ॥ * * कामान् कामयमानैः नृभिः उपगन्तव्याः यथाकर्मविनिर्मिताः एताः एव ह गतयः इह यथोपदेशम् अनुवर्णिताः ॥ १४ ॥ * * राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य उच्चावचाः विसदृशाः एतावतीः हि विपाकगतयः यथाप्रश्नम् व्याचख्ये अन्यत् किम् कथयामः इति ।। १५ ।। इति पञ्चविंशोऽध्यायः ॥ २५ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका दुरंतं वीर्यं बलं यस्य । उरवो गुणा अनुभावश्च यस्य स च स च रसाया भूमेर्मूले स्थितस्तिष्ठति । आत्मतंत्र आत्मा - धारः ।। १३ ।। * * उक्तस्य लोकविभागस्योपयोगं वदन्नुपसंहरति । एता ह्येवेह कामान्कामयमानैर्नृभिरुपगंतव्या इत्यन्वयः ।। १४ ।। तस्य प्रपंचः । एतावत्यो विपाकगतयः फलभूता गतयस्ता व्याचख्ये व्याख्यातवानस्मि ।। १५ ।। इति श्रीमद्भागवते पञ्चमस्कंधे टीकायां पंचविंशतितमोऽध्यायः ॥ २५ ॥ १. प्रा० पा० - वीर्यो गुणानुभावः । 450 श्रीमद्भागवतम् श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः [ स्कं. ५ अ. २५ श्लो. १३-१५ एवंप्रभाव उक्तलक्षणप्रभाववान् ॥ १३ ॥ * * यथोपदेशं यथाशास्त्रम् ॥ १४ ॥ * उच्चावचानामेक- रूपत्वासंभवादाह-विसदृशा इति । वक्तव्यांशानां बहुत्वादाह- किमन्यदिति ॥ १५ ॥ । ।। इति श्रीमद्भागवत भावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे पंचविंशोऽध्यायः ॥ २५ ॥ श्रीमद्वीरराघवव्याख्या किमिदं भूमण्डलं कर्मवशाद्विभर्त्ति नेत्याह एवमिति । एवंप्रभावः उक्तविधापरिच्छिन्नप्रभावः अत एवानन्तः अनन्तपदं पुष्कलप्रवृत्तिनिमित्ताश्रयं दुरन्तमपारं वीर्यं बलं यस्य उरवो गुणास्तेषामनुभावः प्रभावो यस्य स भगवान् सङ्कर्षण आत्मतन्त्रः स्वतन्त्रः अकर्मवश्य एव सँल्लीलया स्थितयेऽवस्थानाय पालनायेति यावत् पृथ्वीं बिभर्ति ॥ १३ ॥ * * उक्तमुपसंहरति एता इति । कामान् कामयमानैर्नृभिरुपगन्तव्याः प्राप्याः तत्तत्कर्मानुसारेणेश्वरेण सृष्टाः गतयः फलरूपा लोका इह ब्रह्माण्डे एता एवैतावत्य एव ताश्च यथोपदेशं सम्प्रदायागतोपदेशमनतिक्रम्यानुवर्णिताः ॥ १४ ॥ * * एवमुक्तमुपसंहृत्य राज्ञः ।। ।। प्रश्नावसर प्रदानाय उक्ता गतयो नृभिर्द्धर्मैः प्राप्या इति पुनरुपसंहरति एता इति । हे राजन् ! पुंसः संसारिणः प्रवृत्तिरूपस्य सकामस्य धर्मस्य विपाकगतयः फलरूपा गतयो नानाविधा विसदृशाः सुखदुःखतारतम्येन व्यवस्थिताः । एतावत्य एव ताश्च यथाप्रश्नं व्याख्याताः वर्णिता मयेति शेषः ।। १५ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां पञ्चविंशोऽध्यायः ॥ २५ ॥ श्रीमद्विजयध्वज तीर्थकृता पदरत्नावली शेषे त्वसम्भावितगुणकर्मकथनपूर्वकं स्तवनमुपसंहरति एवमिति । दुरन्तवीर्य इत्यनेनानन्तनाम हरेरेव मुख्यं नान्यस्य “अतोऽनन्तेन लिङ्गमप्यनन्तः” इत्यादिसूत्रस्मृती प्रमाणमिति दर्शयति । स्वगुणानेवानुभवति भुङ्क्त इति कर्मण्यण्प्रत्ययः, देहिदेह- स्थितत्वेन दुःखानुभवस्यापि सम्भवात्कथं स्वगुणभोग इत्यत उक्तम् आत्मतन्त्र इति । भारस्य भर्तुः श्रमदर्शनादौपचारिकमिदं स्वातन्त्र्यं किं न स्यादित्यत उक्त यो लीलयेति ॥ १३ ॥ * * परीक्षित्प्रश्नपरिहारार्थमुपसंहरति एता हीति । गम्यन्त इति गतयो लोका उपगन्तव्या धर्मफलत्वेन यथाकर्मनिर्मितास्तारतम्येनेति शेषः । एवशब्देन निषिद्धकर्मप्राप्य स्थानमन्तरेणान्य- व्यवच्छेदः क्रियते । हिशब्दः प्रमाणप्रसिद्धिं वक्ति मुक्तिगतेरन्यस्याः विद्यमानत्वात् कथमेतावत्य इतीयत्तेति तत्राह कामानिति । मुक्तेरपीच्छाविषयत्वादित्यतः सामान्येनोक्तं विशिनष्टि प्रवृत्तिलक्षणस्येति । उच्चावचानां सालक्षण्यं नास्तीत्याशयेनोक्तं विसदृशा इति यथाप्रश्नं व्याख्याताः – इत्यनेनान्योऽपि वक्तव्यांशोऽस्तीति ज्ञायते । तत्र वक्तव्यांशा बहवः सन्ति तेषु किं वक्तव्यं तदाख्याहि तस्यापि परिहारं कथयाम इत्याशयेनाह । किमन्यदिति ।। १४-१५ । इति श्रीमद्भागवते महापुराणे पञ्चमस्कंधे श्रीमद्विजयध्वजतीर्थकृतपद रत्नावल्यां पञ्चविंशोऽध्यायः ॥ २५ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी दुःशब्दो ननर्थः ॥ १३ ॥ * * कामान् कामयमानैर्नृभिः ।। १४-१५ ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । पञ्चमे पञ्चविंशोऽयं सङ्गतः सङ्गतः सताम् ॥ २५ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः दुरन्तमनन्तं वीर्यं बलं यस्य उरवो गुणाः अनुभावाश्च यस्य स च स च रसाया भूमेर्मूले आत्मतन्त्रः स्वाधीनः सन् क्ष्मां बिभर्ति ॥ १३ ॥ * * उक्तलोकविभागमीश्वरकृतं सोपयोगं सम्प्रदायतो मयोक्तमित्याह एता इति । एताः गतयः || ॥ विनिर्मिताः कर्मणेति शेषः, कामान् कामयमानैर्नृभिर्यथाकर्म उपगन्तव्याः यथोपदेशं मया चानुवर्णिताः, न तु स्वबुद्धिमात्रेण ॥ १४ ॥ * * लोकविभागमुपसंहरति । एतावतीः एतावत्यः पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतयः फलभूमयः सन्ति याः व्याचख्ये व्याख्यातवानस्मि ।। १५ ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमच्छुकदेवकृतसिद्धान्तप्रदीपे पञ्चविंशाध्यायार्थप्रकाशः ॥ २५ ॥
गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी यदि तस्य नामकीर्त्तनमात्रेणापि सर्वानर्थनिवृत्तिस्तदा निरन्तरं तद्बधानसेवापराणां तन्निवृत्तिर्भवतीति किं वक्तव्यमित्या- शयेनाह यन्नामेति । यस्य भगवतो नामान्यतः श्रुतम् अकस्माद्वा आर्त्तो दुःखितो दुःखनिवृत्त्यर्थं वा प्रलम्भनादुपहासाद्वा पतितो महापातक्यपि यद्यनुकीर्त्तयेत्तर्हि सोऽपि सद्यः संशुद्धयेदेवेति शेषेणान्वयः । यतोऽसौ नामकीर्त्तनं नृणामशेषमहः सर्व पापं सपद्येव हन्ति । अजामिलादिषु तत्प्रसिद्धेः । अतो भगवतः शेषादन्यं कं मुमुक्षुराश्रयेत् ॥ १३ ॥ * * इदानीं स्थितिहेतुत्वं प्रदर्शयंस्त- स्क. ५ अ. २५ श्लो. १३१५] अनेकव्याख्यासमलङ्कृतम् ५५१ द्विक्रमवर्णनस्य अशक्यत्वमाह - मूर्द्धनीति । यस्य सहस्रमूर्ध्नः शेषस्यैकस्मिन्नेव मूर्द्धन्यर्पितं स्वेच्छया स्थापितं गिर्यादिसहितं भूगोलमणुवत्तिष्ठति तस्यानवसिते विक्रमस्य अपरिसमाप्तपराक्रमस्य वीर्याणि सहस्रजिह्वोऽपि को गणयेदित्यन्वयः । कुतस्तद्गणना अशक्येत्यपेक्षायामाह - आनन्त्यादिति । ननु भूमेरधःस्थस्य ब्रह्माण्डान्तःपातिनो मूर्द्धनि स्थितस्य भूमण्डलस्य कथमणुसादृश्यं सम्भवति ? भूम्यपेक्षयाऽल्पत्वप्रतीतेरित्याशङ्कय लौकिकदृष्टया तथा प्रतीतावपि वस्तुतो विभुत्वादित्यभिप्रेत्याह- भूम्न इति ॥ १४ ॥ नन्वेतदपि कथं सम्भवतीत्याशङ्कयाचिन्त्यानन्तशक्तित्वात्तत्र न काप्यसम्भावनेत्याशयेनाह - एवमिति । एवमचिन्त्यः प्रभावो यस्य स तथाभूतो भगवाननन्तः । भगवत्त्वमेव विशदयति- दुरन्तमनन्तं वीर्यं बलं यस्य उरवो बहवो गुणा ज्ञानवैराग्यैश्वर्यादयः अनुभावः शक्तिश्च यस्य स च अत एवात्मतन्त्रः । यो रसायाः भूमेर्मूले स्थितः सन् लीलयाऽनायासेनैव जगतः स्थितये क्ष्मां पृथिवीं बिभर्ति धारयतीत्यर्थः ।। १५ ।। * * उक्तस्य लोकविभागस्योपयोगं वदन्नुपसंहरति- एता इति । इह प्रवृत्ति- मार्गे कामान् कामयमानैर्नृभिरुपगन्तव्या यथाकर्म तत्तत्कर्मानुसारेण विनिर्मिताः गतय एता एव हि प्रसिद्धा यथोपदेशं मयाऽनु- वर्णिता इत्यन्वयः ॥ १६ ॥ * * उपसंहृतमेव प्रपञ्चयन् पुनः प्रश्ने प्रवर्त्तयति - एतावतीरिति । हे राजन्निति स्नेहेन सम्बोधयन् स्वस्य तदनुकूलत्वं सूचयति । प्रवृत्तिलक्षणस्य धर्मस्य कामस्य कर्मणो विपाकरूपाः फलभूता या उच्चाः स्वर्गादिरूपाः अवचा नीचाः पातालादिरूपाः तत्रासुरसर्पादीनां सुदर्शनादिभयस्य दर्शितत्वादविसदृशा मध्यमा मर्त्यलोकादिरूपा दुःखसुखोभयस्य प्रबलत्वात् पुंसो गतयस्ता हि एतावतीः यथाप्रश्नं तव प्रश्नानुसारेण अहं व्याचख्ये व्याख्यातवानस्मि । इत्यतोऽन्याः अपि निवृत्ति- लक्षणस्य धर्मस्य तथा निषिद्धलक्षणस्य धर्मस्य फलभूता गतयो बह्वचः सन्ति तत्र किमन्यत् कथयामस्तद् ब्रूहीति शेषेणान्वयः । अत्र सूर्यादधस्ताद्भूमिपर्यन्तं एकलक्षयोजनानि ततोऽधस्तात् पातालपर्यन्तं गर्भोदकसञ्ज्ञं जलं, तन्मध्येऽधस्तात् कूर्मस्तस्योपरि शेष इत्येवं सूर्यादधोऽण्डकटाहपर्यन्तं पञ्चविंशतिकोटियोजनानीति ज्ञेयम् ॥ १७ ॥ १ पाद सेवाधिकारिणा ॥ १ ॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां श्रीमद्द्विरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र ह्यधस्स्थाननिरूपणे । पञ्चविंशो गतो वृत्ति शेषस्थाननिरूपकः ॥ ३ ॥ । विशोगतो श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी ॥ ॥ हो । किमिदं भूमण्डलमयं कर्मवशाद्विभर्त्ति नेत्याह एवमिति । एवंप्रभावः उक्तविधा परिच्छिन्नमहैश्वर्यः, अत एव अनन्तः दुरन्तमपारं वीर्यं यस्य सः, उरवो ये गुणास्तेषामनुभावाः प्रभावा यस्य स चासौ स च यः संकर्षणः भगवान्, आत्मतन्त्रः स्वतन्त्रः अकर्मवश्यः सन्नेवेति यावत्, लीलया स्थितयेऽवस्थानाय पालनायेति यावत् । रसाया भूमेः मूले स्थितः सन् क्ष्मां पृथिवीं, विभर्त्ति ।। १३ ।। * * उक्तस्य लोकविभागस्योपयोगं वदन्नुपसंहरति एता ह्येवेति । कामान् कामयमानैः नृभिः, उप- गन्तव्याः प्राप्तव्याः, यथाकर्म विनिर्मिताः तत्तत्कर्मानुसारेणेश्वरेण सृष्टाः गतयः कर्मफलरूपा लोकाः, इह ब्रह्माण्डे, एता व एतावत्य एव । अवधारणद्वयं तूक्ताधिकत्वाभावद्योतनाय । ताश्च यथोपदेशं संप्रदायागतोपदेशमनतिक्रम्य, अनुवर्णिताः ||१४|| एवमुक्तमुपसंहृत्य राज्ञः प्रश्नावसर प्रदानायोक्ता गतयो नृभिर्धर्मैः संप्राप्या इति पुनरुपसंहरति एतावतीरिति । हे राजन्, पुंसः संसारिणो जीवस्य प्रवृत्तिलक्षणस्य प्रवृत्तिरूपस्य सकामस्येति यावत् । धर्मस्य, विपाकगतयः फलरूपा गतयः, उच्चावचाः उच्चनीच- भावेन नानाविधाः, विसदृशाः सुखदुःखतारतम्येन व्यवस्थिताः सत्यः, एतावतीरेतावत्यः एव । ताश्च यथाप्रश्नं व्याख्याता वर्णिताः मयेति शेषः । किं अन्यत् कथयामः । इति शुकः राजानं प्रत्युवाचेति शेषः ।। १५ ।। इति श्रीधर्मधुरंधरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तम सहजानन्दस्वामिसुतश्रीरघुवीराचार्यसूनु भगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे पञ्चविंशतितमोऽध्यायः ॥ २५ ॥ भाषानुवादः वास्तव में उनके वीर्य, अतिशय गुण और प्रभाव असीम हैं । ऐसे प्रभावशाली भगवान् अनन्त रसातलके मूल में अपनी ही महिमा में स्थित स्वतन्त्र हैं और सम्पूर्ण लोकोंको स्थितिके लिये लीलासे ही पृथ्वीको धारण किये हुए हैं ।। १३ ।। * * राजन् ! भोगोंकी कामनावाले पुरुषोंकी अपने कर्मों के अनुसार प्राप्त होनेवाली भगवान्की रची हुई ये ही गतियाँ हैं । इन्हें जिस प्रकार मैंने गुरुमुखसे सुना था, उसी प्रकार तुम्हें सुना दिया ॥ १४ ॥ * मनुष्यको प्रवृत्तिरूप धर्मके परिणाममें प्राप्त ।। ।। होनेवाली जो परस्पर विलक्षण ऊँची-नीची गतियाँ हैं, वे इतनी ही हैं; इन्हें तुम्हारे प्रश्नके अनुसार मैंने सुना दिया। अब बताओ, और क्या सुनाऊँ ? ।। १५ ।। इति पञ्चविंशोऽध्यायः ॥ २५ ॥ axe Per अथ षडविंशोऽध्यायः महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ।। १ ।। राजोवाच ऋषिरुवाच त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति ।। २ ।। अथेदानीं प्रति- षिद्धलक्षणस्य धर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणाम - लक्षणाः सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्यामः ॥ ३ ॥ राजोवाच नरका नाम भगवन् किं देशविशेषा अथवा बहित्रिलोक्या आहोस्विदन्तराल इति ॥ ४ ॥ ऋषिरुवाच अन्तराल एवं त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद् भूमेरुपरिष्टाच्च जलाद्यस्यामनिष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ ५ ॥ यत्र ह वाव भगवान् पितृराजो वैवस्वतः स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः सगणो दमं धारयति ॥ ६ ॥ तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचिरयःपानमिति । किञ्च क्षारकर्दमो रक्षोगणभोजन: शूलप्रोतो दन्दशू कोsवनिरोधनः पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥ ७ ॥ तंत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामित्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडन संतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुयंत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रमाये || ८ || अन्वयः - महर्षे एतत् लोकस्य वैचित्र्यम् कथम् इति ॥ १ ॥ * * श्रद्धया कर्तुः त्रिगुणत्वात् कर्मगतयः पृथग्विधाः सर्वाः एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥ अथ इदानीम् प्रतिषिद्धलक्षणस्य अधर्मस्य कर्तुः तथा एव श्रद्धायाः वैसादृश्यात् कर्मफलम् विसदृशम् भवति या हि अनाद्यविद्यया कृतकामानाम् तत्परिणामलक्षणाः सहस्रशः सृतयः प्रवृत्ताः तासाम् प्राचुर्येण अनुवर्णयिष्यामः ॥ ३ ॥ * * भगवन् नरकाः नाम देशविशेषाः किम् अथवा त्रिलोक्याः बहिः आहोस्वित् अंतराले इति ॥ ४ ॥ * * त्रिजगत्याः तु अन्तराले एव दक्षिणस्याम् दिशि भूमेः अधस्तात् च जलात् उपरिष्टात् यस्याम् दिशि अग्निष्वात्तादयः पितृगणाः परमेण समाधिना स्वानाम् गोत्राणाम् सत्याः एव आशिषः आशासानाः निवसन्ति ||५|| यत्र ह वाव अनुल्लंघितभगवच्छासनः सगणः भगवान् पितृराजः वैवस्वतः स्वपुरुषैः स्वविषयम् प्रापितेषु संपरेतेषु जंतुषु यथाकर्मा- वद्यम् दोषम् एव दमम् धारयति ॥ ६ ॥ * * तत्र ह एके नरकान् एकविंशतिम् गणयन्ति राजन् अथ ते तान् नामरूप- लक्षणतः अनुक्रमिष्यामः तामिस्रः अंधतामिस्रः रौरवः महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनम् सूकरमुखम् अन्धकूपः १. प्राचीने पाठे ‘ऋषिरुवाच’ पाठो न । २. प्रा० पा०- कर्तृश्रद्धायाः । ३. प्रा० पा० - कर्तृश्रद्धायाः । ४. प्रा० पा०-विद्याकामानां । ५. प्रा० पा० - शूकोऽवटनिरोधनं पर्यावर्त्तनं । स्कं. ५ अ. २६ इलो. १-८] अनेक व्याख्या समलङ्कृतम् ५५३ कृमिभोजनः संदंशः तप्तसूर्मिः वज्रकंटकशाल्मली वैतरणी पूयोदः प्राणरोधः विशसनम् लालाभक्षः सारमेयादनम् अवीचिः अय:- पानम् इति किंच क्षारकर्दमः रक्षोगणभोजनः शूलप्रोतः ददशूकः अवटनिरोधनः पर्यावर्तनः सूचीमुखम् इति अष्टाविंशतिनरकाः विविधयातनाभूमयः ॥ ७ ॥ * * तत्र यः तु परवित्तापत्यकलत्राणि अपहरति सः हि कालपाशबद्धः अतिभयानकैः यम- पुरुषैः तामिस्रे नरके बलात् निपात्यते यत्र तामिस्त्रप्राये अनशनानुदपानदंडता डनसंतर्जनादिभिः यातनाभिः यात्यमानः जन्तुः कश्मलम् आसादितः एकदा एव मूर्च्छाम् उपयाति ॥ ८ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका षड्विंशे तु ततोऽधस्तान्नरकस्थितिरुच्यते । पापिनो यत्र दांते यमदूतैर्यथायथम् ॥ १ ॥ पुंसो गतय उच्चावचा विसदृशा इति भोगवैचित्र्यमुक्तं तदेतत्कुत इति पृच्छति । महर्ष इति ॥ १ ॥ * * कर्मणः समानत्वेऽपि श्रद्धावैचित्र्यात्फलवैचित्र्यमिति परिहरति । त्रिगुणत्वादिति । सात्विक्या श्रद्धया कर्तुः सुखित्वं राजस्या सुखित्वं दुःखित्वं च तामस्या दुःखित्वं मूढत्वं च । तत्रापि तासां श्रद्धानां तारतम्यात्सुखादितारतम्यं सर्वेषामित्यर्थः ।। २ ।। * * प्रतिषिद्धं प्रतिषेधः स एव लक्षणं प्रमाणं यस्याधर्मस्य कर्तुः श्रद्धा वैसादृश्यं तमसस्तारतम्यात् तत्रापि कारणं दर्शयन्नाह । अनाद्यविद्याकृतानां कामानां याः सृतयो नरकास्तासां ताः अथेदानीं ताः प्राचुर्येणानुवर्णयिष्याम इत्यन्वयः ॥ ३ ॥ * किं भूमावेव देशविशेषाः त्रिलोक्याः ब्रह्मांडाद्बहिर्वा आवरणेषु मध्येतराले वा भूमिव्यतिरिक्ते ॥ ४-५ ॥ * ॐ कर्मदोषमनतिक्रम्य दोषमेव दमं पापफलं दंड करोति । उल्लंघितं भगवच्छासनं येन ॥ ६ ॥ * * मतांतरेणाष्टविंशतिमाह । किं चेति ॥ ७ ॥ * * पापभेदेन च तत्तन्नरकयातनाभेदं प्रपंचयति यत्र यस्त्वित्यादिना । यात्यमानः पीड्यमानः । एकदैव तदैव ॥ ८ ॥ छ श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । ततो भूमेः । यत्र येषु नरकेषु । यथायथमपराधानुसारेण ( १ ) महर्षे इति । ऋषीणामपि त्रिकालज्ञत्वेनैतत्कथन- समर्थत्वात्तव तु महर्षेस्तेषामपि पूज्यतमस्य किमुत वक्तव्यमिति भावः । पुंसो गतय उच्चावचा विसदृशा भोगवैचित्र्यमुक्तं तदेतत्कुत इति पृच्छति ॥ १ ॥ * * ऋषिरुवाचेति सर्वज्ञत्वाभिप्रायेण । सात्विक्या श्रद्धया धर्म एव भवेत्तस्माच्च कत्तुः सुखमेव राजस्या धर्माधर्मौ ताभ्यां सुखदुःखे तामस्याऽधर्म एव तस्माच्च दुःखमोहौ तत्रापि तासां श्रद्धानां तारतम्यात्सुखादितारतम्यं सर्वस्य सर्वा इति । न हि कश्चित्सर्वदैव सात्त्विकश्रद्धावानेव तिष्ठति राजसतामसश्रद्धावानेव वा, अतः कालभेदेन सर्वविधस्यैव जीवस्य सर्वविधा गतयः ॥ २ ॥ * * तत्र शास्त्रविहितस्य धर्मस्य फलभूतानि भौमदिव्य बिलस्वर्गसुखानि दर्शितान्यत एवाधर्मस्यापि फलभूतानि नरकदुःखान्यपि विवक्षितव्यानीत्यत आह- अथेति । प्रतिषिद्धं प्रतिषेधो “ब्राह्मणं न हन्यात्” इत्येवंरूपो लक्षणं प्रमाणं यस्य तस्य । “प्रमाणे नाम्नि चिह्न च स्वरूपे ना न लक्षणम्” इति निरुक्तिः । तथैवेति । धर्मस्य कर्तुर्यथा तथैवाधर्मस्यापि कर्तु रित्यर्थः । श्रद्धाया वैसादृश्यादिति । श्रद्धावैसादृश्येपि तमस्तारतम्यमेव कारणं तथाहि प्रमादेनाधर्म करणात्तमसोऽल्पत्वं ज्ञानेन मध्यमत्वं तथापि नास्तिकत्वेन पूर्णत्वं ज्ञेयं तत्रापि तमस्त्रैविध्यस्यापि कारणं दर्शयन्नाह - या इति । अनाद्यविद्यया संबंधो जीवस्य कदा कथं वेति वक्तुमशक्यम् । अनादिर्या तमआदित्रैविध्यमय्यविद्या तया कृतानां जीवसंबंधित्वेनोपपादितानां कामानां वासनानां याः सृतयः कीदृश्यस्तेषां कामानां परिणामलक्षणास्तासां मध्ये प्राचुर्येण प्राधान्येन ॥ ३ ॥ * भगवन्निति । सर्वज्ञ- त्वाद्वक्तुमर्हसीति भावः ॥ ४ ॥ * * भारतखंडा दक्षिणसूत्रपाते भूमेः सप्तविवरवत्या अधः । जलाद्गर्भोदसंज्ञात् । अपि च सप्तेति न्यायात् । अस्यार्थः - अपि च सप्तरौरवादयो नरकाः पापफलभूमित्वेन स्मय्यते पौराणिकैस्तान्यपि न प्राप्नुवंति न चंद्रलोक- मिति सप्तेत्युपलक्षणमन्येषाम् “वैवस्वतं संगमनं जनानाम्” इत्यादि “न संपरायः प्रतिभाति बालं प्रमाद्यंतं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे” इत्यादि च काठकं वाक्यं यमलोकगतौ लिंगम् । आदिना सोमसदादि- ग्रहः । तदुक्तं मनुना - “विराट सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निष्वात्तास्तु देवानां मारीच्या लोकविश्रुताः । दैत्य- दानवयक्षाणां गंधर्वोरगरक्षसाम् । सुपर्णकिन्नराणाञ्च स्मृता बर्हिषदोऽत्रिजाः ।। सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । । || वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ सोमपास्तु कवेः पुत्रा हविष्मंतोंगिरः सुताः । पुलस्त्यस्याज्यपाः पुत्रा वशिष्ठस्य सुकालिनः ||” इति । स्वानां गोत्राणामिति । तत्तयाभिमानादेव तत एव यत्किञ्चिच्छांतिर्भवतीति सत्या आशिष इत्युक्तम् । ते ते तैस्तैरिहार्चिता अर्चकानामैहिक सुखानि भोजयित्वा यमलोकगतमपि धर्मराजप्रार्थनया सुखयंतीति भावः । तदुक्तं मार्कंडेये- “तृप्यं तु तस्मिन् पितरः समस्ता इच्छावतां ये प्रदिशंति कामान् । सुरत्वमिन्द्रत्वमतोधिकं वा सुतान्पशून्स्वानि बलं गृहाणि ॥” इत्यादिरुचिस्तुतिं श्रुत्वा पितृभिरप्युक्तं “तस्य तुष्टा वनं भोगानात्मज्ञानं तथैव च । शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।। " द इति शेष इति । वा परमेन समाधिना भगवन्निष्ठया परमश्चासाविनश्चेति परमेनस्तत्रासमंतात्समाधिरैकाग्र्यं परमेन समाधिस्ते- नैकपदमिदम् ॥ ५ ॥ * यत्र तेषु नरकेषु स्वविषयं स्वदेशं “विषयस्तूपवर्त्तनम्” इत्यमरः । कर्मावद्यं कर्मदोषमनतिक्रम्य दोषमेव दोषरूपमेव । तादृशविभीषिकयापि जीवान्भगवदंतर्मुखीकर्तुमिति भावः । दोषमेव दमरूपेण परिणमयतीति संदर्भः । ७० ५५४ श्रीमद्भागवतम् [ स्कं. ५ अ. २६ श्लो. १-८ अनुल्ल घितेति । भगवानत्र ब्रह्मा । यद्वा-भगवान् वेद इति । “वेदो नारायणः साक्षात्” इति षष्ठे वक्ष्यमाणत्वात् ॥ ६ ॥ * * तत्र हेति सप्त प्रधानाः संतीति स्मृतिप्रसिद्धिं द्योतयति । यद्यपि प्रधानाः सप्तैव तथाप्येके पौराणिकाः । अथातस्तान्नर कांस्ते तुभ्यं राजन्निति । राज्ञस्तवावश्यं धर्ममार्गे स्थातव्यं स्थाप्याश्च स्वप्रजा अतस्तुभ्यं श्रावयिष्यामीति भावः । केषांचिन्मतेऽन्येपि सप्तातीव भयदा नरकाः संतीत्याह- किचेति । ‘यातनास्तीत्रवेदनाः’ इत्यभिधानात् ॥ ७ ॥ * तत्र तेषु मध्ये । तामिस्रबहुले आदिना कुष्टयादिग्रहः ॥ ८ ॥ श्रीमद्वीरराघवव्याख्या प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय इत्यनेनासां पुण्येन प्राप्यत्वोक्तेः केवलापुण्यगम्या अन्ये लोकाः सन्ति नरका इति सूचितं तानेव पिपृच्छिषुस्तावद्यदुक्तमेष्वपि लोकेषु सुखदुःखयोन्यूनाधिकभावलक्षणं वैचित्र्यमुचावचा विसदृशा इति तत्र कारणं पृच्छति राजा महर्ष इति । हे महर्षे ! त्वया यद्वैचित्र्यं सुखदुःखयोर्न्यूनाधिकभावलक्षणमेषु लोकेषु जीवलोकस्य व्यवस्थितमुक्तं तद्वैचित्र्यं कथमुपपद्यते को वा तत्र वैचित्र्ये हेतुरैकरूप्येणानुष्ठितेन प्रवृत्त्याख्येन धर्मेण भूरादिलोकान् प्राप्तेषु केषाञ्चित्सुखमेव केषाञ्चिद्दुःखमेवान्येषां तु मिश्रमित्येतद्वैचित्र्ये किं कारणमिति प्रश्नाशयः ॥ १ ॥ * * सर्वेषां भूरादिलोकप्रापकधर्मस्य समानत्वेऽपि कर्तृवैचित्र्याच्छ्रद्धावैचित्र्याच्च सुखादिफल वैचित्र्यमित्युत्तरमाह त्रिगुणत्वादिति । कर्तुर्जीवस्य त्रिगुणत्वात्सत्त्वादिगुण- त्रययुक्तत्वाच्छ्रद्वया सत्त्वादिगुणभेदभिन्नया त्रिविधया श्रद्धया कर्मणां गतयः फलानि पृथग्विधाः सर्वाः श्रद्धादितारतम्यनिमित्त- तारतम्येनैव भवन्ति । अत्रेदमवगन्तव्यम् “न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रि- । भिर्गुणैः।।” इत्युक्तरीत्या सर्वेषां गुणत्रययोगाद् गुणानां हासोल्लासादिरूपेण परिणामे चाविशिष्टे सति प्राचीनकर्मवासनानुगुणगुणत्रय- परिणामवशात् सात्त्विकादिभेदेन धर्मस्य कर्त्तारो बुद्धयः श्रद्धाः तन्निमित्तानि कर्माणि च त्रिधा भिद्यन्ते । तथा च गीतं भगवता “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्धयसिद्धयोर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ रागी कर्मफलप्रेप्सुलुब्धो हिंसात्म- कोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्त्तितः ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते । प्रवृत्ति निवृत्तिञ्च कार्याकार्ये भयाभये । बन्धं मोक्ष या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकी ॥ यया धर्मम- धर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थं ! राजसी ॥ अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्था- विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ॥ त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ।।” इत्यारभ्य “यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इति श्रद्धा- यास्त्रैविध्यमुक्तं सात्त्विकाः सात्त्विक्या श्रद्धया युक्ताः । “नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमु- च्यते ॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ अनुबन्धं क्षयं हिंसामन वेक्ष्य च पौरुषम् | मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ।।” इति एवं स्थिते यः सात्त्विकः कर्ता सात्त्विकीभ्यां बुद्धिश्रद्धाभ्यां धर्माननुति- ष्ठति सोऽनन्त सुखं मोक्षाख्यं तारतम्यरहितं प्राप्नोति, यश्च राजसो राजसीभ्यां बुद्धिश्रद्धाभ्यां धर्माननुतिष्ठति स भूरादिलोकाननु- प्राप्य परिमितसुखं प्राप्नोति तत्रापि श्रद्धातारतम्यकृतं सुखतारतम्य मेव भवति, यस्तु तामसः इमान् लोकान् प्राप्यापि केवलं दुःखमेव प्राप्नोति भूरादिलोकप्रापकः प्रवृत्ताख्यो धर्मस्तु राजसतामसयोः कर्त्रीः समानो भवतीति ॥ २ ॥ * एवं धर्मस्य कर्त्रादि- तारतम्यमधर्मदृष्टान्तेनाह यथेति । यथा धर्मस्य श्रद्धादितारतम्यनिमित्तं सुखरूपफलतारतम्यं तथा प्रतिषिद्धलक्षणस्य प्रतिषिद्धरूप- स्याधर्मस्य कर्तुः श्रद्धायाः अधर्मनिमित्तभूतायाः केवलतामस्याः श्रद्धायाः वैसादृश्यात्तारतम्यात्कर्मफलं दुःखरूपं विसदृशं तरतमं भवति, श्रद्धावैसादृश्ये कारणं वदन्कर्मफलवैसादृश्यमेवोपपादयति अनाद्यविद्येति । अविद्याकामशब्दः फलकामनापरः कर्मशब्दः तद्वासनापरः फलकामनायाः अज्ञानफलत्वात् । यद्वा यागादिरविद्या तत्प्रयुक्तानि यानि कामकर्माणि फलकामनापूर्वकमनुष्ठितानि पापानि वासनारूपेणावस्थितानि तेषां वैसादृश्यादित्यनुषङ्गः तेषां नानात्वेनावस्थितत्वाच्छ्रद्धा वैसादृश्यं ततः सृतयो गतयः फल- रूपाणि दुःखानीति यावत् तत्परिणामलक्षणः अविद्याकामकर्म परिपाकस्वरूपाः सहस्रशः आनन्त्येनावान्तरतारतम्येन च प्रवृत्ता अनु- भाव्याः सन्तीत्यर्थः । एवमुक्ते सति तर्ह्यनन्त्येन प्रवृत्ताः सृतयस्तदनुभवस्थानानि च साकल्येन वर्णनीयानीति राज्ञः प्रश्नोद्योगमालोच्य केवलतमोगुणमूलका नाद्यज्ञानप्रयुक्तकामकर्मरूपाणां पापानामवान्तरभेदेनानन्त्यात्तत्फलरूपाणां दुःखात्मनां गतीनामानन्त्यात्तदनुभव- स्थानान्यपि बहूनि सन्तीति तेषां साकल्येन वर्णयितुमशक्यत्वात्तत्र प्रभूतदुःखरूपा गतीस्तत्स्थानानि च कानिचिद्वर्णयिष्यामीत्याह । तास्ताः प्राचुर्येणानुवर्णयिष्याम इति ॥ ३ ॥ * * एवमुक्ते राजा कात्स्न्येन तद्वर्णनप्रश्नं विहायाधर्मफलभूतदुःखा- नुभवस्थानानि नरकाः किं भूमेरेव देशविशेषा उत त्रिलोक्याः बहिर्वर्त्तन्ते उतान्तराले कयोचिल्लोकयोरन्तराले वर्त्तन्ते इति पृच्छति नरका इति । हे भगवन् ! त्रिलोक्या बहिः ब्रह्माण्डाद्बहिरावरणेष्वेव ॥ ४ ॥ * * ब्रह्माण्ड एव वर्तन्त इत्याह अन्तराल एवेति । त्रिजगत्या ब्रह्माण्डस्यान्तराल एव गर्भ एव तत्रापि कस्यां दिशि दक्षिणस्यां तत्रापि कुत्र भूमेरधस्तादण्डजलादुपरि वर्तन्त इत्यर्थः । तां दक्षिणां दिशं विशिनष्टि यस्यामित्यादिना गद्यद्वयेन । यस्यां दक्षिणस्यां दिश्य- ग्निष्वात्तादयः पितॄणां गणाः परमेण समाधिना ध्यानयोगेन स्वानां गोत्राणां सत्या आशिष आशासानाः कुर्वाणाः एव पार्क 3 स्क. ५ अ. २६ लो. १-८] अनेकव्याख्या समलङ्कृतम् ८८५ पचतीतिवन्निर्देशः, निवसन्ति ॥ ५ ॥ * * यत्र ह यस्यां हि दिशि पितृराजः पितॄणामधिपतिः वैवस्वतो यमः सम्परेतेषु मृतेषु स्वपुरुषैर्दृतैः स्वविषयं स्वदेशं प्रापितेषु जन्तुषु जीवेषु अनुलङ्घितमनतिक्रान्तं भगवतो नारायणस्य शासनं येन तथाभूतः सन् सगणः स्वकीयदूतगणसहितः यथाकर्मावद्यं दोषमवद्यं जुगुप्सितं कर्मैव कर्मावद्यं बहुलग्रहणाद्विशेष्यस्य पूर्वनिपातः । यथा कर्मावद्यमिति पदत्रयं वा, अवद्यं वेदशास्त्रजुगुप्सितं कर्म प्रतिषिद्धं हिंसादिकर्म यथा जन्तुभिर्निबन्धादिना यथा कृतं तदनुसारेणैव दोषं प्रति दमं दण्डं धारयति, कारयति जुगुप्सितकर्मरूपदोषानुसारेणैव दण्डयतीत्यर्थः ॥ ६ ॥ * * तत्र नरकाः कतीत्य- पेक्षायामेके नरकानेकविंशतिं गणयन्तीत्याह तत्रेति । के त इत्यपेक्षायां तान्नामरूपलक्षणैः क्रमेण गणयामीत्याह । हे राजन् ! तान्नरकान्नामादिभिः तेऽनुक्रमिष्यामः । तत्र नामानि वाचकाः शब्दा रूपाणि परस्पर विलक्षणदुःखजनकत्वाकाराः लक्षणानि चिह्नानि तत्तद्धिसादिकर्माणि यानि प्राणनिर्बन्धादीनि तादृशनिर्बन्धादिरूपचिह्नानि एभिरनुक्रमिष्यामः एभिः सह क्रमेण तुभ्यं वर्णयिष्याम इत्यर्थः । तानेव क्रमेण गणनया दर्शयति तामिस्र इत्यादिना अयःपानमित्यन्तेन गद्येन । तत्र वज्रकण्टकशाल्मलीति एको नरकः तथा अवीचिरित्येकः एवमेकविंशतिनरका भवन्ति केचिदित्यत्रारुचिबीजं त्वन्येषां सद्भाव इति । पुनस्तानेव निर्दिशति किने- त्यादिना सूचीमुखमित्यन्तेन । एते सप्त पूर्वोक्तैस्तामिस्रादिभिः सहाष्टाविंशतिर्भवन्ति एते नरका विविधयातनाभूमयः दुःखानुभवभूमयः ॥ ७ ॥ * तानेकैकशस्तदनुभवनिमित्तानि पापानि च वर्णयति यस्त्विहेत्यादिना यावदध्याय- समाप्ति । यो जन्तुरिह लोके परस्य वित्तादीन्यपहरति स हि यमदूतैरतिभयङ्करैः कालपाशेन यमपाशेन बद्धो बलात्तामिस्राख्ये नरके निपात्यते । तामिस्रं विशिनष्टि तामिस्रप्राये तमःप्रचुरे यत्र तामिस्रे निपात्यमानः जन्तुरनशनापानजुष्टे प्रहारभर्त्सनादिभि- र्यातनाभिः यात्यमानः पीड्यमानः कश्मलं दुखःमासादितः प्राप्त एकदैव मूर्च्छां प्राप्नोति तामिस्रप्राये इत्यनेनैषां तामिस्रादिनामानि योगरूढानीति ज्ञापितम् ॥ ८ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अतिबहुलदुःखभोगस्थानत्वेन नरकलोकस्य हेयत्ववर्णनेन संसारस्यातिहेयत्वेन वैराग्यस्य दाढर्यातिशयो जायत इति तन्निरूपयत्यस्मिन्नध्याये । तत्रादौ पूर्वोक्तार्थे प्रश्नमुद्भाव्य परिहृत्य वक्तव्यार्थं प्रतिजानीते महर्ष इति । अयमर्थः लोकस्य स्वर्गादि- पातालान्तस्य स्थानस्य विशेषात्तत्स्थस्य जनस्यैतत्प्रत्यक्षेण त्वद्वचनादागमेन च सिद्धत्वात् प्रत्यक्षवदेतदित्युच्यते वैचित्र्यं कस्य- चित्सुखित्वं कस्यचिद् दुःखित्वं कस्यचिदुभयरूपत्वं कथं घटते सुखादिसामान्यविशेषहेतुत्वं च सुखे दुःखे चाल्पमहत्त्वभेदेन तारतम्यं च कथमिति किञ्चैता गतयः सर्वाः सर्वेषां भवन्ति किञ्चैकैकस्यैकैका गतिरुतैकस्यानेका गतिरित्येतत्सर्वं परिहरति बहुगुणत्वादिति । अयमर्थः कर्तुः श्रद्धाया “एवमितः प्रेत्याभिसम्भवितास्मि” इति बुद्धिलक्षणाया बहुगुणत्वाद् बहुविधत्वात्तद्युक्त- सत्त्वादिगुणवैचित्र्येण निर्मितत्वाल्लोकवैचित्र्यं यस्मात्सर्वाः कर्मगतयः सर्वस्य भवन्ति ॥ १-२ ॥ * * अथ तस्माच्छात्र- निषिद्धस्या धर्मस्य तथैव कर्तुः श्रद्धायाः वैसादृश्याद्विरुद्धस्वरूपत्वात्कर्मफलमपि विरुद्धं ततः किं तत्राह या हीति । अनाद्यविद्यया विलसितकामानां प्राणिनां तत्परिणामलक्षणास्तेषामनाद्यविद्याकामानां परिपाकनिमित्तपापकर्मविकारलक्षणा याः सृतयो गतयः सहस्रशः प्रवृत्तास्ताः प्राधान्येनानुवर्णयिष्याम इत्यन्वयः ॥ ३ ॥ * * पृष्ठेनैवोत्तरं वाच्यमित्यतः परीक्षित्पृच्छति नरका इति । किं केचन देशविशेषाः उत महादुःखानुभवलक्षणशब्दवाच्याः, प्रथमे ते त्रैलोक्याद् बहिरन्तर्वा, द्वितीये कस्यां दिशि कियदध- स्तात्कियदुपरीति ।। ४ ।। * * परिहरति अन्तराल इति । दुःखानुभवसद्भावेऽपि न तच्छन्दवाच्याः किन्तु तदधिकरण- देशविशेषास्त्रैलोक्यान्तराले तत्रापि भारतखण्डा दक्षिणसूत्रपाते भूमेरधस्तादण्डजलाशयस्य गर्भोदकराशेरुपरिष्टादक्षिणस्यां दिशि निर्द्धारणार्थमेतद्वचनम् ॥ ५ ॥ * यथाकर्मनिर्मितपापमनुल्लङ्घितमनतिक्रान्तं भगवतो हरेः शासनमाज्ञा येन स तथा ॥ ६ ॥ * * तस्यां दिशि विद्यमानान्नरकानेकविंशतिं संख्याति तत्र हेति । तत्र हेत्यनेन सप्त प्रधानाः सन्तीति स्मृतिप्रसिद्धिं द्योत- यति । नैतावता समाप्तिः किं तथापि सन्तीत्याह किचेति । तान्देशान्विशिनष्टि । विविधयातनाभूमयः नानाविधदण्डस्थानविशिष्टाः “यातना तीव्रवेदना” इति वचनाद् दुःखसम्भिन्नप्रदेशाः इत्यर्थः ॥ ७ ॥ * * तत्तन्नर केषु तत्तद्दुष्कर्मनिमित्तदुःखविशेषा- नाह तत्रेति । यात्यमानो दुःखानुभवी क्रियमाणः कश्मलं बहुदुःखमेकदेति विशेषणात्कदाचिन्मूर्च्छा न यातीति विशेषो ज्ञायते यातनाभिः पर्यायेण पीड्यमानत्वादित्यर्थः ॥ ८ ॥ 1 श्रीमजीव गोस्वामिकृतः क्रमसन्दर्भः असमानत्वे तावत् फलवैचित्र्यं भवत्येवं समानत्वेऽपि तदित्याह त्रिगुणत्वादिति ।। १-२ ।। * * प्रतिषिद्ध- लक्षणस्य धर्मस्य यः कर्त्ता तस्य तथैव पूर्वोक्तप्रकारेणैव श्रद्धावैसादृश्यादधर्मलक्षणस्य कर्मणः फलं विसदृशं भवति । तत्र निषेधे प्रतीतावपि सत्यां प्रमादेन तत्करणात्तमसोऽल्पत्वं मोहेन मध्यमत्वं नास्तिकतायां तु पूर्णत्वं ज्ञेयम् । अथातो हेतोर्यास्तत्परि- णामलक्षणसृतयः सहस्रशः प्रवृत्ताः सन्ति ताः प्राचुर्येण तु वर्णयिष्यामः । केषामादिकारणानां सम्बन्धिन्यस्ता इत्यपेक्षायामाह । अनादीति ॥ ३-४ ॥ * * स्वानां गोत्राणामिति तत्तयाभिमानादेव तत एव यत् किश्चिच्छान्तिर्भवतीति सत्या एवाशिष ५५६ श्रीमद्भागवतम् [ स्कं. ५ अ. २६ श्लो. १-८ इत्युक्तम् ॥ ५ ॥ * * दोषमेव दमरूपेण परिणमयतीत्यर्थः । अनुल्लङ्घितेति । भगवानत्र ब्रह्मा तथा शासनन बिभीषिकयापि atara भगवदन्तर्मुखीकर्तुमिति ज्ञेयम् । यद्वा भगवच्छासनशब्देनात्र वेद एवोच्यते ।। ६-८ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी भुवोऽधस्ताज्जला दूर्ध्वं नरकस्थानमुच्यते । षड्विंशे यत्र दण्ड्यन्ते पापिनो यमकिङ्करैः ॥ ܀ क * पुंसो गतयः उच्चावचा विसदृशा भोगवैचित्र्यमुक्तं तदेतत् कुत इति पृच्छति । महर्षे ! इति ॥ १ ॥ श्रद्धावैसादृश्यात् फलवैचित्र्यमाह त्रिगुणत्वादिति । सात्त्विक्या श्रद्धया धर्म एव भवेत्तस्माच्च कर्तुः सुखमेव राजस्या धर्माधर्मो ताभ्यां सुखदुःखे तामस्या अधर्म एव तस्माच्च दुःखमोहौ तत्रापि तासां श्रद्धानां तारतम्यात् सुखादितारतम्यं सर्वस्य सर्वा इति न हि कश्चित् सर्वदैव सात्त्विक श्रद्धावानेव तिष्ठति राजसतामसश्रद्धावानेव वा । अतः कालभेदेन सर्वविधस्यैव जीवस्य सर्वविधा गतयः ॥ २ ॥ * * तत्र शास्त्रविहितस्य धर्मस्य फलभूतानि भौमदिव्यबिलस्वर्गसुखानि दर्शितान्यत एवाधर्मस्यापि फल- भूतानि नरकदुःखान्यपि विवक्षितव्यानीत्यत आह अथेति । प्रतिषिद्धं प्रतिषेधस्तदेव लक्षणं प्रमाणं यस्य तस्य तथैवेति । धर्मस्य कर्तुर्यथा तथैवाधर्मस्यापि कर्तुरित्यर्थः । श्रद्धाया वैसादृश्यादिति । श्रद्धावैसादृश्येऽपि तमस्तारतम्यमेव कारणं, तथा हि प्रमादेना- धर्मकरणात्तमसोऽल्पत्वं ज्ञानेन मध्यमत्वं तथापि नास्तिकत्वेन पूर्णत्वं ज्ञेयं, तमस्त्रैविध्यस्यापि कारणं दर्शयन्नाह या इति । अनाद्यविद्यासम्बन्धो जीवस्य कदा कथं वेति वक्तुमशक्तेः अनादिर्या तमआदित्रैविध्यमयी अविद्या तया कृतानां जीवसम्बन्धि- त्वेनोपपादितानां कामानां वासनानां याः सृतयः कीदृश्यस्तेषां कामानां परिणामलक्षणाः तासां मध्ये प्राचुर्येण नरकानिति शेषः ॥ ३-४ ॥ ** भूमेः सप्तपातालवत्या अधः जलाद्गर्भोदात् ॥ ५ ॥ * * स्वविषयं स्वदेशं कर्मावद्यं कर्मदोष- मनतिक्रम्य दोषं दोषरूपदमं दण्डं तादृश्या बिभीषिकयापि जीवान् भगवतोऽन्तर्मुखीकर्तुमिति भावः ॥ ६ ॥ * * तामिस्रा - दयः एकविंशतिर्नरकाः मतान्तरेण पूर्वैर्मिलितानष्टाविंशतिमाह । किचेति ॥ ७ ॥ * यात्यमानः पीड्यमानः तामिस्र - प्रायेऽन्धकार बहुले || ८ | श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः pestiv । षड्विंशे नरकस्थितिर्वर्ण्यते धर्मस्य उच्चावचविसदृशाविपाकगतय इत्युक्ते भोगवैचित्र्ये कारणं पृच्छति । महर्षे इति ॥ १ ॥ * * कर्तुर्जीवस्य त्रिगुणत्वात्त्रयो गुणा बन्धनभूताः यस्य स त्रिगुणस्तत्त्वं तस्माच्छ्रद्वया तत्तद्गुणानुरूपया हेतुभूतया कर्मगतयः सात्त्विकादिकर्मविपाकभूमयः पृथग्विधा बोध्याः “ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥” इति श्रीमुखवचनात्तत्रापि गुणवृत्तितारतम्यात्सर्वा गतयः सर्वस्य कर्तुर्भवन्ति ॥ २ ॥ * ** प्रतिषिद्धं प्रतिषेधः ‘ब्राह्मणो न हन्तव्यः, आचारान्न प्रमदितव्यमित्यादि तदेव लक्षणं ज्ञापकं यस्य तस्याधर्मस्य कर्तुः श्रद्धाया वैसादृश्यात्तमोवृत्तिभेदेन श्रद्धाया अपि अनेकविधत्वात् कर्मणोऽधर्मस्य फलं विसदृशं भवति तत्र अनाद्यज्ञानेन कृतानां सम्पादितानां कामानां पापानां याः सृतयस्तासां द्वितीयार्थे षष्टी-ताः अथेदानीं प्राचुर्येण प्राधान्येनानुवर्णयिष्याम इत्यन्वयः ॥ ३ ॥ * * नरकान् वर्णयितुं प्रवृत्तं मुनिं नरकाः कुत्र सन्तीति पृच्छति नरका नामेति । भूमावेव देशविशेषाः त्रिलोक्याः ब्रह्माण्डाद् बहिर्वा अन्तराले ब्रह्माण्डमध्ये वा ॥ ४ ॥ * अन्तराले त्रिजगत्या इति ब्रह्माण्डमध्ये इत्यर्थः, अधस्ताद् भूमेः जलाद्गर्भोदात्तथाह * सप्तमम् ॥ भगवान् पराशरः ॥ ५ ॥ “अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चापि पातालञ्चापि ।। ।। ततश्च नरका विप्र ! भुवोऽधः सलिलस्य च ।” इति तेभ्योऽप्यधस्तमस्ततो गर्भोदकं ततोऽण्डकटाह इत्याहुः ॥ ५ ॥ यथाकर्मावद्यं कर्मदोषमनतिक्रम्य दोषं यातनालक्षणं दमं दण्डं धारयति योजयति ॥ ६ ॥ * मतान्तरेणाष्टविंशतिर्नरका इत्याह किश्चेति । त्रिविधानां यातनानाम् “यातना तीव्रवेदना” इति कोशात्तीत्रवेदनानां भूमयः ॥ ७ ॥ यात्यमानः पीड्यमानः एकदैव तत्क्षणमेव ॥ ८ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी * भुवोऽधस्ताज्जलादूर्ध्वं दण्ड्यन्ते यत्र पापिनः । तन्नरकस्थितिस्त्वत्र षड्विशे विनिरूप्यते ॥ १ ॥ एवं प्रश्ने प्रवर्त्तितो राजाऽऽत्मानं शुककृपापात्रं ज्ञात्वा पुंसो गतय उच्चावचा विसदृशा इति भोगवैचित्र्यमुक्तं तदेतत्कथ- मिति पृच्छति - महर्षे इति । सम्बोधनेन सर्वज्ञत्वात्तव न किञ्चिदविदितमिति मम सन्देहं निराकुर्विति सूचयति ॥ १ ॥ * * पृच्छति—महर्षे । कर्मवैचित्र्यात्तु फलवैचित्र्यं भवेदिति किं वक्तव्यं ? कर्मणः समानत्वेऽपि श्रद्धावैचित्र्यादपि फलवैचित्र्यं भवतीत्याह - त्रिगुण- त्वादिति । सात्त्विक्या श्रद्धया धर्म एव भवेत्ततश्च कर्तुः सुखमेव राजस्या च धर्माधर्मौ भवतस्ताभ्यां कर्तुः सुखं दुःखं च तामस्या श्रद्धया तु पापमेव भवति, ततश्च कर्तुर्दुःखं मोहश्च तत्रापि तासां श्रद्धानां तारतम्यात् सुखादीनामपि तारतम्यम् । तत्रापि न हि स्क. ५.अ. २६ लो. १-८ ] १-८] अनेकव्याख्यासमलङ्कृतम् कश्चित् सर्वदा सात्विक श्रद्धावानेव भवति न वा रोजसश्रद्धावानेव न तामसश्रद्धावानेव वा, तथा च तत्तत्कालभेदेन सर्वविध- श्रद्धावत्त्वस्य सर्वस्यैव प्राणिनः सम्भवात् सर्वस्यैव सर्वा एव गतयो भवन्तीत्यर्थः ॥ २ ॥ * * एवं राज्ञः प्रश्नस्योत्तरं दत्वा प्रसङ्गान्निषिद्धफलनरकवर्णनं प्रतिजानीते - अथेति । न केवलं धर्मकर्तुरेव श्रद्धावैचित्र्यात् फळवैचित्र्यं भवति किन्तु तथैवाधर्मकर्तुर्यत् प्रतिषिद्धलक्षणस्य प्रतिषेधः स एव लक्षणं प्रमाणं यस्य तस्याधर्मस्यापि कर्तुः श्रद्धाया वैसादृश्यात् कर्मफलं दुःखमपि विसदृशं भवति । अतो हि अनाद्यविद्यया अनादिजन्मपरम्परया देहादावहम्ममाध्यासेन कृतकामानां कृतमनोरथानां पुंसां सम्बन्धिन्यः तत्परिणामलक्षणाः अधर्मफलभूताः सृतयो नरकाः सहस्रशः प्रवृत्ताः परमेश्वरेण विरचिताः सन्ति । तासां मध्ये प्राचुर्येण बाहुल्येन काश्वित्प्रधाना अथेदानीं वर्णयिष्याम इत्यन्वयः । सर्ववर्णनस्य अशक्यत्वादिति भावः । अधर्मश्रद्धा वैसादृश्ये तमसस्तारतम्यं हेतुरिति ज्ञेयम् ॥ ३ ॥ * एवं नरकवर्णने प्रतिज्ञाते पृच्छति - नरका इति । हे भगवन् सर्वज्ञ ! नरका नाम किं देशविशेषा अथवा दुःखानुभवलक्षणाः सर्वत्रैव ते सन्तीति शेषः । आधे किं त्रिलोक्या बहिः सन्ति ? आहोस्वित्तदन्तराले एवेति ॥ ४ ॥ * एवं पृष्ट उत्तरमाह - अन्तराल एवेति । त्रिजगत्यास्त्रिलोक्यास्त्वन्तराले मध्य एव ते सन्ति । तर्हि कुत्र सन्तीत्यपेक्षायामाह - दिशीति । भारतवर्षापेक्षया दक्षिणस्यां दिशि भूमेः पातालादधस्ताज्जाद्गर्भोदकसज्ञकादुपरिष्टात् यत् त्रिंशत्सहस्रयोजनान्तरालमुक्तं तन्मध्ये यस्यां दिशि अग्निष्वात्तादयः पितृगणाः परमेण समाधिना भगवन्तं ध्यायन्तस्ततः स्वगोत्राणां प्राणिनां सत्या आशिषः कामभोगानाशासाना निवसन्तीत्यन्वयः । “कर्मणा पितृलोकः” इति श्रुतेः । “यत्र पितसे मादयन्ते” इत्याग्नीध्रप्रकरणे उक्तत्वाश्च सुखभोगस्थानविशेषः पितृलोक उपर्यप्यस्तीति ज्ञेयम् ॥ ५ ॥ वैवस्वतः सूर्यपुत्रो यमः परेतेषु स्वविषयं स्वदेशं दण्डस्थानं प्रापितेषु जन्तुषु प्राणिषु यथाकर्मावद्यं कर्मजन्यपापमनतिक्रम्य दोषं तत्फलरूपं दुःखमेव दमं दण्डं धास्यति । न च किश्चिदन्यथा कर्तुं शक्नोति भगवद्दत्ताधिकारत्वेन अस्वतन्त्रत्वादित्याह –न उल्लङ्घितं भगवच्छासनं येन । भगवदृत्ताधिकारत्वादेव दण्डे समर्थश्चेत्याह–भगवानिति ॥ ६ ॥ नरकान् प्रधानान् ॥ ७ ॥ * ॐ एवं प्रतिज्ञाय तान् दर्शयति तामिस्त्रेति ॥ ८ ॥ * * मतान्तरेण पूर्वैर्मिलितानष्टाविंशतिमाह किश्चेति ।। ९ ।। ** पापभेदेन तत्तन्नरकयातनाभेदं प्रपञ्चयति तत्र यस्त्वित्यादिना ॥ १० ॥ * * यात्यमानः पीड्यमानो जन्तुर्यत्र तामिस्र प्रायेऽन्धकार बाहुल्ये स्थाने कश्मलं बहुदुःखमासादितः प्रापितः सन्नेकदेव मूर्छामुपयाति प्राप्नोतीत्यन्वयः ॥ ११ ॥ ९. श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी * … ततोऽधस्तात्तु षविशे वर्णिता नरकस्थितिः । दह्यन्ते पापिनो यत्र यथायोग्यं यमानुगैः ॥ १ ॥ प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय इत्यनेनासां गतीनां पुण्येन प्राप्यत्वोक्तेः केवलेनापुण्येन गम्या अन्ये लोका अपि सन्तीति बोधात्तानपुण्यगम्यान टोकान्विविदिषुस्तावद्यदुक्तं ‘एतेष्वपि लोकेषु सुखदुःखयोयूनाधिकभावलक्षणवैचित्र्यमुच्चावचविस- -दृशा’ इति तत्र कारणं राजा पृच्छति महर्षे इति । हे महर्षे एतत् वैचित्र्यं एषु लोकेषु त्वया यदेतद्वैचित्र्यमुक्तमित्यर्थः । जीवलोकस्य तत् कथं इति एषूक्तेषु लोकेषु वर्त्तमानस्य जीवलोकस्य सुखदुःखयोर्न्यूनाधिकभावलक्षणं यद्वद्यवस्थात्मकवैचित्र्यं त्वयोक्तं तत्र किं कारणमिति प्रश्नार्थः ॥ १ ॥ सर्वेषां भूरादिलोकप्रापकस्य कर्मणः समानत्वेऽपि कर्तृवैचित्र्यात् श्रद्धावैचित्र्याच्च सुखादि- फलवैचित्र्यमित्युत्तरमाह त्रिगुणत्वादिति ॥ कर्तुः कर्मणां विधातुर्जीवस्य त्रिगुणत्वात् सत्त्वादिगुणत्रययुक्तत्वात् श्रद्धया सत्त्वादि- गुणभेदभिन्नया त्रिविधया श्रद्धया, कर्मगतयः कर्मणां फलानि, पृथग्विधाः सन्ति । ताः सर्वाः गतयः, तारतम्येन एव श्रद्धादितारत- म्येनैव सर्वस्य भवन्ति । सात्त्विक्या श्रद्धया कुर्वतः सुखित्वं, राजस्या सुखित्वं दुःखित्वं च, तामस्या दुःखित्वं मूढत्वं च, तत्रापि तासां श्रद्धादीनां तारतम्यात्सुखादितारतम्यं सर्वेषामित्यर्थः । एतदर्थं प्रपञ्चो भगवद्गीताया अवगन्तव्यः । मनुस्मृतेर्द्वादशाध्यायस्यैकचत्वा रिंशाच्छ्लोकादारभ्य सविस्तरं बोध्यः ॥ २ ॥ * * अथेति । अथेदानीमिति यथाऽर्थे । यथा धर्मस्य श्रद्धादितारतम्यनिमित्तं सुखरूपफले तारतम्यं तथैव प्रतिषिद्धं प्रतिषेधस्तदेव लक्षणं प्रमाणं यस्य तस्य प्रतिषिद्धरूपस्येत्यर्थः । अधर्मस्य कर्तुः श्रद्धायाः, अधर्मनिमित्तभूतायाः केवलायास्तामस्याः श्रद्धायाः, वैसादृश्यात्तारम्यात्, कर्म फलं दुःखरूपं, विसदृशं तरतमं भवति । श्रद्धा- वैसादृश्ये कारणं वदन् कर्मफलवैसादृश्यमेवोपपादयति अनाद्यविद्येति । अनादिश्वासावविद्या च तथा कृताश्च ते कामाश्च तेषां, तत्परिणामलक्षणाः याः सृतयो नारकाः सहस्रशः प्रवृत्ताः, तासां ताः हि निश्चयेन, प्राचुर्येण, अनुवर्णयिष्यामः । तासां साकल्येन वर्णयितुमशक्यत्वात् । प्रभूतदुःखरूपास्ता गतस्तत्स्थानानि च कानिचिद्वर्णयिष्याम इत्यर्थः ॥ ३ ॥ एवमुक्ते राजा " ॥ कार्त्स्न्येन तद्वर्णनप्रश्नं विहाया धर्मफलभूतदुःखानुभवस्थानभूता नरकाः किं भूमेरेव देशविशेषा उत त्रिलोक्या बहिर्वर्त्तन्ते उतान्तः । अथवा कयोविलोकयोरन्तराले वर्त्तन्ते इति पृच्छति नरका इति । हे भगवन् नरकाः नाम ये नरकाख्यया प्रसिद्धाः, ते किं देशविशेषाः, तथा चेत्तर्हि ते किं त्रिलोक्याः बहिः । अथवा अन्तरिति शेषः, आहोस्वित् अन्तराले भूमिव्यतिरिक्त स्थाने, सन्ति । इति पृच्छामीति शेषः ॥ ४ ॥ * * अन्तराल इति । त्रिजगत्या ब्रह्माण्डस्य, अन्तराले एव तत्रापि कस्यां दिशीति चेत्, यस्यां दक्षिणस्यां दिशि, तत्रापि कुत्रेति चेत् भूमेः अधस्तात् जलादण्डान्तर्गततोयात्, उपरिष्टात् वर्त्तन्ते इति शेषः । तुरवधारणे । य दिशि यस्यां दक्षिणस्यां दिशीत्यर्थः । अग्निष्वात्तादयः पितृगणाः पितॄणां समूहाः, परमेण समाधिना, ध्यानयोगेनेत्यर्थः । स्वानां गोत्राणां स्वगोत्रोद्भवजनानामित्यर्थः । सत्याः आशिषः, आशासानाः कुर्वाणाः सन्त एव पार्क पचतीतिवन्निर्देशः । निव- । । ५५८ श्रीमद्भागवतम् स्क. ५ अ. २६ लो. १-८ सन्ति ॥ ५ ॥ * * यत्रेति । यत्र ह यस्यां दिशि हीत्यर्थः । भगवान् पितृराजः वैवस्वतः यमः, संपरेतेषु मृतेषु, स्वपुरुषैः स्वकीयदूतैः, स्वविषयं स्वदेशं प्रापितेषु, जन्तुषु जीवेषु, अनुल्लङ्घितमनतिक्रान्तं भगवतो नारायणस्य शासनं येन स एवंभूतः सगणः स्वकीयगणसहितः सन् अवद्यं जुगुप्सितं कर्म कर्मावद्यं, बहुलग्रहणाद्विशेष्यस्य पूर्वनिपातः, कर्मावद्यमनतिक्रम्येति यथाकर्मावद्यं, दोषं प्रति, दमं दण्डं धारयत्येव । जुगुप्सितकर्मरूपदोषानुसारेणैव दण्डयत्येवेत्यर्थः ॥ ६ ॥ * तत्र नरकाः कतीत्यपे- क्षायां मतभेदेन तानाह तत्रेति । तत्र तस्यां दिशि एके केचन महर्षयः, ह स्फुटं यथा तथा, एकविंशतिं नरकान् गणयन्ति । अतिमहत इति शेषः । अथातः हे राजन्, ते तुभ्यं, तानेकविंशतिनरकानित्यर्थः । नाम च रूपं च लक्षणं च तैरिति ततः, अनुक्रमि- व्यामः । अनुक्रम्य कथयाम इत्यर्थः । तत्र नामानि वाचकाः शब्दाः । रूपाणि परस्परविलक्षणदुःखजनकत्वाकाराः । लक्षणानि चिह्नानि, तानेव क्रमेण गणनया दर्शयति तामिस्र इत्यादिनाऽयः पानमित्यन्तेन गद्येन । तामिस्रः, अन्धतामिस्रः, रौरवः, महा- रौरवः, कुम्भीपाकः, कालसूत्रं, असिपत्रवनं, शूकरमुखं, अन्धकूपः, कृमिभोजनः, संदंशः, तप्तसूर्मिः, वज्रकण्टकशाल्मली, वैतरणी, पूयोदः, प्राणरोधः, विशसनं, लालाभक्षः, सारमेयादनं, अवीचिमत्, अयःपानं, इत्यवमेकविंशतिनरका भवन्ति । मतान्तरेण पुनरन्यानपि तानेव निर्द्दिशति किं चेति । किं च, क्षारकर्द्दमः, रक्षोगणभोजनः, शूलप्रोतः, दन्दशूकः, अवटनिरोधनः, पर्यावर्त्तनः, इति पूर्वोक्ता एकविंशतिः सप्तैते इत्येवमित्यर्थः । अष्टाविंशतिः नरकाः, विविधयातनाभूमयः दुःखानुभवक्षितयः सन्तीति शेषः ॥ ७ ॥ पापभेदेन तत्तन्नरकयातनाभेदं प्रपञ्चयंस्तामिसं वदति तत्र यस्त्विति । तत्राष्टाविंशतिनरकमध्ये, तामित्रे नरके, यः जन्तुः, तु इह लोके, परेषां वित्तं च अपत्यानि च कलत्रं नारी च तानि, अपहरति सः, हि अतिभयानकैः यमपुरुषैः, काल- पाशबद्धः यमपाशेन संबद्धः सन् बलात् निपात्यते । तामिस्रं विशिनष्टि तामिस्रप्राये तमः प्रचुरे तामिस्त्रे नरके इत्यर्थः । यात्य- मानो यातनां गमितः जन्तुः, यत्र अशनाभावश्व अपानं जलपानाभावश्च दण्डताडनं लकुटादिना प्रहारश्व संतर्जनं धिक् पापिन्नित्येवं भर्त्सनविधानं च तान्यादयो यासां ताभिः, कश्मलं दुःखं, आसादितो याम्यैर्गमितः सन्, एकदैव तदैव तत्क्षणमिति यावत् । मूर्च्छा मूर्च्छावस्थां उपयाति प्राप्नोति । तामिस्रादीनां नामानि योगरूढानि बोध्यानि ॥ ८ ॥ भाषानुवादः नरकोंकी विभिन्न गतियोंका वर्णन राजा परीक्षितने पूछा- महर्षे! लोगोंको जो ये ऊँची-नीची गतियाँ प्राप्त होती हैं, उनमें इतनी विभिन्नता क्यों है ? ॥ १ ॥ * * श्रीशुकदेवजीने कहा- राजन् ! कर्म करनेवाले पुरुष सात्त्विक, राजस और तामस - तीन प्रकार के होते हैं तथा उनकी श्रद्धाओं में भी भेद रहता है। इस प्रकार स्वभाव और श्रद्धाके भेदसे उनके कर्मों की गतियाँ भी भिन्न-भिन्न होती और न्यूनाधिकरूपमें ये सभी गतियाँ सभी कर्ताओंको प्राप्त होती हैं ॥ २ ॥ * * इसी प्रकार निषिद्ध कर्मरूप पाप करने- वालोंको भी उनकी श्रद्धाकी असमानता के कारण, समान फल कारण, समान फल नहीं मिलता । अतः अनादि अविद्या के वशीभूत होकर कामना- पूर्वक किये हुए उन निषिद्ध कर्मों के परिणाम में जो हजारों तरहकी नारकी गतियाँ होती हैं, उनका विस्तारसे वर्णन करेंगे ॥ ३ ॥ * * राजा परीक्षितने पूछा-भगवन् ! आप जिनका वर्णन करना चाहते हैं, वे नरक इसी पृथ्वीके कोई देशविशेष हैं अथवा त्रिलोकीसे बाहर अथवा इसीके भीतर किसी जगह हैं ? ॥ ४ ॥ * * श्रीशुकदेवजीने कहा- राजन् ! त्रिलोकीके भीतर ही हैं तथा दक्षिणकी ओर पृथ्वीके नीचे जलके ऊपर स्थित हैं । इसी दिशा में अग्निष्वात्त आदि पितृगण रहते अत्यन्त एकाग्रतापूर्वक अपने वंशधरोंके लिये मङ्गल कामना किया करते हैं ॥ ५ ॥ * * उस नरकलोक में सूर्य के पुत्र पितृराज भगवान् यम अपने सेवकों के सहित रहते हैं तथा भगवान्की आज्ञाका उल्लङ्घन न करते हुए, अपने दूतोंद्वारा वहाँ लाये हुए, मृत प्राणियोंको उनके दुष्कर्मों के अनुसार पापका फल दण्ड देते हैं ॥ ६ ॥ * परीक्षित्! कोई-कोई लोग नरकोंकी संख्या इक्कीस बताते हैं। अब हम नाम, रूप और लक्षणों के अनुसार उनका क्रमशः वर्णन करते हैं। उनके नाम ये हैं-तामिस्र, अन्ध- तामिस्र, रौरव, महारौरव, कुम्भीपाक, कालसूत्र, असिपत्रवन, सूकरमुख, अन्धकूप, कृमिभोजन, सन्देश, तप्तसूर्मि, वज्रकण्टक- शाल्मली, वैतरणी, पयोद, प्राणरोध, विशसन, लालाभक्ष, सारमेयादन, अवीचिमत् और अयःपान । इनके सिवा क्षारकर्दम, रक्षोगणभोजन, शूलप्रोत, दन्दशूक, अवटनिरोधन, पर्यावर्तन और सूचीमुख — ये सात और मिलाकर कुल अट्ठाईस नरक तरह- तरह की यातनाओं को भोगने के स्थान हैं ॥ ७ ॥ * * जो पुरुष दूसरों के धन, सन्तान अथवा स्त्रियोंका हरण करता है, उसे अत्यन्त भयानक यमदूत कालपाश में बाँधकर बलात्कारसे तामिस्र नरक में गिरा देते हैं। उस अन्धकारमय नरक में उसे अन्न-जल न देना, डंडे लगाना और भय दिखलाना अदि अनेक प्रकारके उपायोंसे पीड़ित किया जाता है । इससे अत्यन्त दुःखी होकर वह एकाएक मूर्छित हो जाता है ॥ ८ ॥ एवमेवान्धतामिले यस्तु व’ श्वयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९ ॥
१. प्रा० पा० वञ्चित्वा । २. प्रा० पा० - यथा हि वनस्पति ।स्क. ५ अ. २६ श्लो. ९-१६ ] अनेकत्र्याख्या समलङ्कृतम् ५५९ यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वय- मेव तदशु मेन रौरवे निपतति ।। १० ।। ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति स पदतिक्ररसत्त्वस्यापदेशः ।। ११ ।। एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ।। १२ ।। यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्त तैले उपरन्धयन्ति ॥ १३ ॥ यस्त्विह पितृविप्रब्रह्मधुक् स कालसूत्र संज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः क्षुत्पिपासाभ्यां च दद्यमानान्तर्बहिःशरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥ यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया स्ततो धावमान उभयतोधारैस्तालवनासिपत्र च्छिद्यमान सर्वाङ्गो हा हतोऽस्मीति परमया वेदनया तति स्वधर्महा पाखण्डानुगतं फलं भुंक्ते ।। १५ ।। प्रहरन्ति तत्र हासावित - मूच्छितः पदे पदे निप- यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्वचिन्मूच्छितः कश्मलमुपगतो यथैवेहा- दृष्टदोषा उपरुद्धाः ॥ १६ ॥ || अन्वयः - एवम् एव यः तु पुरुषम् वञ्चयित्वा दारादीन् उपर्युक्ते अन्धतामिस्त्रे पतति यत्र निपात्यमानः यातनास्थः शरीरी यथा वृश्च्यमानमूलः वनस्पतिः वेदनया नष्टमतिः च नष्टदृष्टिः भवति तस्मात् तम् अन्धतामिस्रम् उपदिशन्ति ॥ ९ ॥ * * वा यः तु इह एतद् अहम् इति मम इदम् इति भूतद्रोहेण केवलम् स्वकुटुम्बम् एव अनुदिनम् प्रपुष्णाति सः तत् इह विहाय स्वयम् एव तदशुभेन रौरवे निपतति ।। १० ।। ये तु इह यथा एव अमुना विहिंसिताः जन्तवः परत्र यमयातनाम् उपगतम् ते एव रुरवः भूत्वा तथा तम् एव विहिंसन्ति तस्मात् रौरवम् इति आहुः रुरुः इति सर्पात् अतिक्रूर सत्त्वस्य अपदेशः ||११||** एवम् एव महारौरवः यः केवलम् देहभरः यत्र निपतितम् तम् पुरुषम् क्रव्यादाः नाम रुरवः क्रव्येण घातयन्ति ।। १२ ।। * * वा यः तु इह उम्रः पशून् वा पक्षिणः प्राणतः उपरन्धयति तम् पुरुषादैः अपि विगर्हितम् अपकरुणम् अमुत्र यमानुचराः कुंभीपाके तप्ततैले उपरन्धयन्ति ॥ १३ ॥ इह यः तु पितृविप्रब्रह्मक् सः अयुनयोजनपरिमंडले ताम्रमये तप्तखले उपरि च अधस्तात् अग्न्यर्काभ्यां अतितप्यमानैः कालसूत्रसंज्ञके नरके अभिनिवेशितः क्षुत्पिपासाभ्यां दह्यमानान्तर्बहिःशरीरः यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि आस्ते शेते चेष्टते अवतिष्ठति च परिधावति ॥ १४ ॥ * * इह यः तु वै निजवेदपथात् अनापदि अपगतः च पाखंडम् उपगतः तम् असिपत्रवनम् प्रवेश्य कशया प्रहरन्ति तत्र ह असौ इतस्ततः धावमानः उभयतोधारैः तालवनासिपत्रैः छिद्यमानसर्वांगः हा हतः अस्मि इति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा पाखण्डानुगतम् फलम् भुङ्क्ते ॥ १५ ॥ * * इह यः तु वै राजा राजपुरुषः वा अदण्ड्ये दण्डम् वा ब्राह्मणे शरीरदण्डम् प्रणयति सः पापीयान् अमुत्र सूकरमुखे नरके निपतति तत्र यथा एव इह इक्षुदण्डः अतिबलैः विनिष्पिष्यमाणावयवः आर्तस्वरेण स्वनयन् यथा एव इह अदृष्ट- दोषाः उपरुद्धाः कचित् मूर्च्छितः कश्मलम् उपगतः ॥ १६ ॥
श्रीधरस्वामिविरचिता भावार्थदीपिका पुरुषं पतिं वंचयित्वा ॥ ९ ॥ * * एतच्छरीरमहमिति इदं धनादि ममेति मत्वा स्वं च कुटुंबमेव पुष्णाति । तेनाशुभेन ॥ १० ॥ * रुरवो भूत्वेति कर्माण्येव तथा परिणामं प्राप्येत्यर्थः । अतिक्ररस्य भारशृगाख्यस्य सत्त्वस्यापदेशः संज्ञा ॥ ११ ॥ क्रव्येण निमित्तेन मांसार्धमित्यर्थः ॥ १२ ॥ प्राणतः सजीवान् । उपरंधयति पचति । अपकरुणं निष्कृपम् ॥ १३ ॥ * * खले समे देशे ॥ १४ ॥ स्वधर्महा धर्मत्यागी ॥ १५ ॥ * स्वनयन् रुदन्कश्मलं मोहमुपगतो भवति । दृष्टदोषास्तेनोपरुद्धाः संतो यथा कश्मलमुपगतास्तद्वत् ।। १६ ।। * १. प्रा० पा० - तद्शुभे रौखे । २. प्रा० पा०ये वेह तथैवामुना । ३. प्रा० पा० - यातनायतनमुपगतास्त । ४. प्रा० पा०- सर्पवदतिक्रूर सत्त्व० । ५० प्रा० पा० - क्रव्यादा रुरवस्तं । ६. प्रा० पा० - मये खले । ७. प्रा० पा० – शेतेऽवतिष्ठति । ८. प्रा० पा० यस्तु ह. ।। ९. प्रा० पा० - पाषण्डानुगमनं । ५६० श्रीमद्भागवतम् Farmer brश्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः [ स्कं. ५ अ. २६ लो. ९-१६ वंचयित्वा इयं में धर्म्मभगिनीयं मे शिष्येत्यादिवचनां रचयित्वा यो भुंक्ते स एवमेवांधतामित्र निपात्यत इति पूर्वेणा- न्वयः । यत्र नरके । यस्मान्नष्टदृष्टिर्भवति तस्मादधतामिस्रमिति ॥ ९ ॥ * * तत् कुटुंबम् ॥ १० ॥ इत्यर्थ इति । ततद्धिं साजातकर्माण्येव रुरुतां प्राप्नुवंतीति भावः । रुरुशब्दस्य स्वयं मुनिनैव टीकाविधानाल्लोकेश्वप्रसिद्धोऽयं जीव- विशेषः ॥ ११ ॥ केवलं भूतद्रोहेणेति शेषः ।। १२ ।। * * ‘कुंभी तूखाकट्फलयोः’ इत्यभिधानात् । कुंभीषु पच्यते यत्र स कुंभीपाकः । उखा कटाहभेदः ॥ १३ ॥ * ब्रह्म वेदः । “खलं भूस्थानकल्केषु खलो गर्तेऽधमेंबरे” इत्य- भिधानात् । तप्तगर्ते इत्यप्यर्थः । अधस्तादग्निरुपर्यकः यद्यप्यर्कस्तत्र नास्ति तथापि पापिनां पीडार्थमन्य एव तत्र कल्पितोऽस्तीति ज्ञेयम् । न केवलं पित्रादिधुगेव किन्तु पश्वादिहिंसकोऽप्येवमित्याह - यावंतीति ॥ १४ ॥ * * निजवेदपथात्स्वस्य विहित- मार्गात् । अनापदीत्युक्तेरापदि किञ्चिदनुग्रहोऽस्तीति भावः । पाखंडं वेदविरुद्धं वेदाविहितमाधुनिकैर्निजेच्छया स्वपूजार्थं कल्पित- शास्त्राभासबोधितमार्गमित्यर्थः । “कशाश्वस्य च ताडनी । प्रोक्ता कशा भूमिहिंसाशणतंत्वंशुषु” इति निरुक्तिः । तत्र ह असिपत्रवने । असौ पाखंडानुगः । उभयतो धारैरुभयतस्तीक्ष्णायैः । “धारा तीक्ष्णाग्रपानीयवेगाश्वगतिपञ्चके” इति कोशात् । पाखंडानुगतं पाखंडानु- । ६ कूलम् । कचित्प्रथमांतोऽपि पाठः ।। १५ ।। * * अदंड्ये दंडाऽनर्हे । शरीरदंडस्ताडनांगच्छेदादिः । तत्र नरके । अतिबलैः । यमपुरुषैः । निष्पिष्यमाणाश्चर्णीक्रियमाणा अवयवा अंगानि यस्य । यथेक्षुपीडनयंत्रे इक्षूणां खंडः समूहः पीडनकाष्ठमध्ये दत्त्वा- परत्रातिबलैराकृष्यते स चूर्णितच भवति तथेति ॥ १६ ॥ श्रीमद्वीरराघवव्याख्या एवमिति । यथा तामिस्रे तद्दुःखानुभवः एवमन्धतामिस्रेऽपीत्यर्थः । तदनुभवनिमित्तं पापमाह यस्त्विति । यस्तु जन्तुः पुरुषं पतिं वञ्चयित्वा तदारादीनादिशब्दाद्वित्तापत्यादीनि च उपयुङ्क्ते खोपयुक्तान् कुरुते तस्यैवमेवेति पूर्वेणान्वयः । तर्हि तामिस्रा - दन्धतामिस्र को विशेष इत्यपेक्षायां तामिस्रान्तं विशिनष्टि यत्रेति । यत्रान्धतामिस्रे शरीरी देही विनिपात्यमानः यातनाभि- स्तीत्राभिः पीड्यमानः तीव्रवेदनया नष्टा मतिर्यस्य नष्टा दृष्टिश्च यस्य तादृशो भवति वृश्च्यमानं छिद्यमानं मूलं यस्य तादृशो वनस्पतिर्यथा पततीति दृष्टान्तः अस्मात्कारणात्तमन्धतामिस्त्रमित्युपदिशन्तीत्यर्थः ॥ ९ ॥ रौरवानुभवनिमित्तं पापं तञ्च वर्णयति यस्त्विह वावेति । यस्तु शरीरी इह लोके एतच्छरीरमहमेतदपत्यकलत्रादिकं ममेत्येवं रूपाभ्यामहङ्कारममकाराभ्यां केवलम्भूतद्रोहेणैव स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स इह लोके तत्स्वकुटुम्बं विहाय स्वयमेक एव तेन पूर्वाचरितेनाशुभेन पापेन रौरवाख्ये नरके निपतति अमुना तेन निपतितेन पूर्वमिह लोके ये च जन्तवो यथा येन प्रकारेण विहिंसितास्त एव जन्तवः रुरवः रुरुसंज्ञका जन्तवो भूत्वा तेनैव प्रकारेण परत्र रौरवे नरके यातनामुपगतं तमेव विहिंसन्ति । यतस्तत्र गतं रुरवो हिंसन्त्यतस्तं नरकं रौरवमित्याहुरित्यर्थः । के ते रुरवः यत्र गतं हिंसन्ति इत्यत्राह रुरुरिति । सर्पादप्यतिक्रूरस्य भूरिशृङ्गाख्यस्य सत्त्वस्य जन्तोः रुरुरिति व्यपदेशो व्यवहार इत्यर्थः ॥ १०-११ ॥ * * महारौरवमनुवर्णयति एवमेवेति । यथा रौरवे निपतितं रुरवो हिंसन्ति तथा महारौरवेऽपीत्यर्थः प्रथमान्तपाठे रौरवसदृश एव महारौरव इत्यर्थः । सादृश्यं च रुरुभिर्हिसनेन इयांस्तु ततो विशेष इत्याह यत्रेति । यत्र महारौरवे निपतितं पुरुषं देहिनं क्रव्यं निपतितस्य मांसमदन्तीति क्रव्यादास्तथाभूताः सन्तो रुरवः क्रव्येण निमित्तेन निपतितं घातयन्ति पुरुषस्यापि मांसं भक्षयन्तीत्यर्थः । तं क्रव्येणेति विभक्तिव्यत्यय आर्षः, अन्यथा “आदिखाद्योर्न” इत्यणी कर्तुण कर्मत्वनिषेधात्तेनेति तृतीया, ऋव्यमिति द्वितीया च स्यात्, क्रव्येण निमित्तेन तं खादयन्तीत्यर्थस्त्वसङ्गतः स्यात् क्रव्यादा इत्यनेन पौनरुक्त्याद्यथा क्रव्यादनस्वभावा अत एव क्रव्येण फलस्यैव हेतुत्वविवक्षया तृतीया, क्रव्यार्थं तं खादयन्ति “खिदेर्निवृत्त- प्रेषणाण्णिच्” खिदिरत्र दंशनपरः खादयन्ति तं दंशन्तीत्यर्थः । अनेन पूर्वोक्तनिर्वाहः सूचितः । अथ कुम्भीपाकं तदनुभवनिमित्तं पापं च वर्णयति य इति । यः केवलं देहम्भरः शरीरपोषणमात्रपरः यचेह लोके उग्रः क्रूरः पशून् पक्षिणः प्राणतः सजीवान् उपरन्धयति पचति तमपकरुणं निष्कृपं पुरुषादै राक्षसैरपि विगर्हितममुत्र कुम्भीपाके नरके यमानुचरास्तप्ततैल उपरन्धयन्ति पचन्ति तत्र तैलकुम्भ्यां पच्यन्ते यत्र स कुम्भीपाक इत्यवयवार्थो विवक्षितः ॥ १२-१३ ॥ अथ कालसूत्रस्थन र कानुभव- निमित्तं दुरितं तं च वर्णयति । यस्त्विह लोके पितृहन्ता ब्राह्मणहन्ता च स कालसूत्राख्ये नरके अयुतं योजनानि परितो मण्डलं । यस्य तस्मिंस्ताम्रविकारे खले खलसमदेशे खलो नाम धान्यानि वितुषीकर्तुं कृतः कृत्रिमो भूमिविशेषः । उपर्यधस्तादग्न्यर्काभ्याम- चस धस्ताद्वह्निना उपयर्केण चाभितप्यमानेऽभिनिवेशितः परितः पातितः क्षुत्पिपासाभ्यामन्तर्बहिश्च दह्यमानं शरीरं यस्य सः दह्यमान- शब्दस्य पूर्वनिपातः । यद्वा शरीराद्वहिः शरीरं “अपपरिबहिरञ्चवः पञ्चम्या” इति समासे बहिः शब्दस्य उपसर्जनत्वात्पूर्वनिपातः अत एव समासविधानाब्ज्ञापकादन्तर्बहिःशब्दयोः सम्बन्धसामान्ये पञ्चमी भवति, शरीरसम्बन्धिबहिः प्रदेशे इत्यर्थः । अन्तःशब्देन सन्निधानात् शरीरान्तःप्रदेश एव उच्यते दह्यमानान्तःशरीरान्तः प्रदेशः बहिः शरीरं च यस्येत्यर्थः एवम्भूतः ताम्रमये फलके उपवेश्यमानो याचनादि करोति याच्या चात्र हा हतोऽहं मां ह्रापयेति प्रार्थना एवं यावन्ति पशो रोमाणि तावत्सङ्ख्यानि वर्षाणां स्क. ५.अ. २६ श्लो. ९-१६1 अनेकव्याख्यासमलङ्कृतम् ५६१ सहस्राणि तत्रास्ते इत्यर्थः । एवं भूयान् दुःखानुभवः कालः सूच्यते ज्ञायते यस्मिन् स कालसूत्र इत्यवयवाऽर्थोत्राभिप्रेतः ।। १४ ।। * * एवं कालसूत्रमभिधायाथासिपत्रवनं नरकं तत्प्राप्तिनिमित्तं च वर्णयति यस्त्विह वा इति । यस्तु देही निजवेदपथात्स्ववर्णाश्रमो- चिताद्वेदविहिताद्धर्मादनापद्यपगतः अतिक्रान्तः आपदत्र देशकालवैपरीत्यप्रयुक्ता रोगादिनिमित्ता शक्तिः अनापद्यपगत इत्यनेनापदि स्वधर्मत्यागो न दोषावह इति सूचितं पाखण्डमवैदिकमस्मार्तं च केवलं स्वमनीषया कल्पितमत एव कुपथं कुत्सितं मार्गमाभासधर्म- मुपगतस्तं देहिनमसिपत्रवनाख्यं नरकं प्रवेश्य प्रविष्टं कृत्वा कराया प्रहरन्ति यमभटा इति शेषः । कशा हि नामाश्वादीनां ताडयितुं निर्मितो दण्डाकारो रज्जुविशेषः । एवं कशया ताडितः तत्रासिपत्रवने आसादित इतस्ततो धावमानः तीव्रदण्डमसहमानो द्रुततरं गच्छति उभयतोधारैः पार्श्वद्वयेऽपि धारयुक्तैः खड्गस्य त्वेकस्मिन्नेव पार्श्वे धारा एभिस्तूभयतोधारैरित्यर्थः । तालवनस्यासिपत्रैः खड्गसदृशैः छिद्यमानानि सर्वाण्यङ्गानि यस्य तादृशः हाहाकारपूर्वकं हतोऽस्मीति वदन् परमया तीव्रया वेदनया पदे पदे मूच्छ प्राप्नोति पतति एवं स्वधर्महा स्वधर्मत्यागी पाषण्डानुगतं पाषण्डधर्माभासानुगुणं फलं दुःखमनुभवति असिसदृशानि पत्राणि येषां वृक्षाणां वनमसिपत्रवनमित्यवयवार्थः ॥ १५ ॥ * * अथ सूकरमुखाख्यनरकं तत्प्राप्तिनिमित्तं पापं चानुवर्णयति यस्त्विति । इह लोके राजा वा राजपुरुषो वा कश्चिददण्ड्ये दण्डनानहें दण्डं दण्डनं प्रणयति कारयति दण्ड्येऽपि ब्राह्मणे शरीरदण्डं वा कारयति । " वपनं द्रविणादानं स्थानान्निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ||” इत्युक्तरीत्या दण्येsपि ब्राह्मणे देहदण्डानर्हे यः शारीरं दण्डं कारयतीत्यर्थः । स पापीयान् सूकरमुखे नरके निपतति तत्र नरके सूकरस्येव मुखं येषां तैर्जन्तुभिः नितरां पीड्यमाना अवयवा यस्य तादृशः यथा इभेन गजेनेक्षुदण्डः पीड्यते तद्वदार्तस्वरेण स्वनयन् रुदन्मूर्छितः कश्मलं मोहमुपगतो भवति यथा पूर्वमिहादृष्टदोषा दोषरहितास्तेन उपरुद्धाः पीडिताः सन्तः कश्मलमुपगतास्तद्वदित्यर्थः । अवयवार्थस्तु सुव्यक्तः ।। १६ । श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली ॥ वृश्चद्यमानमूलश्छिद्यमान शिफः यस्मान्नष्टदृष्टिस्तस्मादन्धतामिस्रमन्धत्वापादकान्धकारयुतमित्यर्थत्वादुपदिशन्ति मूर्च्छया बुद्धिनाशात्तामिस्रे अन्धतामिस्र तु चाक्षुषज्ञानस्य सर्वात्मना नाशादुभयोः सामान्यविशेषसद्भावाद्विशेषः ।। ९ ।। * * एत- च्छरीरमहमिदं क्षितिमण्डलं ममेति भ्रान्त्या तु वै महातारतम्यद्योतकौ इतिशब्दौ प्रत्येकं रौरवप्राप्तिनिमित्ते भवत इति द्योतयतः ॥ १० ॥ * * प्रकारान्तरेण रौरवं निर्वक्ति ये चेति । एवं द्वयं कर्त्रन्तरव्यावर्त्तकं रुरवः मृगाः किन्नेत्याह । रुरुरित्यपदेशो व्यपदेशः " मृगा नानाविषमुखा रुरवः परिकीर्तिताः” इत्यभिधानम् ॥ ११ ॥ * रौरवाद्विशेषमाह यत्रेति । देहम्भर - स्तथा पततीति शेषः ॥ १२ ॥ * * उपरुन्धयन्ति अशक्यश्वासमोक्षो यथा भवति तथोपरोधं कारयन्तीत्यर्थः ॥ १३ ॥ अधस्तादग्निरुपर्यर्कः खले धान्यादिशोषणस्थलस्थानीये न केवलं पित्रादिभुक् चतुष्पाद्धिंसकोऽप्येवमित्याह यावन्तीति || १४ || ** अनापदीति विशेषणादापदि कञ्चनानुग्रहं सूचयति “धाराखाग्रेऽम्बुसन्तत्यां सैन्याग्रेऽश्वगतिष्वपि ” इत्यभिधानात् धाराशब्देन निशितप्रान्तभाग उच्यते । तालवनस्य तालसमूहस्यासिवन्निशितधारपत्रैः स्वधर्मः स्ववर्णादिविहितः ।। १५ ।। ॐ अदण्ड्ये दण्डनायोग्ये शरीरदण्डस्ताडनादिरुपरुद्धः कारागृहे शृङ्खलायां वा निवेशितः दृष्टो दोषश्चौर्यादिलक्षणो यस्य स तथा स दण्ड्यते यथा तथेति ॥ १६ ॥ श्रीमजी वगोस्वामिकृतः क्रमसन्दर्भः एवमिति । यस्तु तस्यैवमेव भवतीत्यर्थः ॥ ९-१० ॥ * ये त्विति । त एव तद्धिसाजातकर्माण्येवेत्यर्थः । रुरु शब्दस्य स्वयं श्रीशुकेन टीकाविधानाल्लोकेष्वप्रसिद्धोऽयं जन्तुविशेष इति सूच्यते ॥ ११-१६ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी पुरुषं पतिम् ॥ ९ ॥ * एतच्छरीरमहमिति इदं धनादिकं ममेति मत्वा भूतद्रोहेणेति भूतद्रोहं विना तु केवलामम- काराभ्यां न रौरवे निपततीति बुद्धयते ॥ १० ॥ * रुरवो भूत्वेति कर्माण्येव तथा परिणामं प्राप्येत्यर्थः । अतिक्रूरस्य भार - शृङ्गाख्यसत्त्वस्य अपदेशः संज्ञेति श्रीस्वामिचरणाः । रुरुशब्दस्य स्वयं मुनिनैव टीकाविधानाल्लोकेष्व प्रसिद्ध एवायमिति सन्दर्भः
-
- ।। ॥ ११ ॥ क्रव्येण निमित्तेन मांसार्थमित्यर्थः । केवलमिति भूतद्रोहेणेति शेषः ॥ १२ ॥ * * प्राणत उपरन्धयति सप्राणान् पचतीत्यर्थः ॥ १३ ॥ * * खले समे देशे ॥ १४-१५ ।। स्वनयन् रुदन्नदृष्टदोषा निर्दोषा उपरुद्धा ।। ।। दण्डिताः ।। १६ ।। ४ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
पुरुषं दारादिखामिनम् ।। ९॥ इह कर्मभूमौ एतच्छरीरमहमिति इदं कुटुम्बादिकं ममेति मोहेन स्वेन देहेन सहितं कुटुम्बमेव केवलं प्रपुष्णाति स तदुभयमिहैव विहाय तेनाशुभेन ॥ १० ॥ . * ते एब रुरवो भूत्वेति रुरवः यातना - ७१ ५६२ श्रीमद्भागवतम् [ स्कं. ५ अ. २६ श्लो. ९-१६ निमित्तानि सर्पादतिक्रूर सत्त्वानि भूत्वेत्यर्थः । अतिक्रूरस्यातिभयङ्करस्य सत्त्वस्य अपदेश: संज्ञा ॥ ११ ॥ * यत्र महारौरवे क्रव्येण मांसेन निमित्तन ।। १२-१३ ।। खले समस्थाने ॥ १४ ॥ * स्वधर्महा निजधर्मत्यागी ।। १५ ।। * * स्वन- यन् रुदन् यथा तेनोपरुद्धाः कश्मलमुपगतास्तद्वत् ॥ १६ ॥ * गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी । 3 यस्तु पुरुषं स्वामिनं वञ्चयित्वा तारादीनुपभुङ्क्ते स एवमेवान्धतामिस्रे नरके बलान्निपात्यते इति शेषेणान्वयः । तत्रत्यं दुःखमाह-यत्रेति ।। १२ ।। * * नष्टमतित्वेनाचेतनतया पतने दृष्टान्तं दर्शयंस्तथा नामनिरुक्तावपि तदेव हेतुरित्याह । ।। ।। - यथेति । वृश्च्यमानमूलश्छिन्नमूलः ॥ १३ ॥ * * एतच्छरीरमहमिति । इदं धनापत्यकलत्रादि ममेति मत्वा प्राणिद्रोहेण केवलं कुटुम्बमेवानुदिनं पुष्णाति स तद्देहं कुटुम्बं चेहैव विहाय तदशुभेन प्राणिद्रोहजनितपापेन ॥ १४ ॥ * * रौरवनाम- निरुक्तौ हेतुमाह-ये त्विति । अतिक्रूर स्वभावा अपि तमेव तथा स्वहिंसानुसारेण हिंसन्ति नान्यं तत्पापेन तद्धिंसार्थं मेवोत्पन्नत्वादिति भावः ॥ १५ ॥ * * के ते रुरव इत्यपेक्षायामाह - रुरुरिति । सर्पादप्यतिक्रूरस्य सत्त्वस्य प्राणिविशेषस्य अपदेशः सञ्ज्ञा ।। १६ ।। * * यः प्राणिद्रोहेण केवलं देहम्भरः स्वदेहपोषणपरो भगवद्भजनविमुखस्तं यत्र पतितं पुरुषं क्रव्येण निमित्तेन मांसार्थं घातयन्तीत्यन्वयः ॥ १७ ॥ * * उग्रः क्रूरस्वभावः, प्राणतः सजीवानुपरन्धयति । अपकरुणं निष्कृपम् ॥ १८ ॥ * * स्वसमे देशे । एवं दुःखं कियन्तं कालं भुङ्क्ते इत्यपेक्षायामाह - यावन्तीति ॥ १९ ॥ * * अपगतः भ्रष्टः पाखण्डं वेदविरुद्धमार्गमुपगतः प्राप्तः । कशया वेत्रेण । अनापदीत्युक्तेरापदि दण्डस्य सङ्कोचं सूचयति ।। २० ।। * * तालवनस्या- सिवद्वर्त्तमानैः पत्रैः । हा हतोऽस्मीति वदन्निति शेषः । स्वधर्महा वेदविहितस्वधर्मत्यागी पाखण्ड मार्गस्वीकारात् प्राप्तम् ॥ २१ ॥ * * अदण्ड्ये दण्डानर्हे निरपराधिनि ब्राह्मणे सापराधेऽपि शरीरदण्डं ताडनादि ‘वपनं द्रविणादानं स्थानान्नि- । ॥ ॥ र्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः’ इति शारीरदण्ड निषेधात् ॥ २२ ॥ * हतोऽस्मीत्यार्त्तस्वरेण स्वनयन् रुदन् कश्मलं मोहमुपगतः सन् कचिन्मूच्छितो भवतीत्यन्वयः । अवयवनिष्पेषणेन आर्तशब्दकरणे दृष्टान्तमाह- यथैवेहादृष्टदोषा निर्दोषाः तेनोपरुद्धा दण्डिताः सन्तो मोहमुपगता मूर्छिता भवन्ति स्म तथेत्यर्थः ।। २३ । । श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी / , अथान्धतामिस्रं वदति एवमिति । यस्तु जन्तुः, तु पुरुषं पराङ्गनास्वामिनं, वञ्चयित्वा प्रतार्य, दारादींस्तदङ्गनादीन्, आदिशब्दाद्वित्तापत्यादीनि च, उपयुङ्क्ते स्वोपयक्तान् कुरुते । तस्य अन्धतामिस्रे, एवमेव यथा तामिस्रे, दुःखानुभव एवमेवा- न्धतामिस्रेऽपि भवतीत्यर्थः । तर्हि तामिस्रादन्धतामिस्रे को विशेष इत्यपेक्षायामन्धतामिस्रं विशिनष्टि । यत्रान्धतामिस्रं, निपात्यमानः तीव्राभिर्यातनाभिः पीडयमानः, शरीरी देही, यातनास्थस्तत्पीडामनुभवन्, वेदनया तीव्रवेदनानुभवेन, नष्टा दृष्टिर्यस्य सः, नष्टा मतिर्यस्य सः, इत्थंभूतः भवति । पततीत्यर्थः । कथमिव यथा वृश्यमानानि मूलानि यस्य सः छिद्यमानमूलः वनस्पतिर्वृक्षः पतति । तथा तस्मात्कारणात् तं नरकम् अन्धतामिस्रम् इति उपदिशन्ति ॥ ९ ॥ * * रौरवं नरकं तदनुभवनिमित्तं पापं च वदति । यस्त्विति । यस्तु शरीरी, इह वा अस्मिन् लोके एव, एतच्छरीरं, अहमिति ममेदमिति च शरीरादहं भिन्नो न भवामि कलत्राप- त्यादिकमेतन्ममैवेति अहंकारममकाराभ्यां कृत्वेत्यर्थः । केवलं भूतद्रोहेण भूतमात्रद्रोहं विधायेत्यर्थः । स्वकटुम्बमेव, अनुदिनं प्रपुष्णाति स शरीरी, इह लोके, तत्कुटुम्बं विहाय परित्यज्य, स्वयमन्यायेन तत्पोषणकर्त्ता शरीक एव, तदशुभेन तेन स्वेन पूर्वाचरितेन पापेन, रौरवे रौरवाख्ये नरके, निपतति ॥ १० ॥ * * ये त्विति । अमुनाऽमुष्मिन्नर के पतितेन जनेन, पूर्वमिति शेषः । इह लोके, ये तु जन्तवः, यथैव येन प्रकारेणैव, विहिंसिताः मारिताः, ते एव जन्तव रुरवो रुरुसंज्ञाः भूत्वा परत्र रौरवे नरके, यमयातनाम् उपगतं तं तथैव तेनैव प्रकारेण विहिंसन्ति । यतस्तत्र गतं रुरवो विहिंसन्ति तस्माद्धेतोः, तं नरकं, रौरवम् इति आहुः । के ते रुरवः यत्र गतं तं विहिंसन्तीत्यत्राह । रुरुः इत्येषः सर्पात् अतिक्रूरः सत्त्वापदेशो भरशृङ्गाख्यप्राणिविशेषः । केचित्तु भूरिशृङ्गाख्य इत्यपि पठन्ति । भूरिशृङ्ग एव रुरुनाम्ना व्यवह्नियते इत्यर्थः । यद्यपि तद्धताः पशवो रुरवो भूत्वेत्यभिहितं तथापि, तत्कर्माण्येव तथा परिणामं प्राप्य तं तुदन्तीति ज्ञेयं तद्धतपशूनां तथाविधतया भवनात्मककर्माभावादिति भावः ॥ ११ ॥ * * महारौरवमनुवर्णयति एवमेवेति । महारौरवः, एवम् एव, रौरवसदृश एवेत्यर्थः । सप्तम्यन्तपाठे यथा रौरवे निपतितं रुरवो हिंसन्ति तथा महारौरवेऽपीत्यर्थः । सादृश्यं च रुरुकृतहिंसनमात्रेण । इयांस्तु ततो विशेष इत्याह यत्रेति । यत्र महारौरवे, निपतितं तं पुरुषं क्रव्यं स्वनिपातिपुरुषमांसमदन्तीति क्रव्यादाः इत्येवं नाम प्रसिद्धाः, रुरवः क्रव्येण निमित्तेन घातयन्ति । कं क्रव्यादास्ते घातयन्ति तत्राह । यः केवलं देहम्भरः शरीरमात्र पोषणपरः, तमिति सम्बन्धः ॥ १२ ॥ * * अथ कुम्भीपाकं नरकं तदनु- भवनिमित्तं पापं च वर्णयति यस्त्विति । उग्रः प्रकृत्यातिक्रूरः सन् यस्तु इह वा अस्मिन् लोके एव, पशून् पक्षिणो वा, प्राणतः सजीवानेव, उपरन्धयति पचति । अपकरुणं निष्कृपं पुरुषादैः राक्षसैः अपि, विगर्हितं निन्दितं तं पुरुषं, अमुत्र कुम्भीपाके, यमा- नुचराः, तप्ततैलेऽधोविहिताऽग्नितापातिशयात् कडकडिततैलवति कटाहे, उपरन्धयन्ति संपचन्ति ॥ १३ ॥ अथ काल- स्क. ५ अ. २६ लो. ९-१६] , 1 अनेकव्याख्यासमलङ्कृतम् , ५६३ सूत्राख्यनरकं तदनुभवननिमित्तं दुरितं च वदति यस्त्विति । यस्तु पुमान्, इह लोके, पिता च विप्रश्च ब्रह्म च तानि द्रुह्यतीति पितृविप्रब्रह्मक् पितृहन्ता ब्राह्मणहन्ता, वेदहन्ता चेत्यर्थः । स पुमान्, कालसूत्रसंज्ञके अयुतं योजनानि परितो मण्डलं यस्य तस्मिन्, ताम्रमये ताम्रविकारे, तप्तं खलं यस्य तस्मिन् खलं नाम धान्यानि वितुषीकर्तुं समतया विहितः कृत्रिमो भूविशेषस्तथा- विधतप्तताम्रमयखलप्रदेशे इत्यर्थः । नरके अभिनिवेशितो याम्यैः संप्रवेशितः, उपरि अधस्ताच्च, अग्न्यर्काभ्यां अतितप्यमानः, अस्य सप्तम्यन्तत्वे नरकविशेषणता । अधस्ताद्वह्निनोपर्यर्कपरितापेन परितस्तप्यमान इत्यर्थः । क्षुत्पिपासाभ्यां च दह्यमानमन्तर्बहिश्व शरीरं यस्य सः, एवंभूतः सन्, आस्ते उपविशति । शेते शमनं करोति । चेष्टते हस्तपादघर्षणचेष्टामाचरति । अवतिष्ठते ऊर्ध्वम- वस्थितो भवति । परिधावति व्यथयेतस्ततः परिधावनमाचरति च किंपर्यन्तमित्यत्राह । यावन्ति यत्परिमाणानि पशुरोमाणि स्वव्या- पादितपशुशरीरगतयावत्संख्याक रोमाणीत्यर्थः । तावद्वर्षसहस्राणि तावत्संख्याकवर्षसहस्रपर्यन्तं तत्रास्ते इत्यर्थः ॥ १४ ॥ * * असिपत्रवनं नरकं तत्प्राप्तिनिमित्तपापं च वर्णयति यस्त्विति । यस्तु देही, इह लोके, निजवेदपथात् स्ववर्णाश्रमोचिताद्वेद- विहिताद्धर्मात् अनापद्यापत्कालमन्तरैव, अपगतः अतिक्रान्तः, आपदत्र देशकालवैपरीत्यप्रयुक्ता रोगादिनिमित्ताऽशक्तिः । अना- पद्यपगत इत्यनेनापदि स्वधर्मत्यागो न दोषावह इति सूचितम् । पाखण्डम वैदिकमस्मार्त्तं च केवलं स्वमनीषया कल्पितं कुपथमि- त्यर्थः । उपगतः, तं देहिनं, असिपत्रवनाख्यं नरकं, प्रवेश्य प्रविष्टं कृत्वा, कशया प्रहरन्ति । यमभटा इति शेषः । कशा नामा- वास्ताडयितुं निर्मितो दण्डाकारो रज्जुविशेषः । एवं कशया ताडितः सः तत्रासिपत्रवने, ह स्फुटं यथा तथा, इतस्ततः, धावमानः तीव्र वेदनाक्षमतया यतस्ततः परिसर्पन्नित्यर्थः । असौ देही, उभयतोधारैः पार्श्वद्वयेऽपि धारयुक्तः, तालवनासिपत्रैः छिद्यमानानि सर्वाण्यङ्गानि यस्य सः, हा हतोऽस्मीति वदन् हाहाकारविधानपूर्वकं हतोऽस्मीति ब्रुवाण इत्यर्थः । परमया वेदनया, पदे पढ़े मूच्छितः संजातमूर्च्छः सन् निपतति । एवं स्वधर्महा निजधर्मत्यागी, पाखण्डानुगतं धर्माभासपाखण्डानुगुणं फलं भुङ्क्तेऽ नुभवति ।। १५ ।। * * अथ सूकरमुखं नरकं तत्प्राप्तिनिमित्तं पापं चानुवर्णयति यस्त्विह वेति । इह लोके यस्तु राजा वै, भूपतिरेवेत्यर्थः । वा अथवा राजपुषो मन्त्र्यादिर्यः कश्चन राजकीयपुरुषः, अदण्ड्ये दण्डनानर्हे दण्डं दण्डनं प्रणयति । अदण्ड्यदण्डन- कारीत्यर्थः । दण्डयेऽपीति शेषः । ब्राह्मणे, शरीरदण्डं वा, प्रणयति । ‘वपनं द्रविणादानं स्थानान्निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्यस्तु दैहिकः’ इत्युक्तेर्वध्येऽपि ब्राह्मणे देहान्तदण्डनिषेधात्, यः दण्डं कारयतीत्यर्थः । पापीयानतिपातकयुक्तः, स अमुत्र यमालये सूकरमुखे, नरके निपतति । तत्र नरके, अतिबलैर्बलवत्तरैः, सूकरास्यैरिति पाठे सूकरस्येव आस्यं मुखं येषां तैर्जन्तुभिः, विशेषेण निःशेषेण पिष्यमाणाः पीड्यमाना अवयवा यस्य सः, तादृशः सन् यथैव इह लोके, इक्षुदण्डः यन्त्र निष्पीड्यमा नेक्षुदण्डः, तथा आर्त्तस्वरेण स्वनयन् रुदन् कचित् मूच्छितः संच, कश्मलं मोहं उपगतः भवति । कथमिव यथैव पूर्वम् इह अदृष्टदोषाः दोषरहिताः, उपरुद्धास्तेन पीडिताः सन्तः कश्मलम् उपगता अभवंस्तद्वदित्यर्थः ॥ १६ ॥ क । भाषानुवादः इसी प्रकार जो पुरुष किसी दूसरेको धोखा देकर उसकी स्त्री आदिको भोगता है, वह अन्धतामिस्र नरक में पड़ता है । वहाँ की यातनाओंमें पड़कर वह, जड़से कटे हुए वृक्षके समान, वेदना के मारे सारी सुध-बुध खो बैठता है और उसे कुछ भी नहीं सूझ पड़ता । इसीसे इस नरकको अन्धतामिस्र कहते हैं ॥ ९ ॥ * जो पुरुष इह लोकमें ‘यह शरीर ही मैं हूँ और ये स्त्री- धनादि मेरे हैं’ ऐसी बुद्धिसे दूसरे प्राणियोंसे द्रोह करके निरन्तर अपने कुटुम्बके ही पालन-पोषण में लगा रहता है, वह अपना शरीर छोड़ने पर अपने पापके कारण स्वयं ही रौरव नरकमें गिरता है ॥ १० ॥ * * इस लोक में उसने जिन जिन जीवोंको जिस प्रकार कष्ट पहुँचाया होता है, परलोकमें यमयातनाका समय आनेपर वे जीव ‘रुरु’ होकर उसे उसी प्रकार पहुँचाते हैं । इसीलिए नरकका नाम ‘रौरव’ है। ‘रुरु’ सर्पसे भी अधिक क्रूर स्वभाववाले एक जीवका नाम है ॥ ११ ॥ * * ऐसा ही महारौरवनरक है । इसमें वह व्यक्ति जाता है, जो और किसीकी परवाह न कर केवल अपने ही शरीरका पालन-पोषण करता है, वहाँ कच्चा मांस खानेवाले रुरु इसे मांसके लोभसे काटते हैं ।। १२ ।। * * जो क्रूर मनुष्य इस लोक में अपना पेट पालनेके लिये जीवित पशु या पक्षियोंको राँधता है, उस हृदय-हीन, राक्षसोंसे भी गये- बीते पुरुषको यमदूत कुम्भीपाक नरकमें ले जाकर खौलते हुए तैलमें राँधते हैं ।। १३ ।। * जो मनुष्य इस लोक में माता-पिता, ब्राह्मण और देवसे विरोध करता है उसे यमदूत कालसूत्र नरकमें ले जाते हैं। इसका घेरा दस हजार योजन है । इसकी भूमि ताँबेकी है। इसमें तपा हुआ मैदान है, वह ऊपरसे सूर्य और नीचेसे अभिके दाहसे जलता रहता है । वहाँ पहुँचाया हुआ पापी जीव भूख-प्यास से व्याकुल हो जाता है और उसका शरीर बाहर-भीतर से जलने लगता है। उसकी बेचैनी यहाँतक बढ़ती है कि वह कभी बैठता है, कभी लेटता है, कभी इधर-उधर दौड़ने लगता है । इस प्रकार उस नर- पशु के शरीर में जितने रोम होते हैं, उतने ही हजार वर्षतक उसकी यह दुर्गति होती रहती है ॥ १४ ॥ * * जो पुरुष किसी प्रकारकी आपत्ति न आनेपर भी अपने वैदिक मार्गको छोड़कर अन्य पाखण्डपूर्ण धर्मोका आश्रय लेता है, उसे यमदूत असिपत्रवन नरक में ले जाकर कोड़ों से पीटते हैं । जब मार से बचनेके लिये वह इधर-उधर दौड़ने लगता है, तब उसके सारे अङ्ग तालवन के तलवार के * ५६४ श्रीमद्भागवतम् [स्क. ५ अ. २६ श्लो. १७-२४ समान पैने पत्तोंसे, जिनमें दोनों ओर धारें होती हैं, टूक-टूक होने लगते हैं। तब वह अत्यन्त वेदनासे ‘हाय, मैं मरा!’ इस प्रकार चिल्लाता हुआ पद-पदपर मूच्छित होकर गिरने लगता है। अपने धर्मको छोड़कर पाखण्डमार्ग में चलनेसे उसे इस प्रकार अपने कुकर्मका फल भोगना पड़ता है ॥ १५ ॥ * * इस लोकमें जो पुरुष राजा या राजकर्मचारी होकर किसी निरपराध मनुष्यको दण्ड देता है अथवा ब्राह्मणको शरीरदण्ड देता है, वह महापापी मर कर सूकरमूख नरकमें गिरता है वहाँ जब महाबली यमदूत उसके अङ्गों को कुचलते हैं, तब वह कोल्हू में पेरे जाते हुए गन्नोंके समान पीड़ित होकर, जिस प्रकार इस लोकमें उसके द्वारा सताये हुए निरपराध प्राणी रोते-चिल्लाते थे, उसी प्रकार कभी आर्त स्वरसे चिल्लाता और कभी मूर्च्छित हो जाता है ।। १६ ।। यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूप तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूका मत्कुणमक्षिका- दिभियें के चाभिदुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ १७ ॥ यस्त्विह वा ‘असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स परत्र कृमिभोजने नरका- धमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहुतादो- ऽनिर्वेशमात्मानं यातयते ॥ १८ ॥ यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि निष्कुषन्ति ।। १९ ।। यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुष यो षिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुष- रूपया सूर्या ॥ २० ॥ यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥ ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादा- स्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः स्वारघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांस वसावाहिन्यामुपतप्यन्ते || २२ || ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातित्री- भत्सितमश्नन्ति ॥ २३ ॥ ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेतल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥ अन्वयः -इह यः तु वै स्वयम् पुरुषोपकल्पितवृत्तिः विविक्तपरव्यथः ईश्वरोपकल्पितवृत्तीनाम् अविविक्तपर व्यथानाम् भूतानाम् व्यथाम् आचरति सः परत्र अंधकूपे तदभिद्रोहेण निपतति तत्र ह असौ पशुमृगपक्षिसरीसृपैः मशकयूकामत्कुण- मक्षिकादिभिः ये के अभिदुग्धाः तैः जन्तुभिः सर्वतः अभिद्रुह्यमाणः विहतनिद्रानिर्वृतिः अलब्धावस्थानः यथा कुशरीरे जीवः तमसि परिक्रामति ।। १७ ।। * इह अनिर्मितपञ्चयज्ञः यः तु वै यत् किंचन उपनतम् असंविभज्य अश्नाति अप्रत्ताप्रहुतादः वायससंस्तुतः सः परत्र कृमिभोजने नरकाध मे निपतति तत्र शतसहस्रयोजने कृमिकुंडे स्वयम् कृमिभूतः कृमिभिः एव भक्ष्यमाणः कृमिभोजनः तत् यावत् अनिर्वेशम् आत्मानम् यातयते ।। २८ ।। * राजन् वै यः पुरुषः तु इह अनापदि ब्राह्मणस्य वा अन्यस्य हिरण्यरत्नादीनि स्तेयेन वा बलात् अपहरति तम् अमुत्र यमपुरुषाः अयस्मयैः अग्निपिण्डैः संदंशैः त्वचि निष्कु- षन्ति ॥ १९ ॥ * * वै इह यः तु अगम्याम् स्त्रियम् वा योषित् अगम्यम् पुरुषम् वा अभिगच्छति तौ अमुत्र कशया ताडयन्तः यमदूताः तिग्मया लोहमय्या सूर्या पुरुषम् च पुरुषरूपया सूर्म्या स्त्रियम् आलिङ्गयन्ति ॥ २० ॥ * ॐ वै इह यः तु वा सर्वाभिगमः तम् अमुत्र निरये वर्तमानम् वज्रकण्टकशाल्मलीम् आरोप्य निष्कर्षन्ति ॥ २१ ॥ * * वै ये तु इह राजन्याः राजपुरुषाः पाखण्डाः वा धर्मसेतून् भिन्दन्ति ते संपरेत्य वैतरण्याम् निपतन्ति भिन्नमर्यादाः तस्याम् निरयपरिखाभूतायाम् विण्मूत्रपूय- १. प्रा० पा० - मीश्वरकल्पित० । २ प्रा० पा० - सङ्गेऽसंविभज्य । ३. प्रा० पा० - शतयोजने । ४. प्रा० पा० ण्डे कृमिभिरेव भक्ष्यमाणः । ५० प्रा० पा० - अश्ममयैरग्नि० । ६. प्रा० पा० - दपि गच्छति । ७ प्रा० पा० - ताडयेत्तिग्मया । ८. प्रा० पा० - पुरुषमूर्त्या । ९. प्रा० पा० धर्मसेतुं । १०. प्रा० पा० - अधेन कर्मविपाकमनुस्मरन्त उपतप्यन्ते विण्मूत्रवाहिन्याम् | स्क. ५ अ. २६ श्लो. १७-२४ अनेकव्याख्यासमलङ्कृतम् ५६५ शोणितकेशनखास्थिमेदोमांसवसावाहिन्याम् नद्याम् यादोगणैः इतस्ततः भक्ष्यमाणाः आत्मना च असुभिः न वियुज्यमानाः स्वाघेन उह्यमानाः कर्मपाकम् अनुस्मरन्तः उपतप्यन्ते ।। २२ ।। * वै इह ये तु वृषलीपतयः नष्टशौचाचारनियमाः त्यक्तलज्जाः पशुचर्यां चरन्ति ते च अपि प्रेत्य पूयविण्मूत्रश्लेष्ममला पूर्णार्णवे निपतन्ति तदेव अतिबीभत्सितम् अश्नन्ति ।। २३ ।। * * वै इइये इइ ये तु श्वगर्दभपतयः ब्राह्मणादयः मृगयाविहाराः च अतीर्थे मृगान् निघ्नन्ति तान् अपि संपरेतान् लक्ष्यभूतान् यमपुरुषाः इषुभिः विध्यन्ति ।। २४ ।। श्रीधरस्वामिविरचिता भावार्थदीपिका ईश्वरेणोपकल्पिता मनुष्यरक्तपानादिलक्षणा वृत्तिर्येषां मत्कुणादीनाम् | अविविक्ता अविज्ञाता परव्यथा यैरविवेकि- भिस्तेषाम् । पुरुषेण ब्राह्मणादिभावेन विधिनिषेधपूर्वकमुपकल्पिता वृत्तिर्यस्य । विविक्ता परव्यथा येन विवेकिना । अभिद्रुग्धा हिंसिताः । विहता निद्रारूपा निर्वृतिर्यस्य । न लब्धमवस्थानं येन स तमसि परिक्रामति ॥ १७ ॥ * यत्किंचन भक्ष्यादिकमुपनतं प्राप्तं तदसंविभज्य । न निर्मिताः पंचयज्ञा येन अत एव वायसैः संस्तुतः समत्वेन वर्णितः कृमिभोजनः कृमीनेव भुंजानः यावत्तत् यावंति योजनानि तत्कृमिकुंडं तावति वर्षाणि यावद्वा तत्पातकमित्यर्थः । अप्रत्तमसंविभक्तमप्रहुतं चान्तीति तथा सः । अनिर्वेशम- कृतप्रायश्चित्तम् ।। १८ ।। * * नित्कुषंति छिंदति ।। १९ ।। * * तिग्मया तप्तया । सूर्या प्रतिमया ।। २० ।। * * । ६ सर्वाभिगमः पश्वाद्युपगंता ॥ २१ ॥ * * अपाखंडाः सत्कुलीनाः संतः । द्वितीयांतपाठे सेतुविशेषणम् । नदीं विशिनष्टि । ।। विण्मूत्रेति ।। २२ ।। * पशुचर्यां स्वेच्छाचारम् || २३ || अतीर्थे विहितादन्यत्र विध्यतीति प्राणनिरोधो दर्शितः ।। २४ ।।
श्रीवंशीधरकृतो भावार्थदीपिका प्रकाशः मल । आदिना दंशमशकादिग्रहः । पुरुषेण श्रीहरिणा । तेषां मत्कुणादीनामभिद्रोहेण हिंसया । असौ द्रोग्धा तैस्तैर्यूकादिभिः । कुशरीरे कुष्टादिदूषितदेहे ।। १७ ।। अत एवानिर्मितपंचयज्ञत्वादेव । वायसतुल्यैराचारहीनैः । संस्तुतो वाऽसंविभज्य । । बालवृद्धादिभ्योऽदत्त्वैव । इत्यर्थ इति । प्रकर्षेणादायीति प्रत्तं न प्रत्तमप्रत्तमसंविभक्तं च अप्रहुतमाहुतिवर्जितं चान्तीति तथा । “निर्वेशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च " इति मेदिनी । वेतनशब्देनेह प्रायश्चित्तं लक्ष्यते । यातयति पीडयति ।। १८ ।। * * अन्यस्य नापदीत्युक्तेर्ब्राह्मणस्यापद्यपीत्यायातम् । संदशैर्यत्रविशेषैः तप्तलोहादिग्रहणार्थं व्याघ्रमुखो द्विफालो लोहयंत्रः संदशः । निष्कुषंति स्पर्शयंति ॥ १९ ॥ * * अगम्यामुद्वाहविधिग्रहणवर्जितां सर्वाम् । अगम्यं पाणिग्रहीतारं विना पुरुषमात्रमित्यर्थः । “अगम्यः पुरुषो नार्या हस्तग्राहं विनाऽखिलः । नार्यगम्या तथा सर्वा विना पाणिगृहीतिकाम् ॥” इति संहितोक्तेः । “तिग्मं तीक्ष्णे च तप्ते च सूर्मी पुत्तलिका स्मृता " इति चाभिधानचिंतामणिः ।। २० ।। * * सर्वाभिः स्त्रीभिरभिगमो मैथुनं यस्य स तथा गर्दभ्यादिष्वपि रमणशीलः । वज्रवत्कंटकानि यस्याः शाल्मल्यास्ताम् । निष्कर्षति यथा कंटकैस्तद्देहोऽतिपीडितः स्यात्तथोपरिभागतो Sधोभाग आकर्षति ॥ २१ ॥ द्वितीयांतपाठेऽपाखंडानिति पाठे । धर्मसेतून् देवब्राह्मणगोवृत्तिरूपान् । तदर्चनरूपान्वा भिन्द॑ति छिंद॑ति । अपाखंडानित्युक्तः पाखंडवृत्त्यादिच्छेदे दोषाभाव एवासूचीति । वितरणं दानं तेन तीर्यत इति वैतरणी तस्यां तदुक्तं गारुडे “दानं वितरणं प्रोक्तं तेन सा तीर्यते यतः । वैतरणीति ततः प्रोक्ता गोदानेन विशेषतः ।। " इति । आत्मना यातनादेहेन असुभिः प्राणैश्चोद्यमानाः अवियुज्यमानाः । पूयमपक्चरक्तम् । वसा मज्जा । मेदोऽपि शारीरिकधातुभेदः ॥ २२ ॥
- “वेश्या सती च दासी च कुमारी स्याद्रजस्वला । संगृहीता च या भार्या वृषल्यः पञ्च कीर्त्तिताः ॥” इति स्मृतिसंग्रहे । हारीतस्तु — “पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता । सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः” इत्याह । नष्टशौचस्य ‘एका लिंगे गुदे पञ्च’ इत्यादि - नोक्तस्याचारस्य धर्माचरणस्य यद्वा - “रागद्वेषविनिर्मुक्तैर्विद्वद्भिर्यदनुष्टितम् । सदाचारः स विज्ञेयो धर्ममूलो मनीषिभिः ॥” इति स्कांदोक्तलक्षणस्य नियमोऽनुष्ठानं येषां ते तथा । शौचाचारपरित्याग एव पशुचर्या । तदेव पूयाद्येव । अतिबीभत्सितमतीव निन्द्यं भुंजंति ।। २३ ।। * * अतीर्थे श्राद्धादिरहितकाले । तान् श्वगर्भपत्यादीन् ।। २४ ।। । श्रीमद्वीरराघवव्याख्या अथान्धकूपं तत्प्राप्तिनिमित्तं पापं च वर्णयति यस्त्विह वा इति । यस्तु देही इह लोके ईश्वरेणोपकल्पिता मनुष्यरक्त- पानादिरूपा वृत्तिर्येषामविदिता परस्य व्यथा यैरविवेकिभिस्तेषामज्ञातपरकृतदुःखानां वा भूतानां मत्कुणमशकादीनां व्यथामाचरति करोति कथम्भूतः स्वयं पुरुषोपकल्पितवृत्तिः परमेण परमपुरुषेण उपकल्पिता वर्णाश्रमादिविभागेन विधिनिषेधपूर्विका कल्पिता वृत्तिर्यस्य विविच्य ज्ञाता परस्य व्यथा येन विवेकी सन्नित्यर्थः । स एवंविधो भूतध्रुक् तदभिद्रोहेण भूतद्रोहेण निमित्तेनान्धकूपाख्ये नरके निपतति तत्रान्धकूपे हेति खेदेऽसौ पतितस्तैः पूर्वं हिंसितैर्जन्तुभिः कांश्चित्तान् दर्शयति पश्वित्यादिना । तेषामानन्त्या- त्सङ्गृह्याह । ये के चाभिदुग्धा हिसितास्तैः सर्वैः पश्वादिरूपतामापन्नैः सर्वतोऽभिद्रुह्यमाणस्तैरेव विहता निद्रानिर्वृतिः निद्रासुखं ५६६ श्रीमद्भागवतम् [ स्कं. ५ अ. २६ श्लो. १७-२४ यस्य तथा न लब्धमवस्थानं येन तथाभूतस्तमस्यन्धकारे परिभ्रमति । तत्र दृष्टान्तः - यथेति । कुशरीरे व्याध्याद्युपहते सारासमर्थे शरीरे जीवो यथाऽलब्धनिद्रः खिद्यति तथेत्यर्थः, अन्धकारावृतकूपोऽन्धकूप इत्यवयवार्थः ॥ १७ ॥ * * अथ कृमिभोजनं तदनुभवहेतुं पापं च वर्णयति । तु यस्त्विह वा असम्विभज्येति यस्तु देही इह लोके यद्भक्षादिकं दैवादुपनतं प्राप्तमप्यन्नमसम्बि- भज्यातिथिभ्योऽप्रदायेत्यर्थः । अश्नाति स्वयं भुङ्क्ते यश्चानिर्मित पञ्चयज्ञः अननुष्ठितपञ्चमहायज्ञः स वायससंस्तुतः वायसैः समत्वेन वर्णितः परत्र परलोके कृमिभोजनाख्ये नरकाधमे निपतति तत्र शतसहस्रयोजनपरिमिते कृमिकुण्डे स्वयमपि कृमिभूतः कृमिभिरेव भक्ष्यमाणः कृमिभोजनः कृमीनेव भुञ्जानः यावद्यावन्ति योजनानि कृमिकुण्डं तावन्ति वर्षाण्यात्मानं यातयते दुःखयति । कथम्भूतम् अप्रत्ताप्रहुतादः प्रत्तं दत्तावशिष्टं प्रहुतं यज्ञावशिष्टं प्रत्तं च प्रहुतं न प्रत्तप्रहुते अप्रत्तप्रहुते ते अन्तीति अप्रत्तप्रहुतादः एवम्भूतोऽहमित्य- कृत निर्देशः परितापो येन तमात्मानम् ॥ १८ ॥ * * अथ संदंशाख्यं नरकं पापं च वर्णयति यस्त्विह वै स्तेयेनेति । इह यो देही स्तेयेन चौर्येण वा अनापदि ब्राह्मणस्यान्यस्य वा हिरण्यरत्नादीन्यपहरति तं देहिनं परत्र संदंशाख्ये नरके हे राजन् ! यमभटाः अग्निवर्णैः सन्तापेनाग्निवर्णतामापन्नैस्यस्मयैः लोहमयैः संदशैः संदशन्त्येभिरिति संदशाः तैश्छेदनसाधनैः शूलैः निष्कुषन्ति छिन्दन्ति, संदंशैः संदशन्ति यत्रेति संदेश इत्यवयवार्थः ॥ १९ ॥ * * अथ तप्तसूर्मिं तत्प्राप्तिहेतुं दुरितं चानु- वर्णयति यस्त्विह वा अगम्यामिति । यस्तु देही स्वयं पुरुषः सन्नगम्यामनुपेयां स्त्रियमभिगच्छति स्वयं योषित् स्त्री सती अगम्यमुपेतुमयोग्यं पुरुषं चोपगच्छति तं देहिनममुत्र सूर्याख्ये नरके कशया ताडयन्तः लोहमय्या तिग्मया तप्तया सूर्या स्थूणा सैव स्त्रीरूपेण पुरुषरूपेण चोत्कीर्णा तया सूर्म्या प्रतिमया पुरुषं पापिनमालिङ्गयन्ति स्त्रियं पापिनीं पुरुषरूपया सूम्यलिङ्गयन्ति । तप्ता सूर्मिर्यस्मिन् स तप्तसूर्मिंरित्यवयवार्थः ॥ २० ॥ * * अथ वज्रकण्टकशाल्मलीमाह यस्तु इह वै सर्वाभिगम इति । सर्वाभिगमः लोभादसेव्यसेवी पश्वाद्युपगन्तेति केचिद्वयाचक्षते, तं सर्वाभिगमममुत्र निरये वज्रकण्टकशाल्मलीसंज्ञके वर्त्तमानं पतितं वज्रमयानि कण्टकानि यस्य तं शाल्मलीं वृक्षमारोप्यारो निष्कुषन्तीत्यर्थः । वज्रकण्टशाल्मलिर्यस्मिन् स इत्यव - यवार्थः ॥ २१ ॥ * * वैतरणीं वर्णयति । य इति । राजन्याः क्षत्रियास्तेषां पुरुषा वा पाखण्डान्वैदिकान् धर्मसेतून धर्ममर्यादान् भिन्दति नाशयन्ति कथम्भूताः भिन्नमर्यादा अतिक्रान्तधर्ममर्यादाः ते राजन्यादयः अस्यां वैतरण्यां नरकस्य परिखाभूतायां नद्यां यादसाङ्गणैरितस्ततो भक्ष्यमाणा अपि आत्मना देहेन न वियुज्यमाना अत्यक्तदेहा इत्यर्थः, तत्र हेतुः असुभिः प्राणैरुह्यमाणाः कर्मणः कर्तृत्वविवक्षायां तृतीयोद्धृतप्राणा इत्यर्थः, तत्रापि हेतुमाह स्वाघेनेति स्वकीयदुरितेनेत्यर्थः । स्वकीयदुरितेन कर्मपाकं स्वकीयपाप- कर्मफलमिदमित्येवं स्मरन्त उपतप्यन्ते क्लिश्यन्ति । नदीं विशिनष्टि विण्मूत्रेति । पूयं दुर्गन्धिविण्मूत्ररूपं पूयं विडादीनां वाहिन्यां वाहः प्रवाहः सोऽस्या अस्तीति तथा तस्यां वा नदीरूप एवायं नरक इत्यवयवार्थाभेदः ।। २२ ।। अथ पूयोदमनु- वर्णयति ये विहेति । ये देहिन इह वृषलीपतयः ब्राह्मणादयः सन्तः शूद्रायाः पतयो नष्टाः त्यक्ताः शौचादयो यैस्ते, तत्र शौचं स्नानपर्यन्तं सत्कर्म आचारः सन्ध्योपासनादिनियमः भक्ष्याभक्ष्यादिनियमः अत एव त्यक्ता लज्जा यैस्ते पशुचर्यां स्वेच्छाचारं कुर्वन्ति-पाकं पचतीतिवन्निर्देश: तेऽपि प्रेत्य मृत्वा विडादिभिः पूर्णे अर्णववद्विस्तरे हदे निपतन्ति तदेव विडादिकमेवातिदेय- मश्नन्त्यदन्ति पूयमुदमुदकं यस्मिन्नित्यवयवार्थः ।। २३ ।। * * अथ प्राणनिरोधं सपापं वर्णयति । ये त्विह वै श्वगर्दभपतय इति । शुनां गर्दभानां च पतयः पालकाः ब्राह्मणा मृगयैव विहारो येषां तेऽतीर्थे मृगान्निघ्नन्ति अतीर्थेषु लोकरक्षणार्थत्वाभावा- त्प्राणिवधो दोषावहस्तीर्थेषु तु प्राणिसञ्चाराय कृतो दुष्टसत्त्ववधो न दोषाय भवति यतस्तस्मादतीर्थं इत्युक्तं, तानपि श्वगर्दभपतीनपि सम्परेतान् मृतान्वेशन से प्राप्त लक्ष्य भूत लक्ष्यीकृत्येत्यर्थः । इषुभिर्बाणैर्यमभटा विध्यन्ति । विध्यन्तीत्यनेन प्राणनिरोधनिमित्ता व्यथाभिप्रेतातोऽस्य नरकस्य प्राणनिरोध इति संज्ञा प्राणानां निरोधो यस्मिन्नित्यवयवार्थः ॥ २४ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
अविदितपर व्यथानामज्ञातपरक्लेशानामीश्वरेण विधात्रा कल्पिता सहजत्वेन वृत्तिः मनुष्यादिशरीरभक्षणलक्षणा येषामत्कुणादीनां तानि तथा तेषामपकल्पितवृत्तिः तद्वृत्तिकल्पनासमर्थः पुरुषेण श्रीहरिणोपकल्पिता प्रावरणादिलक्षणा वृत्तिर्यस्य स तथापीति वा यूकाः शूलमुखाः आदिशब्दात्स्वेदजादयः प्राणिविशेषाः शिरआदिनिलया गृह्यन्ते, कुशरीरे कुष्ठादिदूषित- देहे ।। १७ ।। * यस्तु यत्किञ्चन प्राप्तमन्नफलादिकमसंविभज्या तिथिभृत्यबालवृद्धादीनभोजयित्वा स्वयं भुङ्क्ते स च यश्चानिर्वृतयज्ञोपायमकृतदेवतापूजालक्षणयागादिश्रेयःसाधनं तदन्नमश्नाति स च यश्चासंस्कृतयाज्याद्युपस्कारेण शून्यं तदन्नमश्नाति सोऽपि कृमिभोजननाम्नि निकृष्टनर के पतति कृमय एवं भोजनं यस्य स तथा यावद्यावानप्रदत्तस्यातिथिदेवतादिभ्योऽप्रदत्तस्या- कृतस्यासंस्कृतस्य प्रारब्धापरिसमाप्तस्य कर्मणो वा निर्वेशः प्रायश्चित्तलक्षणप्रतिक्रिया तत् तावतात्मानं नरकाद्यातयति उद्वारयति । अप्रमत्तेति पाठे यावदप्रमत्तं बुद्धिपूर्वमकृतो निर्वेशो येन स तथा तावत्तमात्मानं नरके पातयति प्रापयतीति वेत्येतत्सर्वत्रानु- कर्षणीयम् ॥ १८ ॥ संदंशैः सूचीविशेषैस्त्वचि निष्कालयन्त्युद्घाटयन्ति ॥ १९ ॥ * सूर्म्या लोहादिमय- * पुत्तल्या ॥ २० ॥ * सर्वाभिगमः सर्वाभिः स्त्रीभिः कृतसौरतः सम्वादाभावेऽपि बलाद्गमनमभिगमः शाल्मली कण्ट- कतरुः ॥ २१ ॥ आत्मना देहेन स्वासुभिः स्वप्राणैश्च ओघेन निरयप्रवाहेण उद्यमाना अपि वियुज्यमाना अपि ये * स्क. ५ अ. २६ श्लो. १७-२४] अनेकव्याख्या समलङ्कृतम् ५६७ योग प्राप्यमाणा अम्रियमाणा इत्यर्थः । विण्मूत्राद्यात्मना स्यन्दमानायाम् ।। २२-२३ ।। * अतीर्थे अपात्रमुद्दिश्या- विहितकाले वा ॥ २४ ॥ श्रीमज्जीव गोस्वामिकृतः क्रमसन्दर्भः शरीरे तिर्यगादिलक्षणे ॥। १७ - ३८ ।। 1 श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी ईश्वरेण कल्पिता मनुष्यरक्तपानादिलक्षणा वृत्तिर्येषां मत्कुणादीनां न विविक्ता न ज्ञाता परेषां व्यथा यैस्तेषां पुरुषो- पकल्पितवृत्तिरीश्वरेणैव विहिता निषिद्वजीविकः । मनुष्यत्वाद्विज्ञातान्यव्यथः ।। १७ ।। * * यत् किञ्चन भक्ष्यभोज्यादिकमुपनतं प्राप्तं तदसंविभज्य वायसैः संस्तुतः समतया वर्णितः वायसतुल्यैर्वा स्तुतः कृमिभोजनः कृमीनेव भुञ्जनः । अप्रत्तमसंविभक्तमप्रहुतं चान्तीति तथा सः । यत् पापं यावत्तावदित्यर्थः । अनिर्वेशमकृतप्रायश्चित्तम् ।। १८ ।। निष्कुषन्ति छिन्दन्ति ।। १९ ।। * तिग्मया तप्तया सूर्या प्रतिमया ।। २० ।। * * सर्वाभिगमः पश्वादीनप्यभिगच्छति ।। २१ । ४ विण्मूत्रेति नदीविशेषणम् || २३ || * * अतीर्थे विहितादन्यत्र ॥ २४ ॥ श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः देहेन ।। २२ ।। * * M * आत्मना न विविक्ता न ज्ञाता परव्यथा यैस्तेषामभिद्रुग्धाः पीडिताः विहता विनष्टा निद्रारूपा निर्वृतिः सुखं यस्य सः॥ १७ ॥ * * उपनतं लब्धं वायसैः संस्तुतः समत्वेन वर्णितः यावत्तद्यावत्पापं तावत् कृमिकुण्डे अप्रत्तमसंविभक्तम- प्रहुतं वात्तीति तथा अनिर्वेशमकृतप्रायश्चित्तमात्मानं यातयते ॥ १८ ॥ निष्कुषन्ति छिन्दन्ति ॥ १९ ॥ * *
-
- सूर्या प्रतिमया ।। २० ।। * सर्वाभिगमः प्रतिम अनिर्वेशमकृतप्रायश्चित्तमात्मानं पश्वाद्युपगन्ता ।। २१-२२ ॥ पशुचर्थ्यां * चारम् ॥ २४ ॥ * * अतीर्थे शास्त्रोक्तप्रकारादन्यत्र इषुभिर्विध्यन्ति प्राणरोधं कुर्वन्तीत्यर्थः ।। २४-२५ ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी पशुवत्स्वेच्छा- यस्त्विह वै भूतानां व्यथां पीडामाचरति स तेषामभिद्रोहेण द्रोहजनितपापेन परत्र परलोके यमपुरन्धकूपसञ्ज्ञके नरके पततीत्यन्वयः । ननु पशुपक्षिमत्कुणादयोऽस्माकमपि व्यथामाचरन्त्येव तथा च तद्रोहस्य कथं नरकपातहेतुत्वम् ? ‘आततायिन- मायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन’ इति तद्वधविधानाद्वधे दोषाभावश्रवणाच्चेत्याशङ्कयाह- ईश्वरेति । ईश्वरेणैवोपकल्पिता मनुष्यान्नभक्षणवद्रक्ताशनादिलक्षणा वृत्तिर्येषां तेषां तथा न विविक्ता न विज्ञाता परव्यथा यैस्ते तथा तेषां तथा च तेषां शास्त्रानधिकारित्वेन ‘अनिदो गरदचैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ।।’ इत्याततायिलक्षण राहित्येन च न कश्चिद्दोषः । मनुष्याणां तु शास्त्राधिकारित्वेन तद्यथा दोषेण नरकपातो भवत्येवेत्याशयेनाह - पुरुषेणेश्वरेण उपकल्पिता स्वस्ववर्णाश्रमानुसारेण विविच्याविहिता वृत्तिर्यस्य विविक्ता परव्यथा येन सः ।। २४ ।। तत्रत्यं दुःखं दर्शयति — तत्र हि तमस्यसौ तैर्जन्तुभिः सर्वतोऽभिद्रुह्यमाणः अत एव विहता निद्रानिर्वृतिः सुखं च यस्य सः, न लब्धमवस्थानं येन सः परिक्रामतीत्यन्वयः । तत्र दृष्टान्तः — यथेति । तैरिति कैरित्यपेक्षायामाह - ये केचन अनेनाभिद्रुग्धाः विहिंसितास्तैः पशुमृगादिभिरिति ॥ २५ ॥ * * यत्किञ्चन भक्ष्यादिकमुपनतं प्राप्तं तदसंविभज्य अतिथिबालवृद्धादिभ्यो यथायोग्यविभागेनादत्त्वा स्वयमेवाश्नाति तथा न निर्मिताः एव वायसैः काकैः संस्तुतः शास्त्रदृष्टया पञ्चयज्ञा येन सः अत समत्वेन वर्णितः कृमिभोजनसञ्ज्ञके नरके निपतति ।। २६ ।। * * तत्रत्यं दुःखमाह-तत्रेति । स्वयमपि कृमिभोजनः कृमीनेव भुञ्जानो यावत् तदसंविभागादिनिमित्तं पापं तावत् अनिर्वेशमकृतप्रायश्चित्तमात्मानं यातयते पीडयति । अप्रत्तमसंविभक्तम् अप्रहुतं चान्तीति तथा सः ।। २७ ।। निष्कुषन्ति छिन्दन्ति । अनेनैव तस्य सन्दंश इति नामनिरुक्तिर्ज्ञेया । हे राज- न्निति सम्बोधनं स्वस्वाधिकारे सर्वे स्वतन्त्रा इति स्वदृष्टान्तेन ज्ञेयमिति सूचनार्थम् ॥ २८ ॥
म् ॥ २८ ॥ * * स्त्रियमभिगच्छतीत्यन्वयः । ‘ब्राह्मणी विधवा मान्या स्वगोत्रा राजयोषितः । सर्वश्रेष्ठातिनीचाश्चागम्या उक्ता बुधैः स्त्रियः’ इत्यगम्यात्वं ज्ञेयम् । तिग्मया तप्तया सूर्या प्रतिमया ॥ २९ ॥ * सर्वाभिगमः पश्वादीनप्युपगन्ता ॥ ३०-३१ ॥ * * * स्वाघेन स्वकृतपापेन यस्या- मुद्यमाना आत्मना देहेनासुभिः प्राणैश्चावियुज्यमानाः स्वकर्मफलं स्मरन्त उपतप्यन्त इत्यन्वयः ॥ ३२ ॥ * * निरयपरिखा- भूतायामित्युक्तमेव स्पष्टयति - विण्मूत्रेति ॥ ३३ ॥ * पशुचर्यां पशुवत् स्वेच्छाचारं कुर्वन्ति ते पूयादिपूर्णार्णवे पूयोद- संज्ञके नरके निपतन्ति ॥ ३४ ॥ अतीर्थे विहितात् यज्ञश्राद्धादेरन्यत्र । विध्यन्तीति प्राणनिरोधो दर्शितः ॥ ३५ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी अथान्धकूपाख्यं नरकं तत्प्राप्तिनिमित्तं पापं च वर्णयति यस्त्विहेति । यस्तु देही, इह संसारे, ईश्वरेण कल्पिता मनुष्यरक्तपानादिरूपा वृत्तिर्जीवनोपायो येषां तेषां अविविक्ता न विज्ञाता परस्य व्यथा यैस्तेषां भूतानां मत्कुणमशकादीनां, पुरुषेण परमपुरुषेण उपकल्पिता वर्णाश्रमादिविभागेन विधिनिषेधपूर्वं संपादिता वृत्तिर्जीवनोपायो यस्य सः, विविक्ता विविच्य ज्ञाता परस्य व्यथा येन स एवंभूतः सन् स्वयम् आचरति । स भूतव्यथकः, तदभिद्रोहेण तदभिद्रोहजातपापेन, परत्र यमालये, ५६८ " श्रीमद्भागवतम् " । [ स्कं. ५ अ. २६ श्लो. १७-२४ अन्धकूपे नरके, निपतति वै । तत्रान्धकूपे, हेति खेदे । असौ भूतद्रोग्धा जीवः तैः स्वेन पूर्व हिंसितैः पशवश्च मृगाश्च पक्षिणश्च सरीसृपाश्च तैः, मशकाश्च यूकाश्च मत्कुणाश्च मक्षिकाञ्च आदयो येषां तैः ये के च, अन्ये अभिदुग्धाः, तैश्च जन्तुभिः सर्वतः समन्ततः, अभिद्रुह्यमाणः, अत एव तमसि तत्र नरके, विहता निद्रानिर्वृतिर्निद्राजन्यं सुखं यस्य सः, न लब्धमवस्थानमेकत्र स्थितिर्येन तथाभूतः सन् कुशरीरे व्याध्याद्युपहते संचारासमर्थे शरीरे जीवः यथा तथा परिक्रामति परिभ्रमति ।। १७ ।। * * अथ कृमिभोजनं नाम नरकं तदनुभावुकं पापं च वदति यस्त्विहेति । यस्तु देही इह लोके, यत्किंचन भिक्षादिकम्, उपनतं दैवात्प्राप्तं भवेत्, तदन्नादिकमिति शेषः । असंविभज्य अतिथिभ्योऽप्रदायेत्यर्थः । अश्नाति स्वयं भुङ्क्ते वै । यश्च अनिर्मितपञ्चयज्ञः अननुष्टितपञ्चमहायज्ञः सः, वायससंस्तुतः वायसैः स्वसमत्वेन वर्णितः सन् परत्र यमालये, कृमिभोजने कृमिभोजनाख्ये नरकाधमे, निपतति । शतसहस्रयोजने शतसहस्रयोजनपरिमिते तत्र कृमिकुण्डे, स्वयमपि कृमिभूतः कृमिभिरेव भक्ष्यमाणः कृमिभोजनः कृमीनेव भुञ्जानः यावत्तत् यावन्ति योजनानि तत्कृमिकुण्डं तावन्ति वर्षाणि यद्वा यावत्तत्पातकमिति । अप्रत्तम- संविभक्तमप्रहुतं वातीति तथाभूतः सन् अनिर्वेशमकृतप्रायश्चित्तम् आत्मानं यातयते यातनामनुभावयति ॥ १८ ॥ * * अथ संदंशाख्यं नरकं तदनुभावुकं पापं चाह यस्त्विहेति । हे राजन् ! इह लोके, यस्तु पुरुषो देही, वै निश्चये । अनापदि, । स्तेयेन चौर्येण बलाद्वा ब्राह्मणस्य, अन्यस्य वा हिरण्यरत्नादीनि सुवर्णरत्नप्रभृतिकम् अपहरति तं देहिनम्, अमुत्र परलोके संदशा- ख्यनरके यमपुरुषाः यमभटाः, अग्नितप्तैः अयस्मयैः सदशन्त्येभिरिति संदशास्तैः छेदनसाधनैरित्यर्थः । त्वचि निष्कुषन्ति छिन्दन्ति ।। १९ ।। 8 अथ तप्तसूर्याख्यं नरकं तत्प्राप्तिहेतुकं पापं चाह यस्त्विति । यस्तु देही, इह लोके, स्वयं पुरुषः सन्, अगम्यामनुपेयां, स्त्रियं परयोषितं, अभिगच्छति, स्वयं योषित्स्त्री सती, अगम्यमनुपेयं, पुरुषं स्वपतीतरपुरुषं वा, अभि- गच्छति तावुभौ अमुत्र यमालये, तप्तसूर्म्याख्ये नरके वा कशया ताडयन्तो यमदूताः तिग्मया अग्निवर्णत्वादतितीक्ष्णया लोहमय्या लोहकृतया, सूर्म्या प्रतिमया, पुरुषं पापिनं, आलिङ्ग्यन्ति । स्त्रियं पापिनीं नारीं च, पुरुषरूपया सूर्म्या, आलिङ्ग्यन्ति $11 2011 * * अथ वज्रकण्टकशाल्मलीनामानं नरकं तत्प्राप्तिहेतुकं पापं च वदति यस्त्विति । यस्तु देही, इह वै. अस्मिन् लोके एव, सर्वाभिगमः सर्वाभिः स्त्रीभिः कृतसौरतः परस्परसंलापाद्यभावेऽपि, बलात्सकल स्त्र्यभिगन्तेत्यर्थः । लोभादसेव्यसेवीत्यन्ये । पश्वाद्युपगन्तेत्यपरे । तं सर्वाभिगमं देहिनं, अमुत्र यमलोके, निरये वज्रकण्टकशाल्मलीनर के, वर्त्तमानं सन्तं, यमदूताः, वज्रमयानि कण्टकानि यस्याः सा तथाभूता या शाल्मली शाल्मलीनामा तरुस्तां, आरोग्य निष्कुषन्ति मुहुर्मुहुर्विदारयन्तीत्यर्थः ।। २१ ।। अथ वैतरणी नरकं तत्प्राप्तिहेतुकं पापं च वदति ये त्विहेति । ये तु, इह लोके, राजन्याः क्षत्त्रियाः, राजपुरुषास्तदनुवर्त्तिनोऽमात्यादयो जना वा, अपाखण्डान्वैदिकान्, धर्ममर्यादाः, भिन्दन्ति नाशयन्ति वै । भिन्ना मर्यादा यैस्तेऽतिक्रान्तमर्यादा राजन्यादयः, ते जनाः, संपरेत्यात्र प्राणांस्त्यक्त्वा, वैतरण्यां निपतन्ति । निरयपरिखाभूतायां तस्यां, नद्यां यादोगणैः मकरादियादसां समूहैः, इतस्ततः भक्ष्यमाणाः सन्तोऽपि, आत्मना यातनामयदेहेन न वियुज्यमानाः अत्यक्ताः, अत एव असुभिः प्राणैः उह्यमानाः, कर्मणः कर्तृत्वविवक्षायां तत्र तृतीया । धृतप्राणा इत्यर्थः । स्वाघेन स्वकीयदुरितेन, कर्मपार्क स्वकीयपापकर्मफलं, अनुस्मरन्तश्च उपतप्यन्ते क्लिश्यन्ति । कथंभूतायां तस्यामुपतप्यन्ते तत्राह विट् गूथं च मूत्रं प्रस्रावश्च पूयं पक्करुधिरं च शोणितं रुधिरं च केशाः कचाश्च नखाः कररुहाच अस्थीनि कीकसानि च मेदो हृदयेतरत्रवर्त्तिमांस- भेदश्च कासं पादपाण्यादिगतामिषं च वसा हन्मेदव एतेषां वाहः प्रवाहः विद्यतेऽस्यां तस्यां, उपतप्यन्ते ॥ २२ ॥ * * अथ पूयोदनरकं तत्र पतनहेतुं पापं चाह ये त्विति । ये देहिनस्तु इह लोके, वृषलीपतयः पञ्चविधवृषलीगमनकर्त्तारः, ‘चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका । ऊढा या च सगोत्रा स्याद्वृषल्यः पञ्च कीर्त्तिताः’ इति मिताक्षरायां स्मृत्यन्तरे । बन्धकी स्वैरिणी, नष्टास्त्यक्ताः शौचं चाचारश्च नियमश्च यैस्ते, तत्र शौचं स्नानपर्यन्तं सत्कर्म, आचारः संध्योपासनादिः, नियमः भक्ष्याभक्ष्यादिनियमः, त्यक्ता लज्जा यैस्ते, एवंभूताः सन्तः, पशुचर्यां स्वेच्छाचारं कुर्वन्ति । पाकं पचतीतिवन्निर्द्देशः । ते चापि, प्रेत्य मृत्वा, पूयविण्मूत्रश्लेष्ममला पूर्णार्णवे, पूयोदाख्ये नरक इति शेषः । निपतन्ति । अतिबीभत्सितं तदेव पूयादिकमेव, अनन्ति अतिहेयमपि तद्दन्ति ।। २३ ।। * * अथ प्राणनिरोधनरकं तल्लब्धिनिमित्तकं पापं च वदति ये त्विति । ये ब्राह्मणादयः, इह लोके, वै निश्वये शुनां भषकाणां गर्दभानां च पतयः पालकाः, ये तु ब्राह्मणादयः, मृगयाविहाराः सन्तः आदिशब्देनान- मान्तरगतास्त एवोक्ताः अतीर्थे चापि मृगान् व्याघ्रादिहिंस्रारण्यपशून् निघ्नन्ति । तीर्थवर्जितस्थाने लोकरक्षणार्थत्वाभावाद्वद्या- प्रादिहिंस्रप्राणिवधो दोषावहः । तीर्थेषु तु महानुभावमहामुनीनां सुखनिवाससंचाराद्यर्थं कृतो दुष्टसत्त्ववधो न दोषाय भवति । यतस्तस्मादतीर्थे इत्युक्तम् । संपरेतान् तान् श्वगर्हभपत्यादीन् अपि, यमपुरुषाः लक्ष्यभूतान् कृत्वा, इषुभिर्बाणैः, विध्यन्ति ताडयन्ति ।। २४ ।। sher भाषानुवादः जो पुरुष इस लोकमें खटमल आदि जीवोंकी हिंसा करता है, वह उनके द्रोह करनेके कारण अन्धकूप नरक में गिरता क्योंकि स्वयं भगवान्ने ही रक्तपानादि उनकी वृत्ति बना दी है और उन्हें उसके कारण दूसरोंको कष्ट पहुँचानेका ज्ञान भीB अनेकव्याख्या समलङ्कृतम् ५६५ स्क. ५ अ. २६ श्लो. २५-३२ ] नहीं है, किन्तु भवान्ने विधि-निषेधपूर्वक बनायी हैं और उसे दूसरोंके कटका ज्ञान भी है। वहाँ वे पशु, मनुष्यकी वृत्ति मृग, पक्षी, साँप, आदि रेंगनेवाले जन्तु, मच्छर, जूँ, खटमल और मक्खी आदिजीव - जिनसे उसने द्रोह किया था— उसे सब ओरसे काटते हैं। उससे उसकी निन्दा और शान्ति भङ्ग हो जाती है और स्थान न मिलनेपर भी वह बेचैनीके कारण उस घोर अन्धकार में इस प्रकार भटकता रहता है जैसे रोगग्रस्त शरीर में जीव छटपटाया करता है ।। १७ ॥ * * जो मनुष्य इस लोक में बिना पञ्चमहायज्ञ किये तथा जो कुछ मिले, उसे बिना किसी दूसरेको दिये स्वयं ही खा लेता है, उसे कौएके समान कहा गया है। वह परलोकमैं कृमिभोजन नामक निकृष्ट नरक में गिरता है। वहाँ एक लाख योजन लम्बा चौड़ा एक कीड़ों का कुण्ड है । उसीमें उसे भी कीड़ा बनकर रहना पड़ता है और जबतक अपने पापका प्रायश्चित्त न करके-दोषका अच्छी तरह शोधन नहीं हो जाता, तबतक वह उसीमें पड़ा पड़ा कष्ट भोगता रहता है । वहाँ कीड़े उसे नचाते हैं और वह कीड़ोंको खाता है ।। १८ ।। राजन् ! इस लोकमें जो व्यक्ति चोरी या बरजोरीसे ब्राह्मणके अथवा आपत्तिका समय न होनेपर भी किसी दूसरे पुरुषके सुवर्ण और रत्नादिका हरण करता है, उसे मरनेपर यमदूत सन्देश नामक नरक में ले जाकर तपाये हुए लोहे के गोलों से दागते हैं और सड़सीसे उसकी खाल नोचते हैं ।। १९ ॥ * * इस लोकमें यदि कोई पुरुष अगम्या स्त्रीके तो यमदूत उसे तप्तसूर्मि नामक नरक में ले जाकर कोड़ोंसे पीटते हैं तथा पुरुषको तपाये हुए लोहेकी स्त्री- मूर्ति से और स्त्रीको तपायी हुई पुरुष-प्रतिमासे आलिङ्गन कराते हैं ॥ २० ॥ * * जो पुरुष इस लोक में पशु आदि सभीके साथ व्यभिचार करता है, उसे मृत्युके बाद यमदूत वज्रकण्टकशाल्मली नरकमें गिराते हैं और वज्रके समान कठोर काँटोंवाले सेमरके वृक्षपर चढ़ाकर फिर नीचे की ओर खींचते हैं ।। २१ । * * जो राजा या राजपुरुष इस लोक में श्रेष्ठ कुल में जन्म पाकर भी धर्मकी मर्यादाका उच्छेद करते हैं, वे उस मर्यादातिक्रमणके कारण मरनेपर वैतरणी नदी में पटके जाते । यह नदी की खाईके समान है; उसमें मल, मूत्र, पीब, रक्त, केश, नख, हड्डी, चर्बी, मांस और मज्जा आदि गंदी चीजें भरी हुई हैं । वहाँ गिरनेपर उन्हें इधर-उधर से जलके जीव नोचते हैं । किन्तु उससे उनका शरीर नहीं छूटता पापके कारण प्राण उसे वहन किये रहते हैं और वे दुर्गतिको अपनी करनीका फल समझकर मन-ही-मन सन्तप्त होते रहते हैं ।। २२ ।। * * जो लोग शौच और आचारके नियमोंका परित्याग कर तथा लज्जाको तिलाञ्जलि देकर इस लोक में शूद्राओंके साथ सम्बन्ध गाँठकर पशुओंके समान आचरण करते हैं, वे भी मरनेके बाद पीब, विष्ठा, मूत्र, कफ और मलसे भरे हुए पूयोद नामक समुद्र में गिरकर उन अत्यन्त घृणित वस्तुओंको ही खाते हैं ।। २३ ।। * * इस लोक में जो ब्राह्मणादि उच्च वर्णके लोग कुत्ते या गधे पालते और शिकार आदिमें लगे रहते हैं तथा शास्त्र के विपरीत पशुओंका वध करते हैं, मरने के पश्चात् वे प्राणरोध- नरकमें डाले जाते हैं और वहाँ यमदूत उन्ह लक्ष्य बनाकर बाणोंसे बींधते है ।। २४ ।। साथ सम्भोग करता है, १ ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति ।। २५ ।। यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां पातयित्वा रेतः सम्पारययन्ति ।। २६ ।। ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तथापि हि परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥ २७ ॥ यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधः शिरा निरवकाशे योजनशतो- च्छायाद् गिरिमूर्ध्नः सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति ।। २८ ।। यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिवति प्रमादतस्तेषां निरयं नीतानामुरसि पदाssक्रम्यास्ये वह्निना द्रवमाणं काष्र्णायसं निषिञ्चन्ति ।। २९ ।। अथ च यस्त्विह वा आत्म- सम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एवं मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यनुते ॥ ३० ॥ ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याच स्त्रियो नृपशून् खादन्ति तांच ते पशव इव निहता यमसद यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदा यासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह । । १. प्रा० पा० - आपाययन्ति । २. प्रा० पा०- परेतान् । ३. प्रा० पा०—ये स्विह वा अनृतं वदन्ति साक्ष्ये द्रव्यविनिमये वा कथञ्चित् । ४. प्रा० पा० - चीमयेऽधरिश० । ५. प्रा० पा० यत्तजलमिव । ६. प्रा० पा० पुमानतस्तेषां निरयं । ७. प्रा० पा०-
- यस्त्विहा- त्मसंभावनेन । ८. प्रा० पा० - स्वस्त्रियो नृपशून् । ९. प्रा० पा० - इह । १० प्रा० पा० - दासृक् । । ७२ ५७० श्रीमद्भागवतम् [ स्कं. ५ अ. २६ श्लो. २५-३२ पुरुषादाः || ३१ || ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूप- प्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शलादिषु प्रोतात्मानः क्षुत्तभ्यां चाभिहताः कङ्कबटा- दिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥ अन्वयः - इह वै ये तु दाम्भिकाः दम्भयज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरयपतयः यातयित्वा विशसन्ति ।। २५ ।। * * इह वै यः तु द्विजः काममोहितः सवर्णाम् भार्याम् रेतः पाययति तम् पापकृतम् अमुत्र रेतःकुल्यायाम् पातयित्वा रेतः संपाययन्ति ।। २६ ॥ * * इह वै ये तु राजानः वा राजभटाः दस्यवः अग्निदाः गरदाः ग्रामान् वा सार्थान् विलुम्पन्ति तान् च अपि परेत्य वज्रदंष्ट्राः यमदूताः सप्तशतानि विंशतिः च श्वानः सरभसम् खादन्ति ।। २७ ।। * इह वै यः तु साक्ष्ये द्रव्यविनिमये वा दाने कथंचित् अनृतम् वदति सः वै प्रेत्य निरवकाशे अवीचि - मति नरके योजनशतोच्छ्रायात् गिरिमूर्ध्नः अधःशिराः संपात्यते यत्र अश्मपृष्ठम् स्थलम् जलम् इव अवभासते तत् अवीचिमत् उच्यते तिलशः विशीर्यमाणशरीरः न म्रियमाणः पुनः आरोपितः निपतति ।। २८ ।। इह वै यः तु विप्रः वा तत्कलत्रम् प्रमादतः सुराम् पिबति अपि वा राजन्यः वैश्यः व्रतस्थः सोमपीथः तेषाम् निरयम् नीतानाम् उरसि पदा आक्रम्य वह्निना द्रवमाणम् काष्र्णायसम् आस्ये निषिञ्चन्ति ।। २९ ।। अथ च वै इह यः तु स्वयम् अधमः अपि आत्मसंभावनेन
-
- जन्मतपोविद्याचारवर्णाश्रमवतः वरीयसः न बहु मन्येत सः मृतकः एव मृत्वा क्षारकर्दमे निरये अवाक्शिराः निपातितः दुरन्ताः यातनाः हि अश्नुते ।। ३० ।। * वै इह ये पुरुषाः तु पुरुषमेधेन यजन्ते च याः स्त्रियः नृपशून् खादन्ति तान् यमसदने पशवः इव निहताः ते रक्षोगणाः तान् यातयन्तः सौनिकाः इव स्वधितिना अवदाय यथा इह पुरुषादाः हृष्यमाणाः असृक् पिबन्ति नृत्यन्ति च गायन्ति ॥ ३१ ॥ इह वै ये तु अरण्ये वा ग्रामे अनागसः उपसृतान् वैश्रम्भकैः उपविश्र- भय्य जिजीविषून शूलसूत्रादिषु उपप्रोतान् क्रीडनकतया यातयन्ति ते अपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः च क्षुत्तृ- ड्भ्याम् अभिहताः तिग्मतुण्डैः कंकवटादिभिः इतस्ततः आहन्यमानाः आत्मशमलम् स्मरन्ति ।। ३२ ।। श्रीधर स्वामिविरचिता भावार्थदीपिका निरयपतयो यमपुरुषाः ।। २५ ।। ।। ।।
-
लालाभ अमाह - यस्त्विति । रेतःपानं कारयति ॥ २६ ॥ * यमदूता ये श्वानः सरभसं ससंभ्रमम् ॥ २७ ॥ द्रव्यविनिमये क्रयविक्रयादौ । निरवकाशे निरालंबे । अवीचिशब्दार्थमाह । यत्रेति । वीचिस्तरंगस्तद्रहितत्वादवीचिः ॥ २८ ॥ * * यो विप्रस्तत्कलत्रं वा सुरां पिबत्यन्योऽपि वा व्रतस्थः सन् राजन्यो वैश्यो वा सोमपीथः कृतसोमपान इत्यन्वयः । तयोः सोमस्थाने फलचमसविधानात्सोमपाननिषेधाच्च । तथा च श्रुतिः “न्यग्रोधस्तेभिनीराहृत्य ताः संपिष्य दधन्युपमृज्य तमस्मै भक्षं संप्रयच्छेन्न सोमम्” इति ॥ २९ ॥ * * स पूर्वमपि मृतक एव सन्मृत्वा ॥ ३० ॥ * पुरुषस्य मेधेन हिंसया भैरवादीन्यजंते । याच स्त्रियो नरमांसं भक्षयंति । कामरूपा रक्षोगणा भूत्वा । यथेह ते पुरुषादाः संतः पूर्वमनृत्यंत तद्वत् ॥ ३१ ॥ * वैश्रंभ कैर्विश्वासोपायैः । उपविश्रभय्य विश्वास्य ।। ३२ ।। 8 1 * श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः ॥ ॥ यातयित्वा पीडयित्वा । विशसंति घ्नंति ॥ २५ ॥ पाययति वशीकरणार्थं रेतःपानं कारयति । ‘रेतः पातयति’ इति पाठे काममोहितः सन्सवर्णां भार्यां परित्यज्यान्यवर्णास्वेव स्त्रीषु रेतःपातं करोतीत्यर्थः ।। २६ ।। सारमेयादनमाह – सार्थान् पांथान् “सार्थः पांथे च संघाते समूहे वणिजां तथा” इति कोशात् । रभसो वेगस्तत्सहितम् । ॥ २७ ॥ * * साक्ष्ये साक्षिवक्तव्ये ।। २८ ।। अयःपानमाह — क्षत्रियवैश्ययोः सोमनिषेधे फलचमसविधौ च प्रमाण-
-
- अयःपानमाह-क्षत्रियवैश्ययोः माह - तथा चेति । न्यग्रोधस्य स्तिभीर्वटिकाकारफलानि आहृत्यानीय ता वटिका दधनि दधिरूपपयोविकारे उपमृज्य मर्दयित्वा तं फलं चमससंज्ञमस्मै क्षत्रियाय वैश्याय वा भक्षं पेयं दद्यान्न सोममिति श्रुतिपदार्थः । “स्तिभिः स्त्रियां वटादीनां सूक्ष्मबीजयुते फले । वटिकाकारसंयुक्ते समुद्रे तु स्तिभिः पुमान् ॥” इति धरणिदेवः । सुरां गौड्यादिभेदेन त्रिविधाम् । तत्कलत्रं विप्रादि- त्रयकलत्रं वा । अन्यो द्विजेतरोऽपि व्रतस्थः कार्त्तिकादिव्रतधारी सन् । काष्र्ष्णायसं लोहम् । प्रमादतोऽज्ञानात् । तेषां सुरापायिनाम् । ॥ २९ ॥ * * स्वयं वर्णाश्रमतो न्यूनोऽपि आत्मसंभावनं मत्तोन्यः कोधिक इति मननं तेन जन्मतपआदिभिः स्वस्माद्वरीयसः श्रेष्ठान् । बहु स्वतोऽधिकं न मन्येत स मृतक एव जीवन्नपि मृत एव शास्त्राज्ञोल्लंघित्वेन लोकनिंद्यत्वात् जीवन्मृतः ‘कोऽपयशः स्वकीयं शृणोती ‘ति शुकप्रश्नोत्तरोक्तेः । क्षारकर्दमे लवणात्मकपके ॥ ३० ॥ * * स्वधितिना छेदनशस्त्रेण अवदाय अवखंड्य । रक्षोगणभोजनोऽयं नरकः ॥ ३१ ॥ विश्वासोपायैरन्नविकिरणादिभिः । आदिना भृगुपातनग्रहः । आदिना गृध्रादिग्रहः । शूलप्रोताख्यो नरकः ॥ ३२ ॥ । स्क. ५ अ. २६ श्लो. २५-३२] | । अनेकव्याख्यासमलङ्कृतम् श्रीमद्वीरराघवव्याख्या । ५७१ . अथ सपापं विशसनं वर्णयति । ये त्विह वै दाम्भिका इति । इह लोके ये वै देहिनः दाम्भिका लोकवनका दम्भयज्ञेषु वयमपि यज्ञानुष्ठानपरा इति लोकान् प्रलोभयितुमारब्धेषु दम्भार्थयज्ञेषु पशून् विशसन्ति हिंसन्ति तान् दाम्भिकानमुष्मिन् वैशसनामाख्ये नरके निपतितान्निरयपतयः यमपुरुषाः यातयित्वा दुःखयित्वा विशसन्ति विहिंसन्ति यस्मिन् स विशसनः विशसन एव वैशसन इत्यवयवार्थः ॥ २५ ॥ * * सपापं लालाभक्षमनुवर्णयति यस्त्विह वै सवर्णामिति । इह लोके यो वै द्विजः कामेन मोहितः सवर्णां भार्यां रेतः स्वरेतः पाययति पानं कारयति तं द्विजं पापकृतं रेतःकुल्यायां पातयित्वा रेतः सम्पाययन्ति यमपुरुषा इति शेषः । लाला रेतः तस्य भक्षणं यस्मिन् स लालाभक्षः इत्यवयवार्थः ॥ २६ ॥ * * अथ सारमेयादनं सपाप- मनुवर्णयति ये त्विह वै दस्यव इति । इह ये दस्यवो दुष्टसत्त्वाः के ते अग्निदा गृहादीनां दाहका ये च गरदाः विषदाः ये बा राजभटा पुराकर प्रामान् पुराकर ग्रामस्थान आकरः खनिः सार्थान् जीवसमूहान् वा विलुम्पन्ति छिन्दन्ति हिंसन्तीत्यर्थः । तान् सम्परेतान् ये वज्रवन्निष्ठुरा दंष्ट्रा येषां ते यमदूताः श्वानः विंशत्यधिकसप्तशतसङ्ख्याकास्ते सरभसं ससंभ्रमं खादयन्ति खादन्तीत्यर्थः, निवृत्तप्रेषणात् खादेर्णिच् । सारमेयानां शुनामदनं सारमेयकर्तृकमदनं यस्मिन्नित्यवयवार्थः ।। २७ ।। * * अथावीचिमन्तं सपापं वर्णयति यस्त्विह वा अनृतमिति । यस्त्विह लोके देही साक्षिणः कर्म साक्ष्यं तस्मिन् द्रव्यविनिमये वा क्रयविक्रयादिरूपे वाणिज्ये वानृतमसत्यं वदति स वै प्रेत्य कथञ्चिदत्यन्तदुःखेनावीचिमति नरके निरवकाशे निरालम्बे योजनशतपरिमितौन्नत्या- दुन्नतदेशाद्विरिमूर्द्धसु पर्वतशिखरेष्वधःशिराः निपात्यते । अवीचिमच्छन्दस्यावयवार्थमाह यत्रेति । यत्र नरकेऽश्मपृष्टरूपं स्थलं जलमिवावभासते तदवीचिमद्वीचिस्तरङ्गः तदस्यास्तीति वीचिमज्जलं न विद्यते वीचिमद्यस्मिन् सोऽवीचिमजलरहितमप्यश्मपृष्ठं जलमिवावभासते तदवीचिमदित्यर्थः । एवं निपात्यमानः पापी तिलप्रमाणशः विशीर्यमाणं शरीरं यस्य तथाभूतोऽपि न म्रियमाणः मरणमप्राप्तः पुनरपि तथैवारोपितो निपतति ।। २८ ।। * * अथ सदुरितमयःपानं वर्णयति यस्त्विह वै विप्र इति । यो विप्रस्तत्कलत्रं वा सुरां पिबत्यन्योऽपि वा व्रतस्थः राजन्यो वै वैश्यो वा प्रमादात्सोमपीथः कृतसोमपान इत्यन्वयः । तयोः सोमस्थाने फलचमसविधानात्सोमपाननिषेधाच्च तथा च श्रुतिः “ न्यग्रोधस्तेभिनीराहृत्य ताः सम्पिष्य दधन्युपमृज्य तमस्मै भक्ष्यं प्रयच्छेन्न सोमम्” इति स्तेभिनीः फलानि दधनि दध्नि, तेषां विप्रादीनां निरयं प्रापितानामुरसि पदा पादेनाक्रम्य द्रवमाणमत्यन्ततापेन द्रवीभूतं काष्र्णायसमयोविशेषं तेषामास्ये मुखे निषिञ्चन्ति । अयसः पानं यस्मिन्नित्यवयवार्थः ॥ २९ ॥ * क्षारकर्दममाह यस्त्विह वात्मसम्भावनेनेति । यो वै देहीह लोके स्वयं जन्मादिभिरधमः निकृष्ट आत्मनः स्वस्य सम्भावनेनौत्कृष्टया - पादनेन जन्मादिमतः अत एव वरीयसः श्रेष्ठान्न बहुमन्येत किन्त्ववमन्येतेत्यर्थः । स पूर्व मृतकप्राय एव मृत्वा क्षारकर्द्दमे नरकेऽ- वाक्शिरा अधः शिराः निपातित अपारयातना अश्नुतेऽनुभवति । क्षारः कर्दमो यस्मिन्नित्यवयवार्थः ॥ ३० ॥ * * अथ रक्षोगणभोजनं सदुरितमाह । येत्विह वै पुरुषा इति । ये चेह पुरुषाः पुरुषस्य मेधेन हिंसया भद्रकाल्यादिदेवता यजेरन् याश्च स्त्रियः अशास्त्रीयान् शास्त्राविहितान्नृपशून्नररूपान्पशून् घातयन्ति ते च ताश्च तान् “पुमान् स्त्रिया” इत्येकशेषः - तांश्च पुरुषान् ताश्च स्त्रोरित्यर्थः । नृपशव स्तैर्निहतास्ते सर्वे यमसदने रक्षोगणा भूत्वा घातयन्ति दुःखयन्ति सौनिका इव । सूना नाम पशूनां । वधस्थानं तत्र भवाः सौनिका “द्वयजद्ब्राह्मणर्क प्रथमाध्वरपुरश्चरणनामाख्यातात्” इति द्वद्यच्त्वाट्ठक् । स्वायुधेन विदार्य छित्त्वा - सूक्तं पिबन्ति यथेह ते पुरुषादा हृष्यमाणाः सन्तः पूर्वमनृत्यन् जगुश्च तद्वन्नृत्यन्ति गायन्ति च । रक्षोगणानामसृग्भोजनं यस्मिन्नित्यवयवार्थः ॥ ३१ ॥ अथ शूलप्रोतं तत्प्राप्तिहेतुं दुरितं च वर्णयति ये त्विह वा अनागस इति । इह ग्रामेऽरण्ये वा अनागसो निरपराधान् जीवितुमिच्छून् जन्तून् ये वै देहिनो वैश्रम्भिकैर्विश्वासोपायैरुपविश्रम्भय्य विश्वास्य शूलसूत्रादिषु प्रोतान् संलग्नान् कृत्वेत्यर्थः । क्रीडनकतया क्रीडार्थं यातयन्ति दुःखयन्ति तेऽपि च यमयातनासु प्रेत्य सूत्रशूलादिषु प्रोताः संलग्रा आत्मानः देहा येषां ते क्षुत्पिपासाभ्यां पीडिताच तिग्मतुण्डैः सूचीमुखवत्तीक्ष्णानि तुण्डानि मुखानि येषां तैः काकादिभिरितस्ततो हन्यमाना आत्मशमलं स्वीयं पापम् अहो एवम्विधमित्येवं स्मरन्ति । शूले शूलादौ प्रोता यस्मिन्निति शूलप्रोतमित्यवयवार्थः ॥ ३२ ॥ .. श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
। अथ सपापं दाम्भिका धर्मध्वजिनः विशसन्ति खण्डशः खण्डयन्ति ॥ २५ ॥ सवर्णा स्ववर्णसमानवर्णाम् ।। २६ ।। ** सार्थान् पान्थान् जनान् ॥ २७ ॥ * * द्रव्यविनिमये वाणिज्यव्यवहारे साक्ष्ये साक्षिणा वक्तव्ये । अवीचिमज्जलं यत्तदश्म- पृष्ठस्थलं दूराद्दर्शने जलमिव दृश्यते तस्मिन्नवीचिमति जलशून्ये पाषाणपृष्ठे निरवकाशे निरालम्बने ।। २८ ।। * * सोमपीथाः कृतसोमपानाः विप्राणां नित्यनिषिद्धं राजन्यतद्भार्याणां सोमपानानन्तरं पूर्वं वीर्यपानलक्षणवारुणीपानसम्भवात्तद्भार्याणां सुरते मधुपानाद्वैश्यानां च पूर्वोक्तवत्पित्रादिमृतिनिमित्तदीक्षालक्षणव्रतस्थानां वेत्यादिविशेषोऽवगन्तव्यः ।। २९ ।। * * वरीयसः बहुमानयोग्यान् पुरुषान्मृतकः जीवन्मृतः क्षारकर्दमे लवणात्मकपङ्के दुरन्तयातना अनवसानदुःखानि ॥ ३० ॥ * * पुरुषभेदेन पुरुषहत्या लक्षणयज्ञेन यमसादने नरके स्वधितिना विशसनखङ्गेनावदाय खण्डयित्वा सौनिका हिंसकाः पशुमारा ॥। ५७२ श्रीमद्भागवतम् [ स्कॅ, १ अ. २६ श्लो. २५-३२ इत्यर्थः ॥ ३१ ॥ * * वैस्रम्भकैः विश्वासोपायैः उपविस्रम्भय्य विश्वास्य आदिशब्दाद् भृगुपातनं क्रीडनतया लीलाकरण- भावेन यमयातनासु यमेनाधिकृतनरकेषु बलाका दीर्घतुण्डाः श्येनविशेषा दन्दशूकाः सदा दशनशीलाः सर्पाः उद्वेजयन्ति भयमुत्पादयन्ति । उपसृष्य प्राप्य इह लोके यथा बिलेशया अजगराः “बिलेशयस्त्वजगरः शत्रुरुक्तो मनीषिभिः” इति ।। ३२-३३॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी रेतःपानं विशसन्ति घ्नन्ति ॥ २५ ॥ * रेतः पाययति वशीकरणकर्मणों विशेषार्थं रेतः पानं कारयति ॥ २६-२७ ॥ यत्रेति । अवीचिस्तरङ्गहीनं तत्र ॥ २८ ॥ * * सोमपीथः * * आत्मसम्भावनेन मिध्याहङ्कारेण ।। ३०-३१ ।।
-
- निरवकाशे निरालम्बे अवीचिशब्दार्थमाह कृतसोमपानः वह्निना द्रवत् कालायसं लोहम् ।। २९ ।। वैस्रम्भकैर्विश्वासोपायैः ॥ ३२ ॥ श्रीमच्छुकदेवकृतः सिद्धांत प्रदीपः सरभसं ससम्भ्रमम् ॥ २७ ॥ * लालाभक्षमाह यस्त्विहेति ॥ २६ ॥ वीचिस्तरङ्गस्तद्रहित- त्वादवीचिमत् स्थलं तदेवावीचिसंज्ञो नरकः ॥ २८ ॥ ॐ सोमपीथः सोमस्य पीतं पानं यस्य स एवम्भूतो यो विप्र- स्तत्कलत्रं वा सुरां पिबति अन्योऽपि वा व्रतस्थो राजन्यो वैश्योऽपि वेत्यन्वयः । तयोः सोमस्थाने फलचमसविधानात् सोमपान- निषेधाच्च तथा च श्रुतिः “न्यग्रोधस्तिभीराहृत्य सम्पिष्य दधन्युपमृज्य तमस्मै भक्ष्यं प्रयच्छेन्न सोमम्” इति ब्राह्मणस्य तु अव्रतस्थ - स्यापि सुरापाननिषेध: आदिपर्वणि । “यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः । अपेतधर्मो ब्रह्महा चैव स स्यादस्मिँल्लोके गहितः स्यात्परे च ॥” इति ||२९|| एवं विंशतिनरकानुक्त्वा सप्त नरकानाह । अथेत्यादिना ॥३०॥ * * रक्षोगणभोजनमाह ये इति । यथेह ये पुरुषाः पुरुषादाः सन्तः मेधेन हिंसया भैरवादीन् यजन्ते सौनिका इव नृपशून याच स्त्रियः खादन्ति तान् ताच ते च ते पशवः रक्षोगणा भूत्वा यातयन्तः असृक् पिबन्ति ॥ ३१ ॥ श्वासोपायैः ॥ ३२ ॥ ।। गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी
- वैश्रम्भकैर्वि- अत्युच्च- विशसनसंज्ञकं दर्शयति-ये त्विति । दाम्भिका अनुष्ठानतत्त्वमज्ञात्वापि स्वधार्मिकत्व प्रकाशनार्थं यज्ञानुष्ठाने प्रवृत्ताः विशसन्ति मारयन्ति । निरयपतयः तदधिकारे स्थापिता यमपुरुषाः ॥ ३६ ॥ * लालाभक्षं दर्शयति यस्त्विहेति । रेतः पाययन्ति पानं कारयन्ति ॥ ३७ ॥ * * यमदूताः श्वानरूपाः ससम्भ्रमं यथा भवति तथा तान् खादन्तीत्य- ।। ।। न्वयः ॥ ३८ ॥ * * द्रव्यविनिमये क्रयविक्रयादौ । निरवकाशे निरालम्बे ॥ ३९ ॥ * * अवीचिमच्छब्दार्थमाह- यत्रेति । वीचिस्तरङ्गः, जलाभावेन वीचिरहितत्वादवीचिमदित्यर्थः । तत्रत्यं दुःखमाह-तिलश इति ।। निपतनादिति शेषः ॥ ४० ॥ * * यस्तु विप्रस्तत्कलत्रं वा देवतान्तरव्रतस्थः सन् प्रमादतः मोहात् सुरां पिबति, तथा राजन्यो वा वैश्यो वा इहास्मिन् जन्मनि यज्ञादौ प्रमादतः कृतसोमपानो भवति तेषामित्यन्वयः । राजन्यवैश्ययोः सोमस्थाने फल- चमसविधानात् सोमपाननिषेधाच्च । तथाच श्रुतिः- “ न्यग्रोधस्तिभीराहृत्य ताः सम्पिष्य ता दधन्युपसृज्य तमस्मै भक्ष्यं सम्प्रयच्छेन्न सोमम्” इति । व्रतस्थोऽपि वेति यदि व्रतस्थेनापि पाने कृते तस्य नरकप्राप्तिस्तदा स्वभावतः कौतुकार्थंपाने नरकपाते कः सन्देह इति सूचितम् ।। ४१ ।। * आत्मसम्भावनेनेति, अहं महान् विद्यादिगुणवान् सर्वश्रेष्ठ इत्यभिमानेनेत्यर्थः । वरीयसः सम्मान- योग्यान् श्रेष्ठान्न बहु मन्येत स जीवन्नपि मृत एव सन् मृत्वा क्षारकदमे लवणपङ्के पातितो दुरन्ता यातना अनवसानदुःखानि हि अश्नुते ।। ४२ ।। * * पुरुषस्य मेधेन हिंसया भैरवादीन् यजन्ते । तान् पुरुषान् ताश्च स्त्रियः । ये च पशव इह तैर्निहतास्ते रक्षोगणा भुत्वा यातयन्तः पीडयन्तः सौनिका इव पशुमारककषायिण इव स्वधितिना शास्त्रविशेषेणेति । तत्र दृष्टान्तः - यथेति, पुरुषादा राक्षसाः ॥ ४३ ॥ शूलप्रोतमाह - ये विहेति । अनागसोऽहिंसान् जन्तून् वैश्रम्भकैर्विश्वासोत्पादनोपायैः उपविश्रम्भय्य विश्वासमुत्पाद्य उपसृताननुगतान् कृतविश्वासान् शूलादिषु प्रोतान् कृत्वा तैर्जिजीविषून् भक्षयितुमिच्छ्रन् क्रीडनक- तया तान् क्रीडनकवत् यातयन्ति पीडयन्ति ते हि चेत्यादि स्पष्टम् ॥ ४४ ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्त मनोरञ्जनी अथ विशसनं नाम नरकं तल्लब्धिहेतुपापबोधनेन सह वर्णयति ये त्विहेति । इह लोके, ये तु वै य एवं हि, दाम्भिकाः लोकवञ्चकाः दम्भयज्ञेषु वयमपि यज्ञानुष्ठानपरा इति लोकान् प्रलोभयितुमारब्धेषु दम्भार्थयज्ञेषु पशूनजादीन् विशसन्ति हिंसन्ति तान् दाम्भिकान्, अमुष्मिन् लोके, यमालये इत्यर्थः । वैशसे नरके, विशसनाख्ये नरके इत्यर्थः । पतितान् निरयपतयः तन्नर के पतितेभ्यो यातनाप्रदानाय यमनियुक्ताः पुरुषाः घातयित्वा नारकान् सुतरां दुःखयित्वा, विशसन्ति हिंसन्ति ।। २५ ।। स्क. ५ अ. २६ श्लो. २५-३२ ] अनैकव्याख्यासमलङकृतम् ५७३ अथ लालाभक्षं नरकं तत्पतनहेतुं पापं च वदति यस्त्विहेति । इह लोके, यस्तु द्विजः वै निश्वये, काममोहितः सन्, सवर्णां स्वसमानवर्णजां, भार्यां रेतः स्ववीर्यं, पाययति । स्वकीयरेतसः पानं कारयतीत्यर्थः । पापकृतमेवंविधपापकर्त्तारं तं द्विजं, अमुत्र यमदूताः, रेतःकुल्यायां पातयित्वा रेतः पाययन्ति । अत्र लालारेतसोः समानार्थता बोध्या ।। २६ ।। * * अथ सारमेयादनं नाम नरकं तत्र पतनहेतुपापेन सहानुवर्णयति ये त्विति । इह लोके ये तु, दस्यवः प्रत्यक्षं वा चौर्यकर्मकर्त्तारः, अग्निदा गृहादीनां दाहकाः, गरदा विषप्रदाः, ये च राजानः, राजभटा राजसेवकाः सन्तः, ग्रामान् सार्थान् पान्थजनसमूहान, विलुम्पन्ति वै । तांश्चापि, परेत्य यमलोकं गतानिति शेषः, सप्तशतानि विंशतिश्च विंशत्यधिकसप्तशत संख्यकाः, वज्रवन्निष्ठुरा दंष्ट्रा येषां ते, यमदूताः श्वानः, सरभसं ससंभ्रमं यथा तथा खादन्ति ।। २७ ।। * * अथ अवीचिमदाख्यं नरकं तत्र पतनहेतुपापसहितमनुवर्णयति यस्त्विह वेति । यस्तु, इह लोके वा वै साक्षिणः कर्म साक्ष्यं तस्मिन् द्रव्यविनिमये क्रयविक्रयादिरूपे वाणिज्ये दाने वा अनृतम- सत्यं वदति स एवंभूतो देही, कथंचिदतिदुःखेन, प्रेत्य मृत्वा, अवीचिमति अवीचिमन्नाम्नि, निरवकाशे निरालम्बे नरके योजनशतोच्छ्रायात्] योजनशत परिमितोन्नतप्रदेशात्, गिरिमूर्ध्नः पर्वतशिखरात्, अधोऽर्वाक् शिरो यस्य तथाभूतः सन्, वै। यमदूतैरिति शेषः । यत्र नरके, अश्मपृष्टमश्मपृष्ठरूपं स्थलं, जलम् इव, अवभासते तत् अवीचिमत् वीचिस्तरङ्गस्तदस्यास्तीति संपात्यते वीचिमज्जलं न विद्यते वीचिमत् यस्मिन् स प्रदेशोऽवीचिमत् जलरहितमप्यश्मपृष्ठं जलमिवावभासते तदवीचिमदित्यर्थः । तत्र निपात्यमानः पापी, तिलशः तिलप्रमाणं, विशीर्यमाणं शरीरं यस्य तथाभूतः सन्नपि न म्रियमाणः मरणमप्राप्तः भवति । अत एव, पुनरपि तथैव आरोपितः सन् निपतति ॥ २८ ॥ अथायःपानाख्यं नरकं तदुपभोगहेतु पापं च आह यस्त्विति । इह लोके, वै यस्तु विप्रः, तत्कलत्रं तद्ङ्गना वा, प्रमादतः सुरां त्रिविधान्यतमां पिवति । अन्योऽपि वा व्रतस्थः सन. सुरां पिबति । तथा राजन्यः क्षत्रियः, वैश्यो वा, प्रमादतः सोमपीथः कृतसोमपानः, तयोः सोमस्थाने फलचमसविधानात्सोमपान- निषेधाच्च तथा च श्रुतिः ‘न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्युपमृज्य तस्मै भक्षं प्रयच्छेन्न सोमम्’ इति । स्तिभयः फलानि । तेषां उरसि पदा पादेन, आक्रम्य " केचित्त्वधोलम्बमानास्तज्जटा इति वदन्ति । निरयनीतानां तत्पापेन निरयं गामता यसमयोविशेषं आस्ये व्यात्तीकारितानने तद्धृदि पादं निधायेत्यर्थः । वह्निनाग्नितापेन, द्रवमाणमत्यन्ततापेन द्रवीभूतं, निषिञ्चन्ति ।। २९ ।। * * अथ क्षारकर्द्दमं तत्पतनहेतुं पापं च वर्णयति अथ चेति । अथ च, अन्यो नरक उच्यत इति शेषः । पंच । केचित्तु यस्त्विह वेति, इत्यतो गद्यं पठन्ति । इह लोके, यस्तु देही, वै स्वयं अधमः, जन्मादिभिर्निकृष्टः सन्नित्यर्थः । आत्मसंभावनेन, जन्मोत्कृष्टकुले निश्च तप उत्कृष्टतपश्चरणं च विद्या सच्छास्त्रादेः सम्यगध्ययनं च आचारः सत्सत्स्वीकृताचाराचरणं च वर्णो ब्राह्मणादिव आश्रमो ब्रह्मचर्यादिश्च तद्वतः अत एव वरीयसः श्रेष्ठान् न बहु मन्येत प्रत्युतावमन्येतेत्यर्थः । सः मृतकः एव पूर्व मृतप्रायः सन्नेव, मृत्वा प्राणांस्त्यक्त्वा, क्षारकर्द्दमे निरये क्षारकर्द्दमनानि नरके इत्यर्थः । अवाक्शिरा अधः शिराः, निपातितः याम्यैः कृतनिपातनः सन्, दुरन्ताः अपाराः यातनाः अश्नुतेऽनुभवति हि ॥ ३० ॥ * * अथ रक्षोगणभोजनाख्यनरकं तत्र पातहेतुपापसहितं वदति ये विहेति । इह लोके, ये पुरुषाः, तु वै पुरुषमेधेन पुरुषस्य हिंसया, यजन्ते भद्रकाल्यादिदेवतायजनं कुर्वन्ति । याच स्त्रियः कामरूपाङ्गनाः, नृपशून् नररूपान् पशून् खादन्ति तान्नरान् ताः स्त्रीश्च तैरिहेति शेषः । ये पशवः पुरुष- पशवः निहताः, ते यमसदने रक्षोगणाः भूत्वा, घातयन्तः सन्तः, सौनिकाः इव, स्वधितिना स्वायुधेन अवदार्य तत्त्वचः छित्वा, असृक् तद्रुधिरं पिबन्ति । हृष्यमाणाः सन्तः, नृत्यन्ति गायन्ति च । कथमिव यथा इह लोके, पुरुषादाः ते हृष्यमाणाः सन्तः पूर्वमनृत्यन्, तथैतेऽपीति संबन्धः ॥ ३१ ॥ * * अथ शूलप्रोतं नरकं तत्प्राप्तिहेतुं दुरितं च वर्णयति ये त्विहेति । इह लोके ये देहिनः तु, वा वै ग्रामे, अरण्ये, वा अनागसो निरपराधान्, जिजीविषून जन्तून्, वैस्रम्भकैः विश्वासोत्पादनोपायैः, उप- विस्रम्भय्य विश्वास्य, उपसृतान् स्वान्तिकस्थितिमतः कृतान् शूलसूत्रादिषु, उपप्रोतान् संलग्नान् कृत्वा, क्रीडनकतया, घातयन्ति दुःखयन्ति ते चापि प्रेत्य मृत्वा यमयातनासु नरकेषु, शूलसूत्रादिषु प्रोताः आत्मानो देहा येषां तथाभूताः, क्षुत्तृड्भ्यां च अभिहताः तिग्मतुण्डैः तीक्ष्णचक्षुभिः कङ्कवटादिभिः, इतस्ततः आहन्यमानाश्च सन्तः, आत्मशमलं स्वकृतपापं स्मरन्ति ।। ३२ ।। , भाषानुवादः।। जो पाखण्डी लोग पाखण्डपूर्ण यज्ञों में पशुओंका वध करते हैं उन्हें परलोकमें वैशस ( विशसन ) नरक में डालकर वहाँ के अधिकारी बहुत पीड़ा देकर काटते हैं ।। २५ ।। * * जो द्विज कामातुर होकर अपनी सवर्णा भार्याको वीर्यपान कराता है, उस पापीको मरनेके बाद यमदूत वीर्य की नदी ( लालाभक्ष नामक नरक) में डालकर वीर्य पिलाते हैं ।। २६ ।। * * जो कोई चोर अथवा राजा या राजपुरुष इस लोकमें किसीके घर में आग लगा देते हैं, किसीको विष देते हैं अथवा गाँव या व्यापारियोंकी टोलियों को लूट लेते हैं, उन्हें मरनेके पश्चात् सारमेयादन नामक नरक में वज्रकीसी दादोंवाले सात सौ बीस यमदूत कुत्ते बनकर बड़े वेग से काटने लगते हैं ॥। २७ ॥ * * इस लोकमें जो पुरुष किसीकी गवाही देनेमें, व्यापार में अथवा दान के समय किसी भी तरह झूठ बोलता है, वह मरनेपर आधारशून्य अवीचिमान् नरकमें पड़ता है । वहाँ उसे सौ योजन ऊँचे पहाड़ के शिखर से नीचेको सिर करके गिराया जाता है । उस नरककी पत्थर की भूमि जलके समान जान पड़ती ५७४ श्रीमद्भागवतम्
॥ क. ५ अ. २६ श्लो. ३३-३६ है । इसीलिये इनका नाम अवीचिमान् है । वहाँ गिराये जानेसे उसके शरीर के टुकड़े-टुकड़े हो जानेपर भी प्राण नहीं निकलते, इसलिये इसे बार-बार ऊपर ले जाकर पटका जाता है ॥ २८ ॥ * जो ब्राह्मण या ब्राह्मणी अथवा व्रतमें स्थित और कोई भी प्रमादवश मद्यपान करता हैं जो क्षत्रिय या वैश्य सोमपान करता है उन्हें यमदूत अयःपान नामके नरक में ले जाते हैं और उनकी छातीपर पैर रखकर उनके मुँहमें आगसे गलाया हुआ लोहा डालते हैं ।। २९ ।। * * जो पुरुष इस लोकमें निम्न श्रेणीका होकर भी अपनेको बड़ा माननेके कारण जन्म, तप, विद्या, आचार, वर्ण या आश्रम में अपने से बड़ोंका विशेष सत्कार नहीं करता, वह जीता हुआ भी मरेके ही समान है। उसे मरनेपर क्षारकर्दम नामके नरक में नीचेको सिर करके गिराया जाता है और वहाँ उसे अनन्त पीड़ाएँ भोगनी पड़ती हैं ॥ ३० ॥ * जो पुरुष इस लोकमें नरमेधादिके द्वारा भैरव, यक्ष, राक्षस आदिका यजन करते हैं, और जो स्त्रियाँ पशुओंके समान पुरुषोंको खा जाती हैं, उन्हें वे पशुओंकी तरह मारे हुए पुरुष राक्षस होकर तरह-तरह की यातनाएँ देते हैं और रक्षोगणभोजन नामक नरक में कसाइयोंके समान कुल्हाड़ी- से काट काटकर उसका लोहू पीते हैं। तथा जिस प्रकार वे मांसभोजी पुरुष इस लोकमें उनका मांस भक्षण करके आनन्दित होते थे, उसी प्रकार वे भी उनका रक्तपान करते और आनन्दित होकर नाचते-गाते हैं ॥ ३१ ॥ * इस लोकमें जो लोग बन या गाँव निरपराध जीवोंको-जो सभी अपने प्राणोंको रखना चाहते हैं— तरह-तरह के उपायोंसे फुसलाकर अपने पास बुला लेते हैं और फिर उन्हें काँटेसे बेधकर या रस्सीसे बाँधकर खिलवाड़ करते हुए तरह-तरहकी पीड़ाएँ देते हैं, उन्हें भी मरनेके पश्चात् यमयातनाओंके समय शूलप्रोत नामक नरक में शूलोंसे बेधा जाता है। उस समय जब उन्हें भूख-प्यास सताती है और कङ्क, बटेर आदि तीखी चोंचोंवाले नरकके भयानक पक्षी नोचने लगते हैं, तब अपने किये हुए सारे पाप याद आ जाते हैं ॥ ३२ ॥ ये विह वै भूतान्युद्वेजयन्ति नरा उल्वणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥ ये त्विह वा अन्धावटकुसूल- गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४ ॥ यस्त्विह वा अतिथी- नभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेर क्षिणी वज्रतुण्डा गृधाः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५ ॥ यस्त्विह वा आढ्याभिमतिरहंकृतिस्तिर्यक्प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाण- हृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंर क्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्र हैं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ।। ३६ ।। quare अन्वयः - नृप इह वै यथा दंदशूकाः ये तु उल्बणस्वभावाः नराः भूतानि उद्वेजयन्ति ते अपि प्रेत्य ददशूकाख्ये नरके निपतन्ति यत्र पञ्चमुखाः सप्तमुखाः ददशूकाः उपसृत्य यथा बिलेशयान् प्रसन्ति ।। ३३ ।। * * वै इह ये तु अन्धावटकुसूर- गृहादिषु भूतानि निरुन्धन्ति तथा अमूत्र तेषु एव उपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४ ॥ * वै इह यः तु गृहपतिः असकृत् उपगतमन्युः अतिथीन् वा अभ्यागतान् दिधक्षुः इव पापेन चक्षुषा निरीक्षते तस्य पापदृष्टेः अपि अक्षिणी निरये वज्रतुंडाः गृध्राः कंककाकवटादयः प्रसह्य उरु बलात् उत्पाटयन्ति ॥ ३५ ॥ * वै यः तु इह आढयाभिमतिः अहंकृतिः तिर्यक्प्रेक्षणः सर्वतः अभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनः निर्वृतिम् अनवगतः ग्रहः इव अर्थम् अभिरक्षति सः च अपि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्रहम् पापपुरुषम् धर्मपुरुषाः वायकाः इव सर्वतः अंगेषु सूत्रैः परिवयन्ति ॥ ३६ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका बिलेशयान्मूषकान् ।। ३३ ॥ * सगरेण सविषेण ॥ ३४ ॥ * * अतिथयोऽज्ञातपूर्वाः, अभ्यागताः ज्ञातपूर्वास्तान् । पापेन वक्रीकृतेन ॥ ३५ ॥ * आढ्याभिमतिर्ध नगर्वितः अहंकृतिः श्रेष्ठोऽहमिति मानी । तिर्यक्प्रेक्षणं यस्य । सर्वतो गुर्वादेरपि धनं चोरयिष्यतीति विशंकमानः परिशुष्यमाणं हृदयं वदनं च यस्य । अनवगतोऽप्राप्तः । तस्यार्थस्योत्पादनादिभिः । शमलं गृह्णातीति तथा परिवयंति सूत्रप्रोतं कुर्वति ॥ ३६ ॥ क्षत्रियों एवं वैश्योंके लिये शास्त्रमें सोमपानका निषेध है ।
- । १. प्रा० पा० उपश्लिष्य । २. प्रा० पा० - वक्रतुण्डा० । ३. प्रा० पा०– सर्वतः शङ्की व्ययनाशचिन्तया । ४. प्रा० पा० - मतिर- क्षति ५. प्रा० पा० रक्षणसमलग्रहः । ६. प्रा० पा० ग्रहणं । ५ अ. २६ श्लो. ३३-३६ ] । । अनेकव्याख्यासमलङ्कृतम् श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः । ५७५ मूषको हि बिलेशयोऽत्र ग्राह्यः । ददशूकः सदा दशनशीलोऽहिः ।। ३३ ।। * * अवटनिरोधनरकमाह - अंधे तमसि । अवढे भूगर्ते ‘गर्त्तावटौ भुवः श्वभ्रे’ इत्यमरः । कुसूलं सतृणमृन्निर्मितमन्नाधार कोष्ठम् । गुहा कंदरा । आदिना हुडादिग्रहः || ३४ || “अनागतमनाहूतं देशकाले उपस्थितम् । अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः” इति स्मृतेः । “यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेतेऽभ्यागताः स्मृताः ॥” इति स्मृतेश्चातिथ्यभ्यागतभेद ऊहनीयः । कंकादयो मृतपश्वादिमांसाशिनः पक्षिविशेषाः । तुंडं मुखाग्रम् | पर्यावर्त्तनाख्योऽयं नरकः || ३५ ॥ * * ग्रह इव ब्रह्म- राक्षसादिर्यथा निधिमन्येभ्यो रक्षन्ति तथाऽभिरक्षति । स चार्थाभिरक्षिता । उत्पादनमर्जनम् उत्कर्षणं वृद्धिकरणं संरक्षणमन्यत्रा- प्रदानं तैर्यच्छमलं दुःखं पापं वा ‘दुःखे पापे च शमलं’ इत्यभिधानात् । वायकाः पटञ्चरैः कथानिर्माणनिपुणा वित्तग्रहमर्थ- लुब्धपिशाचसमं सूत्रैः स्वर्णरजतादिसूत्रैः क्षुरधारा निशितैः संपादितधनसमतुलितैः परिवयंति ओतप्रोतक्रियया विध्यतीत्यर्थः । यद्वा ग्रहो यक्षः " ग्रहो यक्षे च सूर्यादावादानेऽप्युपरागके” इति धरणिः । वायको वस्त्रसेवकस्तंतुवायश्चेति ॥ ३६ ॥
श्रीमद्वीरराघवव्याख्या अथ दन्दशूकं सपापमाह ये त्विह वै भूतानीति । ये च जना अत्युल्बणस्वभावाः अत्युग्रस्वभावाः यथा दन्दशूकाः सर्पास्तद्भूतानि उद्वेजयन्ति भीषयन्ति तेऽपि प्रेत्य दन्दशूकाख्ये दन्दशूकसंज्ञके नरके निपतन्ति । दन्दशूकं विशिनष्टि यत्रेति । हे नृप ! दन्दशूके दन्दशूकाः सर्पाः पञ्च मुखानि सप्त मुखानि येषां तादृशाः उपसृत्य समीपमागत्य प्रसन्ति यथा विलेशयान् मूषकान् ग्रसन्ति तद्वद्दन्दशूका अस्मिन् सन्तीत्यवयवार्थः । अर्शआदेराकृतिगणत्वान्मत्वर्थीयोऽच्प्रत्ययः ॥ ३३ ॥ * 8 अथ सपापमवटं वर्णयति ये त्विह वा बालानिति । इह ये देहिनो बालानन्धान् काणानन्यानि वा बलहीनानि भूतान्यवटादिषु अवटो गर्तः यथा निरुन्धन्ति तथा सम्परेतानमुत्रावटनिरोधाख्ये नरके तेष्वेवावटादिष्वेव उपवेश्य सगरेण विषयुक्तेन वह्निना धूमेन वह्निसम्बन्धिना धूमेन निरुन्धन्ति । अवटो निरोधोऽस्मिन्नित्यवटनिरोधः, निरुन्धन्ते अन्यानस्मिन्निति निरोधः अवटो निरोधो यस्मिन्निति वावयवार्थः ॥ ३४ ॥ अक्षिपर्यावर्त सदुरितमाह यस्त्विह वा अतिथीनिति । यश्चेह लोके स्वयं गृहस्वामी सन्नतिथीनज्ञातपूर्वानभ्यागतान् ज्ञातपूर्वानसकृदुपगतमन्युः सञ्जातक्रोधः दग्धुमिच्छुरिव पापेन तिरश्रीनेन चक्षुषा निरीक्षते तस्य च पापदृष्टः प्रेतस्य निरयेऽक्षिपर्यावर्ताख्येऽक्षिणी नेत्रे वक्रं तुण्डं येषां ते काकादयः प्रसह्य बलादुत्पाटयन्ति । अक्ष्णोः पर्यावर्तनमुत्पाटन- मस्मिन्नित्यवयवार्थः ॥ ३५ ॥ * सूचीमुखं सपापमाह यस्त्विह वा आढ्याभिमतिरिति । यचेह लोके आढ्योse- भित्यभिमतिरभिमानो यस्य स धनगर्ववानित्यर्थः । अहंकृतः श्रेष्ठोऽहमिति मानी तिर्यक प्रेक्षणं यस्य सर्वतः गुर्वादेरपि शङ्की धनं चोरयिष्यतीति शङ्कमानः व्ययो विनियोगेनार्थक्षयः विनाशः समूलतः क्षयः तद्विषयया चिन्तया परिशुष्यमाणं हृदयं वदनं यस्य अतः निर्वृतिं सुखमनुपगतः अप्राप्तः ग्रह इव पिशाच इवार्थं वित्तमभितो रक्षति स चापि प्रेत्य तस्यार्थस्योत्पादनादिभिः शमलं पापं गृह्णातीति तथा उत्पादनं प्रथमतो मूलद्रव्यसम्पादन मुत्कर्षणं तस्य पश्चाद्वृद्धयादिना वर्द्धनं रक्षणं पालनम् एतत्प्रयुक्तराम लग्रह इत्यर्थः । सूचीमुखाख्ये नरके निपतति । सूचीमुखं विशिनष्टि यत्र हेति । तं वित्तग्रहं धनपिशाचमत एव पापपुरुषाकृतिं पापं धर्मराजस्य यमस्य पुरुषाः तन्तुवायका इव सूत्रयुक्तसूच्या वस्त्रादिवेधकारिण इव सर्वेषु अङ्गेषु सूत्रैः परिवयन्ति सूत्रप्रोतान् तस्यावयवान् कुर्वन्तीत्यर्थः । नरकावयवार्थः स्पष्ट एव ॥ ३६ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली अवढं निरुच्छ्वासबिलं कुसूलं त्रीहिगर्तगृहं कारागृहम् आदिशब्दात्तजलमज्जनं दारुपात्रं वा सगरेण विषसहितेनाग्निना कृन्तनम् ॥ ३४ ॥ * * अपचक्षुषा तिरश्चीनेन नेत्रेण ॥ ३५ ॥ * * अर्थेषु अभिमतिरभिमानो यस्य स तथा अहङ्कृतिरहङ्कारस्वरूपः व्ययविनाशयोश्चिन्तया ग्रहः ब्रह्मराक्षसादिलक्षणो यथा निधिमन्येभ्योऽभिरक्षति तथेति शेषः, तस्यार्थस्य सम्पादने अर्जने उत्कर्षणे वृद्धीकरणे संरक्षणे च यच्छमलं तद्गृह्णातीति तत्सम्पादनोत्कर्षणसंरक्षणशमलग्रहः वित्तग्रहमर्थलुब्ध- पिशाचं वायकाः पटच्चरैः कन्थानिर्माणनिपुणाः क्षुरधारानिशितैः सूत्रैः परिवयन्ति ओतप्रोतक्रियया विद्धयन्ति ।। ३६ ।। श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी बिलेशयान मूषकान् ।। ३३-३४ ॥ * * अतिथयोऽज्ञातपूर्वा अभ्यागता अतिथयोऽज्ञातपूर्वा अभ्यागता ज्ञातपूर्वाः ॥ ३५ ॥ आढ्याभिमतिर्ध नगर्वितः । अहङ्कृतिरहङ्कारी सर्वतो गुर्वादिभ्योऽपि धनं मे ग्रहीष्यन्तीत्यभिशङ्की परिवयन्ति सूत्रप्रोतान् कुर्वन्ति इतरत्र स्वर्गे इह भारतभूमौ पुनरपि धर्माधर्मयोर्भव उत्पत्तिर्यतस्तस्मिन् उभयोर्धर्माधर्मयोः शेषाभ्याम् ॥ ३६-३७ ।। ५७६ बिलेशयान् मूषकान् ।। ३३-३४ ॥ श्रीमद्भागवतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः [ स्कं. ५ अ. २६ श्लो. ३३-३६ पर्यावर्त्तनमाह । अज्ञातपूर्वा अतिथयः ज्ञातपूर्वाः अभ्यागताः ।। ३५ ।। तस्यार्थस्योत्पादादिभिः शमलं पापं गृह्णातीति तथा ॥ ३६ ॥ गोस्वामिश्रीगिरिधरलालविहिता बालप्रबोधिनी उल्बणस्वभावाः भयङ्करस्वभावाः । तत्र दृष्टान्तमाह — यथेति दन्दशूकाः सर्पादयः ।। ४५ ।। ॥ बिलेशयान् मूषकान् । हे नृपेति स्नेहेन सम्बोधयंस्तव तु नैवंविधः कश्चिदप्यपराधोऽस्ति कथञ्चिज्जातस्यापि भगवद्भक्त्या क्षारीकृतत्वादिति सूचयति ॥ ४६ ॥ ४६ ॥ * अन्धावट निरुङ्कासबिलं कुसूलं धान्यगर्तम् | आदिशब्दात् जलादिनिरोधग्रहणम् । सगरेण विषसहितेनाग्निना जातेन धूमेन सह निरुन्धन्ति ॥ ४७ ॥ * * अतिथयोऽज्ञातपूर्वकाः, अभ्यागताः ज्ञातपूर्वकाः तान् । पापेन वक्रीकृतेन । प्रसह्य हठात् ॥ ४८ ॥ * यस्त्विह वै आन्याभिमतिः धनगर्वितः अहंकृतिः श्रेष्ठोऽहमित्यभिमानी तिर्यक्प्रेक्षणः वक्रदृष्टिः सर्वतोऽभिविशङ्की सर्वत्र विश्वासयोग्येष्वपि पितृगुर्वादिषु अयं मे धनं चोरयिष्यतीति विशङ्कमानः हि यस्मात् अर्थविनाशचिन्तया परिशुष्यमाणं हृदयं वदनं च यस्य सः, अत एव निर्वृतिं सुखमनवगतोऽप्राप्तः ग्रह इव ब्रह्मराक्षसवत्परार्थं धनं रक्षति, अत एव तस्य धनादेरुत्पादने अर्जने उत्कर्षणे संवर्धने संरक्षणे च शमलं पापं गृह्णातीति तथा सोऽपि सूचीमूखे नरके निपतति ॥ ४९ ॥ * तत्रत्यं दुःखमाह-यत्रेति । वित्तग्रहं धनलुब्धं पापव्याप्तं पुरुषं वायकाः ॥ कन्थादिनिर्माणकर्त्तारः सूत्रैः परिवयन्ति सूत्रप्रोतान् कुर्वन्ति ॥ ५० ॥ श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी " अथ दन्दशूकाख्यं नरकं तदाप्तिहेतुपापं च वर्णयति ये त्विहेति । इह लोके ये नराः प्राणिनस्तु, उल्बणस्वभावाः सन्तः, दन्दशूकाः सर्पादयः यथा, तथा भूतानि उद्वेजयन्ति भीषयन्ति वै । ते अपि प्रेत्य, दन्दशूकाख्ये नरके, निपतन्ति । यत्र दन्दशूकाख्य- नरके, हे नृप, पञ्चमुखानि येषां ते सप्त मुखानि येषां ते तादृशाः दन्दशूकाः सर्पादयः, उपसृत्य समीपमागत्य, बिलेशयान्मूषकान् यथा, तथा ग्रसन्ति ||३३|| अथावटनिरोधनाख्यनरकं तत्प्राप्तिहेतुपापं च वर्णयति ये त्विहेति । इह लोके ये तु देहिनः वै, यतु बालान् अन्धान् काणान्, बलहीनानि भूतानि, अवटकुसूलगुहादिषु, अवटो गर्त्तः, कुसूलो गर्भागार, गुहा पर्वतद्रोणी | आदिशब्देन भूमिविवरं यथा निरुन्धन्ति तथा तान अमुत्र तेष्ववटादिषु एव, उपवेश्य सगरेण सविषेण वह्निना धूमेन वह्निजातसविषधूमेन च निरुन्धति ॥ ३४ ॥ * * अथापर्यावर्त्तनाख्यं नरकं तत्पतननिमित्तभूतपापं चाह यस्त्विति । इह लोके, यस्तु वै स्वयं गृहपतिर्गृहस्वामी सन् अतिथीनज्ञातपूर्वान्, अभ्यागतान् ज्ञातपूर्वान्, भिक्षुकजनान्, असकृत् उपगतमन्युः संजातक्रोधः, दिधक्षुर्दग्धुमिच्छुरिव, पापेन चिरश्चीनेन चक्षुषा, निरीक्षेत । पापदृष्टेः तस्य चापि, अक्षिणी निरये पर्यावर्त्तनाख्ये नरके, वज्रतुण्डा वज्रमुखाः गृध्राः काकश्च कङ्कश्च वटश्च ते आदयो येषां ते पक्षिणः, प्रसह्य हठतः उरुबलात्, उत्पाटयन्ति ॥ ३५ ॥ * * अथ सूचीमुखनामनरकं तत्पतनहेतुपापं च वर्णयति यस्त्विति । इह लोके, यस्तु देही वै, आढ्योऽहमित्यभिमतिरभिमानो यस्य सः, धनगर्ववानित्यर्थः । अहंकृतिः श्रेष्ठोऽहमित्यभिमानी, तिर्यक् तिरश्चीनं प्रेक्षणं यस्य सः, सर्वतो गुर्वादेरपि अभिविशङ्की मनमयं चोरयिष्यतीति शङ्कमानः, अर्थस्य व्ययो विनियोगेनार्थक्षयश्च विनाशः समूलतोऽर्थक्षयश्च तद्विषया या चिन्ता तया, परिशुष्यमाणं हृदयं वद्नं च यस्य सः, अतः निर्वृतिं सुखं अनवगतोऽप्राप्तः, एवंविधः सन् ग्रहः पिशाचः इव, अर्थं वित्तम् अभ्यभितः रक्षति स चापि प्रेत्य तस्यार्थस्य उत्पादनमञ्जनं च उत्कर्षणं वृद्धयर्थमधमर्णेभ्यः प्रदानं च संरक्षणं मूलधनस्य सम्यक् परिपालनं च तैः, शमलं, पञ्चदशानर्थजन्यं पापं गृह्णातीति तथोक्तः । सूचीमुखे सूचीमुखसंज्ञे नरके निपतति । यत्र सूचीमुखनरके, ह स्फुटमेव, वित्तग्रहं धनपिशाचरूपं पापपुरुषं, धर्मराजपुरुषाः तत्राधिकृता धर्मराजपुरुषाः, वायकाः सूत्रयुक्तसूच्या वस्त्रादिवेधनकारिण इव, सर्वतः सर्वेषु अङ्गेषु सूत्रैः परिवयन्ति । तस्यावयवान्विदार्य विदार्य सूत्रप्रोतान् कुर्वन्तीत्यर्थः ॥ ३६ ॥ भाषानुवादः । राजन् ! इस लोक में जो सर्प के समान उग्रस्वभाव पुरुष दूसरे जीवोंको पीड़ा पहुँचाते हैं, वे मरनेपर दन्दशूक- नामक नरक में गिरते हैं । वहाँ पाँच-पाँच सात-सात मुँहवाले सर्प उनके समीप आकर उन्हें चूहोंकी तरह निगल जाते हैं ॥ ३३ ॥ * * जो व्यक्ति यहाँ दूसरे प्राणियोंको अँधेरी खत्तियों, कोठों या गुफाओंमें डाल देते हैं, उन्हें परलोकमें वैसे ही स्थानों में डालकर विषैली आग के धूऍमें घोटते हैं। इसलिए इस नरकको अवटनिरोधन कहते हैं ।। ३४ ।। यमदूत जो गृहस्थ अपने घर आये अतिथि-अभ्यगतोंकी ओर बार-बार क्रोध में आकर ऐसी कुटिल दृष्टिसे देखता है मानो उन्हें भस्म कर देगा, वह जब नरक में जाता है, तब उस पापदृष्टिके नेत्रोंको गिद्ध, कङ्क, काक और बढेर आदि वज्रकी-सी कठोर चोंचोंवाले स्कं. ५ अ. २६ श्लो. ३७-४० ] अनेकव्याख्यासमलङ्कृतम् ५७७ पक्षी बलात्कारसे निकाल लेते हैं। इस नरकको पर्यावर्तन कहते हैं ।। ३५ ।। * * इस लोकमें जो व्यक्ति अपनेको बड़ा धनवान् समझकर अभिमानवश सबको टेढ़ी नजर से देखता है और सभीपर सन्देह रखता है, धनके व्यय और नाशकी चिन्तासे जिसके हृदय और मुँह सूखे रहते हैं, अतः तनिक भी चैन न मानकर जो यक्षके समान धनकी रक्षा में ही लगा रहता है तथा पैसा पैदा करने, बढ़ाने और बचानेमें जो तरह-तरहके पाप करता रहता है, वह नराधम मरनेपर सूचीमुख नरकमें गिरता है । वहाँ उस अर्थपिशाच पापात्मा के सारे अङ्गोंको यमराज के दूत दर्जियों के समान सुई-धागेसे सीते हैं ।। ३६ ।। या rafaar नरका यमालये सन्ति ‘शवशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताचावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥ निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणम यमनुवर्णितमादृतः पठति शृणोति श्रावयति सं उपगेयं भगवतः परमात्मनोऽग्राथमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥ श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवती यतिः । स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति ॥ ३६ ॥ भूद्वीपवर्षसरिदद्रिनभः समुद्रपातालदिङ्नरकभागणलोकसंस्था । गीता मया तव नृपाद्भुतमीश्वरस्य स्थूलं वपुः सकलजीवनिकायधाम ॥ ४० ॥ Fray: ।। ।। इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्यां पारमहंस्यां संहितायां पञ्चमस्कन्धे नरकानुवर्णनं नाम षर्विशोऽध्यायः ॥ २६ ॥ ans:समाप्तः ॥ ॥ इति पञ्चमः स्कन्धः समाप्तः ॥ हरिः ॐ तत्सत् ॥ अन्वयः - अवनिपते एवम् यमालये शतशः सहस्रशः एवंविधाः नरकाः सन्ति ये केचित् इह उदिताः च अनुदिताः सर्वे एव अधर्मवर्तिनः तेषु सर्वेषु पर्यायेण विशन्ति तथा एव धर्मानुवर्तिन इतरत्र ते पुनर्भवे उभयशेषाभ्याम् निवि- शन्ति ॥ ३७ ॥ * * निवृत्तिलक्षणमार्गः आदौ एवं व्याख्यातः एतावान् एव आंडकोशः पुराणेषु चतुर्दशधा विकल्पितः उप- गीयते भगवतः नारायणस्य साक्षात् महापुरुषस्य आत्ममायागुणमयम् यत् स्थविष्ठम् रूपम् अनुवर्णितम् तत् यः आदृतः पठति शृणोति श्रावयति सः श्रद्धाभक्तिविशुद्धबुद्धिः भगवतः परमात्मनः उपगेयम् अग्राह्यम् अपि वेद || ३८ ॥ * * भगवतः स्थूलम् तथा सूक्ष्मम् रूपम् श्रुत्वा स्थूले निर्जितम् आत्मानम् धिया शनैः सूक्ष्मम् यति । नयेत् इति ।। ३९ ।। * नृप मया । * तब भूद्वीपवर्षसरिदद्रिनभःसमुद्र पातालदिङ्नर कभागणलोकसंस्था गीता भगवतः ईश्वरस्य अद्भुतम् स्थूलम् वपुः सकलजीव- निकायधाम ॥ ४० ॥ ॥ va इति षड्विशोऽध्यायः ॥ २६ ॥ श्रीधरस्वामिविरचिता भावार्थदीपिका इतरत्र स्वर्गादौ इह मर्त्यलोके पुनर्भवे पुनर्जन्मनिमित्तम् । उभयोर्धर्माधर्मयोः शेषाभ्याम् ॥ ३७ ॥ वेव द्वितीयस्कंधे वैश्वानरं यातीत्यादिना । उपगेयमौपनिषदं रूपम् । श्रद्धाभक्तिभ्यां विशुद्धा बुद्धिर्यस्य ॥ ३८ ॥ यथावत्श्रुत्वा ॥ ३९ ॥ * * कथंभूता संस्था । सकलानां जीवनिकायानां धाम आश्रयभूतं वपुः ॥ ४० ॥ पंचमस्कंध संबंधिपदभावार्थदीपनैः । प्रीयतां परमानंदनृहरिबलभाषितैः ॥ १ ॥
-
- आदा-
-
- यथा, इति श्रीमद्भागवते महापुराणे श्रीधरस्वामिविरचितायां पंचमस्कंधटीकायां भावार्थदीपिकायां षड्विंशतितमोऽध्यायः ॥ २६ ॥ समाप्तोऽयं पंचमस्कंधः ॥ ५ ॥ १. प्रा० पा० - शतसहस्रशः । २. प्रा० पा० णमनुवर्णितः । । - ७३ ५७८ श्रीमद्भागवतम् श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः [ स्कं. ५ अ. २६ श्लो. ३७-४० अवनिपते इति । यथा त्वं पापिनां कर्मानुरोधेनावनौ दंडं ददासि तथा तत्रापीति भावः । पर्यायेण कर्मक्रमेण । पुनर्भव इति निमित्ते सप्तमीति स्वामिचरणाः । पुनरपि धर्माधर्मयोर्भव उत्पत्तिर्यतस्तस्मिन्नितीहपदविशेषणमिति विश्वनाथः ।। ३७ ।। * * चतुर्दशधा लोकप्रकारेण । पुराणेषु स्कान्दादिषु । उपनिषदा मिति षष्ठी कृद्योगे कर्त्तरि । यद्रूपं तद्यः पठतीत्यादि संबंधः । अग्राह्यं ज्ञातुमशक्यम् ॥ ३८ ॥ * * यथा स्थूलं श्रुत्वा तथा सूक्ष्मं श्रुत्वा स्थूले रूपे आत्मानं निर्जितं कृत्वा शनैः क्रमेण सूक्ष्मं प्रति धिया व्यवसायात्मिकया बुद्धधा नयेदित्यन्वयः । सूक्ष्ममत्र भक्तिमात्रगम्यं रूपम् “यावन्न जायेत परावरेऽस्मिन्विश्वेश्वरे द्रष्टरि भक्तियोगः” इत्याद्युक्तेः ॥ ३९ ॥ * * उपसंहरति- भूद्वीपेति । संस्था रचना | निकायः समूहः ॥ ४० ॥ ।। । | || 80 || SPAJAKT … इति । दीपनं प्रकाशनम् ( १ ) अथास्य श्रवणादिमहिमा “विष्णुरुवाच । पञ्चमस्कंधसंभूतं फलं शृणु चतुर्मुख | तदेव हृदयं मह्यं बालहत्याविमोचकम् ॥ १ ॥ * * ब्रह्मोवाच । बालहत्या कृता केन को मुक्तः श्रुतिमात्रतः । तन्मे वद सुरश्रेष्ठ लोकानां हितकारक || २ || हरिरुवाच । पुराकृतयुगे तात राजासीद्विमलो महान् । व। तात राजासीद्विमलो महान् । कान्यकुब्जाधिपः श्रीमान्भार्याशतयुतो विधे || ३ || आनपत्येन दुःखेन पीडितो गुरुमंदिरम् । जगाम रथमारुह्य संतानप्राप्तये नृपः ॥ ४ ॥ तत्र गत्वा गुरुं स्तुत्वा प्रार्थया- मास संततिम् । गुरोराज्ञां समाप्राप्य पुत्रेष्टिं स चकार ह ॥ ५ ॥ ततः पुत्रशतं लेभ एकोनं नृपतिस्तदा । ज्येष्ठा भार्या पुत्रहीना दुःखिताभूनृपस्य । हि । हि ॥ ६ ॥ सपत्नीनां पुत्रनाश चितयामास सर्वदा । एकदा सहितः पत्न्या स्नानार्थ स समाययौ ॥ ७ ॥ अमाचंद्रमसोर्योगे तीर्थराजं सुखप्रदम् । मारितं बालकशतं भार्यया पुत्रहीनया ॥ ८ ॥ नृपतेर्विमलस्याथ श्रुत्वा राजातिदुःखितः । चतुरशीतिर्लक्षाणां नरकाणां तया पुनः || ९ || भुक्ता पापप्रभावेण चांडाली साभवन्मुहुः । दुर्भगत्वं समासाद्य विचरंत्या वने वने ॥ १० ॥ कदाचिद्भाग्यतो वार्त्ता पञ्चमस्कंधसंभवा । हतपापा ततो जाता श्रवणस्य प्रभावतः । वैकुंठलोकमगमदहो भागवतं महत् ।। ११ ।। " इति पाद्म े । येनैतद्रचितं विश्वं निजमायाप्रभावतः । तं वंदे बल्लवीनाथं नंदगोपसुतं हरिम् ॥ १ ॥ यत्कृपावशतो दृब्धो मया वंशीधरेण हि । प्रकाशः पञ्चमस्कंधे बहुटीकावलोकनात् । स कृष्णोभीप्सितं दद्यान्मम भक्तप्रियः सदा ।। २ ।। इति श्रीखरडपत्तनवास्तव्य पण्डितवंशीधरशर्म्मविरचिते श्रीमद्भागवतभावार्थदीपिकाप्रकाशे पञ्चमस्कन्धे षड्विंशतितमोऽध्यायः ॥ २६ ॥ समाप्तश्चायं पञ्चमस्कन्धः ॥ ५ ॥ ल है श्रीमद्वीरराघवव्याख्या इदं नरकवर्णनं पापवर्णनं च दिङ्मात्रमित्याह । एवम्विधा उक्तविधा नरकाश्च शतशः सहस्रशो यमालये सन्ति तेषु नरकेषु सर्वं एवाधर्मवर्त्तिनो अत्रानुक्तबहुविधाधर्मपरा ये चेहोदिता उक्ता अधर्मवर्त्तिनः उक्तेषु नरकेषु निपतेयुस्तेऽपि पर्यायेण, तथैव विशन्ति यथोक्तेषु नरकेषु विशन्ति तथा तेष्वपि विशन्तीत्यर्थः । यद्वा तथेत्युत्तरान्वयी यथाधम्र्मानुवर्त्तिनो नरकेषु विशन्त्येवं धर्मानुवर्त्तिनः स्वर्गादौ विशन्तीत्याह तथैवेति । इतरत्र स्वर्गादौ इह लोके विशन्तीत्यत्राह इह त्विति । पुनर्भवे पुनः पुनः भवो जन्म यस्मिंस्तस्मिन्निह मर्त्यलोकादौ उभयशेषाभ्यां धर्माधर्मशेषाभ्यां भुक्तावशिष्टाभ्यामित्यर्थः विशन्ति जायन्त इत्यर्थः । एवं प्रवृत्तिधर्मवत्तिनां मार्गः कथितः । अथ निवृत्तिधर्मवर्त्तिनः क विशन्तीत्यत्राह । निवृत्तिलक्षणमार्ग इति । निवृत्तिधर्मप्राप्ते मार्गः आदावेव द्वितीयस्कन्ध एव " वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन” इत्यारभ्य कथित इत्यर्थः । एवं नरके- ध्वाण्डकोशान्तर्भूतत्वेनैवोपवर्णितेषु सत्सु तर्हि महर्जनादिभुवनानि क्व सन्तीति राज्ञः प्रश्नोद्योगमन्वीक्ष्याह एतावानिति । अण्डकोश एतावानेवोक्तविधस्त्रिलोक्यात्मक एवेत्यर्थः । तर्हि चतुर्द्दशभुवनात्मकः त्रिलोक्यां व्यवहारः कथमिति शङ्कां निराकुर्वन्नण्ड- कोशं विशिनष्टि य इति । योऽण्डकोशः त्रिलोक्यात्मकः पुराणेषु चतुर्दशधा चतुर्दशभुवनात्मकत्वेन विकल्पितः विभेदितः उद्गीयते अतलादीनि भुवनानि भूलोके महरादीनि दिवो मण्डलेऽन्तर्भाव्यान्तरिक्षमण्डलेन सह त्रिलोक्यात्मकाण्डकोशोऽत्रानु- वर्णितः अवान्तरभिदामाश्रित्य पुराणान्तरेषु चतुर्दशधोपवर्ण्यत इत्यर्थः । एतदण्डकोशवर्णनश्रवणपठनादिफलमनुवर्णयति य एतदिति । महापुरुषस्य भगवतो नारायणस्य यत्स्थविष्ठं स्थूलतमं रूपमात्ममायागुणमयं प्रकृतिगुणप्रचुरमनुवर्णितं तदाहतो यः तद्वर्णनरूपमिमं प्रबन्धमादरणपूर्वकं यः पठति यश्च शृणोति श्रावयति वा सोऽयमेव परमात्मन उपगेयमुपनिषद्गम्यमणिष्ठं सूक्ष्मं सर्वत्र व्यापनस्वभावं दिव्यमङ्गलविग्रहविशिष्टं दिव्यात्मस्वरूपमपि श्रद्धाभक्तिभ्यां विशुद्धा बुद्धिर्यस्य तथाभूतः सन् वेद स्थूल- रूपज्ञानं सूक्ष्मरूपज्ञानफल स्थूलरूपज्ञानसम्पादकमेतत्प्रबन्धपठनादिकं परम्परया सूक्ष्मरूपविषयकज्ञानफलकमित्यर्थः ।। ३७-३८ ॥ * * स्थूलरूपज्ञानस्य सूक्ष्मरूपज्ञानसाधनत्वमेवाह श्रुत्वेति । भगवतः स्थूलसूक्ष्मे उभे अपि रूपे यथावत् श्रुत्वा गुरुमुखात्पूर्व स्थूलरूपे निर्जितमात्मानं चित्तं शनैः सूक्ष्मधिया उक्तविधदिव्यात्मस्वरूपविषयकज्ञानात्मधिया उक्तविधदिव्यात्म- स्वरूपं नयेदित्यर्थः । एवं सति प्रपञ्चस्यापि भगवद्रूपत्वेनानुसंहितत्वात्कचिदपि व्याप्रियमाणं चित्तं भगवत्येव विशेष्यभूते व्यवस्थितं *स्क. ५ भ. २६ श्लो. ३७-४० 1 अनेकव्याख्या समलंकृतम् ४ ५७२ भवति इति तत्साधनत्वमिति भावः ॥ ३९ ॥ * * किं तद्भगवतः स्थूलरूपं यद्धयेयत्वेनोच्यते इत्यपेक्षायां तद्वदन्नुक्तमुप- संहरति भूद्वीपेति । भुवः तदवान्तरभेदानां द्वीपवर्षाणां भूमिष्ठानां सरितां नदीनामद्रीणां तथा नभसोऽन्तरिक्षस्य समुद्राणां पातालपर्यन्तानां भूविवराणां दिशां नरकाणां भागणलोकस्य नक्षत्रगणलोकस्य ध्रुवमण्डलस्य च भशब्दस्य दीर्घ आर्षः - संस्था विन्यासविशेषाः हे नृप ! मया तव तुभ्यं गीताः कथिताः । एतदेव भ्वादिभगणलोकपर्यन्तं जगत्सकलजीवसमूहस्य धाम्न आश्रय- भूतस्य भगवतः अद्भुतं विचित्रं स्थूलं वपुः शरीरं भवतीत्यर्थः ।। ४० ।। इति श्रीवत्सान्वयपयःपारावार कासुधाकरस्य सर्वविद्यानिधेः श्रीशैलगुरोः सुतेन तच्चरणकमलपरिचर्याप्रसन्न- तत्सूक्तिसमधिगतश्रीमद्भागवतार्थ हृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा कृतायां श्रीमद्भागवतचन्द्रचन्द्रिकाख्यायां श्रीभागवतव्याख्यायां पञ्चमस्कन्धे षडविंशोऽध्यायः ॥ २६ ॥ श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः ॥ समाप्तेयं पञ्चमस्कन्धव्याख्या ॥ ५ ॥ श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
- ६
न इयन्त एव नरकाः किन्त्वेतादृशा अन्ये नरका असङ्ख्याताः सन्तीत्याह एवम्विधा इति । उत्तरत्र स्वर्गादौ इह मनुष्यलोके पुनर्भवे पुनरुत्पत्तौ उभयशेषाभ्यां धर्माधर्मशेषाभ्याम् ॥ ३७ ॥ चतुर्दशधा लोकप्रकारेण स्थविष्ठं स्थूलतममणिष्टं सूक्ष्मतमम् ॥ ३८ ॥ उभयो रूपयोः कस्मिन् रूपे प्रथमप्रतिपत्तिरिति क्रममाह श्रुत्वेति । आत्मानं मनः सूक्ष्मधिया सूक्ष्मरूपोपासनया ॥ ३९ ॥ उक्तार्थमुपसंहरन् प्रतिपत्त्यर्थं सङ्कल्य्याह भूद्वीपेति । सकलजीवानां निकायस्य धाम य आश्रयस्तस्य सकलजीवनिकायो धाम यस्य स तथा वा तस्येश्वरस्याद्भुतं स्थूलं वपुर्मया तव गीतमित्यन्वयः । कीदृशं भूद्वीपादिलोका एव संस्था अवयवाः यस्य तत्तथा तत् ॥ ४० ॥ * वारिजवासावारिजयोनित्रिनयनशतमख मुखसुर मुकुट श्रेणिनिषण्णश्रीपदपीठं ससलिलसलीलहगतिरुचिरुचिरम् ।। मृदुहासेन्द्रानन्दितलोकं दारितदितिसुततति मदगिरिशिखरं कृष्णमकृष्णं चिन्तय चेतः शुचितर मतिगुणयदुकुलतिलकम् ||१|| विजयध्वजतीर्थाय रचिता प्रीतये हरेः । पदरत्नावली नाम पञ्चमस्कन्धसङ्गता ।। २ ।। इति श्रीमन्महेन्द्र तीर्थ पूज्यपाद शिष्य विजयध्वजभट्टारककृत श्रीमद्भागवतटीकायां पदरत्नावल्यां पञ्चमस्कन्धे विंशोऽध्यायः ॥ २६ ॥ समाप्तेयं पञ्चमस्कन्धव्याख्या ॥ ५ ॥ श्रीमज्जीवगोस्वामिकृतः कर्मसन्दर्भः क यथा स्थूलं श्रुत्वा तथा सूक्ष्मच श्रुत्वा स्थूले रूपे आत्मानं निर्जितं कृत्वा शनैः क्रमेण सूक्ष्मं प्रति धिया व्यवसायात्मिकया बुद्धया नयेदित्यन्वयः । पाठान्तरन्तु सुगमं सूक्ष्ममत्र भक्तिमात्रगम्यं रूपं " यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः” इति द्वितीयोक्तेः ।। ३९-४० ।। इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमजीवगोस्वामिकृतक्रमसन्दर्भस्य पविशोध्यायः ॥ २६ ॥ श्रीमद्भागवतं श्रीमद्भागवतं महामृतनिधि संमथ्य सन्दर्भतः कृष्णं पूर्णतमं प्रकाश्य शशिनं हस्तामलक्यादिवत् ॥ यो जानाति तमो विधूय विधिवत् सन्दर्शयन् स्वाश्रितान् जीवान् जीवयतीति सद्गुणगणं तं जीवमीशं भजे ॥ समाप्तेयं पञ्चमस्कन्धव्याख्या ॥ ५ ॥ श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी आदावेव । द्वितीयतृतीयादिषु “वैश्वानरं याति” इत्यादिभिः उपगेयमौपनिषदं रूपं ग्रहीतुमशक्यम् ॥ ३८ ॥ यथा यथावत् स्थूले रूपे निर्जितं वशीकृतमात्मानं मनः ।। ३९-४० ।। सहिष्णुतादिव्यसुधाप्रवाहान् साधून समाकर्ण्य जिजीविषामि । स्वधाष्टर्यदुर्वार भुजङ्गदष्टस्याहो गतिमै कथमन्यथा स्यात् ॥ इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् । षड्विशः पञ्चमे स्कन्धे सङ्गतः सङ्गतः सताम् ॥ २६ ॥ पञ्चमस्कन्धटीका श्रीराधाकृष्णसरस्तटे । कृष्णषष्ठ्यामपुरीयं फाल्गुने भौमवासरे ॥ समाप्तेयं पञ्चमस्कन्धव्याख्या ॥ ५ ॥ ५८० क श्रीमद्भागवतम् श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः॥ [ स्कं. ५ अ. २६ एलो. ३७-४० तथैव धर्मतारतम्यतः इतरत्र स्वर्गादौ पुनर्भवे पुनर्जन्मनि उभयोः धर्माधर्मयोः शेषाभ्याम् ।। ३७ ।। * * आदौ द्वितीये स्कन्धे “वैश्वानरं याति विहायसा गतः” इत्यादिना भूद्वीपादिमयभगवद्रूपश्रवणादिफलं दर्शयन्मुक्तार्थमुपसंहरति । यत्तदित्यादिना । उपगेयं शास्त्रगम्यमपि रूपं वेद ।। ३८-३९ ॥ * * कथम्भूता भूद्वीपादिसंस्था ईश्वरस्य स्थूलं वपुः ॥ ४० ॥ इति श्रीमद्भगवन्निम्बार्कचरणचिन्तकसुधीप्रणीते पञ्चमस्कन्धीये श्रीमद्भागवतप्रदीपे पडिशाध्यायार्थप्रकाशः ॥ २६ ॥ समाप्तेयं पञ्चमस्कन्धव्याख्या ॥ ५ ॥ गोस्वामिश्री गिरिधरलालविहिता बालप्रबोधिनी । एवं गणितान् प्रधानान्नरकान् विशेषतः प्रदर्श्य अन्येपि बहको नरका अधर्मिणां यातना हेतवो यमालये सन्ति, तेषु च पर्यायेणाधर्मिणः सर्व एव पतन्तीत्याह - एवंविधा इति । हे अवनिपते इति सम्बोधनेन यदि तु पृथिवीपालकैर्युष्माभिर्दत्तदण्डास्तर्हि नरके न पतन्तीति सूचयति यथा च स्मृतिः ‘राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । विधूतकल्मषा यान्ति स्वर्गं सुकृतिनो यथा ’ इति । इतरत्र स्वर्गादौ सुखभोगस्थाने विशन्ति । इह मनुष्यलोके पुनर्भवे स्वल्पकालेनैव पुनर्जन्मनिमित्तस्थाने । उभयोर्धर्माधर्मयोः शेषाभ्यां निविशन्ते । आदावेव द्वितीयस्कन्धादावेव ‘वैश्वानरं याती त्यादिनेति शेषः ॥ ५१ ॥ वर्णितं स्कन्धार्थमुपसंहरन्ने- तच्छ्रवणकीर्त्तनादेः फलमाह - एतावानेवेति । चतुर्दशधा चतुर्दशभुवनप्रकारेण । विकल्पितो भगवता रचितः पुराणेषु उपगीयते । यदेतद्भगवतः स्थविष्ठं रूपमनुवर्णितं तदादृतः सादरः सन् यः पठति शृणोति श्रावयति वा स श्रद्धाभक्तिभ्यां विशुद्धा बुद्धिर्यस्य तथाभूतः सन्नुपगेयं वेदतात्पर्यविषयमग्राह्यं सूक्ष्मं तत्कृपां बिना दुर्ज्ञेयं भगवतः परमात्मनो रूपमपि तत्कृपया वेदेत्यन्वयः । ननु श्रवणादेरेवं फलं कथमित्यपेक्षायां भगवन्माहात्म्यादित्यभिप्रेत्य भगवन्तं विशिनष्टि - नारायणस्येत्यादि । स्थविष्ठत्वे हेतुमाह - आत्मेति । आत्मनो भगवतो मायागुणमयं प्रकृतिगुणकार्य भूत्तमित्यर्थः ॥ ५२ ॥ उक्तमेव पुनः स्पष्टयति– श्रुत्वेत्यादि । यथा यथावच्छ्रुत्वा स्थूले निर्जितं स्थिरीकृतम् आत्मानं मनः धिया शनैः सूक्ष्मं रूपं प्रति नयेदिति । इतिशब्दः क्रमबोधकः ॥ ५३ ॥ भूद्वीपादीनां संस्था या मया तव गीता तदिदं सकलजीवनिकायानां धाम आश्रयभूतम् ईश्वरस्याद्भुतं स्थूलं वपुरित्यन्वयः । हे नृपेति स्नेहेन सम्बोध- यन् यद्यन्यत् किञ्चिच्छ्रोतुमिच्छसि तर्हि निश्शङ्कं पृच्छ तद्वदामीति सूचयति ॥ ५४ ॥ ( अस्यां टीकायां श्लोकसंख्या ५४ सं० )
इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना । श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा ॥ १ ॥ श्रीमद्विरिधराख्येन भजनानन्द सिद्धये । श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी ॥ २ ॥ रचिता पञ्चमे तत्र ह्यधस्स्थाननिरूपणे । षड्विंशोऽपि गतो वृत्तिं नरकस्थानरूपकः ॥ ३ ॥ यत्कृपालवलेशेन विवृत्तिः पञ्चमस्य वै । पूतिं गता स सन्तुष्येन्मुकुन्दः शरणं मम ॥ ४ ॥ श्रीकृष्णार्पणमस्तु || श्रीभगवत्प्रसादाचार्यविरचिता भक्तमनोरञ्जनी अथैतत्प्रकरणमुपसंहरन् इदं नरकवर्णनं पापवर्णनं च दिङयात्रमुक्तमित्याह एवमिति । एवंविधा उक्तप्रकाराः, नरकाः यमालये, शतशः सहस्रशः, सन्ति । तेषु सर्वेषु नरकेषु, अधर्मवर्त्तिनः ये केचित्, इह उदिताः कथिताः, अनुदिता अकथि- ताच, ते सर्वे पर्यायेण, हे अवनिपते विशन्ति एव । अथैव, धर्मानुवर्त्तिनः इतरत्र स्वर्गादौ विशन्ति । पुनः भवो जन्म यस्मिंस्त- स्मिन् इहास्मिन्मर्त्यलोके तु, उभयशेषाभ्यां भुक्तावशेषाभ्यां धर्माधर्माभ्यां निविशन्ति संजायन्ते । एवं प्रवृत्तिधर्मवर्त्तिनां मार्गः कथितः । निवृत्तिलक्षणो मार्गः निवृत्तिधर्मप्राप्योऽध्वा तु आदौ द्वितीयस्कन्धे एव, व्याख्यातः । ’ वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपधेन शोचिषा’ इत्यारभ्य कथित इत्यर्थः । एवम् अण्डकोशः प्रवृत्तिधर्मप्राप्यः अण्डकोषः, एतावान् दशलोकात्मकः एव । तर्हि चतुर्दशभुवनात्मकाण्डकोशव्यवहारः श्रूयते स कथमित्यत्राह । यः चतुर्दशधा चतुर्दशविधाण्डकोशव्यवहारः स तु, पुराणेषु निवृत्तिधर्मप्राप्यमहरादिचतुर्लोकांस्तत्र क्षिप्त्वेति शेषः । विकल्पितः विकल्पतया उपगीयते । महरादिभिः सह त्रिलोकी- समाख्या अण्डकोशपक्षादाने तु अतलादिसप्तलोकान् भूर्लोकेऽन्तर्भाव्य महरादींश्चतुरो लोकान् स्वर्गेऽन्तर्भाव्य त्रिलोक्यात्मकोऽण्ड- कोशो बोध्यः ॥ ३७ ॥ * * एतदण्डको शवर्णन श्रवण पठनादिकर्ता णां फलमनुवर्णयति यदेतदिति । महापुरुषस्य भगवतः साक्षात् नारायणस्य यत् एतत्, आत्ममायागुणमयं स्वप्रकृतिगुणप्रचुरं स्थविष्ठं रूपम् अनुवर्णितं, तत् आदृतः आदरपूर्वं यथा तथा, यः पठति, शृणोति श्रावयति च सः, श्रद्धाभक्तिभ्यां विशुद्धा बुद्धिर्यस्य तथाविधः सन्, सन्, अठ उपगेयमुपनिषद्गीतम् गृहीतुमशक्यमपि, परमात्मनः भगवतः रूपं दिव्यं स्वरूपं वेद वेत्ति । स्थूलरूपज्ञानं सूक्ष्मरूपज्ञानफलकमित्यर्थः ।। ३८ ।। * * । स्थूलरूपज्ञानस्य सूक्ष्मरूपज्ञानसाधनत्वमेवाह श्रुत्वेति । यतिर्यत्नवान् पुमान् भगवतः स्थूलं सूक्ष्मं च इत्येवंविधे द्वे रूपे, यथा स्कं, ५ अ. २६ श्लो. ३७-४० ] * अनेकव्याख्या समलङ्कृतम् ५८१ यथावत् श्रुत्वा गुरुमुखादाकर्ण्य, पूर्वं स्थूले रूपे, निर्जितम् आत्मानं मानसं चित्तमित्यर्थः । शनैः धिया, सूक्ष्मं नयेत् । दिव्ये भग- वत्स्वरूपे आसञ्जयेदित्यर्थः ॥ ३९ ॥ किं तद्भगवतः स्थूलं रूपं यद्धयेयत्वेनोच्यते इत्यपेक्षायां तद्वदन्नुपसंहरति भूद्वीपेति । नृप, मया तव तुभ्यं भूर्मही च द्वीपा जम्ब्वादयश्च वर्षाणीलावृतादीनि च सरितस्तत्रत्या नद्यच अद्रयो मेर्वाद्याः पर्वताश्च नभोऽन्तरिक्षं च समुद्राः क्षारोदादयश्च पातालं भूविवराणि च दिशः पूर्वादयश्च नरका रौरवादयश्च भागणलोको नक्षत्र- गणात्मक लोकश्च तेषां संस्था स्थितिः, भागण इन्यत्र भकारस्य दीर्घत्वमार्षम् । गीता एतत्, अद्भुतमाश्चर्यकारि । सकलानां जीवानां निकायः समूहस्तस्य धामाश्रयरूपम् ईश्वरस्य स्थूलं वपुः ज्ञेयम् ॥ ४० ॥ भगवत्प्रसाद इति नामधारिणा रघुवीरदेशिकसुतेन तुष्टये । विहिता मयात्र भवतां सतां हरेर्विवृतिर्हि पञ्चमगभतरञ्जनी ॥१॥ पञ्चमस्कन्धतुङ्गादेरवतारो हरेः सताम् । अनुग्रहाद्यतः प्राप्तस्तस्मै तेभ्यो नमो नमः ॥ २ ॥ इति श्रीधर्मधुरन्धरश्रीधर्मात्मजप्रत्यक्ष पुरुषोत्तमसहजानन्दस्वामिसुतश्रीरघुवीराचार्यसुनुभगवत्प्रसादाचार्यविरचिताया- मन्वयार्थावबोधिन्यां भक्तमनोरञ्जन्याख्यायां श्रीमद्भागवतटीकायां पञ्चमस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥ ॥ इति पञ्चमस्कन्धः समाप्तः ॥ भाषानुवादः राजन् ! यमलोक में इसी प्रकारके सैकड़ो - हजारों नरक हैं । उनमें जिनका यहाँ उल्लेख हुआ है और जिनके विषय में कुछ नहीं कहा गया, उन सभी में सब अधर्मपरायण जीव अपने कर्मों के अनुसार बारी-बारीसे जाते हैं। इसी प्रकार धर्मात्मा पुरुष स्वर्गादि में जाते हैं । इस प्रकार नरक और स्वर्गके भोगसे जब इनके अधिकांश पाप और पुण्य क्षीण हो जाते हैं, तब बाकी बचे हुए पुण्य-पापरूप कर्मोंको लेकर ये फिर इसी लोकमें जन्म लेनेके लिये लौट आते हैं ।। ३७ ॥ * इन धर्म और अधर्म दोनोंसे विलक्षण जो निवृत्तिमार्ग है, उसका पहले ( द्वितीय स्कन्ध में ) ही वर्णन हो चुका है। पुराणों में जिसका चौदह भुवनके रूपमें वर्णन किया है, वह ब्रह्माण्डकोश इतना ही है । यह साक्षात् परम पुरुष श्रीनारायणका अपनी मायाके गुणोंसे युक्त अत्यन्त स्थूल स्वरूप है। इसका वर्णन मैंने तुम्हें सुना दिया । परमात्मा भगवान्का उपनिषदों में वर्णित निर्गुण स्वरूप यद्यपि मन-बुद्धिकी पहुँच के बाहर है तो भी जो पुरुष इस स्थूल रूपका वर्णन आदरपूर्वक पढ़ता, सुनता या सुनाता है, उसकी बुद्धि श्रद्धा और भक्तिके कारण शुद्ध हो जाती है जौर वह उस सूक्ष्म रूपका भी अनुभव कर सकता है ॥ ३८ ॥ * * यतिको चाहिये कि भगवान् के स्थूल और सूक्ष्म दोनों प्रकारके रूपोंका श्रवण करके पहले स्थूल रूप में चित्तको स्थिर करे, फिर धीरे-धीरे वहाँ से हटाकर उसे सूक्ष्ममें लगा दे ॥ ३९ ॥ परीक्षित्! मैंने तुमसे पृथ्वी, उसमें अन्तर्गत द्वीप, वर्ष, नदी, पर्वत, आकाश, समुद्र, पाताल, दिशा, नरक, ज्योतिर्गण और लोकोंकी स्थितिका वर्णन किया । यही भगवान्का अति अद्भुत स्थूल रूप है, जो समस्त जीवसमुदायका आश्रय है ।। ४० ।।
- इति षड्विंशोऽध्यायः ॥ २६ ॥
- समाप्तोऽयं पञ्चमः स्कन्धः ॥ ५ ॥ हरिः ॐ तत्सत्
- exe
- परिशिष्टम् १
- mun
- श्रीकृष्णः शरणं मम । श्री गोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः ।
- श्रीभागवतप्रतिपद्मणिवरभावांशुभूषितमूर्तिर्विजयते ।
- श्रीमद्वैश्वानरावतारशुद्धाद्वै तनिर्गुणभक्तिमार्गप्रवर्त्तकाचार्यचक्रचूडामणिश्रीवल्लभाचार्यचरणविरचिते
- सप्रकाशतत्त्वार्थदीपनिबन्धे तृतीयं
- श्रीमद्भागवतार्थप्रकरणम् ।
- सप्रकाशम्
- ( श्रीगो० श्रीपुरुषोत्तमचरणप्रणीतावरणभङ्गाख्यव्याख्यासमेतम् )
- अथ पञ्चमस्कन्धार्थः ।
- निबन्धः – बुद्धिप्रेरककृष्णस्य पादपद्मं प्रसीदतु । ध्यानासमर्थजीवानामस्माकं सर्वदा स्वतः ॥ १ ॥
- tersofai स्थri frरूपयन्ननौचित्यमाशङ्कच विसर्गोप्येवमेव वर्णित इति पूर्वस्कन्धार्थमनुवदति पौरुषेणेति । यद्वा । स्थानं निरूपयन्नुक्तविवक्षितयोः सङ्गतिमपि वदन् पूर्वस्मादस्मिन् वैलक्षण्यं वक्तु पूर्वस्कन्धार्थमनुवदति पौरुषेणेति ।
- श्रीमत्पुरुषोत्तमपादप्रणीततत्त्वदीप प्रकाशावरणभङ्गः ।
- अथ पञ्चमस्कन्धे प्रकाशावरणभङ्गः
- पञ्चमस्कन्धार्थस्यातिदुरूहतया तद्बोधार्थं भगवत्प्रसादरूपं साधनमत्यावश्यकमिति ज्ञापनाय स्वीयानामर्थे तत्प्रार्थ- यन्ति (मूले) बुद्धीत्यादि । ध्यानासमर्थजीवानामस्माकमिति । अस्मदीया ये ध्यानासमर्थजीवास्तेषां प्रसीदतु । तथा च द्वितीय- स्कन्धे सङ्क्षेपतया स्थूलरूपध्यानस्योक्तत्वाद् विशेषतस्तद्ध याना समर्थनामर्थे भगवत्पादपद्मं प्रसीदत्वित्यर्थः ॥ १ ॥
- अथ पञ्चमस्कन्धार्थं निबन्धन्तो द्वादशस्कन्धे महापुराणीयेषु दशलक्षणेषु तृतीयस्य वृत्तिरूपत्वात् ‘तस्याश्च वृत्तिर्भूतानि भूतानां चराणामचराणि च ‘कृता स्वेन नृणां तत्र कामाच्चोदनयापि वे ‘तिलक्षणाद् भूतानां जीविका तृतीयलक्षणत्वेन सिद्धयति । द्वितीयस्कन्धे तु’ वैकुण्ठविजयात्मकं स्थानं तृतीयलक्षणत्बेनी क्तम् । सर्गविसर्गयोस्तु सामान्यविशेषभावसद्भावाद्विशेषस्याभिप्रेत- त्वेपि तस्य लक्ष्यैकदेशत्वेन न सामान्यविरोध इत्यनौचित्यं सुपरिहरम् । प्रकृते तु तथात्वस्यास्फुटत्वात्कथं परिहार इति हृदि कृत्वा तत्परिहरन्तो व्याख्येयप्रन्थमवतास्यन्ति अथेत्यादि, अत्र बुद्धिप्रेरकेतिमङ्गलकारिका स्पष्टत्वात्प्रभुभिर्न व्याख्याता ।
- अयमर्थः । वृत्तिर्हि लौकिकरीत्या स्थितिसाधनम् । न हि जीविकाविरहितः कोपि तिष्ठतीति । प्रकृते तु तत्तन्मर्यादया तत्तत् स्थितिं प्रति कारणभूता भगवतो विशिष्टजयप्रकाशिका या स्थितिक्रिया सा स्थानम् । एवं स्थितिसाधनत्वस्योभयत्र तौल्येपि
- सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे
- निबन्ध: - पौरुषेण तु या लीला सा चतुर्थे निरूपिता । स्थानलीला पञ्चमे तु पविशत्या निरूप्यते || २ ||
- प्रकाशः – तत्र हीतरसाधनमर्यादया साध्यानपि धर्मादीनथस्तेषु तेषु साधितवानिति निरूपितम् । अत्र तु मर्यादा- रूपैव लीला निरूप्यत इति वैलक्षण्यमितिभावः । अतः परं “स्थितिवैकुण्ठविजयः” इतिवाक्यात्तस्य च स्वाधीनीकरणरूपत्वात्स च प्राकृतेषु चतुर्विंशतिधा जीवब्रह्मभेदेनाऽऽत्मनि द्वेधेति षडविंशतिधेति तावद्भिरध्यायैः स्थानलीला पञ्चमस्कन्धे निरूप्यत इत्याह स्थानेति । स्थीयतेऽस्मिन्निति स्थानं स्थितिरेव च स्थानमित्युभयार्थकं स्थानपदं मूले प्रयुक्तमिति ज्ञेयम् । अत एवोद्देशे स्थानमित्युक्त्वा लक्षणोक्तौ स्थितिरित्युक्तम् । तथाच पुरुषविशेषकर्मविशेषस्थानविशेषाणामन्योन्यसम्बन्धनियमो भगवत्कृत एवेति सोऽत्र निरूप्यत इत्यर्थः । अत एव विशिष्टो जय इतिभावः ॥ २ ॥
- एवं स्थितिपक्षमुक्त्वा द्वितीयपक्षेऽपि षड्विंशतिचैव तदित्याह स्थानं त्विति ।
- निबन्ध: - स्थानं तु त्रिविधं प्रोक्तं देशकालख भेदतः । कालातिक्रमणे काले स्वे स्थितिर्नाऽन्यथा भवेत् || ३ ||
- प्रकाशः- आद्यपक्षव्यवच्छेदाय तुशब्दः । देशस्त्रिविधो लोकभेदात् । " द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावा- दित्य एकविंशः” इतिश्रुतेः काल एकविंशतिविधः । व आत्मा द्विविध इति तावद्भिरध्यायैस्तन्निरूप्यत इत्यर्थः । नन्वेवं मूल- लक्षणमनुपपन्नं देशादेर्भगवजयत्याभावादित्याशङ्कय स्थीयते ऽस्मिन्निति व्युत्पत्त्या स्थानस्य स्थितिविशिष्टत्वेन त्रिष्वपि युग- पत्स्थितिर्भगवतैव कर्तुं शक्यते तन्निरूपणं भगवज्जयस्यैव निरूपणमित्युपपादयितुं तत्स्थिति साधनानि मिथो विरुद्धानि निरूप- यति, कालातिक्रमण इतिसार्थाभ्याम् । अत्र कालस्येश्वररूपत्वादात्मस्वरूपं कालश्वेत्येका कोटिः । देशोऽपरा कोटि: । तेन स्वरूपस्थितिनिरूपणेनैव कालस्थितिरपि निरूपिता भवष्यिति । काले जिते सति कालस्य स्वाधीनत्वं भवतीति तदैव तस्मिन् स्थिति- रित्यर्थः । स्त्रे स्वकीये स्वाधीन इति यावत् स्वस्मिन्निति वा । आत्मस्वरूपस्थितौ कालस्य प्रतिबन्धकत्वात्तज्जयस्य प्रतिबन्धका- भावत्वेन कारणता । वेदमार्गस्य तु स्वरूपेणैव कारणतेति विशेषः । अत एव न तस्य भिन्नं प्रकरणम् ॥ ३ ॥
- यथा मोक्षसाधको विसर्ग: पूर्ण मन् स्कन्धे उक्तस्तथात्र मोक्षसाधकं स्थितिसाधनमप्यलोकिकमुच्यते । अतः स्थितिसाधकस्यैव लक्षणत्वात् प्रत्यक्षस्य सामान्यविशेषभावस्याभावेप्येककार्यकारिलोन गुप्तस्य तस्य सत्त्वान्नानौचित्यमिति बोधयितुं तदनुवदती- त्यर्थः । न चात्र मानाभावः श्रुतार्थापत्तिसिद्धत्वादिति । पौरुषेति विसर्गाख्येन पुरुषकार्येण । उक्तरीत्या अनौचित्यपरिहार- स्यैकत्र दृष्टशास्त्रार्थ न्यायेनात्रापि सुबोधत्वान्नैतावदेवानुवादप्रयोजनमित्यरुच्या पक्षान्तरमाहुः यद्वेत्यादि । सङ्गतिमिति अवसर - रूपां सङ्गतिम् । तेषु तेष्विति धर्मादिप्रकरणिषु जीवेषु । अमिन पक्षे सामर्थ्य पौरुषपदस्यार्थ इति ज्ञेयम् । एवं चानुवादस्यो- भयमपि प्रयोजनमिति फलति । एवं पूर्वस्कन्धार्थानुवादप्रयोजनमुक्त्वा द्वितीयस्कन्धसुबोधिन्युक्तस्याध्यायसङ्ख्या तात्पर्यस्य विवक्षितां बोधयितुमाह अतः परमित्यादि । स चेति विजयश्च । अत्र स्थानपदस्य करणव्युत्पत्तिरपि विवक्षिता, ‘करणाधि- करणयोश्चे’त्यनुशासनादित्याशयेनाहुः तथा चेत्यादि । अत एवेति उक्तनियमकरणादेव । एवं चात्रोक्त सम्बन्धनियमरूपा या स्थितिक्रिया सा फललोन भगवल्लक्षणम् । अधिकरणव्युत्पन्नस्थितिरूपाः प्राकृतादयस्तु व्यापारतया तथाभूता:, तेषु भगवतो या स्थितिः सोक्तफलकरणतया तथा भूतेति ज्ञेयम् । न चाधिकरणभूतानां कथं व्यापारत्वमिति शङ्कथम् । सिद्धान्ते अवान्तर- द्वारत्वमात्रेणैव व्यापारत्वस्य विवक्षितत्वाद् अन्यथाकर्तुं समर्थोन तेषां तत्क्रियाजन्यत्वस्याप्यङ्गीकत्तु शक्यत्वाच्च ॥ २ ॥ द्वितीयपक्ष इति अधिकरणव्युत्पन्नत्वपक्षे । त्रय इमे लोका इति, अत्र लोकपदेन तद्वासिनो ज्ञेया इति न कोपि विरोधः । एवमपि प्रकरणविभागोत्राभिप्रेत इति बोध्यम् । एकविंशे आदित्यनिरूपणात्, द्वाविंशे ऋषीणामग्रिमे शिशुमारावतस्येत्यात्म- द्वयस्यात्रिमेषु अन्तरिक्षादिबिलान्तलोकसङ्कर्षणलोकनरकलोकात्मकत्रिविधदेशस्य, नन्वोकविंशे आदित्यनिरूपणेपि पूर्वेषु लोका- दीनामनिरूपणात्कथं श्रुत्युक्तकालनिरूपणमिति शङ्कथम्, अष्टादशादित्रये लोकस्य त्रिविधजीवानां कथनस्य स्फुटोन पञ्चदशाव- धिकालप्रकरणत्वस्याङ्गीकृतलोन षोडशसप्तदशयोरपि ‘सन्देश’ न्यायेन कालोपादेयनिरूपणेन च तथा शक्यवचनत्वादिति । अनु- पपन्नमिति अव्याप्तिग्रस्तम् । भगवज्जयत्वाभावादिति भगवत्कर्तृकजयक्रियात्मकत्वाभावात् । तन्निरूपणमिति देशाद्यात्मकाधि- करणनिरूपणम् । स्थितिरित्यर्थ इति पूर्वोक्तसम्बन्धनियमरूपा जीवानां स्थितिरित्यर्थः । तथा च स्थितिविचारे प्रकरणद्वयमेव- मित्यर्थः । कारणतेति स्वरूपस्थिति प्रति कारणता । अत एवेति स्वरूपान्तः पातित्वादेव || ३ || स एव तथेति वेदमार्ग एव स्वरूपस्थितिहेतुरित्यर्थः । ननु देशस्थितावपि वेदमार्गस्यैव हेतुत्वम् । कर्मणामपि वेदेनैव बोधितत्वात् । अतः कथं स्वरूपस्थिति
- दित्यर्थ:
- ।
- १. मोक्षसाधकस्य स्थितिसाधनस्यालौकिकस्य पञ्चमस्कन्धवाच्यत्वे मानाभावो न शङ्कयः । द्वितीप्रस्कन्यो तलक्षणानुपपते रेवात्र मानत्वा-
- पञ्चमस्कन्धार्थः ।
- निबन्धः मर्यादायां भवेद्देरास्थितिरित्येष निश्चयः । स्वरूपस्थितिहेतुस्तु वेदमाग न चाऽपरः । ४ ।।
- प्रकाशः – मर्यादा कर्ममर्यादा । अनेन कर्मणा अत्रैव स्थितिरिति नियमलक्षणा । कर्मापि त्रिविधमिति तादृशेषु देशेष्वेव स्थितिस्तदा भवतीत्यर्थः । स्वरूपेति । आत्मस्वरूप इत्यर्थः । चित्तशुद्धिहेतुकर्मणा कृत्वा स्वात्मस्वरूप स्थितिज्ञाने सत्या- मत्वेन भगवज्ज्ञाना ( द्वावा ) द्भगवत्स्वरूपे स्थितिर्भवति । तदुभयनिरूपको वेद इति स एव तथा । देशस्थितिहेतुभूतकर्मणां तु वेदबोधितत्वेऽपि न वेदमार्गीयत्वम्, वेदतात्पर्याविषयत्वात् । “सर्वे वेदा यत्पदमामनन्ति” इति श्रुतेः । " वेदैश्व सर्वैरहमेव वेद्यः” इति स्मृतेश्च ब्रह्मण्येव तेषां तात्पर्यात् । यत्तात्पर्यविषयत्वं मुख्यतया यस्य तस्य तन्मार्गीयत्वम् । किं च मार्गो हीष्टदेश- प्रापकः । वेदमार्गश्च ब्रह्मरूपेष्टदेशप्रापक एव । तत्रैव तेषां तात्पर्यात् । अतो देशप्रापककर्मणां ब्रह्माप्रापकत्वाद्युक्तमतन्मार्गीयत्वम् । तन्निरूपणं त्वतिबहिर्मुखरागिणां यथा कथञ्चिद्वैदिककर्मणि प्रवृत्त्यर्थम्, ‘रोचनार्थे ‘ति वाक्यादिति भावः । अत्राऽयं भावः । ज्योतिश्चक्रे हि ग्रहादीनां तत्तत्कालविशेषस्वरूपज्ञापकत्वावच्छेदकत्वे निरूप्यते । एतच्च तेषां कालासाधारणधर्मत्व एव सङ्गच्छते । तच्च कालाधिकरणकत्वे ग्रहादीनां चोत्पत्त्यादिश्रवणेन कालसहजधर्मत्वं न वक्तु शक्यम् । महादीनां च न स्वतः कालधर्मत्वेन तत्र स्थितौ सामर्थ्यम् । अत आधिदैविककाले जिते तस्य स्वाधीनत्वे सत्याध्यात्मिकादेरपि तथात्वं भवतीति तेषां तेषां ग्रहादीनां तादृक्ताद्यग्धर्मरूपत्वप्रकारेण तत्र स्थापनम्, कालस्य च तदवच्छेद्यत्वं भगवतैव कर्तुं शक्यम् । अन्यत्र कालजयाभावाद् ग्रहादीनां चाऽनधीनत्वात् । तथा च ज्योतिश्चक्रनिरूपणेन विशिष्ठो जय एवं हरेर्निरूपितो भवति कर्मफल- नियामकत्वं तत्तद्देशस्थितेस्तत्तत्कर्मफलरूपत्वं च कर्मणां देशानां च न सहजम्, तथा सति तत्र भगवत्कर्तृत्वं भज्येत । “भवन्ति भावा भूतानां मत्त एव पृथग्विधाः " " फलमत उपपत्तेः” इत्यादिस्मृतिन्यायविरोधाच्च न तथा वकु शक्यम् । एवं सति कर्मजयं विना नै मर्यादाकर्तृत्वं सङ्गच्छते । कर्म च भगवद्र पमेवेति पुरस्तान्निरूपितम् । अतोऽपि नाऽन्यस्य तज्जयः सम्भवति । तथा च मर्यादानिरूपणेन विशिष्टः कर्मजय एव भगवतो निरूपितो भवति । “परात्तु तच्छ्रुतेः” इति न्यायेन कर्तॄणामपि भगवदधीनत्वात्तथा वेदमार्गस्य च स्वरूपस्थितिहेतुत्वं न स्वसामर्थ्येन, ‘यत्र वेदा अगेदा:” ययो वाचो निवर्तन्ते” इत्यादि- श्रुतेः । “नाहं वेदैः” इतिवाक्याच । स्वरूपस्य ब्रह्मलोन गेदानियम्यत्वाच्च न तथा वक्तु शक्यम् । “असङ्गो ह्ययं पुरुः” इति श्रुतेर्भगवत्यन्यस्य स्थितिरपि न सम्भवति । तथा च वेदवैयर्थ्य मोक्षोच्छेदश्च स्यात् । “सर्वे वेदा यत्पदमामनन्ति” “ब्रह्मविदा- प्नोति परम्” इत्यादिश्रुतिभिश्च तन्निरूप्यते । एवं सति स्वाधीनजीवस्वरूप ब्रह्मस्वरूपस्य वेदादिसकलप्रमाणनियामकस्यैोद क शक्यं नाऽन्यस्य । एवं सति स्वरूपस्थितिनिरूपणेनाऽत्र विशिष्टः स्वरूपजय एवोक्तो भवति, भगवत: असङ्गित्लोपि मुक्तजीवा- श्रयत्वकरणं भगवतः स्वजयः ॥ ४ ॥ e Ph
- अत एतत्त्रयं भगवतैव कर्तुं शक्यं नान्येन तदेवाह त्र्यं भगवतेति ।
- निबन्ध: - त्रयं भगवता शक्यं कर्त्तुं वा यदि मन्यते । अतो वैकुण्ठविजयः स्थानमत्र निरूपितम् ॥ ५ ॥
- |
- ܀
- प्रकाशः – यदि वा भगवान् मन्यते अनेन जीवेनेदं कारयिष्यामीति तदा स्वसामर्थ्यं दत्त्वा तथा कारयतीति । अत एव प्रियव्रते दिवसकर्तृत्वमितिभावः । यद्वा । नन्वेवं चेत्स्वरूपस्थस्य भरतस्य हरिणे स्थितिरनुपपन्नेत्याशङ्कय तदपि विशिष्ट - जयनिरूपकत्वमेत्रेत्याह वा यदि मन्यत इति, यदि भगवान्मन्यते - इच्छति तदा वा विकल्पेनाऽन्यथापि त्रयं कर्तुं तस्यैव शक्य- मिति तन्निरूपणेनाऽपि विजय एव निरूप्यत इत्यर्थः । फलितमाह अत इति । यतः सर्वैः प्रकारैर्जय एवं निरूपितो भवत्यतो हेतोरेव स्थानलक्षणं वैकुण्ठविजय इति निरूपितमित्यर्थः । अत एव वैकुण्ठपदमपि । तत्कल्पितवैकुण्ठलोकाद्यथा जयादेः पुनर्जन्म तथाऽत्र भरतेऽपि करिष्यतीति ज्ञापनार्थम् । उभयत्रापि कर्ममार्गेण भजनं जन्मनि हेतु: । “येऽनिमित्तनिमित्तेन” इति
- प्रत्येव हेतुत्वमुच्यत इत्याकाङ्गायामाहुः देशेत्यादि । तथा चैवं वेदमार्गस्य स्वरूपस्थितिहेतुत्वसाधनेन कालस्य तथात्वं निवारि- तम् तेन कालवेदमार्गयोर्मियो विरोधो निरूपितः । अतः परं ‘त्रयं भगवते ‘ति कारिकां विवृण्वन्तः कालादिजयस्य भगवत्कृति- साध्यतां व्युत्पादयन्ति अत्रायं भाव इत्यादि । एतच्चेति ज्ञापकत्वमवच्छेदकत्वं च । तदिति कालासाधारणधर्मत्वम् । तत्र स्थितौ सामर्थ्यमिति ज्योतिश्चक्रस्थितौ सामर्थ्यम् । विविष्टो जय इति तादृशः कालजयः । अन्यत्रेति भगवदतिरिक्ते । एवं सार्द्धाभियां लक्षणेऽव्याप्तिः परिहृता । देशानां चेति चकाराज्जीवानाम्, न तथेति न सहजम् । पुरस्तादिति सर्वनिर्णये । तथेति भग- वज्जितत्वम् ॥ ४ ॥
- एतत्त्रयमिति कालजयो देशजयः स्वरूपजयश्चेति त्रयम् ।
- ननु एवं चेदिति, ननु कालकर्मदेशानां भगवदधीनत्वं चेत् । अनुपपन्नेति भगवदीयत्वेन भगवद्रक्षितत्वादनुपपन्ना । अन्यथापि त्रयं कर्तुमिति, जितमप्यजितं कर्तुम् । उभयत्रापीति भरते जयादौ च । भरतस्य कर्ममार्गेण भजनम् ‘आराधनं
- ४
- सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे
- वाक्यात । यद्यप्यन्यत्रापि देवस्वरूपस्थिती निरूप्येते तथापि न तयोः स्थानलीलायां प्रवेशः, वक्ष्यमाणरूपत्वाभावादिति मनसि कृत्वाऽऽह अत्रेति । पञ्चमस्कन्ध एवेत्यर्थः ॥ ५ ॥
- स्थानलीलायाः षड्विंशतिभिर्निरूपणे तात्पर्यमाह कालेनेति ।
- निबन्धः — कालेन सह तचानि षडविंशतिविधानि हि । समुदायेन तत्तेषु कालादिभयमीर्यते ॥ ६ ॥
- प्रकाशः – तन्मात्रमहाभूतेन्द्रियान्तः करणपुरुषरूपाणि तत्त्वानि । ततः किमत आह तत्तस्मात्कारणात्समसङ्घ चाध्याय - समुदायनिरूपणेनाऽत्रापि तथा । अत्राऽयमर्थः । तत्त्वेषु सर्वेषामासत्त्यभावाय आचार्यैः कालतत्त्वेषु प्रविष्ट इति तद्भयं तेष्वस्तीति ज्ञापनाय हि तत्त्वेषु परस्यापि कालस्य गणना क्रियते । तथा च कालभयसहिततत्त्वसमसङ्घयाध्यायनिरूपणेनाऽत्रापि स्थानलीलामध्यपातिष्वपि कालभयमस्तीति ज्ञाप्यते । मर्यादामार्गे तेषां बलिष्ठत्वात् । पुष्टिमार्गे परं तेषां बाधनं भक्त्या । अत एव भरते तद्भयं वक्ष्यते । आदिपदात्कर्म । यद्वा । तत्तेषु तदीयेषु स्थानमार्गीयेषु तेषु वक्ष्यमाणेषु यथा तत्त्वेषु सर्वेष्वेव समुदायेन स्थितेषु कालभयं कस्यचित्कदाचिदनाशेपि न तद्भयनिवृत्तिस्तत्स्वरूपस्यैव सभ्यत्वात्तथाऽत्रापि समुदायेनैव तदुच्यत इत्यर्थः । यथैकवृक्षच्छेदेपि वनच्छेदप्रयोगस्तथा ऽत्रैकस्य भरतस्यापि तद्वयनिरूपणेन तन्मार्गीयाणामेव सभ्यत्वं निरूपितं भवति । तथा च मर्यादामार्ग एव स भय इति भावः ॥ ६ ॥
- एवं स्कन्धार्थं निरूप्य प्रकरणार्थमाह स्वरूपस्थितीति ।
- निबन्धः - स्वरूपस्थितिमर्यादा पञ्चदश्या निरूप्यते । अर्धमासाधिपस्यैताः कलाः पञ्चदशस्मृताः ॥ ७ ॥
- प्रकाश: – एतेनैव स्वरूपस्थितिरितिलक्षणा । स्वरूपस्थितौ हि मनः साधनम् । तच्च चन्द्रात्मकम् । स च पञ्चदश- कलाभिः सम्बद्ध एव पूर्णो भवति । मनोपि सर्वसाधनसम्पत्त्या पूर्णमेव तथा । अतस्तत्कलारूपसाधनरू पैरेवाध्यायैर्निरूप्यत इत्यर्थः । देवासुरपक्षपातिनो मासात्मककालस्यार्द्ध देवं भवति । तस्यापि स्वरूपस्थितिहेतुत्वं “अग्निर्ज्योतिरहः शुक्लः” इति वाक्येन भगवता निरूपितम् । अत एव स्मृता इत्युक्तम् । तथा चाऽर्धमासाधिष्ठातुर्देव कालस्य कलारूपा एव तेऽध्याया इतिसङ्ख्चया निरूप्यत इत्याह अर्धमासेति । षड्विंशतिसङ्ख्यायां कालस्यापि प्रवेशात्तत्कलानामपि निरूपणमितिभावः ॥ ७ ॥
- अत्राऽवान्तरप्रकरणार्थान् वस्तत्रोपपत्तिमप्याह वेदमार्गेष्वति ।
- निबन्ध: - वेदमार्गेषु सर्वेषु द्वाभ्यामेव व्यवस्थितिः । कृष्णेन योगमार्गेण ज्ञानेनाऽप्यथवा क्वचित् ॥ ८ ॥
- प्रकाशः - वेदनिरूपितमार्गेषु कर्मादिषु मुख्यतयेति शेषः । तदेवाह कृष्णेनेति । कृष्णेनेति प्रथमप्रकरणार्थः । योगमार्गे- णेति द्वितीयस्य । ज्ञानेनेति तृतीयस्य ॥ ८ ॥
- प्रकरणार्थानुक्त्वाऽध्यायान्विभजते षड्भरिति ।
- निबन्धः – षड्भिरष्टाभिरेकेन तथाऽध्यायैर्निरूपणम् । स्थितिर्भगवता मुख्या तदभावे तु योगतः ॥ ९ ॥
- तस्याऽप्यभावे ज्ञानेन नाऽन्यो मागोंऽत्र सम्मतः ।
- प्रकाशः – भगवतः षड्गुणत्वाद्योगस्याष्टाङ्गत्वाज्ज्ञानस्य चैकविधत्वात्तावद्भिस्तत्तन्निरूप्यत इत्यर्थः । नन्वेकेनैव स्थिति- सम्भवे त्रयाणां निरूपणं व्यर्थमित्याशङ्कय तत्र हेतुमाह स्थितिरिति । उत्तममध्यमाधमभेदेन त्रयाणां कथनमित्यर्थः । ज्ञानेन अन्योक्तज्ञानेनेत्यर्थः । तद्वचाख्यानरूपं परोक्षवादस्येति ज्ञेयम् । त्रितयनिरूपणस्य प्रयोजनान्तरमप्यस्तीत्याह नाऽन्य इति । भगवत इहमान’ इत्यादिवाक्ये ज्ञेयम् । अन्यत्रापीति पुराणान्तरेपि || ५ || आचार्यै रित्यस्य ‘गणना क्रियत’ इत्यनेन सम्बन्धः । तेषामिति स कालानाम्, तत्त्वानाम् । हिशब्देनैव हेतोर्लाभे तत्पदेन पुनस्तत्परामर्शो न युज्यत इत्यरुच्या व्याख्यानान्तरमाहु: यद्वेति । तदिति कालसाहित्यम् । तद्भयनिरूपणेनेति कालधर्मभयनिरूपणेन ॥ ६ ॥
- एवं पञ्चभिः स्कन्धार्थो विचारितः । अतः परं सार्द्धाष्टभिः प्रकरणार्थं विचारयन्ति एवं स्कन्धार्थमित्यादि । इति लक्षणेति स्वरूपस्थितिलक्षणा मर्यादा । तत्रेति मुख्यप्रकरणविभागे ॥ ७ ॥ मूले द्वाभ्यामिति कालदेशाभ्याम् ॥ ८ ॥ । ॥
- अधमभेदेनेति अत्र निकृष्टाधिकारिणः सुमत्यादयः पञ्चदशोक्ता ज्ञ ेयाः । तद्वद्याख्यानरूपमिति तत् अन्योक्तज्ञानं परोक्षवादस्य व्याख्यानरूपं योगस्यैव शेषभूतमित्यर्थः । तेषामिति त्रयाणाम् ॥ ९३ ॥ मेलनादिति स्थितिरूपात्संसर्गात् । मूले गुणानामित्यादिगुणानां तुल्यभावो भूमाविति शेषः । विशेषतस्तु जम्दुद्वीपे तुल्यभावः ।
- क
- पञ्चमस्कन्धाथः ।
- अत्र वेदमार्ग उत्तमत्वादिप्रकारादन्यस्याऽसम्भवादत्र चैतेषामेव तथात्वेन निरूपणादेतदतिरिक्तमार्गाणां षोडशपदार्थषट्पदार्थ- तत्त्वज्ञानादिप्रकाराणामवैदिकत्वान्न स्वरूपस्थितिहेतुत्वमिति ज्ञापनाय तेषां निरूपणमित्यर्थः ॥ ९३ ॥
- अभिमप्रकरणार्थं वदस्तस्यैकादशभिर्निरूपणे हेतुमाह भूमाविति ।
- निबन्ध: - भूमौ नवविधं स्थानं गुणानां सहमेलनात् ॥ १० ॥
- अतोऽत्र नवखण्डा हि षोडशे विनिरूषिताः ।
- प्रकाशः —— गुणानां भूम्या सह मेलनाद्गुणानां चाऽन्योन्यमेलनेन नवविधत्वाद्भूमौ नव खण्डाः षोडशाध्याये निरूपिताः ॥ १०३ ॥
- निबन्धः सत्त्वेनैवोर्ध्वगमनं तमसाधऽच निश्चितम् ॥ ११ ॥
- अत एकादशाध्यायास्त्रिलोकस्थानवर्णने ।
- प्रकाशः तेन मध्यदेशस्थितिर्नवविधापि भवति । ऊर्ध्वाधोलोकस्थितिः सत्त्वतमोभ्यामेव भवतीति ज्ञापयितुमेकादशा- ध्याया देशस्थितिवर्णने कथिता इत्यर्थः ॥ ११३ ॥
- ननु सत्त्वगुणस्योत्तमत्वेन तत्कार्योर्वलोकस्थितिरेव पूर्वं वक्तु युक्ताऽतः कथं प्रथमं मध्यदेशस्थितिवर्णनं तत्रापि जम्बूद्वीपस्येत्यत आह गुणानामिति ।
- निबन्ध: - गुणानां तुल्यभावस्तु जम्बूद्वीपे विशेषतः ॥ १२ ॥
- अन्यत्र तत्तत्प्राधान्यं तेनाऽऽदौ विनिरूपितम् । अतिदेशप्रकारेण यथा सर्वत्र तद्भवेत् ॥ १३ ॥
- प्रकाशः — अत्र त्रयाणामपि गुणानां कथनं भविष्यत्यन्यत्रैकैकस्येत्यस्यैव पूर्वं निरूपणमित्यर्थः । तत्रापि पूर्व जम्बूद्वीपस्य वर्णने हेतुमाह अतिदेशेति । भूस्थानवर्णने जम्बूद्वीपनिरूपणं तु यथाऽत्र गुणानां तुल्यभावस्तथाद्वीपान्तरेपीति ज्ञापनाय कृत- मित्यर्थः । अन्येषां भोगस्थानत्वाद्भोगस्य च कर्मजन्यत्वात्कर्मणश्चाऽत्रैव सम्भवादस्योपजीव्यत्वमित्यपि पूर्वं निरूपणमिति ज्ञेयम् । वस्तुतस्तु भक्तेरत्र प्राचुर्यात्पूर्वं निरूपणम् । अत एव “अहो अमीषाम्” इत्यादीनि देववाक्यानि ॥ १३ ॥
- अत्राऽध्यायान् विभजन् भूमेः पञ्चभिरितरयोस्त्रिभिस्त्रिभिश्च निरूपणे हेतुमाह भूतेति ।
- निबन्धः – भूतप्राधान्यमत्रेति पञ्चाध्याया निरूपिताः । भूमावन्यत्र तु गुणास्त्रितयं त्रितयं ततः ।। १४ ।।
- प्रकाशः - भूमौ महाभूतानामेव प्राधान्यमन्यत्रोर्ध्वाधोलोकयोः सत्त्वादिगुणा एव प्रधानभूता इति तावद्भिस्तावद्भिर- ध्यायैस्त्रितयनिरूपणमित्यर्थः ॥ १४ ॥
- नन्वधोदेशमानं निरूप्य पश्चान्नरकवर्णने को हेतुस्तत्राऽऽह गुणेति ।
- निबन्धः – गुणस्थित्या त्वधः प्राप्तिस्तेनाऽन्ते नरकाभिधा । स्वस्मिन् स्थितिः कृष्णदेवादिति षड्भिनिरूप्यते ॥ १५ ॥
- प्रकाश : - " अधो गच्छन्ति तामसाः” इति भगवद्वाक्यात्तमोगुणे स्थितानां पर्यवसानं तत्रैवेति ज्ञापनायान्ते नरकोक्तिरित्यर्थः ।
- एवं प्रकरणार्थान्निरूपयाऽध्यायार्थान्वदन्नाद्यप्रकरणस्थाध्यायार्था उच्यन्त इति ज्ञापनाय पूर्वोक्तार्थ स्मारयितुमनुवदति स्वस्मिन्निति । सेवितादेव भगवतः फलं भवतीति ज्ञापनाय देवपदम् । देवो हि पूज्यो भवति । अत एव पूर्व निवृत्तिनिरतस्य सम्पन्नसाधनस्याऽस्य भगवति स्थितिर्न जाता । किं तु भगवान् वैपरीत्येन प्रवृत्तिपरं विधाय स्वकार्यं कारयित्वा स्वस्मिन् स्थापितवान् । एवं च सति तत्कृतसाधनानां भगवताऽऽत्मसात्करणेन खकार्यकरणेन नियोजन एवोपयोग इति ज्ञेयम् । अत एव तस्मिन्नेव तथा ज्ञापनं नाऽन्यस्मिन् ॥ १५ ॥
- अत्राsध्यायार्थानाह ऐश्वर्येति ।
- निबन्धः – ऐश्वर्यवीर्ययोराद्ये श्रियः कीर्तेस्तथा हरेः । ज्ञानवैराग्ययोश्चैव क्रमात्पञ्चसु रूपणम् ।। १६ ।।
- विनिरूपितमिति भावे क्तः विनिरूपणमित्यर्थः । स्वल्पभाव इति पाठेप्पेकप्राधान्याभावात्स एवार्थः । वस्तुतस्तु अप्रि- मार्द्धटीकास्वारस्यात्तुल्यभावः निरूपणमित्येव पाठः || १४३ ॥ एवं सार्द्धाष्टभिः प्रकरणार्थो निरूपितः । अतः परं सार्द्धाष्टचत्वा- रिशद्भिः प्रथमप्रकरणीयावान्तरप्रकरणेषु प्रथमं भगवत्प्रकरणं विचारयन्त: पञ्चदशभिः प्रथमाध्यायं विचारयन्ति एवं प्रकरणार्था-
- सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे
- T
- प्रकाशः — आद्येऽध्याये ऐश्वर्यवीर्ययोर्निरूपणम् । श्रियो द्वितीये । कीर्तेस्तृतीये । हरेर्धर्मिणश्चतुर्थे । ज्ञानस्य पञ्चमे । वैराग्यस्य पष्ठे । आद्ये गुणद्वयस्य निरूपणमितरेषु पञ्चस्येकैकस्येति वैलक्षण्यज्ञापनाय पञ्चस्वित्युक्तम् ।। १६ ।।
- ।
- ॥ २६
- नन्वत्र स्वरूपस्थितिहेत्वैश्वर्यादिप्राकटयेन लीलां कुर्वतः कस्यचिद्भगवदवतारस्यैव कथा वक्तु युक्ता, तत्कथं तां विहाय प्रियव्रतकथेत्यत आह अल्पेऽपीति ।
- निबन्धः - अल्पेऽपि भगवान् स्वस्य धर्मान् संस्थापयेद्यदि । सोऽपि ब्रह्मादिसम्प्रार्थ्यः प्रियव्रतकथा ततः ॥ १७ ॥
- प्रकाशः — अत्र हि भगवतस्तद्गुणानां च माहात्म्यं वाच्यम् । तत्र भगवदवतारनिरूपणे तु गुणानां धर्मिण्येव प्रवेशा- त्पृथक् तेषां माहात्म्यं न निरूपितं स्यात् । तदा गुणमाहात्म्यकृतं विशिष्टं माहात्म्यं भगवतोऽपि न प्रकटं स्यात् । अतः केवल- गुणमाहात्म्यप्रकटनार्थं प्रियव्रते तादृशत्वमस्तीति तत्कथोक्तेत्यर्थः । आदिशब्दान्मनुः ॥ १७ ॥
- तर्हि तद्वंशवर्णने को हेतुस्तत्राऽऽह तद्वंश एवेति ।
- ॥
- निबन्ध: - तद्वंश एव सर्वेषां गुणानां स्थापनं यतः । भगवद्भजनं तस्य स्वस्मिन् संस्थापकं मतम् ॥ १८ ॥
- प्रकाशः - प्रियव्रते गुणद्वयस्यैव स्थापनादन्येषामकथने षण्णामपि गुणानां निरूपणं न स्यात् । तद्वंश एवेतरेषां गुणानां स्थापनात्तस्यैव कथनमित्यर्थः । एतद्वंश एव गुणानां स्थापने हेतुमाह भगवद्भजनमिति । तस्य प्रियव्रतस्य भगवद्धजनमेव प्रियत्रते तद्वंशे च गुणानां स्थापकमित्यर्थः । अन्यत्र धर्मस्यैवैश्वर्यादिहेतुत्वमुच्यते यद्यपि, तथापि भगवन्मार्गे भजनमेव सर्वहेतुत्वेन सम्मतमित्याह मतमिति । यद्वा । नन्वादावन्तेपि भगवद्भजनस्यैव निरूपणाद्राज्यादिकरणस्यापि भगवदाज्ञापालनलक्षणभजन- त्वमेव सन्दशन्यायेन वक्तुमुचितमिति भजनमेवाध्यायार्थो नैश्वर्यवीर्ये इति चेत्, सत्यम् । उपसंहारे “प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम्” इत्यादिनैश्वर्यस्योपसंहारादुपक्रमे च विरकस्यैश्वर्यमूलविषय रागहेतु प्रश्नस्य निरूपणादैश्वर्यादेरेवाऽध्यायार्थत्वम् । तर्हि तद्भजननिरूपणमसङ्गतम् । तत्राऽऽह भगवद्भजनमिति । अत्र प्रकरणे भगवत्स्वरूपे स्थितिर्निरूपणीया, सा च भगवद्भजनं विना न भवतीति तन्निरूपणमित्यर्थः ॥ १८ ॥
- ननु गुरुपित्रोराज्ञोल्लङ्घनं तादृशस्याऽयुक्तमित्यत आह तस्य मोक्ष इति ।
- निबन्धः – तस्य मोक्षो ब्रह्मभावो न ग्राह्य इति वर्णितुम् । ऐश्वर्यानङ्गीकरणं गुरोर्वाक्यात्तथा पितुः ॥ १९ ॥
- अनङ्गीकरणं प्रोक्तं भगवद्वाक्यगौरवे ।
प्रकाशः – गुरुरुपदेशद्वारा मोक्षप्रदो भवति । पिता च त्वं ब्रह्मेत्यनुशासनकर्तृत्वेन ब्रह्मभावे हेतुः । तथा च तादृशयो- क्यानङ्गीकारकथनेन तत्साध्यफलस्याऽप्यनङ्गीकार उच्यत इत्यर्थः । एतेन तस्य स्वतन्त्रा भक्तिनिश्चिता । तथापि भगवद- च्छानुसारेणैव भक्तस्य सर्वं कर्तुमुचितमिति तदिच्छां तादृशीं ज्ञात्वा स्वत एव कुतो नैश्वर्यमङ्गीकृतवान् । भगवद्वाक्यात्पश्चाच कथमङ्गीकृतवानित्यत आह अनङ्गीकरणमिति, भगवदिच्छा ज्ञानेपि यद्राज्यानङ्गीकरणमुक्त वाक्याचाङ्गीकरणं तद्भगवत इच्छायाः सकाशाद्वाक्यस्याधिक्यज्ञापनार्थमित्यर्थः । मर्यादायां हि वचनस्यैव प्राबल्यम् । इच्छायाः पुष्टिमार्गे । अस्य च मर्यादामार्गीयत्वात्तथात्वं युक्तमितिभावः । यद्वा । ननु ब्रह्मा पितामहो महांश्चेति स स्वत एव कुतो नोक्तवान् भगवद्वाक्यं कुत उक्तवानित्याशङ्कायामाह अनङ्गीकरणमिति । मोक्षब्रह्मभावहेतु गुरुपितृवाक्यानङ्गीकारकथनेनैव ब्रह्मवाक्यस्याप्यनङ्गीकरणं प्रकर्षेणोक्तमेवेत्यर्थः । ब्रह्मणस्तदुभयाहेतुत्वादितिभावः । ननु भजनरसानुभवार्थं हि सर्ववाक्यानङ्गीकारः । एवं सति भगवद्वा- क्याङ्गीकारेपि स रसो न भवत्येवेति भगवद्वाक्याङ्गीकारोऽपि तस्य कथमत आह । भगवद्वाक्यगौरव इति । भगवद्वाक्यानां गौर सति । अयमर्थः । एतदुल्लङ्घने तु भजनमेव न निर्वहेत्कुतस्तरां तद्रसानुभवः । तथा चोभयभ्रंशः स्यादिति तद्वाक्याङ्गीकार नित्यादि । सम्पन्न साधनस्येति एतादृशस्य प्रियव्रतस्य साधनानामित्यस्य उपयोग इत्यनेनान्वयः । अत एवेति देवत्वादेव | व युक्तेति भगवत्प्रकरणत्वाद्वकुं युक्ता ।। २७ ।। अन्येषामिति वंश्यानाम् । प्रियत्रते तद्वंशे चेति मूलस्थस्य स्वस्मिन्नित्यस्य व्याख्यान- मिदम् । अन्यत्रेतिशास्त्रान्तरे । सन्मतमिति कल्पतरुस्वभावत्वात्सम्मतम् ॥ १८ ॥ यद्यपि भक्तः कल्पतरुस्वभावत्वादैश्वर्यादिकं प्रति हेतुलां सम्भवति तथापि प्रयोजकतया मध्ये कामनाऽपेक्ष्यते, प्रकृते तु प्रियस्यात्मारामत्वात् सा नेति कथं तत्प्रति भज- नस्य हेतुलां वकुं शक्यत इत्यरुच्या पक्षान्तरमाहुः यद्वेत्यादि । अस्मिन् पक्षे केवलाया भगवदिच्छाया एवैश्वर्यादिकं प्रति हेतु- त्वम् । भजननिरूपणं तु प्रकरणार्थायोपोद्धातलोनेति ज्ञेयम् । तथापीति स्वतन्त्रभक्तिमतोन मोक्षब्रह्मभावानाकाङ्क्षिपि । प्रियव्रतस्यात्यन्तभक्तत्वबोधनाय पक्षान्तरमाहुः यद्वत्यादि ॥ १९३ ।। पञ्चमस्कन्धार्थः । आवश्यकः । एवं सति भगवद्धर्माणामैश्वर्यादीनां स्वस्मिन्नागमनेन राज्यदशायामप्रेपि भजनरसानुभवप्रतिबन्धोऽपि न भवि- यतीत्यपि तदङ्गीकार इति । ननु ’ यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इति श्रुतेर्विरक्तस्य संन्यास एवाधिकाराद्रागानिवृत्तावेव गार्हस्थ्यस्य विधाना- दस्य चाऽरागित्वेन गार्हस्थ्यानधिकारात्तद्बोधकवाक्यं श्रुतिविरोधान्नाङ्गीकर्तुमुचितमित्याशङ्कां परिहरन्नेव साक्षाद्भगवताना- ज्ञापने ब्रह्मद्वारैव चाऽऽज्ञापने हेतुमाह वेदानामिति । निबन्ध: - वेदानां ब्राह्ममुखतो यथा निर्गमनं मतम् ॥ २० ॥ तथैवेमानि वाक्यानि हरेरिति विधेः ॥ प्रकाशः – भगवन्निश्वासभूतानामपि वेदानां “ऋग्यजुःसामाथर्वाख्यान् क्रमात्पूर्वादिभिर्मुखैः” इति वाक्याद्ब्रह्ममुखतं एवं निर्गमन मिति सर्वसम्मतम्, तत एव च प्रमाणत्वेनाङ्गीकारो लोके, तथैवैमान्यपि वाक्यानि वेदरूपाण्येव ब्रह्मणाऽनूद्यन्ते परमिति ज्ञापनार्थं विधेर्ब्रह्मणो वचो निरूपितमित्यर्थः । तथा चैतेषां वाक्यानां वेदमध्यपातित्वज्ञापनमेव साक्षादनाज्ञापने तद्द्द्वारैव चाऽऽज्ञापने हेतुः । एतेन वेदाद्दौर्बल्यं परिहृतम् । तथा च वैराग्ये जातेपि येषां संन्यासग्रहे भगवदिच्छास्ति तद्विषयका पूर्वोक्ता श्रुतिः । येषां न तथेच्छा तद्विपयाणीमानि वाक्यानीति व्यवस्था ज्ञेया । तेनाsस्य तदङ्गीकार उचित इति भावः ॥ २०३ ॥ ननु " मुक्तोपि तावद् विभृयात्स्वदेहमा रख्धमन्नन्” इति निरूपणात्तस्य तादृकप्रारब्धमस्तीति तद्भोगार्थमेव ब्रह्मणो- क्तम् । किं च । ऋणत्रयापाकरणं विना त्यागस्य पातहेतुत्वश्रवणादपि तदङ्गीकारसम्भवः । तथा चोभयथापि स्वार्थमेव गाई- स्थ्याङ्गीकार इति भगवद्वाक्यगौरवं नायातीति शङ्कापरिहाराय ब्रह्मवाक्यै निर्णीतमर्थमाह स्थानमत्रेति । निबन्ध: - स्थानमत्र विनिर्णीतं यथाऽयं भगवान् हरिः ॥ २१ ॥ स्थापयेद्यत्र तत्स्थानं तस्येति हि विनिर्णयः । प्रकाशः अत्र ब्रह्मवाक्येषु तत्किमित्याकाङ्गायामाह । यथेयादि । तत्र हेतुमाह इति हि विनिर्णय इति । वेदमार्गे यत एवमेव विनिर्णयः सिद्धः । तदुक्तं “वेदमार्गेषु सर्वेषु” इत्यत्र । “एष उ एव साधु कारयति” इत्यादिश्रुत्युपपत्तिर्हिशब्दे - नोच्यते ।। २१९३ ।। नन्वस्याऽऽज्ञापरिपालनमात्रे प्रवृत्तस्य स्वतो विरक्तस्य प्रजाधर्मादिरक्षैत्र कर्तुमुचिता नाविकं कर्तुमुचितम् । भोगेप्या- सक्तिर्नोचिता, अखिलजगद्बन्धध्वंसनेत्यादिनानिर्दोषत्वनिरूपणाच्च । तथा च “अव्याहताखिलपुरुपकार” इत्यादिनाऽधिकबीर्य- विषयासक्त्योर्निरूपणमयुक्तमित्यत आह तथापीति । निबन्ध: - तथाऽपि कर्मणां सागों विवेकं नाशयेद् ध्रुवम् ॥ २२ ॥ इति दर्शयितुं वीर्य कामानन्दौ हि वर्णितौ । प्रकाश : - यद्यपि भगवदिच्छया प्रवृत्तस्य विवेकनाशो न सम्भवति तथाप्याज्ञावचनानां वेदरूपत्वमुक्तमिति स च कर्मनिरूपक इत्यस्य राज्यकरणं कर्ममार्गीयम् । कर्ममार्गे चाऽवश्यं विवेकनाश इति ज्ञापयितुं तो वर्णितावित्यर्थः । अत एव मूले “अधिनिवेशितकर्माधिकारः” इत्युक्तम् । 1 ननु तथापि भक्तेर्बलिष्ठत्वात्तन्नाशोऽनुपपन्नः । “बाध्यमानोऽपि मद्भकः” इत्यादिष्वजितेन्द्रियस्याऽपि भक्तस्यानभि- भव उक्तः, किं पुनर्जितेन्द्रियेऽस्मिन् । किं चैवं भक्तेरपि तिरोधानं सम्भाव्येत विवेकस्यैवाभावात् । तथा सति मगवदुपासनेत्या- दिनिरूपितभक्तितत्कार्यदिनकरणाद्यनुपपत्तिः । किं च । भक्तस्य राज्यनभिनन्दने दिनकरणे च न किञ्चित्प्रयोजनम् । तथात्वे वा सप्तकृत्य एव करणे को हेतुः, किं च, भगवदैश्वर्यवीर्ययोरध्यायार्थत्वेन निरूपणादेतत्स्त्रीपुत्रादेरतद्र पत्वात्तन्निरूपणमप्यसङ्गत- मित्याशङ्कय सर्वत्र समाधानमाह हरेरिति । निबन्ध: - हरेः कार्यं सर्वमेव खदोषात्तद्धि नश्यति ॥ २३ ॥ तदभावे हरिः स्वस्य स्वयं कार्यं हि साधयेत् । प्रकाशः — अस्मिन्नाविष्टस्येति शेषः । “पुरुषातिदिष्टान्” इति वचनाद्भगवत्कृत एवाऽस्य भोगः । तेन यावता विना भोगानुपपत्ति तावद्भगवत्कृतमेत्रेति मन्तव्यम् । तथा च विके सति भोगासम्भवात्तन्नाशोपि भगवतैव कृतः । न च पूर्णवाक्य-* सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे विरोधः, कर्ममार्गमर्यादा स्तत्र चैतत्प्रवृत्तेरपि भगवत्कार्यत्वात् । दिनकरणमपि तथा । न ह्यन्यः कालमन्यथयितुमीष्टे गुणे- भगवता च करणात्सप्तकृत्व एव । षड्गुणपूर्णो भगवान् भूमौ वर्तत इति ज्ञापनाय सप्तधा तत्कार्यस्थापनं भूमौ । अत एव भगवदैश्वर्यकार्यमेवेदमिति ज्ञापनाय प्रकारान्तरेण न द्वीपविभागकरणम् । दिवस एव रथपरिभ्रमणेन । वा किं तु रात्रिवैपरीत्य- करण आनुषङ्गिकफललोन तदप्यन्याशक्यम् । न हि द्वीप विभागोम्बुधिकरणं तत्रापि विविधत्वं तेषां जीवशक्यं भवति । एवं सति तत्र तत्र तादृक्सामर्थ्यवता रक्षकेन भाव्यमितितादृक्पुत्रोत्पादनमपि भगवद्वीर्यकार्यमिति नोक्तदोषः । नन्वेवं चेद्भगव- कार्यं हित्वा मनुपुत्रलोन मन्वन्तराधिकारिणोऽस्य भक्तौ प्रवृत्तिर्नोचिता, नारदस्य च सर्वज्ञत्वेन तादृशे भक्तिमार्गोपदेशोऽयुक्त इत्यत आह स्वदोषादिति । अनेन हि हरिकार्यं कर्तव्यम्, तच्च न भगवदागेशं विना, स च न दोषाभावं विना । स्वस्य मनुपुत्र- त्वेनाऽधिकारप्राप्तमिति हरिकार्यस्य तत्राप्यसाधारणस्य करगे सदोषस्यैव प्रवृत्तौ तदावेशाभावात्कार्यनाश एव स्यादित्याधिदैविक- दोषाभावेन कृत्वा भगवदावेशे भक्तिरेव हेतुरिति पूर्व भक्तौ प्रवृत्तिरित्यर्थः । अत एव नारदस्यापि तथात्वमिति भावः । हरेर्नि - र्दोषत्वेन सदोषेऽनावेशो युक्त इति हिशब्दार्थः । स्वस्य हरेरित्यर्थः । यद्वा । स्वस्य भक्तस्येत्यर्थः । अधिकारित्वेन द्वीपकरण- रक्षादिकं प्रियत्रतकार्यम् । तच्च स्वतोऽशक्यमिति भगवान् स्वयं तथा सम्पादयेत्तथा स्वस्मिन्नावेशसिद्धयर्थं प्रतिबन्धनिवृत्तिपूर्वकं तत्साधिका भक्तिरेवेति तत्रैव प्रवृत्ति त्स्येति । तह्यवेिशे सिद्धे स्वत एव कुतो न राज्ये प्रवृत्तिः पितृवाक्याच्चेति चेद्, उच्यते । पूर्वं तथा प्रवृत्तावपि पश्चाद्भक्तिरसानुभवाद्राज्यकरणं तत्प्रतिबन्धकमिति न तदङ्गीकारः । किं च । स्वतः पितृवाक्याद्वा तदङ्गी- कारे भगवत्सम्बन्धभावादावेशोपि गच्छेत्तेन न किञ्चित्सिध्येत् । भगवदाज्ञावचनानि तदुद्बोधनार्थान्येवाडत एवाग्रे सर्वनिष्प- त्तिरित्येतत्सर्वं हृदि कृत्वोक्तं हरेः कार्यमित्यादि ॥ २३३ ॥ 1 पूर्वं भक्तिनिरूपणस्य मनुवाक्याकरणस्य च तात्पर्यान्तररूपमतिदेशमाह अतस्त्विति । निबन्धः - अतस्तु पुरुषः स्थाने दोषाभावार्थमादितः ॥ २४ ॥ भक्तिमार्गे प्रवृत्तः स्याद् दृढ चित्तो यथाऽचलः । They प्रकाश : - ‘भवाय नाशाये ‘तिवाक्याद्यतो भगवद्विचारितकार्यार्थमेव देहधारणं जीवस्य । तादृक्कार्यकरणं च न भगवत्स- म्बन्धं विना । स च न भक्ति विना अतो हेतोरित्यप्रे स्पष्टम् । भगवद्भजनमेव कार्थं नान्यदिति दृढचित्तः । अत एव पितृ- वाक्यस्याप्युल्लङ्घनम् । तथा सति दोषमाशङ्कय भगवद्भजनविरुद्धतादृशवाक्यस्याऽप्यकरणे न दोषो भगवदपेक्षयाऽन्येषां जघन्य- त्वाद्भगवन्मार्गमर्यादायाश्चैतादृशत्वादेगेति ज्ञापनायोक्तं स्थान इति । मर्यादामार्गे सर्वैरेवमेव कर्तव्यमित्यर्थः ॥ २४३ ॥ निबन्धः – कथाऽत्र गद्यरूपेण विशिष्टत्वाद्धि वर्ण्यते ॥ २५ ॥
कृष्णाधीना तु मर्यादा खाधीना पुष्टिरुच्यते । प्रकाशः—स्कन्धस्य गद्यात्मकत्वे हेतुमाह विशिष्टत्वादिति । भगवजयस्याऽखण्डत्वेन सर्वस्माद्विशिष्टत्वात्तस्य चात्र निरूपणादखण्डगद्यरूपता स्कन्धस्येत्यर्थः । कथाया एव विशिष्टजयनिरूपकत्वात्तन्निरूपणमेव गद्यैरिति ज्ञापनाय कथेति । अत एवोपदेशेषु श्लोका एव । किं च पुरुषरूपस्य भागवतस्य कटिभागो हि स्कन्धोऽयम् । स च पादादिवन्न सखण्ड इति नाऽऽद्य- स्कन्धादिवच्लोकैर्निरूपणं किं त्वखण्डस्वरूपैर्गद्यैरित्यपि ज्ञ ेयम् ॥ २५ ॥ नन्वस्य मर्यादास्कन्धत्वाद्विरक्तस्य ब्रह्मविदः पश्चाद्धोगे प्रवृत्तस्याऽस्य कथा विरुद्धेत्यत आह कृष्णाधीनेति । तादृशस्य स्वतो भोगे प्रवृत्तौ हि मर्यादाभङ्गः । भगवदधीनतया तथा करणं मर्यादैवेति, न विरोध इत्यर्थः । यत्र च भक्तस्य स्वातन्त्र्यं तदिच्छानुसारेण भगवत्कृतिर्यथा दामोदरलीलायां सा पुष्टिः ।। २५३ ॥ अस्य च सर्वथा कृष्णाधीनत्वं वक्तुमादिमध्या तेषु जातं भगवत्कृतमेवेत्युपपादयति आदौ ज्ञानमिति । निबन्ध: - आदौ ज्ञानं ततो भोगो मोक्षश्रान्ते स्मृतेर्बलात् ॥ २६ ॥ अतो वैराग्यमस्योक्तमेवं सर्वं हरेः कृतिः । किचैवमिति वीर्यकामानन्दासक्तौ सत्याम् । पूर्ववाक्यविरोध इति ‘बाध्यमानोपि मद्भक्त’ इति वाक्यविरोधः ॥ २३ ॥ नन्वेवमिति नन्वेवं गुणपूर्ण भगवदाविष्टत्वे सति । मन्वन्तराधिकारिण इति हेतुगर्भविशेषणम्, तथा च यथायथमुक्त- हेतुभ्यां कार्यत्यागो भक्तिप्रवृत्तिश्चानुचितेत्यर्थः । हरिकार्यस्येति करण इति पदमत्राप्यन्वेति । आधिदैविकदोषाभावेनेति अहङ्कारा- भावेन अभक्तत्वाभावेन वा । तहत आवेशाभावे । तथा प्रवृत्ताविति आवेशेन राज्ये प्रवृत्तौ गद्यरूपतायाम् । सिद्धान्तेऽर्थं- बिचारेणोपपत्तिमुक्त्वा परमतरीत्या स्वरूपविचारेण तामाहुः किञ्चेत्यादि । ललाटादावप्यखण्डत्वस्य सत्त्वात्पूर्वी कोपपत्तिरेव मुख्येत्ययपिनाऽनादरसूचनाज्ज्ञापितम् ।। २४-२५ ।। पञ्चमस्कन्धार्थः । " :- यागादिभिश्चित्तशुद्धौ संन्यासे सति गुरूपदेशेन हि ज्ञानोत्पत्तिरन्ते भवति ततश्च विदिततत्त्वेन न भोगा- सक्तिसम्भवः । सम्भवे वा योगभ्रत्वेन न तस्मिन्नेव जन्मनि मोक्षसम्भवः । अस्य च सर्वं विपरीतम् । तच्चाऽस्य न स्वतः । अत एव मूले राजपुत्रपदं स्वतो विषयासक्तिरेव न वैराग्यमिति ज्ञापकम् । किं च । स्वतश्वदेतत्त्रयं स्याद्वस्तुमर्यादां नाऽति क्रामेदितिज्ञानमेव न भवेत् । भावे वा भोगासक्तिर्न स्यात्प्राकृतवत् । तथा सतिवा मोक्षो न स्यादित्यन्यथानुपयत्त्यापि भगवत्कृतमेवेति ज्ञायते । न ह्यन्यथा वस्तुमर्यादातिक्रम इत्युक्तम् । स्मृतेः पूर्वानुभूत भगव त्पदारविन्दरसस्मृतेरित्यर्थः ॥ २६ ॥ तदुक्तं " स एवमपरिमित” इत्यादिना । यतो मर्यादायामेवाङ्गीकारोऽस्याऽतो वैराग्यमप्यन्त उक्तम् । “अहो असाधु” इत्यादिना । ज्ञानादिषु निरूप्याऽन्यत्राप्यतिदिशति । एवमिति । यथा ज्ञानादिकं हरेरेव कृतिरेवं प्रियव्रतसम्बन्धि सर्वमेव तथेत्यर्थः । तस्मात्सुष्ट्रक्तं " को नु कुर्याद्विनेश्वरम्” इति भावः । न च प्राचीन संस्कारवशादेव ज्ञानम- भून्मध्ये भोगस्तु प्रारब्धनाशार्थमेवेति वाच्यम् । पितृवागनङ्गीकारानुपपत्तेः । न हि स्वमोक्षप्रतिबन्धनिवृत्तिः कस्यचिन्नेष्टा । तथा च ब्रह्मवाक्यानर्थक्यमपि स्यात् ‘ईश्वरेच्छयाऽधिनिवेशितकर्माधिकारः, ‘पुरुषातिदिष्टान्’ इति वाक्याभ्यां विरोधाच्च ॥ २६३॥ नन्वेतादृशस्य पुत्रः कथं तादृक्तामित्याशङ्कय तत्र निमित्तमाह आदाविति । । निबन्धः – आदौ वाक्यैश्चित्तमासीत्कामाक्रान्तं तु सर्वतः ॥ २७ ॥ तेनाऽऽग्रीवस्तथा जातः पश्वाञ्जातास्तु कामिनः प्रकाशः — अत्राऽयं भावः । अस्त्यंशत्रयं प्रियत्रते । वैराग्यसहिता भगवद्भक्तिर्ब्रह्मवाक्यजः सर्वविषयकः कामो मनुपुत्रत्वं च । तथा च तेन तेनांशेन तत्तत्कार्यार्थं तादृशास्तादृशाः पुत्रा उत्पन्ना इति । तत्राप्यादावुत्कटकामावस्थायां जात इत्यानी- स्तथा कामात्मक एव जातस्तत्पश्चादुत्पन्ना अपि कामिन एव जाताः । अन्यथा द्वीपाधिपत्यं नाङ्गीकुर्युः । तुशब्दः कन्यादि- त्रयव्यवच्छेदाय || २७३ ॥ निबन्धः – तत्रापि त्रिषु मोक्षोऽभूत्तेषां च हरिसेवया ॥ २८ ॥ प्रियव्रतस्य संसिद्धिः कालः स्याद् बाधकोऽन्यथा । तत्रापि पुत्रेष्वपि त्रिष्वेव मोक्षोऽभूद्भक्त्यंशोद्भवत्वात् । ‘तस्मिन्नुह’ इत्यादिना तद्भक्तिनिरूपणस्य प्रकृतानुपयोगमाशङ्कय तमाह तेषां चेति । तत्कृत सेवयेत्यर्थः । संसिद्धिः पूर्ववद्भगवद्भावः । एतन्मूले ‘हृदि (गृहीतः) कृत’ इत्यादिना निरूपितम् । तस्या आवश्यकत्वायाssह काल इति । विषयावेशे तद्बाधकस्याssवश्यकत्वादिति भावः । तेन वीर्यं निरूपितं भवति || २८३ || ननु भगवद्भावे जाते फलस्य जातत्वात्पुनर्गुरूपसतिः किमर्थेत्याकाङ्गायामाह गुरुसेवैवेति । निबन्ध: - गुरुसेवैव सर्वस्य मर्यादायां हि साधनम् ॥ २९ ॥ अतो नारदमार्गेण गमनं मुक्तिरेव सा ।
- कर्मज्ञानयोस्तथात्वेपि भक्तौ न तथेत्याशङ्कयोक्तं सर्वस्येति । तेन भक्तस्यापि सैव साधनमित्यर्थः ॥ २९ ॥ मर्यादामार्गस्यैव तथात्वादिति भावः । मर्यादायां मुक्तिरावश्यकी सा च नोक्तेत्यत आह मुक्तिरेवेति । तस्य सैव मुक्तिरित्यर्थः । नारदमुक्तावस्यापि मुक्तिरिति ज्ञेयम् ।। २९३ ॥ ( अ० २ ) द्वितीयाध्यायं विचारन् भगवान् स्वधर्मान् दत्त्वा स्वस्मिन् स्थापयतीति ह्यत्र निरूप्यते । आग्नीध्रे च परम्परयापि न तथेत्याशङ्कय तत्र तात्पर्यमाह आमीघ्रस्यापीति । निबन्धः — आग्नीधस्यापि वशगा प्रकृतिर्ब्रह्मणा कृता ॥ ३० ॥ कथा विरुद्धेति मर्यादाभङ्गाद्विरुद्धा । न विरोध इति मर्यादाभङ्गाभावान्न विरोधः । नन्वेवं सति भगवानेव कृपया तं भोगे प्रवर्त्तितवानिति पुष्टिरेनेयं प्रतीयते, न मर्यादेत्याशङ्कय पुष्टेः स्वरूपं मूले आहुः स्वाधीना पुष्टिरुच्यत इति तद्विवृण्वन्ति यत्र च भक्तस्येत्यादि तथा चोक्तरीतिकस्वाधीनत्वाभावान्न पुष्टिः किन्तु मर्यादेति तयैवाविरोध इत्यर्थः । स्वातन्त्र्यस्वरूपमाहुः तदिच्छेदित्यादि वस्तुमर्यादामिति स्वस्वभावम् ॥ २६ ॥ निरूप्यते भगवत्कृतत्वं निरूप्य । तथा चेति यदि भोगं प्रारब्धनाशाय ज्ञात्वा कुर्यात् तथा ‘मुक्तोपि तावदिवभृयात्स्व- देहमारब्धमश्नन्नि’ति ब्रह्मा न वदेत्, यथा ग्रही स्याद्ब्रह्मवाक्यमपि नाङ्गीकुर्यादित्युभयथापि तदानर्थक्यं स्यादित्यर्थः । अधि- निवेशितेति प्रापितेत्यर्थः । तथात्वे इति गुरूपसत्तिजन्यत्वे । स एवं पञ्चदशभिः प्रथमाध्यायो विचारितः ॥ २९३ ॥ २ सावरणभङ्गे संप्रकाशतत्त्वार्थदीपनिबन्धे येन तां रसवाक्यैश्च मोहयामास तादृशैः । अन्यथा ज्येष्ठपुत्रस्तु नाभिस्तादृक् कथं भवेत् ।। ३१ ।। प्रकाश:- । प्रकाशः – यथा प्रियत्रते भगदाज्ञयैव ब्रह्मणोकमैश्वर्याङ्गीकारार्थमेवमस्मिन्नपि श्रीसम्पत्त्यर्थं भगवदिच्छां ज्ञात्वा ब्रह्मणा तथाकृतमिति ज्ञापनायाऽपिः । हरिवाक्यजकामात्मनः पुरुषस्य प्रकृतिरूपैव सा । अत एव मूले गायन्तीमित्युक्तम् । गुणानां मिश्रभावेन नवविधत्वात्तावत्पुत्रजननं च तथा च तस्यास्तद्वशत्वं ब्रह्मकृतमेवेत्यर्थः ॥ ३० ॥ अत्राभिज्ञापकमाह । येनेति अन्यथाsतिमुग्धत्वज्ञानेन विरतिरेव स्यान्न तु मोह इतिभावः । अत एव रसभावोत्पत्त्या रसगर्भितानि वाक्यान्यपीत्याह ताशैरिति । रसशास्त्रे मोहकत्वेन प्रसिद्धैरित्यर्थः । विपक्षे बाधकमाह अन्यथेति । यदि हरिदत्तैषा न स्यात्तदा प्रियव्रतस्य भक्तस्याऽपि तद्वाक्यजकामवत्त्वेनैतादृशः पुत्रोऽभूदस्याप्येतादृश एव स स्यात् । भगवत्काम इत्यर्थः । पितुः प्रचुरो धर्मो ज्येष्ठेऽ नुवर्त्तत इत्यत उक्त ज्येष्ठेति । अथवा पूर्वोक्तप्रकृतिरूपा चेन्न स्यात्तदा स सात्त्विकः कथं स्यादित्यर्थः ।। ३१ ।। । नन्वस्य पितृलोकप्राप्तिकथनं प्रकरणार्थविरोधीत्याशङ्कयाह स्वस्मिन्निति । निबन्धः – स्वस्मिन् दोषस्तु कामो हि स पूर्णोऽप्सरसां गृहे । अतस्ताः सर्वथा लब्धास्तासु कामं विनिक्षिपेत् ॥ ३२ ॥ प्रकाशः - कामस्य दोषत्वेन न तत्सहितानां भगवति स्थितिर्न वा रक्षणीयः सः । तस्य च स्वप्रकृतावेव लयनियमेना- ऽप्सरसां च तत्प्रकृतिरूपत्वेन तासु तल्लयप्रापणे शुद्धस्य तथात्वं भावीति तात्पर्येण तथा कथनमित्यर्थः । ननु " न जातु कामः कामानाम्” इतिवाक्यादिदमसम्भावितमत आह स पूर्ण इति । तत्र पूर्णो भवतीत्यर्थः । तथा च यथा कृष्णवर्त्मनो हविषाऽ- पूरणे ( अतिपूरणे ) तस्यैव शान्तिरेवमस्यापीति भावः । सर्वथा स्वाधीनतयेत्यर्थः ॥ ३२ ॥ ।। ।। पूर्वोत्तरभोगयोः कर्मफलत्वमाशङ्कयाह कर्मण इति । निबन्धः- ततो मोक्षस्तस्य भावी कर्मणोऽल्पं हि यत्फलम् । आद्यन्तयोः कृतार्थत्वात्सोपि तादृग्विधो भवेत् ॥ ३३ ॥ प्रकाशः – कर्मसम्बन्धि यत्फलं तदल्पं भवति । एतच महदिति न तथेत्यर्थः । तेन भगवद्दत्तश्रीरूपमेव सर्वमिति भावः । एतन्मुक्तः स्फुटमनुक्तत्वेन तत्रोपपत्त्यन्तरमाह आद्यन्तयोरिति । सन्दशन्यायेनाऽप्यस्य मुक्तिरूपपन्नेत्यर्थः ॥ ३३ ॥ ननु तयोर्भकत्वेप्यस्य यथातथात्वं तथैवामुक्तत्वमपीत्याशङ्कया ऽभक्तत्वे हेतुमाह कृष्णवाक्यादिति । निबन्धः – कृष्णवाक्यात्समुत्यन्नः स्वरसज्ञे च शाम्यति । जडरीत्यैव सरसः प्रादुर्भवति नान्यथा ॥ ३४ ॥ प्रकाशः - अत्राऽयं भावः । तादृशस्य कामस्य स्वपूर्त्तिरावश्यकी सा च कामरसज्ञ एव भवेत् । अयं चैतद्रसज्ञः । अत्रापि कृष्णवाक्यजकामरूपत्वमेव हेतुः । एवं सति विवाहितायां मुख्यर साभावाल्लोकिक्याच निन्दितत्वेन भगवद्वाक्यजन कामसम्बन्धासम्भवात्पूर्वोक्तरीत्या भगवद्दत्तायां तस्यां स कामः पूर्णो जातः । तद्रसस्वाभाव्यादेव जडरीतिरपीत्यस्य भक्त्य- वर्णनम् । तस्यात्तत्प्रतिबन्धकत्वात् । अत एव मूले पूर्व ‘जडवत्’ इत्युक्त्वा पश्चात् “ललनानुयातिविशारदः” इत्युक्तम् । कृष्ण- वाक्यजत्वादेव च मुक्तिरस्यावश्यकीति, स वात्स्यायनशास्त्रप्रसिद्धः । अन्यथा तत्त्वविचार इत्यर्थः ॥ ३४ ॥ ( अ० ३ ) यशो विचारयन् कामस्य पूर्वस्मिन्नेव शान्तौ नाभेः सकामत्वानुपपत्तिरित्यत आह आधिदैविक इति । निबन्धः – ततोऽप्यग्रे गतः काम आधिदैविकभावतः । वेदतन्त्रप्रकारेण ब्राह्मणेषु प्रवर्तितः ॥ ३५ ॥ तृतीये कृष्णतां प्राप्तः क्रोधवत्कामसम्भवः । प्रकाशः–आधिभौतिकाध्यात्मिकयोः शान्तावाधिदैविकस्यैवाऽवशिष्टत्वात्तथा । तन्त्रप्रकारचतुर्भुजाद्याकारचिन्तनम् । तृतीये पुरुष आधिदैविकभावतः कृष्णतां प्राप्तः सर्वाधिदैविकरूपत्वाद्भगवतः ।। ३५ ।। ननु सर्वमिदमयुक्तम् । भक्तस्य भगवद्भाव- ኔሩ- अतः परं साद्धैश्चतुर्भिर्द्वितीयाध्यायं विचारयन्ति द्वितीयेत्यादि । अत्रेति स्थानलीला निरूपके स्कन्धे । अत एवत्यादि प्रकृतिरूपत्वादेव श्रीभागवते श्रवणहृदयहारिकार्यकर्त्ता तथा मोहकत्वज्ञापनाय गायन्तीमित्युक्तमित्यर्थः । जननं चेति प्रकृतित्व- ज्ञापकमित्यर्थः ॥ ३० ॥ विरतिरेव स्यान्न तु मोह इति । अनास्था रत्यभाव एतस्याः स्यान्न तु पराक्षिप्तमना इत्येनेनोक्तो मोह इत्यर्थः । विपक्ष इति तस्याः भगवद्दत्तत्वाभावो । अस्मिन् पक्षेः पितुः प्रचुरो धर्मः काम एव न भक्तिरिति न तेन पुत्रस्य भगवत्कामत्वसिद्धिरित्यरुच्या पक्षान्तरमाहुः अथवेति, पूर्वोक्तपक्ष दृढयितुमाग्नीप्रकामितं विचारयन्ति नन्वित्यादि भाव इत्यन्तम्, एतेन ‘विहसन्निव तस्येदं चरित्रं मुनिरब्रवीदिति श्रीधरोक्तं निरस्तम् । तथा च तस्यापि प्रचुरा भक्तिरस्ति सा परं भगवदिच्छया कामाभिभूतेति न पूर्वोक्तं दुष्टमित्यर्थः ॥ ३१ ॥ तस्यास्तत्प्रतिबन्धकत्वादिति भक्तेः कामप्रतिबन्धकत्वात् ॥ ३४ ॥ एवं साद्धैश्चतुर्भिर्द्वितीयाध्यायो विचारितः । I पञ्चमस्कन्धाथः । प्रतिबन्धककामजननम् । तत्रापि स्वप्रजायां भगवत्तुल्यत्वं भावयतो नाभेर्भ्रान्तस्येवोपेक्षैव कर्तुमुचिता, न तु प्रसाद:, असद्भा- वकत्वात् । तद्भावनाया अपराधत्वेन हरिवाक्यैस्तज्जननासम्भवश्च । विषयविषयक कामस्य भगवद्विषयकत्वं चानुपपन्नमित्यत आह क्रोधवदिति । स्वचिकीर्षितकार्यार्थं बद्धमुक्तव्यवस्था च भगवदधीनैव न साधनाधीनेति ज्ञापनार्थम् । यथा मुनिवाक्यै- । मुक्तयोर्भक्तयोरपि जयविजय यो तद्विरुद्धः क्रोधो भगवति जनितस्तथाऽत्र काम इत्यर्थः । यथा क्रोधेनाऽन्यथा भावना सदा तयोस्तथाऽत्र तुल्यत्वभावना । यथा क्रोधस्य शत्रुविषयकत्वनियमेन हरौ शत्रुत्वज्ञाने सोपि तथा पुत्रस्यापि विषयत्वेन हरौ तद्भावनायां विषयविषयक कामस्य तद्विषयत्वमपि ॥ ३५३ ॥ यथा हरिणा तत्सम्मुखे मरणेपि न मुक्तिः किं तु “त्रिसत्या हि देवाः” इत्यादिश्रुतेस्त्रिषु जन्मसु सम्पन्नेषु पश्चाद्वैकुण्ठ- प्राप्तिस्तथाऽत्र कामो वंशात्मकत्वेन तद्रूपभगवत्त्वं प्राप्त इत्याह यथेति । निबन्ध: - - यथा वैकुण्ठसम्बन्धो जयादेत्रिषु जन्मसु ॥ ३६ ॥ । कृष्णावाक्योद्गतः कामस्तथा कृष्णत्वमश्नुते । हरिः सर्वसमो लोके न हरेस्तु समः क्वचित् ॥ ३७ ॥ : - मुनिवाक्यजः क्रोधो यत्र तथा तत्र भगवद्वाक्यजः कामस्तथेति किं वक्तव्यमित्याशयेन विशेषणम् । फलितमाह हरिरिति । एतेन तुल्यत्वज्ञाने ये पूर्वपक्षास्तेऽपहृताः । तस्मिन् हि सति भगवानेव चेत्प्रादुर्भवति तदेदं ज्ञानं भवति । एतेन यथा कथञ्चिदपि भजनं सफलमिति ज्ञापितम् ॥ ॥ ३७ ॥ नन्वप्रजस्त्वेन प्रजामात्रकामनाऽस्योचिता तत्कथं हरितुल्यतत्कामनेत्याशङ्कय तत्र हेतुमाह आत्मेति । निबन्धः – आत्मप्रभृतिवंशस्य सर्वार्थस्योपपत्तये । सामर्थ्यादि हरेरेव ततः स्वयमभूत्सुतः ॥ ३८ ॥ 1 प्रकाशः वस्तुतस्तु भगवानेव पुत्रत्वेनाऽऽविरस्त्वित्यस्येच्छा । अन्यथा वंशस्य कामजत्वेन प्रवृत्तिकार्यमेव स्यान्न निवृत्तितत्कार्ये । हरिवाक्यजत्वेन मुक्तावप्यधिदैविककामरूप एव लयः स्यान्न तु पुरुषोत्तमे । अतः स्वात्मानमारभ्य सर्वस्यैव वंशस्य धर्मादिभक्त्यन्त सर्वार्थसिद्धयर्थं तत्कामनेत्यर्थः । ईश्वरे साक्षात्तथा वक्तुमशक्यमिति भवादृशीमित्युक्तमितिभावः । हरिप्रादुर्भावे वंशस्य कृतार्थत्वं युक्त्याप्युपपन्नं भवतीत्युक्तमुपपत्तय इति । ननु वरदानेनाऽपि सर्वोपपत्तावाविर्भावस्य नावश्यकत्व- मित्याशङ्कय वरेण हि तादृक सामर्थ्यादिकं सम्पादनीयम् । स च वाररूपः । तथा च कामजनकपूर्ववाग्विरोधसम्भवेन तथा वचनासम्भवः । वचनेन च वचनबलं न निराकर्तुं शक्यम्, तुल्यबलत्वादिति न सामर्थ्यादिसम्भवोपि किं तु स्वरूपेणैव तथा कर्तुं शक्यमधिकबलत्वादिति स्वयमेव सुतोऽभूदित्याह सामर्थ्यादिति । अत एव मूले “वातरशनानां धर्मान् दर्शयितुकामः " इत्युक्तमिति भावः । तर्हि “प्रक्षालनाद्धि पङ्कस्य” इति न्यायेन वाचा । किमथामत्याशङ्का ‘त्वल्पेषि भगवान्’ इत्यनेनैवाऽपहृता ज्ञेया । एवमस्मिन् कीर्तिः स्थापिता । भगवानस्य सुत इति ॥ ३८ ॥ ब्राह्मणानां भक्तिनिरूपणस्य प्रकृतानुपयोगमाशङ्कय तमाह ब्राह्मणा इति निबन्ध: – ब्राह्मणा भगवद्भक्ता यदा कार्यं तदैव हि । अतः केवलयज्ञादेः साधकत्वं निराकृतम् ।। ३९ ॥ प्रकाशः- कार्य भगवदाविर्भावः । फलितमाह अत इति अन्यथा भक्तिसिद्धान्तविरोधः स्यादिति भावः । वंशसम्बन्धांशे यज्ञस्योपयोगोस्तीति ज्ञापनाय केवलपदम् आदिपदेन यजमान श्रद्धादेशादिः ॥ ३६ ॥ धध्याये पुन: “नाभिस्तु यथाऽभिलषितम्” इत्यादिना नाभिकथा कुत इत्यत आह लौकिक इति । निबन्ध:- -लौकिकोऽपि हरौ भावो मोचनकस्तेन तत्कथा । यथा कामनया पित्रा स्वयमुत्पादितो हरिः ॥ ४० ॥ तथैव कृतवान् सर्वमिति राज्यादिवर्णनम् ।
प्रकाशः - ननु पूर्वाध्याये निवृत्तिधर्मप्राकट्यार्थकत्वनिरूपणादवतारस्य राज्यादिकथनं तद्विरुद्धमत आह यथेति ||४० ३ || अतः परं पञ्चभिस्तृतीयाध्यायं विचारयन्ति यश इत्यादि, तन्त्रप्रकार इत्यादि, एतेन वेदप्रकारो यज्ञपुरुषत्वब्रह्म- कवहिरण्मयत्वादिचिन्तनमित्यपि बोधितम् । तथा च मूले प्रवर्तित इत्यस्य चिन्तनद्वारा हृद्याविर्भावित इत्यर्थी बोधितः । तज्जननासम्भव इति भगवदवतारासम्भवः । ननु व्याख्यातरूपस्य सर्वस्यार्थस्यातिदेशादेव ज्ञातुं शक्यत्वादस्याः कारिकायाः किं प्रयोजनमित्याकाङ्क्षायामाहुः मुनीत्यादि || ३५३ ।। F विशेषणमिति जन्मनां त्रित्वं विशेषणम् । इदमिति भगवतः सर्वतुल्यत्वम्, अन्यस्य भगवदतुल्यत्वं च । निवृत्ति- .: तत्कार्ये इति निवृत्तिमोक्षौ ॥ ३६ ॥ एवं पञ्चभिस्तृतीयाध्यायो विचारितः । १२ सावरणभङ्ग सप्रकाशतत्त्वार्थदीपनिबन्धे भगवदवतार इन्द्रस्य स्पर्धा कथमत आह यज्ञ इति । निबन्धः – यज्ञस्तदेन्द्रस्तेनास्य स्पर्धा कार्यावतारतः ॥ ४१ ॥ परीक्षा वा कन्यकाथा दानार्थमिति निश्चितम् । प्रकाशः — आद्य मन्वन्तरे हरेरंशावतारो यज्ञ एवेन्द्रोऽभूत्तेन तद्योग्यतेति तथा । मूले भगवत्पददानादितिभावः । तक्यात्स्पर्धासम्भवोऽत आह कार्येति । यज्ञस्य मनवन्तरकार्यत्वात्क्रियाशक्तेरेवाऽऽविर्भावात्तदुपयुक्ताधिकज्ञानशक्त्यनाविर्भा वादिन्द्रत्वाङ्गीकारेण तद्धर्माणामप्यङ्गीकारात्स्पद्धेत्यर्थः । यद्वा निवृत्तिमार्गप्राकट्यलक्षणकार्यार्थत्वादृषभावतारस्य प्रवृत्तिपरत्व- मस्ति न वेति संशयेन कन्यादाने सन्दिहानः प्रजानुरागतदभावाभ्यां तन्निर्द्धारं कर्तुं कन्यायाश्चाऽऽलौकिक वीर्योत्पन्नत्वेनाऽस्य च निवृत्तिपरत्वेन लोके स्वमलौकिकवीर्यं प्रकटयिष्यति न वेत्यलौकिकवीर्यपरीक्षार्थं च वृष्टधकरणमित्याह परीक्षेति । पूर्णगुणत्व- परीक्षेत्यर्थः । लोकप्रतीत्यभिप्रायं मूले तत्कथनमितिभावः ।। ४९३ ।। 1 परीक्षाप्रयोजनमाह दम्पत्योरिति । निबन्धः—— दम्पत्योर्भगवत्त्वे तु पुत्राणां हि कृतार्थता ॥ ४२ ॥ योगेन मेघरूपः सन् वृष्टि चक्रेऽतिशोभनाम् । स्थितिरेषेति योगस्य साधनत्वं निरूपितम् ॥ ४३ ॥ प्रकाशः — लौकिकमेघानाकृष्य तैर्वृष्टिकरणे तेषामिन्द्रीयत्वेन नास्य तथा वीर्यसिद्धिरित्यत आह योगेनेति । अस्मिन् क्षेत्रे यदा यावदपेक्षितं तत्र तदा तावदेव जलं ददातीत्युक्तमतिशोभनामिति । इन्द्रस्तु तद्विपरीत इतिभावः । स्वतः समर्थस्य साधनाङ्गीकारे हेतुमाह । स्थितिरिति । मर्यादायां प्रसिद्धसाधनेनैव साध्यकरणात्तथेत्यर्थः ॥ ४३ ॥ भगवति गृहे सति तं विहाय वनगमनमयुक्तम् । तत्रापि स्वार्थ प्रकटस्योपास्तिमपहायाऽन्यत्र सा नोचितेत्यत आह कामसिद्धया इति । निबन्धः——कामसिध्यै समुत्पन्नो भगवाँस्तेन कामकृत् । न मोक्षदोऽभवत्तेन नरनारायणाद्गतिः ॥ ४४ ॥ मर्यादायामेवमेव मुक्तिरित्यपि सूचितम् ॥ प्रकाशः – अत्र नियतेच्छत्वाद्भगवत इति भावः । तथेच्छायां हेतुमाह मर्यादायामिति । गृहत्यागादिनैवेत्यर्थः ॥ ४४३ ॥ नरभजनोपयोगमाह तपसेति । निबन्धः – तपसा ज्ञानमार्गेण मुक्तावेकस्तु साधनम् ॥ ४५ ॥ भगवत्सेवया चेत्सा बहूनामपि सा भवेत् । प्रकाश:–एको नरस्तपसा साधनेन ज्ञानमार्गेण मुक्तौ सूत्रात्मकत्वेन स तत्साधक इत्यर्थः । तर्हि भगवद्भजनं किमर्थमत आह भगवत्सेवयेति । मर्यादायां स्त्रियाः पूर्वोक्ताधिकाराभावाद्भजनं विना नाऽस्या मुक्तिरिति तथेत्यर्थः । अस्या मुक्तौ किमाश्चर्य- मिति कैमुतिकन्यायदर्शनार्थं बहूनामिति । तमसेति पाठे स्त्रीसङ्गो बाधको मुक्तावत आह तमसेति । चैद्यादिवत्तमसा द्वेषादिना मुक्तावेकस्यैव स्वमुक्तावेव साधनत्वं न प्रसङ्गिनोपि मुक्तौ । तथा ज्ञानमार्गेणापि मुक्तौ, अत एकस्यैव त्यागः । भजने तु तत्प्रतिबन्धस्यैव त्यागो न तत्साधकस्यापीति तया सह गमनम्, नापि सा प्रतिबन्धिकेत्यर्थः ॥ ४५३ ॥ तथापि मर्यादायां स्त्रियस्त्यागविधानात्सोऽयुक्तः । " न तथाऽस्य भवेत्क्लेशः " इति वाक्यात् । तादृशतत्प्रसङ्गेना ऽस्यापि मुक्त्यसम्भवोऽत आह वनस्थेति । अतः परं साद्धैः षोडशभिश्चतुर्थाध्यायं विचारयन्ति धर्माध्याय इत्यादि । ननु शतयज्ञकरणादिरूपबीजाभावाद् वृथा स्पर्धायाश्च यज्ञावतारेनुचितत्वात्पक्षान्तरमाहुः यद्वेत्यादि । नन्वयमेव पक्षश्चेन्निश्चितरुदा शूले स्पर्द्धमानपदं कुत उक्तमित्याशङ्कच तात्पर्यमाहुः लोक इत्यादि । तत्कथनमिति स्पर्द्धमानत्वकथनम् । ननु निवृत्तिमार्गनिष्ठत्वं चरे दोष इति तदभावः परीक्षणीय तंत्र त्वन्ये सम्भाषणादयोप्युपायाः सन्तीति कथमेवं कृतमित्यपेक्षायामाहुः परीक्षार्थमित्यादि । तथा च कन्याया भगवद्दत्तायात्तोधिको वरोपेक्षित इति भगवत्त्वं ज्ञातुं सेत्यर्थः ॥ ४२ ॥ रुथेति नरनारायणोपासनम् । एकस्यैव ( स्वमुक्तावेव ) साधनत्वमिति मुख्यं प्रत्येव साधनत्वमित्यर्थः । तदेव विवृण्वन्ति नेत्यादि । मूले साधनमिति भावप्रधानो निर्देशः । तत्प्रतिबन्धकस्येति भक्ति प्रतिबन्धकस्य ।। ४५३ ।। स इति खीसङ्गः, M. पञ्चमस्कन्धार्थः । निबन्ध: - वनस्थरीत्या मुक्तिस्तु नाभेरत्र निरूप्यते ॥ ४६ ॥ तृतीयत्वादतो भार्यासहितस्य गतिस्तथा । गुरुसेवाप्रधानत्वाद्ब्रह्मचारे प्रियव्रतः ॥ ४७ ॥ गृहस्थो मध्यमः स्पष्टो मुक्तिस्तस्य निरूपिता । , प्रकाशः - नेदं प्रब्रजनरूपं गमनम् परमहंसधर्माणामधुनाऽप्यप्रकटत्वादतस्तथा । तस्या रीतेः क्रमप्राप्तत्वमुपपादयात तृतीयत्वादिति सार्धेन ॥ ४७३ ॥ नन्वेवं सर्वत्यागाभावात्कामसिद्धयर्थमाविर्भूतस्यापि भजनेन तत्प्रसादान्मुक्तिर्भवेदिति कुतो गमनम् । गृहत्यागा- वश्यकत्वे वा वनेऽपि नास्यैव भावनं कुतोऽत आह सर्वत्रेति । निबन्ध: - - सर्वत्र लौकिकी दृष्टिः शास्त्रदृष्टिं हि बाधते ॥ ४८ ॥ शतधा कामकरणं सर्वकामविवृद्धये ।
प्रकाशः – अत्र पुत्रत्वेनैव स्फूर्तिर्भवति भगवत्त्वेनेति भजनमेव न सम्पद्येतेति तथेत्यर्थः । मर्यादायां तथा कथविज्ज्ञाने मुक्तिर्नेति भावः । यद्वा । ननु मूले “कर्मणाऽपत्यतामगाद्” इति कथनं कथं भक्तिशास्त्रविरोधादत आह सर्वत्रेति । न सा शुकोक्तिः किं त्वनुवादो लोकोक्ते:, तेषां शास्त्रश्रवणे सत्यपि बाह्यदृष्टिरेवेति । ब्राह्मणादिनिष्ठान्तरभक्तेर्ज्ञानाभावात्तथेत्यर्थः । पुत्र- शतमात्रजनने हेतुमाह शतधेति । वंशस्य कामात्मकत्वात्तस्य च शतविधत्वात्तावत्पुत्रजननमित्यर्थः । प्रयोजनमाह सर्वेति ॥ ४८६८३ ॥ कामस्य शतधात्वं विवृणोति एक इति । निबन्धः —एको मोक्षे तथा भोगे भक्तौ च नवधा पुनः ॥ ४९ ॥ नवानां नवभेदा हि कर्ममार्गेष्टिकामनाः । प्रकाश:- मुक्तेरेकविधत्वाद्भोगस्य साधनभक्तेश्च गुणैर्नवविधत्वात्कर्मफलस्य चैकाशीतिविधत्वात्तत्तत्कामनाया अपि तावद्विधत्वमित्यर्थः । ते के भेदा इत्याकाङ्क्षायामाह कर्ममार्गेति ॥ ४९३ ॥ तत्रैकाशीतिविधत्वमुपपादयति कर्मेति । निबन्धः - कर्मकर्तृविभेदेन गुणैर्नवविधत्वतः ॥ ५० ॥ मोक्षः कामस्तथा भक्तिर्धर्मश्व त्यत्र हि क्रमः । प्रकाशः— नवविधे कर्मण्येकैकं कर्म नवविधोऽपि कर्ता चिकीर्षतीति तथा । व्युत्क्रमेण पुरुषार्थकामसृष्टौ तात्पर्यमाह मोक्ष इति । अत्र प्रियव्रतवंशे पूर्वं हि तस्य मोक्षधर्मरतिः । ततः कामस्तत्पुत्रे, ततो नाभेर्ब्राह्मणानां च भक्तिस्ततश्वर्षभे धर्ममर्यादा- स्थापनं चेति तथा क्रम इत्यर्थः ॥ ५०३ ॥ अर्थाकथने हेतुमाह यथेति । निबन्धः – यथार्थः सर्वसुखदः सर्वार्थस्य च साधकः ॥ ५१ ॥ तथा स्थाने भक्तिमार्ग इत्येवं क्रमसङ्कथा । प्रकाशः - अत एव भगवतैव रक्षिताः ।। ५१ ।। तथेति वनस्थस्य या छान्दोग्ये रीतिरुक्ता तथा मुक्तिरित्यर्थः । उपपादयतीति हेतुपूर्वकं कथयति । मूले तृतीयत्वात् प्रियक्रतापे- क्षया नाभेर्ब्रह्मचर्यापेक्षया वनस्थाश्रमस्य च तृतीयत्वात् । एतस्य पूर्वेण सम्बन्धः । अतो वनस्य रीत्यधिकारित्वाद् भार्यासहि- तस्य या नारायणाश्रमं प्रति गतिः सा तथा मुक्तिपर्यवसायिनी । नन्वेतत्तृतीये तस्य तृतीयाश्रमग्रहणं प्रति कथं हेतुतेत्यत आहुः गुरुसेवेत्यादि । यद्यपि प्रियव्रतस्य गार्हस्थानान्तमाश्रमान्तरपरिग्रहरूथापि ‘भगवतो नारदस्य पदवीं पुनरेवानुससारे ‘ति कथनेन लिङ्गेन प्रियव्रतः ब्रह्मचारे ब्रह्मचयें स्थितः, युगान्तरे विपरीताश्रमग्रहस्यापि स्मरणादिति शेषः । शेषं स्फुटम् ॥ ४७३ ॥ सर्वत्रेति मर्यादया सर्वत्र । भक्तिशास्त्रविरोधादिति भक्तिशास्त्रे भक्तचा च हृदि भावित इत्यादिकथनेन तद्विरोधादित्यर्थः ॥ ४८६६३॥ अदिवास्वरसा त्पक्षान्तरं भोगस्येति । एतेन कुशावर्त्तादयो नव तत्तन्नामकानां जम्बूद्वीपोपद्वीपानां पत्य इति बोधितम् तेषां नवद्वीपपत योऽस्य सम्मत इत्येकादशवाक्याद् एते चार्णव एव न तु सागर इति ज्ञेयम् । निष्कामत्व इति भगवतर्षभेण परिरक्षमाणा सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिवन्ध प्रजानां निष्कामकत्वे हेतुमाह पुत्रेष्विति । निबन्ध: - पुत्रेषु सर्वथा कामं सम्यक् स्थापितवान् यतः ॥ ५२ ॥ निष्कामास्तु ततो जाताः प्रजास्तेनैव रक्षिताः । सर्वथा कामराहित्यं दृष्टान्तेन निरूपितम् ॥ ५३ ॥ स्नेहः स्वतन्त्रा भक्तिर्हि त्रिमार्गादधिका मता । प्रकाशः - अविद्यमानमिवेति दृष्टान्तेन फलितमाह स्नेह इति । त्रयाणां मार्गाणां कर्मज्ञानभक्तीनां समाहारस्तथा । तथा च स्नेहरूपा भक्तिः स्वतन्त्रा विध्यनियम्या मोक्षादधिका, सा तु रसवदनुभवैकगम्येति तादृशानामेव पुष्टिमार्गीयाणां सम्मतेत्यर्थः । अन्येषां तत्स्वरूपाज्ञानातस्तथात्वमिति भावः ।। ५३३ ॥ तज्जिज्ञासाभावेपि स्वयं तत्वोपदेशे हेतुमाह कर्ममार्गेति । निबन्धः - कर्ममार्गप्रकारेण येषु कामो निरूपितः ॥ ४५ ॥ तेषां ज्ञानोपदेशस्तु कर्तव्यः सर्वथाऽन्यथा । जडाः स्युर्येन नाशः स्यादतो गत्वा हि बोधनम् ॥ ५५ ॥ प्रकाशः—( अ० ५ ) एवं निर्बन्धेनोपदेशे हेतुमाह स्वकृत इति । निबन्धः – स्वकृतेऽर्थे हरिः सर्वं प्रतीकारं करोति हि । अहङ्कारनिवृत्ति हि बोधयत्यत्र साधनैः ।। ५६ ।। प्रकाशः—एतेन कर्मासक्तेरनर्थलां बहूनामर्थानामुक्तत्वादुचितम् । उपदेयनिर्द्धारिमाह अहङ्कारेति ‘हंसे गुरौ’ इत्यादि- नेत्यर्थः ॥ ५६ ॥ निबन्धः – ऐहिकामुष्मिकः क्लेशस्तत्कृतो वर्ण्यते ततः । मुख्यसाङ्ख्योऽयमाख्यातो योगे त्वग्रे मनः कथा ।। ५७ ।। प्रकाशः — तत्कृतोऽहङ्कारकृतः । निवृत्तिमार्गे साङ्ख्ययोगयोः साधनत्वात्तदुभयं दर्शितम् । अहन्तामम तात्याग एव मुख्यो ज्ञानमार्ग इति भगवता ‘जडान्धमूक’ इत्यादिना स एव मार्गो दर्शित इत्याह मुख्यसामय इति । ‘यहि वाव’ इत्यादिना योगचर्या प्रदर्शिता । अत एवाऽग्रे अग्रिमाध्याये मनः कथोक्तेत्यर्थः ॥ ५७ ॥
ननु योगमार्गे सर्वत्यागाभावादत्र योगमार्गप्रदर्शनमनुपपन्नमत आह संन्यास इति । निबन्धः – संन्यासस्तु समाख्यातो योगसाङ्ख्याविशेषतः । विषयाः सर्वथा त्याज्याः सर्वावस्थासु सर्वतः ॥ ५८ ॥ इति दर्शयितुं सिद्धो योगसिद्धीर्न मन्यते । " प्रकाशः अयं संन्यासस्तु साङ्ख्यमार्गीय एव । योगचर्या तु तयोरविशेषात् । तथा चोक्तं भगवता “साङ्गययोगौ
- पृथगू बालाः” इत्यादिना तदाह समाख्यात इति । योगसिद्धिसेवानङ्गीकारे हेतुमाह विषया इति ॥ ५८ ॥ निबन्धः – मुखे पाषाणनिक्षेपः कोप्यन्तर्मा विशेदिति ॥ ५९ ॥ सर्वथा विषयत्यागः प्रथमं तेन रूपितः । भोगोपि विषयाणां तु नैर्मल्यं योगलक्षणम् || ६० ॥ । ( अ० ६ ) कोपीति । सायुज्यमुक्तत्यधिकार्यपीत्यर्थः । एतेन सिद्धानां सर्वथा सङ्गाभावो दर्शितः । किं च विषययोगो हि पूर्व मुखतस्तत्र तथात्वेन सर्वथा त्यागो निरूपितो भवतीत्याह सर्वथेति । त्यागस्य प्राप्तिपूर्वकत्वात्प्रथमं विषयाणां भोगोपि ‘शयान एवाश्नाति’ इत्यादिनाऽत एव निरूपित इत्याह प्रथममिति । रागव्यावृत्त्यर्थं तुः । सौरभ्यनिरूपणप्रयोजनं नैर्मल्य- ज्ञापनम्, तस्यापि सिद्धलक्षणत्वेन निरूपणमित्याह योगलक्षणमिति ॥ ६० ॥ दाहोतितात्पर्यमाह अग्नावेवेति । 4 कप निबन्ध: – अग्नावेव समस्तस्य गतिरित्यग्निदाहनम् । आनन्दमयदेहस्य वह्नावावरणे पुनः ।। ६१ ।। उद्गते तु तिरोधानमित्येवं वर्णिता कथा । ॥ इति गद्योक्ते तासां तथात्वे । अविद्यमानमिवेति खपुष्पमिव । तथा च भगवत्स्नेहातिशयमन्तरेण विद्यमानमर्थं खपुष्पमित्र मन वान्छतीत्यर्थः । तथेति त्रिमार्ग तस्मादित्यर्थः । मूले गत्येति ब्रह्मावर्त्त तत इत्याख्यार्थः ॥ ५५ ॥ एवं षोडशभिश्चतुर्थाध्यायो विचारितः। एको पञ्चमस्कन्धार्थः । १५ क प्रकाशः - अत्र हि योगचर्यां शिक्षयन यथा यथा तेषामवस्थां तां प्रदर्शयति । यथा सिद्धयनङ्गीकारे ‘न कुर्यात् कर्हिचित् इत्यादि हेतुत्वेन निरूपितम् । न ह्यत्र तदङ्गीकारेपि तथात्वं भवितुमर्हति । तथात्र योगशरीरस्यान्ते गतिरियमेवेति ज्ञापनाय तथा कथोक्ता । वस्तुस्थितिस्त्वानन्दमय देहस्य वह्निरूपावरण उगते सति तिरोधानमित्याह आनन्देति । अत एव मूले ‘योगिनां साम्परायविधमनुशिक्षयन’ (लो० ६ ) इत्युक्तमितिभावः । प्रकरणमुपसंरति इत्येवमिति । इतीति समाप्तौ हरिणास्वरूप- स्थितिकथा वर्णितेत्यर्थः ॥ ६१३ ॥ ः ।। ६१३ ।। ‘राजन् पतिः’ इत्यादितात्पर्यमाह भक्तेष्विति। उमा निबन्ध: - भक्तेषु सम्प्रसन्नो यमेवं क्लेशं चकार ह ॥ ६२ ॥ मर्यादायामतः कृष्णो भक्ति कापि यच्छति । प्रकाशः - कुशे मर्यादैव हेतुः ॥ ६२ ॥ योगस्याङ्गत्वादृष्टभिरध्यायैर्योगमार्गेण स्वस्थितिर्निरूप्यत इत्याह अथेति । निबन्धः - अथाध्यायैरष्टभिर्वै योगमार्गों निरूप्यते ॥ ६३ ॥ क योगाभावे तु सर्वं हि निःप्रयोजनतां व्रजेत् । मनसश्चञ्चलत्वाद्धि तथाऽन्ते या मतिर्गतिः ॥ ६४ ॥
प्रकाशः - ननु योगनिरूपणे भरतस्यैव कथा कुत इत्याशङ्कय योगस्यावश्यकत्वं हि तदितरसाधने सत्त्वेपि तदभावेन खस्थित्यभावे सिद्धयति । तादृशत्वं च भरते तीति तत्कथा । एतदेवाह योगाभाव इति । आद्येऽध्याये प्रजापालनादिधर्म- निरूपणेनैतज् ज्ञापितमित्यर्थः । योगेनैव मनसः स्थैर्यात्तदभावे तथालां युक्तमेवेति ज्ञापनाय मनसश्चञ्चलला प्रवाहपतित्वं च द्वितीयेन निरूपितमित्याह मनस इति ॥ ६४ ॥ | मुमुक्षोः साधनपरस्यापि तथालो हेतुमाह प्रारब्धेति । निबन्धः – प्रारब्धकर्म काला देवर्वाधिकत्वं यतः सदा । भक्तिः परं ज्ञानदात्री कर्मादीनां बलेऽपि हि ।। ६१ ।। .. प्रकाश :- आदिपदेन स्वभावः । मर्यादायामिति शेषः । भक्तेरपि कर्मवदप्रयोजकत्वमाशङ्कयाह भक्तिरिति । बाधके. सत्यपि कार्यसाधिका सैवेति तथा । अत एव ‘कृष्णार्चनप्रभवा’ इत्युक्तम् । तेन भक्त्यैवाऽस्य सर्वमग्रिममित्युक्तं भवति । अन्यथा पूर्वज्ञानाभावेनेतरवद्विषयासक्तत्या जन्मान्तरेपि न तत्कृतार्थत्वं स्यादितिभावः ।। ६५ ।। ।। | ६५ ।। तर्हि तयाsधुनैव मोक्षः कथं न सम्पादितोऽत आह ज्ञानेति । निबन्धः – ज्ञानप्राधान्यतः क्लेशो भक्त्याऽन्ते मोक्षमेष्यति । मुक्तिस्कन्धे तच्च वक्ष्यत्यतोऽत्र न निरूपितम् ।। ६६ ॥ मन्यते साधनं योगं बाधकानां निराकृतौ । कर्मत्वनुपयोग्येव न तद् दृष्टोपकारकम् ॥ ६७ ॥ । ।। ।। प्रकाशः – ज्ञानसाधनत्वेन भक्तोः कृतत्वात्तथा । तथाऽपि भक्तिस्वरूपं मोचकमेवेति कथं न तथेत्यत आह भक्त्येति । अत्र सर्वांशे मर्यादैव हेतुरिति ज्ञेयम् । तत्र तृतीयेपि जन्मनि मोक्षानिरूपणं कथं तत्राऽऽह मुक्तीति । एकादशे स्कन्धे ‘स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः’ इत्यनेन ।। ६६ ।। ननु देहस्य बहिरङ्ग- त्वान्मृगत्वेऽपि भक्तिकरणे कृतार्थत्वं स्यादेवेति विप्रत्वेपि च कुतस्तदकरणं कालप्रतीक्षा चेत्यत आह मन्यत इति । अत एव पश्चात्तापे साधनत्वेन सर्वमुक्त्वा ‘समाहितं मनः’ इति साध्यत्वेनोक्तवान् ‘परो हि योगो मनसः समाधिः’ इति वाक्यादिति भावः । कर्मादिषु तथात्वेनाऽमनने हेतुमाह कर्म त्विति । भगवदुपासना लक्षणस्य व्यावृत्यर्थं तुः । अत्यार्त्तलोनाऽस्य काल- विलम्बा सहिष्णुत्वात्कर्मणश्चाऽदृष्टद्वारोपकारकत्वाददृष्टस्य च मध्ये कालादेर्नाशसम्भवात्तथात्वम् एतदेवाऽऽह न तदिति ॥ ६७ ॥ अतः परं साद्धैस्त्रिभिः पञ्चमस्य ज्ञानाध्यायस्य विचारं कुर्वन्ति । एवं निर्बन्धेत्यादि । मूले अत्रेति उपदेशे । इत्यत्र तत इति पदच्छेदः । संसाराध्वनि नित्यं भ्रमत इत्यर्थः । इत्यादिनेति इत्यादिना श्लोकचतुष्टयेन । अतः परं चतुर्भिः षष्ठाध्यायं विचारयन्ति कोपीत्यादि । मर्यादेति भक्तानां स्थितिमर्यादा । एवमाद्य आयमवान्तर- प्रकरणं सार्धाष्टचत्वारिंशद्भिर्विचारितम् ।। ६२ । अतः परमाद्ये द्वितीयं विंशतिभिर्विचारयन्ति योगस्येत्यादि । एतज् ज्ञापितमिति इतरसाधनसत्त्वं ज्ञापितम् । प्रवाहपातित्वमिति हरिणस्य प्रवाहपतित्वम् ॥ ६४ ॥ सैवेति अर्चनाविहितभक्तिरेव । कथमिति त्रयोदशाध्याये भरतकथा समाप्तौ आपूर्णार्णव इव निभृतकरणोम्यशयो धरणिमिमां विचचारे’ तिजीवन्मुक्तदशामात्रकथनात् परममोक्षनिरूपणं कथमवगन्तु शक्यत इत्यर्थः ।। ६६ ।। कालप्रतीक्षैति मृगदेहे कालप्रतीक्षा | ॥ ६६ ॥ PRAST १६ सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे स्नेहरूपा भक्तिश्चेत्स्यात्तदानुषङ्गिकमेव पुनः स्थैर्यं स्यात् । सा च साधनत्वेनैवासीदिति तृतीयेऽपि जन्मनि ज्ञानमेव कृतवती तदपि वैराग्यार्थमाह भक्तिश्चेति । निबन्ध: - भक्तिव न स्वतन्त्राऽऽसीत्साधनत्वेन सा पुनः । ज्ञानमेव करोत्येषा वैराग्यार्थं न चाऽन्यथा ।। ६८ ।। प्रकाशः—यथा तण्डुलसाधकत्वेन चिन्तामणिं मन्वानाय स न भक्तं प्रयच्छति तृप्तिं वा तथेति भावः ॥ ६८ ॥ निबन्ध: - पश्चाददाति मोक्षं च सजातीयप्रवर्द्धिता । योगेनैव मनः स्थैर्यं ततः शीघ्रं तदाचरन् ॥ ६९ ॥ प्रकाशः—स्मरणकीर्तनादेः सजातीयत्वम् । एवमितरसाधनानामन्यत्रोपक्षीणत्वमुक्त्वा प्रकृतमुपसंहरति योगेनेति ।। ६७ ।। ननु स्मरणादिषु क्रियमाणेषु विरक्तस्य तद्रसानुभवोऽवश्यं भावी । तथा सति योगं न मन्येत नीरसत्वज्ञानादत आहे कर्मादीनामिति । निबन्धः – कर्मादीनां स्थानमार्गे बलं सर्वात्मना मतम् । पुष्टौ परं प्रवच्यामो भक्तिमार्गेण साधनम् ॥ ७० ॥ प्रकाशः—यथा बालस्य स्त्रीस्पर्शादौ सत्यपि न शृङ्गाररसानुभवस्तथा मर्यादामार्गीयत्वाद्यावता ज्ञानवैराग्यसम्भवस्ता- वाँस्तसानुभवोऽपि नाऽधिकः । अन्यथा तया प्रारब्धस्यैव नाशे तद्भोगासम्भवेन मर्यादानाश एव स्यादतोऽस्मिन्मार्गे तेषां बलिष्ठतेत्यर्थः । मतं भगवत इतिशेषः । तथा च भगवता स मार्ग एवं तथा कृतो यत्कर्मानतिक्रमेणैव फलं भवतीत्यर्थः । तर्हि भक्तिशास्त्रविरोध इत्याशङ्कयाह पुष्टाविति । कर्मणामित्युभयत्र सम्बव्यते । भक्तिस्वरूपं त्वेतादृशमेव सदा, परं तु भगवान् यस्मिन्मर्यादां मनुते तत्रैषा चेत् स्वशक्ति प्रकटयेन्मर्यादानाश एव स्यात् । अतो भगवदिच्छयैव प्रतिबद्धा नाऽधिकं करोति । न हि भस्माच्छन्नग्निर्न दहतीत्यदाहक एवाऽतो न भक्तिशास्त्रविरोध इति भावः । पुष्टौ पुष्टिनिरूपके स्कन्धे षष्ठ इत्यर्थः । अस- त्कर्मबाधनमजामिले ॥ ७० ॥ निबन्ध: - कर्मणामनुपायत्वं भक्तेः साधकता पुनः । योग्यदेहेपि बाधा च कलादेरुच्यते स्फुटा ॥ ७१ ॥ प्रकाशः – सत्कर्मणामनुपायत्वं हर्यश्वेषु नारदेन निरूपितं पुनरिति । पूर्वं भक्तस्य शापादयोग्यशरीरप्राप्तावपि वृत्र इत्यर्थः । एवं प्रासङ्गिकमुक्वा प्रकृते तद्वैपरीत्यमाह योग्येति । यद्वा, भक्तेर्ज्ञानसाधकता पुनर्विप्रत्वेऽप्युच्यत इति सम्बन्धः । मनः स्थैर्य साक्षाद्भगवत्प्राप्तियोग्ये ब्राह्मणदेहेपि मर्यादायां तत्प्रतिबन्धकोऽध्ययनवृषलह स्तमरणादिः ॥ ७१ ॥ निबन्धः – तत्रापि हरिभक्तिर्हि सर्वथा मोचिका मता । एवं तस्य स्वरूपे तु त्रिभिः प्रोक्ता स्थितिः परा ॥ ७२ ॥ तत्राऽपि सैव मोचिकेत्यर्थः । अत एव मूले ‘तत्पादमूलमित्यादीतिभावः । उपसंहरति एवमिति ।। ७२ ।। उपदेशनस्य स्वस्थित्यहेतुत्वेनैतत्प्रकरणासङ्गतिमाशङ्कय तामाह ज्ञानाभावादिति । निबन्धः - ज्ञानाभावादेवमासीदिति शङ्का तु वारयन् । उपदेशनमाम्नातं यजातं राजजन्मनि ॥ ७३ ॥ प्रकाशः – तर्हि ‘न स पुनरावर्त्तत’ इति श्रुतेर्विप्रशरीरे ज्ञानं जातमित्याशङ्कय ( नेति ) आह यज्जातमिति । तदा भगवता भरतोऽप्युपदिष्ट इति ज्ञेयम् | ‘पुत्रश्च शिष्यांश्च’ इतिवाक्यात् । मृगत्वे सति निर्वेदे पूर्वजन्मधर्मनिरूपण आत्मवत इतिवचनाच | ‘आचार्यवान पुरुषो वेद’ इति श्रुतेरन्यस्माज्ज्ञानोपदेशाकथनाच्च । न चानावृत्तिश्रुतिविरोधः । ब्रह्मविदोऽपि प्रारब्धभोगस्येष्टत्वेन तदभाववत्तद्विषयत्वात्तस्याः । अत एव राजानमुपदिष्टवान्, अन्यथा तु ‘एवं बह्वभद्रमभिभाषमाणम्’ इत्यादिविशेषणवत्त्वेनाऽनधिकारिणं मत्वाऽन्येष्विव तूष्णीं तिष्ठेत् । कथनं च तस्य श्रद्धारूपाधिकारवत्त्वेन तदर्थप्रयत्नवत्त्वेन ज्ञाने स्वरूपयोग्यतां मत्वा । तदुक्तं ‘तत्त्वजिज्ञासायाम्’ इत्यादिना । ‘अहं च’ इति वाक्येन च । उपेक्षायां च कृतापराधत्वेन वृषलानामिवाऽस्य नाशः स्यात्तथात्वं चाऽस्याऽनुचितं भगवत्सम्मुखत्वात् । रजः स्वभावकृतश्चाऽपराध इति तदूरीकरणार्थ पूर्ववाक्यानि ॥ ७३ ॥ उक्तवानिति ‘अहो कष्टं भ्रष्ट हमि त्यस्मिन् गद्य उक्तवान् । तर्हीत्यादि स्थानमार्गे ‘भक्तेर्निर्बलको भक्ति: पुनाति मनिष्ठाश्व- पाकानपि सम्भवादि ‘तिवाक्ये भक्तेः कर्मस्वभावजेतृत्वमुक्तं तद्विरोध इत्यर्थः । मूले कलादेरिति भगवत्कलां वीरकुलमित्युक्ता कला । आदिपदेन ब्रह्मभूतत्वादिकं तस्येत्यर्थः ॥ ७१ ॥ तत्पादमूलेति ‘तत्पादमूलमुपसृतानामि’ त्यनेन लिङ्गेन भक्तिरेवोच्यत इति सैव तथेत्यर्थः । मूले० त्रिभिरिति अध्यायैः ॥ ७२ ॥ विवृत्तौ, उपदेशनस्येति पञ्चमाध्यायेन भगवत्कृतस्योपदेशनस्य । ज्ञानाभावादित्यादि, तथा च उपदेशन मुक्ताशङ्का- चारकमान्नातम्, अतो ज्ञानसद्भावेपि प्रारब्धं प्रतिबन्धकं भवतीतिज्ञापनाय तत्कथनमिति तस्य न महाप्रकरणासङ्गतिरित्यर्थः पञ्चमस्कन्धार्थः । ततो दोषापगमे नतिः प्रश्नश्च तुरीयाध्यायार्थ इत्याह गुरुशिष्येति । निबन्ध: - गुरु शिष्यप्रकारेण नतिः प्रश्नः पुरोच्यते । योगानुसारि विज्ञानं मनसचापि निग्रहः ॥ ७४ ॥ १७ प्रकाशः - गुरौ यः शिष्यस्य प्रकारस्तेनेत्यर्थः । अन्यथौदासीन्येन कथने तेन तस्य ज्ञानं न स्यादितिभावः । पूर्वेण वा सम्बन्धः । तेनाऽप्रामाणिकं निरस्तम् । नत्यादिरध्यायार्थः । अस्य संन्यासाभावेन साङ्खधीयज्ञानानधिकाराद्योगा- नुसारि तदुपदिष्टवानिति तज्ज्ञानमग्रिमाध्यायार्थ इत्याह योगेति । अत एव स्वस्मा अप्येतदेवोपदिष्टं तदेत्याशयेनोक्तं ‘यज्जातं राजजन्मनि’ इत्ययमपि तथेति । अत एव स्वयमेवोपदिष्टवान् । अन्यथा भगवति प्रश्नार्थ चलितस्य तत्रैव प्रेषणमुचितमितीदम- युक्तमेव स्यात् । तदुपदेशाधिकाराश्च तदर्थस्तावानायासोपि व्यर्थः स्यात्, तदप्ययुक्तमिति भगवदिच्छयैव तथेतिभावः । तत्साधनत्वेन तत्रैव मनोनिग्रहश्वोक्तः 1 68 11 निबन्धः –— ततो वैराग्यमुत्कृष्टं परोक्षकथनेपि च । योगवैराग्यबाहुभ्यां भक्तिरत्र निरूपिता ।। ७५ ।। प्रकाशः – ततोऽग्रिमे परोक्षकथनेपि वैराग्यं तत्साधनत्वेनोक्तम् । भगवत्येव रागजननादुत्कृष्टम् । उपदेशे फलितमाह योगेति । सर्वत्रोपसंहारे रहूगणेत्यादिना ‘गुरोर्हरेश्वरणोपासनास्त्र: ’ ‘हरि तदीहाकथनश्रुताभ्याम्’ ‘हरिसेवया शितं ज्ञानासिम् इति वाक्यैर्भक्तिनिरूपणात्तस्या एव प्राधान्यम् तेन भगवच्छास्त्रानुसारी योग उक्तः । तदुक्तं भगवता “ योगिनामपि सर्वेषां मगतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः” इति । तथा च भगवति मनोनिग्रहस्तदन्यत्र वैराग्यमेतत्स- हितस्तत्र स्नेहोऽत्र कर्तव्यत्वेनोक्त इत्यर्थः । साधकत्वेन बाहुत्वम् ।। ७५ ।। इह परोक्षवादप्रयोजनं वदस्तदन्यत्रात्रप्यतिदिशति परोक्षकथनं सर्वमिति । निबन्धः – परोक्षकथनं सर्वमधिकारपरीक्षकम् । रहूगणस्याधिकारो यादृशव परीक्षिति ॥ ७६ ॥ प्रकाश : - अत्र परीक्षाफलितमाह रहूगणस्येति ।। ७६ ।। तज्ज्ञापकमाह अत इति । निबन्धः - अतः परोक्षशब्दानां व्याख्यानं पृष्टवान्नृपः । वर्णिते बोध एव स्यान्नाधिकारस्तु सिद्ध्यति ॥ ७७ ॥ अतः स्कन्धत्रये प्रोक्तं परोक्षकथनं तथा । प्रकाशः - ननूक्तार्थावबोधेन हि मुख्योऽधिकारः स च व्याख्यानेऽत्रापि तुल्य इत्यत आह वर्णित इति । यथा कयाचि- द्विरहिण्या तादृशीमेव प्रीतिमत्सपत्नीं प्रति ‘स्वैरचारी मधुपः सम्प्रति दहती’ त्युक्ते कयाचित्पृष्टया ऽन्यया प्रियपरतया व्याकृतेऽपि न तद्विप्रयोग र सविशेषानुभवोऽधिकाररूपप्रीत्यभावात्तदस्थायास्तस्याः न वा प्रीत्युत्पत्तिः । तथेहापि, किं च, न बोधकृतोऽधिकारः किं तु वैपरीत्यम् । बोधस्तज्ज्ञापकः परमिति भावः । परीक्षार्थमेव तथोक्तिरित्यत्र प्रमाणमाह अत इति, चतुर्थादित्रये तथा तु तत्परीक्षकमित्यर्थः । अधिकारस्त्रिविधो यतोऽतस्तथा ।। ७७३ ॥ 3 निबन्धः - आदावबोधो मध्ये तु सुगमत्वाद्विबुद्धयते ॥ ७८ ॥ उत्तमस्त्वधिकारोऽग्रे तेन कूटनिरूपणम् । रहूगणोत्तमत्वाय व्याख्यानं तेन यत्स्वतः ॥ ७६ ॥ प्रकाशः – तत्रादौ प्राचीनवर्हिषः कर्मासक्त्या होनाधिकारित्वादबोध उक्तः । तत्त्वजिज्ञासासत्त्वेपि कर्मासक्त्यभा- वेऽप्यभिमानसत्त्वात्त्यागाभावादुपदेशार्थमपि राजसभावेन चलनाच रहूगणो मध्यमाधिकारी । सोऽपि दुरत्ययेऽध्वनि ’ ‘रजस्तमःसत्त्वे’ इत्यादिना सुगमत्वेनोक्तमिति बुद्धवान् । कूटवाक्यबोधे त्वस्य नाधिकारः । हर्यश्वानां मुक्तत्वादुत्तमाधिका- रस्तेन तथा तर्हि व्याख्यानं व्यर्थमत आह रहूगणेति ॥ ७९ ॥ तर्हीत्यादि, ज्ञानोत्तरं पुनर्जन्माङ्गीकारे । उपश्रुतिविरोध इति तदभावाय ब्राह्मणशरीर एव कुतश्चिज्ज्ञानजननमङ्गीकार्यमित्या- शङ्कयेत्यर्थः । अत एवेत्यादि प्रारब्धशून्यत्वं ज्ञात्वैव रहूगणमुपदिष्टवानित्यर्थः । तदुक्तमिति स चापि पाण्डवेयेत्यस्मिन् गद्ये शुकेन तदुक्तम् । वाक्येन चेति रहूगणेन स्वस्य स्वरूपयोग्यत्वमुक्तमित्यर्थः । पूर्ववाक्यानीति ‘त्वयोदितं व्यक्तमि’त्यादीनि वाक्यानि ॥ ७३ ॥ अग्रिमाध्यायार्थ इति पञ्चमाध्यायार्थः । अत एवेति स्वपूर्वशरीरसमानत्वादेव । अन्यथेति उत्कृष्टाधिकारे । आयास इति रहूगणायासः । तदप्ययुक्तमिति, अधिकारित्वात्प्रयासवैयर्थ्यमप्ययुक्तमित्यर्थः । ततोग्रिम इति षष्ठाध्याये । सर्वत्र- त्यादि, अत्र प्रथमं वाक्यं त्रयोदशाध्यायस्थम्, द्वितीयं द्वादशाध्यायसमाप्तौ तृतीयं प्रथमस्यैव शेषभूतम् ।। ७५ ।। वैपरीत्यमिति ३ T१८ सारणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे निबन्ध: - बुद्धं तत्रापि निःशङ्कं तद्वाक्यं जगृहे पुनः । भरतस्योत्तमत्वं च तेनैवोक्तमिति स्थितिः ॥ ८० प्रकाशः–तत्परीक्षितोस्तारतम्यज्ञापनार्थमित्यर्थः । तेन रहूगणेन यत्स्वतो व्याख्यानं विना बुद्धं तदत्र व्याख्यातमिति योजना | निशङ्कं मननानपेक्षकमित्यर्थः । शिष्योत्तमतोक्त्यैव तत्प्रयोजकगुरोरपि तत्त्वमुक्तमेवेत्याह भरतस्येति । यद्वा । तेनैव रहूगणेनैवेत्यर्थ: । ‘नमो नमः कारण’ इति, ‘अहो नृजन्म’ इत्यादिना चेति शेषः । यद्वा राजजन्मन उत्तमत्वं शुकेनैव ‘भरतस्तु’ इत्यादिनोक्तमित्यर्थः । ननु साक्षाद्भगवता सम्पादितदेहस्य भगवद्दर्शनवतो भक्तस्य तत्रापि भगवदङ्गीकृतस्य तादृग्वंशजस्य भगवत्कलापौत्रस्य बादरायण्यनुगृहीतस्योत्तमत्वेनाधिकारस्कन्धे निरूपणादुक्ताशेषधर्मरहित रहूगणाधिकारान्नयूनाधिकार इति न सहामह इति चेत्सत्यम् । अयं तु मर्यादामार्गीयः प्रावाहिकोऽधिकारो मुमुक्षोः स्वात्मज्ञानोपयोगी गुरुशिष्यप्रकारेणोपदेशे । अत एवाविरक्ता एव ते सर्वे पूर्व मुक्ता अपि हर्यश्वाः प्रजार्थिन एव । एतेषां श्रवणमपि ज्ञानसाधनत्वेन न लीलात्वेन । परीक्षित्तु लीलामृतपानरूपश्रवण उत्तमाधिकारी, अत एव श्रवणात्पूर्वमेव “कृष्णाङ्घ्रिसेवामधिमन्यमानः” इत्युक्तम् । ‘तक्षको वा दशत्वलं गायत विष्णुगाथा:’ ‘नैषातिदुःसहा’ इत्यादितदुक्तिरपि । तेनासौ पुरुषोत्तमस्वरूपतत्त्वजिज्ञासया तल्लीलारसे निमग्नचेता इति तत्तद्वैराग्यार्थोक्तशारीरसांसारिकवार्तीयपरोक्षवार्त्तानवबोधेपि न क्षतिः, किं च, गार्हस्थ्याद्यवस्थायां चेदनुभूता वार्ता सा भवेत् यस्यामिम’ इत्यादिनोक्ता तदा तत्स्मरणे समानधर्मत्वज्ञाने सति सम्वादेन बोधः स्यात् । अस्य त्विन्द्रिया- दीनां भगवद्भजनौपयिकत्वेन मित्रत्यादिरूपेणैवाऽनुभूतत्वायुक्त एवावबोधः स्यात् । परकीयवस्तुस्थितिबोधोऽप्रयोजकोपि शुकादेर्ज्ञानमार्गीयब्रह्मज्ञानवत्त्वमप्यस्तीति सर्वज्ञत्वेन तज्ज्ञानमपि । अत एव वस्तुस्थितिरेव परोक्षवादेनोक्ता या वैराग्यजन- कत्वमनुभवदशायां तु तस्या एव न तथात्वमिति भगवल्लीलैवेति तज्ज्ञापनाय प्रश्नः । वस्तुतस्तु यथा यथाऽन्यमार्गीयवार्ता - taarat भक्तिमार्गीयाया एव तस्या बोधस्तथा तथा पुष्टिमार्गे त्वाधिक्यमेवेति प्रतिजानीमः । एतज्ज्ञापनायैव भगवतैवाव- arasat aftarfafa निगूढाशयैराचार्यैरुक्तमितिस्थितिरिति । ज्ञानमार्गीयमर्यादेतादृशीत्यर्थः ॥ ८० ॥ तज्ज्ञानोक्तिप्रयोजनमाह तस्येति । । निबन्धः – तस्य जन्मत्रयं तत्र द्वयं व्यर्थं न सर्वथा । अतो जन्मद्वयोत्कर्षस्तस्यैवं विनिरूपितः ।। ८१ ॥ प्रकाशः – अमुक्तया तद्वैयर्थ्यशङ्का, ततोधिकरसरूपभक्तिसाधकत्वेन तदभावः ॥ ८१ ॥ आद्यन्तयोरुत्तमत्वकथनेन सन्दशन्यायेन सर्वेषां तथात्वमुक्तं भवतीत्याह तस्य पुत्र इति FISSTONE FR | कृष्णावेशी गयश्चापि तद्वंशेन । निबन्धः—–तस्य पुत्रस्तु पाषण्डेऽप्यत्यन्तं फलदायकः । कृष्णार -तस्य पुत्रस्तु पाषण्डेऽप्यत्यन्तं फलदायकः ह ॥ ८२ ॥ सर्व एवोत्तमा वंशे ततोन्तिमकथा मता । प्रकाशः — प्रकरणमुपसंहरन्नमिमप्रकरणसङ्गतिमप्याह एवमिति । निबन्ध: - एवमष्टभिरध्यायैर्भूस्थानाधिपसङ्कथा || ८३ ॥ प्रकाशः—व्याख्यानस्य पूर्वाध्यायरूपत्वाज्ज्ञानप्रकरणत्वाश्चाष्टभिरित्युक्तम् । तेषां भूमीश्वरत्वादैश्वर्यस्य चाष्टविधत्वा- तत्कथा तावद्भिरध्यायैरुक्ता ॥ ८३ ॥ 22 1 (प्रथमप्रकरणं समाप्तम् । ) जिम भूमौ तद्धोग्याः शब्दादयः पञ्चापि सन्तीति तद्भोग्यत्वेन पञ्चभिरव्यायैस्तत्स्थानं निरूप्यत इत्याह । तत इति । निबन्धः - ततः पञ्चभिरध्यायैर्भूमिस्थानं निरूप्यते । पञ्चात्मिका गुणैश्वापि तत्रापीयं तु मध्यतः ॥ ८४ ॥ सर्वोत्तमा जम्बूद्वीपरूपा सर्वार्थदायिनी । अधिकारकृतो बोध इति वैपरीत्यम् । नन्वित्यादिनोक्तायां परीक्षिदधिकारशङ्कायां परीक्षितः परोक्षवादाबोधेपि तदधिकारस्य मार्गभेदेनोत्तमत्वं साधयित्वा बोधसामग्र्यभावस्य तत्र सहकारित्वं वक्तु सहकार्यभावं व्युत्पादयन्ति किञ्च त्यादि । शुकादौ व्यभिचारमाशङ्कच परिहरनि परिकीयेत्यादि । नन्वस्त्वेवं शुके व्यभिचाराभावो विशेषानुग्रहात्तथापि राज्ञः पुष्टिमार्गीयत्वाद्भवा- टवीतत्त्वज्ञानमप्रयोजकमिति तज्ज्ञानार्थं प्रश्नस्य किं प्रयोजनमत आहुः अत एवेत्यादि । तथा च पुष्टिमार्गीयत्वादेवायं प्रश्नो न तु तन्मार्ग आदरान्मुमुक्षुतयेत्यर्थः ॥ ८१ ॥ आद्य तयोरिति आदिः प्रियत्रतः अन्त्यो विरजस्तयोरित्यर्थः ॥ एवं स्वस्मिन् स्थितिः कृष्णदेवादित्यारभ्य भूस्थानाधिपसङ्कथेत्यन्तैरे कोनसप्ततिभिः पञ्चदशाध्यायात्मकं प्रथमप्रकरणं विचारितम् ॥ ८२ ॥ पञ्चमस्कन्धार्थः । १९.
प्रकाशः – तावद्भिर्निरूपणे हेत्वन्तरमप्याह गुणैश्वापीति । पूर्वपूर्वभूतमिश्रणात्स्वरूपतः पञ्चात्मिकापि भूतत्वेन तम:- प्राधान्येन त्रिविधा रजःसत्त्वप्रधानतमसा च द्विविधेति गुणैरपि तथेत्यर्थः । तत्र जम्बूद्वीपस्य चतुर्भिर्निरूपणे हेतुमाह । तत्रा- पीति । सर्वार्थेति । चतुर्विधपुरुषार्थदायिनीत्यर्थः । अतस्तावद्भिरध्यायैस्तथा ॥ ८४ ॥ निबन्धः - अतोऽस्य रूपणं प्रोक्तं चतुर्भिः क्रमतोऽवनेः ॥ ८५ ॥ परिमाण स्वरूपं च प्रथमे प्राह तस्य हि । कृष्णस्य कटिरूपत्वाद् ध्यानार्थं तद्धि वर्णितम् ॥ ८६ ॥ FLIP प्रकाश : - अस्य द्वीपस्य अवनेः क्रमत इति च, विभागेन यथा यत्रास्ति तथा तत्रोक्तमित्यर्थः, भगवद्भजनौपयिकत्वेन तथात्वम् । अत एवाऽग्रे देवगानोक्तिः । तत्र प्रथमाध्यायार्थमाह परिमाणमिति । ‘यो वा’ इत्यादि ‘पुष्करपत्रमित्यन्तेन सामान्यत निरूपिते । ’ यस्मिन्नित्यादिना वर्ष तन्मर्यादागिरितरुह्नदनदीनदकुरङ्गादिगिरिनिरूपणेन सन्माननिरूपणेन च विशेषत इत्यर्थः । एवं निरूपणे प्रयोजनमाह कृष्णस्येति । तदर्थमेव पृष्टवानिति भावः ॥ ८६ ॥ कटिरूपस्यैतन्नामत्वे हेतुमाह जननादिति । सोम 1 निबन्ध: - जननादेव सर्वोपि बुद्धयते निखिलं यतः । जम्बुद्वीपः ततः प्रोक्तः सर्वदेवसमाश्रितः ॥ ८७ ॥ I 1 प्रकाशः — कट्याः प्रजननात्मकत्वाद् अस्मिन् द्वीप उत्पत्तिमात्रेण हेयोपादेयं बुद्धयत इति तथा । धातोरविकृतस्य ग्रहणेनाऽविकृतोत्पत्तिमतस्तथात्वं बोध्यते । अविकृतत्वं च दैवसृष्टित्वम् । अन्यत्र द्वीपे स्वर्गादावपि तादृशानामपि भोगासक्तिरेव न त्वेवभितिभावः । सर्वेषां सामान्यतश्चतुर्विधपुरुषार्थबोधसत्त्वेपि पुरुषोत्तमतद्धर्मबोधश्च कचिद् दृश्यत इति बोधांशे तस्याऽऽ- धिक्यमस्तीति मात्राधिक्यं बोधवाचकेऽक्षर इति ज्ञेयम् । तेनाऽन्यस्माद्भुत्कर्षं उक्तो भवति । अत एव सर्वेत्यादि बोधस्य सत्त्व- कार्यत्वाद्देवानां च तथात्वात्तथा । तेन सत्त्वप्राधान्यमुक्तं भवति । तद्बोत्कर्षान्तरमाह सर्वेति । अन्यत्र तत्तद्गुणकार्यत्वमेव, न तु तत्तद्गुणनियामकदेवाधिष्ठितत्वम् । अत्र तु तथेति तथा । तदुक्तं ‘नवस्वपि वर्षेषु भगवान्नारायणः’ इत्यादिना ॥ ८७ ॥ एतदिति । 1 निबन्धः – एतदाख्यापकः कश्चिदतोऽत्र न निरूपितः । भूमिरेव स्वतः शुद्धा प्रथमे विनिरूपिता ॥ ८८ ॥ प्रकाशः - किं च । यतोऽयं भगवदधिष्ठितत्वेनैवासाधारणोतस्तथेत्यर्थः । प्रथमाध्यायार्थमुपसंहरति भूमिरेवेति ॥ ८८ ॥ ( अ० १७ ) आगन्तुक धर्मैरप्युत्कर्षो द्वितीयाध्यायार्थ इत्याह जलेनेति । निबन्ध: - जलेनाऽप्युत्तमा सेयमिति गङ्गावतारणम् । सर्वत्र तस्याः सम्बन्ध इति भेदा निरूपिताः ॥ ८९ ॥ प्रकाशः - भेदाः सीतादयः ॥ ८९ ॥ सर्वत्र तस्याः सम्बन्ध उपपत्तिमाह ऊर्ध्वेति । निबन्धः ऊर्ध्वपादाद्विनिष्क्रान्तं जघने पतति स्फुटम् । चरणस्याधिदैवत्वान्न दूषणमिहावपि ।। ९० ।। प्रकाशः — भूमेर्जघनात्मकत्वात्तथेति भावः । ननु लोके पादस्य तत्रापि तन्नखस्याभ्भोऽशुचीति तादृशेन तेन कथम- त्रोत्कर्षः । किञ्चान्येषां तत्पावित्र्येपि स्वस्य न तथा तदिति स्वजधने पातोऽनुचितः । भगवद्भजनौपयिकत्व कृतश्चोत्कर्ष एवं न ¿ अतः परं चतुस्त्रिंशाधिकशतेनैकादशाध्यायात्मकं द्वितीयप्रकरणं विचारयन्ति प्रकरणमुपसंहरन्नित्यादि । कालप्रकरणं समापयन्न देशस्य निरूप्यत्वात्तस्यास्य चाध्येयाधारनिरूपकत्वरूपासङ्गतिमप्याहेत्यर्थः । नन्वत्र नवाध्यायैराज्ञां कथा निरूपि तेति कथमाध्याया इत्यत आहुः व्याख्यानेत्यादि । तथा च योगविचारे चतुर्दशस्य त्रयोदशान्तः पातित्वादष्टाध्याया भेदपक्षेपि तस्य ज्ञानप्रकरणत्वाच भूस्थानाधिपसङ्कथा चतुर्दशव्यतिरिक्तेष्वेवेत्यष्टेति तथोक्तमित्यर्थः ॥ ४३ ॥ तथात्वं सर्वोत्तमत्वं ते रूप इति नियुतयोजनविशाल’ इत्यनेन मानम्, ‘समवर्तुल’ इत्यादिना लक्षणम्, जननं जन् बोधनं बुधू, जना यस्मिन्निति जम्बुध पृषोदरादित्वाद्धकारनाशे उकारस्य दीर्घे च जाते जन्बूरिति भवतीत्यतिपरोक्षवृत्ति मनसि कृत्वाऽऽदुः ममित्यादि । तस्येति जम्बूद्वीपस्य सत्वप्राधान्यं स्वर्गेपि वर्त्तत इति तत्तौल्ये तत्रत्यानामप्येतत् स्थानाकाङ्क्षा न स्यादित्यरुच्या व्याख्यानान्तरमाहुः यद्वेत्यादि । उक्तरीत्या सर्वदेवाश्रितत्त्वमेवैतदाख्यापकमित्याशयेनाहुः एतदित्यादि । एवं त्रिभिः षोडशस्य द्वितीय महाप्रकरणादिमस्यार्थ उक्तः । साद्धैः षडुभिर्द्वितीयं सप्तदशं विचारयन्ति आगन्तुकेत्यादि ।। ८९ ।। तदीयस्येति चरणनखीयस्य । तत्र त्यादि त्रिविक्रमावतारे सर्व चरित्रमद्भुतं निरूपितमित्यर्थः । तत्स्थापनमिति ‘चस्कम्भ यः स्वरंहसाऽस्खलते’ त्यनेन द्वितीयस्कन्धे ‘विष्णोर्नुकमिति श्रुत्या चोक्तं तदित्यर्थः । अधिदेवत्वमुपेन्द्रात्मकत्वम् । २० सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्ध घटते । तदीयस्य तस्य तत्रोपयोगानर्हत्वादित्यत आह चरणस्येति । तत्र हि सर्व चरित्रमद्भुतं निरूपितम्, यथाण्डकटाह- नाशक्रियया तत्स्थापनं तथा चरणनखाम्भसोऽपि पावनत्वम् । तत्रोपपत्त्यपेक्षायां तस्याऽधिदेवत्वमुच्यते । तथा च तत्सम्बन्धि- नोप्याधिदैविकत्वेन सजातीयत्वान्न पूर्वोक्तदोषः । जघनस्य प्रवृत्त्यात्मकत्वात्तत्स्थितानां संसारनिवृत्त्यसम्भवेन चरणस्यैव च भक्त्यात्मकत्वात्तन्निवर्तकत्वेन संसारिणां च साक्षात्तत्सम्बन्धस्य दूरत्वेन तन्निवृत्त्यसम्भव इति तत्साक्षात्तत्सम्बन्धिन्या आधिदैविकरूपगङ्गाया अत्राऽऽनयनम् । ऊर्ध्वमुखपद सम्बन्धित्वमप्यूर्ध्वगतिप्रदत्वज्ञापकम् । यथा चैतत्तथा ‘या वै लसद्, इति लोकविवर पितृचरणैर्विवृतमिति नाऽत्र निगद्यते । एवं सति सेवतां भक्तिदेति परमोत्कर्षः । एतद्वीपस्थानामेव मुक्ति- सम्भवान्न दूषणं किञ्चिदित्यर्थः ॥ ९० ॥ भजनानुपयोगित्वपरिहारायाऽऽह गङ्गेति । निबन्ध: - गङ्गाजलेन पूजादि सर्व कार्यमिति स्थितिः । स्थानं तदेव हि सतां यत्र सम्पूज्यते हरिः ॥ ९१ ॥ 2 प्रकाश :- अत्रायं भावः । गङ्गायामस्त्यधिभूतादित्रितयरूपत्वम् । एकजलरूपत्वम् तेन यादृच्छिकव्यवहारयोग्यता । द्वितीयं च प्रवाहरूपतया तीर्थरूपत्वम् । तेन स्नानपानादिभिर्दोष निवर्त्तकत्वं पुण्यजनकत्वं च । तृतीयं पादौदकत्वम् । तेन भग- वद्भजनयोग्यदेहसम्पादकत्वम् । इतरनदीरथ्योदकादीनामप्येतत्सम्बन्धित्वेनैव द्वितीयरूपत्वम् । एतच्च परिमितमेव ज्ञेयम् । ब्रह्मकमण्डलुजलस्य तथात्वात् । स्वसम्बन्धेन पावयति परं सर्वम् । तेन तादृशजलेनाऽतिपवित्रण भगवत्पूजादिकं युक्तमिति । अन्यथा भगवन्मन्त्राभिमन्त्रितान्नाद्यर्पणमप्ययुक्तं स्यादिति दिकू । न चैवं पादोदकसिक्तवस्त्वर्पणप्रसङ्गस्तत्र साक्षात्तत्सम्बन्धि- त्वात् । इह तु तदाध्यात्मिकरूपदेवताधिष्ठानात्तीर्थरूपत्वमित्यदोषः । ननु भूभुक्कथानन्तरं हि भूकथात्रोच्यते तगोग्यत्वेन । • तथा च विषयत्वेन दोषरूपत्वमेव भूस्थानस्येति भगवत्पूजादिनिरूपणमयुक्तं तद्भोग्यत्वानौपयिकरूपत्वाश्चाऽत आह स्थानमिति । भवेदेवं यदि ते स्वतो विषयत्वेन भोगं कुर्युर्न त्वेवं किं तुभगवदिच्छानुरोधात् तादृशानाञ्च तादृशमेव स्थानमुचितमिति तदुक्त- मित्यर्थः ॥ ९१ ॥ तर्हि तत्तदवतारेषु तत्तद्भक्तनियमकथनं किमर्थम्, पूजामात्रस्यैव तत्स्थानत्वोपयोगित्वादाशङ्कय तत्तात्पर्यमाह अत्रेति । निबन्धः - अतोऽत्र नवखण्डेषु पूजां भगवतो जगौ । अत्रावतारनिर्धारो भक्तानां च निरूप्यते ।। ९२ ॥ प्रकाशः अस्मिन्नवतार एतादृशगुणस्यैवाधिष्ठानत्वमिदमेव च प्रयोजनमेव सेव्यता चेत्यवतारस्य । ईदृशानामत्रैवैवमेव च भजनमिति भक्तानामित्यर्थः ॥ ९२ ॥ गुणमार्गेणैव तयोर्निर्द्धारे हेतुमाह गुणातीता इति ।
निबन्ध: - गुणातीतास्तु ये भक्ताः पुष्टिमार्गेण ते स्थिताः । अत्रोत्र गुणमार्गेण निर्णयो हरिभक्तयोः ॥ ९३ ॥ प्रकाशः - मर्यादास्कन्धत्वादस्य च सगुणत्वात् तादृशयोरत्र निर्णय उक्तः । भगवतः सर्वत्र व गुणातीतत्वादधिष्ठानस्यैव सगुणत्वात्तत्रापि सगुणत्वोपदेशः । तेन तादृग्भक्तानां तत्र रूचिरित्युक्तम् | पुष्टिमार्गीयत्वाद्गुणातीतभक्तानां त्वधिष्ठानरूपान्त- रायराहित्येन साक्षात्प्रकटे श्रीकृष्णस्वरूप एव स्थितिरिति पुष्टिमार्गेण स्थितौ निरूपणीयानां ते निरूपणीया इति शेषः । अत इति । यतोत्र न पुष्ट्यादिस्थितिरतो हेतोस्तथेत्यर्थः ।। ९३ ।। 1 आधिदैविकत्वेनेति देवरूपत्वेन तदुक्तं गोदानमाहात्म्ये ‘सर्वजलसारभूतं तत् शिवेन ब्रह्मणे दत्तमिति भगवच्चरणसम्बन्धे तु ततोप्याधिक्येनेत्यर्थः । पूर्वोक्तदोष इति भजनानुपयोगित्वदोषः । साक्षात्तत्सम्बन्धस्येति साक्षाद्भगवच्चरणसम्बन्धस्य ॥ ९० ॥ 14 अन्यथेति एकवारं भगवत्सम्बन्धेन पुनरुत्सम्बन्धानर्हत्व । इह त्वित्यादि गङ्गायां तु भौतिकजलस्य देवतारूपजलेन पवित्रीकरणाद्भौतिकेन सेवाकरणमिति साधारणानां बोधायोच्यत इत्यर्थः । वस्तुतस्तु प्राथमिकपक्ष एव साधीयान् । अन्यथा ‘द्यौः शीर्ष माशाश्रुतिरंविरुवति वाक्याद् भूमिष्ठानां भूमिजानां चानर्पणमापद्येत, चरणसम्बन्धस्य तौल्यादिति दिकू । विषयत्वेनेतिबन्धकत्वेन । तद्भेोग्यत्वानौपयिकरूपत्वादिति भूभृद्भेोग्यत्वेन सामिभुक्ततया तथात्वात् । भगवदिच्छानुरोधादिति भगवद्दत्तप्रसादत्वेन द्विविधं हि प्रसाददानम्, स्वोच्छेषणरूपं स्वानुपयुक्तं चेति लोके प्रसिद्धमेव । तत्राद्यं जीवस्य यात्रामात्रो- पयोगि, द्वितीयं तु भगवत्सेवोपयोगोत्तरं तदुपयोगीति भूभागानां तादृशत्वान्न काचिदनुपपत्तिरित्यर्थः । तदेतदाहुः तादृशाना- मित्यादि भक्तानां भगवत्सेवोपयोग्येव स्थानमुचितमिति तेषु भगवत्पूजोतेत्यर्थः । एवं साद्धैः षडूभिः सप्तदशस्य द्वितीयमहा- प्रकरणद्वितीयस्यार्थ उक्तः ॥ ९३ ॥ स्कन्धार्थः । तत्र क्रमेण निर्णीतार्थमाह तत्रति । ॥ निबन्ध: - तत्र या तामसी मूत्तिः सङ्कर्षण इति स्फुटा । तस्या भक्तो महादेवस्तमसा तामसः स्मृतः ।। ९४ ।। प्रकाशः - ’ तामसी मूर्ति प्रकृतिमात्मनः’ इति मूल एव स्फुटमिति स्फुटेत्युक्तम् । तमसा तामस इति । न रजः सत्व- मिश्रत्तामसः किं तु तमसैव शुद्धेन तथेत्यर्थः ॥ ९४ ॥ आ ननु तमोगुणस्यैव तद्भजनहेतुत्वे सर्पादीनामपि तत् स्यादित्याशङ्कय तस्येव तद्रूपभजने हेतुं वदन्नावश्यकत्वमप्याह अन्येथेति । निबन्धः – अन्यथा तद्गुणत्यागः सर्वथा न भवेत् क्वचित् । हयग्रीवो राजसः स्यात्तमसा सेवकस्तथा ।। ९५ ।। प्रकाशः – सङ्कर्षणस्यैव तमोनियामकत्वात्तन्निवृत्तिस्तेनैवेति तदर्थं तं भजत इत्यर्थः । तन्मूलभूतभजनं विना साधने- स्तन्नाशो न सर्वात्मनेत्यत उक्त सर्वथेति । क्वचिदिति । न केवलं शिव एवैवं किं त्वयेऽपि तत्तद्गुणाधिदैविकरूपभजनमृते तत्तद्गुणनाशाभावात्तदर्थं तेषां तेषां तत्र तत्र भजनमित्यर्थः । हयग्रीवो रजोयुक्ततमः प्रधानः, सेवको भद्रश्रवा अन्यत एव तादृश एव ।। ९५ ।। निबन्धः – भद्रश्रवा यतः सर्वे तन्नामव्यपदेशिनः । तत्र तत्र तथा स्तोत्रं मन्त्रश्वापि तथा भवेत् ।। ९६ ।। प्रकाशः — अस्य तथात्वेऽभिज्ञापकमाह यत सर्व इति । तामसत्वेनाति मूढत्वेन स्वमुख्यनाम्नैव व्यपदिश्यन्ते न पृथग्यतोऽतः सोपि तथा तन्मध्यपातित्वात् । राजसत्वं स्पष्टम् । अवतारेषु तत्तद्गुणवत्त्वेऽभिज्ञापकमाह तत्र तत्रेति । यत्र यादृग्गुणवैशिष्टय यत्र तादृशो मन्त्रस्तदनुरूपं च स्तोत्रमिति ताभ्यामेवाऽवतारस्वरूपज्ञानमित्यर्थः । इतोऽपि सेवकस्वरूपमपि ज्ञायत इति भावः । एतच टीकायां स्फुटीभविष्यति ।। ९६ ।। ननु समाधिगिरणोपधावनैर्हि मनोवाक्कायैः पूजोच्यते स्तुत्यैव तत्सम्पत्तौ मन्त्रस्य क उपयोगोऽत आह अव्यक्तेति । निबन्धः - अव्यक्त कृतनाशाय न समर्थाः शिवोक्तयः । वैराग्याभावतः शोको द्वितीये विनिवारितः ॥ ६७ ॥ प्रकाश : — पूजामार्गे हि पूजानुरूपमेव फलम् । एवं सति स्तुतेः प्रकटगुणख्यापकत्वेन प्रकटदोषनिवर्त्तकत्वमेव । मन्त्रस्य गुप्तत्वेन तज्जपस्याव्यक्तदोषनिवर्तकत्वमिति तदर्थ मन्त्रोपीति पूर्वेण सम्बन्ध: । ननु पूजामात्रे निरूपणीये कर्तुः स्त्रीगुणावरोधनिरूपणं व्यर्थमित्याशङ्कच तत्तात्पर्यमाह अव्यक्तेति । एवं सति देहलीदोपन्यायेनेदं पदमुभयत्राऽपि सम्बध्यते । अव्यक्तपदं च श्लिष्टार्थकमिति ज्ञेयम् । तथा च स्त्रीसङ्गित्वेन प्रकृतिकृतदोषनाशाय नोक्तयस्तथेत्यर्थः । उत्तरार्द्धसमभिव्याहारा- स्त्रीसङ्गोक्तयैवोक्तवैराग्याभावादेव भगवदभिव्यक्तिलक्षणशोकनिवृत्तिरपि शिवे । अत एव मन्त्रेऽव्यक्ताय नमः’ इत्युक्तम्, भद्रश्रवसाम् ‘अहो विचित्रम्’ इत्यादिना वैराग्यनिरूपणात्तद्भावतः स शोको निवारितः । शिवे पूर्णतमस्त्वेन शोकस्य तद्रूपत्वेन तनिवृत्तिः सम्भवति । आकल्पं भजने तत्रैव लये सति तन्निवृत्तिः परम् । द्वितीये रजोंशप्रवेशेन तमशस्तावानिवृत्तो यः सशोक एव तज्ज्ञापको वैराग्यभावः । एतस्मिन् सति तन्निवृत्तेरावश्यकत्वात् । तथाच तत्पूजितेन भगवतैव वैराग्यं दत्वा तन्निवृत्तिः कृता, न तु रजोंशप्रभावेणेति ज्ञापयितुं निवारित इत्युक्तम् । एतेन फलतारतम्यमुक्तं ज्ञेयम् ॥ ९७ ॥ निबन्धः - सात्विको नरसिंहस्तु तमसा तस्य सेवकाः । प्रह्लादस्तादृशः प्रोक्तो द्यभक्तान् स विनिन्दति ॥ ९८ ॥ संन्यासं च हितं प्राह सदाग्रहयुतो यतः । प्रकाशः सत्त्वयुक्ततमः प्रधानो नरसिंहः प्रह्लादश्च तथा, तत्राभिज्ञापकमाह अभक्तानिति । ‘न तथेन्द्रियप्रियः ’ ‘हरावभक्तस्य’ ‘हित्वा महान’ (श्रो० १३ ) इत्यादिभिर्महानिन्दा | ‘मागार’ (श्र० १० ) इत्यादि । ‘तस्माद्रजः’ इत्यादिभिः । अतः परं तृतीयस्याष्टादशस्यार्थं नवभिराहुः हयग्रीव इत्यादि, स्पष्टमिति स्तुतिवाक्येषु मिषन्न पश्यति तथापि मुह्यन्ती- त्यादिभिर्व्यापाराविष्टत्वमोहादेः स्वानुभूतधर्मस्य कथनात्स्पष्टमित्यर्थः । टीकायामिति अग्रीमग्रन्थटीकायाम् ।। ९६ । तत्सम्पत्ताविति वाचिकपूजा सम्पत्तौ । पूर्वेणेति ‘तथा भवेदित्येनन । अव्यक्तेत्यादेस्तात्पर्यान्तरं वतुमाहुः नन्वित्यादि । इदं पदमिति अव्यक्तकृतनाशायेति पदम् । श्रिष्टार्थकमिति प्रथमपक्षे अप्रकटमित्यर्थकं द्वितीयपक्षे प्रकृत्यर्थ- कमिति । तथा चैवं मूलयोजना, मन्त्रः अव्यक्तकृत नाशाय तथा भवेत्समर्थो भवेत् शिवोक्तयः अव्यक्तकृतनाशाय न समर्था । । इति । उत्तरार्द्धसमभिव्याहारादिति वैराग्याभावत इत्यादि समभिव्याहारात् । यस्य शोक एवेति यावतरूमोंशस्य शोक एव फलम् । आग्रह इति आमहे प्रविश्यतीत्यर्थः ॥६७॥ INTERE నవ सावरणभङ्ग सप्रकाशतत्त्वार्थदीपनिबन्धे संन्यासं च हितमाह भगवत्याग्रहवाँश्च । तत्र भक्तपक्षपातसंन्यासहितत्वोक्तिराग्रहे भगवदशश्च सत्त्वस्य, निन्दामहौ तमसः । यत एवंविधोऽतस्तादृश इत्यर्थः ॥ ९८३ ॥ रजसेति । निबन्ध: - रजसा राजसी लक्ष्मीः कामभोगाभिवेशनात् ॥ ९९ ॥ प्रद्युम्नं कामदेवाख्यमाधिदैविकमाश्रिता । स्त्रीकामादिदोषेक्षां स्वोत्कर्षं चाऽऽह भक्तिकृत् ॥ १०० ॥ प्रकाशः – तमस्सत्त्वमिश्ररजः प्रधानेत्यर्थः । तत्र हेतुः कामेति । ज्ञापकमाह स्त्रीति । ‘स्त्रियो व्रतैरित्यादिनाऽन्यस्त्रीका- मनादिषु दोषेक्षणं प्राहेति सम्बन्धः । भौतिकस्य तामसत्वेन तत्कामनाया अपि तथात्वाद्राजस्यास्तत्र दोषेक्षोचिता ‘मत्प्राप्तय’ ( लो० २२ ) इत्यादिना स्वोत्कर्षम्, ततादृश्या भक्तत्वेन गणनाऽत्र नोचितेत्याशङ्कानिवृत्तिः ‘सत्वं ममेति’ लोकेनेति, तस्यार्थमाह भक्तिकृदिति । तेन माहात्म्यज्ञानपूर्वकस्नेहेन भजनात्पूर्वेभ्योप्युत्तमेति भावः ॥ १०० ॥ रजसेति । 1 निबन्धः - रजसा तामसो मत्स्यो मनुधापि तथाविधः । स्वस्वभावानुसार्येव स्तोत्रं तस्यापि वर्णितम् ।। १०१ ॥ प्रकाशः - आदावुद्देशाद्रजसः प्राधान्यम् । एवमप्रेपि । तमोमिश्ररजः प्रधान इत्यर्थः । मनो तथात्वज्ञापकं स्तोत्रमेवेत्याह स्वेति । लोकपालनिन्दा तमसः शेषं शिष्टस्य ॥ १०१ ॥ निबन्ध: - रजसा साच्चिकः कूम ार्यमा चाऽपि तादृशः । यज्ञात्मको वराहस्तु सच्चेनैव तु तामसः ॥ १०२ ॥ भूमिर्भक्ता तथैवास्याः ज्ञानं स्तोत्रे निरूपितम् । प्रकाशः - वराहस्तमोयुक्तसत्त्वप्रधानः । तथैव भूरपि । भूमौ विशेषं वदन् श्लोकार्थानप्याह भूमिरिति । सत्त्वप्राधान्येन ज्ञानप्राधान्येपि मूले ‘अस्खलितभक्तियोगेन’ इति वाक्याद्भक्तत्वाद्भक्तिमार्गानुसार्येव ज्ञानमस्याः स्तोत्रे निरूपित- मित्यर्थः ॥ १०२ ३ ॥ निबन्धः – त्रिभिरत्र भक्तिः प्रोक्ता प्रथमे त्वेकरूपिणम् ॥ १ द्वितीये पट तृतीये द्वे ते ग्राह्ये साच्चिके यतः । षट् F P प्रकाशः—अत्र स्तोत्रे त्रिभिः प्रकारैरित्यर्थः । भजनं कर्मज्ञानभक्तिमार्गीयत्वेन त्रिविधम् । तत्राऽऽये योगसाधितं मन एवैकं साधनं निरूपितम् । दिदृक्षव इति पदाद्भक्तिमार्गीयत्वम् । ‘योगः कर्मसु कौशलम्’ इति वाक्यात्कर्ममार्गानुसारित्वं द्वितीये द्रव्यादिषट्साधनान्युक्तानि । भगवति माया तत्कार्यराहित्यज्ञानं ज्ञानमार्गीयम्, नतिर्वीप्सा भक्तिज्ञाप्रिका । तृतीये माहात्म्यज्ञानं स्वोपकारज्ञानपूर्वा प्रतिपत्तिश्वोक्ता वाक्यद्वयेन । भक्तिमार्गे स्वेत एवोपादेये इत्याह ते ग्राह्म इति । पूर्वयोर्नाना- साधनवैयर्थ्यान्न सात्त्विकत्वम् । यद्वा त्रिभिस्त्रिभिर्गुणैस्तम आदिभिरित्यर्थः । तामसानां हि बहिरेव दिदृक्षा । मन एवैकं साधनमुक्तम् । मथनोक्त्या क्लेशः सूचितोऽतस्तामसत्वम् । राजसानां कर्ममार्गानुसारेण भजनमिति षट् साधनान्युक्तानि । सात्त्विकानां तु पूवोक्तद्वयं साधनमुक्तम् । मर्यादाभक्तिस्वरूपस्य तथात्वाद् ग्राह्यत्वम्, पूर्वयोरतथात्वाद्धेयत्वं तदाह ते ग्राह्ये इति ।। १०३३ ॥ निबन्धः - रजसा साविको रामो हनुमाचापि तादृशः ॥ १०४ ॥ ॥ अवतारस्तु रामस्य स्थितिवाऽप्यत्र भारते । स्वप्रिकाशः – पूर्वोक्त हेतुमाह अवतार इति । वासुदेवावतारस्तेन सत्त्वप्रधानत्वम् । कदाचिद्रामः पुरुषोत्तमावतार पद्मपुराणादवसीयते । तद्वद्यावृत्त्यर्थं तुः । तेनोक्तरूपत्वं युज्यत इति भावः । अयोगोलके वहेरिब सङ्क्रमणं ह्यधिष्ठाने- ऽवतारः । अत्र चाऽधिष्ठानस्य सत्त्वप्रधानरजोरूपत्वात्तथोच्यते । स्थितिश्च भक्तिभूयिष्ठत्वेन कर्मक्षेत्रत्वेन च सत्त्वप्रधान- राजसदेशे । तत्राप्यत्रार्यावर्ते एव ।। १०४३ ॥ एतादृश्या इति स्वस्मिन्नुत्कर्षमभिमन्यमानायाम् । अग्रेपीति कूर्मावतारेऽर्यम्णि च राजससात्विकत्वं तथा मन्त्रस्तो- प्रयोश्चेत्यर्थः । शिष्टस्येति रजसः ।। १०२ ॥ द्रव्यादिषडिति स्तुतिश्लोके हेतुपदेन क्रियाहेतवो मन्त्राः अयनपदेन देशः ईशपदेन कालो बोध्यः । अस्य प्रकरणस्य गुणस्य गुणप्रकारनिरूपकत्वादत्र मार्गप्राधान्येन भजननिरूपणं नातीवोपयुज्यत इत्यरुच्या पक्षान्तरमाहुः तद्वेत्यादि । एवं नवभिस्तृतीयार्थ उक्तः । चतुर्थं विचारयन्ति चतुर्भिः पूर्वोक्त इति श्रीरामस्य हनुमतश्च सात्विकराजसत्वे । अन्येषामित्यादि । पञ्चमस्कन्धार्थः । निबन्ध: अतो हनुमता सेव्यो भगवांस्तादृशो मतः ।। १०५ ।। जनापवादाभीत्यादिमोहली बहुत्वतः । प्रकाशः -अत एव भक्तोपि विकल्पेन नरजातीयशरीरवत्त्वेन तादृशस्तेन सेव्यं स्वरूपमुक्तरूपमित्यर्थः । अन्येषां व्यं स्वरूपरूपमित्यर्थः। अन्येषां सम्मत्याऽस्माभिरपि तथोच्यत इति ज्ञापनाय मत इत्युक्तम् । हेत्वन्तरमाह जनेति । पूर्वेणैव सम्बन्धः ।। १०५ ।।
निबन्धः – नारायणो नारदश्च धर्मात्मानस्तथाऽपरे ।। १०६ ॥ तस्यैव तपसा सर्वे कृतार्था भारतेऽभवन् । प्रकाशः धर्मात्मानः शुद्धसात्त्विकधर्मरूपा इत्यर्थः । भगवत तपःकरणे हेतुमाह तस्यैवेति ।। १०६३ ।। निबन्धः – जलं चात्र पवित्रं हि ततो नद्यश्च वर्णिताः ॥ १०७ ॥ सच्च सात्त्विकरूपत्वात्स्तुतिः सर्वस्य रूप्यते । प्रियव्रतः स्वयं राज्यं रुद्रकोटीचकार ह ।। १०८ ।। प्रकाश :- नन्वत्राऽसुराणामप्युत्पत्तेः कथं साधारण्येन स्तुतिर्युज्यत इत्याशङ्कय पूर्वोक्ता या वर्णाश्रमवत्यः प्रजास्ता वा स्वस्मिन तथात्वमदृष्ट्वा भक्त्या तत्क्षेत्रमेव सर्वे स्तुवन्तीत्याह सर्वस्वेति । अत एव ‘मुकुन्दसेौपयिकम्’ इत्युक्तं मूले । यद्वा भोगretarai देवानां कथमेवं स्तुतिस्तत्रापि सर्वेषामत आह सत्त्वेति । देवनिशेयं हेतुः । सर्वस्य देववृन्दस्येति शेषः ।। १०७-१०८ ॥ निबन्धः —— अर्बुदं कोटिरित्याहुस्तद्वंशः सकलेन्तरे । प्रकाशः – ननु मन्वन्तरस्य षड्विधत्वादुक्तरीत्या मनुतत्पुत्रयोरपगमे भन्वन्तरत्वं न सम्भवत्यस्येत्याशङ्कय तयोरेव सत्त्वं नाभिप्रेतमपि तु तद्वंशतोपि तदधिकारसम्पत्तौ तत्त्वं सम्भवत्येवेत्यत्रापि तद्वंश एवं सकले स्वायम्भुवमन्वन्तरे तथेति सर्वं समञ्जसमित्याह तद्वंश इति । अधिकारीति शेषः । आन्तो मन्वन्तरराज्यं कृतवानिति शङ्काभावाय वर्षसयोक्ता । यद्यपि मूले एव सोता तथाप्यर्बुदपद स्यार्था तर कल्पनेना तराज्यकृतिशङ्काऽभूदिति तदर्थ उक्तः, अर्बुदकोटिरिति । आहुरिति प्रमाणोक्तिः ।। १०८ ।। । तद्वंशेष्याग्नीध्रपरम्परैव स्वायम्भुवान्तराधिकारिणी, न त्वन्येषामपीति तेषु विशेषं वदस्तेषामन्यत्र विनियोगमाह मन्वन्तरेति । निबन्धः मन्वन्तराधिपतयः पुत्रास्त्वन्ये तथोद्गताः ः ॥ १०९ ॥ तथा द्वीपान्तरेशानाः कल्पान्तस्थायिनो मताः । प्रकाशः — उत्तमादयस्त्रय स्तथाऽन्ये कव्यादद्य तथा द्वीपान्तरेशा इध्मजिह्वादयः । उद्रता राज्यं त्यक्त्वा वनं गता अपि कल्पान्तरस्थायिन इति योजना, स्वस्वाधिकारं निर्वाह्य भगवद्भजनं ततः कुर्वन्तीति भावः ॥ १०६३ ॥ तथा च सिद्धान्ते पुरुषोत्तमावतार एवेत्यर्थः । हेत्वन्तरमप्याहेति पुरुषोत्तमावतारत्वेपि सात्विकराजसभाव इत्यर्थः । पूर्वेणैवेति ‘तादृशो मत इत्यनेन ।। १०५ ।। नारायणावतारं विचारयन्ति धर्मात्मान इत्यादि । इदं नारायणादीनां त्रयाणां विशेषणम् । तस्यैवेति अनुग्रहाया- त्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरतीति मूले कथनात् आत्मवतां धर्मादिसिद्धिर्भगवत्तपसैव, अन्यथा भारतस्य कर्मत्वादत्र जायमानानां शुभाशुभकर्मणां पुनः पुनः प्ररोहेण नैष्कर्म्यलक्षणधर्मादीनां सिद्धिः कथमपि न स्यादिति कथमपि कृतार्था न स्युरतथेत्यर्थः । एवं च धर्मरक्षकत्वादनिरुद्धावतारत्वं प्रतिभाति । व्यूहत्रयावतारस्य पूर्वमुक्तत्वादिति ।। १०६ ।। ( मूले ) जलं चेति चकारद्वयेन पर्वताः । साधारण्येनेति सर्वस्य भारतवर्षस्येत्यर्थः । पूर्वोक्ता इति भगवदुपसृताः । अत एवेति भारतवर्षस्य सात्विकसात्विकत्वात् । नतु भारतवर्षे स्थितस्य रामावतारस्याधिष्ठानसम्बन्धेन सात्विक राजसत्वकथनात्सर्वस्य वर्षस्य सात्विकसात्विकत्वं न वक्तुं शक्यमित्यरुच्या पक्षान्तरमाहुः यद्वेत्यादि ॥ १०८ ॥ एवं चतुर्भिरूनविशय प्रकरणचतुर्थ- स्यार्थ उक्तः, तावता जम्बूद्वीपवर्षविभागो विचारितः । अतः परं प्रासङ्गिकं त्रिभिर्विचारयन्ति नन्वित्यादि । तदधिकार- सम्पन्नाविति तदधिकारकार्यसम्पत्तौ । तथेति अधिकारी । आन्तमित्यादि । से एक स्वान्तरं निन्ये साधिकाोकसप्ततिमिति । ॥ ॥ २४ सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे ननु तत्पुत्रस्याऽविशिष्टत्वादन्यत्राऽधिकारेऽपि ‘अधिकं तत्राऽनुप्रविष्टं न तु तद्धानिः’ इति न्यायेनाऽत्रानधिकारित्व न युक्तमित्यरुच्या पक्षान्तरमाह तस्मिन् काल इति । निबन्धः – तस्मिन् कालेऽथवा ते तु तथा चक्रुरितीर्यते ॥ ११० ॥ दशकोट्यब्दराज्यं हि यथाऽऽग्रीवस्तथैव ते । प्रकाश: - यावता कालेन मन्वन्तरसमाप्तिर्भवेत्तावन्तं कालं यथाविभागं राज्यं कृत्वोत्तरकाल इध्मजिह्वादयस्यागं चक्रुरिति मूल उच्यत इत्यर्थः । मूलेऽस्यार्थस्य स्फुटतयाऽनुक्तौ तात्पर्यमाह यथाऽऽमी इति तदुक्तयैव तेप्युक्तप्राया इति न भिन्नोक्तिरित्यर्थः ।। ११०३ ॥ (अ. २० ) अग्रिमाध्यायं विचारयं तत्र भूविभाजकमनुक्त्वा तेषां द्वैगुण्यहेतुमप्यनुक्त्वा तद्विभागवर्णनप्रतिज्ञानु- पपन्नेत्याशङ्कयाह भूविभाजकमिति । निबन्धः - भूविभाजकमग्रे तु नोक्तमस्ति परं पुनः ॥ १११ ॥ ।। म ज्योतिर्मयत्वात्स रथो यथेच्छं जायते पुनः । वेगाधिक्येन वा तस्माद् द्विगुणं मानमीप्सितम् ॥ ११२ ॥ प्रकाश :- तुशब्दः पूर्वव्यावृत्त्यर्थः । तथा च तस्य पूर्वमेव प्रियव्रतात्मन एवोक्तत्वात्पुनः पदं पुनरुक्त्यापत्तेर्नोक्त- मित्यर्थः । द्वैगुण्ये हेतुमाह ज्योतिर्मयत्वादिति । यथेच्छमिति पदात्प्रियत्रतेच्छेव तत्र कारणमित्युक्तं भवति । तथा च तदिच्छयैव रथचक्रस्य द्वैगुण्यात्समुद्राणां द्वैगुण्यमित्यर्थः । एकस्यैवोत्तरोत्तरं द्विगुणभवन उपपत्तिज्र्ज्योतिर्मयत्वादिति, नन्विच्छयैव सर्वोप- पत्तौ रथद्वैगुण्यमप्रयोजकमित्यरुच्या पक्षान्तरमाह वेगेति । तावतैव कालेन पूर्वस्माद्विगुणक्षेत्रपरिभ्रमणं वेगाधिक्यं बिना न भवति । तथा सति पूर्वस्माद्विगुणे क्षेत्रेऽभिघातविशेषजक्रियाजनितावयवविभागावश्यम्भावात्तथेत्यर्थः ।। ११२ ।। । निबन्ध: - जम्बूद्वीपस्य सर्वोपि दोषो यातो महार्णवे । अतः क्षारत्वमापन्नो दैत्यानां स्थानदायकः ॥ ११३ ॥ 5. प्रकाश:- आद्यस्याम्बुधेः क्षारत्वे हेतुमाह जम्बूद्वीपस्येति । तदभिज्ञापकमाह दैत्यानामिति ॥ ११३ ॥ फलितमाह अत इति । निबन्धः - अत्रोऽत्र भजनं श्रेष्ठं धर्मश्वाप्युत्तमोत्तमः । नामाख्यातिकरो वृक्षः प्लक्षद्वीपे निरुपितः ॥ ११४ ॥ प्रकाशः — निर्दोषत्वात्तथेत्यर्थः । अस्मिन्द्वीपे पूर्वस्माद्वैलक्षण्यमाह नामेति । पूर्वस्य स्वतः एवोत्तमत्वेन प्रख्यातत्वान्न तथा । तदुक्तं पूर्वं जम्बूद्वीपनामनिरुक्तिपूर्वम् । अत्रातथात्वादन्येन प्रसिद्धिरित्यर्थः ॥ ११४ ॥
अत्र भगवद्भजनानिरूपणे हेतुमाह नाडत इति । निबन्धः – नातः परं कर्मभूमिरतो भोगो निरूप्यते । व्यवहृत्यै वर्णसज्ञा सर्वत्रोपासनाऽस्ति हि ।। ११५ ।। मन्त्रश्च भजनं चैव समं सर्वेषु वर्णिषु । स्वरूपस्थितये तद्धि न तु तस्माद्धतिः परा ॥ ११६ ॥ प्रकाशः - नन्वत्राप्युपासनोक्तेः कथं न कर्मभूमित्वमत आह स्वरूपेति ॥ ११६ ॥ भगवत्त्वायेति । निबन्ध: - भगवन्वाय सर्वत्र सप्तभेदा निरूपिताः । पृथिवी पञ्चरूपेति पञ्चस्वेव तथोदितम् ॥ ११७ ॥ प्रकाश :- सर्वत्र भूमौ प्रयत्रतेषु च भगवांस्तद्गुणा ऐश्वर्यादयश्च सन्तीति ज्ञापनाय तथोक्तमित्यर्थः । पञ्चस्त्रेव च तथोक्तौ हेतुमाह पृथिवीति । यचैतत्तथोक्तं पुरस्तात् ॥ ११७ ॥ पुष्करद्वीपे सर्वत्र द्वित्वसङ्ख्यायां हेतुमाह सङ्कल्पेति । निबन्धः —–— सङ्कल्पथ विकल्पश्च मनसो भेदकद्वयम् । अत्रोऽत्र पुष्करे भेदद्वयं पर्वतहेतुतः ॥ ११८ ॥ समुद्रात्रयः सर्वे तं विना पर्वता मताः । क तृतीयस्कन्धे कथनाद्यथा कस्मित्किल्पे’ मनुः स्वयमेवाधिकारं कृतवाँस्तथा कल्पान्तरे प्रियत्रतोपीत्याशङ्काभावायेत्यर्थः । एवं च यदा मनुरेवाधिकारं कृतवाँ तस्मिन् कल्पे प्रियत्रतो ब्रह्मचारीति प्रतिभाति । एवं सप्तभिश्चतुर्थाव्यायार्थ उक्तः । अतः परं विशाध्यायं प्रकरणे पञ्चमं द्वाविंशतिभिर्विचारयन्ति अग्रिमाध्यायेत्यादि । प्रियत्रतात्मन इति प्रियत्रतान्तःकरणात् ।। ११२ ।। अस्मिन् द्वीप इति लक्षद्वीपे । स्वरूपस्थितय इति ॥ ११६ ॥ पञ्चमस्कन्धार्थः । । २५ प्रकाश :- जम्बूद्वीपे कर्मेन्द्रियप्राधान्यं कर्मभूमित्वात् । इतरेषु भोगप्राधान्याज्ज्ञानेन्द्रियप्राधान्यं पूर्वाण्युपसर्जनानि । अत्र च प्रयत्रतमनसो भूमेश्च भगवन्मनोधिष्ठानत्वेन तत्प्राधान्यात्तमिश्च सङ्कल्पादेरेव भेदकत्वात्सर्वत्र भेदद्वयमित्यर्थः । अत एव भगवदासनमपीति भावः । अत एव मानसोत्तरनामाऽचलो भेदकः । तस्य चैकत्वाद्वर्षद्वयमेव भवतीत्याह पर्वतेति । पर्वत- लक्षणहेतुत इत्यर्थः । भेदे पर्वतहेतुत्वत इति भावप्रधानो वा । सप्तकृत्व एवं परिभ्रमणात्समुद्राः सप्तैवेत्यप्रेतनभूमौ तदभावेन पर्वताएवाsaधित्वेन सम्मता इत्यमे त एवोक्ता इत्याह समुद्रेति ॥ ११९ ॥ प्रियव्रतकृतां स्थितिमुपसंहरति मर्यादेति । निबन्ध: - मर्यादेषाऽत्र परमा यथा भूमिः पुरा कृता ॥ ११९ ॥ तथैव पुत्रसम्पत्तिः प्रियव्रतकृतान्वये । आवेशित्वात्तु सर्वस्य वार्ता हरिरिहोच्यते ।। १२० ।। प्रकाशः – तामेवाह यथेति । कृता प्रियव्रतेनेति शेषः । वर्ष समसङ्ख्यामात्रपुत्रजननं सत्यसङ्कल्परूपत्व एव भवति तश्चेश्वर एवेतीश्वरकृतमिदं सर्वमित्यर्थः । इदमेव परमत्वम् । नन्विध्मजिह्वमुक्त्वैव मन्येपीत्यतिदेशेनापि कथनसम्भवे प्रत्येकवार्तो- तिरनर्थिकेत्यत आह आवेशित्वादिति । आविष्टचरित्रत्वेनैवोक्तिरित्यर्थः । अवतारत्वव्यावर्त्तनाय तुः । अत्र प्रमाणमाह हरि- रिति । इह भागवते सर्वत्राक्षरार्थत्वेनापि हरिरेवोच्यत इति तेषामतथात्वे कथनमेव स्यादिति ते तथैवेत्यर्थः ॥ १२० ॥ समुद्राणां मिथो वैलक्षण्ये हेतुमाह रसा इति । निबन्ध:- १२१ ॥ १२२ ॥ —रसावत्र पृथिव्यास्तु तत्र तत्र तथोद्गताः । लवणो राजसः प्रोक्तः सात्विको मधुरो रसः ।। मदिरा तामसी प्रोक्ता कषाया बुद्धिनाशिका । घृतं तु सात्विकं प्रोक्तं राजसं पय उच्यते ॥ दधि तामसमत्रोक्तं मण्डश्च सुतरां तथा । शुद्धोदकं गुणातीतमेवमत्र व्यवस्थितिः ।। १२३ ।। प्रकाशः - रथचक्रेणातिपीडने तत्र तत्र स्थितः स स रस तेन प्रकारेणोद्गत इत्यर्थः । ’ ततो हृता’ इति पाठे तं तं रसं भूमेर्हत्वा तेन तेन स स गर्तः पूरित इत्यर्थः ।। १२१-१२३ ।। पुन तेषामेवोक्तिर्व्यर्थेत्याशङ्कयाह जडेति । निबन्ध: - जडजीवविभेदेन पृथिवी तु द्विधा यतः । गुणत्रयमतो भिन्नं द्विधाऽत्र विनिरूपितम् ॥ १२४ ॥ प्रकाशः - सगुणनिर्गुणभेदेन द्विधा सा । स्वगुणापि स्थावरजङ्गमभेदेन द्विवेत्यर्थः । घृतादित्रयं गवादिनिष्ठो रस इति तथा भगवदासनवत्त्वेन निर्गुणत्वं तद्भूमेः ।। १२४ ॥ निबन्धः — लोकालोकाचलादवक्काञ्चनी भूमिरुत्तमा । सार्द्धकोटिस्तथा सप्त लक्षाण्यधं तथैव च ।। १२५ ।। अन्या भूमिर्न सौवर्णी सौवर्णीत्यपरे जगुः || T प्रकाशः–अथ ततः परस्ताद्’ इत्यादिग्रन्थो विचार्यते । शुद्धोदात्परतो लोकालोकादर्वाक् सार्द्धषण्णवतिलक्षाधिकनव- कोटिमाना भूर्भवति । तन्मध्ये सार्द्ध सप्तपञ्चाशल्लक्षाधिककोटिमाना सौवर्णी नान्येति सिद्धान्तो भागवतस्य । अन्यथा याव - न्मानसोत्तरमेर्वोरन्तरमिति न वदेत् । पुष्करद्वीपलोकालोकयोरन्तरमिति वदेदतस्तावत्येव तथा नाऽन्येति आह अन्येति । अन्यस्मिन् पक्षे लोकालोका चलादवगितिपदाल्लोकालोकनिकटस्था तावती भूः काञ्चनीति ज्ञेयम् । अत एव लोकालोकं निरूप्य काञ्चनी भूमिमूल उक्तेति भावः । शैव तन्त्राद्यनुरोधादन्यामपि भूमिं तथा केचिदाहुस्तत्र कल्पभेदो ज्ञेय इत्याशयेनाऽऽह सौवर्णातीति । अस्मिन् पत्ते यावन्मानसोत्तरेत्यादिना कथनं सर्वसत्त्वपरिहृताया भूमेः ।। १२५३ ॥ 1 जीवस्वरूपे स्थित्यर्थम् । तथोक्तमिति सप्तधा वर्षादिविभजनमुक्तम् । पुरस्तादिति ‘भूतप्राधान्यमत्रे’ तिश्लोके । सर्वत्रेति पुत्रे वर्षे च । मूले तथैवेत्यादि, अन्वये पुत्रसम्पत्तिः प्रियव्रतसङ्कल्पकृतैवेत्यन्वयः । इति तथेति जङ्गमपृथिवीनिष्ठत्वाद् द्वितीय- कक्षायां गणितमित्यर्थः ॥ १२०-१२४ ।। तद्भूमेरिति पुष्करद्वीपभूमेः । इति सिद्धान्तो भागवतस्येति एतद्बोधनाय ग्रन्थं ।। । किञ्चिद्वत्पाद्यते । तथा हि, पूर्व जम्बूद्वीपविचारे ‘यो वा अयं द्वीप’ इतिगद्ये नियुतयोजनविशालः समवतुल इतिमानमुक्तम् । तच्च दैर्घ्यस्यैव न वतु लत्वस्य । अन्यथा दैर्घ्यस्य वतु तृतीयांशमात्रत्वनियमेन ( ३३३३३ ) त्रयस्त्रिंशत्सहस्रत्रिशतत्रयस्त्रिंशद्योजनानि सपातक्रोशश्चेति तद्दैर्ध्यापाते इलावृतदक्षिणोत्तरभागयोर्वर्त्तमानानां भारतादिकुर्वन्तानां षण्णां नवनवसहस्रयोजनविशालानां वर्षाणां विचारे चतुःपञ्चाशत्सहस्रयोजन दैर्ध्यात्तेषां जम्बूद्वीपे स्थितिर्वाधिता स्यात्, एवं सति यस्मिन्नववर्षाणीत्यभिमगद्यारम्भवाक्यं पूर्वगद्य
….. सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे निबन्धः तस्याः प्रमाणमेकोनचत्वारिंशन्मितानि हि ॥ १२६ ॥ लक्षाणि हि तथा चाser कोटयः परिकीर्तिताः । मध्यस्थया स्वर्णभूम्या सार्धद्वादशकोटयः ।। १२७ ।। प्रकाश : - एवं सति मेरोः प्रतिदिशं लोकालोकान्तरर्गता सार्द्धद्वादशकोटिपरिमिता भूरिति पञ्चाशत्कोटिमिता भवतीत्याह मध्यस्थयेत्यादिना ।। १२७ ।। E एव सम्बध्यते । नवसहस्रयोजनायामानीति त्वष्टवर्षाणीत्यध्याहारेणान्यथानुपपत्त्या योजनीयम् । अन्यथा षोडशसहस्रं मूल आयतस्य मेरोरिलावृते स्थितिरन्येषां च गिरीणां बाधिता स्यात् । एवं सति प्रान्तगानि चत्वारि वर्षाणि धनुराकृतीनि नव- सहस्रविशालानि मध्यभागे प्रान्ततस्तु हस्वानि । रम्यकहिरण्मयहरिवर्ष किंपुरुषाणि सूर्याकृतीनि मध्यभागे तावन्ति, दै तु तेभ्यो दीर्घाणि । इलावृतं तु दक्षिणोत्तरयोः षट्चत्वारिंशत्सहस्रविततं पूर्वापरयोस्त्वष्टाशीतिसहस्रमिति दीर्घचतुष्कोणाकृति भवति । न च द्विद्विसहस्रपृथूनां तत्तन्मर्यादागिरीणां विद्यमानत्वाच्चतुस्त्रिंशत्सहस्रविततमिति शङ्कथम्, तन्मध्यगतस्य मेरोर्मूर्ध्नि देशे द्वात्रिंशत्सहस्रविततत्वात्केसराचलादीनां तद्बहिर्भावाभावे च तत्तदुपरिवक्ष्णमाणस्य गङ्गाप्रवाहपातस्य बाधप्रसङ्गात् । अतः पूर्वोक्तमेवेलावृतमानम्, तन्मध्यं च षोडशसहस्रं मेरुणाक्रान्तं मेरोः परितः केसराचलास्त्वनुक्तोन्नाहपरिणाहा इति मूले मेरुसंसक्ता एवावष्टम्भगिरीणामुपर्येव द्विसहस्रचतुः शतविस्तीर्णतया एकैकशो दृश्यन्ते, न तु प्रत्येकं पृथवः, अत एवायुतयोजन- विस्तारोन्नहाचतुरो मन्दरादीनवष्टम्भगिरीनुक्त्वा तत एव त उक्ताः । एते च सौवर्णा वा मणिमया वा उपरितो मेरोर्विविष्टाः पादोनतुङ्गा अर्द्धतुङ्गा वेति केसरतुल्यतया औचित्यबलेन कल्प्यते । ‘अचिन्त्याः खलु ये भावास्तांस्तर्केण प्रसाधयेति मात्स्यादौ वाक्येन तथा कल्पने दोषाभावात् । ‘अलौकिकास्तु ये भावा न ताँस्तर्केण योजयेदिति निषेध त्यालौकिकविषयत्वेनाबाधकत्वा- दिति । तेषां च शिखरदैर्घ्यं मेरुमूर्द्धदैर्घ्यादिकमिति तच्छिखरेव गङ्गाप्रवाहपातकथनादनुमीयते । अवष्टम्भगिरीणामन्तर्भूमि- गतो विस्तारो ऽयुतादत्यधिको मूर्द्धनि त्वीपदधिक इति मन्दरस्य मन्थानत्वात्तत्सादृश्येनानुमीयते । तेषां सौवर्णत्वं च नियतम् स गिरिस्तत्र ‘बहूनमरदानवान् चूर्णयामास महता भारेण कनकाचल’ इत्यमृतमन्थनेष्टमस्कन्धवाक्यादवगम्यते । तदग्रे जरवादयः परिस्तरणगिरयोष्टौ द्विसहस्रपृथुतुङ्गा द्वन्द्वशः परिस्तृता अष्टदशसहस्रायता मेरोश्चतुर्दिशं रजतमयाः । तेषां राजतत्वं च कैलासस्य राजतत्वप्रसिद्धया तत्सादृश्येन कल्प्यते । कैलासकरवीरौ मेरोदक्षिणतस्तेन यत्प्रवेशात्त्रीभावः, स भागः कैलास करवीरमध्यगा सूपत्यकास्वेवेति प्रतिभाति । अन्यथा सर्वस्येलावृतस्य शतत्वे मेर्वादौ देवस्थितिर्भीमादीनामैन्द्रामसद्रिस्थान- हरणार्थं गमनं च बाधितं स्यात् । अत ‘इलावृते तु भगवान् एक एव पुमानि’ त्यत्रेलावृतपदं तावत्तदेकदेशपरमिति न काचिदनुपपत्तिः ।
। अतः परं गङ्गोत्तरणं विचार्यते । तत्र यस्मिन् कल्पे त्रिविक्रमावतारस्तद्रात्रौ वापररात्रे वा ध्रुवलोके गङ्गाया अवतर- णम्, महता कालेन युगसहस्रोपलक्षणेन दिवो मूर्द्धन्यवततार यत्तद्विष्णुपदमाहुरि तिवाक्यात् । तदग्रिमे कल्पे मेरूपरिब्रह्मसदने निपातः । ततश्चतुर्द्धाविभागेन गमने तु सीताचक्षुश्च निपातकृतवेगात्तव उच्छलन्ती षोडशसहस्रायतं मेरुमूर्द्धदेशमतिक्रम्य केसराचलावष्टम्भगिरिपरिस्तरणगिरिशिखरेषु पतित्वा तत उत्पत्य गन्धमादनमाल्यवतोः शिखरेषु यथायथं निपत्य तत उपर- तवेगा सती भद्राश्वङ्केतुमालं च प्राप्योदधिं विशति । केसराचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती गन्धमादनमूर्द्धनि पतित्वेति । एवं मात्यवच्छिखरान्निःपतन्ती तत उपरतवेगे’ति च वाक्याद भद्रालकनन्दे तु मेरुशिरसः केसराचलशिखरे निपत्य मेरुमन्दर- कुमुदयोरवष्टम्भगिर्योः शिरसी विहाय शृङ्गवतः परिस्तरणगिरेः कैलासस्य च शृङ्गे पतित्वा तत उत्पत्त्य यथायथं रम्यकहिरण्मयौ तन्मर्यादागिरी, हरिवर्षकिम्पुरुषौ तन्मर्यादागिरी च यक्त्वा भद्रा तावत् कुरुवर्षमर्यादागिरौ शृङ्गवति पतित्वा ततः सूक्ष्मवेगे- नावस्यन्दमाना कुरुवर्षं प्राप्योदधिं प्रविशति । ‘भद्रा चोत्तरत’ इति गद्य तथासिद्धत्वाद्, अलकनन्दा तु हेमकूटपर्यन्तमस्पृष्ट्रा हिमकूटानि हिमालयसम्बन्धीनि स्पृष्ट्वा अतिरभसतररंहसा भुवं प्राप्य भारतवर्षे भूत्वोदधिं प्रविशति । ‘तौवालकनन्दे ‘ति गद्ये तथा सिद्धत्वादिति । न च शृगाख्यपरिस्तरणागिरी गङ्गाया अभावः शङ्कयः, चतुर्थस्कन्धे कैलासवर्णने ‘नन्दा चालक- नन्दा च सरितौ बाह्यतः तीर्थपादपदाम्भोजरजसातीवपावन’ इति श्रुतिलिङ्गाभ्यां कैलासे तत्सत्ता सिद्धावन्यत्रापि तदौ- चित्यात् । एवं सति भगीरथस्य यो गङ्गानयनायोद्यमः स कैलासे गङ्गाप्रचयकालीनो ज्ञयः, तन्मया प्रहस्ते सम्यगुपपादितमिति नात्र लिख्यते । । अतः परं भूमिभागो विचार्यते । तत्र मेरुमध्यादर्द्धलक्षयोजनोत्तरं क्षारोदधिः, स तु लक्षमात्रविततः, तदमे, द्वीपा उदधयश्व, पूर्व पूर्वस्मादुत्तरोत्तरं द्विगुणास्तथा सति मेरुमध्यान्मा नसोत्तरमध्यमपर्यन्तं सार्द्धकोटिः सार्द्धसप्तलक्षाणि च भूमिर्भवति । मानसोत्तरस्योछ्रायस्तु तद्वीपमध्ये मानसोत्तर’ इति गद्ये ‘अयुतयोजनोच्छ्रायायाम’ इति कथनादयुतयोजनः । अत्र गद्य ‘आयाम’ पदेनोच्छ्रायदैर्ध्यमेव परामृश्यते न तु तिरश्चीनम् तस्य द्वीपवत्परिमण्डलत्वेनात्यधिकपरिमाणत्वात् । नापि पञ्चमस्कन्धार्थः । निबन्ध: - एकतस्तु तथा मेरोरपरत्रापि तावती । तावत्येवोभयत्रापि लोकालोकेन संयुता ॥ १२८ ॥ कटाहेन सहेत्येके पृथिव्यावरणं तु सः । पञ्चाशत्कोटिविस्तीर्णस्ततो दश गुणाः परे ।। १२९ ।। प्रकाशः — केचिद्विष्णुपुराणसम्मत्या लोकालोकेन सह कटाहेन च तावतीं भूमिमाहुस्तत्कल्पान्तराभिप्रायम् । इह लोकालोकस्य मर्यादागिरित्वाल्लोकालोकाचलस्य न भूमध्यपातित्वम् । कटाहोऽपि न तथेत्याह पृथिव्यावरणमिति । स कटाहस्तु पञ्चाशत्कोटिमितः पृथिवीरूपमावरणमेवेति नाऽत्र तत्सहभावः सम्भवतीत्यर्थः ।। १२९ ।। निबन्धः —लोकालोकस्य तूच्छ्रायः कोटियोजनसम्मितः । तस्योपरि गजाः पुर्यो भगवाश्वापि वर्तते ॥ १३० ॥ प्रकाशः - यद्यपि मूले स्पष्टं नोक्तं मानमचलस्य तथापि पुराणान्तरसंमत्योक्त कोटियोजनेति । तथा चोक्तं विष्णु- पुराणे । ‘लोकालोक ततः शैलो योजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि स’ इति । अयुतसङ्ख्यानि सहस्राण्युच्छ्रित इत्यर्थः । तत्रैवं गणनाक्रमः, मेरोरेकतो जम्बूद्वीपस्य पञ्चाशत्सहस्राणि तैः सह आशुद्धोदान्तं सार्द्धत्रिपञ्चाश- लक्षाधिकं कोटिद्वयम् । ततः काञ्चनी भूः सार्द्धषण्णवतिलक्षाधि कनवकोटिमता । एवं सार्द्धद्वादशकोट्यो भवन्ति मेरोरेकतः । एवं चतुर्दिक्ष्वतिपञ्चाशत्कोटिमिता भूर्भवति ॥ १३० ॥ निबन्ध: - पुरुषस्य कटिर्मध्यं भूमेर्लक्षे विभावसुः । ततः सन्देहराहित्ये मध्ये सूर्यो निरूपितः ॥ १३१ ॥ 1 प्रकाशः - ननु चतुर्दशलोकात्मकब्रह्माण्डस्याऽतलभूर्लोकयोर्मध्यं (मध्यं ) भवेत् । तौ च पुरुषत्य कटिजघनात्मकौ । पुरुषस्य च मध्यं कटिरेव भवति । किं च । ‘भूर्लोकः कल्पितः पद्धयाम्’ इति पक्षेमिमलोकस्य नाभिरूपत्वोक्तेर्भूव आकटित्वं गम्यते । एवं सति कटिरूपा भूर्भवति, रविश्च भुवो लक्षयोजनान्तर इति तस्य तन्मध्यं भवति न वैति सन्देहः । ऊद्धूर्वाधो- लोकानां मिथो मानवैषम्यादपि न मध्यनिश्चय इति सन्देहहेत्वनुवादपूर्वकं तन्निरूपणप्रयोजनमाह पुरुषस्येति । अर्द्धेनानुवादः । यत एवं ततो हेतोर्यः सन्देहस्तद्राहित्यनिमित्तं तथा । तदेतत् ‘सूर्येण हि’ इत्यादिनोक्तम् ।। १३१ ॥ तत्परिणाहपरम्, नवलक्षयोजनविततस्य रविरथस्य तत्र मातुमशक्यत्वात् । अत उच्छ्रायपरमेव, अतो विस्तारे दश वा द्वादश वा लक्षाणि भवन्तीति ज्ञायते । ततोग्रे पुष्करद्वीपभागः षड्विंशतिलक्षः । मानसोत्तरमध्यभागात्तु द्वात्रिंशलक्षः ततोत्रे चतुःषष्ठि- लक्षः शुद्धोदः । तदग्रे ऽष्टकोट्ये कोनचत्वारिंशल्लक्षाण्यकाञ्चनी भूः । तदग्रे सार्द्धकोटिः सार्द्धसप्तलक्षाणि कावनी भूः । मानसो- त्तरमेर्वन्तरस्य तावत्त्वात् । उभयं मिलित्वा सार्द्धषण्णवतिलक्षाधिकनवकोटिमाना भूः शुद्धोदलोकालोकयोरन्तराले भवति । तदेतदुक्तम् इति सिद्धान्तो भागवतस्येति । एवं गणनायां मेरुमध्यादारभ्य काञ्चन्या भुवः प्रान्तभागपर्यन्तं सार्द्धद्वादशकोटयो योजनानां भवन्ति । एतावल्लोकपरिमाणम्, तदग्रे लोकालोकपर्वतः अयुतयोजनविततः कोटियोजनोन्नाहः । इतो ध्रुवलोक एकोनचत्वारिंशल्लक्षयोजनोपरि’ तस्यापि गभस्तयो लोकालोकोपरि गन्तुं नोत्सहन्त इति तत्परभागस्था सार्द्धद्वादशकोटि- योजनमिता अलोकभूमिर्गनान्धकारवतीति तत्र द्विजपुत्रानयनार्थं गमने रथमार्गदर्शनाय सुदर्शनस्य प्रेषणम् । तदग्रे जलमनि- रुद्धव्यूहस्थानम्। तदेव मूले ‘यद् बहिर्लोकालोका चलात्ततः परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरेती’ त्यनेनोक्तम् । तदग्रे ब्रह्माण्डरूपा पृथिवी । प्रकृतमनुसरामः । लोकालोकाचलादर्वागिति निबन्धोक्तौ मानमाहुः अत एवेत्यादि । शैवतन्त्रोक्तकाञ्चनीभूम्या- दरपक्षे, तस्याः परिमाणं निबन्धे आहुः तस्याः प्रमाणमित्येकेन । तथा च यात्र अकाञ्चनीत्वेनोक्ता सापि काञ्चनीति तन्मते शुद्धोदपरपारमारभ्य यावल्लोकालोकं काञ्चनीत्यर्थः । मूलाविरोधायाहुः अस्मिन्नित्यादि । तथा च मूलोक्तकाञ्चन्यतिरिक्ता काञ्चनी आदर्शतलोपमा न भवति, किन्तु मेर्वादिसमेत्यर्थः ।। १२५३ ॥ सिद्धं भुवो मानमाहुः एवं सतीत्यादि । विष्णुपुराण- पक्षात् श्रीभागवतोक्ते को विशेष इत्याकाङ्क्षायामाहुः इहेत्यादि । तथा च श्रीभागवतपक्षे अयुतविततो लोकालोकोधिकः, मूले ‘पञ्चाशत्कोटिविगणितस्य भूगोलकस्य तुरीयभागोयं लोकालोकाचल’ (लो० ३८ ) इति योन्तर्विस्तार, एतेन ह्यलोकपरिमाणं व्याख्यातमिति च कथनान्मेरोश्चतुर्दिशं लोकालोकस्य परतश्च सार्द्धद्वादशकोटयो भवन्तीत्ययमचलोधिक इत्येको विशेषः । योगेश्वरगतिस्थलाधिक्यमपरः । तदग्रेण्डकटाहः पञ्चाशत्कोटिस्थूल इति तृतीय इत्ययं विशेष इत्यर्थः ।। १२९ ।। लोकालोकः कियानित्यपेक्षायामाहुः यद्यपीत्यादि । मेरोरेकत इति आलोकालोकाचलादिति शेषः । एवमिति लोकालोकपरभागस्थां भुवमादाय । निबन्धे मूले तस्योपरि गजाः पुर्य इति । यद्यपि गद्ये पुर्यो नोक्ता तथापि गजानुक्त्वा अप्रिमे गद्ये तेषां स्वविभूतीनां महेन्द्रादीनां लोकपालानां च विविधवीर्योपवृतिकथनाल्लोकपालपुपि ज्ञातव्या इत्यर्थः । अतः पर ‘मण्डमध्यगतः सूर्य’ (०४३ ) इत्यादिग्रन्थं विचारयन्ति नन्वित्यादि । अग्रिमलोकस्येति अन्तरिक्षलोकस्य । तस्य तन्मध्य इति विराट्पुरुषस्य नभस्तलं मध्यम् ॥ १३१ ॥ । Tसावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे निबन्ध: - - दशसाहस्रगणना पातालादिषु सत्तया । महादेवान्तरं कोट्यो येन स्युः पञ्चविंशतिः । काञ्चीदाममणिः सूर्यः शक्तिः कुण्डलिनीति च ।। १३२ ॥ प्रकाशः – ऊद्धर्वालोकमानवैषम्यधीपरिहारार्थमेव पञ्चविंशतिकोटिमानकथनम् । नन्वेवं सत्यधोलोके तावन्मानकथन- भनुपपन्नमल्पत्वात्तत्राह दशसाहस्रेति । तावदपि तत्र वर्तत इत्यभिप्रायेण तथोक्तिः, ‘अधिकं तत्राऽनुप्रविष्टं न तद्धानिः, इति- न्यायेन न तु तावन्मात्राभिप्रायेणेत्यर्थः । अत्र विनिगमकं वदतेषां मानं कियज्ज्ञातव्यमित्याकाङ्क्षामपि पूरयन्नाह महादेवान्तर- मिति । महान् देवः सङ्कर्षणः सूर्यो वा, यावता तावद्भवति तावन्मानं ज्ञातव्यमित्यर्थः । अधोलोकानां तावन्मात्रत्वे ‘सूर्योण्ड- गोलयोर्मध्ये’ इति विरुद्वयत इति भावः । तह्यांचायैरधोलोकमानं कुतो नोक्तमिति चेद्, अत्राऽयभावः । ‘सप्त भूमिविवराः’ इतिवक्ष्यमाणत्वाद् ‘भूर्लोकः कल्पितः पद्भ्याम्’ इत्युक्तत्वाश्च भूमध्यपातित्त्वं तेषामिति विशेषतो नोक्तमिति । विराध्याने कक्र्युपरिस्थितस्य तस्य स्वरूपमाह कानीति । एतेन भूप्रकरणे दिविष्ठसूर्योक्तिर्न युक्तेति शङ्का निरस्ता । अत एवोर्ध्वाधोविभाज- कत्वमिति भाव: । ‘मृतेण्ड’ इत्यादिव्युत्पादनतात्पर्यमाह शक्तिरिति । सङ्घाते हि देहादिसम्वलितो जीवो मृत इव तिष्ठति । कुण्डलिनी प्रबोधे हि सुषुम्णारन्ध्रप्रवेशे क्रमेणाऽमृतत्वमापद्यते । तथा वायुक्तत्वादयं विराजस्तथेत्यर्थः ॥ १३२३ ॥ अ० २१ भूप्रकरणं समाप्याऽग्रिमाध्यायत्रयेण दिवः स्थानं निरूप्यत इत्याह अत इति । निबन्धः – अतः परं त्रिभिः प्रोक्ता द्युमर्यादा तथाविधा ॥ १३३ ॥ सूर्यस्य च तथाऽन्येषां शिशुमारस्य च क्रमात् । प्रकाश:- त्रित्वे हेतुमाह तथाविधेति । सत्त्वका र्यरूपेत्यर्थः । तस्य च शुद्धमिश्रभावेन त्रिविधत्वेनाऽध्यायेष्वपि तथा- त्वमितिभावः । अध्यायार्थानाह सूर्यस्येति । आद्ये सूर्यस्य । द्वितीये सोमादीनाम् । शिष्टे शिष्टस्य ।। १३३३ ॥ तत्राद्ये प्रकरणविभागमाह सूर्यस्येति । निबन्धः —सूर्यस्य गमनं पूर्वं गतिस्थानं तथाऽपरम् ॥ १३४ ॥ रथस्य साधनस्यान्ते प्रमाणादि च रूप्यते । । बैंक (Bete क प्रकाशः——‘यन्मध्यगत’ इत्यारभ्य गमनमुच्यते । ततो गतिस्थानम् । ततो रथस्य । साधनस्येति हयारुणादेरित्यर्थः । अन्ते तत्तत्प्रकरणस्यान्ते तस्य तस्य प्रकृष्टं मानं च, एवं नवकोट्य इत्यादि । ‘एवं मुहूर्तेने’ त्यादि । ‘लक्षोत्तरमित्यादि ।। १३४३ ॥ ननु पूर्वाध्याय एव रविनिरूपणात्तद्गत्यादिनिरूपणमपि तत्रैवोचितम् । कि च ‘एतावानेवे’त्यारभ्या’त्मभासे’ त्यन्त- ग्रन्थस्य किं प्रयोजनमत आह दिव इति । ऊद्वलोकमानेति ऊर्ध्वलोकाश्च अलोकश्च तेषां मानमित्यर्थः । तावन्मानकथनमिति एकैकशो योजनायुतान्तरेणा- यामविस्तारेणेति मानकथनम् । अल्पत्वादिति अन्तरस्याल्पत्वात् । तावदपीत्यादि । तथा च गद्ये अन्तरपदमवकाशपरम्, तेन ते विवरदेशायोजनायुतमितं यदन्तरमवकाश तेन तावद्विस्तारयामेन तद्वासिनां वासायोपक्कताः, ततोन्यो यो भागः स तु लोकान्तरगमनमार्ग तया वर्त्तमानः स्वल्पावकाशो लोकत्वायोग्य इत्यर्थः । मानमिति दूरतायाः मानम् । सङ्कर्षणः सूर्यो’ बेति विष्णुपुराणोक्तपक्षे कटाहस्य पञ्चाशत्कोद्र्यन्तः पातित्वात्सङ्कर्षणः, सिद्धान्ते तु सूर्य इत्यर्थः । विशेषतो नोक्तमिति विशेषतो विराध्यानेनुपयोगे मूलगद्येषु वदेत् सूचयेद्वा तदभावात्, लौकिकपुरुषसंस्थासामान्येन तद्दूरत्वनैकट्ययोर्ज्ञातुं शक्यत्वाच्च नोक्तमित्यर्थः । अत एवेति काबीदामस्थत्वादेव । एवं द्वाविंशतिभिर्विशाध्यायः पञ्चमो विचारितः । एतावता सार्द्धानपश्चा- शद्भिर्भूप्रकरणं समाप्तम् ।। १३२३ ॥ अतः परमध्यायत्रयात्मकं प्रकरणं सार्थोनसप्ततिभिर्विचारयन्तः सार्द्धत्रिचत्वारिंशद्भिरेकविंशं प्रकरणप्रथमाध्यायं विचारयन्तीत्याहुर्भूप्रकरणमित्यादि । तस्येत्यादि प्रथमाध्याये रजोमिश्रभावेन, द्वितीये तमोमिश्रभावेन, तृतीये शुद्धसत्वभावे- नेत्यर्थः । शिष्टस्येति शिशुमारस्य । ततो गतिस्थानमिति ‘मानसोत्तरेत्यारभ्य ‘समामनन्ती’त्यन्तेन । ततो रथस्येति ‘तस्याक्ष’ इत्यारभ्य गमनगतिस्थानरथप्रकरणस्यान्ते । तथा च ‘यन्मध्यगत’ इत्यत्रोक्तायाः सूर्यगते’ मानमेतस्यैव प्रकरणस्यान्ते ‘एवं नवकोट्य’ इत्यादिनोच्यते । ’ तथा मानसोत्तरे’ त्यारभ्योक्तस्य गतिस्थानस्य मानमेतस्यैव प्रकरणस्यान्ते ‘एवं मुहूर्त्तेत्यादिनोच्यते, तथा ‘तस्याक्ष’ इत्यारभ्योक्तस्य रथस्य मानम् एतस्यैव प्रकरणस्यान्ते ‘लक्षोत्तरमित्यादिनोच्यते इत्यर्थः । पूर्वाध्याय इति विशाध्याये । तन्निरूपणमिति गत्यादिनिरूपणम् । तथाकृतमिति एतावानित्यादिभासेत्यन्तग्रन्थेन कृतम् । तथा च पूर्वाध्याये तत्प्रयोजना- … पंचमस्कन्धार्थः । निबन्धः – दिवो मानप्रसङ्गेन सूर्यस्यात्र निरूपणम् ।। १३५ ॥ अतः प्रसङ्गिनं प्राह मानतो ह्यतिदेशतः । प्रकाशः – नाऽत्र प्राधान्येन तन्निरूपणं किं तु दिवः प्रकरणित्वात्तन्माने निरूपयितव्ये तन्निरूपणमेव तथाकृतमित्यर्थः । एतज्ज्ञापनायैव स ग्रन्थ इति भावः । अत इति । ‘एतेन हि’ इत्यनेन सामान्यतो दिवो मानमुक्तं यद्यपि तथाप्यन्यस्य विभाज - कस्य वक्तुमशक्यत्वाद्विशेषतस्तनिरूपणं सूर्यगतिविशेषनिरूपणं विना न भवति यतो हेतोः ॥ १३५३ ।। इतिश्रीमद्वल्लभदीक्षितविरचिते सप्रकाशतत्त्वार्थदीपनीबन्धे श्रीमद्भागवतार्थप्रकरणे पञ्चमस्कन्धार्थनिरूपणं समाप्तम् । एकविंशोऽध्यायः । अतः प्रसङ्गिनं प्राह मानतो ह्यतिदेशतः । अन्ते सुसन्धितं मध्ये शून्यमेवंविधं तु तत् ॥ स्वरादिलोकसंस्था तु पातालादेरिवेरिता । राशिमध्यगता भूमिर्न्यूनाधिक्येन वर्त्तते ॥ ज्योतिश्चक्रस्य तु गतिः सूर्येणेति निरूप्यते । ब्रह्मकल्पे तथेत्येके मानसादेस्तु सम्भवात् ॥ १३६ ॥ १३७ ॥ १३८ ॥ । भावान्न तत्र कृतमत्र तु प्रकरणिमानज्ञापनार्थं कृतमितीहैव स ग्रन्थो युक्त इत्यर्थः । यतो हेतोरिति अतो हेतोः प्रसङ्गिनं सूर्य प्राहेति मूलकारिकया सम्बन्धः । इयदवध्येव प्रभुचरणा निबन्धं प्रकाशितवन्तः । इति श्रीमद्वल्लभनन्दनचरणैकतानदासानुदासपुरुषोत्तमविरचितस्तत्त्वदीपप्रकाशावरणभङ्गः सम्पूर्णः ।
- प्रथमो विभागः सम्पूर्णः श्रीबालकृष्णो विजयते । श्रीदशदिगन्तविजयिश्रीगो. श्री ६ श्रीपुरुषोत्तमचरणविरचिता पञ्चमस्कन्ध निबन्धस्य योजना | निजकृति परिपाकव्याकुलीभूतबुद्धिः क इह खलु विभूनामाशयं वेत्तुमीष्ठे । तदपि करुणया स्मन्नाथ नः खेदहारिस्वपदनखविधुं दृक्पानपात्री कुरुष्व ॥ १ ॥ किरणैर्निजसरणिं दर्शय हाई च कर्षय ध्वान्तम् । योजय देव निबन्धं जाने येनार्थसम्बन्धम् ॥ २ ॥ दिवो मण्डलस्य मानं निरूपयन्ति - मानतो ह्यतिदेशत इति । मूले ‘दिवो मण्डलमित्यनेन स्वर्लोक उच्यते, ‘उरःस्थलं ज्योतिरनीकमस्ये ‘ति ‘दिवो मूर्द्धनी’ त्यादिकथनात् । अन्तरिक्षन्तु नाभिसरोरूपं नभस्तलं स एव भुवर्लोकः, ‘भुवर्लोकस्य नाभित’ इति द्वितीये वाक्यात् । तद्धि मानतः पञ्चाशत्कोटियोजन सङ्ख्यातमेव । गद्ये ‘यथा द्विदलयोर्निप्पावादीनामि’ त्यतिदेशा- दित्यर्थः । स्वरूपमाहु - अन्त इत्यादि । ‘ते अन्तरेणान्तरिक्ष तदुभयसन्धितमिति गद्ये कथनात् । गद्ये ‘वदुभयसन्धितमि ति तयोर्भूर्लोकस्वर्लोकयोर्द्यावापृथिव्योः सन्धितं सम्बद्धम् । तथा च तस्य भूर्लोकनिकट भागस्तत्स्थितानां भोग्यो द्युलोकनिकटतत्स्था- नाम्, तद्वक्ष्यति चतुर्विंशे ‘अधस्तात्सवितुरित्यादिभिः । एवं सति पक्षिप्रचारयोग्यो भागः शतयोजनात्मको भूर्लोकवासिभोग्य उपरितन: सिद्धादिभवनमारभ्य द्युलोकस्थभोग्यः शेषः सप्तषष्ठिसहस्रमितोऽतरिक्षनामा भुवर्लोकवासियक्षादिभोग्यस्तेन भूर्लोकाचन्द्रचारपर्यन्तो द्विलक्षयोजनात्मको भुवर्लोकः पञ्चाशत्कोटिविस्तीर्ण इति सिद्धयतीत्यर्थः ।। १३६ ।। नन्वत्र भूमण्डलायामसन्निवेशादिकं राज्ञः प्रश्नानुरोधेन विराडूध्यानार्थमुच्यते । अतः स्वर्लोकादिसंस्थानमप्यवश्यं वक्तव्यमेवेति तत्कुतो नोच्यत इत्याकाङ्क्षायामाहुः - स्वरादीत्यादि । तुः शङ्कानिरासे, पातालादिविवरेष्वयुतयोजनान्तरस्यायामविस्तारस्य वक्ष्यमाणत्वात् । तेनैव सा कथिता । तथा च तेषां दूरनैकट्य विभागो निबिडभागो मार्गभागश्च तत एव ज्ञातुं शक्य इति विराध्यानस्य तावतैव सिद्धिरित्यतो नोच्यत इत्यर्थः । ननु ’ स एष उद्गयने’ त्यादिप्रन्थस्य किं प्रयोजनं राज्ञाऽपृष्टत्वात् । न च ‘कालानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपी’- तिद्वितीयस्कन्धे प्रश्नात्तदुत्तरत्वेनेदमितिवाच्यम् स कालः परमाणुर्वै’ इत्यादिना तृतीयस्कन्ध एव तस्योत्तरितत्वादित्यत आहुः - राशीत्यादि । तुरप्यर्थे, अस्मिन्नध्याये निरूप्यमाणेन सूर्येण एतदुभयं निरूप्यत इत्यर्थः । मतान्तरेण तत्प्रयोजनमाहु:- ब्रह्मेत्यादि । तुः प्रयोजनशङ्कानिरासे । द्वितीयस्कन्धे ब्रह्मकल्पो राजसन्देहनिरासायोक्त इति मानसोत्तरादिकं च सर्वं प्रियत्रता- दिकृतं तत्रैवैति प्रसङ्गतस्त्रत्यमिदमप्युच्यत इत्यर्थः ॥ १३८ ॥ सावरणभङ्ग सप्रकाशतत्त्वार्थदीपनिबन्ध १३९ ॥ १४० ॥ सूर्यस्य तु पृथग्ज्ञानमेवमत्र विचारितम् । कालसूत्र मिहैकं हि रथयुग्मे यथोचितम् || । ॥ सूक्ष्म एव स्थितः सूर्यः स्थूलस्यापि प्रवर्त्तकः । सारथिस्त्वविशेषेण मृत्तिभेदेन वा तथा ॥ सूक्ष्मरूपरथा ये तु त ऊर्ध्वं मण्डले स्थिताः । रहटे घटिका यद्वदूत आरोहणादिकम् ॥ आरोहणे मन्दगतिरवरोहे तु शीघ्रता । हे तु शीघ्रता । समे मध्यमभावश्च ज्योतिश्चक्रगतिः समा ।। राश्यादिभावमापन्नाश्चक्रस्याशा निरूपिताः । मेषे तुलायां च तथा अत ऊर्ध्वं व्यवस्था ।। १४३ ॥ 1 ३ समा ॥ Iध्ये १४१ ॥ १४२ ।। १४२ ॥ सिद्धान्तेनाहु: - सूर्यस्येत्यादि । तुः पूर्वोक्तपक्षनिरासे, पाद्मं कल्पमथो शृण्व’ ति मध्ये उक्तत्वात्तस्यापि वक्तुमुचि- तता । तथा च तृतीयेऽहोरात्रादीनामुक्तत्वेपि पक्षस्य पञ्चदशदिनात्मकत्वेन कथनात्तदादिवृद्धिहा सहेतुज्ञानाभावे प्रत्यक्षविरोधेन पुनः सन्देहः स्यादिति तन्निवृर्थं तद्धेतुभूतदिवसरात्रिवृद्धिहासज्ञापनाय, यत्रैते राशयस्तस्य ज्योतिश्चक्रस्यापि पूर्वाध्याये लो. ३० यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमती’ त्यनेनेोक्ताया गतेर्ज्ञापनाय च तदुक्तिरिति सूर्यस्य पृथगेव ज्ञानमत्र विवक्षितमिति तदेवात्र मुख्यतया विचारितमित्यर्थः । अत्र ‘स एप’ इति गद्यविवरण- रूपं ‘यदा मेषे ‘त्यादिगद्यम् । तस्य सङ्ग्रहो ‘यावद्दक्षिणायनमि’त्यादीति ज्ञेयम् । राशिमध्यगतभूमेर्न्यूनाधिकत्वं सूर्यभोग्यनक्षत्रा- क्रान्तदिवससङ्ख्याभिर्ज्ञेयम् । ज्योतिश्चक्रगतेर्भेदस्त्वग्रिमाध्याये मूल एवानुमानेन बोधनीय इति न कोऽपि शङ्कालेशः । ननु पूर्वाध्याये सूर्यरथस्य सम्वत्सरात्मकं चक्रं मानसोत्तरोपरि भ्रमतीत्युक्तम्, स तु गिरियुतोच्छ्रायो लक्षोच्छ्रायान्मेरोरतिनीचैस्ततस्त- दुपरि भ्रमन रविरथोऽपि सहस्रच्छ्रायो द्विगुणो वा भवेत्, न त्वधिकस्तथा सति तस्यापि नीचैस्त्वान्मेरुपरि कथं दिनरात्रि- व्यवस्था । किञ्च, तस्य गत्याऽस्मदादिदिनरात्र्योर्यथा न्यूनाधिकभावस्तथाऽहोरात्रस्य नास्तीति कथं वैषम्यम्, गतेरैक्यादित्या- शङ्कायां द्विविधगतिं तत्प्रयोजकस्य कालोपाधित्वं चोपपादयन्ति साद्धैः षड्भिः - कालेत्यादि । कालस्य सूत्रत्वं तृतीये वक्तव्यम् । । । ‘अव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानामित्यनेन । सूर्यस्य हि स्थूलं सूक्ष्मं चेति रथद्वयमेकैकचक्रम् । इहास्मिन् रथयुग्मे । हि यतो हेतोः । कालसूत्रं कालात्मकं सूत्रम्, यथोचितं याहम्गत्यर्थं यथापेक्षितं तदर्थं तत्र तथास्थितमेकम् अत उभयोरपि कालोपाधित्वम् । हिरप्रेऽपि सम्बद्धयते । यतो हेतोः सूक्ष्म एव रथे स्थितः सूर्यः स्थूलस्यापि रथस्य नियामकतया प्रवर्त्तकः । । तु पुनः सारथिररुणोऽ विशेषेणैकरूपेण मूर्त्तिभेदेन वा तथा प्रेरकतया प्रवर्त्तकः ॥ १३६-१४० ।। १ तु पुनः ये राह्वादिसप्तर्ण्यन्ताः सूक्ष्मरूपा एकैके रथा येषां ते मण्डले स्थूले चक्रे यद्वद्रहटे घटिकास्तिष्ठन्ति तद्वदूर्ध्वं स्थिताः । ( ते विष्णुपुराणे द्वितीयेऽशे द्वादशाध्याये ‘स्थास्त्रिचक्रे सोमस्ये’ त्यादिना निरूपिता ततोऽवगन्तव्याः । यद्यपि सप्तर्षीणां रथा नोक्तास्तथापि तेषां गमनदर्शनात्कल्पनीया विमानानि वा ) गतिस्थानभूतानि मण्डलानि तु मध्यममण्डलस्योभयतो दिशङ क्रमेण हसन्ति । तेष्वारोहणे मन्दा गतिरवरोहणे शीघ्रा प्रत्यहं मण्डलभेदाद्भिद्यते, वायुवशाच्च । समे ज्योतिश्चक्रतुल्ये मध्यममण्डले गतेर्मध्यमता, अत आरोहणादौ तथा तथा गतिरतीति गतिभेदाद्दिन राज्योन्यूनाधिकसममावो ज्योतिश्चक्रगतिः समा । अतः परमाण्वाद्यहोरात्रान्तानां सर्वदैकरूप्यमिति गतिद्वयाद्गतिस्थानभूतमार्गभेदाच्च सर्वदैकरूप्यमिति गतिद्वयाद्गति- स्थानभूतमार्गभेदाच्च सर्वं समञ्जसमित्यर्थः ।। १४१ - १४२ ।। यथा स्थूलचक्रोर्ध्वभागस्य त्रिविधत्वे प्रमाणमाहुः – राश्यादीति । तथेति समानभूमित्वम् । अत ऊर्ध्व व्यवस्थयेति । मेष लोभयप्रदेशे यथा यत्र युक्ता तत्र तथेति । असमर्थः, ज्योतिश्चक्रं तावत्कुलालचक्रवदुत्तानां मानसोत्तरोपरिसमानयैव गया भ्रमति, तस्य चक्रस्य स्थितिस्तु पटहस्योद्र्ध्वमुखतया स्थापितस्य परं त्वयं गोलाकृतिः, तत्र च मेरोर्लक्षयोजन- समुन्नाहत्वे षोडशसहस्रं भूम्यन्तः प्रविष्टत्वान् मानसोत्तरमस्तकाच्चतुःसप्ततिनवतिसहस्रयोजनोपरि मेरोर्मूर्द्धनि यो वक्ष्यमाणोऽक्षस्याधोभागस्तत्समानसूत्रे मेषस्तुला च चक्रस्योपरि तत्र भूमि साम्यम् । ततो मेषात्तिरश्वीनोश्चपृष्ठभागे भूमिसम्यम् वृषस्तत्समानसूत्रे तुलोपरि कन्या । वृषात्तिरश्चीनोश्चपृष्ठभागे मिथुन तत्समानदेशे कन्योपरि सिंहः । मिथुन- सिंहयोस्तिरश्वीनोच्चपृष्ठभागे कर्क : सर्वोपरि, एवं सति मेषाञ्चलितस्य कर्कमध्यपर्यन्तमारोहस्तत आरम्भ तुलारम्भ- पर्यन्त मवरोहः । एवं तुलानीचैस्तिरश्चीनाप्रभागे वृश्चकस्तत्समानसूत्रे मेषान्नीचैमन पूर्ववद्वृश्चिकान्नी चैर्धनुस्त- त्समानसूत्रे मीनान्नीचैः कुम्भः । धनुःकुम्भयोतिरश्रीने सर्वतो नीचैर्मकरः । एवं तुलातो यावन्मकरारम्भमवरोहः, मकरमारभ्य मेषारम्भपर्यन्तमारोह इति । एवं च एषा राशिकक्षा उपवीतवत्तिष्ठति, ( एतेषामुदगयनदक्षिणायन वैषुवत राशीनां विभागाः परस्परं विभक्ताः, यत्रोदगयने आरोहरू त्समाने दक्षिणायनेऽवरोह इत्येवं बोध्याः । कुतः मानसोत्तरोपर्येव सूर्यादि- परिभ्रमणस्योक्तत्वादिति ) । तत्र च राह्वादिसप्तर्घ्यन्ताः स्वस्वकक्षासूत्तरीतिकभूमावरोहन्तोऽवरोहन्तो गच्छन्ति । तत्रापि सूर्यगतिस्थले वायुरिति विषम इति प्रत्यहं गतिभेदः । तदुक्तं श्रीधरीये वायुपुराणवाक्यैः । अन्यथा दिनरात्र्योरेकस्य वृद्धिरपरस्य ….. पञ्चमस्कन्धार्थः ज्योतिश्चक्रस्य गमनाद्गतिः सूर्यस्य सर्वदा । यत्र राशौ भवेत्सूर्यः सभागेऽग्रे रथाङ्गके ॥ १४४ ॥ तत्प्रातरुदयस्तत्र तदंशेऽपि गतिस्तथा । समानगत्याऽपि तथा स्वांशकालायतिस्तथा ।। १४५ ।। साम्प्रतं तु न पक्षोऽयं मध्ये भूमिरियं यतः । भूमिगोलं परिक्रम्य जलादायाति गच्छति ।। १४६ ।। मण्डलानां प्रवेशेन वायोराकर्षणात्तथा वायोराकर्षणात्तथा । वृद्धिक्षयप्रकारं हि प्राहुस्तत्रैव युज्यते ॥ मास पञ्चक पर्यन्तमहोरात्रक्षयो भवेत् । वृद्धिर्वा न वहोरात्रे तथाऽर्द्धस्य भवेत्क्वचित् ॥ राशि पर्यन्तगमन मे कोनत्रिंशता क्वचित् । तथैकत्रिंशता क्वापि गतिस्तेन समा न हि ॥ स्थूलचक्रे यतः कील तथा तेनोच्यते परम् । स्थूलचक्रे भूमिभेदा न तु सूक्ष्मे कथञ्चन ॥ । ।। १४७ ॥ १४८ ॥ १४९ ॥ १० १५० ॥ ३१ हास इति न स्यात् । वृषभादिपञ्चके दिनवृद्धौ तुलायां साम्यं चाकस्मिकमापद्येत । एवं सति मूलगद्ये वर्द्धन्ते हसतीत्यत्र समापेक्षयां वर्द्धन्ते हसतीत्यध्याहरणमर्थबलात्कार्यमिति सिद्धयति । एतेन देवाहोरात्रमपि साधितम् देवानां मेष उदयः कर्के मध्याह्नस्तुलायां सायं मकरे निशीथमिति । एतावान् परं विशेषो यद्देवैर्दिवसे सूर्यो नवतिवारमुपर्युपरि परिक्रमन् तावद्वारमे- वाऽधोऽधः परिक्रमन् दृश्यते । मेरूपत्यकादिवर्त्तिभिस्त्वस्मदादिवदेकदिवसे एकवारमेवाऽर्द्ध परिक्राम्यन्निति ॥ १४३ ॥ तदेत- दुत्साधयितु ‘मेवं नवकोटय’ इत्यारभ्य ‘समामनन्तीत्यस्य तात्पर्यमग्रे वदिष्यन्तः प्रत्यहं सूर्यदर्शन उपपत्तिमाहुः - ज्योतिरि- त्यादि । तद्वत्या प्रत्यहं दृश्यते न दृश्यते च मेरुव्यवधानादतो दिनरात्रिव्यवस्था भूमिष्ठानामित्यर्थः । प्रातः कालादावुपप- तिमाहुः यत्रेत्यादि । एकैकस्य राशेः सामान्यतस्त्रिंशत्रिशदेशाः स्थूला अहोरात्ररूपा तस्यापि तावन्तो मुहूर्तरूपा एवं घटिका- पलादिपरमाण्वन्ता ज्ञातव्याः । एवं सति रथाङ्गके ज्योतिश्वके सभागे राश्यात्मकद्वादशभागवति राशौ च घटिकादिभागवति अग्रे प्रथमतो यत्र सूर्यो भवेत्तिष्ठति तत्प्रातः । तत्रापि हेतुः । उदय रुत्रेति । दृग्गोचरता तस्मिन्नेव समये इति । तथा यस्मिन् राशौ यस्मिन्नंशादौ प्रथमतः सूर्यदर्शनं तत्प्रातः । एवं तदंशे लग्नघस्यादिरूपेऽपि या सूर्यस्य गतिः सा तथा लग्नादिकाल - नियामिका ज्ञातव्येत्यर्थः । तत्राऽपि हेतुः समानगत्येत्यादि । यथा विषमगत्या राश्यंशादिकालभेदा तथा समगत्याऽपि तदुदयादिभेदाः । तत्रापि हेतुः - स्वांशेत्यादि । ज्योतिश्चक्रांशभूता ये कालोपाधय तेऽनि यतो हेतोरुदयादिनियामका इत्यर्थः । तथा च नियतपरिमाणकालोपाधावहोरात्रादिरूपे ज्योतिश्चक्रगतिः प्रयोजिका, विषमपरिमाणकालोपाधौ राश्यादिरूपे ज्योतिश्चक्र- गते देशे सूर्यगतिः प्रयोजिका, अनियतपरिमाणकालोपाधौ लग्नाद्युदयरूपे तूभयोर्गतिः प्रयोजिकेति भावः ।। १४४ - १४५ ।। । । नन्वत्र सूर्यभ्रमणं तिर्यगुक्तं तत्प्रत्यक्षतो विरुद्धयते इति तन्निवृत्त्यर्थं द्वाभ्यामुपपत्तिमाहुः साम्प्रतमित्यादि । मध्य इति जलमध्ये | जलादायाति गच्छतीति ‘अद्भयो वा एष उदेति पुनरषः प्रविश्यतीति श्रुतेः । ‘सूर्ये चाद्भयः समुत्थित’ इत्यादिवाक्यैश्च तथा । तथा च सा ब्राह्मादिकल्पीया व्यवस्थेतीदानीं (जलप्रवेशे ) तदभावात् प्रत्यक्षविरोधो न दोषावहोत इदानीमयं पक्षो ज्ञातव्य इत्यर्थः ॥ १४६ ॥ कथमेवमित्याकाङ्क्षायामुपपत्तिमाहुः - मण्डलेत्यादि । मण्डलानां राह्वादिसप्तर्ण्यन्त- स्थितिस्थानां जले प्रवेशेन ज्योतिश्चक्रमेव वायोराकर्षणादायाति गच्छति । तथा तेन पूर्वोक्तेनैव प्रकारेण वृद्धिक्षयप्रकारं दिनरात्र्योर्हि यतो हेतोः प्राहुः, ज्योतिर्विद इति शेषः । तत्रैव ज्योतिःशास्त्रोक्ते तिर्यग्गोलपक्षे एव युज्यते साम्प्रतं पक्ष उपपद्यत इत्यर्थः ।। १४७ ।। पक्षद्वयसाधारण्येन सिद्धमाहुः - मासेत्यादि । तत्पूर्वमुपपादितं योजनायां चन्द्रगतेवैषम्यं मनसि कृत्वाहु: तथार्द्धस्य भवेत्कचिदिति, यथाऽहरादिक्षयवृद्धी सूर्येण तथाऽर्द्धस्य मासार्द्धस्य क्षयो वृद्धिर्वा सा कचिचान्द्रेऽमावस्यथा हि मासान् सम्पश्यन्ति पूर्णमास्यया हि मासान् सम्पश्यन्ती ‘ति श्रुत्युक्ते मासविशेषे भवेत् । अतश्चन्द्रगतिरपि ज्योतिश्चक्रे विषमा । तथा च तिथ्यादिन्यूनाधिकभावस्य प्रत्यक्षाभावेऽपि प्रत्यक्षाभ्यां पक्षाधिक्यन्यूनत्वाभ्यां तस्या अपि वैषम्यमनुमीयत इत्यर्थः ॥ १४८ ॥ सूर्यगतिवैषम्येऽनुमापकमाहुः — राशीत्यादि । कचिदित्यनियमेन । तथा च तद्यदि देशकृतं स्यान्नियतघटिकापलकमेव स्यात्, न त्वनियतमतो गतिवैषम्यकृतं तदित्यर्थः ।। १४६ ॥ ननु देश एव तथा कुतो न कल्प्यत इत्यत आहुः — स्थूलेत्यादि । यतो हेतोः कीलं कालसूत्ररूपं तथा सूर्यगतिसाम्यापादकम् तेन हेतुना परं द्वितीयं वैषम्यकारणमुच्यत इत्यर्थः । कालमिति पाठेऽप्यय- मेवार्थः । ननु स्थूलचक्र इव सूक्ष्मचक्रेऽपि भूमिभेद एव कुतो नाद्रियत इत्याशङ्कायामाहुः – न तु सूक्ष्मे कथञ्चनेति, स्थूले ( ज्योतिश्चक्रे ) हि राशयो देशविभागनियामका यथा वर्तन्ते यथा सूक्ष्मचक्रे ( सम्वत्सरात्मके ) किमपि भूनियामकं नास्ति निरवयवत्वाद्गतिवैषम्य विना तत्कल्पनेऽप्युक्तानुपपत्त्यपरिहाराचातो नाद्रियत इति गतिरेव नियामित्यर्थः ॥ १५० ॥ ननु कल्पान्तरे तथाऽस्तु नाधुनेत्यत आहुः - अधुनेत्यादि । चोऽप्यर्थे, अधुनाऽपीत्यर्थः । ज्योतिःशास्त्रेऽपि तथैव सिद्धेरिति भावः । ३२ सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे १५१ ॥ १५२ ॥ १५३ ॥ अधुना भूप्रदेशाथ ज्ञातव्या विनियामकाः । दर्शनस्य समानेन सूत्रेणाऽदर्शनं यतः ॥ मकरादिषु वृद्धिर्हि तथा कर्कादिषु क्षयः । अह्नो विवृद्धिमषादौ रात्रः स्थूलं न चान्यथा ॥ उद्गयन गतेर्मान्द्यं दक्षिणे शीघ्रता मता । अहपतिर्यतः सूर्यो मान्द्यादह्नो विवृद्धता ॥ \ परिधिस्त्रिगुणो व्यासात्किञ्चिच्चापि तथाधिकः । लक्षाधिकं साध नत्र कोट्यो परिधिमण्डले ।। गणनामतभेदाद्वि सन्देहः स्यादितीर्यते । उपदेशस्ततः पूर्षु समा गतिरिहोच्यते ।। १५५ ।। वृद्धिहासनिवृत्यर्थं स्थूलचक्रं प्रवर्त्तते । मेरोश्चतुर्दिशं पुर्यस्तत्र प्रोता दिशो मताः ।। १५६ ।। १५४ ।। तत्रापि नियामिकामुपपत्तिमाहुः - दर्शनस्येत्यादि । तथा च प्रदेशवैषम्यं गतिवैषम्यं च मतद्वयेपि तुल्यम्, गोल- न्मानादिष्वेव परं विशेष इत्यर्थः । १५१ ।। ’ यावदक्षिणायने ‘ति गद्यस्य तात्पर्यमाहुः - मकरेत्यादि । वृद्धिरिति । परमहीन - दिनापेक्षया वृद्धि: । क्षय इति परममहादिनापेक्षया क्षयः । विवृद्धिरिति । विषुवापेक्षयाऽधिका वृद्धिः । रात्रेरिति । एवं क्षयवृद्धी दिनविपर्ययेण भवत इत्यर्थाज्ज्ञातव्यमित्यर्थः । एतेन मूले वर्द्धन्ते हसन्तीत्यत्र समापेक्षयेति पदाध्याहारे यावदक्षिणायनेति गद्यमेव गमकमिति नात्र कल्पनालेश इति बोधितम् । एवं सूक्ष्मरथस्थसूर्यकार्य सर्वमुपपाद्य ‘स एव’ इति गद्य त्रयोक्तमुपसंहरन्ति स्थूलमित्यादिनैकेन ।। १५२ ।। अतः पर‘मेवं नवकोटय’ इत्यारम्य ‘समामनन्ती’त्यन्तेन स्थूलचक्रकार्य तत्स्वरूपं चोच्यत इति तं ग्रन्थं विचारयन्ति परिधिरित्यादि । व्यासाद्दैर्ध्यात् । मेरोश्चतुर्दिशं सार्द्धकोटिः सार्द्धसप्तलक्षाणीति ततो द्विगुणो मध्यव्यासः कोटित्रयं पञ्चदश- लक्षाणि मानसोत्तरोपत्यकावधिरिति । ततस्त्रिगुणः परिधिर्नवकोटयः पञ्चचत्वारिंशन्नक्षाणि मानसोत्तरोपत्यकावधिरिति । ततोऽधित्यकाविचारे तन्मध्यपर्यन्तो व्यासोऽधिको भवतीति लक्षद्वयमधिकं ग्राह्यम् । तेन मूलोक्तः सूर्यपरिवर्त्तनदेशो लक्षाधिक- सार्द्धनवकोटिरूपः सिद्धयति । इयं गणना मतान्तरकृतसन्देहनिरासार्थेति मूले ईर्यते । ततो ल्यब्लोपे पञ्चमी, तं भ्रमणदेशं मनसि निधाय । पूर्षु ऐन्द्रयादिषु चतुर्षु उपदेशः पूर्वस्मान्मेरोरित्यादिरूपो दिगुपदेशः तत्र हेतु:, इहास्मिन् परिवर्त्तने समाग- तिरुच्यत इत्यर्थः ।। १५३ - १५४ - १५५ ।। तत्प्रयोजनं हेतुं चाहुः वृद्धिरित्यर्द्धन । एवमेकं प्रयोजनमुक्तमेकं गद्यं च विवृतम्, द्वितीयमाहुः - मेरोरित्यादि । तथा च मेरुपरिष्टानां दिग्विभागो मानसोत्तरस्थपुरीचतुष्टयकृत इत्यर्थः । एतेन ‘तस्मिन्नन्द्रीमिति गद्यं व्याख्यातम् ।। १५६ ।। नीचैः स्थितानां तमाहुः — अन्यत्रेत्यादि । ि Poetess emp निबन्ध कठिनांशविवेचनम् अग्रे एकविंशाध्यायार्थोक्तौ स्थूलचक्रे भूमिभेदा न तु सूक्ष्मे कथञ्चनेत्यस्य [ १५० ] व्याख्याने ‘गतिवैषम्यं विना तत्कल्पनेप्युक्तानुपपत्त्यपरिहाराच् चे ‘ति राशिमध्यगता भूस्तु न्यूनाधिकभावेन वर्तते । तत्र कचिन् न्यूनराशौ दीर्घकालेना- तिक्रमः, अधिकराशौ न्यूनेन । सूक्ष्मचक्रे प्रदेशकल्पने तन न स्यात् । प्रतिराशि दीर्घसूक्ष्मकालेनातिक्रमे सूर्यगतेरेव न्यूनाधिकभावो हेतुरित्यर्थः । चक्रभेदकल्पनापत्तेरतो न्यूनाधिकराशी एकविंशाध्यायार्थोक्तौ तत्त्वदीपे - अत्राध्याये प्रकरणत्रयमस्तीति सूर्यस्य गमनं पूर्वमिति [ १३४ ] लोकेन अध्याया- र्थारम्भे उक्तम् । तत्र ‘गणना मतभेदाद्धि सन्देहः स्यादितीर्यत’ [ १५४ ] एतावदन्तेन ग्रन्थेन सूर्यगमननिरूपकस्य मूलग्रन्थस्थ- प्रथमप्रकरणस्यार्थ उक्तः । अतः परं द्वितीयप्रकरणस्य गतिस्थाननिरूपकस्यार्थ उच्यते, उपदेशस्ततः पूर्षु [ १५५ ] इत्यादि, कालदेवत्ववृद्धय [ १५६ ] इत्यन्तैः सार्धैश्चतुर्भिः श्लोकः, तत्र उपदेशस्ततः पूर्षु इत्यादि, ततस्तदनन्तरं पूर्षु ऐन्द्र्यादिषु उपदेशः ‘ऐन्द्री पूर्वस्मादि’- त्यनेन गद्येन मेरुपरिष्टानां पूर्वादिदिगुपदेशः, ततस्तासूदयमध्याह्ने’ त्यनेन भूमिष्ठानां दिगुपदेशः, ततस्तत्रत्याना’ मित्यनेन मेरुस्थितानां षण्मासपन्तर्य उदयास्तमयाद्यभावोपदेशः, सूर्यस्य वामदक्षिणगत्युपदेशश्च । ततो ‘यत्रोदेती’त्यनेन समानसूत्रदेशे उदयास्ताद्युपदेशः समानसूत्रषड्राश्यन्तरे च । ततो ‘यदा चैन्द्रद्या’ इत्यनेन पञ्चदशघटिकाभिरिति स्थूलचक्रे समान- दक्षिणे उत्तरे च गतेरुपदेशः, ‘सपादकोटिद्वय’ मित्यादिना पूर्वोक्तगणनाया उपदेशः, तत ‘एवं ततो वारुणी’ मित्यनेन अन्यासु पूर्षु पूर्वोक्तातिदेशः, ततः तथा चान्ये चे’त्यनेन सर्वप्रहेषु अतिदेशः, तत ‘एवं मूहूर्तेने ‘त्यनेन गतिस्थानस्य प्रकृष्टं मानम् । ततो ‘यस्यैकं चक्र’ मित्यनेन चक्रस्य सारत्वं, संवत्सरस्य पुनः पतित्वात् कालस्य देवत्वं, दिनमासर्त्ययनसंवत्सरक्रमेण वृद्धि:, तदेतत् सर्वम् एभिः सार्वैश्चतुभिर्विवृतम् । पञ्चमस्कन्धार्थः । ।। अन्यत्र प्रथमं यत्र मेषे सूर्यो हि दृश्यते । प्राची सा सर्वलोकानां मेरुश्चोत्तरतस्तथा ॥ कमलाकृतिरीत्या हि मेरुरत्र तथैव भूः । अतो मेरोः शिरस्तुल्यं मानसोत्तरमस्तके ॥ सूर्यचक्राक्षमध्यं हि तथाऽत्र परिकल्पना । साङ्गचक्रमिदं प्रोक्तं कालदेवत्ववृद्धये ।। ततः सम्वत्सरसमे न प्रध्या सहितं तथा । सुखार्थ देवगमने प्रधियुक्त’ हि शस्यते ॥ ज्योतिश्चक्रस्य माहात्म्ये सोमादीनां विवर्णनम् । मेरुमस्तकतो नीचो मानसाचल उच्यते ॥ तैलयन्त्रेण सदृशो मेरुरत्र निगद्यते । आद्याक्षमानं स्पष्टं हि तच्चतुर्थांशतो मितः ॥ ३३ १५७ ॥ ।। १५८ ॥ १५९ ।। १६० ॥ १६९ ॥ १६२ ॥ तत्रोपपत्तिमाहुः सर्वेत्यादि, हि यतो हेतोरत्र ‘सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थित’ इतिवाक्यादुदग्दिगेवैका नीचैर्भूस्थानां नियता । एकमेकत्या दिशो नियमे सति मेरुव्यवहितः सूर्यो यत्र यैर्मेषे दृश्यते सा तेषां प्राचीत्येवं मेरुमेषसूर्यदर्श नत्रितयनियतो नीचैःस्थानां दिग्विभाग इत्यर्थः । त्रयाणां तथात्वोक्तौ बीजमाहुः - कमलेत्यादि । हि यतो हेतोरत्र भूगोले मेरुः कमलाकृतिरीत्या तथैव तेन वर्तुलप्रकारेणैव भूः, अतो हेतोर्मेरुशिरस्तुलयो लक्षयोजनोच्चो यो मानसोपरिभागोऽयुतयोजनोच्छ्रायान्मान सोत्तरा- दुपरिसाधिकनवतिसहस्रमितस्तस्मिन् सूर्यचक्रस्य स्थूलस्य मध्यभागो हि निश्चयेन वर्त्तते । तथा तदनुसारिणी अत्रास्मिन् विषये कल्पना । तथा चैवमुक्तौ दृष्टं शास्त्रं च बीजमित्यर्थः । एवं स्थूलचक्रस्य भूमिष्ठदिग्विभागरूपं द्वितीयं कार्य विवृतम्, तेनैव प्रातरादिकालरूपं तृतीयं कार्यमपि उपपादितम् । तच मूले ‘तासूदये’ त्यादिना निम्लोचती’ त्यन्तेन’ भूमिष्ठानां यत्रे’ त्यादिना ‘पश्येरन्नित्यन्तेन मेरुस्थानां चोक्तम्, गतिसाम्यं च यदा चैन्द्या इत्यादिना पञ्चदशघटिकारूप कालनियमकथनेन बोधितम् । सपादकोटिद्वयं योजनानां सार्द्धद्वादशलक्षाणि साधिकानीति, कोटिद्वयं सप्तत्रिंशल्लक्षणानि सप्तसप्ततिसहस्राणि चेत्यर्थः । इदं गतिस्थानस्य प्रकृष्टं मानमसन्देहात्प्रोक्तम् । तथाऽन्ये इत्यादिना च चान्द्रनाक्षत्र सावनादिमासेषु कालनियमेन महादिदर्शने चोपपत्तिः प्रसङ्गादुक्ता । एवं ‘मूहूर्तेत्यादिना च रथगतेः । प्रकृष्टं मानमुक्तं तदेतत्सर्वमेतेन बोधितम् । एवं कार्यं विचार्य ‘यस्यैकचक्रमि’ त्यादिनोक्तं स्वरूपं विचारयन्ति साङ्गमित्यादि । अङ्गानि अरनेमिनाभय स्तत्सहितम् । ‘सारमि’ति पाठे, अरसहितं तच नाभिनेम्योरुपलक्षकम् इदमेव ‘चक्रं त्रिणाभिचक्रम जरमनर्थमि’ तितैत्तिरीयारण्यके श्रावितम् । अङ्गकथनप्रयोजनमाहुः - कालेत्यादि । कालस्य ‘द्वादशादित्याः सम्वत्सरो वै प्रजापतिरित्यादिश्रुत्युक्तं यद्देवत्वं ‘सँ सर्पोऽसीति श्रुत्युक्ता या वृद्धिस्तद्बोधनायेत्यर्थः । वृद्धिपदं क्षयस्याप्युपलक्षकम् तस्यापि ‘अँ हस्य सायत्वेति श्रावितत्वाद्, उभयोर्ज्योतिःशास्त्रसिद्धत्वाच्च ।। १५८-१५६ ।। सूक्ष्मचक्रस्यैतदधीनत्वबोधनायाहु: - तव इत्यादि । यत इदं सम्वत्सरात्मकं चक्रं देवरूपं समगतिमहावेगं च ततो हेतोः सम्वत्सरसमे सम्वत्सरात्मकस्थूलचक्रसमाने मानसोत्तरमूर्द्धनि प्रध्या सहितं कील- विशेषेणासमन्तात्सहितं सूक्ष्मं चक्रं तथा न भ्रमति । किन्तु स्वल्पवेगत्वा देवत्वाच्च तदुपर्येव तदधीनतया भ्रमतीत्यर्थः । तद्युक्त- रथस्य गये ‘तथा बालखिल्या’ इत्यारभ्य ‘उपासत’ इत्यन्तेनोक्तं प्रयोजनमाहुः सुखार्थेत्यादि देवः सूर्यः । तथान्ये हा इति गद्यस्य मुख्यं प्रयोजनमाहुः - ज्योतिरित्यादि । माहात्म्य इति माहात्म्यार्थम् । एवं ‘नवकोटय’ इत्यारभ्य ‘समामनन्ती’ त्यन्तस्य ग्रन्थस्य तात्पर्यमुक्तम् । अतः परं ‘तस्याक्ष’ इत्यादेरर्थं वदन्तो दृष्टान्ततात्पर्यमाहुः मेर्वित्यादि । मेरुमस्तकं लक्षयोजनोच्चं तस्मान्नीचोऽयुतयोजनोच्छ्रायो मानसाचल उच्यते । अतो हेतोरत्रास्मिन् गधे तैलयन्त्रेण सदृशं विनिगद्यते, स्थूलचक्रं तद्भ्रमणं चोच्यते । तथा च सम्वत्सरात्मकचक्रस्य स्थौलचबोधनायोत्तानतया, भ्रमणबोधनाय चेदं गद्यम्, तेन तस्य स्थौल्यं नवतिसस्रयोजनमितम् । अक्षान्नीचैरुपरि तु षडूविंशतिलक्षादप्यधिकं सप्तर्षिपर्य- न्तानां प्रत्यक्षाणामग्नीन्द्रप्रजापतिकश्यपधर्माणामप्रत्यक्षाणां च तत्रैव परिभ्रमणादिति सिद्धयति । अतः परं तस्मिन्नक्ष इत्यादेराहु:-; आद्येत्यादि, स्पष्टमिति । मेरुमध्यमारभ्याऽऽमानसाचलं सार्द्धकोटिः सार्द्धसप्तलक्षणानि व्यासोऽस्ति । अक्षे तु चक्रमेकतः प्रोतमन्यतः कीलं प्रोतमिति त्रिचतुर्लक्षं ततोऽधिकं भवति । तथापि बहिस्तावदेवेति स्पष्टम् । किञ्च, हि यतो हेतोर्द्वितीयोऽक्षो ततस्तृतीयप्रकरणे सूर्यचक्रस्य अक्षप्रोतत्वमुक्तम्, तत्रेयं व्यवस्था ज्ञातव्या, संवत्सरसमे मानसोत्तरदेशे संवत्सरात्मक स्थूलचक्रं द्वादशारत्वादिना यदङ्गसहितमुक्तं तत्साङ्गम् । प्रध्या अक्षेण प्रोतं न भवति । यश्च सूक्ष्मं चक्रं तदक्षेण प्रोतमस्ति परं तथा न, साङ्गं नेत्यर्थः, साङ्गं चक्रं कालदेवत्ववृद्धयर्थम्, एवं निरङ्गं प्रधियुक्तमक्ष प्रोतं सुखार्थदेवगमनार्थं प्रशस्तम् । सुखार्थं सर्वलोकसुखार्थ देवस्य सूर्यस्यागमनं द्वादशस्कन्धे प्रोक्तम् । ‘द्वादशस्वपि मासेषु देवो वै षडूभिरस्य वै चरन् समन्तात् तनुते पस्नेह च सन्मतिम् । सदबुद्धया सुखमिति लोके वेदे च प्रसिद्धम् । एवं ह्यनादिनिधनो भगवान् हरिरीश्वरः, कल्पे कल्पे स्वामात्मानं व्यूहा लोकानवत्यज’ इत्यनेन च सर्वलोकानरूपं सुखमुक्तम् ५ se ३४ सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे १६३ ॥ १६४ ॥ १६५ ॥ लक्षाणां तु स एकोनचत्वारिंशत्प्रमाणकः । ध्रुवोऽपि मेरुत्तस्मात्ततोऽप्युत्तरतः स्थितः ॥ अतस्तै लाक्षवत्सोऽपि द्वितीयोऽतिविचारकैः । रथोपरि स्थितिस्थानं षड्विंशल्लक्षदीर्घकम् ॥ नवक्षक विस्तीर्ण युगं चाऽपि तथाविधम् । आध्यात्मिका देवरूपा अश्वास्तत्र वहन्ति हि ॥ सप्तानामुपयोगाय लक्षयोजनमन्तरा । प्रदेशोऽस्तीति बोधाय तथाऽऽकाशे गतिर्यथा ।। १६६ ।। छन्दोमयास्ततः प्रोक्ता अरुणोऽपि तथोदितः । शब्दात्मका धन्तरिक्षे गच्छन्तीति न विस्मितम् ॥ १६७॥ रथस्याऽऽवश्यकत्वाय स्तोत्रनृत्यादिवर्णनम् । स्थूले त्वेषैव सामग्री पञ्चाच्चारुणसंस्थितिः ।। १६८ ।। राशिचक्रे तु पुरतः सूर्यस्याऽरुण उच्यते । अथवा सर्वसामग्रीसहितोऽत्र द्विरूपतः ॥ सदा तिष्ठत्युभयथा सर्वेषां कार्यसाधकः । एतस्य वा द्विधा शक्तिरचिन्त्यैश्वर्यरूपतः ॥ पक्षद्वये प्रकारस्तु कल्पनीयो यथोचितम् । मासि मासि द्वयोक्त्याऽपि आदित्या मण्डला रथाः ।। १७१ ।। सामग्रीसहिता भिन्नाः कल्पनीया न संशयः । मानसोत्तरभूमिस्तु स्वमते दशकोटयः ॥ १७२ ॥ …. १६९ ॥ १७० ॥ Perga ध्रुवे कृतोपरिभागस्तच्चतुर्थांशतो मित उच्यते ।। १६२ ।। तु पुनः स ध्रुवो मेरूपरिभागादेकोनचत्वारिंशल्लक्षप्रमाणकस्तथा सति विचार्यमाणः सोऽक्षस्तावल्लक्षाणि सार्द्ध सप्तत्रिंशत्सहस्राणि स बहिर्द्दश्यमानो भवति । प्रान्तद्वयेऽपि प्रोतभागोऽधिकश्च भवति । तथा च ध्रुवे कृतोपरिभाग इत्येतावतैव चारितार्थ्येऽपि यत्तस्य मानमते ध्रुवे कृतप्रान्तभागत्वं चोच्यते, तत्तस्य माननिष्कर्षार्थ- मेवेत्यर्थः । किञ्च ध्रुवोऽपि मेरुवन्मध्यभागस्थस्तस्माद्धेतोरुतो ध्रुवतोऽपि पूर्वोक्त उत्तरत उत्तरभागे स्थितः ॥ १६३ ॥ अतः स्थितिं विचार्य सोऽप्यक्षस्तैलाक्षवत्समसूत्रं प्रसृतो द्वितीय ऊद्धर्वोऽपि तैलाक्षवदेवार्जवेन स्थितो विचारकैर्ज्ञेय इति बोधनार्थमेव द्वितीयोऽपि दृष्टान्तं इत्यर्थः । अतः परं ‘रथनीडस्त्वि’ त्यादिनोक्तं सूक्ष्मरथस्वरूपं विचारयन्ति - रथोपरीत्यादि । अत्र मूले तु न त्रयीमयात्पूर्वोक्ताद्रथाद्भेदो बोध्यते । नीडपदार्थमाहुः - उपरिस्थितिस्थानमिति । तत्तुरीयभागविशाल इत्यादेरर्थमाहुः - नवेत्यादि । युगं चाऽपि वहन्तीत्यन्वयः । देवरूपा इति । ‘वाजिभ्यो वाजिन’ मित्यातिश्रुत्युक्ताः । युगमानकथनप्रयोजनमाहुः - सप्तानामि- त्यादि, बोधायेत्यन्तम् | युगमानकथनमिति शेषः । तावत्प्रदेशस्थापनप्रयोजनमाहुः - तथेत्यादि । तथाऽतिवेगेन यथाऽऽकाशे | । । । गतिरश्वानां भवति तदर्थं युगमानकथनमित्यर्थः । एतेन ‘सप्त युजन्ति रथमेकचक्र’ मितिश्रुत्युक्तोऽयं रथ इति पूर्वस्मादनर्वणोऽयं भिन्न इनि साधितम् ।। १६६ ।। ‘छन्दो नामान’ इत्यस्य तात्पर्यमाहुः - छन्दोमया इति । तथोदित इति । छन्दोमयत्वाय हय- योजकत्वेनोक्तः । अरुणस्य छन्दोमयत्वं ‘छन्दा सि वै सौपर्णेया’ इति श्रुतेर्गरुडस्येव ज्ञेयम् ।
- ।
- AM!
- एवं कथनस्याशयमाहुः-शब्देत्यादि । सैषा त्रय्येव विद्या तपतीति श्रुतेः सूर्योऽपि तथेति न क्रिमप्यत्राश्चर्यजनक - मित्यर्थः ॥ १६७ ॥ अतः परं पुरस्तादिति गद्यार्थमाहुः - रथस्येत्यादि । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्मय- श्मश्रु’ रिति श्रुतौ सूर्यान्तर्भगवानुक्तः अत्राऽप्यग्रिमाध्याये ’ स एष भगवानादिपुरुष एवेत्यादिना (च) वक्ष्यते ।
- द्बोधिका सामग्री सर्वाऽप्यपेक्षितैवेति साऽत्रोच्यत इत्यर्थः ।
- अतस्त-
- ननु ‘पुरस्तात्सवितुररुणः पश्चाश्च नियुक्तः सौत्ये कर्मणि विकलास्त’ इति स्थानद्वये कथनमित्यत आहुः स्थूलेत्यादि । तथा चानयैव सामग्र्या तस्यापि रथस्य भ्रमणमिति बोधयितुमे कस्यैवारुणस्योभयत्रोक्तिः । सूक्ष्मरथे सवितुः पुरस्ताद्धयात्रि- यच्छन्नप्यरुणः, स्थुलरथे पश्चादपि नियुक्त इति । अतस्तदितरा सामग्र्युभयोरप्येकैवेत्यर्थः । नन्वविरुद्धे भ्रमणे कथञ्चित्तदुपपद्ये- ताऽपि न तु विरुद्ध इत्यरुच्या पक्षान्तरमाहुः - अथवेत्यादि । श्रुतौ ‘एकोऽश्वो वहति सप्तानामेति सामभ्यन्तर त्याऽप्युक्तत्वा- दरुणस्याऽपि मूर्त्तिभेदो रथान्तरेऽङ्गीकार्य इत्यर्थः ॥ १६९ ॥
- ननु श्रुतौ तु प्रकारत्रयम्, रथौ तु द्वावतो विरोधस्यैवमपि न परिहार इत्यतस्तृतीयं पक्षमाहुः एतस्येति । त्रयीमयस्य भगवद्रस्य सूर्यस्य पक्षद्वय इति सप्त युञ्जतीति । एकोऽश्व इत्युक्तेः । नन्वेवं कल्पना मूलाभिप्रेतेति कथं ज्ञातुं शक्यत इत्यत आहुः मासीत्यादि । तथा च तथाऽन्येति गद्य तथोक्तेः । शेषा अनुक्ताऽपि कल्पनीयेति मूलेऽप्यभिमत इत्यर्थः ॥ १७१ ॥ ननु लक्षोत्तरेति गद्य एवं नवकोटय इति गद्योक्तैव सङ्ख्या भूवलयस्यानूद्यते । एवं ‘मूहूर्ते’ति गद्योक्तपरिभ्रमणसङ्ख्याविचारे तु भूवलयाधिका सङ्ख्या भवतीति कथं परस्परविरोधपरिहार इत्यत आहुः मानसेत्यादि सार्द्धचतुष्टयम् । अत्र द्वितीयश्लोके या मूलगयोक्ता मुहूर्तगमनसङ्ख्योक्ता सा आहोरात्रमुहूर्तविचारेण त्रिंशद्गुणिता सती प्रथम श्लोकोक्ता भूवलयस्य परिधि सङख्या भवति । दशकोटयो विंशतिलक्षाणि चतुर्विंशतिसहस्राणीति मूलोत्तमौहूर्तिकगमनमा नगणनया तथासिद्धेः । तदेतदाहुः एवमेव
- १७४ ।।
- चतुर्विंशतिसाहस्रं लक्षाणां चैव विंशतिः । त्रिंशन्मुहूर्ता दिवसे ह्यष्टाशीत्यधिकानि हि ॥ १७३ ॥ लक्षाणि तु चतुस्त्रिंशदेवमेव ततो मता । कोटित्रयं पञ्चदश लक्षाण्यायाम उच्यते ॥ त्रिगुणा किञ्चिदधिका परिधिः परिकीर्तिता । अतोऽत्र मतभेदेन सङ्ख्या बहुविधाऽभवत् ।। १७५ ।। लक्षमानं न पूर्वोक्तं यथायोग्यं व्यवस्थितिः । माहात्म्यार्थं तदुक्त’ हि न विरोधस्ततः स्मृतः ।। एकस्यैव द्विरूपेण गमने युक्तिरुच्यते । सूर्यस्य च तथाऽन्येषां तत्राऽन्येषां पुरा जगौ ॥ श्रुतस्यैव विरोधेन प्रश्नो यद्यपि सम्मतः । इष्टोऽपि वक्तुमुक्तं हि तथा प्रोवाच सर्ववित् ।।
- १७६ ॥
- १७७ ॥
- १७८ ॥
- सूर्ये श्रुतानुपपत्तिर्दृष्टस्याऽऽदौ निवार्यते । सूर्यस्य तु परीहारो भगवत्वाद्विरूपता ।। १७९ ॥ भगवच्चञ्च तदुक्त्या कालभेदा यतोऽभवन् । वेदत्वेनापि तत्सिद्धिः समर्थस्तद्गतो हरिः ॥ १८० ॥
- ततो मतेति एतस्य व्यासस्तु कोटित्रयं चत्वारिशल्लक्षाण्यष्टसहस्राणि । तदर्द्ध चैककोटिः सप्ततिलक्षाणि चत्वारि सहस्राणि, तदेतन्मानसोत्तरमेरोरन्तरं भवति । तत्राष्टसहस्राणि मेरुमध्यात् षट्सहस्राणि त्रिभ्यो मर्यादागिरिभ्यः शिष्टानि द्वादशलक्षाणि चत्वारिंशत्सहस्राणि मानसोत्तराच तत्तदाक्रान्तान्यधिकानि ग्राह्याणि । तदेतद्बोधयितुं तृतीयश्लोके पूर्वगणितमेरुमान- सोत्तरान्तरद्वैगुण्यसिद्धो व्यास उच्यते । ततस्त्रिगुणस्तु पञ्चचत्वारिंशल्लक्षाधिकनवकोटिरूपः परिधिः सिद्धयति ।। १७४ ॥ त्रिगुणः किञ्चिदधिक इति । उक्तस्त्रिगुणस्ततो द्विलक्षाधिकश्चेत्यर्थः । तत्पूर्वमेव योजनायां व्युत्पादितम् । एवं त्रैविध्ये कल्पत्रयभेदो यस्तृतीयस्कन्ध उक्तः स एव बीजम् । अतो हेतोरत्र परिवर्तननिरूपणे बहुविधा: सख्यामूळे मत- भेदेनाऽभवत् । तथा सति जम्बूद्वीपस्य पूर्वोक्तलक्षमानं न, किन्तु यस्यां परिधिगणनायां व्यासनिश्वयार्थं यावदपेक्षित यादधिकं मेद्याक्रान्तं भूभागं निक्षिप्य यथायोग्यं व्यासार्धव्यवस्थितिः कर्तव्या । हि यतो हेतोः तत् माहात्म्यार्थमुक्तं न सङ्ख्यार्थमतः कल्पभेदाद्विरोधपरिहारः स्मृत इत्यर्थः । अत्र स्मृतपदेन कल्पभेद: स्मार्यत इति नात्र शङ्काशः । एवं सार्द्धं चत्वारिंशद्भिद्यु प्रकरणप्रथमाध्यायो विचारितः ।। १७५ - १७६ ॥
- अ. २२ अतः परं द्वाविंशे द्युप्रकरणे द्वितीयं सपादाष्टादशभिर्विचारयन्ति । तत्रान्येषां चन्द्रादीनां सत्त्वकार्यरूपा गतिर्मर्यादाऽप्यस्याध्यायार्थ इति पूर्वमुक्तम् । अधुना तद्विशेषतो विवेक्तु प्रथमत उच्यमानयोः प्रश्नोत्तरयोः प्रासङ्गिकत्वेऽपि निष्कर्षार्थत्वादुभयशेषत्वबोधनायाहुः एकस्येत्यादि । अत्र सर्वेऽपि तुल्या इति सर्वेपि प्रकरणिनः । ननु राज्ञा सूर्यगतेरेव
- । । । पृष्ठत्वादुत्तरेऽन्यगतेरपि कुतोऽनुमानमित्यत आहुः- तत्रान्येषां पुरा जगाविति । तत्र सूर्यगतिकथनावसरे । तथा अन्ये च ग्रहाः सोमादय’ इति गद्ये तथेत्यतिदेशेनान्येषामपि द्विरूपां गतिं पुरा पूर्वाध्याय उक्तवान् । अतः प्रश्नाभावेऽपि पुनः सन्देहा- भावाय तेषामप्यनुमान उल्लेख इत्यर्थः ॥ १७७ ॥ नन्वस्त्वेतत् तथाऽपि श्रुतविषयक सन्देहेन तद्विषयकानुमाने पृष्ठे तदुत्तरत्वेन तदेव वक्तव्यम् । दृष्टविषयानुमानस्य किं प्रयोजनमिति शङ्कायां तामनूद्योत्तरमाहुः श्रुतस्येत्यादि । यद्यप्येवं तथाऽप्युक्तिमुत्तररूपां वक्तु दृष्टः पिपीलिकादृष्टान्तोऽपि । हि यतो हेतोः सम्मतोऽतः सर्वविच्छुकस्तथा प्रोवाच । अयमर्थः । अत्र हि विरुद्धं गतिद्वय- मेकदैवैककर्त्तृ कं सन्दिग्धत्वात्पृष्टमतो दृष्टान्ते पूर्व गतिद्वयमेककालीनं निर्द्धार्यम्, तच्च कुलालचक्रस्य विरतौ निर्द्धारितं भवति, न तु भ्रमणदशायामतो दृष्टान्तोऽपि न सिद्ध इति तत्साधनतया पूर्व गतिद्वयमेककालीनं तदनुमानमावश्यकं तदेतदाहु:- सूर्यस्येत्यादि । अत्र दृष्टान्ते यत्र येषां भ्रमता सह भ्रमतां प्रदेशान्तरेषूपलभ्यमानत्वम्, तत्र तेषां भिन्नगतिमत्त्वमिति व्याप्तिं साधयित्वा ततस्तेन प्रकृतं साध्यते इति दृष्टानुपपत्तिनिवारणमावश्यकमिति तत्तस्य प्रयोजनमित्यर्थः । तत्राऽप्येतदनुमानं ग्रहान्तरादिगतिसाधन एव पर्यवस्यति, न तु सूर्यगतिसाधन इत्याहुः - सूर्यस्येत्यादि । तथा च भगवत्त्वाद् द्विरूपत्वात्साम- येनैव परिहारसम्भव इति न तदर्थमिदमनुमानमपि तु अन्यगतिसाधनार्थमेवेत्याशयेनैव मूले सूर्यादीनामित्यादिपदमुक्त - मित्यर्थः ।। १७८ - १७६ ॥ मूले ‘स एष’ इत्यारभ्य संमामनन्तीत्यन्तेनाऽयं परिहारप्रकारो विवक्षित इत्याशयेनाहुः - भगवत्त्वं चेत्यादि । तथा च ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कला मुहूर्तादिः काष्ठाश्चाहोरात्राच सर्वशः, अर्धमासा मासा ऋतवः सम्वत्सरश्च कल्पन्तामि विश्रुत्या बृहन्नारायणोपनिषदि यत्कालभेदजनकत्वमुक्तम्, यश्च ‘सैषा त्रय्यैव विद्या तपती’ ति वेदरूपत्वं श्रावितम् यच य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्यत्र सूर्यान्तर्वर्तिनो भगवत्त्वं श्रावितम् । अन्तस्तद्धर्मा- धिकरणे विचारितञ्च तदेतत् स एष’ इत्यादिना ‘समामनन्ती’ यन्तेनोपबृंहितम् तेन भगवत्त्वादेव परिहारोऽत्र विवक्षित इत्यर्थः ॥ १५० ॥
- *
- sing
- सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्धे
- ।
- ॥
- १८३ ॥
- ॥
- १८४ ॥
- ।।
- १८५ ।।
- ॥
- १८६ ॥
- ॥
- १८७ ॥
- ज्योतिश्चक्रं चालयन् स स्वांशैभु क्तेऽन्थाऽपि च । इत्यादि सकलं तस्मादिति भेदा निरूपिताः ॥ १ ८१ ॥ एकं शतमशीतिश्च स्वार्थाः सन्ति नभोऽन्तरा । अंशैः सर्वत्र गमने वत्सरो भवतीति च ।। १८२ ॥ विशिष्टेन स्वरूपेण सदा ज्योतिः प्रवर्तनम् । दिनमासर्व्वयनभुक् सर्वं भुङ्क्ते पुनः खयम् पञ्चशक्तियुतस्तेन पञ्चनाम्ना निरूपिताः । गतिभेदेन वा भेदाः प्रत्येकं मध्यमिश्रणात् चन्द्रादीनां प्रशंसार्थमुच्चत्वं शीघ्रभोजनम् । चन्द्रस्य समताऽन्येषां विलम्बोऽपि निरूप्यते अहोरात्रव्यवस्था च पितॄणां चन्द्रतोऽभवत् । अधः स्थितास्तु पितरश्चन्द्रं पश्यन्ति नेतरम् कृष्णपक्षो दिनं तेषामष्टम्यादि निरूप्यते । सूर्येण समता यहि तदा तेषां तु पूर्णता क्षयोत्सुकत्वं कर्माङ्गं मतान्तरमिति स्थितिः । कलापानं तथैव स्याद् देवानां तु दिनस्थितिः उत्तरायणषट्के हि रथानां दर्शनं भवेत् । अधः स्थितान् रथांस्ते हि न पश्यन्त्युच्चदर्शिनः ॥ प्रभवादिव्यवस्थां तु सुराचार्यः करोति हि । बुधशुक्रौ सूर्यसमौ सूर्येणैव निरूपितौ ॥ तत्पुत्रो मङ्गलचैव क्ररत्वान्न निरूपितौ । सूर्याल्लक्षे यथा चन्द्रस्ततो भानि च तावता ॥
- ॥
- १८८ ॥
- १८९ ॥
- १९० ॥
- १९९ ॥
- स्वांशैरित्यादि । मण्डलमानिभिर्द्वादशभिः स्वस्वरूपेण चकाराद् ग्रहाद्यन्तर्यामित्वेन चर्त्वादिसम्वत्सरान्तं भुङ्क्ते तस्मादिमे कालभेदा निरूपिता इत्यन्वयः ।। १८२ ॥ यावतार्द्धन ‘नभोवीथ्यामि’ त्यादेरर्थं तत्तद्रूपकार्यस्य विभागं सम्वत्सरादि- पञ्च नामकथनस्य प्रयोजनं चाहुः एकमित्यादि । उक्तसङ्ख्या एकायनदिवसाचकारात्तावन्तो द्वितीयायनदिवसाः स्वार्थाः स्वस्य सूर्यस्य भोग्याः सन्ति नभोमण्डलमध्ये । सर्वत्र तेषु सर्वेष्वंशैज्र्ज्योतिश्चक्रचालकैर्गमने पूर्णो वत्सरो भवतीति च बोध्यते ।। १८२ ।। तत्र हेतुः - विशिष्टेनेत्यादि । प्रवर्तनमिति । कुर्वन्निति शेषः । एवं कुर्वन्नशैरयनान्तभुक् पुनः स्वयं तथा सन्सर्व भुङ्क्ते । तेन हेतुना वत्सरास्तथा निरूपिता इत्यर्थः । तथा च ग्रहादयः सर्वे ज्योतिश्वकस्थास्तत्प्रवृत्तिश्च सूर्यादेवेति तत्कृता अपि वत्सराः सूर्यकृता एवेति सूर्यगतिनिरूपण एवोक्ता इति भावः ।। १८२३ ।।
- पक्षान्तरमाहुः - गतीत्यादि । मध्यपदेन समगतिः, अस्मिन्पक्षे पञ्चाऽपि भेदा: साक्षात्सूर्यकृता एवेति विशेषः । १८३-१८४ । एवं चन्द्रमा इत्यादेस्तात्पर्यमाहुः - चन्द्रादीनामित्यादि । समता साम्यम् । तथा च सर्वेषामुचत्वं चन्द्रस्य शीघ्र - भोजनमन्येषामुशनः प्रभृतीनां यथायोग्यं सूर्यगतिसाम्यम्; ततो विलम्बोऽपि योऽत्र निरूप्यते स तेषां प्रशंसार्थं ननु सूर्यादा- धिक्यज्ञापनार्थमित्यर्थः । अत्र नक्षत्राणां स्थिरत्वमेव राशिस्वरूपान्तः पातित्वात् । अन्ये पृथग्गतिमन्त इति बोध्यम् ।। १८५ ।। ‘अथ चापूर्यमाणे ‘त्यादेरर्थं विचारयन्ति - अहोरात्रेत्यादि । कथमित्याकाङ्क्षायां प्रकारमाहुः - अध इत्यादि । पितृलोको हि नक्षत्र- शिशुमारोपरि स्थिरश्चन्द्रान्नीचैः सूर्यादुपरि तथा सति ते चन्द्रमेवोपरिष्ठं प्रकाशकतया पश्यन्ति नेतरं सूर्यम्, तस्य तदधः- स्थितत्वात् । एवं सति सूर्यान्निःसृत्य यदा कृष्णाष्टम्यामुपरि तत्समानदेशे चन्द्रः समायाति तदा तेषां दिनम्, यदा नीचैः सूर्यस्तदा तेषां मध्यान्होमावास्यायामस्माकं सूर्यादधःस्थत्वाच्चन्द्रदर्शनाभावः । यदा चन्द्रोऽग्रे सूर्यान्निःसरति तदा तेषाम- पराह्नः शुकाष्टम्यां सायमिति । सूर्यस्तु पितृभ्यो नीचैरिति रात्रौ सूर्यस्थितिरप्रयोजिकेति । एवमेव तृतीयस्कन्धसुबोधिन्यां बोध्यम् ।। १८६-१८७ ।। ननु देवानां कलापानेन चन्द्रक्षयस्य सोमोत्पत्तावुक्तत्वादमृतपूर्त्या पूर्णतायाश्वोक्तत्वादत्रापि तथाऽभि- तत्वाच्च कथं सूर्याधीना सेत्यत आहु:-क्षयेत्यादिक मतं तृतीयं वा । तथा च मूले कल्पान्तरसङ्ग्रहात्तदप्य-
- ।
- भिप्रेतमित्यर्थः । चन्द्रेण देवदिनव्यवस्थाप्रकारमाहुः - देवानामित्यादि । सूर्यस्यैकस्मिन्नयने चन्द्रस्य षडावृत्तयो भवन्ति । तत्र तुलामारभ्य मीनान्ता देवानां रात्रिरुत्तरायणषटकम्, तस्मिन् रथानां चन्द्रमारभ्य ऋष्यन्तानां दर्शनं देवानां भवेत् । यदा पुनः सूर्यस्य मेषादिकन्यान्तं दक्षिणायनष्टकं तदा सूयोधः स्थिता देवा उच्चदर्शिन इत्युपरिष्ठान्न पश्यन्तीति तु दिनस्थितिः । इदमेव चन्द्रकृतममराहोरात्रवितानमित्यर्थः ।। १८६ ।।
- बृहस्पतिनिरूपणप्रयोजनमाहुः - प्रभवादीति । बुधशुक्रशनिभौमनिरूपणप्रयोजनमाहुः - बुधेत्यादि । न निरूपिताविति । सूर्यसमत्वेन न निरूपितौ । तथा चैतेषां कालोपाधिनियामकत्वाभावेऽपि फलनिरूपकत्वबोधनार्थं निरूपणमित्यर्थः ।। १६० ।।
- अतः परं तत उपरिष्ठात्रिलतेत्यादिकं विचारयन्ति - सूर्यादित्यादि । ततश्चन्द्राद्धानि नक्षत्राणि च तावता लक्ष- योजनोपरि कालायने वर्तन्ते । तथा च मूले त्रिलक्षयोजन इति यदुक्तं तत्तेषां द्विलक्षयोजनोच्चस्वरूपविन्यासमन्तर्निवेश्येति ज्ञापितम् । तेषां देवगृहत्वात् । ‘देवगृहा वै नक्षत्राणी’ति तेषां देवगृहरूपत्व श्रावणेन तावद्विन्यासस्य तत्रौचित्यादिति । अन्तरेति परस्परकक्षाव्यवधानम् ।
- पञ्चमस्कन्धाथः ।
- १९२ ॥
- १९३ ॥
- १६५ ॥
- १६६ ॥
- १६७ ॥
- ततोऽग्रिमग्रहाणां तु लक्षद्वितयमन्तरा । उशना च बुधश्चैव तथाङ्गारक एव च ॥ बृहस्पतिः शनिश्चैव ऋषयस्तु शनेः परे । लक्षैकादशतोत्युच्चैः पञ्चानां द्विगुणत्वतः ॥ समयोश्चापि लक्षं हि ध्रुवस्तेभ्यस्त्रयोदश । आध्यात्मिकांश्च तान् राशीनतिक्रम्य यतः स्थितः ।। १६४ ॥ पञ्चपात्रयुतस्तत्र मोदते कृष्णतत्परः । भगवत्सेवकादेव सर्वं कार्यं यतो भवेत् ॥ अन्ये सर्वे तदाधाराः स स्थिरः कार्यकृद्धरेः । सवनत्रयधर्मस्तु तेषां गतिनियामकः ॥ सूर्यवगमनं तेषामतः सम्पद्यते मया । तेषामपतने हेतुर्वायुः कर्मेति केचन ॥ वस्तुतो भगवानेव शिशुमारस्तदाश्रयः । निवेशनं ततः प्राह सर्वेषां तत्र वै हरौ चत्वारो या तत्सचिवाः कश्यपोऽत्र प्रजापतिः । अभयं धर्म इत्युक्तं तेन सर्वाविरोधिता ॥ अवतारचरित्रं हि धारणं विषमत्वतः । न ह्येवमन्योऽवस्थातुं क्षणं शक्नोति कथन ॥ अन्यथा सकलां पृथ्वीं न द्रष्टा सुखवृत्तये । एवं त्रिभिद्यु मर्यादा मध्यभूता निरूपिता ॥ अतस्त्रिभिरधःस्थानमर्यादा सकलोच्यते । सूर्यान्निरूपणं यस्मादतः स्वर्भानुवर्णनम् ॥
- 1
- ॥
- १६८ ॥
- १९६ ॥
- २० ॥
- २०१ ॥
- २०२ ॥
- ३७
- ऋषीणां विन्यासप्रकारमाहुः - ऋषय इत्यादि । पञ्चानामृषीणां द्विगुणत्वत एकत एकस्य लक्षद्वैगुण्याद् यौ पुनरुपरि समौ दृश्येते । सप्तर्षीणां तु यौ पूर्वी दृश्येते उदितौ भुवीति द्वादशस्कन्ध उक्तौ तयोश्चापि लक्षं हि यतो हेतोरतोऽत्युचैर्लक्षैका- दशतः शनैः परे उपरिष्ठादृषयः सन्तीतियोजना । एवं सपादैरष्टादशभिर्द्वात्रिंशोध्यायो विचारितः ।। १६३ ।।
IT ( अ. २३ ) अतः परं पादोनाष्टभिस्त्रयोविंशं प्रकरणे तृतीयं विचारयन्ति । अत्र यद्यपि शिशुमारः प्रकरणी तथापि तस्योपजीव्यो ध्रुव इति ( पूर्व ) तद्वर्णनात्पूर्वं तमेव विचारयन्ति ध्रुव इत्यादि । तस्य त्रयोदशलक्षोपरिष्टत्वे बीजमाहुः -आध्या- त्मिकानित्यादि । यतः कालाध्यात्मिकरूपास्तान् द्वादशराशीन्मेषादीनतिक्रम्य तेभ्यो राशिस्थेभ्यस्त्रयोदशे तावल्लक्षोपरि विद्यमाने भगवत्स्थाने स्थितः । अतस्तत्र पञ्चपात्रयुतः पञ्चभिरग्नीन्द्र प्रजापतिकश्यपधर्मैर्भगवत्सेवायास्तत्कृपायाः पात्रैर्योग्यैर्युतः कृष्णतत्परो मोदत इति योजना । एवमथ तस्मादिति गद्यार्थ उक्तः । ‘सहे’त्यादेरर्थं वदन्तस्तत्र स्थापनप्रयोजनमाहुः - भगवदि- त्यादि ॥ १६५ ॥ तदाधारा इति । तदायतत्वेन कार्यकर्त्तारस्त्रिभिः सवनैरिति कथनस्य प्रयोजनमाहुः सवनेत्यादि । प्रातर्मध्यं- दिनतृतीयसवनेषु क्रियमाणो धर्मस्तेषां तथेति ज्ञापनार्थं तत्कथनमित्यर्थः ॥ १६६ ॥ अन्तरिक्षे तद्गमन उपपत्तिमाहुः - सूर्यव दिति । तथा चान्तर्यामि सामर्थ्याद्गमनमित्यर्थः । अत्र गमकमाहुः - अत इत्यादि । यत एतद्वत्यादिकं भगवदधीनमत एव तज्ज्ञाने मया सम्पद्यते ‘मये’ति भगवतोक्तमित्यर्थः । नभसि ‘यथे ‘तिदृष्टान्तेन यदतिदिष्टं तन्न सिद्धान्ताभिप्रायेणेत्याहुः तेषामित्यादि । सिद्धान्तमाहुः - वस्तुत इत्यादि । तत्र गमकमाहुः - निवेशनमित्यादि । तथा च यथा केचित्स्वदेहान्तर्हृदयावकाश इति मतान्तरं राज्ञ आकाङ्क्षापूर्त्तावपि स्वत एवादरणीयत्वाय मतान्तरमुक्तम् । तथेदमपीत्ययमेव मुख्यः पक्ष इत्यर्थः ॥ १६८ ॥ ननु श्रुतौ शिशुमारोपस्थाने ‘अग्निः पुच्छ,स्य प्रथमं काण्डं तत इन्द्रस्ततः प्रजापतिरभयं चतुर्थमित्युक्तम् । इह तु पुच्छाये ध्रुवमुक्तत्वा तस्य लागूले प्रजापतिरनिरिन्द्रो धर्म इति कथमविरोध इत्यत आहुः - चत्वार इत्यादि । तस्य ध्रुवस्य सचिवाः सहकारिणोऽ- ग्न्यादयश्चत्वारस्तथा सति प्रजापतिना कश्यपेनेत्यत्र प्रजापतिपदं कश्यपविशेषणं श्रुतावपि ‘तेजसा कश्यपस्ये’ त्युक्तत्वात् । धर्मपदं च श्रुत्युक्ताऽभयशब्दार्थनिर्द्धारकम् सर्वदेवतानिवेशस्तु तत्रात्र च तुल्यः स्थानभेदः कल्पभेदादिति तेन सर्वमेवा- विरुद्धमित्यर्थः ॥ १६६ ॥
तदेतदाहुः - अवतारेत्यादि, अवतारत्वे गमकमाहुः न हीत्यादि । २०० ।। तथा स्थितौ प्रयोजनमाहुः - अन्यथेत्यादि । यद्यूर्ध्वमुखस्तिर्यङ्मुखो वा तिष्ठेत्तदा असुखस्य तुच्छ,सुखस्य वा हन्तये दूरीकरणाय सकलां पृथ्वीं न दृष्टा न पश्येत् । तथा च तदुभयहननमेवं स्थितौ प्रयोजनमित्यर्थः । द्युप्रकरणमुपसंहरन्ति - एवं त्रिभिरित्यादि । मध्यभूतेति । ’ मध्ये तिष्ठन्ति राजसा ’ इति वाक्यात् । महर्लोकाद्यपेक्षया न्यूनत्वमत्राभिप्रेतम् । पूर्वत्र तु स्वर्गापेक्षयेति नोपक्रमविरोधः । एवं सार्धोनसप्ततिभिद्यु प्रकरणं विचारितम् ॥ २०१ ॥ (OTO 28) ( अ० २४ ) अतः परं सार्द्धषोडशभिर्भूम्यधः स्थितमर्यादां विचार्यते-अतस्त्रिभिरित्यादि । अत इति अतः परम्, ननु भूम्यधः रथ मर्यादावर्णनप्रस्ताव राह्रादिवर्णनस्य कि प्रयोजनमित्यपेक्षां पूरयन्तो नवभिश्चतुविशस्य प्रकरणप्रथमस्यार्थमाहुः- सूर्यादित्यादि । तथा च तावदनिरूपणे राज्ञौ निराकाङ्क्षता न स्यादिति तदभावाय तन्निरूपणमित्यर्थः । उत्तरमिति उत्तरोत्तरम् ।सावरणभङ्गे सप्रकाशतत्त्वार्थदीपनिबन्ध २०६ ॥ २०७ ॥ प्रसङ्गाद् ग्रहणं चाऽऽह सूर्यादीनां तु गर्वनुत् । ग्रहणं लोकसिद्धं हि न तु वेदे कथञ्चन ॥ २०३ ॥ अन्तरिक्षं ततोऽधस्ताद् देवान्नीचस्थितौ हितम् । एवमेवोत्तरं नीचा ज्ञातव्या भागशः क्रमात् ॥ २०४ ॥ दैत्या अतिबला युक्ता भक्ता वा मुखैरिणः । अधःस्थानं स्थितौ तेषां तेन बल्यादिवर्णनम् ॥ २०५ ॥ आनन्दस्य प्रतिष्ठा तु तत्रैवेति निरूप्यते । ज्ञानादिकं बाधकं हि दुःखं तत्र महत्तथा ॥ अज्ञानतः सुखं तत्र सात्त्विकानां न रोचते । अतलादिषु सर्वत्र ततस्तादृशमीरितम् ॥ भक्तिः सर्वत्रोतमेति तत्राऽप्युत्तमतोच्यते । धर्मार्थं भगवांस्तस्य निगृहीतेति वर्णनम् ॥ भगवानुत्तमत्वं च पातालादिष्वकारयत् । तत्परित्यज्य दुःखेन कर्मणा वर्त्तते यतः ॥ एवं ज्ञानं तस्य वृत्तमिति तद्वाक्यवर्णनम् । महादेवस्याऽपि भक्तस्तथा किं तु ततोऽधमः ॥ ततो लोकत्रयं नीचं भयं किञ्चित्ततो मतम् । तेषामेव मुखे हेतुर्भगवांस्तामसस्तथा ।। लक्षमात्रमियं भूमिः प्रायेणाऽत्र नियोगतः । उपयुक्ता ततः प्रोक्ता न तु पृथ्वी हि तावती ॥ तस्याधःस्थात् स्थितौ हेतुः संसारो जगतो मतः । सुखं च विषयोक्तस्य कीर्त्तिश्वाऽपि निरूप्यते ॥ २१३ ॥ २०८ ॥ २०९ ॥ २१० ॥ २११ ॥ २१२ ॥ भागश इति यथायोग्यम् । एवमुत्पतन्तीत्यन्तस्य प्रासङ्गिकस्यार्थ उक्तः ॥ २०२ - २०४ ।। अथ तदग्रिमाणामर्थमाहुः - दैत्या इत्यादि । तादृशं तेषां स्थानं कुतः इत्यपेक्षायां तान् विशिषन्ति - अतिबला इत्यादि । बल्यादीत्यादिपदं सर्पनागयोरपि सङ्ग्रहार्थम् । तथा च प्रलयसाधनीभूता योगिनो भगवद्भक्ताश्च यथाभागं वसन्तीत्यर्थः ॥ २०५ ॥ तत्रत्यसुखनिरूपणम्य तात्पर्यमाहु:-आनन्द- स्येति । तमस आनन्दमूलत्वात्तदीयानन्दस्य प्रतिष्ठा प्रकर्येण स्थितिस्तेष्वेव लोकेष्विति हेतोस्तत्रत्यं सुखं निरूप्यत इत्यर्थः । ननु तेषां वर्गादधिकसुखवत्त्वे तानि देवैः कुतो नेष्यन्त इत्यत आहुः ज्ञानादिकमित्यादि । तत्र विनोदो मायाकृत इत्यतः वर्गादाधिक्यं माया च ज्ञानेन योगेन च बाध्यते, सुदर्शनप्रवेशजन्यं दुःखं च महत्, तथा सति तत्र सुखमज्ञानकृतमतो नेष्यत इति बोधनाय तथेरितमित्यर्थः । ननु तथापि सुतलसुखं न तादृशम्, इन्द्रादिष्वविद्यमानयेति भगवदनुकम्पाविशेषणात । तादृशानुकम्पा- सम्पादितस्याज्ञानकृतत्वाभावादित्यत आहुः-भक्तिरित्यादि । उत्तम इति । आनन्द इति शेषः । तथा च स न बिलसम्बन्धी, किन्वतिरिक्त इति न बिलसुखस्य देवेष्टत्वमित्यर्थः । यदि भगवतो बलावीदृशी कृपा तदा भगवता तन्निग्रहस्य किं प्रयोजनमत आहु:-धर्मार्थमिति । तदीयधर्मस्य सत्यवाक्तादिरूपस्य ज्ञापनार्थम् । तथा च भगवान् जीवस्य सत्येन दैन्येन स्वात्मन्यधमत्व- ज्ञानेनानहङ्कारेण तुष्यतीतिज्ञापनार्थं तद्वर्णनमित्यर्थः ॥ २०६-२०८ ॥ ननु भगवत्कृपायाः बलिस्वभावस्य चैतावतैव ज्ञातुं शक्यत्वेऽपि तद्वाक्यवर्णनस्य किं प्रयोजनमत आहुः - भगवानित्यादि । उत्तमत्वमिति कृपात्त्वविषयस्य स्वीयस्येतिशेषः । दुःखेनेति भगवच्छ्रमदानरूपेण ॥। २०९ ।। तस्य वृत्तमिति बलेर्वृत्तं नेन्द्रस्य । तथा च सत्वसंरब्धमुख्यापेक्षया राजस एव भगवत्कृपावैशिष्ट्य उत्तमो भवतीति तदीयदास्यमेव वस्तुतः सर्वोत्तममिति ज्ञानं बलेर्जातं नेन्द्रस्येति तदयेक्षयाऽपि भक्त्युत्कर्षबोधनाय बलिवाक्य- वर्णनमित्यर्थः ! मयसुखनिरूपण तात्पर्यमाहुः - महादेवस्येत्यादि । इन्द्रापेक्षयाऽधिकत्वस्य बल्यपेक्षया न्यूनत्वस्य च ज्ञापनाय तद्वर्णनमित्यर्थः । एवं चतुर्विंशार्थः सार्द्धर्नवभिरुक्तः ।। २१०३ ।। ! अ. २५ ) अतः परं त्रिभिः पञ्चविंशस्य प्रकरणद्वितीयस्यार्थमाहुः - तेषामित्यादि । ननु पातालमूले भगवत्स्थितेः किं प्रयोजनं भूमिवृतेः सामर्थ्येनापि सन्भवादित्यत आहुः तेषामित्यादि । अधोलोकनिवासस्तामसकर्मभिरज्ञानं च, राजसकर्मणा चासुरत्वं दुःखं च, ‘कर्मणः सुकृतस्याहु’ - रितिगीतावाक्यात् । अतो भगवान् सङ्कर्षणरतेषां बिलनिवासिनामेव सुखहेतुः । तथा तमस उपलक्षणमेतन् नरकस्य सुखहेतुः । अन्यथैतेषु सुखवर्णनं नात्र क्रियेत, नारकी च निर्वृतिर्न स्यात् । तथा चैतत्कार्य- द्वयार्थं तत्र स्थितिरित्यर्थः ॥ २११ ॥ सङ्कर्षणस्थितिः पातालमूले ब्रह्माण्डमूलाऽधो वेति सन्देहनिवृत्त्यर्थमाहुर्लक्षमात्रेत्यादि । इयं शेषेण ध्रियमाणा भूमिर्लक्षमात्रं प्रोक्तेति सम्भाव्यते । प्रायेणेति सम्भावनार्थकम् । तत्र हेतुः, हि यतोः नियोगतः कर्मचोद- नात उपयुक्ता कर्मोपयोगिनी ततो हेतोः । तथा च यावती वराहावतार उद्भियते तावती, तेन पातालमूलमेव गद्य ऽभिप्रेत- मित्यर्थः । अन्यथाऽवान्तरप्रलयो न घटेतेति भावः । तदाहुः न तु पृथ्वीति । ब्रह्माण्डरूपाऽत्रशेषधार्या न भवतीत्यर्थः । अनेनैव हेतुरुक्तः । तथा च सा सर्वावरणसंयुता गुणप्रवाहे अक्षरब्रह्मणि वा तिष्ठतीति तस्याः पृथ्वीत्वेनाधारान्तरापेक्षाभावादि- तिभावः ।। २१२ ।। तर्हि तद्वदियमपि जल एव स्थास्यतीति किं शेषस्थित्येत्यादि । तथा च लोकानां स्वस्तय आस्ते इति कथनात्संसारः पूर्वोक्तं बिलसुखं मुमुक्षूपकारश्च तत्र स्थितौ हेतुरित्यर्थः । अत्र मध्यमं श्रुतार्थापत्तिसिद्धमादिममन्तिमं कण्ठोक्तं पचमस्कन्धार्थः । दृष्ट्व तामसत्वं हि सात्त्विको वस्तुतो मतः । सुखोत्तमस्य हीनत्वे प्रश्न उत्तरमेव च दुःखं सर्वत्राविशिष्टमतः प्रश्नस्तु नारक: । देशा न नरकं किन्तु कर्मणेति तथोत्तरम् ॥ यमश्च पितरश्चैव ततस्तत्र निरूपिताः । कर्माण्येव निमित्तानि सर्वेषां तु यथा भवेत् नरकश्च तथा स्वर्ग इत्यन्ते स्वर्गवर्णनम् । भगवद्वयतिरिक्तस्य वर्णनं नैव युज्यते इत्याशङ्कय हरे रूपवर्णनेनोपसंहतिः ।। २१७३ ।। ॥ ॥ २१४ ॥ २१५ ॥ २१६ ॥ ॥ २१७ ॥ इति श्रीषमभदीक्षितविरचिते तत्त्वार्थदीपनिबन्धे श्रीभागवतार्थप्रकरणे पञ्चमस्कन्धार्थनिरूपणं समाप्तम् । ३९ ज्ञेयम् ।। २१३ ।। अत्र प्रथमग तामसी कला सात्वतीत्युभयमुक्त तद्विरोधपरिहारायाहु:-दृष्टयेत्यादि । ‘असदृशो यः प्रतिभाति मायया क्षीत्रेव मध्वासवताम्रलोचन’ इतीलावृतवर्णने शिववाक्यं बीजं ज्ञेयम् । एवं प्रकरणे द्वितीयः पञ्चविंशस्त्रि- भिर्विचारितः । ( अ, २६ ) अतः परं चतुर्भिः षड्विंशं तृतीयं विचारयन्तो ‘महर्ष एतद्वैचित्र्यमिति प्रश्नस्य तदुत्तरस्य च तात्पर्यमाहु:- सुखेत्यादि । सुखं तु सर्वत्रोत्तममुक्त तद्धेतुकथने तु कामः कर्म चोक्तम् । तत्र कामकर्मजन्यत्वेऽपि हीनताप्रयोजकज्ञानाय प्रश्नः । उत्तरं ‘त्रिगुणत्वादि’ त्यादिनोक्तं त्रैगुण्यजन्यत्वेन हीनत्वज्ञापनायैवेत्यर्थः ॥ २९४ ॥ ननु नरकाणां प्रसिद्धत्वात्कि देश- विशेषा इत्यादिप्रश्नस्य को वाऽऽशय इत्याकाङ्गायामाहुः - दुःखमित्यादि । तथा च नरकस्य पापभोगोपयुक्तत्वात् तत्फलस्य च दुःखात्मकत्वात्तस्य च सर्वत्र तुल्यत्वात्कुतस्तेषां बहुत्वं कुतश्च गुणप्रधानभाव इति प्रश्नस्याशय इत्यर्थः । उत्तराशयमाहुः - देशा नेति । देशास्ते स्वरूपतो न बहवः, किन्तु कर्मणा, तथा चैकत्रैव कर्मविद्यमानत्वेऽपि तत्तत्कर्मैव तेषां बहुत्वे गुणप्रधानभावे च प्रयोजकमिति बोधयितुमेव कर्मतत्फलभोगविवरणप्रकारेणोत्तरमित्यर्थः ।। २१५ ।। अत्र गमकमाहुः - यम इत्यादि । तथा चैवं वत्सलैरपि पितृभिस्तत्सहायाकरणाद्यमेन तद्विवेचनाच कर्मैव निमित्तमित्यर्थः । गमकान्तरमाहुः कर्माणीत्यादि । स्वर्ग- वर्णनमिति । तथैव धर्मवर्त्तिन इत्यनेन सूचितम् । शेषं स्फुटम् । ! इति श्रीमत्प्रभुचरणदर्शिता पुरुषोत्तमदृष्टा पञ्चमस्कन्धनिबन्धयोजना सम्पूर्णा ॥ पञ्चमस्कन्धः समाप्तः । परिशिष्टम् श्रीकृष्णः शरणं मम श्रीगणेशाय नमः विद्वच्छिरोमणि श्रीवोपदेवप्रणीतं हरिलीलामृतम् पञ्चमस्कन्धः एवं विसर्गमुक्त्वा क्रमप्राप्तं स्थानं पञ्चमेऽभिहितमित्याह- पञ्चमे स्थानमध्यायैः षड्विंशत्या निरूपितम् । मर्यादापालनं स्थानं तास्तिस्रो लोकभेदतः ॥ १ ॥ पञ्चम इति । स्थानं लक्षयति-मर्यादापालनं स्थानमिति । मर्यादानां कर्मार्जितभूमिकासीमानामनुल्लङ्घनम् । ताः = मर्यादाः ॥ १ ॥ प्रकरणानि वक्तुं लोकानाह- लोकाः क्षितिद्यौः पातालं प्रियत्रततदुद्भवैः । क्षितेद्विपादिमर्यादाः कृताः प्राक्तत्तदन्वयः ॥ २ ॥ 1 लोका इति । ननु स्थानेऽभिधेये किं प्रियत्रतवंशेन तत्राह - प्रियत्रतेति । प्रियव्रतेन तत्पुत्रपौत्रैश्च भूमेर्द्वीपवर्षादिव्यवस्थाः कृताः । तत् = तस्मात् पूर्वं तेषां वंशः कथ्यत इत्यर्थः ॥ २ ॥ ततश्चत्वारि प्रकरणानीत्याह - एवं च पञ्चदशभिः पञ्चभिश्च त्रिभिस्त्रिभिः । चतुःप्रकरणी प्रोक्ताऽध्यायार्थान् क्रमतः शृणु || ३ || एवं चेति । वंशस्य प्रकरणमेकं मर्यादानां च त्रीणि इत्थं चत्वारि । तानि क्रमात्पञ्चदशभिः पञ्चभिस्त्रिभिस्त्रिभिरध्यायै- रित्यर्थः । अध्यायार्थान् वक्तुमाह - अध्यायार्थानिति । शृण्वति शिष्यं प्रत्युक्तम् ॥ ३ ॥ प्रियव्रताग्नीधनाभिष्वेकैक ऋषभ त्रयः । राजोपदेष्टृमुक्तत्वैर्भरतेऽष्टौ प्रपौत्रजे ॥ ४ ॥ प्रियव्रताग्नीधनाभिष्वेकैकोऽध्यायः । ऋषभे त्रयः । राजोपदेष्टृमुक्तत्वैरिति । त्वशब्दः प्रत्येकम्’ । ऋषभस्य राजत्व- मुपदेष्टृत्वं मुक्तत्वं चेति क्रमात्त्रिषु’ । मुक्तत्वे तु ‘एवमनुशास्य’ इत्यध्यायार्थोऽभिमतः । प्रपौत्रजे प्रियव्रतस्य भरतेऽष्टौ ॥ ४ ॥ क्रमादष्टानामर्थानाह- पुण्यैणसङ्गजडता शिविकोटिप्रक्राशनैः । तत्त्वाख्यानभवारण्य तद्वयाख्यानैः परोऽन्वये ॥ ५ ॥ पुण्येति । पुण्यम् १ एणसङ्ग एणो हरिणः २ जडत्वम् ३ शिबिकाया ऊढिर्वहनम् ४ प्रकाशनं स्वप्रकटीकरणम् ५ तत्त्वनिरूपणम् ६ भवाटवी ७ तस्या व्याख्यानम् ८ इत्यष्टानामर्थाः । परः = पञ्चदशः । अन्वये = भरतवंशविषये ॥ ५ ॥ अथ भूप्रकरणमाह- मेर्विलावृतषट्कद्विवर्षद्वीपैश्च पञ्च कौ । दिवि क्रमात्त्रयः सूर्यध्रुवसूर्यान्तरध्रुवः ॥ ६ ॥ पातालशेषनरकैस्त्रयोऽधोभुवने मताः । इति श्रीमद्भागवते पञ्चमः स्कन्धः समाप्तः ॥ मेर्विलेति । मेरुश्चेलावृतं च षट्कं चार्थाद्वर्षाणां द्विवर्षं च द्वयोर्वर्षयोः समाहारो द्विवर्षम् । पात्रादेराकृतिगणत्वान्न ङीप्, द्वीपानि च तैः । तत्र षोडशे मेरुः कथ्यते । सप्तदशे इलावृतम् । गङ्गावतारादिस्तु पूर्वशेषः । अष्टादशे भद्राश्वहरिवर्ष- केतुमालर म्यकहिरण्मयोत्तरकुरव इति षड्वर्षाणि । एकोनविंशे किंपुरुषं भारतं चेति द्वे वर्षे विंशे तु सप्त द्वीपानि इति कौ= भुवि विषये पञ्चाध्याया इत्यर्थः । स्वर्गप्रकरणमाह - दिवीति । सूर्यश्च ध्रुवसूर्ययोरन्तरं च ध्रुवश्च तैः क्रमात्त्रयोऽध्यायाः । पातालप्रकरण- माह - पातालेति । पातालं च शेषश्च नरकाश्च तैः अधोभुवने क्रमात् त्रय इत्यर्थः ॥ ६ ॥ इति श्रीमधुसूदन सरस्वतीकृतायां हरिलीलामृतटीकायां पञ्चमः स्कन्धः समाप्तः ॥ १. सम्बध्यत इत्यर्थः । २ अध्यायेषु इति शेषः ।