११

[[श्रीमद्भागवतटिप्पणी Source: EB]]

[

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-1735629445h.png"/>

॥हरिः ॐ॥॥ श्रीमद्धनुमद्भीममध्वांतर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः॥ चरणस्मरणात्सर्वदुरितस्यविदारणं॥शरणं नृहरिं वंदे करुणावरुणालयं॥१॥आपातताऽन्यथाभातभागं भागवत सतां॥ तात्पर्यतोऽजितपद्यः तं तत्त्वज्ञमुनिं भजे॥२॥ वाणीनर्तनरंगाभवत्क्रान् जयमुनीन्गुरून्॥ अस्मद्दैशिकपर्यंतान् बुद्धिशुध्द्यैसमाश्रये॥३॥ योऽतनोत्प्रभवा विष्णुतत्त्वकर्मविनिर्णयौ॥ तमो निरास्यच्च तमाचार्य सूर्यमहं भजे॥४॥ ॥ सृष्टिकूपे निपतितं द्विजमुद्धूत्यूमापतेः॥ पदांबुजे जिहसंतं भुवनेंद्रमहं भजे॥५॥ सप्तमस्कंधगफले अतिस्वादयिष्ठे रसं॥ शुकानुकंपया व्यासस्तत्त्वज्ञः कश्चन द्विजः॥६॥ विजयध्वजतीर्थानां कृतेरनुकृतिर्मम॥ शिशोरिवकृतिः पित्रोसहर्षावहासितां॥७॥ सप्तमस्कंधपद्यानां श्रीमद्भागवते शुभे॥ भुवनेंद्राज्ञया कुर्वे योजनां मंदनंदिनीं॥८॥ अत्र सप्तमस्कंधे सर्वसज्जनदुरितविदारिश्रीनृसिंहावतारस्तत्प्रसादाय विविधवर्णाश्रमाचारस्तत्सपर्याप्रकारश्च प्रतिपाद्यते। तदर्थंपरीक्षित्प्रश्नपूर्वमुपोद्घातं रचयति॥ सम इति। समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय इत्यादि वचनेषु समत्वाद्युक्तेरुभयत्र समात्। एकस्यार्थे परस्य वधाद्ययोगः। लोके तथा दर्शनात्। अत्र समत्वादेः प्रत्येकमेव वधायोगप्रयोजनकत्व। वैशिष्ट्ये कृत्याभावात्। विषमो यथेत्युपलक्षणं बोध्यं । यद्यपि सिद्धात्यभितं समत्वं न वधविरोधि। प्रियत्वादिकं न सर्वत्रास्ति। तथाऽपि तादृशसिद्धांताविर्भावायैवेयमुक्तिरित्यवधेय॥१॥ युक्त्यंतरेणापि वधायोगमाशंकते॥ न ह्यस्येति। किं चेंद्रस्यार्थे दैत्यवधः किमिंद्रेण स्वप्रयोजनसद्भावात्। यद्वा। स्वस्यैव दैत्यद्वेषसद्भावात्। यद्वा। भाविबाधकशंकाजनितभयात्। नाद्य इत्याह। न ह्यम्येति। तत्र हेतुः॥ साक्षान्निःश्रेयसात्मन इति। निर्दुःखानंदादेः स्वरूपत्वं नासंपादनीयत्वात्। स्वस्यानन्याधीनत्वेनाभिव्यक्त्यर्थ स्थित्यर्थमप्यधिकारिवद्रमावच्चानन्यापेक्षणात्। न द्वितीय इत्याह॥ नैवासुरेभ्य इति। विद्वेषस्यापि क्रोधादिरूपतया। क्रुध् द्रुहेर्ष्यासत्यार्थानां यं प्रति कोप इति चतुर्थी। न तृतीय इत्याह॥ नोद्वेगश्चेति। उभयत्र हेतुः॥ अगुणस्येति। द्वेष उभयोर्गुणकार्यत्वात्। अस्य निर्गुणत्वात्॥२॥ नारायणगुणान्प्रतीति समत्वादौ निःश्रेयसात्मत्वे निर्गुणत्वे च सति सुरोपकारकत्वदैत्य संहारकत्वादि गुणायोगः। तस्मिन्वा सत्युक्तगुणायोग इति बहुगुणविषयकः संदेह इत्यर्थः॥३॥ प्रश्नं स्तौति। साधु पृष्टमिति। यस्माद्भगवत्संबंधिमाहात्म्यं पृष्टादिकं सत् भगवद्भक्तिवर्धनं

तत्तस्मात्त्वया पृष्टं साध्विति योजना॥४॥ नत्वा कृष्णायेत्यत्र क्रियार्थोपपदस्य तत्कर्मणि स्थानिन इत्यनेन चतुर्थी॥५॥ उत्तरमाह॥ निर्गुणोऽपीति। अपीत्यावर्तते। भगवानिति च। अपि यद्यपि। भगवान्विष्णुर्निगुणो गुणत्रयरहितोऽत एत एवतत्कार्यद्वेषाद्वेगरहितः। प्रकृतेर्लक्ष्म्या अपि परः। भगवान्समग्रैश्वर्यवान्। अत एव सुरगणैर्नास्यार्थोऽस्ति। अपि तथाऽपि स्वमायया गुणमाविश्य स्वतंत्रेच्छालक्षणगुणं स्वेच्छाधीनसत्वादिगुणं वाऽऽश्रित्य बाधकतां गतो भवति। इंद्रस्यार्थे दैत्यानवधीदिति यावत्। तथा चैद्रजन्योपकारादिकारणत्रयाभावेऽपि स्वेच्छाधीनगुणाद्यनुरूद्धया स्वेच्छयैव कारणेन वधो गुणाद्यनुरोधाच्च। न वैषम्यादि। अत्र निर्गुणत्वस्य सत्त्वे तत्कार्यजननादिरूपकार्याभावः। तत्कारणीभूतजडप्रकृतेः परत्वंच लिंगमित्याशयेनाज इति। प्रकृतेः पर इति चोक्तं। अनेन द्वितीयश्लोकोक्तशंकाया निरासः। नन्वत्र षष्ठीतत्पुरुषोपगमे बाधकाभावेऽपि द्वंद्वात्तल् प्रत्ययोपगमे कथं वाध्यबाधकतां गत इति संगच्छते। तल् प्रत्ययस्य सर्वत्र संबंधेन निर्दोषस्य बाध्यतां गतत्वस्यायोगादिति चेन्न। बाध्यस्थत्वेनैव निमित्तेन बाध्यतां गत इत्युक्तेः संभवात्। अत एवात्र ताप्तर्यम्। वाध्यादिस्थो हरिरित्यादिभविष्यत्पर्वणीति। अत्र बाध्यतादिगतेत्यपीत्यत्रापि भक्तिको वा सुपो लुका वा निर्द्देशः। अत्रादि पदेन विद्धदुःखादेर्ग्रहणं। अनेन प्रवृत्तिनिमित्तनियामकत्वेन लक्षणतदधीनत्वनयन्यायेनेव प्रवृत्तिनिमित्ताश्रयस्थत्वेनापि तच्छब्दवाच्यत्वमित्युक्तं भवति। न च वाध्यस्थत्वोक्तिरनुपयुक्तेति वाच्यं। वाध्यतायोजकलो पीडा जनकबलप्रदत्वेन तत्स्थत्वस्य वक्तव्यत्वात्। न च बाध्यस्थत्वमनुपलब्धिबाधितं। अव्यक्तत्वात्। अत एवाव्यक्त इति मूले उक्तं। एतच्च प्रथमश्लोकोक्तशंकापरिहारस्याप्युपलक्षणं। समत्वं न तावद्वधविरोधि। तस्य यमे समवर्त्तित्ववत्तत्तद्योग्यतानुसारेण फलप्रदरूपत्वात्। प्रीतिकत्वरूपं प्रियत्वं। प्रत्युपकारमनपेक्ष्योपकारकर्तृत्वरूपं सुहृत्वं च सज्जनेष्वेवेति॥६॥ निर्गुणत्वं विवृणोति॥ सत्व रज इति। अत्र सुरासुरादिगतसत्त्वादि गुणानुसारेण भगवतस्तत्तत्कार्यकारित्वं कथं। प्रत्येकगुणत्रयादिसत्वात्। न च प्राचुर्यानुसारेण तदिति वाच्यं। तथात्वे सुरेषु तमःकार्यस्य कदाऽप्यनापत्तेरिति चेन्न। प्रचुरगुणस्यैवजन्मलयकाले विवृद्धत्वेन तदनुसारेण

इति संबध्यते। असुरान्सुरभिन्नान्मनुष्यान्। नित्यसंसारिण इति यावत्। यक्षरक्षांसीति तमोयोग्योपलक्षणं। भजन्। एवं देवादीन् जन्मलयकाले विभजन्। तत्कालगुणस्तत्कालेऽभिवृद्धगुणानुगुण आस्त इत्यन्वयः॥८॥ वाध्यादिस्थो भगवान् व्यक्त इत्येतद्दृष्टांतमुखेनाह॥ ज्योतिरादिरिति। अरुणौ ज्योती रूपेण वन्हिः। आदि पदेन दध्यादौ घृतादिः। यथा विद्यमानेऽपि न भाति तथाऽऽत्मस्थोऽपि परमात्मा न भाति। अमानो नाप्रतिषेध इति प्रतिषेधार्थक आभातीत्यत्र एत्यव्ययं। न भातीत्यस्यैवाभिप्रायमाह॥ सघातादिति। देहेंद्रियासुजीवसमुदायान्न विविच्यते विविच्य न ज्ञायते। अविद्यमान एव न भातीति किं न स्यादित्यत आह॥ विदतीति। यतः कवयो मथित्वा श्रवणादि विचारं कृत्वा तत आत्मादिस्थं देहादिस्थमपरोक्षति जानंति। यथाऽरुणौ वन्हिं दध्नि वा घृतं। कवयो मथनकुशलाः। अतो नास्तीति वक्तव्यमिति भावः। अत एवैतत्सर्वमभिप्रेत्योक्तं तात्पर्ये। दधिस्थघृतवदित्यादि॥९॥ जयकाले तु सत्त्वस्येत्यादिना गुणत्रयप्रकृतत्वात्प्रसंगात्सृष्टिरक्षासंहृतिष्वपि गुणत्रयोपादानं विवेकेनाह॥यदा सिसृक्षुरिति । परः परमात्मा आत्मनः पुरः शरीरस्थानापन्नानि महदादितत्त्वानि तदभिमानिदेवशरीराणि ब्रह्मांडतदंतर्गतशरीरजातं च सिसृक्षुर्भवति तदा पृथक् साम्यावस्थापन्नाद्विविन्य स्वमायया स्वेच्छया रजो रजोगुणं सृजति सृष्टौव्यापारयति। यदा चैषः सृष्टासु विचित्रासु पूर्षु रिरंसुः। अंतणर्ति णिच्। रिरक्षुरिति यावत्। तदा सर्वमीरयति। यदा चासौ शयिष्यमाणः स्वयं प्रलयजले स्वांतर्वा लोकान् शयिष्यमाणः। अंतर्णीत णिच्। स्थापयिष्यन् भवति। तदा तम ईश्यति। अत्र सर्वत्रेश्वरः समर्थ इति॥१०॥ कालादेव जगदुत्पत्युपपत्तेर्न भगवानपेक्षणीय इति काल शब्देश्वरैकत्वमतान्यप्येवमेव हीत्यनुव्याख्यानोक्ताः कालैकत्ववादिनः प्रधानपुंभ्यामेवोत्पत्तिरिति सांख्याः। तन्मतनिराह॥ काल चरतमिति। कालोऽखंडो न क्षणलवादिभेदस्योपाधिकत्वस्य समयपादे निरासेन स्वाभाविकत्वात्। तथा च प्रवाहतश्चरत कालमपि भगवानेव सृजति। कला मुहूर्ता इत्यादि श्रुतेः। नापि प्रधानपुरुषयोः स्रष्टृत्वं ताभ्यां सह कालस्य सृष्टत्वात्। इत्याशयेनाह। प्रधानपुभ्यामिति। नेयं पंचमी। किंतु सहयोगे तृतीया। प्रकृति पुरुषं चैव प्रविश्य पुरुषोत्तमः। क्षोभयामासेति वचनात्। एतदेवाभिप्रेत्योक्तं तात्पर्ये॥ प्रधानपुभ्या सहेति। इदमिदानीमिति प्रतीतिसिद्धकालाश्रयत्वप्रदोऽपि भगवानित्यभिप्रेत्याश्रय इत्युक्तं। आरोपितत्वाज्जगतो माया-

पेक्षा वक्तव्या। नतूक्तगुणत्रयापेक्षेत्येतद्वेति चोद्यं निराह॥ सत्यकृदिति। विश्वं सत्यमित्यादिश्रुतेः। अनीशो हि मिथ्यां दर्शयति। अयं चेश इतीत्युक्तं। ईश इति। एवं जगत्सर्जनेन तत्र तत्र प्रवेशनादिना च स्वप्रयोजनाभावात्कथमेतदित्यत आह॥ स तत्र तत्रेति। योग्यायोग्यजनेषु स्थित्वा शुभाशुभलक्षणोभयसिद्धिमाप्नुयात्। अंतर्णीत णिच्। आपयेत्। तथा च स्वस्य विहार एवायं। जनस्य सदसन्मोक्षलाभ एव प्रयोजनमिति भावः। तथाप्युपादाननिमित्ताद्यपेक्षणात्परापेक्षत्वं तच्छक्त्यभावाच्चापूर्णत्वमित्यत आह॥ लिंगात्मन इति। लिंगं शरीरे चिन्हे च साधने शेफभस्मनोरित्यभिधानात्। लिंगस्य शरीरस्थानीयस्य साधनस्य वा प्रकृतिकालादेरात्मनः स्वामिनो लिंगगुणाः स्वाधीनतया संति। षष्ठ्यर्थः स्वत्व। तथा च साधनानां साधनत्वं यदात्माधीनमिष्यते। तदा साधनसंपत्तिरैश्वर्यं द्योतिका भवेदित्युक्तेः। साधनापेक्षया न स्वातंत्र्यहानिः। नाप्यपूर्णत्वं। यतोलिंगशक्तयः परमात्मनः संति।सर्वसामर्थ्योपेतत्वात्। शशविषाणादिसर्जनसामर्थ्यमप्यस्ति। किंतु सत्यसंकल्पत्वान्न तथा करोतीत्येव यद्वा। पृथिव्यवादीनां जडानां या आस्पदत्वतदर्थेकत्वादिशक्तयो याश्च देवानां शक्तयस्ताश्च संतीति न भगवतो न्यूनत्वं। इदं च पद्यं प्राचीनैर्बहुधा योजितमपि मंदानंदायेत्थं योजितमिति क्षंतव्यं॥११॥ निर्गुणोऽपि ह्यज इति प्रतिवचनश्लोकेस्वमायागुणमाविश्येत्येतेन स्वेच्छाधीनसत्त्वादिगुणालंबनाद्वधादिकं युक्तमित्युक्तं। तदेव प्रयोजनाक्त्या प्रपंचयति। एष इति श्लोकद्वयेन। य एष उरुश्रवाः पुरुकीर्तिर्दूरश्रवणादिकीर्तिमान्वा भगवान्कालप्रकृतिपुरुषादिविषये ईशिता सुराणामनीकमिव बलापष्टंभकसैन्यमिव स्थितं दैहेंद्रियादि कारणीभूतं सत्त्वमेधयति। रजस्तमस्कान् तत्प्रत्यनीकान् सुरविरोधिनोऽसुरान् प्रमिणोति निहंति। तमसि संसारे वा प्रक्षिपति। एतत्किमर्थमित्युक्ते स भगवान्स्वसृष्टस्य स्थितिरक्षानुवृत्तये स्थितेस्तदर्थं रक्षायाश्रानुवृत्तये प्रकृते ताक्त्वं हीत्यधिकरणोक्तरीत्या सहर्तुरसंहारातिरिक्तान्नदानादिरूपरक्षां विना स्थित्ययोगात्। सत्त्वं सत्वगुण तेन सुराणा च मुहुः प्रतिस्थितिकालमुपब्रहयते वर्धयंते । असरान्नाशयतीति च ग्राह्यं। अत्र काल ईशितेत्यत्र प्रथमाभ्रांति वारयितं तात्पर्यं।

मिति। एवंचेवेत्यस्य स्थितमित्यध्याहृतेनान्वयः। उपोद्बलकत्वेन च सादृश्यमित्युक्तं भवति। मूलं सुरप्रियेत्युत्तिरनुपपन्ना। कदाचिदसुरादावप्यैश्वर्यादिप्रियकारित्वात्। न च सदा प्रियत्वेन विशेषः। तथात्वे सर्वसमत्वानुपपत्तेरित्यतस्तद्घटयितुं प्रवृत्तं तात्पर्ये ब्रह्मतर्कवचनं। स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः। अप्रियश्चासुराणां स स्वभावात्तूभयं नृणां। अत्र हरिर्देवप्रिय उच्यते। अत्र हेतुद्वयं सदा प्रियत्वात्स्वभावतः प्रियत्वादिति। प्रीतेः कर्तृविषयस्वभावोभयनिमित्तकत्वं बोध्यं। तु शब्दो नैव सुरादिष्विति विशिनष्टि। च शब्दस्तु शब्दार्थे। असुराणां त्वित्यर्थः। यद्वा। अनुक्तसमुच्चयो सदा चेत्यर्थः। यद्वा। न केवलं खुरप्रियोऽसुराणामपि यश्चेति। नॄणां तूभयं। प्रियाप्रिय इत्युच्यत इत्यर्थः। अत्रापि स्वभावात्सदेति ग्राह्य। एवं तर्हि समत्वानुपपत्तिरित्यत आह। देशकालगुणांश्चैव भक्त्यादीनप्यपेक्ष्य तु। योग्यता च तथा कर्म सम इत्यभिधीयते। भक्त्यादिदेश कृतत्रेतादिकाल। सदाचारादिगुणान् भक्तिश्रद्धादीन् अनादियोग्यतां पूर्वपुण्यकर्म चापेक्ष्य। एवमसुराणां देशादिकं द्वेषादिकं तस्य योग्यतां पूर्वपापं च मनुष्याणां तु मिश्रमवेक्ष्य फलं ददातीति सम उच्यते। न वैषम्यं। अत एव वैषम्यनैर्घृण्ये न सापेक्षत्वादिति सूत्रं। प्रकारांतरेण समत्वमाह। स्वतः प्रियोऽपि देवानामुत्पाद्यैव गुणानिमान्। इतरेषां तथा दोषात्सुखदुःखे ददात्यजः। उभयं तु मनुष्याणामतः सम इतीरितः। पूर्वं स्थितं साधनमपेक्ष्य फलदानात्समत्वं। अत्र तु स्वतः प्रियत्वादौ सत्यपि गुणादिकमुत्पाद्यैव फलदानात्समत्वमिति भेदः। एवं तर्ह्यसुरेषु गुणे सुरेषु दोषे सति करोतीत्यत आह। अनादिनियताश्चैव गुणदोषाः सुरादिषु। यथाक्रमं पुनश्चैव नियमाद्वर्धितास्तथा। विष्णुनैव ततो नित्यं विषमश्च जनार्दन इति ब्रह्मतर्के। यतः सुरासुरादिषु गुणदोषा यथाक्रममनादिनियता अतो नोक्तशंकेति भावः। एवं मिश्रेषूभयमनादिनियतमिति ग्राह्यं। अत्र गुण पदं मोक्षसाध्यपरं। दोष पदं तमःसाधनपरं। उभयं च संसारापादकं ग्राह्यं। एवं च सुरेषु दुःखापादकस्यासुरेषु सुखापादकस्य च सत्वेऽपि न दोष इत्यवधेयं। नन्वेव गुणदोपप्रवाहस्यानादित्वे सदसन्मुक्तिः कदाचिदेव कथमापाद्येते इत्यत आह॥ नियमाद्वर्धिता इति। तथा च यथायोग्यमभिवृद्धयोरेव गुणदोषयोः सदसन्मुक्तिकारणत्वान्न पूर्वंतदापत्तिः। मनुष्याणां तु साधनानुष्ठानपर्यवसित पक्षे यथायोग्यं वर्धितत्त्वं ज्ञेयं। यथायोग्यमनंतरमनुष्ठितं च साधनं मुक्तानुष्ठितकर्मेव न फलसाधनं किंतु पूर्वमेव। फलं तु

स्वरूपसुखदुःखोभयानुसारि बाह्यसुखदुःखानुभवापर्यवसानमेव केचिल्लिंगभंगमप्याचक्षते। साधनानुष्ठानापर्यवसितपक्षे तु नक्रमाद्वृद्धिरित्यवधेयं। एवमपि सुरेष्वनादिगुणनियत्याऽसुरेषु दोषनियत्या विषमः स्यादेवेत्यत आह॥ नित्य विषमश्च जनार्दन इति। तर्हि विषमत्वं नास्तीत्युक्तेः का गतिरित्यतस्तात्पर्ये स्कांदवचनं प्रवृत्तं। न विष्णोर्विषमत्वं तु योग्यतापेक्षया कचित्। योग्यतायास्तन्निगत्या विषमत्वं भवेदितीति स्कांदे। इति योग्यतापेक्षया योग्यताऽतिक्रमापेक्षया तद्व्यत्यासापेक्षया वा विपमत्वं नास्ति। यथास्थिततन्नियत्यापेक्षया तु विषमत्व स्यादेव। विषमत्वं नास्तीत्युक्तिस्तु योग्यताऽतिक्रमापेक्षया नास्तीत्यभिप्रायिका। नन्वेवं तर्हि यथाकथंचिद्विषमत्वं दोषप्राप्तय इत्यतो नेदं विषमत्वं दोषायेत्याशयेन प्रवृत्तं तात्पर्य। विषमत्वं तु दोषाय शुभाशुभविपर्यये। अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतं। शुभाशुभनियंतृत्वं न दोषो गुण एव सः। अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतं विभोरिति तंत्रनिर्णय इति। शुभाशुभविपर्यये। पुण्यपापविपर्यये योग्यताविपर्यये वा। विपर्ययेण फलदाने इति यावत्। उक्त चानुव्याख्याने। वैषम्यनिर्घृणत्वं च वेदाप्रामाण्यकारणं। नांगीकार्यमतोऽन्यत्तु न वैषम्यादि नामकमिति वितृतमेतत्सुधाचंद्रिकयोः॥१२॥१३॥ अत्रैव स्वभावतः सुरप्रिय इत्यत्रैव॥१४॥ महाद्भुतं निंदकस्यापि सायुज्यरूपमाश्चर्यं॥१५॥ विस्मितमना आश्चर्ययुक्तचित्तः॥१६॥ चैद्यस्य शिशुपालस्य॥१७॥ भगवन्निंदायास्तमोहेतुत्वे निदर्शनमाह॥ वेन इति॥१८॥ कलभाषणमारभ्य संप्रत्येतत्कालपर्यंतमप्यमर्षी द्वेषी॥१९॥ श्वित्रः श्वेतकुष्टः। धर्मी स्वर्गं विधर्मी निरयमेत्येवेति श्रुतेः। धर्माधर्मयोर्मृत्यनंतर भाविफलकत्वात् । श्वित्रो न जात इति कथमुच्यत इत्यतस्तात्पर्यं प्रवृत्तं। नियमाद्भुज्यते पुभिर्धर्माधर्मफलं मृतौ। कैश्चिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेदिति भारते। कैश्चिदत्युत्कटैरित्यर्थः। अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुत इत्युक्तेः। भगवन्निंदनस्य चात्युत्कटत्वात्॥२०॥ दुःखग्राह्यधामन्यप्राप्य स्वरूपे॥२१॥ एतदेतस्मिन्विषये बुद्धिर्भ्राम्यति। निंदा तमः कारणमितिश्रुतिशतसिद्धां निंदकस्य सायुज्यं प्रत्यक्षसिद्धं। अतो मनो॥ नान्यतरन्निश्चेतुमर्हतीत्यर्थः॥२२॥ सदसः कथाः शृण्वंतः संत इत्यर्थः॥२३॥ युधिष्ठिरोक्तमनं प्रतिवक्तमारभते॥

प्रकृतिपुरुषयोर्देहजीवयोर्वाऽविवेकेनात्यंता भेदाज्ञानेन निमित्तेन यत्कल्पितं निष्पादितं तदेव कलेवरं देहादिकं निंदनाद्यर्थं भवति। निंदनस्तवौ दोषगुणसंकीर्तनरूपवाचकव्यापारौ। सत्कारन्यक्कारौ सन्मानावमानलक्षणौ कायिकौ। एतैः कार्यं क्रोधदुःखादिकं लक्ष्यते। तथा च स्वर्गार्थं याग इतिवन्निंदनादिजन्यक्रोधाद्युपद्रवायेदं निंदनाद्यर्थ। अर्थेन नित्यसमासो विशेष्यनिघ्नता च। एवं दंडपारुष्ययोः शरीरदंडननिष्ठुरवाचोरपि निमित्तयोः सतोः शरीराभिमानेन हिंसा भवति। चेतनस्य हिंसाऽभावेनाभिमन्यमानशरीरहिसयैव हिंसितो देवदत्त इति व्यवहारात्। तदभिमानेनेत्येतत्सर्वत्रापि ग्राह्यं। कोऽभिमानो नामेत्यतो भूतानां मामहमिति यद्वैषम्यं तदिति। अस्वकीये ममेति स्वकीयता बुद्धिः। अनहं भूतेऽहामीति बुद्धिचेत्यर्थः। तथा चायमभिमानो यद्देहनिबंधस्तद्वधादेव प्राणिनां वधः। प्रकृते किमायातमित्यत आह॥ यदिति। यस्येतस्यापरस्येत्युत्तरेणान्वयः। अकयप्रविसंभूमसखहा विष्णुवाचका इत्युक्तेर्यस्य विष्णोरिति वार्थः। अभिमानो नास्तीत्यत्र कैवल्यादखिलात्मन इति च हेतुः। अखिलस्वामित्वादस्वकीयाभावेन नास्वकीयेऽस्वकीयता बुद्धिः। कैवल्य पद च कैवल्यदेहाद्यभावादिति तात्पर्ये एव व्याख्यातं। हिंसालक्षणोपद्रवोऽपि नास्तीत्याह॥ परस्येति। अकर्तुरित्यत्र न तत्पुरुषः किंतु बहुव्रीहिरित्याशयेन तात्पर्यं। अकर्तुस्तस्यान्यः कर्ता न विद्यत इति। हिंसेत्यस्य विशेषणे इदमित्यत्र लिंगव्यत्ययेनेति प्रवृत्तं तात्पर्यं। इदमेषा। व्यत्ययोऽतिशयकुत्सनभेदेष्विति सूत्रादिति। परमात्मनोऽतिशये हिंसायाः कुत्सितत्वं। अस्वतंत्रत्वादत्यंतभेद वा द्योतयितुं व्यत्यय इत्यर्थः। तथा च भगवतोऽभिमानाभावेन भिन्नदेहाभावेन स्वातंत्र्येण च निदनादिना कोऽप्युपद्रवो नास्तीति। नाद्यः पक्षो युक्तः। यद्यपि वेनादिकृतनिंदनादिनाऽप्युपद्रवो नास्ति। अन्यथा परमात्मा केनापि निंदनादिकं न कारयेत्। तथाऽपि वेनादिकृतनिंदनादिना स्वाभाविककोप एवाभिव्यज्यते तेन तस्य तमःप्राप्तिः। भक्ते तु चैद्यादौ स्वाभाविकः कोपो नास्ति। औपाधिकस्तु नोत्पद्यते। किंतु स्वाभाविकी प्रीतिः। ततश्चान्यावेशकृतं निंदनादिकं सोढ्वा कृपालुर्मुक्तिमेवाददादिति भावः। न द्वितीय इत्याह॥ तस्मादिति। सर्वथाऽप्युपद्रवाभावाद्वैरानुबंधादिना केनापि प्रकारेण युंज्यात्। अत्र निर्वैरेण युंज्यादिति विशिष्टविधिः। वैरानुबंधेनेत्यादावप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीदित्यत्र वेनविशेषणे तात्पर्यं। किंतु योगमात्रविधाने वैरादेर्निषिद्धत्वात्। इयं चानुव्याख्यानसुधारीतिः।

वस्तुतस्तु य इत्यध्याहारेण यो वैरानुबंधादिना युज्यात्सः कथंचित्पृथगन्यद्वस्तु नेक्षते इत्येकवाक्यतया योजना। तथा चान्यविषयकत्वे सति भगवद्विषयकत्वं मनसो लक्ष्यते। तदेव मुक्तिसाधनमिति भावः। अत एव तात्पर्यं॥ कथंचिन्नेक्ष्यते पृथक्। तत्रैव मनसोऽभिनिवेशेन तदन्यं नेक्षते। वैरादीनामेकतमेनापि युंज्यात्स नेक्षत इति स्वभावकथनं विधिरिति। तथा चान्यविषयकभगवद्विषयकमनोयोगलक्षणसाधनसद्भावादिह जन्मनि साधनाभाव इत्येतत्सिद्धं। ननु वैरानुबंधाद्यंशेऽपि विधिः किं न स्यादित्यतो बाधकं वक्तुं प्रवृत्तं तात्पर्यं॥ कर्मणा मनसेत्यारभ्य कथंचनेत्यादेरित्यंतं। तत्र कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययं। मज्जंति पितरस्तस्य नरके शाश्वतीः समा इति ग्रंथांतरस्थवचनं। अत्र द्विषतः पितॄणामपि नरकोक्तेर्द्वेषकस्याकार्यत्वं लब्धं। तानहं द्विषतः क्रूरान्संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभामासुरीष्वेव योनिषु। आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौंतेय ततो यांत्यधमां गतिं। अवजानंति मां मूढा मानुषीं तनुमाश्रितं। परं भावमजानंतो मम भूतमहेश्वरं। मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनी श्रिता इति गीतावचनं। अत्र द्विषतामधोगत्युक्त्याऽवजानता मोघाशत्वादेः राक्षसासुरस्वभावत्वस्य चोक्त्या द्वेषस्याकर्तव्यत्व लक्ष्यते। यदनिदत्पिता मे त्वामविद्वांस्तेज ऐश्वरं। तस्मात्पिता मे पूयेत दुरंताद्दुस्तरादधादित्यत्रैवं वक्ष्यमाणं वचनं। अत्र निंदनप्रसक्तात्पतिप्रार्थनान्निंदनस्याकर्तव्यत्वं। एतच्च सज्जीवविषयं दुर्जनस्य विषये प्रार्थनस्य पावनस्य चायोगात्। हिरण्यकशिपुश्चापि भगवन्निन्दया तमः। विवक्षुरत्यागात्सूनोः प्रह्लादस्यानुभावतः। इति चतुर्थस्कंधगतवचनं। अत्रापि निंदया तमोवेशनप्रसत्युक्तेर्निंदनस्या कर्तव्यत्वं। एतदपि सज्जीवविषयं। वरतोऽपि न मुच्यंते द्वेषिणः शापतोऽपि तु। भक्तानेव निपात्यंते धर्माधर्मैस्तथेतरैः। अन्यावेशकृतं यत्तु तद्वराद्यैरपोद्यते। तद्विरुद्धस्वभावानामन्यथा न कथंचनेति ग्रंथांतरस्थं। अत्र स्वाभावद्वेषिणो वरतोऽपि मुक्त्यभावोक्त्या द्वेषस्या कर्तव्यत्वं। स्वभावभक्तस्य शापतोऽपि निपातनाभावोक्तेर्दृष्टांतत्वं। इतरैर्धर्मैरपि द्वेषिणो मुक्त्यभावः। अधर्मैर्निपतनाभाव इत्यर्थः। द्वेषविरुद्धस्वभावानामेवान्यावेशकृतद्वेषा-

तादृशानां तदेव चिंतयंति च। अन्यथाऽऽत्मनोदुःखकारणं द्वेषादिकं कथं सर्वनियामको हरिरुत्पादयेदिति। अनेन तथा नयस्य कैवल्याद्यभिमान इत्यनेनोक्ताभिमानो लक्षणोपद्रवाभावस्य परामर्श इति सूचितं। शक्यते इत्यनेन युंज्यादिति लिंगो न विधिरर्थः किंतु शक्यत्वमिति सूचितं। इदमपि द्वेषादिना मनोयोगादिकं भगवतो नोपद्रवादिकारणमित्यनेन न किंतु तत्प्रेरणायाः। न ऋते त्वत्क्रियत इति श्रुतेः। इति भावेनोक्तं तत्प्रेरणयेति। तादृशानामन्याविष्टानां भक्तानां तदेव यथाकथंचिद्योजनं भवत्विति द्वेषादिना मनो निवेशनं चिंतयंति। आलोचयति च। भगवांस्तादृशानां नित्यद्वेषादिमतां तदेव तत्पूर्वे मनोनिवेशनमेवेति वाऽर्थः। प्रेरणयाऽपि भगवत उपद्रवाभावो लब्ध इति भावेनाह॥ अन्यथेति॥२७॥ न केवलं वैरानुबंधादिना मनो योजयितुं शक्यते।किंतु भक्त्याद्यपेक्षयाऽतिशयेनेत्याह॥ यथेति। एतदभिप्रायेणैव तात्पर्यं॥ तत्रैव हेतुरिति। वैरानुबंधेन मनोयोजनस्य कर्तुं शक्यत्वेऽतिशयेन तत्साधनत्व हेतुरित्यर्थः। तन्मयतां मनसस्तत्राभिनिवेशनं। श्लोकार्थस्तु स्फुटः। अनेन प्रमेयांतरमपि लब्धमित्याशयेनाह तात्पर्यकृत्॥ यथा वैराभिनिवेशिनः संति तथा भक्त्यभिनिवेशिनो न संति। तत्कथमन्यथा भक्तानेव बहून्हरिः कुर्यादिति भाव इति॥ सदसन्मुक्तियोग्यानां भगवदभिनिवेशनस्यावश्यकत्वात्तत्र वैरादेः सुलभसाधनत्वाद्भक्तैश्च दुर्लभत्वाद्वैराभिनिवेशिनो बाहुल्येन संति। न तथा भक्ताः। अन्यथा भक्तेरेव सुलभत्वे बहून् भक्तान्कुर्यादित्याशयः॥२८॥ कीटः पेशस्कृतेत्यादि चैद्यादीनां भक्तियुक्तत्वप्रतिपादनमिति तात्पर्यं। तथा च कीटः कृमिविशेषः पेशस्कृता भ्रमरविशेषेण कुड्ये तद्गतकर्दमकृतनीडे रुद्धः स्वाशनदानाय यांतमनुस्मरन् संरभभययोगेन कोपभययुक्तस्नेहेन तत्स्वरूपतां तादृश्यं विंदते लभत इति योजना। चैत्द्यादय ईदृशा इति भावः। अत्र सिंहावलोकनन्यायेन पूर्वस्य निर्वैरेणेत्यादेः कृत्यं वक्तुं तात्पर्यम्। स्नेहाद्यायतनदेहनाशादिनाऽप्युपद्रवोऽस्य नास्तीति निर्वैरेणेत्याद्युक्तमिति। तस्माद्वैरानुबंधेनेत्यत्रोक्तपक्षपंचके निर्वैरेण स्नेहात्कामेनेति पक्षत्रयं मुख्यं। तत्रापि क्रमात्तारतम्य। वैरभयपक्षे तु भक्त्या मुक्तावप्यस्योपासकस्य स्वस्नेहाद्यायतनस्य देहस्य चक्रादिनाशयातनाद्युपद्रवोऽस्ति। उक्तपक्षत्रये तु नास्तीत्यभिप्रायेण निर्वैरेणेत्याद्युक्तमित्यवधेयं। पूर्वंथथा वैराभिनिवेशिन इति स्ववाक्ये वैराभिनिवेशिनां बाहुल्यं भक्तानां स्वल्पत्वं युक्त्या समर्थितं। अधुना श्रुतिमपि तत्राह। ततः कनीयांस एव देवा ज्यायांसो

असुरा इति श्रुतिः। तत इत्यस्य भक्तेर्दौर्लभ्यादित्यर्थो भाति। पूर्वश्लोके तन्मयतामित्यस्याभेदार्थभ्रांतिं वारयति। तन्मयता मनसस्तत्राभिनिवेशनमिति। प्रमेयविशेषं चाह। मागधाद्या यथा नित्यं द्वेषादाग्रहिणो हरौ। न तथाऽऽग्रहिणो भक्ता ऋते स्कं ब्रह्माणमव्ययमिति हरिवंशेषु। द्वेषादाग्रहो नाम द्वेषविषये उत्तमत्वं। माहात्म्यप्रतिपादकेषु तत्र स्नेहं कुर्वत्स्वपि द्वेषस्तद्वधोद्योगः। एवं भक्त्याऽऽग्रहोऽपि तद्विषयनिंदकादेरपि जिव्हाच्छेदादि शपथं तदुन्मूलनोद्योगादि। एतच्च भाविब्रह्मत्वे भीमसेने स्पष्टं अनेन केवलभक्त्याऽभिनिवेशिनोऽल्पाः किंतु तदाग्रही सुतरां दुर्लभ इति प्रमेयविशेष उक्तः। अत्र योग शब्दार्थमाह। योगः स्नेहः। संरंभभययुक्तस्नेहेन। प्रीतिः स्नेहस्तथा योगः प्रेमबंध इतीर्यत इति शब्दनिर्णये। अनेन शाकपार्थिव इत्यत्र प्रिय पदस्येव संरंभभययोगेनेत्यत्र युक्त पदस्य लोप उक्तो भवति। अभिधाने स्नेहः प्रीतिरित्यादि शब्दैरीर्यत इति योजना॥२९॥ न केवलं चैद्यः किंतु बहवोऽप्यन्याविष्ठा भक्ता एवमित्याह॥ एवमिति। एवं चैद्यवद्बहवो भगवति कृष्णे मायामनुजे स्वेच्छया मनुष्यवत्प्रतीयमाने वस्तुत ईश्वरे वैरेणानुचिंतया वैरपूर्वकभक्त्या धूतपाप्मानः संतस्तमापुरिति योजना। अत्र वैरेणेत्यस्य युक्त्याऽपीत्यध्याहृत्यानुचिंतयेत्यनेनान्वयः। न धूतेत्यनेन। अनुचिंता पदं च भक्तिवाचीत्याशयेनाह तात्पर्यकृत्। वैरयुक्तयाऽप्यनुचिंतया तमापुः। अनुचिंतेति तामाहुर्भक्तिपूर्वा तु या स्मृतिरिति च। अत्र श्लोकेऽनुचिंता पदस्य भक्तिपरत्वं। द्वेषादेरन्यावेश कृतत्वं भगवतः कृपालुत्वात् द्वेषस्यागणनं। स्वाभाविकभक्तेरेवानुसरणं। इत्यादिकं कुतः कल्प्यत इत्यतोऽत्र सर्वत्रैकं प्रमाणमाह॥ स्नेहादन्नं ददातीति। स्वाकर्षणभयेऽपि च विद्यमानेऽल्पकोपे संगतिस्नेहतस्तथा। पेशस्कद्रूपतां कीटो यथा याति तथैव तु। वैद्यादयोऽसुरावेशाद्धरौ द्वेषयुता अपि। निजस्वभावया भक्त्या नीता हरिसरूपतां। तथा हि करुणो विष्णुरन्यावेषाद्यदि द्विषन्। हीयते किं ममानेन नित्यानंदस्वरूपिणः। देहबंधयुतानां हि द्वेषिणापकृतं भवेत्। मम को ह्रपराध्येत निर्दोषसुखरूपिणः। अतो मय्यपराधस्तु स्वस्मिन्नेव न मे भवेत्। अतो यच्चासुरवशात्कुतमेतेन दुष्कृतं। अनादिभक्तो यस्मान्मे मोचयिष्येततस्त्वहं।

यदि यद्यपि द्विषन्नास्ते चेद्यादिस्तथाऽपि करुणो विष्णुरिति मत्वा मोचयतीति योजना। एतत्सर्वमभिप्रेत्यैव स्मर्तव्यो भगवान्नित्यर्थेनैव हि क्वचित्। द्वेषादिव गुणानाह पुराणे वृद्धवाक्यवत्। इत्यनुव्याख्यानव्याख्यावसरे सुधायां वैरेण यन्नृपतय इत्यादि स्मरणयोगप्रधानकवाक्यानां स्मरणकर्तव्यत्वे तात्पर्यं गतिः। द्वेषाच्चैद्यादय इत्यादिना द्वेषप्रधानकानां गुणे तात्पर्यं गतिरित्युक्तं। गुणप्रकारश्च शापादिना द्वेषिणोऽपि चैद्यादयस्तात्कालिकं द्वेषमनुरूप्यं पूर्वतनीं भक्तिमेवापेक्ष्य भगवता मोचिताः। अहो कृपालुत्वं निर्विकारत्वं सत्यसंकल्पत्वं चेति तत्रैवोक्तः। वृद्धवाक्यवदिति प्रतीतार्थं तात्पर्याभाव एव दृष्टांतः। ननु शाब्दप्रमाजनकत्वे पुराणवाक्यस्य तथात्वेऽप्रामाण्यापत्तेः। तथा च पुराणवाक्यस्य प्रतीयमाने द्वेषहेतुकत्वे न तात्पर्यं। किंतु कृपालुत्वे तात्पर्यं। तद्बोधलाभश्च द्वेषादिति पंचमी ल्यब् लोप निमित्ता। कृपयेत्यध्याहारः। द्वेषमनिरूप्य कृपया तद्गतिं गता इति योजनया वृद्धवाक्यं तु प्रतीतिकेऽर्थे न तात्पर्यवत्। द्विषदन्नं न भोक्तव्यमित्यत्र तात्पर्यवदपि न तच्छाब्दबोधजनकं। वचनलिंगानुमा हि सेतिकर्मनिर्णयोक्तेः। अनुमानप्रकारश्च तट्टीकायां न्यायामृते च व्यक्तः॥३०॥ न केवलं वैरेणानुचिंतया तमापुः किंतु कामादिभिरपीत्याह॥ कामादिति। कामादित्यादौ तृतीयार्थे पंचमी । कामेन यथा यथावत्। स्वयोग्यया भक्त्या सहेति केचित्। एवं स्नेहेन मित्रादि साधारणस्नेहेन यथावद्भक्त्या सह। अपरे एवं भयेन द्वेषेणापि यथावद्भक्त्येश्वरे मन आवेश्य तदंघं यद्वेषादिना प्राप्तमघं यथावद्भक्त्या पश्चात्तापयुक्तया भक्त्या हि बहवस्तद्गतिं गताः। भगवत्प्राप्तिं गता इति योजना। अत्र यथेति दृष्टांतस्तथेत्यस्याश्रवणात्। किंतु योग्यतार्थः। यथा भक्त्येत्येतदावृत्त्या तदंघं हित्वेत्यत्र संबध्यते। कारणांतरश्रवणात्। इत्याशयेनाह तात्पर्यकृत्। कामादिभिरपि यथावद्भक्त्या सहैव मन आवेश्य तदघं यत्तु द्वेषादिकृतमघं यथा भूतया भक्त्या हित्वेति। अनेन तदघमिति भिन्नं पदं। यद्वेषादिकमिति शेषः। भक्त्येति सहयोगे तृतीया। यथा पदं योग्यपरमिति सूचयति। कामस्यादित्वेऽपि द्वेषस्यैव विशेषमघकारणत्वात्। द्वेषादित्युक्तिः। मूले स्नेहपदेन भक्त्यंतर्गत सुदृढस्नेहपरं। पृथगुक्त्ययोगात्। अघकारणत्वायोगाच्च। किंतु कृष्णस्य मार्गगमने शत्रवो नोपद्रवेयुरिति सैन्यस्य सह प्रेषणकारणीभूतयुधिष्ठिरादिगतस्नेहपरामति ध्येयं॥३१॥ कामादेरुदाहरणमाह॥ गोप्य कामादिति। अत्र पूर्वानुरोधान्मानांतरानुसाराच्च यथा भक्त्येत्यनु-

वर्तते। तद्वतिं गता इति च कामाद्भोगलौल्यात्। भयात्कदा मारयतीति भयात्। वृष्णयो यादवाः। संबधाद्देहानुबंधरूपबांधवात्। यूयमित्यपरोक्षीकृतयुधिष्ठिरादीनां निर्देशः। स्नेहान्मित्रादि साधारणस्नेहात्। वयमिति नारदादिनिर्देशः। भक्त्या कामादिरहितया केवलभक्त्या। एतदपि कृष्णावतारदशायामिति ज्ञेयं। अन्यदा सर्वेषामपि केवलभक्तत्वात् कंसाविष्टभृगोर्मुनित्वाद्धर्मादीनां चोत्तमदेवतया नारदादप्यधिकं केवलभक्तत्वात्। तत्रापि भीमसेनस्य न कदाऽपीदृशस्नेहः। परममाहात्म्यज्ञाने जाग्रति तस्याजननात्। इत्यनुसंधेयां योजनात्। गोप्यः कामाद्गति गता इति प्रत्येकं द्रष्टव्यं। अत्र भक्तेति पूरणीयमिति वक्तुं कसचैद्याविष्टांश्च वक्तुं प्रमेयविशेषं च वक्तुं तात्पर्यं प्रवृत्तं॥ गोप्यः कामयुता भक्ताः कंसाविष्टः स्वयं भृगुः। ज्ञेयो भययुतो भक्तश्चैद्यादिस्था जयादयः। विद्वेषसंयुता भक्ता वृष्णयो बंधुसयुताः। बहुमानस्नेहसाम्याद्देवा भक्ताः प्रकीर्तिताः। स्नेहोपसर्जनादेव बहुमानान्मुनीश्वराः। बहुमानोऽपि देवानामृषिभ्योऽभ्यधिको मतः। ब्रह्मवीजेंद्रका मादेरितरेषां यथा क्रममिति ब्रह्मतर्फे॥ अत्र गोपीत्वदशायामेव कामयुतत्वं। असुरत्वदशायां केवलभक्तत्व। भृगोरपि कंसेनाविष्टत्वदशायामेव भययुक्तः भक्तत्वं। चैद्यादिस्था इत्यत्र स्वनिष्ठावेशकर्तृत्वसंबंधेन हिरण्यकशिप्वादिनामकदैत्यस्थत्यं ज्ञेयं। दैत्यानामेव पिशाचस्थानापन्नत्वात्। बंधुसंयुता बंधुत्वसंयुताः। माहात्म्यज्ञानपूर्वकसुदृढस्नेहो भक्तिः। केषुचित्तु भक्तेषु माहात्म्यज्ञानलक्षणबहुमानस्नेहयोः समानाधिकरणयोः साम्यं। केषुचित्तु माहात्म्यज्ञानस्यैवाधिकत्वं। अत्राधिकारिद्वैविध्यविवक्षायामधमेषु भक्तेषु ऋष्यादिषु स्वगताप्रचुरस्नेहकप्रचुरमाहात्म्यज्ञानवत्वं। तदपि तारतम्यानुसारेणोत्तमेषु देवेषु स्वगतस्नेहसमानमाहात्म्यज्ञानवत्वं। ऋष्याद्यपेक्षया माहात्म्यज्ञानमधिकमेव। एतदपि तारतम्येन। अधिकारित्रैविध्य विवक्षायां तु स्वगतस्नेहापेक्षया प्रचुरमाहात्म्यज्ञानवत्वं। अधमानां समोभयत्वं। मध्यमानां प्रचुरस्नेहवत्वं चोत्तमानां ब्रह्मादीनां सर्वमपि तत्तत्तारतभ्यानुसारेणेत्यवध्येयं॥३२॥ द्वेषयतस्यापि चैद्यस्य भगवत्प्राप्तौ वेन-

शब्दा भक्तिपरी अन्यथा दूषणाभिनिवशस्य चद्यादरण्याघक वन सत्वनापाया नास्तात्यस्य बाधापत्तारत्याशयन व्याचष्ट तात्पर्यकृत्॥ कतमोऽपि भक्तियोगो न वेनस्य। तस्मात्केनापि प्रकारेणोपायेनैव मनो निवेशयेत्। नानुपायेन। उपायो भक्तिरुद्दिष्टो द्वेषाच्या अनुपायका इत्यभिधानमिति। स्पष्टमेतत्॥३३॥ पेशस्कृता रुद्ध इत्यत्र चैत्द्यादयः स्वतो भक्ता असुरावेशाद्वेषिण इत्यत्र हेतुर्मातृष्वस्त्रेय इत्यादीत्येवं तात्पर्येणैव श्लोकोऽवतारितः। इत्यत्र हेतुः इत्यत्रेति शब्दात्परमुक्तामीति। हेतुरित्यतः परमुच्यत इति शेषः। मातृष्वस्त्रेय इति ढकि लोप इत्यनुवृत्त्या पतितान् मातृष्वसुश्चेति सूत्रात्। ढकि अत लोपे च रूपं। हे पार्थिव वो युष्माकं मातृष्वसुः पुत्रश्चैद्यो दंतवक्रश्च विष्णोः पार्षदोविप्रशापात्पदच्युतादिति योजना स्पष्टा॥३४॥ विप्रशाषात्पदच्युतराविति श्रुत्वा युधिष्ठिरः पृच्छति॥ कीदृश इति श्लोकद्वयेन। हरिदासान् जयादीन् अभिमृशति स्पृशतीति हरिदासाभिमर्शनः शापः कीदृशः किं प्रकारः। कस्येति कर्तृविशेषप्रश्नः। विप्रशाषादित्यनेन सामान्यस्य निश्चितत्वात्। शापप्रयुक्तो भवाश्चाश्रद्धेय इवाविश्वनीय इव भाति। तत्र हरेरेकांतिनां नियतभक्तानां देहेंद्रियासुहीनानामसवः प्राणा बैकुंठपुरवासिनां वैकुंठस्य पुरं वैकुंठाख्यपुरमिति वा। एतत्त्रयं हेतुः। एकांतिनां परोपद्रवायोगात्। देहादिहीनानां पुनरुत्पत्त्ययोगात्। बैकुंठपुरात्पुनरावृत्तेरयोगाच्च। अतो देहसंबंधस्य संबंधं संबध्यतेऽनेनेति निमित्तं एतदाख्यातुमर्हसीति योजना॥३५॥३६॥ नारद-उत्तरमाह॥ एकदेत्यादिना श्लोकपचकेन। भगवद्भक्तान्। भगवंतं च द्रष्टुकामा भुवनत्रयं चरंतो ब्रह्मणः। पुत्राः सनंदनादयो यदृच्छया भगवदिच्छयैकदा विष्णोलोकं जग्मुः॥ ३७॥ पंच वा षड्वा पंचषट्। समासांतरस्य चो भावो अनित्यत्वात्। पंचषड् हायना अन्दा यस्य। हायनोऽस्त्री शरत्समा इत्यमरः। तादृशोऽर्भोऽर्भकस्तस्याभेवाभा येषां ते पंचपढ्ढायनार्भाभाः। ब्रह्मणः प्रथमकल्पे रुद्रः प्रथमसंभवः। सनकाद्याश्च वाराह इत्युक्तेः। पूर्वेषां पूर्वजा ब्रह्मणो ज्येष्ठपुत्राः। दिग्वा ससः। एतच्च विशेषणत्रयं सनंदनादीनां। तथा च जग्मुरिति पूर्वेणान्वयः। तान् शिशुन्मत्वा द्वाः स्थौ जयविजयौ प्रत्यषेधतां वेत्रविधानेन न्यवारयतामिति योजना॥३८॥ अत्र प्रत्यषेधतामित्यनेन शापनिमित्तमात्रमुक्तं। शापप्रकारश्च वक्ष्यते। देहेंद्रियासुद्दीनानामित्यादिना प्राप्तापुनर्भवासंभवशंका कथं निरस्तेत्यतस्तात्पर्यकृदाह॥ द्वाः स्थावित्यनेनाधिकारस्थत्वमिति।

अनेनापि कुथं परिहार इत्यतः प्रमाणमुपन्यस्यति॥ अधिकारस्थिताश्चैव विमुक्ताश्च द्विधा जनाः। विष्णुलोकस्थितास्तेषां वरशापादियोगिनः। अधिकारस्थिता मुक्ति नियतं प्राप्नुवंति च। विमुक्त्यनंतर तेषां वरशापादयो न तु। देहेंद्रियासुयुक्ताश्च पूर्वं पश्चान्न तैर्युताः। अप्यभीमानिभिस्तेषां देवैः स्वात्मोत्तमैर्युता इति तंत्रसारे॥ अनेन विष्णोः पार्षदा गरुडानंतविष्वक्सेन जयादयो द्विविधाः संति। वैकुंठादिधामत्रयोद्देशेऽपि द्विविधः। अमुक्तगम्यो मुक्तमात्रगम्यश्चेति। तत्रामुक्तगम्यदेशे विद्यमानाः पार्षदाः संसारिणः। मुक्तदेशे तु मुक्ताः। तथा च देहेंद्रियहीनानामित्युक्तं हेतुत्रयसिद्धं। अत एव शेषस्य लक्ष्मणादिभावेन भवः गरुडस्याऽपि शापादिना नावताराः सनंदनादीनामपि लिंगत्वमेव। वाराहकल्पब्रह्मजातशररिवत्वात्। तथा चापराधशापतत्प्रयुक्तजन्मादिमत्वं सर्वं युक्तमित्युक्तं भवति। जना गरुडानंतादयः पार्षदा अधिकारस्था विमुक्ताश्चेति द्विविधा विष्णुलोके स्थिताः। एषां मध्येऽधिकारस्थितास्तद्दशायां वरशापादियोगिनो ब्रह्मलयकाले नियतं यथा भवति तथा मुक्ति यांति। विमुक्त्यनंतरं तैर्जडदेहादिभिरपि जडदेहादिनाऽपि स्वात्मोत्तमैर्देवैस्तेषां गतदेहादीनामाभिमानिभिः। द्यङ्य मनुष्ये बहुलमिति अभीत्यस्य दीर्घः। अभिमानवद्भिर्युता भवंति अत एव चानन्याधिपतिरिति सूत्रं। मुक्तः स्वकीयावरयंत्रताऽस्ति इत्यनुव्याख्यानसुधयोर्विवृतमेतत्। अत्र देवैरित्यनेनैकादशस्कंधे वक्ष्यमाणा असुरा मित्राश्चाभिमानिनो मुक्तौ न संतीति ध्वनितं॥३९॥ एवं प्रतिषेधेन कुपिताः सनंदादसोऽपश्यन् कोपेन जय विजयावपश्यन्नित्यर्थः। मधुद्विषः पादमूले पादसमीपे। रजस्तमोभ्यां तत्कार्याभ्यां रहितं। युवां वासं न च नैवार्हथः॥४०॥ पापिष्टां पापो दैत्यस्तद्युक्ता पापिनी। अतिशयेन तथा भूतामासुरीं। सुरभिन्नोऽसुरस्तत्संबंधिनीं योनिं। आश्वितः शरीरात्। यात गच्छतामित्यूचुश्चेति शेषं कृत्वा योजना । न केवलं कुपिता अपश्यन् किं त्वित्यूचुश्चेत्यर्थः।

योजना तु स्फुटा॥४२॥ सौकरं वपुर्वराहसंबंधिशरीरं बिभ्रता हरिणा हिरण्याक्षो हत इति योजना। जिघांसुर्हेतुमिच्छुर्मृत्युहेतवे मरणरूपप्रयोजनाय नाना यातना बहून् शरीरोपद्रवान् हिरण्यकशिपुरकरोदिति योजना॥४३॥ सर्वभूतात्मभूतां तत्र तात्पर्यं॥ सर्वभूतात्मनि भूतमिति। सर्वभूतस्वामिनि भूतं दासभूतं। प्रशांतं। प्रकर्षेण विष्णुनिष्ठबुद्धिं। अतदर्हणमुक्तनानायातनाऽयोग्यं। भगवत्तेजसा स्पृष्टं भगवदनुग्रहाय तेजसा सामर्थ्याविशेषेण स्पृष्टं युक्तं। तं प्रह्लादं। उत्तमैर्हननोद्योगैर्हेतुं नाशक्रोदिति योजना॥४४॥ ततो वराहेण नृसिंहेन च हननानंतरं। तौ केशिन्यां राक्षस्यां राक्षसौ जातौ राक्षसत्वजातिमतौ। मातृजातिः सुता नामित्युक्तेः। कीदृशौ किं नामानौ कस्य सुतावित्यतः सर्वलोकप्रतापिनौ रावणकुंभकर्णश्चेति नामवंतौ विश्रवसः सुताविति॥४५॥ तत्रापि रावणादिजन्मन्यपि शापमुक्तये न्यहनादिति योजना। त्रिषु जन्मस्वहमेव हन्मीति विष्णोर्वरो हिरण्यकशिप्वादिजन्मनि सुराद्यवध्यत्वविषयको धातुर्वरश्च ग्रंथांतरादवसेयौ। दैत्यजन्मांतरं राक्षसत्वे तदनंतरं मानुषत्वे तदनंतरं सायुज्ये च किं कारणमित्यतस्तात्पर्यकृत्प्रमाणमाह॥ हिरण्यकशिपुर्भूतममन्यत मृतौ हरिं। अतो भयानको जातस्तत्र राजानमेव च। मत्वा राजैव संजातः कृष्णं चक्रादिलक्षणैः। मृतिकाले हरिं चैव मत्वा भक्त्यैव केवलं। द्वाःस्थत्वं हरिमाविश्य प्रापैव मनुजोऽपि त्विति गारुडे॥ भूतराक्षसं भयानको राक्षसः। यं यं वाऽपि स्मरन् भावं त्यजत्यंते कलेवरं। तं तमेवेति कौंतेयेत्युक्तेः। केवलं भक्त्या द्वेषमुझ्झित्वा बहुपश्चात्तापयुक्तया महाभक्त्या निमित्तेन मनुजोऽपि हरिमाविश्य प्रापेत्यन्वयः। तु शब्दस्य तत्रेत्यनेनान्वयः। रावणजन्मानि त्वित्यर्थः। राजैव सजात इत्यनंतरं तत्र त्वित्यनुवर्तते। राजजन्माने त्वित्यर्थः। एतत्सर्वं हिरण्याक्षेऽनुसंधेयं॥४६॥ वनवासकाले भविष्यतीं मार्कडेयकथां मनसि कृत्य श्रोष्यसीति लृट् प्रयोगः। तौ रावणकुंभकर्णौ॥४७॥ कृष्णचक्रहतांसौ कृष्णचक्रहतमंहस्त्रिजन्मकृतं पापं ययोस्तौ। वैरानुबंधतीव्रण वैरयुक्तभक्तिभरेणात्युत्कटध्यानेनाच्युतसाम्यतां॥ स्वार्थे ष्यञ्। अच्युतदेहप्रवेशं नीतौ। विष्णुपार्षदौ पुनहरेः पार्श्वं जग्मुरिति योजना। अत्र द्वेषेणैव साक्षात्साम्यं किं न स्यादित्यतो बहुप्रमाणबाध उक्तः। प्रमाणांतरबाधं चाह तात्पर्यकृत्॥ विष्णुभक्तेश्च तत्ज्ञानादन्यतो मुक्तिवाचकाः। विष्णोर्गणज्हासवाचः श्रीब्रह्मादेस्तथा क्रमात। विष्ण्वादिद्वेषतश्चैव सुखवाचस्तथाऽखिलाः। मोहनार्थाः समुद्दिष्टा यथार्थद्योतका-

स्तथेति प्रकाशसंहितायां॥४५॥ श्रीब्रह्मादेः क्रमाद्गुणन्हासवाच इत्यनुवर्तते। विद्यमानगुणानां व्हासवाच इत्यर्थः। बुध्या विवेकिनां क्रमादवरताक्रमात्। विद्यमानश्रीब्रह्मादेः सकाशाद्विष्णोर्ज्हासवाच इति वाऽन्वयः। तथार्थद्योतका विरुद्धार्थद्योतकाः। अन्येऽपि तथा मोहनार्थाः समादिष्टा इत्यर्थः। एतच्च वचनं क्वचित्तात्पर्यं कोश इह नास्ति। किंतूत्तराध्यायादावभिधानपूर्वकं वैरानुबंध पदं ब्याचष्टे॥ वैरानुबंधो वैरयुक्ता भक्तिः। अनुबंधस्तु भक्तिः स्याद्वधः स्नेह उदाहृत इति प्रकाशसंहितायां ४८॥ अच्युतात्मनि विष्णुमनस्के। अत् एव महात्मनि। दयिते दयाविषये। पुत्रे प्रह्लादे विद्वेषः कथमासीत्। यन्निमित्तमासीत्तन्मे ब्रूहीति योजना॥४९॥ इति श्रीभागवतटिप्पण्यां मंदनंदिन्यां प्रथमोऽध्यायः॥७१॥

॥हरिः ॐ॥ युधिष्ठिरकृतप्रश्नं प्रतिवक्तुं प्रारभते॥ भ्रातरीति। भ्रातरि हिरण्याक्षे क्रोडमूर्तिना वराहमूर्तिना। रुषा हरिविषयककोपेन शुचा भ्रातृविषयकशोकेन पर्यतप्यत संतापमकार्षीत्॥१॥ दष्टदशनच्छदोऽधरोष्ठो येन स हिरण्यकशिपुर्धूम्रं यथा भवति तथाऽबरं निरीक्षन् इदं वक्ष्यमाणमुवाच॥२॥ करालदंष्ट्रोग्रदृष्ट्या भयंकरदंष्ट्राभिर्युक्तया उग्रदृष्ट्या निमित्तेन दुष्प्रेक्ष्यभृकुटीमुखः प्रेक्षितुमशक्यभ्रुवोराक्रमयुक्तमुखः। इदं वक्ष्यमाणमब्रवीत्॥३॥ संबोधनद्योतकस्य भी इत्यस्यादराद्विरुक्तिः। स्युः प्याट् पाडंग है है भोरित्यमरः। भो भगो इति प्रादेशः। पोलोव्योरिति लोपः। दानवदैतेया इति सामान्यतः संबोधनं। द्विमूर्धनित्यादि तन्नामकीर्तनं। हयग्रीवोति तन्नामकदैत्यसंबोधनं। पाक इल्वलेत्यत्राविवक्षणात्संहिताभावेन तत्कार्य एकदेशाभावः। वाक्ये तु सा विवक्षामपेक्षत इत्युक्तेः। असंधिः काव्य एव दोषः। क्रियता। मदुक्तमिति शेषः। आश्वित्यस्य माचिरमिति विवरणं चिर यथा न भवतीति॥४॥५॥ क्षुद्रैरल्यैः सपत्नैः शत्रुभिः। अदितिपुत्रैरिति यावत्। वस्तुतो दैत्या दित्यसमेनापि उपधावनैर्देवकर्तृकोपसत्तिभिः। टीकायां स्योदवनैरिति लेखकदोषः। स्वपादवनैरित्येव स्वपादभजनैरित्यर्थः। एवमुत्तरत्रापि लेखकदोषा मार्जनीयाः। तुष्टेन पाष्णिग्राहेण देवरक्षकेण हरिणा घातितो हननं प्रापित इति योजना। तदानीमदित्यां हरेरवता

इत्यभिधानं। मायावनौकसो मायया कापट्येन वनस्थानकवराहरूपस्येत्यर्थः। भर्जतं स्वसेवकं भजमानस्य स्वसेवानुसारेण फलदातुः। बालस्येवास्थिरात्मनश्चंचलमनस्कस्य। युधिमच्छूलभिन्नग्रीवस्य तस्य भूरिणा रुधिरेण प्रियं भ्रातरं हतव्यथः सन् तर्पयिष्य इति योजना॥७॥८॥ तस्मिन्नष्टेऽदृष्टे दुष्टे वा कूटे कपटे हते सति। कृतं मूले वनस्पतौ विटपाः शाखा इव विष्णुप्राणा दिवौकसः। अनायासेन शुष्यंतीति योजना॥९॥ अहं हरिमन्वेषयामि। यूयं तावद्विप्रादिसमेधितां भुवं यात। दानकानित्यत्र स्वार्थे कप्रत्ययः। यद्वा। मत्वर्थे कः। तथा च तपादीस्तद्वतो ब्रह्मादीन्वा सूदयध्वमिति योजना॥१०॥ तावता विष्णोः किमपकृतमित्यत आह। विष्णुरिति। देवर्षिपितृभूतानां धर्मस्य च परायणं। मुख्याश्रयो यज्ञ इज्यत इति यज्ञः। पुमान्पुरुषः। धर्ममयो धर्मप्रधानो विष्णुः। द्विजक्रियामूलो द्विजानां ब्रह्मक्षत्रादीनां क्रिया तप आदिका मूलमुपोद्बलिका यस्य तादृशः। यत्र यत्र द्विजादयस्तं तं जनपदं यात। संदीपयत वन्हिना ज्वलयत। वृश्च्यत। ओ वृश्च्यू च्छेदन इति धातोः। छेदनं कुरुतेति योजना। तथा च द्विजानां यज्ञकारित्वेन गवां हविःसंपादकत्वेन वेदानां मंत्रादिरूपत्वेन वर्णाश्रमोचितक्रियाणां विहितत्वेन विष्णुप्रीतिसाधनतया विष्णुपोद्बलकत्वेन तदपकारे विष्णोरपकृतं भवतीति भावः। विष्णोः स्वस्यैव सर्व मूलत्वेन द्विजक्रियामूलत्वमित्येतदासुरं मत। एवमन्यदपि विरुद्धमासुर मत बोध्य। अत एवात्र तात्पर्य॥ विप्रयज्ञादिमूल तु हरिरित्यासुर मत। हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृपेति ब्राह्मे॥ सर्वस्य मूलमित्यतः परमिति शब्दोऽनुवर्तनीयः॥११॥१२॥ आज्ञानुसारेण भृत्यानां करणप्रकारमाह॥ इति ते भर्तृनिर्देशमित्यादि सार्धश्लोकत्रयेण। योजना तु स्फुटा। कदनं हिंसां। कद हिंसायामिति धातोः। राजाधिष्ठानं पुरं ग्रामो बहुजनाकीर्णस्थानं व्रजं गवामावासस्थानं। गोपालवसतिर्वा। आश्रमो मुनिवास उद्यानं महावनं क्षेत्रं श्रीमुष्टादि। आराम उपवनमाकरो रत्नाद्युत्पत्तिस्थानं खेटो नाट्यस्थानं खर्पटो वसनविक्रयस्थानं घोष आभीराणां पल्ली पत्तन वणिग्भिरधिष्ठितं। आजीव्यान्नारिकेलक्रमुक पनसादिवृक्षान्। शरणानि गृहाणि॥१३॥१५॥ एवं विप्रकृते विनाशिते लोके लोकपाला देवा अलक्षिता अदृष्टाः। कटोदकं धर्मोदकं। शकुनिमित्यादीनि नव पुत्रनामानि। रुशद्भानुंहिरण्याक्षपत्नीं। जननीं हिरण्याक्षमातरं। देशकालज्ञो मृतस्य पुत्रादिगृहे तत्काले यद्वक्तव्यं तत्ज्ञः। श्लक्ष्णया मनोहरया गिरा।

इदमाहेत्यन्वयः॥१६॥२०॥ अंबांचेति दितेर्वधूरिति रुझाद्भानोः संबोधनं। श्लाघ्यो जनैः शूराणामीप्सित इष्टः। अनेन श्लाघ्याऽभीप्सितप्राप्त्या शोको न कार्य इत्युक्तं भवति। नाप्येकत्र संवासो गत इति तस्याध्रुवत्वनियमादित्याह॥ भूतानामिति। प्रपायां नानापथा गच्छद्द्भ्यो दीयमानपानीयशालायां। प्रपा पानीयः स्यान्मंत्रशाला प्रतिश्रय इत्यभिधानं। दैवेन कर्मवशेनैकत्र नीतानां संगतानां तथा पूर्वं पश्चाच्चोन्नीतानां वियुक्तानां संवासोऽध्रुव इति योजना॥२१॥ तत्त्वमुपदिशति॥ नित्य आत्मेत्यादिना श्लोकपंचकेन। नित्यः स्वरूपतोऽव्ययो देहतोऽपि व्ययरहितः। शुद्धो गुणत्रयरहितः। सर्ववित्सर्वज्ञः। सर्वगः सर्वत्र गतः। परः स्वतंत्रः। असावात्मा हरिर्गुणान्पूर्वं सौक्ष्म्येण विद्यमानान् आदिसृष्टौ स्वमायया स्वेच्छ्या विसृजन् आत्मनो जीवस्य लिंगं मन आदि षोडशकलात्मकलिंगशरीरं धत्ते धारयति। पुष्णाति चेति योजना। एतदेवाभिप्रेत्य तात्पर्यं॥ जीवमन आदीनामाधारं ब्रह्मेति॥ अत्र धत्तं इत्यनेन नियामकत्वेन भगवतोऽतः स्थितत्वप्राप्त्या जीवस्येव गुणप्रयुक्तो बंधस्तस्यापि स्यादित्यतः स्वातंत्र्यपारतंत्र्याभ्यां संभोगो नेशजीवयोरित्युक्तरीत्या तस्य न बंधः। किं त्वज्ञेन बद्धजीवेन तत्समीपस्थो भगवानपि भ्रांत्या तथा दृश्यत इत्याह॥ यथेति। नौकादिकमधिरुह्य जले गच्छतः पुंसः प्रचलतोऽभसांऽभोगतप्रतिबिंबभूततरुसमूहेन निमित्तेन तीरस्थतरवोऽपि यथा चला इव दृश्यते। यथा वा चक्षुषा भ्राम्यमाणेन भ्रमणयुक्तेन भूरपि भ्रमतीव दृश्यते॥२२॥२३॥ एवं गुणैर्भ्राम्यमाणेऽज्ञानभ्रमादिबंधयुक्ते। मननान्मन उद्दिष्ट इत्युक्तेः। मनसि जीवे। अविकलो वैकल्यरहितः पुमान्परमपुरुषोऽलिंगो लिंगशरीररहितो लिंगवान् जीवभ्रांत्या तत्साम्यतां। स्वार्थे ष्यञ् । तत्साम्यतां यातीति योजना। एतत्सर्वमभिप्रेत्य प्रवृत्तं तात्पर्यं॥ लिंगवानिव जीव इव। असमं समतामेति भ्रांतिदृष्ट्यैव केवलं। जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथंचनेति षाड्गुण्ये। यथोदचलनाद्वृक्षप्रतिबिंबचलनात्। तटस्थवृक्षचलनं कल्पयेदबुधो नरः। तथा मनसिजैर्दोषैराभासे दूषिते नरे। आभासिनो ब्रह्मणश्च दोषमज्ञः तथैव स्वात्मानो दोषादोषवद्ब्रह्म पश्यतीति ब्रह्मतर्के॥ असमं ब्रह्म

य एषः प्रक्रम्यमानपरांमर्शित्वात्पुलिंगं। आत्मविपर्यासः परमात्माधिष्ठानको भ्रमः। तस्य फलमाह। एवमिति। एवं भ्रमे सति प्रियाप्रियायोगादयो दोषा भवतीति योजना॥२५॥ वियोगो बंधुभिः। कर्म पापं। संसृतिः संसारबंधः। स्मृतोऽनुभवसिद्धो विविधशोकश्च विवेकःस्मृतिः वस्तुतोऽविवेकिन एव। अविवेकेऽसम्यग्ज्ञाने विवेकस्मृतिः सम्यग्ज्ञानमिति भ्रांतिरित्यर्थः। अतो दोषमध्ये परिगणनं युक्तं। एतदेवाभिप्रेत्य तात्पर्यं॥ विवेकस्मृतिरविवेकिन एव विवेकित्वभ्रांतिरिति॥ अत्र तत्त्वोपदेश हिरण्यकशिपोः केशवै भक्तिः प्रतीयते। अतः कथं तत्स्तोतारं प्रह्लादं द्वेष्टीत्यत आह तात्पर्यकृत्॥ अंतर्हिरण्यकादीनां भक्तिरस्त्येव केशवे। असुरावेशतस्त्वन्यान्ह रिस्तो वृद्विषंति चेति पाद्मे॥ २६॥ भूतानामिह संवासोऽध्रुव इति न केवलं मयोक्तं किं त्वत्रेतिहासमप्युदाहरतीत्याह॥ अत्रेति। प्रेतबंधूनां कस्यचिन्मृतस्य ज्ञातीनां। तमितिहासं निबोधत। जानीत। बुध्द्यतेर्व्यत्ययेन शप्॥२७॥ उशीनरेषूशीनरस्य जनपदेषु। तद्राजस्य। लुम्बहुष्विति लुक्। ज्ञातयो बांधवा उपासंत तद्विषयकचिंतामकुर्वन्॥ २८॥ असृगाविलं रक्तेन व्याप्तं॥२९॥ स्तब्धाक्षं निश्चलनेत्रं। संरंभात्कोपात्। रजकुंठमुखांभोजं धूलि धूसरमुखांबुजं यस्य तं। छिन्न आयुधयुक्तभुजो यस्य तं॥३०॥ तत्पदयोः पत्युः पदयोः॥३१॥ आक्रदनयोच्चरोदनेन नृणां शोचं सृजत्यः कुर्वाणा विलेपिरे परिदेवनं चक्रुः॥३२॥ हे प्रभो नाथ। भवान्येनाकरुणेन विधात्रा नोऽस्माकं दृशामगोचरमविषयं देशं नीतः। उशीनराणां वृत्तिदः कृतोऽधुना शुचं विवर्धनः कृतः। तं विधातारं धिक्। अहो आश्चर्यमिति योजना॥३३॥ हे महीपते। सुहृत्तमेन कृतज्ञेन त्वया विना कथं स्याम तिष्ठामः। हे वीर। तव पादयोः शुश्रूषतीनामस्माकं त्वं यत्र यास्यसि तत्रानुयानं दिशेति योजना॥३४॥ निर्हारं शवर्निहरणं। अनिच्छंतीनां मृतं पतिं परिगृह्यैवं विलपतीनां सतीनां। विलपतीषु सतीष्विति यावत्। यस्य च भावेन। भावलक्षणमिति षष्ठी। अर्कोऽस्तं यथा भवति तथा सन्यवर्तत रथनिवर्तनमकरोदिति योजना॥३५॥ परिदेवनं विलापनं। योजना तु स्फुटा॥३६॥ बालरूपस्य यमस्योतिप्रकारमाह॥ अहो इति। मतो वयसाऽधिकानां लोकविधिं मर्त्यलोकस्थितिं विपश्यताममीषां प्रेतबंधूनामेषो विमोहो अहो आश्चर्यकरः। एष कः। यत्र

पूर्वमदर्शनं उद्भव उत्पतिः। तत्र तद्दर्शनं गतं मनुष्यं स्वयं सधर्मा स्तादृशोत्पत्त्या दिमतोऽपार्थे व्यर्थमनुशोचंतीति य

इति योजना। एतदेवाभिमत्य तात्पर्यं॥ यत्रोद्भवस्तत्र गतमदर्शनं गतं। अदर्शनादिहायातः पुनश्चादर्शनं गत इति भारते॥३७॥ बंधुवियोगेनानुशोचनस्याकार्यमुक्त्वा तादृशचिंतारहितस्य स्वस्य धन्यत्वं रक्षकाभावे रक्षणं कथमित्यतो भगवत एव रक्षकत्वं चाह॥ अहो वयमिति। अत्र लोके पितृभ्यां मातापितृभ्यां त्यक्ताः। रक्षकरहिता इति यावत्। अबला दुर्बला अपि वृकादिभिरभक्ष्यमाणाः। यो हि गर्भे रक्षति स एव सर्वदाऽपि रक्षिता रक्षक इति निश्चित्य मातापितृवियोगादिकं न विचिंतयामः। यद्यस्मादहो तस्माद्वयं धन्यतमा हीति योजना॥३८॥ अन्यसृष्टं संहारके चास्मिन् सति प्रयोजनाभावे च कथं रक्ष्यतीत्यतः सृष्ट्यादिकर्तैक एव । प्रयोजनाभावेऽपि रक्षणादिव्यापारेच्छारूपस्य भगवतः क्रीडैव। देवस्यैष इति श्रुतेः। जगच्च क्रीडोपकरणमित्याशयेनाह॥ य इच्छयेति। हे अबलाः। य एवेदं स्वेच्छयैव सृजति य एव रक्षति अनुलंपते संहरति। स्वयमव्ययः। तस्य निग्रहसग्रहे सृष्ट्यादिना संग्रहे संहारदिना निग्रहे प्रभोः समर्थस्येशितुः स्वामिनश्चराचरं क्रीडनं क्रीडोपकरणमाहुर्विद्वांस इति योजना॥३९॥रक्षणादिकं भगवदधीनमेव न जीवव्यापाराधीनं। तस्यान्वयव्यतिरेकव्यभिचारादित्याशयेनाह॥ पथिच्युतमिति। अत्र दिष्ट शब्देन भगवानभिधीयते। अस्यानेन। योजना तु स्फुटा॥४०॥ किंचिदनिमित्तीकृत्य भगवतः स्रष्टृत्वादौ वैषम्यादीत्यत आह॥ भूतानीति। भूतार्नि प्राणिनः सर्वशः पूर्णेन भगवता तैस्तैर्निजयोनिकर्माभिः स्वजन्मकारणीभूतकर्मभिर्निमित्तीकृतैः काले कालविशेषे भवंति जायंते । एवं मृतिकारणीभूतकर्मभिः कालविशेषे न भवंति म्रियते। तत्र जननादौ प्रकृतौ तत्कार्ये देहे स्थितोऽपि जीवादन्यतमः सुविरुद्धस्वरूप आत्मा परमात्मा तस्याः प्रकृतेर्गुणैः सत्त्वादिभिः। सत्त्वं सुखे जयतीत्यादिनोक्तैस्तत्कार्ये न निबद्धयत इति योजना। एतदेवाभिप्रेत्य तात्पर्ये॥ अन्यतम आत्मा परमात्मा। सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिरिति वामने॥४१॥ देहे स्थितः परमात्मा न निबद्धयत इत्यनेन जीवो बाध्यत इत्यायातं। तत्कथं। तस्यापि देहात्पृथक्त्वादित्यतो जीवमिथ्याज्ञानमूलत्वाद्युक्तस्तस्य बंध इत्याशयेनाह॥ इदं शरीरमिति। यथा भौतिकं पंचभूतकार्यं गृहं गृहमानिना पृथगीयते । तथोदकैः पार्थिवतैजसैः

मरणप्रयुक्तदुःखलक्षणबंधवान् भवतीति याजना। अत्र शोका न काय इत्यथ यत्राद्भव इत्यादिना दहानित्यत्वाक्तरूपयोगऽप्यहा वयमित्यादिना भगवन्माहात्म्योक्तेः कोपयोग इत्यतस्तात्पर्यं॥ भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात्स एव भजनीयो न शोकेन प्रयोजनमिति फलितार्थः॥४२॥ जीवस्य गुणबंधे निमित्तमुक्त्वा परस्य तदबंधे निमित्तं दृष्टांतपूर्वमाह॥ यथेति। यथा भिन्नोऽनल ईयते सदाह्यत्वात्तद्गुणेन दाह्यत्वादिना न लिप्यते च। अनिलो देहगतः पृथक् स्थितः छेद्यदेहात्पृथगच्छेद्यत्वादिना विलक्षणतया स्थितस्तद्गुणेन छेद्यत्वादिना न सज्जते। यथा नभः सर्वगतं कूटस्थत्वान्न सर्वगुणैः सज्जते। तथा परः परमात्मा सर्वगुणाश्रयः सर्वज्ञः स्वातंत्र्याद्याश्रयो गुणैर्देहस्य जीवस्य वा गुणैर्न सज्जत इति योजना। एतदेवाभिप्रेत्य तात्पर्यकृत्प्रमाणमाहमाह॥ देहदारुगतौ प्राणवन्ही सर्वगतं नभः। देहादिभ्यो यथा भिन्ना न लिप्यंते च तद्गुणैः। तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्गुणैरिति च॥ जीवगतो जीवेन सह गतः। तद्गत इति वा। तद्गुणी तस्य जीवस्य देहस्य वा। गुणलेपवानित्यर्थः॥४२॥ इतश्च शोको न कार्य इत्याह॥ सुयज्ञ इति। हे मूढ। यमनुशोचथात्र यः शेते देहोऽसौ सुयज्ञोऽयं ननु किमित्याक्षेपः। तथा चानुशोच्यः सुयज्ञो देहो नेत्यर्थः। देहस्याश्रोतृत्वेन जडत्वात्। तर्हि श्रोतारमनुशोचाम इत्युक्ते किं मुख्यं श्रोतारमुतामुख्य। आद्ये आह ॥ य इति। यो मुख्यतः श्रोताऽनुवक्ता च हरिः स इह लोके कर्हिचिन्न दृश्येत्। अव्यक्तत्वात्॥४४॥ सुयज्ञो जीवा मुख्यश्रोता किं न स्यादित्यतः कैमुत्येन नेत्याह। न श्रोतेति। अत्र लोके देहे वेतरापेक्षया महान्मुख्योऽसुरपि मुख्यप्राणोऽपि न स्वतः श्रोताऽनुवक्ता चेति यदा तदा देहप्राणयोः सकाशात्। च शब्दात्स्वतः श्रोतुर्वक्तुर्भगवतश्चान्योऽभिमानत इंद्रियवानात्मा जीवो यः स तु न स्वतः श्रोताऽनुवक्ता चेति किमु वक्तव्यं। इति योजना। अत एव तात्पर्य प्रवृत्तं। इंद्रियवान् जीव इति॥४५॥ यः श्रोताऽनुवक्तेत्यत्र मुख्यतः श्रोता यः स न दृश्यतेत्युक्तं। स क इत्याशंकायामाह॥ भूतेति। यो जीवादन्यः परमात्मा विभुः समर्थः। जीवस्य ससारमोक्षार्थं भूतेंद्रियमनोलिंगान् भूतेंद्रियमनांसि लिंगं स्वरूप येषां तान्। उच्चावचान्सुरनरतिर्यगादीन्देहान् जीवनियामकतया स्थातुं स्वयमपि भजते। लोकांतरं च जीवं गमयितुमुत्सृजति। स एव स्वतः श्रताऽनुवक्ता चेत्यध्याहृत्य योजना। जीवस्य देहभजनोत्सर्जनादिकं स्वान्याधीनमिव स्वस्याऽपि देहभजनादिकं किमन्याधी-

नमित्याशंकापरिहाराय तदपि स्वेन तेजसा च स्वसामर्थ्येनैवेति चतुर्थः पादो योजनीयः। एतावदभिप्रेत्यैर्व तात्पर्यं प्रवृत्तं॥ भजत्युत्सृजति ह्यन्यः परमात्मा। स एव श्रोताऽनुवक्ता च। नान्योऽतोऽस्ति श्रोता स योऽतो श्रुत इत्यादेरिति॥४६॥ सिंहावलोकनन्यायेन पूर्वश्लोकतात्पर्यमाहाचार्यः॥ मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इतीति॥ एतदनुसारेणैव पूर्वं मूलं योजितं च । तत्पूर्वश्लोकस्यापि तेनैव न्यायेन तात्पर्यमाह॥ अयं ननु सुयज्ञ इत्याक्षेप इति॥ आक्षेपप्रकारश्च पूर्वमुक्तः। अमुख्यं श्रोतारं सुयज्ञमनुशोचाम इति तृतीयपक्षस्य सुयज्ञस्यास्वातंत्र्यात्। तच्छोकेनापि किं फलमित्यध्याहृत्य मूले उत्तरं द्रष्टव्यं। एतदेवाभिप्रेत्य तात्पर्य प्रवृत्तं। यस्तु सुयज्ञः सोऽपि स्वतो वक्तुं श्रोतुं न शक्तः। अतस्तस्यानुशोकेन किमित्यर्थ इति। पूर्वश्लोकोक्तस्योत्तरश्लोके वक्ष्यमाणस्य तत्यसक्तस्य प्रमेयातरस्य निर्णायकं प्रमाणं मध्ये पठति तात्पर्यकृत॥ अन्यो जीवो चितोदेहात्तद्वशो देह उच्यते। पश्यामीत्यभिमानोऽस्य चक्षुराद्यभिमानवान्। न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः। चक्षुराद्या मनो जीवो दृष्ट्यादिश्वापि यद्वशे। स प्राण इति विज्ञेयो ज्ञाता मंता च स प्रभुः। तस्यापि ज्ञातृमतृत्वं न स्वतः शक्यते क्वचित्। यस्तस्य ज्ञातृमंतृत्वदाता स भगवान्हरिः। स्वतो ज्ञाता मंता च द्रष्टा श्रोता च केशवः। ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः। स देहान्भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि। यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः। तावत्क्लेशादयश्चास्य वृथा चेंद्रियनृत्तयः। यदोत्सृजति देहं स हरिः सर्वात्मनाः विभुः। तदा तदभिमानी तु जीवो मुच्येत संसृतेः। अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ। देहाभिमानी त्वेकोऽत्र न मानी मानदः पर इति गारुडे॥ अनेन पतितो देहः सुयज्ञो नन्वित्याक्षेपो वितृतः। चक्षुषा पश्यामीत्यभिमानोऽत एव चक्षुराद्यभिमानवान् चक्षुराद्या न तद्वशा दर्शनेच्छायामपि कदाचिदपाटवादी ज्ञानाजनकत्वात्। कारणस्यानधीनत्वादेव तद्वृत्तौ दृष्ट्यादावपि स ईश्वरः समर्थो न भवति। अनेनाभिमानत एवेंद्रियवानित्येतत्समर्थितं भवति। बाह्यकारणांतःकरणतद्व्यापारजीवा

विपर्येतीति विपर्ययः। विपरीतमतिमान्। इंद्रियवृत्तयश्च संसारहेतवः। यदा सर्वात्मनोत्सृजति न कमपि जडदेहमवशेषयति तदा संसृतेर्मुच्यते। अतिभिन्नस्वरूपावतिविलक्षणस्वरूपौ। मानदोऽभिमानप्रदः। पूर्वमिंद्रियवानित्यनेन जीव उक्तः। कचिद्देहोऽनिंद्रिय इति भगवानुच्यते। तत्कथं स्वस्वामिभावसंबंधस्य भगवत्येव मुख्यत्वादित्यतोऽयं विधिनिषेधयोर्विवक्षितं निमित्तांतरमुदाहरति तात्पर्यकृत्॥ इंद्रियाद्यभिमानेन तद्वान् जीव उदीर्यते। अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽर्निद्रियस्तथा। जीवानभिमते देहे न विष्णुर्जीवति स्थितः। अतश्चादेह उद्दिष्टः परमात्मा सनातन इति प्रकाशसंहितायां॥ अनेन देहादिमत्वोक्तावभिमानो निमित्तं। अदेह इत्याद्युक्तौ तु अभिमानाभावः। अदेहत्वोक्तौ निमित्तांतरं चाह॥ जीवानभिमत इति। जीवतीति सप्तम्यतं। श्वासोच्छ्वासादिमतीत्यर्थः। यदि रामकृष्णादि विग्रहः प्राकृतः स्यात्तदाऽयं नियमो न स्यात्। देवदत्तादिस्तु स्वेतर जीवानभिमते जीवति देहे तिष्ठतीति न तस्यादेहत्वं। तथा च स्वेतरजीवानभिमतश्वासोच्छ्वासादिमच्छरीरकत्वं देहवत्वोक्तौ निमित्तं। तदभावोऽदेहवत्वोक्तौ निमित्तमिति भावः। सिंहावलोकनन्यायेन स चान्यः प्राणदेहयोरित्यत्र च शब्दसमुच्चयमाह तात्पर्यकृत्॥ स चान्यः श्रोतुर्वक्तुश्चेति च शब्द इति। स चान्य इत्यत्र च शब्दः श्रोतुर्वक्तुश्चेति समुच्चयार्थ इत्यर्थः। पुनः सिंहावलोकन न्यायेन भूतेंद्रियमनोलिंगानीत्यनूद्य लिंगशब्दस्य स्वरूपार्थे प्रमाणमाह तात्पर्यकृत्॥ भूतेंद्रियमनोरूपान्। लिंगं स्वरूपमुद्दिष्टं लिंगं ज्ञापकमेव चेति शब्दनिर्णये॥ एवं जीवस्य पुनः पुनः देहमाप्तौ कदा मोक्ष इत्यतो मूलं प्रवृत्तं॥ यावल्लिगेति। अत्र तात्पर्यं॥ आत्मा परमात्मा। कर्मबंधनो जीवः। ततः परमात्मनो विपरीत इति। तथा च यावर्ल्लिंगान्वितो लिंगशरीरादिजडदेहान्वित आत्मा परमात्मा कर्मनिबंधनं ससृतौ यस्य तादृशो जीवस्ततः परमात्मन एव विपर्ययो विपरीतमतिमान्वर्तते। क्लेशः संसारक्लेशो मायायोगोऽविद्यायोगस्तन्निमित्ताभिमानोऽपि तावदनुवर्तत इति योजना। यदोत्सृजति देहं सः हरिः सर्वात्मना विभुः। तदा तदभिमानी तु जीवो मुच्येत संसृतेरित्यपि योजनीयं। गारुडे एवमेवोक्तेः। तथा च कदा मोक्ष इति शंका परास्ता॥४७॥ एवं तर्हि संसारेषु पुरुषार्थो नास्तीत्यायातं। कथं तर्हि स्वर्गलोके न भयं किंचनास्तीत्यादिवचनबलात्स्वर्गादौ पुरुषार्थत्वज्ञानं जीवस्येत्यत आह॥ वितथेति। गुणेषु गुणकार्येषु स्वर्गादिष्वर्थदृक् पुरुषार्थ इति ज्ञानमयं वितथाभिनिवेशोऽयथार्थाभिमानः।

वस्तुतः स्वर्गादेः परमपुरुषार्थत्वाभावात्। वचोऽपि वितथा न प्रतीतार्थं। तत्रत्यस्वर्गपदस्य मोक्षपरत्वात्। अत्र दृष्टांतमाह॥ यथेति। सप्तसु प्रथमेत्युक्तेः। मनोरथे स्वप्ने वैंद्रियकमिंद्रियेण प्रतीयमानवित्तादिकं मृषा वृथा। इदं वित्तादिकं मम पुत्राद्युपयोगी भवतीत्यभिनिवेशो यथा तथेति योजना। स्वप्नमनोरथपदार्थानां वासनाद्युपादानकत्वेन सत्यत्वस्य तद्विषयकवाह्मार्थक्रियाकारित्वज्ञानभ्रांतित्वस्य स्वप्नाधिकरणे निर्णीतत्वात्। अत एव तात्पर्यं॥ मृषा वृथा। स्वप्नदृष्टवित्तादिवदिति॥ मायायोगपदेनाभिमानः संसारकारणमित्युक्तं ईश्वरस्याभिमानस्य सत्त्वेन संसारापत्तेरित्यतोऽभिमानं विवेचयति प्रमाणेन तात्पर्यकृत्॥ लेपाभिमानी जीवस्तु स्वरूपानुभवी न च। मुक्तेः प्राक्तेन मान्युक्तो न मानी विष्णुरुच्यते। सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः। सम्यक्स्वरूपानुभवात्स्वतंत्रत्वाददोषत इति ब्रह्मतर्के। अत्र स्वकीयत्वबुद्धिमात्रं नाभिमानः किं त्वस्वकीये स्वकीयत्वबुद्धिः। किंचिद्दत्तस्वत्वकेऽपि वस्तुन्यदत्तस्वत्वबुद्धिश्चात एव लेपस्य पुण्यपापलेपस्य कारणं। एवं लिप्यत इति लेपः। संबद्धं वस्तु तथा चासाधारण्येन व्यपदेश इति। स्वरूपसुखादौ मदीयत्वबुद्धिर्नास्ति किंतु बाह्यमात्राभिमानवान्। उक्तद्विविधलेपाभिमानस्य मुक्तेः प्राक् सत्वात्। तदैव जीवो मान्युक्तः। विष्णुस्तु तदभावान्न मानीत्युच्यते। लेपाभिमतेरेव मानीत्युक्तौ निमित्तत्वात्सर्वं पश्यन्नपि विष्णुरमानीत्युच्यते। लेपाभिमत्यभावमुपपादयति॥ सम्यगित्यादिना। आद्येन बाह्यमात्राभिमानाभावः। द्वितीयेनास्वकीये स्वकीयत्वबुद्धेरभावः। तृतीयेन पुण्यपापलेपकारणत्वाभाव उपपादित इति ध्येयं॥४८॥ शोको न कार्य इत्येतदुपसंहरति॥ अथेति। स्वभावो नित्यानित्यस्वभावः शोचतां शोचद्भिरन्यथा कर्तुं न शक्यत इति ज्ञात्वाऽय तस्मादन्यथा कर्तुमशक्यत्वात्। तद्विदो नित्यानित्यविदो नित्यमनित्यं वोद्दिश्य नानुशोचंतीति योजना॥४९॥ एवं बालरूपो यमः स्वयमेवमुक्त्वा वैराग्यं जनयितुं कांचन कथामाह॥ लुब्धक इत्यादिभिः कतिपयै श्लोकैः। योजना तु स्फुटा। लुब्धको मृगुयुर्निर्मितः। विधिनेति शेषः। वितत्य विस्तृत्य प्रलोभनं वचनं॥५०॥ कुलिंग मिथुनं। दार्वाघाटो दारुकुट्टः कुलिंगो दीर्घतुंडक इत्यभिधानं। मिथुनं स्त्रीपुंसद्वंद्वं॥५१॥ सिचा जालेन सह यंत्रितया तंत्या सूत्रेण।

करिष्यतीत्यकारुण्योपपादनं॥५३॥ दुःखेन स्वात्मनो वधमाशास्ते॥ काममिति। अर्धेनात्मना देहेन॥५४॥ विधुरायुषा स्त्रीरहिता युष्मताऽर्धेन देहेन दुःखं जीवता। अनेनार्धस्य वैयर्थ्यमुपपादितं। जीवनेऽनुपपत्तिमाह॥ कथमिति। मे प्रजाः॥५५॥ शाकुनिकः पक्षिमारकः कालेनांतकेन प्रहितः प्रेरितः। निलीनः छन्नः ॥५६॥ एवं कुलिंगवत्। आत्मापायं स्वविनाशं॥५७॥ विस्मितचेतसो वृद्धानामस्माकमविद्यमानमेतादृशं ज्ञानं वालस्यास्तीत्याश्चर्ययुक्तचेतसो ज्ञातयो बांधवाः सर्वं देहगेहाद्यनित्यं तत्र प्रतीयमानस्वत्वं स्वकीयत्वादिकमयथोत्थितमसत्यं मेनिर इति योजना। एतद्व्याख्यातुं तात्पर्य प्रवृत्तं॥ अहं ममाभिमानादि त्वयर्थोत्थमनित्यकं। महदादि यथोत्थं च नित्या चापि यथोत्थिता। अस्वतंत्रैव प्रकृतिः स्वतंत्रो नित्य एव च। यथार्थभूतश्च पर एक एव जनार्दन इति ब्रह्मतर्के॥ अहं ममाभिमानादि शब्देन तद्विषयीभूतगेहादि लक्ष्यते। तत्रापि प्रकारीभूतास्वत्वस्वकीयत्वादि। अयथोत्थमसंत्यं। विशेषभूत देहगेहादि तु अनित्यं। अविद्यायास्तन्मूलजगतश्च सत्यत्वात्। कथमयं विवेक इत्यतः सर्वं सत्यमित्याह। महदादि यथोत्थं सत्यमनित्यं च प्रकृतिश्चिदचित्प्रकृतिर्नित्या यथोत्थिता च। अपि तथाऽप्यस्वतंत्रैव परः परमात्मा जनार्दन एक एव स्वतंत्रः। तथा स्वयं च यथार्थभूतः। सत्यनित्य एव। नाचित्प्रकृतिवन्नित्यानित्य इत्यर्थः॥५८॥ अंतरधीयतादृश्योऽभूत्। सांपरायिंकमौर्ध्वदेहिकं। ततः स्वत्वादेरसत्यत्वात् देहादेरनित्यत्वात् । यूयं परं च परदेहमात्मानं स्वदेहं चोद्दिश्य मैव शोचत। मा शब्दोऽयं न माङ्॥५९॥ स्वपराभिनिवेशेन स्वदेहपरदेहादावात्मत्वपरात्मत्वभ्रांतेः स्वपरगेहादौ स्वकीयत्वपरकीयत्वभ्रांतेश्च जनकेनाज्ञानेन विना देहिनां भिन्नदेवतां को देहः। आत्मा स्वस्वरूपभूतः को वा देहः। परः परात्मभूत इत्याक्षेपः। न कोऽपि न देह आत्माभिन्नः। एवं को गेहदेहादिः स्वीयः को वा पारक्यः परकीयः न कोऽपीति योजना। एतदेवाभिप्रेत्य तात्पर्य प्रवृत्तं॥ क आत्मा कः पर इति देहाद्यपेक्षया। न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः। अतो दैहिकवृद्धौ वा क्षये वा कि प्रयोजनं। यस्तु देहगतो जीवः स हि नाशं न गच्छति। ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः। देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानतां। अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा। शत्रुनाशस्तथा ज्ञाननाशो नान्यः कथंचनेति ब्रह्मवैवर्ते॥ देहादिरित्यादिपदेनेंद्रियादिकं। अतः स्वपरस्वरूपत्वाभावात्। क्षये वेत्यत्र बुद्धया विवेकेन दैहिकस्येत्यनुवर्तते। शत्रुदैहिकस्येत्यर्थः। तत

उक्तहेतोरेव शोचनं कुतः। देहयोरात्मत्वाभावात्। अविवेकिनामकार्यमुक्त्वा विवेकिनां संपाद्यवृद्धिशत्रुनाशावाह॥ देहादिव्यतिरिक्ताविति। अतोऽन्यस्य वृद्धित्वाद्यभावात्। अज्ञाननाशोऽज्ञानतत्कार्यभ्रांत्यादिनाशः॥६०॥ दैत्यपतेर्वाक्येन दितेः शोकनिवृत्तिर्जातत्याह॥ इति दैत्यपतेरिति। तत्त्वे परतत्त्वे॥६१॥ इति श्रीभागवतटिप्पण्यां मंदनंदिन्यां द्वितीयोऽध्यायः॥७-२॥

॥हरिः ॐ॥ साधनातिशयेनाप्ययोग्यं पदं न प्राप्यत इति हिरण्यकशिपुतपःकथनव्याजेन निरूप्यतेऽस्मिन्नध्याये। प्रायेण श्लोकाः स्फुटयोजनाः। हिरण्यकशिपुरात्मानमुक्तविशेषणविशिष्टं। एकराजनं त्रिलोक्या अपि मुख्यं राजानं व्याधित्सद्विधातुमैच्छत्॥१॥ तेपे तपः कृतवान्॥२॥ संवर्तार्क इव प्रलयसूर्य इव। स्थानान्यगम्यस्थानानि॥३॥ विष्वगीरितः परितः संचरन्॥४॥ चुक्षुभुः क्षुब्धाः॥५॥ तप्तास्तापिताः॥६॥ न शक्नुमो न समर्थाः॥७॥ उपशमं परिहारं। बलिहरा बलिप्रदाः॥८॥ संकल्पोऽभिप्रायः॥९॥ निजासनमध्यास्ते सत्यलोकमधितिष्ठति। अधिशीङ्स्थासामित्यधिकरणस्य कर्मत्वं॥१०॥ तत्तु ब्रह्मपदं। तथा ब्रह्मवदात्मनः समाधियोगेन साधयिष्य इत्यन्वयः। अयोग्यपदकामना हिरण्यकशिपुप्रभृतीनामयोग्यत्वाज्ञानाद्रागाद्यौत्कंठ्याच्च युज्यते। अत एव तात्पर्यं॥ जानतामपि कर्तव्यं कर्मात्मसदृशं सदा। तत्रात्मसदृशाज्ञानाद्रागाद्यैर्वा विमोहिताः। जानंतोऽपि ह्यसदृशं कर्म कुर्युर्ऋते विभुं। चतुरास्यं स नायोग्यं कर्म कुर्यात्कथंचनेति नारदीये। तपसा विद्यया वाऽपि ज्ञानध्यानादिनाऽथवा। व्यस्तैः समस्तैरपि वा कुर्वतां यत्नमुत्तमं। संभारविक्षेपशतैर्बहुकोटिभिरेववा। न शक्यंते समारोढुं स्वात्मायोग्यपदानि तु । तथाऽप्याचरतां कुर्युर्दैत्यानां सुरनायकाः । विघ्नं तु तप आदीनां वैयर्थ्यस्यापनुत्तय इति प्रकाशसंहितायां॥ ब्रह्मज्ञानिनामप्यत्मसदृशमात्मयोग्यकर्म कर्तव्यं। तत्र ब्रह्मज्ञानिष्वपि केचनात्मसहशाज्ञानात्। सदृश पदमसदृशस्याप्युपलक्षणं। तथा चेदं योग्यमिदमयोग्यामिति विवेकाभावात्। अयोग्यस्यापि योग्यत्वभ्रमात्। जानंतोऽपि ब्रह्मज्ञानिनोऽपि असदृशमयोग्यकर्म कुर्युः। जानंतोऽपीत्यस्यासदृशमित्यनेनान्वयः। आत्ममदशाज्ञानादि-

दिना हिरण्यकशिप्वादयः कुर्युः। तर्ह्ययोग्यपदस्य सर्वथाऽप्यप्राप्तेः कुतो विघ्नं कुर्वंति सुरा इत्यत आह॥ तपसेति। विद्यया वेदविद्यया व्यस्तैः प्रत्येकमनुष्ठितैः समस्तैर्मिलितैः। बहुकोटिभिर्जम्नाभिरार्जितैः संभारविक्षेपशतैः। सभारा यज्ञसाधनद्रव्याणि विक्षेपोऽग्नौ विक्षेपः। तथा च यागशतैरपीत्यर्थः। यद्यप्येवं तत्पदमाप्तिभयं नास्ति। तथाऽपि वैयर्थ्यस्यापनुत्तये वैयर्थ्यज्ञानस्य परिहाराय यदि संपूर्णं तप आदिकं। तदा पदाप्राप्त्या तपसोऽसाधनत्वे ज्ञातदैत्याः पुनरयोग्यपदोद्देशेन तप आदिकं न कुर्युः। विघ्ने तु कृतेऽविघ्नं वेत्तपस्तदा साधयेदेव पदमिति भ्रांतिरनुवर्तित इति भावः॥११॥ मूले पुनर्हिरण्यकशिपोरभिप्रायमाह॥ अन्यथेति। इदं जगदन्यथा विधास्ये। अन्यथेत्यस्य विवरणं यथा पूर्वमिति । धातुर्ब्रह्मत्वकाले इंद्रादयो दिक्पालाः स्वायंभुवादयो मन्वंतराधिपा मम ब्रह्मत्वकाले तु दैत्या एव दिक्पालादय इत्येवमयथापूर्वमित्यर्थः। तर्हीद्रादयो विरुंध्युरित्यत आह॥ किमिति। वैष्णवादिभिर्ब्रह्मनिर्मितैः कल्पांतैः मनुकल्पाद्यायुष्कैः कालनिर्धूतैः क्लृप्तकालावसितपदैरन्यैरिंद्रादिभिः किं कार्य भवतीति योजना। अत्र वैष्णवपदं ब्रह्मपरमिति साभिधानकमाह तात्पर्यकृत्॥ वैष्णवादिभिर्ब्रह्मनिर्मितैः। ब्रह्मा स्वयंभूर्द्रुहिणो वैष्णवः शतधृक्तथेति शब्दनिर्णये॥१२॥ श्रुतं विज्ञाप्यानंतरं यदुक्तं तत्कार्यमित्याह मूले॥ इतीति। निर्बंधमाग्रहयुक्तं॥१३॥ इतरद्धित्वा मत्पदमेव कुत आकांक्षत इत्यतः पदं स्तौति॥ तवासनमिति। हे जगत्पते। तव पारमेष्ठ्यं चतुर्दशलोकाधिपत्यरूपमासनं पदं जगतां भवाय ज्ञानादिगुणवृद्धये श्रेयसे मोक्षाय भूत्यै हासराहित्याय क्षेमाय प्राप्तपरिरक्षणाय विजयायामाप्तलाभाय भवतीति योजना। इतरान्विना कुतोऽयमेवाकांक्षत इत्यतो ब्रह्मपदमाकांक्षमाणानां परिगणनं प्रमाणेन भवादिपदार्थं चाभिधानेनाह तात्पर्यकृत्॥ भवाय श्रेयसे चैव न कश्चित्तदपेक्षते। मधुकैटभयोश्चैव हिरण्यादेस्तथैव च। नान्यो ब्रह्मपदं वांछत्यृजून्योग्यान्विना क्वचित्। ततः श्रेयांसि वांछंति न तु तत्पदमाप्तय इति ब्रह्मांडे। भवो वृद्धिः समुद्दिष्टा श्रेयो मोक्ष उदाहृतः। वृद्धस्य न पुनार्हासो भूतिरित्येव कथ्यत इति शब्दनिर्णये॥ भवायेत्यादिकमुक्तमात्रोपलक्षणं। न कश्चिदित्येतद्विवृणोति॥ मधुकैटभयोरिति। हिरण्यादेः सकाशादिति शेषः। ऋजून्योग्यानित्यनेन मधुकैटभादेरयोग्यत्वं सूचयति। एवं च योग्या ऋजवोऽयोग्यानां मध्ये मधुकैटभादयो ब्रह्मपदमाकांक्षंत इति परिगणना सूचिता॥१४॥ अनंतरं ब्रह्मणा कृतमाह॥ इतीति॥ परितः परिवृतः॥१५॥

कीचकैरनिलेन स्वनवद्वेणुभिः। कीचका वेणवस्ते स्युर्ये स्वनंत्यनिलोद्धता इत्यभिधानात्। आकीर्णेति मेदः प्रभृतीनां विशेषणं॥ बहुव्रीहिः॥ १६॥ अभ्रविहितं मेघेनावृतं। लोकान् जनान्। तपसा तपंत संतापयंतं विलक्ष्य दृष्ट्वा हसन् अयोग्ये महाप्रयत्न इति हसन् हंसवाहनचतुर्मुखस्तं प्राह। मुनिषु तपत्स्वमाप्तौ लोकताप एतत्तपसा कुत इति चोद्यं निराकर्तुं तात्पर्यं॥ सकामं तु तपःक्रूरं लोकानां भयकृद्भवेत्। इतरच्छांतये सर्वलोकानां भवति ध्रुवमिति प्रकाशिकायां॥१७॥ प्राहेत्युक्तोक्तिप्रकारमाह॥ ब्रह्मोवाचेति। अत्र ब्रह्म शब्देन हिरण्यगर्भ इति कथं निर्णयः। हंसवाहन शब्दस्य विष्णुपद्मासनावुक्तौ पंडितैर्हंसवाहनावित्यभिधानेन विष्णुसाधारण्यात्। हिरण्यगर्भपदप्राप्तिकामं प्रति तस्यैव वरदत्वायोगाच्चेति चेन्न। तस्यैव तपसाऽराधितत्वेन वरदत्वोपपत्तेरित्याशयेन तात्पर्य॥ ब्रह्माणमभजद्ब्रह्म पदार्थं स हिरण्यक इति स्कांदे । मूले काश्यप कश्यपपुत्र॥१८॥ हृत्सारं हृदयदार्ढ्यं॥१९॥ ब्रह्माणमिति प्रमाणेऽपि हिरण्यगर्भनिर्णायकांतराभावाद्ब्रह्मपदस्य पूर्ववच्छंकावकुंठितत्वेना निर्णायकत्वात्कथमिय योजनेति विचार्यं। ब्रह्माणं बृहस्पतिमित्यर्थोपपत्तेः। चतुर्मुखस्याराधितत्वानिश्चायकत्वाच्च। वस्तुतस्तु सकामतपः क्रूरमस्त्विदं निष्काममेव किं न स्यादित्यत आहेति पूर्वसंगतत्वेन योज्यं। अथवा। हिरण्यकशिपुतपसो ब्रह्मपदेतर फलानुद्देशितत्वात्। ब्रह्मणः कोपजननायैव देवैर्ब्रह्मपदोद्देशित्वमुक्तं। वस्तुतस्तु न तथा तस्य काम इति मूलाशयकल्पनोपपत्तेः। तदुद्देशित्वस्याप्यभावान्निष्कामत्वमेव तस्य संतापकत्वोक्त्या निष्कामतपोऽपि संतापकरी प्रकाशिका वचने शांतय इत्यस्य नाशायेत्यर्थोपपत्तेः। अत एव पूर्ववाक्यान्यपि तात्पर्यकृद्भिर्न वक्तव्यानीति मंदाशंकानिरासायाहेत्यवतरणमिदं भाति। निरंबु जलरहितं यथा भवति तथा॥२०॥ अनेन तेन तपसा विजितो वशीकृतः। न तु पराजितः। अत्र तात्पर्यं॥ जितो वशीकृतः। पराभूतं वशस्थं च जितमित्युच्यते बुधैरिति शब्दनिर्णये॥२१॥ ते तुभ्यं। अमर्त्यस्य मम॥२२॥ आदौ भवो यस्य स आदिभवो ब्रह्मा। औक्षदसिंचत्। अमोघराधसाऽव्यर्थसिद्धिमता॥२३॥ वज्रसंहननो वज्रवद्दृढः। एधस इंधनात॥२४॥ अंबरे स्थितमिति योजना॥२५॥

स्वरोचिषा स्वतेजसा। तमो व्यक्तीकृत्याभिव्यनगभिव्यक्तमकरोत्। तथाऽऽत्मना स्वेन कार्योन्मुखीकृतया त्रिवृता जडप्रकृत्योपादानभूतायेदं महत्तत्त्वादिकं सृजत्यवति लुंपति च। यत्तदोर्नित्यसंबंधात्तस्मै रजः सत्त्वतमोधाम्ने। सृष्ट्यादिक्रमानुसारेणेत्थमुक्तिः। पराय च स्वतंत्राय महते पूज्याय नम इति श्लोकद्वये इति योजना। अत्र चतुर्मुखेऽसंभाव्यमाना गुणाश्चतुर्मुखनियामके भगवति। इतरे चतुर्मुखे योज्याः। हरिस्तुतिं विना देवतांतरस्तुतेः प्रायेण मिश्रस्तुतित्वात्। प्रकृतेस्त्रिभिर्गुणैर्वर्तत इति व्युत्पत्त्या त्रिवृच्छब्दवाच्यत्वं। एतदभिप्रेत्य तात्पर्यकृदाह॥ प्रायस्तु स्तुतिशब्देषु मिश्रा वाचो हरिं विना। केचिज्जीवगुणास्तत्र तन्नियंतुर्हरेः परे। एकस्थानैककार्यत्वाद्विष्णोः प्राधान्यतस्तथा। जीवस्य तदधीनत्वान्न भिन्नाधिकृतं वच इति ब्रह्मतर्के॥ हरिं विना हरिस्तुतिं विना। मिश्रत्वं स्पष्टयति॥ केचिदिति । परेऽन्ये कुत एव मिश्रत्वमित्यत आह॥ एकेति। एकदेहस्थितत्वाद्वरदानादिलक्षणैककार्यकरत्वात्। एककार्यकरत्वेऽप्याराधितस्य देवतांतरस्यैव स्तुतिः कि न स्यादित्यत आह॥विष्णोरिति। वचः स्तुतिवचः। भिन्नाधिकृतं प्रत्येकमात्रविषयं न । त्रिवृच्छब्देति तात्पर्यं त्रिवृता प्रकृत्येति॥२७॥२८॥ आद्याय बीजाय कारणाय। ज्ञानविज्ञानमूर्तये सामान्यविशेषज्ञानोपदेष्टृशरीराय। प्राणेंद्रियमनोबुद्धिलक्षणैर्विकारैः। ब्रह्मांडांतर्व्यक्तिं शरीरमीयुषे। प्राप्तायेति योजनां॥२९॥ मुख्येन प्राणेन सह। तस्य चतुर्मुखसमत्वात्। ईशितृकोटिप्रवेशः। न त्वीशितव्यकोटौ। हरिपरत्वे त्वीशितव्यत्वमेव। जगतो जगमस्य तस्थुषः स्थावरस्य त्वमीशिषे ईश्वराकाररूपं यद्ब्रह्मांडं तस्येश इत्यर्थः। अत एव तात्पर्य॥ प्राणेन सहेति॥३०॥ मूले। तन्वा भगवतः प्रतिमास्थानीयया त्रय्या वेदत्रयेण। स त्रिभिर्विधीयतेति श्रुतेः। चतुर्होतृकविद्यया च ब्रह्महोतृअध्वर्याग्नीध्रलक्षणर्त्विक्चतुष्टय व्यापारमतिपादिकया कल्पसूत्रादिविद्यया च त्वं सप्ततंतून् क्रतून् वितनोषि। आत्मवतां ब्रह्मज्ञानिनां आत्मा प्रेष्ठः। आत्मा प्रेष्ठे स्वरूपे च जीवज्ञातरि केशवे। वायौ देहे स्वयं स्वांते नवसु प्रोच्यते बुधैरित्युक्तेः। अनादिरादिशून्याय। अनंतपारोऽनंतान्संसारान्पारयतीत्यनंतपारः। अव्यये हरावात्मा मनो यस्याव्ययात्मा। अत्र तात्पर्यं॥ सप्ततंतून् ऋतूनिति॥ सप्तक्रतूनित्यपपाठः। यज्ञः सत्रोऽध्वरो यागः सप्ततंतुर्मखः क्रतुरिति कोशात्॥३१॥ अनिमिषो जाग्रत्स्वभावः कालः कालनियामकः कूटस्थो निर्विकारः। आत्मा व्याप्तः परमेष्ठी सर्वोत्तमः। न जायत इत्यजः। महान्परममहान्। महत्तत्वमानी वा।

जीवलोकस्य जीवजातस्य जीवः प्राणधारकः। जीवप्राणधारण इति धातोः। त्वं लवाद्यवयवैर्जनानामायुः क्षिणोपीति योजना। अत्र चतुर्मुखेऽसंभवंति विशेषणानि तन्नियंतरि हरौ योज्यानि। अत्र तात्पर्यं॥ जीवानां प्राणधारक इति॥३२॥ मूले। परमतीतं अपरमनागतं वर्तमानमपि। अनेजत्स्थावरं। एजत् जंगमं च। किचित्सर्व त्वया व्याप्यत्वात्वत्तो व्यतिरिक्तं नास्ति। सर्वा विद्याः कलाश्च विद्याकलाः। विद्या महाविद्याः कलाः कलाविद्यास्ते तनवस्तन्वाश्रिताः। तास्थ्यात्तच्छदं। हिरण्यगर्भोऽसि हिरण्यात्मकं ब्रह्मांडं गर्भे उदरं यस्य सोऽसि। बृहद्गुणपूर्णं वस्त्वसि। त्रिपृष्ठस्तिसृभ्योऽवस्थाभ्यः पृष्ठोऽतिक्रांतः। तुरीय इति यावत्। एतादृशोऽसीति योजना। अत्र विष्णुगुणैर्ब्रह्मणो स्तोत्रं तद्गतविष्णुविवक्षयेति ज्ञातव्यं। एतदेवाभिप्रेत्य तात्पर्यं॥ परावरेषु यस्मात्त्वं व्याप्तो विष्णुः सनातनः। तस्मान्न व्यतिरिक्तं त्वदित्याहुर्वेदवेदिन इति पाद्मे। विद्याश्च कलाश्च विद्याकलाः। महाविद्याः कलाश्चैव त्वत्तनावाश्रिता यतः। विद्यातनुरिति प्राहुरतस्त्वां तत्त्ववेदिन इति च। त्रिपृष्ठस्तुरीयः। ब्रह्मणोऽप्यधिकं विष्णुं जानन्नपि हिरण्यकः। ब्रह्माणं तद्गुणैः स्तौति तद्गविष्णुविवक्षयेति च॥३३॥ मूले। हे विभो समर्थ। हिरण्यगर्भः॥ पुराणपुरुष आदिपुरुष आत्मा स्वामी अव्ययस्त्वं। येन यदधिष्ठायेंद्रियमाणमनसां गुणान्विषयान् भुंक्ष्ये। इदं ब्रह्मांडाख्यं व्यक्तं स्पष्टं तव स्थूलशरीर शरीरस्थानापन्नं। ब्रह्मणो विराड्शरीरत्वात्। इति योजना॥३४॥ अनंताव्यक्तरूपेणासंख्यातातींद्रियरूपेणेदमखिलं जगत्ततं व्याप्तं तस्मै चिदचिन्नियामकशक्तियुताय भगवते नम इति योजना। भगवच्छब्देन हरिग्रहणेऽखिल शब्देन निरुपचरितं सर्वं हिरण्यगर्भग्रहणे यथोचितं ग्राह्यं॥३५॥ वरान्वृणोति॥ यदि दास्यसीत्यादि चतुः श्लोकया। योजना तु स्फुटा। त्वद्विसृष्टेभ्यस्त्वन्निमित्तेभ्यः॥३६॥ नांतरिति नञ्। आयुधैरित्यंतं प्रत्येकं संबध्यते। अपि च शब्दौ समुच्चये। अन्यस्मात् विभक्तिवचनव्यत्ययः। देहावयवभिन्नैरायुधैः खड्गादिभिः॥३७॥ व्यसुभिर्वा व्यसुभिः शिलादिभिः। असुमद्भिः शत्रुनियुक्तैः श्वानादिभिः। वर शब्दान्नञनुवर्तते। सरासरमहोरगैरित्यत्रापि वा शब्देन नञनवर्तते। मन्यरिति सर्वत्रान्तेति।

॥हरिः ॐ॥ अत्र दैत्यादीनां वरलब्धमैश्वर्यमनित्यं। योग्येष्वेव भगवदनुग्रह इत्येतत्कतिपयैरध्यायैर्निरूप्यते। तत्रादौ हिरण्यकशिपुचर्यामाह। एव वृत इति। श्लोकाश्च स्फुटयोजना इति तत्र तत्र पदार्थ एव निरूप्यते। अथ वरदानानंतरं। तस्य हिरण्यकशिपोः॥१॥ तात वत्स। यान्मम सकाशाद्वृणीषे इमे यदपि यद्यपि दुर्लभास्तथाऽपि वितरामीति योजना॥२॥ अमोघानुग्रहोऽव्यर्थानुग्रहः॥३॥ भ्रातुर्हिरण्याक्षस्य वधं वराहकृतं। भगवति द्वेषमकरोत्। भक्तिमतोऽपि द्वेषः परावेशात्। तदुक्तं तात्पर्ये॥ स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विष इति॥४॥ गंधर्वगरुडा गंधर्वश्रेष्ठाः। यद्वा। गरुडजातीयाः पक्षिणः॥५॥ विद्याधान् विद्याधरान्। पितृपतीन् चिरपितृन्॥६॥ सर्वसत्त्वपतीन् सिंहादीन्। बलश्रेष्ठान्वा। विश्वजित्सर्वजित्॥७॥ त्रिविष्टपं वर्णयति॥ देवोद्यानेत्यादिना। अध्यास्ते स्म अध्यासांचक्रे। साक्षात्प्रत्यक्षं। तुरीयं वा। विष्टपत्रयात्। साक्षात्प्रत्यक्षनुर्ययोरित्यभिधानात्॥८॥ अखिलार्द्धिमत् सर्वसंपत्तिमत्। भ्रुवः। प्रवालश्रेणिका इंद्रनीलमय्य इत्यर्थः॥९॥ वितानान्युपरिधानवस्त्राणि॥१०॥ शब्दयंत्यः संचारेण ध्वनिं कारयंत्यः॥११॥ सुदतीः सुदत्यः। सुरादिभिरित्यतद्गुणसंविज्ञानो बहुव्रीहिः। गंधर्वादिभिरित्यर्थः। अन्यथा त्रिभिर्विनेति वक्ष्यमाणविरोधात्। वस्तुतस्तु। अयज्ञभुजोऽपि देवाः सुरशब्देनोच्यंते। तत्पदं सुरपदं। तात्पर्ये तथा वक्ष्यमाणत्वात्॥१२॥ अंगेति युधिष्ठिरसंबोधनं। तपोयोगबलौजसां पदमाश्रयं तमित्यन्वयः। त्रिभिर्विना वसुरुद्रादित्यभेदेन त्रिविधैः सुरैर्विना। मरुदादीनां तत्रैवांतर्भावात्। नाधिक्यशंका कार्या। तदुक्तं तात्पर्ये॥ आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः। मरुतश्चैव विश्वे च साध्याश्चैव तद्गताः। अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृता इति स्कांदे॥ मरुदादयः क्रमेण तद्गताः। आदित्यांतर्गताः मानुषाश्चत्वारो वर्णभेदेनोक्तरीत्या देवानां त्रि शब्देन ग्रहणसंभवेंऽपि। सुरादिभिरभिवंद्यांघ्रियुगयुक्तत्वात्। त्रि शब्दो ब्रह्मविष्णुरुद्रपरः किं न स्यात्। देवानां हिरण्यकशिपुसेवकत्वाभावस्य स्पष्टमनुक्तेरित्यतस्तात्पर्य॥ उपायनं ददुः सर्वे विना देवान्हिरण्यक इति॥ विषयसप्तमी। चतुर्थ्यर्थे वा। तर्हि पूर्वोत्तरविरोध इत्यतस्तात्पर्य। अयज्ञभागेष्वपि तु सुरशब्दः प्रयुज्यते। यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिता इति चेति॥१३॥ ओजसा स्वसामर्थ्येन। महेंद्रासनं स्थितमास्थितं॥१४॥ इंद्रादिपदत्यक्तमंत्रैर्दीयमानान्हविर्भागान्स्वयमेवेज्यमान उद्देश्यः सन्

अग्रहीदिति योजना॥१५॥ अकृष्टपच्योल्लेखमंतरेण सस्यादिपरिपाकोपेता मही कामदुघेच्छानुसारेण वर्षणाद्युपेता। नानाश्चर्यपदं नानाग्रहतारकाद्युपेतं॥१६॥ क्षारेक्ष्वादयो रत्नाकराः समुद्रास्तत्पत्न्यो नद्यश्च रत्नानि। ऊर्मिभिस्तरंगैरुहुस्तीरं प्रापयामासुः॥१७॥ आक्रीडं क्रीडास्थानं। गुणान्पुष्पादिसपत्तीरुहुरित्यन्वयः। लोकपालानामिंद्रादीनां। पृथग्गुणान्वर्षणपाचनादीन्। एक एव दधार॥१८॥ यथोपजोषं यथाकामं॥१९॥ ब्रह्मशापं सनकादिशापं॥२०॥ संविग्ना भीताः॥२१॥ काष्टायै तारतम्यांतगायै। यत्र यः सत् यत्पदं॥२२॥ संयतात्मनो निग्रहीतमनस्काः॥२३॥ यतोऽभयं यस्मादभयं लोकस्य॥२४॥ अरूपाऽशरीरिणी॥२५॥ सर्वश्रेयोपपत्तये सर्वश्रेयोलाभाय। अकारांतोऽपि श्रेयः शब्दोऽस्ति। टा लोपस्यासिद्धत्वं वा नाश्रितं॥२६॥ दैतेयापसदस्य दैतेयक्षुल्लकस्य॥२७॥ स इति तच्छन्दश्रवणाद्यस्येत्यध्याहारः। आशु क्षिप्रं॥२८॥ प्रह्लादाय यदा द्रुह्येत्तदा वरोर्जितमपि हनिष्य इति। अत्र प्रह्लादद्रोहं निमित्तीकृत्य हननप्रतिज्ञया देवापेक्षया प्रह्लादे प्रीतिविशेष इति न मंतव्यं। देवानां सर्वदाप्रसिद्धत्वेन प्रह्लादादीनां देवाद्यपेक्षयाऽल्पभक्तानां यशः प्राप्त्यर्थमित्थं प्रतिज्ञोपपत्तेः। एतदुक्तं तात्पर्ये॥ यत्र क्वचित् यशस्थानमन्येषामिति केशवः। सर्वत्रापि तु देवानामित्यन्यान्पूजयेत्क्वचिदिति च॥ स्थानशब्दो निगृहस्थानमित्यत्रेव निमित्तवाची। यत्र क्वचित् यदा कदाचित्। सर्वत्रापि सर्वदाऽपि। यशः स्थानमित्यनुवर्तते। तथा च देवानां सर्वदा यशोनिमित्तं भवामीति हेतोरन्येषामपि कदाचिद्यशःस्थानं भविष्यामीत्यभिप्रायेण केशवोऽन्यानपि प्रह्लादविरीषादीन्कदाचिदपूजयन्मानयामासेत्यर्थः॥२९॥ गतोद्वेगा गतभयाः। हतं मेनिरे। एष्यत्तु निश्चितं यत्तु तदतीतत्वेन भण्यत इत्युक्तेः॥३०॥ तेषां मध्ये महदुपासको महतः परमात्मन उपासकः। सत्यसंधः सत्यप्रतिज्ञः॥३१॥ सर्वभूतानां सज्जनानां मध्ये एको मुख्य आत्मवत्प्रियः सुहृत्तमः प्रियः प्रीतिविषयः सुहृत्तमश्च। उत्तमहीनसमेषु वृत्तिप्रकारमाह॥ दासवदित्यादिना॥३२॥ विद्यादिनिमित्तैः प्राप्तगर्वस्तंभादिदोषवर्जित इति विद्येत्यादेरर्थः॥३३॥ व्यसनेषु सत्सु नोदिग्र

अपि नाभिधीयते नाभिधातुं शक्यते। यथा भगवानीश्वर इति दृष्टांतीकरणेऽपि न तत्साम्यं ज्ञेयं। सर्वथाऽसंभवात्। किंतु किंचित्साम्यं। अत एवोक्तं तात्पर्ये॥ अन्येषां हरिसाम्यं तु किंचित्साम्यमुदीरितं। सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निर्णय इति॥३५॥ रिपवोऽपि सुराः साधुगाथाः सज्जनविषयकगाथां कुर्वंतो य प्रति मानं दृष्टांतं कुर्वेति। किमुतान्ये भवादृशा इति॥३६॥ गुणैः। अलं कथितैरिति शेषः॥३७॥ न्यस्तेत्यादेर्निरस्तक्रीडासाधनक इत्यर्थः। जडवज्जडभरतवत्। विषयासक्तमूढवद्वा। कृष्णेत्यादेर्नारायणाख्यग्राहगृहीतमना इत्यर्थः॥३८॥ एतान्यासनादीनि॥३९॥ रुदति रोदिति। अनेन लोकत्रयेण सार्धेन भक्तलक्षणं सूचितं॥४०॥ तन्मयस्तदासक्तः॥४१॥ स्पर्शो विषयः। अस्पंदप्राणोऽचंचलश्वासः॥४२॥ आकिंचनसंगलब्धया नारदादिसत्सहवासमाप्तया॥४३॥ अघमपराधं॥४४॥ तव सकाशात्। आत्मजायेत्याद्युक्तिरपकरणायोग्यत्वद्योतनाय॥४५॥ उपालभंते वंचयंति। भयं जनयतीति यावत्। अपरे शत्रवः॥४६॥ विधम परिहर। पितुः पित्रा॥४७॥ इति श्रीभागवतटिप्पण्यां मंदनंदिन्यां चतुर्थोऽध्यायः॥७-४॥

॥हरिः ॐ॥ हिरण्यकशिपुप्रह्लादसंवादच्छलेन भक्तिस्वरूपं हरेर्निरतिशयस्वातंत्र्यं च निरूपयत्यस्मिन्नध्याये। काव्योभार्गवः। दैत्यराजगृहांतिके। पौरोहित्येन वासं चक्रतुः॥१॥ प्रापितं शिष्यत्वेन॥२॥ तत्र तत्। शुश्रुवे एव न पपाठ। नाभ्यासं चकार। स्वरूपासग्रहाश्रयं स्वरूपेणासदसाधुग्रहः पक्षः। वैष्णवसिद्धांतविरुद्ध इति यावत्। स आश्रयो यस्य तत्। मनसा न साधु मेन इति योजना॥३॥ यत्साधु मन्ये तत्कथ्यतां॥४॥ स्वेन मतं साध्वाह। तदिति। हे असुरवर्य। असद्ग्रहाद्दुर्विषयाभिनिवेशात्सदा समुद्विग्नधियां नित्य चंचलमनसामात्मपातं स्वस्य निरयपातकारणमंधकूपं प्रकाशरहितकूपस्थानापन्नं गृहं हित्वा वनं सज्जनसंगलक्षणं गतो हरिमाश्रयेदिति। यत्तत्साधु मन्य इति योजना॥५॥ परपक्षसमीहिताः शत्रुपक्षनिष्ठा गिरः॥६॥ विष्णुपक्षप्रतिच्छ्न्नैर्वस्तुतो विष्णुपक्षैः प्रतिच्छन्नैर्गृढैरस्य धीर्यथा न भिद्येत तथाऽय बालो विधार्यतां विविक्ततया धार्यतामिति योजना॥७॥ प्रह्लादज्ञानं स्वारसिकमाहितं वेति ज्ञातुं सामभिः समपृच्छत्॥८॥ बालान्

अति अतिक्रम्यैषबुद्धिर्विपर्ययः। तुभ्यं तव कुतोऽभूदिति योजना॥९॥ गुरूणां समीपे। कुलनंदन दैत्यकुलनंदन॥१०॥

उत्तरं वक्तुं मंगलमाचरति॥ पर इति। विमोहितधियामज्ञानानृतमनसां पुंसां तत्र विषये परो देवतादिः स्वतंत्रोऽत्र विषये॥ स्वात्माहं, स्वतंत्र इति दृष्टोऽनुभवसिद्धोऽसद्ग्रहो दुरभिमानः। यन्मायया यस्य परमात्मनो माययां मोहिन्या कृतः। तस्मै भगवते नम इति योजना॥११॥ उक्तमेव विशदयति॥ स यदेति। स परमात्मा पुंसां यदा वक्ष्यमाण भ्रांतेरनुगतोऽनुकूलस्तदा एषो ब्रह्मादिर्देवोऽन्यः स्वतंत्रः। तथाऽहमन्यः स्वतंत्र इत्याकारिका देहगता लिंगदेहगता। मनोगतेति यावत्। असती भ्रांतिरूपा पशुबुद्धिः पशुवद् सद्बुद्धिर्विभिद्यते उत्पद्यते। तथाहि श्रुतिः। अथ योऽन्यां देवतामुपास्ते। अन्योऽसावन्योऽहमस्मीति। न स वेद यथा पशुरिति। असौ ब्रह्मादिरन्यः स्वतंत्रोऽहमन्यः स्वतंत्र इत्यर्थः। न चेयं श्रुतिर्जीवस्य परमात्मना स्वरूपतो निषेधति तथैव प्रतीतेरिति वाच्यं। य आत्मानमंतरो यमयतीति जीवनियामकत्वेनांतः शब्देन च स्वरूपतो भेदस्यैवोक्त्या तद्व्याघातापत्तेः। व्याख्याता चैषा श्रुतिर्बृहद्भाष्ये। चर्चिता च न्यायामृते। तदेतत्सर्वमभिप्रेत्य तात्पर्यं। स्वातंत्र्येणान्यसद्भावनिषेधाय श्रुतिस्त्वियं। अन्योऽसावन्योऽहमिति पश्यन्नज्ञ इति स्म ह। आत्मानमंतर्यमयेदिति भेदं स्वरूपतः। आह तद्ब्रह्मणोऽधीना भिन्ना जीवाः सदैव तु। स्वरूपसत्ताकर्तृत्वं भोगोमोक्षस्तथैव च। मुक्तस्यावस्थितिश्चैव सर्व विष्णोर्वशे सदेति ब्रह्मतर्के॥ इयं श्रुतिः केत्यतोऽर्थतोऽनुवदति॥ अन्योऽसावित्यादिनेति स्म हेत्येतेन। प्रतीतेः स्वरूपभेदनिषेध एवार्थः किं न स्यादित्यत आह॥ आत्मानमिति। तत्तस्माद्ब्रह्मणः परब्रह्मणस्तधीनत्वमेव स्फुटयति॥ सर्व विष्णोवंश इति। किं तत्सर्वमित्यत उक्तं॥ स्वरूपसत्ताकर्तृत्वामित्यादि॥१२॥ ब्रह्मणो दुर्विज्ञेयत्वं बुद्धिरेषा पराकृतोताहो ते स्वत इत्यस्योत्तरं चाह॥ स एष इति। स एष आत्मा परमात्मा। स्वपरेत्यविभक्तिको निर्देशः। सुब् लोपो वा। स्वपरस्वातंत्र्यविषयिण्यबुद्धिर्विपरीतबुद्धिर्येषां तैर्दुरन्वयानुक्रमणो दुरवगममाहात्म्यो निरुच्यते निरूप्यते। यद्वर्त्मनि यत्सरूपैर्वेदवादिनो वेदार्थज्ञानकुशला ब्रह्मादयः। अतद्गुणसंविज्ञानो बहुव्रीहिः। रुद्रादय इत्यर्थः। एष आत्मा भिनत्ति मे मतिमिति योजना॥१३॥ एतदर्थे सदृष्टांतमाह॥ यथेति। ब्रह्मन्। आकर्ष

प्रह्लादोक्तं सम्यगिति जानतोऽपि राजसेवनाय शिक्षकत्वमिति सूचितं॥१५॥ अस्य वाचा शिक्षणानहेस्य चतुर्थो दमो दंड उदितो विहितः॥१५॥ दैतेयचंदनवनमूलोन्मूलकपरशुस्थानापन्नस्य विष्णोर्हरेर्नालायितोऽवष्टंभकदंडायितः। एतमवष्टभ्य हरिः छिनत्तीति भावः॥१७॥ त्रिवर्गस्य धर्मार्थकामलक्षणपुरुषार्थत्रयस्य॥१८॥ ज्ञातज्ञेयचतुष्टयं पुरुषार्थचतुष्टयं। यद्यपि त्रिवर्गस्येत्युक्तं। तथाऽपि ज्ञात्वा शिवं शांतिमत्यंतमेतीत्यादेरापातार्थप्रतीतिमालंब्य मोक्षस्योपपादनं चोपलक्षणीयं। यद्वा। ज्ञेयचतुष्टयं सामाद्युपायचतुष्टयं। मातृमृष्टं मात्रा मृष्टं। निर्मलं स्नापितमलंकृतं भूषितं॥१९॥ आशिषा प्रतिनंद्य संतोष्य। निर्वृतिमानंदं॥२०॥ मूर्ध्न्यवघ्रायाश्चित्। मूर्धानमिति विभक्तिविपरिणामेनान्वेति। आयुष्मन्निति संबोधनं। अशिक्षत्। अनुदात्तेतोपि व्यत्ययेन परस्मैपदं। विद्यां मा दत्तेत्यर्थः॥२२॥ स्वधीतमनुवक्ति॥ श्रवणमित्यादिना। विष्णोरिति सर्वत्रान्वेति। श्रवणं श्रोत्रेण माहात्म्यस्य कीर्तनं नाम्ना वाचा मनसा स्मरणं पादसेवनं हस्ताभ्यां। एतच्च भगवत्प्रतिमाभूतभक्तद्वारा। अर्चनं तुलस्यादिभिर्वदनमभिवादनं। स्तुतिर्वा। दास्यं दासोऽहमित्यनुसंधानं सख्यमत्यंतस्नेह आत्मनिवेदनमात्मनि सर्वदा नियामकत्वेनस्थितत्वज्ञानं। ननु दासोऽहमिति समर्पणं दास्यमिति पुनरुक्तेरत एवोक्तं तात्पर्ये॥ आत्मस्थत्वेन वेदनमात्मनिवेदनं। मुक्तस्यापि ममांतस्थ नियंतैव हरिः सदा। इति ज्ञानं समुद्दिष्टं सम्यगात्मनिवेदनमिति च॥२३॥ मूले। इत्युक्तप्रकारेण नवलक्षणा नवप्रकारा भक्तिर्भगवति विष्णौ। सप्तम्यर्थविवरणमर्पितेति। तस्यार्थो विषयिका क्रियत इति। येनाधीतेन नवलक्षणा भक्तिर्विष्णुविषयका भवति। तदधीतं साधु इति मूलार्थः। येनाधीतेन निमित्तेन पुंसाऽर्पिता क्रियते तदधीनमुत्तमं मन्ये इति वा योजना॥२४॥ प्रस्फुरिताधरश्चंचलीकृताघरोः॥२५॥ एतद्दुर्वृत्तं किमित्यत आह॥ विपक्षमिति। मामनादृत्य विपक्षं श्रयता त्वया बालोऽसारं ग्राहित इति यदेतदिति योजना॥२६॥ संति स्वामिद्रोहिण इत्याह॥ लोक इति। तेषां दुमैत्रादीनामघं मनसि विद्यमानं गूढद्वेषः पातकिनां रोग इव। काले कालविशेषे उदेतीति योजना॥२७॥ हे राजन्। अस्य प्रल्हादस्येयं विष्णुविषयिणी मतिनैसर्गिकी स्वाभाविकी। अतो मयि मन्युं नियच्छ। मामनादृत्येत्युक्तं। तदा तत्र मतेर्नैसर्गिकत्वे त्वदनादरणनिमित्तभूतोऽहंकारलक्षणो मान आत्मनो मम क्व। तथा च नासंगतिरत एवोक्तं तात्पर्ये क्व तदात्ममानो ममेति॥२८॥

इयं मतिर्गुरुमुखी गुरुमुखादागता न चेत्तर्हि कुत आगतेति योजना॥२९॥ पुनः पुनश्चर्वितचर्वणानां भुक्तानेव विषयान् भुंजानानां। अदांतैरनिग्रहीतेंद्रियैः। कृताभिर्गोभिर्नीतिशास्त्रादिवाग्भिः। तमिस्रं संसार विशतां गृहव्रतानां। स्वतः परतो वेत्यवं मिथः परस्परं। कृष्णे नारायणे मतिर्नाभिपद्येदिति योजना॥३०॥ तदेव स्पष्टयति॥ न त इति। ये दुराशयाः स्वतो दुष्टमनस्का बहिरर्थभावा आपातप्रतीतार्थज्ञानवंतो गुरुभिरपि तादृशैरधैरुपनीयमाना अंधा यथा तथोपनीयमाना उरुदाम्नि स्वर्गादिलक्षणफलइंद्रादिलक्षणदेवताब्राह्मणादिलक्षणाधिकारिनामलक्षणदामवत्यां। वाचि वेदलक्षणायामीशतंत्यां भगवदीयप्रतिबंधकतंत्यां बद्धास्ते स्वार्थगतिं स्वपुरुषार्थप्रापकं विष्णुं न विदुरिति योजना। विषयाभिलापवतां विष्णुज्ञानं न जायत इति भावः॥३१॥ भगवदेकांतभक्तपादसेवन विना गृहस्थानां भगवति मतिर्न जायत इत्याह॥ नैषामिति। निष्किचनानां विषयानपेक्षाणां महीयसां महात्मनां पादरजोभिषेकं पादरजसां शिरसा धारणं यावन्न वृणीत वृणीरन्। तावदेषां गृहस्थानां मतिः। अनर्थापगमः संसारनिवृत्तिर्यदर्थः। परस्य प्रयोजनं त उरुक्रमांघ्रि उरुक्रमस्य विष्णोरंघ्रि न स्पृशतीति योजना॥ ३२॥ अंधी कृतात्मा जडीकृतमनाः। स्वोत्संगात्स्वांकात्॥३३॥ असहनप्रयुक्तकोपाविष्ट इत्यमर्षेत्यादेरर्थः। कषायीभूतलोचनो रक्तनेत्रः॥३४॥ यः प्रह्लादो मे भ्रातृहा भ्रातृघ्र स्वस्य पितृव्यहंतुर्विष्णोः पादौ स्वान् सुहृदो हित्वाऽर्चति। अयमधमः शोच्य इति योजना॥३५॥ अयं विष्णोर्वा साधु सहायं किं करिष्यति। अभक्तत्वादिति भावः। पित्रोः पितृपितृव्ययोः॥३६॥ स्वकीयत्वपरकीयत्वे रक्षणहननयोर्न प्रयोजके। किंतु हिताहितत्वे एवेत्याशयेनाह। परोऽपीति। परकीयमप्यपत्यमरण्यस्थमप्यौषषं यथा तथा हितद्भवति। स्वदेहजोऽपि सुत आमयवदहितः। अनेन स्वकीयत्वपरकीयत्वे हिताहितत्वयोरप्रयोजक इत्युक्तं भवति। यत्त्वात्मनोऽहितं तदंगमुतांगमपि छिंद्यात्। कुत इत्यत आह॥ शेषमिति। तद्विसर्जनाच्छेषमंगं जीवति यत इति योजना। यथा सर्पदष्टांगुलिं छित्वा शेषमंगं जीवति। तथा वयमप्येतदपत्यं हत्वा जीवेमेति भावः॥३७॥ सुहृल्लिंगधरो

वधोपायाः। अपुण्यस्य पापिनः। सपदुपाया इवाफला आसन्निति योजना॥४१॥ तस्मिन्प्रह्लादविषये वधार्थं कृतप्रयासेऽपहते व्यर्थे सति निर्बंधेनाग्रहेण॥४२॥ दंदशूकेंद्रैः सर्पश्रेष्ठैः। अभिचारैर्मरेणोद्देश्यकयागादिभिः। अवपातैर्गिरिशृंगादधः पातनैः। मायाभिः शून्यक्रियाभिः। सन्निरोधैर्गेतुमशक्यस्थलवासैः॥४३॥ हिमेत्यादेस्तत्प्रक्षेपैरित्यर्थः। पर्वतस्याक्रमणैरारोपणैः। तृतीयांतानां तद्वधोपायमिति पूर्वेण हंतुमित्युत्तरेणान्वयः॥४४॥ चिंतां हननविषयां। तद्धननं कर्तुं। बव्हसाधूक्तो बहुनिष्ठुरैर्भर्जितः। असद्धर्मैरसतां चोरादीनां योग्यैः। अजडधीरमंदधीः॥४५॥ मे सकाशाद्भविष्यदनर्थ। शुनःशेष इवाजीगर्तकृतं विक्रयणं भाविनं वाऽवयवद्वारा यागं न विस्मरति नालोचयति॥४७॥ एतद्विरोधेनैतादृशमहानुभावाविरोधेन मे मृत्युः प्रायेण भविता नूनं। वितर्के न वा। पाक्षिक्यभावकोटिः। औशनसावुशनसः शुक्रस्य पुत्रौ। विविक्ते एकांतस्थले॥४८॥ भ्रुवो विजृंभणेन त्रस्ताः समस्ता धिष्ण्यपा लोकपाला यस्मिंस्तादृशं जगत्त्रयं। येन त्वयैकेन जितं। तस्य चिंत्यं चितनयं कार्य न चक्ष्महे न पश्यामः। न च प्रल्हादहननं चित्यं। अतः शिशूनामंतःकरणं गुणदोषयोः पद नित्यस्थानं न वै इति योजना। एषा बुद्धिर्गच्छेदिति भावः॥४९॥ यावद्गुरुर्भार्गव आगमिष्यति तावद्भीतो यथा न पलायते वरुणस्य पाशैस्तथा। बद्ध्वा निधेहि। पुंसो वयसा। आर्यसेवया बुद्धिः समीचीना भविष्यतीति योजना॥५०॥ अनुज्ञायांगकृत्य॥५१॥ आनुपूर्वशः क्रमेण। प्रश्रितेोति लुप्तचतुर्थीकं। विनीताय नम्राय चेत्यर्थः॥५२॥ त्रिवर्ग धर्मार्थकामविषयं। रागद्वेषादियुक्तो यथा भवति तथोपवर्णितां॥५३॥ गृहमेधीयकर्मस्वग्निहोत्रादिकर्मसु परावृत्तोऽध्यापनस्थानात्परावृत्योद्युक्तः। कृतक्षणैः कृतावसरैः। स प्रल्हाद उपहूतः। सोचिलोपो चेत्यादपूर्णमिति सुलोपः॥५४॥ तान्वयस्यान्। तन्निष्ठां भगवन्निष्ठां॥५५॥ द्वंद्वारामेरितेहितै रागद्वेषाद्युतोऽध्येता यथा भवति तथेरितैः प्रोक्तैः। वचनैरीहितैः प्रवृत्तिभिश्च॥५६॥ तन्न्यस्तेत्यादेः प्रल्हादन्यस्तमनश्चक्षुष्का इत्यर्थः। अरः प्रल्हादः॥५७॥ इति श्रीभागवत टिप्पण्यां मंदनंदिन्यां पंचमोऽध्यायः॥७५॥

॥ हरिः ॐ॥ मुकुंदसेवैव बुभूषुभिः संपाद्येत्याशयेन प्रल्हादो बालानुपदिशति॥ हतेति। हे अर्भकाः। वो युष्माकं

सर्वतः सर्वप्रकारेण शिवं मंगलं वचः शृणुत। हत्येत्यनुकंपायां। वयस्यान्पश्यत मृतान्। तेन दर्शनेन जातवैराग्याः। क्रीडांधाः संतो मंमा प्रमाद्यथ भगवद्विषये प्रमादं मा कार्ष्ट॥१॥ बालाः क्रीडांधा भवत्येवेत्यत आह॥ नेति। पुरातना बालाः। मार्काडेय प्रभृतय आत्मनोऽर्थे स्वश्रेयसे प्रियैषिणस्तत्साधनविचारपरा न क्रीडांधा इति योजना। गुरूक्तं हितसाधनं गृह्णीम एवेत्यत आह॥ गुर्विति। अनर्थे वस्तुतोऽनर्थे त्रिवर्गेऽयमेव पुरुषार्थ इत्यर्थकल्पन तद्गुरूक्तमपि न ग्राद्यं॥२॥ अज्ञाननिद्रया सुप्तो यदुक्त्या यस्य गुरोरुक्त्या न प्रबुध्येत ज्ञानलक्षणप्रबोधवान्न भवेत्। तस्य मतं न श्रद्दध्यान्न विश्वस्यात्। सः श्रद्दधानोऽधो नायको यस्य तादृशोऽधो यथा॥३॥ शत्र्वादिलक्षणस्य तेषु कर्तव्यस्य च ज्ञानाय तत्प्रयुक्तसंपद्विपत्प्राप्तिपरिहारलक्षणप्रयोजनाय च नीतिशास्त्रमभ्यसनयिमित्यत आह॥ कः शत्रुरिति। आत्मनो मम कः शत्रुरित्यादिनाऽऽक्षेपो भवत्स्वप्येवमेवेति। न वै नीतिशास्त्रैः किं प्रयोजनं स्यात्। संपद्विपदोः। पद्यते गम्यतेऽनेनेति पदं निमित्तं दैवमेव भगवानेवेति योजना॥४॥ नीतिशास्त्रस्यानादरणीयत्वेऽपि स्वर्गसंपदादिहेतुभूतं धर्मशास्त्रमध्येतव्यमित्यत आह॥ य इति। स्वजने वशः स्वस्वबंधुषु हितः। राजसूयज्योतिष्टोमाद्यनुष्ठानेन तदनुष्ठापनेन च पुनर्मुहुः श्रीलोकयोः स्वाराज्यस्वर्गयोः स्वस्मिन्स्वजनेषु हेतुः स अध्यवान्। जननमरणमार्गापर्यवसानात्। प्रवृत्तधर्मकामं आत्मानं हिनस्ति च। इष्टापूर्ते मन्यमाना वरिष्ठमित्यादेः। यस्त्वेवं न हि स्यात्स मुक्तांध्यः। जननादिमार्गपर्यवसानदर्शनवान्। सोऽतिदुर्लभ इति योजना। निवृत्तधर्ममेवानुष्ठेयं। इदं च गुरुणोच्यमानं प्रवृत्तधर्मशास्त्रं नाभ्यसनीयमिति भावः॥५॥ निवृत्तधर्मानुष्ठावा दुर्लभ इत्युक्तत्वात्तदनुष्ठानं कर्तव्यमित्यायांतं। तथाऽपि तत्तिर्यगादिजन्मनि भाविमानुषजन्मनि वा। इहाप्यवस्थांतरे वा किं न स्यादित्यत आह॥ कौमार इति। प्राज्ञो बुद्धिमान् इह वर्तमाने मानुषजन्मनि कौमारे कौमारावस्थायां भगवतुष्टिकरान्धर्मान् आचरेत्। अर्थदं वेदाधिकारगुरूपसत्त्यादिद्वारा पुरुषार्थदूं। मानुषं जन्म दुर्लभमधुवमपि तत्तस्मादिति योजना। तिर्यगादिजन्मनोऽधिकाराद्य संपादकत्वान्मानुषस्य दुर्लभत्वाद्वर्तमाने जन्मनि कौमारे भगवद्धर्मानाचरेदिति सिद्धं। बाल्ये विद्यां निषेवेत यौवने दारसंग्रहः। स्थाविर्ये मोक्षमा-

विष्णुः सर्वभूतानां प्रियादिर्हि तस्मात्पुरुषस्य विष्णोः पादोपसर्पणं कर्तव्यं । तच्च यदा तदा धर्मानुष्ठानं बुद्धिरित्यध्याहृत्य योजना॥७॥ विषयानुभवद्वारेंद्रियजन्यं सुखं कथं लभ्यत इत्यतो दैवात्प्रारब्धकर्मवशाद्दुःखवत्तदवर्जनीयमित्याह॥ सुखमिति। योजना तु स्पष्टा॥८॥ यतः परं केवलमायुर्व्ययस्तत्प्रयासः प्रवृत्तधर्मानुष्ठानक्लेशो न कर्तव्यः। तथाविधः पुरुषः। क्षेमं मुकुंदचरणांबुजं न विंदत इति योजना॥९॥ शरीरं पौरुषं बलोपेतं पुष्कलं सर्वेद्रियोपेतं यावन्न विपद्येतान्यथा न भवेत्। चोऽवधारणे। तावदेव तं विष्णुमाश्रितस्तत इतरेण प्रयोजनाभावादनेन प्रजोजनसद्भावाच्च कुशलः क्षेमाय मोक्षाय यतेत॥१०॥ कौमार एव यतेतेत्युपपादयितुं शतायुष्मतामंगीकृत्यापि यत्नाभावे प्रकारांतरेण व्ययमुपपादयति। पुस इत्यादिना श्लोकत्रयेण। अजितात्मनोऽजितेंद्रियस्य। निद्रादिजयरहितस्येति यावत्। अंधयतीत्यंधतमः प्रापितः। यद्यस्मात् शेते तत्तस्मादर्धमायुर्निष्फलं याति॥११॥ अकल्पस्यासमर्थस्य॥१२॥ शेषं षष्टिवर्षात्मकं॥१३॥ न केवलमुक्तन्यायेनायुर्व्ययमात्र कि त्वस्माकं ज्ञातीनां श्रेयोविधातायासजन्यं मतिवैषम्यं भगवता फलहलक्षणमतिवैषम्यं चास्तीत्याह॥ पश्यध्वमिति। संसृतिमनुसृत्येहतां चेष्टमानानामित्यर्थः॥१४॥ गृहेषु सक्तश्चेन्न कोऽप्यात्मान विमोचितुमुत्सहेत इत्याह॥ क इति। स्नेहपाशैः स्नेहलक्षणपाशैः॥१५॥ प्रवृत्तधर्मो न प्रयोजनमित्युक्त्वाऽर्थोऽपि न प्रयोजनमित्याह॥ को न्विति। तस्करादिः राजभृत्येन प्रतियोधेन चोरेण हतः प्रेष्ठैः प्राणैर्यमर्थ क्रीणाति तादृशार्थतृष्णां प्राणेभ्योऽपि गरीयसीं को न विसृजेदिति योजना। अर्थे तृष्णा जाता चेत्प्राणानपि विसर्जयतीति न स पुरुषार्थ इतिभावः॥१६॥ परमपुरुषार्थसाधनवैराग्यपरिपंथित्वात्कामोऽपि न पुरुषार्थ इत्याह॥ कथमित्यादिना। विषयकामुकः कथं विषयांस्त्यजेतेति वृक्ष्यमाणेन योजना। प्रथमांतानि कामुकताविवरणानि। द्वितीयातानि विषयविवरणानि। अनुकंपिताया दयाविषयभूतायाः। एकांतोपदेशान्मत्रान्। कलाक्षराणामव्यक्तमधुराणां। आकर्णने इति शेषः॥१७॥ प्रत्ता दूरदेशस्थित वरेभ्यो दत्ताः। अच् उपसर्गात्तः। हृदय्या हृदयहिताः। रुचिरच्छदान् रुचिरपरिच्छदान्। कुल्याः कुलपरंपरया समागता वृत्तीर्जीवकः॥१८॥ कोशस्थः कोशे विद्यमानकीट इव कर्माणि अशनादीनीहमान औपस्थ्यजैव्ह्यमुपस्थिजिव्हाकरणकं कर्म व्यसनाशनादिकमित्यर्थः॥१९॥ यन् गच्छन्। गतं निजायुर्विहितमर्थं च न बुद्ध्यते। स्वकुटुंब एव रमत इति स्वकुटुंब-

रामः॥२०॥ वित्तनिविष्टमनस्कता न केवलं वैराग्यपरिपंथिनी किंतु दुष्कृत संपादिकाऽपीत्याह। वित्तेष्वति। वित्तेषु नित्याभिनिविष्टचेताः परवित्तहर्तुश्चोरस्य। प्रेत्य नरकलक्षणं। इह ताडनादिलक्षणं दोषं विद्वानप्यजितेंद्रियोऽशांकामश्च सन्। कुटुंबी तत्परवित्तं हरतीति योजना॥२१॥ न भगवानस्तीति ज्ञानमात्रं श्रेयःसाधनं किंतु स्वातंत्र्याभिमानपरित्यागसहितमित्याशयेनाह॥ विद्वानपीति। हे दनुजाः। यः स्वकीयपारक्यविभिन्नभावः स्वस्वातंत्र्यपरस्वातंत्र्याभिमानमोहितमनाः स विद्वानपीत्थं कुटुंबं पुष्णन् स्वलोकाय मोक्षाय न कल्पते। किंतु यथा विमूढस्तथा पुनः पुनः संसृतिलक्षणं तमः प्रपद्यत इति योजना॥२२॥ स्त्रीजितोऽपि न भवेदित्याह॥ यत इति। वामदृशामक्षिसर्गो निगडस्तेन बद्धस्तासां विहारे क्रीडामृगो योऽयं। विद्वानपि दीनमात्मानं मोचयितुं यतो न कश्चित्कुत्रचिद्देशे क्वापि कालेनालं समर्थः। अतो न तादृशो भवेदित्यध्याहृतेन योजना॥२३॥ एवं विषयसंगे बाधकमुक्त्वा विषयसगपरित्यागेन नारायणशरणगतिं विधत्ते॥ तत इति। हे दैत्याः। विषयसंगस्योक्तरीत्या दुष्ट- त्वाद्विषयात्मकेषु दैत्येषु रिपुषु विदूरात्संगं परिहृत्यादिदेवं नारायणमुपेत शरणं गच्छत। अपवर्गहेतुः स नारायणो मुक्तसंगैरिषितः शरणं गत इति योजना॥२४॥ नारायणस्य दूरस्थत्वाच्छ्रणागतावपि स्वत्वेनास्मत्स्वीकारस्य संदिग्धत्वादच्युतप्रणिनं बव्हायास इत्यत आह॥ न हीति। हे असुरात्मजाः। सर्वतः सिद्धत्वाद्व्याप्तत्वात्सर्वभूतानामिह देहे आत्मत्वात्स्वामितया विद्यमानत्वादच्युतं प्रीणयतो बव्हायासो न हीति योजना॥२५॥ देशांतरे कालांतरे पदार्थांतरे नियामकांतरस्य सत्वे कथमस्यैव शरणागतिर्युक्तेत्यत आह॥ परावरेष्विति। परावरेषु भूतभविष्यवर्तमानेषु। उच्चावचेषु वा। ब्रह्मांतः स्थावरादिषु भूतेषु प्राणिषु भौतिकेषु विकारेषु ब्रह्मांडादिषु भूतेष्वाकाशादिषु महत्सु महदहंकारादिषु। गुणेषु सत्त्वादिषु। गुणसाम्ये प्रलये गुणव्यतिकरे सृष्टौ। अव्ययः पर आत्मा भगवानेवेश्वरो हीति योजना॥२६॥२७॥ व्याप्तस्य परमात्मनोऽतः स्थित्वा कथं नियामकत्वं युज्यत इत्यत आह॥ प्रत्यगात्मेति। स्वयं भगवान्यद्यप्यनिर्देश्यः साकल्येन निर्देष्टुमशक्यः। व्याप्त एवेति वा। निर्देष्टुमशक्यश्च।

एतदेवाभिप्रेत्य तात्पर्यं।अंतर्यामी प्रत्यगात्मा व्याप्तः कालो हरिः स्मृत इति चेति ॥ २८॥ मूले । एवं विधमाहात्म्यो भगवान्कुतो न दृश्यत इत्यत आह॥ केवलेति। एतादृशो भगवान् गुणसर्गया गुणव्यक्तीकरणभूतया मायया प्रकृत्या जीवावरणभूतयांतर्हितैश्वर्यो जीवं प्रति पिहितैश्वर्य ईयते प्रमाणैः प्रतीयते। अतो नेदृशो दृश्यत इति योजना। एतदभिप्रेत्योक्तं तात्पर्ये॥ प्रकृत्या तमसा दृतत्वाद्धरेरैश्वर्य न ज्ञायत इति। तमसा भगवत्ज्ञानप्रतिबंधकया प्रकृत्या जीवावरणेनावृतत्वात्प्रतिबद्धत्वाद्धरेरैश्वर्यं न ज्ञायत इत्यर्थः॥२९॥ मूले भूतदयां च विधत्ते तस्मादिति सर्वभूतानामीश्वरगृहस्थानापन्नत्वादासुरं भावमुन्मुच्य सौहृदमाश्रित्य सर्वभूतेषु दयां कुरुत। तया दययाऽधोक्षजस्तुष्यतीति योजना। एतदभिप्रेत्योक्तं तात्पर्ये। विष्णोर्ग्रहत्वाद्भूतेषु दया कार्या विजानतेति च॥३०॥ मूले तुष्ट्यापि कि प्रयोजनमित्यत आह॥ तुष्ट इति। आद्येऽनंते उत्पत्तिनाशरहिते तत्र भगवति तुष्टे त्वलभ्यं किं। सर्वमाकांक्षितं भवतीति भावः। परं त्वेकांतैराकांक्षाऽपि न कार्येत्याह। सारं जुषां सर्वोत्तमवस्तुसेवमानानां। प्रीणयतां चरणयोरुपगायतां नोऽस्माकं येऽनुषंगेणैव सिद्धा वैषयिक सुखादयस्तैर्गुणव्यतिकरैर्गुणत्रयकार्यैः कांक्षितं किं। किं प्रयोजनं। एवं धर्मादिभिः प्रवृत्तधर्मादिभिरपि कांक्षितैः किं। अंततो गुणेन मोक्षेण कांक्षितेन किमिति योजना। न किमप्याकांक्षणीयमिति भावः। मोक्षगं सुखं त्वाकांक्षमाणापेक्षया नाकांक्षमाणस्याधिकं। एकांतभक्तत्वात्। एतदेवाभिप्रेत्य तात्पर्य॥ कांक्षतो मोक्षगमपि सुखं नाकांक्षतो यथेति चेति॥ अकांक्षतः कांक्षारहितस्य यथाऽतिशयितं तथा कांक्षतो नेत्यन्वयः॥३१॥ भगवतुष्टिरेव संपाद्या चेद्धर्मार्थकामादिकमसत्यत्वान्निष्फलत्वाद्वा न संपाद्यमित्यायातमित्यत आह॥ धर्मेति। धर्मार्थ शब्दाभ्यां परस्य सुपो लोपः। तथा च धर्मोऽर्थः काम इति यो विहितस्त्रिवर्ग ईक्षा। एतद्विषयकं ज्ञानं। एतद्विघात्री त्रयी श्रुतिः। नयदमौ नीतिदंडशास्त्रे। विविधा च वार्ता। कृषिगोरक्षवाणिज्यादिरूपा। तदेतदखिलं निगमस्य नियमेनोक्तत्वात्। सत्यमबाध्यं तदुक्तफलसाधनं च मन्ये। अन्यथा वेदस्याप्रामाण्यानुपादेयत्वयोरापत्तेः। परंत्वेतदपेक्षया स्वसुहृदो निर्निमित्तोपकारकस्यास्य पुंसो भगवतः स्वात्मार्पणं नवविधभक्त्या स्वात्मसमर्पणं परमत्युत्तमसाधनमिति योजना। मोक्षफलकत्वात्। इतरस्य च संसारफलकत्वा दिति भावः॥३२॥ कथमेतादृशज्ञानं त्वया लब्धमित्यतः पुरावृत्तमाह॥ ज्ञानमिति। अवाप्तुमशक्यं तदेतदखिलं ज्ञानं।

ज्ञायतेऽनेनेति ज्ञानं। शास्त्रं। नरसखो नारायणः। धर्मपुत्रो नारदायाह किल। भगवदनुग्रहयोग्यानां। एतादृशं ज्ञानं भवतीति सामान्येनाह। एकांतिनां भगवतः पादारविंदरजसा प्लुतदेहिनां । अकिंचनानां । तत्ज्ञानं स्यादिति योजना॥३३॥ भवतु नारदादीनां ज्ञानं तव तु कथमित्यत आह॥ श्रुतमिति। योजना तु स्फुटा । ज्ञानं मोक्षसाधनं। विज्ञानं विशेषतो मोक्ष- साधनं। धर्म्यं धर्मादनपेतं। देवदर्शनाद्भगवदपरोक्षिणः॥३४॥ नारदाच्छ्रुतमित्येतत्कथ विश्रंभणीयं। तवास्माकं च शंडामर्काभ्यामृतेऽन्यस्य गुरोर्लाभाभावात्। ईश्वरोऽपि बालानां नो साक्षादुपदेष्टा। तव चांतःपुरस्थस्य महत्संगो दुर्लभः। अत्र विश्वासजननोपायोऽस्ति चेत्तमुक्त्वा संशयं छिंघीत्याशयेनाह॥ प्रल्हादेति। नोपत्यित्र नो अपीति पदच्छेदः। प्रगृह्यं त्वत्तु नाश्रितं॥ ३५॥३६॥ इति श्रीभागवतटिप्पण्यां मंदनंदिन्यां षष्ठोऽध्यायः॥७६॥ ॥ ॥हरिः ॐ॥ साधनेषु भक्तेरेव प्राधान्यात्मैव निरूप्यतेऽस्मिन्नध्याये। प्रल्हादः किमाहेत्यत आह॥ एवमिति। मदनु भाषितं नारदानुभाषितं॥१॥ प्रस्थिते गते। परमतिशयितं॥२॥ पिपीलकैरहिर्यथा भक्ष्यते तथा लोकोपतापनः पापो हिरण्यकशिपुर्लोकस्य दिष्ट्या सुखकारणेन पुण्येन स्वपापेन चाभक्षि भक्षितः। नष्ट इति यावत्। इति वादिनो वासवादयो युद्धोद्योगं चक्रुरिति योजना। दिष्ट्या समुपजोषं चेत्यमरः॥३॥ सर्वतो दिशं सर्वा दिशः॥४॥ पशुपरिच्छदान् पशुबंधनगृहान्। नावेक्षमाण इति न समासः॥५॥ राजशिबिरं राजगृहं व्यलुंपन्नाशितवंतः। जयकाशिनो जयकांक्षिणो जयेन प्रकाशमाना वर॥६॥ भयोद्विग्नां भयकंपितां॥७॥ परपरिग्रहं परस्त्रियं॥८॥ यावत्प्रसवमास्यतां मम निकटे। अर्थपदवीं प्रयोजनमार्गे। एतत्प्रसूत शिशुं हत्वेति भावः॥९॥ निष्किल्बिषो निष्पापः। संस्थां हननं। अनंतानुचरो भगवत्सेवकः॥१०॥ अनंतप्रियभक्त्याऽनंतस्य भगवतः प्रियया भक्त्या। अनंतप्रिये प्रह्लादे भक्त्या बहुमानेन वा। परिक्रम्य प्रदक्षणीकृत्य॥११॥ नोऽस्माकं। नाम क्रियतां तेति शेषः॥१२॥

शिक्षाकाले प्रल्हादस्य न पंचाहायनत्वाविरोधः॥१५॥ तिरोदधे विस्मृतमभूत्। नाजहान्नात्यजत्॥१६॥ यथा मे वैशारदी धीर्भगवद्विषयिणी मतिः। तथा यदि भवंतो मे वचः श्रद्दधतो विश्वासं कुर्वेति। तर्हि भवतामपि भूयाद्भवेत्। एवं श्रद्दधतः स्त्रीबालानां च भूयादिति योजना। श्रद्धैव सम्यग्ज्ञानोत्पत्तौ कारणमिति भावः॥१७॥ एवं पूर्ववृत्तकथनेन बालानां स्वस्मिन् श्रद्धां जनयित्वा तानुपदिशति॥ जन्माद्या इत्यादिना। देहजीवयोर्वैलक्षण्यं परमात्मनश्च ताभ्यामत्यतवैलक्षण्यं सर्वस्य तदधीनत्वं ज्ञात्वा देहगेहादावहं ममता न कार्येत्याह श्लोकत्रयेण। दृष्टाः प्रत्यक्षसिद्धा जन्माद्याः। स्वरूपोत्पत्तिलक्षणं जन्म कालविशेष एव वर्तमानत्वलक्षणा सत्ता। उपचयलक्षणा वृद्धिः। परिणामोऽपचयलक्षणा। क्षयो ध्वंसलक्षणो विनाशः। इमे भावा विकाराः। च्यूतादिवृक्षस्य फलानामिव। कालेन कालनामकेनेश्वरमूर्तिना ईश्वर इति मूर्तिः रूपं यस्य तेन भगवता देहस्य भवंति। नात्मनो विष्णोरिति योजना। यद्यपि जीवस्याप्येते न संति। तथाऽपि स्वातंत्र्येणैव तदभावः परमात्मनो भगवदिच्छ्या तु जीवस्यापीति ज्ञेयं। अनेन विकाराणां देहनिष्ठत्वं न जीवनिष्ठत्वं नितरां परमात्मनिष्ठत्वं सर्वस्य विष्ण्वाधीनत्वं चोक्तं भवति॥१८॥ परमात्मनोऽत्यंत वैलक्षण्यं ज्ञापयितुं लक्षणान्याह॥ आरमेति। आत्मा परमात्मा नित्यः। अनित्यत्वं देहहानिरित्याद्युक्तचतुर्विधनाशरहितः। अव्ययो नैमित्तिकनाशरहितः। शुद्धो दोषरहितः। एकः स्वतंत्रकर्ता। एकत्वादेव करोतीति। क इत्यन्यत्र व्याख्यानात्। क्षेत्रज्ञः। एतत्क्षेत्रमिति प्रोक्त तत्क्षेत्रं यच्च यादृक्चेति गीतोक्तरीत्या प्रकृत्यादिक्षेत्रज्ञः। आश्रयः सर्वोपजीव्यः। अविक्रियो विकाररहितः। स्वदृक् साकल्येन स्वस्वरूपदृक्। वश्यो वशं याति यापयतीति। सर्वस्य वशीति यावत्। सर्वस्य वशीति श्रुतेः। व्यापकोंऽतर्बहिश्च व्याप्तः। अंतर्बहिश्च तत्सर्वं व्याप्य इति श्रुतेः। असंगो विषयसंगरहितः। अनावृतोऽज्ञानाद्यावरणरहितः। अत्र कतिपयलक्षणस्यातिव्याप्तिशंकाऽपराधीनत्वेन विशेषणेन परिहरणीयेति बोध्यं॥१९॥ परैरुत्तमैः। अनन्यसाधारणैर्वा। देहादौ मोहजमज्ञानं लक्षणैरात्मानं विद्वान् अतद्भावमतस्मिन्नहं भूतदेहे आत्मदीये गेहादावहं भावं मदीयभावलक्षण भ्रमं त्यजेत। एतत्सर्वमभिप्रेत्योक्तं तात्पर्ये॥ षड्विकाराशरीरस्य न विष्णोस्तद्गतस्य तु। तदधीनं शरीरं च ज्ञात्वा तन्ममतां त्यजेदिति च॥ तु शब्दात्स्वातंत्र्यलक्षणं विशेषमाह। शरीरं चेत्यतःपरामिति शब्दोऽध्याहार्यः। ममतामित्यनेन देहोऽप्यहंता भ्रमो नास्ति। प्राणिमात्रस्य मम देह इति भेदज्ञानात्किंतु स्फुट–

विवेकाभावमात्रमहंतेति सूचयति। जन्माद्या इति श्लोके विष्ण्वधीनत्वं न स्फुटं प्रतीयत इत्यतः कालेनेति हेतुतोक्त्या तल्लब्धमिति वाक्यरूपतात्पर्यं॥ हेतुत्वाद्विष्ण्वघीनत्वं शरीरस्येति॥२०॥ उपायेन ब्रह्मगतिलाभप्रकारं सदृष्टांतमाह॥ हेममिति। यथा हेमकारो ग्रावसु निकषाश्मादिलक्षणेषु क्षेत्रेषु लिप्तं हेमयोगैरुपायैस्तदभिज्ञ आप्नुयात्। तथा देहेषु क्षेत्रेष्वात्मयोगैर्भक्त्याद्युपायैरेध्यात्मविदात्मानमधिकृत्य विद्यमान देहगतमन आदिकं। प्रमेयमध्यात्मशास्त्रं वा। अधिकात्मानं बिंबं वा वेत्तीति तद्वत्। ब्रह्मगतिं वैकुंठादिकं लभेतेति योजना॥२१॥ आत्मनः क्षेत्रज्ञत्वमुक्तं। तत्र क्षेत्रशब्दार्थं प्रकृत्यादिकं तद्गतं च विविच्याह॥ अष्टाविति। प्रकृतयो मूलप्रकृतिर्महानहंकारः पंचभूतानीत्यष्टौ प्रकृतयः। गुणत्रयस्यापि सत्वात्कथमष्टत्वमिति न वाच्यं। त्रय एव हि तद्गुणास्त्रयः सत्त्वरजस्तमः। पदार्थास्तद्गुणा अव्यक्तमूलप्रकृतेरवस्थाविशेषा एवेति तदंतर्भावात्। विकारा मनसा सहैकादशैंद्रियाणि शब्दाद्यास्तन्मात्रा इति षोडशविकारा आचार्यैः प्रोक्ताः। समन्वयात्। ल्यब् लोपनिमित्ता पंचमी। सर्वत्रानुगतिं प्राप्य वर्तमानः पुमान्परमपुरुष एकः पदार्थ इत्थं चतुर्विंशति तत्त्वानि क्षेत्रं पुमांश्च। तद्गत इत्युक्तं भवति। अत्र जीवस्यातिरिक्तस्य सद्भावेऽपि तस्याभिमानित्वापेक्षयाऽभिमन्यमानवाचिपदेन ग्रहणाद्विष्णुरेव पंचविंशः। जडमात्रविवक्षया तु जीवः पंचविंशो विष्णुः षड्विंशतया सम्यग्ज्ञेयः। एतदेवाभिप्रेत्य तात्पर्यं॥ अभिमान्यपेक्षया विष्णुः पंचविंश इति स्मृतः। जडव्यपेक्षया जीवः सम्यग्ज्ञेयो हरिः स्मृत इति च॥ अभिमान्यपेक्षयाऽभिमानिनोऽभिमन्यमानवाचिपदेन ग्रहणापेक्षयेत्यर्थः। जडव्यपेक्षया जडमात्रग्रहणापेक्षया जीवः पचविंशो हरिस्तु सम्यक् षड्विंशतया ज्ञेय इति॥२२॥ देहस्यातिरिक्तस्य सत्वात्कथमुक्तेर्विभाग इत्यत आह॥ देहस्विति। देहस्तु सर्वसंघात उक्तचतुर्विंशति तत्त्वकार्यभूतः। जगज्जंगमः। नरतिर्यगादिः। तस्थुः स्थावरस्तरुगुल्मादिरिति द्विधा। अत्रैव देह एव पुरुषः पूर्णषड्गुणो भगवान्। अतत् हरिभिन्नं चेत्। नाचेतनात्मकं जगत् त्यजन् त्यजताधिकारिणा नेति नेतीति। स ता एष नेति भनेरिति योजना। आत्माप्रकतिर्न महानित्येवं सर्ववैलक्षण्यं श्रुतेरथः ॥२३॥

गतात्मना मुक्तमनसाऽनुभवेन। अज्ञाता चाल्पशक्तित्वं दुःखित्वं स्वल्पं स्वल्पं कर्तृता सर्वज्ञतादीशगुणाविरुद्धाद्यनुभूतिगा इति मूलोक्तेः। सर्गस्थानं समाम्नायैः सृष्टिस्थितिसंहारादिबोधकैर्वेदैरसत्वंरैरापातप्रतीतिरहितैः। त्वरितोच्चारणादिदोषरहितैर्वा। अथवा। सावधानमनस्कैर्विमृशद्भिरधिकारिभिर्विमृग्यत इति योजना॥२४॥ प्रकारांतरेणापि भेदमाह॥ बुद्धेरिति। बुद्धेर्जीवस्य जागरणं स्वप्नः सुषुप्तिरिति वृत्तयोऽवस्थास्ता एता येनैवानुभूयंते। स पुरुषश्चेतनोऽध्यक्षः साक्षिसिद्धः परो भगवतोऽन्यः। भगवतोऽवस्थात्रयानुभवस्य तत्कारणीभूतकर्मणस्तत्कार्यस्य सुखदुःखादेवाभावात्। अथवा। येन परमात्मनाऽनुभूयंते। अंततर्णीतणिच्। अनुभाव्यंते। सोऽवस्थात्रयप्रवर्तकः पुरुषः परमात्मा। अध्यक्षोऽवस्थाद्रष्टा। परो जीवादन्यः। तदेतदभिप्रेत्योक्तं तात्पर्ये॥ बुद्धेर्जीवस्य। सत्त्वबुद्ध्यादिशब्दैस्तु जीवोऽपि क्वचिदीर्यते। जाग्रदाद्याः कर्म चैव सुखदुःखे च तस्य हि। जाग्रदादेः परो द्रष्टा सुखनित्यो हरिः स्मृतः। स जीवेन सह स्थानात्तत्स्वरूपः प्रदृश्यते। अज्ञदृष्टयाऽनज्ञदृष्ट्यायथा गंधयुतोऽनिलः। अदृष्टेर्जीवपरयोर्भेदस्याप्नोति संसृतिं। अभेदनिश्चयाद्याति तमो नास्त्यत्र संशय इति च॥ सत्त्वबुद्धयादि शब्दैरित्यनेन बुद्धेर्जीवस्येति व्याख्यानं प्रमापितं भवति। तस्य जीवस्य जाग्रदाद्यवस्था कर्म च तत्कारणी भूतपुण्यपापादिकं सुखदुःखे च तत्रानुभूयमाने भवति। जीवात्परो हरिस्तु केवलं द्रष्टा। सुखनिष्ठः स्वरूपानंदनिष्ठः स हरिः। तत्स्वरूपो जीवस्वरूपः प्रदृश्यते। अज्ञदृष्ट्या भ्रांत्याऽनदृष्ट्या जानातीति ज्ञः। तद्दृष्ट्या तु न। यथाऽनिलोऽज्ञदृष्टया गंधयुक्तः पुष्परेणुयुत एव भेदाज्ञानाभेदनिश्चययोः क्रमेणानर्थातिशयमाह॥ अदृष्टेति॥२५॥ पूर्वश्लोके बुद्धिशब्दितस्य जीवस्यावस्थात्रयलक्षणसंसारानुभवो भगवता भवतीत्युक्तं। तत्कथं। न हि भगवान्किचिदनिमित्तीकृत्य संसारमनुभावयतीत्यतः संसारकारणान्याह श्लोकत्रयेण॥ एभिस्त्रिवर्णैरित्यनेन। बुद्धिस्यैस्त्रिवर्णैर्लोहितशुक्लकृष्णमित्युक्तवर्णत्रयोपेतैः पर्यस्तैः परिक्षिप्तैः। अनादितः संबंधैरिति यावत्। बुद्धिभेदै बुद्धजविस्य भेदैभेदकैः स्वस्वाधिक्येन नीचमध्योश्चत्वलक्षणतारतम्यज्ञापकैः क्रियोद्भवैः सात्विकत्वादिक्रियाजनकैः सत्त्वादिगुणैरन्वयात्संबंधाद्वायुगंधैर्गघोपेतैः पुष्पाद्यवयवैः सुरभ्यसुरभिमिश्रैः। अन्वयादिवात्मनः स्वरूपज्ञानानंदकेवलदुःखमिश्रात्मकं धत्ते पिधत्ते न जानातीति योजना। वायुर्निगंधोऽपि गंधसंबंधान्निर्गंधस्वरूपो न ज्ञायते। जीवोऽपि गुणत्रयसंबंधात्स्वरूपेण न ज्ञायत इति

भावः। अत्र बुद्धिभेदैरित्यस्य तात्पर्यं॥ बुद्धिभेदैर्जीवानां तारतम्यज्ञापकैरिति। एवं च सत्त्वादिगुणतन्निमित्तकर्मणी संसारकारण इत्युक्तं भवति॥२६॥ एतदनूद्य मूलकारणं चाह॥ एतदिति। संसार एतद्द्वारः। तस्यैव विवरणं गुणकर्मनिबंधन इति। हि शब्देनाजामेकां कर्मणा बध्यते जंतुरिति प्रमाणप्रसिद्धिं द्योतयति। अज्ञानमूलः प्रकृत्यविद्यादि शब्दवाच्याज्ञानावरणलक्षणमूलकारणकः प्रकृतिः स्वात्मसंश्लिष्टान् गुणान् सत्वादिकान् अपीति। अज्ञानस्य प्रथमावरत्वोक्तेः। दुष्कर्मणोऽनर्थहेतुत्वं जानता कथं बुद्धिपूर्वकृतकर्मणाऽनर्थः प्राप्यत इत्यत उक्तं॥ अपार्थ इति। स्वप्ने स्वशिरच्छेदादिरूपात्महननानुभवजनितवासनावशाद्बुद्धिपूर्वकृतस्वशिरच्छेदेन दुःखमाप्यते। तथा रागादिवशाद्बुद्धिपूर्वं कृतकर्मणाऽपार्थोऽप्यनर्थोऽप्याप्यत इति योजना। एतदेवाभिप्रेत्य तात्पर्यं प्रवृत्तं॥ दुःखरूपोपि संसारो बुद्धिपूर्वमवाप्यते। यथा स्वप्ने शिरच्छेदं स्वयं कृत्वाऽऽत्मनो वशः। ततो दुःखमवाप्येत तथा जागरितेऽपि तु। जानन्नप्यात्मनो दुःखमवशस्तु प्रवर्तत इति च॥ अवशः स्ववशो न भवतीत्यवशः। आत्महननानुभवजनितवासनया बलात्कृतः। अवशो रागादिवशः प्रवर्तते दुष्कर्मकरणे॥२७॥ मन एव मनुष्याणां कारणं बंधमोक्षयोरित्युक्तेर्मनोऽपि संसारकारणमित्याह॥ मनोमयत्वादिति। मनोमयत्वान्मनः पूर्वक कर्मकारणकत्वेन मनः प्रधानत्वान्मानसवासनामयत्वात्। सर्वार्था गजतुरगादयः स्वमजागरयोः समा अनित्यत्वादिभिः समाः। अनित्यत्वविकारित्वपारतंत्र्यादिरूपतः स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यतेत्युक्तेः। एवमुक्तरीत्या दृष्टानर्था ध्यातुरनुभवितुः शोकमोहभयप्रदा अपि भवतीति योजना॥२८॥ तर्हि किंकर्तव्यमस्माभिरित्यत आह॥ तस्मादिति। कर्मणामिति मनसोऽप्युपलक्षणं। बीजं मूलकारणमज्ञानं। योग उपायः। सः क इत्यत आह॥ प्रवाहेति। धियो बुद्धेर्यः प्रवाहः। तस्योप परमात्मसमीपे रमो रमणं क्रमेण भक्तिरभिवर्धनीयेति भावः। एतदेवाभिप्रेत्य तात्पर्यं॥ धियः प्रवाहस्योपरमः परमेश्वरे रमणमिति। रमणमासक्तिः॥२९॥ सत्स्वन्येषुपायेष्वयमेव कुतः कर्तव्य इत्यत आह। तत्रेति। सहस्राणां मध्येऽयं भक्तियोगो भगवता नरसखनारायणेन। तद्वच एव पठति॥ यदीति।

षड्वर्गनिग्रहे भक्त्युत्पादने चोपायानाह॥ गुरुशुश्रूषयेत्यादिना। तृतीयांतानां भक्तिः क्रियत इति वक्ष्यमाणेनान्वयः। गुरुशुश्रूषयेत्यत्र साधनपंचकमुच्यते। प्रत्येकं साधनविधायकवचनौदाहरणं तु गौरवभिया टीकायामुदाहृतं। तेन च क्वचिन्न क्रियते। भक्त्या गुरुभक्त्या। यथा देवतागुरावित्युक्तेः। सर्वलाभार्पणेन च सर्वेण यज्ञादिना लाभो लब्धं यत्पुण्य तस्य समर्पणेन यद्यल्लब्धं स्वेन तस्य कर्तृत्वसमर्पणेन वा। साधुभक्तानां निर्व्याजभक्तानामीश्वराराधनेन पंच रात्रोक्तपांचकालिकाराधनेन॥३१॥ श्रद्धयेति श्लोके साधनचतुष्टयं। तल्लिंगेक्षार्हणादिभिस्तस्य भगवतो लिंगस्य प्रतिमाया ईक्षणं दर्शनमर्हणं पूजनं तदादिभिः॥३२॥ भूतदयाऽपि साधनमित्याह॥ हरिरिति। भगवानीश्वरो हरिः सर्वेषु भूतेष्वास्त इति मनसा। तैः प्रार्थितैः कामैः काम्यैः स्वशक्ति- विषयैर्वित्तविद्यादिभिः। भूतानि सज्जनान् साधु मानयतीति योजना॥३३॥ उक्तसाधनैः साध्यं भवतीत्याह॥ एवमिति। एवमनुष्ठितैर्निर्जितोऽरिषड्वर्गो यैस्तैः साघनैरीश्वरं वासुदेवे भगवति स भक्तो यथा रतिं लभते तथा भक्तिः क्रियते उत्पद्यत इति योजना। रतिमुपासनापरोक्षस्वानंदानुभवलक्षणं॥३४॥ भक्तानां वृत्तिप्रकारमाह॥ निशम्येत्यादिना। यदेत्यस्य तदेति वक्ष्यमाणेनान्वयः। निशम्य श्रुत्वा। कर्माणि जगत्सर्जनादीनि। गुणान् ज्ञानानंदादीन्। लीलातनुभिः कृतानि वीर्याणि कंसवधादीनि॥३५॥ आक्रंदते उच्चैः शब्दकरोति। जनं भक्तं। आत्मगतिर्भगवद्विषयकमनोगतिः। गतत्रपो गतलज्जः॥३६॥ भक्त्युद्रेकफलमाह। तदेति। तस्य भगवतो भावे स्वरूपे भावो भक्तिः। अत एव तात्पर्यं॥ तद्भावभावः। तद्यथा स्वरूपं भक्तिरिति॥ तयाऽनुकृतेऽनुकुलत्वेन कृते। आशयाकृतिराशयोंऽतःकरणमाकृतिर्देहाकारो यस्य स तथा । यदाऽतिहर्षेत्यादिनोक्तमुद्नानादिकं नैकैकस्मिन् भक्ते समुच्चयो किंतु यथा तथेति ज्ञातव्यं। अतएव तात्पर्यं॥ केचिद्भक्ता विनृत्यंति गायंति च यथेप्सितं। केचित्तूष्णीं भजत्येव केचिच्चोभयकारिण इति चेति। उभयकारिणो नर्तनगायनोभयकारिणः। निर्दग्धकर्मबीजः। अनुशयोंऽतःकरणं संसारो वा यस्य स निर्दग्धबीजानुशयः। अधोक्षजं समेति। भूयः प्रयोगेण स्तोत्रेण वक्ति स्तौति॥३७॥ पूर्वमशुभात्मनो भक्त्युद्रेकात्संसृतिचक्रस्य शातनं। शदलृ शातने शदेरगतौत इति तः। नाशनं। अधोक्षजालापं तन्निमित्तं यत्सुखं ब्रह्मनिमित्तकं निर्वाणसुखं मोक्षसुखं विदुरिति योजना।

अत एव तात्पर्यं॥ ब्रह्मनिर्वाणसुखं ब्रह्मनिमित्तनिर्वाणसुखमिति। भगवत्कथयाऽपि सुषुप्ताविव स्वरूपसुखं व्यज्यत इति भावः। ततो भक्तेरेतादृशसुखसाधनत्वात्। यूयं हृदीश्वरमंतःकरणनियामकं हृदये स्थूलहृदये विद्यमानं प्राज्ञं भजत। जीवांगुष्टमितो जीवे देहांगुष्टमितो हृदीत्युक्तेः॥३८॥ भगवदुपासनायां महाफलमुक्त्वाऽऽयासोऽपि नास्तीत्याह। हे असुरबालकाः। स्वे स्वकीये हृदि छिद्रवदाकाशवत्सतो विद्यमानस्यास्यात्मनः सख्युर्हरेरुपासने कोऽतिप्रयासः। अशेषदेहिनां सामान्यतो हृदिस्थत्वेन न कस्यापि। अत्र तात्पर्यं॥ अशेष देहिनां सामान्यतो हृदिस्थत्वेनेति। एवं सन्निहितत्वेन विषयोपपादनैर्देशांतरगमनैः किं प्रयोजनमिति योजना॥३९॥ सर्वदाचलत्वेन देहहृदिस्थस्य नित्यस्य भगवतो महाप्रियकारित्ववन्न कस्यापि विषयस्यापि प्रियकारित्वं मर्त्यस्य। मृत्यनंतरमभावात्। पूर्वमपि क्षणभंगुरत्वात्सतोऽपि देशांतर चलनात्। अतस्तत्र वैराग्येण भवितव्यमित्याशयेनाह॥ राय इति। रायो हि बहिःस्थितवित्तानि। कोशो भूनिक्षिप्तद्रव्य। अर्थकामा अर्थाश्च कामाश्च क्षणभंगुरायुषः स्वरूपनाशवंतश्चला अन्यत्र गमनवंतः॥४०॥ अर्थकामौ दूषयित्वा प्रवृत्तकर्मफलं स्वर्गादिकं दूषयति। एवमिति। क्रतुभिः कृता अमी स्वर्गादय एवमर्थका मवत्क्षयिष्णवो नश्वराः स्वापेक्षयातिशयितलोकांतरवंतः। न निर्मलाः। न रागादिदोषरहिताः। हि शब्देन पुण्यचितो लोकः क्षीयते। अनैकं विन्महत्पुण्यं कर्म करोति तत्धास्यां ततः क्षीयत एवेत्यादि प्रमाणप्रसिद्धिं द्योतयति। तस्माददृष्टं श्रुतं च न भवतीत्यदृष्टश्रुत दूषणं यस्य तं। दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीता इति श्रुतेः। परं परमात्मानमीशमेकमनन्यसाधारणभक्त्याऽऽत्मलब्धये स्वरूपानंदलाभाय भजतेति योजना॥४१॥ तर्हि विहितानि कर्माणि किमकार्याणीत्यत आह॥ यदर्थमिति। इह लोके विध्यंगानि विहितांगकानि कर्माणि नरो यदर्थे यत्प्रीत्यर्थमसकृत्करोत्यतः प्रसन्नाद्भगवतोऽविपर्यासं नाशरहितममोधं फलं विंदत इति योजना। भगवत्प्रीत्यर्थं कर्माणि कर्तव्यानीति भावः॥४२॥ एतदेव विवृणोति॥ सुखायेति। इह लोके कर्मणः संकल्पः सुखाय दुःखमोक्षाय सदा भवति। सुखमेव स्याद्दुःखमनागापि माभूदिति सर्वानुभवात्। परं त्वीहया स्वर्गादीच्छया कृतं चेहः

पूर्वं वनितादेः मृत्यनंतरं शृगालादेर्भोग्यो भंगुरः क्षणभंगुरः यात्युपैति च वै प्रसिद्धं॥४४॥ अव्यवहितो देहो यदैवं विधस्तदा तत्संबंधिनो व्यवहितापत्यादयः किमु इत्यत आह॥ किम्विति। भंगुराः पारक्याः किमिवति योजना॥४५॥ अनित्यत्वमुक्त्वा तैः प्रयोजनं नास्तीत्याह॥ किमिति। नित्यानंदमहोदधे इति। ल्यब् लोप निमित्ता पंचमी। एतादृशं परमात्मानं महांतं विहाय तुच्छैरेतैः किमिति योजना। अर्थसंकाशैः पुरुषार्थसदृशैः॥४६॥ भगवद्भक्तिमतरा कर्मभिर्निषेकादि मरणांतास्ववस्थासु क्लिश्यमानस्य स्वार्थः कोऽस्ति। न कोऽपीत्याक्षिपति॥ निरूप्यतामिति॥४७॥ कर्मदेहोभयपरंपरा भगवदज्ञानलक्षणाविवेकादेवेत्याह॥ कर्माणीति॥४८॥ अवर्जनीयतया प्राप्ता अर्थकामादयः कथं त्यक्तुं शक्यंत इत्यतस्ते यदपाश्रया यत्परमात्ममूलका स्तमेवानीहया कामेन भजतेति विधत्ते॥ तस्मादिति। अनीहमनीहा प्रयत्नेन जगत्कारणं। अर्शादच्। तद्वंतं। बीजं जगतो व्यंजनाद्वीज शब्दवाच्यमात्मानं भजतेति योजना। एतदेवाभिप्रेत्य तात्पर्यं प्रवृत्तं। अप्रयत्नेन करणमनीहा प्रोच्यते बुधैरिति च। अप्रयत्नेनाप्रयासेन परिणामतो विकारतः॥ ४९॥ बहुधा संबंधसद्भावाद्भगवानेव भजनीय इत्याह॥ सर्वेषामपीति। आत्मांतर्यामी। ईश्वरः स्वामी। प्रियः प्रियकृत्। स्वकृतैर्महद्भिर्भूतैः। कृतानां देहेंद्रियवत्तया कृतानां बीजसंज्ञितो जनकश्च॥५०॥ मुकुंदचरणं भजतः स्वस्तिमत्वे न जातिः प्रयोजिकेत्याह॥ देवो वेति। यथा वयमिति दृष्टांतः॥५१॥ भक्तिरेव भगवत्प्रीतिसाधनं नान्यदित्याह॥ नालमिति लोकद्वयेन। वृत्तं चरितं॥५२॥ विडंबनं प्रीतिजनकतया प्रतीयमानमात्रं॥५३॥ पुनर्भक्ति विधत्ते। तत इति। आत्मौपम्येनात्मदृष्टांतेन। सर्वभूतात्मन्यंतर्यामिणि॥५४॥ जातिरप्रयोजिकेत्युक्त। अधुना तु नानाजा तिमंतोऽपि भक्तिमंतोऽच्युततां च्युतिवर्जनं। मुक्तिमिति यावत्। गताः संतीत्याह॥ दैतेया इति। अत्र तात्पर्यं॥ अच्युततां च्युतिवर्जनमिति॥५५॥ उपसंहरति॥ एतावानिति। परः स्वार्थ उत्तमः पुरुषार्थः। तदीक्षणं भगवदीक्षणं॥५६॥ इति श्रीभागवतटिप्पण्यां मंदनंदिन्यां सप्तमोऽध्यायः॥७–७॥

॥हरिः ॐ॥ प्रह्लादरक्षणाय नृसिंहः प्रादुर्भूत इत्यस्मिन्नध्याये निरूप्यते। प्रह्लादोपदेशानंतरं बालकाः किमकार्षुरित्याह॥ अथेति। निरवद्यत्वात्मह्लादवर्णितस्य बालानां मनसो वा निर्दोषत्वात्। नैवेत्यत्रापि जगृहुरित्यनुवर्तते ॥१॥ एकांते

भगवति स्थितां यथा स्थितं यथा प्रल्हादेन वर्णितं तथा। यथा बालैर्गृहीतं तत्सर्वमित्यर्थः॥२॥ तनयानयं तनयस्य अनयः स्वसिद्धांतविरुद्धप्रकारो यस्मिन्वचने तत्तनयानयं॥३॥ अतदर्हण निष्ठुरयोग्यं। पापेन पापसाधनेन। तिरश्चीनेन वक्रेण॥४॥ प्रकृतिदारुणः स्वभावेन दुष्टः॥५॥ मच्छासनोद्धूतमतिक्रांतशासनं। त्वा त्वां यमक्षयं यमगृहं॥६॥ तस्य मे तेन मया किं बलः को बलं यस्य सः। अत्यगा अतिक्रांतः॥७॥ किं बलः इत्यस्योत्तरमाहं॥ न केवलमिति। परावरे उच्चावचाः। वशं॥ स्वाधीनत्वं। अनेन सर्ववलत्वमुपपादितं॥८॥ पूर्वार्धेन जगत्कर्तृत्वोपयोगि गुणपूर्णत्वमुक्तं। द्वितीयार्धेन जगज्जन्मादिकर्तृत्वं। स्वशक्तिभिः स्वरूपभूताभिः शक्तिभिर्विश्व सृजतीत्यादि योजना॥९॥ त्याज्यं निषेधयति। कर्तव्यं च विधत्ते। जहीति। विद्विषां सत्वात्कथं समं मन इत्यत उत्पथस्थिताच्छास्त्रमार्गमतिक्रम्य स्थितादजितादात्मनो मनसो ऋते विद्वेषो न संतीत्युक्तं। समहणं पूजा॥१०॥ दशदिशो जिता इति भ्राम्यंतमपहसति॥ दस्यूनिति। पुरं स्वदेहं लुपतो विनाशयतः षट् कामादीन्। मन आदींद्रियाणि वा। दस्यून् अविजित्यैव दशदिशाः स्वजिता इत्येके मन्यंते। जितात्मनो जितमनस्कस्य देहिनां समस्य साधारणस्य साधोर्ज्ञेस्य सज्जनस्य स्वमोहप्रभवाः परे शत्रवः कुत इति योजना। शत्रुत्वकल्पक मिथ्याज्ञानस्यैवाभावादिति भावः॥११॥ अतिमात्रमत्यर्थं । विकत्थसे विरुद्धं भाषसे। अतो मर्तुकाम इति जानामि। विशेषमुक्त्वा सामान्यमाह। मुमूर्ष्णामिति। विप्लुता असंबद्धाः॥१२॥ स्वातिरिक्तेश्वरस्यानुपलंभवाधमाह॥ य इति। भगवतः शरणत्वे तर्कवाधमाह॥ स इति॥१४॥ न केवलं दुरुक्तिमात्रं किंतु दुरुद्योगं च चकारेत्याह॥ एवमिति। स्तंभे न दृश्यत इत्युक्त्वांतर्वर्तते चेदायात्वित्याशयेन मुष्टिना स्तंभं तताडेति भावः। तदैव तस्मिन्नेवाविर्भावद्योतकशब्दो बभूवेत्याह। तदैवेति। निनदो ध्वनिर्येन ध्वनिना। अस्फुटदभिनत्। निनद शब्देन प्रकृतस्य ध्वनेर्यच्छदेन परामर्शात्तच्छन्दाभावो न दोषः। स्वधिष्ण्योपगतं स्वस्थानं। सत्यलोकादिस्थानमुपागतं। स्वधा

न समासः॥१८॥ स हिरण्यकशिपुः। एवं भूतं सत्त्वं प्राणिनं परितो विमृशन् निर्जिहानमुद्गच्छत्। वोहाङ् गतौ। किमेतदिति मीमांसं चक्र इति शेषः॥१९॥ उद्वहन्निति शेषः। तथा च नृसिंहरूपमुद्वहन् मीमांसमानस्य हिरण्यकशिपोरग्रतः समुत्थित इति योजना। द्वितीयांवानां नृसिंहरूपविशेषणत्वं। प्रतप्तचामीकरे निष्टप्तसुवर्णसदृशे चंडे क्रूरे लोचने यस्य तत्। स्फुरंति सटाकेसराणि ग्रीवस्थतीक्ष्णरोमविशेषा यस्य तत्। जृंभितं जृंभणयुक्तमानानं यस्य तत्। स्फुरत्सटाकेसरं च तज्जृंभिताननं चेति विशेषणद्वयस्य कर्मधारयः॥२०॥ कराला भयंकरा दंष्ट्रा यस्य तत्। करवालचंद्रहासः। उभयतो धारोपेतः खड्गविशेषः। चंचलः क्षुरांतः क्षुरधारां यस्यांचंचलक्षुरांता करवालवच्चंचलक्षुरांता तादृशी जिव्हा यस्य तत्। भृकुटीयुक्तमुखं भृकुटीमुखं। तादृशमुखेनोल्बणं भयंकरं। स्तब्धोर्ध्वकर्ण स्तब्धावचंचलावूर्ध्वा कर्णौ यस्य तत्। गिरिकंदरवदद्भुते व्यात्ते विवृते। आस्यना से। नासा पदं नासापुटपरं। यस्य तत्। हनुभेदेन दीर्घचुबुकविशेषेणभीषणं भयंकरं॥२१॥ दिवि स्पृशत्कार्यं स्वर्गपर्यंतं व्याप्तदेहं। दिवि स्पृशच्छन्दस्य संज्ञत्वात् हलंतात् संज्ञायामित्यलुक्। अदीर्घा पीवरा ग्रीवा यस्य तत्। उरु विशालं वक्षस्थलं यस्य तत्। अदीर्घपीवरग्रीवं च तत्। उरु वक्षस्थलं च। अल्पं मध्यमं यस्य तत्। चंद्रांशुगौरैचंद्रकलाघवलैः। तनूरुहैभ्छुरितं मिश्रितं विष्वक् व्याप्तं भुजानकिं भुजलक्षणसैन्यं तद्वटकशतैर्युक्तं। नखा एवायुधानि यस्य तत्॥२२॥ सर्वाणि निजानि स्वीयानि नखेभ्य इतरायुधप्रवेकाणि चक्रादीनि तैर्विद्राविता दैत्यदानवा येन तत्॥२२॥ एतादृशं रूपं दृष्ट्वा हिरण्यकशिपोर्जातां शंकामाह॥ प्रायेणेति । समुद्यतस्य पुत्रवधे उद्युक्तस्य मे औरसारिणा सहजशत्रुणा हरिणा प्रायेणायं भविष्यद्वधः स्मृतश्चिंतितः किमिति योजना॥२३॥ एवमाशंक्य पलायितः किं नेत्याह॥ एवमिति। मनसि विद्यमानमेव ब्रुवन् गदायुधो दैत्यकुंजरो दैत्यश्रेष्ठो नदन् सोऽसुरः। अलक्षितः साहसिकः। पतंगमः शलभोग्नौ यथा पतितो भवति तथा नृसिंहोजसि अभ्यपतदिति योजना। अथवा। पतनानंतरं पतंगमोऽग्नौ पतितोऽलक्षितो दृश्यमानो न भवति। तथा सोऽसुरो नृसिंहोजसि पतितोऽलक्षितो दृश्यमानो नाभूदिति योजना॥२४॥ निनदेन ब्रह्मांडकटाहभेदनमारभ्यैतत्पर्यंतं वर्णितं माहात्म्यमसंभावितमित्यतो नेत्याह। न तदिति। यो भगवान्प्रलयकाले व्याप्तं तमः सृष्टिकाले स्वतेजसा पुराऽपिवत्। तस्मिन्सत्त्वधामन्यपरिमेयपराक्रमशालिनि तद्वर्णितं माहात्म्यं न विचित्रमिति योजना।

तर्हि सद्यो नाशितः किमित्यतो भगवाननेन चिक्रीड इत्याशयेनाह॥ तत इति। अभ्यहनत्। विकरणव्यत्ययः॥२५॥ तार्क्ष्यसुतो महोरगं यथा गृह्णाति तथा गदाधरो नृसिंहस्तं विक्रमं तमग्रहीदिति योजना। चिक्रीडतो गरुत्मतोऽहिर्यद्वद्विक्रीडतस्तस्य नृसिंहस्य सोऽसुरो हस्तोत्कलितो हस्तादुच्चलित इति योजना। विक्रीडत इत्यनेनो चलने क्रीडेव निमित्तं न त्वसामर्थ्यमित्युक्तं भवति॥२६॥ भगवत्क्रीडायाश्छिन्नभक्तसंशयजननमसुराणां मोहजननं च प्रयोजनमित्याशयेनाह॥ असाध्विति। सर्वधिष्ण्यपाः। धिष्ण्यं स्थान। घनच्छदा मेघावृता हतौजसो हतमुखकांतयोऽमरा हस्तो चलनमसाध्वमन्यंत । पुनः कथं हस्तगृहीतो भवेदिति चिंत- येति भावः। यद्यस्माद्धस्तमुक्तो महासुरोऽतस्तं नृहरिं निजवीर्यशंकितं स्वसामर्थ्येन भीत मन्यमानोऽभूत् । असुरस्य नृसिंहे स्वनिग्रहासामर्थ्यभ्रांतिरभूदिति भावः॥२७॥ स्ववीर्य भ्रांत्यैव पुनरापददसुर इत्याह॥ पुनरिति। शतचंद्रवर्त्मभिश्वर्मगृहीतवतः परत्वं च न मार्गा यैस्तैः। अच्छिद्रं परमवेशो यथा न भवति तथा। उपर्यधः संचरतं श्येनवेगं हरिर्जगृह इति वक्ष्यमाणेनान्वयः॥२८॥ उत्स्वनोल्वणं पुनः पुनरुद्भतस्वनेनोल्वणं भयंकरमट्टहासं स्वरं कृत्वा तद्भयेन निमीलिताक्षं विष्वक् स्फुरंतं परितश्चलंतं ग्रहणातुरं कुलिशेन वज्रेणाक्षतत्वचं महाजवः सन्हरिः। आखं मूषकं हरिर्यथा तद्वज्जगृह इति योजना ॥२९॥ ब्रह्मवररक्षणा सुरवरशिक्षणचातुर्यमाह। द्वारीति। द्वारीति रेफांतं। अनेननांतर्बहिरिति। ऊरावित्यनेन न भूमौ नांवर इति। नखैरित्यनेन नायुधैरिति। वरो रक्षितः। संध्यायामिति च वक्तव्यं। तेन न दिवा न नक्तमिति वरः। नृसिंहो हरिरित्यनुवृत्य न नरैर्न मृगैरपीति। नं त्वद्विसृष्टेभ्यः इति। न व्यसुभिरसुमद्भिर्वेति वराः संरक्षिता इति ज्ञेयं। नृसिंहस्य केवलं नरत्वाद्यभावात् ब्रह्मसृष्टृत्वाभावाच्च। स्थिलावद्व्यसुत्वाभावात्। प्राणिवद्वायुविकारा सुमत्वाभावाच्च। विवृताननांतं कपोलद्वयं जिव्हया विलिहन् आस्वादयन् हिरण्यकशिपुं ददारेति योजना॥३०॥ हिरण्यकशिपुर्विदारणानंतरं स्थितिकृतिप्रकारमाह। असृगिति। रक्तचिंता महामखे यस्य स’ इति असमित्यादेरर्थः। हरिर्द्विपहत्यया यथा तथेत्य सृगित्यादिनाऽन्वयः। आंत्रमाली च।

दिना। विधूताः कंपिताः। विनष्टरोचिषस्तिरस्कृततेजसः। अभूवन्निति शेषः॥३२॥ दिगिभा दिग्गजाः। सटाभिरुत्क्षिप्तमूर्ध्वं गमितं विमानसंकुलं यस्याः सा। प्रोत्सर्पतं प्रोदसर्पत्। आगमशासनस्यां नित्यत्वात् अभावः॥३३॥ रहसा वेगेन। न रेजिरे न चकाशिरे। दैत्यहननाद्यनंतरं सभोपवेशनमाह। तत इति। संभृततेजसं राशीकृततेजसं। अलक्षितमदृष्टपूर्व कश्चन भूतलगतः। लोकत्रयमस्तकज्वरं शिरोरोगायमाणं॥३४॥ ॥३५॥ प्रहर्षेत्यादेः संतोषातिशयविकसितवत्का इत्यर्थः॥ ३६॥ आनंकाः पटहा दुंदुभयो भेर्यः। कृतसर्वलोकोपकारकस्य भगवतो ब्रह्मादिभिः स्तोत्रप्रकारमाह॥ तदिति। तदुपव्रज्य तन्नृसिंहाधिष्ठितस्थलमुपत्र ज्योपगम्य॥३७॥ अप्सरचारणा इत्यसंहितायां सकारलोपश्छांदसः। तातेति युधिष्ठिरसंबोधनं॥३८॥ ते प्रसिद्धाः॥३९॥ नरशार्दूलेति संबुद्धिः। शार्दूलमिति पाठे सिंहमित्यर्थो बोध्यः। नातिदूरचरास्तारतम्यक्रमेण समीपचराः ॥४॥ आदौ ब्रह्मणः स्तोत्रमाह॥ ब्रह्मेति। दुरंतज्ञानबलादिशक्तये विचित्रवीर्याय पराक्रमवते सर्गस्थितिसंयमान्। संयमो संहारः। गुणैः सत्त्वादिभिः। स्वलीलया स्वरूपभूतलीलया। अव्ययात्मने नित्यवपुषे॥४१॥ कोशांत्या भक्तरक्षणं प्रार्थयते॥ कोपकाल इति। हे भक्तवत्सल नृसिंह। ते कोपकालः कोपावसरो युगांत एवोचितो नेदानीं। असुरहननायेति चेत्। अयमल्पकः। कृतो वा शाम्यतु। हननस्य जातत्वादित्याह॥ हत इति। कृपावसरश्चायमित्याह॥ तत्सुतमिति। अनुसृतं शरणं प्राप्तं। भक्तं तत्सुतं तस्य हिरण्यकशिपोः सुतं प्रल्हादं पाहि रक्षोति योजना। पालनीयगतेऽनुसृतभक्तत्वे पालकगतं भक्तवत्सलत्वं पालने निमित्तानि॥ ४२॥ हे परम। नोऽस्मान् त्रायता त्रायमाणेन भवता स्वभागाः प्रत्यानीताः प्रत्याहृताः। हिरण्यकशिपुकाले सहरक्षोनामका निद्रादीनामकेभ्यो दैत्येभ्यो नीताः। हव्यवाहनो देवानां कव्यवाहनः पितॄणां सह रक्ष असुराणामिति श्रुतेः। इति स्मृतिश्च। त्वगृहं त्वदावासयोग्य। अस्मदीयहृदयकमलं दैत्याक्रांतं भीत्या तद्विषयकं तत एव निमीलितं तस्य हननात्मत्यबोध। एकांतभक्तानामस्मदादीनां त्वयैव पुरुषार्थो न प्रत्यानीतस्वर्गाधिपत्यादिकं पुरुषार्थ इत्याह॥ कालेति। हे नाथ त्वा शुश्रूषतामिदं स्वाधिपत्यादिकं कालग्रस्तं नश्वरं कियत्फलं न महाफलमित्यर्थः। मुक्तिरपि न महाफलमित्याह। मुक्तिरिति। हे नृसिह। तेषां शुश्रूषतां मुक्तिरपि न बहुमता हि यस्मात्तस्मादपरैः पुरुषार्थैः किं प्रयोजनमिति योजना॥४३॥ हे आदि-

पुरुष। यदात्मतेजः परमात्मापरोक्षसाधनं तप आलोचनं परममुत्तमसाधनं नोऽस्माकं त्वं। आत्थब्रवीषि। तपसा ब्रह्म विजज्ञासस्वेति श्रुतेः। येन तपसेदं समस्तमात्मगतं मनोगतयोगप्रभावेन। सर्वापरोक्षमिति यावत्। तद्विलुप्तममुना। हे शरण्यपाल। जगद्रक्षायै गृहीतवपुषा। अद्य पुनरन्वमंस्था अनुगृहीतवानसीति योजना। तपोऽपि न संतापात्मक किं त्वालोचनात्मकं ज्ञानरूपं। यस्य ज्ञानमयं तप इति भगवदीयज्ञानेऽपि तपः शब्दार्थत्वदर्शनात्। एतत्सर्वमभिप्रेत्य तात्पर्यं॥ तद्विप्रलुप्तमिति सादृश्याभेदवचनं। आलोचनमेव तपः। यस्य ज्ञानमयं तप इति श्रुतेः॥ यत्तप आत्थ तामलुब्धमिति कथं। आलोचनात्मकतपस आशुतरविनाशतयाऽधुना दैत्येन विनाशनायोगादिति तु न शक्यं। अधुना विमलुप्तस्यापि तत्सदृशत्वेन तदित्यभेदोक्तिसंभवात्। ज्ञानेव शालीनुपभुज्म इत्यादौ दर्शनात्॥४४॥ नस्तनूजैस्तीर्थसमये दत्तानि तिलांबुमति श्राद्धानि कव्यान्नानि यः प्रसभ बुभुजे। तानि नखविदीर्णपात्। वपा नाम हृदयगतांत्र विशेषः। तस्योदरादरार्च्छमापितवान्। यो भवान्। तस्मै अखिलधर्मगोतेऽखिलधर्ममर्यादासंरक्षकाय भगवते नम इति योजना॥४५॥ हे विभो स्वामिन्। तेन नटनाट्यगायकाः। नटो नटनं त्वत्कथानुबद्धवचनं। नाट्यं त्वच्छृंगारादिप्रभावदर्शकवचनं। एतदुक्तं तात्पर्ये॥ नटनं तु कथा बद्धं नाव्यकं भावदर्शन मिति॥५०॥ गधर्वा ऊचुरिति। तयोर्गायका गीत विशेषयुक्तास्तया पाठका येन वीर्यबलौजसा पराक्रमदेहबलावष्टंभनशक्त्या। आत्मसात्कृताः स्वाधीनकृताः। स एवेत्यादि योजना। विशेषत उक्तं सामान्येनाह॥ किमिति। उत्पथस्थो दुर्मार्गस्थः॥५१॥ साधुहृच्छयः साधून्हरंति संहरतीति, साधुहृतो दैत्यास्तेषामाश्रयः। स एष हिरण्यकशिपुः। भवापवर्गे भवस्य। भवाद्वा। त्यागो मोक्षो वा यस्मात्तत्॥५२॥ पंचविंशश्चतुर्विंशतितत्त्वानि भगवांश्चेति पंचविंशतिः। तथा च पंचविंशतिसंख्यापूरकः। तृहरे। ते मनोज्ञैः कर्मभिरां दोलिकावाहनादिभिरनुचरमुख्या वयं ते तादृशाः। वयं दितिसुतेन वाहकत्वं प्रापिताः। एवं तत्कृतं ते तवानुजनपरितापं जानता। त्वया सः पंचतां मृतिं। उपयात इति योजना॥५३॥ किंपुरुषाः किंपुरुषजातीयाः। ‘ईश्वर इति महापुरुषत्वोपपादनं

हानतया बलात्कारकृतकाय। सहाजनः सपापः। कलुष हाजननाघमहा दुरितदुष्कृतामत्यमरः। अपसादिता मारितः॥५६॥ हरिनररूप नृसिंहरूपं। शरणद रक्षकतया तत्प्रद। शर्म सुखकारण। अयं हिरण्यकशिपुस्ते विधिकरोऽस्मद्वद्वत्यः। अयं को यो विप्रशापादसुराविष्टो दैत्यो हिरण्यकशिपुः स इति योजना॥५७॥ इति श्रीभागवतटिप्पण्यां मंदनंदिन्यामष्टमोऽध्यायः॥ ७-८॥

॥हरिः ॐ॥ प्रल्हादस्य भक्तेषु प्रसिद्धतालाभाय नृसिंहावतारे प्रल्हादे कृतवात्सल्यं दर्शयत्यस्मिन्नध्याये॥ एवमिति। एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसरा ब्रह्मरुद्रौ पुरःसरौ श्रेष्ठौ येषां ते सुरादयः। आदि पदेन ऋष्यादयः। अत्र भक्तसमुदायेऽसुराणां मुख्यत्वं। तत्रापि ब्रह्मरुद्रयोरिति बुद्धया विवेक्तव्यं। मन्युसंग्रहं को पत्राकट्य स्वीकर्तरि। यद्यपि भगवतो देवदत्तादेखि न ज्वलनात्मकः कोपः। तथाऽपि शत्र्वपका रहेतुत्वाल्लोकविभीषणचेष्ठा हेतुव्यापार विशेषः कोप इत्युच्यते। स च ज्ञानानंदात्मक इति मंतव्यं। उपेतुं समीपं गंतुं नाशकन्न शक्ताः। लुदित्वादङ्॥१॥ उपेतुमशकैर्देवैः प्रार्थिता श्रीरागतेत्याह॥ साक्षादिति। साक्षान्मुख्या श्रीमहालक्ष्मीदेवैः प्रेषिता प्रार्थनया प्रेरिता तन्महदद्भुतं नृसिंहरूपं दृष्ट्वा। साधारणजनानामदृष्टाद्भुतपूर्वत्वात्। भयशंकायामपि स्वस्या अपि भयमिति लोकमोहाय प्रल्हादे वात्सल्यप्रदर्शनाय च स्वयं शंकितेव सा लक्ष्मीनोंपेयायेति योजना॥२॥ अनंतरं भगवतो लक्ष्म्याश्च मनो ज्ञात्वा प्रल्हादं प्रेषयामास ब्रह्मेत्याह॥ प्रल्हादमिति। हे तात वत्स। त्वदर्थमेव स्वपित्रे कुपितं प्रभुं नृसिंहं। उपेहि। उपेत्य च कोपं प्रशामयेत्युक्त्वा ब्रह्मांऽतिकेऽवस्थितं प्रल्हादं प्रेषयामासेति योजना। श्लोकद्वयाभिप्रायं मनारी कृत्वा तात्पर्यं प्रवृत्तं॥ अदृष्टाश्रुतपूर्वत्वादन्यैः साधारणैर्जनैः। नृसिंहं शंकितेव श्रीर्लोकमोहाय नो ययौ। प्रल्दादे चैव वात्सल्यदर्शनाय हरेरपि। ज्ञात्वा मनस्तथा ब्रह्मा प्रल्हादं मैषयत्तदा। एकत्रैकस्य वात्सल्यं विशेषाद्दर्शयेद्धरिः। अवरस्यापि मोहाय क्रमेणैवापि वत्सल इति ब्रह्मांडे॥ अन्यै रमाब्रह्माद्यन्यैः साधारणैर्जनैः। अदृष्टाश्रुतपूर्वत्वात्तेषां भयशंकाजनकमपि स्वयं लोकमोहाय प्रल्हादे वात्सल्यदर्शनाय च नृसिहं नो ययावित्यन्वयः। हरेः। अपि शब्दाच्छ्रियो हरिः क्रमेण तारतम्यक्रमेण वत्सलोऽपि। अयमेकाधिको भक्त इति मोहाय। एकत्रावतारेऽरस्याप्येकस्य विषये विशेषाद्वात्सल्यं दर्शयेदित्यर्थः॥३॥ तथेत्यनंतरमुक्त्वेति शेषः॥४॥ आपत्कालाख्येनाहिना। निर्दष्टा ग्रस्ता धीर्येषां ते आपन्नानां। भक्तानामिति यावत्॥५॥ शीर्ष्णिकरानिधान- ।

फलमाह। स तत्करेति। धुतं निरस्तं। अभिव्यक्तं परस्य परमात्मनो विधस्यात्मनः स्वस्य प्रतिबिंबस्य दर्शनं यस्य सः। निर्वृतोऽभिव्यक्तस्वरूपानंदो हृष्यत्तनुः पुलकितांगः क्लिन्नहृद्भक्त्याऽऽर्द्रौतिः करणोऽश्रुलोचन आनंदबाष्पोपेतनयनः॥६॥ तन्न्यस्तहृदये क्षणस्तमिन्न्यस्ते हृदयेक्षणे यस्य सः॥७॥ कैमुत्यन्यायेन स्वस्तोत्रयोग्यो भगवान्न भवतीति स्तौति॥ ब्रह्मादय इति। सत्त्वैकतानमतयः सत्त्वेन स्वाभाविकज्ञानबलसमाहारेण । सत्त्वगुणोद्रेकेण वा। एकताना विस्तृता मतिर्येषां ते। परतोऽपि रमाब्रह्मादेरपि परस्य यस्य सः। उक्तजातेरसुरजातेः। मम स्तोत्रेणेति शेषः। तोष्टुं तोषयितुमर्हति किं। न ते विष्णो इति श्रुतेरिति योजना॥८॥ भक्तिं विना धनादयः परस्य पुंस आराधनाय तोषाय न भवतीति अहं मन्ये। कुत इत्यतो यत एतदभावेऽपि भक्त्या तुतोष नन्विति योजना। अभिजनः कुलीनत्वं। रूपं सौंदर्य। श्रुतं श्रवणं। ओजोऽवष्टंभशक्तिः। तेजो ब्रह्मकर्चसं। प्रभावो माहात्म्यं। बलं देहशक्तिः। पौरुषं पराक्रमः। बुद्धिः शीघ्रग्रहणबुद्धिः। योगो ध्यानं। यूथपो यूथनाथः। नागेंद्र इति यावत्। सेनानेतरि नागेंद्रे यूथनाथः प्रकीर्तित इत्यभिधानं॥९॥ भगवंतमेव स्तोतुं भगवदर्पणबुद्धिरहितमितरगुणोतमजातिमनुपयुक्तं निंदितत्वात्। तद्वंतं स्तौति॥ विप्रादिति। द्विषड्गुणयुतात् ज्ञानसत्यादिद्वादशगुणयुतात्। अरविंदनाभपादारविंदयोर्विमुखात्। स्वस्वातंत्र्याभिमानत्यागस्वकीय सर्व समर्पणबुद्धिरहितात्। विप्रात्। तदर्पितमनोवचनात्मगेहमाणं श्वपचं वरिष्ठमहं मन्ये। कुत इत्यतस्तदर्पितमन आदिकस्यैव लोकपावकत्वात्। स्वातंत्र्य भ्रांतिमतस्तदभावादित्याशयेनाह। तदर्पितेति। आत्मा देहः प्राणा इंद्रियाणि। उपलक्षणमेतत्। पुत्रमित्रकलत्रादेर्भूरिमानो बहुस्वातंत्र्य भ्रांतिमान् किमपि नैव पुनातीति योजना। यद्यपि स्वस्वातंत्र्याभिमानत्यागभगवदर्पणबुद्धिरहितस्यैते गुणा न संत्येव। तथाऽपि विद्यमाना अप्यप्रयोजका गौणाः कथंचित्संभवंतीत्यत्र तात्पर्यमाह। द्वादशगुणाश्च। ज्ञानं सत्यं दमः शमो मात्सर्य हीः तितिक्षाऽनसूया दानं यज्ञस्तपः श्रुतमित्येत एव विमगुणत्वेन भारतोक्तत्वान्नांन्ये। अप्रामाणिकत्वात। अत एव तात्पर्यं॥ दिषदगणयतात। ज्ञानं च सत्यं च तपः शमश्च

अविदुषः स्वस्वामित्वादिकमविजानतो जनान्मानं दत्तविहारादिसपर्यामात्मनो जविस्य प्रभुरयं भगवान्नैव वृणीते। स्वस्मिन्नविद्यमानस्वामित्वाज्ञानिनि प्रीतेरभावात्। क्षुभिवृत्तये स्वीकुरुतामिति तु न। यतो निजलाभेन स्वरूपानंदादिना पूर्णः। अविदुष इत्यनेन विदुषो मानं तु घृणीत इति लब्धं। तर्ह्य पूर्णत्वं स्यादित्यत उक्तं॥ निजलाभपूर्ण इति। तर्हि कुतः स्वीकुरुत इत्यतः। कमण इति। तथा च दययैव स्वीकरोतीति न तदनुपपत्तिः। स्वस्यप्रयोजनाभावेऽपि दयया स्वीकारेऽर्पयितुः किं प्रयोजनं भवतीत्यतः॥ यद्यदिति। जनो विद्वान् भगवतं यद्यन्मानं विदधीत तच्चात्मने आत्मन आनंदादि लाभाय। यथा मुखश्रीर्मुखालंकारादिभिः प्रतिमुखम्यालंकारादये भवति। तथा बिंबस्य भगवतः पूजादिकं प्रतिबिंबस्य पुरुषार्थाय भवतीति योजना॥११॥ ननु सुदृढस्नेहपूर्वक माहात्म्यज्ञानवता विदुषा समर्पितं भगवान्स्वीकुरुत नाम। तव विमायातं। न च मया स्तुतिः क्रियत इति वाच्यं। यावद्गुणकीर्तनस्याशक्यत्वात्। यत्किंचिगुणकीर्तनस्यामयोजनवच्चात्। इत्यत आह॥ तस्मादिति। अहमीश्वरस्य स्वरूपं तस्मात्तस्यार्चित्यमहिमत्वात्सर्वात्मना न गृणामि न स्तौमि। किं त्वजया प्रकृत्या नीचो बद्धो गुणविसर्ग संसारमनुप्रविष्टः पुमान् येन यथा शक्त्यनुष्ठितेनानुवर्णितेन गुणकीर्तनेन संसारात्पूयेन्मुक्तो भवेत्। तर्हि यस्मात्तस्माद्यथा शक्त्यनुष्ठानस्यैव फलवत्वात्। तस्माद्भगवतो भक्तेषु करुणत्वादहं विगतविक्लवः। भावप्रधानो निर्देशः। मोचयति न वेति मनः संदेहरहितो यथा मनीषं यथाशक्ति यथाबुद्धि गृणामीति योजना। भगवतः करुणत्वाद्यथाशक्ति गुणकीर्तनमेव स्वीकृत्य मोचयतीत भावः॥१२॥ स्वतंत्रमन्यं कुतो न स्तौषीत्यतः सर्वेऽपि तवाज्ञाकारिण इत्याह॥ सर्व इति। सत्त्वधानो ज्ञानानंदपूर्णस्य तव ब्रह्मादयः सर्वेऽप्यमी वयमिव विधिकरा आज्ञाकारिणः। हि शब्देन विष्णोस्तिष्ठंति प्रदिशेति श्रुतिप्रसिद्धिं द्योतयति। उद्विजंतश्चत्मरक्षणोद्योगप्रयुक्तभयवंतश्च न। तव सर्वव्याप्तत्वज्ञानेनात्मगोपायनेच्छाभावात्। ततो न विजुगुप्सत इति श्रुतेः। भगवद्विक्रीडितस्य प्रयोजनमाह॥ क्षेमायेति। अस्य भगवतो रुचिरावतारैर्विक्रीडितं क्षेमाय ब्रह्मादिरक्षणाय लक्ष्म्या भूतये भूत्यै। उतात्मसुखाय स्वस्य पूर्णानंदत्वज्ञापनाय भवतीति योजना। सोऽय विहार इह मे तनुभृत्स्वभावसंभूतये भवति भूतिकृदेवेति स्मृतेः

॥१३॥ यदर्थं ब्रह्मणा प्रेषितस्तत्मार्थयते। तदिति। च यस्मादसुरस्त्वयाऽद्य हतः। साधुरपि स्वयमहिंसाशीलोऽपि वृश्चिकमं॥२९॥ सर्पायमाणदैत्यहननेन मोदेत मोदते। लोकाः प्रजाश्च निर्ऋतिमानंदमिताः प्राप्ताः। तत्तस्मात्। हे नृसिंह। मन्युं कोपं यच्छ नियच्छ शांतं कुरु। प्रसन्नेन च त्वयाऽनुज्ञाता आयाताः सर्वे देवाः प्रतियांतु। जनाश्च विभवाय दुरितादिनिष्टत्तये तव रूपं स्मरति स्मरन्विति योजना। कोपं प्रति साक्षात्प्रयोजनस्यासुरहननस्य परंपरया प्रयोजनस्य साधुमोदलोक निर्ऋत्यादेश्च जातत्वात्कोप शामयेति भावः॥१४॥ त्वमेव भीतः कोपशांतिं प्रार्थयसे किं भीतिकराचावयवाः का इत्यतस्तादृशावयवतया तथा रूपं विशिष्याभयंकरस्य करस्य शिरसि निधानान्नाहं बिभेमि। किंतु लोको विभेतीत्याशयेनाह॥ नाहमिति। हे अर्जित। अतिभया- नकस्यातिभयंकरस्य ते तव। रूपादिति शेषः। तस्मान्नाहं विभेमीति योजना। रूपं विशिनष्टि। अभियुक्त नेत्रे ऽभिनेत्रे ते च भृकुटी चाशिनेत्रभृकुटयः। जिव्हाः कुटिलाच ता अग्निनेत्र भृकुटयश्च तासां रभसं यस्मिंस्तत्। उग्रे दंष्ट्रे यस्य तत्। तच्च तदुग्रदंष्ट्रं च तस्मात्। अनेनानियुक्तत्वाज्जिव्हात्वाच्च नेत्रयाः। जिव्हात्वाच्या उग्रत्वात्तीक्ष्णाग्रत्वाद्दष्टयोर्भयंकरत्वमुक्तं भवति आंत्रस्सृज आंत्राणां सृक् यस्मिंस्तत्। आंत्राणामेव भयंकरत्व। सृजस्तु सुतरामिति भावः। क्षतजयुक्तानि रक्तयुक्तानि केसराणि यस्य तस्मात्। शंकुवत् स्थूणवन् स्तब्धौ कर्णौ यस्य तस्मात्। क्षतजकेसरं च तच्छंकुकर्ण च। निन्हादेन ध्वनिना भीता दिगिभा यस्य तस्मात्। अरिं भिंतीत्यरिभिदि तानि नखाग्राणि यस्य तस्मात्॥१५॥ मद्रूपायाभावेऽपि तव कस्माद्भयं तत्परिहारोपायं वा किमिच्छसीत्यत आह॥ त्रस्त इति। हे उशत्तम। वश कांतौ। कांतिरिच्छा मोघस्वतंत्रेच्छा। कृपणवत्सल। दुःसहादुग्रात्संसारचक्रात्माप्त यत्कदनं विषयाभिलाषस्तदमाहिरूपचिंता तथा कृशतां शोषणं प्रणीतः प्राप्तः। स्वकर्मभिर्बद्धो वर्गीकृतः। अत एवाई त्रस्तोऽस्मि। एवं भीतानामपवर्ग मोचकमरर्ण रक्षकं तेंऽप्रिंमूलं कदा नु समियामिति योजना। अनेन संसाराद्भयं तत्परिहाराय त्वदंघ्रिमलप्राप्तीच्या स्तीत्यतं भवति॥१६॥

यदौषधं तदपि दुःखमेवेति योजना॥१७॥ किमनेनापि दास्ययोगेन सर्वदुर्गाणि तरसि किमित्यत आह॥ सोऽहमिति। हे नृसिंह। सः संसारे क्लिश्यमानोऽहं प्रियस्य सुहृदः परदेवतायास्तव विरिचगीता लीलाकथा अनुगृणन् योग्यतानुसारेण गृणन्। गुणविप्रमुक्तत्रैगुण्यलक्षणपाशाद्विमुक्तस्ते पदयोर्युग पदयुगं तदालयो येषां ने हंसा नारदादयस्तन्संगवान्सन् दुर्गाण्यंजस्तरामीति योजना॥१८॥ प्रियम्येत्यनेनेष्टत्वमुक्तं। तदृष्टांतमालयोपपादयति॥ बालस्य चेति। च शब्दोऽनुक्तस्य पांथस्य समुच्चये। यदित्यस्य यद्वदित्यर्थः। इष्ट शब्दस्य लिंगविपरिणामादिना प्रत्येकमन्वयः। त्वमिति शेषः। एवं च। हे प्रभा नृसिंह। पांथस्य शरणं गृहमिष्टं यद्वदेवं बालस्य पितरौ। आर्त्तस्य रोगात्तस्यागदमौषधं। उदन्वति समुद्रादौ मज्जतो नौर्नौका। तप्तस्य घर्मतप्तस्य तर्पणविधिः शीतलोदकपानविधिः। त्वदुपासकानां तनुभृतां त्वं तद्वदजसेष्ट इति योजना। इष्टत्वेपि वैलक्षण्यद्योतनाया संधिः॥१९॥ उक्तरीत्या ममेष्टत्वेऽपि स्वातंत्र्याभावात्कथं फलं दास्यामित्यितः स्वातंत्र्यं वर्णयति॥ यस्मिन्निति। अत्र सर्वकारकाणां सप्रभेदानां प्रकाराणां च भगवदधीनत्वमुच्यते। परो ब्रह्मादिः। अपरः स्वर्णकारादिः। तथा च यः पशे ब्रह्मादिः पृथक् स्वभावः। भवता संचोदितः। यस्मिन् ब्रह्मांडे। यतः पांचभौतिक पद्मलक्षणोपादानात्। उपादानाव. शिष्टभागस्यापादानत्वं। यहिं सृष्टिकाले कालदेशभेदेनाधिकरणं द्विविधं। येन निमित्तभूतदृष्टादृष्ट करणेन यस्य जनस्य संबंधि। शेषत्वं षष्ठ्यर्थः। यस्मै देवसमूहाय। यथा येन संस्थानविशेषादिप्रकारेणायं भावं चतुर्दशलोकादिकं करोति। उत्पादयति। विकरोति विविधं करोति। यश्चापरः स्वर्णकारादिः। तत्राप्येवं द्रष्टव्यं। तदखिलं भवतः स्वरूपं सर्वात्मना त्वदधीनमिति योजना। अत एव तात्पर्य॥ कर्तृकर्मक्रियादीनां सत्तावृत्तिस्तथैव च। विष्ण्वधीनं यतः सर्वं सर्वरूपस्तदुच्यत इति ब्रह्मतर्फे॥ सत्ता स्वरूपसत्ता। वृत्तिः प्रवृत्तिः। अर्थक्रियाकारित्वं। प्रमितेरप्युपलक्षणमेतत्। सर्वरूप इति बहुव्रीहिः। सर्वस्वरूप उच्यत इत्यर्थः। अनेनाधीनं स्वरूपमुच्यत इत्युक्तं भवति॥२०॥ भगवत्यसादमंतरा मनोमूलस्य संसारचक्रस्य दुस्तरत्वमाह॥ मायेति। माया चित्प्रकृत्यनुगृहीताऽचित्प्रकृतिचोदितगुणानुमतेन भगवत्प्रेरितसत्त्वानुगुणानुकूल्येन पुंसः कर्ममयं पुण्यपापादिकारणीभूतं छंदोमयं संकल्पविकल्पाद्यात्मकं बलीयो दुर्निग्रहं मनः सृजति। यन्मनोऽजया प्रकृत्याऽर्पितषोडशारमर्पितानि षोडश दशेंद्रियाणि पंच-

प्राणा मनश्चेति। अराणि यस्य तत्। संसारचक्रं। षोडशारमध्ये पतितस्यापि मनसः प्राधान्यात्तस्यैव संसारचक्रत्वाभिधानं। एतत्। हे अज। त्वदन्यः कोऽतितरेदतितारयेत्। अंतर्णित णिच्। इति योजना। त्वमेव मनोनिग्रहादिकं कारयित्वोत्तमप्रसादमासाद्य संसारचक्रं तारयेति भावः। षोडशार पदस्य पृथङ्मनोग्रहणस्य च तात्पर्यं कथितं तात्पर्ये॥ दशेंद्रियमाणमनोऽरं। मूलं मन एव संसारचक्रस्येति॥ दशेद्रियमाणमनोलक्षणषोडशारीमित्यर्थः। मन एव मूल प्रधानमिति तदेव संसारचक्र मितिकथितमित्यर्थः॥२१॥ उक्तविधसंसारचक्रे स्वस्य निष्पीड्यमाणत्वमुक्त्वा ततोऽपकर्ष प्रार्थयते॥ सत्त्वमिति। हे विभो ईश्वर नृसिंह । त्वं स्वधान्ना खसामथ्येनैव नित्यविजितात्मगुणो नित्यविजिता दूरनिरस्ता आत्मनो देहस्य गुणाः स्वरूपोत्पत्तिध्वंसादयः। जीवस्य वा देहयोगवियोगादयो येन सः। कालः कलयति सर्वमिति सर्वज्ञः। वशीकृतविसृज्य विसर्गशक्तिर्वशीकृतास्वाधीना विसृज्यानां जीवानां विरिचादिगता विसर्गशक्तिर्यस्य सः। अजया प्रकृत्या षोडशारे चक्रे विसृष्टं निष्पिड्यमाणं च मां त्वां प्रपन्नं ततोऽपकर्णेति योजना॥२२॥ देवताविभव। पहर्ता त्वया हत इति स्तौति॥ दृष्टा इति। हे विभो नृसिंह। अखिलधिष्ण्यपानामिंद्रादीनां। आयुर्मन्वंतरायुः श्रियत्रैलोक्यसंपदो विभवो हिरण्यलक्षणो योऽर्थ एते ये दिवि मया योगदृष्ट्या दृष्टाः। याच यान् जन इच्छति। ते यस्या अस्मत्पितुः कुपितहासो दुष्टहासस्तेन विजूभितयोर्विस्मृतयोर्भुवोर्विस्फूर्जितेन चेष्टाविशेषेण विलुलिता विनाशिताः। स तु तादृशो दैत्यस्त्वया निरस्त इति योजना॥२३॥ ससारतरणमेव किं प्रार्थयसे। आशिषः प्रार्थयस्त्रेत्यत आह। तस्मादिति। हे नृसिंह। उरुविक्रमेण दुर्निरसनसामर्थ्येन कालात्मना कालनामकेन ते त्वयाऽऽशिषो विलुलिता भवति। तस्मात्स्वर्गमारभ्याविरिंचाद्विरिंच लोकपर्यंतं। अनुभूयमाना आयुः श्रियमैंद्रियमिंद्रियभोग्यं विभव एतल्लक्षणास्तनुभृतामनूराशिषः। ज्ञः। मन्वंतरायुषः स्वर्ग्या महलोंके तु काल्पिका इत्यादिना कालपरिमितत्वं जानन् अहं नेच्छामि। अतो निजभृत्यपार्श्व माम्रपनयेति योजना॥२४॥ कालपरिमितत्वोत्स्वर्गाद्याशिषामिच्छा. माभूत्। इह लोके आशिषः कुते॥

मृगतृष्णासु मरुमरीचिकासु जलं पास्यामीत्याशयमात्रं। न त्वर्थक्रियाकारि अत एव मृगतृष्णरूपा इत्युकं। ह्रस्वश्छांदसः। संतु वा क्वचिदाशिषस्तथाऽपि तद्भोगायेदं कलेवरं क्व। तद्भोगक्षमं न भवतीति भावः। कुत इत्यत आह। अशेषरुजां सर्वरोगाणां विरोहं विशेषोत्पत्तिकारणं। तर्हि लोको न निर्विद्यते कुत इत्यत आह॥ निर्विद्यत इति। यदपि यद्यप्येवं तथाऽपि कामानलं दुरापैरायाससाध्यैर्मधुलवैर्विषयलक्षणाज्यबिंदुभिः शमयन् भवानीति विद्वान् जनो न निर्विद्यते न विरक्तो भवतीति योजना। भ्रांतो लोक इति भावः। अनलत्वदुरापत्वमधुलवत्वाद्युक्तिर्वस्तुस्थितिप्रदर्शनं। न तु भ्रांतस्यैवं ज्ञानमिति न मंतव्यं॥२५॥ भक्तवात्सल्यद्योतनाय स्वमिन् भगवदनुकंपोत्पत्तेराश्चर्यकरत्वमाह॥ काहमिति। हे ईश। तमोऽधिके रजःप्रभवे विषयरागोत्पादकेऽस्मिन्सुरेतरकुले जातोऽहं क्व। एतादृशे मयि तवानुकपा क्व। असुरकुलसुरोत्तमयोविरुद्धत्वादाश्चर्यमेतत्। भक्तवत्सलत्वादेवेयमनुकंपेति भावः। स्वस्मिन्कृतः प्रसादो नान्यत्रेत्यसुरजनमोहायाह॥ नेति। मे शिरस्यर्पितः पद्मकरप्रसादः पद्मोदरनिभपाणिनिघानलक्षणो यद्यः सः। न ब्रह्मणो न तु भवस्य न वै रमाया इति योजना। वस्तुतस्तु मे इदानीमर्पितस्तेषु सदाऽर्पितो मदपेक्षया भक्तिज्ञानादेः सुखस्य च तेषु सृतौ मुक्तावप्याधिक्यात्। तारतम्यस्य सर्वथाऽप्यपनेतुमशक्यत्वात्। अत एव तात्पर्यं॥ रमादीनामिदानीं नार्पितः। रमादीनामधिकोदयोऽपि सेवाधिकत्वादेव। श्रीब्रह्मब्राह्मीवीद्रादित्रिकतत्त्रीपुरुष्टुताः। तदन्ये च क्रमादेव सदायुक्तौ सृतावपि। हरिभक्तौ च तत्ज्ञाने सुखे च नियमेन तु। परतः स्वतः कर्मतो वा न कथंचितदन्यथेति ब्रह्मतर्के॥ किं तु सर्वदाऽर्पित इति ग्राह्यं। अधिकोदयोऽपि सुखादिलक्षणं। अभ्युदयोऽपि सेवाऽधिकत्वात्। ज्ञानभक्त्यादिलक्षणसाधनाधिकत्वात्। ब्राह्मीवींद्रेति हस्वश्छांदसः। ब्रह्मब्राह्मीपदाभ्यां वायुभारत्यावपि ग्राह्ये। वींद्राद्रित्रिकं गरुडशेषरुद्रत्रयं। तत्स्त्रियः सौपर्णीवारुणीपार्वत्यः। पुरुष्टुत इंद्रः। कामोऽप्युपलक्षणीयः। तदन्ये सूर्यादयः परतो वरशापादिना स्वतः स्वभावतः कर्मतोऽत्युत्कटतप आदितः। तत् तारतम्यं॥२६॥ भक्तिरेव भगवत्प्रसादे निमित्तमिति गूढाभिसंघाय देवविरुद्ध कुले जाते मयि तवानुकंपेत्येतदाश्चर्यमित्युक्तं। अधुनाऽभिसंधिमुद्घाटयति॥ नैवेति। जंतोर्जनस्य परावरमतिः स्वकीयपरकी यजातिविषयिणीमतिर्यथा प्रसादहेतुस्तथा जगत आत्मसुहृदो भवत एषा मतिर्न प्रसादहेतुः स्यान्ननु। नन्वेतन्मतेः प्रसादहेतुत्वाभावे किं निर्निमित्तः।

प्रसाद इत्यत उक्तं॥ तथाऽपीति। तथाऽप्येतादृशमतेर्हेतुत्वाभावेऽपि। जातिविवेकमंतरा ससेवया सुरतरोरिव ते प्रसादोऽपि संसेवयैव। सोऽप्यनेकमकार इत्याह। सेवेति। उदयः सेवानुरूपो भक्त्यनुसारी। न तु परावरत्वं परावरत्वकारणक इति योजना। रैमादीनामपि सेवाधिकत्वादेवेत्यादि तात्पर्यमत्राप्यनुसंधेयं॥२७॥ केनानुग्रहीतोऽसि येनेदृशी भक्तिस्तव जातेत्यत आह॥ एवमिति। हि भगवान् एवं कापानलमित्युक्तरीत्या प्रभवाहिकूपे प्रकृष्टभवलक्षणदुविषर्यरूपाहियुक्तरूपे निपतितं कामाभिकामं विषयाभिलाषिणं जनमनुसृत्यप्रसंगात्तादृशजनसंगात्प्रतपन्योऽहं सुरर्षिणाऽऽत्मसात्कृत्वा गृहीतोऽनुगृहीतः सोऽहं तव भृत्यसेवां कथं नु विसृज इति योजना॥२८॥ भक्तरक्षणाय दुष्टशिक्षणाय भक्तवाक्यपरिपालनाय च त्वदवतार इति स्तौति॥ मदिति। हे अनंत। मत्प्राणरक्षणं भवान्सर्वत्र व्याप्तो भक्तं रक्षतीति नारदोक्तं। असद्विधित्सुर्मदपरो मत्तोऽन्यो यदीश्वरस्तर्हि त्वामवतु। तव क शिरो हरामीति खड्गं प्रगृह्य यदवोचदस्मत्पिता तस्य पितुर्वधं च सर्वत्र व्याप्त इत्यादि स्वभक्तर्षिवाक्य ऋतं विधातुं कर्तुमवतीर्णं त्वां मन्य इति योजना॥२९॥ जगतो वैलक्षण्यं तत्स्रष्टृत्व च तवेति स्तौति॥ एक इति। अनंतेत्यनुवर्तते। हे अनंत। त्वमेवैको मुख्योऽभिन्नश्च। एतज्जगतोऽमुख्यं परस्परभिन्नं च। यतोऽमुष्य जगत आद्यंतयोर्मध्यतश्च प्रागभावध्वंसकाले स्थितिकाले च यथाक्रमं पृथक् अवस्यस्यवतिष्ठसि। धातूनामनेकार्थत्वात्। अनेकमुख्यत्वमेकत्वं चोक्तं। गुणव्यतिकरं गुणवैषम्यं। तत एव तदुपादानकं निजसामर्थ्येनेदं दृष्ट्वा तदनुप्रविष्टस्तैर्भिन्नैरधिष्ठानैस्त्वमपि नानेवावासितोऽसीति योजना। वस्तुतस्तु नानाऽधिष्ठानकस्त्वमेक एव। इंद्रोमायाभिः पुरुरूप इयते। प्रतिदृशमिव नैकधार्कमेकमित्याद्यागमात्॥३०॥ सृष्ट्वा गुणव्यतिकर इत्यनेन परमात्मजगतोर्भेदप्राप्तस्तर्हि सर्वं खल्विदं ब्रह्म भृतानि विष्णुर्भुवनानि विष्णुरित्यादावभेदव्यपदेशः कथमित्यतस्तद्गतिमाह॥ त्व वेति। हे ईश। सदसन्मूर्त्तामूर्त्तात्मकं चेतनाचेतनात्मकं वेदं जगत्तत्त्वं वा उच्यते। त्वद्वाचकेन ब्रह्मविष्ण्वादि शब्देन सामानाधिकरण्येनोच्यते। त्वदधीनसर्गादिमत्वात्। यदधीना यस्य सत्ता तत्तदित्येव भण्यते। इदं हि विश्वं भगवानिवेतरो यतो

देशोऽपि किं न स्यादित्यतः स्वातंत्र्यमेव नास्ति। तद्बुद्धेस्तु भ्रांतित्वमित्याह॥ मायेति। यद्याऽऽत्मनो जीवस्य परबुद्धिः परत्वबुद्धिः। स्वातंत्र्यबुद्धिरिति यावत्। सा मायाऽज्ञानजन्या। अत एव पार्थाऽयथार्था। अचेतनेऽभेदव्यपदेशस्योक्तगतावपि। तद्योऽह सोऽसौ सोऽहमित्यादौ चेतने भेदोक्तेर्नेयं गतिस्तदभेदस्यैव संभवादिति वाच्यं। चेतन प्रत्यपि जननादिहेतोर्भगवतश्चेतनेनाभेदायोगात्। तर्ह्यहं देवदत्तंश्च भगवानिति बुद्धिः कथमित्यतः सा च भ्रांतिरित्याह॥ यदिति। याऽऽत्मनः स्वस्य परस्य देवतादेर्बुद्धि भगवदभेदबुद्धिः साऽपि मायाज्ञानजन्या। अत एवापार्थाऽनर्थप्रदा च यज्जननादेर्यदधीनत्वं तस्य तत्सामानाधिकरण्यमिति सामान्यव्याप्तिमाह॥ यद्यस्येति। यस्य जन्मनि धनं स्थितिरीक्षणं ज्ञानं च यद्यतस्तदेव तत्सामानाधिकरण्यव्यपदेशभागेव खलु। वै प्रसिद्धं। उदाहरति॥ कालवदिति। दैववदिति उपलक्षणं। उष्टिर्वृक्षदाहः। उप दाह इति धातोः। तत्र कालाधीनत्वात्। काल शब्दो यथा प्रलयाग्नौ कालाग्निरिति व्यवहारस्तथा। यथा वा। तरौ कल्पवृक्षादौ दैवाधीनत्वाद्दैवतरुः सुरतरुरित्यादि तथेत्यर्थ इति योजना। एतत्सर्वमभिप्रेत्योक्तं तात्पर्ये॥ यथा वृक्षच वृक्षदाहश्च दैवकालाधीनत्वाद्दैवं कालथेत्युच्यते। एवं त्वदधीनत्वात्सर्वस्य सर्वं त्वमित्युच्यते। स्वतस्तद्भिन्नोऽपि। अहं चान्यश्च परमेश्वर एवेत्यपार्था भ्रांतिः। तदधीनत्वादेव स इत्युच्यते। न स्वरूपत्वादित्यर्थ इति॥ सुरतर्वादिकं दैवमुच्यते कालाग्न्यादिकं च काल इति चोच्यते। सर्वमित्युच्यते सर्वं ब्रह्मेत्युच्यते। इत्यर्थः। स्वतस्तद्भिन्नोऽपि तथाऽपि सर्वं ब्रह्मेत्युच्यते। यद्वा। अपि शब्दो हेतौ। यतः स्वतो भिन्नस्तत इत्यर्थः। अहं च परमेश्वर एवेति बुद्धिरपार्था भ्रांतिरित्यर्थः। आद्यंतयोः पृथगवस्यतीति प्रलयादिसृष्टिकाले स्थितिरुक्ता। तामेव विवृण्वन् स्तौति॥ न्यस्येदमिति। हे भगवन्। विलयांबुमध्ये इदं जगन्महदादि। आत्मन्युदरे न्यस्य शेषासनः। शिष्यत इति शेषं । प्रलयकाले विद्यमानं वटपत्रमासनं यस्य सः। भूत्वा कालविशेषाविवक्षया वा शेषासनो निजसुखानुभवो निरीहः सृष्टीच्छाव्यक्तिरहितः। पूर्णकामो वा। योगेनात्मसामर्थ्येन। स्वेच्छयैवेति यावत्। मीलितदृक्। कुत इत्यतो वस्तुतो वीतनिद्रः। तदपि कुतस्तुर्यस्थितः। ननु जीवस्य संसारेऽवस्थात्रयं। तुर्यावस्था भुक्त्यनंतरावस्था। भगवांश्च नित्यमुक्तः। तया तुर्ये मुक्त्यवस्थायामेव स्थितो विद्यमानः। एतदभिप्रायेण तुर्ये स्थित इति विग्रहः प्रदर्शितस्तात्पर्ये। अन्वनंतरं प्रलयचरमभागे आत्मनि स्वाधीनतया विद्यमानं तमः प्रकृतिमन्वनंतरं गुणांश्च

सत्त्वादिगुणान् युंक्ष्ये कार्योन्मुखीकरोषीति योजना॥३२॥ महाप्रलये विद्यमानेन भगवता पद्मनाभस्य निर्विशेषाभेदमुक्त्वा स्तौति॥ लस्यैवेति। तस्यैव प्रलयकालवर्तिना निर्विशेषाभिन्नस्यैव ते प्रकृतिधर्मिणः प्रकृत्यादितत्त्वसमुदायाश्रयस्यांभस्यनंतशयनादनंतशयनमधिष्ठाय विरमत्समाधेः समाप्नुवद्योगनिद्रस्य आत्मगूहमुदरे विद्यमानं निजा स्वाभाविकी। कलयतीति कालविषयिणी या शक्तिस्तया संचोदितं ते नाभेः स्वकणिकाद्ववद्वटांकुरमिव यन्महाब्जमभूदिदं ते वपुर्वपुस्थानीयं त्वद्वशत्वादिति योजना। अत्र कणिकाशब्दवाच्यस्य बीजस्य वटं प्रति विकारिकारणत्ववद्भगवन्नाभर्विकारिकारणत्वं न मंतव्यं। कणिका शब्दस्य बीजांतर्वर्तिदेवता परत्वात्। एतदेवाभिप्रेत्य तात्पर्यं॥ जगदात्मकमब्जमपि भगवद्वशत्वात्तद्वपुः। स्थावराणां तु सर्वेषां देवतायाभिमानिनी। विशेषाद्वटबीजे च साऽश्वत्थे च व्यवस्थिता। अदृश्या कणिका नाम सा वृक्षान्व्यंजयत्यपि। अतो बीजमिति प्रोक्ता साजातेऽप्यंकुरेस्थिता। एवं हरिः कारणेषु स्थितः कार्यजनेरनु। कार्याण्यनुप्रविष्टः सन् प्रथमं तत्र दृश्यत इति च॥ जगदात्मकमित्यनेन जडत्वं सूचितं। तद्वशत्वादिति निमित्तोक्त्या वपुः शब्दो गौण इत्युक्तं भवति। सा देवतांऽवु रोत्पत्तेः पूर्वं बीजे व्यवस्थिता संनिहिता। तत्रापि वटबीजेऽश्वत्थेऽश्वत्थबीजे च विशेषण व्यवस्थिता। तस्या एव कणिकेति नाम। न चैवं कणिकाया बीजत्वोक्तिरनुपपन्ना। व्यंजकत्वादिना तदुपपत्तेरित्याह॥ सा वृक्षान्व्यजयत्यपीति। न च बीजस्यांकुरतायां देवता क्व वर्तत इति वाच्यं। परिणामानंतरमंकुरे स्थित्युपपत्तेरित्याह॥ सा जातेप्यकुरे स्थितेति। हरेरप्येवं स्थितिमाह॥ एवमिति। प्रथमं कार्यजनने। पूर्वं तत्र कारणेऽनंतरं तत्र कार्ये दृश्यत इत्यर्थः॥३३॥ पूर्वश्लोके पद्मोत्पत्तिमुक्त्वाऽधुना ब्रह्मणः पद्मादुद्भवं पद्मोपादानगतरूपस्य पद्मादन्यत्रादर्शनं चाह॥ तदिति। तत्संभवः पद्मसंभवः कविः सर्वज्ञः सः प्रसिद्धो हिरण्यगर्भोऽतः पद्मादन्यद्वस्त्वपश्यन्। व्यंजकत्वाद्बीजशब्दवाच्यं। उपादानगत। वस्तुत आत्मनि स्वदेहभूते पद्मे ततमब्दशतमप्सु निमज्यमानः सन् बहिः पद्माद्बहिर्विचिन्वन् गवेषमाणो नाविंदत्। कुत इत्यत आह ॥जात इति।

विडंबनाय भगवत्प्रीत्यर्थमेव वा। अन्यथा कविरित्युक्तसर्वज्ञत्वाविरोधात्। उपादानाद्यनंतर्गतपद्मनाभदर्शनं तु तपसाऽस्त्येव। तृतीयस्कंधे तथैवोक्तेरित्येव मंतव्यं॥३४॥ बहिर्नाविंदादित्युक्त्या बहिरेवादर्शन। अंतस्तु दर्शनं जातमित्याह॥ स त्विति। हे ईश आत्मयानिः परमात्मकारणकः स हिरण्यगर्भः। तु शब्देन देवबांतराद्वौर्शष्यमाह। एकस्य हरेर्बहुधा जन्मास्तीति। अतिविस्मितो भगवद्विषयेऽत्यंताश्चर्यबुद्धिमान् अब्जमाश्रितः। कालेन भगवन्नियुक्तकालावच्छिन्नेन तीव्रतपसा परिशुद्धभावस्तादृशरूपदर्शनसमर्थमनस्को य इति काले तपस्यनुष्ठित एव ब्रह्मणा दृश्ये एवमिति भगवत्संकल्पादिति भावः। त्वां भूतेंद्रियाशयमये आशयो मनस्तत्त्वं भूतादिविकारे आत्मनि देहस्थानीये पद्मे भुवि गंधमिव गंधाख्यदेवतामिवातिसूक्ष्मं विततं व्याप्य स्थितं ददर्शेति योजना। अत एव तात्पर्यं॥ गंधाख्या देवता यद्वत्पृथिवीं व्याप्य तिष्ठति। एवं व्याप्तं जगद्विष्णुं ब्रह्मात्मस्थं ददर्श हेति चेति॥ जगद्व्याप्तं जगद्व्याप्यतिष्ठंतं। आत्मस्थं देहस्थानीयपद्मस्थमित्यर्थः॥३५॥ न केवलं पद्मांतर्गतसूक्ष्मरूपं बहिः पद्मनाभरूपं दृष्टवान्। किंतु पातालमेतस्य हीत्यादिनोक्तं विराड्रूपं दृष्ट्वा मुदमापेत्याह॥ एवमिति। अनंतार्थकसहस्रपदं वदनादेः सर्वस्य विशेषणं। मायामयं। एतच्च मायामयं ज्ञानस्वरूपमिति वा तात्पर्ये व्याख्यात। मायेत्युक्त्वा प्रकृष्टत्वात्प्रकृष्टं हि मयाभिदं। विष्णोः प्रज्ञप्तिरेवैकेति श्रुतेः। सदुपलक्षणसंन्निवेशं। एतदप्याजदादिलक्षणसमुदायरूपामिति तात्पर्ये व्याख्यातं । अथ कस्मादुच्यते सदिति। संतो ह्यस्मिन्नानंद ओजो बलमिति स्पष्टश्रुतेः। उप शब्दस्योपपन्नार्थकत्वात्। संनिवेश शब्दस्य संनिवेशश्व यस्तोमः समुदायो गुणः स्मृत इत्यभिधानात्॥३६॥ भवान्हयशिरस्तनुवं च विभ्रत् श्रुतिगणांश्च। तस्मै ब्रह्मणेऽनयत् रजस्तमः सत्त्वं च प्रियतमां तनुं प्रीतिविषयप्रतिमां। देवताप्रजेश्वरराक्षसादिषु स्थित्वा लीलाकर्तृत्वात्॥३७॥ भगवदवताराणां लोकविभावनधर्मपरिपालनदुष्टहननादिकमेव प्रयोजनमित्याशयेन स्तौति। इत्थमिति। हे महापुरुष। नरावतारो ऋषभादिः। तिर्यगवतारो वरहादिः नृतिर्यगवतारो नृसिंह इति वा। ऋषिः कपिलादिः। देवो यज्ञादिः। झषो मस्त्यः। लोकान्विभावयासि। ऐश्वर्य युक्तान्करोषि। जगत्पतीपान् दुष्टान्हंसि। धर्मं चतुष्पादं धर्मं पासि। युगानुवृत्तं कृताद्यनुवृत्तं। एतादृशस्त्वं । यतः कलौ छन उक्तमयोजनायावतीर्णः। अथ तस्मात्सः त्वं त्रियुगोऽभव इति योजना। उक्तप्रयोजनायेत्युक्तत्वात् दैत्यमोहनाय बुद्धावतारेऽपि

न दोष इति मंतव्यं॥३८॥ इंद्रियेषु मनसः प्राधान्यात्तन्नैर्मल्यकामस्तद्दोषं वक्ति॥ नैतदिति। हे बैकुंठनाथ। एतदेतादृशं मनस्तव कथासु न संप्रीयत इति क्रियाकारकयोजना। कीदृशमित्यतः पंचविशेषणैर्मनसो दोषमुक्तं। तीव्रं वेगेन विषयसंचारवत्। ईषणं दारापुत्रवित्तादीच्छा। भवत्वेवं किं तेऽनिष्टमित्यत आह॥ तस्मिन्नित्यादि॥३९॥ मनस उक्त्वेतरेंद्रियाणां दोषं वक्ति॥ जिव्हेति। हे अच्युत। मा मामेकत्र स्वविषये रसास्वादनेऽवितृप्ताऽलंबुद्धिरहिता जिव्हा विकर्षति। तद्विषयकरागवंतं करोति। एवमुत्तरत्रापि मां धिकर्षतीत्यनुवर्तनीयं। विषयवाचिपदाभावस्थलेऽन्यत इति। उदरस्यानिद्रियत्वेऽपि अशनाया लक्षणबुभुक्षाजनकत्वेन तदुक्तिः। उक्तेतरपाण्यादिसमूहः सपत्न्यः स्वस्य विषये गेहपतिं यथा लुनंति तथेति योजना॥४०॥ एवं संसारपतित्वं स्वस्योक्त्वा भववैतरण्याः पारगमनं प्रार्थयते॥ एवमिति। पश्यन्नित्यस्य विभक्तिव्यत्ययेन पश्यंतमित्यर्थो बोध्यः। द्वितीयांतानि जनस्य स्वस्याऽपि विशेषणानि। तथा चैतद्विशेषणविशिष्टं जनं पश्यंतं। एतद्विशेषणविशिष्टं मां पश्यंस्त्वं पारं वैतरिण्याः पारं तीरमतिपीपृहि अतिशयेन गमयेति योजना। पिपर्तेर्धातूनामनेकार्थत्वाद्गमनार्थत्वं। अभ्यासदीर्घश्छांदसः! अलिट्यपि कितिचिद्रूपां प्हस्वो वेति प्हस्वश्च। वैतरिण्यां पतितमित्यन्वयः। परस्परं जननमरणं च भवतीति तल्लक्षणान्यतिशयेन भीतं। स्वपरविग्रहयोर्देहयोर्यथायोग्यं वैरमैत्रे यस्य तं। मूढसत्त्वं पारगमनोपायाज्ञं प्राणिनं। हंतेति भगवद्दर्शनाल्हादास्वादने॥४१॥ पूर्वत्र भववैतरिण्या उत्तारणा प्रार्थिता कथमुत्तारणं करोमीत्यत आह॥ क इति। जगत उत्तारणं किमशक्यत्वान्न करोषि। उत प्रयोजनाभावात् । द्वितीयेऽपि किं पर प्रयोजनाभावाद्वा। आद्ये आह। हे अखिलगुरो। आर्त्तबंधो भगवन्। अस्य जगतो भवसंभवलोपहेतोर्भव उत्पत्तिः संभवः सम्यक् स्थितिलोपो नाशस्तद्धेतोस्तेऽत्र जगद्विषये उत्तारणे कः प्रयासः। अन्याधीनोत्पत्त्यादिके प्रयासः स्यात्। त्वदधीनोत्पत्त्यादिके तव न कोऽपि प्रयास इति भावः। द्वितीयेऽपि परप्रयोजनमस्तीत्याह। मृढेषु उत्तारणोपायाज्ञेषु भक्तेषुत्तारणकरणं महदनुग्रहो महाननुग्रहः। आत्वस्यानित्यत्वादभावः। आत्यंतिकदुःखोच्छेदस्वरूपानं-

नुसारेण फलदानेन सेवमानः। ताच्छील्ये शानच्। भक्तेषु फलप्रदानस्वभाव इति योजना॥४२॥ एवं माहात्म्यं ज्ञात्वा स्तुवतस्तव निश्चिते उत्तारणे कुतः संसारादुद्वेग इत्यतो न मदर्थं प्रार्थये। किं तु संसारलोलुपयोग्यजनायेत्याह॥ नैवेति। त्वत्तीर्थस्य वेदांतादिशास्त्रस्य गायनमहामृतेन मत्तचित्तः सुखीकृतचित्तोऽहं भवलक्षणाया अत्येतुमशक्याया वैतरण्या नोद्विजे। किं तु ततो भगवतो विमुखचेतस इंद्रियार्थजन्यप्रकृत्यात्मकसुखाय भरं संसारभरमुद्वहतो विमूढान् भक्तान् शोचे। कथमुत्तारयेदिति चिंतयामीति योजना॥४३॥ नाहमुद्विजे किंतु अन्यान्योग्यान् शोच इत्यनेनान्योत्तरणा प्रार्थिता। एवमन्योनुकंपा कुतो मत्प्रसादेन तव मोक्षो भवति। अन्येषां भवान्वा मोक्षोऽन्यप्रसादेन भवेदित्यत आह॥ प्रायेणेति। अन्यत्रानुकंपा कुत इत्यस्योत्तरं। एतानाश्रितान् अनुल्हादादीन् दैत्यबालकान्विना एको न विमुमुक्षे मोक्तुं नेच्छामि। एवं चाश्रितत्वादनुकपाऽस्तीति भावः। अन्यप्रसादेन भवेदित्यस्योत्तरं। संसारे भ्रमतोऽस्य जगतस्त्वदन्यशरणं न पश्य इति। सर्वेषामपि त्वत्प्रसादो मोक्षसाधकः। न कस्यापि कस्यचिदिति भावः। अत्र देवमुनयः स्वविमुक्तिकामा विजने तप आदिकं चरंति। न परार्थनिष्ठा इत्यनेन देवादीनां स्वाश्रितेषु प्रसादो नेति मंतव्यं। देवानां प्रसादाभावे इंद्रियप्रेरणाभावे साधनानुष्ठानायोगात्। मुनीनां प्रसादाभावे तद्द्रष्ट्वेदानां तत्कृतकल्पसूत्राणां च प्रचाराभावेन वैदिककर्मानुष्ठानुपपत्तेः। किंतु तत्त्वाद्यनियामकानां साधारणदेवानां वेदाद्यद्रष्टृणां विशेषतः स्वेतरयोग्यजन मोक्षे निर्भरोऽस्तीति। अत एव प्रायेणेत्युक्त। तदर्थे तात्पर्यं॥ प्रायेण देवमुनयः। आश्रितेषु कृपा कार्या विशेषात्तात्विकैः सुरैः। मुनिभिश्च तथा कैश्चित्कैश्चित्कार्याखिलेष्वपि। तथाऽपि तात्विकसुर कृपाविषयतां गताः। एत एव विमुच्यंते तदन्ये न कथंचनेति च प्रमाणमुदाहृतं। तथा चेंद्रियप्रेरणाय स्वोपजीवकेष्ववश्यं तात्विकैर्विशेषाद्दया कार्येति भगवत आज्ञा। तथा कैश्चित्प्रबलैर्मुनिभिः स्वदृष्टवेदादिनाऽऽश्रितेषु स्वोपजीविकेषु विशेषतो दया कार्येति भगवतोऽनुशासनं। कैश्चित्तद्भिन्नैः साधारणैरखिलेष्वपि। अपिरभिव्याप्तौ। साधारण्येन सर्वेषु गोब्राह्मणेभ्यः शुभ भवतु। ब्राह्मणाः संतु निर्भया इत्यादिरूपेणैव साधारणदया। न च देवादीनामपि साधारण्येन दयाऽस्तीति तथैवालमिति मंतव्यं। यद्यप्यस्ति तथाऽपि विषयतः। तात्त्विकसुरकृपाविषयतां गता एव विमुच्यंते नान्यथेति साऽऽवश्यकी। प्रकृते तु दैत्यबालानां स्वाश्रितत्वात्तेषु स्वस्य विशेषतो दयाऽ-

स्तीति तदुत्तारणप्रार्थना युक्तेति भावः॥४४॥ एवं मोक्षयलेन मनोनिग्रहः कार्यः। तस्मिन्कार्ये तु वनितादि विषयजो मनसिजो बाधते। तत्सुखं च न लभ्यते। अतः कथं कार्यमित्यतस्तादृशं सुखं तुच्छं दुःखबहुलं चातः करयोः कंडूत्या भवत्सुखमल्पं। अनंतरं दुःखमधिकमतो यथा कंडूतिं सहते प्रेक्षावांस्तथा धीरः कामं विषहेतेत्याह॥ यदिति। तदिति शेषः। हि शब्देन तुच्छत्वप्रसिद्धिमाह। देहकृपणा देहमात्रपोषणाः॥४५॥ मनसिजं विषहेतेत्यतेन निग्रहपूर्वकं भगवच्छरणागतिः कर्तव्येत्युक्तं। इदानीं मौनादीनां समाध्यंतानामपवर्गसाधनानामपींद्रियनिग्रहपुरःसरभक्तभावे जीवनमात्रसाधनत्वं तदपि कचिन्नास्तीत्याह॥ मौनेति। हे पुरुष। मौनादयः समाध्यंता आपवर्ग्या अपवर्गहेतवः प्रायः। परं परंतु। अजितेंद्रियाणां दांभिकानां मनोनिग्रहाभावेऽपि बाह्यव्यापारमदर्शकानां ते मौनादयोऽत्र लोके देहभरणोपाया भवंत्युत न वा भवंति। बाह्यव्यापारेण मनोनिग्रहभ्रांतौ पूजयंति। वितादिक वितरंति। मनोनिग्रहाभावज्ञाने तु न किमपि ददति। प्रत्युतापहसंतीति भावः॥४६॥ इंद्रियनिग्रहं विना मौनादेरप्रयोजकत्वमुक्त्वा इंद्रियनिग्रहस्यावश्यकत्वमुक्तं। तेन साध्यमुपासनं क्व कर्तव्यमित्यत आह॥ रूपे इति। बीजांकुराविव कार्यकारणभूते। सदसती। मूर्तामूर्ते । द्वेवाव ब्रह्मणो रूपे मूर्त चामूर्तं चेति वेदद्रष्ट्रे। इमे तव रूपे। प्रतिमास्थानीये शरीरे इव त्वद्वशत्वात्। वस्तुतो रूपे एव किं न स्यातामित्यत उकं। न चान्यदरूपकस्य। अरूपमक्षरं ब्रह्मेत्यादिश्रुत्या प्राकृतरूपरहितस्य अन्यत्प्राकृतरूपं न च। रूपं नैव। उपासनाऽधिकरणत्वं कथमनयोरित्यत आह॥ युक्ता इति। योगेन मथना द्युपायेन दारुषु वन्हिमिव। योगेन ध्यानयोगेन युक्ताः समाधिशीलाः। उभयत्र कार्यकारणयोस्त्वां समक्षं विचक्षते। तथा च ध्यानेनात्र तव प्रत्यक्षत्वादनयोः प्रतिमात्व युक्तमिति भावः। ध्यानयोगादन्यस्य प्रत्यक्षोपायत्वं नास्तीत्याशयेनान्यतः कर्माद्युपायात्तवेक्षणं न स्यादित्युक्तं। एतदभिप्रेत्योक्तं तात्पर्ये॥ कार्यकारणरूपे तद्वशत्वापेक्षया साक्षात्सरूपापेक्षया स्वरूपादन्यद्रूपं

तेत्यनुग्रहः। चिच्चासावनुग्रहश्च। योग्य जीव इति यावत्। वायुरित्यादौ सर्वत्र त्वमिति संबंधः। त्व तदधीनमित्यर्थः। यदधीना यस्य सत्तेत्युक्तेः॥ यस्य पृथिवी शरीरमित्युक्तेः। यस्यात्मा शरीरमित्यादिनांऽतर्यामिब्रह्मणः पृथिव्यादेः शरीरस्थत्वोक्तेः। उपलक्षणमेतत्। प्रकृत्यादिकं सर्वं त्वमेव त्वदधीनमेव। एवं च सगुणो ज्ञानान्दादिगुणः। विगुणस्त्रैगुण्यवर्जितः। मनोवचसा निरुक्तं सर्वमपि त्वदन्यथा नास्ति। अनधीनप्रवृत्तिमान्नेत्यर्थः॥४८॥ युक्ताः समक्षमुभयत्र विचक्षते त्वामिति कार्यकारणात्मकप्रपंचलक्षणप्रतिमायामुपास्य प्रत्यक्षीकुर्वतीत्युक्तं। तच्चोपासन न साकल्येन। तदभिमानिदेवानामपि साकल्येन ज्ञानाभावेनेतरेषां कैमुत्यन्यायेन साकल्येनोपासनाभावात्। किंतु यथाशक्त्युपास्य साक्षात्कृत्य संसाराद्विरमंतीत्याह॥ नैतदिति। हे उरुगाय विष्णो। ये गुणा गुणत्रयाभिमानिनो गुणिनो गुणविकारमहदाद्यभिमानिनो मनः प्रभृतयस्तदभिमानिनः सह देवमर्त्याः। रूपांतरेण विद्यमानैर्देवैर्मत्यैर्ऋषिभिश्च सहिता आद्यंतवंतः सृष्ट्यादौ प्रलये चोत्पत्तिविनाशवंतः। बहुकालीना इति यावत्। एते सर्वे सुधियस्त्वां साकल्येन न विदंति। एवं विमृश्य निश्चित्य। अन्येधिकारिणः शब्दाद्वेदात्सर्ववेदांतप्रत्ययन्यायेन यथायोग्यं श्रुत्वा मत्वा ध्यात्वा साक्षत्कृत्य च संसाराद्विरमति। एवं निश्चिनोमीति योजना॥४९॥ सुधियः संसारादिरमंतीत्युक्तं। सुष्टुध्यानं च भक्तिज्ञाने विना न भवति। भक्तिज्ञाने च षढंगसेवया विना न भवत इति प्रदर्शयति॥ तत्त्वे इति। तत्त्वे ध्यातव्ये योग्यगुणविशिष्टे रूपे मनः। तथा च मनसा ध्यानं। मनोंगकसेवा। दर्शने दृक्। स्तुतौ च वाक्। पूजादिकर्मणि करौ। कथायां श्रवणं। क्षेत्रानुगमने च पादाविति वक्तव्यं। चरणौ तौ तु सफलौ केशवालयगामिनावित्यन्यत्रोक्तेः। एवं प्रकारेण षडंगया सेवया विज्ञा जनः परमहंसगतौ परमहंसानां गतावाश्रयभूते त्वयि भक्ति लभेत्। किं साधनांतरभावान्नान्पोतीति योजना॥५०॥ एवं वर्णितो भगवान् शांतमन्युरभूदित्याह॥ एतावदिति। योजना तु स्फुटा॥५१॥ नृणां भक्तानामहं कामपूरस्तदप्रेक्षितकामपूरकोऽस्मि॥५२॥ प्रसादं विना दर्शनमेव दुर्लभं। दर्शनानंतरं च संसारे तत्पुनर्नार्हतीत्याह॥ मामिति। अप्रीणतोप्रीणयतः॥५३॥ नानाविधश्रेयस्कामाः प्रीणति प्रीणयंति। त्वमपि स्तोत्रेण मामप्रीणयः। अतो वरं वृणीष्वेति भावः॥५४॥ एवं प्रलोभितत्वेऽप्येकांतत्वान्न वरमवृणोदित्याह॥ एवमिति। तान्वरान्॥५५॥ इति श्रीभागवत-

टिप्पण्यां मंदनंदिन्यां नवमोऽध्यायः॥७—९॥

॥हरिः ॐ॥ भक्तेरेव पुरुषार्थहेतुत्वमिति तात्पर्यद्योतनाय पुनरत्राप्युच्यते। वरैर्लोभितः प्रल्दादः किमित्यतो नेत्याह नारदः॥ भक्तियोगस्येति। यत्काम्यं तत्सर्वं भक्तियोगस्यांतरायतया मन्यमानोऽर्भकः स्मयमानो हृषीकेशमुवाच होति योजना। अर्भकस्याप्येतादृशं दार्ढ्यर्माश्चर्यामिति हेत्यनेनाह। मनसि विद्यमानं जानन् अपि वचसा प्रलोभयतीति स्मयमानत्वं॥१॥ उत्पत्त्या स्वत एव कामेषु सक्तं मां पुनर्वरैः काम्यैर्मा प्रलोभय। विषयासक्तं प्रति गुरुणा पुनर्विषयासक्तेरुपदेशस्य कर्तुमनुचितत्वात्। इदं च विषयासक्तत्वकथनं भक्ते नैवं वक्तव्यत्वात्। वस्तुतो विरक्तः प्रल्हादस्तत्संगभीतत्वाच्च पुनस्तत्संगोपदेशोऽनु चित इत्याह॥ तत्सगभीत इति॥ २॥ अनुचितं प्रलोभनं कुतो हरिः कृतवानित्यत आह॥ भृत्येति। हे प्रभो। हृदयग्रंथिषु मनोबंधकेषु संसारबीजेषु कामेषु भवान् भृत्यलक्षणजिज्ञासुर्भक्तस्य दाढ्यैमन्येषु जिज्ञासयिषुश्चोदयात्। लोड् वचनेन प्रतिपादयतीति योजना। वचसा प्रलोभने काम्यावरणे भक्तोऽयं दृढ इति लोको जानातीति भावः॥३॥ भक्तलक्षणज्ञापनमेव वरं वृणीष्वेत्युक्तवचनप्रयोजनमित्युपपादयति॥ नान्यथेति। अन्यथा वस्तुतो वचनाभिप्रायो न घटते। अत्र हेतु द्वयं। अखिलगुरोः करुणात्मन इति। आश्रित इति पूर्वोक्त्याऽखिलेत्युक्त्या च शिष्यत्वं समर्थितं। दयाविषयत्वं समर्थयते॥ नष्टदृष्टेरिति। संसारलक्षणेंऽधे तमासे नष्टदृष्टेः पारदर्शिनः पारं दृष्टुकामस्य त्वमेव पारः पारदशक्तश्चेति योजना॥४॥ आशीराशासने भृत्यत्वमेव नेत्याह॥ यस्त इति। ते सकाशात्। योजना तु स्पष्टा। स आशिष आशासानो वणिग्वै। शर्करादिकं दत्वा द्रव्याशासान वत्। स्वंकृतं सुकृतं समर्प्य फलाशासनवत्वात् उक्तभक्तत्वनिषेधन समर्थनाय स्वामिभ्रत्ययोः सामान्यतो लक्षणमाह॥ स वै स्वामीति। गुणलुब्धौ स्वामीभृत्यगतभक्त्यादिगुणलुब्धः। भृत्यस्वामिगत इत्यादि महात्म्यगुणलुब्धः। कामुकौ सेवावेतनदानकामुकौ॥५॥ गुणलुब्धाविति स्वामिभृत्ययोर्लक्षणं। न कामुकावित्यनेन तदभावे स्वामिभृत्याभावाभावश्चक्तिः। अधुना न

स्वामिना नृसिंहस्य स्थितिं चाह॥ अहं त्वति। पूर्वाधयाजना तु स्पष्टा। अनपाश्रया भृत्यदयद्रव्यानुपजावाह लोक राजसवकयोरिव देशाधिपत्यं प्रापितन सेवकेन दीयमानं, द्रव्यं राज्ञो राज्ञा दीयमानं वेतनादिकं सेवकस्य यथार्थस्तथाऽऽवयोरन्यथा। गुणलुब्धत्वं विनाथो नास्तीति योजना॥७॥ वरं वृणीष्वेत्याज्ञाऽनुल्लंघनीयेत्याशयेनाह॥ यदीति। हे वरदर्षभ। ईश स्वामिन्। यदि मे कामान्वरान् रासि ददासि। तर्हि कामानां मोक्षविरुद्ध विषयेच्छानां हृद्यसंरोहंतु। अनुत्पत्तिमेव भवतो वरं वृण इति योजना। अत्रासंरोहमित्येतद्भक्त्यादीनामुपलक्षणं। अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दन इत्यादिनेश्वरादीनां मोक्षादिवरदानासामर्थ्येऽपि तव सर्ववरदानसामर्थ्यमिति द्योतयितुं वरदर्षभेत्युक्तं। अस्येतरेच्छा विषयत्वेऽपि मदिच्छाविषयत्वान्मत्कामत्वमस्तीति मे कामानित्युक्त। तथा च म इत्यस्य चतुर्थ्यं। तस्य रासीत्यनेन षष्ठ्यंतस्य कामानित्यनेनान्वय इति सूचितं॥८॥ कामानामनिष्टत्वं कथं। येन तदसंरोहस्य वरत्वमित्यत आह॥ इन्द्रियाणीति। एषां दुर्विषयकामानां जन्मनेंद्रियादीनि नश्यन्ति तेषां कामानामसंरोहो वरमित्यत आह॥ इन्द्रियाणीति। पूर्वेण योजना। सर्वेंद्रियाणां जरयंति तेज इति श्रुतेः। आत्मा देहः। धर्मः पूर्वार्जितपुण्यं। धृतिः सर्वथा दुर्विषयांस्त्यजेयमिति धैर्यं। मतिः शास्त्रजनितज्ञानं। हरिन्ये न पश्येयुरिति लज्जा। श्रीर्देहकांतिः। तेजो ब्रह्मवर्चसं। स्मृतिः शास्त्रानुभवजन्यस्मृतिः। कामात्क्रोधोऽभिजायत इत्यादेः। दुर्विषयलोलुपस्येंद्रियादीनि नष्टांनि दुष्टानि भवन्तीति भावः॥९॥ कामानामसंरोहस्य फलमाह। विमुचतीति। योजना तु स्पष्टा। तथैव तदैव। न भवायापुनर्भवाय। मोक्षायेति यावत्। अवकल्पते समर्थो भवति। यदा सर्वे प्रमुच्यन्त इत्यादि श्रुतेश्व॥१०॥ कस्य मंत्रस्य जयसिद्धया मद्दर्शनमभूदित्याह॥ नारदेनेति। ॐ नम इत्यारभ्य मत्रस्त्रयस्त्रिंशदक्षरात्मकोऽनुष्टुप् छदस्कः। वराहमंत्रवत् ॥११॥ एवमुक्तं प्रह्लादमेकांतित्वेन प्रकाश्य कामासंरोहादिकं मनसि सिद्धवत्कृत्य तद्योग्यमासुराधिपत्यमपि कुर्वित्याज्ञापयति नृसिंहः॥ नैकातिन इति। यद्यपि भवादृशा मयि एकांतिनो मे सकाशादिह तथा मुत्राशिषो जातु नाशासते। तथाऽपि एतन्मन्वंतरं दैत्येश्वराणां भोगान् अनुभुंक्ष्वेति योजना। यद्यप्ययं कामो न त्वया कृतः। तथाऽप्ययमेवानुगृहामीति भावः॥१२॥ दैत्येश्वराधिपत्यकालेऽपि मुक्तावानंदातिशभूतमनुष्ठेयं साधनं शिक्षते॥ कथा इति। मदीयाः कथा जुषमाणः शृण्वन् प्रियस्तत्रा

दरवान् सर्व भूतेषु संतमेकं मां। आत्मनि मनस्यावेश्याधियज्ञं सर्वयज्ञभोक्तारमीशं योगेन ध्यानेन कर्महिन्वन् उपमर्दयंस्त्वं यजस्व।योगेन पूजयेति योजना। अनेन श्रवणध्यानाकाम्यकर्मादिलक्षणमानंदातिशयसाधन शिक्षितमिति ज्ञातव्यं॥१३॥ अधिपत्येभोगादिप्राप्तिरावश्यकीति न चिंतयितव्यं। भोगादेरपि प्रारब्धपुण्यक्षयादिसंपादकतया मत्प्राप्त्युपयोगित्वादित्याह॥ भोगेनेति। पुण्यं प्रारब्धं काम्यपुण्यं कुशलेन प्रायश्चित्तादिना। पापं कालजवेन प्रारब्धप्राप्तं कलेवरं हित्वा विनाश्य सुरलोकगीतां विशुद्धां कीर्तिं विताय विस्तृत्य मुक्तबंधो मामेष्यति। भवानिति योजना। प्रारब्धपाप प्रति प्रायश्चित्तस्योपमर्दकत्वं ज्ञातव्यं। अनेनाधिपत्यदानं भोगेन काम्यपुण्यक्षयंसपादकतया पापोपमर्दककुशलानुष्ठानोपयोगितया प्रारब्धासुरदेहादिनाशकतया कीत्यादिसंपादकतया महाननुग्रह एव प्रल्हादे कृतः। स्वस्तोत्रकीर्तनस्यापि फलमाह भगवान्॥ य इति। मह्यं मदुद्देशेन। काले प्रातरादिकाले॥१५॥ पुत्रेण पितुरुद्धारस्य कर्तव्यत्वात्। भगवतो भक्तवत्सलत्वात्। पितुर्दैत्यावेशप्रयुक्त निंदनादिकारित्वेऽपि वस्तुतो भक्तत्वादुद्धारत्व वरयते॥ वरमिति। हे देवेश हे महेश्वर। ते सकाशादेतद्वक्ष्यमाणं वरं वरये प्रार्थये। एतत्किमित्यत उक्तं। ईश्वरं तेजः सर्वैश्वर्यमविद्वान् भ्रातृहेति हिरण्याक्षमनपराधिनं हंतेति मृषादृष्टिर्मिथ्याज्ञानवान् तेनैव बद्धामर्षाशयस्त्वद्भक्ते मयि च विषयेऽघवान् अपराधवान्मे पिता सर्वलोकगुरुं प्रभुं त्वां यदनिंदत्तस्माद्दुरंताद्दुस्तरादघान्मे पिता पूयेतेति । पूतत्वमपि सिद्धमेवेत्याह। पत इति। यदेति शेषः॥१६॥ न केवलमयं पिता। किंतु जन्मांतरपितरोऽपि पूता इत्याशयेनाह॥ त्रिभिरिति। सुजंतं। गुणितैरिति शेषः। तथा चैकविंशत्येत्यर्थः। त्रिसप्तभिरिति समासे तु स्पष्टं। एवं च पूर्वजन्मत्रयं। एकैकस्मिन्सप्त। त्रयः पांचस्त्रयः। प्रत्यंच आत्मा सप्तम एतावंत एवैनममुष्मिंल्लोके उपजीवंतीति श्रुतेः। एतदेवाभिप्रेत्य तात्पर्यं॥ जन्मांतरपितृभिः सप्तभिरिति। प्रह्लादादेः पूर्वजन्मा प्रतिमन्वंतरे चैव प्रह्लादाद्या बभ्रूविर इति मानसिद्धं। अस्य हिरण्यकशिपोः॥१९॥

मद्भावेन भक्त्या गतस्पृहा विषयापेक्षारहिताः॥२१॥ भक्तेषु श्रैष्ठ्यं प्रल्हादस्य वक्तुमाह। भवतीति। लोके मद्भक्ताः पुरुषास्त्वामनुव्रता भवंति। त्वमेवमेव भक्तानां प्रतिरूपधृक् दृष्टांतत्वधृक्। यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तत इति वचनात्। भक्तेषु प्रल्हादस्य श्रेष्ठत्वात्तदनुत्रतत्वमन्येषामिति भावः। अत्र प्रह्लादस्य सर्वभक्तेषूत्तमत्वमनुपपन्नं। नारदाद्यधम- त्वात्। अतः कान्विना भक्तेषूत्तमत्वमित्यतस्तात्पर्यं। ऋते तु तात्विकान्देवान्नारदादींस्तथैव च। प्रल्हादादुत्तमः कोऽनु विष्णुभक्तौ जगत्त्रय इति स्कांदे॥ तात्विकान् अग्न्यादीन्। नारदादीन्नारदभृगुवसिष्ठादीन्॥२२॥ “अवैष्णवाय दातव्यं नोदबिंदु न तडुलम्” इत्युक्तेः। विष्णुद्वेषिणः पितुः कथं कर्म कर्तव्यमिति नाशंकनीयं। स्वभावतो भक्तत्वात्। त्वया पूतत्वस्य प्रार्थितत्वात्। मदपांगसंदृष्टत्वान्मदंगस्पर्शनाच्च तस्य पूतत्वात्। इत्याशयेन तत्कर्मकरणे नियुंक्ते॥ कुर्विति। मदगस्पर्शनेन पूतस्येति योजना। मदगस्पर्शनेन पूतस्येति कथं। मधुकैटभयोर्हयग्रीविणो रौद्रत्वेऽपि तदभावादित्यतो भक्तत्वे सतीति विशेषणं देयं। अतो न व्यभिचार इत्याशयेन तात्पर्यं प्रवृत्तं॥ मधुकैटभौ भक्त्यभावाद्धरौ भगवतो मृतौ। तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं ययाविति॥२३॥ ब्रह्मवादिभिरभिषेचनविषये उक्तानुसारेण पित्र्यं स्थानमास्थाय मयि मन आवेश्य मत्परःसन् यज्ञादि कर्माणि कुर्विति नियुक्ते भगवान्पित्र्यमिति॥२४॥ भगवदुक्तप्रकारेण प्रह्लादोऽकार्षीदित्याह नारदः सार्धश्लोकद्वयेन। सांपरायिक मौर्ध्वदेहिकं। प्रह्लादेन प्रसाद्य स्वयं स्तौति ब्रह्मेत्याह॥ प्रसादेति। ब्रह्मा स्तौति श्लोकचतुष्टयेन॥ देवदेवेति। पूर्वज। धातोरनेकार्थत्वात्पूर्वस्थित। पूर्वमभिव्यक्तेति वा। दिष्टया दैवेन॥२७॥ सृष्टिभिः। कर्मणि क्तिन्। भावे क्तांतादिनिर्वा। मत्सृष्टैरिति यावत्। निगमान्वेदान्। अहन् अध्वंसयत्। वैदिकयज्ञादिलोपकर्तेति यावत्॥२८॥ दिष्टया दिष्ट शब्दो दिष्टापर्यायः। दैवेनेति यावत्॥२९॥ न केवलमेतद्वपुषो भूतमेव प्रयोजनं किंतु भविष्यच्चास्तीत्याह॥ एतदिति। हे भगवन् परमात्मनस्ते एतद्वपुः स्वाध्यायतो, भक्तस्य सर्वतः संत्रासाद्गोप्तृ। जिघांसतोर्मृत्योरपि गोप्तृ इति योजना॥३०॥ नृसिंहः पद्मसंभवं शिक्षते॥ मैवं विध इति। ते त्वया क्रूरनिसर्गाणां क्रूरस्वभावानां। अत्र मैवंविधो देय इत्यनेन हिरण्यकशिपोरेवं विधो वरो भगवदनाभिमत एव दत्तः। एतदाज्ञामुल्लंघ्यैव रावणादिभ्यो पुनर्दास्यत इति न मन्तव्यं। हिरण्यकशिपुवरदानेऽतःस्थितहरिणा तथैव प्रेरितत्वात्।

एवं विध इति विशेषणेन दास्यमानवरस्यैवं विधत्वाभावेनाज्ञाया अप्यनुल्लंघनात्। एतदेवाभिप्रेत्य तात्पर्यं॥ यथा हिरण्यकस्यादादंतः स्थितहरीरितः। तथा नादात्तदन्यस्य ब्रह्मा दैत्यस्य कस्यचिदिति च॥३१॥ ब्रह्मनियोगानंतरं वृत्तमाह॥ इत्युक्त्वेत्यादिना। सर्वभूतानामदृश्यः सम्यग्दृश्यो भगवान् ब्रह्मणा पूजितः। ततश्च तत्रैवांतर्दधे॥३२॥ ततो भगवदंतर्धानानन्तरं प्रह्लादो भगवत्कला भगवतः प्रतिबिंबभूतान् विधिवत्परमेष्ठिनं भवं प्रजापतीन् देवांश्च संपूज्य ववन्द इति योजना॥३३॥ ततः प्रह्लादवन्दनानंतरं काव्यादिभिः शुक्राचार्यप्रभृतिभिर्मुनिभिः॥३४॥ प्रतिनंद्य सन्तोष्य॥३५॥ शापप्राप्तं दैत्यभावं तन्निधन चोपसंहरति। वैरानुभावेन वैरानुचिंतया हृदि स्थितेन हरिणा तौ हताविति योजना॥३६॥ एवं प्रथमजन्मनिधने उक्त्वा द्वितीयजन्मनिधने आह॥ पुनरिति। प्राक्तनजन्मनि राक्षसभावेन नृसिंहं संचिन्त्य यथा देहं जहतुरेवं राजेति भावेन राममनस्कौ देहं जहतुः॥३८॥ पुनर्जातौ राजरूपेण जातौ शिशुपालकरूशिजौ हरिविषयक वैरयुक्तभक्त्या भगवानिति ज्ञात्वा तौ पश्यतो हरिं समीयतुः॥३९॥ शिशुपालकरूशजावित्युपलक्षणं। अन्येऽपि वैरिणो बहुराजानः कृष्णेन हताः कृष्णमीयुरित्याह॥ एन इति। ये ये कृष्णवैरिणो राजानः पौंड्रकनरकादयस्ते ते यत्पूर्वकृतमेनो दैत्यावेशप्रयुक्तनिंदनादिजन्यपापं तत्तस्मिन् कृष्णात्मनः कृष्णे आत्मन आविष्टाः कृष्णे आत्मा मनो येषां ते तथा भूताः। वैरानुबन्धेनेत्यावर्तते। अनुबन्धस्तु भक्तिः स्याद्बंधः स्नेह उदाहृत इति वचनात्। वैरोपसर्जनभक्त्या कीटः पेशस्कृतो वैरानुबन्धेन यथा पूर्वरूपं जहाति तथा जहुरिति योजना। अत्र ते कृष्णवैरिणो राजान इत्युक्तेर्वेनादीनामपि भगवत्प्राप्तिः प्रतीयते। तस्या वेनस्तमसि पातित इत्यादिना विरोध इति न मंतव्यं। दैत्याविष्टपौंड्रकनरकादीनामेव ग्रहणात्। केवलदैत्यानां वेनादीनामग्रहणात्। तेषामनुबंधपदोक्तभक्तेरभावाच्च। एतदेवाभिप्रेत्य तात्पर्य॥ पौंड्रके नरके चैव साल्वे कंसे च रुग्मिणि। आविष्टास्तु हरेर्भक्तास्तद्भक्त्या हरिमापिरे। असुरास्तु स्वयं ते तु महातमसि पातिता इति च। तदात्मानस्तदाविष्टास्तद्भक्ताः। वैरोपसर्जनेनानुबंधेनेत्यन्वय इति॥४०॥ अत्र पौंड्रकादिपदेन देहो ग्राह्यः।

भगवांश्च दयालुः। वैरादिकमविगणय्य भक्तिमेव हि निमित्तीकृत्य मोचितवानित्युत्तरमुक्तं। तत्संक्षिप्योपसंहरति॥ यथेति। यथा यथा योग्यता तथा तथा विद्यमानया परमया भगवतो भक्त्या तत्पूर्विकया तच्चिंतया वैद्यादयो नृपाः। भिदां सुखेऽवांतरंविशेषयुक्तं। भेदो विशेषे दलन इत्यभिधानात्। साम्यं हरेर्निर्दुःखत्वादिना चतुर्बाव्हत्वादिना साम्यं ययुरिति योजना॥४१॥ द्विषतामपि साम्यमसंभावितमिति यत्पृष्टवान् तदनादिभक्तत्वेनासंभव निरासेनोपपादितमिति योजना॥४२॥ एषोक्ता कथा पुण्या। आदिदैत्ययोर्हिरण्यकशिपुहिरण्याक्षयोर्भगवत्कृतवधलक्षणभगवन्माहात्म्यप्रतिपादकत्वादित्याशयेनोक्तं॥ यत्रेति। प्रह्लादचरितमपि पुण्यकरमित्याह॥ प्रल्हादस्येति। महाभागवतस्य प्रल्हादस्यानुचरित च। च शब्दात्पुण्येत्यस्य लिंगव्यत्ययेनानुषंगः। पुण्यं। महाभागवतस्येत्यनेन पुण्यत्वमुपपादितं। आख्यानोक्तं संगृण्हाति॥ भक्तिरिति। आख्यानेऽस्मिन्समाख्यातमित्यस्य लिंगविपरिणामेन सर्वत्रान्वयः। याथात्म्यमात्मविषयकयथार्थज्ञानं। गुणकर्मानुवर्तनं गुणकर्मणि यथा वृत्तेस्तथैवानुवर्तनं कीर्तनं। वृत्तानुकथनामिति यावत्। परावरेषामुच्चावचानां सत्यलोकादिस्वर्गांतानामव्यत्ययोऽव्यत्यासः॥४५॥ धर्मो भक्त्यादिलक्षणः। येनेति भगवद्भक्तिज्ञानत्वोक्तेः। अत एव तात्पर्यं॥ भगवान्येन गम्यत इत्यनेन भागवतधर्मेणैव भगवान् गम्यते। न द्वेषादिनेत्युपसंप्हियते। वृत्तानुकथनं च तदर्थत्वेनैव। ज्ञानस्य विशेषा याथात्म्यादयः। भक्तिज्ञानं विरक्तिश्च नवकः श्रवणादिकः। धर्मो भागवतः प्रोक्तस्तद्भक्तेषु तथा नवेति तंत्रसारे॥ धर्मो भागवतानां चेत्युक्त्वा येनेत्युक्तेर्भागवतधर्मेण भक्त्यादिनैव गम्यत इत्युपसंप्हियत इत्यर्थः। वृत्तानुकथनस्य भागवतधर्मत्वाभावात्कथं भागवतधर्मेणोपसंहार इत्यत उक्तं॥ तदर्थत्वेनेति। भक्त्यादेर्भागवतनिष्ठो धर्मो वृत्तानुकथनं च भक्त्यादिकं जनयतीति भावः। आत्मानं देहं मनो वा। अनतिक्रम्य विद्यमानमिन्द्रियमनस्त्वादिकं यथात्मा तस्य भावः। कथं भागवतधर्म इत्यत उक्त। ज्ञानस्येति। तथा चात्मानं परमात्मानमनतिक्रम्य विद्यमानं ज्ञानं याथात्मा। स्वार्थे ष्यञ्। तदेव याथात्म्यं। तथा च भगवद्विषयकयथार्थज्ञानस्य भागवतधर्मत्वं युक्तं। तथापि भक्त्यादिरेव भागवतधर्म इत्यत्र किं मानमित्यत उक्तं॥ भक्तिरिति। भक्तिरित्यस्यैव विवरणं॥ श्रवणादिको नवक इति। भगवद्भक्तेष्वपि न श्रवणादयो भागवतो धर्मः॥४६॥ एतदाख्यानश्रवणकीर्तनयोः फलमाह। य एतदिति। वीर्योपबृंहितं पराक्रमोपबृंहित ॥४७॥

पाठफलमाह। एतद्य इति। एतदिति सामान्यं। तस्यैव विवरणं। मृगेंद्रलीलां सिंहचर्याप्रतिपादकं। दैत्येंद्रलक्षणस्य यूथपस्य गजस्य वध्यतिपादकं। दैत्यात्मनस्यानुभावं माहात्म्यप्रतिपादकं। आख्यानं यः श्रुत्वा पठेत् । सोऽकुतो भयं मोक्षमेतीति योजना ॥४८॥ एवं प्रह्लादानुभवं वर्णयित्वा ततोऽप्यतिशयेन युधिष्ठिरादीन् स्तौति॥ य यमिति। हे युधिष्ठिरादयः। यं यं भूरिभागा बहुभाग्यशालिनः तत्र निमित्तमुक्तं। लोकं पुनाना मुनयोऽभियांति। एषां गृहानिति। एषां युष्माकं। ते यूय भूरिभागा इति पूर्वेणान्वयः। लोकपावनमुन्यभिगमनमेकं निमित्तं। मुख्यं च निमित्तमाह॥ साक्षादिति। साक्षात्परब्रह्म कृष्णाख्यं मनुष्यलिंगं मनुष्याकारं गूढं सर्वैर्भगवत्वेनाप्रतीयमानं। एषां गृहानावसतीति योजना॥४९॥ परं ब्रह्म गृहानावसतां युक्त। तत्किमित्यत आह॥ स वा इति। यो वो युष्माकं प्रियः प्रीतिविषयः सुहृत् अत्यंतोपकारी। आत्मा स्वामी विधिकृदाज्ञाकृत्। गुरुर्हितोपदेष्टा। स वाऽयं कृष्णः। ब्रह्म पूर्णगुणं। महद्विमृग्यं महद्भिर्ब्रह्मादिभिर्विमृग्यं। अनन्यमसाधारणं। अशरीरः स्वरूपसुखानुभवरूपमिति योजना। अत्र तात्पर्यं। निर्वाणसुखमशरीरसुखं। एतद्बाणमवष्टभ्येति श्रुतेः॥ एतद्बाणमित्यत्र शरीरं। बाण शब्दप्रयोगात्। व बयोरभेदान्निर्वाणमित्यस्याशरीरमिति व्याख्यान युक्तं॥५०॥ एवं युधिष्ठिरादीनुक्त्वा स्वयं कृष्णप्रसादं प्रार्थयते॥ न यस्येति। यस्य रूपं साक्षाद्धिया साक्षात्कारणविषयीकृत्य भवपद्मजादिभिर्वस्तुतया साकल्येन नोपवर्णितं। मौनेन मननेन भक्त्योपशमेन ध्यानेन पूजितश्च यः स सात्वतां पतिः कृष्णः प्रसीदतामिति योजना॥५१॥ इति श्रीभागवतप्पण्यां मंदनंदिन्यां दशमोऽध्यायः॥७–१०॥

॥हरिः ॐ॥ अस्मिन्नध्याये प्रल्हादे कृतनृसिंहानुग्रहप्रसंगान्महोपासके रुद्रेऽपि तत्कृतोऽनिष्टनिवर्तकत्वत्रिपुरारित्वादिकीर्तिसंपादकत्वरूपोऽनुग्रहो वर्ण्यते। अत्रेदं पुरावृत्तमनुसंधेयं। भगवदुपोद्बलितैर्देवै र्निर्जितैरसुरैर्मयं शरणमुपेत्य तन्निर्मितपुरत्रयमवष्टभ्य-

स्वयं गोरूपेण गत्वा रसहृदं वत्सेन सह निस्तुषं पीत्वा रुद्रं स्वयमुपोद्बल्य भूमौ पातितं रथं हरिवंशोत्तरीत्या महावृषभरूपेण विषाणद्वयेनोर्ध्वमुन्नमय्य शरे ते जनरूपेण स्वयमेव स्थित्वा सर्वानसुरानुन्मूल्य त्रिपुरारित्वकीर्तिं रुद्रे संपादयामासेति। इदं च तेषामसुराणां तिस्रः पुर आसन्नित्यादि तैत्तिरीयश्रुत्यादिभिः प्रमितं। विशेषजिज्ञासायै सामान्यतः प्रस्तापयति नारदः। स एष इति। अस्मिंल्लोके मयेनानंतमायिनेत्यनन्वितं। अतः किंचिदध्याहार्यं। तच्च तात्पर्ये उक्तं॥ तदधीनं वा सर्वं नेति संशयं रुद्रस्याहनत् । अल्पकेनैव मयेन रुद्रस्य प्रतीकारं कृत्वेति। तथा चैवं योजना। हे राजन्। अनंतमायिना। अनंतपदं बहुपरं। एकशतसहस्रमायावताररुद्रस्य प्रतीतमालंब्यानंतपदं। वस्तुतस्त्वल्पकेनैव मयेन प्रतीपं कृत्वा कारयित्वा। करणमपि भगवदधीनमिति द्योतनाय णिचोऽप्रयोगः। तदधीनं विष्ण्वधीनं सर्वं न वेति संशय न्यहनत्। शपो लुगभावः। छदिसत्वात्। अनंतरं स एष भगवान् रुद्रस्य विततं यशो व्यतनोदिति॥१॥ विशेषतः पृच्छति राजा॥ कस्मिन्निति। अत्रापि कर्मणीति सप्तम्यंतपदमनन्वितमिति। अतः किंचिदध्याहार्यं। तच्च प्रदर्शितं तात्पर्ये॥ कस्मिन्कर्मणि मयो विपरीतं चकारेति । तथा चैवं योजना। कस्मिन्कर्मणि मयो विपरीतं रुद्रकार्यविरोधि चकार। येन जगदीशितुर्देवस्य महादेवस्य यश उपचितमिति भावः। पुनश्चानेन कृष्णेन नारायणेन यथोपचिता च कीर्तिस्तत्कथ्यतामिति । पूर्वोक्त श्लोके मय इत्यादि न श्रुतमित्यतः सापेक्षत्वदोष इत्यतस्तात्पर्यं॥ सापेक्षं न तु दोषाय यत्र सिद्धमपेक्षितमिति शब्दनिर्णये॥ सिद्धं प्रमाणेन लोकन्यायेन वा। द्वारमित्यादौ लोकन्यायेनात्र पूर्ववाक्यादिबलेन प्रमाणांतरेण चेति ज्ञेयं॥२॥ पृष्टं स्पष्टमाह॥ निर्जितानित्यादिना। युधि युद्धेऽनेन भगवतोपबृंहितैरुपोद्बलितैः। अत्र देवानां विष्णुसापेक्षत्वं न दोषः। तस्य सर्वकार्येष्वपि सिद्धत्वात्। एतदभिप्रायेणापि सापेक्षमित्यादिना तात्पर्यं योजनीयं। परमाचार्यमुत्तमं तक्षं॥३॥ हमरौप्यायसी। अत एवोक्तं तैत्तरीयेऽपि। अयस्मय्यवमाथरजताथहरिणीति। दुर्लक्ष्यावपायसंयोगौ यासां ता लक्षणादेवागच्छति। अपगच्छति चेति। अगमाविगमौ दुर्लक्ष्यावित्यर्थः। दुर्वितर्क्या इयंत इति परिच्छेतुमशक्याः परिच्छदा युद्धसामग्यो यासु ताः॥४॥ ताभिः पूर्भिः। असुरसेनान्योऽसुरसेनानायकाः पूर्व वैरं

स्मरंतः। अलक्ष्या अदृश्याः संतः। त्रीन् लोकान्नाशयांचक्रुरिति योजना॥५॥ सेश्वरा रुद्रसहिता ईश्वरं भगवंतं नोऽस्मान् तावकांस्त्वद्दासान् त्रिपुरालयैरसुरैः॥६॥ भगवान्विष्णुः शरं संधायास्त्रमभिमंत्रितं शरं व्यमुंचत। अत्र संधाय व्यमुंचतिअंतर्णीत ण्यंतं। संधाय व्यमुंचयदित्यर्थः॥ तथा हि तैत्तरीये॥ त इष समकुर्वत। अश्मिनीकं सोमर शल्यं विष्णु ते जनमिति। सूर्यमंडलात्। यथा मयूखसंदोहास्तथा ततो धनुष उत्पेतुर्यतो यैः शरैः पुरः पुराणि नादृश्यतेति योजना ॥८॥ तैः शरैः स्पृष्टाः संबद्धाः। व्यसवो गतप्राणास्तान्व्यसून् कूपरसे कूपे परिपूर्णमृतसंजीवनरसे॥९॥ सिद्धामृतरसन स्पृष्टामृतसंजीवनरसस्त्राता वज्रसारा दृढदेहा वैद्युता इव वन्हयोऽशनयः॥१०॥ इदमेव मयकृतं विपरीतं कृष्णेन कृतमुपचय वक्तुमाह। विलोक्येति। विमनस्कमुपायानभिज्ञं॥११॥ अयं विष्णुः स्वयं गौरिति योजना। काले मध्यंदिने॥१२॥ भगवता विमोहिताः पश्यंतोऽप्यसुरा न न्यषेधन्। महायोगी मयः। इदं वक्ष्यमाणं॥१३॥ तदेवाह॥ स्मरन्निति। शोकार्तानसुरान्स्मरन् पूर्वमसुराणां जयदायिनीमिदानीं विपरीतां दैवगतिं दैवेन विष्णुना दिष्टं प्रापितं फलं स्वस्य वाऽन्यस्य वेति द्वयोरपि व्यपोहितुं निराकर्तुं देवोऽसुरो नरोऽन्यो वा यक्षादिः कञ्चन कोऽपि नेश्वरो न समर्थ इति योजना॥ अत्र तात्पर्यं॥ विष्णुनेत्यादि॥१४॥ रसपानानंतरं भगवत्कृतमाह॥ अथेति। असौ भगवान् रुद्रकृतैर्धमादिभिस्तज्जनितपुण्यैरुपोद्बलिताभिः शक्यंत इति शक्तिभिः रथधनुरादि भूमिमेर्वादिभिः शंभोः प्राधानिक युद्धसाधनं व्यधादिति योजना॥१५॥ प्राधानिकमित्येतद्विवृणोति ॥ रथमिति । यत्तु भगवता क्लृप्तं तेन संनद्धो रथमास्थाय सशरं धनुरादद इति योजना॥ १६॥ भगवत्तेजसा गुप्तस्तात्कालिक भगवदावेशविशेषेण गुप्तः॥१७॥ विमानशतसंकुले अंतरिक्षे स्थिता इति शेषः॥ १८॥ पुरहा त्रिपुरसंहर्ता। ब्रह्मादिभिः सनका दिभिः। तद्गणसंज्ञानो वा संभवति ब्रह्मणाऽपि समर्थ इति स्तुति संभवात॥१९॥ यशो व्यतनोदित्येतदपसंहरति॥

॥हरिः ॐ॥ भगवद्भक्त्या यथावद्विहितवर्णाश्रमाचारचरणेन निर्मलीकृतांतःकरणेन श्रवणादिद्वारा समुत्पन्नापरोक्षज्ञानेन प्रसन्नो हरिः स्वयोग्यां मुक्तिं ददातीत्येतदर्थं ज्ञापयितुमुत्तरेषामध्यायानामारंभः। तत्र वर्णाश्रमधर्मान् श्रोतुकामो युधिष्ठिरो नारदं पृच्छतीत्याह॥ श्रुवेति। महत्तमाग्रण्यो महत्तमानां श्रेष्ठ उरुक्रम आत्मा मनो यस्य तस्योरुक्रमस्वरूपस्य वा। दैत्यपतेः प्रह्लादस्य पत्युर्नृसिंहस्य वा साधुसभासु सभाजितं प्रीतिविषयभूतं सेवितं च। सभाजन प्रीतिसेवनयोरिति धातोः। ईहितं चरितं श्रुत्वा मुदान्वितः स्वयंभुवस्तनयं नारदं भूयः पपृच्छेति योजना॥१॥ वर्णाश्रमे उचितो य आचारः शौचः स्त्रानादिस्तेन युतमध्ययनयजनादिरूपं धर्म श्रोतुमिच्छामि। येनानुष्ठितेन धर्मेण पर विन्दत इति योजना॥२॥ सुतानां दक्षादीनां सम्मतः॥३॥ इतरान्विहाय मामेव कुतः पृच्छसत्यित आह॥ नारायणेति। गुह्यं गौप्यं। तद्विधा उक्तविशेषणविशिष्टाः। यथा विदुस्तथा नापर इति त्वामेव पृच्छामीति भावः॥४॥ नमनरूपं मंगलं कृत्वा स्वगुरोर्नरनारायणस्य मुखाच्च्युतं धर्मं वक्ष्यत इति योजना। क्रियार्थोपपदस्य कर्मणि स्थानिन इति सूत्रेण भगवते इत्यादौ चतुर्थः॥५॥ स्वगुरुं नारायण स्तौति॥ य इति। यच्छब्दस्य तस्मै भगवते इति पूर्वेणान्वयः। आत्मनः परात्मनो दाक्षायण्यां दक्षपुत्र्यां मूर्तिनाम्न्यां धर्मतो यमधर्मतः स्वस्तये मंगलाय। बदरिकाश्रमे। अधि शीङ्स्थासामिति कर्मत्वं नाश्रितं। तप उद्दिश्येति शेषः। मुनीनां तपः शिक्षितुमिति यावत्॥६॥ धर्मे प्रमाणमादौ वक्ति॥ धर्ममूलमिति। धर्मे प्रमाणमूलमित्यर्थः। सर्ववेदमयः सर्ववेदप्रधानः। अनेन भगवदुपदिष्टः सर्वो वेदः प्रमाणमित्युक्तं भवति। तद्विदां भगवद्विदां वेदविदां वा। स्मृतिश्च। च शब्दाच्छीलं चानेन वेदोऽखिलं धर्ममूलं स्मृतिशीलेति तद्विदामिति वचनं सवादयति। प्रमाणमुक्त्वा लक्षणमाह॥ येन चेति। अनेन भगवत्प्रसादसाधनत्वे सत्यनुष्ठेयत्वं धर्मत्वमिति लक्षणमुक्तं भवति॥७॥ वर्णाश्रमविशेषधर्मान्वक्तुं साधारणानादौ तावदाह॥ सत्यमित्यादिना। सत्यं यथार्थवचनं। दया भूतदया। तपो विहितोपवासादि। शौचं क्षालनं। तितिक्षा सहनं। इज्या देवपूजा। ब्रह्मचर्यं स्वपत्नीनियमलक्षणं। ब्रह्मचर्यं गृहस्थस्याप्यस्तीति ज्ञेयं। त्यागो निषिद्धस्य। स्वाध्यायः शूद्रादेरपि स्वोचितनामसंकीर्तनादिः॥८॥ समदृक् सर्वत्र भगवतः साम्यदर्शनं। सेवा महतां। शनैः क्रमेण ग्राम्येहोपरमो दुर्विषयेच्छापरित्यागः। विपर्ययेहेक्षा विपरीतप्रवृत्तिविमर्शनं। मौनं प्रलापनवर्जनं। आत्मविमर्शनमात्मविचारः

॥९॥ अन्नाद्यादेरत्तुयोग्यान्नतृणादेः। भूतेभ्यो मनुष्यपश्वादिभ्यो यथार्हतो यथायोग्यं संविभागो धर्मः। तत्रेति कर्तव्यतामाह॥ तेष्विति। तेष्वात्मदेवताबुद्धिर्भूतेषु परमात्माधिष्ठानबुद्धिः। तत्रापि नृषु विशेषतः॥१०॥ श्रवणं गुरोः सकाशात्। यथोचितस्य कीर्तनं भगवन्नाम्नः। महतां गतेः संगतेः सेवासंपादनं। इज्यावनतिः पूज्येषु नम्रता। दास्यात्मसमर्पणयोर्भेद उक्तस्तात्पर्ये। अनाद्यनंत कालेष्वित्यादि तंत्रमालायामिति। अनाद्यनंतकालेष्वित्यस्य मुक्तौ संसारे चेति विवरणं। एवकारस्यैक एवेत्यन्वयः। संप्रीतिसंज्ञानं भक्तिपूर्वकसम्यग्ज्ञानं॥११॥ अयं सत्यमित्यादिनोक्तः। भगवत्तोषसाधनत्वे सत्यनुष्ठेयत्वरूपलक्षणाक्रांतत्वात्। अहिंसादीनां धर्मत्वे धर्मांगत्वमप्यस्तीति ज्ञातव्यं। उक्तरीत्या त्रिंशत्संख्याक भेदयुक्तः। सर्वात्मा सर्वस्वामी परमात्मा येनोक्तधर्मेण तुष्यति अयमिति पूर्वेण योजना॥१२॥ एवं मनुष्यमात्रसाधारणं धर्मानुक्त्वा तत्तद्वर्णाश्रमोचितविशेषधर्मान्वक्तुं त्रैवर्णिकसाधारणलक्षणं तावदाह॥ संस्कारा इति। वैदिकादयः श्रौतस्मार्ताः। संस्कारा निषेकादयो यदि यस्याविच्छिन्नाः स द्विजः। स्त्रीषु मंत्रोच्चारणाभावेऽपि वैदिकसंस्कारणां तंत्रमात्र सद्भावात्प्रदानादीनामुपनयनादिस्थानापन्नत्वाच्च द्विजत्वं बोध्यं। स द्विज इति लक्षणं। विहितान्यग्निहोत्र सोमादीनि बृहस्पतिसवनराजसूयादीनि विशेषविहितानीज्याध्ययनदानानि द्विजन्मनां धर्माः॥१३॥ निगमोदिताः क्रियाः। न केवलं द्विजन्मनामपि तु जन्मना कर्मणा चावदातानां शुद्धानामिति पूर्वेण योजना। द्विजन्मस्वपि विशेषमाह। विप्रस्याध्ययनादीनि। षडिति यावत्। ततोऽन्यस्य क्षत्रियादेरपरिग्रहः। अपरिग्रह इत्युपलक्षणं। अध्यापनायाजने न स्त इति बोध्यं॥१४॥ वा शब्दोऽवधारणे। अविप्राद्देवजनात् करादिभिः। आदि पदाद्दंडेभ्यः प्रसिद्धवित्ताहरणादिक गृह्यते। वृत्तिर्जीवनोपायः। प्रजागोप्तुरित्यनेन गुप्तिरसाधारणो धर्म इति सूचित। वार्ता कुशीदादिवृत्तिर्जीवनोपायो यस्य सा वार्तावृत्तिः। ब्रह्मकुलानुग इत्यनेन विप्रेषु विश्वासादिकं धर्म इति सूचितं॥१५॥ द्विजशुश्रूषाधर्मः। वृत्तिश्च स्वामिनस्तत्संबंधिद्रव्यान्नादिना। अध्ययनादीत्यनेन याजनाध्यापनप्रतिग्रहरूपावृत्तिः सूचिता। तथाऽपि तदतिरिक्तां वृत्तिं विभज्याह॥ वार्तेति। वार्ता कुशीदादिरूपा। एषा चापदि। विचित्रशांलीनं नानाक्षेत्रेभ्यो नानाधान्यार्जनं।

धान्ययाचनं। शिलोंछनमुंछः कणश आदानं कणिशाद्यर्जनं शिलमित्युक्तेर्भेदो बोध्यः॥१६॥ उत्तरोत्तरा श्रेयसी विचित्रशालीनापेक्षया यायावर्यं तदपेक्षया शिलोंछं श्रेय इति ज्ञेयं। जघन्यो नरः क्षत्रियादिः। अनापद्युत्तमां विप्रादिसंबंधिवृत्तिमध्यापनं यायावर्यादि जीवनोपायं न भजेत्। जघन्यः शूद्रो वर्णहीनो वाऽनापदि विमसद्भावे वर्णसद्भावे वा। उत्तमां वृत्तिं तत्त्वज्ञानलक्षणामिति टीकारीत्या वाऽर्थो बोध्यः॥१७॥ आपदि वृत्तिमाह॥ ऋत इति। राजन्यं विनाऽऽपत्सु सर्वेषां विप्रादीनां सर्वशः सर्वप्रकारेणापि वृत्तिः कर्तव्या। विप्रस्य स्ववृत्त्यसंभवे क्षत्रिया वृत्त्या जीवनं तस्याप्यसंभवे वैश्यवृत्त्यैवमेव क्षत्रियस्य प्राप्तौ ऋते राजन्यमित्यपवादः। एष च सामान्यापत्सु विशेषापत्सु तु विप्रवृत्त्या जीवनं। अत्यापत्सु विप्रक्षत्रशुश्रूष लक्षणशूद्रवृत्त्याऽपि जीवनं ज्ञेय। वैश्यस्त्वापदि शूद्रवृत्त्वैव जीवेत्। सर्वेषामिति तूत्सर्गः। शूद्रस्तु वैश्यवृत्त्या कारुकवृत्त्या वा जीवेत्। वैश्यवृत्त्या जीवनेऽपि अध्ययनं न कुर्यादित्यादिकं ज्ञेयं। एतत्सर्वमापत्सु। विप्रः क्षात्रं तु विशां वा धर्ममाचरेत्। क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित्। क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि। क्षत्रियो विप्रधर्माऽपि नैव भैक्ष्यप्रतिग्रही। वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरं। शूद्र आपत्सु विडधर्मो तदापत्सु च कारुकः। शूद्रस्तु वैश्यधर्मोऽपि नैव वेदाक्षरो भवेत्। अनापदि क्षत्रियोऽपि पादशुश्रूषणं विना। शूद्रधर्मांश्चरन्विप्रः क्षत्रियेषु न दूष्यति । एषु कर्मसु याञ्चा स्यात्स्वामिनाऽपि न याचिता॥ शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि। आत्मनश्चेद्बलाधिक्यं सा तु बंधादपि प्रभोः। धर्मार्थं सेवतोऽर्थ विप्रधर्मादिकाद्वरः। प्रभुणा याञ्चवृत्तिस्तु विशेषेणापि धर्मभाक्। बाहोर्बलाधिको यस्मात्क्षत्रियो विद्ययाऽधिकः। विप्रौ भागवतावेतौ सेशा लोकास्तयोरिमे। इति गीतातात्पर्योदाहृतव्यासस्मृतितोऽवगंतव्यं। तथा न्यायदीपिकायां। न केवलं क्षत्रियः शूद्रधर्मं चरन्न दुष्यतीत्येव किं तर्हीत्यत आह॥ येष्विति। यदि क्षत्रियस्य स्वधर्मवृत्तावापदो भवंति तर्हि तस्य सानुबंधात्स्वामिनो बलाधिक्येऽपि धर्मार्थमनभिभूयेषु कर्मसु नियुक्तः स्वामिनाऽपि याच्यः स्यात्। न च स्वयं याचिता। तानि शौद्राण्यपि कर्माणि अर्थाद्यर्थं सेवमानस्य विप्रादिधर्मोपजीवनादपि परो धर्मो भवतीत्यर्थः। तत्र स्वाम्यननुभवादपि स्वामिना याच्यत्वं विशेषेण धर्मकारणमित्याह॥ प्रभुणेति। विप्रधर्माद्याश्रयेण परोपजीवनाभावाच्छूद्रधर्मे तद्भावात्कथं सानुबंधात्प्रभोर्बलाधिक्यादौ सत्यपि तस्य वरत्वमित्यत

आह॥ बाव्होरिति। सर्वस्य तदीयत्वान्न परोपजीवनमिति भावः॥१८॥ विप्रस्यैव जीवनोपायषट्कमाह॥ ऋतामृताभ्यामित्यादिना। निषेधमाह॥ न श्ववृत्त्येति। अर्थाप्रतीतेः ऋतादि पदसप्तकस्यार्थमाह। ऋतमित्यादिना। सत्यानृतमित्येकवद्भावः ॥२०॥ जुगुप्सितां निंदितां श्ववृत्तिं। विप्रराजन्ययोर्वैशिष्ट्यमाह। सर्वेति। वेदमयो वेदप्रधानः। वेदमूलमिदं ब्राह्ममित्युक्तेः। देवमयो देवप्रधानो विष्णोर्लोकपालानां चात्र संन्निधानात्॥२१॥ ब्राह्मणादीनां क्रमेण लक्षणान्याह॥ शतमित्यादिना। अच्युतात्मत्वमच्युतमनस्कत्वं॥२२॥ त्याग औदार्यं। आत्मजयो मनोनिग्रहः। ब्रह्मण्यता ब्रह्मणि साधुता। प्रसादो मुखप्रसादः॥२३॥ त्रिवर्गैर्धर्मार्थकामैः। त्रिवर्गानां ब्रह्मक्षत्रियविशां वा परितोषणं॥२४॥ अमाययाऽछद्मना॥२५॥ स्त्रीसामान्यलक्षणमाह॥ स्त्रीणामिति। अनुकूलतोपकारित्वं। यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते। स्त्रीभिर्भर्तुर्वचः कार्यं एष धर्मः मरस्त्रिय इति वचनात्। तद्बंधुषु भागिनेयादिषु। तद्व्रतधारणं पातिव्रत्यं ब्रह्मण्यं तस्य यद्व्रतं तदेवास्या व्रतमिति वा॥२६॥ गृहमंडनवर्तनैर्गृहालंकारकरणैः ॥२७॥ कर्मैर्विषयैः॥२८॥ अलोलुपा अयोग्याभिलाषरहिताः। अपतितं ब्रह्महत्यादिभी रहितं॥ २९॥ हरिभावेनास्मिन् पत्यौ हरिः संनिहित इति या बुद्धिः सा हरिभावस्तेन॥ तदुक्तं तात्पर्ये॥ हरिरस्मिन्नित्यादि। हर्यात्मना हरेर्विशेषसंन्निधानवता पत्या सह॥३०॥ ब्राह्मणस्य तिस्रोऽनुलोमजातयः। क्षत्रियस्य द्वेऽनुलोमजाती। एका प्रतिलोमजातिर्वैशस्यैकाऽनुलोमजातिः। द्वे प्रतिलोमजाती। शूद्रस्य तिस्रः प्रतिलोमजातयः। एवं द्वादश जातयः। एवं तासां परस्परभिन्नजातिषु चतुर्वर्ण्यां च जाता जातयस्ततो जाता इति बव्ह्यः संकरजातयः। तासां तत्तत्कुलकृता स्वस्य कुलाचारेण यत्कर्मणा जीवनं प्राप्तं सैव वृत्तिः। अंत्यजाः शूद्रा ब्राह्मण्यां जाताः। ततो जाता अंतेवसायिनः। पुल्कसमतंगादयः। एषां वृत्तिस्तत्तत्कुलकृता भवेदित्यन्वयः। ब्राह्मण्यां क्षत्रियाज्जातो वैश्याद्वैदेहिकस्तथा। शूद्राज्जातस्तु चंडालः सर्ववर्णविगर्हित इति वचनात्॥३१॥ एवं वृत्तिमुक्त्वा धर्ममाह॥ प्राय इति। स्वभावविहितः स्वस्य भावो जातिः। यज्जातीयत्वमिति यावत्। तज्जातीयस्य यो वेददृग्भिः स्मृतः स्मृतिरूपग्रंथेनोक्तः। सः युगे युगे प्रतियुगं प्रेत्य मृत्वा स्थितस्येह लोके स्थितस्य शर्मकृत् सुखकृत्। प्रायं इत्यनेन रागादिकलुषितत्वे शर्मकृत्वाभावः सूचितः। अनेन स्मृतिषु तत्तज्जातीयधर्माणां विस्तृत-

त्वादिहानुक्तिरिति सूचितं॥३२॥ स्वस्वजातिविहितधर्मानुष्ठानेन न कवल स्वर्गः किंतु मोक्षाऽपात्याशयनाह॥ वृत्त्यात स्वभावकृतया स्वस्वजातिप्रयुक्तया वृत्त्या धर्मानुष्ठानेन स्वकर्मणि वर्तमानः। स्वभावजं भाव इच्छा तज्जं कर्म काम्यं हित्वा शनैनिर्गुणतां मोक्षमियात्। अनेन सर्वजातिविहितं कर्म अकामेनानुष्ठीयमानं मोक्षसाधनमित्युक्तं भवति॥३३॥ अकाम्यं कर्म मोक्षहेतुरित्युक्तं। काम्यं न तद्धेतुरिति सदृष्टांतमाह॥ उप्यमानमिति। पुनः पुनरूप्यमानं क्षेत्रं निर्वीर्यं सत्। सुत्यै बहुधान्यलाभाय न कल्प्यते। प्रत्युत बीजमपि नश्यति। तथा काम्यमपि पुनः पुनः कामायानुष्ठीयमानं निर्वीर्यं सत्कामान्न ददाति। स्वयं च व्यर्थं भवतीति भावः॥३४॥ यथोप्यमानं क्षेत्रवत्कामाशयं चित्तं कामानामतिसेवया विरज्येत। अंतर्णीत णिच्। विरक्तं कुर्यात्। निर्वीर्यत्वादिप्राप्तेः। स्वतस्तु न विरक्तं भवति। किंतु कामबिंदुभिरभिवर्धमेव। आज्यबिंदुभिरग्निवत्॥३५॥ वर्णाश्रमादिलक्षणोक्त्या भवद्व्यवहारादिलक्षणं प्रयोजनं चाह॥ यस्येति। प्रोक्तं श्रुत्यादिषु। अन्यत्राप्यदृष्टपूर्वेऽपि वस्तुनि यदि व्यंजकं लक्षणं दृश्येत तत्तद्वस्तु तेनैव लक्षणेनेदृशवर्णोऽयमीदृशाश्रमोऽयमिति निर्दिशेत्। व्यवहरेदिति योजना॥३६॥ इति श्रीभागवतटिप्पण्यां द्वादशोऽध्यायः॥ ७–१२॥

॥हरिः ॐ॥ वर्णधर्मानुक्त्वाऽऽश्रमधर्मान्विवक्षुराश्रमत्रयधर्मांस्तावदाह॥ ब्रह्मचारीत्यादिना। दांतो निगृहीतेंद्रियः। गुरोर्हितमाचरन्। मनोवाक्कायकर्मभिरिति शेषः। दासवन्नीचो भृत्यवद्गर्भदासवद्वा नीचः। सुदृढं सौहृदं स्नेहो यस्य सः॥१॥ गुरूपदेशकं। अग्निमग्निकार्यार्थमर्क प्रातः सायं वरुणं चेति ग्राह्यं। सुरोत्तमान् प्राच्यादिदिस्थितदेवान्। संध्ये सध्यादेवते। ब्रह्म गायत्रीं जपन्॥२॥ आहूतो गुरुणा। चरणौ। गुरोरिति शेषः॥३॥ वासमुपरिवस्त्रं। यथोदितं शास्त्रोक्तं॥४॥ नो चेदपराधादिनाऽनुज्ञातो नो चेत्। क्वचित्सायमाशे प्रातराशे वा॥५॥ यावदर्थं यावत्स्वप्रयोजनं गुरुप्रयोजनं वा। यावत्तावदेवेत्यर्थः। स्त्रीनिर्जितेषु स्त्रीवशेषु॥६॥ प्रमदागाथां वनितागीतां। बृहद्व्रत इद्रियनिग्रहवतः। अगृहस्थ इत्यनेनाश्रमत्रयस्याप्ययं निषेधः॥७॥ विशेषतो निषेधमाह॥ केशेति। स्नपनं स्नानकरणं॥८॥ कुत इत्युक्ते मनोद्रवणस्यानिवार्यत्वं रूपकेणाह॥ नन्विति। कैमुत्यसिद्ध्यर्थं निषेधांतरमाह। सुतामपीति। एतच्च गृहस्थविषयमितरस्याप्रसक्तेः। अन्यदो व्यवहारयोग्य-

समये॥९॥ ननु बंधनिवृत्त्यर्थं किल निवृत्तधर्मानुष्ठानं। ज्ञानानंदादिस्वरूपस्य जीवस्य तद्विपरीतदुःखादिलक्षणो बंधएव कुतः। न च स्वातंत्र्यादि भ्रमाद्बंध इति वाच्यं। तस्यापि स्वत एव विरामसंभवादित्यत आह॥ करूपयेदिति। आभास्यत इत्याभासमिदं शरीरादिकं यावदीश्वर आत्मनः स्वस्य कल्पयेत्संपादयेत्तावद्वैतं स्वातंत्र्यभ्रमादिकं न विरमेन्न निरस्येत्ततो मिथ्याज्ञानादस्य ज्ञानानंदादिस्वरूपस्य जीवस्य विपर्ययो दुःखादिलक्षणो बंधोऽनुवर्तत इति योजना। तथा च भगवदिच्छयैव प्राप्तमिथ्याज्ञानादिनिबंधनसत्यबंधनिवृत्ते स्तत्प्रसादसाध्यत्वात्तत्प्रसादाय धर्मोऽनुष्ठेय इति भावः। अत्र द्वैत पदं मिथ्याज्ञानपरं। द्वि शब्दो विरुद्धवाची भावप्रधानश्च। तथा च द्वित्वेन विरुद्धत्वेन इतं युक्तं द्वीतं। प्रज्ञादित्वात्स्वार्थे णिच्। तदेव द्वैतं विरोधश्चाविद्यमानाकारावगाहित्वेन। एवं सम्यग्ज्ञानमद्वैत मित्येकत्ववेदनमिति चोच्यते। एकत्वेनाविरुद्धत्वेन युक्तं वेदनमेकत्ववेदनमिति मध्यमपदलोपीसमासांत्। तथा च द्वैत पदस्योत्तार्थमाभिप्रेत्य तात्पर्यं प्रवृत्तं। बहुत्वेनैव वस्तूनामित्यादि। वस्तूनां वस्तुतो बहूनामिति शेषः। एवमेकस्यैकत्वेनेत्यपि ध्येयं। तथा च यद्वस्तुतो बहूनां वस्तूनां बहुत्वेनैवैकस्यैकत्वेनैव यथार्थज्ञानं तदैवाद्वैतज्ञानमुच्यते। अद्वैतं च तत्ज्ञानमिति विग्रहः। तदन्यथा बहूनामेकत्वेनैकस्य वा बहुत्वेन ज्ञानं तत् द्वैतज्ञानमुच्यते। यथा ज्ञानं येन प्रकारेण तथा तत्प्रकारवद्वस्तु। यथा यत्प्रकारवद्वस्तु। तथा तत्प्रकारावगाहिनी मतिः। भेदो विरोधः। ततो विरोधाभावादेकत्ववेदनमित्युच्यत इत्यर्थः॥१०॥ ब्रह्मचारिण उक्तधर्मं गृहस्थादिष्वतिदिशति॥ एतदिति। एतदुक्तं यथासंभवं गृहस्थस्येति। तेन भिक्षाचरणाग्निकार्यादेरभावः। तथा च ब्रह्मचारिणो विशिष्यधर्मोक्तिर्युक्ता। अन्यच्चान्यदपि यज्ञप्रजनातिथिभोजनादि। अनेन गृहस्थस्यापि विशिष्यधर्मोक्तिर्युक्तेति । यतेरपीत्यत्रापि यथासंभवं बोध्यं। अग्निकार्यादेरभावात्। अन्यदपीत्यनुवर्तनीयं। प्रणव जपलयन्यासादेर्विद्यमानत्वात्। गृहस्थस्य गुरकुलवृत्तिर्विकल्पितेत्याह॥ गुरुवृत्तिरिति। ऋतुगामिन इत्यनेन तदनिषिद्धमिति सूचितं॥११॥ विकल्पश्च व्यवस्थित इत्याह॥ अजनेति। ये गुरुकुले धृतव्रता ब्रह्मचारिवत्संकल्पितव्रतास्तदां ऽजनादींस्त्यजेयुः।

यथाबुद्धिबलं। अवबुध्य विचार्य॥ १३॥ गुरोः काममपाक्षेत वर दक्षिणा दात्वा यदाश्वरस्ताह दत्वा गृहस्थाश्रम। वन वानप्रस्थाश्रमं वा प्रविशेत्। प्रव्रजेद्वा। नैष्ठिकः स्यात्तत्रैव गुरुकुल एव वासयेदिति योजना। नैष्ठिको ब्रह्मचारी तु वसेदाचार्य संनिधौ। तदभावेऽस्य तनये पुन्यां वैश्वानरेऽपि चेति वचनात्। नैष्ठिकादन्यस्य तु दूरस्थस्य गुरुकुलादन्यत्रस्थस्य गृहाश्रमादि ज्ञेयं॥ तदुक्तं तात्पर्ये॥ गुरोराज्ञेत्यादि॥१४॥ गुर्वग्न्यर्कसुरोसमानुपासीदित्यादौ गुर्वाद्युपासनमुक्तं। तद्नुर्वादावधोक्षजसंनिधानदर्शन पूर्वमेवेत्याह। अम्नाविति। अप्रविष्टं सर्वगतं भूतैः प्रभूतैः स्वधामभिः स्वसामर्थैः। प्रविष्टवत्। नित्यवच्छ्रवणमित्यादौ इव स्वार्थे वतिः। प्रविष्टमनुरूपवंतं तत्तद्धृदयांतर्गतरूपवंतमधोक्षजं पश्येदिति योजना। अप्रविष्टादि पदार्थस्तु अप्रविष्ट इत्यादि तात्पर्ये द्रष्टव्यः॥ १५॥ उक्तधर्मवतां फलमाह। एवमिति। परं विज्ञानमपरोक्षज्ञानं विंदंति। अनंतरं परं ब्रह्माधिगच्छतीति योजना। वानप्रस्थधर्मानाह॥ वानप्रस्थेति। ऋषिलोकं सप्तर्षिलोकं॥१७॥ कृष्टपच्यं कर्षणादिना भूम्यादौ जायमानं धान्यादिकं। अकृष्टमप्यकालतो जायमानं। अग्निपक्कं वा नाश्नीयादिति योजना। आमं वाऽर्कपक्वमुत वाऽऽहरेदिति योजना॥१८॥ वन्यैरारण्यकैर्देवत्रद्यादिभिः। तदलाभेऽन्येन वा येन केनचिल्लब्धेन कालचोदितान् दर्शपूर्णमासादिकाले विहितांश्चरुपुरोडाशादीन्निर्वपेत्। पुराणं जीर्णं तु परित्यजेदिति योजना॥१९॥अग्न्यर्थमेवाग्निरक्षणार्थमेवोटजं पर्णशालामाद्रिकंदरं वाऽऽश्रयेत्। स्वयं तु हिमादींस्तत्सहनवान् भवेदिति योजना॥२०॥ केशान् शिरसि विद्यमानान् रोमाणि कक्षोपस्थादौ विद्यमानान्नखान् श्मश्रूणि मुखे विद्यमानानि। एतद्रूपाणि मलानि देहसंपृक्तमृदं वा। एवं कमंडल्वादीनि वल्कलानि परिधानयोग्यानि वृक्षत्वग्रूपाणि। अग्निपरिच्छदान् दर्भान् दधत्॥२१॥ मुनिर्वनस्थो बुद्धिः कष्टतो यथा न विपद्येत्। तथा द्वादशाब्दानष्टौ चतुरो वा द्वावेकं वा वने चरेदिति श्लोकद्वययोजनां॥२२॥ उक्तो वनस्थो यदा व्याधिभिर्जरया वा स्वक्रियायामग्निहोत्रेष्ट्यादि क्रियायामान्वीक्षिक्यां ब्रह्मापरोक्षहेतुभूतायां विद्याया ब्रह्मविद्यायां तदुपदेशेऽकल्पोऽसमर्थस्तदा प्राणांस्त्यक्तुमनशनादिकं कुर्यात्॥२३॥ अग्नीनाहवनीयादीन् आत्मनि देहे आरोप्याहं ममात्मतामहं स्वतंत्रो ममेदं शरीरादिकमित्यहंकारममकारौ संन्यस्य संत्यज्य संघातं कार्यं। यथार्हतो यथायोग्यं कारणेषु सम्यक् न्यसेत्। तत्र लीनं चिंतयेत्। यद्यपि योगिमृतकाले लयो नास्ति तथाऽपि तदज्ञानमेव विलापनं॥

तदुक्तं तात्पर्ये॥ यदज्ञानमित्यादि॥६४॥ तदेव विवृणोति॥ ख इति। खानि मुखनासिकाश्रोत्रोदरविवराणि। आत्मवान् जितमनस्कः। शेषमुक्तादन्यत्कठिणभागशरीरं यथोद्भवं कार्यकारणभावमनुसृत्य। अनेनान्येषामपि पंचभूतकार्याणां लाघवादीनामाकाशादिषु लयसंग्रहो वचनांतरानुसारात्सूचितः। वचनंतु आकाशाल्लाघवं सौक्ष्मं शब्दं श्रोत्रं तथा बलं। वायोस्तु प्रेरणा चेष्टा व्यूहनं सौक्ष्म्यमेव च। अग्नेस्तु दर्शनं शक्तिरौष्ण्यं रूपप्रकाशकं। रसेभ्यो रसनं शैत्यं स्नेहक्लेदनमार्दवं। भूमेर्गंधस्तथा घ्राणं गौरवं मूर्तिरेव चेति टीकायामुदाहृतं॥२५॥ देहभागानां पंचभूतकार्याणां तत्तल्लयमुक्त्वा कर्मेंद्रियाणां सव्यापाराणामभिमानिदेवतासु अधीनत्वरूपलयचिंतनमाह॥ वाचमिति। सवक्तव्यमिति क्रियाविशेषणं। वाचं वक्तव्यं स्वहितं यथास्थानं। अधिष्ठातृतया स्वस्थितिमनुसृत्याग्नौ विनिर्दिशेत्। तदधीनत्वरूपलयं चिंतयेदिति योजना। एवमुत्तरत्रापि दक्षापेक्षयेंद्रस्य मुख्याभिमानित्वादिंद्रे शिल्पं करावपीत्युक्तं। विष्णौ दक्षिणपादाभिमानिनि जयंते एकं। वामपादाभिमानिशंभावित्यपि ज्ञेयं। प्रजापतौ दक्षे तत्समे मनौ चेति ग्राह्य। तेन न प्रसिद्धिविरोधः॥२६॥ मित्रे तन्नामके सूर्ये। मृत्याविति पाठे मृत्यु पदेन मित्र एवान्यो वा कश्चनदेव इति ज्ञातव्यं। ज्ञानेंद्रियाणां यथास्थानं देवतासु लयमाह॥ दिविति। सनादेन श्रोतव्येन। अध्यात्मनि प्राणे। तस्यैव त्वगभिमानितयाऽऽत्म शब्दवाच्य सर्वदेहव्यापित्वात्॥२७॥ ज्योतिषि सूर्येऽभिनिवेशयेदित्येतत्पूर्वत्राप्यन्वेति। जिव्हां रसनीयेन सहेति शेषः। अप्सु वरुणे। घ्रेयैर्घ्रातव्यैः क्षितावश्विनोर्मुख्याभिमानित्वेऽपि धराया अमुख्याभिमानित्वमस्तीत्येवमुक्तिः। मनो बुद्धिरहंकारश्चित्तं चेतनेति पंचविधमनसोऽभिमानिदेवतासु लयमाह॥ मन इति। परे कवाविति पर शब्देन विशेषणाद्बृहस्पतिरेव ग्राह्यः॥ तदुक्तं तात्पर्ये॥ पर इत्यादि॥२८॥ अध्यात्मनाऽहंकारात्मकवृत्तियुक्तेन मनसा सह कर्माणि रुद्रे। कर्मणामहंकार संबंधमुपपादयति॥ यदिति। अहं करिष्यामीत्यभिमानेन कृतत्वात्त्क्रियाणामहं संमतत्वं। सत्वेन साधुपुण्येन सह चित्तं क्षेत्रज्ञे परमात्मनि। यद्यपि चित्तस्य स्वाभिमानिनि हिरण्यगर्भे लयः। तथाऽपि तद्वारा

॥३०॥ अक्षरतयाऽक्षरलक्षणलयरहिततया। आत्मानं परमात्मानम्। जडस्यातलेयाच्चिन्मात्रमवशोषत ज्ञात्वाऽद्वया भगवताऽन्यस्मृतिवर्जितः। दग्धयोनिरिव दग्धारणिरनलं इव कृत्यांतराभावाद्विरमेत्। उपरतो भवेदिति योजना॥ अत्रात्मादि पदानां। परमात्माद्याधारत्वे तात्पर्यं॥ आत्मानमित्यादि॥३१॥ इति श्रीभागवतटिप्पण्यां त्रयोदशोऽध्यायः॥७–१३॥

॥हरिः ॐ॥ क्रमात्प्राप्तं यतिधर्मं निरूपयति अस्मिन्नध्याये॥ कल्प इति। यदा कल्पः स्वक्रियायां व्याधिभिरित्यत्र कल्पस्यात्मारोपणेनानशनादिना विराम उक्तः। इदानीं कल्पस्तु वनस्थो विरक्तश्चेत्परिव्रजेदिति संन्यासं विधत्ते। वस्तुतो वैराग्यमात्रं सर्वाश्रमिणोऽपि संन्यासे निमित्तं। यदहरेव विरजेत्तदहरेव प्रव्रजेदिति श्रुतेः। एवमुक्तलयमनुसंधाय देहातिरिक्तं सर्वं परित्यज्य देहमात्रावशेषितो ग्रामैकरात्रविधिना निरपेक्षो वित्ताद्यनपेक्षो महीं चरेदिति योजना। कल्प इत्युक्त्या महीचरणासमर्थश्चत्क्षेत्रादौ व्याख्यानादिना वसेदित्यपि ग्राह्यं॥१॥ यदीत्यनेन वस्तुतो दिग्वासस्त्वमेवेति ध्वनितं। यदि वासो विभृयाद्गुह्यं गूहनार्थं लोकप्रार्थनया वा वासो धर्तुमिच्छेत्कौपीनाच्छादनं। परं वासो बिभृयादिति योजना। कौपीनं चाच्छादनं च तयोः समाहारः कौपीनाच्छादनं। सर्वोऽपिद्वंद्वो विभाषयैकवद्भवतीत्युक्तेः। न तु कौपीनरूपाच्छादनं। कूपपतनमर्हतीत्यर्थे कुप शब्दात् खय् प्रत्यये नरकषतनसाधनं। पापं कौपीनं। तत्साधनत्वालिंगमपि कौपीनं तदाच्छादनत्वाद्वस्त्रमपि निरूढलक्षणयोच्यते। तथैव वैयाकरणेषु निरुक्तेः। सत्कौपीनः पीनकृष्णाजिनश्रीरित्यादि प्रयोगाच्च। तथा च कौपीन पदेनैवाच्छादनलाभे तदन्यनितंबाच्छादनमेवाच्छादन पदेनैव ग्राह्यं। अत एव मध्वविजये॥ शुभशुद्धनितंबबिंबराजन्नवकौशेय विशेषबाह्यवस्त्रं। ननु कुक्षिगलालिकेषु रेखा त्रितयेन प्रकटेन शोभमानमिति॥ कौपीनातिरिक्तं नितंबाच्छादनमुक्तं। परमुत्तमं। शीतातपादि निवारणदक्षमन्यदाच्छादनं। यथोक्तं मध्वविजये॥ मृदुसूक्ष्मघनारुणाविकाच्छः प्रकटप्रावरणेन भासमानं। अतिनूतनतिग्मभानुभासां निकरेणेव सुवर्णसानुमंतमिति। न च शीतातपनिवारणार्थमेकमाच्छादनं यतेः कौपीनात्परमित्याहुः। एकेनान्यद्विना वपुरिति वचनविरोधः। तत्रैक शब्दस्य शीतातपादिनिवारणदक्षत्वरूपमुख्यत्वपरत्वात्। अन्यथैकत्वपरत्वे कौपीनेन द्वित्वमाप्त्या विरोधात्। नितंबाच्छादनप्रापकमध्वविजयविरोधाच्च। न चेदमेव शीतातपनिवारार्थं नितंबाच्छादनमपीति वाच्यं। बहिर्वाससो नाभेरधो निषिद्धत्वात्। मध्वविजये नितंबाच्छादनस्य कौशेय

त्वस्य वातातपनिवारार्थस्याविकत्वस्योक्तेश्च। किंचैकत्वसंख्यार्थकत्वे करवस्त्रमपि न स्यात्। तथा च मध्वविजयविरोधः। करगपटपिंडार्थमतिकृदिति तत्रोक्तेः। तस्मादेवमेव ज्ञेयं। त्यक्तमप्सु त्यक्तं वासो न पुनर्विभृयात्। देहमात्रावशेषित इत्यस्यापवादांतरमाह॥ लिगदडाभ्यामिति। लिंगं कमंडल्वादिकं। अत्र द्विवचनेन दंड एक इति सूचितं। न तु त्रिदंड इति। त्रिदंडधारिणं भिक्षुं द्विजं चापि त्रिशूलिनं। गार्दभं यानमारोप्य स्वराष्ट्राद्विप्रवासयोदित्यापि बहुवचनविरोधात्। न च चतुर्धा भिक्षवो विप्राः सर्वे चैव त्रिदंडिन इत्यादि त्रिदंडविधिविरोध इति वाच्य। तस्य दंडो वाग्देहचेतसामिति वक्ष्यमाणररीत्या दंडत्रयदंडनविधिपरत्वात्। तथा च लिंगदंडाभ्यामन्यदनापदि न विभृयादिति योजना॥२॥ एक एव पत्न्यादिरहित एव। तेन शिष्यपरिकृतत्वेऽपि न दोषः। आत्मारामः परमात्मालोचनलब्धसुखवान्। अनपाश्रयो ग्रामाद्यावासरहितः। यथाऽऽह याज्ञवल्क्यः॥ एकारामः परिव्रज्य भैक्षार्थं ग्राममाश्रयेत्। अप्रमत्तश्चरेद्भैक्षं सायाह्नेउपलक्षित इति। सर्वभूतेषु सुहृद्धितो नारायण एव मुख्याश्रय इति ज्ञानवान्॥३॥ नारायणपरायणत्वं विशदयति॥ पश्येदिति। अद्वये सदृशरहिते। सदसतो मूर्त्तामूर्त्तजगतः। परे उत्कृष्टे। उत्कषार्थकत्वादेव न सर्वनामसंज्ञा। आत्मनि परमात्मन्यथोक्तविशेषणायोगात्। अत एव परमात्मनीति तात्पर्यं। अदो विश्वं प्रामाणिकं सर्वजगत्। सदसन्मये मूर्त्तामूर्त्तात्मके सर्वत्र जगति परं सर्वोत्कृष्टं ब्रह्म गुणपूर्णमात्मानं परमात्मानं पश्येदिति योजना॥४॥ सुप्तप्रबोधयोः संधौ शयनोत्थानयोः संधौ। आत्मदृगात्मज्ञानी। आत्मनः स्वस्य गतिं सत आगम्य न विदुः। सत आगच्छाम इति सति संपद्य न विदुः सति संपत्स्याम इत्युक्तप्रकारेण पश्यन् बंधं मोक्षं च वस्तुनः। स्वतंत्रवस्तुनो भगवतः सकाशात्स्थितं मायामात्रं भगवदिच्छया निर्मितं त्रातं च पश्यन् नाभिनंदेदिति योजना॥५॥ ध्रुवमवश्यं भाविनं मृत्युं नाभिनंदेत्। नाकांक्षेत् । नाप्यध्रुवं स्वजीवितमभिनंदेत्। अन्यतरकांक्षावान्न स्यादिति यावत्। परं परंतु। भूतानां प्रभवाप्ययहेतुभूतकालाख्यं परमात्मानं प्रतीक्षेतेति योजना॥६॥ असंच्छास्त्रेष्वद्वैतादि शास्त्रेषु। कक्कोकादि शास्त्रेषु वा। न सज्जेत। जीविकां वेतनादिलक्षणां याजनादिलक्षणां वा नोपजीवेन।

जीवनोपायं न कुर्यात्। नारंभान् आरब्धुमयोग्यान्कर्षेणादीन्॥८॥ नारंभान्नारभोदेतिद्रव्यार्जनसाधनकर्षणादेर्निषेधे कथमन्नदानादिधर्मः स्यादित्यत आह। न यतेरिति। शांतस्य समे ब्रह्मणि चित्तवतो महात्मनो यतेराश्रमः प्रायोऽन्नदानादिधर्महेतुर्न स्यात्। पूजनेन स्वपरिवाराणां मिष्टमन्नं दीयते चेत्तदा बहुजनान्नदानलाभो भवतीति प्राय इत्युक्तं। यद्यनायासेन भरणं तदा बिभृयात्। नो चेत्त्यजेत्। यदाह याज्ञवल्क्यः। नाश्रमः कारणं धर्मे क्रियमाणे भवेद्धि यः। अतो यदात्मनः पथ्यं परस्य न तदाचरेदिति॥ अनायासेन क्रियमाणवेद्भवेत्। आत्मनः पथ्यमाचरेत् न परस्यैव पथ्यमित्यन्वयः॥९॥ अपरोक्षज्ञानिनः संन्यासिनः प्रवृत्तिप्रकारमाह॥ अव्यक्तेति। अव्यक्तं बाह्यलिंगं यस्य सः। व्यक्तोऽपरोक्षीकृतार्थो भगवान्यस्य मनीषी मननशीलः। कविर्यथोचितसार्वज्ञवान् संन्यासी अदृश्यो भवेत्। दृश्यश्चेदपि लौकिकव्यवहर्तृणामुन्मत्तवत्स्त्रीणां बालवत्। शतगोष्ठीवक्तृणां मूकवदात्मानं दर्शयेत्॥१०॥ एतादृशाचारे इतिहासमाह॥ अत्रेति। चिरपूर्वत्वदर्शनाय पुरातनमिति। आजगरस्याजगरवृत्तिमाश्रयतः॥११॥ कावेर्यां कावेर्युत्पत्तिस्थाने। सैंह्यस्य गिरेः सानुशृंगसमीपे। तनूदेशैः शरीरभागै रजश्वलै रजः कुंठितैर्निगूडममलं तेजो यस्य॥१२॥ लोकस्य जनस्य तत्त्वजिज्ञासया॥१३॥ कथं भूतं तमित्यत आह॥ कर्मणेति। जनो मुनिं कर्मणा संध्यावंदनादिना। आकृतिभिराकारविशेषैर्वाचाव्यवहारेण वर्णाश्रमादिज्ञापकैलिंगैः सोऽसाविति वा नेति वा नाविंदत्तमिति योजना॥१४॥ एतादृशमपि पूज्य इति ज्ञात्वाऽपृच्छदित्याह॥ तमिति। विधिवदभ्यर्च्यार्घ्यपाद्याद्युपचारं कृत्वा। विवक्षुः संवादं कर्तुमिच्छुः॥१५॥ प्रश्नप्रकारमा सार्धश्लोकेन॥ बिभर्षीति। सोद्यमो वित्तार्जनोपायवान्। उद्यमादीनां कार्यकारणभावमाह। वित्तमिति॥१६॥ शयानत्वं निरुद्यमादीनां प्रयोज्यप्रयोजकभावमुक्त्वा पीवानत्व कथमित्याह॥ न त इति। पीवा यतः कारणात्तद्वेदितुं क्षमं चेद्वद॥१७॥ पीनत्वातिरिक्तं भोगकार्यं चाह॥ कविरिति। अन्नमयं हि सौम्यमन आपोमयः प्राण इत्यादि श्रुतेः। मन आदि करणपाटवस्य भोगसाध्यत्वाद्भोगाभावेऽपि पाटवमस्ति तत्र कारणं किमित्याशयः। कविरिति मनः पाटवं। कल्प इति देहपाटवं। अतिनिपुणदृगिति नेत्रपाटवं। चित्रप्रियकथ इति वाक्पाटवं। सम इत्यनेन साम्यं च ज्ञानि

लक्षणं सूचितं। तस्योपपादनं कुर्वतो लोकस्य यत्कर्म तन्न द्वेक्षि न नौषि वेति॥१८॥ नारायणपादारविंदध्यानलक्षणमकरंदपानेन पीनमित्याशयेन वक्तीत्याह॥ नारद इति। तद्वागमृतयंत्रितः प्रह्लादप्रश्नवचनरूपामृतेन प्रेरितः॥१९॥ भगवत्पादारविंदध्यानानंद एव पीनताकारीति भवानपि महाज्ञानित्वाद्वेदेत्याह॥ वेदेति। अध्यात्मचक्षुषाऽध्यात्मज्ञानेन नृणामीहोपरमयोः प्रवृत्तिनिवृत्तिलक्षणयोर्मार्गयोः पदं निश्चितं विषयं स्थान वेद॥२०॥ इदमित्युक्तमेवाह॥ यस्येति। ध्वांतमज्ञानं। अन्यत्रांधकारं॥२१॥ अथाऽपि तवज्ञाने सत्यपि प्रश्नान् ब्रूमहे प्रतिवच्मः। तत्र निमित्तमाह। सभाषणीय इति। संभाषणस्यापि प्रयोजनमात्मनः शुद्धिमिति॥२२॥ स्वस्य पूर्ववृत्तमाह॥ तृष्णयेति। भवं वहति प्रवहतीति भववाहिनी। ग्राम्यकामैर्मुक्तिसाधनेतरविषयकामैरपूर्यया तृष्णया प्रयोजककर्त्र्या कर्माणि कार्यमाणोऽहं नानायोनिषु योजित इति योजना॥२३॥ यदृच्छया दैवेच्छयेमं लोकं ब्राह्मणमानुषदेहं स्वर्गापवर्गयोस्तिरश्चां तिर्यग्योनीनामस्य च मनुष्यशरीरांतरस्य द्वारं कारणभूतं कर्मभिर्भ्रमन् अधुना प्रापित इति योजना॥२४॥ अत्रापि मनुष्यलोकेऽपि दंपतीनां दंपती च दपती चेत्येकशेषः। बहूनां गृहस्थाश्रमिणां सुखायान्यस्य दुःखस्यापनुत्तये कर्मकुर्वतां विपर्ययं सुखाप्राप्तिं दुःखप्राप्तिं च दृष्ट्वा गृहस्थाश्रमान्निवृत्तः॥२५॥ प्रायेण विपर्ययदर्शनेऽपि कदाचिद्वैषयिकसुखस्यापि संभवाद्गृहाश्रमान्निवृत्तौ तदलाभात्कुतो निवृत्त इत्याशंकायामाह॥ सुखमिति। अस्यात्मनः सुखं रूपं स्वरूपमेव। बलमानंदेति श्रुतेः। न त्वागंतुकं सुखमुत्पाद्यं तच्च सर्वेहोपरते सर्वकाम्यकामनाराहित्यात्। तथा सर्वेहे सर्वचेष्टके उप अधिके भगवति रतेर्भक्तेर्यद्यस्मादभिव्यज्यते हि तस्मान्मनःसंस्पर्शजान्मनोऽधिष्ठितेंद्रियाणां विषयसंस्पर्शाज्जातानत एव नश्वरान् दुःखसंमिश्राश्च शस्तान् प्रशस्ततया प्रतीतान्। भोगान्वनितादिभोगान् दृष्ट्वा विमृश्य गृहस्थाश्रमं न संविशेत्। न प्रविशेदिति योजना। भगवद्भक्त्यादिनित्यस्वरूपसुखव्यक्तौ सत्यां कादाचित्कदुःखसंमिश्रसुखभोगार्थं गृहाश्रमो न संवेशनीय इति भावः। एतच्च स्वरूपतः संन्यासिमनुष्योत्तमादिविषयं ज्ञेयं॥२६॥ तर्हि लोकः कुतः प्रवर्तत इत्यत आह॥ इतीति। इत्ये-

मानं दृष्टांतप्रदर्शनेन निंदति। जलमिति। तदुद्भवैः शैवलादिभिः छन्नं जलं स्वसमीपस्थितमज्ञो हित्वा जलकाम्यया मृगतृष्णां जलभ्रांतिविषयीभूतां। मरुमरीचिकामुपाधावेद्यथा तथाऽज्ञः स्वतः। ल्यब्लोपनिमित्ता पंचमी। स्वरूपसुखं विहायान्यत्र विषयेष्वर्थदृक् पुरुषार्थदृगुपाधावेदिति योजना॥२८॥ क्रियायामपित्स्वातंत्र्येऽपि फले न सर्वथाऽस्तीति क्रियाणां वैफल्यमाह॥ देहादिभिरिति। दैवतंत्रैर्दैवाधीनैर्देहादिभिरात्मनः सुखं दुःखाप्ययं वेहतोऽनीशस्य फलेऽस्वतंत्रस्य जीवस्य कृताः क्रियाः। मोघाः कृता भवंतीति योजना। वैफल्याच्च वैषयिकसुखाय क्रिया न कर्तव्येति भावः॥२९॥ आदावंते च दुःखोपबद्धत्वाद्वर्तमानदुःखविमुक्तिरहितत्वाच्चार्थानां कामानां च न पुरुषार्थत्वमित्याह॥ आध्यात्मिकादिभिरिति। मन आदींद्रियदेहादिजन्यदुःखैराध्यात्मिकैरनूपदेशा दिजन्यैराधिभौतिकैर्वर्षातपादिजन्यैराधिदैविकैश्चाविमुक्तस्य मर्त्यस्य मृतिभयजन्यदुःखवतः कृच्छ्रोपनतैर्बव्हाया सागतैरथैः कामैश्च किं क्रियेत कार्यं किमिति योजना। बहुदुःखकवलितत्वान्नार्थादीनां प्रयोजनत्वमिति भावः॥३०॥ अर्थकामाद्युत्पत्त्यनंतरं सुखमेव दुःखं नास्तीत्यतस्तदाऽपि क्लेशोऽनुभवसीत्यत आह॥ पश्यामीति। अत्र धनिनां चतुर्भिर्विशेषणैः क्लेश उपपादितः। अनेन त्यागिनो जितात्मनो भयरहितस्य विशंकारहितस्य च नेदृशः क्लेश इत्युक्तं भवति॥३१॥ सर्वत इत्येतद्विवृणोति॥ राजत इति। पशुपक्षितश्चत्वरादौ गोधूमादेः प्रसारणे महिष्यादि पशुतः कुक्कटादि पक्षितः कालतो वर्षादि कालतः स्वस्मात्स्वकीयादेव भृत्यात्प्राणार्थवतः प्राणिति प्रवर्ततेऽनेनेति व्युत्पत्त्या गजतुरगादिलक्षणः कामः प्राणस्तद्वतोऽर्थवतश्च भयमिति योजना॥३२॥ बहुदोषाणां मूलत्वाच्च कामचित्तयोः स्पृहा न कार्येत्याह॥ शोकेति। क्लैब्यमसामर्थ्यं॥३३॥ स्वस्य वैराग्यपरितोषयोर्गुरू आह॥ मधुकरा इति। नोऽस्माकं॥३४॥ क्रमेण शिक्षाप्रकारमुपपादयति। विराग इति। गुरुत्वं बुद्धिजनकत्वं मद्बुद्धिजनकत्वं तत्र वित्तं न संपाद्यमित्येतद्बुद्धिजनकत्वं मधुकरस्य। वित्तवत्कृच्छ्र संपादितमध्वर्थमन्ये महत्तत्वेन दृष्टस्य मधुकरस्य। यदृच्छालाभेन परितोषणीयमित्येतेनैवेष्टतया हृष्टस्य सर्पस्येति विवेचनीय। पतिं वित्तपतिं॥३५॥ यदृच्छयोपनतादनायासेन दैवेच्छयैव लब्धात्। नो चेदलाभे। शये शयनं करोमि। बव्हहानि बहुदिनानि सत्त्ववान् बलवान्॥३६॥ यदृच्छालाभप्रकारमेव विशदयति॥ क्वचिदित्यादिना। अल्पं परिमाणतः साधुस्वभावतो गुणोपेतं सहकारिसंपन्नं॥३७॥ श्रद्धया विश्वास-

पूर्वकमानेन। कंस्मिंश्चिद्दिने दिवा कस्मिंश्चिन्नक्तं रात्रौ॥३८॥ शयने यदृच्छालाभप्रकारमुक्त्वा वसने आह॥ क्षौममिति पीतांबरं दुकूलं कार्पासं। अजिनं कृष्णमृगादि चर्म। वल्कलं वसनयोग्यवृक्षत्वगादि। चीरं वस्त्रं। एतच्च विशेष्यं। अन्यत्कटपर्णादि। वसे आच्छादयामि। वस आच्छादन इति धातुः। दिष्टभुक् दैवमाप्तशुक्। तुष्टधीस्तुष्टमनस्कः ॥३९॥ शयने यदृच्छालाभप्रकारमाह॥ क्वचिदिति। धरोपस्थे भूमितले पर्यंके कशिपौ तल्पे कार्पासादिगर्भतया मृदुशयने॥४०॥ देहालंकारादौ यदृच्छालाभप्रकारमाह। क्वचित्स्नात इति। चरे चरामि। ग्रहवत्पशाचवत्॥४१॥ मनोवृत्तिप्रकारमाह॥ न निद इति। स्वभावविषमं गुणत्रयस्वभावकृतवैषम्योपेतं जनं योग्यं । अयोग्येषु निंद्यान् निंदेतेति निधानात्। उतापि तु महात्मनि भगवत्यैकात्म्यं मुख्यस्वामित्वं यैर्ज्ञातमेतेषां॥४२॥ एवं स्ववृत्तिमुक्त्वा संन्यासी लयचिंतनेन कृतकृत्यो भवेदिति तात्पर्येण संकोचेन तत्प्रकारमाहू॥ विकल्पमिति। विविधः कल्पः समर्थो देवसमूहः। तं चित्ते चित्ताधीनत्वाद्वाक् चित्तमित्युच्यते। यन्मनसा ध्यायति तद्वाचा वदतीति श्रुतेः। वागभिमानिन्यग्नौ जुहुयादधीनत्वे दद्यात्। द्यु दानादनयोरिति धातुः। दानं च चिंतनं। अग्नौ सर्वदेवलयच अग्नौ सर्वे देवा विलीयंत इति श्रुतिसिद्धः। तच्चित्तमग्निमिति यावत्। अर्थानां शब्दादीनां विपरिणामहेतुमनोऽभिमानिनींद्रे। मन इंद्रं वैकारिके तदभिमानिनि गरुडेऽमुं गरुडं मायायां प्रकृतिजन्यत्वान्माया शब्दवाच्यमहत्तत्त्वाभिमानिनि ब्रह्मणि। तां मायां ब्रह्माणमात्मानुभूतावात्मनः परमात्मनोऽनु अनुकूला भूतिर्महालक्ष्मीः। स्वामीयके सप्तमी। तद्वारा न तु तत्र देहलयः। विलीनो हि प्रकृतौ संसारमेतीति श्रुतेः। स्वानुभूतेर्लक्ष्म्या आत्मनि विष्णौ जुहुयात्। ततः परमात्मनि स्थितमनस्कः सत्यदृक् परमात्मापरोक्षी मुनिः संन्यासी विरमेत्। बाह्यकृत्यात्कृतकृत्यो भवेदिति यावत्। विस्तरतो लयस्तु सूर्याग्नियुक्त इत्याद्यनुव्याख्यानतोऽवगंतव्यः। अत्र तात्पर्यं। चित्ते मनोवृत्यभिमिनिनीत्यादि॥४४॥ भगवत्प्रियत्वात्प्रह्लादस्यात्यंतमितरेभ्यो गुप्तमपि स्ववृत्तमानुपूर्वेण वर्णितमित्याह। स्वात्मवृत्तमिति। वृत्तं चरित्रं। अत्र वृत्तस्य लोकशास्त्राभ्यामपेतत्वमनुपपन्नं। अवधूतवृत्तस्य ज्ञानिसंमतस्य शास्त्रादपेतत्वायोगादित्यतस्तात्पर्यं प्रवृत्तं॥ अशास्त्रीयत्वादित्यादि। मुखत आपाततः। शास्त्रनिर्णयगम्यत्वादुपक्र-

पुंसि च भूम्न्ये वेति कोशात्॥४७॥ इति श्रीभागवतटिप्पण्यां चतुर्दशोऽध्यायः॥७–१४॥

॥हरिः ॐ॥ वर्णाश्रमधर्माणां सर्वेषां गृहस्थाश्रममूलत्वात्तदाश्रमधर्मान्विवक्षुः प्रश्नागतिप्रकारमाह॥ युधिष्ठिर इति। एनां पदवीमवधूतादिसाध्यां मोक्षपदवीं येन विधिना गृहस्थाश्रमोचितधुर्मेण। तं ब्रूहीति योजना॥१॥ लोकानां लोकान्॥ तत्त्वेन याथार्थ्येन॥२॥ गृहोचितपंचमहायज्ञादिरूपाः क्रियाः कुर्वन् साक्षात्काम्यार्थत्वं विना मुख्यतो वासुदेवार्पणं। कुर्वन्निति शेषः। महामुनीनपरोक्षज्ञानिन उपासीतेति योजना। तथा च काम्यकामतां विना भगवत्प्रीत्यर्थमेव क्रियमाणं गृहाश्रमोचितं कर्म महामुन्युपासनसहितं मोक्षाय भवतीति भावः॥३॥ इत्थं भावांतरमाह॥ शृण्वन्निति। भगवतोऽवतारकथामृतं। अभीक्ष्णं पुनः पुनः। श्रद्दधानोऽतिविश्वासवान्सन् शृण्वन् उपशांतजनेन स्वोपासितमहाभक्तिमत्संन्यासिजनेनादृतः प्रीतिविषयो यथाकालं विहितकालं॥४॥ सतां संगात्सहवासजनितवैराग्यादात्मजायाऽऽत्मजादिषु। आत्मनि देहे जायादिषु मुंचमानेषु दैवात्संत्यजत्सु परस्परं संगम्य वा मुंचमानेषूत्थितः स्वप्नवत्स्वान् पुत्रादिष्विव संगं स्नेहं शनकैः क्रमेण स्वय मुंचेदिति श्लोकययोजना। अनेन, श्रद्धापूर्वकभगवत्कथाश्रवणतद्भक्तप्रतिसंपादन स्वकीयजनस्नेहपरित्यागः कर्तव्य इत्युक्तं भवति॥५॥ इत्थं भावांतरमाह॥ यावदिति। यावान् स्वस्य परलोकसाधनीभूतस्त्रानध्यानयागादिकमनुष्ठानपाटव देहेनातिथ्यादिभोजनवासनादिकं च गेहेन। तस्मिन्नेवप्रयोजने तत्रोपासीनो वस्तुतो विरक्तो रक्तवद्दृश्यमानो नृलोके स्थिरतां नरतामायुः पूर्त्यनंतरं न्यसेत् क्षिपदिति योजना। अनेन देहगेहादेः पारलौकिकप्रयोजनायैवानुसरणं कर्तव्यमित्युक्तं भवति॥ ६॥ इत्थं भावांतरमाह। ज्ञातय इति। अनेन स्वस्य महासाम्राज्यसत्वे ज्ञात्याद्युक्ताभीष्टदानादिकमपि भगवत्तोषसाधनमित्युक्तं भवति॥७॥ इत्थं भावांतरमाह॥ दिव्यमिति। दिव्यभौमांतरिक्षभोगसाधनवित्तं स्वयमेव न स्वीकुर्यात्। किंत्वितरेऽप्युपभुंजरिन्। अनेन भोगयागादिकमितरैरपि कारयेदित्युक्तं भवति॥८॥ इत्थं भावांतरमाह॥ यावदिति। अनेन स्वभोगसाधनपरिमितमेव स्वभोगसाधनं करणीयं। अन्यत्स्वं स्वत्वत्यागेनातिथ्याभ्यागतबंध्वादिभिर्भोजनीयं। नो चेत्स्नेह एवेति भावः। गोशतादपि गोक्षीरं प्रस्थं मानशतादपि। प्रासादादपि

खट्वार्ध। शेषाः परविभूतयः॥९॥ न केवलं बंधुजनादिसंरक्षणं कर्तव्यं किंतु भृत्यगवादि संरक्षणमपीत्याह॥ नृगोखरेति। मर्को मार्जाऴः। आखुभुक् पृथुदंशश्च माजीरो मर्क उच्यत इत्यभिधानात्। वयः पक्षिणः। अन्तरं भेदः। अत्र यथायोग्यं लालनीयत्वे पुत्रदृष्टांतो न तु सर्वथा। तेन भृत्यानां वेतनेन यवसेन गवां खराणां यवसभूमिविसर्जनेन शुनामुच्छिदानेन मर्काणां चलितपय आदिनाऽऽखूनां धान्यशेषादिना पक्षिणां भूमौ न्यस्तान्नादिना मक्षिकानां गुडसंपर्कादिना पालनं बोध्यं। अनेनापि भगवत्प्रीतिरिति भावः॥१०॥ विहितं धर्मार्थकामलक्षणत्रिवर्गमपि दुष्प्रतिग्रहादिलक्षणात्यायासेन विनाऽनायासेन प्राप्तेनैव भजेत्। तथैव करणे भगवत्तुष्टिरित्याह। त्रिवर्गमिति। अतिकृच्छेणात्यायासेन न भजेत्। किंतु यथादेशं यथाकालं यावद्दैवोपपादितं भजेतेति योजना॥११॥ पुत्रवत्पश्येदित्युक्तं पालनं दर्शयति। आश्वभ्य इति। यथा यथायोग्यं। तान् अन्नादीन् श्वपर्यंतमंतेवसायिपर्यंतं च विभजेत्। उच्छिष्टेन भूमौ निक्षिप्तान्नादिना च यथाऽश्वादीनां प्रीतिस्तथा संपादयेदिति भावः। उक्तगृहस्थधर्माद्यनुष्ठानेऽनुकूलया भार्यया भवितव्यं। तत्प्रातिकूल्ये कथमित्यत आह॥ आप्तेति। यत एभ्यो दारेभ्यो नृणां सत्त्वग्रहो यावद्बलधैर्यादिनिरासो भवेत्। यदर्थं यादृशदाराभीष्ठार्थं। स्वान्प्राणान् जह्यात्। गुरूपितरं वा हन्यात्। एतानेतादृशान्महतो दोषैर्युक्तान् दारान्कर्मवशादाप्त्वा तस्यां स्त्रियां तेषु दारेषु स्वत्वं स्वकीयाभिमानं जह्यात्परित्यजेत्। यस्तेन स्वत्वाभिमानेनाजितः स एवाजितो हि। सर्वथा स्त्रीजितो न भवेत्। इति योजना। एतादृशदुष्टदारान्परित्यजेदिति भावः। हृताधिकारां मलिनां पिंडमात्रोपजीविनीं। परिभूतामधःशय्यां वारयेद्वयभिचारिणीमिति वचनात्। यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तस्य वर्धते। मृते जीवति वा पत्यौ या नान्यमुपगच्छति। सेह कीर्तिमवाप्नोति मोदते ह्युमया सह। स्त्रीभिर्भर्तृवचः कार्यं एष धर्मः परः स्त्रिय इति। भगवत्तुष्टेरेव सर्वाश्रमेषु सम्पादनीयतया तत्साधनत्वाभावेन भार्यायां स्वत्वं त्याज्यमभिप्रेतं। मा भूगवांस्तुष्टो कलेवरकारणकरत्याधारभार्या स्वत्वं न त्याज्यं। त्यागे ईदृशसुखाला भादित्यत आह॥ कृमीति। कृम्यादेर्निष्ठाभावोंऽते यस्य तत्।

एतादृगात्मा परमात्मा क्वेति योजना। सर्वदेशकालव्यापिपरमसुखावहपरमात्मतोषविरोध्यतितुच्छकलेवरकारणकरत्याधारस्त्री स्वत्वं सर्वथा त्याज्यमिति भावः। अत्र तात्पर्यं॥ नभश्छादिरित्यादि॥१३॥ गृहस्थस्यैव पुनरित्थं भावांतरमाह॥ सिद्धैरिति। यज्ञावशिष्टार्थैः। यज्ञ शब्दस्यावृत्त्यादिः। यज्ञो विष्णुरिति श्रुतेः। यज्ञस्य विष्णोः पूजासाधनी भूतो यज्ञादिस्तदवशिष्टार्थैः। अन्नवित्तादिभिरात्मनो वृत्तिं देहधारणादिकं कल्पयेत्। शेषे ततोऽपि शिष्टे स्वत्वं परित्यजेत्। बंध्वतिथ्यादिभ्यो दद्यात्। एवं भूतश्चेन्महतां पदवीं संन्यासिनां स्थानं मोक्षमियादिति योजना॥१४॥ पुनरित्थं भावांतरमाह॥ देवानिति। भूतानि मनुष्यादीन् स्ववृत्त्यागतेन स्ववर्णाश्रमोचितशिलोंछकरस्वीकारादिना। तेन वित्तेन तत्तदंतर्गतं पुरुषं पूर्णषड्गुणमात्मानं परमात्मानं पृथगधिष्ठानात् स्वस्माच्चात्यंतभिन्नमुद्दिश्यान्वहं प्रतिदिनं यजेत्पूजयेदिति योजना। पूजनं च यथायोगं यज्ञतर्पणान्नदानादिनेति ध्येयं॥१५॥ गृहस्थस्य यज्ञादिकमावश्यकमित्याह॥ यर्हीति। यर्हि यदाऽऽत्मनोऽधिकारोस्ति अर्थित्वं समर्थत्वं विद्वत्त्वादिकं जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यादिनोक्तं मध्यवयस्त्वं। सर्वाःस्युर्यज्ञसंपदो यज्ञसामग्य्यो वैतानिकेन विधिना। वेदोक्तप्रयोगविधिनाऽग्निहोत्रादिना स एष यज्ञः पंचविधः। अग्निहोत्र दर्शपूर्णमासौ चातुर्मासं पशुः सोम इत्याद्युक्तरीत्या पंचविधयज्ञेन यजेत्पूजयेदिति योजना॥१६॥ अवैश्वदेवमतिथिवर्जितं चेत्यादिना अतिथिरहित यज्ञादेर्निषिद्धया यज्ञांगत्वेन स्वप्राधान्येन चातिथिभोजनमावश्यकमिति ब्राह्मणभोजनं स्तौति॥ नहीति। यथा हुतैर्दतैर्धृतान्नादिभिरिज्येत पूज्येत तथाऽग्निमुखतो न हीज्येतेति योजना॥१७॥ ब्राह्मणभोजनं देवयजनं च कर्तव्यमित्याह॥ तस्मादिति। ब्राह्मणेषु देवेषु च मर्त्यादिषु। मर्त्येष्वमर्त्येषु यथार्हतो यथायोगं तैः कामैर्ब्राह्मणाभीष्टदेवाभीष्टश्च ब्राह्मणा आननं यस्येति एनं क्षेत्रज्ञं भगवंतं यजेदिति योजना॥१८॥ देवयज्ञमुक्त्वा पितृयज्ञमकारमाह॥ कुर्यादिति। प्रोष्ठपदे भाद्रपदे पित्रोर्मातापित्रोस्तद्बंधूनां प्रत्यहं तर्पणाविषयाणां श्राद्धं कुर्यादिति योजना। पंचापरपक्षानां मध्यमस्यात्युत्तमत्वात्मोष्टपदे इत्युक्तिः॥१९॥ पितृश्राद्धादौ पुनः कालविशेषमाह॥ अयने इति। अयने कर्काटकायने मकरायने तयोरेव महायनत्वात्। विषुवे मेषतुलासंक्रमयोः। कुव्हां नष्टेंदुकलायाममायां। पारणयोग्यद्वादश्यां श्रवणेषु श्रवणादिषु॥२०॥ शुक्लपक्षे तृतीयायामक्षय्यायां। कार्तिके नवम्यां महानवम्यां

हेमंते शिशिरे विद्यमानासु चतसृष्वप्यष्टकासु सप्तम्यादि त्रये। त्रयोदश्यां च। तदुक्तं तात्पर्ये॥ सप्तम्यादित्यादि। हेमंते शिशिरे चैव नित्यश्राद्धं गुणोत्तरमिति। अत्रापि हेमंत शिशिराधिष्ठानकाष्टकाचतुष्टयमेव ग्राह्यं। षण्णवत्यनुष्ठातृभिस्तथैवानुष्ठानात्। एवं च सप्तम्यादि दिनत्रयं त्रयोदशी चेति दिनचतुष्टयमार्गशीर्षाद्यपरपक्षचतुष्टयं ग्राह्यं॥२१॥ मघाया राकायाः पूर्णनिशाकरयुक्तया पौर्णमास्यां समागमे। राकयाऽनुमत्या वा कलाहीन निशाकरयुक्तया पौर्णमास्यां वा। युतानि मासर्क्षाण्याश्लेषा मघापूर्वफल्गुन्यः। प्रथमा सप्तम्यर्थे॥२२॥ यद्यनुराधा स्याच्छ्रवणो वा। उत्तरा उत्तरोत्तराषाढ उत्तरभाद्रपदास्तद्युक्तद्वादश्यां। आसु तिसृप्वनुराधाश्रवणोत्तरासु। उत्तरासु वा तिसृष्वेकादशी चेज्जन्मर्क्षं सोत्पत्तिनक्षत्रं सौम्ययोगयुक् मृगशीर्षायोगयुक् च॥२३॥ त एते उक्तकालाः श्रेयसो हेतवः। विहितकरणे श्रेयोवर्धनाः। तदेवाह॥ अमोघायुषेति। अमोघममोघत्वं। साफल्यमिति यावत्॥२४॥ उक्तकालेषु कर्तव्यमेव विविच्याह॥ येष्विति। स्नानादीनां मध्ये होमो युक्तदिने कार्यः। एवं श्राद्धमपि हरिवासरे न जुहुयान्न श्राद्धं कुर्यादिति विशेषनिषेधात्। तत्रैकादशीग्रहणं निरवकाशमिति वाच्यं। जपादिविषयत्वेन विद्धैकादशीविषयत्वेन साधकाशत्वात्॥२५॥ आत्मनो जायाया अपत्यस्य च संस्कारकाले गर्भाधानजातकर्मादौ प्रेतसंस्था मृताहश्चेति। प्रथमा सप्तम्यर्थे। पित्रोः प्रेतसंस्था, मृताहकालेऽभ्युदयेऽभ्युदयार्थं क्रियमाणकर्मणि पितृदेव इत्यादि पूर्वेणान्वयः॥२६॥ देशे काले पात्रे च तद्दानं सात्त्विकं स्मृतमित्यादिना देशाद्यानुगुण्यस्य दानाद्यंगत्वोक्तेर्देशादिकमाह॥ अथेति। श्रेय आवहान् श्रेयःसंपादकान् सत्पात्रं यत्र लभ्यते स वै पुण्यतमो देश इत्यनेन देशापेक्षया पात्रस्यैव मुख्यांगत्वं स्वाधिष्ठानेन पुण्यदेशत्वापादनात्॥२७॥ सत्पात्रं विशिनष्टि॥ विश्वमिति। भगवत उदरे स्थितं विश्वं सर्वं चराचरात्मकं जगद्यत्र पात्रे तादृशं सत्पात्रं यत्रेति पूर्वेणान्वयः। भगवता धृतस्य पात्रे स्थितत्वं कथमिति न चोदनीयं। भगवत एव तत्र स्थितत्वात्। यतिर्यस्य गृहे भुंक्ते तत्र भुंक्त हरिः स्वयं। हरिर्यत्र गृहे भुंक्ते तत्र भुंक्ते जगत्त्रयमिति स्मृतेः। ब्राह्मणानां कुलं समूहो यत्र स देश इत्युत्तरेणान्वयः॥२८॥ अर्चाः प्रतिमा

द्वारवती॥३१॥ नंदा सीतेति भिन्नं पदं। आश्रमपदेन समस्तं वा॥३२॥ हरेरर्चाश्रिता इति पुनर्वचनं वैशिष्ट्यद्योतनाय॥३३॥ देशानुगुण्यप्रयुक्तं धर्मस्य वैशेष्यमाह। धर्म इति। उक्तो धर्मोऽत्रोक्तक्षेत्रेषूदितः। अनुष्ठितश्चेत्साधारणदेशानुष्ठितधर्मापेक्षया सहस्राधिकफलोदयो भवति। पात्रेष्वपि तारतम्यमस्ति। तत्र हरिर्मुख्यपात्रमित्याह॥ पात्र चेति। पात्रज्ञानिश्रेष्ठैः कविभिः पात्रं निरुक्तं वै॥३४॥ पात्रं निरुक्तमित्युक्तं तत्किमित्यत आह॥ हरिरिति। हे उर्वशि। चराचरजगत्। यन्मयं यत्प्रधानकं यत्स्वामिकं च स हरिरेक एव पात्रमिति पूर्वेणान्वयः॥३५॥ अतश्च पूज्य इत्याह॥ देवेति। देवर्षिलक्षणार्हत्सु पुज्येषु तथा ब्रह्मणि तदात्मजेषु वसिष्ठादिषु सत्सु तत्र राजसूयेऽग्रपूजायामच्युतो भगवान् कृष्ण एव पात्रतया मतः। भीष्मादिभिः संमतः। अतो हरिरेव पात्रमित्यन्वयः। तरोर्मूलसेचनवद्भगवत्पूजनस्यैव सर्वजीवराशितृप्तिसाधनत्वाच्च भगवानेव पूज्य इत्याह॥ जीवेति। जीवराशिभिर्ब्रह्मादिशाखाभिराकीर्णो व्याप्तो ब्रह्मांडकोशलक्षणोंऽघ्रिपः पादपः॥३६॥ तन्मूलत्वादच्युतस्य तदिज्या सर्वजीवात्मतर्पणं तृप्तिहेतुरिति योजना। ननु भगवत एव पूज्यत्वे साक्षात्तदलाभे पूजाविलोपप्रसंग इत्यतः सर्वशरीरेष्वपि भगवतः सत्वान्न तदनुपपत्तिरित्याशयेन पुरुष शब्दं भगवति निर्वक्ति॥ पुराणीति। असौ भगवान् हि यस्मात्पुरेषु देहलक्षणेषु जीवेन रूपेण प्रतिरूपेण प्रतिबिंबेन सह शेते। अतः पुरुष इत्युच्यते। सर्वासु पूर्षु शेत इति श्रुतिप्रसिद्धिं द्योतयति हि शब्देन। अनेन जीवस्यापि पुरुषत्वे इदमेव निमित्तमिति सूचयति। पुरीति सप्तम्यंते उपशेतेर्ड प्रत्यये सप्तम्या अलुकि इकारस्योकारे शकारस्य षकारे च रूपं। पुराण्यपि नान्यनिर्मितानीत्युक्तं। नृतिर्यगृषिदेवता एतल्लक्षणानि। उपलक्षणमेतत। यक्षरक्षःपिशाचादीनां सर्वेषां पूज्यत्वाभिप्रायेणैतदुक्तिः। तिर्यंचो गवाश्वादयः पुराणि। अनेन सृष्टानीति योजना। अत्र रूपेण स्वरूपेणेति न मंतव्य। अभेदस्य सर्वमानंविरुद्धत्वात्। किंतूक्तरीत्या सहयोगे तृतीया। अत एव तात्पर्यं॥ जीवरूपेण सहेति॥३७॥ नन्वेवं भगवतः सर्वशरीरस्थत्वेन पूज्यत्वे पात्रतारतम्यं न स्यादित्यत आह॥ तेष्विति। राजन्। तेषु ब्रह्मादिषु तारतम्येनाधिष्ठानतारतम्येन निमित्तेन स्वयमपि संनिधानतारतम्येन वर्तते हि यस्मात्तस्माद्यावान्सर्वत्राप्येकप्रकारेण सर्वगुणविशिष्टेऽपि। आत्मा परमात्मा यथाऽधिष्ठानतारतम्यानुसारिसंनिधानतारतम्यनेयते प्रमाणैर्ज्ञायते। तथा पुरुषो ब्रह्मादिः पात्रं भवतीति योजना। भगवतः

सर्वत्रैकप्रकारत्वेपि अधिष्ठानतारतम्यानुसारेण संन्निधानतारतम्यात्पात्रतारतम्यं युक्तमिति भावः। अत एव तात्पर्यं॥ ब्रह्मादित्यादि। व्यक्तिमात्रं विशेषेणाधिष्ठानतारतम्यानुसारिस्वमाहात्म्यप्रकटनमात्रतारतम्येनेत्यर्थः॥३८॥यावानात्मा यथेयत इत्यनेनाधिष्ठानतारतम्यानुसारेण भगवतो व्यक्तितारतम्योक्त्याऽघमैरुत्तमपुरुषेषु भगवान् पूज्य इत्यायातं। एवं चलप्रतिमायां सत्यामचलप्रतिमायां पूजासंप्रदायः कुत आगत इत्याशंकायामाह॥ दृष्ट्वेति। तेषां नृणां पूज्यपुरुषाणां मिथः परस्परं। तदपेक्षया मय्येवात्मा विशेषतः सनिहित इत्येकेनोच्यते। एवमपरेणेत्येवमात्मनो हरेरवज्ञामधिष्ठानावज्ञां दृष्ट्वा। कलहं दृष्ट्वेति यावत् त्रेतादौ युगे क्रियायै सपर्यायै कविभिरच कृतेति योजना। कृते ब्राह्मणानां परस्परतारतम्ये कलहाभावात्तारतम्येन चलप्रतिमासु पूजा संभवेऽपि तादौ कलहेन तदसंभवात्। अर्चायां पूजासंप्रदायः कृत इति भावः॥३९॥ संप्रदायानुसारेणार्चायां पूजा क्रियते। कृताऽप्युत्तमपुरुषद्विषामर्थदा न भवतीत्याह॥ तत इति। ततः संप्रदायागतेरुत्तमद्वेषासंपादनेऽर्चायां पूजा तंत्रसारोक्तरीत्यानुष्ठिता पुमर्थ चतुष्टयसाधनं भवतीति भावः॥४०॥ पुरुषाणां पात्रत्वमुक्तं। तत्रापि विशेषमाह॥ पुरुषोष्विति। पुरुषेषु मध्ये ब्राह्मणमत्यतपात्रं विदुः किं वर्णमात्रेणेत्यत उक्तं॥ तपसेति। तपसाऽनशनादि तपसा विद्यया ब्रह्मविद्यया। तुष्टया विषयालंबुद्ध्या, हरेस्तनुं प्रतिमाभूतमिदं शरीरं धत्ते। चो यत इत्यर्थे। इति योजना। प्राणप्रतिष्ठादिना शिलायाः प्रतिमात्ववद्ब्राह्मणशरीरस्यापि हरेः प्रतिमात्वं तप आदिनेति ज्ञेयं। अत एव तात्पर्यं। शिलावदित्यादि। संतस्तपोविद्यादिमंतः। आद्य पदेन क्षत्रियाद्या अपि स्वधर्मवर्णानां पूज्या इत्युक्तं भवति । अत्र स्वोत्तमवर्णे तप आधिक्येऽत्यंतपूज्यत्वं। तदभावे पूज्यतामात्रं अधमवर्णे विद्यायाधिक्ये तु मानसिकवाचनिकपूजनं कार्ये न तु शारीरमित्यादिकमवगंतव्यं॥४१॥ ब्राह्मणान्स्तुत्वोपसंहरति॥ नन्विति। हे राजन्। जगत्स्वामिनः कृष्णस्य प्रतिमास्थानीया ब्राह्मणाः। पादरजसा त्रिलोकी पुनंतोऽस्य जगतो महद्दैवतं तं नन्विति योजना॥४२॥ इति श्रीभागवतटिप्पण्यां पंचदशोऽध्यायः॥७-१५॥

योगः समाधिः॥

शेषः। देवेभ्यो दीयमानानि। दैवे च तदुद्देशेन क्रियमाणे कर्मणि। तस्य कर्मण आनंत्यमनंतफलकत्वमिच्छता। ज्ञाननिष्ठस्य देयानि। तस्य ज्ञाननिष्ठस्याभावे इतरेभ्यः कर्मनिष्ठादिभ्यो यथार्हतो यथायोग्यं देयानीति योजना॥२॥ श्राद्धभोक्तृत्वसंख्या नियममाह॥ द्वाविति। दैवे विश्वेषां देवानां स्थाने॥३॥ स्वजनः स्वकीयो भोजनीयी जनः। तदीयार्पणाद्विस्तराद्विस्तरेण क्रियमाणात्। एतानि देशादीनि सम्यक् न भवंति अविकलानि भवति। बहूनामुद्देश्यत्वे मनोविक्षेपादिना कैवल्यस्याप्राप्तोरितिभावः॥४॥ तद्देशकालादावुत्पन्नं संप्राप्तमयाचनादिना प्राप्तं यत्तदेव हरिदैवतं पात्रे भोजनपात्रे न्यस्तं कामधुगक्षयं भवतीति भावः॥५॥ देवर्ष्यादिभ्योऽन्नं विभजन्विभागेन समर्पयन्सर्वतः सर्वपुरुषात्मकं परमात्मस्वामिकं पश्येदिति योजना। परमात्मैव सर्वाधिष्ठानेषु भुंक्त इति चिंतयेदिति भावः॥६॥ ज्ञाननिष्ठानां परमहंसानां भोक्तृत्वे मांसं निषेधति॥ न दद्यादिति। धर्मतत्त्वविद्भोक्ता मुनिरपि नादद्यात्। तथा यतः पशुहिंसया परा प्रीतिः मुनीनां न स्यात्। अत इति योजना। मांसमधुदक्षिणा शिषामंगानां लोपेन न यतिर्भोक्तव्यः। किंतु तं विहायान्यो ब्राह्मण इति तु न शंकनीय। विना मांसेन मधुना विना दक्षिणयाशिषामक्षयं भवति। श्राद्धं यतिषु श्राद्धभोजिषु। ग्रामे वा नगरेऽरण्यं ज्ञानी भिक्षुर्वसेद्यदि। तमतरेण यः श्राद्धं तदासुरमथोभवेत्। इत्यादि स्मृतिभिर्मासाद्यभावेऽप्यक्षयत्वस्य यतिपरित्यागे आसुरस्य चोक्तत्वात्॥७॥ अहिंसाधर्मं स्तौति। नैतादृश इति। मनोवाक्कायजस्य दंडस्य हिंसाया भूतेषु न्यासः परित्यागो य एतादृशः परोधर्मः सद्धर्ममिच्छतां नृणां नास्तीति योजना॥८॥ कर्मयज्ञानधिकारिणामपि यज्ञांतरमाह॥ एक इति। एके यतयोऽकर्ममयान् यज्ञान्मानसहविरादीन् ज्ञानदीपिते आत्मसंयमने मनोनिग्रहरूपेऽग्नौ जुव्हतीति योजना॥९॥ मानसयज्ञं स्तोतुं द्रव्ययज्ञं निंदति॥ द्रव्येति। द्रव्ययज्ञैः पश्वादिद्रव्यकयज्ञैर्भूतानि पशवोऽतज्ञो भगवदर्पणकर्तृत्वाभिमानत्यागकामनाराहित्य भक्त्यादिसाहित्यादिरूपयज्ञांगज्ञानरहितः। हविः शेषमांसादिनाऽसुतृप् स्वप्राणतर्पको माकरुण इत्येकं पदं। करुणारहित एषोऽस्मान् द्रव्यादिति विभ्यतीति योजना। एतादृशभयहेतुत्वाभावान्मानसो यज्ञः प्रशस्त इति भावः॥१०॥ देशकाले इत्युपसंहरति॥ तस्मादिति। तस्मात्परपीडादेरकर्तव्यत्वादुत्पन्नेन देशकालादुत्पन्ने-

नानायासमाप्तेन तुष्टो धर्मविदहरहः प्रतिदिनं नित्यनैमित्तिकाः क्रिया नित्यं कुर्यादिति योजना॥११॥ धर्मज्ञस्याधर्मत्यागवत्तच्छाखात्यागोऽवश्यक इत्याह॥ विधर्म इति। ॥१२॥ उक्तानां लक्षणमहाधर्मबाध इति धर्मबाधः। धर्मस्य ब्राह्मणैः क्रियमाणस्य धर्मस्य बाधो बाधको विधर्मः स्वगृहे क्रियमाणब्राह्मणभोजनलक्षणतदभीष्टधर्मविरोधी। सर्वब्राह्मणभोजनादि लक्षण इति यावत्। क्षत्रियस्य चोदितः शत्रुदंडनादिर्ब्राह्मणस्य परमधर्मः। पाषंडो वेदाप्रामाण्यवादिभिः क्रियमाणः सप्तघटिकाभ्यंतर- भोजनादिः। दंभो वा आंतरभक्तिरहितां भक्तक्रियमाणेन सदृशो वोपधर्मः स एवोपमेति ज्ञेयं। धर्मभिद्वैदिकधर्मविरुद्धः सोत्प्रेक्षयैव धर्मत्वेन कल्पितः। राजशिरोभी रुद्राहुत्यादिरूपो जरासंधकल्पितछलधर्मः॥१३॥ इच्छया काम्येच्छ्या पुंभिः कृतः स आभासः। तर्हि कीदृशो धर्मो मोक्षायेत्यत आह॥ आश्रमे इति। वर्णस्याप्युपलक्षणं। तत्तद्वर्णे आश्रमे उचितः। स्वस्य परमात्मनो भावेन भक्त्या विहितोऽनुष्ठितो धर्मोऽस्य यजमानस्योपशांतये मोक्षाय कल्पते हि प्रमाणमसिद्धमेतत्॥१४॥ अयाचितवृत्तिं स्तौति॥ धर्मार्थमिति। धर्मार्थं यज्ञाद्यर्थं। यात्रार्थं देहयात्रार्थं। अधनः परकीयधनं नेहेत न याचेत्। स्वतः सिद्धं नीवारादिनाऽयाचित प्राप्तधनादिना वा। धर्मयात्रादिकं कुर्यादिति भावः। लोके याच्नायामपि न ददाति धनिको धनं कथमयाच्नायां वृत्तिः स्यादित्यत आह॥ अनीहेति। अनीहमानस्यायाचकस्यानीहाऽनीहया तुष्टो भगवान् महाऽहेरजगरस्येव वृत्तिदा वृत्तिप्रदो भवति। एतादृशधर्मसंतुष्टो भगवानदित्सताऽपि धनादिकं दापयतीति भावः॥१५॥ निरीहस्य भवत्सुखमर्थं याचमानस्य नास्तीत्याह॥ सतुष्टस्येति। संतुष्टादेर्यत्सुखं तत्कामया लोभेन काम्यस्यार्थस्य लोभेन विद्यमानस्यात्यागेच्छ्याऽधिकस्य लाभेच्छ्या दिशो धावतः कुतो भवेदिति योजना। मनस एव सुखसाधनतया तत्संतोषस्यैवाभावात्। देहायासस्याधिकस्य सत्वाच्चेति भावः॥१६॥ अर्थेहया धावतः कुतः सुखमित्यनेनानीहया धावतः सुखमित्यायातं। कथमिदं धावनाऽविशेषादित्यत आह॥ सदेति। उपानट् पदस्तद्युक्तपदः शर्करकटकादिभ्यो वेधाभावाद्दिग्जातं यथा शिवं। एवं सदा संतुष्टमनसो अर्थलाभव्यथाऽभावेन सर्वा दिशः शिवमया इति योजना॥१७॥ पुनः संतुष्टत्वमेव विद्यत्ते ॥ सतुष्टइति।

केन वा कैलोजीले गोत्र‌को पनिकालक

सारमयवदाचरात। तजनभत्सनादावषया भवतीति भावः॥१८॥ असतुष्टस्य भवदानष्टमाह॥ असतुष्टस्यात। न केवल तेज आदिकं चलति। किंतु ज्ञानं चावकीर्यते विक्षिप्यते। स्मृत्यजनकं भवतीति यावत्। विद्या वेदादिकं ज्ञान तज्जन्यमिति भावः॥१९॥ कामक्रोधापेक्षया लोभस्य दुर्निरासत्वमाह॥ कामस्येति। कामो विषयभोगेच्छा क्रोधस्तदपकारकः। जनहननादीच्छाविनाभूतो मनोविकारविशेषभूतः। लोभश्च लब्धद्रव्यराज्यादेः कियन्मात्रस्याप्यपरित्यागेच्छाविनाभूतो वृत्तिविशेषः। तत्र जनः क्षुत्तृड्भ्यां विषयिवाचिनो विषये लक्षणाऽन्नपानाभ्यां। उपलक्षणमेतत्। लब्धेन काम्येन कामस्यांतं निरासं याति। एवमेतत्फलस्य क्रोधफलस्यापकारिजनहननादेरुदयात्क्रोधस्यांतं याति। दिशो जित्वा भुवो भुक्त्वा विद्यमानोऽपि जनो लोभस्यांतं न यातीति योजना। बहुद्रव्यराज्यादिमतो किंचिन्त्यागेच्छाप्रतिबंधको लोभो नापैतीति भावः॥२०॥ न केवलमसंतुष्टस्य विद्यादिनाशः किं त्वधःपातोऽपीत्याह॥ पंडिता इति। पंडिता आगमजन्यज्ञानवतो बहुज्ञा युक्त्यादिसिद्धमतिमन्तः सदसस्पतयः सभापतयः। एतादृशानां मध्येऽप्येकेऽसंतोषान्निमित्तादधः पतंतीति योजना॥२१॥ कामादीनां दोषाणां जयोपायमाह कतिपयैः श्लोकैः॥ असकल्पादिति। प्रधानस्वर्गस्वाराज्यादीच्छानिर्भरः संकल्पस्तदभावात्तत्तदुपायकामवन् तत्काले च भोगकामान् जयेदभिभवेत्। प्रधानेच्छाभावे तदुपायेच्छातत्साध्यभोगेच्छाश्च स्वत एव न प्रादुर्भवतीति भावः। कामविवर्जनात्क्रोधं जयेदिति। एवं सर्वत्रापि जयेदित्यन्वेति। कामविरोधमूलत्वात्क्रोधस्य तद्विवर्जने स्वत एवानुत्पत्तिः। अर्थेष्वनर्थस्य राजचोरादिनिमित्तकस्येक्षया पर्यालोचनया लोभं जयेदिति। अर्थेष्वनर्थदर्शनेन त्यागेच्छासंभवेन लोभो नश्यति। तत्त्वमर्शनात्। सर्वभूतानि भगवदाश्रितानि भगवांश्च सर्वभूतेषु रक्षकत्वेन स्थित इत्येवं ज्ञानाद्भयं जयेत्। एवं जानतो भयं नोत्पद्यते। ततो न विजुगुप्सत इति श्रुतेरिति भावः॥२२॥ आन्वीक्षिक्या ब्रह्मतर्काद्युक्तयुक्तिसाध्यनित्यानित्यत्वादिनिश्चयेन शोकमोहौ स्वस्नेहविषयापगमनिमित्तं शोकं तत्र नित्यत्वादि मोहं च जयेत्। नित्यत्वानित्यत्वनिश्चये न तदागमापगमनिमित्तौ मोहशोकौ भवत इति। महतां विनीतानामुपाश्रयात्सेवनात्। दंभामल्पस्यापि स्वस्य महत्त्वप्रदर्शनं जयेत्। सत्यपि महत्त्वे तन्न प्रदर्शयंत्येते। ममत्वविद्यमानमहत्त्वप्रदर्शनं जुगुप्सितमिति बुद्धिर्भवतीति भावः। मौनेन वागादींद्रियनियमेन योगांतरायान् इंद्रियाणां

बहिर्व्यापारलक्षणोपासाविघ्नान्। कामाद्यनीहया स्वर्गस्वाराज्याद्यनीहया हिंसां पशुहिंसां जयेदित्यनुवृत्तेन योजना। कामाद्यनीहायां हिंसा दोषाय न भवतीति भावः। तस्मान्नेष्टियाजुकः स्यादिति निषेधात्॥२३॥ कृपया नृसिंहाद्युपासनासंपादितदयया जलवाय्वादिशरीरकजलग्रहापशाचादिजं दुःखं। समाधिना भगवध्द्यानेन। दैवं नवग्रहादिप्रयुक्तं। योगवीर्येण श्वासजयेनात्मजं देहजं हिक्कादिक। सत्त्वनिषेवया सात्त्विकगोघृतादिद्रव्यनिषेवया निद्रां जह्यादिति योजना। नृसिंहोपासनया पिशाचादेर्भगवदंघ्रि ध्यानेन ग्रहचारविपत्तेः श्वासनिरोधेन दैहिकरोगादेः सात्त्विकपदार्थसेवनया तामसनिद्रादेस्त्यागस्य प्रसिद्धत्वादिति भावः। सत्त्वेन सत्त्वगुणवृध्द्या रजस्तमस्युपशमेन भगवन्निष्ठया सूक्ष्मसत्त्वासादितया सत्त्वं स्थूलं जह्यात्। सर्वमपि जेतव्यं। हरिं गुरुभक्त्यादिना जय्यं भवतीत्याह॥ एतदिति॥२४॥ हरिगुरुभक्त्यभावे श्रवणादेर्वैयर्थ्यमाह॥ यस्येति। भगवतीति विषयसप्तमी। यस्य श्रुतं श्रवणादिकं साक्षाद्भगवद्विषयकज्ञानलक्षणदीपप्रदे गुरौ चातिसंधिः संघानं हरिगुरुमाहात्म्यानुसंधानमतिक्रांतं। तस्य सर्वश्रवणादिकं कुंजरशौचवद्व्यर्थमिति योजना। कुंजरस्त्रानं यथा पुनर्धूल्युद्वहनकारि तथा श्रवणादिकं संसारावहमिति भावः॥२५॥ भक्तिनेन श्रुता वेदविधयोऽपि श्रमावहाइत्याह॥ षडिति। सर्वा निगमचोदनाश्चोदितानुष्ठानेन मनोनैर्मल्यद्वारा षण्णामिद्रियाणां वर्गस्य संयमनमितरपरित्यागेन भगवदेकनिष्ठत्वमेकांत उद्देश्यो यासां तास्तदंतास्तस्य भगवतोंऽतो निर्णयो याभिः। तत्प्रयोजका इति यावत्। एतादृशा अपि यदि योगं मनोयोगं भक्तियोगं च नावहेयुस्तदा केवलं श्रमावहा इति योजना॥२७॥ इष्टापूर्तानुष्ठानेन सफला निगमचोदनाः कथं विफला इत्यत आह॥ यथेति। वार्तादयः क्रयविक्रयादिविषयाः पुंसो यथा विद्यापर्यालोचना वणिजः केवलं स्वार्थमभीष्टवृद्धिं न विभ्रति। प्रत्युत वृद्धीच्छया दत्ते पदार्थे मूल्यस्यैवादानेऽनर्थाय बभूवुस्तथाऽसतो भगवद्भक्तिहीनस्य पूर्तमिष्टं स्वार्थं स्वर्गादिकं न बिभर्ति। प्रत्युतासतो भगवद्वेषवतोऽनर्थाय तमसे भवेच्चेति योजना॥२८॥ मनोजयस्यावश्यकत्वमुक्तं। तदिच्छोस्तदुपाययोगं सांगं विधत्ते श्लोकचतुष्टयेन॥ य इत्यादिना। चित्तविजयोऽनायासेन भगवद्विषयीकरण

एका जनताप्रवशराहतः। तस्मान्न जनतामयादात वचनात्। विविक्तशरणा विविक्तदशाभिक्षुः। परमहंसा मक्ष्यामताशनः। भैक्ष्ये भिक्षालब्धेऽपि मिताशनः। लघ्वाशी विविक्तदेशी लघ्वासीत्युक्तेः॥२९॥ एवं यमनियमादिकमुक्त्वाऽऽसनमुच्यते। ऋज्वंगः समं कायशिरोग्रीवः। ॐ इति। अनेन भुवं संमृज्येत्यर्थः। आसनप्रकारश्चासीनः संभवादिति सूत्रे समं काय शिरोग्रीवमित्यादिना भाष्ये विवृतः॥३०॥ पूरकेति। रेचकपूरककुंभकानां क्रमेणानुष्ठानं ज्ञेयं। अनेन प्राणायाम उक्तः॥३१॥ ततस्ततस्तस्मादुपाहृत्य प्रत्याहृत्य। अनेन प्रत्याहार उक्तः। संनिरुध्याद्भगवति मनः क्रमेण धारणध्यानसमाधियुक्तं कुर्यात्॥३२॥ एवमनुष्ठाने चित्तविजयाख्यं फलं सिद्धतीत्याह श्लोकद्वयेन। एवमभ्यसतो मनः साक्ष्युपष्ठब्धं चित्तं प्राकृतं मनः। अनिंधनवन्हिवन्निर्वाणं विषयोपद्रवशांतिं परं ब्रह्म वा यातीति योजना॥३३॥ प्रशांतोऽखिलवृत्ति- विषयसंचलनव्यापारवर्जितं यच्चित्तं तद्वह्मसुखस्पृष्टं ब्रह्मसाक्षात्काराभिव्यक्तसुखयुक्तं ब्रह्मणःसकाशात्कर्हिचित्कदाचिदन्यत्र नो तिष्ठेन्न गच्छेदिति योजना॥ ३४॥ परिव्राजकं पुनस्त्रिवर्गसाधने प्रवृत्तं निंदति॥ य इति। तांस्त्रिवर्गावपनान् गृहान्॥३५॥ देहात्मविवेकेन भाव्यमित्यभिप्रेत्य देहं श्लाघयतो निंदति॥ यस्येति। षष्ठी प्रथमार्थे। यो देहो वस्तुतो नात्मा कृमिविड्भस्मवद्भवति। स्वार्थे वतिः। कृम्यादिरूपःस्मृतः। तमेव देहं स्वात्मसात्कृत्य। वत्यर्थे सातिः। स्वात्मानमिव कृत्वा ये श्लाघयंति तेऽसत्तमा असुरा इत्यर्थः॥३६॥ चतुराश्रमिणो नियमत्यागे उपेक्षेत नाद्रियेतेत्याह॥ गृहस्थस्येति श्लोकद्वयेन। क्रियात्याग औपासनाग्निहोत्रत्यागः। व्रतत्यागोऽग्निकार्यवेदाध्ययनादित्यागः। तपस्विनो वानप्रस्थस्येद्रियाणा लौल्यं विषयलोलुपत्वं तस्यभावः॥३७॥ एते आश्रमापसदा आश्रमाभासा आश्रमान्विडंबयंत्यनुकुर्वतीत्याश्रमविडंबनाः। वेषधारिण इति यावत्। भगवदिच्छ्या विमूढांस्तांश्चतुराश्रमापसदान्कृपया वृथानश्यंतीति शोकेनावैक्षत्॥३८॥ तमेव स्वात्मसात्कृत्वेति देहपोषकाणामसत्तमत्वमुक्तं। देहातिरिक्तात्मज्ञानस्य परमात्मज्ञानस्य च सुतरामभावात्। ज्ञानसत्वे तु कथं तं पुष्णीयादित्याह॥ आत्मानमिति। आत्मानं देहातिरिक्तं जीवं। परमात्मानं चैवमुक्तध्यानाद्युपायेन गम्यं विजानीयाच्चेत् ज्ञानधृताशयः सम्यग्ज्ञानेन निगृहीतांतःकरणः किं प्रयोजनमन्विच्छन्नुद्दिशन् कस्य वा हेतोः केन वा निमित्तेन निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति षष्ठी। विषयलंपटो देहं पुष्णाति पुष्णीयात्विति योजना। अविवे-

किवद्विवेकी देहं न पुष्णातीति भावः॥३९॥ नहिं शरीरेंद्रियादीनामुपयोगो नास्ति किमित्यतः सदसतां मोक्षतमः संपादनप्रकारं रथसाम्येनाह कतिपयैः श्लोकैः॥ आहुरित्यादिभिः। रथिकसामग्रीं दर्शयति। इंद्रियश्रेष्ठं मनः। अभीषुं प्रग्रहं। मात्रा विषया वर्त्मनि। धिषणां बुद्धिं। सुतं सारथिं। आहुरित्यन्वयः। ईशस्य धाम। सत्त्वमंतः करणविशेषं गुणविशेषं वा। बृहद्वंधुरंमन्नीड॥४०॥ स्थानीयमधर्मधर्मौ चक्रे। मणीवादित्वात्यत्प्रगृह्यं। अभिमन्यत इत्यभिमानं। जीवं रथिनं। तस्य जीवस्य प्रणवं धनुः। जीवमेव शरं। लक्ष्यं प्राप्ते निर्मितात्। परं परब्रह्मैव पठतीति योजना॥४१॥ रथिनः शत्रूनाह॥ राग इत्यादिना। मानोऽपूज्ये पूज्य बुद्धिस्तु मानः सद्भिरुदाहृत इत्यभिधानं। अभिमानोऽहंकारः॥४२॥ रजोरक्तिर्विद्यमानेषु। रागस्त्वविद्यमानेच्छा। आदि पदेन दंभादयः। रागादीनां मध्ये कचित्केचित् रजस्तमप्रकृतयः केचिच्च सत्त्वप्रकृतयः सत्त्वरजस्तम इत्यारभ्य निवध्नंतीति सत्त्वस्यापि बंधकत्वोक्तेः। सूक्ष्मसत्त्वस्यैव मोक्षोपयोगित्वात्॥४३॥ उक्तरीत्या नृदेहादेर्महोपयोगसत्त्वाद्यथा नृदेहोऽस्ति यदा द्विजत्वं यथा च पंक्तीकरणं तदेवं नैजं पदमीक्षितव्यमित्युक्तेर्तृदेहकाल एव मोक्षसाधनं संपाद्य संसारं जह्यादित्याह॥ यावदिति। आत्मवशेन स्वेच्छ्योपक्लुप्तं साधनसमर्थं नृकायाख्यं रथं धत्ते तावत्तदैव गरिष्ठचरणानामुत्तमगुरूणामचनयोपासत्तिपूर्वकश्रवणादिलब्धयोपासनया निशातं तीक्ष्णीकृतं ज्ञानासिना दधदच्युतबलो भगवद्धलोऽप्रच्युतमननलक्षणबलो निरस्तरागादिश्चस्वाराज्येन निश्चितेन मोक्षेण तुष्ट इदं संसारजातं जह्यादिति योजना॥४४॥ शरीरं रथमिंद्रियाणीत्युक्तदिशा यावन्नृकायमित्युक्तरीत्या वा। धनुर्ग्रहणेन वा। शत्रुछेदाभप्वेऽसदिद्रिंयादयस्तमसि संसारकूपे वा पातयतीत्याह॥ नोचेदिति। प्रमत्तं प्रमादशालिनं रथिनमसदिर्द्रियवाजिसूता उत्पथ नीत्वा विषयदस्युषु निक्षिपंति। तमोयोग्यं तमोंऽधे नित्यसंसारिणं संसारकूपे॥४५॥ संसारमुक्तिकारणकर्माणि विवेचयति॥ प्रवृत्तमिति। तयोः फलमाह। आवर्तत इति॥४६॥ इष्टापूर्तिभेदेन प्रवृत्तं द्विविषमित्याह॥ हिंस्रमिति। द्रव्यमयमजाश्वादिद्रव्यसाध्यं। हिंस्रं हिंसेति कर्तव्यताकमग्निहोत्रादि दर्शः पूर्णमासश्चातुर्मास्यः पशुर्निरूढपशुर्हुतं वैश्वदेवं प्रहतं बलिहरणं।

      नावि ॥

मिष्टापताख्य प्रवृत्तं संसारावृत्ति। प्रवृत्तकर्मानुष्ठातो मार्गमाह॥ धूम इति। अपक्षयः कृष्णपक्षी धूमरात्रिकृष्णपक्षदर्शदक्षिणायनाभिमानिनां सोमस्य लोकाः पितृयानं। अत्राभ्रमेघादिकमपि ग्राह्यं। ओषधिवीरुधान्नेरतश्च पुनर्भव ओषधिविरुत्सु वा प्रविशान्नं रेतो द्वारा जायत इति भावः॥४९॥ एकैकस्य धूमादेः स्थानमानुपूर्व्याद्भूत्वा पुनः पुनः प्राप्येह मनुष्यलोके जायते। आनुपूर्व्यं च न गतिक्रमानुसारेण गताविति मतव्यं। यथेतमनेव चेति सूत्राद्धमादभ्रमभ्रादाकाशमिति गतिश्रुतेः। धूमो भूत्वाऽभ्र भवतीत्यगतिश्रुतेश्च॥५१॥ आवर्तते प्रवर्ततेति पुनः पुनरावृत्तिरुक्ता। तस्याः पुनः पुनर्गतिसापेक्षत्वाद्गतिसाधनसंस्कारानाह॥ निषेकेति। निषेको गर्भाधानं। स्मशानोंऽत्यक्रिया। एव षोडशसंस्कारैर्युतो द्विजास्त्रिवर्णः प्रवृत्तं कुरुते। तेन पुनर्गच्छति पुनरागच्छतीत्यपर्यवसानं प्रवृत्तकारिण इत्यर्थः। अतएव तद्य इह रमणीयचरणा अभ्यासो ह यते रमणीयां योनिमापद्यंत इति। पुनः कर्म कुरुते पुनरागच्छतीति च श्रुतिः। निवृत्तेनाञ्जतेऽमृतमित्युक्तं। तत्रार्चिरादिमार्गस्मृतिसहकारिणीति तन्मार्गं वक्तुं तत्पूर्वभाविलयचिंतनप्रकारमाह॥ इद्रियेष्विति। क्रिया यज्ञान् क्रियात्मकयज्ञाभिमानिनो देवान् ज्ञानदीपेष्विद्रियेषु ज्ञानं दीपयंतीति ज्ञानकरणेंद्रियाभिमानिषु जुव्हति तद्द्वशत्वेन स्मरति॥५२॥ एवमिंद्रियाणि तदभिमानो मनसि तदभिमानिनि सुरेद्रे वैकारिकं मनः। वैकारिकत्वोक्त्या तेजसेद्रियेभ्यो वैलक्षण्यं सूचितं। मनस्तदभिमानिनं सुरेंद्रं वाचि। वेदाभिमानिन्यां पार्वत्यां। तां वर्णसमाम्नाये अकारोकारमकारलक्षणप्रणवायवाभिमानिनि रुद्रे। ॐकारे स्वरे एकदा सभूतोकाराभिमानि शेषे। अकारोकारमकार इति तानेकधा समभवत्तदेतत्तदोमिति श्रुतेः। न्यसेदशगत्वेन चिंतयेत्। अनेन जुव्हति वशगत्वेन चितयंति ज्ञानिनोऽत उत्क्रमिष्यमाणोऽपि न्यसेत्। वशगत्वेन चिंतयेदिति सर्वत्र पदद्वयमन्वेतीति सूचयति॥५३॥ ॐकारं तदभिमानिनं शेषं बिंदु। सप्तम्याः सुषां सुलुगिति लुक्। बिंदौ तदभिमानिना तदभिमानिन्याः सरस्वत्यां। तां नादे मूलस्थानादभिमानिन्यां सरस्वत्यामेव। अत्र बिंदु शब्दे विभक्तिलोपो मध्ये तमध्याहारः सरस्वत्या एवोभयमानित्वं तत्रापि नादाभिमानिन्यो जनकत्वमित्यादिकं वक्ष्यमाणतात्पर्यतो गम्यने। तं च। नाद शब्दस्य पुल्लिंगत्वात्तमिति निर्देशः। नादाभिमानिनी सरस्वतीं प्राणे ब्रह्मणि। अमुं ब्रह्माणं महति परमात्मनि। प्राण शब्देन मुख्यवायोर्ग्रहणे तु बिंदुनादो भयमानिनीरूपयोः। महतीत्यस्यावृत्तिः। आद्यस्य लक्ष्यामिति।

द्वितीयस्य परब्रह्मणीति। अथोऽनुसंधेयः। तदेत्सर्वमभिप्रेत्य तात्पर्यं। यज्ञाभिमानिन इत्यादि। वार्यौ ब्रह्मणि मुख्यप्राणस्य ग्रहणपक्षेत्वाह प्रकृताविति। प्रकृतौ लक्ष्म्यां जयाख्यायां तामेव तद्वारेत्यर्थः। पुरुषोत्तमे संकर्षणाख्य इत्यर्थः। अर्चिरादिमार्गमाह॥ अग्निरिति। अग्निर्ज्योतिरिति द्वेधाऽर्चिल्लोके सप्रतिष्ठितोऽग्निः क्रमेण प्राप्यस्ततो वायुरातिवाहिकस्ततोऽभिजित्ततोदिवा ततः शुक्लस्ततो राका तत उत्तरस्ततः संवत्सरतटिद्वरुणप्रजायाः क्रमेण ग्राह्याः। ततः सूर्यस्ततोऽनतरं सोमवैश्वानरौ ततः स्वाराष्णामेद्रः। अत्र तात्पर्यं॥ स्वराडिंद्र इति॥५३॥ अर्थेद्रानंतरं ध्रुवः। अनंतरं विश्वतैजसप्राज्ञाः। भगवदन्ये ग्राह्याः। ते च देवविशेषाः संप्रदायतो ज्ञेयाः। अनंतरमनिरुद्धप्रद्युम्नसंकर्षणाश्च भगवदन्ये ज्ञेयाः। एतच्चैतन्नाम्नैव प्रसिद्धाः। एते षडपि द्युनाम्न्या भारत्याः पुत्राः। ततो द्युलोकाभिमानिनी भारती। ततो मुख्यवायुः। ततो वैकुंठः परमात्मा। ततो ब्रह्मणा सह बहिर्गमनानंतरं संवावरणातिक्रमे विश्वादिरूपप्राप्तिः। विश्वोऽथ तैजस इत्यत्रोक्ता ज्ञेया। ततोऽनिरुद्धप्राप्तिरपि। ततोऽनिरुद्धं देवेशं प्रद्युम्नं च ततः परमित्यादि मानांतरादवगंतव्या। ततः समन्वयः सर्वेषामवताराणां सम्यगव्ययाधारः। आततत्वादात्मा नारायणः। अत्र ब्रह्मांडांतो विश्वादि त्रयानिरुद्धादि त्रयवत्तुरीयो वासुदेवश्च भगवदन्यो न ज्ञेयः। तन्नामकदेवस्याप्रसिद्धेः। अत्रोत्क्रांतिस्तु शरीरात्स्वाद्गच्छत्यर्चिपमेव वेत्यादि भाष्योदाहृतं प्रमाणं ज्ञेयं। अत्र तात्पर्यं। विश्वाद्या इत्यादि। विश्वाद्या अनिरुद्धाधार इत्यत्र त्रय एव ग्राह्याः। तुरीयवासुदेवयोर्विष्णोरन्यत्व निषेधेत्स्यमानत्वात्। दिवस्पुत्रा द्युनाम्न्या भारत्याः पुत्राः द्युसमीपगाः। भारत्यभिमन्यमानद्युलोकसमीपगाः। विश्वादिरूपं हरिमित्यन्वयः। अनिरुद्धादिरूपमित्यपि ग्राह्य। नापरां विष्णोरन्यो नेति। इममुक्तमेव मार्गं देवयानं प्राहुरानुपूर्वशः। क्रमेण पूर्वपूर्वलोकापेक्षयोत्तरोत्तरलोके सुखादिभिरधिको भूत्वाऽधिक इति सुखादिभिरिति च पदद्वयमध्याहार्यमित्यत्र तात्पर्य॥ अधिक इत्यादि॥५४॥ आत्मयाजी जीवपरमात्मपूजकः। उपशांतात्मा सर्वोपरितनसखातिशयस्वरूप आत्मस्थः परमात्मसमीपे वैकुंठादिलोके स्थितो न निवर्तत इति योजना। उक्तमार्गज्ञानस्य फलमाह॥

सर्वस्यापि भगवदधनत्वमुपदिशति॥ आदाविति। सृष्टौ प्रलये च जनानाशं जायमानं नश्यच्च। जनी प्रादुर्भाव इत्यस्मात्कर्तर्याकार प्रत्ययः। नश्यते च। कर्तरि घञ द्वंद्वैकवद्भावः। ब्रह्मांडस्य बहिरंतर्विद्यमानं परावरमुच्चावचं ज्ञानं ज्ञेयं वचो वाच्यं तमोऽज्ञानमधकारो वा। तमु ग्लानेखाग्नेपि अतर्णीत ण्यर्थादसत्। अत एव तात्पर्यं। ग्लापकत्वात्तम इति। ज्योतिः प्रकाशः। तदेतत्सर्व स्वयं भगवान् सर्वस्वामीत्यर्थः। यदधीना यस्य सत्तेत्यादेः॥५६॥ ननु सत्यस्याधीनत्वं न संभवति। प्रपंचस्य त्वाभासत्वाददृश्यत्वान्मिथ्यात्वेन कथं तदधीनत्वमित्यत आह॥ अबाधित इति। प्रपंच आभासोऽपि दृश्यमानोऽपि यथावस्तु ब्रह्म। तथैव सत्यत्वेन स्मृतः। अदृश्यत्वहेतोः सर्वदोषदुष्टत्वात्। मिथ्यात्वे वाधस्यैव प्रयोजकत्वात्। अयं चावाधितः। असंभावितोत्पत्त्यादिमत्वात्कथ ब्रह्मवत्सल्यं स्यादित्यत उक्तं॥ दुर्घटत्वादिनि। भगवतो दुर्घटघटनाशक्तिमत्वाद्ब्रह्मवदर्थेनेति भावप्रधानो निर्देशः अर्थत्वेनार्थक्रियाकारित्वेन विविधतया कल्पितमुत्पादितमैद्रियकमिति प्रत्यक्षादि प्रमाणप्रसिद्धत्वं सूचयति। अतः सत्यमिति योजना। न हि भगवान्सत्यसर्जनासमर्थः। येन मायया मोहयेदिति भावः। अत्र तात्पर्य॥ दुर्घटत्वादित्यादि। इतरैर्दुर्घटत्वात्। स्वस्य दुर्घटघटनाशक्तिमत्वाद्वा। परमेश्वरेणैव कल्पितमित्यर्थः॥५७॥ दुर्घटघटनाशक्त्या जगदुत्पादितमित्युक्तं तदनंगीकारे केनापि प्रकारणोत्पत्तिर्न संभवतीत्याह॥ क्षित्यादीनामिति। इह कार्यप्रपंचे क्षित्यादीनामर्थानां कार्याणां कतमा छाया। कः प्रकारः। ना। ईश्वरशक्त्यनंगीकारेऽपि कोऽपि प्रकारो न संभवति। तथा श्रुतिः। कि क्षितिरपां सघातः। आपस्तेजसामित्येवं क्षित्यादिः। मापराश्यादिवत्सघातलक्षणं कार्यं। यद्वा। चूतफलादेः पीततादिवच्छ्वेतजलस्य कालुष्यलक्षणं कार्य। अथवा। समुदायात्पृथग्भूतैकदेशलक्षणं कार्य प्रस्थात्पृथग्भूतमानवत्। यद्वा। सहावस्थितक्षीरनीरादि वस्तुद्वयवत्कार्यं। आद्ये जलबुद्धेर्द्रवत्वस्य पर्वतादिमज्जनस्यापत्तिरित्यादि दोषः। द्वितीयेऽप्येतद्दोषतादवस्थ्यं। तृतीयेऽप्येत एव दोषाः। चतुर्थे जलातिरिक्तस्यार्थस्याभावो भावे वा परस्परकार्यकारणभावानुपपत्तिश्चेति दूषणमभिप्रेत्यैतान् प्रतिक्षिपति। न सघात इत्यादिना। विकारोऽपीत्यपि शब्दात् नञनुवर्तते। दुर्घटघटनाशक्त्यनंगीकारे तु गंधतन्मात्रायुक्तं पृथिवीभूतसूक्ष्मान्युपादानीकृत्याब्भूतैकदेशैरुपचित्य काठिण्यं सपाद्य पृथिवीलक्षणभूतं परिणामयतीत्यंगीकारे न कोऽपि दोषः। अत्र तात्पर्य॥ छाया रीतिरित्यादि।

क्षित्यादीनां पदार्थानां कतमोऽपि प्रकारो न घटत। परमेश्वरकल्पितत्वात्कार्यमित्येव वक्तुं युक्तं। न हि बव्हापां संघानमात्रं पृथिवी। न च विकारमात्र। न हि कालुप्यादिविकारमात्रेण पृथिवी भवति। न चाद्भ्यः पृथक् स्थितिः। न च वस्तुद्वयवत्सहावस्थानमात्रमिति। प्रकारस्थायेति रीतिरिति च भाव इति चाभिधीयत इत्यन्वयः। परमेश्वरे कल्पितत्वादेवेत्यन्वयः। परमेश्वरपदं च दुर्घटघटनाशक्तिमत्परं। न हीत्यादिपक्षनिषेधे उक्तदोषा हेतवां द्रष्टव्याः॥५८॥ ननु क्षित्यादेः संघातादिप्रकारः कोऽपि मा भूत्। तथाऽप्युक्तरीत्या तन्मात्रलक्षणावयवैः क्षित्यादिलक्षणावयविनोऽब्भूतोपचयेन कार्यत्व युक्तमेव। अत्र नेश्वरदुर्घटघटनाशक्तेरपेक्षति चेन्न। द्रवद्रव्योपचितस्य काठिण्याद्ययोगेनेश्वरशक्तेरवश्यांपक्षणीयत्वात्। किचावयवावयविभावेऽपि ईश्वरशक्त्यपेक्षेति वक्तु अवयवावयविभावं तावन्निश्चिनोति॥ धातव इति। धातवः पृथिव्यादि भूतानि तन्मात्रलक्षणावयवैर्विना न स्युः। अवयवित्वादेव। न ह्यवयवं विनाऽवयव्यस्ति। अवयविनि पटेऽसत्यासन्नावयवा व्यतिषंगविशेषविशिष्टास्तंतंव इव सिद्धे त्ववयवावयविभावेऽवयावीन स्थूलत्वादिविधिः। अवयवेषु तन्निषेधः। एवमवयवेषु सूक्ष्मत्वविधिः। अवयविनि तन्निषेधः। एवं विधितन्निषेधलक्षणो विशेषः। ईश्वरशक्तिं विना नोपपद्यते। तयोरभिन्नत्वात्। न च भेदेनोपपत्तिः। भेदाभेदसमावेशस्यापीश्वरशक्ति विनाऽयोगात्। न च विशेषेणोपपत्तिः तस्यापश्विरशक्त्या विहितत्वात्। एवं चाघटितघटकशक्तिर्भगवान्विशेष विरोधमाशंकीकृत्य क्वचिद्भेदनकार्यविशेषं घटयति। सर्वथाऽपीश्वरशक्तिरंगीकार्या। तदेतदभिप्रेत्योक्त तात्पर्ये॥ एवमित्यादि। एव रीत्येश्वरे दुर्घटघटनाशक्तिरगीकार्येति॥५९॥ नन्ववयवावयविनोरभेदे सति कार्यविशेषनिर्वाहायेश्वरशक्त्यपेक्षा। अभेद एव नास्ति। किंतु सादृश्यमात्रं। तेनैव परस्परभ्रम इत्यत आह॥ स्यादिति। वस्तुनो विकल्पेऽवयविनोऽवयवस्य च भेदे सादृश्येनाभेदभ्रमः स्यात्। स एव नास्ति। तंतुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इत्युक्तेः। अस्त्ववयवावयव्यभेदस्तथाऽपि कः कार्यविशेषः। कुत्र वेश्वरशक्त्या निर्वाह्यो दृष्ट इत्यत आह’॥ जाग्रदिति। यथा स्वप्ने स्वप्नविशेष। जाग्रत्स्वप्नौ जाग्रद्राह्यशब्दादिः स्वप्नो वासनामयगजादिश्वेत्युभावीश्वराघटितघटकशक्त्या दृश्येते। तथा विधिनिषेधताऽवयवावयविनोः स्थूलसूक्ष्मत्वविधिनिषेधलक्षणो विशेष उक्तशक्त्या

तत्सादृश्यं विशेषतः। ईश्वर शक्तिविशेषतः। विशेष उक्तविधिनिषेधलक्षणः। ईश्वरकल्पनया सामर्थ्येन विशेष ईश्वरशक्ति विनाऽम्येनात्यतभेदादिना न निर्वाद्यः। ईशेच्छयेशशक्त्या। नियतोऽप्यवयविन्येव कश्चिदवयवे एव कश्चिदिति॥६०॥ एवं भगवतो माहात्म्यमुक्त्वा समर्पणं कार्यमित्याशयेनाह॥ भावेति। मुनिः स्वानुभूत्याऽऽत्मनः परमात्मनौ भावाद्वैतादिकं वर्तयन् पुनः पुनर्विषयीकुर्वन्!बीन्स्वप्नान् स्वप्नाद्यवस्थात्रयं। संसारमिति यावत्। धुनुते जहातीति योजना॥६१॥ भावाद्वैतादिस्वरूपं विविच्य दर्शयति॥ कार्येत्यादिना। पटततुवत्तद्गतरूपभगवद्रपद्वयवत्। कार्यकारणवस्तुषु। प्रकृतिमहदहंकारादिषु विद्यमानभगवद्रूपैक्यस्य दर्शनं यत्। अविकल्पस्य भेदस्यावस्तुत्वात् असत्यत्वात्तदैक्यदर्शन। भावाद्वैतमुच्यत इति योजना॥६२॥ मनोवाक्रतनुभिः क्रियमाणेत्यध्याहृतं। सर्वकर्मेत्यनेन संबध्यते। यत्समर्पणं तत्क्रियाद्वैतमुच्यत इति योजना॥६३॥ स्वार्थकामयोस्तद्गतयोर्भगवद्रूपयोरैक्य तद्द्द्रव्याद्वैतमुच्यत इति योजना। आत्मजायेत्यादिना स्वार्थकामयोर्विवरणं मतव्य॥६४॥ अनापदि दैवलब्धेनानिषिद्धेन साधनेनार्चनं कार्यमित्याह॥ यदिति। यत्तुलस्यादिकं यस्याधिकारिणो येन शिष्यादिना यत्र देशे यतो वनादितो लब्धमनिषिद्धं। स तेन कर्माणि भगवदर्चनादीनीहेत्कर्तुमिच्छेत्। नान्यैरिति योजना॥६५॥ वेदोक्तैरेतैरुक्तैर्गृहस्थधर्मेः। अन्यैश्च स्वकर्मभिर्गृहे वर्तमानोऽपि। अस्य गति भगवतो गति तद्भक्तिभाङ्नरः। यायादिति योजना॥६६॥ गृहस्थाश्रमधर्माचरणे धर्मराजमेवोदाहरति॥ यथेति। हे प्रभो। यत्पादपंकेरुहसेवया यूयं। हे नृपदेव। दुस्त्यजाढापद्गणादुत्तारिताः। ननु। यथा भवान्निर्जितदिग्गजः। दिग्गज शब्देन दिगंतो लक्ष्यते। निर्जितदिगंतः सन्। ऋतु राजसूयमहार्षीदकार्षीत्। अस्य गति यायादिति पूर्वेण योजना॥६७॥ स्वस्य ब्रह्मपुत्रतां वक्तुं स्ववृत्तांतमाह॥ अहमिति। नाम्नोपबर्हणः। अतीते महाकल्पे। अत्र तात्पर्य॥ अतीते इत्यादि॥६८॥ पेशलमवयवमादेवं सौगंध्यं तैः प्रियदर्शनं यस्य सः॥६९॥ विश्वग्भिर्दक्षादिभिः प्रजेश्वरैः॥७०॥ तद्विदित्वाऽहमगायं। तच्च गानं मदादिपूर्वकमिति ज्ञेयं। तच्च हेलनं ज्ञात्वांऽजसा शेषुरिति योजना॥७१॥ शापप्रकारमाह॥ याहीति। तत्रापि शूद्रजन्मन्यपि॥७२॥ अनुषगेन भक्त्या। तीव्रस्नेहोऽनुषंगोऽथ नैरंतर्यानुवेशनमित्यभिधानात्॥७३॥ उपवर्णितगृहस्थाश्रमधर्ममुपसंहरति॥ धर्मइति॥ यूयमिति। येषां गृहान् मुनयोऽभियांति। तथा

साक्षाद्गूढं मनुष्यलिंगं परं ब्रह्म आवसत इति। तस्माद्यूय नृलोके भूरिभागा बत॥७४॥ भगवतं कृष्णमेव साक्षात्परब्रह्मत्वेनोपदिश्य तत्संबधबाहुविध्यात्पार्थान् स्तौति। स वाऽयमिति। कैवल्येन जडामिश्रतया निर्वाणसुखानुभूतिः स्वरूपसुखानुभवो यस्य स तथा। एतादृशः सोऽयं महद्विमृग्यं परं ब्रह्म। एतादृशः कृष्णो वः प्रियसुहृन्मातुलेय आत्मा स्वामी। अंतर्यामी। अर्हणीयो विविधकृताज्ञाकारी गुरुश्चेति योजना॥७५॥ स्वस्य भगवत्प्रीतिं प्रार्थयते नारदः॥ नेति। यस्य रूपं वस्तुतया साकल्येन भवादिभिर्धिया मनसोपवर्णितं। स एष सात्वतां पतिः। मौनेन मननेन भक्त्योपशमेन विषयालंबुध्द्या पूजितः प्रसीदतामिति योजना॥७६॥ अनंतर वृत्तमाह शुकः॥ इतीति। सुप्रीतो भक्त्युद्रेकयुक्तः प्रेमविव्हलः प्रेम्णाविगतविषयस्मरणः॥७७॥ उपामंत्र्य स्वाश्रमं गच्छामीत्युक्त्वा॥७८॥ पर्व पृष्ठा दाक्षायणीवंशा उपवर्णिता इति मूचयति शुकः॥ इतीति। यत्र वशेषु देवासुरमनुष्याद्या लोका जनाः। एषां वशाश्चराचराश्च त इमे वंशा इत्युक्ताः प्रकारेण पृथक् प्रकीर्तिताः। इति योजना॥७९॥ इति श्रीभागवतटिप्पण्यां पोडशोऽध्यायः॥७–१६॥ हिरण्यकशिपोर्वक्षोविदारिनरकेसरी॥ शरण्यः सर्वभक्तानां मुदामाप्ति तनोति मे॥१॥ नभः कृष्णभवाष्टम्यां दृष्ट्वेवा मदनंदिनी॥ स्मयन्नानंदसांद्रोऽयं नंदयेन्नदनंदनः॥२॥ व्यासप्रोक्तं भागवत पूर्णप्रज्ञप्रकाशित॥ अत्र टीका मदीयाऽपि तुष्ट्यै दूर्वैव मापतौ॥३॥ प्रमादबहुले ग्रंथे गुणानेवान्ववेषयेत्॥ ग्रावग्रामयुतेद्यद्रावन्वेषयति हीरकं॥४॥ यो तनोत्प्रभया विष्णुतत्त्वकर्मविनिर्णयौ। तमोनिरासाच्च तमाचार्यसूर्यमहं भजे॥५॥ सृतिकूपे॥ निपतित द्विजमुद्धृत्य मापतेः॥ पदांबुजे जहंसतं भुवनेद्रमहं भजे॥६॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहितायां सप्तमस्कंधटीकायं व्यासतत्त्वज्ञतीर्थकृतायां मंदनंदिन्यां सप्तमः स्कंधः समाप्तः॥७॥ श्रीकृष्णार्पणमस्तु॥ ॥

<MISSING_FIG href="../books_images/U-IMG-1733994868Screenshot2024-12-12144353.png"/>

श्रीमदानन्दतीर्थभगवत्पादाचार्याः । XX
00000000000000 2000000 500000000000000000000000000032000 4000oon 7003002400” 007 00000 be be be ce be b ०.००, ७९ ॥ इति श्रीमद्भागवत टिप्पणी मंदनंदिनी समाप्ता ॥ ॥ सप्तमः स्कंधः ॥ foe cofoe oe oe oe ock cfoe oe oe be potoerce foe oe oe oe oe occo get go bok 0 0 0 NOVENONS VANS NONONON 50000 Bi

अन्येंद्रियैर्दर्शनादिति॥१३॥ प्राकाश्यसिद्धिप्रापकधारणमाह। महतीति। अभेदप्रतीतिं वारयन् व्याकरोति॥ सूत्र इति। ननु कथमेवमर्थो लक्ष्यत इत्यतस्तत्र दृष्टांतमाह॥ गृह इति। यथा गृहेऽपि देवदत्तस्तिष्ठतीत्युक्ते गृहस्थिते पीठे इत्यर्थो लभ्यते न तु गृहाभेदस्तद्वत्प्रकृतेऽपीत्यर्थः। नन्वव्यक्तस्य नित्यत्वात्कथमव्यक्तजन्मन इत्युक्तिरित्यतोऽनूद्य व्याचष्टे॥ अव्यक्तेति। स्यादिदं यदि भगवतोऽव्यक्तस्य जन्म प्रामाणिकं स्यात्। न चैवमस्ति। अत्रत्याव्यक्त शब्दस्य सूक्ष्मपरमाण्वादिपरतया सावकाशताया अपि संभवादित्यत आह। तस्मादिति। हरेरित्यर्थः। पूर्वं तस्यैव प्रकृतत्वादिति ध्येयं। तथा चात्र त्रिगुणत्वरूपासाधारणधर्मोक्तेरव्यक्तं प्रधानमेव। एतत्समाख्याया भागवतेऽप्यव्यक्तं प्रधानमेवेत्युक्तरीत्यैव व्याख्येयमित्याशयः। ननु किंचित्स्थूलत्वेति दुतोव्याख्यायते। किं नाम घटादेरेवासतः सत्तासंबंधरूपमेव जन्म कस्मान्न स्यादित्यतस्तत्र बाधकमाह॥ अजरादिति। अमूर्तित इयत्तावच्छिन्नपरिमाणशून्यादिति देशानंत्यमाचष्टे॥ शाश्वतं च तत्तमश्चेति। शाश्वत शब्दात्कालानंत्यमाचष्टे। पुरुषोऽभूदित्यन्वयः। तथा चात्र नित्यत्वोक्तेर्घटादिवदुत्पत्त्यसंभवादुक्तरीत्यैव व्याख्येयमित्याशयः। उक्तरूपमेव जन्मेत्यत्र प्रमाणमाह॥ अव्यक्तस्येति। मे पारमेष्ठ्यमित्यन्यथाप्रतीतिं वारयति। म इति। पारमेष्ठ्यमित्येतदभेदप्रतीतिवारणाय व्याचष्टे॥ परमेष्ठीति। ननु सर्वसिद्धीनामपि परमेष्ठिप्रसादलभ्यत्वात्किं विशिष्योच्यते। प्राकाश्यं पारमेष्ठ्यमितीत्यत आह॥ सर्वेति। परमेष्ठिप्रसादलभ्यत्वरूप पारमेष्ठयत्वरूपं विशेषण। अत्रैकत्रोक्तमुपलक्षणत्वेन सर्वत्र द्रव्यमित्याशयेनात्रोक्तमित्यर्थः। नन्वेवं चेदुपलक्षणतयाऽत्रैवोक्तिः कुतः। सिद्ध्यंतरे उक्तावप्युपलक्षणतया ज्ञातुं शक्यत्वादित्यत उक्तं॥ सर्वेति॥ ज्ञानेति। प्राकाश्यापरपर्यायज्ञानेत्यर्थः। अणुत्वादि सिद्धिरूपगुणानां प्राकाश्यसिद्धिमूलकत्वेन सर्वसिद्धिषु प्राकाश्यसिद्धेः प्रधानत्वादत्रैवोपलक्षणतयोक्तिर्युक्तेत्याशयः। परमेष्ठिप्रसादादित्युक्तार्थे प्रमाणमाह। सर्वे गुणा इति। अत्र लक्ष्म्या विष्णुकोटौ प्रवेशो मंतव्यः। प्राणभारतीग्रहणेन ब्रह्मसरस्त्रत्योरपि संग्रहः। तथा च महति महत्तत्त्वे स्थिते सूत्रे प्राणे आत्मनि व्याप्ततया स्थिते मयि मानसं मनोधारयन्नव्यक्तस्य जन्म किंचित्स्थूलत्वरूपो विकारो यस्मादसावव्यक्तजन्मा तस्मान्मे मत्तः सकाशात्पारमेष्ठ्य परमेष्ठिप्रसादलभ्यं। परमेष्ठिप्रसादादिति यावत्। प्राकाश्यं प्राप्नोति रुद्रानंतादिः। ब्रह्मा तु विष्णुप्रसादादेवाप्नोतीति श्लोकार्थः॥१४॥ ईशत्वसिध्द्युपाय उच्यते॥

विष्णाविति। नन्वत्र तत्तद्धारणाविपयस्यैवाधीश्वरस्योक्त्याऽणिमादिसिद्धिधारणाविषयभूते तदभाव- प्राप्नोतीत्यत आह॥ सर्वत्रेति। सर्वसिद्धिहेतुभूतधारणाविषयभगवद्रूपेष्वित्यर्थः। आदिपदेन निर्गुणत्वादिग्रहण। तत्र तत्र तत्तत्सिद्धिहेतुभूतधारणायां। तत्र तत्राधिष्ठानेषूपासनं कार्यं। तत्र श्रुतिमाह। तमिति। यथा यथा यद्यद्गुणविशिष्टत्वेन तदेव तमेव भवति प्राप्नोति। स्मृतिमपि तत्राह॥ उपासत इति। अनेन पूर्वार्धेन यथासंकल्पसंसिद्धिधारणाकथनपरस्य मयि सत्ये मनो युंजन्नित्यस्य तात्पर्यमुक्तं वेदितव्यं। ईश्वर इत्युपासतः। यथा यद्गुणविशिष्टत्वेन हरिमुपास्ते तं तं गुणं प्राप्नोतीति योज्यं। तथा च कालविग्रहे परमाण्वादि रूपः कालो विग्रहः। प्रतिमा यस्य तस्मिन्नधीश्वरे विष्णौ व्याप्ते मयि चित्तं धारयन् क्षेत्रं शरीरं क्षेत्रज्ञा जीवास्तेपां चोदनं नियमनं। स्वोक्तकारकत्वरूपं पूर्वशक्तेः कोटिगुणशक्त्युद्रेकरूपं वा यस्माद्भवति तादृशं सर्वेशत्वमवाप्नोतीत्यर्थः॥१५॥ वशिताप्राप्त्युपायमाह॥ नारायण इति। भगवच्छब्दशब्दित इत्यनेनैश्वर्यादि षड्गुणोपसंहारस्तत्र कार्य इति सूचितं। मद्धर्मा विषयासंगत्वादिमद्धर्मवान् वशितामलोलत्वापरपर्यायां॥१६॥ प्राकाम्यसिध्द्युपायमाह॥ निर्गुण इति। विशदं निर्मलं। यत्र यस्मिन्नानंदे प्राप्ते सति कामोऽन्येच्छाऽवसीयते समाप्ता भवति। परमानंदं तद्रूपप्राकाम्यं। यथोक्तं। यथेष्ठानंदसंप्राप्तिः प्राकाम्यमिति॥१७॥ एवमष्टमहासिध्द्युपायमभिधाया- नूर्मिमत्वाद्यष्टादशसिध्द्युपायमभिधास्यन्नादावनूर्मिमत्वसिध्द्युपायमाह॥ श्वेतद्वीपेति। धर्ममये धर्मफलदातरि। अस्ति जायते हसति वर्धते क्षीयतेऽपक्षीयत इति

पडूर्मयः। एतद्राहित्यमेवामर इत्यनेन विवृत। अत्र श्वेततामिति श्वेतवर्णतामित्थन्यथाप्रतीतिं पराकरोति॥ शुद्ध इति। श्वेतः श्वेत शब्दवाच्यः। तथा च श्वेततां सुखितां याति। दुःखमात्रशून्यत्वादित्यर्थ उक्तो भवति॥१८॥ दूरश्रवणसिध्द्युपाय उच्यते॥ मयीति। अन्यथाप्रतीतिवारणायाकाशात्मनीत्येतद्व्याचष्टे॥ आकाशस्येति। तत्र तत्रेत्यादिकमन्यथा- प्रतीतिनिरासाय व्याचष्टे॥ तत्रेति। उपलब्धानामित्युक्त्या स्वेन पूर्वं ये दृष्टचरास्त एव चेत्सहस्रयोजनांते स्थिताः संतो वाचमुदीरयति तर्हि तेषामेव वाचं शृणोति नानुपलब्धानामित्याशयः। प्रसिद्धपक्षिपरत्व- निरासाय हस पदमनूद्य व्याख्याय प्रमाणं चाह ॥ हसो जीव इति। ओहाक् त्याग इत्यस्य हमिति भवति अप्यक्षरसाम्यानि॥५८॥ ब्रूयादिति वचनात्स इत्यस्य सचयार्थकत्वमभिप्रेत्य संचयेनेत्युक्तं। यद्वा। आहोक् त्याग इत्यस्मात् अ प्रत्यये सति हः सृगता -

वित्यस्मात् अ प्रत्यये सति स इति पृषोदरादित्वान्नुमागमहस इति। ननु तर्हि तस्याह हंसरूपेण सकाशमगममिति भगवतोऽपि हंसत्वोक्तस्तत्र चैतन्निर्वचनस्य बाधितत्वात्कथमिति चेत्तत्राह। तद्धेतुत्वादिति। परं जीवविलक्षण हरि॥ तद्धेतुत्वात्। जीवस्य पूर्वशरीरत्यागे नवशरीरसंचये च स्वातंत्र्येण तस्यैव हेतुत्वाद्धंसं प्राहुरित्यर्थः। यथोक्तं। स्वातंत्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणं। स्वातंत्र्यं तत्र मुख्यं स्यादिति। तथा चाकाशात्मनि प्राणे आकाशव्यापिनि श्रीमुख्यप्राणे स्थिते मयि मनसा घोष शब्दमुद्वहन् आकाशांतर्गतमुख्यप्राणस्थो हरिः शब्दप्रवर्तक इत्येवं ध्यायन्हंसो जीवस्तत्राकाशे आकाशसंबंधितया स्थितानां भूतानां वाचः शृणोति। कीदृशानां स्वरूपकर्तिनभूतानामित्यत उपलब्धेत्युक्तं। स्वेन पूर्वमुपस्वरूपकीर्तनं लब्धानां आ संमतात् सहस्रयोजनपर्यंतं स्थितानां भूतानामित्यर्थः॥१९॥ दूरदर्शनोपायमाह। चक्षुरिति। चक्षुद्रियं त्वष्टरि सूर्ये संयोज्य तत्प्रेरिततया तदधीनामिति ध्यात्वा त्वष्टारं सूर्यं चक्षुषि सयोज्य प्रेरकतयाऽस्तीति ध्यात्वा तत्र चक्षुषि त्वष्टरि च मुख्यतः प्रेरकतया विद्यमानं मां ध्यायन्पुमान् सूक्ष्मदृक् सूक्ष्मदर्शनसामर्थ्योपेतो भूत्वा विश्वं सहस्रयोजनांतरितं पश्यतीत्यर्थः॥२०॥ मनोजव सिध्द्युपायमाह॥ मन इति। अत्र मनसि मनसः संयोजनमनुक्तमात्माश्रयापत्तेरतः सप्तम्यंतमनः शब्दार्थमाह॥ मनसीति वायुनेत्यस्यान्वयं दर्शयति॥ वायुनेति। तदन्वित्यस्यार्थमाह। मनोऽन्विति। मद्धारणानुभावेनेत्यत्राधिष्ठानानुक्तेस्तद्दर्शयति॥ मनस्तत्त्वे मद्धारणमिति॥ तथा चायमर्थः। यदा योगिनो मनोवेगेन गंतुमिच्छाभवति तदा मनो मनसि मनस्तत्त्वे तदंतर्गतहरौ वायुना संयोज्य। मनसा तं ध्यात्वेति यावत्। तदनु मनोऽनु। स्वकीयं देहमपि संयोज्य स्थितस्य पुसो मनो यत्र देशादौ गच्छति तत्र तस्यात्मा देहोऽपि मनस्तत्त्वे स्थितस्य मम धारणासामर्थ्येन गच्छतीति मनोजवरूपा सिद्धिरुक्ता भवतीति॥२१॥ कामरूपप्राप्त्युपायः कथ्यते॥ यदेति। तत्र ध्येयोक्त्यप्रतीतेः प्रमाणेन तं दर्शयति॥ गजादीति। गजादिस्थितमित्युक्त्या मद्योगेत्यस्य तात्पर्यमुक्त॥२२॥ आत्मानं तत्र भावयेदित्यस्य स्वात्मानं जीवमिति प्रतीतिपरिहाराय तात्पर्यमुक्तं। परेति। वायुभूत इत्यस्यार्थः॥ वायाविति। प्राण शब्दार्थमाह॥ प्राणेति। प्रकृष्टचेष्टकत्वादिनेति भावः॥२३॥ हृदुरः कंठमृर्धस्त्विति स्थानचतुष्टयमेवोक्तं तदुपलक्षणमित्याशयेनाह। पडिति। नाभिहृदुरःकंठभ्रमध्यशिरोभेदेन षट् संख्याका ये आधाराः

स्थानानि तत्र तत्र स्थितमित्यर्थः। आयुःक्षयं विना स्वस्य क्लृप्तायुः परिसमाप्त्यभावेऽपि प्राप्नोति मृत्युं॥२४॥ त्रिकालज्ञताप्राप्त्युपाय कथनपरे मद्भक्तेति श्लोके ध्येयोक्त्यप्रतीतेस्त दर्शयति॥ त्रिकालेति। धारणाविद इत्यस्येदं तात्पर्यं॥२८॥ अग्न्यादिभिरित्यत्रापि ध्येयोक्त्यदर्शनात्तामाह॥ अग्न्यादिष्विति। ध्यायन् दाहकत्वादग्निस्तंभकत्वेनाल्हादकत्वेन चेत्यर्थः। तत्प्रतिस्तंभकोऽग्न्यादिप्रतिस्तंभकः। एवं प्रमाणेन व्याख्याय स्ववाक्येनापि व्याचष्टे॥ आत्मानमित्यादिना। वायुभूत इत्यस्यार्थः॥ वायौ स्थित इति। कथमयमर्थो लभ्यत इत्यतस्तद्दर्शयति॥ वायाविति। ब्रह्मणि नीत्वेत्यस्यार्थः॥ प्राण पर इति। तत्र प्रमाणमाह। प्राणस्थमिति। प्राणनामानं विष्णुमिति संबंधः। ब्रह्मनामके विष्णावित्यन्वयः। नुन नीत्वेति कथं विष्णोरनेयत्वेन नयनायोगादित्यत आह॥ अनेयस्येति। तद्गतस्य प्राणांतर्गतस्य हरेः स्मृतिः। बहिष्ठहर्यभेदेन स्मरणमेव नीतिरित्यर्थः। कुत एवमित्यत आह॥ न हीति। कुत इत्यतः स्वतंत्रत्वादित्याह॥ स्ववशत्वत इति। यो वै मद्भावमापन्न इत्यत्र मद्भावं मदभेदमित्यन्यथाप्रतीतेर्व्याचष्टे॥ ममेति। स्नेहेनेशितृत्वादिमाहात्म्योपसंहाररूपा भक्त्यपरपर्याया सेवा भावनोपासनाग्रहणे वक्ष्यमाणप्रमाणासंगतिरतः प्रमाणं चाह॥ भाव इति॥ तथा चेयं यदेत्यादिमूलश्लोकानामक्षरयोजना॥ यदा मन उपायादायांतः स्थिरीकृत्य यद्यद्गजादिरूपं बुभूषति भवितुमिच्छति। अहं गजादिरूपी स्यामिति। तदा तत्तन्मनोरूपं स्वमनःस्थितं गजादिस्थितं गजाद्याकारभगवद्रूपं भजेत्प्रााप्नोतीत्यर्थः॥२२॥ परकायप्रवेशसिध्द्युपायमाह। परेति। परकायं प्रवेशन् प्रवेष्टुकामः सिद्धो योगी आत्मानं स्वांतर्यामिणं परमात्मानं तत्र परकाये भावयेश्चिंतयेत्। एवं भावितो वायौ भूतस्तदंतर्गतः प्राणो हरिः पिंडं देहं हित्वा परकायं प्रविशेत्। तत्र दृष्टांतः। यथा षडंघ्रिर्भ्रमर एकस्मिन्पुष्पपिंडे स्थितोऽपरपुष्पस्थितरसपानेच्छायां तद्धित्वाऽन्यं पुष्पं विशेत्तद्वदित्यर्थः। भगवान्स्वांतर्गतवाय्वांतर्गतजीवं गृहीत्वा देहांतरं गच्छतीति हरेरेव स्वातंत्र्यादित्थमुक्तं। वस्तुतः स्वभावितपरमात्मप्रसादात्स्वदेहं हित्वा परकायं विशेद्योगीति ज्ञेयं॥२३॥ स्वच्छंदमृत्युतासिध्द्युपाय उच्यते॥ पार्ष्णेति। यदा योगी आयुःक्षय विना मृत्युमभीप्सते तदा गुदं पार्ष्ण्या पार्ष्णिनाऽऽपीडयन्नधोद्वारं निरुद्ध्य प्राण वायुं हृदुरःकंठमूर्धसु। नाभिभ्रूमध्ययोरप्युपलक्षणं। एवं षट्स्वाधारेष्वारोप्य प्राणं प्राणस्थं प्राणनामानं देहांतर्गतं हरिं ब्रह्म नीत्वा

ब्रह्मणि देहाद्वहिष्टौ हरौ नीत्वा तदभेदेन स्मृत्वा ब्रह्मरंध्रेण तनुमुत्सृजेदित्यर्थः॥२४॥ देवैः सह क्रीडासिध्द्युपायमाह॥ विहरिष्यन्तीति। सुराणामाक्रीडे क्रीडास्थाने विहरिष्यन् विहारं कर्तुमिच्छन्योगी सत्त्वं सत्त्वगुणं मत्स्थं मदाधारत्वेन स्थितं विभावयेत्। सत्त्वगुणाधारं मां चिंतयेदिति यावत्। अनंतरं सुरस्त्रियो विमानेन सत्त्ववृत्तिं सत्वगुणाधारे हरौ चित्तवृत्तियुक्तं योगिनमुपतिष्ठति समीपं प्राप्नुवंति। ताभिः क्रीडंत इति भावः। यथासंकल्पसिध्द्युपायमाह॥ यथेति। योगी बुद्ध्या मनसा यथा यथा संकल्पयेत्संकल्प्य च सत्ये सत्यसंकल्पे मयि मनोयुंजानो योगी यथा वा मत्परो यं यं गुणमुपसंहृत्योपासनातात्पर्य वांस्तथा तथा तत्संकल्पितं समुपाश्नुते प्राप्नोतीत्यर्थः॥२६॥ अप्रतिहतगत्याज्ञासिध्द्युपायमाह॥ य इति। यो योगी मद्भावं मर्याशितृत्वादिगुणोपसंहार- रूपभक्तिमापन्नस्तस्येशितुः प्रेरयितुर्वशितुः स्वतंत्रस्य मम सकाशात्। भक्तिविषयमदनुग्रहणेति यावत्। न च विहन्येत नैव विहन्येतेत्यर्थः॥२७॥ त्रिकालज्ञत्वसिध्द्युपायमाह॥ मद्भक्तेति। मद्भक्त्या शुद्धांतःकरणस्य धारणाविदस्त्रिकालांतर्यामितया त्रिकालप्रेरकस्य हरेर्धारणाप्रकारविदस्तस्य योगिनः। त्रिकालप्रेरकहरिस्मरणप्रभावादिति यावत्। जन्ममृत्युपबृंहिता सृष्टिसंहारविषयिणी बुद्धिः स्यात्। एते पदार्थाः पूर्वसृष्टाः संहृताश्च। इदानीमप्येते पदार्थाः सृज्यंते संहृीयंते च। उत्तरत्रापि सृष्टाः संहृताश्च भविष्यतीति त्रिकालजन्मादिविषयज्ञानं भवतीति भावः॥२८॥ अग्न्याद्यप्रतिहतिसिध्द्युपायमाह। अग्न्यादिभिरिति। मद्योगश्रांतचित्तस्याग्न्यादिस्थितस्य मम योगो दाहकत्वादिशक्तिस्तंभक- त्वेनाल्हादकत्वेन च ध्यानं तेन श्रांतं मदेकनिष्ठं चित्तं यस्य स तथा। तस्य मुनेर्वपुर्योगमयं ध्यानमयं। पूत भवतीति यावत्। तच्च योगमयं वपुरग्न्यादिभिर्न हन्येतेत्यर्थः। प्रतिहत्यभावमात्रे दृष्टांतमाह॥ यादसामिति। जलचराणां मत्स्यादीनां वपुर्यथोदकैर्न हन्यते तत्प्रतिहतं न भवत्येवमित्यर्थः॥२९॥ अपराजयसिध्द्युपायमाह॥ मदिति। श्रिया श्रीवत्सेन च चक्रायुधरूपास्त्रैर्विभूषिताः। ध्वजातपत्रव्यजनैर्बुध्द्याविवेकेन विभूषिता इति वर्तते। एतादृशीर्मम विभूती रामकृष्णादिविभूतिरूपाण्यभिध्यायन्यः सोऽपराजितो भवेन्मनुष्यैरित्यर्थः॥३०॥ एताश्च सिध्द्यस्तत्तत्सिद्धिकामनयाऽऽदौ वायुमुपास्य तदापरोक्ष्य संपाद्य तेनानुज्ञां प्राप्य पुनस्तत्सिद्धिकामनयैव भगवंतमुपास्य तदापरोक्ष्यं संपादितवतस्तस्य योगिनस्तत्सिद्धिप्राप्त्यपेक्षाकाले पुनस्तत्सिद्धिप्राप्ति-

योग्यगुणोपसंहारपूर्वकं तात्कालिकीं किंचिदुपास्ति कुर्वत एव भवति। नान्यथा। मोक्षेतरकामनयाऽपि वायुप्रसादं संपाद्य भगवदुपास्तिं सम्यक् कुर्वतोऽपि तदापरोक्ष्यं भवत्येवेति। न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिरिति सूत्रे सामान्यादर्शनाल्लोकान्मुक्तिर्योग्यात्मदर्शनादिति भाष्ये च स्पष्टमुक्तत्वात्। सामान्यदर्शनात्कामनयाऽऽपरोक्ष्यात्। एतादृशस्य योगिन एता योगसिद्ध्यो मोक्षमार्गविलंबकारित्वेनांतरायभूताः। एवं काम्यापरोक्षवतोऽपि योगिनः पुनः कामं त्यक्त्वा निष्कामनया वायुमुपास्य तदापरोक्ष्यं संपाद्य तदनुज्ञया निष्कामनया हरिमुपास्य तदापरोक्ष्ये सति मुक्तिर्भवति नान्यथा। अत आदावेव कामनां त्यक्त्वा भगवदुपासनेन तदापरोक्ष्ये संपादिते सति पश्चात्सिद्ध्याद्यकामनायां क्षिप्र मुक्तिर्भवति। अन्यथा तस्यापि मुक्तिविलंबरूपोंऽतराय एव। अधिकारिणां तु केषांचिदपरोक्षज्ञानिनां यस्मिन् जन्मन्यपरोक्षज्ञानमुत्पन्न तज्जन्मारभ्यैव सिद्धतया तेषां कदाचिदेतत्सिद्धिकामनायां ज्ञानमहिनैव सिद्धयो भवंति। कर्दमादेर्दर्शनात्। तादृशानां कामनया मोक्षे विलंबरूपदोषाभावात्तेषां नियतकालवत्त्वादित्यतो निष्कामनयैव भगवत्ध्यान कार्यं। उपासकेनेत्यध्यायशेषेणोच्यते। तत्र योगधारणया पुनरित्यस्याभिप्रायमाह॥ उपासनयेति। कामनापूर्वं कृतीपासनया। कार्यकाले तत्तत्सिद्धिप्राप्त्यपेक्षाकाले कार्यसिद्धिः। अष्टाणिमादिकार्यसिद्धिः। इत्यत इत्याशयेन पुनः शब्दाभिप्रायं प्रमाणेनाह॥ उपास्येति। कामनयेति शेषः। तत्र तत्राधिष्ठाने तद्गं वाय्वंतर्गतं हरिं। तदपरोक्षज्ञानं संपाद्येति यावत्। काम्यरूपापरोक्षज्ञानानंतरं काले काले कार्यकाले। तस्य स्मरतः। जितेंद्रियस्येति श्लोकाभिप्रायमाह॥ अकाम इति। पश्चाद्धरिदर्शनानंतरं किंचिंत्सिद्ध्यादिकं कामयेत्तत्यर्थः। अंतरायान्वदंतीत्यत्र कथमेतेषामंतरायहेतुत्वमित्यतो मोक्षविलवहेतुत्वादित्याशयेनाह॥ यदीत्यादिना। अपास्य विहाय। काम्यरूपापेक्षानंतरमिति शेषः। तहींति शेषः। पुनस्तद्भोगान्तरं। तेनैव क्रमयोगेन। प्राणमुपास्यापरोक्षीकृत्य तदनुज्ञातो हरिमुपास्य हरिं दृष्टेत्येवं क्रमेणेत्यर्थः। ननु पुनः काममुपास्येत्यादि कस्मादुच्यते। पूर्वजातकाम्यापरोक्षज्ञानिनैव मुक्तिः किं न स्यादित्यत आह॥ पूर्वमिति। कामार्थे। काम्यत इति कामः। कामनाविषयप्राप्त्यर्थं। येषामपरोक्षज्ञानिनामधिकारिणां जन्मतः सिद्धिः। यज्जन्मन्यपरोक्षज्ञानोत्पत्तिस्तज्जन्मारभ्यैवाणिमादिसिद्धिरस्ति। तेषां तत्कामनायां ज्ञानमहिम्नैव लभ्यमानत्वेन दोषो मोक्षविलंबरूपो नैव तेषां क्लृप्तकालत्वादित्याशयः। ततश्चायं श्लोकत्रयार्थः॥ उपा-

सकस्य काम्योपासनया परोक्षीकृतभगवद्रूपस्य योगिनो योगधारणयाऽणिमादिसिद्धिमाप्त्युपाय- भूतधारणया कार्यकालेषु पुनः किचिदुपासनं कुर्वतः पूर्वकथिताः सिद्धयोऽशेषत उपतिष्ठति। काममपहाय निरंतर मध्यानरतस्यापरोक्षज्ञानिनः सिद्धिमात्रेणैव भवतीत्याह॥ जितेंद्रियस्येति। मनोव्यतिरिक्तेंद्रियजयवतः। दांतस्येत्यस्य विवरणमेतत्। जीतौ श्वासात्मानौ येन स तथा। श्वास शब्दोक्तो वायुजयो नाम तदुपासनया तत्प्रसादप्राप्तिः। आत्म शब्दोक्तमनसो जयो मुख्य एव। मद्धारणां धारयतः सदा मम ध्यानरतस्यानंतरमपरोक्षज्ञानिनः सुदुर्लभा सिद्धिः का नु। स्मरणमात्रेण सर्वाऽपि सिद्धिर्भवति। ज्ञानसामर्थ्यादित्याशयः। कर्दमादि रेवोदाहरणं। एवमकामनया भगवध्यानेनैवाणिमादिसिद्धिसौलभ्ये सति कामनया तदर्थोपास्तिर्न प्रशस्तेत्याह॥ अतरायानिति। उत्तमं योगमकामनया मोक्षसाधनीभूतं ध्यानं युंजतः कुर्वतो मया सपाद्यमानस्य मत्प्रसादमाप्तुकामस्य योगिन एतान्सिद्धिविशेषान् अंतरायान्वदति। कुतोंऽतराया इत्यतो मोक्षविलंबहेतुत्वादित्याह॥ कालक्षपणहेतव इति। कालक्रमेण हेतव इत्यर्थः॥३१॥ ॥३२॥३३॥ नन्वेतावता प्रबंधेनाणिमादिसिद्धौ तत्र धारणारूपयोगः साधनतयोक्तः स किमिति वक्तव्यः। अधिकारिकाणां केषांचिज्जन्मनैव सिद्धिदर्शनात्। औषधविशेषेणापि सिद्धिदर्शनात्। तपसा मंत्रैश्च सिद्धिदर्शनादिति चेत्। सत्यं। न हि सर्वेषामपि पुसां जन्मतः सिद्धिरस्ति किं तु केषांचिदेवाधिकारिणां। तेषामपि सर्वैर्जन्मभिर्न सिद्धिरस्ति। किं त्वपरोक्षजन्मारभ्यैवेति कैश्चिज्जन्मविशेषैर्योगफलं प्राप्यते। न सर्वौषधीभिः सर्वतपोभिः सर्वैश्च मत्रैः सर्वैः पुभिर्योगफल प्राप्यते किंतु कैश्चिदेवोषध्यादिभिः कैश्चिदेव पुरुषैरुक्तधारणारूपयोगेन न तु सर्वैः प्राणिभिः प्राप्यते। यदि सर्वेऽप्युक्तविधधारणां कुर्वति तर्हि तेषां सिद्धिर्भवत्येवेति धारणारूपयोग एव तत्साधनतयोक्त इत्याशयेनाह॥ जन्मेति श्लोकेन। इह लोके योगेनोक्तधारणारूपांपायेनाप्नोति। सर्वोऽपि जन इति शेषः। योगस्य सर्वसाधारण्यमुपपादयति। यैर्यैरिति। आदि पदेनोपध्यादिग्रहणं। योगगतिं वस्तुतो योगसाध्यत्वेनोच्यमानं फलं व्रजेत्। कश्चिदेव जन इति शेषः। यैर्यैर्योगगतिं व्रजेदित्युक्त। ततः किमित्यतः प्रमाणेनैव दर्शयन् यैर्यैरित्येतत्स्ववाक्येन व्याख्याय प्रमाणेनापि व्याचष्टे। जन्मादिभिरिति। वस्तुतो योगजं कैश्विदेव जन्मादिभिः कैश्विदेव पुरुषैः सर्वैः प्राणिभिर्धारणारूपयोगेनाणिमादिसिद्धिरूपं फलं प्राप्येतेत्यर्थः। यैर्येरित्यत्रत्यो यच्छब्दः किं शब्दार्थ-

तया व्याख्यातस्तत्रानुशासनमाह। कैश्चिदर्थेऽपीति। प्रकृतमेवोपास्योदाहरणं। क्वचित् यतश्चोदेति सूर्यः श्रोतव्यादिषु यः पर इत्यादौ क्वचिद्यदुक्त तन्नेत्यादौ क्वचिदाक्षेपवाचक इति॥३४॥ ननु योगेनाप्नोतीति फलसिद्धिप्रदाने योगस्यैव स्वातत्र्यं। प्रतीयते तन्निवारयति॥ सर्वासामिति। हेतुर्योग निमित्तीकृत्य दाता। न केवलं सिद्धीनामेव हेतुः पतिः प्रभुश्च। किं नामेत्यत आह॥ अहमिति। योगस्याणिमादिसिद्धिसाघनधारणारूपस्य ब्रह्मवादिनां वेदविचार कुर्वतां च पुंसामहमेव पत्त्यादिरित्यर्थः॥३५॥ कीदृशस्त्वमित्यत आह॥ अहमिति। बाह्यो बहिष्ठः। वहिष्ठस्यापि ब्रह्मांडवदन्येनावृतत्व नास्तीत्याह॥ अनावृत इति। अत एव सर्वापेक्षया स्वयमेव बाह्य इत्यर्थः। सर्वदेहिनमात्मा स्वामीत्यन्वयः। आंतरस्य बाह्यत्व विरुद्धमित्याशंकापरिहाराय दृष्टांतमाह॥ यथेति। यथा भूतान्याकाशादिपंचमहाभूतानि। भूतेषु प्राणिष्वंतर्देहांतर्हृदयादौ देहाद्वहिरपि सति तथा स्वयमहमप्यंतर्बहिश्चेत्यर्थ इत्यशेषमतिमंगलं॥३६॥ इति श्रीभागवतटिप्पण्यां पंचदशोऽध्यायः॥११-१५॥

॥हरिः ॐ॥ पूर्वमपराजितसिध्द्युपायकथनसमये मद्विभूतीरभिध्यायन्नित्युक्त भगवता। ता विभूतीरत्राध्याये विस्तरेण श्रोतुमुपक्रमते। उद्धवस्त्व ब्रह्मेत्यादिना। रथ्यापुरुषे राज शब्दवदिदमुपचरितं न भवतीत्याह॥ साक्षादनुपचारेणेति। अनाद्यंतमाद्यंतशून्यं। अपावृतं गतं तिरश्चीनमनूरुसारथे- रित्यादाविवात्र भावे क्तः। तथा चापगतमावृतमावरणं यस्मात्तत्तथोक्तं। प्राणः प्रकर्षेणाननं चेष्टा यस्मात्स तथा। स्थितिसहितावप्ययोद्भवौ यस्मादिति बहुव्रीहिः। स्थित्यप्ययोद्भवा यस्मादिति बहुव्रीहिस्त्वनुपपन्नः। असमानाधिकरणत्वात्॥१॥ ब्राह्मणा ब्रह्माणनयोग्या अकृतात्मभिरशुद्धबुद्धिभिः केशान्करोतीत्यादौ शोधनेऽपि करोतेः प्रयोगात् दुर्ज्ञेयत्व। उच्चावचेषूच्चनीचेषु भूतेषूपासते। न मिथ्योपासनमेतदित्याह॥ याथातथ्येनेति॥२॥ येषु येषु भावेषु केषु केषु पदार्थेषु केषु केषु च भावेषु चिंत्योऽसीत्यन्यत्रोक्तेः। संसिद्धिमपरोक्षज्ञानं। अनंतरं संसिद्धिं मोक्षं च॥३॥ भूतात्मा भूतांतर्यामी भूतभावनी भूतोत्पादकः। पश्यतं त्वां। ते त्वया मोहितानि भूतानि न पश्यंति॥४॥ एवं तं प्रशस्याभिप्रेतं पृच्छति॥ या इति। हे तीर्थपद तीर्थेषु शास्त्रेषु प्रतिपाद्यं पद स्वरूप यस्य स तथा तस्येयं संबुद्धिः। यद्वा। भागीरथ्यादितीर्थपदं यस्येति। महाविभूतेस्ते तावकाः काश्चन भूम्यादौ विद्यमाना विभूतयो याश्चानुभाविता उपासिताः।

महद्भिरिति शेषः। ता आख्याहीत्यर्थः। आख्याने सति कस्त्वदुपकार इत्यत उक्तं। तेऽधिपद्म नमामीति। न तु प्रतिकर्तुं शक्रोमीत्याशयः॥५॥ गिरीणामप्यहं मेरुरित्यादिना भूमिष्ठा विभूतय उच्यंते। तपतां द्युमतां सूर्यमित्यादिना दिविष्ठा विभूतय उच्यंते। सर्पाणामस्मि वासुकिरित्यादिना रसादिस्था विभूतय उच्यते। ऐरावत गजेंद्राणामिति दिग्गजस्थेत्युक्त्या दिक्षु स्थिता विभूतय उच्यते। इति युक्तमेव प्रश्नकरणमिति मतव्यं। अतत्प्रश्नं पृच्छत इति प्रश्न प्रष्टव्य प्रमेयमुद्दिश्य। प्रश्नविदां पृष्टव्यार्थविदां वरोद्धव। विशसने युद्धे सपत्नैर्वैरिभिर्युयुत्सुना युद्धमिच्छताऽर्जुनेन पृष्टोऽभवमित्यर्थः॥६॥ राज्यहैतुकं राज्यनिमित्तकं ज्ञातिवधं गर्ह्यं निंदितं। अधर्म्यमधर्महेतुभूतं ज्ञात्वा। ततो युद्धान्। कथ भूतः। मम स्वातंत्र्यमज्ञात्वाऽहं हंताऽयं मया हतः पापभागी स्यामिति लौकिको बहिर्जनस्वभावोऽर्जुनः॥७॥ मे मया रणमूर्धनि प्रतिबोधितां गीतायामध्यायनवकेनप्रतिबोधितः सन् यथा त्वं भाषसे। त्वं ब्रह्मेत्यादि। एवं मामभि प्रत्यभाषत। परं ब्रह्म परं धाम पवित्रं परम भवान्। वक्तुमर्हस्यशेषेण दिव्या द्यात्मविभूतय इत्याद्यभाषत। तं प्रत्यहं यदवदं तत्ते। वदामीति वाक्यशेषः॥८॥ तदेवाह॥ अहमात्मेत्यादिना। आत्मांतर्यामी। सुहृदनिमित्तबंधुः। नन्वत्राहं सर्वाणि भृतानीत्यभेदमुक्त्वा तेषां स्थित्यादिविरुद्ध कथमुच्यते। न हि स्वस्य स्वयमुद्भवादिकर्तेत्यतोऽहं सर्वाणि भूतानीत्यत्र स्थित्यादीत्येतद्धेतुकथनपरिमित्यतो न दोष इत्यत आह॥ सृष्टीति। आदि पदादप्ययः। भृतानि हरिरुच्यतेऽहं सर्वाणि भूतानीति मूल इत्यर्थः। भूतस्वरूपत्वं कुतो नेत्यतस्तत्र हेतुतयेश्वरमित्युक्तमित्याशयेनाह। स हीति। तथा च यतोऽहं तेषां भूतानां स्थितिसहितोद्भवाप्ययकर्ताऽतोऽहं सर्वाणि भूतानीति व्यपदेशः। ननु भूताभेदात्कुतो नेत्यतो विरुद्धधर्माधिकरणत्वादभेदो न युक्त इत्याशयेनोक्तमीश्वर इतीति श्लोकयोजना द्रष्टव्या॥९॥ विभूतीराह॥ अह गतिरित्यादिना। नन्विदं कथं विभूतिरूपं। आदित्यादीनामह विष्णुरित्यादौ विष्ण्वादीनामपि विभूतिरूपत्वमुच्यते। उभयत्रापि विभूतित्वं किमेकप्रकारमित्याशंकायामादौ विभूतिरूपस्वरूपं तावदाह॥ स्वस्वेति। तदेतादृशं विभूतिरूपमिंदिरादिषु संस्थित बहिस्थित कृष्णादि। सर्वजीवनियामकं भगवद्रूपमस्ति। तदपि किं विभूतिरूपमित्याशंकायां नेत्याह॥ सर्वेति। च शब्द एवार्थे। सर्वसाधारणं यद्रूपं तदंतर्यामीत्येवोच्यते। न तु विभूतिरूपमित्येव योज्य। न तु सर्वसाधारणांतर्यामिरूपस्यापि विभूतिरूपत्वोक्तिपरतया

व्याख्येयं। तथात्वे श्वपचादीनां सर्वेषामपि विभूतिरूपत्वप्राप्त्या वंद्यतापत्तेः। नन्वेकं रूपं स्वसन्निधानेन सजातीयश्रैष्ट्यसंपादकमपरं बहिष्टमित्युक्ते बहिष्टस्य स्वसन्निधानेन सजातीयश्रैष्ठ्यसंपाद- कत्वाभावप्राप्त्या भगवद्रूपयोर्भेदापत्तिरित्याशकां स्पष्टदृष्टांतोक्त्या परिहरति॥ यथेति। दुष्टानां दुर्योधनादीनां हंतेत्युच्यते। वस्तुतः कृष्णेनैकरूपेऽप्यत एवासमोऽपि। पाडवेष्वेव स्नेहसद्भावात्। कौरवपाडवपक्षयोरसमोऽपि व्यासात्मनोभयोरपि सम इत्युच्यते। लोकदृष्टयेत्यर्थः। अभिन्ने कथमेवंभाव इत्यत उक्तं॥ सामर्थ्यादिति। अघटितघटकशक्त्येत्यर्थः। तथा च तथा व्यासे दुष्टहतृत्वसद्भावेऽपि कृष्णेऽपि समत्वसद्भावे यथा भेदेन व्यवहारस्तथा विभूतिरूपयोरपीति भावः। ननु स्वस्वजात्युत्तमत्वामित्यादिनोक्तं भगवद्रूपस्यैव विभूतिरूपत्वमयुक्त। देवानामस्मि वासवः। रुद्राणां शंकर इत्यादाविंद्ररुद्रादिजीवानामेव कृष्णेन विभूतिरूपताया एवोक्तत्वादित्यतस्तत्तात्पर्यमाह॥ ब्रह्मेति। व्यवस्थितं ब्रह्मादिजीवेषु। तद्गत ब्रह्मादिगतं यच्छ्रैष्ट्यं तस्य मुख्यतः कारणं। अंजसा मुख्यया वृत्त्या! तदेव विभूतिरूपं तदेव ब्रह्मादिस्थित यच्छन्दवाच्यं रूप तदेव। गतिर्गतिमतामित्येतत्क्रियावतां क्रियेत्यसंगतिपरिहाराय व्याचष्टे॥ गतिरिति। तथा च गतिमतां ज्ञानवतां पुंसां विद्यमाना ये गुणा भक्त्याद्यास्तेषां मध्ये गतिर्ज्ञान ज्ञानाख्यो गुणः श्रेष्ठस्तच्च ज्ञानमहं ज्ञानस्थं ज्ञाननामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपमंतर्यामिरूपातिरिक्तं तस्मिन्नस्तीत्यर्थः। तथा कलयतां संहारकारणानां कालकर्मादृष्टानां मध्ये कालः श्रेष्ठः स च कालोऽहं कालस्थं कालनामकं संहर्तृत्वेन स्वस्वजातीयकर्माद्यपेक्षया श्रैष्ठ्यापादकं मम विभूतिरूपमस्तीति योज्यमित्येवं जडेष्वपि स्वरूपोत्तमत्वपरतया व्याख्येयं। जडेष्वपि स्वरूपोत्तमत्वस्य स्पष्ट भाष्यादावुक्तत्वात्। तथा हि। भाष्ये ॐकाराथशब्दप्रयोगनियत्या किं प्रयोजनमिति शंकापरिहाराय स्वरूपाधिक्यं चास्तीत्युच्यते। सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिसृतौ। ॐकारश्चाथशब्दश्च तस्मात्प्राथमिको क्रमादिति। व्याख्यात च तत्वप्रकाशिकायां। प्रथमं निःसृतावतः स्वरूपोत्तमौ। यस्त्वजातौ प्रथम हरेर्निःसरति तत्तत्रोत्तममिति न्यायोऽत्रानुसंधेय इति। तथा चैवं स्पष्टं जडेषु स्वरूपोत्तमत्वस्य प्रतिपादनादिमं प्रकारं विहाय जडेषूत्तमत्वादेरभावाच्चेतनेष्वेव तस्य भावादभिमानिविवक्षाऽऽवश्यकीति ज्ञानाद्यभिमानिनं दर्शयति। प्रधान इतीत्यवतार्य व्याख्यानमसांप्रदायिकमित्युपेक्ष्यं। तस्मादित्थमवतार्य। न केवलं जडेष्वेव

स्वरूपोत्तमत्वापादकं विभूतिरूपमस्तीति गतिरित्यादेर्व्याख्यानं। किं नामाभिमानिविवक्षया प्रकारांतरेणापि योजना कार्येति प्रमाणेनाह॥ प्रधान इति। ज्ञानिनां हृदिस्थितः। ज्ञानिनां यत्ज्ञानं तदभिमानी यो ब्रह्मा स प्रधानो ज्ञान्युत्तमः। ज्ञानिनामिति गतिमतामित्यस्यार्थः। ज्ञानमानीत्युक्त्याऽभिमान्यधिकरणन्यायेन ज्ञानशब्दो ब्रह्मणि मुख्य इति सूचित। स एव ब्रह्मैव कालमानीति काल शब्दस्य ब्रह्मणिप्रवृत्तौ निमित्तं। कलयतामित्यस्यार्थः। सहर्तॄणामिति। तथा च गतिमतां ज्ञानिनां मध्ये गतिर्ज्ञानं ब्रह्मा श्रेष्ठः। सा च गतिः। अहब्रह्मस्थं ब्रह्मनामकं तस्य सजातीयश्रेष्ठ्यापादक मम विभूतिरूपमस्तीत्यर्थः। तथा कलयतां संहर्तॄणां यमादीनां मध्ये कालो ब्रह्मा श्रेष्ठः। स च कालोऽहं। कालनामके ब्रह्मणि स्थितं तन्नामकं तद्गतश्रैष्ठ्यापादक मम विभूतिरूपमत्रास्तीत्यर्थो द्रष्टव्यः। गुणानामप्यहं सौम्यमित्युक्तसौम्य शब्देन को गुणः कथ्यत इति न प्रतीयतेत्यत आह॥ आनद्रेति। उम इत्युच्यते। कथमित्यत आह॥ उत्कृष्टेति। उत्कृष्टस्यानुभवत्वादित्यर्थः। उ शब्द उत्कृष्टवाची। सर्वपदार्थाना मध्ये आनंदस्यैवोत्कृष्टत्वेन योग्यतयाऽऽनदस्येति सबधः। म शब्दो माङ् मान इत्यनुभववाची। तथा चोत्कृष्टस्यानंदस्यानुभव उमस्तद्युक्तः पुमान् सोमस्तद्युक्तत्वं तस्य भाव इत्यर्थः। तस्यानंदानुभवयुक्तस्य भावोधर्मः। आनंदानुभव एव ससौम्य तद्गुणानां भक्त्यादीनां मध्येऽधिकमित्यर्थः। नन्वत्र सर्वगुणापेक्षयाऽधिकतयोच्यमान आनंदानुभवः को विवक्षितः। न तावद्वैषयिकः। तस्य भक्त्यादिगुणोत्तमत्वस्य वाधितत्वात्। नापि मौक्तः। वक्षामाणान्वयव्यतिरेकयोस्तत्र वाधितत्वादिति चेत्। उच्यते। अस्त्यत्र संप्रदायविशेषः। स्वस्य सद्गुरूपसंपत्त्या तदुपदेशेन भगवद्भक्तिसदाचारादि- सद्गुणसंपत्तौ सत्या मम सद्गुरुसपत्त्यादिना भक्त्यादिकं मया प्राप्तमतः पर मम मोक्षो भविष्यत्येव। मदीयं जन्म जन्मांतरीयं पुण्यमद्य फलितमित्येवं संतोषविशेषवान् भवति। स आनंदानुभवोऽत्र गुणोत्तमतया सौम्य शब्देन विवक्षितः। एतादृशानदानुभवस्योत्तमत्वमन्वयव्यतिरेकाभ्यामुच्यते॥ भक्त्यादीति। भक्त्यादिगुणानां पूगः समृहो निष्फलोऽमोक्षफलकः। प्रत्युतांधतमः फलकश्च भवति। कदा दुःखहेतुत्वभावनान्मम सद्गुरुसंपत्त्या भक्त्यादिकं मया लब्धामित्येवं संतोषं विहाय कुत्रत्योऽयं गुरुर्मया प्राप्तस्तदुपदेशेन प्राप्तं स्नानादिसदाचारभक्त्यादिकमतीवदुःखहेतुभूतं कुत्रत्यो मोक्ष इत्येवं भक्त्यादिगुणपूगस्य दुःखहेतुत्वभावनात्। निष्फलो भवति। प्रीतस्योक्तसंतोषविशेषयुक्तस्य सफलो

भक्त्यादिगुणपूग इति वर्तते। उपसंहरति। तस्मादिति। एवं भक्त्यादिगुणपूगस्य संतोषापरपर्यायानंदानुभवराहित्ये निष्फलत्वदर्शनात्। तत्साहित्ये सफलत्वदर्शनादित्यर्थः। आनदमान आनंदस्य मानमनुभवः। मानं ज्ञानं लयश्चेति मर्यादा चापि कथ्यत इत्यभिधानात्। तथा च गुणानां भक्त्यादिगुणानां मध्ये सोम्यमानंदानुभवरूपोगुणश्रैष्ठ्यस्तच्चाहं तस्मिन् गुणे स्थितं तन्नामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपं तत्रास्तीति योज्य। एवं जडेपुत्तमत्वाभिधायकतापरतया मूलं योजित्वाऽभिमानिपरतयाऽपि योजनां प्रमाणशेषेणाह॥ तस्येति। आनंदानुभवरूपगुणस्य श्रद्धाभिमानिनी सरस्वती देवी तथैव श्रद्धाया इव भक्तिज्ञानादिकस्य चाभिमानिनीति योज्यं। तदन्येषां भक्त्यादिव्यतिरिक्तशमदमादिगुणानां। तदन्ये सरस्वत्यन्ये। उपसंहरति॥ गुणानामिति। तस्मादित्यादौ योज्यं। गुणानामभिमानिन्येव शब्दस्य मुख्यत्वात्सरस्वतीविबुधानामित्यर्थः। तथा च गुणानां तदभिमानिसरस्वतीविबुधानां सकाशात्सौम्यं तद्गुणाभिमानी ब्रह्मोत्तमः। तच्चाहं ब्रह्मणिस्थ ब्रह्मनामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपं तस्यास्तीत्यर्थः। गुणिन्यौत्पत्तिको गुण इत्यत्रौत्पत्तिकगुण शब्दार्थमाह॥ औत्पत्तिक इति। शुभो भक्त्यादि। तथा च गुणिनीत्यत्रापि गुणानामित्यनुवर्तते। गुणिनि विद्यमानानां गुणानां मध्ये औत्पत्तिको गुणो योग्यतारूपो गुणः श्रेष्ठः। स चाहं तस्मिन् गुणे स्थित तन्नामकं तस्य श्रैष्ठ्यापादक मम विभूतिरूपं तत्रास्तीत्यर्थ उक्तो भवति। अभिमानिविवक्षया योजनानंतरं सूचयति। तस्येति। योग्यतारूपगुणस्य। स हि प्राणः सर्वैर्गुणैरधिकः सर्वापेक्षया गुणैराधिक इति वा। विवक्षापक्षे प्रामाणेन योजनां सूचयित्वा स्ववाक्येन स्पष्टं दर्शयति॥ गुणानामिति। तथा च गुणानामित्येतदत्राप्यन्वेतीति सूचितं। सूत्रं प्राणः। तथा च गुणानां तदभिमानिविबुधानां मध्ये गुणिनि स्थित औत्पत्तिको नाम यो गुणस्तदभिमानी सूत्रनामको वायुः स श्रेष्ठः स चाह तत्र स्थितं तन्नामक तद्गतश्रैष्ठ्यैककारणं मम विभूतिरूपं तत्रास्तीति योज्यं। अस्यां योजनायां प्रमाणमाह। गुणानामिति। गुणानां मध्ये सर्वगुणिषु स्थितं यद्गुणयोग्यत्वं गुणः शुभधर्मस्तद्योग्यत्वं तत्प्रतियोग्यत्वं। शुभप्राप्त्यैकयोग्यतारूपो गुण इति यावत्। तदभिमानी वायुरित्यर्थः॥९॥१०॥ गुणिनामप्यहं सूत्रमित्यस्य तात्पर्यमाह॥ सर्वगुणीति। सर्वे ये गुणिनस्तेष्वधिक इत्यर्थः। तथा च गुणीति पदमध्याहार्यं। गुणिनां गुणवतां मध्ये यो

गुणी स सूत्रं वायुरूपो गुण्येव। श्रेष्ठ इति यावत्। तच्च सूत्रमहं तत्रत्यं तन्नामकं तस्य सजातीय गुण्यपेक्षया श्रैष्ठ्यापादकं मम विभूतिरूपं तत्रास्तीत्यर्थः। पूर्वं गुणाभिमानित्वेन श्रैष्ट्यमुक्तमिदानीं गुणित्वेनेत्यपौनरुवत्यं। ननु ब्रह्मण एकत्वेन रूपांतराभावात्कथं बहुस्थानेषु प्रधानोक्तिरित्यत आह॥ रूपातरत्वादिति। अनेकरूपत्वादित्यर्थः। एकस्यापि ब्रह्मणो बहुस्थानेषु गतिकालादिषु। रूपांतरत्वमनंगीकृत्यापि समाधानांतरमाह॥ गुणांतरेति। एकस्यापीत्यादिकमनुवर्तते। पूर्वोक्तगतिमानित्वरूपगुणापेक्षया यद्गुणांतरं कालादिमानित्वरूपं तस्योत्तरत्रोक्तेरविरोध इत्यर्थः। दृष्टांतमाह॥ राम इति। यथा रामस्य प्राधान्यमुक्त्वा वासुदेवादिप्राधान्योक्तौ विरोधो नास्ति। रूपांतरत्वात्। शस्त्रभृच्छ्रेष्ठत्ववृष्णिपतित्वादिगुणांतरोक्तस्तद्वदित्यर्थः। इत्यादीत्यादि पदेन सिद्धेश्वराणां कपिलद्वैपायनोऽस्मि व्यासानामित्यादिग्रहणं। महतां स्थूलानां मध्ये महान्महत्तत्वं श्रेष्ठं। तच्चाहं तन्नामकं मद्रूपं श्रैष्ट्यापादकमस्तीत्यर्थः। सूक्ष्माणां पदार्थानां मध्ये जीवोऽतिसुक्ष्मः श्रेष्ठः स चाहमित्यादेरुक्तरीत्याऽर्थो मंतव्यः। दुर्जयानां मनः श्रेष्ठं तच्चाहं। हिरण्यगर्भः श्रेष्ठः स चाहमित्युत्तरत्र सर्वत्रानुवर्तते। मंत्राणामित्यादावुक्तरीत्या योजना कार्या। त्रिवृत्त्रीन् अकारोकारमकारान्वृणोतीति त्रिवृत्। पदानि छंदसामहमित्यत्र वेदानां सकाशाद्विभक्त्यंतवर्णात्मकप्रसिद्धपदानामुत्तमत्वं प्रतीयते तत्प्रमाणविरुद्धमतो व्याचष्टे॥ पदानीति। छंदसां वेदानां। सकाशादिति शेषः। ननु वाच्यवाचकयोः सजातीयत्वाभावात्स्वस्वजातत्युत्तममित्युक्तं। सजातीयोत्तमत्वसंपादक विभूतिरूपमत्र न संभवतीत्यतोऽत्र विभूतिरूपस्थितिमाह॥ स्वयूथ्यानामिति। यद्विष्णो रूपं कारणं तद्रूप विभूत्याख्यमुच्यते इति योज्यं। तथा च वाच्यवाचकयोरेकयूथत्वात्स्वयूथे आधिक्यापादक विभूतिरूपं वाच्येऽस्तीति भावः। सर्ववेदापेक्षया पदानामेवोत्तमत्व कस्मान्न स्यादित्यतस्तारतम्यज्ञापकं प्रमाणमाह॥ वर्णेशानीत्यादिना। ननु पदानि वाच्यानीति व्याख्यातं। तत्कया व्युत्पत्त्येत्यतः कर्मव्युत्पत्त्येत्याह॥ पद्यत इति। ननु पदस्य विभक्त्यंत वर्णेष्वेव रूढत्वात्कथमिदं व्याख्यानमित्यतो रुढ्यैतदर्थपरित्यागेनार्थातरग्रहणस्यापि क्वचिद्दर्शनात्तद्वत्प्रकृतेऽपि रूढ्यैतदर्थपरित्यागेनार्थातरग्रहण युक्तमित्याशयेनाह॥ पद पदसहस्रेणेति। युद्धप्रसंगे शरवर्णनं भारते क्रियते॥ पदमिति। अत्र पदशब्दो लक्ष्यवाची। एकमपीति शेषः। तथा पदसहस्रेण लक्ष्यसहस्रेण चरन्

सहस्रसंख्याकं लक्ष्यं विद्ध्यन्। शुर इति यावत्। एकमपि पदं तन्मध्ये। एकमपि लक्ष्यं नापराध्यति नाविद्ध्यदिति न किं त्वविद्ध्यदेवेत्याशयः। एवं चात्रप्रयोगे पद शब्दस्य प्रसिद्धार्थपरित्यागेन यथा लक्ष्यार्थकत्वं तद्वत्प्रकृतेऽपि रूढ्यार्थपरित्यागेन वाच्यार्थकत्वं। रूढार्थनैय्यत्याभावादित्याशयः। यच्छन्दस्योत्तरेणान्वयः। पदसहस्रेण वाचकसहस्रेण पद वाच्यं चरन् उच्चारयन्निति व्याख्याने इतिवदिति वैयर्थ्य द्रष्टव्यं। एवं प्रयोगेण पद शब्दो वाच्यपर इत्युक्त्या रूढ्याऽपि वाच्यवाचक- इत्याह॥ पद त्विति। तथा च छंदसां सकाशात्पदानि वाच्यानि उत्तमानि तत्र तन्नामकं तेषां स्वयृथ्याधिक्यापादकं मम विभूतिरूपमस्तीत्यर्थः। किं तद्वाच्यं वाचकं चेत्यतस्तद्दर्शयति॥ सर्वेति। वर्णादिकमारभ्य शाखावेदपर्यंतमिति सर्वेत्यर्थः। देव्यो देवतास्त्रियो भारताद्याः। किं तल्लक्ष्मीरूपमित्यत आह॥ वेदेति। विष्णोः सकाशाद्दूरवादिति। भगवत्समीपे स्थित्वा जय जय जह्यमित्यादिना बंदीभूता सती स्तोत्रकर्त्री यतोऽतो दूरवदित्यर्थः। युक्ता यदाऽहं तेन नारायणेनेत्युक्त यज्ञ शब्दनिर्वचनं सूचयति। विष्णोस्त्विति। जहल्लक्षणयोरुशब्देनांकस्थलक्ष्मीग्रहणं तात्पर्यनिर्णयेंऽकस्थितेति स्पष्टमकस्थितत्वोक्तेः। भगवत्संबंधेत्यत्र वा तात्पर्य। दक्षे इनो यस्याः सा दक्षिणेति। दक्षिणा शब्दतात्पर्यमाह। हरिणेति। अर्धं नारायणरूपं भगवदालिंगितमर्धनारीरूपमुक्तं भवति। भगवदालिंगनमपि रतिहेतुत्वाद्रतियोग एवेति भावः। सा लक्ष्मी उत्तरोत्तरतः सुखविषये विशिष्टा विशेषयुक्ता। बंदीभूतवेदाभिमानिलक्ष्मीरूपापेक्षया यज्ञनाम्नी सुखेऽधिका। तदपेक्षया दक्षिणा सुखेऽधिकेत्यर्थः। अत्रैतत्प्रमाणानुसारेण लक्ष्मीरूपेषु सुखविषय एव तारतम्यमस्तीति ज्ञायत इति संप्रदायविदः प्राहुः समाधान। अतःपरं मूलं योजयति। एवमिति। एवं संतीत्यर्थः। तदर्थरूपा वेदार्थरूपाः पतयस्तद्भर्तार उत्तमा इत्यन्वयः। तस्यास्तस्या देव्याः सकाशात्स पतिरुत्तम इत्युक्तस्य विवरणं। एवं साम्येनाभिधाय विविच्यापि लेशतो दर्शयति॥ शच्या इन्द्र इति। तथा पदानि छंदसामहमित्यत्र यदा वर्णरूपवेदाभिमानिदेवीविवक्षा तदा तदपेक्षया वर्णवाच्यो देव उत्तमस्ततः पदानि पदाभिमानिनी देव्युत्तमा ततः पदवाच्यो देवदेव इत्यादिप्रकारेणोत्तमत्व द्वष्टव्यमिति शच्या इंद्र इत्यादेस्तात्पर्यमाहुः। अन्ये तु त्रिचतुर्वर्गविवक्षां कृत्वा योज्यं। तथाहि। वर्णपदपदाभिमानिशच्यपेक्षया तद्वाच्य इंद्र उत्तमः। तदपेक्षयाऽर्धर्चर्ग्वर्गाभिमानिन्युमोत्तमा। तद-

पेक्षया तद्वाच्यो रुद्र उत्तमः। तदपेक्षया सूक्ताध्यायाष्टकशाखाभिमानिनी भारत्युत्तमा। तदपेक्षया तद्वाच्यः प्राण उत्तमः। तदपेक्षया श्रीः। विष्णोः सकाशाद्दूरस्थिता सर्ववेदाभिमानिनी या सोत्तमा। तदपेक्षया तद्वाच्यो यज्ञदक्षिणाग्व्यलक्ष्मीरूपसहितो हरिरुत्तमः। अत्र यज्ञदक्षिणयोर्वेदवाच्यत्वमेव न वेदाभिमानित्वं। वेदाभिमानिरूपापेक्षया तद्वाच्या यज्ञाख्योत्तमा। तदपेक्षया दक्षिणोत्तमा। तदपेक्षया हरिरुत्तम इति वाच्येऽपि तारतम्यं ध्येयं। एवं लक्ष्मीरूपसहितस्यैव हरेर्वाच्यत्वमित्याशयेनैव यज्ञदक्षिणाख्य लक्ष्मीरूपद्वयं कथितं। अन्यथा तत्कथनमसंबद्ध स्यादिति मतव्यमित्याहुः॥११॥१२॥ इंद्रोऽहं सर्वदेवानां वीराणामहमर्जुनः कवीनां काव्य आत्मवान्। यमः सयमतां चाहमित्येतत्संकोचेन व्याख्येयं। अन्यथा प्रमाणविरोधादित्याशयेनाह॥ ऋत इति। उमाया अपि रुद्र शब्देन संग्रहः। आदि पदेन गरुडशेपतत्स्त्रीवायुब्रह्महरितत्स्त्रीणा ग्रहण। भीममृत इत्युक्त्या पांडवानां धनंजय इति गीताया अपि तात्पर्यमुक्तमिति द्रष्टव्यं। हव्यवाडग्निः॥१३॥ मनुः स्वायभुवः। हविर्धानी कामधेनुः॥१४॥१५॥ दैत्यानां मध्ये। नक्षत्रविवक्षया सोमश्चंद्र औषधिविवक्षया सोमलता। धनेशं कुवेरं॥१६॥ यादसां जलचराणां। तपतां सतापकुर्वतां द्युमतां प्रकाशवतामिति सामानाधिकरण्यं॥१७॥ ताम्रादीनां धातूनां॥१८॥ नागेंद्राणां सर्पश्रेष्ठवासुक्यादीनां। तुरीयः सन्यासः। अत्र गार्हस्थ्यापेक्षया सन्यासाश्रमस्याधिक्ये ब्रह्माद्यपेक्षया सनकादेरुत्तमत्वं स्यादतः कृत्स्नाश्रमधर्मवतो दैवानामपेक्ष्यैवैतत्। यथोक्तं। कृत्स्नभावात्तु गृहिणीपसहार इतीत्याशयेन तात्पर्यमाह॥ गार्हस्थ्यमिति। एकत्वमेकाधिकरणत्वं। आगत प्राप्तं। उक्तिर्युज्यत इति शेषः। प्रथमो ब्राह्मणः॥१९॥ स्रोतसां नदीनां धनुर्वज्रं विनेति ध्येयं॥२०॥ आयुधानामहं वज्रमित्यन्यत्रोक्तेः। त्रिपुरघ्नी रुद्रः। रुद्राणां नीललोहित इत्युक्तत्वेऽपि त्रिपुरघ्न इति पुनर्वचनं रूपांतरविवक्षयेति ध्येयं॥२०॥ पुरोधसां वसिष्ठ इत्यत्र देवपुरोहितबृहस्पत्यपेक्षयाऽऽधिक्य- प्राप्तेस्तात्पर्यमाह॥ वशिष्ठ इति॥२१॥ सेनान्यां सेनापतीनां। सेनानीः सेनान्यौसेनान्य इतीकारांतस्य षष्ठीबहुवचनं। सेनानी आमू इति स्थिते यणादेशे सेनाभ्यामिति भवति। गीतायां सेनानीनामित्येतद्विचार्य। एवमग्रण्यपि पष्ठीबहुवचनं श्रेष्ठानामित्यर्थः॥२२॥ शूचीनां शुद्धिकरवस्तूनां मध्ये वाय्वाद्यात्मा वाय्वादिरूपः शुचिः शुचिकरोऽहमित्यर्थः। वाय्वग्न्यर्काबुभिः

शुचिः प्रसिद्धा। पूतो भवेदिति वाचा शुद्धः। विष्णुवैष्णववाक्येन हानिः स्यात्पापकर्मण इत्युक्तेः॥२३॥ आत्मसंगंधोमनोनियमन। विजिगीषतां जेतुमिच्छतां। राजादीनां मत्तो गुह्योक्तिः। गुह्यविचारेणैव ते ते सर्वं। जयंतीति शेषः। मंत्रः प्रधानं। आन्वीक्षिकी ब्रह्मतर्कादितर्कविद्या। कौशलानां शुभहेतूनां। विकल्प पदमनूद्य व्याख्याति। जीवेति। ख्यातिरन्यथाख्यातिरित्यन्यथाप्रतीतिनिरासायानूद्यव्याचष्टे॥ ख्यातीति। षोडशपदार्थतत्त्वज्ञानं मोक्षसाधनं। सप्तपदार्थज्ञानमैक्यज्ञानं भेदज्ञान मोक्षसाधनमित्येवं ज्ञानमेव मोक्षसाधनमिति वादिनां मध्य इत्यर्थः। अत्र प्रमाणमाह॥ जीवेति। विशेष भेद। प्रकल्पयेज्जानीयात्। जीवेशादीत्युक्तं विशदयति॥ कलिमिति। आविष्णोः विष्णुपर्यंतं। जीवेशादिविशेषभेदं कल्पयति। जानातीति विकल्पको ज्ञानीत्यर्थः। न हेयो नोपेक्ष्यः स ज्ञानी भेदज्ञानी। मोक्षहेतुत्वेन भेदज्ञानमेव सर्वज्ञानाधिकमिति भागवत एव पूर्वोत्तरग्रंथपर्यालोचनया सिद्धमित्याह॥ मेदेति। उक्त तृतीये। का विद्येत्युद्धवेन पृष्टे सत्यात्मनि भगवति जीवादिभ्यो भिदावोध एव विद्येति अत्रैव स्कंधे एकोनविंशतिमेऽध्याये भगवान्वक्ष्यतीत्यर्थः। न च भिदाया अवोध इति व्याख्येयं। विरोधेनाज्ञानस्य विद्यात्वायोगादिति भावः॥२४॥ स्त्रीणां त्वित्यत्र शतरूपायाः शच्याद्युत्तमत्व प्राप्नोतीत्यतः संकोचेन व्याख्येयमिति प्रमाणेनाह॥ शतरूपेति। नारायणो नरनारायणः। कुमारः सनत्कुमारः॥२५॥ संत्यागः काम्यनिषिद्धत्यागः। मोक्षाणां मोक्षसाधनानामबहिर्मतिर्बहिर्मत्यभावः। भगवत्ज्ञानमिति यावत्। मिथुनानां सामान्येन स्त्रीपुरुषाणां मध्ये॥२६॥ अनिमिषां क्षणादिकालानां मधुमाधवौ चैत्रवैशाखौ वसंतर्तुरित्यर्थः। उत्तराषाढांत्यचरणः श्रवणस्य पूर्वचरणश्चाभिजिदित्युच्यत इत्याहुः॥२७॥ व्यासानां वेदविभागकर्तॄणां द्रौण्यंव्यासादीनामात्मवान्कविर्ज्ञानी। काव्यः शुक्रः॥२८॥ भगवतां मत्स्यादीनां मध्ये वासुदेव इति कृष्णस्य श्रैष्ठ्यमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ ऐश्वर्यादीति। सामान्यात्समग्रत्वा- त्पूर्णत्वादित्यर्थः। साक्षादनुपचारेण। कुत इत्यत आह॥ निरपेक्षमिति। इति प्रमाणमस्ति। यतोऽतो भगवतां देवादीनामिति व्याख्येयमित्यर्थः। भागवतेषु त्वमधिकस्त्वं चाहमित्यत्रोद्धवस्यैव ब्रह्माद्यपेक्षयाऽऽधिक्यप्रतीतिनिरासाय संकोचेन व्याख्येयमित्याशयेन तारतम्यज्ञापकं प्रमाणमाह। सर्वेति। जिष्णुरर्जुनः। भीमस्य सर्वाधिक्यमुद्योगपर्वगतवाक्यसंमत्याऽपि दृढयति॥

यत्किचिदिति। पांडवानामज्ञातवासानंतर कृष्णेनागत्य युद्ध कार्य संधिः कार्योवेति पृष्टे धर्मराजादिभिः संधिरेव कार्य इत्युक्तेभीमेनापि तथैवोक्तेपृष्ठतो युद्धादिकं कार्यमित्युक्त्वेदानीं युद्धे उपस्थिते संधिः कार्य इत्युच्यते तस्माद्भीतोऽसीति कृष्णेनोक्ते स्वामिंस्तव प्रसादादिदं ब्रह्मांडमपि करद्वयेन वृत्वा नारिकेलवद्विधा कर्तुं समर्थोऽस्म्येतेषां हननं चातितुच्छमिति भीमसेनेनोक्ते भगवतोच्यते। कल्याणं मंगलं रूपं बलादिकं त्वय्यायत्तं त्वदधीनं॥२९॥ पेशसां वुड्मलानां गव्यमाज्यं गोघृतं॥३०॥ व्यवसायिनामुद्योगवतां लक्ष्मीप्रद उद्योगः। कितवानां कपटिनां दिव्यतां छलेन कापट्येन गृह्यतेऽनेनेति प्रतिवादीति छलग्रहो द्युतं सत्त्वं बलं॥३१॥ सहोवलवतामोजोऽवष्टंभशक्तिः। सात्त्वतां। सात्त्वत् सात्त्वतौ सात्त्वत इति सात्त्वच्छन्दस्येदं षष्ठीबहुवचनं। पंचरात्रोक्तप्रकारेणानुष्ठातृृणां कर्म तेषां कर्मानुष्ठानमेव प्रधानं तदहमित्यर्थः। यद्वा। सात्त्वतां पंचरात्रोक्तधर्माणां मध्ये कर्मप्रधानं तदहमित्यर्थः। सात्त्वतानामित्येतदप्रतीतेर्व्याख्यातृमाह। विष्णोरिति। सात्त्वततंत्रेषु पंचरात्रागमेषु हरेराद्या नवमूर्तयः। ननु हरेर्नवमूर्तित्वे आदिमूर्तिरित्येकवचनं कथमित्यत आह॥ अभेदादेवेति। स हरिः। एवं प्रमाणमभिधाय स्ववाक्येन व्याचष्टे॥ श्रियादीति। आदि पदेन भगवन्नवमूर्तेरपि ग्रहणं। तेन मध्य इति युक्तं। सात्त्वतां पंचरात्रोक्तानां श्रियादिनवमूर्तीनां मध्य इत्यर्थः। आदिमूर्तिरित्यस्यार्थः॥ स्वकीयेति। ननु कुत एवं व्याख्येयं सात्त्वता तव मूर्तीनां स्वकीय तव मूर्तीनां मध्ये या आदिमूर्तिर्नारायणसंज्ञा सोऽहमित्यर्थः कस्मान्न स्यादित्यतः प्रमाणविरोधान्नैवं व्याख्येयमित्याह॥ स्वरूपत इति। विष्णोर्नवमूर्तीनां स्वरूपत इत्यादिसंबंधः। विष्णोर्नवमूर्तीनां पूजा नवधा। एकैकस्या मूर्तेरेकैका पूजेति नवधा। इति च प्रमाणं यतोऽतो न स्वनवमूर्तीनामिति व्याख्येयमित्यर्थः। पुरेत्यस्यानिवत्यर्शिकां प्रदर्शयन्व्याचष्टे॥ अन्येग्य इति। सुपर्णादिनवमूर्तिभ्योऽन्यनवमूर्तीनां श्रियादिनवमूर्तीनामात्मनः स्वस्य सन्निधानमित्यन्वयः। अस्तीति हेतीस्तेषामेवात्र ग्रहणमिति शंकापरिहारायेत्यर्थः। अयं भावः। अत्र नवमूर्तीनां संकर्षणादिनवमूर्त्यपेक्षया याऽऽदिनवमूर्तिर्ब्रह्मणो नवमूर्ति स्तदपेक्षया याऽऽदिमूर्तिः श्रियो नवमूर्तिरिति योजयितुं शक्यते आदिमूर्तिरहमित्येतदपि योजयितुं शक्यते। सकर्षणादि नवमूर्त्यपेक्षया ब्रह्मादिनवमूर्तिष्वधिकसन्निधानसद्भावात्। सत्यं। एषाऽपि योजनाऽभिप्रेतेति। तथाऽप्येवमेव न योज्यमित्या

शयेन पुरेत्युक्तामिति। कस्तस्यार्थ इत्यत आह॥ प्रथममिति। ननूक्तयोजनायामपि श्रियादिनवमूर्तेरपि ब्रह्मादिनवमूर्त्यपेक्षया प्रथमं पूज्यत्वमस्तीति चेत्। सत्यं। तथाऽपि श्रीनवमूर्त्यपेक्षयाऽपि प्रथमपूज्यताया अत्राभिप्रेतत्वात्। तथा च सात्त्वतां नवमूर्तीनां श्रियादिनवमूर्तीनां मध्ये याः पुरा श्रियो नवमूर्त्यपेक्षयाऽपि प्रथमपूज्याऽऽदिमूर्तिः स्वकीयनवमूर्तयस्ता अहमिति मूलं योऽज्यं। नवमूर्तीर्विवित्त्याह। नारायण इत्यादिना॥ धनजयेति। प्राणापानव्यानोदानसमानाः पंच नागकूर्मकुफलदेवद तधनंजयरूप- पंचकमूर्तीनां मध्ये धनजयमूर्तेचतस्रो मूर्तयो ग्राद्याः। एवं सति नवेत्यर्थः॥३२॥ गंधर्वाणां विश्वावसुरप्सरसां पूर्वचित्तिः। ननु भूधराणामहं स्थैर्यं शब्दोऽहं नभसः परः। गंधमात्रमित्यादौ सजातीयश्रैष्ठ्यापादकविभूतिरूपासंभवात्कथमेतदित्यतस्तात्पर्यमाह॥ यस्येत्यादिना। यस्य यस्य वस्तुनो यः स्वभावस्तस्य स्वभावस्य नियामको हरिस्तत्तन्नामतः शब्दादिनामवानित्यर्थः। धर्मिनियमनानुबद्धमेव धर्मनियमनमतो धर्मिनियामकं रूपमेव तन्निष्ठासाधारणधर्मनियामकं न तु तस्य वस्तुनो यः स्वभावभूतोऽसाधारणधर्मस्तन्नियामकं रूपं पृथगस्तीति शंक्येत। तन्निरासाय शब्दादेराकाशादिस्वभावत्त्वरूपासाधारणधर्मत्वप्रदं। तत्रात्यंतनियामकरूपांतरमप्यस्तीत्याशयेनायं ग्रंथः प्रवृत्त इत्याशयः। ननु सजातीयश्रेष्ठ्यापादकविभूतिरूपव्यतिरिक्तमिदं क्वत्य विभूतिरूपमित्यत आह। वैशेप्याख्येति। सजातीयश्रैष्ठ्यं वैशेष्य तदापादकेत्यर्थः। स्वभावजा जनी प्रादुर्भावे स्वभावे नियामकतया प्रादुर्भूता सती विद्यमानेत्यर्थः। स्थैर्यं स्थैर्यरूपासाधारणस्वभावप्रदः। गंधमात्रं गधाख्यविषयः॥३३॥ तेजिष्ठानार्चिष्मतां विभावसुरग्निः। सूर्यादीनां प्रभारूपस्वभावोऽहं। नभसः शब्दस्तद्रूपः स्वभावः पर उत्तमोऽहमेव॥३४॥ ब्रह्मण्यानां ब्राह्मणेषु साधूनां स्थित्यादिस्वभावस्तद्रूपासाधारणधर्मः। प्रतिसंक्रमः प्रलयः॥३५॥ इंद्रियाणां गत्यादिसाधनत्वरूप- स्वभावप्रदोऽहमित्याशयेनाह॥ गतीत्यादिना। पादवागपानहस्तोपस्थत्वक्सनश्रोत्रघ्राणनामैते विषयाः। लक्षणमेतद्रूप विद्धीत्यर्थः। एवं सर्वेंद्रियाणामिंद्रियं। गत्यादिसाधनत्वशक्तिप्रदोऽहं॥३६॥ अहमहंकारतत्त्व। अस्मच्छन्दरूपं वा। विकारो ब्रह्मांड। अव्यक्तमचेतनप्रकृतिः। परोहमिति संबंधः। अत्र पृथिवीसत्त्वाद्यभेदप्रतीतेस्तात्पर्यमाह॥ सत्वादीति। तन्नाम जीव इत्यादिनाम। अनेन सूक्ष्माणामप्यहं जीवः। मयेश्वरेण जीवेनेत्यत्र हरौ जीव शब्दप्रवृत्तौ

निमित्तमंतर्यामित्वमुक्तं भवति॥३७॥ एतेषामव्यक्तादितत्त्वानां प्रकर्षेण संख्यानं यस्मात्ज्ञानावद्भति तदेतत्मसंख्यान तत्त्वनिश्चयो ज्ञानं तत्त्वनिश्चयरूपं यत्ज्ञानं तदहं। तत्त्वसंख्यानसाधनं ज्ञानं ज्ञानानां मध्ये प्रधानमित्यर्थः। न तदस्ति विना यत्स्यान्मया भूत चराचरमित्युक्तं गीतायां तदाह॥ मयेति। ईश्वरेण जीवांतर्यामित्वाज्जविशब्दवाच्येन गुणेन गंधादिगुणनियामकरूपेण गुणिना पृथिव्यादिनियामकरूपेण॥३८॥ सर्वात्मना सर्वांतर्यामिणा। सर्वत्र व्याप्तत्वात्सर्वशब्दवाच्येन मया विना क्वचिद्देशे काले वा भावः पदार्थो न विद्यते सर्वत्राहमेव स्थित इत्यर्थः॥३८॥ नांतोऽस्ति मम दिव्यानां विभूतीनामिति गीतोक्तमेवाह॥ सख्यानमिति। अत्र परमाणूनां महता कालेन यद्यपि क्रियते तथाऽपि विभूतीनां संख्यां कर्तुं न शक्यत इति प्रतीयते। तदयुक्तं। परमाणुनामनंतत्वेन तत्संख्याकरणे ईश्वरस्य भ्रांतत्वापत्तेरतो योजयति। कालेनेति। कल कामधेनुरिति हि धातुः। अनंतानामित्येतदेव योज्यं। अत्र यथेत्यध्याहारः। यथाऽनतानां परमाणूनां कालेन न मया सख्यानं क्रियते। संख्याया असत्वादेव न तु विद्यमानसंख्याया एवाविज्ञानात् तथा कोटिशोंऽडानि सृजतो मे विभूतीनामनतानां संख्यानं न मया क्रियते। संख्याया असत्वादेव न तु विद्यमानसंख्याया अविज्ञानादित्यर्थः। अत्र प्रमाणमाह॥ अनतमिति। अनंतं वस्तु अनंतमिति वेत्ति। अंतवद्वस्तु तथांऽतवत्त्वेनैव वेति। अनंतमनतमिति कुतो वेत्तीत्यत आह॥ अनंतस्य त्विति। सर्वज्ञता न भवेत्। विपरीतज्ञानित्वं भवेदिति यावत्। उपसंहरति॥ अनतमर्पाति। वस्त्विति शेषः। विशेषतोऽवांतरविशेषसाहित्येन। तत्र सार्वज्ञादिति हेतुः। न संख्यानमनंतेषु वेत्ति। कुत इत्यत उक्तं॥ असख्यस्य सख्या कुतो हीति॥३९॥ तथात्वे भ्रांतत्वं स्यादित्यनिष्टं सूचयति। यद्यद्विभूतिमत्सत्त्वं श्रीमदित्यादिगीतोक्तमेवाह। तेज इत्यादि। सौभग शुभैकभागित्वं। शुभैकभागी सुभग इत्युक्तेः। भोग ऐश्वर्यादिकः॥४०॥ यत्र यत्र पदार्थेषु समेंऽशको मम विभूत्यशयुक्तः। उपसंहरति॥ एता इति। मनोविकारा इत्यादिकमन्यथाप्रतीतिपरिहाराय व्याचष्टे॥ यथेति। जीवादीनां नामादिकं। यथाऽस्येदं नामेति। येन प्रकारेण वाचाऽभिधीयते तथा त एते सर्वे शब्दाः। तेषु मनोविकारा मनसो विकारान्मुख्यतस्तेषां वाचका इति भ्रमात्प्रतीयंते न वस्तुतो यतोऽतः स्वतो मय्येव सर्वशब्दा मुख्यया वृत्या वाचकत्वेन वर्तते॥४१॥ तस्माद्वाचं मय्येव

यच्छ वाचा सर्वशब्दवाच्यतया मद्विषयव्यवहारमेव कुर्वित्यर्थः। मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दन इति व्यवहरति यावत्। मनो मय्येव यच्छ मनसा मद्ध्यान कुर्वित्यर्थः। प्राणं चेष्टामिद्रियाणि मय्येव यच्छ मदधीनतया चिंतय मद्विपयान्वा कुर्वित्यर्थः॥४२॥ आत्मानमित्यत्र स्वात्मानमित्यन्यथाप्रतीतेर्व्याचष्टे॥ आत्मानमिति। मय्येवेति प्रकरणप्राप्तत्वादुक्तं। परमात्मान मयि यच्छेत्यसंगतमित्यतो विवृणोति॥ लक्ष्यत्वेन यच्छति। मदुपलक्षितसर्वावताराभिन्नमात्मानं परमात्मानमात्मना मनसा प्रयत्नेन वा जीवाख्यशरस्य लक्ष्यत्वेन जानीहि। मनोद्वारा जीव परमात्मलग्नं कुर्वित्यर्थः। एवं सति भूयोऽध्वने संसारमार्गाय न कल्पसे मुक्तो भविष्यसीत्यर्थः। यां वा इति श्लोकतात्पर्यमाह॥ यो मयीति। वागादीनिति शेषः। तथा च यो यतिः प्रयत्नवान्। धिया बुद्धिपूर्व वाङ्मनसी। समासांतविधिरनित्यः। वाङ्मनसी भगवति न संयच्छेत्। तस्यामघटस्थितांबुवत्ज्ञानव्रतादिकं स्रवतीत्यर्थः। मनोविकारा इत्यादिसार्धश्लोकद्वयस्य प्रमाणेनापि तात्पर्यमाह॥

वाटमन इत्यादिना। अन्येषां यन्मुख्यवृत्त्याऽभिधेयत्वं तन्मनसो भ्रमादित्यन्वयः। तथाऽन्येषां मुख्यवाच्यतया। तथा यो वाङ्मनसी मयि न सन्नियच्छेत्। मनसा मुख्यशब्दवाच्यत्वं मम न जानीयात् किं त्वन्येषां जानीयादिति मूलयोजना सूचिता भवति। यथातथं ज्ञानं यथार्थज्ञान॥४४॥ तस्मादिति श्लोकतात्पर्यमाह॥ तस्मादिति। तद्धि करणं सः कृतिविशेषः। अत्र वागादीनां भगवति नियच्छन् नाम तदधीनत्वेन चिंतनमेव। तत्किं साक्षाद्भगवदधीनत्वं वागादीनां चिंतनीयमिति शंकायां न किंतु परंपरयेति भावेन श्रुतिमेव पठति॥ यच्छेदिति। वाक् वागभिमानिनीमुमां मनसि तदभिमानिरुद्रे नियच्छेत्तदधीनत्वेन चिंतयेत्। तन्मनोऽभिमानिरुद्रं ज्ञानात्मनि विज्ञानतत्त्वात्मिक्यां सरस्वत्यां। महत्यात्मनि महत्तत्त्वाभिमानिनि ब्रह्मणि। शांते सुखपूर्णे वासुदेवे। लक्ष्मीद्वारेति ग्राह्य। तथा च मत्परायणोऽधिकारी मद्भक्तियुक्तया श्रुत्युक्तक्रमेण वागादीन्मयि नियच्छेत्। ततोऽनंतरं परिसमाप्यते। संसार इति शेषः। मुक्तो भवतीति यावत्॥४५॥ इति श्रीभागवतटिप्पण्यां षोडशोऽध्यायः॥११ – १६॥ ॥

॥हरिः ॐ॥ उद्धव उक्तार्थमनूद्य ज्ञातव्यार्थ पृच्छति। यस्स्वयेति। त्वद्भक्तिरेव लक्षणं चिन्हं फलं यस्य स तथा॥६७॥

यो धर्मस्त्वयाऽभिहितस्तेनानुष्ठीयमानेन धर्मेण तत्स्वधर्मानुष्ठानेन। वर्णाश्रमाचारवता सर्वेषां द्विपदां वर्णवाद्यानामपि यथा त्वयि भक्तिर्भवेत्। तथाऽऽख्यातुमर्हसीत्यन्वयः॥१॥२॥ मयोक्तो धर्म इदानीं प्राणिभिरनुष्ठीयतेऽतः किं मया वाच्यमित्यत आह॥ पुरेति। य धर्ममित्यन्वयः। परम एव परमकः। त्वयिभक्तेभ्य इत्येकं पदं। सप्तम्या अलुक्। त्वद्भक्तेभ्य इत्यर्थः॥३॥ अंतर्भविता तिरोभूतः प्राक्। त्वयेति शेषः॥४॥ ते सकाशादन्योऽस्य धर्मस्य वक्ता कर्ताऽविता रक्षकश्च न। ननु सत्यलोके ब्रह्मा वदिष्यतीत्य आह॥ सभायामपीति। अत्र ब्रह्मणो धर्मप्रवचनेऽसामर्थ्यं प्रतीयतेऽतस्तात्पर्यमाह। विनेति। ननु विष्णुप्रसादे सति सर्वोऽपि जनो वक्ष्यत्येवेत्यत आह। तत्प्रसादेनेति। तथा च यत्र सभायां कला मृर्तिधरा प्रत्यक्षतो देहधारिण्यः सत्यः सेवंते तस्यां वैरिंच्यां विरिंचसंबंधिन्यां सभायामपि विष्णुप्रसादमृते धर्मस्य न वक्तेति योज्यं। कलाः कलाविद्या इत्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे॥ कला इति। प्राणादिषोडशकलाभिमानिन्यो देवता इत्यर्थः। आदिपद संगृह्य कलादेवताः षट्प्रश्नोषनिषदा दर्शयति॥ स प्राणमिति। एषा श्रुतिः कर्मेति पुष्करः प्रोक्त उषानामाभिमानिनी। लोकाभिमानी पर्जन्यः स्वाहा वै मंत्रदेवता। तपोऽभिमानी वन्हिश्च वरुणो वीर्यदेवता। अन्नस्य देवता सोमो मनोनामानिरुद्धकः। इद्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः। रुद्रो वर्द्रिः शेषकामौ मनसस्त्वेव देवताः। श्रद्धेति वायोः पत्नी स्यात्सर्वेषां प्रभवाप्ययौ। तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः। तस्यापीशः कारणं च वासुदेवः परोऽव्ययः। न तस्य सदृशः कश्चित्कुत एवोत्तमो भवेत्। तं ज्ञात्वा मुन्यते जंतुर्विदित्वैव परात्परमिति प्रमाणेन व्याख्याता। नाम चेत्यनंतरं यथेमाः स्यंदमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छंति भिद्येते तासां नामरूपे तत्समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमा : षोडशेत्यादि। पुरुषायणा इत्यनंतरं पुरुष प्राप्यास्तं गच्छंतीति पूर्वोत्तरवाक्यशेषः। अस्तमदर्शन मुक्तौ गच्छेति। कर्तेत्यादि पाठे यो भवान्धर्मस्य कर्ताऽविता प्रवक्ता च तेन भवता। धर्म्योधर्मादनपेतः॥४ -८॥ तं प्रश्नपरिहारं मे सकाशान्निबोध विजानीहि॥९॥ यथेदानीं वर्णस्य ब्राह्मणादिनाम तथा कृतयुगे हंस इत्येव नाम॥१०॥ जात्योत्प्रत्तिमारभ्य प्रणवस्तत्प्रतिपाद्यो हरिरेक एव वेदो वेदप्रतिपाद्यः। इंद्रादिनामान्यपि हरिरेवातो देवतातया स एव पूज्यः। ब्रह्माद्यास्तदा मनुनामका हरिभक्तत्वादिनैव पूज्याः।

न तु देवतात्वेन। तदा नैव ऋगादिभेदेन वेद आसीदित्याद्याथर्वणोपनिषद्भाष्ये स्पष्टं॥ वृषरूपेति। समग्रचतुष्पादित्यर्थः हंसा हंसनामकवर्णवत्यः प्रजाः॥११॥ त्रेतामुखे त्रेताप्रारंभे मे मम हृदयात्प्रियात्प्राणाद्विरिंचात्त्रयीविद्या ऋगादिभेदेन त्रित्वसंख्योपेततया वेदविद्या प्रादुरभूत्। तस्या विद्यायाः सकाशात्त्रीन्वेदान्व्रणोतीति त्रिवृद्ब्राह्मणः स एव मुख्यं द्वारं यस्य स तथोक्तः। ब्राह्मणद्वारा वेदविद्यया प्रादुर्भूत इत्यर्थः॥१२॥ ये आत्माचारलक्षणाः स्वस्वविहिताचाररूपा ये धर्मास्तेऽपि वैराज्याह्मांतर्यामिणः पुरुषाद्विराट्ब्राह्मणो जाता इत्यर्थः। तस्मादाश्रमादन्ये जाता इत्यपि ग्राह्यं॥१३॥ इदानीमाश्रमात्पत्तिस्थानमाह॥ गृहेति। तत्तदाश्रमाभिमानीदेवस्तज्जस्तदाश्रित इति द्रष्टव्यं॥१४॥ नृणां वर्णादीनां प्रकृतयः स्वभावाः। जन्मभूमिर्या शीर्षहृदादिरूपा तदनुसारतो नीचोत्तमोत्तमा आसन्। तत्र नीचः शूद्रः। तज्जनकपादस्य नीचत्वात्। नीचोत्तमो वैश्यस्तज्जनकोर्वोस्तथात्वात्। उत्तमः क्षत्रियस्तज्जनकवाव्होस्तथात्वात्। विप्र उत्तमोत्तमस्तज्जनकमुखस्य तथात्वात्। एवं जघनहृद्रक्षशीर्ष्णो नीचनीचोत्तमोत्तमत्वरूपत्वाद्गृहस्थाद्याश्रमा अपि तथेति मंतव्यं॥१५॥ विप्रादिस्वभावलक्षणमाह॥ शम इत्यादिना। आर्जवं मने वाक्कायकर्मणामवैपरीत्यं। यद्यप्येषां सांकर्यं तथाऽपि तथा स्वसमानाधिकरणगुणानां मध्ये एतेषां प्राचुर्यं द्रष्टव्यं॥१६॥१७॥ अर्थोपचये द्रव्याभिवृद्धौ सत्यामतुष्टिरलंबुद्ध्यभावः। इदमस्तीदमपि मे भविष्यति पुनर्धनमिति बुद्ध्या भाव्यमित्यर्थः॥१८॥ अमाययाऽकापट्येन। तत्र शुश्रूषणादिके कृते सति तस्माल्लब्धेनान्नादिनेत्यर्थः॥१९॥ शुष्कविग्रहो व्यर्थ- कलहः। अंतेवसायिनां वर्णबाह्यानां॥२०॥२१॥ द्वितीयं जन्म। आनुपूर्व्यादानुपूर्वी श्रुतिर्वेदस्त्रय्यान्नाय उच्यत इत्यभिधानाद्वेदोक्तप्रकारेणेत्यर्थः। अत एव द्विर्जायत इति द्विजः। ब्रह्म वेदं॥२२॥ मेखलं मौंजी ब्रह्मसूत्रं यज्ञोपवीतं कमंडलून्दधदित्यन्वयः। अधौतदंत इति पदच्छेदः। वैश्वदेवं बलिं दंतधावनं चाप्यृते वटोरिति वटोर्दंतधावनाभावोक्तेः। स्नानादिषु वासः पीठकुशान् दधदित्यन्वयः॥२३॥ जपे उच्चारे॥२४॥ मलविसर्जनसमये नावकिरेदबुद्धिपूर्वकं नोत्सृजेत्। अवकीर्णे स्वाप्नस्त्रीसंदर्शनेन प्रमादादवकीर्णे सति। त्रिपदी गायत्रीं शुचिर्भूत्वा॥२५॥२६॥ नन्वाचार्योपासनं कस्मात्कार्यमित्यत आह॥ आचार्यमिति। मां मत्सन्निधानपात्रं। सर्वदेवमयः सर्वसन्निधानपात्रं॥२७॥

तस्य गुरोर्गुरुणानुज्ञातं॥२८॥ गुरोर्याने गमने शय्यायामासने। उपवेशने स्थानेऽवस्थाने च सति स्वयं नातिदूरे समीपे कृतांजलिर्भूयात्॥२९॥ एवं व्रतः सदाचारयुक्तः स्रक्चंदनादिभोगविवर्जितः॥३०॥ छंदसां लोकं वेदाध्ययनसाध्यं लोकमारोक्ष्यन्नारोढुकामः। कोऽसौ छंदसां लोक इत्यत उक्तं ॥ब्रह्मविष्टपमिति। सत्यलोकमित्यर्थः। बृहद्वतो नैष्ठिकब्रह्मचर्यवान्॥३१॥ अपृथग्धीर्भगवत्सकाशात्पृथक् विषयेषुधीशून्यः॥३२॥ क्ष्वेलनं नर्मवचनं। अगृहस्थो ब्रह्मचारी स्वस्याग्रतः पुरुषपश्वाद्याः। प्राणिनो मिथुनीभूता मैथुनकरणावस्थायुक्ता दृष्टाश्चेत्तर्हितांस्त्यजेन्नावलोकनं कुर्यात्। वर्जनं कुर्यादिति शेषः॥३३॥ तीर्थसेवा कार्येत्यादि यथायोग्यं शेषः॥३४॥ मद्भावो मत्सत्ताज्ञानं॥३५॥३६॥ अनंतर गृहस्थाश्रमं। अवेक्ष्यन्प्रवेष्टुकामो यथा यथावज्जिज्ञासितागमो विचारितवेदादिः। जिज्ञासितं सुसंपन्नमिति विचारेऽपि तत्प्रयोगात्। स्नायात्स्नातकवेषं धारयेत्। तीर्थयात्रां कुर्यादित्यर्थः। तदनंतर गृहस्थाश्रमस्वीकारं कुर्यात्। प्रव्रजेत्संन्यासं वा गृण्हीयात्। एवमेकस्मादाश्रमादाश्रमांतरं गच्छेत्। नान्यथाऽऽश्रमरहितो भूत्वा न चरेत्॥३८॥ गृहार्थी गृहस्थाश्रमस्वीकारार्थी। यवीयसींस्वापेक्षया वयसा नीचां यामुद्वहेत्तां सवर्णांब्राह्मणो ब्राह्मणस्त्रियमित्यादि। अनुक्रमादिति पक्षांतरं। ब्राह्मणः क्षत्रियस्त्रियं क्षत्रियो वैश्यस्त्रिय वैश्योशूद्रस्त्रिय शूद्रः शूद्रस्त्रियमेवेति॥३९॥ दानानि विहितानि। सर्वेषां ब्राह्मणक्षत्रियवैश्यानां। याजन चेति संबंधः। विहितमिति शेषः॥४०॥ प्रतिग्रहं तप आदीनां नाशकरं मन्यमानोऽन्याभ्यामध्यापनयाजनाभ्यां जीवेत। तयोरध्यापनयाजनयोरपि दोपदृक् शिलोंछवृत्त्याजीवेत्॥४१॥ ननु शिलोंच्छवृत्त्या कामपूर्तिः कथं स्यादित्यत आह।ब्राह्मणस्य चेति॥४२॥ विरजं शुद्धं नातिप्रसक्तो गृहे॥४३॥ ये जनाः॥४४॥ आत्मानं स्वात्मानं आत्मना मनसा॥४५॥४६॥ ब्राह्मणादेरापद्धर्मानाह \।\। सीदन्निति । वणिजां वृत्तिं दर्शयति । पण्यैरापणं कृत्वा तत्र क्रयार्थवान्यादिकं प्रसार्य विक्रीणनैरित्यर्थः । महापदि विशां धर्मैरित्युक्तेः पराक्रांतः पराक्रमयुक्तश्चेत्

खड्गेन क्षत्रधर्मेण। श्ववृतिर्नीचसेवन॥४७॥ तथा श्राद्धादिपर्वकाल एव मृगयात्रां कृत्वा तन्मांसभक्षण क्षत्रियैः कार्य न सर्वदेति धर्मः। आपदि च सर्वदा मृगया जीवेत्॥४८॥ कारुकाक्रियां कारुको रजकस्तत्क्रियां कटक्रियां कटादिकर्तॄणां। कृच्छ्रादापदः सकाशाद्गर्द्येण निंदनेन। पूर्वमापदि स्वीकृतेन कर्मणा॥४९॥

यथादयं भाग्यानुसारेण। अत्र मद्रपाणीति भूतानां मत्स्यादिवत्साक्षाद्भगवद्रूपत्वं प्रतीयतेऽतस्तात्पर्य प्रमाणेनाह। प्रतिमावदिति। तथा च मम रूपाणि प्रतिमाभूतानीत्यर्थः ॥५०॥५१॥ अदृष्टं स्वर्गादि॥५२॥ पांथसंगम इवेति लुप्तोपमा। अनुदेहं देहमनु। प्रतिदेहमित्यर्थः। निद्रानुगोनिद्रानंतरभाविस्वप्न इव॥५३॥ परिमृशन्विचारं कुर्वन्॥५४॥ आश्रमादाश्रमं गच्छेदिति विकल्पक इत्याह॥ कर्मभिरिति। प्रजावांश्चेद्भार्यां पुत्रेषु न्यस्य परिव्रजेत्॥५५॥ पुत्रवित्तेपणातुरः पुत्रवित्तविषयेच्छातुरः॥५६॥ आतुरतामेव दर्शयति॥ अहो इति। यद्यपि वृद्धौ च मातापितरावित्याद्यस्ति तथाऽपि सज्जनपित्रादिपरं तत्। इदं तु स्वाभावदुष्टपित्रादिपरं मंतव्य। बालात्मजा बाला आत्मजा यस्याः सा वालात्मजा। आत्मजा अनाथाः। तदेवदर्शयति॥ मामृत इति॥५७॥ गृहाशया गृहेष्वतितृष्णया। तान् गृहादीन्॥५८॥ इति श्रीभागवतटिप्पण्यां सप्तदशोऽध्यायः॥ ११–१७॥ ॥

॥हरिः ॐ॥ वनं चोपविशेदित्युक्तवानप्रस्थस्य प्रवृत्तिप्रकारमाह॥ वनमित्यादिना। विविक्षुः प्रवेष्टुमिच्छुः। पुत्राभावे सहैव वा। आयुषस्तृतीयं भागं। चतुर्मासाधिकत्रयस्त्रिंशद्वर्षपरिमितं भागं वसेदिति। कालाध्वनोरत्यंतसंयोगसूत्रेण मासमधीयीतेतिद्वितीया॥१॥ कंदमर्शघ्नादि। मूलं रक्तमूलं (गड्डीगेणसु)। फलं चूतादीनां। तैर्वन्यैर्वनभवैः। मेध्यैः पवित्रैर्न त्वपवित्रैः। पलांड्वादिकं तदादिभिः। वृत्तिं जीवनोपायं॥२॥ शिरस्थाः केशाः कक्षशिश्नगतानि रोमाणि। श्मश्रूणि मुखगतानि। तेष्वेव छेदप्रसक्तिसद्भावाद्भिभृयादित्युक्तं। मलं विभृयाद्देहस्थमलस्योद्वर्तनं न कुर्यान्न धावेत्। त्रिकालमप्सु मज्जेत॥३॥ दिक्चतुष्टये चत्वारोऽग्नय उपरि सूर्य एक इति पंचाग्नयः। पंचाग्निमध्ये तपः कुर्वीतेति यावत्। आसाराषाट् आसारो वृष्टिस्ता सहत इति आसारषाट्। शिशिरे हेमंतशिशिरयोरैक्यात्तत्र जले कंठपर्यतं मग्नः। एवं वृत्त एवं स्थितिमान्॥४॥ कालपक्वंकदलीफलादि । उलूखलकुट्ट उलूखलकुट्टितकंडित- पिष्ठीकृतधान्यादिभक्षः। अश्मकुट्टोऽश्मना चूर्णितधान्यादिभक्षणः। दंत एवोलूखलो यस्य॥५॥ संचिनुयात्संग्रहं कुर्यात्। वृत्तिकारणं जीवनोपायभूत धान्यादि। अन्यदित्यव्ययं। अन्येनाहृतं नाददीतेत्यर्थः ॥६॥ वन्यैर्धान्यैः। कालचोदितांस्तत्तत्काले विहितश्चर्वादीन्॥७॥ पूर्ववद्गृहस्था -

श्रमे यथा तथा। नैगमैः कल्पशास्त्रज्ञैराम्नातानि चातुर्मास्यानि तन्नामकयागान्कुर्यात्॥८॥ धमनिभिः शिरैः सततो व्याप्तः। तपोमयं ज्ञानरूपं। ऋषिलोकात्। ल्यब्लोपनिमित्ता पंचमी। आदौ ऋषिर्लोकं प्राप्य पश्चान्मामुपैति॥९॥ नैश्रेयसं मोक्षसाधनं। नियमे स्वाश्रमविहिताचरणे॥१०॥ क्रमप्राप्तं संन्यासाश्रमस्वीकारप्रकारं तद्धर्मोश्चाह॥ यदिति॥११॥ कर्मविपाकेषु कर्मफलेषु। निरयात्मसु दुःखप्रचुरात्मकत्वान्नरकतुल्येषु। जायते यदा ततस्तदा। यदहरेव विरजेत्तदहरेव प्रव्रजेदित्युक्तेः॥१२॥ प्रव्रजने इत्थभावमाह॥ इष्ट्वेति। यथोपदेशं विध्युक्तप्रकारेण। प्राणेंऽतर्यामिणि हरौ। आत्मारोपणं कृत्वेति यावत्॥१३॥ देवान्संपूज्य तेभ्योऽनुज्ञामादायैव न्यासः कार्योऽन्यथा ते दारादिषु स्थित्वा विघ्नं कुर्वतीत्याह॥ विप्रस्येति। दारादिरूपिणः दारादिषु स्थित्वेति यावत्। अयं न्यास्यस्मानाक्रम्यातिक्रम्य परं समियात्प्राप्नुयादिति। गृहस्थाद्याश्रम एव स्थितश्चेद्यज्ञादिनाऽस्मानिष्ट्वाऽस्मान्प्राप्नुयात्। न्यासी चेत्तस्य यज्ञादेरभावान्निष्कामकर्मणा हरिं पूज्यास्मानप्राप्य परमेव समियादिति बुद्ध्या विघ्न कुर्वंतीत्यर्थः। ननु सन्मार्गे प्रवर्तमानस्यानुकूला एव देवा भवंतीति वक्तव्यं। कथं विघ्नं कुर्वंतीत्युच्यत इत्यतस्तात्पर्यमाह॥ असपूज्येति। न्यसिष्णून्संन्यासं गृहीतुमि

च्छ्रन्। गृहस्थाश्रम स्वीकृत्यापि पंचमहायज्ञादिना देवानसंपूज्य न्यसिष्णून्देवा अधः पातयंतीत्यर्थः। ननु क्वचित्संपूज्य न्यसिष्णूनामपि देवा विघ्नं कुर्वंतीत्युच्यते। तत्र का गतिरित्यत आह॥ अथवेति॥ तदिति। न्यसिष्णोरित्यर्थः। एवं किल देवैर्विघ्नितोऽप्ययं संन्यासं गृहीतवानिति तद्यशोऽभिवृद्धयैइत्यर्थः। ननु विघ्नंतीवेति कस्मादुच्यते। वस्तुतो विघ्न कुर्वंत्येवेति कस्मान्न स्यादित्यत आह। तात्पर्यादिति। वस्तुतोऽस्य विघ्नं करिष्याम इति बुद्धिपूर्वं देवैर्विघ्नतो विघ्न प्रापितोऽयमुत्थापितुमेव न शक्नुयादित्यर्थः॥१४॥ बिभृयादित्यतः पूर्वं मुनिः संन्यासी वास एव न विभृयाद्दिगंबर एव स्यादिति वाक्यशेषः। परं केवलं कौपीनरूपमेकमेवाच्छादनं विभृयादित्यर्थः। अनापदि दंडकाष्टकमंडलुरूपपात्राभ्यामन्यत्किचिद्वस्तु न विभृयात्। कुत इत्यत उक्तं। त्यक्तमिति। यतः पूर्वं तत्सर्वं त्यक्तमस्त्यतस्तन्न विभृयादित्यर्थः। आपदि तु तं विभृयादिति लभ्यते॥१५॥ दृष्टिपूतत्वस्य पादविशेषेणत्वेऽसंगत्यापतेर्दृष्टिपूतं स्थलमुद्दिश्य पादं न्यसेदिति योज्यं॥१६॥ वाग्देहचेतसां मौनानीहानिलायाम एतद्रूपा दंडाःकर्तव्याः। मीनेन वाचोदंडः। अनीहया निषिद्धाचरणत्यागेन देहदंडः। अनिलायामेन प्राणायामेन चेतोदंड

इति विवेकः। एते दंडा वेणुभिः। वेणुधारणमात्रेणेति यावत्। बहुवचनं त्रिदंडिविवक्षयेति ज्ञेयं॥१७॥ चतुर्षु चरेत्। चतुर्ष्वपि वर्णेषु गर्ह्यान्पतितान्वर्जयन्नित्यर्थः। मया भिक्षार्थमागम्यत इत्यसंक्लृप्तान्। ननु सप्तागारलब्धभिक्षान्नस्याल्पत्वात्तावता कथं तोप इत्यत आह। तुष्येदिति॥१८॥ उपस्पृश्य जलेनाचम्य। याचितमन्नं विभज्य गोग्रासाद्यर्थं निष्कास्य शेषंशिष्टमाहृतमन्नमशेषं यथा स्यात्तथा भुंजीत॥१९॥ नन्वेकाकितया चरणे कथं तस्य रमणं प्रत्युत दुःखमेव संभाव्यते तस्मादेकाकी न रमत इति श्रुतेरित्यत आह। आत्मेति। परमात्मना क्रीडा यस्य स तथोक्तः। आत्मरतः परमात्मदर्शननिमित्तसंतोषं प्राप्तः। आत्मवान्वशीकृतमनाः॥२०॥ विविक्तमेकांतस्थलमेव क्षेमकरं शरणं गृहं यस्य स तथोक्तः। मद्भावो मद्भक्तिः। मयाऽभेदेन। उपलक्षणमेतत्। मदुपलक्षितसर्वावताराभिन्नतया। एकमात्मानं परमात्मान चिंतयेत्॥२१॥ आत्मनः स्वस्य बंधमात्मनो हरेरज्ञानेनेक्षेत। आत्मनो मोक्षं चात्मनो ज्ञाननिष्ठतया भगवतो हरेर्ज्ञानेन भवतीतीक्षेत जानीयात्। को बंधः कश्च मोक्ष इत्यत आह। बध इति। इंद्रियाणां विषयेषु निक्षेपः प्रसरणमित्यर्थः। एषामिंद्रियाणां संयमो नियमनं॥२२॥ आत्मनि स्वस्मिन्परमात्मदर्शननिमित्तं महत्सुखं लब्ध्वा॥२३॥ पुण्य शब्दस्य देशादिभिः प्रत्येकं संबंधः॥२४॥ पदं स्थानं। अभीक्ष्ण निरतरं। अत्राभक्ष्णिामित्युक्त्या पुरग्रामव्रजेषु भिक्षाकरणं विकल्पेनेति सूचयति। ननु वानप्रस्थाश्रमस्थानेषु नित्यं भिक्षाकरणेन किं क्षिप्रं फलमत्राह॥ संसिद्ध्यतीति। शिलांधसा शिलोंछवृत्त्या। वानप्रस्थसंपादितान्नभोजनेन शुद्धसत्त्वः शुद्धांतःकरणोऽत एवासंमोहो मिथ्याज्ञानशून्यः। अय संन्यास्याशु संशुद्ध्यत्यपरोक्षज्ञानी भूत्वा मुक्तो भवतीत्यर्थः॥२५॥ इत्थंभावांतराण्याह॥ नेति। एतद्दृश्यमानं जगद्वस्तुतया शक्त वस्त्विति चोच्यत इति परमात्मैव शक्तत्वाद्वस्तु शब्दवाच्यः। तथा च तदभिन्नतया न पश्येत्। यत इदं विनश्यति। इहामुत्रफलेष्वसक्तचित्तः सन् चिकीर्षितादैहिकपारत्रिकस्वर्गादिसाधनतया कर्तुमिष्टात्कर्मादेर्विरमेत्। न कुर्यादिति यावत्॥२६॥ आत्मनि भगवदाधारत्वेन विद्यमानं। मनो रुद्रो वाग्भारती माणो वायुः। एतैः संभृतं पूर्णं पूरितं यदेतज्जगत्सर्वमित्यर्थः। मायेत्यनिर्वचनीयाविद्यकल्पितमित्यन्यथाप्रतीति निरासाय प्रमाणेनैव व्याकरोति॥ त्रिगुणेति। अनाद्यनंतकालेष्वीदृशं प्रवाहत एकप्रकारं जगत्तज्जन्यत्वान्मायेत्याहुरित्यन्वयः।

मूल योजयति॥ अचेतनत्वादिति। प्रयोजकतया। अनेन मम किंचित्प्रयोजनमस्तीति प्रयोजनहेतुत्वेन। स्वातंत्र्येणेति यावत्। माया शब्दार्थ प्रकारांतरेणाह॥ आयस्विति॥ निष्फलमिति। अमानो नाः प्रतिषेध इति मा शब्दस्य निषेधार्थकत्वात्। तथा च सर्वं जगद्धीरोमायेत्यचेतनप्रकृतिनिर्मित- त्वेनाचेतनतयाऽस्वतंत्रामिति निष्फलमिति च तर्केण। यदि नाम न तस्य वशे सकल कथमेव तु नित्यसुखं न भवेदित्यादियुक्त्या विज्ञाय त्यक्त्वा जगन्न संस्मरेत्प्रयोजकतया स्वातंत्र्येण महाफलहेतुत्वेन च तत्स्मरण न कुर्यात्। किंतु तथा भगवत्स्मरणमेव कुर्यादित्यर्थः॥२७॥ वा शब्दौ न विकल्पार्थौ किं नाम समुच्चयार्थो। सलिंगान्दंडादिचिन्हयुक्तान्॥२८॥ गोचर्यां गोवच्चरणं। अज्ञवच्चरणमित्यर्थः। नैगमो वेदोक्तविधिना वर्तमानः॥२९॥ वेदवादरतो न स्यादिति वेदाप्रामाण्यवादिबौद्धदिपक्षावलंबी न स्यादित्यन्यथाप्रतीतिनिरासाय वेदवाद शब्दार्थ प्रमाणेनैवाह॥ वेदेनेति। वादो विवादो वेदेन सह कथाकरणमित्यर्थः। कोऽयं विवाद इत्यत आह॥ तर्कणेति। वादो विषयकत्वं च मुखतो वचनं स्मृतमित्युक्तापातप्रतीतार्थरूपो वेदवाद शब्दार्थो न ग्राद्यः। किं नाम तर्केण। भेदो मिथ्या भेदत्वादित्यादितर्कमाश्रित्य। स आत्मा तत्त्वमसीत्यादिवेदस्याकारप्रश्लेषेण व्याख्यानमविधाय तत्त्वमसीत्येवं पद विच्छिद्यभगवदधीनत्वरूपार्थादन्यो योऽर्थोऽभेदरूपस्तत्कल्पनमेव। तद्विदो वेदवाद शब्दार्थविदो जना विदुरिति योज्यं। तत्कल्पनं। पापंडान्हेतुकांश्चप्रमाणनैव दर्शयति॥ योगेति। पश्वीशः पशुपतिः। तथा च प्रमाणविद्धतया वेदेन प्रतीतार्थस्य कुतर्कमाश्रित्य तद्विरुद्धार्थातरपरो न स्यान्मायिमतावलंबी न स्यात्। पापंडी पशुपत्यादिमतावलंबी। हैतुकी चार्वाकादिमतावलंवी च न स्यात्। शुष्कोनिरर्थको यो वादोवेदेन सह या कथा तद्विवादेन तत्कलहेन वेदोक्तं परित्यज्य कमपि पक्षं पशुपत्यादीनां न सश्रयेदित्युपसंहारः॥३०॥ नोद्विजेत्स्वयं न चकितः स्यात्। नोद्वेजयेत्स्वप्रयुक्त- भयोपेतान्न कुर्यात्। देहमुद्दिश्यातिवादान अयुक्तीः । दहमुद्दिश्य कंचन नावमन्येत ॥३१॥ पशुवदिति। यथा शृंगेर्णकेन पशुना हतोऽपरः पशुः स्वयमपि श्रृंगेणापरं तद्वैगर्द्धनि। तथा वैरं केनचिन्न कुर्यादित्यर्थः॥३२॥ वैराकरणे किं निमित्तमित्यतः सर्वत्रापि हर्यनुसंधानमेव निमित्तमित्याशयेनाह॥ एक ण्वेति। यद्वद्यथैकमेव स्वमाकाशमुदपात्रेषु घटोटंचनादिष्वस्ति। एवं परःसर्वोत्तम आत्मैक एव भूतेषु प्राणिष्वात्मनि च स्वस्मिश्चावस्थितो

हि यस्मात्तस्मान्न केनचिद्वैरं कुर्यादिति संबंधः। भूतान्येकात्मनीत्यत्र भूतान्येको भगवांस्तदात्मका- नीत्यन्यथाप्रतीतिवारणायार्थमाह॥ भूतानामिति। यस्मादिति शेषः। भूतान्येकात्मनीत्युच्यंत इति शेषः। तथा च भूतानि प्राणिजातान्येको भगवानेवात्मा। अत्ता व्यापक आदत्ता चैषां तान्यैकभूतात्मकानीत्यतश्च वैरं न कुर्यादिति संबंधः इति योज्य। एवमेकात्मनीत्यत्रात्म शब्दोयदाऽत्तृत्वाद्यर्थकस्तदा ख यदिति दृष्टांतः। पूर्वेणैव संबध्यते। उत्तरत्र संबंधेऽर्थबाधादित्याशयेनैवेकात्मनीत्येतदादौ व्याख्यातं। इदानीं ख यद्वदिति दृष्टांत एकभूतात्मकानीत्युत्तरेणैव संबध्यते। तत्र चात्म शब्दो नात्तृत्वाद्यर्थः किंतु परमात्मार्थः स्वामित्वार्थकश्च। तथा चोदपात्रेषु विद्यमानं स्वमाकाशद्वयं यथा महाकाशाधीनमेवं भूतानि। आकाशद्वयस्थानीयाः सज्जीवा असुराश्चैकात्मकान्येक एव महाकाशस्थानीया आत्मा परमात्मा स्वामी येषां तानि तथोक्तानि। महाकाशस्थानीयभगवत्स्वामिका इत्यर्थ इति मूलयोजनामभिप्रेत्य किं तदाऽऽकाशत्रयं कथं चैकाधीनत्वमितरद्वयस्य प्रकृते च कथं तत्साम्यमित्यतः प्रमाणेनैव तद्विविच्य दर्शयति॥ घटादिष्वित्यादिना। उदपात्रेष्वित्यस्यार्थः॥ घटादिष्विति। आदि पदेनोदंचनादीनां संग्रहः। निर्विशेषोंऽशैरत्यंताभिन्नोऽव्याकृताकाश इत्यर्थः। घटावयवेति। घटस्य पृथिव्युपादानकत्वात्तस्यां च पंचीकरणपक्षे आकाशस्यापि सद्भावादाकाशस्य घटावयवत्वं मंतव्यं। तृतीयोऽप्याकाशोऽस्तीत्याह॥ घटनाश इति। अयं घटावच्छिन्नो भूताकाश इति मंतव्यं। ननु घटावयवरूपमाकाश भूताकाशमेव। तदवच्छिन्नं मध्यमाकाशमपि तदेवातः कथं भूताकाशद्वैविध्यमंगीकृत्याकाशत्रैविध्याभिधानमित्यत आह॥ एकेति। एकदेशाभिमानिकत्वादिति बहुव्रीहिः। एकदेशे भिन्नाभिमानिनौ यस्य तदेकदेशाभिमानिकं तस्य भावस्तत्वं तस्मादित्यर्थः। तथा च भूताकाशस्यांशद्वयं। तत्र घटावयवरूपैकदेशस्य तदवछिन्नस्य च वक्ष्यमाणरीत्याभिमानिनोर्भिन्नत्वात्तदभिमन्यमानमपि द्वैविध्यं विवक्षितमित्याशय इत्याहुः। यद्वा। एकदेशाभिमानित्वादित्यस्य विघ्नराज इत्यनंतरमेव संबंधो मंतव्यः। इदानीमभिमानिनौ दर्शयति॥ महाकाश इति। विघ्नराजो गणपतिः। नन्वव्याकृताकाशाभिमानिनी लक्ष्मीरेव सिद्धाऽतस्तस्य कथं विघ्नराडधिपतिस्तस्यापरिच्छिन्नत्वेन गणपतेर्भूताकाशमात्रव्यापिनः परिच्छिनस्य तद्व्याप्त्ययोगादित्यत उक्तं॥ एकदेशाभिमानित्वादिति। विघ्नराजस्य घटाद्यवच्छिन्नाव्याकृताकाशैकदेशाभिमानित्वस्यापि

प्रमाणसिद्धत्वात्तदभिप्रायेण महाकाशो विघ्नराज इत्युक्तमित्यदोषः। विघ्ना गणपतिभृत्या मध्यमा मध्यमाकाशाभिमानिनः। क्षुद्रविघ्नास्तेऽपि गणपतिभृत्याः। तदितरे तदितरस्मिन् घटावयवरूपा- काशेऽभिमानितया संतीत्यर्थः। क्षुद्रविघ्नास्तदितर इति सामानाधिकरण्यं वा। तदितरे घटावयवरूपाकाशा इत्यर्थः। अभिमानित्वलब्धोऽर्थः। आत्मा आत्म शब्दवाच्यास्त्रय इत्यर्थः। तत्साम्य दार्ष्टातिके दर्शयति॥ महाखवदिति। जीवाः सज्जीवाः॥ घटानुगखवदिति। घटावयवभूतखवत्। इदानीं स्व यद्वदिति मूलं योजयति। महाकाशेति। गणपतीत्यर्थः। सर्वे इतरे आकाशाः। विघ्नाः क्षुद्रविघ्नाश्च। तथा चोदपात्रेषु खमाकाशद्वयाभिमानिनौ यथा महाकाशाभिमानिन्यधीनावित्यर्थ उक्तो भवति। परमात्मवशेनेत्यनेन भूतानि मध्यघटानुगखवद्विद्यमानाः प्राणिन एकात्मकान्येकपरमात्मस्वामिकानि तद्वशा इत्यर्थ उक्तो भवति। एवमित्युपसंहारः॥३२॥ ३३॥ उभयं लाभालाभयं। देवस्य मम तंत्रितमधीनं। मन्वान इति शेषः। तर्ह्यशनार्थं प्रयत्नोऽपि न कार्य इत्यत आह। आहारार्थमिति। ननु नाहारं चिंतयेत्प्राज्ञ इति निषेधविरोध इत्यत आह॥ युक्त तदिति। प्राणधारणमुद्दिश्य तत्समीहनं युक्तं॥३४॥ कुत इत्यत आह । तत्त्वमिति। तेन प्राणधारणेन। तत्त्वविमर्शनेनापि किमित्यत आह। तद्विज्ञायेति। तत्त्वं ज्ञात्वेत्यर्थः। श्रेष्ठमुत्तमाशनपरं कदन्नं वा। यदृच्छयेत्यस्योत्तरत्रापि संबंधः॥३५॥ यदृच्छ्या प्राप्तं वासो यदृच्छया प्राप्तां शय्यां॥३६॥ शौचमित्यत्र चोदनया नाचरेदिति विधिपरित्यागेन चरणं कथ्यत इत्यतस्तात्पर्यमाह॥ स्वभावत इति। स्रोतोवेगवदित्याशयः। धर्मपरो भवेत्॥३७॥ इदं चतुर्मुखविषयं। भाव शब्दाच्चेति सूत्रे विधिर्भावे प्रजापतिरिति तस्यैव स्वेच्छाविध्युक्तेः। तदिच्छानुसारेणैव हि वेदानां प्रवृत्तिः। चकिते विधिभयेन चरणे। मध्यमाधमविषयमिदं। तथा च यथेश्वरोऽहं लीलया विध्यचकिततया। स्वभावेनेति यावत्। शौचादिना चरामि तद्वच्छौचादीन्स्वभावत एव चरेन्न तु चोदनया विधिचकितत्वेनेत्यर्थः। तत्र हेतुमाह। न हीति। अत्र विकल्प पदं व्याख्याय तत्र प्रमाणमाह॥ विरुद्धस्वेनेति। वेदविरुद्धत्वेनेत्यर्थः आदौ मनसेदं निषिद्धमिति मनसा संकल्प्य तस्माभिषिद्धाचरणाद्भीतः सन् त्यक्त्वाऽज्ञां विहितमाचरेदिति योज्यं। ज्ञस्य त्वित्यपि ब्रह्मविषयं। आदेहांतादित्यादेस्तात्पर्यं॥ शरीरेति। तथाऽपीत्यादिमद्वीक्षयेत्यस्य तात्पर्यं। अपि यद्यपि। नानार्थो भवतीति

शेषः। मोक्षे तु तस्य मनोऽन्यथा निषिद्धे नैव सर्वथा व्रजेत्। तथा च तस्य ज्ञानिनः श्रौतस्मार्तविधिविरुद्धरूपा कल्पना। विरुद्धचरणरूपेति यावत्। क्रिया नास्ति। ननु ज्ञानिनोऽपि देहसद्भावान्निषिद्धेऽपि कदाचिन्मनो गमिष्यत्येवेत्यत आह॥ मद्रीक्षयेति। आदेहांतात्प्रारब्धकर्मनिमित्त- देहपातपर्यतं ज्ञानिनोऽपि क्वचिन्निषिद्धविषयं ग्व्यातिर्मनांगतिलक्षणा प्रतीतिः स्याद्यद्यपि तथाऽपि सा ख्यातिर्मद्वीक्षया मम वीक्षयापरोक्षज्ञानरूपविशेषज्ञानेन हता उत्तराधस्याश्लेष इत्याशयः। ततोऽनतरं मया मदनुग्रहेण स्वस्वरूपाविर्भावं संपद्यते प्रामति॥३८॥ काम्येषु काम्यंत इति कामा विषयास्तेषु। तत्र हेतुर्दुःखोदर्केष्विति। विविधसांसारिकदुःखदर्शनेन हि वैराग्यं भवतीत्याशयः। अजिज्ञासितमद्धर्मोऽविचारितजगज्जन्मादिकर्तृत्वादिमद्धर्मोऽविचारितभागवतधर्मो वा॥३९॥ यावदिति। ब्रह्मज्ञानानंतरं गुरुपरिचरणाभाव उच्यत इत्यन्यथाप्रतीतिनिरासायार्थमाह। शुश्रूषेदिति। सहितः। भूले श्रद्धावाननसूयक इत्युक्तत्वाच्छ्रद्धादिगुणैरिति शेषः कर्तव्यः। तस्य गुरोर्ज्ञानोपदेशानंतरं त्वया मत्समीप एव स्थातव्यमिति प्रीत्या गुरुर्वक्ति चेत्तस्य प्रीतये तदा तत्परिचरणं कुर्वता स्थेय। तत्समीपे प्रीत्याऽनुज्ञां ददाति चेत्तत्प्रीत्यनुसारेण गंतव्यमित्याशयः। परं तत्प्रीत्यनुसारेण तत्सेवा कर्तव्येति हृदयं। मां गुरुं मत्सन्निधानपात्रं गुरु॥४०॥ असयतेति। अनियमितेत्यर्थः। इंद्रियाणामश्वभूतानां सारथिर्मनः प्रचंडो विषयेष्ववस्थितत्वात्स चासाविंद्रियसारथिश्च। त्रिदडमुपजीवति संन्यासी भवति। यत इति शेषः॥४१॥ सः सुरानात्मस्थमात्मानं गुणपूर्णं मां चानिन्हुतेऽपलपतीत्यर्थः। यदि देवादीन् भगवंतं च जानीयात्। तर्हि तस्यासंयतषड्वर्गत्वादि न स्यादसंयतषड्वर्गे चासुरादीनां निन्हुवत्कर्तेत्याशयः। अविपक्वकषायोऽविषक्वांतःकरणः। अस्मादमुष्माच्च लोकात्॥४२॥ यत्यादीनां विशेषधर्मान्पुनगह॥ भिक्षोरिति। ईक्षा हरिविचारः। भूतरक्षा प्राणिनामन्नदानादिना संरक्षणं। ईज्या यागः। द्विजस्य ब्रह्मचारिणः॥४३॥ गृहस्थस्य विशेषधर्मानाह। वानप्रस्थाद्याश्रमगृहीत्वैतंनैवाश्रमेणाहं शीघ्रं गमिष्यामीत्यपेक्षयाऽग्रतो वानप्रस्थाद्याश्रममगृहीत्वा मोक्षं गंतुगृहस्थस्य ब्रह्मचर्यादिकं धर्मः। ऋतुकालेस्त्रीगमनं स्वस्त्रिय एव गमनं वा गृहस्थस्य ब्रह्मचर्यं सर्वेषां मदुपासनं धर्मः॥४४॥ एतैर्धर्मैः साध्यमाह॥ इतीति। मद्भावोमत्सत्ताज्ञानी॥४५॥ मत्प्राप्तौ भक्तिरेव प्रयोजिकेत्याह॥ भक्त्येति॥४६॥ स्ववितिधर्मेण निर्णिक्त धौतमंतःकरणं यस्य

स तथा। मद्भक्तिर्मत्स्वरूपः॥४७॥ यो वर्णाश्रमवतां धर्म एष एवाचाररूप आचार इति संप्रोक्तः कर्मागत्वेन शुद्धिद इत्यादावुक्ताचारोऽयमेवेत्यर्थः। स धर्म एव स्वधर्मसंयुक्तः पुमान्यथाकथं मां समियादिति यद्भवान्परिपृच्छति तदेतत्तेऽभिहितमित्यर्थः॥४८॥ ॥४९॥ इति श्रीभागवत- टिप्पण्यामष्टादशोऽध्यायः॥ ११-१८॥

॥ हरिः ॐ॥ हरिप्रसादजनकं ज्ञानमेवेति स्तौति॥ य इति। वेदांतविद्याया यच्छ्रुतं श्रवणं तेन संपन्न आत्मवान्निगृहीतेंद्रियः। आनुमानिको मीमांसानुमानशब्दोक्तमीमांसाशास्त्रनिष्णातः। मायामात्रमित्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे॥ त्रिगुणेति। तन्मात्रकं तदुपादानकं। प्रकृतिः कथं मायेत्यत आह॥ निर्मिमीत इति। सा प्रकृतिः। मा निर्माणे अस्मात्कर्तरि य प्रत्यये मायेति भवतीत्याशयः। ज्ञानं च मयि सन्यस्येदित्यत्र ज्ञानम्य भगवति संन्यासो नाम क इत्यत आह॥ इदमिति। हरेः सकाशादुदितमुत्पन्नं। सर्वत्र पुरुषेषु स्थितं ज्ञानं सदा हर्यधीनं न्यासो ज्ञानस्य। तथा चेदं जगन्मायामात्रं प्रकृतिनिर्मितमतोऽस्वतंत्रमित्यादि जानीयात्। ज्ञात्वा च तत्ज्ञानं मयि संन्यसेदित्यर्थः॥१॥ एतादृशो ज्ञानी मम प्रिय इति वक्तुं तत्र हेतुमाह॥ ज्ञानिनस्त्विति। इष्टो निरुपाधिकप्रियः। स्वस्यार्थ आनंदलक्षणो यस्मात्स स्वार्थः। हेतुर्ज्ञानोत्पादकः। संमतस्तेन ज्ञातः। इष्टत्वादिना संमत इति वा। महतेऽन्यः स्वर्गोऽपवर्गश्चेत्यर्थः। पुरुषार्थो ज्ञानिनः प्रियो न किं त्वहमेव प्रिय इत्यर्थः॥२॥ एवं ज्ञानविज्ञानाभ्यां संबद्धा युक्तास्ते मम श्रेष्ठपद विदुर्लभंते यस्मादतस्तस्मान्मे मम ज्ञानी प्रियतम इत्युपसहारः। प्रियतमत्वे हेतुमाह। असौ ज्ञानी मां ज्ञानेन विभर्ति सदा मद्विपयकज्ञानयुक्त इत्यर्थः॥३॥ ज्ञानं पुनः

स्वयते॥ तप इति। पवित्राणि पवित्रकराणि स्नानादीन्यलं सम्यक् या शुद्धिर्ज्ञानकलया ज्ञानैकदेशन कृता तां शुद्धिं न कुर्वतीत्यर्थः॥४॥ उत्तरग्रंथोपक्षेपायोपसहारः क्रियते॥ तस्मादिति। सहितं युक्त स्वात्मानं हर्यधीनत्वादिना ज्ञात्वा भक्त्या भावितो वासितः॥५॥ ज्ञानविज्ञानरूपयज्ञेन। आत्मानं गुणपरिपूर्ण मां। आत्मनि मनास मानसयज्ञेन। मामिष्ट्वेति यावत्। संसिद्धिमपरीक्षज्ञानं मोक्षं च॥६॥ ननु स्वरूपेणोत्पत्त्यादिमतो जीवस्य जन्माद्यभावरूपामुक्तिः कथ सगच्छत इत्यतः स्वतश्चिदानंदाद्यात्मकस्य न स्वरूपेणोत्पत्त्यादीति युक्ता तस्य मुक्तिरित्याशयेन स्वरूपे तदभावं वक्तुं त्वयीति श्लोकस्तं दुर्गमार्थत्वादन्यथाप्रतीति-

निरासाय च प्रमाणेनैव व्याख्याति॥ अन्यस्थमित्यादिना। अन्यस्थं देहादिजन्मादिस्थं जीवे जीवस्वरूपे निर्मितमभिमानतो जीवे। प्रतीयत इति यावत्। तज्जन्माद्युच्यते। मा निर्माण इति धातोः कर्तरि य प्रत्यये मायेति भवति। तथा च मायानिर्मितमित्यर्थः। अन्यस्थामिति योग्यतया संबध्यते। अन्यस्थं निर्मितमिति कुत इत्यतो जन्मादयोऽस्येत्यादेस्तात्पर्यमाह॥ न हीति। स्वत इत्यस्य पूर्वोत्तराभ्यां संबंधः। स्वतो नित्यस्य स्वरूपतश्चिदानदाद्यात्मकत्वेन नित्यस्य जीवस्य स्वतः स्वरूपेण जन्मादिर्न हि संभवेदित्यर्थः। नाद्यपवर्गयोर्यदित्येतस्यार्थमाह॥ सृष्टेरिति। आदीत्यस्य व्याख्यानं॥ सृष्टे’ प्रागिति। प्रलय इत्यर्थः। अपवर्ग इत्यस्यार्थः। प्रलय इति। प्रकर्षेण लयः प्रलयो मुक्तिस्तस्यामित्यर्थः। यदित्यस्य यत इत्यर्थः। सप्तसु प्रथमेति सूत्रात्। अस्य जीवस्वरूपस्य। अंतरापततीत्यस्य तात्पर्यं॥ देहादिस्थ त्विति। कर्मभिः कर्मानुसारतो देहादिस्थ जन्मादि विष्णुना जीवे निर्मितं। अभिमानं दत्वेति यावत्। अभिमानादिकं जीवे प्रतीयत इत्यत्र तात्पर्य। प्रलयमुक्त्योर्मध्यावस्थायां। संसार इति शेषः। तस्माज्जन्मादिजीवस्वभावो न भवतीत्यर्थः। तत्र हेतुमाह॥ प्रलय इति। मुक्तिरप्यत्रप्रलय शब्देन ग्राह्या। तस्या अपि लयविशेषत्वात्। तथा च जन्मादिरूपो विकारो न जीवस्वभावः। प्रलयेऽविद्यमानत्वात्। मुक्तावप्यविद्यमानत्वात्। देहादिवदित्यनुमानद्वयं बोद्धव्यं। अनुमानद्वये व्याप्तिमुपपादयति॥ यन्न विद्येत हीति। यल्लये न विद्येतासौ जीवस्य स्वभावो न। यन्मुक्तिगे जीवे न विद्येतासौ जीवस्य स्वभावो नेति योज्यं। नन्वाद्यानुमाने स्वरूपानंदाद्यनुभवे व्यभिचारः। न हि सज्जीवानामुक्तानां प्रलये स्थितानां मौक्तानंदानुभवसदृशानंदानुभवोऽस्ति। तथा च प्रलये विद्यमानत्वरूपहेतोः सत्वाज्जीवस्वभावत्वा- भावरूपसाध्याभावादित्यत उक्तं॥ प्रायेणेति। तथा च यल्लये न विद्यतेऽसौ जीवस्वभावो नेति व्याप्तेः प्रायिकत्वान्न दोष इत्याशयः। विनिश्चित इति भावे क्तः। विनिश्चय इत्यर्थः। एवमव्याख्याय यल्लये मुक्तौ च न विद्यतेऽसौ जीवस्य न स्वभाव इति एकमेव व्याप्तिमभिधाय चिंतादिभिन्नाभिन्नधर्मव्यावृत्तये प्रायणेति व्याख्यानं महत्कौशलमित्यास्तां। एकानुमानत्वे मुक्तांवविद्यमानत्वहेतोः कुत्रापि व्यभिचाराभावाल्लयेऽविद्यमानत्वविशेषणवैय्यर्थ्यापत्तेरिति दूषणं द्रष्टव्यं। त्रिविधो विकारो मायेत्येतत्प्रमाणांतरेणापि व्याख्याति॥ मायेतीति। यन्निर्मितं वस्तु तन्मायेत्युक्तं। तु शब्दश्च शब्दार्थः। यतश्च

देहादिगं जन्मादि परेशेन जीवे निर्मितं तेन कारणेन माया शब्दवाच्यं तदिति योज्य। मां शिष्येषु वदेत्यन्यथाप्रतीतेः प्रति शब्दाध्याहारेण योजयति॥ मा प्रतीति। जन्मादयोऽस्य तव तस्य किं स्युरित्यसंगतं प्रतीयतेऽतः प्रमाणेन तात्पर्यतो व्याख्यातमपि स्ववाक्येन स्पष्टं व्याकरोति॥ तस्येति। आद्यंतयोर्यदसतोऽस्ति तदेव मध्ये इत्येतद्योजयति। अस्वतत्रत्वादिति। सद्वस्तुशब्दयोः पर्यायत्वादसदित्येतदवस्तुन इति व्याख्यातं। अवस्तुत्वं मिध्यात्वेन न भवतीत्युक्तं॥ अस्वतंत्रत्वादिति। सद्वस्तु शब्दयोः पर्यायत्वेन सत्वं स्वातंत्र्यमुद्दिष्टमित्युक्तत्वादस्वतंत्रत्वादवस्तुन इति व्याख्या युक्ता। जगत आद्यंतयोः सृष्ट्यपेक्षयाऽऽदिः प्रलयोंऽतो मुक्तिस्तत्रेत्यर्थः। यच्चिदानदाद्यात्मकं जीवस्येति मूले शेषोक्तिः। तदेवेत्यनूद्य तस्य स्वाभाविकमिति मूले शेषोक्तिः। मध्य इत्यनंतरमपि शब्दमध्याहृत्य तस्यार्थ उक्तः। ससारेऽपीति। ननु संसारेऽप्यानंदादिरूपत्वस्य स्वाभाविकत्वे कथं तर्हि दुःखादिप्रतीतिरित्यत आह॥ अन्यदिति। मुक्तिप्रलययोर्यन्नास्ति दुःखादि तदन्यदित्युच्यते। अभिप्रायमाह। प्रलय इति। मुक्तौ चेत्यपि ग्राह्यं। विद्यमानस्य जीवस्वरूपस्य। ननु जीवदेहादेरप्यानंदादिवत्स्वाभाविकत्वात्कथं तस्यापि जन्माद्युपपत्तिरित्यत आह॥ तदेति। मुक्तिप्रलययोरित्यर्थः। देहादेर्नाशाद्युज्यते। देहस्य जन्मादीत्यर्थः। पिंडितार्थमाह॥ मुक्तिगमेवेति। आनंदादीत्यर्थः। उपलक्षणमेतत्। प्रलये च विद्यमानमेव प्रायो लिंगदेहकर्मादिव्यतिरिक्तं स्वाभाविकं। प्रलयऽपि शब्दान्मुक्तौ चाविद्यमानं जन्मादिकं स्वतः स्वाभाविकं न स्यान्न स्यादेवेत्यर्थः। मुक्तिगमेवेत्युक्तार्थे प्रमाणमाह। आद्यतयोरिति। आद्यंतरहितस्य। नित्यस्येति यावत्। जीवस्य यदन्यादृशं वपुर्ज्ञानानदाद्यात्मक वपुस्तस्याद्यतयोः प्रलयमुक्त्योरनुगमात्रात्वात्तत्। स्वाभाविकमिति शेषः। अनेन मुक्तिगमेवास्य स्वाभाविकमित्युक्तं दृढीकृतं भवति। यदन्यादृशं जन्माद्युपेतं वपुराद्यते प्रलयमुक्त्यार्न भावि तत्रापि विद्यमानं तन्मध्ये प्रलयमुक्त्योर्मध्ये कथमन्यादृशं स्वाभाविकं स्यात् स्वाभाविकं न भवतीत्यर्थः। अनेन किम्बित्याद्युतार्थो दृढीकृतो भवति। तदनाशाद्देहादेर्युज्यत इत्यत्र प्रमाणमाह। अनित्यत्वादिति। तस्य देहस्य मुक्तिप्रलयसंबद्धं जीवे तज्जन्मादिकं कथमिष्यते न कथमपीति योज्यं। ननु कुत एवमित्यतस्तत्र नियमं वाक्यांतरेणाह॥ अनियरयेति। स्वत एव स्वरूपत एवानित्यस्येति संबधः। गुणा जन्माद्या मध्ये भवेयुः। कादाचित्काः। न स्वाभाविका इति यावत्। अतो देहादेर्जन्मादि

युज्यत इत्यर्थः। स्वतः सुखरूपत एव नित्यस्य कादाचित्क गुणैर्जन्मादिभिर्युतिर्युक्तता न तु नैवेत्यर्थः। अतो न जीवस्वरूपेऽसतः सत्तासंबंधरूपं जन्मादि नेष्यत इति भावः॥ तथा चेयं श्लोकयोजना। हे उद्धव। यस्त्रिविधोजन्मादिस्थितिसहारलक्षणो विकारस्त्वयि त्वदुपलक्षितजीवजाते। स माया। अन्यस्थ निर्मित देहादिस्थमेवासतः सत्तासंबंघरूपं जन्मादिकमभिमानतो जीवे प्रतीयत इत्यर्थः। कुत इत्यतोऽस्वाभाविकत्वादित्याशयेन तदुपपादयति। यद्यत्स्याज्जन्मादिर्जीवस्याद्यपवर्गयोः सृष्टेरादिः प्रलयोऽपवर्गो मोक्षः प्रलयापवर्गयोर्न विद्यते किं त्वंतरा प्रलयमुक्त्योर्मध्ये कर्मवशादागच्छति। अतो न स्वाभाविक इत्याशयः। अयमर्थस्तवाप्यनुभवसिद्ध इत्याह॥ जन्मादय इति। तस्य देहादेर्ये जन्मादयो दृस्यमानास्तेऽस्य चिदानंदस्वरूपस्य तव त्वत्स्वरूपस्य स्युः संति। किं संतीति त्वया ज्ञातं चेन्मां प्रति वदोपपादय। त्वत्सामर्थ्य पश्याम इत्याशयः। तस्मादानंदादेरेव स्वाभाविकत्वं न जन्मादेरतो जन्माद्यभावरूपा मुक्तिर्युक्तेत्याशयेनोपसंहरति॥ आद्यतयोरिति। असतोऽस्वतत्रस्य जगत आद्यतयोः सृष्टेरादिः प्रलयोंऽतो मुक्तिः प्रलयमुक्त्योर्यज्जीवस्यास्ति चिदानंदादि तदेव मध्ये संसारेऽप्यस्तीति तस्यैव स्वरूपत्वं न जन्मादेरतोऽहं जात इति जीवे प्रतीयमानं तु जन्मादि देहाद्यभिमाननिमित्तं मदपरोक्षज्ञानेन निवर्ततेऽनंतरं मुक्तो भवतीत्याशयः॥७॥ उद्धवो ज्ञानं विज्ञानं वैराग्यं मुक्तियोगं तत्साधनं च ब्रूहीत्याशयेन पृच्छति॥ ज्ञानमिति। विपुलं पुष्कल। पुराणमनादि। यथा कथमुत्पद्यते तथाऽऽख्याहि। महद्विमृग्यं महात्मभिर्विचार्यं॥८॥ घोरे भवाध्वनि। अमृताभिवर्षादमृतस्राविणः॥९॥ अस्मिन्संसाराख्ये बिले। कालाख्याहिना दष्टं क्षुद्रसुखविषये उरुस्तर्षो यस्य तं। आपवर्ग्यैर्मोक्षसाधनैः॥१०॥ अजातोऽनुत्पन्नः शत्रुर्यस्य स तथा। यद्वा। आद्व्यासाज्जाता दुर्योधनाद्यास्त एव शत्रवो यस्य स तथा युधिष्ठिरः॥११॥ बहून्धर्मान् आपद्धर्भराजधर्मादीन्मोक्षधर्मानुद्दिश्य॥१२॥ देवव्रतो भीष्मः। ज्ञानादिके पृष्ठे तदुत्तरत्वेन धर्माणां कथनमसंगतमित्यत उक्तं॥ ज्ञानेति। ज्ञानरूपफलैरुपबृंहितान्पूर्णान्। तत्साधनभूतानिति यावत्॥१३॥ ज्ञानस्वरूपमाह॥ नवेति। येन ज्ञानेन भूतेषु जीवेषु नवैकादशपंचत्रीन् भावान् ब्रह्मा प्रकृती रुद्रः स्कंदः पंचभूतानि नव। एकादशेंद्रियाणि पंचेति पंचकद्वयं। दशेंद्रियविषया दशेत्यर्थः। सत्त्वाद्या गुणास्त्रय इति त्रयस्त्रिंशत्संख्याकान् भावांस्तत्त्वानि य ईक्षेत विचार्येत। एवं तत्त्वगणना-

द्वाविंशाध्याये पुरुषः प्रकृतिरव्यक्तमहदहंकारो नभोऽनिल इत्यादिना स्पष्टं कृतमस्तीति मंतव्यं। अन्वनंतरमेषु हिरण्यगर्भादिषु प्रेरकत्वेन विद्यमानमेवैकं भगवंतं स्वतंत्रत्त्वमीक्षेत तन्मम ज्ञानमिति निश्चितमित्यर्थः॥१४॥ एतदेव ज्ञानमेव हि विज्ञान। ननु ज्ञानस्यैव विज्ञानत्वे वि शब्दो व्यर्थ इत्यत आह॥ न तथेति। इदमन्यथाप्रतीतिनिरासाय सर्वं वाक्यं सावधारणमिति न्यायेन योजयति। एतदेवेति। ज्ञानमेवेत्यर्थः। तथैव तत्त्वनियामकतया भगवत्ज्ञानमेव विज्ञानं न भवति किंतु सर्वज्ञगुरूपदिष्टस्वयोग्यमूर्तिज्ञानसहितमेव ज्ञानं विज्ञानं। इत्युच्यत इति शेषः। तत्र प्रमाणमाह। ज्ञात्वेति। पूर्वोक्त एव ज्ञान्येव स्वस्वयोग्यज्ञानं ज्ञायत इति व्युत्पत्त्या ज्ञेयं विशेषतो जानन्यः स विज्ञान्युत विज्ञान्यपि भवतीति योज्यं। न स्युरित्यन्यथाप्रतीतिनिरासाय योजयन्नन्वयं दर्शयति॥ नस्तत्त्वानामिति। यदीत्येतद्योजयति॥ यद्यत्रेति। यच्छब्दस्य तच्छब्देनान्वयं दर्शयति॥ तदेवेति। सच्छन्दार्थ प्रमाणेनाह॥ सत्त्वमिति। अपरेऽपरस्मिन्। तथा चैतदेव ज्ञानं विज्ञानं। तथाऽपि तथैव न किंतु स्वयोग्यज्ञानसहितमेव विज्ञानमित्युच्यत इत्यर्थः। ननु भगवतोऽपि तत्त्वेष्वेकत्वात्कुतस्तस्य स्वातंत्र्यमित्यत आह॥ एकेनेति। अस्मदुपलक्षिततच्चानां मध्य इति यावत्। येनैकेन तत्त्वेन यद्यत्र यदाधारत्वेन त्रिगुणात्मनां भावानां पदार्थानां स्थित्युत्पत्त्यप्ययाः स्युस्तदेव सत्स्वतत्रं। तादृशश्चाहमेव नापर इत्याशयः॥१५॥ यत्तत्त्वमादावंते मध्ये सृष्ट्यादिकाले ज्ञं सर्वज्ञं यच्च सृज्य जगत्सृष्ट्वा तत्प्रेरकत्वेनान्वयात्मविशति। यच्च पुनस्तस्य प्रतिसंक्रमे प्रलये शिष्येतावशिष्येत तदेव सदिति योज्यं॥१६॥ एवं सर्वनियामकस्य हरेः स्वातंत्र्यं ज्ञेयमित्यत्र किं प्रमाणमित्यत आह॥ श्रुतिरिति। ऐतिह्यमागमभेदः। इति चतुष्टयं भगवत एव स्वातंत्र्यमित्यर्थे। प्रमाण मस्तीति शेषः। एवं श्रुत्यादिप्रमाणेन भगवत्स्वातंत्र्यज्ञाने फलमाह। प्रमाणोध्वति। अत्र विकल्पादित्येतद्व्याख्याति॥ विकल्पादिति। सः सकलतत्त्वप्रेरकतया श्रुत्यादिप्रमाणकं भगवत्स्वातंत्र्यं जानन्विकल्पादहं कर्तेत्यादिजीवस्वातंत्र्यज्ञानरूपविरुद्धज्ञानाद्विरज्यते विरक्तो भवति। मिथ्याज्ञानरहितां भवतीत्यर्थः। ननु जीवे स्वातंत्र्यमपि श्रुत्यादिप्रमाणकं चेत्कथ तत्ज्ञानस्य विरुद्धज्ञानत्वमित्यत उक्तं॥ प्रमाणष्विति। जीवस्वातंत्र्यादेः श्रुत्यादिप्रमाणेष्वनवस्थाना- त्प्रतिपाद्यतयाऽवस्थानसद्भावस्याभावात्त ज्ञानस्य विरुद्धज्ञानत्वाख्यं विकल्पत्वं युक्तमित्यर्थः॥१७॥ वैराग्यसाधनमाह॥ कर्मणामिति। आविरिचाद्ब्रह्मलोकपर्यंत विद्य

मानानां लोकांना कर्मणां फलरूपत्वात्। षष्ठ्याअलुक्। कर्मसाध्यतया कर्मफलरूपत्वात्। अमंगलं पश्येत्। तथाऽदृष्टमपि स्वर्गादिसुखं दृष्टवन्नश्वरं पश्येत। ब्रह्मस्तंभपर्यतमसारं चाप्यनित्यकं। विज्ञाय जातवैराग्यो भवेदित्याशयः॥१८॥ त्वद्भक्तियोग इत्यस्योत्तरमाह॥ भक्तियोग इति। प्रीयमाणाय श्रुत्वा संतोषं प्राप्नुवते। भक्तिकारणमाह॥ पुनरिति॥१९॥ मेऽमृतकथायाममृतवज्जरामरणहारिण्यां कथायां परिनिष्ठा। अत्यापद्यपि नेम नियम मुंचामीति निश्वयः॥२०॥ मदर्थेष्वहमे वार्थो येषां तानि तेषु। सर्वभूतेष्वित्यस्येदं विशेषणं। परमभागवतेष्वित्यर्थः। मन्मतिर्मत्सन्निहितत्वज्ञानं। अंगैः शरीरावयवैः। पादादिभिर्नृत्यलक्षणा चेष्टा। ईरणमुच्चारणं। कामेति निषिद्धकामेत्यर्थः॥२१॥२२॥ मदर्थे ममीत्यर्थे निषिद्धभोगस्य निषिद्धसुखस्य च। इष्टमित्यादौ भावे क्तः। यद्ब्रतं तपस्तत्सर्व मदर्थंमत्प्रीत्यर्थे। कुर्यादिति शेषः॥२३॥ आत्मनिवेदिनां स्वात्मानं समर्पयितृणां। अस्य पुंसः॥२४॥ यदा मयि हरौ सत्त्वगुणोपबृंहित तदभिवृद्धियुक्त शांत चित्तमर्पितं भवति तदा धर्मादिकमभिपद्यते प्राप्नोति॥२५॥ यदि तच्चित्तमिंद्रियैरिन्द्रियद्वारा विकल्पे हरिविरुद्धे विषये परिधावति। तदा रजस्वल रजोदूषितमसन्निष्ठं तामसं विपर्ययमधर्माज्ञानावैराग्यानैश्वर्यसाधनं विद्धीत्यर्थः॥२६॥ धर्मादिकमभिपद्यत इत्युक्त। को धर्मादिरित्यत आह। धर्म इति। मद्भक्तिकुद्यमनियमशमदमादिः। उद्धवशंकाप्रापकमिदं। एवमव्याख्याने यमः कतिविध इत्याद्युद्धवमश्नोत्थापकाभावापत्तेरिति ध्येयं। गुणेषु विषयेषु। एकात्म्यदर्शनं जीवब्रह्मैक्यज्ञानमित्यन्यथाप्रतीतेः प्रमाणेनैव व्याकरोति॥ एकमिति। तथा चैकश्चासावात्मा चैकात्मा तस्य भाव ऐकात्म्यं तद्दर्शनं। आत्मनो विष्णोरेकत्वदर्शनमिति यावत्॥२७॥ हे अरिकर्शन कामक्रोधाद्यरिषड्वर्गनाशक। तथा चारिषड्वर्गनाशकतया मद्भक्तिकृतत्वेनोक्तो यमनियमादिः कति विध इति प्रश्नार्थः॥२८॥२९॥ यज्ञो यज्ञेन पूज्यः। श्रीमद्बल किं॥३०॥३१॥ प्रश्नान्प्रष्टव्यार्थान्। को विपरीतस्तं च ब्रूहि परिहारेण स्पष्टीकुरु॥३२॥ अभयमित्यस्य पूर्वोत्तराभ्यां संबंधे नियमत्वं नियमत्व च द्रष्टव्य। अन्यथा नियमानामेकादशत्वप्राप्त्या द्वादशत्वोक्त्ययोगात्। उभयोर्यमनियमयोरद्वादशप्रभेदाः पुंसां पुंभिः। उपासिताः सेविता दुहति। फलानिति शेषः ॥३५॥३६॥ दंडन्यासो विहितदंडत्यागः। सर्वेषामभयदानमिति यावत्। स्वभावविजयः स्वमनोजयः समदर्शन

यथावस्तुदर्शनं॥३७॥ सूनृता सत्या वाग्येव सर्वतृप्तिकरान्नमित्यर्थः। असंगो नाहं कर्तेति बुद्धिः। संन्यासो निषिद्धत्यागः॥३८॥ भगवत्तमो ज्ञानिप्रधानोऽहमेव। यज्ञो यज्ञेनेज्य इत्यर्थः। ज्ञानसंदेशो ज्ञानोपदेशः॥३९॥ मे ममैश्वरो भाव ईश्वरत्वभावनं भग इत्यर्थः। आत्मनि हरौ भिदाबोधो जीवादिभेदज्ञानं। विकर्मसु विरुद्धकर्मसु जुगुप्सा

व्हीः॥४०॥ दुःखात्ययादात्यंतिकदुःखनाशाज्जायमानं यत्सुखं मौक्तं सुखं तदेव सुखमित्यर्थः। काम्यंत इति कामा विषयास्तेषां सकाशाज्जायमानं यत्सुख तदपेक्षया दुःखमित्यर्थः। देहादावहंबुद्धिमान्। मन्निगमो मद्विषयो वेदादिः। एष निष्कंटकः पंथा यत्र संपूज्यते हरिरित्युक्तेः। तमो गुणस्योन्नाहोऽभिवृद्धिः। सखा गुरुः सखिभूतो गुरुभूतोऽहमेव बधुरित्यर्थः॥४३॥ ईश ईश्वरो योऽजितेंद्रियो विषयासक्तबुद्धिः स कृपणो गुणसंगी विषयासक्तबुद्धिर्विपर्ययो विपरीत इति कृपणविपरीतयोर्भेदाभावः प्रतीयतेऽतः प्रमाणेनैव तयोर्भेदं दर्शयति॥ विषय इति। यथाऽऽस्तिककामुकादिः। गुणबुद्धिर्गुणेषु दोषबुद्धिं विहाय पुरुषार्थत्वबुद्धिमान्विपर्ययो विपरीत इत्यर्थः। विपरीतं स्वरूपं प्रमाणांतरेण दर्शयति॥ पुरुषार्थेति। यस्य देहिनो विषयेष्वेव पुरुषार्थमतिः पुरुषार्थत्वज्ञान॥ स्वात्मन इति। स्वस्य विपरीततो मोक्षादिविपरीतफलसंपादनादित्यर्थः। ननु तर्हि दरिद्रविपरीतयोर्भेदोन स्यात्। असंतुष्टो दरिद्रः। विषयेभ्यो न संतुष्टो भवति किंतु विषयेषु पुरुषार्थमत्याऽसक्त इति दरिद्रस्वरूपमुक्त। तस्य विपरीतस्वरूपेण सांकर्यं प्राप्नोतीत्यतस्तर्योर्भेदं दर्शयति॥ वित्तेति। वित्तप्राप्तावपि तत्रासंतोषमात्रः संतोषमात्रशून्यः। तथा च वित्तविषय एवासंतुष्टो यः स दरिद्र इत्यर्थः। सर्वविषयेति। शुभाशुभविषयेत्यर्थः॥४४॥ भगवानुत्तरग्रंथोपक्षेपाय गढाभिसंधिराह॥ किमिति। गुणदोषयोर्लक्षणं स्वरूपं। दुर्ज्ञानमिति शेषः। ननु कथं दुर्ज्ञानत्व। वेदविहितो गुणस्तन्निषिद्धो दोष इति सुज्ञानत्वादित्यत आह॥ गुणेति। गुणदोषदृशिर्वेदविहितो गुणस्तन्निषिद्धो दोष इति गुणदोषस्वरूपज्ञान। दोषो महाप्रत्यवाय साधनं। उभयोर्गुणदोषयोर्ज्ञानस्य वर्जनं गुणदोषपरित्याग एव गुणः शुभसाधनमित्यर्थः। तस्मात्त्वमयं गुणोऽयं दोष इति गुणदोषपरित्यागं कुर्वित्याशयः॥४५-४७॥ इति श्रीभागवतटिप्पण्यामेकोनविंशोऽध्यायः॥११—१९॥

॥हरिः ॐ॥ भगवद्वाक्याशयमविद्वानुद्धवस्तर्कयति॥ विनिश्चेत्यादिना। अयं भावः। गुणदोषस्वरूपज्ञानस्य दोषा

वहत्वं यद्यभिप्रेतं तर्हि वेदस्तावद्विधिनिषेधात्मकतया द्विविधः। तत्र विधिः कर्मणी गुणं सामीचीन्यमपेक्षते। एतादृशाश्रमवताऽस्मिन्देशेऽस्मिन्काले एतदर्थं समीचीनं कर्म कर्तव्यमिति। आश्रमद्रव्यदेशकालादींश्च निषेधश्च कर्मणो दोषमसामीचीन्यमपेक्षतेऽसमीचीनं कर्म न कर्तव्यमिति। तत्र गुणदोषस्वरूपज्ञानस्य वर्जनीयत्वेप्रतिपाद्याभावप्राप्तेर्विधिनिषेधात्मकशास्त्रवैयर्थ्य स्यान्न चैवमतो गुणदोषज्ञानमपेक्षितमिति त्वदुक्तमसदिति तर्कार्थः॥ अक्षरयोजना त्वित्थं॥ विधिश्च प्रतिषेधश्चेत्येवं रूपस्ते त्वत्संप्रदायप्राप्तो निगमो वेदो वर्णाश्रमयोर्विकल्पं प्रभेद। अपेक्षत इति सर्वत्र सबध्यते॥१॥ प्रतिलोमानुलोमजमधिकारिणां ब्राह्मण्यां शूद्राज्जातः प्रतिलोमजः स चांडालः सोऽनधिकारी। ब्राह्मणाद्ब्राह्मण्यां क्षत्रियस्त्रियां वाऽनुलोमजः सोऽधिकारी। इदं जातिविवेकग्रंथे स्पष्ट। धर्मार्जितं द्रव्यं। कृष्णमृगसंचारयुक्त देशं। यत्र देशे मृगः कृष्णस्तत्र धर्मान्निबोधतेति स्मृतः। कालो वसंतादिः। पुण्यफलभूतं स्वर्गं। पापफलभूतं नरक॥२॥ सशयबीजं दर्शयति॥ गुणेति। एवमुक्तरीत्या वेदो गुणादिकमपेक्षते। त्वदीय वचनं तु गुणदोषभेदज्ञानमंतरेणास्ति। अयं गुणोऽयं दोष इति भेदेन तत्स्वरूपज्ञानं दोषावहत्वमित्युच्यते। अतः संशय इत्यर्थः। गुणाद्यनपेक्ष एवास्तु वेद इत्यत आह॥ गुणेति। गुणदोषभिदा दृष्टिमंतरेण विद्यमानं। तदनपेक्षमिति यावत्॥३॥ ते निषेधविधिलक्षण वचस्त्वत्संप्रदायप्राप्तं विध्याद्यात्मक वेदवचनं कथं नृणां नैश्रेयसं मोक्षसाधनं स्यात्। कुतो निःश्रेयसाधनत्वं वेदस्येत्यत आह॥ पित्रिति। हे ईश्वर। तव वेदोऽनुपलब्धेऽर्थेऽप्रत्यक्षेश्वरधर्मादिविषये साध्यसाधनविषययोः साध्ये सुखादौ विषये साधने कर्मादौ विषये श्रेयो दिव्य चक्षुर्ज्ञानसाधनमतो वेदस्य तद्वारा युक्तं नैश्रेयसत्वमिति भावः॥४॥ उपसंहरति॥ गुणेति। यतो वेद उत्तमं चक्षुस्तेन कारणेनाधिकारिणो बोधयितुं गुणदोषभिदा दृष्टिर्नियमान्नियमेन स्वतः स्वभावत एव वेदेनापेक्ष्यते। तर्हि वः संशयः कुत इत्यतो विप्रतिपत्तेरित्याह॥ नियमेनेति। त्वया च भिदायागुणदोषभिदाज्ञानस्य नियमेनैवापवादो निराकरणं गुणस्तूभयवर्जनमित्यनेन कृतमिति हेतोर्विप्रतिपत्त्या मे भ्रमो मम मनसो भ्रामणं संशयो भवतीत्यर्थः॥५॥ एवमुद्धवेन तर्किते योगास्त्रय इत्यादिना कथमसंबद्धं कथ्यत इति चेदुच्यते॥ योगास्त्रय इत्यादिना। आशयोद्घाटनेन परिहारः क्रियते। हे उद्धव। गुणदृशिर्दोष इति मदुक्तस्याभिप्रायमज्ञात्वा त्वया तर्कितमिति। भगवदुक्तस्य

कोऽभिप्राय इत्यतः प्रमाणेन तदभिप्राय भगवानाचार्यो दर्शयति॥ स्वत इत्यादिना। अयमभिप्रायः। अधिकारिण उत्तमास्तदतिरिक्ताश्चेति द्विविधाः। तत्र गुणदोषदृशिर्दोष इत्यस्य वेदविहित एव गुण इति ज्ञात्वा तत्कर्तव्यं। वेदनिषिद्ध एव दोष इति ज्ञात्वा तत्परित्याज्यमित्येवं गुणदोषस्वरूपदृशिर्दोषावह एव। कुत इति चेत्। वेदविहितस्यापि भगवदप्रीतिसाधनत्वे दोषवत्त्वदर्शनात्। यथा सत्यपूतं वदेद्वाक्यमिति वेदविहितत्वेऽपि तस्मिन्सत्यवचन एव रतः कौशिकाख्यो ब्राह्मणो हि लीन ग्रामजनं क्वचित्तस्करेष्वभिधायैव निरयं प्रत्यपद्यत। तथा सत्यभाषणपरायणोधर्मराजोऽश्वत्थामा हत इति वक्तव्यमिति कृष्णेनोक्तस्तथोक्त्वाऽप्युपांशुकुंजर इत्याह। ततः कृष्णवाक्येऽविश्वासेन किंचिद्दुःखमनुभूतं। तथा वेदनिषिद्धं दोषत्वेन ज्ञात्वा तत्परित्यागो न कर्तव्यः। वेदनिषिद्धस्यापि भगवत्प्रीतिसाधनत्वं गुणत्वदर्शनात्। यथा ब्राह्मणो न हंतव्य इति ब्राह्मणहननस्य निषिद्धत्वेऽपि वृत्रासुरवधस्य भगवत्प्रीतिसाधनत्वेन गुणत्वदर्शनात्। यथोक्तं गीताभाष्ये॥ वृत्रहत्याद्यपि तस्य गुण एव तस्य न लोम च मीयत इति श्रुतेरिति॥ इद्रो वै वृत्रं हत्वा महानभवदिति च श्रुतेः। यथा वाऽग्रजविवाहात्पूर्वमनुजाविवाहस्य निषिद्धत्वेन हिडिंबया प्रयुक्ते भीमो व्यासवाक्यात्तां परिजग्राह। तस्माद्देशकालवयोऽवस्थादिकमनपेक्ष्य भगवत्प्रीतिकर एव गुणस्तदप्रीतिकर एव दोष इत्युत्तमज्ञानिनो गुणदोषस्वरूपं जानंति। अज्ञस्य त्वेवमवजानतो देशादिकमपेक्ष्य वेदविहितो गुणस्तन्निषिद्धोदोषइति वेदतो मर्यादा कृता। अतो वेदविहितमात्र गुणस्तन्निषिद्धमात्रं दोष इत्येव गुणदोषस्वरूपज्ञानमुत्तमज्ञानिनां दोषावह न त्वज्ञानामिति ममाभिप्रायः। त्वं त्विममभिप्रायमज्ञात्वा गुणदीपवर्जनमात्रमभिहितमिति मत्वा तत्सापेक्षविधिनिषेधात्मकशास्त्रवैयर्थ्यंतर्कितमिति छलेन निग्रहस्तवेति। ज्ञानिनं प्रत्येवमापादने दृष्टापत्तिरिति हृदयं॥ प्रमाणाक्षरार्थस्तु॥ स्वत इत्यादि स्वरूपकथनं। अन्यत्सर्वं विष्णुव्यतिरिक्त देशादि भगवत्प्रियत्वाद्गुण इत्यर्थः। तथा विष्णोरप्रियं दोष इत्यर्थः। ज्ञानवतामुत्तमज्ञानिनामेवं दृष्टिर्दर्शनमुत्तमज्ञानिन इत्थ जानतीत्यर्थः। देशादिकं विहाय वेदविहितमस्त्वविहितं वाऽस्तु परविष्णुप्रीत्यप्रीतिकरावेव गुणदोषाविति तन्मतमिति भावः। अविज्ञानवतोऽज्ञानिनः कालदेशविशेषेषु विष्णोः प्रीतिभेद प्रीतिविशेषं। उपलक्षण। अप्रीतिविशेषं चावेक्ष्य वेदतो मर्यादा कृता। अस्मिन्देशे काले च विष्णोः

प्रीत्यर्थं वेदविहितां गुणस्तन्निषिद्धो दोष इति तदेव कार्य। नान्यदित्यज्ञानिना वेदविहितं हरिमीत्यर्थमेव देशादिर्विशेषेकर्तव्यं। ज्ञानिना तु भगवत्प्रियमेव कर्तव्यं। तदप्रियं त्याज्यं तद्वेदविहितं वाऽस्तु निषिद्धं वास्तु वेदापेक्षयैव नास्तीत्याशयः। अतो ज्ञानवतो भगवत्प्रियं भगवदप्रियं चांतरा विहाय गुणदोषभिदा तत्स्वरूपभेदज्ञानं नास्ति तत्स्वरूपं न जानंतीत्यर्थः। गुणदोषदृशिर्दोष इत्यस्य भावमाह। गुणेति। ज्ञानिनोभगवत्प्रियादप्रियाच्च प्रियत्वाप्रियत्वाभ्यामन्यत्र वेदविहितो गुणस्तद्विरुद्धो दोष इति गुणदोषस्वरूपदृशेर्ज्ञानात्तद्दोषः प्रत्यवायः। कुत एवमित्यत आह॥ गुणाश्चेति। गुणाः सत्यवचनाद्या वेदविहिता ईयुः। भगवदप्रीतिहेतुत्वे दोषा वेदनिषिद्धा वृत्रहत्याद्या गुणतामीयुः। भगवत्प्रियत्व इत्यर्थः। दोषो वृत्रहत्यादिर्भगवत्प्रियत्वेन दोषः स्यात्। गुणः सत्यवचनादिर्गुणो न भवेत् भगवदप्रियत्वे प्रीतिविज्ञानादप्रीतिज्ञानाच्च गुणदोषभिदां यदि पश्येत्तर्हि तद्दर्शनं गुणाय शुभाय भवति। विपर्यासं भगवदप्रीतिकरो गुणः प्रीतिकरो दोष इति। उपसंहरति। गुणेति। स्वातंत्र्येण भगवत्प्रीत्यप्रीतिमतरा वेदविहितमात्रं गुणस्तन्निषेधो दोष इत्येवं रूपेणेत्यर्थः। न हि ज्ञेया दोषावहत्वादित्याशयः। प्रमाणांतरमाह। स्वतस्त्विति। वस्तूनां सत्यवचनवृत्रवधादीनां स्वतः स्वातंत्र्येण भगवत्प्रीतिमंतरा भेदेन वेदविहितत्वादिमात्रेण गुणदोषन्वदृशेर्ज्ञानाद्दोषो भवति। अथ भगवत्प्रीतितो दोषो गुण एव स्यात्। तद्वैपरीत्यात्। तदप्रीतितो गुणोऽपि दोष एव स्यादिति योज्य। इति दृष्ट्या एवं ज्ञानेन गुणः शुभः पुरुषार्थो भवतीत्यर्थः। तर्हि वेदविहितो गुणस्तन्निषिद्धो दोष इति कथमित्यत आह॥ कालेति। देशकालविशेषेषु प्रीत्यज्ञानादस्मिन्देशे काले इदं भगवत्प्रियमिदमप्रियमिति ज्ञानस्याज्ञानिनोऽभावाज्जगत्स्थितेर्हेतोर्जगतः प्रवृत्याद्यर्थं सर्वशः सर्वत्र वेदेषु गुणदोषाणां। वेदविहितो गुणस्तन्निषिद्धो दोष इति मर्यादा कृतेत्यर्थः। एवं भगवद्वाक्याभिप्रायत्वे एतदाशयप्रकटनं मूले न दृश्यते। अतो योगास्त्रय इत्याद्यसंगतमेवेत्यत आह। एतदेवेति। अस्माभिः प्रमाणेनोपपादितमित्यर्थः। इति मूले उच्यत इत्यन्वयः। अयमधिकारस्तुभ्यं दत्तोऽय तवानधिकार इति भगवता दत्तत्वे न तदाज्ञारूपतया तत्प्रीतिहेतुभूते स्वे स्वेस्वकीये स्वकीयेऽधिकारे भगवदाज्ञया निष्ठा स्थितिः स गुणो भगवत्प्रीतिकरत्वाद्विपर्ययोऽनधिकारे स्थितिर्दोषः स्याद्भगवदप्रीतिसाधनत्वादित्येवं गुणदोषस्वरूपयोर्निर्णयः। न तु वेदविहितो गुणस्तद्विरुद्धो दोष इति तत्र कस्य कोऽधिकारः कानधिकारो कश्चानधिकारो ययोर्निष्ठौगुणदोषा-

वित्यतो योगास्त्रय इत्यादिना तत्पूर्वग्रंथेनाधिकारादिक निरूप्यत इति नासंगतिस्तस्येति भावः। योगा मोक्षसाधनोपाया नृणां मोक्षयोग्यानां। तानि दर्शयति॥ ज्ञानमिति। अन्यो ज्ञानाद्यन्यः॥६॥ ज्ञानयोगाधिकारिणमाह। निर्विण्णानामिति। इह जगति कर्मसु कर्मकरणविषये निर्विण्णानां न्यासिनां ज्ञानयोगो ज्ञानयोगाधिकारः। कर्माधिकारिणमाह॥ तेष्विति। कर्मस्वित्यर्थः। अवैराग्यचित्तयुक्तानां कर्मिणां कर्मयोगाधिकारः। भक्तियोगाधिकारिणमाह॥ यदृच्छयेति। न निर्विण्णः कादाचित्कवैराग्यशून्यः। सर्वदा विरक्त इति यावत्। नातिसक्तः कादाचित्कविषयासक्तिमान्न भवति। नित्यसंपूर्णभोगत्वादिति भाव इत्याहुः। भक्तियोगिभिरपि भक्त्याद्युत्पत्तेः पूर्वमंतःकरणशुद्धिद्वारा भक्त्यादिसाधनत्वेन कर्मयोगः कर्तव्य इत्याहुः। तावदिति। देवादित्वयोग्यानां मनुष्याणामिदं ज्ञातव्य। यद्वा। कर्मयोगिनमेव विशिनष्टि॥ तावदिति। अत्र ज्ञानादियोगिन उक्तास्ते के इत्यतः प्रमाणेनैव तद्विविच्य दर्शयति॥ सनकाद्या इत्यादिना। ज्ञानयोगा ज्ञानयोगवंतः। एवं भक्तियोगाः कर्मयोगा इत्यपि व्याख्येयं। ननु सनकादीनां ज्ञानयोगित्वे भक्तिकर्मणोरभावः प्राप्नोति। कर्मिणां ज्ञानभक्त्यभावः। भक्तियोगिनां ज्ञानकर्माभावः प्राप्नोतीत्यत आह। सर्वेषामिति। नन्वेवं सांकर्यमित्यत आह॥ तथाऽपीति। स स योगः। तथा च स्वसमानाधिकरणगुणानां मध्ये ज्ञानानामाधिक्यविवक्षया ज्ञानयोगित्वाद्युक्तिरित्याशयः। भगवदिति। स्वयं प्रत्यक्षेण भगवद्गुणान्दृष्ट्वा स्वस्वदृष्टभगवद्गुणानुसारेण यैर्वेदार्थो नीयते मयाऽयं गुणो दृष्ट एतद्गुणस्य प्रतिपादकोऽयं वेदभागस्तस्माद्वेदभागात्तद्गुणस्य सम्यक् प्रतिपाद्यताया अलाभे यथा तत्प्रतिपादकः स्यात्तथा व्याख्यानेन तन्नियमन व्याकुर्वतीत्याशयः। के ते इत्यत आह। तादृशा इति। अंग शिक्षाकल्पादिषडंगं। तदनुसारतोंऽगानुकूल्येनागाद्यनुसारेण वेदार्थं परोक्षतोज्ञात्वा तत्तद्भगवद्गुणप्रतिपादकत्वेन वेदो यैर्नीयत इत्याशयः। सुराणां त्वंगाद्यानुकूल्येन वेदयोजनेन तात्पर्यमिति भावः॥ कर्माणीति। प्राधान्येन प्रतिपाद्यतयेति शेषः। अनेन वेदेन तादृशं कर्म प्रतिपाद्यत इति कर्मणः प्राधान्येन प्रतिपाद्यत्वं ज्ञात्वा एतादृशकर्मणेज्यो हरिर्यज्ञभोक्तृत्वाद्येतादृशगुणयुक्त इति वेदः प्रतिपादयतीति वेदार्थो नीयत इत्यर्थः। पतिपाद्यतयाऽदौ ज्ञातत्वमेवात्र कर्मणां प्राधान्यमिति मंतव्यं। अपि यद्यपि तेषु कर्मयोगिषु पश्चात्कर्मणांऽतःकरणशुद्ध्यनन्तरं। तथा च तेऽपि भक्तियोगा

ज्ञानयोगाश्चेति शेषः॥ कर्मपूर्वस्वेति। कर्मज्ञानस्य पूर्वसंपादितत्वरूपात्कारणादित्यर्थः। वेदेन प्रतिपाद्यतया पूर्वं कर्मतैर्ज्ञातमिति कर्मयोगिनस्त इत्यर्थः। भगवद्गुणेष्वनुरागः स्नेहस्तद्वत्वं। भक्तिरिति यावत्। अधिकं ज्ञानकर्मयोग्यपेक्षया। स्वसमानाधिकरणगुणानां मध्य इति शेषः। ते देवा एषु त्रिविधयोगिषु। ननु न निर्विष्ण इति वैराग्याभाव उक्तः। नातिसक्त इति वैराग्यमुच्यत इति विरोध इत्यतस्तं परिहरति॥ ईषदिति। ईषद्वस्तुविषयक। अत एवाल्पं स्वसमानाधिकरणगुणेष्वपरोक्षज्ञानात्पूर्वमल्पमेव वैराग्यं जायते पश्चादपरोक्षज्ञानोत्पत्तिसमयेऽनंतरं वा देवानां विरागो वैराग्यमप्यधिकं जायते। उपसंहरति॥ज्ञानेति। यदा भक्त्याधिक्यं तदा ज्ञानाधिक्यमपि प्राप्तमेव ज्ञानस्य भक्तिभागत्वादित्याशयः। सदोत्पत्तिमारभ्य सनकादीनां। ननु तर्हि ज्ञानयोगित्वं भग्नमित्यत आह॥ ज्ञानेति। मनुष्येभ्यः कर्मयोगिभ्यो ज्ञानाधिक्यात्। मनुष्यग्रहणकृत्यमाह। न त्विति। मनुष्याणां प्रत्यवायत्वात्। विधिचकिततया प्रवर्तनादित्यर्थः। सर्वेभ्यः सकाशात्त्रियोगैर्ज्ञानकर्मभक्त्याख्यैरधिको ब्रह्मेत्यर्थः॥७-९॥ मूलार्थस्तु। ननु कर्मणां बंधकत्वेन कथं भक्तिज्ञानकरणत्वमित्याशंकां परिहरति। स्वधर्मस्थ इति। स्वविहितकर्माचरणवान्। अनाशीः कामः स्वर्गाद्याशीः कामो न भवतीत्यनाशीः। अन्यत्काम्यनिषिद्धं च कर्म तर्हि न याति॥१०॥ एवं धर्मस्थः स्वविहितधर्मवान् लोके शरीरे। एतं भूमौ विद्यमानं लोकं मानुष देहं। कीदृशमित्यत आह॥ साधकमिति। निरयिणो नरकस्था नरकशेषं भुंजाना वा भूमौ कुयोनि प्राप्य ज्ञानभक्तिभ्यां। तज्जननद्वारेति यावत्। पुरुषार्थसाधकमित्यर्थः। कुत इत्यत आह॥ उभयमिति। स्वर्गनरकलोकद्वयं तदसाधकं ज्ञानभक्तिद्वारा पुरुषार्थसाधकं। यत इति शेषः॥१२॥ विचक्षणो बुभूषुर्नरः। नारकीं च गति। इमं लोक मनुष्यलोकं। कुतः। देहवशाद्देहप्रववेशाद्देहेऽभिमानादिप्रवेशात्। प्रमाद्यति भगवद्विषयकप्रमादयुक्तो भवतीत्यर्थः॥१३॥ मृत्योर्मरणरूपात्पूर्वं मृत्योरभावाय मोक्षाय घटेत यतेत। मर्त्यं मरणशीलमपीदं शरीरं पुरुषार्थसिद्धिदं ज्ञात्वा यतेत॥१४॥ ततः किमित्यत आह॥ छिद्यमानमिति। यथा खं गच्छतीति खगः पक्षी स्वकेतनं स्वाश्रयं वृक्षं परेण छिद्यमानं ज्ञात्वा स्वनीडे आसक्तिं त्यक्त्वा गतश्चेत्क्षेमं याति। अन्यथा न। एवं खैरिंद्रियैर्गच्छतीति खगो जीवोऽहोरात्रादिकालावयवैः कृतं नीडं यस्मिंस्तत्कृतनीडमत एव स्वस्य केत निकेत वनस्पतिं तत्स्थानीय देहमुत्सृज्य क्षेमं मोक्ष-

मलपटो लपटो विषयाकांक्षावान्न भवतीत्यलपटः। प्रसिद्धपक्षी त्वलं सम्यक् पटः प्लवनसमर्थः। पट गताविति धातुः॥३५॥ इदमेव विशदयति॥ अहोरात्रैरिति। आयुरायुष्यं मुक्तसंसारसंगः परं हरिं निरीहो निषिद्धचेष्टाशून्योव्यर्थचेष्टाशून्यो वा। उपशाम्यति शांतदुःखो भवति। प्रसिद्धोऽपि पक्षी स्वाश्रयं वृक्षं छिद्यमान ज्ञात्वा भयेनान्य वृक्षं स्वागंतव्यत्वेन बुध्वा पूर्ववृक्षे संगं त्यक्त्वाऽन्य वृक्षमाश्रित्य सुखी भवतीति॥१६॥ पुमान्मानुषदेहमासाद्य न प्रमादी स्यादित्याह॥ नृदेहमिति। सुकल्पं सुष्टुकल्पं कल्पवृक्षवदभीष्टसाधनं प्लवं नाव गुरुरेव कर्णधारो नाविको यस्य तथा तं। कर्णधारस्तु नाविक इत्यभिधानात्। मया मल्लक्षणेनानुकूल्येन। तृतीयाया अलुक्। अनुकूलवायुनेरित प्रेरितं। अत्र मार्गण इति लुप्तोमेत्याशयेन तात्पर्यमाह॥ मार्गणवदिति। अयोमयतीक्ष्णाग्रभागशून्यः क्रीडार्थ कृतवर्तुलाग्रभागः शिरोमार्गणोऽत्र विवक्षितः। स यथा परस्मिन्मुक्तस्तच्छेदनादिकमकृत्वा वृथैवं भूमौ पतति। एवमयमपि शरीरांते तत्पतनानंतरं वृथा नरके पतति। वृथैव तस्य जन्मेत्याशयः॥१७॥ भगवत्ज्ञाने इदमपरपर्यायो मनोनिग्रहः कारणमिति भावेन मनोनिग्रहप्रकारमाह॥ यदेति। आरंभेषु कार्योपक्रमेषु विघ्ने जाते निर्विण्णः। वौ। विः पक्षिपरमात्मनोः। परमात्मनि रक्तोऽनुरक्तः स्नेहवान् आत्मनः स्वस्य मनः। अचलमिति क्रियाविशेषण॥१८॥ धार्यमाणं भ्राम्यत्। तस्यैव विवरणं। आश्वेकत्रानवस्थितं चेत्तर्ह्यनुरोधेनानुकूल्येन मार्गेण प्रत्याहारप्राणायामादिना॥१९॥ मनोगतिं मनोवेगं भगवतोऽन्यत्र न विसृजेत्। सत्त्वसपन्नया सत्त्वगुणोद्रिक्तया॥२०॥ एष मनसः संग्रहो निग्रहः परमयोगो मोक्षसाधनोपायः। भगवत्ज्ञाने इदमपि साधनामित्याह॥ हृदयेति। हृदयं ब्रह्मेत्यारुणय इति श्रुतेः। हृदयज्ञत्वं ब्रह्मज्ञानवत्त्वमन्विच्छन्यस्तस्येच्च्छतः पुंसो दमो मनोव्यतिरिक्तेद्रियनिग्रहश्च मुहुर्मुहुःकर्तव्य इत्यर्थः॥२१॥ मनोवशं नयेदित्युक्तं। यावद्वशं न भवति तावत्पर्यंत किं कार्यमित्यत आह॥ साम्येनेति। ज्ञानेन सर्वभावानां सर्वतत्त्वानां प्रतिलोमानुलोमतो व्युत्क्रमत्रमाभ्यां भवाप्ययौ हरेः सकाशादनुध्यायेत्। यथायोग्यसंबंधो न यथाक्रमं। अनुलोमनोऽनुक्रमेण। भव उत्पत्तिः। प्रतिलोमतो व्युत्क्रमेण नाशो भवतीति चिंतन कुर्यादिति भावः। कियत्पर्यंतमित्यत आह। मन इति॥२२॥ एवं ध्यानेन कि भवतीत्यत आह॥ निर्विण्णभ्येति। विरक्तस्य परमात्मनि रक्तस्य। आत्मवेदिनः क्रमव्युत्क्रमाभ्यां यवाप्ययकृतत्वेनात्मज्ञानिनः।

दौरात्म्यं कामादिकश्मलं। महात्मभिश्चितितस्य हरेरनुचिंतया॥२३॥ एतैरुपायैः शुद्ध मनो हरिं स्मरतीत्याह॥ यमादिभिरिति। योगपथैर्योगमार्गैरान्वीक्षिक्या विद्यया तत्त्वविद्यया। ममार्चेत्यत्र बुद्ध्या विवेकः। अर्चायां ममोपासनादिभिः पजादिभिः शुद्धं मनः। योग युज्यतेऽनेनेति योगो हरिरतं स्मरेत्। अन्यैर्यमादिव्यतिरिक्तैर्न स्मरेदित्यर्थः॥२४॥ योगाभ्यासिनः प्रामादिकपापपरिहारायोपायमाह॥ यदीति। अंहो विगर्ह्यकरणानिमित्तकं पापं। तत्र पापपरिहारेऽन्यत्प्रायश्चित्तादिसाधनं योगाभ्यासवता कंचन न कार्यमित्यर्थः॥२५॥ एवमुपयुक्तमभिधायेदानी भगवानाशयोद्घाटनेनोद्धवप्रश्नं परिहरति॥ स्वे स्व इति। एव ज्ञानभक्तिकर्मरूपे स्वे स्वे स्वकीये भगवता प्रीतिपूर्वक दत्तेऽत एव तत्प्रीतिकरे या निष्ठा भगवदाज्ञारूपत्वेन भगवत्प्रीतिकरोऽयमिति वा। स्थितिः स गुणो विपर्ययोहर्यप्रीतिकरे स्वानधिकारे या निष्ठा स दोषः। उभयोर्गुणदोषस्वरूपयोः। एव यदि भगवत्प्रीतिकर एव धर्मस्तदप्रीतिकर एव दोषः स वेदविहितोऽस्तु मा वा। तर्हि वेदविधानस्य वैय्यर्थ्यमेव स्यादित्यतो ज्ञानवतामेव तथा। अज्ञानां तु वेदविधिरपेक्षित एवेति न वैयर्थ्यं॥२६॥ तत्कथमित्यत आह॥ कर्मणामिति। अत्र जात्यशुद्धानामित्येतद्व्याकुर्वंस्तस्यां हसामित्यनेनान्वयभ्रांतिं च निवारयति॥ स्वत इति। पदानां व्यवहितत्वादन्वयं दर्शयति। अनेनेति। कोऽर्थ इत्यत आह॥ स्वत इति। कर्मणामित्यस्य पूर्वोत्तराभ्यां संबधः। गुणत्वं हरिप्रीतिसाधनत्व। विध्यनुसारेणानुष्ठानेभगवत्प्रीतिरूपो गुणोन च दोष इति विधानेन नियमो वेदेन कृतः। एवं कर्माणि विध्युक्तरीत्या हरिप्रीत्यर्थं कर्तव्यानीत्यज्ञान्प्रति वेदो नियामयतीत्यर्थः। किमर्थमित्यतोऽहसामित्युक्तं। मनोदोषाणामित्यर्थः। एवमनुष्ठितकर्मणा हि मनोदोषनिष्टात्तः। कर्मणा शुद्धसत्त्वस्येत्युक्तेः। एतत् लोकद्वयतात्पर्यं स्वतः सर्वेत्यादिना प्रागेव भगवत्पादैरभिहितमिति द्रष्टव्यं॥२७॥ ननु मनोदोषाणां रागादीनां त्यागः कथं भवतीत्यतस्तत्प्रकारमाह। जातेत्यादिना। मत्कथासु जातश्रद्धः कामान्विषयान्दुःखात्मकान्दुःखापादकान्यद्यपि वेद तथाऽप्यनीश्वरोऽसमर्थः। यदेति शेषः॥२८॥ ततस्तदा जुषमाणः सेवमानः। जुषां प्रीतिसेवनयोः। जोषणसमयेगर्हयन्॥२९॥ मा मामसकृद्वारंवारं भजतो मुनेर्हृद्यंतः करणे। कदेत्यत उक्तं॥ मयि हृदि स्थिते सतीति। ध्यानविषये सतीत्यर्थः॥ प्रायो ध्यानसपत्त्यनंतरं नश्यतीत्यर्थः॥३०॥ समूलनाशः कदेत्यतोऽपरोक्षज्ञानोत्तरमित्याह॥

भिद्यत इति। अत्र हृदयस्य ग्रथिरित्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे॥ हृदयेति। अंतःकरण प्राकृतं भिद्यते विदीर्यते। भिद्लृ विदारणे। कर्माण्यारब्धान्यनभीष्टानि च। अखिलस्यात्मन्यंतर्यामिणि॥३१॥ उपसंहरति॥ तस्मादिति। मय्यात्मा मनो यस्य स मदात्मा तस्य। अत्र न ज्ञानादित्यादिना ज्ञानादेः श्रेयःशब्दोक्तमोक्षसाधनत्वाभावप्रतीतेर्योजयति॥ मद्भक्तीति। यावत्या भक्तेर्यावत्ज्ञानं वैराग्य वा योग्यं तावत्संपाद्याल्पज्ञानाद्वैराग्याच्च स्वयोग्याच्छ्रेयो न भवतीत्याशयः॥ भक्त्यनुसारीति। यावत्या भक्तेर्यावद्योगं तावदित्यर्थः। ज्ञानं च वैराग्यं च ज्ञानवैराग्ये। अन्यस्माद्भक्त्यननुसारिणः॥३२॥ भक्तियोग स्तौति॥ यत्कर्माभिरिति। योगेन प्राणायामादिलक्षणेन ध्यानेन वा यत्फलं तत्सर्वं फलं स्वर्गसहितमपवर्गंमद्धाम मत्सन्निधानस्थल यदि वांच्छति तर्हि मद्भक्तियोगेन तदपि लभंत इत्यन्वयः। अत्र स्वर्गवांछायां भक्तियोगेन तदपि लभंत इत्युक्तेभक्तियोगवंतो देवा एव तेषां स्वर्गादिरागवत्त्वे वैराग्याभावेन मोक्षप्रतिबंधः स्यादित्यत आह॥ रागिणोऽपीति। स्वर्गादिस्वस्वपदादिकामनावंतोऽपीत्यर्थः। वैराग्यशून्या अपीति यावत्। यथोक्तं। देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः। विष्णोश्चलति तद्भोगो ह्यतीव हरितोषणमिति। एवं तर्हि देववद्रागिणामपि सनकादीनां ज्ञानयोगिनामस्तु मुक्तिस्तथा च रागोऽभ्यधिकस्तेषां सदैव सनकादीनामित्युक्तमयुक्तमित्यत आह॥ रागेति। विपयरागेत्यर्थः। वैराग्यार्थमिति यावत्। ज्ञानमाब्रह्मस्तंवपर्यतमसारं चाप्यनित्यकमिति सारासारविवेकज्ञानमित्यर्थः। एवं तर्हि विषयेषु दोषस्मरणमपि सनकादिभिरेव वैराग्यार्थं कर्तव्यं न तु देवैरिति तत्राह॥ स्मर्तव्या इति॥ न त्विति। स्वर्गादिविषयेष्वनित्यत्वादिदोपस्मरणेन तत्त्यागो यतिवन्न कार्य इत्यर्थः। न त्वित्युक्तस्यापवादमाह॥ हरिरिति। इतरे सर्वेऽपि विषया असारा एको हरिरेव सारोऽतः स एव पूज्य इत्येवमर्थमेव देवतैरपि दोषाविषयेषु स्मर्तव्या न तु परित्यागायेति। इदं प्रमाण स्ववाक्येन व्याचष्टे॥ वैराग्यार्थमिति। अपि शब्दाद्धरिः सारतया पूज्य इत्येवमर्थं चेति लभ्यते। अनेन स्मर्तव्या इति प्रमाणे वैराग्यार्थमपीति शेषः पूरित इत्यवगंतव्यं। द्वितीयार्थतात्पर्यमाह॥ देवानां तदपीति। अपि शब्दस्तु शब्दार्थे। देवानां तु तद्विषयदोषादिज्ञान। सारता श्रेष्ठता। एव शब्दान्न वैराग्यार्थमिति सूचयति। रागित्वेपि तेषां मोक्षप्रतिबंधाभावस्य देवादीनामादिराज्ञामिति मानसिद्धत्वादित्याशयः॥३३॥३४॥ भक्तियोगार्थे एकांतभक्तस्थिति

कथयति॥ न किंचिदिति। मम भक्ता दत्तं दीयमानमपुनर्भवं पुनर्भवशून्यं कैवल्यं मोक्षं न वांच्छंति चेत्किं प्राहुरित्यत आह॥ नैरपेक्ष्यमिति। कुत्रापि स्वर्गेऽपवर्गे वा यन्निरपेक्षं तदेव परं मुख्यमकल्मपं निष्पापं निःश्रेयसं प्राहुः। निरपेक्षत्वमेव निःश्रेयसः स्थानीयं तेषामित्याशयः। उपसंहरति॥ तस्मादिति। निराशिषो विषयकामनाशून्यस्य सकाशात्। नैरपेक्षस्य विरोधं परिहरति। विरागेऽपीति। नैरपेक्ष्यरूपगुणयुक्तस्य भक्तस्य भक्तिरेवानंदरूपिणी फलरूपा भवेदित्यर्थः॥३५॥३६॥ गुणदोषोद्भवा गुणा वेदविहितकरणरूपगुणतनिषिद्धकरणरूपदोषजन्या गुणदोषाश्चेति ग्राह्यं। शुभाशुभफलानीति यावत्। न संतीत्यर्थः। विधिचकिताः संतो नाचरतीत्यत्र तात्पर्यंबुद्धेः प्रकृतेः परमुत्तमं हरिमुपेयुषां प्राप्तुकामानामित्यर्थः॥३७॥ अत्रैकांतिनो यदि स्वर्गादि वांछंति तर्हि लभंत इति वांछामुक्त्वा न किंचिद्वांछंतीति तदभावश्च कथ्यते। अतो विरोधं परिहरति। रागिणोऽपीति। स्वर्गापवर्गादिवांच्छावत्त्वेनोक्ता अपि ते न भक्तियोगिन एकांतिनः किमपि स्वर्गादि नापेक्षंत इति विरोधपरिहाराय भक्तिफलत्वेनेत्युक्तं। अस्मत्कृतभक्तेरिदं फलं हरिणा दीयत इति बुद्ध्या तन्न स्वीकुर्वंति। अस्मदनुष्ठितभक्त्यादिसाधनजातस्य भगवद्भक्तिरेवोद्देश्याद्दीयमानमपवर्गादिकं तु भगवदाज्ञारूपत्वेनैव तूष्णीं स्वीकुर्वंति। तदाज्ञाकरणस्यापि तत्प्रीतिसाधनत्वात्। न तु भक्तिफलत्वेन सर्वमन्यत्तदर्थकमित्युक्तेरित्याशयः। अत्र प्रमाणं चाह॥ यदीति। न गृहीयुः। किं तु भगवदाज्ञारूपतया तत्प्रीतिसाधनत्वेनैव गृह्णीयुरित्यर्थः। तेषां विषयभोगोऽप्येवमेवेत्याह। कामिनोऽपीति। स्वस्वपदकामनावंतोऽपीत्यर्थः। विरागेऽपि विशेषेण रागे सत्यपि कामान्स्वर्गादिविषयान्॥ फलेति। अस्मदनुष्ठितभक्त्यादेरिदं फलं स्वर्गादिकमिति स्वकृतभक्त्यादिसाधनफलं न भुंजते। किं तु भगवत्प्रीतिकरत्वेनैवेत्याशयः॥ विराग इति। सत्यपि कामे सत्यपि विषयभोगे आसक्त्यभावादित्यर्थः। एतादृशा एकांतिनः। पूर्वं ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योस्ति कुत्रचिदित्युक्तं। तत्रोद्देशक्रमानुसारेण भक्तियोगस्य नीचत्वं प्रतीयते। तस्यैव च सर्वोत्तमत्वं प्रतिपादितमतो विरोध इत्याशंक्योद्देश्यक्रमानुसारेण तारतम्यमत्र विवक्षितमित्याशयेन तत्त्रयाणां तारतम्यज्ञापकप्रमाणमाह॥ उत्तम इति। तेषां भक्तियोगिनां यन्नियतं मोक्षसाधनं तया क्लृप्तमधिकं यत्ज्ञानं तद्भगवद्भक्त्योदेति प्रकटं भवति। भक्तिप्राकट्यानुसारेण ज्ञानमपि प्रकट भवतीत्याशयः। तद्वद्भक्तियोगवत्। नाज्ञानं भक्त्यादिनोदेतीत्यर्थः।

ननु भक्तियोगिनां कुत उदेति ज्ञानयोगिनः। कुतो न। तेषामपि भक्तेः सत्वादित्यत आह॥ भक्तीति। भक्तेरश एवांशकं। ततोऽपि किमित्यत आह॥ ज्ञानेति। सा भक्तिर्माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः। स्नेहो भक्तिरिति प्रोक्त इत्युक्तेः। एवं च यदा देवानां भक्त्याधिक्यं सिद्धं तदा ज्ञानाधिक्यं प्राप्तमेव। न हि तथा भक्त्याधिक्यं ज्ञानयोगिनामस्ति। येन ज्ञानाधिक्यमपि भवेदित्याशयः। ननु यदि ज्ञानाधिक्यं कथ तर्हि ते ज्ञानयोगिन इत्यत आह॥ तथाऽपीति। यद्यपि न देवापेक्षया। ज्ञानमधिकमिति शेषः। तत एवं भक्तियोगस्येतरयोगद्वयापेक्षयोत्तमत्वादित्यर्थः॥३५-३७॥ भगवान्योगत्रयफलकथनेनोपसंहरति॥ एवमिति। आदिष्टानुपदिष्टान्पथो मोक्षमार्गान् ये। त इति शेषः। येऽनुतिष्ठंति यत्परमं ब्रह्म ज्ञानिनो विदुस्तस्य मन्मम क्षेमं क्षेमकरं मत्स्थानं वैकुंठादि तद्विंदंति प्राप्नुवंतीत्यर्थः॥३८॥ इति श्रीभागवतटिप्पण्यां विंशोऽध्यायः॥११–२०॥

॥हरिः ॐ॥ अत्र कर्मयोगिनां देशादिशुद्धिकथनपूर्वकं कर्मकरणप्रकार निरूपयति। तत्र पूर्वाध्यायांते एवमेतानिति मोक्षमार्गानुष्ठानफलमुक्तं तदनुष्ठाने फलं तावदाह॥ य एतानिति। मत्पथो मत्प्राप्तिमार्गान्। भक्तिज्ञानक्रियात्मकान्। भक्तियोगज्ञानयोगकर्मयोगाख्यान्। चलैर्नश्वरैः प्राणैरिंद्रियैर्जुषंतः सेवंतः॥१॥ कर्मकरणे द्रव्यादिशुद्ध्यशुद्ध्ययोरपेक्षितत्वेन तत्स्वरूप ज्ञेयमित्यतो यथा भगवत्प्रीतिकर एवं गुणस्तदप्रीतिकर एव दोष इति गुणदोषस्वरूपं भगवत्प्रीत्यप्रीतिवधनमेव भगवत्संनिधानविशेषयुक्तमेव शुद्धं वस्त्वितरदशुद्धमिति वक्तुं पूर्वोक्तगुणदोषस्वरूपं स्मारयति॥ स्वेस्व इति। अधिकारे हरिप्रीतिकरे। व्याख्यातं चैतत्। हरिप्रीतिकरो गुणस्तदप्रीतिकरो दोष इति फलितोऽर्थः॥२॥ यदर्थ गुणदोषस्वरूपोक्तिस्तदाह। शुद्धीति। अत्र विचिकित्सार्थं धर्मार्थमित्यनयोस्तात्पर्यमाह॥ विवेकेनेति। गुणदोषावित्यस्यान्वयं दर्शयति। गुणेति। ननु समानेष्विति कथं। वस्तुतारतम्यस्य प्रमाणसिद्धत्वादित्यत आह॥ पचेति। ननु समानत्वे कथ शुद्ध्यशुद्धीत्यत आह॥ हरिसन्निधाति। विशेषः शुद्ध्यादिरूपः। सर्ववस्तुष्विति वर्तते। तथा च पंचभूतात्मकत्वेन समानेष्वपि वस्तुषु मध्ये द्रव्यस्य शुद्ध्यशुद्धी हरिसन्निधानविशेषतदभावाभ्या विधीयते। यथा गुणदोषौ भगवत्प्रीत्यप्रीतिकरौज्ञातव्यौ। इदं कथं ज्ञेयमित्यतो विधीयेत इत्युक्तं। वेदविहितं एवं प्रीति-

करत्वेन गुण इतरो दोष इत्यज्ञैर्ज्ञातव्यमिति भावः। एवं च शुद्ध्यशुद्धी तथा शुभाशुभे ग्रामगमनसमये पूर्णकुंभाद्यागमनं शुभं। एकब्राह्मणागमनमशुभमिति शुभाशुभे च विधीयेते। तदानीं हरिसन्निधानतदभावाभ्यां किमर्थं विधीयेत इत्यत उक्तं। विचिकित्सार्थमिति। सनंत शब्दस्य विचारेऽपि जिज्ञासितं सुसंपन्नमित्यादौ प्रयोगदर्शनाद्विवेकार्थमिदं शुद्धमिदमशुद्धमित्ययं गुणोऽयं दोष इतीदं शुभमिदमशुभमिति विचारार्थमित्यर्थः॥३॥ विवेकज्ञानेनानापि किमित्यत उक्तं। धर्मार्थमिति। विवेकेन पुण्याधिक्यं भवतीति तदर्थमित्यर्थः। इदं शुद्धमिदमशुद्धमित्यादिव्यवहारार्थं। तत्ज्ञानाभावे तत्साध्यव्यवहारायोगात्। यात्रार्थं देहयात्रार्थं। शुद्धगुणाः शुभान्येव सेव्यानि नाशुद्धा दोषा अशुभानीत्येवमर्थमित्यर्थः। यात्रार्थं प्राणयात्रार्थं शुभाशुभौ विधीयेते इत्यर्थ इत्यप्याहुः। न केवलमेव वेदविहित किं नामेत्यत आह॥ दर्शितोऽयमिति। धर्म्यं धर्मसाधनं। धुरं भारमुद्वहतां। धर्मप्रवर्तकेन मयेति यावत्। आचारो धर्मशास्त्राख्योऽपि दर्शितः। तथा चैवं स्मृत्याऽपि विहितमस्तीत्याशयः॥४॥ द्रव्यस्य शुद्ध्यशुद्धीत्युक्तं विशदयति॥ भूमीत्यादिना। तत्र पूर्वश्लोकेब्रह्मादीनां शरीरप्रकृतत्वात्। धातुशुद्ध्येत्यस्य शरीरधातुशुद्ध्येत्यर्थ इत्यन्यथाप्रतीतिपरिहाराय धातु शब्दार्थमाह॥ धातुरिति। धारकत्वादिति भावः। य उ त्रिधात्विति श्रुतेः। ननु तर्हि तस्य शुद्धिर्नामकेति चेत्। शुचिमत्वमेवेति ब्रूमः। परमेश्वरस्य शुचितमत्वज्ञापनार्थमित्यर्थः। ननु कथमनेन शुचितमत्वं हरेर्ज्ञापितमित्यत आह॥ यद्यदिति। हरेरिति कर्तरि षष्ठी। हरिणेत्यर्थः। तत्तच्छुद्धमिति ग्राह्यं। यच्च हरिणा विशेषतः सन्निहितं तच्छुद्धतरमिति योज्यं। यथेतरद्धरिणा सन्निहितत्वाच्छुद्धमित्युच्यते। एवं हरिरप्यनेन सन्निहितत्वाच्छुचितमो नेत्याशयेन स्वत इत्युक्तं। ननु हरिसन्निधानेनेतरच्छुद्धं स्वतः शुद्धो हरिरेवेति चेत्तर्ह्यग्न्यादिः स्वतो हरिसन्निधानेन विना शुद्ध इत्यादि न स्यादित्याशंकां प्रमाणशेषेण परिहरति॥ सानिध्य चेति। तथा चाग्न्यादौ स्वाभाविकं सानिध्यमेवास्तीति युक्तं शुद्धत्वादीत्यर्थः। उत्तरत्रैतद्विवृतं भविष्यति। एतेषां भूम्यादीनामित्यन्यथाप्रतीतिनिरासायार्थमाह। एतेषामिति। तथा चाब्रह्मस्थावरादीनां भूतानां प्राणिनां शरीराः॥८१॥ शरीरस्था भूम्यादयः पंचधातवः पंचभूतानि यद्यप्यात्मना हरिणा संयुताः सन्निहिताः सर्वेऽपि भवति। भगवतः सर्वत्र व्याप्तत्वात्। तथाऽपि समेषु तेषु भेदेन नामरूपाणि। कदलीफलादिकं शुद्धं। वृंताकादिकमशुद्धमिति नामभेदः। वर्तुलत्वादिरूपभेदः।

एवं भेदेन नामरूपाणि हरिसन्निधिवैशेष्येण शुद्धशुद्धतरत्वादितरतमभावोपेतानि विकल्पंते ज्ञायंते। कुत इत्यत उक्तं॥ धात्विति। धातुः परमेश्वरस्य शुद्ध्यै शुचितमत्वज्ञापनाय। इतरद्धरिसन्निधानेन शुद्धं शुद्धतरं च। परमेश्वरस्तु स्वतः शुद्ध इति ज्ञापनार्थमित्यर्थः। तेनापि किमित्यत उक्तं। एतेषामिति। जीवानां तत्ज्ञानेन स्वार्थस्य मोक्षादेः सिद्धये प्राप्त इत्यर्थः॥५॥६॥ तत्र देशादिशुद्धिः कथं ज्ञेयेत्यत आह॥ देशेति। भावानां पदार्थानां श्रुतिस्मृतिरूपान्मम वचनाद्गुणदोषावेतादृशो देशादिर्भगवत्प्रीतिकर एतादृशो नेति गुणदोषौ कर्मणां नियमार्थमेतादृशे देशे एतादृशे काले कर्म कर्तव्यमिति नियमनं कर्तुं विधीयेत इत्यर्थः॥७॥ कीदृशा देशाः शुचिकरा इत्यत आह॥ कृष्णसार इति। ब्राह्मणानां कर्मकरणार्थं कृष्णसारमृगो देशानां शुचिकरो भवेदित्यर्थः। कृष्णसारोऽयं देशमधिवसति स देशः शुचिरिति भावः। अस्यापवादमाह॥ कृष्णसार इति। मतुपो लोपेन। अर्श आद्यजंतत्वेन वा। कृष्णसारः कृष्णसारमृगवान्देश इति व्याख्येयं। सौवीरकीकटासंस्कृतेरिणः। अत्र कीकटासंस्कृतशब्दार्थं प्रमाणेनाह॥ नदीत्यादिना। आश्रमा ऋषीणां। कर्मण्याः कर्मकर्तुं योग्याः। तदन्येऽपि कीकटान्येऽपि॥ स्वत इति। न तु बलादानीय तत्र स्थापित इत्याशयः। खलैरित्युक्त्या खलाध्युषितो देशोऽसंस्कृत इत्युच्यत इत्युक्तं भवति। तथा च सौवीरकीकटा संस्कृतेरिणा भिन्नः कृष्णसारवान्देशः कर्मण्य इत्यर्थः। ईरिणो लवणोत्पत्तिस्थानमुपद्वीपादि। सान्निध्यं च स्वभावत इति प्रमाणशेषोक्तं सिंहावलोकनन्यायेन प्रमाणांतरेण विवृणोति॥ आतर इति। क्रमेणोदाहरणमाह॥ प्रतिमेति। प्रतिमागतः सन्निधिः कृत्रिमः। सर्वजीवांतर्गतः सन्निधिः स्वाभाविक इत्यर्थः। कीदृशः कालः कर्मण्य इत्यत आह॥ काल इति। द्रव्यतः पुष्पफलादिद्रव्यतो गुणवान्समृद्धिमान्वसंतादिकालः स्वतोगुणवान्। संध्यावंदनादिकाल इति द्विविधः कालः कर्मण्य इत्यर्थः। कः कालोऽकर्मण्य इत्यत आह॥ यत इति। यस्मिन्काले च यतो दोपात्कर्म निवर्तते निशीथत्वादिदोषात्कर्म न क्रियत इत्यर्थः। सदोषस्तादृशदोषयुक्तः कालोऽकर्मकोऽकर्मण्य इत्यर्थः॥८॥९॥ द्रव्यस्य शुद्ध्यशुद्धिप्रकारोऽपि बहुधेत्याह॥ द्रव्यस्येति। ताम्रादिद्रव्यस्याम्लादिद्रव्येण शुद्धिर्भांडादिद्रव्यस्यामेध्यादिद्रव्यसंबंधेनाशुद्धिः। महतां वचनेन शुद्ध्यशुद्धी। यथाऽलांबुनो यतिपात्रत्वं। भक्ष्यत्वं च प्रक्षालनादिसंस्कारेण शुद्धिः। असंस्कारेणाशुद्धिः। कालेन म्लेछोपितगृहस्य म्लेछापगमा-

नंतरं बहुना कालेन शुद्धिः। न तु तदपगमानंतरमेव। अन्नादेर्यामादिकालांतरितत्वेऽशुद्धिः। अन्नादेर्महत्वे शुनकादिस्पर्शे स्पृष्टांशस्य त्यागेन शिष्टस्य शुद्धिः। अन्नस्याल्पत्वे शुनकस्पर्शेऽशुद्धिः॥१०॥ शक्तस्य तीर्थयात्रादिना शुद्धिः। क्षयरोगादिनाऽशक्तस्याशुद्धिः। हरिकथाश्रवणादौ यदि बुद्धिस्तर्हि तया शुद्धिः। सुरापानादिबुद्ध्याऽशुद्धिः। समृध्या सपदा। आत्मनः शुद्ध्यशुद्धी। सत्यां संपदि सत्पात्रदाने शुद्धिरसत्पात्रदानेऽशुद्धिः। अन्ये मांसाः सोमाश्च विंध्यादुत्तरदेशे मांसाः शुद्धाः। दक्षिणदेशेऽशुद्धाः। आर्यावर्ते स्वसुः पुत्रस्य कन्यादाने तस्याः कन्याया अशुद्धिः। दक्षिणदेशे शुद्धिः। यौवनावस्थायामशुचिस्पर्शेऽशुद्धिर्बाल्ये तु शुद्धिः। यज्ञकरणावस्थायां सोमः शुद्धो नान्यदेत्यर्थः॥११॥ रसो घृतादिः। तैजसं कांस्यादि। पार्थिवानां पृथिवीविकाराणां धान्यादीनां युतायुतैः कालादिभिः शुद्धिः। धान्यानामयुतेन केवलैकेन कालेन शुद्धिः। दारुपात्राणामस्थ्नां शंखादीनां च युताभ्यां मृत्तोयाभ्यां शुद्धिः। ततूनामयुतेनैकेन तोयेन। आज्यादिरसानां तैजसां कांस्यादीनां चायुतेनाग्निना। चर्मणां युताभ्यां मृत्तोयाभ्यामिति विवेकः॥१२॥ अमेध्यलिप्तवस्तुनः शुद्धिमकारमाह॥ अमेध्येति। यद्वस्तु येन यावता शौच्येन प्रकृतिं शुद्धस्वभावं तत्तस्य शौचं शुद्धिकरं॥१३॥ कर्मांगशुद्धिप्रकारमाह॥ स्नानेत्यादिना। अवस्था कौमाररूपा। कौमार आचरेत्प्राज्ञ इत्युक्तेः। वीर्यं शक्तिः संस्कार ऊर्ध्वपुंड्रादिसंस्कारः। कर्म संध्यावंदनादि। एतैस्तथा मम स्मृत्या चात्मनो मनसः शौचं शुद्धिं संपाद्य शुद्धः सन् कर्म यज्ञव्याख्यानाद्यभीष्ठ कर्म आरभेदित्यर्थः॥१४॥ कर्मणः कथं शुद्धिरित्यत आह॥ मंत्रस्येति। कर्मागमंत्रस्य ऋष्याद्युपेतत्वपरिज्ञानं संपाद्य मय्यर्पणं च कर्तव्यं। तथात्वे कर्मणः शुद्धिरित्यर्थः। एवं मदर्पणादिकरणे सद्भिर्धर्मः संपाद्यते। विपर्ययैरसद्भिर्मदर्पणाद्यकरणेऽधर्म एव संपाद्यत इत्यर्थः॥१५॥ हरिप्रीतेरेव प्रधानत्वाद्भगवदर्पणादेश्च तत्साधनत्वादवश्यं कर्तव्यतेत्याशयेन तस्याः प्राधान्यमुपपादयति॥ क्वचिदिति। गुणोऽपि वेदविहितोऽपि भगवदप्रीतिसाधनत्वे दोषः स्यात्। यथा सत्यवचनादिविधिना ब्राह्मणो न हंतव्य इति निषेधविधायकवाक्येन दोषतया प्रतीयमानो ब्राह्मणहननादिभगवत्प्रीतिसाधनत्वे गुण एव यथा वृत्रहत्या। गुणदोषाभ्यामर्थस्य स्वर्गनरकादिफलस्य नियमो यः स तद्विदां तौ गुणदोषौ विदंति जानंतीति तद्विदस्तेषामेव बाधते क्लेशकारी भवति। गुणदोषौ तत्फलं च ज्ञात्वाऽपि ये नानुतिष्ठति तानेव बाधत इत्याशयः।

अत्र तद्विदामेवेत्यवधारणेन मूर्खाणां गुणदोषाज्ञाने बाधो नास्तीति प्रतीयतेऽतो व्यावर्त्यं दर्शयति॥ तद्विदामेवेति। ननु कुत एवं। ये मूर्खा गुणदोषाज्ञानिनस्तेषामदोष इति कस्मान्न स्यादित्यतो ज्ञान्यपेक्षया प्रत्युत गुणदोषाज्ञानिन एव महाननर्थ इति स्मृत्या दर्शयति। वर्षादिति। कर्मजाद्ब्रह्महत्याद्यशुभकरणेन यावान्दोषस्तस्माद्दोषाद्ब्रह्महत्यादिकं निषिद्धमित्यज्ञानजो दोषो महानित्यर्थः। न तिर्यगादीनामिति तेषामदोष इत्युक्त तत्कुत इत्यत आह॥ तिरश्चामिति। तिर्यगादीनामिंद्रियाणां कर्मकरणेऽशक्तेरपटुत्वात् सत्यपींद्रियपाटवे गुणदोषाद्यज्ञाने दोष इत्युच्यते। अस्तीदं मनुष्याणां न तिरश्चामित्यर्थः। स्यात्तिरश्चामिति वर्तते इति च प्रमाणमस्ति यतोऽत इत्यर्थः॥१६॥ बाधाभावप्रकारं वक्ति॥ समानेति। तदनूद्य व्याचष्टे॥ समानेति। तथा चापतितानामिति पदच्छेदः। अपतितानां समीचीनानां ब्राह्मणादीनां समानकर्माचरणे स्वविहितकर्माचरणे पातक पापं नास्तीत्यर्थः। पतितानामित्यपि पदच्छेदमभ्युपेत्य योजनांतरमाह॥ पूर्वमिति। पूर्वमपतित इत्युक्त्या पूर्वयोजनां सूचयति। येन सुरापानादिना दोषेण प्रायश्चित्तत्वेन। प्रायः पापं विजानीयाच्चित्तं तस्य विशोधकमिति वचनात्। तत्पापपरिहारार्थत्वेनेत्यर्थः। तत्समानेति। सुरापानसमानेत्यर्थः। किं तत्समानं प्रायश्चित्तरूपं कर्मेत्यत आह॥ तप्तेति। सीसमयीं तप्तां सुरां कृत्वा तत्पानेन देहत्यागे सुरापानप्रायश्चित्तं। ज्वलितायोमयस्त्र्यालिंगने परस्त्रीगमनप्रायश्चित्तमित्यादि। तथा च पतितानां सुरापानादिकर्मणा पतितानां तत्प्रायश्चित्तत्वेन तत्समानकर्माचरणे तप्तसुरापानेन पातक सुरापानजन्यपातकं न भवतीत्यर्थः। न शयानः पतत्यध इत्यं तदन्यथाप्रतीतिपरिहारायापोक्षिताध्याहारेण व्याचष्टे॥ तथेति। न पतत्यधोब्राह्मणादीनां पातकैः पातित्यजनकैः। कुत इत्यत उक्तं॥ गुणैःसग औत्पत्तिक इति। तत्तात्पर्यमाह॥ औत्पत्तिक इति। तस्य शयानस्य तादृशगुणसंगोलशुनभक्षणादिविषयसंग औत्पत्तिकः स्वाभाविकस्तज्जातिस्वभाव एवेत्यर्थः। तर्हि शयानः कथं पततीत्यत आह। अत इति। स्वयोग्ये त्रिवर्णशुश्रपादिरवयोग्यकर्म भिन्ने कर्मण्याचरिते सति अधः पततीत्यर्थः। शयान शब्दवाच्यत्वं शूद्रस्योपपादयन्नुक्तार्थे प्रमाणमाह॥ त्रैवर्णिका इति। संचरतः। इत्युच्यंत इति शेषः। वेदकर्मण्यप्रवर्तनात्। शयनकर्तृनिष्ठप्रवृत्त्यभावरूपगुणयोगेन शूद्रेशयान शब्दोगौण इत्याशयः। अभक्ष्यजो दोषो ब्राह्मणादिभिर्यद्भक्ष्यं लशुनादि तद्भक्षणजोदोष इत्यर्थः। शुश्रपायामिति हेतुगर्भविशेषणं। अभक्ष्यभक्षणं

कृत्वाऽपि त्रैवर्णिकशुश्रूषा कर्तव्याऽन्यथा सा न सिद्ध्येदित्याशयः। नन्वेकस्य लशुनादेर्ब्राह्मणादीनां पातित्यहेतुत्वं शयानानां तदहेतुत्वं चेति द्वयं विरुद्धमित्यत एकस्योभयस्वभावत्त्वमविरुद्धमित्यत्र दृष्टांतमाह॥ यथेति। शुक्रं सीसंसुवर्णस्यमलं दोषकारि। सीससंबधे सुवर्णंनश्यति। ताम्रस्य न मल। तस्य तत्संबधे वर्णाधिक्यमेव भवतीत्येवमेकस्य शुक्रस्योभयरूपत्वमविरुद्धमित्यर्थः। तद्वत्प्रकृतेऽयमप्यविरोध इत्याह॥ एवमिति। विप्रादीनां दोषैर्दोषकरैर्लशुनादिभिर्दोषितां दोषवत्तां। एकस्य लशुनस्याप्युभयरूपत्वमविरुद्धमिति भावः। स्वधर्मप्रतिकूलाचरणस्य शूद्रं प्रति दोषत्वे त्रैवर्णिकसाम्यापत्तिरित्यतः सत्यमिति तत्र दृष्टांतमाह॥ मलमिति। अमेध्यभक्षण ब्राह्मणपातित्यहेतुभूतमिति शूद्रेण तद्भक्ष्यमिति न किंतु यन्मलमशुद्धादि तद्ब्राह्मणस्य। तस्यापि शूद्रस्यापीत्युभयोरपि मलं पातित्यहेतुत्वे वेति यथा साम्यमित्यर्थः। स्वधर्मः शुश्रूषण। ननु लशुनादिभक्षणेऽपि दोषो नास्तीत्युक्तं तत्र सच्छूद्रस्यापि लशुनभक्षणेऽपि दोषो नास्तीति प्राप्तमत आह॥ शूद्रस्यापीति। न शयानः पतत्यध इत्येतद्धरिदीक्षारहितशूद्रविषयमिति भावेन प्रमाणमाह॥ शूद्रस्यापीति। कुत इत्यत उक्तं॥ स हीति। सच्छूद्र इत्यर्थः॥१७॥ उत्तरश्लोकस्यासंगतिपरिहारायावतारयति॥ सर्वतोऽपीति। पूर्वमपतितानां स्वयोग्यकर्माचरणे पातकाभावः पतितानां प्रायश्चित्तत्त्वेन तत्समानकर्माचरणे पातकाभाव उक्तः। इदानीं किं बहुना सर्वत्राप्यभिमानं त्यक्त्वा सर्वस्यापि भगवदर्पणं क्रियमाणे समस्तपापविनिर्मुक्तिर्मोक्षश्च भवतीत्याहेत्यर्थः। तथा च यतो यतो यत्र कर्मण्यह कर्तेति कर्तृत्वाभिमानान्निवर्तेत। स्वस्य कर्तृत्वाभिमानं परित्यज्य हर्यर्पणबुद्ध्या कर्म कुर्यादिति यावत्। तर्हि ततस्ततो हर्यर्पणबुद्ध्या कर्म कुर्यादिति यावत्। तर्हि ततस्ततो हर्यर्पणबुद्ध्या कृतात्कर्मणः सकाशाद्विमुच्येत मुक्तिं प्राप्नुयात्। तदेवाह॥ एष इति। निवृत्तधर्म इत्यर्थः। अत्र गीतासंमतिं चाह॥ मयि सर्वाणीति। आदि पदेन मुच्यंते तेऽपि कर्मभिरित्यंतं वाक्यं ग्राह्य। तथा च सर्वतोऽपीत्याद्यर्थे इदं मानमिति बोध्यं। नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलामिति तात्पर्योदाहृतप्रमाणादेतदर्थो मंतव्यः॥१८॥ अधिकारिणा स्वर्गादिविषयेष्वपीच्छा न कार्येत्याशयेन प्रवृत्तं विषयेष्वित्यादिश्लोकचतुष्टयं प्रमाणेनान्यथाप्रतीत्यादिपरिहाराय व्याचष्टे॥ दोषिण इत्यादिना। दोषिणो विषया इति सामानाधिकरण्यं। दोषिणः पुरुषस्येति वा। तेषु

विषयेषु गुणध्यानाद्गुणवत्त्वध्यानात्। नित्यमिति मूले शेष उक्तो भवति। तथा च विषयेषु दोषवत्सु असतां संगतेर्नित्यगुणवत्त्वेन ध्यानात्। सुदुर्लभा इति कुत इत्यतो नित्यं तेऽसंतो विषयं शुभमित्येवाहुः। तत्तद्गतदोषान् अतो श्रोतुं सुदुर्लभा इति भावः। पुंसः संगः प्रीतिर्विषयेषु भवेदित्यर्थ उक्तो भवति। संगात्तत्र भवेत्काम इत्येतद्व्याचष्टे॥ अत इति। संगादित्यर्थः। तत्र विषयेषु। कामादेव। कलिर्नृणामित्यस्यार्थमाह॥ कामिनामिति। अधर्मेत्यादि मूले शेषपूरणं। कलेदुर्विषहः क्रोध इत्यस्यार्थमाह॥ कलिनेति। तमस्तदनुवर्तत इत्यस्यार्थः॥ तत इति। तमसेत्यादेरर्थमाह॥ अध इति। व्यापिनीत्यस्यार्थः॥ इंद्रियेति। चेतना शब्दार्थः॥ सुखेति। तथा च तमसांऽधंतमसा व्यापिनींद्रियेषु व्याप्ता सती। स्थिता या चेतना सुखानुभवशक्तिः सा द्रुतं शीघ्रं ग्रस्यते विनश्यतीत्यर्थ उक्तो भवति। तया चेत्यादेरर्थमाह। तदेति। सुखानुभवशक्तिनाशे सतीत्यर्थः। शमिति मकारांतमव्ययं। शस्य ऊनं शूनं तस्य भावः शून्यं। तथा च तया चेतनया रहितः पुमान् शून्याय सुखराहित्याय कल्पते सुखरहितो भवतीत्यर्थः। किंचिद्वा सुखं तस्य भवति किमित्यपेक्षायामुक्तं॥ ततोऽस्य स्वार्थविभ्रंश इति। तदर्थमाह॥ सर्वात्मनेति। तथा च ततः शून्यत्वानंतरमस्या मूर्छितस्य जाग्रदवस्थायुक्तस्य मृतस्य। मृत्यनंतरमेवेति यावत्। स्वार्थस्य सुखस्य विशेषेण सर्वात्मना भ्रंशो नाशो भवतीत्यर्थ उक्तो भवति। स्वार्थविभ्रंश इत्यस्यार्थांतरमाह॥ दुःखविवर्धन इति। अनेनायमर्थः कथं लब्धस्त प्रकारमाचार्यो दर्शयिष्यति। तमोगतस्यावस्थानप्रकारं वक्तुं प्रवृत्तं विषयाभिनिवेशेनेत्यादि तद्व्याचष्टे॥ दुःखाख्येति। कदाचन कदाऽपि यथावन्न वेत्तीति संबंधः। वृक्षजीविकया जीवन्नित्यस्यार्थः॥ वृक्षवदिति। वृक्ष छेदन इति धातोः। यथा वृक्षः छिद्यते एवं यमकिंकरैरयं छियत इति भावः। व्यर्थं जीवन्नित्यस्यार्थः॥ निष्प्रयोजनजीवनं इति। ग्रस्तवया इत्यस्यार्थः॥ नित्येति। मूले शेषः पूरितोऽनेनेति ज्ञेयं। तथा च नित्यदुःखेन ग्रस्तवया इत्यर्थः। श्वसन्नित्यस्यार्थः॥ दृतिवत्प्र

न्नसतीति। दृतिर्भस्रा दुःखविवर्धन इति व्याख्यानमक्षरैर्दर्शयति॥ स्वार्थस्येति। विभ्रंश इत्यत्रत्यस्य भ्रंश शब्दस्य बुद्ध्या विवेकेन स्वार्थशब्देन संबधः। ततो वीत्यस्य संबंधः। भ्रंशः सर्वात्मना नाशः। वीत्यस्यार्थः॥ विपरीतमिति। दुःखमित्यर्थः। अतिशयेनेति वीत्यस्यार्थांतरं। एतत् श्लोकचतुष्टयसाध्यमाह। तम्मादिति। यतो विषयध्यानस्यैवमनर्थहेतुत्वं तस्मादित्यर्थः। नेच्छत

इच्छां न कुर्यात्। विषयेष्वित्येव वक्तव्ये स्वर्गादीति विशिष्यग्रहणमुत्तरग्रंथोपक्षेपाय कृतमिति मंतव्यं॥१९-२२॥ ननु यदि स्वर्गादिविषयेच्छा न कर्तव्या तर्हि ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ स्वर्गकामनाया विधानमयुक्तमित्यत उच्यते॥ फलश्रुतिरित्यादि। तत्प्रमाणेन व्याचष्टे॥ फलेति। मोक्षाख्येत्यर्थः। अनेन फलश्रुतिरित्येतत्सावधारणमित्युक्तं भवति। तद्व्यावर्त्यं दर्शयति॥ नेति। न वैकेनाक्षरेणेति साधु। श्रुतिफलस्येति वा पाठः। काम्यत इति कामः स्वर्गादि। तल्लक्षणकुसुमश्रुतिर्न भवति। कुतो नेत्यत आह॥ स्वर्गादीति। तत्रापि स्वर्गादावपि कथं युंजादित्यादेस्तात्पर्यं॥ ततस्तमसीत्यादि। तत्स्वर्गादिकं। अभिचक्षीत। ईषदुत्तमान्प्रतीति शेषः। असंगतिपरिहाराय न इत्यादिकमनूद्यार्थमाह॥ न इत्यादि। सकाशात्। प्राप्यमिति शेषः। रोचयति तत्राभिरुचिं जनयति। फलश्रुतिर्ज्योतिष्टोमेन यजेतेत्यादिका। कथमनेन तद्रोचनमित्यत आह॥ कुसुमस्येति। कुसुमभूतस्वर्गस्येत्यर्थः। ननु श्रोतुरनेकविधत्वात्कः श्रोता तत्र विवक्षित इत्यत आह॥ ईषदिति। मदाधिकारीत्यर्थः॥२३॥ बुध शब्दार्थमाह॥ बुध इति। सर्वं जानन्नित्यर्थः। अत एव प्रमाणे सर्वं जानन्निति बुध शब्दार्थ उक्तः। अभिमान्यपेक्षयैतत्। श्रेयोरोचकत्वप्रकारं दर्शयति॥ अतरालेति। एवं विधो दुःखासंभिन्नोऽनंतरमग्रस्तोऽभिलाषोपनीतश्चेत्यर्थः। मंदाधिकारिणः प्रति कथं रोचक इत्यतस्तदेव विवृणोति॥ अनेकेति। अतस्तान्प्रति स्वर्गादिकं विधायांतेऽपि मोक्षं विधाय पश्चान्मोक्षो भवतीत्यर्थः। तथा च तं प्रति मोक्षो विहितुं न शक्यत इति भावः॥ तप इति । क्लेशरूपत्वादिति भावः। स्वर्गदिषु सुखेष्वंत इति। अयं भावः। मोक्षमार्गस्यातिकठिणत्वादादावेव तत्र प्रवेशायोगाद्वेदस्य मार्गे तान्प्रवेशयितुं ज्योतिष्टोमादिकं कर्तव्यं। तेनांतरालेऽपि मोक्षात्पूर्वमपि स्वर्गादिकं सुखं भवतीति विधाने तस्मिन्विहिते कर्मणि तेषां प्रवृत्तौ पश्चादमृतो वाव सोमपो भवति यावदिंद्र इत्यनित्यत्वज्ञापनेन स्वर्गादीच्छां विनाश्य मोक्षमार्गे प्रवेशयति। यथा भिषगिक्षुदंडदानेनेति। मंदाधिकारिणामित्युक्तं। उत्तमानां तु कथमित्यतः कुसुमस्यानित्यतादिदोषज्ञानाच्चेत्याद्युक्तं विवृणोति॥ उत्तमाना त्विति। एतादृशं सांसारिकसुखविलक्षणमपि स्वर्गादिकमनित्यत्वादिदोषवदिति कस्मिंश्चिद्वेदविभागे वदेद्यस्मात्तस्माद्वेदो ज्योतिष्टोमेनेत्यादिमोक्षफलकः। अनित्यस्वर्गादिकं विहायानेककल्पसाध्यं मोक्षमेव स्वर्ग शब्देनोक्त्वा मोक्षार्थं ज्योतिष्टोमादि कर्तव्यमिति

विधत्ते। तथा चोत्तमानां स्वर्ग शब्दो मोक्षपरो मंदानां तु प्रसिद्धस्वर्गपर इति भावः। ननूत्तमान्प्रत्यपि स्वर्ग शब्दः प्रसिद्धस्वर्गपर एव कुतो नेति चेत्तत्राह। न हीति। अल्पफले स्वर्गाख्ये। तत्र प्रमाणमुक्तार्थे दर्शयति॥ मदेति। प्रतीक्षितुं संपादयितुं। कुत इत्यत उक्तं॥ अधैर्यादिति। एवं तपःकरणे मोक्षे नियमेनास्माकं भविष्यत्येवेति धैर्याभावादित्यर्थः। वदेज्ज्योतिष्टोमनेत्यादिवेदः प्रसिद्धं स्वर्गंस्वर्गपदेन वदेदित्यर्थः। धैर्यात्प्रतीक्षितुं न शक्यत इति वा। उत्तमानां प्रति वेदप्रवृत्तिप्रकारमाह॥ स्वर्गादिष्विति। ज्योतिष्टोमादिवेदं विमोक्षदं वक्तुं समग्रो वेदराशिः प्रवर्तते। स्वर्ग शब्दो मोक्षपर इति भावेन मोक्षमेव विधत्त इत्याशयः। मंदान्प्रत्याह॥ इक्ष्विति॥ एवमिति। स्वर्ग शब्देन प्रसिद्धस्वर्ग प्रतिपाद्य रोचयतीत्यर्थः। उत्तमेषु रोचकत्वं मूले फलश्रुतिरित्यादिनोक्तं तं प्रफारं दर्शयति॥ मोक्षेति। अंतरालगतोऽपि स्वर्ग एवं विधः किमु साक्षात्फलरूपो मोक्ष इति कैमुत्येनेत्यर्थः। कुत एवमित्यत आह॥ न हीति। तथा च नृणामधिकारिणां मध्ये ईषदुत्तमस्य श्रोतुर्विवक्षया तान्प्रति फलश्रुतिः। स्वर्गकाम इति श्रुतिर्नोऽस्माकं सकाशाद्यच्छ्रेयो मोक्षाख्यं तदेव परं केवलं रोचयति। तत्प्रकारस्त्वं तरालगत इत्यादिना तात्पर्ये कथितः। न प्रसिद्धस्वर्गं स्वर्गपदेन प्रतिपादयतीत्यर्थः। तर्हि किमर्थं रोचयतीत्यत उक्तं॥ यथेति यथेक्षुदंडं ददामीति भिषक्संबंधिरोचनमेव श्रेयोरोचनं प्रोक्तं गुडजिव्हिकान्यायेन मोक्षरुच्युत्पादनायाप्यतरालेऽप्येवं विधं स्वर्गादिकसुखं भवति। किमु मोक्ष इति भावेन स्वर्गपदेन प्रसिद्धं स्वर्गं प्रतिपादयतीति मूलं योज्यं। अथवा। नृणां मध्ये उत्तमश्रोतुर्विवक्षयोत्तमान्प्रतीयं फलश्रुतिर्नोऽस्माकं सकाशाद्यच्छ्रेयो मोक्षाख्य तदेव रोचयति। इयांस्तु विशेषः। परं तान्प्रति कैमुत्येन गुडजिव्हिकयोत्तमान्प्रति त्वेतादृशसुखोपेतः स्वर्गेऽप्यतितुच्छो मोक्षापेक्षयेति बोधयितुं तान्प्रति फलश्रुतिः स्वर्ग विधत्त इति ध्येयं॥२४॥२५॥ ननु मंदाधिकारिणां मोक्षे रुच्युत्पादनाय स्वर्गादावांतरालिकं फलं प्रतिपादयंतीय श्रुतिरिति कुतः। तेषां स्वर्गादिकमेव मुख्यफलतया काम्यं किं न स्यादित्यत उच्यते॥ उपत्यैवेत्यादिना। स्वजनानां भार्यानामर्थहेतुष्वित्यनर्थहेतुत्वमुक्तं। तदयुक्तं। सभार्याणामेव देवादीनां मोक्षश्रवणैनानर्थहेतुत्वायोगादित्यतस्तात्पर्यमाह॥ अयोग्येति। कामिता कामनावत्ता। तथा च कामेषु विषयेषु प्राणेष्विंद्रियेष्वात्मनोऽनर्थहेतुष्वयोग्यपुत्रभार्यादिस्वजनेषु आ सम्यक् सक्त

मनसो वृजिनाध्वनि संसारे भ्राम्यतोऽत एव स्वार्थं मोक्षमविदुषो वृजिनाध्वन्येव न तान्मनांस्तमोंऽधतमो विशत एवं स्वार्थोपायमजानन्। बुधस्तेषामुपायं जानन्। वेदस्तेषु स्वर्गादिविषयेष्वेव पुनः कथं युंज्यात्। स्वर्गादि न मुख्यकाम्यतया कथमभिचक्षीतातो मोक्षरुच्युत्पादनयैव वक्तीत्याशयः। न तानि भिन्नपदत्वेऽविदुषस्तांस्तेषु न युंज्यात्। तदेव विवृणोति॥ कथं युज्यादितीति भिन्नवाक्यतया योज्यं॥ ॥२४-२६॥ एतं स्वमतं प्रदर्श्यासुरमतं प्रदर्शयितुमेवमित्यादिको ग्रंथः। तत्र व्यवसितमित्यत्र पुरुषेणेत्याद्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ एवं वेदेति। वेदस्य व्यवसितं। भावे क्तः। दार्ढ्येन निश्चयमविज्ञाय स्थिताः कुबुद्धयोऽत एवावेदज्ञा वेदतात्पर्यमजानानाः फलश्रुतिं कुसुमितां वदंति। अप्रतीतेरिमं पादमनूद्य व्याचष्टे॥ फलेति। श्रुतिं स्वर्गकाम इति श्रुतिं। कथमस्याः श्रुतेर्मोक्षविषयत्वमित्यतस्तयोजनाप्रकार प्रमाणेन दर्शयति॥ नित्यानदेति। हरेरिति षष्ठ्या अलुक्। हरिभक्तीत्यर्थः। नित्यानंदस्य हरेर्भक्तिज्ञानाद्या इति वा। पुत्रेत्यादिना पुत्रकामः पुत्रकामेष्ट्या यजेतेत्यादिश्रुत्यर्थकथनं। स्वर्ग शब्दोक्तनित्यानंदादिकमुद्दिश्य स्वर्गकामस्य ज्योतिष्टोमेन यजनं ज्योतिष्टोमेनेत्यादि श्रुतिचोदितं नित्यानंदादिकामो यजेतेति। तथा मौक्तपुत्रादिकमुद्दिश्य पुत्रादिकामस्य यजनं पुत्रकाम इत्यादिश्रुतिचोदितमिति योज्यं। अनेनैव वेदव्यवसितमित्यस्य तात्पर्यमुक्तं भवति। अविज्ञाय कुबुद्धय इत्यादेस्तात्पर्यमाह॥ तदविज्ञायेत्यादिना। भार्यादिकं मौक्तं फलमित्युक्तं। तदयुक्तं। मुक्तौ तत्सद्भावस्याप्रमितत्वादित्यत आह॥ स्त्रीभिरित्यादिना। ज्ञातयः सहमुक्ताः कल्पांतरे मुक्ता अज्ञातयः। देवानारभ्य ऋष्यंतानां सभार्यपुत्राणामेव मुक्तिसद्भावात्पुत्रादयोऽपि संति मुक्तौ। ज्ञातय एवाप्ताः। तत्र भोगसाधनं द्रव्यमेव वित्तमित्यादि ज्ञेयं। स्वर्गकामश्रुतेर्मोक्षार्थत्वे प्रमाणांतरं चाह॥ मोक्षाख्यमिति। तस्य फलस्य पुष्पस्वर्गादिवद्वचनं। स्वार्थे वतिः। पुष्पभूतस्वर्गत्वेन वचनं। यद्वा। सादृश्य एव वतिः। पुष्पस्थानीय स्वर्गतुल्यतया वचनं। तत्फलं पुष्पस्थानीयप्रसिद्धस्वर्ग एवेति वचनं। मंदानां मोक्षरोचकमित्यर्थः। प्रमाणांतर चाह॥ असुराणामिति। अयं स्वर्गकाम इत्रत्यो हरीति। तथा च स्वर्गकामः। सुष्ठुरमणज्ञानरूपहरिप्राप्तिकामो यजेतेत्यर्थांतरमुक्तं भवति। देवान्प्रत्येवं कुत इत्यत आह॥ वेद इति। न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसित इति भावः॥२६॥ पूर्वोक्त एव मूले विव्रीयते॥ कामिन इति। कृपणा अत्यागिनो

लोभयुक्ता लुब्धाः पुष्पेषु स्वार्गादिष्वग्निमुग्धा वै धूमतांताः स्वलोकंप्रति न जानंतीति श्रुतिं मनसि कृत्वोच्यते॥ अग्नीति। अग्निरेव मुख्येज्य इति मुग्धा मिथ्याज्ञानिनः। धूमेन यज्ञशालास्थेनातिवितांताः श्रांताः। ननु स्वलोकं न विंदंतीत्ययुक्तं। स्वर्गादिलोकस्य ज्ञानस्य सत्वात्। तदुद्देशेन हि क्रियते। अन्यथा तन्न कुर्युरित्यतोऽनूद्य व्याचष्टे॥ स्वलोकमिति। नन्विदमप्यनुपपन्नं। गृहाद्याश्रयज्ञानस्य सत्वादित्याशकापरिहाराय न ते मामित्त्युत्तरार्धः प्रवृत्त इत्याशयेनावतारयति॥ कोऽसाविति। यं न विंदंतीति शेषः। हे अंग उद्धव । इदं जगद्यो यदधीनं यतश्चोत्पन्नमेतादृशं जगज्जन्मादिकर्तारं हृदिस्थं स्वसमीपं एव हृदये विद्यमानं। न दूरे एतादृशं स्वलोकभूतं मां ते न जानंतीत्यर्थः। नन्वेवं यज्ञादिकं कुर्वतामसुराणां किं फलमित्यतो नीहारेण प्रवृत्ताजल्प्याचासुतृप उक्थशासञ्चरंतीति श्रुत्युक्तफलमेवाह। एते उक्थेनेति। उच्चत्वादुक्थनामा प्राण इत्यर्थः। उक्थमुक्थमिति वै प्रजा वदंतीति श्रुतिप्रसिद्धिं प्राणस्योक्थनामेति मंतव्यं। तथा च नीहारेणावृतश्चक्षुषा सम्यक् न जानति एव सम्यघ्घरिमजानाना असुतृपः स्वेंद्रियाप्रीणन एव रता एतादृशा ये असुरा एते उक्थशासो मुख्यप्राणेन शास्या भवंतीत्यर्थः। असुराणामुक्थशास्यत्वे प्रमाणमाह॥ विष्ण्विति। विमोक्षाय विमोक्षं। नन्वेतेऽभक्तास्तमोमार्गं गंतुं योग्या इति च कथं जानाति। येन मोक्षाय प्रापयित्वेति युज्यत इत्येतत्सर्वाभिज्ञतायां प्रमाणमाह। पथ एक इति। एतत्पूर्वार्धस्तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जला भेषज इति। अत्र शुचिः प्राणः। यथोक्तं निरुक्ते। शुचिर्हि प्राण इति॥ तथा चायमर्थः॥ यथैकस्तस्करो निधीनां पथो मार्गान्पीपाय जानाति। यथोक्तं निरुक्ते। जानातीति यदाह पीपायेत्येव तदाहेति। एवमेको मुख्य एषः शुचि शब्दोक्तः प्राणः पथो मोक्षमार्गांस्तमोमार्गांश्च वेद जानातीति। तेषां तमःप्राप्तिरपि फलमुच्यतेऽत इति। अत्राविज्ञायेत्येतद्धेतुगर्भमित्याशयेन व्याचष्टे॥ न इति। आत्मका इत्यस्य व्याख्यानं॥ स्वरूपा इति। विषयशब्दार्थं वदन्नुक्तं विवृणोति॥ तदिति॥ गमनार्थेति। गमनयोग्येत्यर्थः। परोक्ष शब्दस्यांधंतमोवाचित्वे प्रमाणमाह। अर्धतम इति॥२७॥२८॥ तथा चाविज्ञायाहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव चेति मम सर्वयज्ञभोक्तृत्वादिरूपं मम मतमविज्ञाय स्थितास्तेपरोक्षविषयात्मकाः। अंधंतमो गमनयोग्यस्वरूपा भवंति। तमः प्राप्नुवंतीति यावदित्यर्थः॥२९॥ ते मताविज्ञानात्कथं वदंतीत्यतो मन्मताविज्ञाना-

दित्थं वदंतीत्याह॥ हिंसायामित्यादिना। इदमर्धं व्याचष्टे॥ तेषामिति। हिंसायां कामः। हिंसां कृत्वा मांसं भक्षयाम इतिच्छेति यावत्। वृथा हिंसा कस्मात्क्रियत इति पृष्टे एतद्धननं यज्ञ एवेति वदंति। वस्तुतो न चोदनाविधिः। विहितयज्ञे वधमकृत्वा स्वेच्छानुसारेण वधो न विहित इत्यर्थः। स्वपदानि वर्णयति॥ यद्यदिति। प्रापयंति। जनानिति शेषः। जनान्प्रत्युपपादयंतीति यावत्। अत्र प्रमाणमाह। आसुर इति। कुत इत्यत आह॥ आसुरा इति। यत इति शेषः। पुनः कीदृशा इत्यत उच्यते॥ हिंसेति। हिंसाविहारास्ते खलाः स्वसुखेच्छयाऽलब्धैर्हिंसितैः पशुभिः। पशुहिंसां कृत्वेति यावत्॥३०॥ यज्ञैर्देदेवतादीन्यजंते। भूतपतीन् रुद्रादीन्। अत्र देवतादीन्यजतां यदाऽसुरत्वमभिप्रेतं तदयुक्तं। विष्णुं यजतां शुद्धसात्त्विकानामपि कामनया देवतादिपूजासद्भावादित्यतस्तात्पर्यमाह॥ विष्णुमिति। देवादीन्प्राधान्येन पूजयंतीत्यध्याहारेण योज्यं। विष्णुसाम्येन वा॥३०॥ पुनः कीदृशा इत्यत उच्यते॥ स्वप्नेति। अनित्यत्वादिना स्वप्नतुल्यं। अमुं लोकं स्वर्लोकं हृदि संकल्प्येत्यन्वयः। आशिषश्चैश्वर्याद्याशिषश्च हृदि संकल्प्य। दृष्टादृष्टफलोद्देशेनेति यावत्। अर्थान्द्रव्यादींस्त्यजंति। द्रव्यादिकं व्ययीकृत्य यज्ञादिकं कुर्वत इत्याशयः। यथाऽऽपणे धान्यादिदृष्टफलं संग्रहाय तदर्थत्वेन वणिक् द्रव्याणि त्यजति ददाति यथा तथेत्यर्थः॥३१॥ तेष्वपि विशेषोऽस्तीत्याह॥ रजः सत्त्वेति। अत्र सत्त्वनिष्ठानामप्यासुरत्वमुच्यतेऽतः कथमेतदित्यतस्तात्पर्यमाह॥ तामसेष्वेवेति। रजःसत्त्वतमोविशेषरूपाः। प्रभेदा विवक्षिता इति शेषः। एतदेव विवृण्वंस्तेषां फले तारतम्यं प्रमाणेन दर्शयति॥ तामसेष्विति। ते तामससात्त्विकास्तमोनिष्ठाः। एवं तमोनिष्ठास्तामसेष्वेते प्रसिद्धाः सत्त्वाः सात्त्विकाः। ते एवं निष्ठा एवं तामससात्त्विकव्रतनिष्ठास्ते निरयप्रचुराः। ईषत्स्वर्गयुक्ताश्चस्मृता इति योज्य। तामसराजसास्तामसराजसव्रतनिष्ठाश्चेत्केवलं निरये निष्ठाः। केवलं शब्दादीषत्स्वर्गादिसंयुक्तताव्यावृत्तिः। ये तामसतामसास्तामसतामसव्रतनिष्ठाश्चेदंधे तमसि निष्ठा भवतीति योज्यं॥ तथा चायमर्थः॥ तामसा एव त्रिविधाः। तामससात्त्विकास्तामसराजसास्तामसतामसाश्चेति। रजःसत्त्वतमोजुषः। तामसराजसतामससात्त्विकतामसतामसपदार्थसेवनावंतः संतः। रजःसत्त्वतमोनिष्ठास्तामसराजसतामससात्त्विकतामसतामसव्रत- निष्ठास्तामसराजसतामससात्त्विकतामसतामसाः पुरुषास्ते केवलनिरयस्वर्गयुक्तनिरयांधतमःफलका भवंतीति योज्यं। अंते

सर्वेषामप्येषां यद्यप्यंधंतम एव फल। तथाऽप्यनित्यनिरयादिस्तात्कालिकस्तादृशव्रतनिष्ठफलतयोक्त इति मंतव्यं। अत्र मनुष्याधमास्तामससात्त्विकाः। प्रधानदैत्यानुगास्तामसराजसाः। कल्याद्याः प्रधानदैत्यास्तामसतामसा इति विवेको गीतातात्पर्यानुसारेण मंतव्यः॥३२॥ तेषामाशासनप्रकारमाह। इषट्वेति। इह भूमौ रंस्यामहे रंतुमिच्छामः। तस्यांतेदिवि रमणस्य समाप्यंते। इह भूमौ पुनर्महाकुलाः कुलीना महाशालाः। प्रत्यब्दयज्ञकृच्छ्रोत्रियो महाशाल इतीरित इत्युक्तेः। प्रत्यब्दयज्ञकारिणः संतो भूयास्म इत्युपासते आशासत इत्यर्थः॥३३॥ अत्र निमित्तमाह॥ एवमिति। स्वर्गादिपुष्पप्रतिपादनपरत्वेन प्रतीयमानया वेदवाचा विशेषेणाक्षिप्तमनसां। न तु वेदार्थो महात्मसेवया सम्यक् तैर्ज्ञायत इत्यत उक्तं॥ मानिनामिति। वयमेव सम्यग्वेदार्थज्ञानिनः किमस्माकं महात्मभिः श्रोतव्यमस्तीत्यहंकारवंतो मम वार्ताऽपि प्रसंग एव न रोचते दूरे मद्विवार इत्याशयः॥३४॥ ननु पुष्पितया वाचा व्याक्षिप्तमनसामित्ययुक्तं। वेदाना स्वर्गादिप्रतिपादकतया प्रतीयमानानां भगवत्परत्वायोगात्। तथा च फलश्रुतिं कुसुमितामित्युक्तमसदित्यत आह॥ वेदा इति। अपि यद्यपि वेदा ब्रह्मदेवताकर्मस्वरूपविषयाः प्रतिपादकास्तथाऽपि ब्रह्मात्मविषया एव मुख्यतः प्रतिपत्तव्याः। देवादीनाममुख्यवाच्यत्वादित्यर्थः। अत्र ब्रह्मात्म शब्दमन्यथाप्रतीतिपरिहाराय प्रमाणेनैव व्याचष्टे॥ ब्रह्मत्वमिति। तत्पूर्णत्वं। स्वतोऽनुपचारेण। तथा च ब्रह्मात्मविषयाः पूर्णत्वोपेतहरिस्वरूपप्रतिपादका इत्यर्थ उक्तो भवति। ननु वेदानां मुख्यतो ब्रह्मात्मपरत्वे सर्वेषां तत्प्रतीत्यभावः कुत इत्यत आह। परोक्ष इति गूढार्थवादीत्यर्थः। अतो न ब्रह्मात्मविषयत्वं प्रतीयते सर्वेषामित्याशयः। परोक्षतयाऽत्र प्रतिपादनेन किं कृतमित्यत आह॥ परोक्षामिति। गूढार्थप्रतिपादनं मम प्रियं यतोऽतः परोक्षवाद इत्यर्थः। च शब्दाद्देवानां प्रियं। परोक्षप्रिया इव हि देवाः प्रत्यक्ष द्विष इति श्रुतेः॥३५॥ आदौ समग्रवेदस्वरूपमेव सर्वैर्ज्ञातु न शक्यतेऽपरिच्छिन्नत्वात्किमुतानतवेदवाच्योऽतिपरिपूर्णो भगवानित्याशयेनाह। शब्दब्रह्मेति। वेदराशिः। तर्हि निरधिकारिकत्वाध्येयतापत्तिरित्यत उक्तं॥ प्राणेति। कथमनेनोक्तशंकापरिहारः कथं च वेदस्य प्रामाण्याद्यात्मकत्वमित्यतो व्याचष्टे॥ प्राणेति। मुख्यमाणादिदेवैरित्यर्थः। मीयते ज्ञायते। नत्र प्रमाणमाह॥ मेयत्वादिति। ज्ञेयत्वादित्यर्थः। वेदेऽनंतपारत्वं घटयति॥ अत इति। ताभ्यां विनाशपरिमिताभ्यां॥३६॥ स वेद

उभयोरप्येकार्थकत्वाद्वैय्यर्थ्यमाशंक्य तत्परिहारायानूद्यार्थमाह। नेति। नन्वेतादृवेदवाच्येन परिपूर्णेन भवितव्यं। तादृशवाच्याभावान्निरर्थकत्वापत्तिरित्यत उक्तं॥ मयोपबृंहितमिति। प्रतिपाद्येन युक्तमित्यर्थः। समुद्रवदनतपारं। गंभीर गभीरार्थकमज्ञेयार्थकं दुर्विगाह्यं विशेषेण गाहनं कर्तुं। व्याख्यातुमिति यावत्। अशक्यमित्यर्थः। अत्र समुद्रवेदयोः शब्दसाम्यं द्रष्टव्यं। तथा च प्रतिपाद्यस्य ममानंतत्वात्प्रतिपादकं शब्दब्रह्म सर्वेषां सुदुर्बोऽधं प्राणादिदेवैरेव सुबोधमिति भावः। ननु कथं वेदस्यापार शब्दोक्तपरिमित्यभावः। सर्वैरप्यध्यापकैः पठ्यमानस्याष्टाष्टकोपेततया परिमितेरेव दर्शनात्तावत्वमेव वक्तव्यमिति चेत्। सत्यं। सर्वैरप्यध्यापकैः पठ्यमानो वेदैकदेश एव पठ्यते न सर्वोऽपि। तथा चानतत्वमेव मतव्यमित्याशयवानाह॥ भूतेष्विति। यथा बिसेषु पद्मनालेषूर्णा तत्वायितातिसूक्ष्मा प्रदृश्यते। एवं भूतेष्वध्यापकजनेषु घोषरूपेण तत्तद्ध्वन्याभिव्यक्तवर्णरूपेण स्वल्प एव वेदो लक्ष्यते प्राणिभिर्ज्ञायते तावता तावत्वमेव न मंतव्यमित्याशयः। प्राणेंद्रियमनोमयमित्युक्तं। तत्र प्राणेन मेयत्वप्रकारं स्पष्टयति॥ यथेति। ऊर्णनाभिर्हृदयाद्धृदयमारभ्योर्णामुद्धृत्य मुखादुद्वहते निष्कासयति। तथैवं कोष्टो वायुस्तत्तत्स्थान्यभिहत्येत्यादिक्रमेण हृदयाकाशादुत्पन्नघोषवान्ध्वनिमान्॥३६–३८॥ छंदोमयोऽमृतमयोऽतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृत इति प्रमाणात्। प्रलयेप्यतिरोहितज्ञानस्वरूपस्तत्प्रधानो विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञयेत्युक्तेः। प्राणिनां मोक्षप्रदानाय तत्ज्ञाता वा। प्रभुः समर्थः प्राणः सहस्रपदवीमनंतशाखोपेतां ॐकारेष्वंजितां स्पर्शस्वरोष्मांतस्थभूषितां। कादयोमावसानाः स्पर्शाः। स्वराः अ आ इ ई इत्याद्याः अं अः इत्यंताः। अचः। श ष स हाः ऊष्माणः। य र ल वांतस्थाः। एतैर्वर्णैभूषितां। एतदात्मकामिति यावत्॥३९॥ विचित्रभाषां विततां चतुरुत्तरैश्छंदोभिर्विततां। पूर्वछदापेक्षयोत्तरछंदांसि चतुरक्षराण्येवोत्तराणि येषां तानि तैश्चतुरक्षरैश्छंदोभिर्विततां। अनंतपारां विनाशपरिमितिशून्यां। बृहतीं देशतः कालतश्च व्याप्तां श्रुतिं। आस्पर्शरूपिणा मनसा मनःपूर्वं तद्धितबुद्ध्या रुद्रादिदेवेभ्यः सृजत्युपदिशति सृष्टिकाले पुनः कल्पांते स्वस्मिन्नेवाक्षिपते निदधातीत्यर्थः। छंदोभिरित्युक्तं कानि तानि छंदांसीत्यत उक्तं॥ गायत्रीति श्लोकेन। तत्र मनसा स्पर्शरूपिणेति मनसः स्पर्शरूपवत्त्वं प्रतीयते तद्विरुद्धमतः पदच्छेदं दर्शयन्व्याचष्टे॥ आस्पर्शेति। प्रकाशयति। ध्यायतीति यावत्। करणे कर्तृत्वोपचारः। विष्णोः कथमास्पर्श-

शब्दवाच्यत्वमित्यतस्तन्निर्वक्ति। आस्पर्श इति। स्पर्शभोगा आ समंतादस्यैव संतीत्यास्पर्शो विष्णुरित्यर्थः। तत्र प्रमाणमप्याह॥ भुक्त इति। एकलं प्राण मुख्यप्राणं। प्राणस्यैवेत्यादिनाऽऽस्पर्शरूपिणेत्येतदुक्ततात्पर्यकं। कथं प्राणस्य छदःस्वरूपत्वमनुपपन्नमेव छंदोमय इत्यनेनोच्यत इत्यतः प्रमाणेनैव तत्पदं व्याख्याति॥ मीयत इति। ज्ञायंत इत्यर्थः। तथा च छदोमयः छदो ज्ञातेत्यर्थ उक्तो भवति। ॐकारेष्वंजितामिति कथमुच्यते। ॐअकारेष्वेकत्वेनोंकारेष्विति बहुवचनायोगादित्यतः ॐकाराणां बहुत्वाद्युक्तं तत्र बहुवचनमित्याशयेन प्रणवबाहुल्यं प्रमाणेनैवोपपादयति॥ त्रिमात्रमिति। अत्र मात्रा शब्देनाकारः प्रथमा मात्रा उकारोद्वितीया मात्रा मकारस्तृतीया मात्रेति मांडूकोपनिषदुक्तरीत्यांऽशा ग्राद्याः। न तु ह्रस्वदीर्घप्लुताः। तथा चाकारोकारमकाररूपमात्रात्रयं मात्रात्रयोपेतोऽयं तावदेकः प्रणवस्तमादितः कृत्वा तमारभ्य यावच्चानंतमात्रका अनंतमात्रकं यावत्। अनंतमात्रात्मकः ॐकारपर्यंतं मध्ये विद्यमानस्ते सर्वेऽपि प्रणवा इत्यर्थः। मध्यस्थाः प्रणवाः कीदृशा इत्यत आह॥ एक मात्रेति। त्रिमात्रकप्रथम ॐकारापेक्षया द्वितीयादि ॐकारा एकैकवर्णोत्तरा इत्यर्थः। तथा च प्रथम ॐअकारस्त्रिमात्रकः। द्वितीयस्तदपेक्षयैकमात्रोत्तरः। कोऽर्थचतुर्वर्णकः। तृतीयोंकारस्तदपेक्षया पंचवर्णकस्तदपेक्षया चतुर्थकः पष्ठमातृकः। एवमुत्तरत्र गत्वांऽत्योऽनंतमात्रक इति भावः। यावत्योऽनंतमात्राः संति ते सर्वेऽपि प्रत्येक प्रत्येक प्रणवास्तथाऽनंताः प्रणवाः प्रकीर्तिताः। कुतः। विभेदेन प्रणवेऽवांतरभेदानां सत्वादिति भावः। अत एव त्रिमात्रमादितः कृत्वेति प्रमाणमेव मलीकृत्य नारायणपंडिताचार्यैर्मध्वविजये चतुर्थसर्गे। अनंतमात्रां तमुदाहरंति य त्रिमात्रपूर्वं प्रणवोच्चयं बुधा इत्युक्तं। प्रणवोच्चयमिति प्रणवबाहुल्यमुक्तं। अनंतमात्राभिग्नंतवर्णात्मकैर्वेदैरतो निर्णयो यस्योंकारस्य तदनंतमात्रमिति व्याख्यानं तु यावच्चानंतगात्रका इति प्रमाणानालोचनकृतमित्यवसेयं। ननु त्रिमात्रस्योंकारत्वं युक्तं। ॐकारो हि भगवद्वाचकतया प्रसिद्धः। वर्णत्रयात्मकोंकारस्य च भगवद्वाचकत्वं प्रसिद्धं तदितराणामनंतमात्रांतानां प्रणवानां भगवत्प्रतिपादकत्वाभावात्कथमेतदित्यत आह॥ एकमात्राेत्तरा इति। अत्रैक शन्दः प्रथमत्राची। प्रथममात्राऽऽद्विमात्राऽऽदित्वेन कृतवर्णत्रयात्मकोंकारेत्यर्थः। तदपेक्षया ये उत्तराः प्रणवाअनंतमात्रांतास्तेसर्वेऽपि वासुदेवप्रतिपादका इत्यर्थः। एवं प्रणवानामनंतत्वं कस्माद्वाच्यमित्यत आह। तेषामिति। अनंतप्रणवानामित्यर्थः। सर्वेऽनंता वेदास्तावदनंता

इति। अनंता वै वेदा इति प्रमाणसिद्धं। तेषामोंकारव्याख्यानरूपत्वं च प्रसिद्धं। तत्रानंतवेदव्याख्येयोंकारस्यैकत्वेऽनंतवेदानामेकौंकारव्याख्यानरूपत्वायोगादोंकाराणामप्यनंतत्वमवश्यं वाच्यमेवेत्याशयः। तस्मादनंतवेदव्याख्येयोंकाराणामप्यनंतत्वात्। ॐकारेष्वजितामित्यस्य तात्पर्यं॥ ओंकारेणान्विता। इति। तथा चोंकारेष्वंजितां तद्व्याख्यानरूपतया संबद्धामित्यर्थ उक्तो भवति। विचित्रभाषाविततामित्युच्यते। कास्ता विचित्रभाषा याभिरियं विततेत्यतस्ताः प्रमाणेनैव दर्शयति॥ गुह्येत्यादिना। त्रैविध्यमेव दर्शयति॥ गुह्येति॥ एवमादीति। आदि पदेन गुह्यसमाधिभाषा ग्राद्या। तथा दर्शनगृह्यभाषा दर्शनदर्शनभाषा दर्शनसमाधिभाषा तथा समाधिगुह्यभाषा समाधिसमाधिभाषा समाधिदर्शनभाषेत्यादिक्रमेणेत्यर्थः। एवं सति नवभाषाः संपन्नाः। पुनरित्युक्तत्वात्। नवभाषाणामपि पुनः प्रत्येक प्रत्येकं त्रैविध्ये सप्तविंशतिभाषाः संपन्नाः। एकैका च त्रिधा पुनरिति वचनेन सप्तविंशतिभाषायामपि पुनः प्रत्येकं प्रत्येकं त्रैविध्ये तिस्रः सप्तविंशत्यो जाताः। तेनैकाधिकाशीति संख्यासंपन्नेत्येवमेवेकाशीतिविभेदिता विभेदयुक्ता इत्यर्थः। प्रसिद्धार्थे प्रतीयमानार्थे गुह्यार्थे तत्परा तात्पर्योपेता। तामुदाहरति॥ अध इति। अंधस्य मणिप्राप्त्यरूपप्रतीतार्थेऽन्वये योग्यताया अभावाद्भगवदज्ञानेनांधो गुरूपदेशादिना मणिं मणिमुखप्रधानं चोत्तमस्य वचो भवेदित्यभिधानात्। ज्ञानेनोत्तमं भगवत्ज्ञानं लब्धवानिति गौप्यार्थपरेत्यर्थः। दर्शनभाषां लक्षयति॥ दर्शनानीति। या भाषा पशुपत्त्यादीनां दर्शनानि पाशुपतशास्त्रादीन्यवलंब्यबहुश्रुतिविरुद्धं वदेत्। ननु बहुश्रुतिविरोधमात्रेण कथं दर्शनात्मकत्वं वेदानुसारिष्वपि तथात्वदर्शनात्। वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पनेत्युक्तेरित्यतो विशेषणांतरमाह॥ अत इति। या चांते निषेधसंयुक्ता सा भाषा दर्शनात्मिका। तामुदाहरति॥ भस्मेति। समाधिभाषां लक्षयित्वोदाहरति॥ यथेति। या भाषा यथा प्रतीयमानार्था सा विद्वद्भिः समाधिरिति प्रकीर्तिता। सा च विष्णुः परमेत्याद्येरितेति योज्यं। समाधिभाषयोक्तं यत्तत्सर्वं ग्राह्यमेव हि। विष्णोः परमत्वप्रतिपादकं भागवतं समाधिभाषया प्रवृत्तमिति मंतव्य। समाधिनाऽनुस्मरत तद्विचेष्टितमित्युक्तेः। ननु भस्मस्नानविधानस्य श्रुत्युक्तत्वान्नृसिंहपुराणोक्तत्वाच्च कथं तस्य निषेधसंयुक्तत्वेनाग्राह्यत्वमभिप्रेतमित्यत आह॥ भस्मेति। श्रुत्युक्तं तु श्रुत्युक्तमपि भस्मस्नानविधान दर्शनानुगं दर्शनभाषानुसारणोक्तं। दर्शनभाषयोक्तमिति यावत्। अतोऽग्राह्यं भस्मस्नानमित्यर्थः। तथा नृसिंहगं तु विधानं तामस-

नृसिंहपुराणोक्तमपि भस्मस्नानविधानमग्राह्यमेव तस्याप्रमाणत्वादित्यर्थ इति योज्यं। छंदोभिश्चतुरुत्तरैरित्युक्तं। तत्कथं चतुरुत्तरत्वमित्यतस्तदुपपादयति॥ गायत्र्या इति। चतुर्विंशत्यक्षराया इत्यर्थः। इत्यादीति। उष्णिहोऽनुष्टुप् चतुर्वर्णाधिकेत्यादिक्रमेणेत्यर्थः। नन्वेवं तर्हि जगत्यपेक्षयाऽतिछंदसश्चतुर्वर्णोत्तरत्वं तदपेक्षयाऽत्यष्टेस्तदपेक्षया जगत्या इति प्राप्नोतीत्यतो नेत्याह॥ जगत्यतानामेवेति। न तदुत्तराणामपीत्येवकारार्थः। तथा चैवं जगतीपर्यंतं चतुर्वर्णाधिक्ये जगत्या अष्टचत्वारिंशद्वर्णत्वं संपद्यते। तथा च द्वादशाक्षरा जगतीति श्रुतिरनुकूला भवति। द्वादशाक्षरा द्वादशाक्षरोपेतपादचतुष्टयवतीत्यर्थः। कुतो जगत्यंतानामेव चतुरुत्तरत्वनियमो न तदुत्तराणामतिछंदादीनामित्यतो बाधादित्याह॥ छदस्त्विति। अयं भावः। जगत्युत्तराणामपि चतुरुत्तरत्व नियमे त्रिकद्रुकेष्वित्याद्यतिछंदसा द्विपंचाशदक्षरत्वप्राप्त्याऽष्टाक्षराष्टपादा अतिछंदस इति चतुः षष्ठ्यक्षरोपेतताप्रसिद्धिबाधः। तथा च जगतीछंदसश्चतुःषष्ठ्यक्षरोपेतत्वप्राप्त्या छंदस्तुनवपादमिति अष्टाक्षरोपेतनवपादत्वकथनेन द्वासप्तत्यक्षरोपेतताप्रसिद्धिबाधः स्यादतो जगत्यतानामेव चतुरुत्तरत्वनियमोन तदुत्तराणां बाधादिति॥४१॥ एतादृशानंतवेदरहस्यमहमेकमेव साकल्येन जानामीति भावेनाह॥ किमित्यादिना। वेदः किं विधत्ते किं व्याचष्टे किमनूद्य विकल्पयेत् विविधरूपत्वेन कल्पयेत्। उपलक्षणमेतत्। किमपोहेदित्यपि ग्राह्यं। इत्येवं प्रकारेणास्याः श्रुतेर्हृदयमभिप्रायं लोके मदन्यः कश्चन न वदेदित्यर्थः। ननु संध्यामुपासीतेत्यादिकर्मविधिवाक्ये स्पष्ट विधिलक्षणार्थप्रतीतेरेतदर्थातिरिक्तमर्थ भगवान्कथं वेत्तीत्यत आह॥ मामिति। किं विधत्त इत्यादेरुत्तरं॥ मा विधत्त इत्यादि। विकल्प इत्युक्तं। तत्र को विकल्प शब्दार्थ इत्यत आह। विविधेति। विविधरूपत्वेन कल्पनं। कुत्र क्रियत इत्यत आह॥ चत्वारीति। ननु तत्र चत्वारीत्यनूद्य वाक्त्वं विधीयते तत्र विविधरूपत्वेन कल्पन कथं प्राप्नोतीत्यत आह। तत्रेति। चत्वारीति श्रुतावित्यर्थः। तथा चान्यत इति वाक् भगवांश्चत्वारि चतुरूपयुक्त इति वागित्यनूद्यविविधरूपत्वेन कल्पनमेव विधीयत इत्यर्थः। तत्र प्रमाणमाह॥ विधीति। पृजैवोच्यत इत्यन्वयः। अभिधाने इंद्रचंद्रादिदेवताप्रतिपादनपरे भागे। तस्य हरेर्बहुत्वं बहुरूपत्वमपोहे न सुरां पिबेदिति निषेधप्रतिपादनपरे भागे तद्गुणा हरिगुणा उच्यंते। तस्य हरेः। इत्यस्याहृदयमित्यादेस्तात्पर्य॥ तच्चेति। एवं

समस्तवेदतात्पर्यमित्यर्थः॥ तथा चायमर्थः॥ किं विधत्त इत्यस्योत्तरं॥ मां विधत्त इति। कर्माद्यभिधात्री श्रुतिर्मा प्रत्येव मत्पूजार्थमेव विधत्ते। किमाचष्ट इत्यस्योत्तरं॥ अभिधत्ते मामिति। इंद्रचंद्राद्यभिधात्री श्रुतिर्मामेव मद्गुणानेवाभिधत्ते। किमनूद्य विकल्पयेत् किमपोहेदित्यनयोरुत्तरं॥ विकल्पापोह्य इत्यहमिति। विकल्पश्चत्वारि वागित्यादौ विविधरूपत्वेन कल्पनाविषयोऽहमेवेत्यर्थः। न सुरां पिबेदिति वाक्यादहमेवापोह्यो निराकार्यः। मदप्रीतिसाधनत्वादित्यर्थः। विकल्पश्चासावपोह्यश्च विकल्पापोह्य इति विग्रहः। इत्येवमस्याः श्रुतेर्हृदयं नान्यो मद्वेद कश्चन किं त्वहमेव जानामीति श्लोकार्थः। ननु न सुरां पिबेदित्याद्यपोह्यवाक्येषु मदप्रीतिसाधनत्वादहमेवापोह्य इत्युक्तं। तदयुक्तं। व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यत इति प्रमाणेन तत्पानस्य विहितत्वेन हरिप्रियत्वात्। तथा ब्राह्मणो न हंतव्य इत्यपोहोऽयुक्तः। वृत्रासुरवधस्य हरिप्रीतिसाधनत्वात्। तस्मात्कथमेतदित्यतो न सुरां पिबेत् ब्राह्मणो न हंतव्य इति निषेधवाक्ये निषिद्धमानं भगवदप्रियं प्रमाणविशेषेणैव दर्शयति॥ सुरा इति। सुष्ठुरमणरूपत्वादित्यर्थः। पिबेदित्यत्रत्यपानशब्दतात्पर्यकथनं॥ ते म इति। निषेधवाक्यार्थमाह। तदिति। चिंतनमित्यर्थः। तथा च न सुरां पिबेत्। भगवद्गुणा मे स्युरिति न चिंतयेत्। तदप्रीतिसाधनत्वादित्यर्थ उक्तो भवति। हत्या शब्दतात्पर्यकथनं॥ स नेति। निषेधवाक्यार्थमाह। ता नेति। तथा च ब्राह्मणो न हंतव्य इत्यस्य विष्णुर्नास्तीति न चिंतितव्यस्तदप्रीतिसाधनत्वादित्यर्थ उक्तो भवति। नान्यो मद्वेद क्वश्चनेत्यत्र मदन्यः कश्चन न वेद किंतु सर्वोऽपि जनो जानातीत्यन्यथाप्रतीतेरन्वयं दर्शयन्कश्चनेति पदं व्याख्याति॥ मदन्य इति। चनेत्यव्ययस्यार्थः। अपीति॥४२॥४३॥ न केवलमेवं कतिपयवाक्यार्थः किं नाम सर्ववेदार्थोऽप्येतावानेवेत्याह। एतावानिति। नन्वेतादृशो वेदः कदा विश्राम्यति विधानादिरूपं स्वव्यापारं विहाय केवलभगवत्स्वरूपपरं कदा भवतीति शंकायां तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्युक्तेर्जीवानां मोक्षं परब्रह्मस्वरूपं प्रतिपादनेन संपादयित्वा प्रशाम्यति। मुक्तान्प्रति स्वव्यापारशून्या भवतीत्याशयेनाह॥ शब्द इति। अत्रान्यथाप्रतीतिपरिहाराय भिदामित्येतन्मामित्यस्य विशेषणं। न च स्त्रीलिंगत्वादनुपपत्तिः। तत्त्वानंगीकारात्। सोमपान शब्दवदकारांत पुलिंगोऽय शब्द इत्याशयेन विग्रहं दर्शयन्नन्वयं दर्शयति। अभिदश्चेति॥ अश्चेति। अकारवाच्यश्चेत्यर्थः। तथा सवर्णदीर्घे अभिदामिति भवति।

आस्थाय विषयतयेत्यर्थः। प्रतिपाद्येति यावत्। मायामात्रमनूद्येत्यादेः स्पष्टं मायावाद्यनुकूलत्वात्तत्परिहाराय व्याचष्टे॥ मायेति। अनुवादस्य किं कृत्यमित्यत उक्तं॥ उपासनेति। भगवदिच्छया स्थूलशरीरेऽधिकारिणः प्राप्ते सति तं प्रति निदिध्यासितव्य इत्यादिविधिः संभवति। सूक्ष्मदेहिनं प्रत्युपासनादिविधानायोगादित्याशयः। अंते प्रतिषिध्येत्यस्यार्थमाह॥ मोक्षेति। यद्देहावशिष्टस्योपासनादिकं विहितं तादृशदेहत्याग एव मोक्षो मोक्षे सति देहादिकं निवर्तत इति प्रतिषिध्य मोक्षरूपेण देहादेर्निवृत्तिं ज्ञापयित्वा प्रशाम्यति। मोक्षे प्रलये च मुक्तान्प्रति निर्व्यापारा भवतीत्यर्थः। उक्तार्थे प्रमाणमाह॥ सर्वेति। अ इत्यस्य व्याख्यानं॥ अदोषत इति। तस्य विष्णोरुपासने उपासनार्थं बंधं चोक्त्वेत्यन्वयः। ननु मुक्तानामपि विष्णूपास्तेः सद्भावादुपासनस्य स्थूलदेहं विनाऽयोगान्मोक्षेऽप्युपासनार्थंमुक्तान्प्रति वेदविधिः प्रवर्तत एवेत्याशंकापरिहारायोक्तं॥ स्वभावेति। स्वरूपदेहेनैवोपासनाकर्तृत्वस्वरूपवत्त्वात्। तथा च न बाह्यस्थूलदेहापेक्षयेति भावः। प्रशांत्यवस्थायां तर्हि वेदस्य निर्विषयत्वापत्तिरित्यत उक्तं॥ वासुदेवेति। केवलभगवत्प्रतिपादक इत्यर्थः॥ तथा चायमर्थः। शब्दो वेदोऽधिकारिजीवान्प्रति अभिद। सर्वावतारेष्वभिन्नं निर्दोषं च मां विषयत्वेनास्थाय प्रतिपाद्यैतादृशस्य ममोपासनाविधानार्यंमायामात्रं भगवदिच्छानिर्मितं स्थूलदेहादिकमनूद्यांते उपासनादिद्वारा भगवदपरोक्षज्ञानोत्पत्त्यनंतरं प्रतिषिध्य देहत्याग एव मोक्ष इत्येव देहादेर्निवृत्ति ज्ञापयित्वा मुक्तौतान्प्रति स्वयं प्रशाम्यति। विधानादिरूप स्वव्यापारं न करोति। केवलहरिप्रतिपादकतयैव तिष्ठत इति। शब्द आस्थाय माभिदामित्येतावत एवांशस्य प्रकारांतरेण योजनां दर्शयति॥ अभिदामिति। अभेदमित्यर्थः। आस्थाय। तत्प्रतिपादकतयेति यावत्॥ मेतीति। अमानो नाः प्रतिषेध इति प्रतिषेधाद्यर्थकोऽयं मा शब्दः। नास्तीत्यर्थः। तथा चायमर्थः॥ नन्वेतावान्सर्ववेदार्थ इति सर्वोत्तमो हरिरेव सर्ववेदार्थ इत्युक्त। तदयुक्तं। तत्त्वमसीत्यादावभेदस्यैवोक्तेरित्याशकायामुच्यते। शब्द इति। जीवेश्वरयोरभिधामभेदमास्थाय तत्प्रतिपादकतया विद्यमानः कोऽपि शब्दो मा नास्तीत्यर्थः॥ तथा चोक्त युक्तमित्याशयः। मायामात्रमित्यादेस्तूक्तैव योजनेति॥४४॥ इति श्रीभागवतटिप्पण्यामेकविंशोऽध्यायः॥११–२१॥

॥ हरिः ॐ॥ अत्र तत्त्वानां संख्यानं जीवपरभेद निरूपयत्यस्मिन्नध्याये। तत्रादावुद्भवः पृच्छति॥ कानीत्यादिना।

ननु प्रश्नस्य संदेहमूलकत्वात्कः संशय इत्यतः संशयमूलां विप्रतिपत्ति दर्शयति॥ नवैत्यादिना। नवैकादशपंचत्रीन् भावान् भूतेषु येन वै। ईक्षितान्वेकमप्येषु तत्ज्ञान मम निश्चितमिति। एकोनविशाध्याये। त्वमात्थ वयं च शुश्रुम इत्यर्थः। संख्यानमेतावत्व यद्विवक्षया किं विवक्षया॥१-४॥ ब्राह्मणा वेदविचारकुशला यथा भाषंते तथा सर्वत्र पक्षेषु युक्तयः संतीत्यर्थः। अत्र मायां मदीयामित्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे॥ माया मदीयामिति। मायामित्यादि श्लोकार्थे प्रमाणमाह। विष्णोरिति। भगवदुक्तिसामर्थ्यमाश्रित्य। अनेन मायामयमित्यर्धस्य तात्पर्यमुक्तं। तदित्यारभ्य शक्तिरित्यंतेनैवमित्यर्धस्य। यासामित्यर्धस्य तात्पर्यं॥ यस्या इति। यस्या शक्तेर्जातादव्यक्तादेर्विकारतो मनसो विकल्प इत्यन्वयः। कोऽयं विकल्प इत्यत आह॥ प्राप्त इति। प्राप्त इति पादस्य तात्पर्यं। तच्चेति। शम शब्दार्थ उक्तः॥ वासुदवैकनिष्ठयेति। निरहंकारायेति दम शब्दतात्पर्यं। इंद्रियैरहं कर्तेति कर्तृत्वाभिमानत्यागस्यैवेंद्रियनिग्रहार्थकदम शब्दफलितार्थत्वादित्याहुः। विकल्प इति पादस्य तात्पर्यं॥ विवादेति। न तु विरुद्धकल्पनं। यासामित्यर्धं विवृतमपि स्ववाक्येन विवृणोति॥ यासामिति। शक्तीनामित्यर्थः। सकाशात्। जातादिति शेषः। अव्यक्तादिव्यतिकरादव्यक्तादेर्विकारादित्यर्थः। यथा वक्तुर्विवक्षितमित्यत्रापेक्षितं पश्यति॥ तत्त्वसंख्येति॥ तथा चायमर्थः। ननु स्वकपोलकल्पितत्वेन वदतां मतं कथं प्रमाणं स्यादित्यत उच्यते॥ मायामिति। मदीयां मायां मत्सामर्थ्यमुद्गृह्यालंब्य नानाविधतत्त्वसंख्यां कुर्वतां ऋषीणां किं नु दुर्घटं किमनुपपन्नमस्ति सर्वं प्रामाणिकमेवेत्यर्थः। नवैकादशेति मदुक्त्या मदुक्ततत्त्वसंख्यानं ज्ञात्वा तदविरोधेनैव कयाचिद्विवक्षया तत्त्वसंख्यां मुनीश्वराश्चक्रुरिति मन्मताविरोधित्वात्सर्वमपि मतं प्रामाणिकमेवेत्याशयः॥५॥ यथा त्वमात्थ तदेव न भवति। परस्परविरोधाभिप्रायेण त्वया क्रियमाणः प्रश्नोऽयुक्त इत्यर्थः। अहं यद्वच्मि तत्तथा। वक्ष्यमाणरीत्याऽविरोधमहं यथा वच्मि तथा ज्ञातव्यमित्यर्थः। नन्वेवमप्यविरोधे तत्तदृषिशिष्या मद्गुरूक्तमेव तत्त्वं न त्वद्गुरूक्तमिति कस्माद्विवदंत इत्यत आह॥ एवमिति। षड्विंशत्यादिभेदेन विवादं कुर्वतां तेषां विवादे दुरत्यया मे शक्तय एव हेतुर्हेतुभूताः। कीदृशास्ता यासां शक्तीनां सकाशाज्जातादव्यक्तादेर्व्यतिकराद्विकारान्मनसो विकल्पो विरुद्धकल्पनमासीत्तदेव वदतां विवादमानानां पदमाश्रय आसीत्। मन्मताविरोधेनैतैरुक्तमिति न जानंति। मन्माया-

मोहितत्वादतो मनसो विकल्पेनात्र भ्रमादिवदंतीत्याशयः। कदा नु विकल्पोपशम इत्यत आह॥ प्राप्त इति। इंद्रियानग्रहलक्षणे दमसहिते भगवन्निष्ठालक्षणशम इति बुद्ध्या विवेकेन योज्यं। प्राप्ते सति विकल्पोऽव्येति नश्यति। एवं विकल्पनाशे सति मुनिविकल्पनाशमनुवादो विवादः शाम्यतीत्यर्थः। सम्यघ्घरावंतःकरणं निधायाहंकारं त्यक्त्वा सम्यग्विचारे क्रियमाणे सति भगवन्मताविरोधज्ञानमेव तेषां भवतीति विकल्पमूलकविवादोपशमो युक्त इत्याशयः॥६॥७॥ एवं तत्त्वानामनेकधा संख्याने युक्तिमाह॥ परस्परेति। कार्याणां कारणे कारणानां च कार्ये प्रवेशादित्यर्थः। पौर्वापर्यप्रसंख्यानं पूर्वसंख्याऽल्पाऽपरा बह्वी तत्संबंधित्वं पौर्वापर्यं न्यूनाधिकभावेन। प्रसंख्यानमिति यावत्। वक्तुर्यथा विवक्षितं तथा विवक्षाभेदेन तत्त्वसंख्या बहुधा भवतीति न विरोध इत्याशयः॥८॥ एतदेव विवृणोति॥ एकस्मिन्निति। पूर्वस्मिन्पूर्वभाविनि कारण इत्यर्थः। तथा चैकस्मिन्नपि पूर्वस्मिन्कारणभूते तत्त्वे इतराणि सर्वशस्तत्त्वानि प्रविष्टानि दृश्यंते। तथाऽपरस्मिन्पश्चाद्भाविनि कार्यभूते तत्त्वे इतराणि कारणभूतानि तत्त्वानि प्रविष्टानि दृश्यंते। व्याप्तं कार्येषु कारणमित्युक्तेः। यस्मादतस्तस्मादमीषां तत्त्वानां प्रसख्यानं गणनं कर्तुमिच्छतामृषीणां पौर्वापर्य न्यूनाधिकभावेन प्रसंख्यानं युज्यत इत्यर्थः। तन्मम संमतं युक्तियुक्तत्वादित्याह॥ यथेति। यदि उक्तमिति पदच्छेदः। यद्युक्तमिति पदकरणे युक्तीत्यनेन पुनरुक्तिः। तथा च ऋषिभिर्यदि यद्यथा विविक्त स्पष्टमुक्तं तत्तथा वयं गृह्णीमः। कुतः। युक्तीनां संभवात्। अत्रार्थे युक्तीनां सद्भावादित्यर्थः॥१०॥ एवमनेकधा तत्त्वसंख्यानं कुर्वद्भिरपि ऋषिभिः सर्वैः स्वतंत्रतत्त्वभूतो भगवानंगीक्रियते इत्येतदनंगीकारेबाधकप्रदर्शनमुखेनोपपादयति। अनादीति। एतत् श्लोकतात्पर्यमाह॥ सर्वथेति। कुत इत्यत आह॥ जीवस्येति। स्वत ईश्वरानुग्रहमंतरेण स्वशक्त्त्येत्यर्थः। अन्यथाऽनादिकाले संबधायोगादित्याशयः। तथा चानादिकाले भगवदज्ञानयुक्तस्य जीवस्यात्मसाक्षात्कार ईश्वरानुग्रहमंतरेण स्वशक्त्या यस्मात्तन्न संभवत्तत्तस्माज्जीवोऽन्यो जीवस्य ज्ञानप्रद ईश्वरः सर्वथांऽगीकार्यः। अज्ञाना ज्ञानदो विष्णुरित्युक्तेरित्यर्थः। यदि स्वशक्त्यैव ज्ञानादि तर्हि किमित्यनादिसंसारभग्नो जीवः कस्माच्च स्वात्मानं न मोचयति। तेन ज्ञायतेऽन्य इश्वरोऽस्तीति भावः॥१०॥ नन्वेवं जीवादन्यमीश्वरं प्रसाध्य कथं पुरुषेश्वरयोरिति तद्विरुद्धं

कथ्यत इत्यतस्तात्पर्यमाह। स चेति। जीवान्योहरिरित्यर्थः। तदन्येत्येतद्भावप्रधानमित्याशयेन व्याचष्टे॥ तयोश्चान्यत्वेति॥ अपगमनेति। अपेत्युपसर्गार्थः। प्रयोजनेत्यर्थ शब्दार्थः। ननु कथं स्वरूपादपगमनं स्वरूपस्यानपायादित्यतस्तद्विवृणोति॥ अनर्थेति। तथा च पुरुषेश्वरयोर्जीवांतर्यामितया पुरुषरूपेण ज्ञानदातृबहिष्ठतयेश्वररूपेण मोक्षादिफलदातृभगवद्रूपयोरष्वपि किंचिदपि वैलक्षण्यं भेदोनास्तीत्यतस्तयोरन्यत्वकल्पना भेदधीरपार्थाऽनर्थकारिणीत्यर्थः। ज्ञानं चेति पादमसंगतिपरिहारायावतारयति॥ ज्ञानेति। ज्ञानोत्पादनं। अंतःस्थरूपेणेति शेषः। ननु कथमनेन शंकापरिहारः स्वरूपज्ञानस्य प्रकृतिगुणत्वायोगादित्यतो व्याख्याति॥ जन्य ज्ञानमिति। अत्रार्थे प्रमाणमाह॥ स्वरूपेति। प्राकृतं ज्ञानमपरोक्षं। भक्त्यादिसाधनमपेक्ष्य तेनैवांतःस्थपुरुषरूपेण॥११–१२॥ प्रकृतेरित्यादिश्लोकमसंगतिपरिहारायावतारयति॥ जन्येति। पुरुषेश्वरयोरिति श्लोकार्थे सिंहावलोकनन्यायेन प्रमाणमाह॥ अतस्थ इत्यादिना। मूलमुपलक्षणमित्याशयेनाह। तथैवेति। ते सर्वेऽपार्थेत्यस्य तात्पर्यं॥ अनर्थभागिन इति। तथा च प्रकृतेरित्यादेरयमर्थः॥ स्थित्युत्पत्त्यंतहेतवः सत्त्वरजस्तम इति प्रकृतेर्गुणाः। प्रकृतेर्गुणसाम्ये प्रलये आत्मनो जीवजातस्य ज्ञानादिस्वकार्यापादका न भवंति। सृष्टिकाले भवतीत्याह॥ सत्त्वं ज्ञानमिति। सृष्टिकाले ज्ञानं सत्त्वं सत्त्वगुणजन्यमित्यर्थः। एवं च जन्यज्ञानं प्राकृत प्रकृतिकार्यसत्त्वगुणकार्यमित्युक्तं भवति। कर्म रजो रजोगुणकार्य। अज्ञान तमस्तमोगुणकार्यमितीह श्रुत्योत्त्यत इत्यर्थः॥१२॥ इदानीमृषिभिरुक्ततत्त्वानां संख्याभेदं विवरितुं सर्वैरपि जीवान्यो भगवानंगीकार्य इत्युक्तं तत्स्वरूप वदन्नवैकादशपचत्रीनिति। स्वोक्ततत्त्वानि तावद्विविच्याह भगवान्॥ गुणव्यतिकर इति। केचिद्भगवंतं स्वतंत्रतत्त्वमनंगीकृत्य गुणव्यतिकरः सृष्टिकाल एव स्वतंत्रतत्त्व स्वभावत एव स्वतत्रतत्त्वं सूत्रमेव तथेति वदंति। तदयुक्तं। भगवत एव तच्छब्दवाच्यत्वादित्याशयेनैतानि विशेषणानि। काल शब्दार्थमाह॥ काल इति। सर्वगुणपूर्णत्वादित्यर्थः। कल कामधेनुरिति हि पठंति। सत्त्वादिगुणानां महदाद्यात्मना व्यतिकरो विकारो यस्माद्भवति स भगवान्कालस्तच्छब्दवाच्यः। स्वतंत्रो भावः स्वभावः। सर्वाधारत्वात्सूत्रमित्यर्थः॥१३॥१४॥ पुरुष इत्यादिना किं गण्यत इत्यतस्तदर्शयति॥ नवेति। तत्र नवतत्त्वानि प्रदर्शयति॥ पुरुष इत्यादिना। मे मम॥१५॥ एकादशतत्त्वानि दर्शयति॥ श्रोत्रमिति। ज्ञानजनने शक्तिर्येषां ते

ज्ञानशक्तयः। ज्ञानेंद्रियाणीत्यर्थः। वाक्पाण्युपस्थपाय्वधिकर्माणि। एतदाख्यानि कर्मेंद्रियाणि। उभयमिदं करिष्ये इदमित्थं करिष्य इति संकल्पविकल्पात्मकं मन इत्येकादशतत्त्वान्युक्तानि। मे नवेत्यन्वयः॥१६॥ पंचतत्त्वान्याह॥ शब्देत्यादिना। ज्ञानेंद्रियविषयसमूहाः। कर्मेंद्रियविषयानाह। गतीत्यादिना। ननु नवैकादशपंचेति पंचतत्वान्युक्तानि। तानि च शब्दस्पर्शेत्यादिनोक्तानीति गत्युक्तीत्यादि व्यर्थं। न पंचेति पंचकद्वयं विवक्षितं। तेन गत्यादीत्येतत्सार्थकमिति वाच्यं। तथाऽपि तत्र गत्यादीनां चतुर्णामेवोक्तत्वेन पंचकद्वयाप्राप्तिरित्यतो व्याचष्टे॥ उत्सर्गस्येति। एकस्यैवेत्यर्थः। द्विविधत्वात्पायूपस्थरूपद्विविधेंद्रियविषयत्वेन द्विविधत्वादित्यर्थः। तथा च पायूपस्थविषयोरुत्सर्गयोद्विविधत्वमभिप्रेत्य मूले उत्सर्गेति सामान्येनोक्तं। तथा च कर्मेद्रियविषया अपि पंचेत्युक्तं भवति। पंचकद्वयं नवैकादशपंचत्रीनित्यत्र पंच शब्देन विवक्षितमित्यर्थः। पंचेत्यस्य पंचपंचेति आवृत्तौ पंचकद्वयलाभ इत्याशयः। शिल्पं पाणिविषयः। आयतनमाश्रयः। साधनमिति यावत्। कर्मायतनानां कर्मसाधनेंद्रियाणां सिद्धयः कार्याणीत्यर्थः॥१७॥ ननु सर्गादावित्यसंगतं किमुच्यत इत्यतस्तदवतारयति। त्रीनिति॥ गुणा इति॥ वक्तुमिति। नवैकादशपंचत्रीनित्यत्र त्रीणि तत्त्वानि कानीत्याशंकायां त्रयो गुणास्त्रीनित्यनेन विवक्षिता इति वक्तुं गुणानां प्रवृत्तिप्रकारमाहेत्यर्थः। तथा चास्य जगतः सर्गादौ सृष्टिकाले कार्यकारणरूपिणी कार्यकारणात्मकजडप्रकृत्यभिमानिनी चित्प्रकृतिः सत्त्वादिभिर्गुणैस्तदभिमानिश्रीभूदुर्गारूपैर्जगद्धत्त इत्यन्वयः॥१७॥ ननु तथापि पुरुषोऽव्यक्तमित्यादिना सृष्ट्यादिकं किमसंगतमेवोच्यते भगवदभिप्रेततत्त्वगणनाया जातत्वादित्यतस्तात्पर्यमाह॥ कार्येति। पूर्वत्र ऋष्यादिमतानां युक्तिमत्वात्प्रामाणिकत्वमुक्तं। तत्प्रकारश्चोत्तरत्रोच्यते। तत्कथं युज्यते भगवन्मतविरोधित्वादित्याशंकायां परस्परानुप्रवेशात्तत्त्वानामिति विवक्षाभेदेनाविरोधप्रकार उक्तः। तत्र परस्परानुप्रवेश एव कुत इत्याशंकायां कार्यकारणभावस्य सत्वादित्युक्तग्रंथेन वक्तुंसृष्ट्युक्तिरुपपद्यते। कार्यकारणभावज्ञापनायेति भावः। कार्यकारणभावादन्योन्यानुप्रवेश इत्यत्र प्रमाणमाह॥ सृज्येति। कार्यकारणेत्यर्थः। प्रवेशिनः प्रवेशवतः संतस्तिष्ठतीत्यर्थः। उत्तमेषु नीचा भृत्यतया संति। कुतः। उत्तमेषु नीचानां विशेषप्रीतिरूपकारणसद्भावात्। कारणीभूतोत्तमत्वोक्त्या कार्यभूतनीचत्वानामपि प्राप्तिः। तथा च नीचेष्वप्युत्तमाः संति। कुतः। नीचेषूत्तमानां विशेषप्रीतिरूपकारणसद्भावात्। तथा च नीचानां ग्रहणे उत्तमानामपि

प्राप्तेरिति भावः। तथा च हरिणाऽनुगृहीतः पुरुषो हिरण्यगर्भो व्यक्तं व्यक्तनाम्नीं सरस्वतीं सृष्ट्यर्थमीक्षते। तां निमित्तीकृत्य व्यक्त शब्दवाच्यरुद्रादिजगत्सृजतीत्यर्थः। व्यक्तादयो धारकत्वाद्धातृ शब्दवाच्याः। तत्त्वानि विशकलिततया स्थिताः। स्तोत्रानंतर पुरुषस्य हरेरिच्छया सहता मिलिता अत एव लब्धवीर्याः प्रकृतेः प्रेरकलक्ष्म्याश्च बलाद्विकुर्वाणा विकार प्राप्नुवानाः सतोंऽडं सृजंतीत्यर्थः। नवैकादशपंचत्रीनित्यत्रोक्तनवतत्त्वकथनपरपुरुष इति श्लोके कः पुरुष शब्देनोच्यत इत्यतस्त दर्शयति॥ अन्वेकमिति। अयं भावः। नवैकादशेत्युक्तनवतत्त्वानि पुरुषमारभ्य क्षित्यंतानीति पुरुषः प्रकृतिरिति श्लोकेन तावदुक्तं॥ अत्र यदि पुरुष शब्देन हिरण्यगर्भो विवक्ष्यते। तदैव नवैकादशपंचत्रीन् भावान् भृतेषु येन वै। ईक्षेतान्वेकमप्येषु तत्ज्ञानं मम निश्चितामिति श्लोकेऽन्वनंतरमेषु नवादितत्त्वेषु नियामकतया स्थितमेक हरिमीक्षेतेत्युच्यमानं नियामकतया हरिप्रवेशकथनं युक्त स्यात्। नवतत्त्वेषु पुरुष शब्देन भगवद्गृहणे त्वन्वेकमप्येष्वित्युक्तभगवत्प्रवेशोऽनुपपन्नः। न हि हरेः स्वस्य स्वस्मिन्नियामकतया प्रवेशोऽस्त्यत एतन्नवतत्त्वप्रविष्टतया परमात्मनः पृथगुक्तत्वादत्र हिरण्यगर्भ एव पुरुष शब्दवाच्य इति। अत्र प्रमाणमाह॥ यदेति। अत्रानुवादबलादित्थं योज्यं। परस्परमात्मनः। पृथगुक्तौ सत्यां पुरुष शब्देन विरिंचस्यैव वाच्यत्वं। यदा पुरुष शब्देन विरिचस्य वाच्यता तत्र तदा व्यक्त शब्दवाच्यः शंकरोयदा व्यक्त शब्दवाच्यः शंकरस्तदाऽहंकार शब्देन स्कंदस्य वचनमित्यर्थः। अत्र चान्वेकमिति परस्य पृथगुक्तेः पुरुषो हिरण्यगर्भ एवेति भावः। तथा च पुरुष शब्दवाच्याहिरण्यगर्भप्रकृतिशब्दवाच्य-रमाव्यक्तशब्दवाच्यरुद्राहंकारशब्दवाच्यस्कंदाश्चत्वारः पंचभूतानीति नव। एकादशेंद्रियाणि शब्दादिपचकद्वय सत्त्वादयो गुणास्त्रयः स्वतंत्रो भगवानेव इति चतुस्त्रिंशत्तत्त्वानीत भगवतो वासुदेवस्य मतमित्युक्तं भवति॥१८॥ ननु सप्तैव धातव इत्यादिना विवक्षाभेदेन सप्ततत्त्वानीत्युच्यते। तदयुक्तं। भगवन्मतोक्त्यनंतरं केचित् षड्विंशतिं प्राहुरपरे पंचविशतिमित्युक्तत्वेन तत्प्रकारस्यानुक्तत्वादित्यतस्तत्प्रकारद्वयं मूले भगवदभिप्रेतं स्वयं दर्शयति॥ सत्त्वादीनिति। नवैकादशपंचत्रीनित्युक्तचतुस्त्रिंशत्तत्त्वानि पुरुषः प्रकृतिर्व्यक्तमित्यादिना दर्शितानि तन्मध्ये सत्त्वादित्रीणि तत्त्वानि कर्मेंद्रियविषयभूतान् गत्यादीन्पचेत्यष्टौ विना पुरुषादीन्येव परमात्मना सह षड्विंशति तत्त्वानि ज्ञेयानीत्यर्थः। अत्र गत्यादीनां कार्याणां कारणेषु कर्मेंद्रियेषु प्रवेशो ज्ञातव्यः। सत्त्वादीनां कारणानां कार्येषु प्रवेशो

ज्ञातव्यः। पंचविशतितत्त्वानि दर्शयति। महदिति। महदिति व्यक्तशब्दार्थोक्तिः। परमात्मना पुरुष शब्दवाच्येनेत्यर्थः। तथा च नवैकादशेत्युक्तविवरणात्मके पुरुषः प्रकृतिरिति श्लोके पुरुष शब्देन भगवान् प्रकृतिर्व्यक्त शब्देन महत्तत्त्वाभिमानी ब्रह्माऽहंकारो रुद्र इति चत्वारः। अत्राहंकार शब्देन स्कदो न ग्राह्यः। अत्र यदा पुरुष शब्देनेति न्यायायोगात्पंचविंशतितत्त्वपक्षे परस्य पृथगुक्त्यभावेन पुरुष शब्दस्य विंरिंचपरत्वाभावेन व्यक्तो न शंकरोऽहंकारश्च न स्कंदः। तस्मात्पुरुष शब्देन परमात्मा प्रकृतिर्व्यक्तं ब्रह्माऽहंकारो रुद्रः स्कंदस्त्याज्यः। एवमेते चत्वारः पंचभूतान्येकादशेंद्रियाणि शब्दाद्याः पंचज्ञानेंद्रियविषया इति पंचविंशतिः। अत्रापि गत्याद्याः पंचसत्त्वादयस्त्रयस्त्याज्या एवेति स्पष्टं। एवं पंचविशति तत्त्वसंख्यां प्रमाणेनाह। विषयेति। विषय शब्देन पंचभूतानि शब्दाद्या अपि चोच्यंते। इंद्रिय शब्देनैकादशेंद्रियाणि। देवता शब्देन महदहंकारात्मकब्रह्मरुद्ररूपदेवताद्वयं। परमात्मना सहेति शेषः॥१९॥ सप्तैवेति पक्षं विवृणोति॥ सप्तैवेति। यत्र पक्षे सप्तैव धातवस्तत्त्वानि तत्रैवं गणना कार्या। कथमित्यत आह॥ अर्था इति। शब्दाद्या अर्था विषयाः खादय आकाशादिभूतानि चेत्युभयेऽपि विवक्षाभेदेनैकाकारं गताः पंच। ज्ञानमुभयाधार आत्मा सप्तम इत्यर्थः। अत्र ज्ञानादिशब्दोक्तः क इत्यत आह॥ ज्ञानेति। स्मृत आत्मशब्दतयेत्यर्थः। तथा चोभयाधारः पंचवर्गस्य ज्ञानशब्दोदितब्रह्मणश्चेत्युभयाधार आत्माधार आत्मा हरिरित्यर्थ उक्तो भवति। एके नवेत्युक्त तद्दर्शयति। ततो देहेंद्रियासव इति। तद्व्याचष्टे॥ तत इति। तत्र प्रमाणमाह॥ सर्वेति। तथा च ततो ज्ञानं विनेत्यर्थः। अर्थाः खादयः पंच। आत्म शब्दोक्तः परमात्मा ग्राह्य इत्यर्थः। तथा चार्थाः खादयश्चैकाकारं च गताः पंच। आत्मा परमात्मा देहमानी दिवाकरः। इंद्रियमानींद्रः। असुः प्राण इति। नव तत्त्वानीत्यर्थः॥२०॥ षट् केचिदित्युक्तं पक्षं विवृणोति॥ षडित्यत्रापीति। षडेव धातव इति पंचभूतानि परः पुमान्हरिः षष्ठः षट्त्वसंख्यापूरण इत्यर्थः। अत्र षट्त्वसंख्या कार्यकारणभावेनान्योन्यप्रवेशो युक्त इत्याशयेन तामुपपादयति। तैरिति। आत्मनः सकाशात्संभूतैस्तैः पंचभूतैर्युक्त आत्मेदं जगत्सृष्ट्वा समुपाविशदित्यर्थः॥२१॥ चत्वारीति पक्षं विवृणोति॥ चत्वारीति। यदा चत्वार्येव तत्त्वानीति पक्षस्तत्रापि। आत्मनो हरेः सकाशाज्जातानि तेज आपोऽन्नमिति त्रीण्यात्मैक इति गणना कार्येत्यर्थः। अन्नं पृथिवी।

पृथिवी अन्नमिति श्रुतेः। अत्राप्यन्योन्यानुप्रवेशहेतुं कार्यकारणभावमुपपादयति॥ तैरिति। तैस्तेजोऽवन्नैरिदमवयविनो ब्रह्मांडस्य जन्म जातमस्ति खल्वित्यर्थः। अत्र पदानां व्यवहितत्वादन्वयं दर्शयति॥ अवयविन इति॥२१॥ एकादशपर इत्युक्तपक्षस्याविवृतत्वात्स्वयं प्रमाणेनैव दर्शयति॥ भूतानीति। पंचभूतानि शब्दाद्याः पंचतन्मात्राः परश्चैक इति एकादशतत्त्वानीत्यर्थः। मूले एकादशतत्त्वान्येतानीति कंठतोऽनुक्तिः कुत इत्यत आह॥ भूतमात्रेति। सप्तदशतत्त्वकथनसमये भूतमात्रेत्युक्त्या दशतत्त्वानि लब्धान्येव। आत्मा तु वर्तत एवेत्येकादशतत्त्वानामर्थतः सिद्धत्वादनुक्तिरिति भावः॥२२॥ केचित्सप्तदश प्राहुरित्युक्तं विवृणोति॥ संख्यान इति। सप्तदशतत्त्वानीति संख्याने गणनपक्षे एव गणनीयं। भूतमात्रेंद्रियाणि त्रीणि प्रत्येकं पंच पंच। पंचभूतानि पंचमात्राः पंचज्ञानेंद्रियाणीति। एवं सति पंचदश एकमनसैकेन मनसा सहात्मा हरिः सप्तदशः स्मृतः। मनः षोडशसंख्यापूरक। आत्मा सप्तदशसंख्यापूरक इत्यर्थः॥२३॥ षोडशैक इत्युक्तं प्रकारं दर्शयति॥ तद्वदिति। षोडशतत्त्वानीति संख्यानपक्षे तद्वदेव पंचभूतानि पंचमात्राः पंचेंद्रियाणीति पंचदशसंपन्नानि। षोडशमाह। आत्मनेति। आत्म शब्देन मन उच्यते। तथा च मन एव षोडशमनात्मेति स्वतंत्राभाव एव प्राप्नोतीत्यतो व्याचष्टे॥ आत्मनेति। परमात्मना सह विद्यमानं मनः। परमात्मसंन्निधानयुक्तं मन इति यावत्। तथा च भगवत्सन्निधानपात्रस्य मनसः षोडशत्वेन ग्रहणे तत्सन्निहितो भगवानपि षोडशेनोक्तप्राय एवेत्यर्थः। अत्र प्रमाणमाह। आत्मन इति। मनसाऽऽत्मनः परमात्मनो यः सन्निधिः सामीप्यं तत्स्थत्वात्तेन संनिहितत्वात्। तत्सन्निधानपात्रत्वादिति यावत्। तदुक्तितस्तस्य मनस उक्तितः। एके त्रयोदशेत्युक्तप्रकारं दर्शयति॥ भूतेति। भूतानि पंचेद्रियाणि पंचेति दश। मन आत्मेति द्वादशतत्त्वानि प्रतीयंतेऽतस्त्रयोदशेत्ययुक्तमतस्तात्पर्यमाह॥ आत्म शब्देनेति। तथा चात्म शब्देन ब्रह्मपरमात्मनोरुभयोर्विवक्षितत्वात्त्रयोदशत्व युक्तमित्याशयः। अत्र प्रमाणमाह॥ भूतेति। वरा उत्तमाः। नन्वस्त्वेवं यद्यात्म शब्दो विरिचवाची च स्यात्तदेव कुतस्तस्य विरिचवाचित्वे परमात्मवाचित्वे चाभिधानमाह॥ आत्मेतीति॥२४॥ एवं नवविधत्वगणनाप्रकारं प्रदर्श्योपसंहरति॥ इतीति। नानाप्रकारेण प्रसंख्यानं न्याय्यं प्रामाणिकं विदुषां मतेऽशोभनमघटित किमपि नास्ति। सर्वं विवक्षाभेदेन सुघटत्वाच्छोभनमेवेत्यर्थः॥२५॥ प्रसंगादुद्धवः प्रमेयांतरं

पृच्छति॥ प्रकृतिश्चेत्यादिना। अत्र पुरुष शब्दार्थं व्याचष्टे॥ यद्यपीति। तथाऽपीत्यध्याहारेण दृश्यते न भिदा तयोरित्येतद्व्याचष्टे॥ तथाऽपीति। वैलक्षण्यामीति भेद शब्दव्याख्यानं। भेद शब्दो वैलक्षण्यार्थ इत्यत्र प्रमाणमाह॥ अतर चेति। प्रश्नाभिप्रायमाह। तदिति। तथा च वैलक्षण्यार्थं ज्ञाने किं कारणमित्याशयः॥२५॥ अन्योन्याश्रयादित्यनंतरमध्याहार्यमाह॥ अन्योन्येति। एवकारव्यवच्छेद्यं स्वयमेव दर्शयति॥ न त्विति। तथा चान्योन्याधारत्वेन साम्यमेव प्रतीयतेऽत एतादृशभ्रांतौ च किं कारणमित्याशयः। नन्वेवमज्ञानं भ्रांतिर्वा स्वस्य न संभवत्येव स्वेनात्मविलक्षणावित्युक्तत्वेन तथा पद्मेशेति संबोधितत्वेन प्रकृत्यभिमानिरमोत्तमत्वज्ञापनसद्भावेनानन्याधारत्वेन प्रकृत्याद्याधारत्वस्य निश्चितत्वादतो मे संशयमित्याद्ययुक्तमित्यत उक्तं॥ मदमतीनामिति। तथा च तदीयं संशयं स्वस्मिन्नाहृत्य लोकोपकाराय पृच्छतीति भावः॥२६॥ मंदमतीनां भगवतोऽनन्याधारतया प्रकृत्याधारत्वं न दृश्यते प्रत्युताव्यक्ताधारकत्वेनैव दृश्यत इत्यत्र प्रमाणमाह। आधार इति। यद्यपीति शेषः। नेत्यनंतरमन्य इति शेषः। अव्यक्ते तत्कार्ये देहादौ तिष्ठतीत्यव्यक्तगो जीवो यथाऽव्यक्ताधारत्वेन दृश्यते। तद्वद्धरिरपि मंदचेतसामव्यक्ताधारत्वेन प्रतीयत इत्यर्थः। तथा चायं श्लोकार्थः। प्रकृतिर्जडप्रकृतिः पुरुषः परमात्मा चेत्युभौ यद्यप्यात्मविलक्षणौ। आत्म शब्दः स्वरूपार्थः। स्वरूपत एव विलक्षणौ प्रकृतेर्जडत्वात्पुरुषस्य चातथात्वात्। तथाऽपि तयोः प्रकृतिपुरुषयोर्भिदा वैलक्षण्य न दृश्यते। तत्कुतो न दृश्यते तद्वैलक्षण्यज्ञाने किं कारणमिति भावः। वैलक्षण्यं न दृश्यत इत्येव न प्रत्युतान्योन्याश्रयात्। देहादौ पुरुषस्य सत्वेन देहादिप्रकृतेः पुरुषाधारत्वात्पुरुषस्यापि प्रकृत्याधारताया आगमसिद्धायाः सत्वेनान्योन्याश्रयस्य सत्वेनान्योन्याश्रयत्वमेव दृश्यते उभयोः साम्यमेव दृश्यते सा च भ्रांतिरिति साम्यभ्रमे च किंकारणमित्याशयः॥२७॥ अन्योन्यापाश्रयादित्युक्त विनृणोति॥ प्रकृताविति। देहादिरूपायां प्रकृतौ। तदाधारत्वेनेति यावत्। आत्मा हरिर्लक्ष्यते ज्ञायते। तथा च प्रकृतिश्चात्मनि। तदाधारत्वेनेति यावत्। लक्ष्यतेऽत उभयोः साम्यमेव भ्रांत्या प्रतीयत इति भावः। पद्मेश लक्ष्मीपते। नैपुणैः कुशलैः। कथं मदीयवचसा संशयच्छेदद्वारा सम्यग्ज्ञानोत्पत्तिरित्यत आह॥ त्वत्त इति। ज्ञानं समीचीनमुत्पद्यते। तनुशक्तितः। शक्तिरत्र बुद्धिः स्वल्प ज्ञानत्वाद्विद्यमानस्यापि ज्ञानस्य प्रमोपो नाशस्तिरोधानं वा त्वत्त

एव भवतीत्यर्थः। तनुशक्तितस्तामसदेहबलाद्वा मत्ज्ञानमन्यस्मात्त्वया संपाद्यतामिति न वाच्यमित्याशयेनाह॥ त्वमेवेति। मायासामर्थ्यं गतिं स्वरूपं॥२७॥ एवं पृष्टेप्रकृतिपुरुषयोर्विद्यमानवैलक्षण्यज्ञानेऽन्योन्यापाश्रयत्वेन साम्यज्ञानेच तमोगुण एव कारणमिति वक्तुमुपोद्घातमाह भगवान्॥ प्रकृतिरित्यादिना। अत्र किमसगतमेवोच्यत इत्यतः प्रकृतिपुरुषश्चेतीति वाक्यं सर्वं वाक्यं सावधारणमिति न्यायेन योजयति॥ प्रकृतिरिति। यद्यपीति शेषः। इत्येवेत्यस्यार्थमाह। अन्योन्येति। व्यवहितत्वादन्वयं प्रदर्श्य व्याचष्टे॥ एष विकल्प इति। तथाऽपीति शेषः। एष इत्यस्य व्याख्यानं॥ वैलक्षण्यादर्शनमिति। विकल्प इत्यस्य व्याख्यानं॥ विरुद्धकल्पनमिति। विरुद्धकल्पनस्य कारणमित्यर्थः। सर्वं वाक्यं सावधारणमिति न्यायेनैवेत्युक्तं भवति। तथा च विद्यमानवैलक्षण्याज्ञानेऽन्योन्यापाश्रयत्वेन साम्यभ्रमे निमित्तमित्यर्थः। वैलक्षण्यज्ञानेऽपि निमित्तमुच्यते॥ वैकारिकः सर्गोगुण व्यतिकरात्मक इति। किमनेन निमित्तमुक्तं स्यादित्यतोऽन्वयं दर्शयंस्तद्व्याख्याति॥ यस्मादित्यादिना। गुणव्यतिकरात्मकः सर्गो गुणवैषम्यरूपा सृष्टिरित्यर्थः। वैकारिक इत्यस्याहंकारप्रभेदवैकारिकाहंकारप्रतीतिं वारयितुमाह॥ विकारति। विकारोऽहंकारतत्त्वं। महत्तत्त्वविकारत्वात्तस्य। तथाऽपि हेतुत्वाप्रतीतेर्मूलाभिप्रेतं दर्शयति॥ स चेति। यो विकारनिर्मितः स चेत्यर्थः। गुणव्यतिकरः सृष्टिरित्यर्थः। अहंकारेण जायमानः सर्गः सत्त्वप्रधानो रजःप्रधानस्तमःप्रधानश्चेति। तत्राद्यो देवतादेहसर्गः। द्वितीय इंद्रियसर्गः। तृतीयो भूतसर्गः। ततः किमित्यत आह॥ तत्रेति। विरुद्धकल्पनं वैलक्षण्याज्ञानद्वारा भवतीति योज्यं। तथाऽपि प्रकृते किं कारणमुक्तं स्यादित्यत आह। तस्मादिति। अत्र वैलक्षण्याज्ञाने। तमसोऽज्ञानमेव चेत्यज्ञानस्य तमः कार्यताप्रसिद्धेः॥ तथा चायमर्थः॥ यद्यपि प्रकृतिः पुरुषश्चेत्येवमन्योन्यविलक्षणावेव। तथाऽप्येषविकल्प एव। एष वैलक्षण्यदर्शनाभावोऽन्योन्यापाश्रयत्वादिना प्रकृतिपुरुषयोः साम्यादिभ्रांतिर्विरुद्धरूपकल्पने कारणं। वैलक्षण्यदर्शनाभावोऽपि कुत इत्यतस्तत्रापि हेतुरुच्यते॥ वैकारिक इति। गुणव्यतिकरात्मकः सर्गो गुणवैषम्यापरपर्यायः सर्गोवैकारिकोऽहंकारकार्यः। तथा चाहकारतत्त्वजन्यसर्गत्रयमध्ये यस्तमः प्रधानसर्गस्तद्वंत एतेषामेव। वैलक्षण्याज्ञानद्वारा विरुद्धकल्पनादिकं भवतीति तमोगुण एव मूलकारणमित्यर्थः॥२९॥ ममांगेत्युत्तरश्लोकस्य संगत्यप्रतीतेस्तामाह। तत्रापीति। एवं तमोगुणस्यैव कारणत्वेसिद्धेऽपि कारणांतरमप्यस्तीत्युच्यत इत्यर्थः।

अत्रैवकारोऽयोगव्यवच्छेदार्थः। न त्वन्ययोगव्यवच्छेदार्थः। तथात्वे ईश्वरेच्छारूपकारणोक्त्ययोगात्। प्रकृतिर्लिंगदेह इच्छा चेत्यनंतरमित्याह॥ ममेतीति शेषः। अत्राहंकारकार्यविशेषस्य वैकारिकाहंकारस्य त्रैविध्यमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ विकारादिति। महत्तत्त्वस्य विकारादित्यर्थः। त्रिविधोऽपि तामसादिभेदेन त्रिविधोऽप्यहंकारो वैकारिक इत्युच्यत इत्यन्वयः। तत्र हेतुर्विकाराज्जातत्वादिति। अहंकारतत्त्वस्य वैकारिक शब्दवाच्यत्वे प्रमाणमाह॥ वैकारिक इति। महान्महत्तत्त्वं। तथाऽहंकारश्च वैकारिके वैकारिक शब्दवाच्यः। तथाऽहंकारतत्त्वे यः सात्त्विकोऽशो देवतादेहमनसोरुत्पत्तिहेतुः। साऽपि वैकारिक इत्युच्यत इति त्रिधा वैकारिकशब्दवाच्यास्त्रय इत्यर्थः॥ तथा चायमर्थः। हे अंग। अंगेति प्रियसंबोधन। न केवलं तमोगुणः किं नाम गुणमयी सत्त्वादिगुणात्मिका ममाधीना माया प्रकृतिर्लिंगदेहरूपा। तात्पर्ये ईश्वरेच्छेत्युक्तत्वात् च शब्दस्य मायेत्यनेनापि संबंधः कार्यः। गुणमयी ज्ञानानंदादिगुणात्मिका मम माया चेच्छा च गुणैः सत्त्वरजस्तमोगुणैरनेकधा विकल्पबुद्धिं निर्गुणत्वप्रकृतिसाम्यादिभ्रमरूपां बुद्धिं। च शब्दात्समीचीनां बुद्धिं च। विधत्ते जनयतीत्यर्थः। परंपरयैतादृशमायाकार्यस्याहंकारस्य त्रैविध्यमाह। वैकारिक इति। एकमहंकारतत्त्वमध्यात्ममथैकमाधिदैवमन्यदधिभूतामित्येवं वैकारिकोऽहंकारस्त्रिविध इत्यर्थः॥३०॥ ननु दृग्रूपमित्यादिना किमसंगतमेवोच्यत इत्यतस्तात्पर्यमाह॥ अध्यात्ममिति। अध्यात्मादिभेदेनाहंकारस्य त्रैविध्यमुक्तं। तत्राध्यात्मसंज्ञकोऽहंकारः क इत्यतोऽध्यात्ममिंद्रियाण्यहंकार इत्युच्यंते। तैजसाहंकारकार्यत्वादित्याशयः। अतो नासंगतिः। इंद्रियाणीत्युक्त्यैवं त्वगादीत्यादेरपि तात्पर्यमुक्तं ज्ञातव्यं। अतो विकल्पः परस्परं सिद्ध्यतीत्यध्यात्मादित्रयाणां विकल्पहेतुत्वमुक्तं। तत्तात्पर्यमाह॥ तैरेवेति। अध्यात्मादिभिरित्यर्थः। श्लोकद्वयतात्पर्यं प्रमाणेनाह॥ अहंकार इति। अनेन परस्परं सिद्ध्यतीत्यस्य तात्पयर्मुक्तं भवति। नन्वहंकारभेदानामध्यात्मादीनां परस्परं मिलितानामेव ज्ञानजनकत्वे मुक्तौ अध्यात्मादिभेदभिन्नाहंकाराभावात्ज्ञानं न स्यादित्यत आह॥ सम्यगिति। अनेनात्मा स्वयानुभूत्याऽखिलसिद्धिरित्यंशस्य तात्पर्यमुक्तं। यत्सम्यग्ज्ञानं तद्धरेः शक्त्या ज्ञायत इति सर्व सम। तत्सम्यग्ज्ञान मुक्तस्य विशेषतो हरेः शक्त्या जायत इति योज्यं। तर्हि मुक्तौ स्वोत्तमदेवानामकिंचित्करत्वमुक्तं स्यात्तत्राह॥ देवतेति। कुत इत्यत उक्तं॥ नित्यमिति। तासां देवतानां प्रतिबिंबत्वात्।

तदधीनत्वे सति तत्सदृशत्वादित्यर्थः। ननु निजज्ञानं हरिशक्त्या भवत्वथाऽपि बाह्यपदार्थविषयं यत्ज्ञानं तज्जडाहंकारकार्येंद्रियादिना जायत इत्यवश्यं वाच्यत्वेन तत्राप्यध्यात्मादिभेदभिन्नाहंकारसिद्धिरित्यत आह॥ बाह्येति। बाह्यपदार्थविषयं ज्ञानमित्यर्थः। जडाहंकृतेर्यदि न भवति तर्हि कस्माद्भवतीति पृच्छति॥ किं त्विति। उत्तरयति॥ स्वरूपेति। स्वरूपशक्त्यैव बाह्यज्ञानमित्यत्र प्रमाणांतरं चाह॥ पश्यन्नपीति। पश्यति मुक्तः। जडं जडाहंकारतत्त्वं। एषामुपराम इत्यस्यार्थमाह। एषामिति। अध्यात्मादीनां। ननु दृगित्युक्तत्वात्पुनश्चक्षुर्ग्रहणमतिरिच्यत इत्यत आह॥ चक्षुरितीति। चित्तयुक्तत्वावधारणार्थमित्यर्थः॥३१॥ योऽसाविति श्लोके उद्देश्यविधेयं च यथास्थितप्रतीतिनिवारणाय दर्शयति॥ योऽसाविति। विकारोऽहंकारः। गुणक्षोभो महत्तत्त्वं तेन कृतस्तज्जन्यो मोहः। विकल्प इत्यस्यार्थः॥ भ्रमहेतुरिति॥३२॥ आत्मापरिज्ञानमय इत्यत्र साध्याप्रतीतेस्तद्दर्शयति॥ आत्मा त्विति। परिज्ञानं सम्यग्ज्ञानं तत्स्वरूपो यतः। अत इति शेषः। भिदेत्येतन्न प्रथमांत किं नाम भिच्छब्दस्येयं तृतीयेत्याशयेन व्याचष्टे॥ भिदेति। ज्ञानमिति शेषः। अस्तीत्यादेरर्थमाह॥ विद्यमानमिति। वस्तुतो जीवेश्वरभेदादिकं विद्यमानं तन्नास्ति वस्तुतोऽविद्यमान जीवेश्वरैक्यादिकमस्तीत्येवं कथनमेव विवाद इत्यर्थः। अयं विवाद इत्यत्र प्रमाणमाह॥ असदिति। ऐक्यादि सत् भेदादि। एव भेदात्। एवं प्रकारेणेति यावत्। हरीत्यादि मत्तः परावृत्तेत्यादेस्तात्पर्यं। सदैव प्रवर्तत इति व्यर्थोऽपि नैवोपरम इत्यस्य तात्पर्यं॥ तथा चायं सार्धश्लोकत्रयार्थः॥ अध्यात्मादिकमुदाहरति॥ दृगित्यादिना। रंध्रे गोलके दृक् चक्षुरिंद्रियं। अध्यात्मं तैजसाहंकाररूप परत्र देहाद्बहिर्यद्द्रूपं तदधिभूतं तामसाहंकारकार्य परत्र दिवि योऽर्कस्तदधिदैवं वैकारिकाहंकारकार्यं। किमनेन प्रयोजनमित्यत आह॥ परस्येति। असौ विकल्पः। समीचीना सिद्धिश्च। परस्परं देवतातदभिमन्यमानेंद्रियविषयैस्त्रिभिः सिद्ध्यति न स्वतः। एकैकस्मान्न। न हि चक्षुषोऽभावे देवताविषयाभ्यां विषयाभावे इतराभ्यां देवताभावे चेतराभ्यां ज्ञानमुत्पद्यत इत्यर्थः। ननु तर्हि मुक्तावेतेषां चक्षुराद्यध्यात्मादीनामभावात्ज्ञानं न स्यादित्यत आह॥ आत्मेति। एषां प्रकृतिप्राकृतेंद्रियादीनामुपरमे मुक्तौ य आद्य आत्मा हरिः स एव स्वयानुभूत्या स्वशक्त्या। सम्यग्ज्ञानं हरेः शक्त्येत्युक्तेः। अखिलानां मुक्तानां सिद्ध्यसिद्धी। सम्यग्ज्ञानाज्ञानयोः प्रद इत्यर्थः। मुक्तानामपि हरिविषये ज्ञानमस्त्येव।

तद्दाता हरिरिति द्रष्टव्यं। दृग्रूपमित्युक्तन्यायमन्यत्राप्यतिदिशति॥ एव त्वगादीति। अत्रादि पदेन तद्विषयाः स्पर्शाद्या ग्राह्याः। चित्तयुक्तं त्वगादि। अध्यात्मादिभेदेन त्रिविधमित्यर्थः। तथा च चित्तापरपर्यायमनोयुक्तास्त्वगाद्या इंद्रियाप्यध्यात्मं तैजसाहंकारकार्यं तद्विषयाः स्पर्शाद्या अधिभूतं तामसाहंकारकार्यं तद्देवताधिदैवं वैकारिकाहंकार्यमिति भावः। अध्यात्मादिभेदभिन्नाहंकारस्वरूपं वदन्प्रकारांन्तरेणापि त्रैविध्यमाह॥ योऽसाविति। योऽसौ महाख्यविकल्पहेतुर्विकारोऽहंकारः स गुणानां क्षोभः क्षोभजन्यं महत्तत्त्व तत्कृतस्तज्जन्यः। पुनस्तत्स्वरूपमुच्यते। प्रधानं प्रकृतिर्मूलं। महत्तत्त्वद्वारा कारणं यस्य तत्तथोक्तं। जगतः प्रसूतिः सृष्टिर्यस्मात्तज्जगतः प्रसूतिर्वैकारिकस्तामसेंद्रिय इंद्रियजनकस्तैजसाहंकारश्चेति त्रिवृत्। त्रीन्प्रभेदान्वृणोतीति त्रिवृदेतादृशमहमहंतत्त्वं। मकारांताव्ययमेतत्। नन्वहंकारादिवज्जीवस्वरूपमपि किं गुणक्षोभजन्यं नेति प्रसंगादाह। आत्मेति। यतोऽयमात्मा जीवः परिज्ञानमयोऽतो न गुणक्षोभकृत इत्यर्थः। अहंकारस्य विकल्पहेतुत्वमुक्तं। तत्र विकल्पापरपर्यायविवादस्वरूपमाह॥ विवाद इति। अर्थनिष्ठः पदार्थनिष्ठो विवादो नामासदस्तीति सन्नास्तीति भिदा। अर्थविपर्ययेण ज्ञानमेवेत्यर्थः। नन्वेतद्विवादानुपरमः केषां केषां चोपराम इत्यत आह॥ व्यर्थोऽपीति। स्वलोकात्स्वाश्रयान्मत्तः परावृत्तधियां मत्पादाब्जविमुखानां पुंसां व्यर्थोऽपि निष्प्रयोजनोऽपि विरुद्धप्रयोजनोऽपि वा नैवोपरमेत सदैव प्रवर्तत इत्यर्थः। हरिपादाब्जे धीमतामेव पुंसामुपरतो भवतीत्याशयः॥३१–३३॥ मत्तः परावृत्तधियामिति श्रुत्वोद्धवश्चोदयति। त्वत्त इति। त्वत्तः परावृत्तधियो जीवा उच्चावचैः स्वकृतैः कर्मभिरुच्चावचान्यथा कथं गृण्हंति विसृजंति विसर्जयति च तत्प्रमेयं ममाख्याहीत्यर्थः। नित्यस्य जीवस्य देहसंबंधोत्पत्तिर्नाम कीदृशी वियोगापरपर्यायमरणं च नाम कीदृशं जीवस्य नित्यत्वं च केन प्रमाणेन ज्ञातव्यं। देहान् गृण्हंतीत्युक्त्या जीवस्य देहांतःस्थत्वं देहस्य बहिष्ठस्थत्वं चार्याल्लब्धं तत्रापि को हेतुरिति प्रश्नाशयो वर्णनीयः। एवं सत्युत्तरग्रंथः सर्वोऽपि संगच्छते। कीदृशं तत्प्रमेयं। अनात्मभिरजितमनस्कैरात्म शब्दत्वात्त्यवद्भिर्नैर्वा दुर्विभाव्यं दुर्विचित्यं। नन्वेतत्प्रमेयं विद्वांसो जानीयुरिति चेत्तत्राह। न हीति। अंचति। अंचु गतिपूजनयोरिति धातोर्नावगच्छंतीत्यर्थः। तत्र हेतुर्वंचिताः। तव माययेति शेषः॥३४॥३५॥ तत्र देहमरणमकारमादौ दर्शयति॥ मन इति। अत्र लिंगदेह एव स्थूलदेहात्मना विक्रियते।

सैव जनिस्तस्यैव मरणे स्थूलभागापगत्या सूक्ष्मतयाऽवस्थितस्य देहांतरे पुनः स्थूलतया विकारो भवतीति वस्तुगतिः। एवं च नृणां विद्यमानमिंद्रियैर्दशभिः पंचभूतैश्च युतं मन एव षोडशकलात्मकं। लिंगशरीरमिति यावत्। कर्ममयं कर्मप्रधानकं। जीवकर्मसहकृतमिति यावत्। यद्वा। कर्तृत्वात्कर्म भगवान् तत्प्रधानकं। तत्प्रेरितमिति यावत्। यदा लोकात्। ल्यब् लोपनिमित्तेय पंचमी। पूर्वलोकं शरीरं परित्यज्यान्यं लोकं प्रयाति तदा तदन्वात्मा जीवोऽपि तत्र देहे वर्तते लिंगदेहबद्धः सन् देहांतरं प्राप्नोतीत्यर्थः॥३६॥ एतदेव विशदयति॥ ध्यायन्निति। षोडशकलासु मनसः प्राधान्यान्मनोग्रहणं। दृष्टान् श्रुतान्वा विषयान्ध्यायन् अत एव सीदद्विपन्नं कर्मतंत्रं कर्माधीनं मनो हि यस्मादुद्यद्देहाद्देहांतरं प्रत्युद्गतं भवति। तदा तु तदनु जीवस्यार्थस्मृतिः पूर्वदेहेऽनुभूतपदार्थस्मृतिः शाम्यति नश्यति॥३७॥ इदमेव मरणमित्याह॥ विषयेति। अस्य दुर्योज्यतयाऽर्थाप्रतिपत्तेरन्यथाप्रतीतेश्च व्याख्याति। विषयेति। नात्मानं यत्स्मरेदित्यस्य तात्पर्यं॥ पूर्वदेहस्मरणामिति। तथा चेत्थं योजना। जंतोर्मनो विषये उत्तरदेहेऽभिनिवेशेन कस्यचिद्धेतोः कस्मिश्चिन्निमित्ताद्भगवन्मायालक्षणरूपादात्मानं पूर्वदेहं न स्मरेत्। उत्तरत्र यत्प्राप्यं तदेव स्मर्यते नान्यत्। य यं वापीत्युक्तेः। विष्णु

माया तदा तेषां मनो बाह्यं करोति हीत्युक्तेश्चेति यावत्। साऽत्यंतविस्मृतिरेव मृत्युरित्यर्थः॥३८॥ एवं मरणं निरूप्य जन्म निरूपयति॥ जन्म स्विति। हे भूरिद बहुदातरुद्धव। पुंसो देहादौ सर्वभावेनात्मतया सर्वप्रकारेण ममेदमित्यात्मीयत्वेन विषयस्वीकृतिं देहाभिमानं जन्म प्राहुः। अविद्यमानाभिमाननिवेश एव जन्मेत्युक्तं। तत्राभिमानस्याविद्यमानत्वे दृष्टांतः स्वप्नो मनोरथ इति। स्वप्नसंबंधी मनोरथसंबंधी चाभिमानो यथाऽविद्यमानस्तद्वदिति योज्यं। इमं दृष्टांतं विशदयति॥ स्वप्नमिति॥३९॥ यथाऽसौ जाग्रदवस्थापन्नो जीवः प्राक्तनं पूर्वदृष्टं स्वाप्नं स्वप्नसंबंधिनं मनोरथ संबंधिनं चार्थं न स्मरति। तदर्थयोरविद्यमानत्वादित्यर्थः। कुत इत्यतस्तदेवोपपादयति॥ तत्रेति। तत्र स्वप्ने यतोऽपूर्वं चापूर्वमेव वस्तुतः पूर्व जाग्रत्यविद्यमानमेव स्वस्य प्राप्तगजादिदेहं पूर्वमिव पूर्वानुभूतमेवायं सर्वदा मम विद्यमान एवायं देह इति भ्रांत्या पश्यति। अत एवं जीवस्वरूपे वस्तुतोऽविद्यमान एव देहसंबंधोऽभिमानप्रयुक्तभ्रांत्या प्रतीयत इत्याशयः॥४०॥४१॥ नन्वेवदेहस्यैव जीवस्वरूपेऽपि जननादेः सद्भावे को विशेषो देहांतरस्येति चेन्न। जीवस्वरूपस्य नित्यत्वात्। तत्कुतः सिद्ध-

मिति चेत्पूर्वोत्तरकालेषु स्वसत्तावगाहिप्रत्यभिज्ञाबलादित्याह॥ ईदृशेति। इमं श्लोकं दुर्गमार्थत्वाद्व्याचष्टे॥ ईदृश इति। वर्तमानो वर्तमानकालवर्त्येष्योभविष्यत्कालसंबंधीत्यर्थः। ईदृशायास इत्यनंतरं मूले इति शब्दोऽध्याहार्य इत्यशयेनान्वयं दर्शयति॥ इतीति। त्रैविध्यं त्रिविधकालवर्तित्वं। विज्ञाय वस्तुनीत्यस्यार्थमाह॥ विज्ञायेति। नन्वीदृशश्चासावायसश्चासौ सश्चेतीदृशायस इति भवेत्। ईदृशायास इति दीर्घः कथमत्राह॥ दीर्घेति। संहिताकाले श्रूयमाणस्य दीर्घस्य पदकाले लोप इत्यर्थः। अत्र वैदिकं दृष्टांतमाह॥ यत्रात इति। यत्र ते आहुरिति पदकाले दीर्घस्याश्रवणेऽपि संहिताकाले यत्रात आहुः परमं जनित्रमिति दीर्घः श्रूयत इत्यर्थः। अत्रार्थे नियामकं महाव्याकरणसूत्रं पठति॥ क्षैप्र इति। स्वरविशेषस्यसंज्ञा क्षैप्रे स्वरे संहिताकाले प्रयुज्यमानदीर्घस्य पदकाले लोप इत्यर्थः। अन्ये तु क्षैप्रेयज्ञानमंतरेण पुरुषार्थो न स्यात्तत्र क्षिप्रं शीघ्रं प्रवर्तनीयमिति ज्ञापनार्थं प्रयुक्तो दीर्घः पदकाले लुप्यत इति सूत्रार्थः। तथा च जीवस्य त्रिकालवर्तित्वमवश्यं ज्ञातव्यं। तमंतरेण पुरुषार्थो नेति ज्ञापयितुं पदकाले दीर्घलोप इत्याशय इत्याहुः। बहिरंतर्भिदाहेतुरित्यस्यार्थमाह। अयमेवेति। जीवस्य त्रिकालावस्थायित्वेन नित्यत्व देहस्य तदभावश्चेत्ययमेवार्थः। भिद्यत इति भिदाविशेष इत्याशयेन विशेषेत्युक्तं। बहिष्ठत्वांतस्थत्वरूपोविशेषस्य हेतुरित्यर्थः। कयोरित्यतो मूले विशेषमभिप्रेत्याह॥ आत्मानात्मनोरिति। जीवदेहयोरित्यर्थः। यथा मणिष्वंतः मत्रं। एवं जीवोऽनेकदेहप्राप्तावपि सदा तदंतरेवास्ति नित्यत्वात्। देहस्तु स्वरूपाद्बहिरेवास्ति। अनित्यत्वादित्याशयः। जनो सज्जनकृद्यथेति दृष्टातं विवृण्वन्दाष्टोंतिकं च दर्शयति॥ ययेति। हिरण्यकशिपुप्रल्हादादौ व्यभिचारवारणाय प्राय इत्युक्तं। अनित्यत्वात्। उपलक्षणमेतत्। अनात्मत्वाच्चेति ग्राह्य। जडत्वादित्यर्थः। लिंगदेहस्येति शेषः। अनात्मत्वमनित्यत्वं च ग्राह्यं। देहादेस्तद्विकारिस्थूलदेहादेरित्यर्थः॥ तथा चायं श्लोकार्थः॥ ईदृशायासेत्यविभक्तिकोनिर्देशो विसर्गलापा वा। वस्तुनि जीवितत्वे विज्ञाय सम्यग्विज्ञाने सति ईदृशायास इति त्रैविध्यं भाति। य ईदृशोवर्तमानकालवर्ती स एवायासा भविष्यदतीतका

Xवती चेति त्रिकालवतिस्वरूप नित्यत्वं प्रत्यभिज्ञया निश्चीयत इत्यर्थः। अनेनोद्धवकृततृतीयप्रश्नस्योत्तरमाप जातमित्याह॥ ॥

रात। भाXXXXXX XXXXXXकपालतदंतर्गतफलवहिन्वातस्यत्वाग्न्यमिवाया विशेषहेतु समेव नित्यत्वादिभ्य\। येनेकदाXXXXXXXXXXXX

देहस्य च स्वरूपानुबंधित्वाभावेनानित्वाज्जीवाद्रहिरेवास्तीति बहिस्तस्थत्वरूपविशेषो युज्यत इत्याशयः। नतु देह

ग्यानात्मत्वं नाम जडत्वमनित्यत्वं च कुत इति चेदुच्यते। अस्य देहस्य लिंगशरीरविकारित्वेन तत्कार्यतया तादृशमवद तच्च जडयनित्यत्वं चातोऽयं देहोऽपि तादृश एवेति ज्ञायते। तथा च प्रयोगः। अयं देही नात्माऽनित्यश्च तादृशकारणजन्यत्वाह्यद्यादृशकारणजन्यं तत्तादृशमिति। तत्र दृष्टांत उच्यते॥ जन इति। जनोऽसज्जनोयथा सज्जनकृत्। तथा न तद्दौरात्म्यात्पुत्रदौरात्म्यं ज्ञायते एवमित्यर्थः॥४१॥ एवं देहस्यादावृत्पत्तिरायुः समाप्त्यनंतरं मरणमिति दीर्घकालावच्छदेन जननमरणमुपपाद्य कैर्मुत्ये नापि प्रतिक्षणमप्युत्पत्तिविनाशौ स्त इत्याह॥ नित्यदेति। हे अंग उद्धव। भूतानि तत्कार्याणि देहादिजडानि नित्यदा प्रतिक्षणं भवंत्युत्पद्यंते। न भवति च। केन कारणेनेत्यत आह॥ अलक्ष्यवेगेनानाज्ञांतगतिमता क्षणादिकालसंबंधरूपकारणेनेति। ननु प्रतिक्षणोत्पत्त्यादिकमनुपलंभवाधितमित्यतोऽनुपलंभो नाभावप्रत्युक्तोऽपि तु मृदमताप्रयुक्तं इत्याह॥ मृदगन्तादिति। तद्भवनादिकं न दृश्यते चक्षुषा॥४२॥ तत्र दृष्टांतमाह॥ यथेति। अर्चिषां दीपज्वालानां स्रोतसां प्रवाहाणां वनरपतेर्वृक्षस्य फलानां प्रतिक्षणमुत्पत्त्यादयः कालेन यथा कृतास्तथैव सर्वजडभावानां पदार्थानां वयोऽवस्था वयोनिमित्तकबाल्यकौमाराद्व्यावस्थाः कालेन कृता इत्यर्थः॥४३॥ उक्तमेव दृष्टांतं विवृणोति॥ सोयऽमिति। नन्वत्र सोऽयमिति प्रत्यभिज्ञाया भ्रांतित्वमुच्यते तदनुपपन्नं। तथात्वे प्रतिक्षणमुत्पतिविनाशांगीकारेण बौद्धमतापत्त्या तन्निरासकत्युक्त्यभवादित्यतो मूलं योजयति। सोऽयमेवेति। तथा च प्रत्यभिज्ञा द्विविधा। सावधारणा निरवधारणा चेति। तत्राद्या भ्रमरूपा। अत्यंताभेदविषयत्वात्। जडे च भेदा भेदसद्भावात्। द्वितीया तु भेदाभेदविरोधित्वात्प्रमैवेति॥ तथा चायमर्थः॥ नञोऽध्याहारोऽत्र कार्यः। अर्चिषामनेकदीपज्वालानां समूहे सोऽयं दीप इति गीर्व्यवहारो धीः प्रत्यभिज्ञा च न मृषा प्रत्युत स एवायमिति प्रत्यभिज्ञैव मृषा यथा वा स्रोतसां प्रवाहाणां समूहे तदिदं जलमिति धीः प्रत्यभिज्ञा च न मृषा प्रत्युत तदेवेदं जलमिति सावधारणैव मृषा। एवं मृषाऽऽयुषां सोऽयमिति निरवधारणप्रत्यभिज्ञामंगीकृत्य व्यवहर्तृत्वाद्वृथाऽऽयुषां नृणां सोऽयमेव पुमान्देह इति गीर्धीः प्रत्यभिज्ञा च सा मृषा सा च सोऽयमिति निरवधारणा सा न मृषेत्यर्थः। सावधारणनिरवधारणप्रत्यभिज्ञयोर्भ्रमत्वाभ्रमत्वे कुत इत्यतः प्रमाणेनैव॥

तद्विवृणोति॥ स चायमिति। तत्र हेतुर्भेदाभेदाविति। तनोर्देहस्य निरवधारणप्रत्यभिज्ञा भेदाभेदविरोधिनी सावधारणा च तद्विरोधिनी यत इत्यर्थः। ननु तर्हि जीवोऽपि स एवायं जीव इति सावधारणप्रत्यभिज्ञा भ्रमः किं नेत्याह॥ अभेद एवेति। न तु भेदो येन भ्रांतत्वं स्यादिति भावः। प्रत्येकशोऽवयवैः पृथगेकस्मिन् जीवे पृथक् प्रत्येक स्वतः स्वरूपतः। भेदाभेदस्थलान्याह॥ कार्येति। निमित्तं कारणं विनेति द्रष्टव्य। चिद्रूपेषु जीवेषु। जडे भेदाभेदावित्यस्यापवादमाह॥ य इति। तस्मिन्सत्यप्यसत्वरूपखंडितत्वशून्यादित्यर्थः। यथा गोः स्नानादयोऽवियोगिनस्तस्मिन्सत्यप्यसत्वरूपखंडितत्ववंतो ये क्रियादयस्ते भिन्नाभिन्नाः॥४४॥ ननु देहस्यैव विकारश्चेज्जीवो जातो मृत इति प्रतीतिः स्वव्यवहारो वा कथमत्राह। आद्य इति। आद्योऽमर उत्पत्तिमरणशून्यः स पुमान् जीवः स्वकृतकर्मरूपबीजेन कारणेन जायते म्रियते चेति भ्रांतिः। भ्रात्यैव च व्यवहार इत्यर्थः। वस्तुतो देहसंबधेनैव जायते म्रियते चेति पूरणीय। तत्र दृष्टांतः। दारुसंयुतो दारुसंबंधचेदग्निर्जातस्तदभावे विनष्ट इति व्यवहारस्तद्वदित्यर्थः॥४५॥ वयोवस्थादय इत्युक्तं कास्ता अवस्था इत्यत आह॥ निषेकेति। योनौरेतःसेक इत्यर्थः। जीवस्य रेतोंऽतर्गतत्वात्तन्निषेको जीवस्यावस्थेति द्रष्टव्यं मध्यं वयः॥४६॥ अन्यस्य लोकविलक्षणस्य हरेर्यो मनोरथ इच्छा तन्मयास्तन्निर्मिताः सत्त्वादिगुणसंगादुच्चावचाः सत्त्वसंगादुच्चास्तदितरगुणसंबधादवचाः। क्वचिद्देशे काले च॥४७॥ देहस्य भवाप्ययौ साधयति। आत्मन इति। आत्मनो देहस्य भवाप्ययावात्मनः स्वस्यानुमेयौ। तथा हि। स्वदेहात्स्वपुत्रदेहो जायत इति स्वेन दृष्टमस्ति तद्वत्। अस्याऽपि पुत्रदेहत्वान्मदीयो देहोऽपि मत्पितृदेहेन जायते। मद्देहजनको मत्पितृदेहस्तावद्विनष्ट एवं ममापि पितृत्वान्मद्देहोऽपि विनष्टो भविष्यतीत्यनुमेयौ। तदयं प्रयोगः। मदीयां देह उत्पत्तिमान्पुत्रदेहत्वान्मत्पुत्रदेहवत्। मदीयोदेहो विनाशवान्पितृदेहत्वात्पितृदेहवादिति। नन्वेवं देहस्येवोत्पत्तिविनाशेऽहं जातोऽहं मृत इति चेतने तद्विषयकव्यवहारस्य का गतिरिति चेन्न। देहे जाते मृते च सति तत्रात्यंतमभिमानसद्भावादेवाहं जात इत्यादिव्यपदेशो न तु वास्तवं इत्याह॥

गवाप्य याविति॥ अत्राभिज्ञाद्वयलक्षणावित्यस्यान्यथाप्रतीतिनिरासायानृद्यार्थमाह। अभिज्ञेति। न वास्तवाविति मात्र शब्दार्थः। तथा च वस्तूनां जीवानां यौ भवाप्ययौ नावभिज्ञाद्वयलक्षणौ। अभिज्ञाऽभिमानः। अज्ञानमिति यावत्। अहं जा

तोऽहंमन

इति यदभिमानद्वयं भ्रमरूपं। ज्ञानमिति यावत्। तन्निमित्तकावेव न जीवस्वरूपे वास्तवौस्त इत्यर्थः॥४८॥ एतावता प्रबंधेनात्मानात्मनोर्वैलक्षण्यमुपपाद्यैवं वेत्तुः फलमाह॥ तरोरिति। एतत् श्लोकतात्पर्यमाह॥ तरोरिति। उत्तरत्र प्रकृतेरेत्रमात्मानमित्युत्तरत्र प्रकृतिपुरुषाज्ञानेऽनर्थोक्तेः पूर्व तद्विवेकज्ञानस्य मोक्षसाधनतयाऽवश्यं वाच्यत्वान्मूलेऽभिप्रेत पूरयति॥ परमात्मन इति। प्रकृत्यादेर्भेदं। मूलयोजनां प्रमाणेन दर्शयति॥ बीजेति। आदि पदेन विकारग्रहणं। द्रष्टा वृक्षजीवः। विकारिणी देहात्॥ ततश्चेत्थं मूलयोजना॥ अत्र यथेति शेषः। तरोर्वृक्षस्य यौवीजविकारौ ताभ्यां दृष्टांतभूताभ्यां। तद्दृष्टांतेनेति यावन्। ततश्च तरोर्वृक्षाद्विलक्षणो वृक्षशरीराधिष्ठितो जीवस्तत्प्रेरको भगवाश्च दृष्टो ज्ञायते। कुतः। यथा तरोरादौ बीजत्वावस्था वर्तते। उत्पत्त्यनंतर शाखादिना विकारित्वाद्यवस्था भवत्येवमवस्थायानुभविता तद्वदधिष्ठातृतया तदंतस्थोऽवस्थाद्वययुक्तवृक्षशरीरानुस्यूतो जीवस्तत्प्रेरको हरिश्चास्ति। अस्य यदैकां शाखां जीवोजहात्यथ सा शुष्यतीत्युक्तेः। एवं तनोः शरीरात्पृथग्विलक्षणो द्रष्टा शरीरादिज्ञाता जीवस्तत्प्रेरको हरिश्चास्तीति शरीरादिवैलक्षण्यं। उपलक्षणमेतत्। प्रकृत्यादिवैलक्षण्यं च। यो विद्वान् जानाति स देहाभिमानं त्यक्त्वा सयमं मोक्षं याति प्राप्नोतीति॥४९॥ एवमज्ञानेऽनर्थमाह॥ प्रकृतेरिति। आत्मानं जीवं हरिं च प्रकृतेः सकाशात्तत्त्वेन याथार्थ्येनाविविच्य विवेकज्ञानशून्यतया स्थितो योऽबुधः स्पृश्यंत इति स्पृशा विषयास्तैः समूढः संसारं प्रतिपद्यते॥५०॥ संसारोऽपि न सर्वेषामेकप्रकार इत्याशयेनाह॥ सत्त्वेति। सत्त्वगुणसबंधापीन्देवानित्यादि। ऋष्यादित्वमित्यर्थः। कर्मभिर्भ्रामितो याति॥५१॥ अयं संसारोऽभिमाननिमित्त एव न स्वाभाविकमित्याशयेनाह॥ नृत्यत इति। नृत्यतो गायतः पुरुषाननुकरोति स्वयमपि तथा नर्तनादि करोति। एवमनीहोऽपि दुःखाद्यनुभवायोग्योऽपि सुखादिस्वरूपत्वाद्बुद्धिगुणान्दुःखादीन्पश्यन्स्वनिष्ठतया जानन् जीवोऽहं दुःखीत्यादिरूपेणानुकार्यते भगवतेत्यर्थः। अनीह इति दुःखाद्यनुभवायोग्यत्वं सूचित तत् प्रमाणेन विविच्य दर्शयति॥ दुःखेति। जीवस्य सज्जीवस्य गुणाः॥ जीवबुद्धीति। जीवबुद्ध्योरित्यर्थः। विपर्यर्येण दुःखाद्या जीवगुणाः सुखाद्या बुद्धिगुणा इत्यर्थः। तथा चानीहः सुखानुभवायोग्योऽपि बुद्धिगुणासुखादीन्स्वनिष्ठतया पश्यन्ननुकार्यत इत्यपि योज्य। ननु मूलेबुद्धिगुणानिति कथं। अहं दुःखी सुखीत्यादिप्रत्ययबलेन

जीवनिष्ठताया एवावगतोरित्यत आह॥ आत्मनोऽपीति। यद्यपि सुखाद्या आत्मस्वामिकत्वेनात्मनो गुणा बुद्धिकृतत्वेन बुध्द्युपादानकत्वेन बुद्धिगुणा इत्युच्यंते। मूले वस्तुतो बुद्धिगुणा न भवंतीत्यर्थः। ननु बुद्धिकृतानां गुणानां बुद्धिनिष्ठताया एव योग्यत्वेनात्मस्वामिकतया कथमात्मगुणत्वमित्यतो दृष्टांतमाह॥ परमात्मेति। सुखं दुःखं भवो भाव इत्यादिना परमात्मकृततयाऽवगता अपि सुखाद्या जीवगता इत्युच्यंते। यथा तथा बुद्धिकृता अपि आत्मस्वामिकत्वादात्मगुणा इत्याशयः। तथा च बुद्धिकृतानित्यस्य बुद्धिकृततया बुद्धिगुणानित्युक्तं भवति॥५२॥ पुनर्दुःखादिसंसारस्य मृषात्वमनकदृष्टांतैराह॥ यथेत्यादिना। तरवोंऽभोरूपोपाध्युपादानका बाह्यतरुप्रतिबिंबभूता जलांतस्थास्तरवः प्रचलतांऽभसोपाधिभूतांभसः प्रचलने तदुपादेयतरोरपि चलनं दृश्यते॥५३॥ मनोरथधियो मनोरथबाह्यपदार्थाभेदबुद्धिमतः। स्वप्नदृष्टो जाग्रत्पदार्थाभेदेन प्रतीयमानविषयानुभवः। संसारो दुःखादिः। अत्र मृषेति चतुर्णामपि दृष्टांतानां मिथ्यात्वमुच्यतेऽतः सिद्धांतविरुद्धं। दार्ष्टातिके दुःखादेः संसारस्य सत्वात्। तथा च त्रयाणां दृष्टांतानां मिथ्यात्वेऽप्याद्यदृष्टांते बिंबप्रतिबिंबभावसद्भावेन प्रतिबिंबे उपाधिकृतचलनादेःसत्वादित्यतः सर्वदृष्टांतदार्ष्टांतिके साधारण्याय मृषा शब्दार्थमाह। मृषेति। ननु दृष्टांतेषु मृषात्वं नाम वृथात्व संभवति। निष्प्रयोजनत्वद्भावात्। दार्ष्टांतिके कथमीषत्सुखादिप्रयोजनसद्भावादित्यतो विद्यमानमपि प्रयोजनमल्पमिति कृत्वा निष्प्रयोजनत्वमेवेत्या शयवान्प्रमाणमाह॥ अल्पति। यदल्पप्रयोजनं तन्मृषेत्येवोच्यत इत्यन्वयः। अस्तु मृषा शब्दोमिथ्यार्थक एव तर्ह्यादृष्टांतायोगः। प्रचलतांऽभसा तरवोऽपि बहिस्थिता बिंबभूताश्चला इव दृश्यंत इति योज्यं। इदं तु ज्ञानं भ्रमरूपमव बिंबे तद्दर्शनस्य मिथ्यात्वात्। तर्हि कथं प्रकृते योजनीयमित्यत आह। आत्मन इति। तथा संसार आत्मन इत्यस्य सुखादिरूप आत्मा वस्तुतोभवति। तस्य सुखादिवद्दुःखाद्या अपि स्वतः स्वाभाविका इति बुद्धिर्मृषा मिथ्या भ्रमरुपेत्यर्थः॥५४॥ नन्वेवं संसाररयास्वाभाविकत्वेस्वत एव निवृत्तिसंभवात् तदर्थं ज्ञानादिसंपादनवैय

थ्यमित्यतः स्वत एव न निवर्तत इत्याह॥.

XXX… इति। सर्वदा विषयान्व्यायतोऽस्य जीवस्य तैर्विषयैरर्थेप्रजोजनेऽविद्यमानेऽपि तन्प्रवाहस्यैवो

त्पच्या

संस्रतिने निवर्तत। यथा जागृदृष्टपदार्थानुभवजनितसंस्कारेण स्वप्नेऽनर्थप्रवाहानामागमः प्राप्तिस्तद्वदित्यर्थः॥५५॥ उपसंहरति॥ नामादिति।

XXX

द्रियैरमगलैरिंद्रियैर्वैकल्पिक। स्वार्थे क प्रत्ययः। विकल्प एव वैकल्पिकं। विरुद्धकल्पनाख्यभ्रम। आत्मनोभगवतोऽनुग्रहेणैवाज्ञानेन निष्पन्नं जनित पश्येदित्यर्थः॥५६॥ उत्तरग्रंथोपक्षेपायाह॥ क्षिप्तो इत्यादिना। क्षिप्तो निरसितः। वृत्त्या जीवनां पायेन। विष्टितो विष्टासंबधं प्रापितः। प्रकंपितोभय। प्रापितोऽपीति शेषः। कृच्छ्रगतः कृच्छ्राणि प्राप्त आत्मना मनसाऽऽत्मान जीवं संसारादुद्धरेत्॥५७॥५८॥ क्षिप्त इत्यादिक श्रुत्वोद्धवश्चोदयति॥ यथेति। कथमित्यर्थः। एवं त्वदुक्तप्रकारेण परोक्तं निष्ठुरादिताडनादि दुःसहमिति। आत्मनि स्वस्मिन्नसद्भिःकृतमतिक्रममवज्ञानं सुदुःसहं समाधातुमशक्य मन्ये तत्सहनप्रकारं वदेत्यर्थः। विदुषामपि दुःसहं किमु। अज्ञाना दुःमहत्वहेतुः प्रकृतिहीति। अह ममेत्यभिमानस्वभावोबलिष्ठो यस्मात्। तस्मादिति शेषः। एतादृशैरेव सुदःसह इत्याशयेनाह॥ ऋत इति। त्वच्चरणालयास्त्वच्चरणैकशरणानुतेऽन्येषां सुदुःसहं मन्य इत्यन्वयः॥५९॥६०॥ इति श्रीभागवतटिप्पण्या द्वाविंशोऽध्यायः॥११॥२२॥

॥हरिः ॐ॥ आशसितः प्रष्ठुरभीष्टकथनायाकांक्षा कारितः। पृष्ट इति यावत्। भृत्यस्योद्धवस्य वचः सभाजयन्पजयन्॥१॥ अत्र जीवराशौ योवाह्यांतर्भंजनो वाह्यांतः शत्रुशोपकरः। स एव दुर्जनेरितैर्दुरुक्तैर्भिन्न व्यथितमात्मानं मनः समाधातुमीश्वरः समर्थः॥२॥ नन्वादौ दुरुक्तिभिर्मनोभेदः कुत इत्यत आह॥ न तथेति। तुदंति व्यथयंति पुरुषेपवो निष्ठुरोक्तिलक्षणशराः॥३॥ इतिहासं पुरावृत्तं। इह दुरुक्तिभिन्नमनः समाधानविषये निबोध जानीहि॥४॥ भिक्षुणा संन्यासिना। धृत्या धैर्येण युक्तेन। निजकर्मणोविपाक फलमेतदिति स्मरता भिक्षुणा गीतमित्यन्वयः॥५॥ अवतिषु तन्नामकदेशेषु। वार्ता वृत्तिः कुसीदादिना जीवनोपायवान्॥६॥ अतिथ्यादिपूजाभावादावसथस्य शून्यत्व। काले भोजनादिकाले। कामैरशनादिकाम्यैः॥७॥ तस्य लुब्धता दृष्ट्वा विषण्णाः॥८॥ यक्षवित्तस्य यथा यक्षाधिष्ठितं वित्तं यक्षस्य भोग्यं न भवति नापीतरस्य तद्वद्यक्षम्य वित्तमिव वित्तं यस्यासौ तथोक्तः। पंचभागिनः पंचमहायज्ञभोक्तारः। देवर्षिपित्राद्या वक्ष्यमाणा देवाद्याः॥९॥ यद्द्रव्यसंपादकं पुण्यं स्थितमभूत्तदाख्यः स्कंधो वृक्षस्तेषां देवानामवध्यानेनावज्ञानेन विस्रस्तोनष्ट इत्यर्थः। भूरि उद्भव। बहुनाऽऽयासेन परिष्कृतः संपादितः॥१०॥ निधनप्रकारमेवाह॥ ज्ञातय इत्यादि। व्यवहारेण। तं गृहीत्वेति शेषः। ब्रह्म-

बधुर्द्विजाधमस्तस्मान्न पार्थिवान्नरराजात्तस्मिन्कालेकश्चिद्ब्राह्मणाभास एव मनुष्याणां राजा जाताऽभूत्तस्मादित्यर्थः। दैवत इत्यादेर्निधनमगच्छदित्यनेनान्वयः॥११॥१२॥ दीर्घ यथा स्यात्तथा ध्यायतः। नष्टरायो नष्टद्रव्यस्य। राः रायौ राय इति रै शब्दस्येयं षष्ठी। ध्यायतश्चिंतयतः। तपस्विनः। तपसं ताप इति धातोः। सनापवत् इत्यर्थः। निवेदोवैराग्यं॥१३॥ आत्मा देहो यस्य ममेदृशोऽर्थायासेन धर्मायेत्यादि। कामाय विषयभोगाय॥१४॥१५॥ यच्छुद्धं यशः श्लाघयितुं योग्याः श्लाघ्या ये गुणास्तान्स्वल्पोऽपि लोभ हंति। ईप्सितमिष्टरूपं। श्वित्रः श्वेतकुष्टं यथा हंति तथा॥॥१६॥ आत्मोपतापायेत्युक्तं विशदयति॥ अर्थस्येति। सिद्ध इत्यादावप्यर्थस्येतत्संबध्यते। नाशोपभोगे नाशसहिते उपभोगे। नाशे उपभोगे चेत्यर्थः। अर्थस्य साधने आयासः। सिद्धे उत्कर्षे । अर्थे सिद्धे सत्यर्थस्योत्कर्षेऽभिवृद्धौचिंता। तस्यार्थस्य रक्षणे त्रासः। केनचिद्दृष्टं चेत्म नेष्यतीति भीतिः। अर्थस्य व्यये चिंता। नाशे उपभोगे च धनपिशाचावेशेन भ्रमो बुद्धिभ्रंशः॥१७॥१८॥ अर्थो मूलं येषां तेऽर्थमृलाः। अर्थमूलका इत्यर्थः। अर्थाख्यमनर्थ तद्रूपमनर्थसाधनं॥१९॥ भिद्यंते विदार्यते। प्रतिकूला भवंतीति यावत्। किं बहुना प्राणिमात्रमतिपक्षी भवतीत्यर्थः। एकयेति॥२०॥२१॥ अमरैर्देवैः प्रार्थ्यं तत्र मनुष्येष्वपि द्विजाग्र्यतां। स्वयेत्याद्यमरप्रार्थ्यत्वे हेतुः। तन्मानुष्यं प्रार्थ्य मोक्षादिपुरुषार्थं घ्नंति नाशयति ते यांति॥२२॥ लोक देहं। धामनि धाम्नि गृहे॥२३॥ ज्ञातिरूपवधून् भागिनो भागार्हानुद्दिश्य वित्तमसंविभज्यात्मानं स्वात्मानमधः पतति पातयति॥२४॥ ननु कथमधः पातहेतुत्वं वित्तस्य यतो मोक्षसाधनं भविष्यति। तुष्टेऽर्थेन गुरुर्यस्मात्कैवल्यं दातुमप्यलमिति चेत्। सत्य। अप्रमत्तविषय तदित्याशयेनाह॥ व्यर्थयेति। अर्थेहया प्रमत्तस्य वित्ताद्याः कुशलाय मोक्षादिपुरुषार्थाय मनसि सिद्ध्यंति न क्षमाः। ननु प्रमत्तावस्थायां गताया वार्धिक्ये मोक्षं साधयिष्यतीति चेत्तत्राह॥ जरठ इति। जरयासंगतः किं साधयेत्। न किमपि॥२५॥ कस्यचिल्लोकविलक्षणस्य वस्तुनः॥२६॥ धनदैः कामदैर्मनुष्यैः। जन्मदैः कर्मभिः किमिति वर्तते। देवमयो देवताप्रधानः॥२७॥ दशमावस्थां। आत्मनो मम संसारसमुद्रतरणे प्लवभूतो निर्वेदश्च जात इत्यर्थः॥२८॥ कालविशेषणावशिष्टकालेन। शोषयिष्ये इंद्रियनिग्रहं करिष्ये। कुत इत्यत आह॥

अपमन ति। यद्यहम

खिलार्थेष्वप्रमत्तः स्यां तर्ह्यात्मनि हरौ सिद्धः स्यां तद्विषयकसिद्धिमान्स्यामित्यर्थः॥२९॥ अनुमोदेरन्‌ अनुकूला भवत्वित्यर्थः। नन्वायुषोऽल्पस्यैवोर्वरितत्त्वात्तावदायुषा किं साधयसीति चेत्तत्राह॥ मुहूर्तेनोति॥३०॥ हृदयग्रंथिमंतःकरणाख्यबंधं। भिक्षुः संन्यासी॥३१॥३२॥ प्रवयसं जरठं। पर्यभवन्परिभवमकुर्वन्‌। परिभूतिभिस्तिरस्कारैः॥३३॥ तदेवाह॥ केचिदित्यादिना। त्रिवेणुं त्रयो वेणवोग्रंथयो यस्य दंडकाष्ठस्य तं। चीराणि जीर्णवस्त्राणि॥३४॥ दर्शितानि प्रदाय पुनराददुः। मदीयानि। वस्त्राणि केन नीतानीति भिक्षुणोक्ते मया नीतानि तानि ग्रहणेति तानि प्रदर्श्यतद्धस्ते दत्वा पुनस्तद्धस्ताद्बलाज्जगृहुरितिभावः॥३५॥ वाचयंति वचनयुक्तं कुर्वंति॥३६॥३७॥ धर्मध्वजःकपटधर्मवान्‌॥३८॥३९॥ दौर्वादयंति दुर्वचनयुक्तं कारयंति।क्रीडनकं क्रीडासाधनकं द्विजं पक्षिणं॥४०॥ प्राप्तं दुःख दिष्ट दैवाद्दुरदृष्टाल्लब्धमवश्यंभोक्तव्यमेवेत्यबुध्यत॥४१॥ योगमार्गादधः। पातयद्भिर्नराधमैः परिभूतः परिभवं प्राप्तः सात्त्विकीं स्वाभाविकी धृतिं धैर्यमास्थाय स्वधर्मस्थो भिक्षुरिमां गाथां वक्ष्यमाणमगायतेत्यर्थः॥४२॥ कीदृशींगाथामगायतेति तत्राह॥ नायमित्यादिना। अयं परितो वर्तमानो जनो लोकानां देहो जीवयुक्तो लोकदेहः सुखदुःखयोर्हेतुर्न भवति। यथा देवता देवा आत्मा जीवः। ग्रहा आदित्यादिनवग्रहाः। एते सुखदुःखहेतवो न भवंति। मनस्तत्प्रधानकलिंगदेह इत्यर्थः। परं केवलं। अभिमानग्रस्तमन एवकारण सुखदुःखयोरित्यामनंति। मनो विशिनष्टि॥ यन्मनः संसाचकं परिवर्तयेदिति। प्रतिज्ञाश्लोकोऽयं उत्तरत्र स्थिताः सर्वेऽपि एतद्विवरणात्मकाः॥४३॥ तत्र संसारहेतुभूतं मन एव सुखदुःखयोर्मुख्यं कारणमित्येतद्विवृणोति॥ मन इत्यादिना। मन आदौ स्थूलदेहे गुणान्समीचीनं कामक्रोधादीन्सृजते। ततः समीचीनकामादिगुणयुक्तं मनो विलक्षणानि विलक्षणकर्माणि सृजते। विलक्षणानीत्युक्तमेव दर्शयति॥ शुक्लानीति। शुक्लानि सात्त्विकानि कृष्णानि तामसानि लोहितानि राजसानि। तेभ्यः कर्मभ्यः सवर्णाःसदृशीर्गतयः सुखादिफलानि भवंति। अनेन सुखदुःखादीनां मनः कारणमित्यवगतं॥४४॥ तदेवोपपादयति॥ अनीह इति। स्वरूपतो निषिद्धचेष्टाशून्यत्वादनीहः। आत्मा जीवो मनसा मनोऽभिमानेन कर्माणि समीहते करोति। नन्वेवं मन एव कारणं चेद्धगवता किं कृत्यमिति न मंतव्यमित्याह। अनीहः स्वयं तादृक्कर्मकरणशून्यः। हिरण्मयो हिरक्‌ सर्वविलक्षणं यत्‌ णं सुखं तन्मयत्वा-

द्धिरण्मयो मत्सखो मम मित्रभूत आत्मा परमात्मा तानि कर्माणि साक्षीभूतः सन् चष्टे पश्यति। फलदानायेति शेषः। कर्माणि समीहत इत्युक्तं किमत इत्यत आह॥ मन इति। मन आदि षोडशकलात्मकं स्वलिंगं लिंगशरीरं परिगृह्य स्थितस्तद्युक्त इत्यर्थः। असौ जीवो गुणेषु विषयेषु संगतः स्नेहतः कामान्विषयान् जुषन्सेवमानो नितरां बद्धो भवतीत्यर्थः॥४५॥ एवं संसारहेतुत्वान्मनसस्तन्निग्रहोऽवश्यं कर्तव्य इत्याशयेनाह॥ दानमिति। दानादयः सर्वे मनोनिग्रह- लक्षणांताः। लक्षणेत्यनंतर योग पदाध्याहारः। अतः परं मनोनिग्रहरूपयोग एवांतर्येषां ते तथा। मनोनिग्रहफलका इत्यर्थः। अतो मनसः समाधिर्विषयेभ्यो निगृह्य भवति समाधानमेव परो योग इत्यर्थः॥ ४६॥ मनःसमाधानस्य परमयोगत्वमुपपादयति। समाहितमिति। यस्य पुंसः मनो विषयेभ्यः प्रशांतं भवति समाहितं भवति तस्य पुंसो दानादिभिः कृत्यं प्रयोजनं किमस्ति। अस्ति चेन्मां प्रति वद। तथा च फलस्य जातत्वाद्दानादेर्वैयर्थ्यामिति भावः॥ ४७॥ कृतैरपि दानादिभिर्यस्य मनोऽसंयतमनिगृहीतं सदेव चेद्यदि विनश्येत्। विषयेष्वेव गच्छेदिति यावत्। तर्ह्योभिर्दानादिभिरपरं साध्यं किमस्ति न किमपि। दानादिभिर्यत्साधनीय तस्यैव जातत्वाद्दानादेर्वैयर्थ्यमिति भावः॥ ४७॥ पुनः मनःप्राबल्यमुपपादयति॥ मन इति। अन्ये देवा इंद्राद्याः सर्वे मनोवशे भवंति। तन्मनोऽन्यस्य कस्यापि वशं वशत्व न समेति। ननु को मनो यस्येतादृशी शक्तिरुपपन्नेत्यतोऽत्र सर्वत्र मनः शब्देन रुद्रो ग्राह्य इत्याह॥ भीमो हीति। सहसो वायोः सकाशात्। तदनुग्रहेणेति यावत्। देवस्य भर्गःसहसो यतो जनीति श्रुतौ सह शब्दस्य वायौप्रयोगदर्शनात्। सहीयान् सहनशक्तिमान् भीमः। व्योमकेशो भवो भीम इत्यभिधानात्। रुद्रो हि मनोदेवोऽतस्तन्मनसस्तदभिमानिनं रुद्रं कोऽपि नात्याविशदतिक्रांतवान्। अतः स हि देवदेव इत्यर्थः॥ ४८॥ अत्र जीवराशौ केचिद्विमूढास्तमसह्यवेगमरुंतुदं। तुद व्यथने। क्षतनिहितलवणवद्व्यथाकरं। उदासीनरिपु दुर्जनं शत्रुं न विजित्याविजित्य। मित्रर्मित्रभूतैर्मर्त्यैरसद्विग्रहममंगलभूतं वैरं कुर्वंति। तथा च शत्रुमविजित्वा मित्रकलहस्य परिहासास्पदत्वान्मया च शत्रुमविजित्य मित्रैःकलहः कृत इति परिहासास्पदो जातोऽस्मीत्याशयः। नन्वत्रादौ भीमो हीति मनसो देवत्वमुक्त्वा तं दुर्जयं शत्रुमिति तस्य शत्रुत्वमुच्यते। तदनुपपन्नं। देवस्य सर्वोपकारकत्वेन सुहृत्वाच्छत्रुत्वमयुक्तमित्यतो विवक्षाभेदमाह तात्पर्यकारः॥ सात्त्विकेति।

तामसेत्युपलक्षणं। राजसेत्यपि द्रष्टव्यं। राजसतामसमनोविवक्षयेत्यर्थः। मनो हि सात्त्विकादिभेदेन त्रिविधं। तत्र सात्त्विकमनोऽभिमानी रुद्रदेवस्तदपेक्षया पूर्वश्लोके देवशब्दो राजसतामसमनोऽभिमानी कालनेम्यादिप्रसिद्धस्तदपेक्षया द्वितीयश्लाेके शत्रु शब्द इत्यदोष इति भावः। ननु वृश्चिकभयात्पलाय- मानस्याशीविषमुखे निपातो देवत्वशत्रुत्वोपपादनायैवं विवक्षाभेदे उत्तरश्लोके तं दुर्जयमिति तच्छब्दप्रयोगो विरुद्धयेत। तस्य पूर्वप्रकृतपरामर्शकत्वात्। तथा च पूर्वोक्तदोषतादवस्थ्यमित्यतो भिन्नविषयत्वेऽपि युक्तः परामर्श इत्यत्र नियामकं प्रमाणमाह॥ एकेति। भिन्नानामपि पदार्थानामभेदेन परामर्श एकस्थानाधिपत्ये सति युज्यते। वस्तुनोः सादृश्येनापि युज्यत इत्यर्थः। एव च प्रकृते सात्त्विकतामसमनोभिमानिनोर्भेदेऽप्येकस्थानाधिपत्यरूपनिमित्ताभावेऽपि तमिति परामर्शोऽभेदेन युज्यते। रुद्रकालनेभ्योरभिमानित्वेन सादृश्यसद्भावात्। तथा च तं तत्सदृशमभिमानित्वेन रुद्रदेवसदृशं कालनेम्याख्यतामसमनोरूपं शत्रुमित्यर्थ उक्तो भवति। ननु मनश्च नान्यस्य वशं समेतीति मनोभिमानी रुद्रः कस्यापि वशो नेत्युच्यते। तदनुपपन्नं। सरस्वत्याधीनत्वात्तस्येत्यतः प्रमाणेन तात्पर्यमाह॥ ऋत इति। द्वे ब्रह्मणी कार्याकार्ये चतुर्मुखपरब्रह्मणीत्यर्थः। श्रियं सरस्वतीं चापि मनस्तदभिमानी रुद्रः कस्य वशं वशत्वं याति न कस्यापीत्यर्थः। ननु तथात्वे मनोवशीकरणायोगादिंद्रादेर्मोक्षो न स्यादित्यत आह। याति वेति। वशमिति वर्तते। रुद्रो यस्योपरि प्रसन्नो भवति तद्वशं मनः इत्युच्यत इत्यर्थः। तथा च मनो ब्रह्मश्रीचतुर्मुखसरस्वतीविनाऽन्यस्येंद्रादेर्वश वशत्वं न समेतीत्यर्थ उक्तो भवति। ननु तथाऽप्युदासीन रिपुमित्युक्तं। उदासीनश्चासौ रिपुश्चेति हि तदर्थः। रिपुत्वं हेयत्वं। तथा चोदासीनत्वे न रिपुत्वं। रिपुत्वे च नोदासीनत्वं। उदासीनत्वे सति रिपुश्चाप्रसिद्धोऽतः कथमेतदित्यतः षष्ठीविग्रहोऽत्र कार्य इत्याह॥उदासीनानामिति। मनोनिग्रहे ये उदासी नास्तेषां संसारादिदुःखापादकत्वात्तान्प्रति रिपुमित्यर्थः। उदासीनानां रिपुत्वोक्त्या लब्धमर्थं दर्शयति॥ सम्यगिति। मनो निग्रहे सम्यग्यत्नं कुर्वतां। कर्मणि षष्ठी। सम्यग्यत्नं कुर्वतः प्रति मनसो रिपुत्वं न शक्यत इत्यर्थः॥ ४९॥ मनस एव पुनः कारणत्वमुपपादयति॥ देहमिति। अत्र मनोमात्र शब्दं व्याचष्टे॥अभिमानेति। जीवस्य देहेन सबंधोऽभिमानमात्रेणैव भवतीत्यर्थः। तथा च मात्र शब्दः केवलार्थ इत्युक्तं भवति। तथा च मनोमात्रं केवलमनोऽभिमाननिर्मितमित्यर्थ उक्तो भवति। यद्वा।

मात्र शब्दो निर्माणार्थक इत्याह॥ मनसेति। तथा च मनोमात्रं मनसा निर्माणमस्येति तथोक्तमित्यर्थ उक्तो भवति। मात्र शब्दस्य व्याख्यानमेव पृथक् पक्षद्वयेऽप्यर्थस्त्वेक एवेति ज्ञेयं। एषोऽहमित्यादेर्भ्रमत्वमुपपादयति॥ एष इत्यादि। स एषः परिदृश्यमानो मदेह एवाहं नैतद्देहातिरिक्तो जीवोऽस्ति। तथाऽन्यो मद्देहभिन्नः परिदृश्यमान एव देहोऽयं जीव इति देहमात्रं केवलं देहमेव जीवं मन्यते न तदतिरिक्तमित्यर्थः। श्लोकार्थे प्रमाणमाह ॥देहेति। स्वदेहं परदेहं चेत्यर्थः। स्वात्मानं वस्तुतस्तदंतरहमस्मीत्यज्ञात्वा देह एवाहमिति पश्यति। तथा च देहमात्रं परदेहं परमात्मानं परजीवाभिन्नं पश्यतीत्यर्थः। दुरंतपार इत्यादेस्तात्पर्यं॥ अध इत्यादि। ततश्चायं श्लोकार्थः। मनोमात्रं केवलमनोऽभिमाननिर्मितमिमं देहं गृहीत्वा ममेदमहं कर्तेत्यंधधियो मनुष्या एष देह एवाहमन्यो देह एवायमिति भ्रमेण दुरंतपारे तमसि पतंति। तद्दुःखेन भ्रमंति मूर्च्छिता भवंतीति॥५०॥ एवं मनः परं कारणमित्य

र्घोक्तमुपपाद्य नायं जनो म इत्यादिकं प्रतिज्ञातमुपपादयितुमादौ जनस्य सुखहेतुत्वं नास्तीति प्रतिज्ञातमुपपादयति॥जन इति। अत्र जन शब्देन देहो विवक्षित इत्यभिप्रेत्य तस्य देहवाचित्वेऽभिधानमाह॥जन शब्द इति॥५१॥ यदंगमंगेनेत्यत्र देवतोपरि कोपो न क्रियत इत्युच्यते। तदयुक्तं। देवतोपर्यपि कोपकर्तृणां दर्शनादित्यतस्तत्र निमित्तमाह॥ अयोग्येति। क्रोधकरणे येऽयोग्याः। कोपानास्पदा इति यावत्। तद्विषयकक्रोधादेरभिमानयुक्तं। मन एव कारणं। तादृशं च मनो मम नास्तीति न मम तेषु क्रोध इति भावः। विकारयोस्तदित्यत्र विकार शब्देन तावद्देवता ग्राहस्तत्प्रकरणात् देवतानां च कथं विकारशब्दवाच्यत्व विकाराभेदाभावात्। यावद्विकारं त्वित्युक्तरीत्या विकारित्वेनाल्पशक्तित्वप्राप्तेश्चेत्यत आह। अविकाराश्चेति। स्वतः शक्ता अपि अविकाराश्च। अविकारा अपि विकारस्याभिमानित्वादेव विकारा इति शब्दिता इति योज्यं॥५२॥ आत्मा यदीति श्लोके न ह्यात्मनोऽन्यदित्येतद्व्याचष्टे। न हीति। स्वभाव इत्येतद्विभक्तिविपरिणामेनानुवर्तत इत्याशयेन स्वभावदित्युक्तं। यदि तन्मृषा स्यादित्येतद्व्याचष्टे॥ यदि दृश्यत इति। स्वभावादन्यद्दृश्यत इत्यर्थः। मृषात्वमुपपादयितुं प्रवृत्ते न सुखं न दुःखमित्यत्र च सुखमित्यंशं व्याकरोति। सुखरूपमिति। सुखरूपं जीवस्वरूपं दुःखं दुःखरूपं न भवति। उपलक्षणमेतत्। दुःखरूपं जीवस्वरूपं सुखरूपं न भवतीति न दुःखमित्यंशस्यापि व्याख्यान द्रष्टव्य। प्रकृतोपयोगमुपपादयति॥अत इति। वस्तुतः

सुखरूपस्य दुःखरूपत्वाभावात्। अभिमानयुक्तं मन एव। तथा सुखिनं दुःखतया स्वसन्निधानेन जीवे दर्शयति॥ जपाकुसुमंस्वसन्निधानात्स्फटिके लौहित्यमिवातो मम तादृशमनसोऽभावादुःखित्वं कथं प्रतीयेतेत्याशयः। न सुखं न दुःखमित्यत्र प्रमाणमाह॥जीवस्येति॥५३॥ ग्रहानिमित्तमिति श्लोके ग्रहस्येति षष्ठ्यंतं पदं व्याचष्टे॥ गृह्यमाणत्वादिति। गृह्यत इति कर्मव्युत्पत्त्येति भावः। कर्मास्त्विति श्लोके तद्धि जडे जडत्व इति पदच्छेदप्रतीतेः कस्येत्यप्रतीतेर्व्याचष्टे॥ अजडत्व इति। आत्मनः। सिद्धे सतीति शेषः॥५४॥ कालोऽस्त्विति श्लोके तदात्मन इत्येतद्व्याचष्टे॥ तदात्मन इति। कालाधी- नस्वरूपस्येत्यर्थः। आत्म शब्दस्य स्वरूपार्थत्वे प्रमाणमाह॥स्वातंत्र्यमिति। नन्वेवं तर्ह्यात्मनः कालाधीनस्वरूपत्वाभावेन दुःखादेरयोगेऽपि देहस्य तद्भावेन दुःखं स्यादेवेत्याशंकापरिहाराय नाग्नेर्हीतिदृष्टांतः प्रवृत्त इत्याशयेन विवृणोति॥ यथेति। अग्रेस्तापनिमित्तं दुःखं न हिमस्य हिमनिमित्तं दुःखं नेति ग्राह्य। एव जडस्य देहस्य जडांतसंबधे सत्यपि तत्प्रयुक्त दुःखं नेत्याशयः। अत्र प्रमाणमाह॥सदेति। यद्यपीति शेषः। युज्यते संभावितमित्यर्थः। न सुखं न दुःखमित्यत्र प्रमाणमाह॥आत्मन इति। किमेतादृशं मनसः सामर्थ्यमित्यतः प्रवृत्तस्य भीमो हि देव इत्यस्य तात्पर्यं॥ सर्वेषामिति। अत एव मनोरूपो मनोऽभिमानी। मनोवशेऽन्ये हि भवंति देवा इत्यस्य तात्पर्यं॥ तद्वशा इति। सहसः सहीयानित्यस्य तात्पर्यं॥नियता तस्य च प्राण इति॥५६॥ न केनचिदिति श्लोके यथाऽऽत्मन इत्यत्रत्यस्यात्मन इत्यस्यार्थमाह॥ आत्मन इति। सत इति शेषः। अत्र जनश्च हेतुरित्यादि सर्वश्लोकेषु जनादीनां न सुखदुःखहेतुत्वं किंतु मनोऽभिमानस्यैवेति मनस एव परमकारणत्वमुपपादनीयं। सिंहावलोकनन्यायेन तावज्जन इति श्लोके मनस एव निमित्तमुत्तमस्तीत्याशयेनाह॥भौमयोरिति। भूविकारयोरित्यर्थः। अन्नमयं हि सौम्य मनः पृथिवी वा अन्नमिति श्रुतेः। पीडयेत्यादि भावप्रधानो निर्देशः। पीड्यत्वपीडकत्वापादकयोरुभयमनसोरित्यर्थः। पीड्यपुरुषे यदि मनः पीड्यत्वापादकतया वर्तते तदा तस्य दुःखं पीडके च पीडकत्वापादकतया वर्तते॥ चेत्तस्य सुखं भवतीति प्रसिद्धं। मयिस्थितं च मनसो मम पीड्यत्वाभिमानापादकं न भवतीति न मम दुःखहेतुभूतं तदित्याशयः। ग्रहा इति श्लोकेऽपि मनोऽन्वयव्यतिरेकायुक्तावित्याशयेनाह॥ग्रहस्येति। गृह्यतेऽनेनेति करणव्युत्पत्त्येत्याशयः। ग्रहण-

रूपस्य ग्रहजननस्वभावस्यत्यथः। कमास्त्विति श्लोकेऽपितदन्वयव्यतिरेकादित्याशयेनाह। जड इति। कालोऽस्त्विति श्लोकेऽपि तावुक्तावित्याशयेनाह॥तदात्मन इति। कालकृतविकारयुक्तस्येत्यर्थः। न केनचिदिति श्लोकेऽपि तावुक्तावित्याशयेन यथाऽत्मन इत्यादि योजयति॥ ससृतिरूपिण इति। अत्रत्यात्म शब्दस्य मनःपरतयाऽऽत्मनो मनस इति व्याख्यातत्वाज्जीवस्येति व्याख्यानांतरामति ध्येयं। यथेत्यनंतरमात्मनो मनसः सतो द्वंद्वोपरागो भवतीति शेषः। परस्य भगवतः। तत्र मूलाभिप्रेतं हेतुमाह॥अमनस्त्वादिति। जीववत्प्राकृतमनोऽभिमानाभावादित्यर्थः। उपसंहरति। अत इति। उक्तरीत्या जन इत्यादि सर्वश्लोकेष्वपि मनोऽन्वयव्यतिरेको दुःखादिजनने उक्त इत्यर्थः॥ तथा च जन इत्यादिश्लोकानामियमक्षरयोजना॥ तथा हि। नायं जन इत्यत्र मनस एव परमकारणत्वमुपपादयितुमादौ प्रतिज्ञातं जनस्य सुखदुःखाहेतुत्वमुपपाद्यते॥ जनोऽस्येति। अस्य जीवस्य जनः परिदृश्यमानप्राणिदेहः सुखदुःखयोर्हेतुश्चेत्तर्हि तत्र देहे निर्मुक्ताभिमानतया विद्यमानस्यात्मनो मम तेन किं स्यान्न किमपि। कुतः। यतस्तद्दुःखं भौमयोर्भूविकारयो- र्देहयोस्ताड्यत्वात्ताडकत्वे तदापादकयोरुभयमनसः सत्तोर्भवति नान्यथा। मयि स्थितं च मनो मम ताड्यत्वाभिमानमुत्पाद्य दुःखहेतुर्न भवति। निर्मुक्ताभिमानत्वादतो मम किं स्यान्न किमपि दुःखादिकमित्यर्थः। अत्र दृष्टांतो जिव्हामिति। स्वदद्भिः स्वकीयदतैरेव क्वचित्स्वजिव्हां सदशति। तदा तद्वेदनायां तस्यां जिव्हायां वेदनायां सत्यां कतमाय कुप्येत्कोपं कुर्यात्। न हि दन्तान्मति क्रुद्धयति। तथा च जिव्हादंतयोरुभयोरपि भौमत्वेनैकस्य पार्थिवपदार्थस्यापरपार्थिवपदार्थेन संबंधन दुःखे जातेऽहं किं करिष्यामीति मत्वा न कुप्यति। यथा तथा पार्थिवपदार्थभूतमदीयदेहस्यापरपार्थिव- पदार्थभूतपरकीयदेहेन दुःखे जाते निर्मुक्ताभिमानस्य किं भविष्यतीत्यतो न जनो दुःखहेतुरिति भावः। न देवतेति प्रतिज्ञातं देवताया दुःखहेतुत्वाभावमुपपादयति \।\। दुःखस्येति। यदि दुःखस्य हेतुः परदेहस्थिततत्त्वाभिमानिदेवतेत्यच्यते। तर्ह्यस्तु तथाऽत्र देहे निर्मुक्ताभिमानतया स्थितस्यात्मनो मम किं स्यान्न किमपि। कृतः। यतस्तदुःखं विकारयोर्मन आदिविकाराभिमानिदेवतयोर्मनसोर्विकारापादकतया सतोरेव भवति नान्यथा। मद्देहस्थिता देवताश्च मन्मनसो विकारापादनका न भवंत्यतो न मम दुःखमित्यर्थः। तत्र दृष्टांतो यदंगमिति। यद्यदा स्वदेहेंऽगे चक्षुराद्यगेनेंद्राद्यभिमान्यमानहस्तादिना विहन्यते चेत्तदा पुरुषः कस्मै क्रुध्येत्। न हि हस्ताभि

मानींद्राय कुप्यतीत्यर्थः। कदाचित्कुप्यत्येवेति चेत्तत्क्रोधस्यायोग्येंद्रादिविषयकत्वात्। अयोग्यक्रोधादेश्च मनोऽभिमानस्यैव॥ १०३॥ कारणत्वात्तस्य च ममाभावादित्याशयः। नामेत्युक्तं मनसो दुःखाहेतुत्वमुपपादयति॥आत्मेति। आत्मा मनो सुखदुःखहेतुश्चेत्तत्र देहे विद्यमानस्य निर्मुक्ताभिमानस्य मम किं नैव सुखापादकः। कुतः। निजस्वभावः। अन्यतः कारणविशेषादन्यथा नैव भवति। तदेवोपपादयति॥न हीति। आत्मनो जीवस्य स्वभावादन्यन्न भवतीति हि प्रसिद्धं। ननु सुखस्वभावस्याप्यात्मनो दुःखादिकं दृश्यत इति चेत्तत्राह॥ यदीति। यदि स्वभावादन्यद्दश्यते तर्हि तन्मृषा मिथ्यैव स्यात्। मिथ्यात्वमुपपादयति॥ न सुखमिति। यत्सुखस्वरूप तद्दुःखं दुःखस्वरूपं न भवति। यद्दुःखं दुःखस्वरूपं तत्सुखं सुखस्वरूपं न भवत्यतः स्वभावादन्यत्परिदृश्यमानं मृषैव शुक्तिरजतवदित्यर्थः। ननु मनस एव कारणत्वमुपपादयितुमयं ग्रंथः प्रवृत्तः। अत्र श्लोके मनसः कारणत्वाभावमुपपाद्यत इति विरोध इति चेत्। सत्यं। तथाऽपि तात्पर्यानुसारेण मनस एव कारणत्वोपपादनमत्राप्यभिप्रेतं द्रष्टव्यं। तथा हि। न सुख न दुःखमतो मृषैव स्यादित्युक्तं। तत्र भ्रमे किं कारणमिति चेदुच्यते। जपाकुसुमसन्निधानेन स्फटिके लौहित्यमिव मनःसन्निधानादेवैवं प्रतीयतेऽतो मन एवाभिमानयुक्तं सत्तथा दर्शयति। तादृशं च प्रदर्शकं मनो मम नास्तीति सुखस्वरूपे मयि कथं दुःखमित्याशयात्। ग्रहाणामुक्तं दुःखहेतुत्वाभावमुपपादयति॥ ग्रहा इति। आदित्यादिनवग्रहाः सुख- दुःखयोर्निमित्तमिति चेत्तथाऽप्यजस्योत्पत्तिशून्यस्यात्मनो मत्स्वरूपस्य किं कुर्युः। कुतः। यतो नवग्रहा जनस्य स्वसदृशायां जनिमत एव पुंसः स्वकार्याणि कुर्युरिति वै ज्योतिःशास्त्रे प्रसिद्धं। जनस्य त इत्युक्तमेव विशदयति॥ ग्रहैरिति। ग्रहैः पीडा ग्रहस्य गृह्यत इति व्युत्पत्त्या देहस्यैव जनिमतो भवंत्यतो ततोऽन्यः पीडायुक्तदेहाद्भिन्नः पुरुषः कस्मै क्रुध्येत। देहभिन्नपुरुषस्यापि पीडा ग्रहस्य गृह्यतेऽनेनेति करणव्युत्पत्त्या ग्रहणरूपस्य मनसः सत् एव मनोऽभिमाने सत्येव भवंत्यहं तु निर्मुक्ताभिमान इति न मम ग्रहनिमित्तपीडेति भावः। कर्मण उक्तं दुःखाहेतुत्वमुपपाद्यते॥ कर्मास्त्विति। कर्म सुखदुःखयोर्हेतुश्चेदस्तु तथाऽप्यात्मनो मम किं। कुतः। तत्कर्माधीनं दुःखादि जडे कर्माधीने देहे युज्यते। आत्मनश्चाजडत्वे सिद्धे सति स्ववित्स्वस्वरूपज्ञानी सुपर्णः परमानंदरूपः पुरुषः कस्मै क्रुध्येत। एतादृशोऽप्यात्मनि कर्माधीनं दुःखादिकं जडे जडमनसि अभिमानयुक्तेः प्राकृते मनसि सत्येव

प्रतीयते। मम तु न तादृशं मनोऽस्तीति कर्म मम दुःखादौ मूलं न भवतीत्यर्थः। कालस्योक्तं दुःखाहेतुत्वमुपपादयति॥कालोऽस्त्विति। कालः सुखदुःखयोर्हेतुश्चेदस्तु तथाऽपि तत्र देहे निर्मुक्ताभिमानस्य कालकृतविकारशून्यस्यात्मनो मे मम तेन किं स्यात्। कुतः। यतोऽसौ कालस्तदात्मनस्तत्कृतविकारयुक्ततया तदधीनस्यैव विकारापादक इत्यर्थः। मम च कालाधीनत्वाभावादिति ध्येयं। तर्हि देहस्यापि कालकृतविकारयुक्ततया कालाधीनत्वात्कालो देहस्य दुःखाद्यापादकोऽस्त्विति चेत्। सत्यं। जडत्वाद्देहस्य न संभवतीत्याह॥नाग्नेर्हीति। यथाऽग्नेरग्निनिमित्ततापो न जडत्वाद्धिमस्य हिमनिमित्तं तद्दुःखं न जडत्वादेवं देहस्यापि जडत्वात्कालादिसंबंधे विद्यमानेऽपि न दुःखयुक्तमिति कस्मै क्रुध्येतेत्याशयः। यदाऽप्यात्मदुःखादिकं दृश्यते तत्तदात्मनः कालकृतविकारवतोऽभिमानयुक्तस्य मनसः सत एव भवति नान्यथा। मम तु तदभावान्न दुःखमित्यर्थः। जडत्वाद्दुःखं नेत्यत्रैव तौ दृष्टांताविति ध्येयं। यदि जीवदेहयोर्न दुःखादिस्तर्हि हरेः स्यादित्यत आह॥नेति। बोद्धुः सर्वज्ञस्य दुःखं नेत्यर्थः। एतदेवोपपादयति॥न केनचिदिति। यथा संसृतिरूपिण आत्मनो जीवस्यात्मनो मनसः सत एवं द्वंद्वोपरागो भवति। तथा परतो ब्रह्मादेः परस्यास्य भगवतः क्वापि देशे काले च कथंचन केनचित्प्रकारेण वा द्वंद्वोपरागो नेत्यर्थः। उपसंहरति॥एवमिति। एवं प्रबुद्ध एवं विधज्ञानी भूतैः खलैः कृतादुपद्रवान्न बिभेति॥५७॥परमात्मनिष्ठां परमात्मनि मनोनिष्ठां हेतुभूतामेतां गाथामास्थायाश्रित्य। एतदामननेति यावत्। कीदृशीं पूर्वतनैर्महर्षिभिरध्यापितां। अनेन महर्षिसंप्रदायागतेयं गाथेत्युक्तं भवति॥५८॥निर्विद्यविरक्तो भूत्वा। प्रव्रज्य यत्याश्रमं गृहीत्वाऽसद्भिः स्वधर्मान्निराकृतोऽपि स्वधर्माद्भगवति मनोयोगरूपात्। इत्थमुक्तरीत्या गाथामाहेत्यर्थः॥५९॥गाथातात्पर्यार्थमाह॥सुखेति। आत्मनो मनसो विभ्रमोऽभिमानेन नानाविषयेषु परिभ्रमणमहंममेति भ्रमो वा यः स एव सुखदुःखप्रदो नान्यो जनदेवताऽऽत्मग्रहादिरतो मित्रोदासीनरिप

वइदं मित्रमयमुदासीनोऽयं रिपुरिति य आत्मनः संसारः स स्वमनःकृतः स्वमनोऽभिमानकृत इत्यर्थः॥६०॥भगवानुपसंहरति। तस्मादिति। सर्वात्मना सर्वप्रकारेण मय्यावेशितधियायुक्तो मनोनिग्रहे य उपायस्तद्युक्तः सन् मनो विषयेभ्यो निग्रहाण योगसंग्रहोयोगशास्त्रोक्तप्रमेयस्य संग्रहः एतावान्मनःसंयमलक्षण इत्यर्थः॥६१॥फलमाह॥य एतामिति। एतां गाथां ब्रह्मनिष्ठां ब्रह्मणि मनोनिष्ठां

साधनभूतां। द्वंद्वैः शीतोष्णसुखदुःखादिभिर्नैवाभिभूयते। द्वंद्वसहिष्णुर्भवतीति यावत्॥ ६२॥ इति श्रीभागवतटिप्पण्यांत्रयोविंशोऽध्यायः॥११–२३॥

॥ हरिः ॐ॥ प्रमेयांतरं वक्तुं भगवान्प्रतिजानीते॥ अथेति। सांख्यं ज्ञानसाधनीभूतसांख्यशास्त्रोक्तं प्रमेयं पूर्वैः पुरातनैर्भ्रमनिवर्तकतया निश्चितं निश्चयेन ज्ञातं यत्सांख्यं वैकल्पिकं विकल्प एव वैकल्पिकस्तं विकल्प शब्दवाच्यं भ्रमं॥ १॥ प्रतिज्ञातमाह॥ आसीदित्यादिना। अथैवं प्रतिज्ञानंतरं तत्प्रमेयं कथ्यत इत्यर्थः। आदौ कृतयुगे ज्ञानमर्थश्चेत्युभयमेकमेवासीदित्युक्तं तदयुक्तं। उभयोरैक्या- योगादित्यतस्तात्पर्यमाह॥ यथैवेति। तथा तदर्थप्रतिपादकतया विद्यमानं ज्ञानं ज्ञायत इति व्युत्पत्त्या ज्ञानसाधनं शास्त्रं प्रसिद्धज्ञानं च ग्राह्यं। एवमुत्तरत्रापि। एवं हि सति शब्दार्थकमिति वक्ष्यमाणं संगच्छते। वेदादिशास्त्रं कृतयुगे यथाऽर्थोऽस्ति तथैव निश्चयेन ज्ञानमुत्पादयतीति भावः। ज्ञानार्थयोर्यथैवार्थस्तथा ज्ञानमिति सत्तया सादृश्यमभिप्रेत्य सादृश्याभेदसंश्रयाज्ञानार्थैक्यं मूले उदाहृतमित्यर्थः॥ तथेति। ज्ञानार्थयोः सादृश्यमित्यर्थः। तदन्येषु युगेषु कस्यचिदेव पुंसो यथाऽर्थस्तथा ज्ञानं भवतीत्यर्थः। संशयविपर्ययावपि शास्त्राद्भवत इति यावत्। अनेन द्विधा समभवदित्यस्य तात्पर्यमुक्तं ज्ञातव्यं। तथा च कृतयुगे ज्ञानं शास्त्रमर्थश्चैकमेवासीत्। कोऽर्थोऽविकल्पितं संशयविपर्यया- जनकमासीत्। कोऽर्थो वेदादिशास्त्रं कृतयुगे यथाऽर्थोऽस्ति तथैव निश्चयेन ज्ञानमुत्पादयतीति भावः। कुतः। यत्रत्या जना विवेकनिपुणा उपक्रमादिना वेदार्थज्ञाने कुशला अत इत्यर्थः। यथोक्तं। नारायणाद्विनिष्पन्नंज्ञानं कृतयुगे स्थितमिति॥ २॥ त्रेतादौ नैवमित्याह॥ तदिति। फलस्वरूपेणेत्यन्यथा- प्रतीतिपरिहाराय व्याचष्टे। फलमिति। रूपयति निरूपयति। ददातीति यावत्। ज्ञानार्थयोः सत्यत्वमुपपादयति॥ ज्ञानार्थैक्येनेति। मिथो विरोधराहित्येनाबाधितत्वेन निमित्तेन ज्ञानार्थयोः सत्यत्वमित्यर्थः। कृतयुग एतद्विधासमभवदित्यन्यथाप्रतीतिनिरासायाध्याहारेण योजयति। पश्चादिति। त्रेतायामित्यर्थः। बृहदित्येतत्तदित्यस्य विशेषणमित्याशयेन तच्छन्दार्थंवदन्। बृहच्छब्दार्थमप्याह॥ तदिति। शब्दार्थात्मकमुभय शब्दोऽर्थश्चेत्युभयं तच्छब्दवाच्यं बृहन्महत्तरमित्यर्थः। अनेनात्र सर्वत्र ज्ञानपदं शास्त्रपरमिति द्रष्टव्यं। तथा च केवलेन जडामिश्रेण फलरूपेण फलदात्रा तादृशज्ञानमुत्पाद्य तदनुसारेण।

फलं दातुमिति यावत्। मया सत्यं मिथो विरोधराहित्येनाबाधितं बृहन्महत्तरं वाङ्मनोऽगोचरं तत्ज्ञानमर्थश्चेत्युभय विकल्पितं विविधकल्पनाविषयं। तस्यैव विवरणं॥ द्विधेति। इदमदो वेति संदिग्धं। अन्यदेवेति विपर्यस्तं चाभवदित्यर्थः। यथोक्त। किंचिदन्यथा जातं त्रेतायामित्यादि॥३॥ननु ज्ञानार्थयो- र्वाङ्मनोऽगोचरत्वं बृहत्वं चोक्तं तत्कथमित्यतस्तदभिमानिनावाह॥तयोरिति। तयोरित्यादि- श्लोकान्प्रमाणेनैव व्याचष्टे॥ ज्ञानेत्यादिना। महालक्ष्मीर्नेत्याह॥ गायत्रीति। उभयात्मकेत्यस्य तात्पर्यं। तयोरिति। तेभ्यः समभवत्सूत्रमित्यस्यार्थमाह। वायुस्त्विति। तमोरजःसत्त्वमित्यस्यार्थमाह गायत्रीति। एका प्रकृतिर्ब्रह्मपत्नी सत्त्वादिभेदतः सत्त्वादिगुणाभिमानिगायत्र्यादिभेदतस्त्रिरूपेति योज्यं। वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायतेत्युक्तं विशदयति॥ तास्त्विति। गायत्री सावित्री सरस्वतीषु ब्रह्मणाऽऽदौ पृथक् पृथग्वीर्यमुत्सृष्टं स्थापितमनंतरं पृथगेवोत्पन्नं। उत्पत्त्यनंतरं तद्वीर्योत्पन्नं शरीरमेकत्रमागतमिति योज्यं। अन्यथा वाक्यार्थबाधापत्तेः। स क इत्यत आह॥स इति। तेभ्य उत्पन्नदेहैक्यवानित्यर्थः। मत्सूत्रेण च संयुतमित्येतद्विवृणोति॥ तस्यापीति। विष्णोः सूत्र शब्दवाच्यत्वे निमित्त॥धारणदिति। ततो विकुर्वत इत्यस्यार्थमाह॥ सूत्रेति। तत इत्येतत्प्रकारातरेण योजयितुं परामर्शोपपत्तये तेभ्यः समभवत्सूत्रमित्यत्राभिप्रेतमर्थमाह॥सूत्रात्मनेति। सूत्रात्मना सह महांश्चतुर्मुखोऽपि गायत्र्यादिभ्यो जात इत्यर्थः। तत इत्यस्यार्थमाह॥ तस्यापीति। ब्रह्मण इत्यर्थः। स रुद्रो नेत्याह॥स चेति। अनंतः शेषः। अनंतादपि। न केवलं सूत्रादित्यपि शब्दः। ब्रह्मणश्च सूत्रात्मना यः सहोत्पन्नस्तस्माद्ब्रह्मणः सकाशादपि रुद्रोऽभूदित्यर्थः। एते त्रयो रुद्राः केषांचित्तत्त्वाभिमानिन इत्यत आह॥वैकारिक इत्यादि। वैकारिकादिभेदेन त्रिविधाहंकारस्यैते त्रयोऽभिमानिन इति भावः। अनेन वैकारिक इत्यस्य तात्पर्यमुक्तं भवति। गुणभेदतो वैकारिकाद्यहंकारकार्यभेदत एकोऽपि रुद्रस्त्रिविधेत्यन्वयः। अयमत्रसंग्रहः। आदौ वासुदेवान्मायायां पुन्नामा ब्रह्मोत्पन्नस्तत्पन्नी प्रकृतिनाम्नी प्रद्युम्नादुत्पन्ना। प्रद्युम्नतश्चाथ कृतौ स्त्रियौद्वे प्रजज्ञतुर्यमलेतत्र पूर्वा प्रधानसंज्ञा प्रकृतिर्जनित्रीत्युक्तेः। सा च प्रकृतिर्गायत्री सावित्री सरस्वतीति त्रिविधा जाता। तासु पुन्नामकब्रह्मणा वीर्यमुत्सृष्टं ततः संकर्षणाज्जयायामुत्पन्नोऽपि सूत्रनामा वायुः पुनरुत्पन्नस्तेन सह ब्रह्मा स्वयमपि स्वस्त्रियां स्वपुत्रत्वेन जातः। मृत्रनामकवायोः सकाशाद्रुद्र उत्पन्नः। तैजसा-

हंकाराभिमानी। स्वपुत्रत्वेन सूत्रनामकवायुना सहोत्पन्नब्रह्मणः सकाशादनंत उत्पन्नस्तस्माच्चानंतात्पुना रुद्र उत्पन्नः। स तु ब्रह्मोत्पन्नानंतो रुद्रस्तामसाहंकाराभिमानी। स्वपुत्रत्वेनोत्पन्नब्रह्मणः सकाशात्साक्षादेव रुद्र उत्पन्नः। स तु वैकारिकाहंकाराभिमानीति। तथा च तयोरेकतर इत्यादेरक्षरार्थः। तयोर्ज्ञानार्थयोर्मध्ये एकतरोऽर्थोऽर्थाभिमानिनी। या प्रकृतिर्ब्रह्मपत्नी या प्रद्युम्नात्कृतोत्पन्ना सा प्रकृतिरुभयात्मिका विष्णुश्रीस्वामिका। तयोर्मध्येऽर्थापेक्षयाऽन्यतमो भागो ज्ञानं यत्सः पुरुषोऽभिधीयते। तन्नामा ब्रह्मज्ञानाभिमानीत्यर्थः। सोऽप्युभयात्मक इति द्रष्टव्यं। अतस्तयोर्बृहत्वादिकं युक्तमित्याशयः। पुनरर्थात्मकप्रकृतेर्ज्ञानात्मकब्रह्मणश्च बृहत्वमुपपाद्यते॥ तम इत्यादिना। मया प्रक्षोभ्यमाणायाः कार्याभिमुखीभूतायाः पुरुषानुमतेन पुरुषनामकब्रह्मसमत्या। तत्कृतगर्भाधानेनेति यावत्। प्रकृतेर्ब्रह्मपत्न्याअव्यक्तावांतराभिमानिन्याः सकाशात्सत्त्वादयो गुणास्तदभिमानिन्यो गायत्र्याद्या जाताः। मूलाव्यक्तगुणत्रयाणामेका रमैवाभिमानिनी। तथाऽपि महदादिकार्यानुस्यूतमव्यक्तं गुणत्रयं चास्ति। तदभिमानित्वमेव ब्रह्मपत्नी प्रकृत्यादेरिति ध्येयं। तेभ्यः सत्त्वाद्यभिमानिगायत्र्यादिभ्यः सकाशान्मत्सूत्रेण मदाख्येन सूत्रेण धारकेण संयुतं मदधीनं। मत्प्रेरितमिति यावत्। सूत्रं वायुस्तेन सह ब्रह्मा च रूपांतरेणोत्पन्नस्ततो विकुर्वतः सूत्राद्यो विमोहकोऽहंकारो रुद्रस्तैजसः स जज्ञे। तथा विकुर्वतस्तस्माद्ब्रह्मणो योऽहंकारो विमोहनोवैकारिको रुद्रः स जज्ञे। तथा ततो ब्रह्मणो योऽहंकारो विमोहनोऽनंतः स जज्ञे। एवं त्रिवत् त्रिःप्रकारवान् रुद्रो जज्ञ इत्यर्थः॥३—५॥ तामसाहंकारादिरूपो रुद्रः कीदृश इत्यत आह॥ तन्मात्रेति। अत्र चिदात्मकत्वं रुद्रस्योच्यत इति प्रतीतिवारणायार्थमाह॥ चिदचिद्यद्वशे सर्वमिति। तथा च तन्मात्र शब्देन पचभूतान्यपि ग्राह्याणि। मनः शब्देनेंद्रियाभिमानिदेवतादेहाश्च ग्राह्याः। वैकारिकादिभेदेन त्रिवत्। चिदचिन्मयस्तत्स्वामी रुद्रः पंचतन्मात्रपंचमहाभूतेंद्रियतदभिमानिदेवतादेहमनसां कारणमित्यर्थः॥७॥ तद्विविच्य दर्शयति॥ अर्थ इति। तन्मात्रकः पंचतन्मात्रारूपोऽर्थः पंचभूतानि च तामसाज्जज्ञे। इंद्रियाणि च तैजसाज्जातानि। मनसा सहेति शेषः। एकादशदेवतास्तद्देहा मनसा सहैव कृताज्जाता इत्यर्थः॥८॥ एतैस्तत्त्वैर्बह्मांडोत्पत्तिप्रकारमाह॥ मयेति। भावास्तत्त्वानि। संहत्य संभूयैककार्यकारिणो न स्वातंत्र्येण॥ ९॥ ममायतन इत्येतदेव दर्शयति॥ तस्मिन्निति। तस्मिन्नंड इत्यन्वयः। योऽहं

समभवं तस्य मम नाभ्यां विश्वाख्यं सर्वलोकोत्पादनं। तत्र पद्मे। आत्मभूर्ब्रह्मा। अत्राहं समभवामिति हरेरुत्पत्तिप्रतीतेस्तां प्रमाणेनैव निराकरोति॥ चिदानंदेति। तर्ह्येवमेव चतुर्मुखोऽप्यनुत्पन्नं किं नेत्याह॥ तदिति। भूतदेहो भौतिकदेहवान्।चतुर्मुखस्तन्नाभेर्जातात्पद्मादभूदित्यन्वयः। सर्वांङ्गव्याप्तदेह इति स्वरूपकथनं। पूर्वंविराट्कल्पमभिप्रेत्याहुः। तथा चाहं समभवं सम्यगेवाभवं। चिदानंददेहयुक्त एव प्रकटोऽभवमित्यर्थ उक्तो भवति॥१०॥ स आत्मभूः रजसा रजोगुणमुपादानीकृत्य विश्वात्मा विश्वांतर्नियामकः। भूरादिभेदेन त्रिधास्थितान् सषालान्दिक्पालसहितान् लोकान्॥११॥ ओको निवासस्थानं भूतानां पिशाचादीनां पदं स्थानं भुव आसीत्। त्रितयाद्भूरादिलोकत्रयात्पर महरादि। सिद्धानामपरोक्षज्ञानिनां क्षीणप्रारब्धानां पदमासीत्॥१२॥ नागानां सर्पाणां भूमेरध ओकः पातालादिस्थानं। फलितमाह॥ त्रिलोक्यामिति। सत्त्वादिभेदेन त्रिगुणात्मनां कर्मणां गतयस्त्रिलोक्यामेव तदंतरेव। सात्त्विककर्मणा स्वर्गलोकः। राजसेन भूः। तामसेन भुवरिति॥१३॥ महरादिलोकसाधनमाह॥योगस्येति। योगादेर्महर्जनस्तपःसत्यमित्येता अमला गतयः फलानीत्यर्थः। भक्तियोगस्य तु मद्गतिरेव वैकुंठादिस्थमल्लोकप्राप्तिरेव फलमित्यर्थः। अत्र भक्तियोगस्य मद्गतिरित्युक्तत्वान्महरादिलोकप्राप्तौ भगवद्भक्त्यपेक्षाभावः प्रतीयते। तदनुपपन्नं। भक्त्यभावे महरादिलोकप्राप्तेरप्यनुपपत्तेरित्यत आह॥महरादीनामपीति। प्राप्ताविति शेषः। तर्हि भक्तियोगस्य मद्भक्तिरिति कथमुक्तमित्यत आह॥आधिक्येनेति। महरादिलोकप्राप्तौ यादृशो भक्तियोगोऽपेक्षितस्तदपेक्षयाऽऽधिक्येनापेक्षितत्वात्। वैकुंठप्राप्तेरितिशेषः। महरादिप्राप्तौ भक्तियोगोऽपेक्षित इत्यत्र प्रमाणमाह॥नैवेति। विष्णुप्रवेशनपर्यंतं भक्त्युद्रेकात्क्रमादूर्ध्वलोको भवति। भक्त्या महर्लोकस्तदपेक्षया भक्त्युद्रेकाज्जनोलोकस्तदपेक्षया भक्त्युद्रेकात्तप इत्यादि। तपोलोकप्राप्तेर्ज्ञानगतित्वोक्त्या महर्जनःसत्यादिलोकमाप्तौ ज्ञानानपेक्षेति प्रतीयते। अतस्तत्रापि महरादिलोकप्राप्तौ ज्ञानमपेक्षितमेवेत्याह। एवमिति। भक्तिवदेवेत्यर्थः। ज्ञानमपरोक्षं। ज्ञानस्य गतय इति मूले कथमुच्यत इत्यत आधिक्यविवक्षयेत्याह॥ ज्ञानेति। विष्णुप्रवेशपर्यंतं क्रमात्ज्ञानोद्रेकात्क्रमादूर्ध्वलोका भवतीत्यर्थः। नन्वथाऽप्यनुपपन्नमेव तत्। योगतपोज्ञानमिति साधनानि त्रीण्युक्तानि महर्जनःस्तप सत्यवैकुंठः इति प्राप्या लोकाः पंचोक्ताः। अतः कथमेतदिति चेत्। सत्यं। अत्रापि पंचसाधनान्युक्तानि। तथा हि। अत्र योग शब्देन द्विविधयोगो

विवक्षितः। ज्ञानशब्देनापि द्विविधं ज्ञानं। एव च पादयोगो योगस्तपो ज्ञानं महाज्ञानं चेति तेषां क्रमेण महरादिलोकप्राप्तिः फलमित्याशयेन तेषां लक्षणान्याह॥नित्यश इति। प्रत्यहमित्यर्थः। मुहूर्तमात्रं प्रत्यहं भगवद्रूपस्यापरोक्ष्येण दर्शनं ज्ञानमित्यर्थः। ततोऽधिकं द्विमुहूर्तपर्यंतं नित्यशो दर्शनमित्यर्थः। षण्मात्रकलया अ अ इ इत्यादिषट्ह्रस्वाक्षरोच्चारणकालपर्यन्तं विद्यमाना याऽपरोक्षदृशिस्तया नित्यं प्रत्यहं यदखंडितं ध्यानं तत्तपः। अखंडितध्यानसमये प्रत्यहं षण्मात्रोच्चारणकालपर्यंत चेद्धर्यपरोक्षज्ञानं भवति। तर्हि तादृशज्ञानयुक्तं ध्यानं तप इत्युच्यत इत्यर्थः। एकमात्रयुजां अ इत्येवमेकह्रस्वाक्षरोच्चारण- कालपर्यन्तं विद्यमानयाऽपरोक्षदृशा नित्यं प्रत्यहं युक्तं यन्नित्यमखंडितं ध्यानं तद्योगाख्यमित्यर्थः। अत्राप्यखंडितध्यानसमये प्रत्यहमेकमात्रोच्चारणकालपर्यंतंयदपरोक्षज्ञानं तद्युक्तं ज्ञानं योग इत्याशयः। तच्चतुर्भागयैकमात्रोच्चारणे यावान्कालस्तस्य चतुर्धाविभागे क्रियमाणे सति एकस्मिंश्चतुर्थे भागेऽतिसूक्ष्मके जायमानयाऽपरोक्षदृशा युक्तं ज्ञानं पादयोगाख्यं। एकमात्रोच्चारणकालचतुर्थभागे जायमानापरोक्षज्ञानयुक्तं ध्यानं पादयोग इत्यर्थः। पादयोगान्महर्लोक इति। ननु मध्यमाज्जनलोकादिति श्रवणादिरूपपरोक्षज्ञानेनापि महर्लोक प्राप्त्युक्तेः कथमेतत्। सत्यं। अपरोक्षज्ञानादपि तद्भवतीति। अत्र त्वपरोक्षज्ञानिनां निर्मुक्तप्रारब्धानां चरमदेहादुत्कृतानामवस्थाने सांतानिकलोका एते कथ्यंत इति न दोषः। एतदभिप्रायेणैव बहिस्त्रिलोक्या गतिमामनंति विद्यातपोयोगसमाधिभाजामिति द्वितीयस्कंधे कथितं। तत्र विद्यातपोयोगयुक्तो यः समाधिरखंडध्यानं तद्भाजामपरोक्षज्ञानिनां गतिं त्रिलोक्या बहिरेवामनंतीत्यर्थो वाच्य इति न कोऽपि दोष इति संप्रदायविदः। तथा च योगस्य पादयोगस्य तपसो ज्ञानस्य महाज्ञानस्य च महराद्यागतय इति मूलं योज्यं॥ १४॥ सर्वथा भक्तियोगशून्यस्य का गतिरित्यत आह॥मयेति। अत्र कालात्मनेत्यभेदप्रतीतेर्व्याचष्टे॥कालात्मनेति। कल ज्ञाने कल कामधेनाविति पठंति। तथा च कर्मयुक्तं। कर्मानुसारेणेति यावत्। कालात्मना ज्ञानात्मना धारकेण मया प्रेरितं सत्। गुणानां प्रवाहो यस्मिंस्तादृशे एतस्मिन्संसारे उन्मज्जति निमज्जत्यूर्ध्वं गतं भवत्यधश्च गतं भवतीत्यर्थः॥ १५॥ पुनरर्थज्ञानयोर्बृहत्वमुपपाद्यते॥अणुरिति। भावः पदार्थः। प्रसिद्ध्यत्युत्पन्नो वर्तते स सर्वोऽपि भावः प्रकृत्या ब्रह्मपत्न्या पुरुषेण चतुर्मुखेन चेत्युभयं संयुक्तस्ताभ्यां व्याप्तो वर्तत इत्यर्थः॥ १६॥ प्रसंगात्प्रकृतिपुरुषाभ्यां

प्रकृत्यादिकमुपादानीकृत्य सृष्टं जगत्किं प्रकृत्यादिकारणेनाभिन्नं भिन्नाभिन्नं वेत्याशंकायामाह॥यस्त्विति। यस्य वस्तुनो महदादेर्यः प्रकृत्यादिरुपादानमतःस्थानं च यस्मात्स एव मध्यं तस्य वस्तुनस्तत्प्रकृत्याद्युपादानं स्वभावत एवात्यंताभिन्न एव। तर्हि कथं प्रकृतेर्महत्तत्त्वमुत्पन्नमित्यादिव्यवहार इत्यत आह॥विकार इति। व्यवहारार्थो व्यवहारप्रयोजनकः। तस्यायं विकारः कार्यमिति व्यवहारमात्रप्रयोजनकमेव। व्यवहार एवायं न वस्तुतस्तस्मात्। विकारोऽयमि यावत्। तत्र यथेति दृष्टांतः। तथा तैजसो रुचिकादिः। पार्थिवः पटादि सुवर्णस्य ततोश्च विकारः कार्यमिति व्यवहारमात्र तद्वदित्यर्थः। नन्वेतदयुक्तं। कार्यकारणयोर्भेदाभेदस्यैव शास्त्रे व्यवस्थापितत्वेन विकारो व्यवहार इत्यत्यंताभेदोक्त्ययोगादित्यत आह॥ प्रकृतेरिति। प्रकृतेर्जडप्रकृतेर्महदादिकार्योपादानभूतो यः कोट्यंशो व्यतिषंगविशेषरहितोंऽशसमुदायः स विकाराणां महदादिकार्याणां सकाशाद्भेदो भिद्यंत इति भेदो भिन्न इष्यत इत्यर्थः। तथा विकाराणां प्रकृत्याद्येकैकांशतोऽपि भेदो यतोऽभेदवर्जितो नात इत्यर्थः। अभेदं वा। व्यतिषंगाविशेष- विशिष्टांशैरत्यंताभेदमित्यर्थः। तथा च यथा पटे व्यतिषंगविशेषरहितसर्वतंतूनामेकैकतंतुना च भेदाभेदः। व्यतिषंगविशेषविशिष्टतंतुभिरत्यंताभेद एव। तंतुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इत्युक्तेस्तद्वत्प्रकृतेऽपीति। व्यतिषंगाविशेषविशिष्टकारणस्यायं विकार इति व्यवहारमात्र एव। कुतः। यतो व्यतिषंगविशेषविशिष्टं कारणमेव कार्यमिति न कश्चिद्दोष इति भावः॥१७॥यदुपादेयेति श्लोके ब्रह्मण एव सत्यत्वं नान्यस्येत्युच्यत इत्यन्यथाप्रतीतिपरिहाराय व्याचष्टे॥ पारमार्थिकेति। तत्स्वातंत्राख्यं पारमार्थिकसत्यत्वं। तर्हि विश्वं सत्यमित्यादेः का गतिरित्यत आह॥तदिति। विष्ण्वितरेषां सदाऽस्तित्वमेव सत्यत्वं तदेव च श्रुत्यादावुच्यते न स्वातंत्र्यरूपमित्यर्थः। यदुपादेयेत्यादि व्याचष्टे॥ यदिति। पूर्वपदार्थमाह। पूर्व इति। आदिरंतश्चेत्यादि व्याचष्टे॥आदिरिति। यद्ब्रह्मणि यच्च तद्ब्रह्म तस्मिन्यद्ब्रह्मणि। यस्मिन्नित्यस्यार्थोऽय। यत इत्यस्यार्थः॥ यस्मादिति। तदित्यस्यार्थः॥ तद्ब्रह्मेति॥ तथा चायमर्थः। न प्रकृतिपुरुषयोरेतावता स्वातंत्र्यं मंतव्यमित्युच्यते॥ यदिति। पूर्वो भावः प्रकृत्यादिकारणपदार्थसार्थः। यद्ब्रह्मनिमित्तकारणभूतमुपादायाश्रित्य। यत्प्रेरणयेति यावत्। परं महदादिकार्यमुद्दिश्य विकुरुते विकरोति तत्सत्यं। तथा यतो यस्मात्कारणाज्जगत आदिरंतश्च यस्मिन्यद्ब्रह्मणि यदधीनत्वेन वर्तते तत्तस्मात्कारणात्तद्ब्रह्मैव सत्य

स्वतंत्रमित्युच्यत इत्यर्थः॥ १८॥ इतोऽप्यहमेव स्वतंत्र इत्याह॥ प्रकृतिरिति। अत्र पुरुषः परो भगवानिति प्रतीतिवार णायानूद्य व्याचष्टे॥पर इति। कः कालो योऽभिव्यंजक इत्यह आह॥कालोऽपीति। अभिव्यंजकत्वेनोक्तः कालः कालनामास एव हिरण्यगर्भ एव रूपांतरेणोच्यत इत्यर्थः। एवं व्याख्यातार्थे प्रमाणमाह॥कालेति। तत्पत्नी ब्रह्मपत्नी। प्रकृतेर्महदादिकार्यानुस्युताव्यक्तभागस्य।सर्वशः सर्वत्र देशे काले च। सूत्रमारभ्य सर्वं जगत्प्रसूयते। अनेन प्रकृतिर्ह्यस्योपादानमित्यस्यार्थ उक्तो भवति। ब्रह्मतत्त्रितयं त्वहमिति प्रकृत्याद्यभेद उच्यत इति भ्रांतिवारणाय प्रमाणेनार्थमाह आधार इति। कालप्रकृतिपुंसां चाधार इत्यादिसंबंधः। ननु मूलप्रकृतेरेवाधारादित्वात्केशवस्य तत्कथमित्यत उक्तं॥ तन्मूलेति। च शब्दात्प्रसवितेति ग्राह्यं। सिसृक्षत्वविशेषं तत्साक्षाद्भगवदिच्छ्या प्राप्तैव सृष्टेत्युदितेत्युक्तेः॥ तथा चायमर्थः॥अस्य सूत्रादेर्जगत उपादानं प्रसवित्री या प्रकृतिर्ब्रह्मपत्नी यश्च पृथिवीवत्कार्याधारभूतः परः पुरुषो हिरण्यगर्भो यश्च सतः सतां प्राप्नुवतो जायमानस्य कार्यस्याभिव्यंजको निमित्तभूतः कालः कालाभिमानी ब्रह्मास्ति तत्त्रितयं तेषां प्रसवितृत्वाधारत्वाभिव्यंजकत्वशक्तिप्रदः। तत्त्रितयं तेषां कालप्रकृतिपुंसां त्रितयमाधारो व्यंजकः प्रसविता चातो ब्रह्म पूर्णभूतोऽहमेवेत्यर्थः॥ १९॥ इतोऽपि जगत्सृष्ट्यादिकारणं ब्रह्मैवेत्याह॥सर्ग इति। तावत्पर्यंतं सर्गः प्रवर्तत इत्युक्तं। तत्र स्थित्यत इत्यस्यार्थमाह॥ यावदिति। उत्पत्तिरिति सर्ग शब्दार्थः। स्थित्यंतो यावदीक्षणमित्यसंगतिपरिहारायानूद्यव्याख्याति॥ यावदीक्षणमिति यावद्यदेत्यर्थः। भगवतः स्मरणं नाम चिंता।इच्छेति यावत्। न तु संस्कारकारणकं ज्ञानं नित्यानुभवत्वादिति भावः॥ तथा चायमर्थः। महान् गुणविसर्गः सत्त्वादिगुणोत्पत्तिनिमित्तकोऽय विसर्गो यावत्पर्यतं स्थितिरस्ति तावत्पर्यंतं प्रवर्तते। सर्गस्थित्योरेककालीनत्वानुपपत्तिपरिहाराय आह॥पौर्वापर्येणेति। सर्गानंतर स्थितिस्तदनंतरं पुनः सर्गः पुनः स्थितिरिति। पौर्वापर्येण नित्यशः प्रलयपर्यंतमेवं प्रवर्तत इत्यर्थः। प्रलयः कदेत्यत आह॥स्थितीति। यावद्यदा जगतः प्रलयः स्यादिति भगवत ईक्षणामिच्छा भवति तदैव स्थित्यतः स्थितेरंतः प्रलयो भवतीत्यर्थः॥ २०॥ तमेव प्रलयप्रकारं दर्शयति॥ विराडित्यादिना। पंचत्वायाविशेषायोति विशेषणविशेष्यभावप्रतीतिनिरासायार्थमविशेषायेत्येतत्पदार्थज्ञानाय विशेषशब्दार्थमाह॥विशेषेणेति। परान्वयन्यायेन शब्दादि-

पंचगुणानामपि पृथिव्यामभिव्यक्तिरस्तीत्याशयः। विशेषेणविशेष्यभावभ्रमं वारयति। पचत्वानतरमिति। तथा च कल्पविकल्पः कल्पः कल्पना विकल्पोऽवांतरभेदकल्पना। तदुभयसहितः प्राणी यो लोकस्तद्वान्विराडंडकोशो मयाऽऽसाद्यमानः। सद्ऌ विशरणेत्यादिधातोः। विशीर्यमाणो नाशार्थमारब्धैर्भुवनैरंतर्गतलोकैः सह पंचत्वाय नाशाय कल्पते नष्टो भवतीत्यर्थः। अनंतरमविशेषाय कल्पते विशेषाभावाय कल्पते। खर्परभूतपृथिवीनाशो भवतीत्यर्थः॥२१॥प्रस्तुतं पृथिव्यादिलयं विविच्याह॥अन्न इत्यादिना। पृथिव्या ओषधायः। औषधीभ्योऽन्नमन्नात्पुरुष इति सृष्टौ क्रमस्तद्वैपरीत्येन लयक्रममाह॥अन्न इत्यादिना। न केवलमत्र जडादीनामेव लयो मंतव्यः किं नाम तदभिमानिदेवानामपीत्याशयेन तत्र प्रमाणमाह॥देव्यामिति।आदि पदेन सर्वत्रापि देवताविवक्षोक्तास्ति। प्रमाणशेषे तदुक्तरीत्या द्रष्टव्येति सूचयति। मर्त्यः पुरुषदेहाभिमानी धानास्वोषधीषु॥२२॥२३ शब्दतन्मात्राया लयो वक्तव्यस्तमनभिधायेंद्रियाणां तावल्लयमकारमाह॥ इद्रियाणीति। स्वयोनिषु तैजसाहंकारे॥ २४॥ वैकारिक इत्यहंकारतत्त्वकार्यविशेषप्रतीतिपरिहाराय वैकारिकेश्वरब्रह्मशब्दैश्चतुर्मुखो वाच्य इत्याह॥विकारजत्वादिति। महांस्तदभिमानी चतुर्मुखः सत्त्वादिगुणविकारतत्त्वात्। तथा चेंद्रियदेवामनश्च योनौ स्वकारणे वैकारिकेऽहंकारे लीयंत इति वक्तव्यं। योनिरिंद्रियदेवतादेहादिर्योनिर्वैकारकोऽहंकारो वैकारिके ईश्वरे ब्रह्मणि स्वपुत्रतया स्वस्त्रीषु गायत्र्यादिषु सूत्रेण सहोत्पन्ने महति ब्रह्मणि लीयत इत्यर्थः। तैजसश्च तस्मिन्नेव लीयत इत्यपि वक्तव्यं। अंबरं शब्दतन्मात्रमित्युक्तं। शब्दस्य लयो नोक्तस्तमिदानीमाह॥शब्द इति। भूतादिं तामसाहंकारं। भूतादिश्चमहति सूत्रेण सह स्वपुत्रतया स्वस्त्रीषूत्पन्ने ब्रह्मणि। गुणवत्तमो महान्स्वेषु गुणेषु लीयत इत्युक्त। तदप्रतीतेः प्रमाणेनैव व्याकरोति॥ गायत्रीत्यादिना। गुणवत्तम इत्यस्यार्थः॥ गुणाधिक इति। तस्यास्त्रिरूपप्रकृतेः पतिरपि तज्जन्वात्त्रिरूपप्रकृत्याख्यस्वपत्नीजन्यत्वात्तत्र लीयत इत्यर्थः। तेऽव्यक्ते संप्रलीयत इत्यस्याव्यक्तं रमेत्यन्यथाप्रतीनिरासायार्थमाह। सत्वादिभेदतः सत्त्वाद्यभिमानिगायत्र्यादि- प्रभेदतस्त्रिविधा सा मूलरूपायां प्रकृत्यामव्यक्तावांतराभिमानिन्यां प्रद्युम्नजन्याया प्रधानसज्ञाया ब्रह्मपत्न्यां लीयत इत्यर्थः। तत्काल इति मूलप्रकृतेर्ब्रह्मपत्न्याः काले न साक्षाल्लय इत्याशयेन मूलानुक्त तदभिप्रेतंद्वारमाह॥ प्रकृतिरिति। तत्काल इत्यस्यार्थमाह। स इति। पुरुषनामा विरिंचः। कालोमायामये। जीव इत्यस्यार्थमाह॥सा चेति।

सा महालक्ष्मीः सत्त्वाद्यभिमानिनी श्रीभूदुर्गादिभेदेन त्रिविधा सती विद्यमाना पश्चादेकत्वमापद्य प्राप्य विष्णौ लीयत इत्यर्थः। कस्तस्य हरौ लीयत इत्यत आह॥हरेरिति। प्रकृतिर्ब्रह्मपत्नी पुरुषाभिधे विरिंचे लीयत इत्युक्तं। तत्र विरिंचे तस्या देहलयो नास्ति। लक्ष्मीवत्तस्या अपि पुरुषसामीप्यप्राप्तिरेव लय इति प्रमेयविशेषं शिष्यानुकंपयाऽऽह॥पुरुषेणेति। तत्र युक्तिमाह॥ ब्रह्मा चेति। मुक्तावेषां देवानां येषु देवेषु प्रवेशादिरूपं सायुज्यमस्ति तेषां देवानां प्रलयकालेऽपि तत्र प्रवेशेन देहलयो वक्तव्यः। ब्रह्मसरस्वत्यौ तु मुक्तौ भिन्नदेहावेव परस्परं समीपे वर्तेते न तु सरस्वत्या ब्रह्मप्रवेशरूपं सायुज्यं। अतः प्रलयकालेऽपि भिन्नदेहावेव। समीपगौ संतौ सहैव वासुदेवं विशत इत्याशयात्॥ तथा चाय प्रमाणार्थः॥ यतो ब्रह्मा प्रकृतिश्चेत्युभौ विलये भिन्नदेहौ समीपस्थावत एव भिन्नदेहौसंतौ ज्ञानमात्रौज्ञानरूपौविमुक्तिगावन्यथा तन्न स्यादिति। स गिरं च सैव वायुं विशत्यंज इतीह निर्णय इत्यनुव्याख्याने गिरो ब्रह्मणि प्रवेशकथनं यत्तदपि निरवकाशैतत्प्रमाणानुसारात्सामीप्यार्थकं व्याख्येयमित्याहुः॥तथा चायं स लीयत इत्यादेरर्थः। महान् ब्रह्मा गुणवत्तमोऽपि गुणवत्त्वेन तदुत्तमोऽपि स्वेषु स्वजनकेषु गुणेषु गायत्र्यादिषु लीयते तज्जत्वादित्याशयः। ते गुणाभिमानिन्यो गायत्राद्या अव्यक्ते प्रद्युम्नजन्यायामव्यक्तनाम्न्यां मूलप्रकृति शब्दवाच्यब्रह्मपत्न्यां तदव्यक्तं पुरुषे पुन्नामकब्रह्मणि लीयते तत्सामीप्यं प्राप्नोति। तत्पुन्नामकब्रह्मा काले कालनामके स्वस्मिन् लीयते। अत्र पुन्नामकब्रह्मणः पूर्वं वासुदेवात्कालनामको ब्रह्मोत्पन्नोऽस्तीति तात्पर्यनिर्णयादावनुक्तमप्येतद्बलात्कल्पनीयमेव। न ह्यनुक्तिर्दोष एव। कालः कालनामा ब्रह्मा मायामये मायामय शब्दवाच्ये जीवे सर्वप्राणधारकत्वेन तच्छब्दवाच्यायां मायायां वासुदेवपत्न्यां स्वमातरि लीयते। अत्र प्राणस्य तेजसि लयोमार्गमात्रमुदाहृतामिति वासुदेवप्रवेशे तदनुज्ञाग्रहणमेव लयशब्दार्थ इति विवेको भाष्योक्तरीत्याऽनुसंधेयः जीवो महालक्ष्मीरजे आत्मनि व्याप्ते मयि लीयते। स्वरूपैरेकतां प्राप्य मत्समीपे तिष्ठतीत्यर्थः॥२६॥ आत्मस्वरूपं वक्ति॥आत्मेति। केवलो जडामिश्र आत्मा पूर्णगुण आत्मस्थोऽनन्याधारः। विकल्पस्य मिथ्याज्ञानस्यापाय एव यस्य लक्षणं स तथोक्तः। सम्यग्ज्ञानस्वरूप इत्यर्थः॥२७॥ सृष्ट्यादिकथनफलमाह॥ एवमिति। एवं भगवत एव स्वातंत्र्यमन्यस्य तदधीनत्वं चान्वीक्ष्यमाणस्य विचारयितुमधिकारिणो विरुद्धकल्पनाख्यो मनस उत्पन्नभ्रमो हृदि

बुद्धौ कथं तिष्ठेत। नश्यतीति यावत्। तत्र दृष्टांतो व्योम्न्यर्कोदये तम इवेति॥ २८॥ उक्तार्थमुपसंहरति। एष इति। सांख्यविधिः सांख्यशास्त्रोक्तप्रकारः। संशयग्रंथिमंतःकरणाख्यबंध भिनत्तीति तथोक्तः। परावरदृशा सर्वज्ञेन मया प्रतिलोमानुलोमाभ्या प्रतिलोमेन विपरीतक्रमेण संहारविधिः संहारप्रकारः। अनुलोमेन च क्रमेण सृष्टिविधिः सृष्टिप्रकारश्च मया सांख्यशास्त्रोक्तप्रकारेण त्वां प्रति प्रोक्त इति भावः॥२९॥इति श्रीभागवतटिप्पण्यां चतुर्विंशोऽध्यायः॥ ११–२४॥

॥ हरिः ॐ॥ उक्तज्ञानाधिकारी सात्त्विक एवेत्याशयेन सत्त्वादिगुणानां वृत्तीराहात्राध्याये। तत्राह भगवान्॥ गुणानामिति। सत्त्वादिगुणास्त्रिविधाः। अमिश्रा मिश्राः शुद्धाश्चेति। तत्रामिश्रानां गुणानां अपि शब्दान्मित्राणां च गुणानां च मध्ये येन गुणेन पुमान्यथा भवेत्तदिदं शंसतो मे सकाशादुपधारय॥ १॥ तत्रादावमिश्रसत्त्वगुणप्रवृतीराह॥शम इति। ईक्षा ज्ञानं। स्मृतिः शास्त्रार्थस्मरणं। त्यागो निषिद्धस्य। अनिषिद्धेच्छाभावोऽस्पृहा। निस्तुतिः स्वप्रशंसाभावः। धृतिश्चित्तधैर्यं। एताः सत्त्वस्य वृत्तयः। तद्वान्सात्त्विको ज्ञानाधिकारी नेतर इति भावः॥ २॥ रजोवृत्तीराह॥काम इति। कामो विषयरागः। ईहा निषिद्धचेष्टा। स्तंभ उक्तानंगीकारः। आशीर्धनाकांक्षा।भिदाऽन्यथाज्ञानं। असुखं दुःखं। नन्वेतदनुपपन्नं। दुःखस्य तमोगुणकार्यत्वेन तमोवृत्तिमध्ये परिगणनीयत्वेन रजोवृत्तिमध्ये परिगणनायोगात्। तथात्वे तमोपेक्षया रजसः क्लिष्टत्वापत्तेरित्यतः कैमुत्यविवक्षयेदमित्यभिप्रेत्य तात्पर्यमाह॥राजसेऽपीति। पुरुष इत्यर्थः। तद्राजसे दुःखवचनं यदा राजसेऽपि पुंसि दुःखं तदा तामसे पुंसि दुःखं भवतीति किमुवाच्यमित्याशयेन तामसेति। दुःखमिति। दुःखातिशयविवक्षयेत्यर्थः॥ ३॥ तमोवृत्तीराह॥क्रोध इति। माया कपट। कलिः कलहः॥ ४॥ उक्तवृत्तीर्विविनक्ति॥ सत्त्वस्येति। सन्निपातोमिश्रता। मिश्रगुणवृत्तीः शृण्वित्यर्थः॥ ५॥ सन्निपातो मिश्रगुणकार्यं। मात्राः शब्दादयः। सन्निपाते सति गुणानां मिश्रनायां सत्यां मनादिभिरिंद्रियैः शब्दादिविषयकं ज्ञानं भवतीत्यर्थः॥ ६॥ यदाऽसौ पुमान् धर्मे परिनिष्ठितो भवति तदा तस्य पुंसोगुणानां सन्निकर्षो मिश्रीभावः श्रद्धावहो भवति। यदाऽर्थे परिनिष्ठितस्तदा धनावहः। यदा कामे परिनिहितस्तदा रत्यावह इति योज्यं॥ ७॥ गृहाश्रमे यहि यदा प्रवृत्तिलक्षणां निष्ठामनुतिष्ठेत।

प्रवृत्तिधर्मासक्तोभवतीति यावत्।

स्वधर्मे च यद्यनुतिष्ठेत सा गुणानां समितिः समूहस्तदनुष्ठानं मिश्रगुणकार्यमित्यर्थः॥ ८॥ व्यवहारस्य सन्निपातमूलकत्वेऽयं सात्त्विक इत्यादि विविच्य ज्ञानं व्यवहारो वा कथमित्यत आह॥पुरुषमिति। शमादिभिर्युक्तं पुरुषं सत्त्वेसंयुक्तं सत्त्वगुण संयुक्तमनुमायादिति योज्यं॥ ९॥ सत्त्वप्रकृतिं रात्त्वस्वभावं॥१०॥

आशिपःसंपद आशास्य मनस्यभिसंधाय। हिंसा माशास्य यो यजेत तं तामसं विद्यात्॥ ११॥ गुणा उक्तवक्ष्यमाणविशेषापादकतया रांति जीवस्येत्यर्थः। कीदृशाः। भूतानां पंचानां कार्यं यच्चित्तं तत्र जायंते व्यज्यंत इति चित्तजाः। यैर्गुणैः सज्जमानो जीवो निवद्धयते गुणा जीवस्यैव न म इत्यन्वयः॥१२॥ भास्वरमित्यादि सत्त्वगुणविशेषणं। इतरौ रजोगुणतमोगुणौ॥ १३॥ यदा संगं संगकारि। भेदाभेदकारि चलं चांचल्यकारि रजस्तमःसत्त्वं जयेदित्यन्वयः। यदा मूढं मौढ्यापादकं तमो रजःसत्त्वं जयेदित्यर्थः। आशयाऽतितृष्णया॥१४॥ १५॥ देहेऽभयमसंगं संगशून्यं मनो भवतीत्यर्थः। तत्तदा मत्पदं मत्सन्निधानपात्रं॥ १६॥ यदा क्रियया विकुर्वन् भवति।आधीरनिवृत्तिरित्यत्राधीरिति पदं। मनोव्यथेत्यर्थः। अनिवृत्तिरनानंदः। यदा मनो भ्रांतं भ्रांतियुक्तं तदैतैर्गुणै रजो निशामय। रजोगुणानुमानं कुर्वित्यर्थः॥१७॥ यदा चित्तं सीदत्सत् विलीयेत यदा च मनश्चेतसो ग्रहणे निग्रहेऽक्षम सत् नष्ठ भवति। यदा तमो ज्ञानं ग्लानिर्म्लानता च भवति॥ १८॥ १९॥ तुरीयं त्रिषु त्रिभिर्गुणैर्जागरणादिभिर्वाऽसंगतमसंबद्धं॥ २०॥ आब्रह्मणः सत्यलोकपर्यंतं। आमुख्यान्मुख्यांघतमःपर्यंतं॥ २१॥ निर्गुणा मां यांतीत्यन्यथाप्रतीतनिरासाय प्रमाणेनार्थमाह। नैगुर्ण्येति। मोक्षेत्यर्थः। तथा च निर्गुणा मोक्षसाधनानुष्ठातारो मामेव यांतीत्यर्थः॥ २२॥ निष्फलं फलकामनां विहाय मदर्पणमित्यर्थः॥ हिंसाप्रायादि प्रायो हिसादियुक्तमित्यर्थः॥२३॥केवल ज्ञानं सात्त्विकं वैकल्पिकं ज्ञानमिदमदो वेति संदेहरूपं ज्ञानं राजसं। प्राकृतं ज्ञानं। मिथ्याज्ञानमिति यावत्। मन्निष्ठं ज्ञानं निर्गुणं मोक्षसाधनमित्यर्थः। अत्र केवलं ज्ञानं नाम किं। मन्निष्टं ज्ञानं किमित्यतः प्रमाणेन विविच्य दर्शयति॥ यथेति। स्वेनयच्छास्त्रं श्रुतमस्ति तदुक्तप्रकारेणैवोहापोहं विना यत्ज्ञानं तत्केवलं ज्ञानमुच्यत इत्यर्थः। मन्निष्ठमित्युक्तहरिविषयकज्ञानस्वरूपमाह॥स्वदृष्टेति। स्वेन यदृगादिशास्त्रं दृष्टं तदानुकूल्यात्तदविरोधेनैतदाश्रयात्स्वदृष्टशास्त्रोक्तन्यायमाश्रित्यादृष्टानामपि गुणानां हरौ भावं

सद्भावं विनिश्चित्य यथावत्सर्वशास्त्रार्थानुसंधानं हरिसंश्रय ज्ञानमुच्यत इत्यर्थः। मद्दृष्टशास्त्रेवेतरशास्त्रेष्वपि हरिगुणा एतन्न्यायेनैव प्रतिपादिताः संतीत्यूहापोहेन विचारो मन्निष्ठं च ज्ञानं तन्निर्गुणं ज्ञानं मोक्षसाधनं मोक्षसाधनभूतं ज्ञानमित्यर्थः॥२४॥ सात्त्विकावासो वनं वनवासः। सात्त्विक इति यावत्। एवमुत्तरत्र। मन्निकेतं ममाश्रयभूतं यद्देवालयादि तत्र वासो निर्गुणवासोमोक्षसाधनभूतवास इत्यर्थः॥२५॥असंगीकारको विषयासक्तिशून्यः। कर्ता सात्त्विकः। स्मृतिविभ्रष्टः शास्त्रार्थस्मरणशून्यः। मदपाश्रयकारको निर्गुणकारको मोक्षभागी कर्तेत्यर्थः॥२६॥मत्सेवायां या श्रद्धा सा निर्गुणा श्रद्धा मोक्षसाधनभूता। ननु सात्त्विकश्रद्धयाऽपि निर्गुणश्रद्धात्वात्कथमेतदित्यतस्तदुभयभेद प्रमाणेनाह॥श्रुतेति। तदन्यस्यानुसारेणेति। श्रुतशास्त्राभिन्नस्य स्वभावस्यानुसारेण शास्त्रश्रवणं विना स्वभावत एव या परमात्मनि श्रद्धा सा निर्गुणेत्यर्थः। ननु सात्त्विककारक निर्गुणकारकयोश्च को भेद इत्यत आह॥अश्रुत्वाऽपीति। प्रमाणं श्रुत्वा यो वासुदेवैकसंश्रयः स सात्त्विको भागवत इत्यादौग्राह्यं॥२७॥ अनायस्तमायासेन क्लेशेनाप्राप्तमक्लिष्टमित्यर्थः। आहार्यमाहारविपयमन्नादीत्यर्थः। आहार एवाहार्यमिति वा। इंद्रियप्रेष्ठमिंद्रियप्रीतिकरमार्तिद च तदशुचि च॥२८॥मदपाश्रयं सुखं निर्वाणसुख। किमात्मोत्थ सुखं किं च मदपाश्रयं सुखमित्यतस्तयोर्भेदं प्रमाणेनाह॥परोक्षमिति। परोक्षज्ञानमात्मोत्थं सुखं जीवं गमयेत्प्रापयेत्। अपरोक्षेण दर्शनं विष्ण्वाश्रय सुखं गमयेत्। अनेन निर्गुणमित्यस्यापरोक्षज्ञानजन्यं सुखमित्यर्थः। विष्ण्वाश्रयमित्युक्त्या भगवदाश्रितं सुखमस्य भवतीति न मतव्यमित्याह॥न त्विति। तर्हि मदपाश्रयमिति विष्ण्वाश्रयत्वं कथमस्य सुखस्योत्त्यत इत्यत आह॥ तस्यैवेति। विष्णोरेव तत्सुख तदाश्रयं सुखं। अपरोक्षज्ञाने। तथा च तद्विषयकापरोक्षज्ञानजन्यत्वात्सुखं तदाश्रयमित्युच्यत इत्यर्थः। नन्वपरोक्षज्ञानेन जाय मानं सुखं मदपाश्रयमिति संगच्छते। परोक्षज्ञानजन्यमुख कथमात्मोत्थं स्यादित्यतस्तदुपादयति॥परोक्षेति। परोक्षज्ञानगो विषयः स्वमनोगतो भवत्यत आत्मोत्थपरोक्षतःपरमात्मादिरूप विषये ज्ञाने सति पश्चात्स विषयो मनसि लग्नोभवति तेन कृत्वा किंचित्सुख जायते तदात्मोत्थं सुखं। तथा चात्मशब्दोमनोवाची। परोक्षज्ञानविषयविषयकमनोजन्य

सज्जीवस्यमुख तदात्मोत्थं सुखमित्यर्थो द्रष्टव्यः॥ २९॥ निष्ठा व्रतं त्रैगुण्यास्त्रिगुणकार्यभृताः॥३०॥ न केवलं

पुरुषान्यकादयान्यक्रम

सरस्वतीभ्यामधिष्ठिताः किं त्वित्यत आह॥दृष्टमिति। अत्र बुद्धयेत्यनन्वितं बुद्ध्या श्रुतमित्ययोगात्। अतोऽन्वय दर्शयति॥दृष्टमिति। तथा च चक्षुषा यद्दृष्टं श्रोत्रेण यच्छत बुद्ध्या च यद्दृष्ट विषयीकृतं तदनु परं ब्रह्म ध्यायेत्। तत्र सर्वत्र हरिः सन्निहितोऽस्तीति ध्यायेदित्यर्थः। ननु निर्गुणज्ञानस्य निर्गुणवासस्य निर्गुणकारकस्य निर्गुणश्रद्धाया निर्गुण

शुखस्य च सत्वगुण जन्यत्वात्सात्त्विक निर्गुणमिति भेदेनोक्तिः कथमित्यत आह॥सत्त्वादिति। व्यवधानं विना साक्षात्। यतो मुक्तिदमतो निर्गुणं प्रोक्तमित्यर्थः। मदपाश्रयं ज्ञानादिकं तु तादृशमिति निर्गुणमित्युच्यत इत्यर्थः। व्यवधानेन परंपरया यन्मुक्तिद तत्सात्त्विकं प्रोक्त। तादृश च केवलज्ञानादिकमतः सात्त्विकमित्युच्यत इत्यर्थः॥३१॥ चित्तजाश्चित्तेव्यज्यमाना येन पुंसा भक्तियोगेन निर्जिताः स मन्निष्टो मद्भावाय मद्वद्भावाय। चिदानंदस्वरूपत्वभावाय प्रपद्यते कल्पत इत्यर्थः॥३२॥३३॥त्रिगुणसंबंधाभावस्यैव मुक्तित्वात्सत्त्वसंबंधोऽपि कदाऽपैतीत्यत आह॥सत्त्व चेति। नैरपेक्ष्येण तदादिसाधनजातेन जाता या शांतधीः शांतो हरिः सुखमर्यादाभूमित्वात्तद्विषयिणी या धीस्तद्वान्मदपरोक्षज्ञानवान्सत्त्वं जयतीत्यर्थः। जीवं मां प्राणधारक मां। जीवो विनयिता साक्षीति हरेर्जीव शब्दवाच्यत्वात्। जीवेन जीव शब्दवाच्य- भगवत्प्रसादेन। तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसंभव। मयैव ब्रह्मणेत्येव पाठः। ज्ञानविज्ञानसंभवमित्यनंतरं गुणसंगं विनिर्धूयेत्यादिरधिकपाठः श्रीधरकल्पित इत्याहुः। उपसंहरति॥तस्मादिति। ज्ञानविज्ञानयोः संभवो यस्मात्स तथोक्तः। तादृशमिमं देह लब्ध्वा मामेव। विज्ञायेति शेषः। विज्ञातेन ब्रह्मणा मयैव पूर्णचरितार्थो ना पुरुषो बहिर्विषयेषु नाचरेत्। किं त्वतरे चरेत्। प्रत्यगात्मविषयकेंद्रियैरेव चरेत्।इंद्रियाणि तद्विषयकाप्येव चरेदिति यावत्॥३४॥ इति श्रीभागवतटिप्पण्यां पंचविंशोऽध्यायः॥११–२५॥

॥ हरिः ॐ॥ विषयवैराग्यं मुख्यसाधनमित्येतदितिहासेनास्मिन्नध्याये वक्ति॥मल्लक्षणमिति। मां लक्षयति भावयतीति मल्लक्षण।आस्थितोऽनुष्ठातो यः। स इति शेषः। तथा हि। देहे सति भगवत्ज्ञानं नान्यथेति। आत्मस्थं हृदिस्थं। तं मां। दृष्ट्वेति शेषः॥१॥जीवन्मुक्तस्य स्थितिप्रकारमाह॥ गुणेति। अत्रावस्तुत्वोवत्या मिथ्यात्त्वप्रतीतेस्तन्निवारणार्थमाह॥ वस्त्विति।तथा चावस्तुतोऽस्वातंत्र्येण दृश्यमानेषु भगवदिच्छानिर्मितत्वेन मायामात्रेषु गुणेषु तत्कार्यभूतदेहेंद्रियादिषु वर्तमानोऽपि पुमान्

परोक्षज्ञान्यवस्तुभिरस्वतंत्रैर्गुणैर्देहकार्यैः कामक्रोधादिभिर्न युज्यते। अभिमानाभावादित्यर्थः॥२॥शिश्नोदरे तर्पयंतीति शिश्नोदरतृपस्तेषां तस्यासतः। जात्यैकवचनं। अतो बहुवचनेन प्रस्तुतानामपि तस्येत्येकवचनेन परामर्शो युक्तः॥३॥ऐलो महादेवशापात्सुद्युम्नस्य यदेलात्व प्राप्तं तस्यामिलायां बुधाज्जातः पुरूरवाः॥४॥५॥वर्षयामिनी रात्रीरुद्दिश्य यांतीं गणनां न वेद॥६॥देव्या उर्वश्या आयुःखंडा आयुःशकला आयुरेकदेशाः॥७॥तदेव दर्शयति॥नेति। यः सूर्येणाभिनिर्मुक्तो रात्र्यंशः यः सूर्येणाभ्युदितोऽहरंशस्तन्मृषा मुषितोऽहं न वेद। अहानि मृषावृथा गतानीत्यपि सबंधः॥८॥येन संमोहेनात्मा मदीयदेहो योषिता क्रीडामृगः कृतः॥९॥क्रीडामृगत्वमेव दर्शयति॥सपरिच्छदमिति। अस्वादि सोपस्करमित्यर्थः। ईश्वरमैश्वर्ययुक्तमात्मानं देहं हित्वा। तदभिमानं त्यक्त्वेति यावत्॥१०॥यस्त्रियमन्वगच्छेत्तस्यानुभावादिः कुतः स्यात्। अनुभावस्तत्त्वनिश्चयसामर्थ्यं।तेजो मनोनिग्रहादिसामर्थ्यं। ईशत्वं योगविशेषः। स्वार्थस्य साधन इति शेषः॥११—१३॥आत्मभूर्मनोभवः॥१४॥पुंश्चल्या व्यभिचारिण्या।भगवंतं नरनारायणं॥१५॥किमेतया वाचेत्यादिसूक्तवाक्येन रज्ज्वामित्यादिभ्रांतरयेत्यर्थः। द्रष्टुरीश्वरस्य स्वरूपाविदुषो मे ममैतया किं सुखं। कुतः। यद्यस्माद्योऽहमजितेंद्रियः॥१७॥१७॥सौमनस्यं सौंदर्यं। दुर्गंधयुक्ते सौंदर्याध्यासः। अविद्ययाऽधिष्ठानतत्त्वज्ञानेन॥१८॥प्राणिनां यो देहः पित्रादिरधीन इति नावसीयते न निश्चीयते। भार्याया अपि भोगार्थत्वादधीनत्वं देहस्य।मरणानतरं सत्यां दिश्यग्नेर्न चेच्छ्वगृधयोः। आत्मनः स्वस्य॥१९॥तुच्छा नीचा। निष्ठाऽवस्था यस्य तस्मिन्॥किमित्यत आह॥अहो इति॥२०॥अथाऽपि तस्मात्। वुत इत्यत आह॥विषयेति॥२२॥तदुपपादयति॥अदृष्टादिति। भावात्पदार्थात्। भावः संस्कारः। एवं दृष्टाच्छ्वतादेव भावाज्जायते। तथा च विषयेंद्रियसंयोगे पदार्थानुभवजनितसंस्कारण मनःक्षोभ इति भावः। कामक्रोधमदमत्सरलोभमोहरूपषड्वर्गो विदुषां विद्वद्भिरविश्रभ्योऽविश्वास्यः। विदुषाऽप्यरिषड्वर्गो मया जितोऽस्तीति विश्वासो न कर्तव्य इत्यर्थः। मादृशां मत्सदृशानां मत्सदृशैरविश्रम्य इति किं वक्तव्यमित्यर्थः॥२३॥२४॥उर्वशीलोकं तस्याः शरीरं। आत्मानमात्ममन्यवगम्यध्यात्वा॥२५॥भगवान् आह॥तत इति। एतस्य पुरुषस्योक्तिभिः सदुक्तिभिः॥२६॥केसंत इत्यत आह॥सत इति। ताः कथा ये

शृण्वंतीत्यादि। त मयि भक्ति विंदंति। अनंतसुखादिरूपे मयि भक्तिमित्यन्वयः॥ २७—३०॥ उपाश्रयमाणस्य सेवमानस्य।विभावसुमग्निं॥ ३१॥ ३२॥ प्राणं चेष्टाप्रदं। नृणां प्रेत्य वित्त धर्मः। लुप्तोपमेय। तथा च यथा धर्मसाधनीभूतं वित्तं नृणां प्रेत्य मरणानंतरं मरण धर्मसाधनं भवतीति। अर्वाक् मरणात्पूर्वं संसाराद्बिभ्यतोऽरणमाश्रयः॥३३॥ अरणत्वमुपपादयति॥ सत इति। समुच्छ्रितोऽर्को बहिश्चक्षुर्ग्राह्यपदार्थज्ञानं दिशत्येव संतश्चक्षूंसि परापरत्तत्त्वज्ञानानि दिशंति। अनेन सतां सूर्यापेक्षयाऽपि वैलक्षण्यमुक्तं भवति। अहमेव देवतादिरितियोज्य। ननु कथमेतद्भगवतः कृष्णस्य देवतात्वं कांश्चित्प्रति बांधवत्वं पितृत्वं मातृत्वं च यद्यप्युपपन्नं। तथाऽपि संतोऽहमेवेत्ययुक्तं सद्भिर्भगवतोऽभेदस्य बाधितत्वादित्यतोऽस्य तात्पर्यमाह॥ भगवतोऽपीति। प्राधान्येनाभेदोक्तिश्च राजाराष्ट्रमित्यादौ द्रष्टेत्याशयः। यदि देवतादिरपि भगवदितर एव विवक्षितस्तदाऽपि प्राधान्यादेवताप्रभेदोक्तिरिति तात्पर्यं द्रष्टव्यं। नन्वत्रैवमस्तु क्वचित्सदपेक्षयाऽन्यदुत्तमं वस्तु नास्तीत्युच्यते तत्रावश्यं भगवदभेद सतां वाच्य एव। तत्समाख्यानादत्रापि तथैवार्थ इत्यतस्तद्वचनार्थोऽप्येवमेवेत्याह विष्णोश्चेति। सत्प्रधानत्वात्सतां मध्ये प्रधानत्वादित्यर्थः। सतां सकाशात्परमुत्तमं। वेदविदुषो वेदार्थविदुषः। अभेद एव कस्मान्नेत्यतो विरुद्धधर्माधिकरणत्वादित्याह॥ स हीति॥ ३४॥ स्वोक्तमर्थमितिहासेन संगमयति॥चेतसेति। एवं चेतसा। विचार्येति शेषः। उर्वश्या लोके देहे निस्पृहः। आत्मनि हरौ। आ सम्यक् रमणं यस्पासावात्मारामः। तस्मान्मुमुक्षुणा मुक्तसंगेनात्मारामेण भवितव्यमित्याशयः॥३५॥ इति श्रीभागवतटिप्पण्यां षड्विंशोऽध्यायः॥ ११—२६॥

॥ हरिः ॐ॥ कर्मानुष्ठानप्रकारं प्रपचयत्यस्मिन्नध्याये। तत्रोद्धवः संक्षिप्योक्तं क्रियायोगं विस्तरतो विविदिषुः पृच्छति॥ क्रियायोगमित्यादिना। ये सात्त्वताः पचरात्रोक्तप्रकारेण कर्मानुष्ठातारस्ते येन कर्मणा त्वां यथाकथमचेति तभगवदाराधनरूप क्रियायोगं समाचक्ष्व वदेत्यन्वयः॥१॥ नन्वन्यद्विहायेदमेव कस्मात्पृच्छसीत्यत आह॥ एतदिति। एतद्भवदर्चन निःश्रेयसं श्रेयःसाधनं वदंति। के ते मुनय इत्यत आह॥ नारद इत्यादिना। अंगिरसः सुतः। आचार्यो बृहस्पतिरित्यन्वयः॥ २॥ इतोऽपीदमेव श्रोतव्यं नान्यदित्याह॥ निःसृतमिति। ते मुखांभोजान्निःसृतं क्रियायोगं भगवानजो ब्रह्मा भृगुमुख्येभ्यः पुत्रेभ्यो

यथाऽऽह तं प्रकार वदेत्यर्थः। भवश्चेति च शब्दान्वयः॥३॥इतोऽपीदमेव वाच्यमित्याह॥एतदिति। श्रेयसामुत्तमं। एतत्सर्वेषां संमत॥४॥५॥कियायोग वदेत्युक्तं। तत्र सर्वोऽपि क्रियायोगो वक्तुं न शक्यते। गहना कर्मणो गतिरित्युक्तत्वेनापरिच्छिन्नत्वात्। अपि तर्हि संक्षेपेण वक्ष्य इत्याशयेनाह॥भगवानिति। अनतपारस्य न विद्यतेंऽतपारौ यस्य स तस्य कर्मकांडयांतो न हि। अथाऽपि संक्षिप्तं संक्षेपेणोक्तं क्रियायोग यथावद्याथार्थ्येनानुपूर्वशो यथाक्रमेण वर्णयिष्यामीत्यन्वयः॥६॥मे मम मखो मत्पूजालक्षणमखो वैदिको वेदोक्तज्योतिष्टोमादिकर्माधिकारिविषयः। तांत्रिकः तंत्रोक्तपुष्पांजल्या- द्याधिकारविषयो वैदिकतांत्रिकोक्तप्रकारानुष्ठात्रधिकारविषयः। अथवा मिश्रःस्त्रीशूद्रादिविषयो नामसंकीर्तनादिरिति त्रिविध इत्यर्थः। तत्र त्रयाणां मध्ये ईप्सितेन विधिना विधानेन मां समर्चयेत्॥७॥तदेव विवृणोति॥यथेति। पुरुषो यथा स्वनिगमेनोक्त स्वशाखाविहितं तथा द्विजत्वं प्राप्योपनयनं प्राप्य मां यथाकथ यजेत तं प्रकारं मे सकाशान्निबोधेत्यन्वयः॥८॥हृदये वा जले वाऽपि चले वा केवलस्थल इत्युक्तिं हृदिकृत्वाऽऽह॥अर्चायामिति। गुरुभूतं मामर्चयेदित्यन्वयः॥९॥अर्चनांगभूतं किंचिदाह।पूर्वमिति। अंगशुद्धये देहशुद्धये उभयैर्वैदिकैस्तांत्रिकैरुद्धतासीत्यादिमंत्रैर्मृद्ग्रहणादिना स्नान प्रकुर्वीतेत्यन्वयः॥१०॥वेदतत्रोदितानि यानि संध्योपास्त्यादिकर्माणि तैर्मम पूजां प्रकल्पयेत्। किमर्थमेवं कल्पनमित्यत आह॥सम्यगिति। सम्यक् मम पूजात्वेन संकल्पः कर्मपावनः कर्मशुद्धिकर इत्यर्थः॥११॥अर्चायामित्युक्तं प्रतिमाभेदमाह॥शैलेति। शैली शिलामयी। दारुमयी दारानिर्मिता। लौही लोहनिर्मिता। लेप्या औषधिरससंलिप्ता शिला तन्मयी। लेख्या चित्रादि। सैकता सिकताकृता। मनोमयी ध्यानकाले चित्तप्रतिविंबिताकृतिः। मणिमयी स्फटिकादिमणिमयीत्येवं प्रतिमाऽष्टविधेत्यर्थः॥१२॥स्थिराचलप्रतिमामुक्त्वा पुनः प्रतिमा द्विविधाऽस्तीत्याह॥चलाचलेति। जीवमदिर देहं। इदं चलांतर्भूतामिति दर्शयितुं पृथगुक्तिः। चलं देहादिकं। अचलमस्थिराचलं गृहे विद्यमानप्रतिमादि। स्थिरायामर्चने शीलाद्यचलप्रतिमायामुद्वासावाहने उपसंहारावाहने॥१३॥अस्थिरायां रामादिमनिमायां विकल्पः। उद्वासावाहनयोरिति शेषः। द्वयमुद्रासावाहनरूपं। अन्यत्र लेख्यादिप्रतिमायां परिमार्जनं तुलस्याः सेकादिः॥१४॥यथालब्धैः पंचरात्रादिषु प्रसिद्धैर्द्रव्यैः। अमायिनोऽस्य भक्त्या भावेन ध्यानेन

च हृदि मद्यागो विहित इत्यर्थः॥१५॥ प्रेष्ठं प्रीतिजनकं। पुनः कस्या अर्चायाः केन द्रव्येण पूजा कार्येत्यत आह॥ म्थंडिल इति। तत्त्वविन्यासस्तेन पूजा तत्रेत्यर्थः। वन्हावाज्यप्लुतं हविस्तेन पूजा तत्रेत्यर्थः॥१६॥ पुष्पादिभिरभ्यर्हणं। किं पुनर्मम भक्तेन श्रद्धयोपहृतं वार्यपि प्रेष्ठमित्यर्थः॥१७॥ सुमनसः पुष्णाणि॥ सभृतेति। पूर्णेत्यर्थः॥१६॥ प्रागग्रददर्भैःकल्पितासनः पुमान्॥१८॥अथ संमुखो देवतासंमुखः सन् प्रागुदग्वासीनोऽर्चायामर्चयेत्। स्वयं च कीदृशः कीदृशीमर्चामर्चोदित्यत आह॥ कृतेनि॥१९॥ कृतषडंगन्यासोऽभिमृजेदभिमंत्रयेत्। कलश कलशपात्रं। प्रोक्षणीयं पुष्पादि पुष्पादिस्थानपात्रं। तदद्भिः प्रोक्षणीयपात्रस्थोदकैर्यजनं वेदिद्रव्याणि गधादीनि॥२०॥ प्रोक्ष्य रोक वृत्वाऽद्भिरतैस्तैर्द्रव्यैश्च पूणानि त्रीणि पात्राणि साधयेत्। किमर्थमित्यत उक्तं। पाद्यादीति। दौशिकः पूजकः॥ २१॥ गायत्र्या मंत्रेण हृदादिस्थाने चाभिमत्रयेदित्यर्थः। ध्यानप्रकारमाह॥पिडइति। वाय्वग्निसंशुद्धे दहनशोपणेन सशुद्धेऽपि पिडे देहे॥२२॥ नन्वण्वीं जीवकलां ध्यायेन्नादांते सिद्धभावितामित्यत्र जीवकलामित्यनेन जीवस्वरूपभूतां कलामिति जीवस्य ध्यानमुच्यतेऽतोऽत्राभिप्रेतमर्थमाह॥जीव इति। नात्र जीवश्वासौ कला चेति कर्मधारयः। किंतु जीवः कला प्रतिबिबा यस्याः सा जीवकलेति बहुव्रीहिः। तेन भगवन्मृर्तिरेव ध्येयत्वेनाभिप्रेतेत्युक्तं भवति। उक्तार्थे नियामकं प्रमाणमाह॥हृदीनि। नादांत इति पदं व्याचष्टे॥ शब्देरिति। तयाऽऽत्मभूतया। पिंडे व्याप्ते।संपद्य तन्मय इत्यत्रात्मभूतयेत्यनेन जीवस्वरूपभूतया जीवकलयेत्युच्यत इति भातीत्यतोऽत्राभिप्रेतमर्थं प्रमाणेनाह॥व्याप्त इति। व्याप्त इत्यात्मशब्दार्थनिरूपणं। तेनात्मा व्याप्ता भूता विद्यमाना चेत्यात्मभूत इत्युक्तं भवति। जीवस्येत्यादिना तन्मय इति व्याख्यानं।आत्मभूतया तया संपद्यतन्मयो मामावाह्यार्चादिषु स्थाप्यार्चादिषु न्यस्तांगं विन्यस्तांग मां पूजयदित्यन्वयस्य जातत्वात्पिडेति व्याप्त इत्येतदनुपयुक्तमित्याशंक्य प्रमाणनैव तदभिप्रायमाह॥ व्याप्तोऽपीति। सर्वगतत्वतो देहेऽपि व्याप्तो भगवान्विष्णुर्यद्यपि। तथाऽपि भक्तस्य फलदो यस्मात्तेन तस्माद्देहे पुनर्व्याप्तिकृदिति योज्यं। एवं चात्मभूतया तयेत्युक्त्यैव देहेऽपि व्याप्तिर्लब्धा सर्वगतत्वाद्विष्णोः। तथाऽपि पिंडेति व्याप्त इति पुनर्व्याप्तिनिरूपणं देहे व्याप्तः सन् भक्तस्य॥ फलं ददातीति सूचनार्थं पुनर्वचनमिति भावः॥ तथा चायमर्थः॥वाय्वग्निसंशुद्धेऽपि पिंडे देहे हृत्पद्मस्थां परमामण्वीं गृ

थमां मम

जीवकलां जीवः कला यस्याः सा जीवकला तां बिंबभूतां नादांते नादानां शब्दानामतेऽवसाने विद्यमानां साकल्येनाशब्दवाच्यां सिद्धैर्ज्ञानिभिर्भावितामुपासितामेतादृशी मम कलां ध्यायेत्। पश्चादात्मभूतया व्याप्तो भूत्वा नित्यं विद्यमाना या जीवकला तया भगवन्मृर्त्या व्याप्ते पिंडे देहे संपद्य सम्यक् प्रतिपत्तिं कृत्वा तन्मयः॥२३॥ एव ध्यानेन भगवत्प्रधानो भूत्वाऽर्चादिष्वावाह्य स्थाप्य न्यस्तांगं विन्यस्तांगं मां प्रपूजयेदिति॥२४॥ धर्मादिभिर्विमलादिभिश्चासनं पीठं कल्पयित्वा तत्रासने कर्णिकाकेसरोज्वलमष्टदलं पद्मं कल्पयित्वा तत्र मां वैदिकतांत्रिको वा। अधिकारीति शेषः॥२५ किमर्थमित्यत उक्तं उभाभ्यां वेदतंत्रोक्तमंत्राभ्यामुभयफलसिद्धये वेदतंत्रोक्तफलसिद्ध्यर्थं मद्य मम प्रीत्यर्थं पूजयेदित्यन्वयः। पुनः कान्पूजयेदित्यत आह॥ सुदर्शनमिति॥२६—२८॥ स्वे स्वे स्थाने देवताभिमुखान् एतान्प्रोक्षणादिभिः सेकादिभिः पूजयेदित्यन्वयः॥२९॥ तानेव मंत्रान्दर्शयति॥स्वस्येति। अत्र स्वस्येत्यनन्वित प्रतीयते। नीराजन शब्दस्याप्यर्थो न प्रतीयतेऽतो व्याचष्टे॥ स्वस्येत्यादिना। रंजयेत्प्रतिपादयेत्। मंडलमध्यायः। तथा च स्वस्यानुवाकेन विष्णुमुक्तेन। धर्मानुवाकेन धर्मसूक्तेन महापुरुषविद्यया जिवंत इति स्तोत्रेण॥३०॥ पौरुषेण पुरुषसूक्तेन धामसूक्तेन समुद्रादूर्मिरिति सूक्तेन तथा वक्तव्ये सूक्तांत्यधामं ते विश्व

सिति ऋग्गृहणं सर्वमपि

सूक्तमुपलक्षयति। नीराजनादिभिः पवमानसूक्तादिभिः स्नापयेदित्यर्थः॥ ३१॥ समेमं स्नेहपूर्व। भक्तिपूर्वमिति यावत्। यथोचितैर्गंधमाल्यादिभिरित्यन्वयः॥३२॥उपहार्याण्युपायनानि। मे दद्यादर्चकः श्रद्धयेत्यन्वयः॥ ३३॥ सति वित्ते सति॥दरिद्रस्तु किं कुर्यादित्यन्वयः॥ ३४॥ एवमन्नादीनि पर्वणि पर्वकाले प्रत्यहं च स्युरित्यर्थः। अनुयागप्रकार माह॥ विधिनेति। मेखलावर्तवेदिभिः सह विधिना विहिते कुडेऽग्निमाधायोदितं ज्वलितमग्निपरितः समृहेत्पाणिना स्थलशुद्धिं कुर्यात्। अथ स्थलशुद्धिं कृत्वा परिस्तीर्य दर्भान्प्रक्षिप्य यथाविध्यग्निमन्वाधाय पर्युक्षेदुदकेनसेकं कुर्यात्॥३५॥३६॥प्रोक्षणीयानि सेक्यानि द्रव्याणि प्रोक्ष्य सेक कृत्वा पश्चाद्ग्नौमामावाहयेत्। कीदृशं मामित्यत उक्तं॥ तप्तेत्यादिना।

प्रख्यंसदृशं॥३७॥किंजल्कं केसरः॥३८॥अभ्यर्च पोडशोपचारपूजां कृत्वा हविषाभियुतानि दारूणि सर्पिषामिश्रिताः समिधः प्राश्य हुत्वाऽऽधार्यमाधार्यसमिवाआज्यभागीदत्वा कोणात्कोणंप्रति हुत्त्वाऽऽज्यप्लुतं हविग्न्नादिद्रव्यं मूलमंत्रेण षोडश

जुहुयात्। आर्चाविधानतः पूजाविधानतो धर्मादिमंत्रैर्धर्मादिभ्यश्च यथान्यायं हविर्जुहुयादित्यन्वयः। पुनः स्विष्टकृतं बुधोजुहुयात्॥४०॥ एवमभ्यर्च्याथ नमस्कृत्य पुनर्धूपं दत्वा पार्षदेभ्यः सनकादिभ्यो बलि हरेदित्यर्थः॥४१॥ उच्छेपमुच्छिष्टं। सुरभिमन्मुखवासं तांबूलाद्यं च दत्वाऽथानंतरं चामराद्युपचारै- र्मामर्हयेदित्यन्वयः॥४२॥ ननूपगायन् गृणन्नित्यनयोर्भेदाप्रतीतेरभिनयन्नित्यस्य प्रकृतोपयुक्ततयाऽर्थाप्रतीतेश्च यथावद्व्याचष्टे॥ ममेति। कीर्तयित्वेत्यनेन गृणन्निति व्याख्यातं। अभीत्यस्याभित इत्यर्थ इति दर्शितं। पदार्थमुक्त्वाभिप्रायमाह॥ सर्वेषा प्रकाशयन्निति। अभितः सर्वेषामित्यर्थः। नयन्नित्यस्य प्रकाशयन्नित्यर्थभावेन प्रकाशयन्नित्युक्तं। एवं च मम कर्माणि प्रकाशयन्निति अभिनयन्नित्यस्यार्थ उक्तः स्यात्। न च तद्युक्तं। तथात्वे मत्कथाः श्रावयन्नित्यनेन पौनरुक्त्यमित्याशंक्य तत्राभिप्रेतमर्थमाह॥मत्कथा इति। तथा चाभिनय शब्दार्थंदर्शयितुं मत्कथा श्रावयन्नित्युक्तमतो न पौनरुक्त्यमिति भावः। तथा च मम कर्माण्युपगायन् गायनं कुर्वन् गृणन्कीर्तयन्मुहुरभिनयन्। तदेव विष्टणोति॥मत्कथाः श्रावयन्निति। स्वयमपि शृण्वन् सर्वमुहूर्तांश्च क्षणलवांश्च भवेदित्यर्थः। सर्वमुहुर्तेषु सर्वक्षणेषु चैवमेव हरिकथाश्रवणादिना कालक्रमणं कुर्यादिति भावः॥ ४३॥ प्राकृतैर्विष्णुस्तुतिरूपादिभिः॥ ४४॥ परस्परं बद्धाभ्यां बाहुभ्यां शिरो मत्पादयोः कृत्वा मत्प्रणमेदित्यन्वयः। मृत्युग्रहः ससाररूपः॥४५॥मया दत्तां पश्चात्प्रसन्नेन मया दत्तां शेषां निर्माल्यं। उद्वास्यमुपसंहार्यं। ज्योतिषि प्रतिमांतर्गते विद्यमानं यज्ज्योतिस्तत्। उद्वासयेदुपसंहारयेत्॥४६॥ अभीष्टप्रतिमायां पूजा कार्येत्याह॥ अर्चादिष्विति। यत्र येष्वर्चादिषु यथा श्रद्धा तत्र तथा मां पूजयेदित्यन्वयः॥४७॥कुत इत्यत आह॥सर्वभृतेष्विति। यत इति शेषः। सर्वभूतेष्वात्मनि च समास्थितो यतोऽहं सर्वात्मेत्यर्थः। वैदिकैर्वेदोक्तैस्तांत्रिकैस्तंत्रोक्तैः॥४८॥ अर्चानुभावतः पूजानुभावतः। मदिरं देवालयं कारयेत्॥ ४९॥ रम्याणि मनोहराणि पुष्पोद्यानानि कारयेत्। तत्र पुष्पोद्यानेषृत्सवाश्रितां प्रत्युत्सवे पूजां कुर्यात्। कुत इत्यत उक्तं॥पूजादीनामिति। उत्तरत्र प्रवाहरूपेण पूजादीनां प्रवर्तनार्थं। अथ महापर्वसु। अन्वहं च पूजां कुर्यादित्यर्थः॥५०॥क्षेत्रेति। देवस्येति शेषः। प्रतिष्ठाग्रहकरणपूजादीनां फलतारतम्यमाह॥प्रतिष्ठयेति। अत्र

योजयति। नैरपेक्ष्येणेति। भक्तियोगेनैवेत्यनेन मामेवेत्यवधारणं। भक्तियोगेत्यनेन संबध्यत इत्युक्तं भवति। ननु मत्साम्यतामियादित्युक्तं। तत्र साम्यं नाम भगवत्ज्ञानानंदादिना सादृश्यं तेन भगवत्स्वरूपभूतसुखादिसमानसुखादिप्राप्तिरित्युच्यत इति भात्यतः प्रमाणेन तदभिप्रायमाह॥निर्दुःखत्वमिति॥तादृशेति। भगवत्स्वरूपभूतसुखात्मता नेत्यर्थः। कुत इत्यत उक्तं॥ सर्वोत्तम इति। कस्यचित्केनचित्। तथा चात्र दुःखाभावेनैव साम्यमभिप्रेत्य तत्साम्यतामियादित्युक्तमिति भावः। ननु सद्मना भुवनत्रयमित्युक्तं तन्न।भुवनत्रयप्राप्तिर्हीद्रस्यैव। तेन यो भगवतः सद्म करोति स इंद्रो भवतीत्युक्तं स्यात्। न चैतत्सर्वेषां युक्तं। अयोग्यानामिंद्रत्वप्राप्तेरयोगादित्याशंकायां प्रमाणेनैव तदभिप्रायमाह॥ आधिपत्यमिति। इद्रत्वप्राप्तियोग्यानां त्रिलोकाधिपत्य नामेंद्रतैव भवति। अयोग्यानां त्रिलोकाधिपत्यं नाम पूज्यत्वमात्रं भवतीति ध्येयं। तत्पूज्यत्वं। उद्रिक्तयोत्कृष्टया। एवं च प्रतिष्ठया मूर्तिप्रतिष्ठया भुवनत्रयं। अयोग्यश्चेत्परया भक्त्या भुवनत्रये पूज्यत्वं। पूजादिना। ततोऽप्युद्रिक्तया भक्त्या पूजादिना। तत्पूर्वकपूजादिनेति यावत्। त्रिभिः प्रतिष्ठासद्मपूजादिभिनैरपेक्ष्येण भक्ति- युक्तैर्मत्साम्यतामियात्। नैरपेक्ष्येण भक्तियोगनैव मां विंदंति मत्सायुज्यं विदंतीत्यर्थः॥५१॥५२॥फलमाह॥स भक्तियोगमिति। न केवलं प्रतिमादिपूजाकर्तुरुक्तं फलं। किंतु तत्साहायकर्तृणामपि यथायोग्यं भवतीत्याह॥ कर्तुरिति। कर्मणां कर्तुर्यत्फलमुक्तमस्ति तद्भागिन एते सारथ्यादयो भवंति। तथा सारथेः सहकारिणो यत्फलमुक्तमस्ति तद्भागिन एतेकर्तादयो भवंति। तथा हेतोः कारणस्य यत्फलमुक्तमस्ति तद्भागिन इतरे भवंति। तथाऽनुमोदितुर्यत्फलमुक्तमस्ति तद्भागिनोऽपरे भवतीति योज्य। ननु सर्वेषां किं सामान्येन फलं नेत्याह॥ प्रेत्येति। मरणानंतर भूयसि महति मुख्यकर्तरि तत्फल भूयो महद्भवतीत्यर्थः॥५३॥५४॥इति श्रीभागवतटिप्पण्यां सप्तविंशोऽध्यायः॥११—२७॥

॥ हरिः ॐ॥ परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत्। विश्वमेकात्मकं पश्यन्नित्यत्र सर्वस्यैकत्वात्कस्यापि प्रशंसा निंदा न कार्येति विरुद्ध प्रतीयते। पर शब्दस्याप्यर्थो न ज्ञायतेऽतः प्रमाणेनैव तदभिप्रायमाह॥ नेति। अनेन पर शब्दो निंद्यप्रशंस्यपर इति सूचितं भवति। द्वितीयार्धेन द्वितीयश्लोको विवृतः। ननु यथा निंद्यप्रशंसा न कार्या तथा तन्निदाऽपि न कार्या किं। तथा प्रशंस्यनिंदा यथा न कार्या तथा तत्प्रशंसाऽपि न कार्या किं नेत्याह॥ य इति। तद्वत्प्रशंस्यनिंदको निंद्यप्रशंसकश्च

यथाऽधो याति तद्वदित्यर्थः। कुत इत्यत आह॥ यत इति। उदासको निंद्ये निंदादौ प्रशंस्ये प्रशंसादाविति शेषः। तथा चानर्थकफलश्रवणादुदासकस्यावश्य तत्कार्यमिति भावः। अभेदनिरासायार्थमाह॥ प्रकृत्येति। तेन सहयोगे तृतीयेत्युक्तं भवति। ननु निंद्ये स्वभावभूतं निंद्यत्वादिक प्रशंस्ये च स्वभावभूत प्रशंसादिकं कथं ज्ञेयमित्याशंकापरिहाराय प्रवृत्तो विश्वमेकात्मकमित्यर्थः। तेन कथं सा शंका परिहृतेत्यतस्तदभिप्रायमाह॥तथेति। इदं सर्वं जगत्प्रकृत्यादिभिव्यार्प्तमिति पश्यत एवेत्यर्थः। यथार्थज्ञानं निंद्ये निंद्यत्वप्रकारकं स्तुत्ये स्तुत्यत्वप्रकारकं। निंद्यान्निवर्तेति।यद्वा। ननु निंद्यप्रशंसा न कार्येत्युक्तं तदयुक्तं। तेन प्रशंसाकारणीभूतधनादेर्दीयमानत्वेन स्तोत्रस्य कर्तव्यत्वात्। तथा स्तुत्यनिंदा न कार्येत्युक्तं तदयुक्तं। तादृशकार्ये क्रियमाणेऽवश्यं तस्य निंद्यत्वादित्यतो निंदा वा प्रशंसा वा न कार्या। कुतः। ईश्वरस्य सर्वत्र व्याप्तत्वेन तत्र तत्र स्थित्वा तथा कर्तव्यकरणादित्याशयेनाह॥ विश्व

सिति। यथार्थज्ञान निंद्यस्य प्रशंसात्वाभावप्रकारक प्रशंस्यनिंद्यत्वाभावप्रकारकं ज्ञानं। मूलार्थे प्रमाणमाह॥ निंद्यान्निवर्तेति। अन्यथेति मत्वाऽपि निंद्यादनिवर्तते। कोऽर्थो निंदाकरणे मौक्तानंदहासः स्यात्। तस्मादिदं मत्वा निंद्यान्निवर्तेति वाक्यशेषः। गुणान्कुर्यात्। पूर्णगुणार्थमिति शेषः। ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात्कारणात्। अनित्या गुणा मे न स्युरिति मत्वा तथा दोषाः कथंचन नैव स्युरिति मत्वा शुभं कुर्यात्। नन्वशुभान्निवर्तन किं। अशुभकरणजनितदोषापनुत्तये इत्याशंकायां नेत्याह॥ न त्विति। किंतु मौक्तिकानंद

ह्रासो भविष्यतीति बुद्ध्याऽशुभान्निवर्तत इत्यन्वयः॥ ततश्चायं श्लोकार्थः॥ पर्वंकर्मयोग उक्तस्तत्प्रसंगादन्यदपि प्रमेयं शिक्षयति॥ परेति। अत्र पर शब्दो निंद्यप्रशंस्यपरः। परस्वभावकर्माणि निंद्यस्वभावानुसारेण कृतकर्माणि न प्रशंसेत्। तथा पर उत्तमः। प्रशंस्य इति यावत्। तत्स्वभावानुसारि कर्माणि न गर्हयेत्। कुतः। यः परस्वभावकर्माणि निंद्यस्वभावानुसारिकर्माणि न निंदयति। तथा प्रशंस्यस्वभावानुसारिकर्माणि न प्रशंसति स आशु स्थाना

दृश्यतेऽधो याति। कुत इत्यत उक्तं॥असत्येति। असत्यभाषित्वप्राप्तेरित्यर्थः। कथं। प्रशंस्ये निंदाया अभावात्तत्करणेऽसत्यभाषित्वं। तथा निंद्ये प्रशंस्याया अभावात्तत्करणेऽसत्यभाषित्वं प्राप्तमेव। तथा च नानृतात्पातकं परमित्युक्तेरनृतभाषणेनाधः पातो भवतीति कृत्वा निंद्यप्रशंसा प्रशंस्यनिंदा न कार्यैव। ननु स्यादेतत्। यदिपरस्वभावभूते।

निंद्यत्वं प्रशंस्यत्वं वा ज्ञातुं शक्यं स्यात्तदेव कथं ज्ञेयमित्यत उक्तं॥विश्व

सिति। प्रकृत्या सरस्वत्या पुरुषेण ब्रह्मणा सह स्थितं विश्वमेकेन प्रधानेन परमात्मनाऽऽत्मकं व्याप्तं पश्यन् यस्तस्य यथार्थज्ञानं निंद्ये निंद्यप्रकारकं प्रशंस्ये प्रशंस्यत्वप्रकारकं ज्ञानं भवतीति। तथा च सर्व जगत्प्रकृतिपुरुषपरमात्मभिर्व्याप्तं तैः प्रेरितं सत्। स्वस्य योग्यतानुसारेण कर्मकरोतीत्येव ज्ञानवतो हरिप्रसादान्निंद्ये निंद्यत्वप्रकारकं प्रशंस्ये प्रशंस्यत्वप्रकारकं ज्ञानमपि भवतीति॥ १॥ २॥ ननु सर्वजगत्तेन व्याप्तमित्युक्तं तत्कुत इति चेन्न। सर्वस्य तदधीनत्वात्। तदपि कुत इत्यतः सुषुप्त्याद्यवस्थानां तदधीनत्वेन तद्दृष्टांतेनावस्थात्वादिति हेतुना सर्वस्येशाधीनत्वं सिद्ध्यतीत्याशयेन स्वप्नमरणनिद्राऽवस्थानामीश्वराधीनत्वमस्तीत्याह॥ तैजस इति। एतत्प्रकृतासगतत्वाद्दुर्गमार्थत्वाच्च व्याचष्टे॥ तैजस इति। परात्परमात्मप्रेरणयेत्यर्थः। अतो विष्णोर्वशे सर्वमित्यनेन प्रकृतोपयोगो दर्शितः। ननु निंद्रयेंद्रियाणामुपरमे सति मृत्यादेरभावात्कथमेतदित्यत आह॥निद्रा चेति। मृतिकालगा मरणकाले विद्यमाना कालनिद्रेत्यर्थः। तथा च निद्रा द्विविधा।नित्यनिद्रा सुनिद्रा चेति। तभ्यां यथाक्रमं मायां मृतिं प्राप्नोतीत्यर्थः। मायां प्राप्नोतीत्युक्त। तत्रानिर्वचनीयाविद्या मायेति प्रतीयतेऽतो माया शब्दार्थ प्रमाणेनाह॥मनोमात्रस्वरूपत्वादिति। मनोगतवासनामयत्वादित्यर्थः। तद्धि नानार्थदमित्येतद्व्याचष्टे॥ तथेति। स्वप्नावस्थायामीश्वरप्रेरितं मन एव स्वनिष्ठवासनाद्वारा गजतुरगादिनानार्थदमित्यर्थः। तर्हि तदानीमिंद्रियाणामुपरतत्वात्कथं स्वाप्नार्थप्रतीतिरित्यत आह॥मनसा चेति। विषयाः स्वप्नार्थाः॥ ततश्रेय योजना। तैजसे तैजसाहंकारकार्ये इंद्रियगणे परात्परमात्मप्रेरणया जायमाना या निद्रा नित्यनिद्रा तयाऽवश्यमापन्ने उपरते सति पिडस्थोदेहस्थो जीवो नष्टचेतनो ज्ञानरहितो भवति। यदा ज्ञानशून्यो भवति तदा मायां वासनामयं स्वाप्नार्थ। स्वप्नमिति यावत्। पश्यति। तदेव विवृणोति॥ तद्धीति। मनः स्वनिष्ठसंस्कारद्वारा ईश्वरप्रेरणया गजतुरगादिनानार्थप्रदं हि। अतोयुक्तमुक्तं। तथा निद्रया परमात्मनः सकाशादुपजायमानयेंद्रियगणे उपरते सति पिडस्थो नष्टचेतनः सन् मृत्युं प्राप्नोतीति। अत्रेश्वरः सर्वेंद्रियोपरमंकृत्वा निद्रां ददाति। पश्चात्तन्मध्ये वैकारिकत्वादेकं मनोविहाय तैजससर्वेद्रियोपरमं कृत्वा स्वप्नंददाति। तत्र च मनसो नानाविधार्थपरिणामशक्तिं ददातीत्येतदवस्थात्रयस्य भगवदधीनत्वं प्राप्तमिति ध्येयं॥ ३॥ ननु यदुक्तं विनिंद्ये निद्रा कार्या

प्रशंस्ये प्रशंसा कार्येति तदयुक्तं। निंद्यादीनामपि प्रशंसनीयशुभगुणसद्भावादित्यतः। सत्य।सर्वदाऽशुभरूपत्वेनतस्याल्पत्वाद्विद्यमानमप्यविद्यमानप्रायं। ततश्च निंद्यत्वादिकं संभवतीत्याह॥ किं भद्रमिति। अत्र मिथ्यात्वप्रतीतिनिरासाय व्याचष्टे॥ एकमिति। अद्वैतामेत्यर्थः। ज्ञानार्थयोरैक्यादशुभ द्वैतमित्युच्यते। अर्थापेक्षयाऽन्यथात्वादित्यर्थः। अशुभरूपस्याप्यभद्रमस्त्येवातः कथमाक्षेप इत्यत उक्तं॥विशेषत इति। अमंगलरूपस्य तस्य भद्रं नास्त्येव। प्रतीयमानमपि भद्रं कियदल्पं। अभद्रमपि विशेषतः किमस्तीति भावः। कुत इत्यतोऽवस्तुन इत्येतद्याचष्टे॥ सर्वदाऽशुभरूपत्वादिति। अवस्तुनोऽस्वतत्रस्य सर्वदाऽशुभरूप एव तिष्ठति। कदाऽप्यशुभापगमने स्वातन्त्र्याभावादिति भावः। कियदित्यस्यार्थमाह॥ विशेषत इति। प्रतीयमानशुभरूपविशेषः। प्रमाणेन व्याख्यातमेव स्ववचनेन व्याख्याति॥ द्वैतस्येति। यत्नं कुर्वतोऽप्यभद्र स्वयोग्यतादाधिक्येन न भवति। स्वरूपभूताशुभादधिकमशुभं यत्नेनापि न भवति। कुतः। सर्वदाऽशुभरूपत्वात्। तथा च स्वभावतोऽशुभस्य नूतनतया प्राप्यमशुभं किमस्तीति भावः। द्वितीयार्थंव्याचष्टे॥ अत इति। श्लोक प्रमाणेनैव व्याख्याति॥ उच्यत इति। अयमर्थः। द्वैतस्याशुभरूपस्य चावस्तुनः। अस्वतंत्रपुरुषस्य भद्रं किमस्ति। यद्यस्ति तत्कियत्। अल्पमेव। अभद्र च किमस्ति। न किमपि। तर्ह्यस्ति खलु यद्यस्ति तर्हि तत्कियत्। विशेषतः स्वरूपादाधिक्येन नूतनतया यत्प्रशंस्यत्वादिक नदनृतमेवेति॥४॥ ननु स्वभावतोऽशुभस्य पुरुषस्य नृतनतया जायमानं भद्रं किमपि नास्तीति यदि तर्हितस्य प्राप्तमशुभभेदादिकं नाशुभकारणमित्यागतमित्यतः। सत्यं। तेन देहेन स्वरूपे किमप्यशुभ न जायते किं तर्हि बहिरेवेत्याह॥छायेति। असगतत्वादेतत् श्लोकमवतार्य प्रमाणेन व्याचष्टे॥ स्वभावतोऽशुभस्येति। नाशुभकारण। नूतनतयेति शेषः। इदानीं व्याचष्टे॥ व्यपेक्ष्येति। देहादिजीव व्यपेक्ष्य निःशक्तत्वादवस्त्वपि। शुभाशुभनृणां। स्वभावतः शुभाशुभनृणां शुभाशुभं यच्छेदेव। बहिरेवेति शेषः। छाया नीहारकाभासा इत्यनेन छायाप्रत्युदकाभासा इति विवृतं। प्रत्युदकशब्देन नीहारकमुच्यत इत्युक्तं भवति। असंतोऽपीत्यस्य व्याख्यानं॥निशक्ता अपीति। विब इति शेषः। कार्यदाः। बहिरेवेति शेषः। अनेनार्थकारिण इति पदं विवृतं भवति। देहादेः सकाशादिति शेषः। शुभाशुभकार्यंभवेत्। वहिरिति शेषः।

प्रत्युदक शब्दस्य नीहारवाचकत्वेऽभिधानमाह॥नीहार इति। अयमर्थः॥यथा छायाप्रत्युदकाभासाः छायानीहारसूर्यका बिंबभूतपुरुषे चंद्रसूर्याद्यपेक्षयाऽसंतोऽपि निःशक्ता अप्यर्थकारिणो दृष्टाः। बिंबादन्यत्रेति शेषः। कथ पुमधीना छाया पुरुषे बिंबे न किंचित्करोति। किं त्वन्यत्र। तदाश्रितपुरुषे आल्हादादिकं करोति। तथा चंद्राधीनो नीहारश्चंद्रबिबे किंचिन्न करोति। किं त्वन्यत्र तत्कार्य शैत्यादिकं करोति। तथा सूर्याधीनः सूर्यकः सूर्यबिंबे किचिन्न करोति किं त्वन्यत्राग्न्यादिकमुत्पादयति। एवं देहादयो भावा असंतोऽपि जीवापेक्षया निःशक्ता अपि आमृत्युतो मृत्युपर्यतं भय। उपलक्षणमेतत्। अशुभादिकं यच्छंति। अशुभजीवानां बहिरेव न स्वरूपे। तथा शुभजीवानां शुभदेहाः शुभादिकमपि न स्वरूपे यच्छंति किंतु बहिरेवेत्यपि द्रष्टव्यं। तात्पर्ये तथोक्तत्वादिति॥५॥नन्ववस्थात्रयस्य भगवदधीनत्वात्सर्वंतेन व्याप्तमित्युक्तं। तत्र न केवलं तावदेव किंतु सर्वस्रष्टत्वाच्च सर्व तदधीनमित्याह॥आत्मैवेति। अत्रात्मा सृजति त्राति हरतीत्यन्यस्य जातत्वात्सृज्यते त्रायते हरत इत्यनन्वितमित्याशंक्य योजनां दर्शयति॥इदमिति ननु कथमीश्वरस्य जगत्स्रष्टृत्वं तस्याप्युत्पत्त्यादेः सत्वादित्याशंकायामाह॥स्वयं स्वात्मनेति। ईश्वरः स्वेनेत्यर्थः। ननु परमात्मा स्वेनैव सृज्यत इत्युक्तं। तदनुपपन्नं। परमात्मनः सृष्ट्यादिसद्भावे तथा योजनोपपत्तेः। तदेव कुत इत्याशंक्य प्रमाणेनैव परमात्मनः सृष्ट्यादिकमाह॥दीपादिति। दीपाद्दीपांतरस्याभिव्यक्तिवत्परमात्मनः सृष्टिर्नामाभि- व्यक्तिरित्यर्थः। एतावत्कालपर्यंतं। उक्तार्थे श्रुतिमप्याह॥पूर्णमद इति। अदो मूलरूपं पूर्णं। इदमवताररूप पूर्णं। पूर्णान्मूलरूपात्पूर्ण- मवताररूपमुदच्यते उद्रिच्यते आविर्भूतं भवति। पूर्णस्यावताररूपस्य पूर्णत्वमादायैकीभाव प्राप्य पूर्णमेव मूलरूपमेवावशिष्यत इत्यर्थः। तस्मान्न ह्यात्मन इत्यनेन सर्वस्य मिथ्यात्वमुच्यत इति भाति। अतो योजयति॥आत्मन इति। भाव शब्दार्थमाह॥सृष्टिरिति। अनिरूपितेयं त्रिविधेत्येतद्व्याचष्टे॥अन्येनेति। तत्र प्रमाणमाह॥अन्यस्मादिति। इदं गुणमयमित्येतद्व्याचष्टे॥अन्यत इति। गुणप्रधानमित्यनेन गुणमयमित्येतद्व्याख्यातं। गुणप्रधानव्याप्तं। ततश्च व्यापकाभावाद्व्याप्याभाव इति भावः। अत्रैवप्रमाणमाह। गुणसंबधेति। प्रत्यक्षेणेनानुमानेनेत्यत्र प्रत्यक्षादिनाऽसत्ज्ञात्वेति मिथ्यात्वमुच्यत इति भाति। अतोऽसच्छब्दार्थमाह॥असमर्थमिति॥ततश्चात्मैवेत्यादेरयमक्षरार्थः॥न केवलं

स्वप्नाद्यवस्थाप्रेरकत्वेनैव सर्वंभगवदधीनं किं तर्हीत्यत आह॥ आत्मैवेति। प्रभुः समर्थः। आत्मैव भगवानेवेदं जगत्सृजति त्राति हरति। ननु भगवतः सृष्ट्यादिकर्तृत्वं तदा स्याद्यदि स्वयमुत्पत्त्यादिशून्यः स्यात्। न चैवं। किं नाम स्वस्याप्यन्यतः सृष्ट्यादिसद्भावादित्यत आह॥ आत्मैवेति। आत्मनैव स्वेनैव सृज्यते त्रायते

ह्रीयते। ननु कुतः स्वस्य स्वेनैवोत्पत्तिरित्यत उक्तं॥ तस्मादिति। आत्मनः परमेश्वरस्य तस्मादमुष्मादीश्वरादन्यो भावः सृष्ट्यादिकर्ता न निरूपितः। कुतइत्यत आह॥अनिरूपितेति। आत्माने परमात्मनि विषयेऽन्येन सृष्टिस्थितिसंहार इति त्रिधा मतिर्विद्वद्भिर्न निरूपिता। कुतः। निर्मूला मूलप्रमाणवर्जितेत्यर्थः॥ ६॥ ७॥ परमात्मनोऽन्यतः सृष्ट्यादिकं नास्तीत्येतदेव विवृणोति॥ इदमिति। अन्यतः क्रियमाणमिद त्रिविध सृष्टिस्थितिसंहार इति त्रयं गुणमयं गुणप्रधानं तद्व्याप्यमितीश्वरमायया कृतमिति विद्धीत्यर्थः। तथा चान्यतः सृष्ट्यादिकं गुणमयत्वव्याप्यं। एवं च व्यापकीभूतगुणमयत्वा- भावान्नान्यतः सृष्ट्यादिकमिति भावः। एव च सृष्ट्यादिकर्तृत्वात्सर्वस्य भगवदधीनत्वं तेन च तद्व्याप्यत्वं लब्धं। ततः किमित्यत आह॥ एतदिति। मदुदितमेतन्मम व्याप्तत्वं विद्वान् ज्ञानविज्ञानैः पुर्णो भूत्वा न निंदति न च स्तौति। स्वामी सर्वेषां प्रेरयित्वा तत्तत्कर्म कारयतीति यथार्थज्ञानी भूत्वा न निंदति न च स्तौति। लोके निःसंगः सन् संचरतीत्यर्थः। सूर्यवदित्युक्तं दार्ष्टांतिके कथमित्यतो विवृणोति॥प्रत्यक्षेणति। प्रत्यक्षेणेदं जगदाद्यंतवदसदसमर्थमिति ज्ञात्वा तथा कृतकत्वादित्याद्यनुमानादिनाऽऽद्यंतवदसमर्थमिति ज्ञात्वा निःसंगः सन् संसारेऽनासक्तः सन् इह चरेदित्यर्थः॥ ८—१०॥ संसारः कस्येति पृच्छति॥ उद्भवेति। जीवस्य वा देहस्य संसारो नोभयमपीत्याह॥ नैवेति। आत्मनो जीवस्य। कुत इत्यत उक्तं॥ द्रष्टृदृश्ययोरनात्मस्वदृशोरिति। तथा च देहस्य जडत्वेन जीवस्य स्वदृक्त्वेन स्वप्रकाशत्वेन निमित्तेन तयोर्न संभवतीति भावः। अतः। हे ईश। कस्येयं संसृतिरुपलभ्यत इत्यर्थः॥ ११॥ ननु माऽस्तु तयोः संसारः। ईश्वरस्य स्यादित्यत आह॥ आत्मेति। अनावृत आवरणशून्यः। अग्निवदीश्वरो दारुवद्देहोऽतः कस्यायं संसारः इत्यर्थः॥ १२॥ जीवस्यैव संसारः। नन्वत्रोक्त किल स्वप्रकाशत्वादिति। देहसबधानंतरं स्वप्रकाशत्वेऽपि तत्संबंधदशायां स्यात्संसार इत्याशयेनाह॥भगवानिति। अत्र संसारोऽपार्थोऽपि फलवानिति विरुद्धमुच्यतेऽतः प्रमाणेनैव विरोध

परिहरति॥फलवानिति। संसारो जीवात्मनः फलवानित्युच्यते। संसारे स्थूलदेहादिप्राप्तौ जीवस्य श्रवणादिना मोक्षो भवतीति। नित्यानंदान्नित्यानंदस्वरूपत्वाद्दुःखादिरूपः संसारोऽपार्थको निरर्थक इत्युच्यते। अतो न विरोध इत्यर्थः। तथा चात्मनो जीवस्य देहादिभिः सन्निकर्षणं संबंधो यावदस्ति तावत्पर्यंत दुःखादिरूपः संसारः। कीदृशोऽयं संसारः। अपार्थो जीवस्य नित्यानंदस्वरूपत्वेन निरर्थकः फलवांश्च। श्रवणादिसंपत्त्या मोक्षरूपफलप्रदः। निरर्थकत्वे कथमहं दुःखीति प्रत्यय इत्यत उक्त॥अविवेकिन इति। स्फुटतरविवेकाभावादानंदरूपस्यापि दुःखानुभव इत्यर्थः॥१३॥अपार्थक इत्युक्तं। निरर्थकत्व पुनरवधारयति॥अर्थेऽपीति। असंगतिपरिहारायोत्तरश्लोकमवतारयति॥संसृत्यभावस्यैवेति। अपार्थोऽप्यविवेकिन इत्युक्तं। निरर्थकत्व पुनरप्यविद्यमान इत्यादिना नित्यानंदस्वरूपस्य जीवस्य निरर्थक एव संसार इत्यवधारणार्थः। तथा च द्विरुक्तेरवधारणार्थत्वान्न पुनरुक्तिरिति भावः। ननु संसारः फलवांस्तावदिति फलवत्त्वस्याप्युक्तत्वात्कथं निरर्थक एवेत्यवधारणमित्यत उक्त॥संसृत्यभावस्यैव फलरूपत्वादिति। तथा च संसारदशायां संसृत्यभावाभावान्निरर्थकत्वमिति भावः। ननु संसारे वैषयिकसुखरूपफलस्य विद्यमानत्वात्कथं निरर्थक एवसंसार इत्यवधारणमित्यत आह॥उच्यत इति। वैषयिकसुखादेरल्पफलत्वादविवक्षया निरर्थकत्वमिति भावः। साध्यमध्याहरति॥अत इति। च शब्द एवार्थे। यतः प्रमाणेनाल्पसुखं निष्फलमित्युच्यते। अतोऽफलत्वावधारणार्थं पुनर्वचनमिति भावः॥ततश्चैवं योजना॥अर्थेऽविद्यमानेऽपि अस्मात्संसारात्प्रयोजनाभावेऽपि पुंसः संसृतिर्न निवर्तते। अत्रेदं निमित्तं॥ध्यायतो विषयानिति। विषयध्यानेन तत्रैवासक्त्या पुनः संसारः प्राप्यत इति भावः। यथा स्वप्ने विषयध्यानेन निरंतरविषयानुस्मरणसंजातवासनासंतत्याऽनर्थागमो न निवर्तेत तथेत्यर्थः॥१४॥अज्ञानिन एव संसारोऽनर्थकरो न ज्ञानिन इत्याह॥यथा हीति। अप्रतिबुद्धस्य स्वप्नावस्थामास्थितस्य स्वाप्नो निद्रा बव्हनर्थकरः। स एव प्रस्वापः प्रतिबुद्धस्य नैव मोहाय कल्प्यते। एव संसृतेरज्ञानिनामनर्थकृन्नज्ञानिनामित्याशयः॥१५॥नन्वयं जीवस्य संसारःस्वाभाविक औपाधिको वेत्याशंकायां न स्वाभाविकः किं त्वौपाधिक इत्याह॥ शोकेति। नन्वत्राहकारस्य शोकादयो नात्मन इति प्रतीयते। तत्तु पूर्वविरुद्धं। पूर्वं जीवस्य संसार इत्युक्तत्वादित्याशंक्याभिप्रेतमर्थमाह। अहंकारस्येति।

उक्तार्थे प्रमाणमाह॥ अहंकारादिति। मनः प्रभेदरूपाहंकारादित्यर्थः। स्पृहेच्छा। ततश्च शोकादयो मनःप्रभेदभूताहंकारस्य दृश्यंते जन्ममृत्युश्च तस्यैव। आत्मनो जीवस्य त्वहंकारसंबंधादेते प्रतीयंते न स्वतश्चिदानंदस्वरूपत्वादिति भावः॥१६॥ ननु कया युक्त्या जीवस्यैव संसार इत्यतः कैमुत्यन्याय- लक्षणेनेत्याह॥ देहेंद्रियेति। अप्रतीत्यैतद्व्याचष्टे॥ देहेंद्रियेति। मूत्रं महानित्युरुधेह गीतइत्यस्यार्थमाह॥ सूत्र महानिति। अभिप्रायमाह॥ प्रधानजीवेति। उक्तार्थे नियामक प्रमाणमाह॥ संसारयुगिति। ततश्चायं श्लोकार्थः॥ यो देहेंद्रियप्राणमनसामभिमानो यस्य सः। तदभिमानेन युक्तो योऽन्तरात्मा सर्वेषामंतःस्थितो गुणैः कर्मभिरारब्धा मूर्तिर्यस्य सः। यश्च सूत्रं महानित्याद्यधिकारनामभिरुरुधा बहुधेह गीतः स कालतंत्रः कालाभिमानी दुर्गाधीनो जीवो हिरण्यगर्भोऽपि इह संसारे आधावते किमुतान्ये जीवा इत्याशय इति॥१७॥ नन्वेवं प्रबलस्य संसारस्य कथं समुच्छेद इत्यतस्तन्मूलाज्ञाननाशेन नाशो भविष्यतीत्याशयेनाज्ञाननाशप्रकारमाह॥ अमूलमिति। अत्रामूलमित्यस्य निर्मूलमिति प्रतीयतेऽतो व्याचष्टे॥ अमूलमिति। बहुरूपरूपमिति द्विवारमुक्तिः किमर्थेत्यत आह॥ बहुरूपेणेति। मनोवचःप्राणशरीरकर्मेत्येतदप्रतीतेर्व्याचष्टे॥ मन आदीनामिति। अयमर्थः। अत्रैतच्छब्देन मोह शब्दोक्तमिथ्याज्ञानपरामर्शः। यदमूलं विष्णुमूलं। विष्णुजन्यमिति यावत्। यद्वहुरूपेण तेनैव विष्णुना रूप्यते ज्ञायते। यच्च मन आदीन्येव कर्मविषयो यस्मात्। तद्विषयकमेतन्मिथ्याज्ञानं मुनिर्मननसमर्थोऽधिकार्युपासनया सितेन तीक्ष्णेन ज्ञानासिना छित्वाऽतृष्णो निःसंगो भूत्वा शरीरपातपर्यंतं गां भूमिं चरतीति॥१८॥ ननु ज्ञानासिना छित्वेत्युक्तं। तत्र किमाकारकं ज्ञानमित्यतस्तत्स्वरूपं दर्शयति॥ ज्ञानमित्यादिना। अत्र केवल शब्दार्थमाह॥ केवलमिति। तदेव मध्येइत्यस्यान्वयो न भातीत्यतस्तदाह॥ आद्यतयोरिति। पूर्वार्धे विशेष्याप्रतीतेस्तदाह॥पर ब्रह्मेति। मूले परं ब्रह्मेत्यध्याहारः। कीदृशं ब्रह्मेत्यतोऽन्वयं दर्शयति॥ज्ञान विवेकादिस्वरूपमिति। पूर्वार्धंव्याचष्टे। परिपूर्णगुणत्वादिति। तपः शब्दस्य सतापार्थकत्वप्रतीतेराह॥सर्वैरिति॥अयमर्थः॥ यत्परब्रह्म ज्ञानं ज्ञानरूपं च यच्चान्यतो विविक्तत्वाद्भिन्नत्वाद्विवेकः। यश्च नितरां गमयतीति निगमः। यच्च सर्वैरालोच्यत्वात्तपः। यच्च प्रति प्रत्यक्षेष्विंद्रियेषु स्थितत्वात्प्रत्यक्षं। यच्चाचार्यसंप्रदायसिद्धत्वादैतिह्यं। यच्चार्थादनुमीयमानत्वादनुमानं। यच्च पूर्णगुणत्वात्कालः। यच्च हेतुर्निमित्तकारण। यस्मात्कारणादेतादृशं ब्रह्मास्य जगत आद्यंतयोः केवलं स्वतंत्रं। तस्मात्कार-

अत्र एकं पुटं नास्ति

स्यापचितिं प्रत्युपकारं कर्तुं ब्रह्मायुषाऽपि नैवोपयांति। न समर्था इति यावत्। किं तदुपकारमित्यतस्तद्दर्शयति॥य इति। यस्त्वं तनुभृतामंतर्बहिः स्थित्वाऽशुभं विधुन्वन् आचार्याणां चैत्यं चित्तस्थितिं तद्वपुस्तेन तनुभृतां स्वगतिं त्वद्विषयकज्ञानं व्यनंक्षि व्यक्तीकरोषि। अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेदित्युक्तेः। अतस्त्वां विनाऽन्योपकारी क्वास्तीत्याशयः॥६॥अत्यरनुक्तचेतसाऽत्यंतस्निग्धचेतसा। पृष्टः स्वशक्तिभिर्ज्ञानेच्छाक्रियाभिर्जगदेव क्रीडनकं यस्य सः। गृहीतमूर्तित्रयो जगतो जाग्रदाद्यवस्थाप्रवृत्त्यर्थं सृष्ट्याद्यर्थंच स्वीकृतमूर्तित्रय इश्वरेश्वरः सप्रेमं मनोहरस्मितः सन् जगादेत्यर्थः। अत्र किं तन्मूर्तित्रय विवक्षितमिति न प्रतीयतेऽतः प्रमाणेन तदभिप्रायमाह॥आत्मेति। यथाक्रमं हरेरात्मादिमृर्तित्रयं जाग्रत्स्वप्नसुषुप्तीनां सृष्टिस्थितिसंहाराणां प्रवर्तकं विवक्षितं इत्यर्थः॥७॥मृत्युं संसारं मृत्योर्जयति प्राप्नोति॥८॥मां स्मरन् शनकैर्मदर्थं मत्प्रीत्यर्थं सर्वाणि कर्माणि कुर्यात्। मयि समर्पितमनस्तत्प्रभेदभूतचित्तः पुमान्। मद्धर्मात्ममनोरतिर्मद्धर्मेषु मदात्मसु भक्तेषु मनोरतिः॥९॥साधुभिः श्रितान्देशान्संश्रयेत। मद्भक्ताचरितानि कर्माणि कुर्यात्॥१०॥पृथक् सत्रेणेति प्रत्येकं क्रियमाणसत्रेण योगेनेति प्रतीयतेऽतो व्याचष्टे॥पृथक् स्वयमेवेति। यात्रामहोत्सवं रथोत्सवादिवार्षिकयात्रामहोत्सवं कुर्यादित्यर्थः। तथा च पृथक स्वयमेव सत्रेण बहुभिः सह वा यात्रा महोत्सवान् गीतादिभिः कारयेदित्यर्थः॥११॥अमलाशयः पुमान् भूतेषु अरितत्वेन मामीक्षेत। तथात्वे जीववदावृतत्वं किं नेत्याह॥बहिरिति। बहिरंतरपगतावरणमित्यपीक्षेत। एतादृशमात्मनि स्वस्मिन् आत्मानं मामीक्षेदित्यन्वयः॥१२॥हे महाद्युते उद्धव। मद्भावनेति मदभेदेनेति प्रतीयतेऽताोव्याचष्टे॥सर्वभृतेष्वस्ति विष्णुरिति। सर्वभूतानामर्चनक्रियमाणे सति तदानीं सर्वभूतेष्वस्त्वित्वेन विष्णुरिति भावो यः स एव मद्भाव इति सतां मत इत्यर्थः। किं चादित्येऽर्चने क्रियमाणे सति तदानीमेवमनुसंधानं कार्यं। तद्गतात्मना विष्णुः पूज्य इति। तथा चाधिष्ठानं विहाय पुल्कसादिषुविद्यमानो हरिरेव पूज्यः। आदित्ये चाधिष्ठानसद्भावेनेति भावः। तथा च सर्वभूतेष्वस्ति विष्णुरिति मद्भावेनसर्वाणि भूतानि मन्यमानः सभाजयेन्नावज्ञां कुर्यात् केवलं च ज्ञानं समाश्रयेत्॥१३॥किं तत्केवलज्ञानमित्यत आह॥ब्राह्मणइति। ब्राह्मणादिषुसर्वत्र सममेकप्रकारं मन्यमानो यः स एव पंडितो मत इत्यर्थः॥१४॥एवं भावनाफलमाह॥नरेष्विति। नरेषुमाम-

भीक्ष्णंभावयतः स्मर्तुरचिरान्मयि भक्तिः स्यात्। तथा च साहंकारा माया मिथ्याज्ञान तिरस्कारं नाशं यातीत्यर्थः। हिशब्देनात्रार्थे भक्त्या प्रसन्नो भगवान्दद्यान्मुक्तिं न चान्यथेति प्रमाणं सूचयति॥१५॥भक्तिमतैवं भाव्यमित्याह। विसृज्येति। स्वयमहंकारं दैहिकीं देहसंबंधिनीं परिदृश्यमानव्रीडां लज्जां विसृज्य त्यक्त्वाऽश्वचंडालगोखरान् श्वचंडालगोखरपर्यतं विद्यमानान् जनानुद्दिश्य प्रणमेदित्यर्थः॥१६॥एतदुपासनावधिमाह॥यावदिति। मद्भावः सर्वभूतेष्वरित विष्णुरिति ज्ञान नोपजायते तावदेवं पूर्वश्लोकोक्तरीत्या वाङ्मनः कार्यवृत्तिभिरुपासीतेत्यन्वयः॥१७॥एवमुपासीनस्य परोक्षज्ञानिनो मति- प्रकारमाह॥सर्वमिति। तस्योपासकस्य सर्वं जगद्ब्रह्मात्मक ब्राह्मणात्तं स्वीकृतमिति अधीनमिति मतिर्भवति। तया स्वपनीपोत्थया विद्ययाऽच्युतं परमात्मानं परं भिन्नं परिपश्यति॥१८॥ननु सर्वभूतेष्वस्ति विष्णुरित्येतत्कादाचित्कं किमित्यतोनेत्याह॥अयमिति। मनोवाक्कायकर्मणा सर्वेषु भूतेषु मद्भावो योज्यं सर्वकल्पानां सध्रीचीनः

साधारण इत्यर्थः॥१९॥प्रारंभमात्र इच्छा वा विष्णु धर्मो न निष्फलेति प्रमाणानुसारेणाह॥न हीति। हे अंग उद्धव। अस्य मद्धर्मस्योपक्रमे प्रारंभे क्रियमाणेऽण्वप्यणुमात्रोऽपि ध्वंसः फलाभावो नास्तीति मया सम्यग्व्यवसितो निश्चितः। कुतः। अनाशिपो निष्कामधर्मस्य निर्गुणत्वान्मोक्षसाधनत्वात्। तथा च निष्कामधर्मस्य मोक्षफलकत्वनिश्चयेन तादृशधर्मोपक्रमेणापि मोक्षस्यावश्यं भाव्यत्वादित्याशयः॥२०॥नन्वन्यदेवतोद्देशेन क्रियमाणधर्मक्रमोऽपि सफलश्चेत्कोविशेष- स्त्वद्धर्मस्येत्यत आह॥यो य इति। पुंभिरन्यदेवतोद्देशेन क्रियमाणो यो योगोऽपरो मनोधर्मो ध्यानादिः स ते त्वदुपलक्षिताधिकारिणो निष्फलाय कल्पते। तदेवाह। तदायासस्तदुद्देशेन क्रियमाणधर्माद्यायासः। सत्तम उद्धव। निष्फलः स्यादिति। कथं। नयादिरिवेति। अत्र नयादि शब्दार्थमाह॥नयादिरिति। कुत इत्यतउक्तं॥यदिति। यद्यस्मात्कारणात्सुदुर्नयः। नयं सन्नयं। अति अतीत्य सर्वदा वर्तत इत्यर्थः। तथा चादौ नये प्राप्ते सति तदुल्लंघ्य दुर्नयं प्राप्नोतीति भावः। एव च नयः सन्नय आदिर्यस्य स दुर्नय इति व्युत्पत्तिर्नयादि शब्दस्योक्ता भवति। तथा च नयादेरिवदुर्नयस्येव स यथा निष्फलस्तथाऽयमपीति दृष्टांतार्थः॥२१॥बुद्धिमतां बुद्धिः। एषां मनीषिणां च। मनीषैषां का एषा॥यदिति। अत्रानृतेन मर्त्येनेति देहमिथ्यात्वमुच्यत इति भाति। किंच सत्य शब्दार्थश्च न प्रतीयतेऽत आह॥एकदेति।

यद्यस्मात्कारणाज्जगदेकदा ज्ञातरूपेण न तिष्ठत्यतोऽनृतमित्युच्यते। कुत इत्यत उक्तं॥चंचलत्वादिति। सत्य शब्दार्थमाह॥सर्वदेति। अनृतेन चंचलेन मर्त्येन देहेनामृतं नित्यमुक्तं सत्यं सर्वदैकप्रकारं मां प्राप्नोतीति यद्येषेत्यन्वय इत्यर्थः॥२२॥उपसंहरति॥एषेति। ब्रह्मवादस्य प्रतिपादकस्य वादस्येत्यर्थः समासव्यासविधिना संक्षेपविस्तरेण देवानामपि दुर्गमोऽयमभिहितो गदितमुक्तमित्यर्थः॥२३॥नष्टसंशयो भूत्वा॥२४॥धारयन्यः सनातनं ब्रह्म। गुह्यं वेदरहस्यं। परं ब्रह्माधिगच्छति प्राप्नोति॥२५॥प्रचयगमनफलमाह॥य इति। ब्रह्मदायस्य ब्रह्मधनवतः॥२६॥अध्येतुः फलमाह॥य इति। मां दर्शयन्॥२७॥श्रोतुः फलमाह॥य इति॥२८॥स्वोक्तज्ञानेऽवधृतिं पृच्छति॥अपीति। हे उद्धव हे सखे। त्वयेद ब्रह्मोपधारितमपि किमित्यर्थः। मोहो विगतः किं अपि किमित्यर्थः॥२९॥शठाय गूढद्वेषिणे॥३०॥शूद्रयोषितां यदि भक्तिः स्यात्तासां ब्रूहीत्यन्वयः॥३१॥इदमेव मुक्तिसाधनं नान्यदित्याह॥नैतदिति। द्वितीयार्थो दृष्टांतार्थः॥३२॥नन्वेतद्विज्ञायान्यत्ज्ञातव्यं नास्तीति कथं। अन्यज्ञानदर्शनादित्य- तस्तत्सर्वंमोहकारण मोहसाव्यं वेत्याह॥ज्ञानेति। भगवदितरज्ञाने दुष्कर्मणीतरयोगे। वार्तायां दंडधारणे इत्यत्र नृणां यावानर्थोऽस्ति तावान्सर्वोऽपि चतुर्विधमोहस्तत्साध्यो वा तत्साधनं वेत्यतो नान्यत्ज्ञातव्यमित्यर्थः॥३३॥यदा मर्त्योऽयं त्यक्तसमस्तकर्माणि हरौ निवेशितात्मा भवति। अहमस्वतंत्रस्तदधीन इति यदा मे मया चिकीर्षितश्च भवति कारितो भवति। भगवत्प्रेरितोऽहं कर्म करोमीत्यनुसंधानवान् भवतीति यावत्। यदाऽमृतत्वं प्रतिपद्यमानः प्राप्तुं योग्यो भवेत्पश्चादात्मभूयाय निर्दुःखानंदानुभवाय मोक्षाय कल्पत इत्यर्थः॥३४॥३५॥पूर्णमुत्सिच्यमानं विष्टभ्य स्थिरीकृत्य बहुमन्यमानो बहुमानं कुर्वाणः॥३६॥हे अजाद्य। यो मे आश्रितो मोहमयोंऽधकारो मिथ्यात्ज्ञानात्मकांधकारः स तव सन्निधानाद्विद्रावितः। यथा विभावसोरग्नेः समीपगस्य पुरुषम्यशीतं तमश्च किं नु अभिप्रभवंति। किमाक्षेपे। नाभिप्रभवंतीत्यर्थः॥३७॥अनुकंपिताशयं कथयति॥प्रवर्धितेति। हि यस्माद्भवता मे मम विषये। अनुकंपिता। भावे क्तः। अनुकंपा कृपावर्धिता।विज्ञानमयः प्रदीपो दत्तः। अतः को वा त्वदीयः कृतज्ञस्त्वकृतोपकारज्ञस्त्वत्पादमूलं हित्वाऽन्यच्छरणं समीयादित्यन्वयः॥३८॥यः स्नेहपाशः सृष्टिविवृद्धये त्वया प्रसारितोविस्तारितः सः स्वमायया

निजेच्छ्या प्रादुर्भूतात्मविबोधाख्यहेतुना वृक्ण

च्छिन्न इत्यर्थः॥३९—४२॥द्वंद्वमात्राणां शीतोष्णादीनां॥४३॥विविक्तेएकांते। तिस्रो गतीर्भूर्भुवःस्वरिति गतीरतिव्रज्यातिक्रम्य ततः परं मामेप्यसि॥४४॥हरिमेधसा विष्णुना तं प्रदक्षिणं परि सृत्य कृत्वा पादयोः शिरो निधाय। आर्द्रधीरश्रुकलाभिः पदद्वंद्व- मभिपिंचन् अथोऽनुचक्रमे॥४५॥कृच्छ्रं कष्टं यथास्यात्तथा। पुनः पुनर्नमस्कृत्य॥४६॥विशालां वदरीं समास्थायानुष्ठाय॥४७॥आनंदसमुद्रेण कृष्णेन संभृतमुत्पन्नं ज्ञानामृतं भागवतायोद्धवाय भाषितं यत्ज्ञानामृतमेतन्निषेव्यासेव्यजगद्विमुच्यत इत्यर्थः॥४८॥शुको मंगलमाचरति॥भवभयमिति। अहं तमाद्यं सर्वज्ञं पुरुषर्षभं सर्वोत्तमं नतोऽस्मीत्यन्वयः। यो भवभयमपहंतुं भृत्यवर्गान् ज्ञानामृतं पाययन्नास्ते। अमृतसाम्यमुपपाद्यते। कीदृशममृतं। ज्ञानविज्ञाने एव सारं स्वादु यस्य तत्तथा। पुनरमृतसाम्यमुपपाद्यते। निगमकुमुददभ्रं पूर्वोक्त ज्ञानं निगमलक्षणं कुमुदैकदेशसिद्धं। अमृतमप्युत्तम भवति। अत इदमपि वेदवेद्येषु सारं श्रेष्ठं। पुनः कीदृशं। उदधिकल्पं समुद्रकल्पं। अधिकारिणां योग्यताविशेषात्पूर्णत्वेन समानं। एतादृशं ज्ञानामृतं भृंगवत्। प्रथमार्थे वतिः। तथा च भृंगराजो यथा स्वभृत्यान्पुष्परसं पाययति तथा भृत्यवर्गान्पाययन्नास्ते तमित्यन्वय इत्यर्थः॥४९॥इति श्रीभगवतटिप्पण्यामेकोनत्रिंशोऽध्यायः॥११–२९॥

॥हरिः ॐ॥भूमिं त्यक्त्वा गत इति चेत्तत्राह॥ब्रह्मशापेति। संसृष्टे संबद्धं। युंक्ते इति यावत्। प्रेयसीमिति प्रियां। नन्वत्यजदित्यत्र भगवान्कथं तनुमत्यजत्यक्तवानिति पृच्छत इति भातीत्यतस्तदनूद्य व्याचष्टे॥तनुमत्यजदिति। तेनाति शब्दोऽतिशयार्थः। अत्यजदित्यस्यार्थः॥अहरदिति। कोऽर्थः संपन्न इत्यत आह॥भूलोकादिति। तथा च भगवान्प्रेयसी तनुं कथं भूलोकात्स्वर्लोकं प्रत्यहरदित्यर्थः॥२॥इतोऽप्यतिसुंदरं देहं कथं त्यक्तवान्। ननु स्यादेतत्। यदि भगवद्देहः सुंदरः स्यात्तदेव कुत इत्यत आह॥प्रत्याक्रष्टुमिति। अबलाः स्त्रियः। यत्र भगवदंगे लग्नं संबद्धं नयनं प्रत्याक्रष्टु प्रत्याहर्तुं न शेकुर्न शक्ताः। यद्यशो यस्य यशः। आत्मलग्नं सतां मनः संबद्धं चेत्सतां कर्णाविष्ट चेन्न सरति कर्णादेर्नापसरति। यस्यश्रीवाचं श्रीमद्वाक्यं मनः कर्णयो रतिं सुखं जनयति। कोऽनुमानः कवीनामित्येतद्दुर्गमार्थं ततो व्याचष्टे। कः सुखरूपोऽनुमानः कवीनां मानानुसारीति। ततश्च यो देहः सुखरूपः यथ कवीनां ज्ञानिनां मानानुसारी मानप्रतिपाद्य इत्यर्थः। यच्च युधि भार-

ताख्ये युद्धे जिष्णोरर्जुनस्य रथ गतं दृष्ट्वा तत्साम्यं तद्रूपसाम्यमीयुः प्रापुः। भीष्मादय इति शेषः। अत एतादृशं रूपं कथमत्यजदित्यन्वयः॥३॥सुधर्मायामासीनान्यदून्प्रतीत्यन्वयः॥४॥द्वार्वत्यां दृश्यते। उपायप्रदर्शिभिरास्थितं चेन्नष्टा भविष्याम इति ज्ञानवद्भिः॥५॥सरस्वती वर्तत इति शेषः॥६॥अभिषिच्य स्नात्वा। सुसमाहिता एकाग्रचित्तयुक्ताः संतः॥७॥॥८॥विधिरुपायः। एषः क इत्यत आह॥देवेति॥९॥१०॥तस्मिन्क्षेत्रे॥११॥कदंबरसनिर्मित मधु मैरेयकं॥१२॥संघर्षः कलहः॥१३॥वेलायां समुद्रतीरे। आततायिनो वधोद्युक्ताः॥१४॥तदेव विशदयति॥पतदित्यादिना। दुर्मदा एते मिथः समेत्य शरैर्न्यहन्। कथमिव। द्विषागजा वने दद्भिर्यथा न्यहांतथेत्यर्थः॥१५॥अन्योन्यमासाद्य मदांधकारिताः कर्तव्यविचारमूढाः संतो जघ्नुः। कुतः। मुकुंदेन विमोहिता इति॥१६॥१७॥अध्वर्युदाः केचन यादवा विसृज्यमाना आसज्यमानाः सौहृदं विसृज्य जघ्नुरिति॥१८॥एतदेव विशदयति॥पुत्रा इति॥१९॥२०॥तं कृष्णं ते यादवाः॥२१॥बलभद्रं प्रत्यनीकं द्वेषिणं मन्यमानाः॥२२॥२३॥क्षयं नाशं॥२४॥२५॥आत्मान मन आत्मनि हरौ॥२६॥निर्वाणं नाशं।धरोयस्थे भूपृष्ठे पिप्पलमासाद्य तूष्णी निषसादेत्यर्थः॥२७॥विधूमो निर्धूमः पावक इव ज्वलन्नित्यर्थः॥२८—३१॥उरौ दक्षिणपादं कृत्वा॥३२॥मुसलस्यावशेपायाः खंडेन कृतेषुः॥३३—३५॥इतोऽपि मम वध एव श्रेयानिति भावेनाह॥यस्येति। विरिंचरुद्रादयः। अस्य विरिंचस्य तनया मरीच्यादयो गिरां पतयो बृहस्पत्यादय इत्येते यस्य तवात्मयोगरचितमात्मसामर्थ्येन रचितं सृष्ट्यादिकं न विदुः। तत्र निमित्तमाह॥त्वन्माययेति। त्वन्मायया तव बंधकशक्त्या विहतदृष्टयः प्रलुप्तज्ञानाः। यस्मादिति शेषः। एतादृशस्य तस्य ते। असद्गतयोऽसत्स्वरूपा वयं मेतत्तव चरितमंजः किं गुणीमो न किमपीत्यर्थः॥३८॥३९॥इच्छाशरीरिणेच्छायत्तशरीरिणा॥४०॥अन्विच्छन् अन्वषणं कुर्वन्। तं कृष्णं नाधिगम्याविज्ञाय पुनस्तुलसिका मोदो यस्य स तं वायुमाघ्रायाभिमुखंतुलसिकामोदवाय्वभिमुखं ययौ॥४१॥कृतकेतनमाश्रयो यस्य सः। तं स्नेहेन परिप्लुतात्मा सन् द्रवीभूतमनाः सन्॥४२॥दृष्टिः। भावे क्तः। दर्शनं चक्षुः। एवं च तमासे प्रविष्टा दृष्टिः प्रनष्टा नाशयुक्ताऽभूत्। पुनराह॥दिश इति। शांतिं सुखं। यथा निशायामुइपे चंद्रे प्रनष्टेऽस्त

गतेदिगादिज्ञानं न भवत्येवमित्यर्थः॥ ४३॥ खमुत्पपात खं प्रत्युत्पपातेत्यर्थः। सुते उदीक्षितः सतः॥ ४४॥ अतिविस्मितात्मानं सुतं॥ ४५–४८॥ एतां संसृतिं मन्मायारचितां मदिच्छया रचनवतीं विज्ञायोपशमं मन्निष्ठबुद्धिं व्रज प्रापेत्यर्थः॥ ५०॥ इति श्रीभागवतटिप्पण्यां त्रिंशोऽध्यायः॥ ११—३०॥

॥हरिः ॐ॥ निर्याणं नाश॥१–३॥ सकुलं कुर्वतमित्यन्वयः॥४॥आत्मनो विभूतीःस्वसंनिधानविशेषांस्तानिंद्रादीन्वीक्ष्यात्मनि मूलरूपे आत्मानं सयोज्य पद्मवद्विद्यमाननेत्रे न्यमीलयदित्यर्थः॥ ५॥ लोकाभिरामां लोकानां मनोहरां धारणाध्यानयोर्मंगलां स्वतनुमाग्नेय्या योगधारणया दग्ध्वा स्वकं धामाविशदिति प्रतीयते। न च तद्युक्तं। तृतीये स्वतनुं गृहीत्वैवांतर्धानस्योक्तत्वेन तद्विरोधः स्यादित्यत आह॥आग्नेय्येति। एवं चादग्ध्वेत्युक्त्याऽकारप्रश्लेषेण पदच्छेद इति दर्शितं। तथा च न विरोध इति भावः। उक्तार्थे नियामकं प्रमाणमाह॥आग्नेय्येति। अन्ये भगवदितरे समस्ता देवा आग्नेय्या धारणया देहं दग्ध्वा पर पदं यांति तेषां देवानामन्यां तनु मूलरूपं विद्यमानां तनुं। ताभिस्तनूभिः। कुत इत्यत आह॥नित्यानदेति। तथा चाग्नेय्या योगधारणया तनुमदग्ध्वा स्वकं धामाविशदित्यर्थः॥६॥परलोकगमनसमये पुनः किं जातमित्यत आह॥ दिवीति। तं कृष्णमनु॥ ७॥ अविज्ञातगतिं परेणाविज्ञातस्वरूपं कृष्णं तदृशुरित्यर्थः॥८॥ तदेव दर्शयति॥ सौदामिन्या इति। यथाऽभ्रमण्डलं भित्वा आकाशे यांत्याः सौदामिन्या गतिं मत्यँर्न लक्ष्यते तथा कृष्णस्य गतिर्देवतैर्न लक्ष्यते साकल्येन न ज्ञायत इत्यर्थः। योगगतिं योगसामर्थ्यं॥ १०॥ कृष्णो देह त्यक्त्वा दिवं गत इति न मतव्यमित्याह॥ राजन्निति। अत्र तनुभृज्जननाप्ययेहामित्यस्य तनुभृतां जननमप्ययश्च तद्वच्चेष्टेत्युच्यत इति भातीत्यतोऽत्र विवक्षितमर्थमाह॥ तनुभृद्वदिति प्राणिवदित्यर्थः। तनुभृद्वदीहां श्रुत्यैव दर्शयति॥ प्रजापतिरिति। जननवदीहामपि श्रुत्यैव दर्शयति॥ अजायमान इति। अप्ययवदीहां प्रमाणेनैव दर्शयितुं स्मृत्याऽप्युक्तमर्थं दर्शयति॥ अजात इति। अमृतोऽमृतवदित्यनेनाप्ययवदीहा प्रदर्शिता। तथा च परस्य लोकविलक्षणस्य हरेस्तनुभृज्जननाप्ययेहां गर्भेंऽतश्चरणाज्जीववदजायमानो बहुधा विजायत इति कृत्वा जननवदमृत इति कृत्वाऽप्ययवदीहां चेष्टां मायाविडबनमिच्छयाऽनुकरणमवैहि। कथं। यथा नटस्याकारविशेषप्रदर्शनं मायया तथा मिथ्याभूतमेव

किं न स्यादित्यत आह॥॥ सृष्ट्वेति। स हरिरात्मना स्वसामर्थ्येनेदं जगत्सृष्ट्वाऽनुविश्यावतारैर्विर्हृत्यांते सहृत्यात्ममहिमोपरतः सन् आस्ते स्वे महिम्न्यास्ते। अनेनापरिमितसामर्थ्यात्सर्वं युज्यत इत्युक्तं भवति॥ ११॥ इतोऽप्येतादृशस्य देहत्यागेन गमनमिति न मंतव्यमित्याह॥ मर्त्येनेति। यः कृष्णो मर्त्येन शरीरेण सह यमलोकं नीतं गुरुसुतमानयत्। यश्च शरणदः परमास्त्रेण ब्रह्मास्त्रेण दग्धं त्वां चानयत्। यो बाणपुरेंऽतकातंकं रुद्रमपि जिग्ये। यद्वा। पारिजातहरणेंऽतकांतकं यममपि जिग्ये। सोऽनीशोऽन्येशरहितः कृष्ण ईशतनौ सर्वेशानां रुद्रादीनामीशत्व तनोतीतीशतनुस्तस्मिन्स्वदेहे। मृगयोः सकाशाल्लुब्धकजराव्याधसकाशादनीश्वरः स्यात्किं न स्यादेवेति। अथो तस्मात्सामर्थ्यातिशयप्रकटनाय विप्रशापमनुस्मरन्नविद्ध एव स्वभक्तं व्याधशरीरान्मोचयितुं शल्येषुणा विद्ध एवेति॥१२॥तर्हि बलभद्रादीन्संदेहान्किं किमिति स्वलोकं प्रति न नीतवानिति तत्राह॥ तथाऽपीति। तत्र कृष्णः स्ववपुः प्रणेतुं नैच्छत् किं त्वत्र शेषित। कुतो मर्त्येन देहेन किं प्रयोजनमिति कृष्णः स्वदेहमत्र परित्यज्य गत इत्युच्यत इत्यतोऽत्राभिप्रेतमर्थमाह॥शेषित वपुर्बलभद्रादीनामिति। तथा च कृष्णः स्वकीयं वपुः परित्यज्य गत इत्युक्ते स्वयं कृष्णादिरूपवानित्युदाहृतप्रमाणविरोध इति भावः। उक्त एवार्थ इत्यत्र नियामक प्रमाणमाह॥ जगतो मोहनार्थायेति। मानुषी चेष्टां स्त्र्यादिद्वारा जननादिरूपां। किमर्थमित्यत उक्त॥ मोहायेति। दैत्यानां मोहायेति। कुतः। वस्तुस्थितिरेव किं न स्यादित्यत आह॥माययेति। ननु वेदादौ विष्णोर्जनिमृत्यादिकमुच्यतेऽतः कथं विष्णोर्जन्मादिकं नास्तीत्युच्यत इत्यत आह जीवविष्णोरिति। तथा च क्वचित्तथोक्तिर्दैत्यानां मोहानार्थायैवेति भावः। तथा च कृष्णो यद्यप्यशेषस्थितिसंभवाप्ययेष्वनन्यहेतुः। कुलालस्य दंडादिवद्धेत्वतरवर्जितः। स्वतंत्र इति यावत्। कुतः। यदशेषशक्तिदृगिति। तथाऽपि बलभद्रादीनां वपुरूर्ध्वं प्रणेतुं नैच्छद्भगवान्। कुत इत्यत उक्त। मर्त्येन मरणशीलेन शरीरेण किं प्रयोजनमिति भावेनात्र शेषित हरिणेति। अनेनाऽपि किं प्रयोजनमित्यत उक्तं॥ स्वस्थगतिमिति। स्वभक्तानां स्वविषयज्ञानलक्षणां योगगतिं प्रदर्शयन्। नत्प्रदर्शनमेव प्रयोजनमिति भावः॥ १३॥ कृष्णोक्तेःफलमाह॥ य इति॥१४–१५॥ कृष्णोक्तोदारूकः किमकरोदिति कथाशेषमाह। दारुक इति। कृष्णविच्युतः कृष्णेन रहितः॥१५॥१६॥कुत्र जग्मुरित्यत आह॥

व्यभव इति॥ १७॥ स्मृतिं विजह-

विस्मरणं प्राप्ता इत्यर्थः॥१८॥ चितामारुरूहुः। सहगमनं गता इति यावत्॥१९॥ तद्गात्रं वसुदेवशरीरमुपगृह्याग्निमाविशन्नित्यन्वयः। हरेः स्नुषाः प्रद्युम्नादींस्तद्देहान् उपगृह्याग्निमाविशन्नित्यर्थः॥ २०॥ ननु पूर्वं रामादिपत्नीनां रामादिदेहेन सहाग्निप्रवेशमुक्त्वा कृष्णपत्न्यो विशन्नग्निंरुक्मिण्याद्याइत्युक्त्या कृष्णदेहस्याग्निदाहोऽस्तीति लभ्यते तन्न युज्यते। अर्जुनेन दग्धत्वात्। नन्वस्तु दाहस्तथाऽपि रुक्मिण्यादिदेहानामग्निना दाह इति प्रतीयतेऽत आह॥ अग्नाविति। भैष्मी भीष्मकता रुक्मिण्यग्नावतंर्दधे सत्यभामा तु वनेंऽतर्दधे। अन्याः

षण्महिष्योऽग्नौदेहं त्यक्तवंत इति भावः। तयोः रुक्मिणीसत्यभामयोः। याश्चरुक्मिण्याद्याःकृष्णपत्न्योऽग्निं विशन् अग्नावंतर्धानं प्राप्ता इत्यर्थः। कुतः। यतस्तदात्मका इति भगवदेकमनस्का इत्यर्थः॥२१॥ सदुक्तिभिः सदुक्तिरूपैर्नष्टगोत्राणां गोत्रशून्यानां सांपरायिकं परेतविषयक कर्म॥२२॥ कुत इत्यत आह॥नित्यमिति॥२३—२६॥वंशधरं वंशप्रवर्तकं महापथं वीराध्वानं॥ २७॥ न केवलमेतावदेव फलं किंतु फलांतरमप्यस्तीति भावेनोपसंहरति॥इत्थमिति। भगवतो हरेः सतमानि निर्दुष्टानि। अन्यत्र चेह च श्रुतान्यत्र ग्रंथांतरे इहास्मिन् ग्रंथे च प्रतिपाद्यमानानि रुचिरावतारवीर्याणि रुचिराणि यान्यवतारे कृतानि वीर्याण्यस्य चरितानि बाल्यचरितानि गृणन्मनुष्यो यः परमहंसगतौ भगवत्स्वरूपे परामत्युत्तमां गतिं लभेत प्राप्नुयादित्यशेषमतिमंगलं॥२८॥ इति श्रीभागवतटिप्पण्यामेकोनत्रिंशोऽध्यायः॥ ११–३१॥॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणे श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासतीर्थेन रचित एकादशः स्कंधःसंपूर्णः॥ ११॥॥ श्रीकृष्णार्पणमस्तु॥

———————————————————

]