१३ त्रयोदशोऽध्यायः

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै

॥ अथ त्रयोदशाध्यायः ॥

सूत उवाच–

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै

र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो ।

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १ ॥

पदरत्नावली

स्तवैर्वेदैश्च स्तुन्वन्ति स्तुवन्ति । उपनिषच्छब्दस्याकारान्तत्वम् । ध्याने-नावस्थितं निश्चलं तद्गतं यन्मनस्तेन यस्यान्तं न विदुः सुरासुरगणाः ॥ १ ॥

सत्यधर्मीया

वरुणेन्द्राभ्यां सहितश्चासौ रुद्रश्च मरुतश्च ब्रह्मा चेति पृथक् कथनं स्तुतिपरतरतमभावसूचनार्थम् । दिव्यैः स्तवैस्तद्वद्भिस्तद्रूपैर्वा । साङ्गपदक्रमोपनिषदैरङ्गानि चोप-निषदश्चाङ्गोपनिषदमिति समाहारद्वन्द्वः । तेन द्वन्द्वाच्चुदषहान्तात्समाहार इति समासान्तोऽकारस्ततो बहुव्रीहिरिति । साङ्गोपनिषदां द्विज इति गीताभाष्यप्रमेयदीपिकोक्तेर्विज्ञेयोऽत्र विग्रहः । टीकायां च कृत्याभावादकार इत्येवोक्तम् । वस्तुतः स च टच्प्रत्यय इति ज्ञेयम् । सूत्रार्थस्तु चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच्प्रत्ययो भवति समासान्तः स चेत् । द्वन्द्वः समाहारे वर्तते नेतरेतर-योग इति प्रकृते तु अदन्तता । अङ्गानि चोपनिषदश्च तासां समाहारोऽङ्गोपनिषदं तेन सहिताः साङ्गोपनिषदा वोपसर्जनस्येति सहशब्दस्य सभावः । वेदैः ।

ननु हलन्तत्वाट्टापं चैव हलन्तानां यथा वाचा निशा दिशेत्यादेष्टाबन्ततामाश्रित्य बहुव्रीहौ कृते सुलभे रूपे सम्भवति, किमिति गुरुकल्पना टीकायामिति चेन्न । केवलनिर्वाह एव मार्गः प्राचीनप्रयोगेषु सत्सु । अत्रादन्तत्वेन विशिष्योक्तेर्विशेषशास्त्रत्वात् । टापं चेति पक्षश्च न सर्वजनीनः। अत एव शेखररेखा नैवमङ्गीकार्यमिति सम्भवतीति पक्षोऽयमादृत इति केचित् । तन्न । बहुविप्लवापत्तेः । तमपि पक्षं प्रकृत्यधिकरणे टापं चैव हलन्तानां यथा वाचा निशा दिशेति वचनाद्वाचयाऽऽरम्भणं यस्येति बहुव्रीहिरयमिति सोऽप्यत्राप्युपलक्षणीय इति वा ज्ञेयमिति दिक् । स्तुन्वन्ति विकरणव्यत्ययः । यद्वा ष्टु स्तुतावित्यस्यैवोवङादेशानन्तरमुकारवकारयोर्मध्ये नकारागमे वर्णागमनये सति रूपम् । सामगा गायन्ति । ध्यानावस्थितं चतत्तद्गतं च तेन । विशेषणयोरेव समासः । योगिनो मनसा यं पश्यन्ति । स्तुवन्तोऽपि सुरासुरगणाः सुराश्चासुराश्च सुरासुरं तस्य गणा यस्यान्तं न विदुस्तस्मै देवाय नमः ॥ १ ॥

पृष्टभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना

न्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।

यत्संस्कारकलानुवर्तनवशाद्वेलानिलेनाम्भसां

यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ २ ॥

पदरत्नावली

पृष्ठे भ्राम्यद् अमन्दो गरिष्ठो यो मन्दरगिरिस्तस्य ग्रावाणः, तेषामग्राणि, तैः कण्डूयनात् तेन निद्रालोर् निद्राशीलस्य । येषां श्वासानिलानां संस्कारास्तेषां कला लेशा-स्तदनुवर्तनवशाज् जलनिधेरम्भसां यातायातं न विश्राम्यति । ननु समुद्रक्षोभादेव तत्, न संस्कारवशात् तत्राह वेलेति । वेला क्षोभस्तस्य निभेन मिषेण ॥ २ ॥

सत्यधर्मीया

भ्राम्यन्यो मन्दरगिरिस्तस्य ग्रावाणस्तेषामग्राणि तेभ्यः कण्डूयनात्तज्जन्य-सुखविशेषान्निद्रालोः । स्पृहिगृहीत्यादिनाऽऽलुच् । निद्राशीलस्य कमठाकृतेः कूर्मस्य । यत्संस्कारकलानुवर्तनवशाद्येषां श्वासानिलानां संस्कारा उपर्युपर्यागमनरूपास्तेषां कला लेशास्ता-सामनुवर्तनं परिभ्रमणं तद्वशतयाऽततीति कम्पते सा च सा वेला च तत्क्षोभेन जनितो योऽनिल-स्तेन जलनिधेरम्भसामतन्द्रितमद्यापि न विश्राम्यति । तत्सृष्टाः श्वासानिला वः पान्तु । मया धीमन्दरतो विमथ्योक्तं योग्यतानुसारेणेत उत्तरं श्रुतवद्भिर्भवद्भिरपि तदवश्यमनुष्ठेयमिति पान्तु व इति तदनुबन्धं ध्वनयामास सूत इति ज्ञेयम् । ततो मध्ये किमसङ्गतमुक्तमिति परास्तम्

॥ २ ॥

पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने ।

दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥

पदरत्नावली

पुराणसङ्ख्याः, तासां सम्भूतिं समाहारं वा । अस्य श्रीभागवतस्य वाच्यं विषयः, प्रयोजनं दानं च । तस्य पाठादेश्च माहात्म्यं निबोधत ॥ ३ ॥

सत्यधर्मीया

पुराणसङ्ख्यायाः प्रस्तुतभागवतादिपुराणानां सम्भूतिः सम्भवः समहारो वा ताम् । अस्य भागवतस्य वाच्यं विषयः प्रयोजनं चेति ते । दानं तथा तन्माहात्म्यं पाठादेश्च माहात्म्यं निबोधत । अनेन स्वस्य विवक्षाऽस्तीति ध्वनयामास ॥ ३ ॥

ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टिकम् ।

श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥ ४ ॥

पदरत्नावली

त्रयोविंशत् त्रयोविंशतिः । चतुर्विंशतिसहस्राणि शैवकं शिवपुराणम्

॥ ४ ॥

सत्यधर्मीया

ब्राह्मं ब्रह्मपुराणं, पाद्मं पञ्चोनषष्ठिकं सहस्रम् । श्रीवैष्णवं विष्णुपुराणं त्रयोविंशत् त्रयोविंशतिसहस्रम् । तथा शैवकं शैवं च चतुर्विंशतिसहस्रम् ॥ ४ ॥

दशाष्टौ श्रीभागवतं नारदं पञ्चविंशतिः ।

मार्काण्डेयं नवाग्नेयं दशपञ्चचतुश्शतम् ॥ ५ ॥

पदरत्नावली

मार्कण्डेयं नव । वाह्नं त्विति वा पाठः । अग्निपुराणं दशपञ्चसहस्राणि चत्वारिशतानि ॥ ५ ॥

सत्यधर्मीया

श्रीभागवतं दश चाष्टावष्टादशसहस्रम् । नारदपुराणं मार्काण्डेयं पुराणं नवसाहस्रकम् । आग्नेयं दशपञ्चचतुःशतम् ॥ ५ ॥

चतुर्दश भविष्यं स्यात् तथा पञ्चदशानि च ।

दशाष्टौ ब्रह्मवैवर्तं लिङ्गमेकादशैव तु ॥ ६ ॥

सत्यधर्मीया

चतुर्दशसहस्रोपरिपञ्चचतुश्शतानि भविष्यम् । ब्रह्मवैवर्तं दशाष्टावष्टादश-सहस्रम् । लिङ्गं लिङ्गपुराणमेकादशसहस्रम् ॥ ६ ॥

चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।

स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥

कौर्मं सप्तदश ख्यातं मात्स्यं तच्च चतुर्दश ।

एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥

पदरत्नावली

स्कान्दं शताधिकैकाशीति सहस्रम् ॥ सौपर्णं गरुडपुराणम् एकोनविंशद् एकोनविंशतिः ॥ ७,८ ॥

सत्यधर्मीया

वराहं चतुर्विंशत्सहस्रम् । एकाशीतिसहस्रकं तथैकशतं सहस्रमाहत्य लक्षोपर्येकाशीतिसहस्रं स्कान्दमिति । वामनं दशसाहस्रम् । कौर्मं सप्तदशसहस्रं ख्यातम् । मात्स्यं चतुर्दशसहस्रम् । सौपर्णं गारुडमेकोनविंशत्सहस्रम् । ब्रह्माण्डं पुराणं द्वादशं तत्सहस्रम्

॥ ७,८ ॥

एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृतः ।

तत्राष्टादशसाहस्रं श्रीभागवतमिष्यते ॥ ९ ॥

पदरत्नावली

पुराणानां सन्दोहः समूहश् चतुर्लक्षसङ्ख्याक एव ॥ ९ ॥

सत्यधर्मीया

एवमुक्तरीत्या पुराणसन्दोहश्चतुर्लक्षस्तत्सङ्ख्यः । लिङ्गपुराणे च ।

तस्मात्सङ्क्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत् ।

चतुर्लक्षेण सङ्क्षिप्तं कृष्णद्वैपायनेन तु ।

ग्रन्थैकादशसाहस्रं कथितो लिङ्गसम्भवः ।

तथा–

लैङ्गमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तदित्युक्तेरितरत्र क्वचित्क्वचित्सङ्ख्याव्यत्यासो दृश्यते । यथासम्भवं चतुर्लक्षं क्वचिन्न्यौन्यं क्वचिदाधिक्यात्समीकार्य इत्येवम् । तथा न भागवतमात्रे व्यत्यस्तिरास्ते सङ्ख्याया इति सूचयितुं दशाष्टौ श्रीभागवतमित्युक्तत्वेऽपि तत्राष्टादशसाहस्रं श्रीभागवतमिष्यत इति पुनर्वचनं सेदं मुद्रणं कृतवानिति ज्ञेयम् ॥ ९ ॥

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।

स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम् ।

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ॥ १० ॥

हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ।

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।

वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ ११ ॥

पदरत्नावली

हरिलीलाकथानां व्रातः स एवामृतं तेनानन्दिताः सन्तः सुराश्च येन तत् । तन्निष्ठं तद्विषयम् ॥ ११ ॥

सत्यधर्मीया

नाभिपङ्कजे स्थिताय भवभीताय ब्रह्मणे भगवता पूर्वं कारुण्यात्सम्प्रकाशि-तम् । वैराग्याख्यानैः संयुतम् । हरिलीलाकथाव्रातामृतेन आनन्दिताः सन्तश्च सुराश्च येन तत् । आत्मनां जीवानामेकं ब्रह्म तच्च तत्तच्च । तस्य भावस्तत्त्वं तदेव लक्षणं यस्य तत्तथा । वेदान्त-सारमुपनिषद्रहस्यं यद्वस्त्वद्वितीयं तन्निष्ठं तद्विषयमिति वाच्यनिरूपणम् । अथ प्रयोजनमाह ॥ कैवल्यैकप्रयोजनमिति ॥ १०,११ ॥

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।

ददाति यो भागवतं स याति परमां गतिम् ॥ १२ ॥

पदरत्नावली

प्रौष्ठपद्यां भाद्रपद्याम् । हेमसिंहसमन्वितं स्वर्णसिंहासनारूढम् ॥१२,१३॥

सत्यधर्मीया

प्रोष्ठपद्यां भाद्रपदे तत्रापि पौर्णमास्यां हेमसिंहसमन्वितं तत्सिंहासनारूढम् । यद्वा हेमसिंहेन निष्टापिताष्टापदात्मना तच्छ्रेष्ठेन समन्वितम् । समनुभिर्दानदाने पठनीयमन्त्रवद्भिर् इतं वा भागवतं पुस्तकं यो ददाति स परमां गतिं याति ॥ १२ ॥

राजन्ते तावदन्यानि पुराणानि सतां गणे ।

यावन्न दृश्यते साक्षाच्छ्रीमद्भागवतं परम् ॥ १३ ॥

सत्यधर्मीया

यावत्साक्षान्मुख्यं परं श्रीमद्भागवतं न दृश्यते तावदन्यानि पुराणानि सतां गणे राजन्ते । एतद्दर्शने सर्वपुराणसारांशो विदितो भवति । तानि च पृथक् पृथगेकैकार्थपराणि नैवंविधानीति तत्रानादर इति ज्ञेयम् ॥ १३ ॥

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।

तद्रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १४ ॥

पदरत्नावली

तद्रस एवामृतं तेन तृप्तस्य ॥ १४ ॥

सत्यधर्मीया

तदेव विशदमाह ॥ सर्वेति । सर्ववेदान्तानां सारो यस्मिंस्तच्छ्रीमद्भागवत-मिष्यते । तद्रसो भागवतरस एवामृतं तेन तृप्तस्यान्यत्र क्वापि रतिर्न स्यात् ॥ १४ ॥

निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।

वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ॥ १५ ॥

सत्यधर्मीया

निम्नगानां नदीनाम् । इदं भागवतम् ॥ १५ ॥

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।

तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥ १६ ॥

सत्यधर्मीया

पुराणव्रातानां तत्सङ्घानाम् ॥ १६ ॥

श्रीमद्भागवतं पुराणममलं यद् वैष्णवानां प्रियं

यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।

यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं

तच्छृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ १७ ॥

पदरत्नावली

पारमहंस्यं परमहंसैः प्राप्यम् ॥ १७ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां

द्वादशस्कन्धस्य त्रयोदशोऽध्यायः ॥

सत्यधर्मीया

वैष्णवानां विष्णुभक्तानां यस्मिन्भागवते इष्यते । पारमहंस्यं परमहंस-योग्यमेकं मुख्यममलं ज्ञानं परं गीयते तत्साधनं गीयत इति । एकमेव ज्ञानं परमिति गीयत इति वा । अमलं स्वयमन्यत्तु ज्ञानविशेषणम् । नैष्कर्म्यं निष्कर्मा हरिस्तत्प्रीतिजनकं कर्मा-विष्कृतम् । अनेन नेह तत्स्वतन्त्रवाक्यं बहुलं किन्तु श्रुत्यनुसारिताऽस्य ध्वन्यते । विचारणं च युक्तिभिरनुचिन्तनम् । भक्त्या करणेन विमुच्येद्विमुच्येत संसारतः । अभक्त्या इति पञ्चम्यन्तम् । अभक्त्या विमुच्यते । भक्तिमान्भवतीति यावत् ॥ १७ ॥

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा

तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणे ।

योगीन्द्राय तदात्मनाऽथ भगवद्राताय कारुण्यत

स्तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १८ ॥

सत्यधर्मीया

येनायमतुलो ज्ञानप्रदीपः पुरा कस्मै चतुर्मुखाय । कस्मै देवाय हविषा विधेमेत्यृग्भाष्यटीकादिकमुदाहृत्य संज्ञायामपि सर्वनाम्नः स्मा इत्यादेशो व्युत्पादितः । कः किं कायं कस्मा इत्यादिवत् । कस्मै विभासित इति प्रश्नपरतयाऽपि योजनीयमिति सूचनं फलमेतस्येति ज्ञेयम् । उत्तरं च कम्बलवन्तं न बाधते शीतं कम्बलवन्तं न बाधते शीतमित्यादिवत्तदेवेति ज्ञेयम् । ब्रह्मणि ब्रह्मरूपोऽसावित्यादेस्तद्रूपेण येनेत्यन्वयः । मुनये नारदाय विभासितमित्यन्वयः । एवमुत्तरत्रापि । तद्रूपेण देवर्षीणां च नारद इत्यादेस्तद्रूपता हरेः । कृष्णाय वासिष्ठरूपाय तद्रूपिणे एवं तत्तद्रूपवते । योगीन्द्राय योगिनां भगवदवगमोपायवतामिन्द्रः श्रेष्ठस्तस्मै शुकाय । तेन तदा आयुर्बलावशिष्टं नासाधीष्ट साधनं मयेति मनोव्यथातो यत्कारुण्यं स्वोत्पन्नं तेन निमित्तेन भगवद्रातो विष्णुरातः परीक्षित्तस्मै सोपदेशस्तदानीमेवेति प्रागुक्तेरत्रानुक्तिः । तच्छुद्धं मुख्यमाह । मलयते धार्यत इति विमल मलमल्लधारण इति स्मरति । विशोकममृतम् । सत्यं परं धीमहीति तत्सम्पुटिकोपक्रमोपसंहारकालकृतेति मन्तव्यम् । सत्यं स्वतन्त्रम् । स्वातन्त्र्यमेव सत्यत्वं विष्णोरित्येकादशतात्पर्योक्तेः । परं सर्वोत्तमम् ॥ १८ ॥

नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।

य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ १९ ॥

सत्यधर्मीया

मुमुक्षवे कस्मा इति सामानाधिकरण्यम् । य इदं व्याचचक्षे तस्मै नमः

॥ १९ ॥

योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।

संसारसर्पदष्टं यो विष्णुरातमूमुचत् ॥ २० ॥

भवे भवे यथा भक्तिः पादयोस्तव जायते ।

तथा कुरुष्व योगेश नाथस्त्वं मे यतः प्रभोः ॥ २१ ॥

सत्यधर्मीया

ब्रह्मरूपिणे तद्विशेषसन्निधानपात्राय । शुकायेति लोकानां ज्ञापनार्थमनिर्वाहान्नामग्रहणम् । यः संसारसर्पदष्टं विष्णुरातमूमुचदुपदेशतः । तद्दंशनत एतन्मरणात्सर्पदष्टमित्युक्तिः । शुकं तदुपदेशविकस्वरभक्तिस्तस्य मनोनियन्त्रवतारत्वात्तमर्थयन्नमुमर्थं विज्ञापयति ॥ भवेभव इति । पदमेकम् । प्रतिजनि तव पादयोर्भक्तिर्यथा जायते तथा योगेश कुरुष्व । एतत्फलस्य त्वमेव मुख्यपात्रमिति दर्शयितुमात्मनेपदप्रयोगः । हे प्रभो यतस्त्वं मे नाथः ॥ २०,२१ ॥

नामसङ्कीर्तनं यस्य सर्वपापप्राणाशनम् ।

प्रणामो दुःखशमनस्तं नमामि हरिं परम् ॥ २२ ॥

इति श्रीभागवते महापुराणे पारमहंस्यां वैयासक्यामष्टदशसाहस्य्रां

संहितायां द्वादशस्कन्धे सूतोक्तौ त्रयोदशोध्यायः ।

सत्यधर्मीया

यस्य हरेर्नामसङ्कीर्तनं सर्वपापप्रणाशनं, यस्य प्रणामो दुःखशमनस्तं परं हरिं नमामि । प्रथमपद्यस्थं परपदमनूद्य हरिमिति विवृतमिति हृदयम् ॥ २२ ॥

मयाऽपि दयया व्याख्यां गुरवोऽकारयन्मम ।

त एव फलभाजोऽस्या अहं दर्वीसमो मतः ॥ १ ॥

मोचारुचिसिचा वाचाऽऽचार्याणां वचसो न मे ।

वचा रसान्वचः सङ्गोऽनुचितोऽच्युत चेत्यवत् ॥ २ ॥

अभिनन्दन्तु निन्दन्तु वचः सारल्यवेदिनः ।

केचित्स्वगौरवग्रस्ता उच्छ्रयानुच्छ्रयौ न नः ॥ ३ ॥

नीरसा गीरसौरस्यास्यां तेऽङ्घ्र्योरधरेऽर्पणात् ।

सद्वंशस्य यतो वेणुः सरसस्वरतामगात् ॥ ४ ॥

आचार्योपास्य हे वेदव्यास मत्सेवयाऽनया ।

तदन्तस्थ भव प्रीतो वीतदोष नमोऽस्तुते ॥ ५ ॥

न विद्वत्तौन्मत्यान्न च जगति विख्यातिकृतितो

न मोषायान्येषां सुरससरलानामपि गिराम् ।

गुरूणां कारुण्यादकृषि कृतिमेतत्सुकृतिनस्त

एवेमाः शुद्धा रचयितुमबद्धा अपि गिरः ॥ ६ ॥

दोषान्निष्कासयन्त्वत्र भूष्यं चेद् भूषयन्तु ये ।

दोषज्ञाश्च गुणज्ञास्ते समुत्सारितमत्सराः ॥ ७ ॥

गौरवो धुरि नः सम्यगिति जल्पेज्जनोऽधुरि ।

वदेत्किंवेति नो तान्तिर्नीते राजा धवासुतः ॥ ८ ॥

रामव्यासहयग्रीवनृसिंहा गुरुहृद्गताः ।

अनेनानेनसोऽस्मासु दयां तन्वन्तु सोदयाम् ॥ ९ ॥

यादवार्यैरिति ग्रन्थो यः प्रथां न समापितः ।

इत्यषष्टस्पष्टनं च स्पष्टनं सप्तमस्य तु ॥ १० ॥

आरब्धं न समस्तार्थकाशनेन प्रतिश्रवः ।

इति वारयतो यत्सन्मतचर्यो वदेदलम् ॥ ११ ॥

अस्मदीयो रचयिता पुरः सङ्कल्प ईदृशाम् ।

विन्दवो (ये) वदेयुस्ते किमन्यैरर्भकैर्नरैः ॥ १२ ॥

कुटिलं रटनं मे त्वं कृष्णेष्टं कलयेर्न चेत् ।

भज वा त्यज वा वक्रभ्रूशार्ङ्कास्त्र्यहिपालकान् ॥ १३ ॥

कण्ठोपकण्ठे लुटतान्माले मालेव तेऽर्पिता ।

वर्णोदीर्णाबद्धबद्धकुसुमानि त्यजन्ति किम् ॥ १४ ॥

॥ इति श्रीमत्परमहंसपरिव्राजकत्वाद्यनेकगुणसम्पन्नपदवाक्यप्रमाणपारावारपारङ्गतसर्वतन्त्रस्वतन्त्र-श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य श्रीमत्सत्यवरतीर्थकरकमलसञ्जातश्रीमत्सत्यधर्मयतिना कृतायां श्रीमद्भागवते पुराणे द्वादशस्कन्धटिप्पण्यां त्रयोदशोऽध्यायः ॥ १२-१३ ॥

॥ समाप्तोऽयं ग्रन्थः ॥

॥ श्रीकृष्णार्पणमस्तु ॥