नमो धर्माय महते नमः कृष्णाय वेधसे
॥ अथ द्वादशोऽध्यायः ॥
सूच उवाच–
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥
सत्यधर्मीया
समग्रं ग्रन्थं कृत्वा मन्दसंविदां क्व क्व किं किं प्रतिपादितमिति व्याकुलता न स्यादिति तदनुजिघृक्षुरेतदनुसन्धानेन सर्वस्य भागवतार्थस्य हृदि निरूढता च स्यादिति श्रीमान् वेदव्यासः सङ्कुच्य तदर्थसम्मतमेतदध्याये सङ्गृह्य प्रत्यपीपदिति सूतः शौनकादीन्प्रत्युपसंहार-समयोऽयमिति हरिं हर्षोत्कर्षतो नमस्यन्वक्ति ॥ नम इति । महते भगवद्भक्तिहेतुत्वात् । धर्माय निवृत्तात्मने मुख्यग्रन्थप्रतिपाद्य इति वेधसे ज्ञानात्मने कृष्णाय नम इति । ब्राह्मणेभ्यस्तद-परोक्षज्ञानिभ्यः । गतम् । सनातनान्धर्मान्वक्ष्ये । नादेन वेदादिना सह वर्तन्ते तत्प्रतिपाद्या इति यावत् । तान् यथोक्तं मोक्षधर्मे । वराहान्तर्भूमिविक्रीडिते, नादेन तेन महता सनातन इति स्मृतः । पद्मनाभो महायोगी योगाचार्यः स भूतराडिति । तत्र भगवांस्तत्र धर्म इत्येव विशेषः । हे धर्म धारकत्वाद्धर्म भगवन् । अयमहते न विद्यतेयमेन हतिर्यस्य नित्य इति यावत् । तस्मै कृष्णाय नम इत्यान्तरङ्गिको भावः ॥ १ ॥
एतद् वः कथितं विप्रा विष्णोश्चरितमद्भुतम् ।
भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥
पदरत्नावली
उपसंहारमुखेनानुसन्धातुं द्वादशस्कन्धात्मकभागवतार्थं संक्षिप्य कथयत्यस्मि-न्नध्याये एतद् व इत्यदिना । एतद् विष्णोश्चरितम् । तद्वक्तव्यत्वे हेतुमाह भवद्भिरिति । विस्मितं सूचयति नराणामिति । नराणां मध्ये सतां पुरुषाणां मध्ये श्रोतुमुचितम् । अनेनाधिकारसामर्थ्यं सूचितम् ॥ २ ॥
दुर्घटभावदीपिका
नराणां पुरुषोचितमित्यस्य नराणां मध्ये ये पुरुषा ज्ञानिनस् तेषां श्रोतुमुचितमित्यर्थः । एतेन नराणामुचितमित्यनेन पूर्णत्वात्पुरुषेत्येतद्व्यर्थमिति दूषणं परास्तम् । नराणां मध्ये ज्ञानिनामेवोचितं न त्वज्ञानिनामिति वक्तुं पुरुषेत्युक्तमिति स्वीकारणात् ॥ २ ॥
सत्यधर्मीया
हे विप्रा भवद्भिर्यत्पुरुषोचितमधिकारिणां श्रवणीयत्वेनोचितं वाच्यमित्यहं पृष्ट एतद्विष्णोर्विशिष्टमानवत्त्वतो वाऽविनाशित्वेन वाऽमराणां तथा स्वायम्भुवादिनराणां भगवद्भक्त्युत्तेजकतया तच्चरितश्रुतिरावश्यकीति तच्च वः कथितं बुभुत्साहेतूक्तिरद्भुतमिति ॥२॥
अत्र संकीर्त्यते साक्षात् सर्वपापहरो हरिः ।
नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥
पदरत्नावली
श्रोतव्यत्वे मुख्यहेतुमाह अत्रेति । अत्र श्रीभागवते । कस्मान्मुख्यत्वमत्राह सर्वेति । वृत्रादिसर्वपापहन्तृत्वमिन्द्रस्याप्यस्तीत्यत उक्तं नारायण इति । नायं साङ्केतिक-नारायण इत्याह हृषीकेश इति । हृषीकाणामीशो जीवोऽपि स्यादत आह भगवानिति । ऐश्वर्यादिगुणसमुद्रो हि भगवान् । एवं विधो नान्य इत्याह सात्वतां पतिरिति ॥ ३ ॥
सत्यधर्मीया
अत्र श्रीभागवते सर्वपापहरो हरिः साक्षान्मुख्यतया सङ्कीर्त्यते । तं विशेषयति ॥ भगवान् हृषीकेशो नारायण इति । स एवायमित्याह ॥ भगवान्सात्वतां पतिरिति । हे पुरुष वदेत्यहं पृष्टस्तत्कथितमित्यन्वयो वा ॥ ३ ॥
यत् तद् ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।
ज्ञानं च सदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥
पदरत्नावली
सगुणमेवोक्तं निर्गुणमतं नेत्याह यत् तदिति । जगतः प्रभवाप्ययकृद् यत् परं गुह्यं ब्रह्म तत् प्रोक्तम् । तद्विषयज्ञानं सतामुपाख्यानं येन तत् ॥ ४ ॥
सत्यधर्मीया
जगतः प्रभवाप्ययं प्रभवेन सहितोऽप्ययो यस्मात्तत् । प्रभवश्चाप्ययश्च प्रभवाप्ययं विप्रतिषिद्धं चैकवद्भावो वा । यत्परं गुह्यं ब्रह्म, परं ब्रह्मेति वा प्रोक्तम् । ज्ञानं सदुपाख्यानं, संत्युपाख्यानानि साधनानि यस्य तद् यस्मिंस्तद्वा । तथा विज्ञानसंयुतं च प्रोक्तं तदागतिप्रकार उक्त इत्यर्थः ॥ ४ ॥
भक्तियोगश्च व्याख्यातो वैराग्यं च तदाश्रयम् ।
पारीक्षितमुपाख्यानं नारदाख्यानमेव च ॥ ५ ॥
पदरत्नावली
सा भक्तिराश्रयो यस्य तत् तदाश्रयम् । अत्रेत्यतत् प्रतिवाक्यमनु-सान्धातव्यम् ॥ ५ ॥
सत्यधर्मीया
भक्तियोगस्तल्लक्षणोपायस्तदाश्रयं सा भक्तिराश्रयो यस्य तद्वैराग्यं चात्र प्रोक्तमिति व्याख्यात इति विपरिणतं सदन्वेति । इदं तु द्वादशस्कन्धीसाधारणम् । अथ तत्तत्स्कन्धविशेषप्रतिपादितार्थविशेषान्सङ्गृह्य वक्तुमारभते ॥ पारीक्षितमिति । नारदाख्यानं भागवतरचनविषये तद्बोधनरूपम् ॥ ५ ॥
प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षितः ।
शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥
सत्यधर्मीया
विप्रः शृृङ्गी तस्य शापाद्राजर्षेः परीक्षितो, परीक्षितो ब्रह्मर्षभस्य शुकस्य संवादश्चेति प्रथमस्कन्धार्थस्य सङ्ग्रहः ॥ ६ ॥
योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।
अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥
पदरत्नावली
योगधारणया अखण्डस्मरणलक्षणया । नारदाजयोर् नारदं ब्रह्मणोः । अवताराणामनुगीतं कथनम् । प्राधानिकः प्रकृतिसर्गः सिसृक्षुत्वविशेषः ॥ ७ ॥
सत्यधर्मीया
अथ द्वितीयस्य निरूपयति ॥ योगेति । अखण्डस्मरणरूपिण्या उत्क्रान्तिस्तथा नारदस्याजस्य ब्रह्मणश्च संवादः । अवतारानुगीतमवताराणामनुगीतं कथनं प्राधानिकः प्रधानस्य विराजः सर्ग इति द्वितीयस्य ॥ ७ ॥
विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।
पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥
सत्यधर्मीया
अथ तृतीयस्य । विदुरोद्धवसंवादः । तीर्थयात्रां कुर्वतो विदुरस्य बदरिकाश्रमं गच्छत उद्धवस्य च पथि संवादः । तथा क्षत्तुर्विदुरस्य मैत्रेयस्य च संवादः पुराणसंहिताश्रवणविषयः प्रश्नः महापुरुषस्य संस्थितिस्तूष्णीमवस्थानं लयलवे ॥ ८ ॥
ततः प्राकृतिकः सर्गः सप्त वैकृतिकास्तथा ।
ततो ब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः ॥ ९ ॥
पदरत्नावली
प्राकृतिकः प्रकृतिविकृतः । ते सप्त महदहङ्कारपञ्चभूतानीति । वैकृतिका इन्द्रियविषयाः । यतो यत्र ब्रह्माण्डे ॥ ९ ॥
सत्यधर्मीया
ततः प्राकृतिकः प्रकृत्युपादानको महदादिसर्गः सप्तैते वैकृतिका इन्द्रिय-विषया यतो यत्र ब्रह्माण्डे वैराजः पुरुषो वर्तते । ततो ब्रह्माण्डस्य सम्भूतिरुत्पत्तिः ॥९॥
कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः ।
भुव उद्धरणाऽम्भोधेर्हिरण्याक्षवधो यतः ॥ १० ॥
पदरत्नावली
पद्मसमुद्भवः, नाभेरिति शेषः । अम्भोधेर्भुव उद्धरणा उद्धारः ॥ १० ॥
सत्यधर्मीया
स्थूलश्चासौ सूक्ष्मश्च । विशेषणयोरेव समासः । गतिर्निरूपिता । पद्मस्य समुद्भवो नाभेर्यतो हिरण्याक्षस्य वधो जातः । यदानयनकाले जात इति यावत् । तस्या भुवोऽम्बोधेरासमुद्रादुद्धारणा युजन्तः यतो यत्र स्कन्ध इति वा ॥ १० ॥
ऊर्ध्वतिर्यगधः सर्गो रुद्रसर्गस्तथैव च ।
अर्धनारीनरस्याथ यथा स्वायम्भुवो मनुः ॥ ११ ॥
पदरत्नावली
ऊर्ध्वतिर्यगधः सर्गः देवतिर्यगसुरसृष्टिः । अर्धनारीनरस्य ब्रह्मणः सकाशात् स्वायम्भुवो मनुर्यथा उत्पन्नस्तथा ॥ ११ ॥
सत्यधर्मीया
ऊर्ध्वतिर्यगधः सर्गो देवतिर्यगसुराणां सृष्टिस्ततो रुद्रसर्गः । अर्धनारीनरस्य विधेः सकाशाद्यथा स्वायम्भुवो मनुर्जातस्तत्प्रकारश्च ॥ ११ ॥
शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा ।
सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥
पदरत्नावली
या स्त्रीणां मध्ये आद्या प्रकृतिः स्त्री सा शतरूपा च यथोत्पन्ना तथा (तत्प्रकारश्चेत्यर्थः) ॥ १२ ॥
सत्यधर्मीया
स्त्रीणां मध्ये योत्तमाऽऽद्या प्रकृतिः प्राथमिकी सृष्टिरेतद्द्वारेत्याद्या शतरूपा च यथोत्पन्ना प्रजापतेः कर्दमस्य धर्मपत्नीनां सन्तानः । नवब्रह्मसमुत्पत्त्यनन्तरमयं स्त्रीसन्तान इति ॥ १२ ॥
अवतारो भगवतः कपिलस्य महात्मनः ।
देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥
सत्यधर्मीया
भगवतो महात्मनः कपिलस्य देवहूत्याश्च सकाशादित्यप्यन्वयः । अवतारः । धीमता कपिलेन देवहूत्याश्च संवादः । न च सा स्त्री कथय कथमेतदुपदेशाधि-कृतिमतीत्यतोऽप्याह ॥ धीमतेति । धिया मता सम्मतेति । इति तृतीयस्य ॥ १३ ॥
नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।
ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥
पदरत्नावली
नवब्रह्मसमुत्पत्तिर् नवप्रजापतीनां मरीच्यादीनां सकाशात् सृष्टिः । तेषामुत्पत्तिर्वा ॥ १४ ॥
सत्यधर्मीया
नवब्रह्मसमुत्पत्तिर्नवब्रह्मणां मरीच्यादीनामुत्पत्तिस्तेभ्य उत्पत्तिश्च । प्राचीनबर्हिषो नारदस्य च संवादः । दक्षयज्ञेति प्रातिपदिकनिर्देशः । तस्मिन्ननशनं होमं विना जाते सति सतीविनाशनं जातमिति रुद्रकृतदक्षयज्ञविनाशनमित्यावृत्त्याऽऽन्तरङ्गिको भावो ज्ञातव्यः । इति चतुर्थस्य ॥ १४ ॥
नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः ।
नाभेस्ततोऽनुचरितमृषभस्य भरतस्य च ॥
द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ॥ १५ ॥
सत्यधर्मीया
अथ पञ्चमस्य । प्रैय्यव्रतचरितम् । ऋषभस्य भरतस्य तत्पुत्रस्य गिरिनद्युपवर्णनमित्यत उत्कृत्योपवर्णनमित्येतद्द्वीपवर्षसमुद्राणामित्यनेनान्वेतव्यम् ॥ १५ ॥
ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ।
दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः ॥ १६ ॥
सत्यधर्मीया
ज्योतिश्चक्रं तन्मण्डलं पातालनरकस्थितिश्चोपवर्णितेति । इति पञ्चमस्य । अथ षष्ठस्य । प्रचेतोभ्यो नवभ्यो दक्षस्य जन्म तत्पुत्रीणां सन्ततिरश्विन्याद्याश्च ताः ॥१६॥
यतो देवासुरनरास्तिर्यङ्नगखगादयः ।
त्वाष्ट्रस्य जन्म निधनं पुत्रयोश्च दितेर्द्विजाः ॥ १७ ॥
पदरत्नावली
यतः सन्ततेर्देवासुरनरादय आसन् ॥ १७ ॥
सत्यधर्मीया
यतस्तत्सन्ततेर्देवासुरनरास्तिर्यङ्नगखगादयोऽभूवन् । त्वाष्ट्रस्य सतो वृत्रस्य जन्म तथा निधनं चेति । अथ सप्तमस्य । दितेः पुत्रयोर्हिरण्याक्षहिरण्यकशिपोः ॥ १७ ॥
दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मनः ।
मन्वन्तरानुचरितं गजेन्द्रस्य विमोक्षणम् ॥ १८ ॥
पदरत्नावली
मन्वन्तरानुचरितं मन्वन्तरराजानुचरितम् ॥ १८ ॥
सत्यधर्मीया
महात्मनो दैत्येश्वरस्य प्रल्हादस्य चरितमिति । अथाष्टमस्य । मन्वन्तरानु-चरितं स्वायम्भुवादयश्च ते ॥ १८ ॥
मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ।
कौर्मं मात्स्यं नारसिंहं वामनं च जगत्पतेः ॥ १९ ॥
क्षीरोदमथनं तद्वदमृतार्थं दिवौकसाम् ।
देवासुरमहायुद्धं राजवंशानुकीर्तनम् ॥ २० ॥
इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ।
इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ॥ २१ ॥
पदरत्नावली
तारोपाख्यानं ताराया देव्या उपाख्यानम् ॥ २१ ॥
दुर्घटभावदीपिका
दिवौकसाममृतार्थं तद्वदमृतवत्क्षीरोदमथनं कीर्तितमिति ॥ अयं भावः । दिवौकसाममृतार्थं क्षीरोदमथनं कृतम् । तेनामृतं चोत्पन्नमिति कीर्तितमिति । एतेन तद्वदित्येतद्व्यर्थमिति दूषणं निरस्तम् । क्षीरोदमथनं कीर्तितमित्येवोक्ते क्षीरोदमथनमेवोक्तम् । क्षीरोदमथनेनामृतमुत्पन्नमिति नोक्तमिति भ्रान्तिः स्यात् । तन्निवारणार्थमुभयमुक्तमित्यर्थलाभार्थं तद्वदित्युक्तमित्यभ्युपगमात्
॥ २० ॥
सत्यधर्मीया
हयशिर एवादिर् येषां त इति विग्रहः । शिरोवाची शिरोदन्तो रजोवाची रजस्तथा । निचकर्त शिरा द्रौणिरर्थाः पादरजोपमा इत्यादेरकारान्तः पुल्लिङ्गः शिरःशब्दः । कौर्मं चरितमिति वामनपर्यन्तमन्वेति । दिवौकसाममृतार्थं क्षीरोदमथनं देवासुरस्य महायुद्धमिति । अथ नवमस्य । राजवंशानुकीर्तनम् । ताराया उपाख्यानं चन्द्रबृहस्पतिकलहात्मकम्
॥ १९-२१ ॥
सूर्यवंशानुकथनं शशादाद्या नृपादयः ।
सौकन्यमथ शार्यातं ककुत्स्थस्य च धीमतः ॥ २२ ॥
सत्यधर्मीया
सौकन्यं कन्याचरितम् । अद्भुतत्वादाश्चर्यवत्त्वात्पृथगुक्तिः । ककुत्स्थस्य कर्म नाम ॥ २२ ॥
खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ।
कोसलेन्द्रस्य चरितमद्भुतं किल्बिषापहम् ॥ २३ ॥
सत्यधर्मीया
कौसलेन्द्रस्य रामस्य ॥ २३ ॥
निमेरङ्गपरित्यागो जनकानां च सम्भवः ।
रामस्य भार्गवेन्द्रस्य निःक्षत्रीकरणं भुवः ॥ २४ ॥
सत्यधर्मीया
निमेरङ्गपरित्यागो वसिष्ठशापिनो, भार्गवेन्द्रस्य रामस्य ॥ २४ ॥
ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ।
दौष्यन्तेर्भरतस्यापि शन्तनोस्तत्सुतस्य च ॥ २५ ॥
पदरत्नावली
सोमवंशोद्भवस्यैलस्य इलापुत्रस्य चरितम् ॥ २५ ॥
सत्यधर्मीया
तत्सुतो भीष्मः । ऐलस्येलासम्बन्धिनः ॥ २५ ॥
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ।
यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ॥ २६ ॥
वसुदेवगृहे जन्म तस्य वृद्धिश्च गोकुले ।
तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ॥ २७ ॥
सत्यधर्मीया
यत्र यदुवंशे कृष्णाख्यो जगदीश्वर इति । अथ दशमस्य । अपाराण्य-नन्तान्यपगता अरा येभ्यस्तानि वा । दोषारश्छिद्र इत्यादेः । कीर्तितानि यथाशक्ति
॥ २६-२७ ॥
पूतनासुपयःपानं शकटोच्चाटनं शिशोः ।
तृणावर्तस्य निष्पेषस्तथैव बकवत्सयोः ॥ २८ ॥
सत्यधर्मीया
पूतानासुभिः सह पयःपानमसवश्च पयश्चासुपयांसि तयोस्तेषां पानम् । शिशोस्तत्कर्तृकम् ॥ २८ ॥
धेनुकस्य सह भ्रातुः प्रलम्बस्य च संक्षयः ।
गोपानां च परित्राणं दावाग्नेः परिसर्पतः ॥ २९ ॥
सत्यधर्मीया
सहभ्रातुर्भ्रात्रा बलेन सहितः सहभ्राता शिशुस्तस्य सकाशाद्धेनुकस्य प्रलम्बस्य च संक्षयः । छान्दसत्वान्न धृत इति कप्रत्ययो न भवति वैवक्षिकपूज्यताविवक्षया वा न कप् । यद्वा सहभ्रातुरिति छेदः पञ्चमी तृतीयार्थे । भ्रात्रा बलेन सह शिशोः सकाशाद् द्वयोः सङ्क्षयः । धनेन द्वयोर्हन्ता हलधर इति पृथा वृथा नासीदिव मुख्यतो हन्ता कृष्णः पदस्तूपसर्जनतयेति सूचितं भवति । परिसर्पतो दावाग्नेः ॥ २९ ॥
दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् ।
व्रतचर्या च कन्यानां यत्र तुष्टो व्रतैः प्रभुः ॥ ३० ॥
पदरत्नावली
यत्र व्रतयचर्यायाम् ॥ ३० ॥
सत्यधर्मीया
महाहेरजगरात् । यत्र यासु ॥ ३० ॥
प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ।
गोवर्द्धनोद्धारणं च शक्रस्य सुरभेरथ ॥ ३१ ॥
यज्ञाभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ।
शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिनः ॥ ३२ ॥
पदरत्नावली
यज्ञः पूजा, अभिषेकस् तयोर्द्वन्द्वैक्यम् ॥ ३२ ॥
सत्यधर्मीया
विप्राणामन्नमप्रयच्छताम् । यत्र सुरभेः शक्रस्य चाभिषेकः कृष्णस्य तत्कर्मकः । दुर्बुद्धेरिति त्रिकान्वयि ॥ ३१,३२ ॥
अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ।
व्रजस्त्रीणां विलापश्च मधुरालोकनं ततः ॥ ३३ ॥
सत्यधर्मीया
पश्चादुत्तरप्रस्थानं प्रयाणं, मधुराया विलोकनम् ॥ ३३ ॥
गजमुष्टिकचाणूरकंसादीनां तथा वधः ।
मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ॥ ३४ ॥
दुर्घटभावदीपिका
मृतस्य सूनोः सान्दीपनेर् गुरोः पुनः पुर आनयनं कीर्तितमिति । अत्र पुर इति गुरुपुत्रस्य पुरोवृत्तित्वोक्त्या पुरोवृत्तिर्घटादिवदर्थक्रियाकारित्वात्कृष्णेन प्रदर्शितो गुरुपुत्रः सत्य एव न तु मायाकल्पित इति सूचयति । एतेनैकवारमेव मृतगुरुपुत्रानयनस्य कृष्णेन कृतत्वात्पुनरित्युक्तमिति दूषणं निरस्तम् । एतेनैव पुर इति वक्तव्यं पुनरिति कथनमयुक्तमिति दूषणस्यानवकाशः । स्वातन्त्र्ये व्यत्यय इति वचनानुसारेण भगवतः स्वातन्त्र्यज्ञापनार्थं वर्णव्यत्ययमङ्गीकृत्य पुनरित्युक्तमिति स्वीकरणात् ॥ ३४ ॥
सत्यधर्मीया
गजः कुवलयापीडः । कंसादीनामादिपदेन तद्भ्रातरोऽन्ये च तदेतदन्तरा हता ग्राह्याः । सान्दीपनेर् गुरोः सूनोः सूनूनां पुनरानयनम् ॥ ३४ ॥
मधुरायां निवसता यदुचक्रस्य यत् प्रियम् ।
कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥
सत्यधर्मीया
यदुचक्रस्य तन्मण्डलस्य ॥ ३५ ॥
जरासन्धसमानीतसैन्यस्य बहुशो वधः ।
(घा)पातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥
सत्यधर्मीया
बहुशो बहुवारं यवनेन्द्रघातनं मुचकुन्दातः ॥ ३६ ॥
आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।
रुग्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥
सत्यधर्मीया
शक्तस्वशक्तेः पारिजातस्यांशत आदानं सुरालयादित्युभयान्वयि । आदानमिति सुधर्माया इत्यनेनाप्यन्वेति । रुक्मिण्या हरणम् । पदैक्य आहरणं च ॥३७॥
हरस्य जृम्भृणं युद्धे बाणस्य भुजकृन्तनम् ।
प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥
सत्यधर्मीया
युद्धे जृम्भणास्त्रेण जृम्भणं तथा बाणस्य भुजकृन्तनम् । गतम् । कर्तनमिति वर्तरिः सरला । प्राग्ज्योतिषपतिर्नरकः ॥ ३८ ॥
चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः ।
शम्बरो द्विविधः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥
सत्यधर्मीया
पञ्चजनादयो दैतेयाः ॥ ३९ ॥
माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।
भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान् ॥ ४० ॥
पदरत्नावली
दाहनं दहनम् ॥ ४० ॥
सत्यधर्मीया
दाहनं सुदर्शनाग्निना इति दशमस्य ॥ ४० ॥
विप्रशापापदेशेन संहारः स्वकुलस्य च ।
वसुदेवस्य संवादो नारदेन सुरर्षिणा ॥ ४१ ॥
सत्यधर्मीया
अथैकादशस्य । पाण्डवान्निमित्तीकृत्य हेतून्विधाय विप्रस्य साम्बादि-वञ्चितस्य शापापदेशस्तद् व्याजस्तेन । एतेन स्वेच्छैव तत्र निमित्तमिति द्योत्यते ॥ ४१ ॥
उद्धवस्य च संवादो वासुदेवस्य चाद्भुतः ।
यत्रात्मविद्या ह्यखिलाः प्रोक्ता धर्मविनिर्णयाः ।
ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥
पदरत्नावली
यत्रोद्धववासुदेवसंवादे आत्मविद्याः परमात्मविद्या अखिला अनुर्वरित-त्वेनोक्ताः । वर्णाश्रमधर्मविनिर्णयश्चोक्तः ॥ ४२ ॥
सत्यधर्मीया
यत्र संवादे आत्मयोगानुभावतो मर्त्यस्य लोकस्य परित्यागः । इत्येकादशस्य ॥ ४२ ॥
युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।
चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥
पदरत्नावली
युगलक्षणं तदनुरूपा वृत्तिश्च । उपप्लवो विनाशः । राजसादिभेदेनोत्पत्तिस् त्रिविधा, प्राकृतिकी नैमित्तिकी नित्या चेति वा ॥ ४३ ॥
सत्यधर्मीया
अथ द्वादशस्य । युगलक्षणं तद्युगानुसारिणी वृत्तिश्च । नृणां चतुर्विधो नित्यनैमित्तिकप्राकृतिकात्यन्तिकाश्चेति चतुर्विधः प्रलयः । प्राकृतिकी नैमित्तिकी नित्या चेति त्रिविधोत्पत्तिः ॥ ४३ ॥
देहत्यागश्च राजर्षेर्विष्णु(दत्त)दूतस्य धीमतः ।
शाखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथाः ॥ ४४ ॥
पदरत्नावली
विष्णुदत्तस्य परीक्षितः ॥ ४४ ॥
सत्यधर्मीया
विष्णुदूतस्य विष्णुरातस्य राजर्षेः परीक्षितः । रुद्रवरतः शाखाप्रणयनं तदनुसारिपुराणप्रणयनं वटशाखाप्रदर्शनादिप्रणयनं वा तस्य सत्कथाः ॥ ४४ ॥
महापुरुषविन्यासः सूर्यस्य जगदात्मनः ।
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः ॥ ४५ ॥
पदरत्नावली
महापुरुषविन्यासः महापुरुषस्याङ्गोपाङ्गादिस्थितिविशेषः । सूर्यस्य स्थितिश्च । इति समाप्तिपर्यन्तं सर्वमुक्तम् ॥ ४५ ॥
सत्यधर्मीया
महापुरुषास्याङ्गोपाङ्गस्थितिकथनं जगदात्मनः सूर्यस्य विन्यासः । हे द्विजश्रेष्ठा यदहं पृष्टोऽस्मि व इति चोक्तम् ॥ ४५ ॥
लीलावतारकर्माणि कीर्तितानीह सर्वशः ।
पतितः स्खलितो वाऽर्तः क्षुत्वा वा विवशो ब्रुवन् ।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् ॥ ४६ ॥
पदरत्नावली
क्षुत्वा क्षुतं कृत्वा ॥ ४६ ॥
सत्यधर्मीया
स्वोक्तमनूद्यास्य ग्रन्थस्यावश्यश्राव्यताऽत्रोक्तानामर्थानामन्यत्र दुर्मिलत्वादिति कैश्चित् श्लोकैः सूत आह ॥ लीलावतारेति । इहास्मिन्भागवते सर्वशः कीर्तितानि । अनेन तत्प्रसक्तं चान्यदिति सूच्यते । क्षुतं कृत्वा विवशो हरये नम इत्युच्चैर्ब्रुवन्सर्वपातकान्मुच्यते । किञ्च कीर्तितो योऽनीहो निष्कामः स इव सर्वशः स्वयोग्यसुखोऽपि जात इत्यर्थः । एवमुच्चैर्महात्मभिः प्रोच्यत इति वा ॥ ४६ ॥
संकीर्त्यमानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥
पदरत्नावली
अतिशयितो वातो ऽभ्रं सनीरं नीरदमिव ॥ ४७ ॥
सत्यधर्मीया
अनन्तो भगवान्सङ्कीर्त्यमानः श्रुतानुभावस्तैस्तेषां पुंसां चित्तं प्रविश्य व्यसनं विगतमेतदितरस्मादसनं पराकृतिर्यस्य तादृगपि व्यसनं दुःखं, दुःखादिपदमनिबध्नानो निबध्नानश्चेदं पदमिदमर्थतामपि तस्य कटाक्षितवानिति ज्ञेयम् । अशेषं विधुनोति । तत्र दृष्टान्तमाचष्टे ॥ यथेति । यथाऽर्कस्तमोऽन्धकारं विधुनोति, यथा वाऽतिवातोऽभ्रं सनीरं नीरदम् । प्रथमदृष्टान्ते स्वत आगच्छत्तमोविनाशकतांशुमत इव दुःखदाननिदानता नास्तीश्वरस्येति भातीत्युदञ्चिता-रुचिस्तद्घटकमिव विघटकं च दृष्टान्तमुखेन सूचितमिति ज्ञेयम् । तर्ह्यैतेनैवालं किं प्रथमनिदर्शनेनेति चेत् । पुनस्तद्घटना नास्ति स्वरूपध्वंस एवं चेद्भायादिति तदावश्यकतेति तदुक्तिरिति मन्तव्यम् । प्राक्तन्यरुचिश्च मन्दसंविद्विवक्षयेति ज्ञेयम् । योऽर्को गिरिगुहादिध्वान्तं न निवर्तयतीत्यपरितोषा-द्दृष्टान्तान्तरमाहेत्यवतारयाञ्चक्रुस्तत्रातिवातं मेघविघटकमेव व्यजानन्निति मन्तव्यम् । किञ्च प्रविश्य चित्तं विधुनोतीत्युक्त्या प्रसादोन्मुखनिवेशकृतं व्यसननिरसनमिति लभ्यते । तेन निदर्शनेऽपि तरणिकिरणसंस्पर्शो यत्र तत्रैवान्धकारपराकार इति च । ततो गिरिगुहादिध्वान्तं न निवर्तयतीत्य-परितोषाद्दृष्टान्तान्तरमाहेति न परितोषावहम् । किञ्च भगवानपि भक्ताभक्तसाधारण्येन व्यसनविधूननं तनुयात् । न च तत्सम्भवति । उक्तं च दशम उत्तरार्धे । वायुर्यथा घनानीकं तृणतूलरजांसि च । संयोज्य क्षिपते भूयस्तथा भूतानि भूतकृदिति । बन्धको भवपाशेन भवपाशाच्च मोचक इत्यादेः । अर्कोऽलं कं यस्येत्यृग्भाष्येऽर्कमर्किण इत्येतद्व्याख्यावसरे तथैकादशतात्पर्येऽभ्रं भूताभिभरणादिति चोक्तेर्भगवद्विशेषणे चेति ज्ञेयम् ॥ ४७ ॥
मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद् भगवानधोक्षजः ।
तदेव सत्यं तदु हैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥ ४८ ॥
तदेव पुण्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नृणां यत्रोत्तमश्लोकयशोऽनुगीयते ॥ ४९ ॥
पदरत्नावली
अधोक्षजो भगवान् याभिर्गीर्भिर्न कीर्त्यते ता गिरोऽसत्कथा मृषा निष्फलाः । असतीरसत्योऽमङ्गलाः । यद्वचो भगवद्गुणोदयं तदेव सत्यं यथोक्तम् ॥ पुनरपि स्तौति तदेवेति । तदेव पुण्यं पुण्यकरं रुचिरं सुन्दरं, महानुत्सवो येन तत् तथा ॥ ४८,४९ ॥
सत्यधर्मीया
यद्याभिर्यासु गीर्भिर्गीषु वा भगवानधोक्षजो न कथ्यते ता असतीरसत्यः । तदसत्त्वे निमित्तमसत्योऽमङ्गलाः कथा यासु ता इति मृषा न फलदा इति मोघाः । यत्र चोत्तम-श्लोकयशोऽनुगीयते तदेव सत्यमुक्तयुक्तफलद इति मङ्गलम् । उहैवेति निश्चयनायोक्तस्य निपातत्रयम् । अखण्डो वा सः । पुण्यं पुण्यकरं भगवद्गुणानामुदयो यस्मिंस्तन्महानुत्सवो येन तन्नृणामधिकारिणाम् ॥ ४८,४९ ॥
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं यदि कर्हिचिद् वदेत् ।
तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥
पदरत्नावली
न यद्वच इत्यादिश्लोकत्रयं व्याख्यातार्थम् ॥ ५० ॥
सत्यधर्मीया
यर्हिकर्हिचिदपि यद्वचो हरेर्यशो न वदेत्तच्चित्रपदं प्रासानुप्रासालङ्कारादि-सहितानीति चित्राणि पदानि यस्मिंस्तत्सदपि ध्वाङ्क्षतीर्थं काकसेवितं तीर्थं तद्यथाऽसेव्यं तथेदमपि हंससेवितं मानसं तत्समं न साधुभिर्न सेवितं तत्सेवितं नेति क्रमादर्थः । यत्राच्युतस्तत्कथा च तत्रैवामलाः साधव इति ॥ ५० ॥
स वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥५१॥
सत्यधर्मीया
अनन्तस्य यशोङ्कितानि नामानि पद्यानि साधवः शृृण्वन्ति तथा गायन्ति गृणन्ति तानि यस्मिन्प्रतिश्लोकमबद्धवत्यप्यशब्दशुद्धिमत्यपि वर्तते । स एव जनताघविप्लवः स एव च वाग्विसर्गः परिमितोऽप्यपरिमितार्थद इति वाग्विसर्गः । वचो वदेदिति मिथ्याशब्दोऽ-निर्वचनीयं वदतीतिवत्करणे कर्तृत्वोपचारेणेति मन्तव्यम् ॥ ५१ ॥
नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ ५२ ॥
सत्यधर्मीया
ननु भक्तिरावश्यकी येन तदर्थं भगवन्माहात्म्यवर्णनमावश्यकं स्यात्तदभावेऽपि मोक्षहेतुतया श्रुत्यादिसिद्धाभ्यां भगवत्स्वरूपज्ञाननिवृत्तकर्मभ्यामेव सन्तोष्टव्यं मोक्षसम्भवा-दित्याशङ्क्य भक्त्यभावे न ताभ्यां स इत्याह ॥ नैष्कर्म्यमिति । ज्ञानमपरोक्षज्ञानं नेत्याह ॥ परोक्षज्ञानमिति । न शोभते न मुक्तिं साधयति । अपरोक्षप्रेक्षाऽग्रहणे बाधकमाह ॥ अपरोक्षज्ञानमिति । अच्युतभाववर्जितमिति ज्ञानस्य भक्त्यभावेऽप्युत्पत्तिरुच्यते । तच्च नापरोक्षज्ञानविवक्षायामुपपद्यते । तस्य भक्तिं विनाऽसम्भवात् । परोक्षज्ञानं तु शास्त्रादिना भक्तिहीनानामपि सम्भावितमिति भावः । भक्तेरपरोक्षज्ञानसाधनत्वे प्रमाणमाह ॥ यस्य देव इत्यादिना । एष परमात्मा यं भक्तत्वेन वृणुते तस्य स्वां तनुं विवृणुते तं प्रति प्रकाश-यतीत्यर्थः । वासुदेवशरणास्तद्भक्ता विदुर् अपरोक्षतया ज्ञातवन्तः ।
ततश्चायं श्लोकार्थः । अलं निरञ्जनं संपादनकाले दोषानापादकं ज्ञानं हरिविषयकं परोक्षज्ञानं नैष्कर्म्यमपि निष्कर्मणो मोक्षस्य जनने योग्यमप्यच्युते भावो भक्तिस्तेन वर्जितं चेन्न शोभते न मोक्षजनकं भवति । तदा शश्वदभद्रं साधनकाले दोषाविनाभूतम् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता इति वचनात् । कर्म । चशब्द एवार्थः । ईश्वरे नैवार्पितं भक्तिपूर्वकं भगवदर्पणं विना कृतं न शोभत इति । कुतः पुनः किमु वक्तव्यम् । ज्ञानं कर्मापेक्षयोत्तमत्वेन प्रसिद्धं तदपि यदा भक्तिव्यतिरिक्तं चेन्न मुक्तिहेतुस्तदा तदवरं कर्म भक्त्यभावे मोक्षजनकं न भवेदिति किं वक्तव्यमिति भावः । नन्वकामनया कृतत्वादेतन्मोक्षसाधनमित्यत उक्तं यदपीति । यद्यप्यकारणं फलानुसन्धानादिरूपकारणरहितं तथाऽपीति यादवाचार्यैः प्रथमस्कन्धस्थोऽयं-(१.५.१२) व्याख्यातः सतात्पर्यं श्लोकः ॥ ५२ ॥
यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु ।
अविस्मृतिः श्रीधरपादपद्मयोर्गुणानुवादश्रवणादिभिर्हरेः ॥ ५३ ॥
पदरत्नावली
ननु वर्णाश्रमाचारादिना निःश्रेयसं स्यात्, वर्णाश्रमाचारयुतो गृहस्थोऽपि विमुच्यत इत्यतोऽच्युतभावेन किं तत्राह यश इति । यद्यच्युतभाववर्जितस्तर्हि वर्णाश्रमाचार-तपःश्रुतादिषु परः परिश्रमः यशःश्रियामेवार्थे न त्वात्यन्तिकसिद्धये भवति । नन्वच्युतभावः केन स्यादत्राह अविस्मृतिरिति । गुणानुवादश्रवणादिभिरुद्भूताच्युतभक्तेः पुंसः श्रीधरपाद-पद्मयोरविस्मृतिर् निरन्तराभ्यासलक्षणं स्मरणं भवति ॥ ५३ ॥
सत्यधर्मीया
ननु वर्णाश्रमाचारयुतो गृहस्थोऽपि विमुच्यत इत्यादेर्विनाऽप्यच्युतभावं भवच्युतिर्भवेद्वर्णाश्रमाचारादिनेत्यत आह ॥ यश इति । वर्णाश्रमाचारतपःश्रुतादिषु परिश्रमः स ऐहिकानां यशःसंयमादीनामेव भवेन्न त्वात्यन्तिकसिद्धये स्यात् । अतः स परः परिश्रमः श्रममात्रं लपितफलाकलनादित्यप्यर्थः । तर्हि सा केन लभ्येत्यत आह ॥ अविस्मृतिरिति । हरेर्गुणानुवादश्रवणादिभिः कारणैः श्रीधरे रमासमाश्रयाविति पादपद्मे तयोः । यद्वा श्रीधरेति लुप्तषष्ठीकं पदं तस्येति सद्धरिविशेषणम् । अविस्मृतिर्जायते सन्ततं तत्स्मृतिर्भवति ॥ ५३ ॥
अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि शमं तनोति च ।
सत्वस्य शुद्धिं परमां च भक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥
पदरत्नावली
सा कर्तुः किं करोति फलमित्याह अविस्मृतिरिति । सत्वस्यान्तःकरणस्य
॥ ५४ ॥
सत्यधर्मीया
तामनूद्य तत्कार्यमाह । कृष्णपदारविन्दयोरविस्मृतिरभद्राणि क्षिणोति नाशयति । शमं शान्तिं तनोतीति । अन्तःकरणं हि सत्त्वं तस्य शुद्धिं परमां च ऋद्धिं समृद्धिं तथा भक्तिं विज्ञानविरागयुक्तं ज्ञानं च तनोतीत्यन्वयः ॥ ५४ ॥
यूयं द्विजाग्य्रा बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् ।
नारायणं देवमदेवमीशमबाह्यभावा भजताधिवेश्य ॥ ५५ ॥
पदरत्नावली
यूयमबाह्यभावा अनन्यभक्ता ओवं देवेभ्योऽन्यं नारायणं देवमात्मनि मनस्यधिवेश्य भजतेति यद् यस्मात् तस्माद् भूरिभागा अतिभाग्यवन्तः ॥ ५५ ॥
सत्यधर्मीया
भोः सूत अस्मान्किं मध्ये गणयसि गुणिन्नित्यतो भणति ॥ यूयमिति । हे द्विजाग्य्रा नृलोके यूयं भूरिभागा महादैववन्तो बत हर्षः । यद्यतः शश्वत्सदाऽऽत्मनि मनस्यखिलात्म भूतमखिलस्वामिनम् ओवं स्वदयोदयमतिहायागम्यम् । दिवुक्रीडाविजिगीषा-द्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्विति स्मरणात् । देवं स्तुत्यं, देवानां मा सम्पज्ज्ञानं वा यस्मात्स चासौ देवश्चेति तमिति पदमेकं वा । ईशं नारायणमधिवेश्याबाह्यभावा अनन्यभक्ताः सन्तो भजत अभजतेति । अबाह्या बाह्यार्थाविषयिणी भा ज्ञानं येषां ते । बाह्या भा आदौ चक्षुरादावधिवेश्येत्यनुक्तसमुच्चयार्थो वाशब्दः । तं तद्विषयं विधायेति यावत् । वा इवार्थे च समुच्चय इति विश्वः । यदभजत ततो भूरिभागा बतेति वा ॥ ५५ ॥
अहं च संस्मारित आत्मतत्वं श्रुतं पुराणं परमर्षिवक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः सदस्यृषीणां महतां च शृण्वताम् ॥ ५६ ॥
पदरत्नावली
अहं च भूरिभाग इति ध्वनयति अहं चेति । भवद्भिरहं चात्मतत्वं संस्मारितः । ममापीदमात्मतत्वमाम्नायतः प्राप्तमित्याह श्रुतमिति । प्रसङ्गोऽप्यनुकूल इत्याह प्रायेति ॥ ५६ ॥
सत्यधर्मीया
चाद्भूरिभाग इत्यन्वेतीति सूचयति । अहं च महाभागः । तत्र तन्त्रमात्म-तत्वं स्मारित इति । युष्मत्प्रश्नमुखतः । त्वं चैतत्तत्त्वं क्व श्रुतवानित्यत आह । परमर्षिः शुकस्तद्वक्त्रात् । तव तस्य च क्व वा सङ्गम इत्यतोऽवगमयति । महतां च ऋषीणां शृृण्वतां परीक्षितो नृपतेः प्रायोपवेशे तत्समय इति । सदसि श्रुतम् । प्रायेत्युक्ताभिप्रायकम् ॥५६॥
एतद् वः कथितं विप्रा (विष्णोः) कथनीयोरुकर्मणः ।
माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥
सत्यधर्मीया
कथनीयानि उरूणि कर्माणि यस्य तस्यैतच्चरितं वः कथितं मया किञ्चिदेव वासुदेवमाहात्म्यमुक्तं वस्तुतस्तदतिमहदित्युरुपदेनैतदित्याद्यनेकवचनेन च सूचयति । सर्वाण्यशुभानि विनाशयतीति तेषां नाशं यस्माद्येन वा तदिति वा ॥ ५७ ॥
यश्च संश्रावयेन्नित्यं यामं क्षणमनन्यधीः ।
श्रद्धावान् यश्च शृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥
पदरत्नावली
यामं क्षणं च । अन्यानन्तरितार्था द्वितीया । आत्मानं मनः ॥ ५८ ॥
सत्यधर्मीया
यश्च श्रद्धावान्नित्यं तथा यामं क्षणं वा तत्रापि व्यापारान्तरव्यापृतता नेत्यत्यन्तसंयोगविवक्षया द्वितीया । अनन्यधीरिति श्रद्धावत्पदवच्छ्रावयितृश्रोत्रित्युभयान्वयि । यश्च शृृणुयान्नित्यं यामं क्षणमनन्यधीः स चात्मानं मनः पुनाति । मूलपावने सर्वपावन-मित्यात्मेत्युक्तिः । मन एव मनुष्याणां कारणं बन्धमोक्षयोरित्यादेः ॥ ५८ ॥
द्वादश्यामेकदश्यां वा शृण्वन्नायुष्यवान् भवेत् ।
पठन्ननश्नन् प्रयतः पूतो भवति पातकी ॥ ५९ ॥
पदरत्नावली
कालविशेषमाह द्वादश्यामिति ॥ ५९ ॥
सत्यधर्मीया
अनेन तल्लालसविषये कालं विशेषं भाषते ॥ द्वादश्यामिति । एकादश्यामिति । अपि माषं मषं कुर्यादित्यादेः । नककारात्वमशीतिभिन्नत्वेऽपीति ज्ञेयम् । शृृण्वञ्जन आयुष्यवान्भवेदिह परत्र तु नित्यायुष्यं मुक्तिस्तद्वान् । अनश्नन्प्रयतः पठन्पातक्यपि पूतो भवति ॥ ५९ ॥
पुष्करे मधुरायां च द्वारवत्यां यतात्मवान् ।
उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥
देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।
यच्छन्ति कामान् बहुलान् शृण्वतो येऽत्र कीर्तिताः ॥ ६१ ॥
पदरत्नावली
देशविशेषमाह पुष्कर इति । पुष्करे वराहक्षेत्रे । भयात् संसारभयात् ॥ अत्र ये देवादयः कीर्तितास्तेऽपि संहितापाठादिकुर्वतोऽभीष्टानि ददतीत्याह देवता इति
॥ ६०,६१ ॥
सत्यधर्मीया
देशविशेषमुपदिशति ॥ पुष्कर इत्यादिना । वराहावतारस्थानं पुष्करः । यतात्मेत्येतावता पूर्तौ यतात्मवानित्याह तेन सह यतात्मानोऽस्य सन्तीति स इति सूचितवानिति मन्तव्यम् । उपोष्यैतां संहितां पठित्वा स्थितः पुमान्भयान्मुच्यते ॥ अत्र ग्रन्थे ये कीर्तिता देवतादयः । शृृण्वत इमां संहितां श्रुतवते बहुलान्कामान्यच्छन्ति । द्वारावत्याम् । न मतौ बह्वचोऽनजिरादीनामिति दीर्घः । अबह्वच्कत्वादतः शरादीनां चेति वक्तव्यं न च तदपि सम्भवति । नित्यं दीर्घविधानमिति न स्याद्द्वारा वतीति कदाचिदिति तूपदिष्टमित्यनुवृत्त्यात्रान्यत्र सप्ताशेखरवैखर्या पराकार्यम् । तथा हि सा । अन्येषामपीति सूत्रस्याभियुक्तोक्तं प्रपञ्चमाह ॥ शुनोदन्तेति । तत्प्रपञ्चत्वादेव श्वपुच्छमित्याद्यपि यथा दृश्यते तथा साध्विति तदर्थादिति प्रयोगोपरि निर्भर इति कदाचित्तदनागमने द्वारवत्यपि । यत्र द्वारावतीं सकलभाग्यवतीमित्येव पठितव्यं वृत्तविच्छित्तिभीतेस्तत्र दीर्घो भविष्यति श्वापुच्छमितिवत् ह्रस्वश्च श्वपुच्छमित्यादिवदिति ज्ञेयम् । अत्र तु बहुकोशः शरणम् । उभयथाऽप्यवृत्तविच्छित्तेरिति दिक् ॥ ६०,६१ ॥
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।
मधुकुल्याः पयःकुल्या घृतकुल्याश्च तत्फलम् ॥ ६२ ॥
पदरत्नावली
किञ्च ऋगादीन्यधीत्य यत् फलं स्यात् तदेतत्संहितामधीत्य स्यादित्याह ऋच इति ॥ मधुकुल्या मधुनद्यः । मधुनद्यादिकथनं सुखविशेषार्थम् ॥ ६२ ॥
दुर्घटभावदीपिका
द्विजः प्रयतः शुद्धः सन् एतां पुराणसंहितामधीत्य भगवता वेदव्यासेन पुराणेषु प्रोक्तं विष्णोराराधनादिकं कुर्याच्चेत् । विष्णोस्तत्प्रमाणप्रसिद्धं परमं पदं वैकुण्ठादि स्थानं व्रजेदिति ॥ ६२ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां
द्वादशस्कन्धे द्वादशोऽध्यायः ॥ १२-१२ ॥
पदवाक्यप्रमाणज्ञाः कल्याणगुणशालिनः ।
नूतनग्रन्थकर्तारः पितरो गुरवश्चमे ॥ १ ॥
मातरः सुहृदो नित्यमिच्छादिकफलप्रदाः ।
श्रीसत्यनाथगुरवो जगत्पूजितपादुकाः ॥ २ ॥
म्लेंच्छराजमहाचोरं महाग्निभ्यो महद्भयम् ।
यत्कृपालेशमात्रेण गतं नैव विचारणा ॥ ३ ॥
तेषां श्रीगुरुराजानां पादपीठसमाश्रयात् ।
तेषां संकल्पमात्रेण जाता टीका न चान्यथा ॥ ४ ॥
श्रीमद्भागवतस्येयं दुर्घटार्थप्रबोधिनी ।
एवं रामार्चनं सर्वं तत्संकल्पाद्धि जायते ॥ ५ ॥
अतस्तज्जनितं पुण्यं तेषामेव न संशयः ।
अथापि ते दयालुत्वात्प्रीता एव न संशयः ॥ ६ ॥
सत्याभिनवशब्देन वाच्येऽस्मिन्मयि सर्वदा ।
अतः सर्वेऽपि गुरवो जगद्गुरुपदाश्रयाः ॥ ७ ॥
जयतीर्थगुरुः प्राज्ञः पूर्णप्रज्ञस्तथा गुरुः ।
बलित्थेत्यादिभिर्वेदैर्वायोरंश इति श्रुतः ॥ ८ ॥
तदन्तस्थो हरिर्नित्यं सीतयाः सहितः प्रभुः ।
श्रीरामचन्द्रो व्यासश्च प्रीतास्तेभ्यो नमो नमः ॥ ९ ॥
॥ इति श्रीमदश्रुतपदवाक्यप्रमाणव्याख्यातॄणामभिनवचन्द्रिकाऽभिनवताण्डवाभिनव-गदाऽभिनवामृतादिबहुग्रन्थकर्तॄणां जगत्पूज्यपादुकानां श्रीसत्यनाथश्रीपादानां शिष्येण सत्याभिनवयतिना त्वया भागवतटिप्पणं कारयिष्यामीति तदीयामोघसंकल्पमात्रमवलम्ब्य कृतायां श्रीभागवतटिप्पण्यां दुर्घटभावदीपिकायां द्वादशस्कन्धः समाप्तः ॥ १२ ॥
॥ समाप्तोऽयं ग्रन्थः ॥
॥ श्रीकृष्णार्पणमस्तु ॥
सत्यधर्मीया
पूर्वश्लोकस्य टीका । ऋगाद्यययनेन लभ्यं तध्ययदेवैतदध्येतुश्च फलमलघ्विति वक्तुमेकेन तदुक्त्वा द्वितीयेन तदतिशयिततामस्य वक्ति ॥ ऋच इति । द्विजोऽधीत्य मधुकुल्याः पयःकुल्या घृतकुल्याश्च नदीस्तत्फलं विन्दते तन्निमित्तकसुखविशेषं विन्दत इति यावत्
॥ ६२ ॥
पुराणसंहितामेतामधीत्य प्रयतो द्विजः ।
प्रोक्तं भगवता विष्णोस्तत्पदं परमं व्रजेत् ॥ ६३ ॥
पदरत्नावली
न केवलमैहिकं फलं किन्तु मुक्तिरपीति कथयति पुराणेति । यद् विष्णोः परमं पदं तद्व्रजेत् ॥ ६३ ॥
सत्यधर्मीया
भगवता प्रोक्तामेतां पुराणसंहितां प्रयतो विप्रोऽधीत्य विष्णोस्तत्परमं पदं व्रजेत् । वेदादेरपि महाफलप्रदेत्यवश्यमेषा पठनीयेति तात्पर्यम् ॥ ६३ ॥
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योऽम्बुधिमेखलाम् ।
वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात् ॥ ६४ ॥
पदरत्नावली
अम्बुधिमेखलां भूमिम् ॥ ६४ ॥
सत्यधर्मीया
अनिच्छूनां फलमभिलप्य किञ्चिदिच्छूनां त्रयाणामैहिकं तैः सहानुक्तस्यापि शूद्रस्य फलमालपति ॥ विप्र इति । प्रज्ञां ज्ञानं राजन्योऽम्बुधिमेखलां महीं वैश्यो निधिपतित्वं धनिकतां शूद्रश्च शृण्वन्पातकाच्छुद्ध्येत ॥ ६४ ॥
कलिमलसंसृतिकालनोऽखिलेशो
हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।
इह तु पुनर्भगवानशेषमूर्तिः
परिपठितोऽनुपदं कथाप्रसङ्गैः ॥ ६५ ॥
पदरत्नावली
इतरपुराणेभ्योऽस्य माहात्म्याधिक्यात् फलाधिक्यं माहात्म्याधिक्यं च प्रतिपदं प्रत्यक्षं श्रीनारायणगुणगणप्रतिपादकत्वेनेत्याह कलिमलेति । कलिमलं संसारं च कालयति नाशयतीति कलिमलसंसृतिकालनः । इतरत्र पुराणेषु । इह पुराणे । अशेषमूर्तिः कथाप्रसङ्गैः
॥ ६५ ॥
सत्यधर्मीया
न पुराणान्तराण्येवं मुरारिचरितभरितानीति तेभ्योऽतिशयेन तद्विशदीकरण-मिदमिति विशेष्य कथयति ॥ कलिमलेति । अखिलेशो हरिः कलिमलं तद्रूपां संसृतिं कलयति छिनत्तीति सः । संहतीति पाठे संहतिस्तत्सङ्गस्तामित्यर्थः । इतरत्र पुराणान्तरेऽभीक्ष्णं पुनः पुनरैदम्पर्येणेति यावत् । न गीयते । तर्हि कथं गीयत इत्यत आह । नगी गोवर्धनवान्मन्दर-वानिति वा हरिः । कथाप्रसङ्गैः कथास्वितरपरासु प्रसङ्गाः सङ्गतयस्तैरमुख्यतयेति यावद् ईयते ज्ञायते । इह तु भागवते त्वशेषमूर्तिर्भगवाननुपदं प्रतिपदं परिपठित इत्यतिसर्वपुराणमिदं पुराणमित्यनुपदं प्रत्यक्षरं च महाधिकारिविवक्षया परिपठित इति वचनभावोऽवसेयः ॥६५॥
स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽ
प्यजितरुचिरलीलाकृष्टसारस्तदीयम् ।
व्यतनुत कृपया यस्तत्वदीपं पुराणं
तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६६ ॥
पदरत्नावली
सूतो ग्रन्थावसानेऽपि गुरुनमस्कारं करोति स्वसुखेति । स्वातन्त्र्यात् स्वः परमात्मा तन्निमित्तं सुखं स्वसुखं तेन निभृतं पूर्णं चेतो यस्य स तथा । स्वरूपसुखश्च निभृतज्ञानश्च स्वसुखनिभृतचेताः (इति वा) । तेन सुखेन व्युदस्तान्यभावः निरस्तान्यविषयबुद्धिः, तेन विज्ञानेन निरस्तान्यज्ञान इति वा । अपि कृतकृत्योऽपि अजितस्य हरे रुचिरया लीलया आकृष्टसारः विवशीकृतचित्तस्थैर्यस् तस्य हरेः सम्बन्धि अत एव तत्वदीपं पुराणं व्यतनुत व्याख्यया विस्तृतवान् । तं व्याससूनुं शुकं नतोऽस्मि ॥ ६६ ॥
सत्यधर्मीया
अहं च संस्मारित आत्मतत्त्वं श्रुतं पुराणं परमर्षिवक्त्रादित्याद्युक्त-शुकदेशित्वकः सूतस्तमन्ते नंस्यति ॥ स्वसुखेति । स्वसुखो भगवांस्तस्मिन्निभृतं चेतो यस्य सः । तेन तच्चेतनत्वेन व्युदस्तोऽन्यभावोऽन्यस्मिन्भक्तिरन्यस्मिन्बाह्यविषयादौ भावो मनो येन स वा । अजितस्य हरे रुचिरा मनोज्ञा लीलास्ताभिराकृष्टसारः स्थैर्यं यस्य स द्रवद्धृदय इति यावत् । यश्च कृपया दीनदयया तदीयं तत्त्वदीपं भगवदवगमकमखिलवृजिनघ्नं पुराणं व्यतनुत तं व्याससूनुं नतोऽस्मि । दर्शनादिना जनवृजिनघ्नमिति शुकविशेषणं च । गुरोर्नाम न गृह्णीयादित्यादेर्व्याससूनुमित्युक्तम् । किञ्च सम्प्रदायायाततां तद्वचसः सूचयति ॥ ६६ ॥
तमहमजमनन्तमात्मतन्त्रं
जगदुदयस्थितिसंयमात्मशक्तिम् ।
द्युपतिभिरजशक्रशङ्कराद्यै
र्दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६७ ॥
पदरत्नावली
गुरुनमस्कारानन्तरं तदुपदिष्टस्वरूपं श्रीनारायणं नमति तमिति । यो भागवतस्याद्यपद्यमारभ्य प्रतिपादितस्तं नतोऽस्मीत्यन्वयः । जगदुदयादिषु आत्मशक्तिं स्वरूप-शक्तिम् । आत्मतन्त्रं स्वतन्त्रम् । अजं सर्वज्ञम् । देहवत एव ज्ञानोत्पत्तेरस्य तदभावात् स्वज्ञानेनैव सर्वं जानातीति देशतः कालतो गुणतश्चानन्तम् । द्युपतिभिर्ज्ञानपतिभिर् अजशङ्कराद्यैर्दुरवसितस्तवम् अनिश्चितस्तुतिम् । अच्युतं मायानिमित्तच्युतिरहितम् ॥ ६७ ॥
सत्यधर्मीया
यमुपदिदिशुः शुकाचार्यास्तमुपक्रमोपसंहारयोरैकार्थ्यं सम्पाद्यमिति मतिमान्सूतोऽन्ते नमति ॥ तमिति । अहमजं जनवज्जननहीनमनन्तं देशाद्यपरिच्छिन्नमबद्धं वा । जगत उदयश्च स्थितिश्च संयम उपरमश्च यया साऽऽत्मशक्तिः स्वरूपसामर्थ्यं यस्य तम् । द्युपतिभिः सत्यस्वर्गकैलासपतिभिः । अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्चेत्यादेरादित्यस्थः सवितेति भविता द्युपतिरितरौ तत्त्वेन प्रसिद्धौ एत आद्या येषां ते तैः । आदिपदग्राह्याणामपि कोणादि-त्राणनाद्द्युपतिता । शक्रोत्तरस्यापि हरस्य तदानन्तर्येण ग्रहणं परतन्त्रतासाम्यत इति किञ्चि-त्कृष्णावतारे सदा सदाशिवसेवातोऽधिका सेवेति तदनन्तरमानन्तेति ज्ञेयम् । दुरवसितोऽसमाप्तः स्तवो यस्य तम् । गुणानामगणेयत्वात् । अच्युतं सर्वसम्भावकमात्मतन्त्रमिति नतोऽस्मि । अहमहङ्कारमजति क्षिपतीत्यहमजस्तमहङ्कारशून्यमित्यर्थः । तमहम् अजमिति वा छेदः । तममज्ञानं हन्तीति तमहस्तम् । तमं तु तमसा सार्धमिति द्विरूपकोशात् ॥ ६७ ॥
उपचितनवशक्तिभिः स्व आत्म
न्युपरचितस्थिरजङ्गमपालनाय ।
भगवत उपलब्धिमात्रधाम्ने
सुरऋषभाय नमः सनातनाय ॥ ६८ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे द्वादशोऽध्यायः ॥
पदरत्नावली
उपचितनवशक्तिभिर् मूलप्रकृतिमहदहङ्कारमनःपञ्चभूताख्यनवशक्तिभिर् आत्मनि स्वाधारतया उपरचितयोः स्थिरजङ्गमयोः पालनं येन स तथा तस्मै, उपलब्धिमात्रधाम्ने केवलज्ञानस्वरूपाय, सुरऋषभाय देवोत्तमाय, सनातनाय सदातनाय शब्दमात्रैकविषयाय नमः । अनेन श्लोकद्वयेन जन्माद्यस्य यत इत्यादेरर्थो दर्शित इति ॥ ६८ ॥
सत्यं ज्ञानमनन्तमच्युतमजं निर्दुःखसौख्योदधिं
निर्दोषामितवेदवेदितमहं वन्दे मुकुन्दं सदा ।
यद्भक्त्या कमलाब्जजेरगिरिशानन्तादिदेवाः पदं
सायुज्यं प्रसरन्त्यनेकविधया सत्यां विरत्या च तम् ॥ १ ॥
व्याख्या भागवतस्य कृष्ण रचिता त्वत्प्रीतिकामात्मना
प्रीतश्चेत् प्रददासि तत्प्रतिनिधिं तत् त्रीन् वरिष्ये वरान् ।
प्राङ् निष्किञ्चनतां तव प्रतिभवं पादारविन्दात्मनां
संसक्तिं सुखतीर्थशास्त्रविजराहारस्य पानं सदा ॥ २ ॥
पदरत्नावली कण्ठे राजतां हि मुरद्विषः ।
वनमालेव मालेव मौक्तिकी कृष्णवल्लभा ॥ ३ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्यां द्वादशस्कन्धस्य द्वादशोऽध्यायः ॥ १२-१२ ॥
सत्यधर्मीया
उपचिता नव च ता शक्तयश्च मूलप्रकृतिमहदहङ्कारमनःपञ्चभूताख्या-स्ताभिर्विमलोत्कर्षण्यादिभिर्वा । उपचितता च स्वोचितकार्योन्मुखीभवनम् । आत्मनि स्वाधारे स्वतन्त्रे वा । आत्मनि निजाधारत्वेन विद्यमानाभिरुपरचितं स्थिरजङ्गमयोः पालनं येन तस्मै । उपलब्धिमात्रं ज्ञानात्मकं धाम शरीरं यस्य तस्मै । गतम् । उपलब्धिश्च ज्ञानात्मा च माता ज्ञाता तथाऽधामा स्वेतराधाररहितश्च तस्मै । ज्ञानात्मा सन् ज्ञातेति लोकविलक्षणताऽनेन द्योत्यते । ज्ञानं ज्ञेयं परिज्ञातेत्यादेः । सुरऋषभाय देवताश्रेष्ठाय । सनातनायानादये वेदादिवेद्यायै-तादृशाय भगवते नमः । जन्माद्यस्य यत इत्यतो जकारेऽन्तिमेन यकारेण संयोजिते जयेति भवति । तच्चैतद्ग्रन्थाभिधानमिति साम्प्रदायिकाः । जन्माद्यस्य यतोऽन्वयादित्यत्र जन्मेत्यस्याद्यो जन्माद्य आद्यवर्णस्य जकारस्य यतो यकारस्यान्वयाद्योजनाज्जयेति प्रातिपदिकनिष्पत्तिर्भवती-त्यन्तरङ्गतः कटाक्षितवानिति ज्ञेयम् ॥ ६-८ ॥
**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **
द्वादशस्कन्धे द्वादशोऽध्यायः ॥ १२-१२ ॥