शुको यदाह भगवान् विष्णुराताय पृच्छते
॥ अथ एकादशोऽध्यायः ॥
शौनक उवाच–
शुको यदाह भगवान् विष्णुराताय पृच्छते ।
सौरो गणो मासिमासि नाना वसति सप्तकः ॥ १ ॥
तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः ।
ब्रूहि नः श्रद्धधानानां व्यूहं सूर्यात्मनो हरेः ॥ २ ॥
पदरत्नावली
सर्वोपास्यत्वेऽप्यादित्यस्थस्यैव हरेर्गृहस्थैर्विशेषत उपास्तिः कर्तव्येति तत्स्थितिप्रकारं कथयत्यस्मिन्नध्याये । तत्र शौनकः पृच्छति शुक इति । शुको भगवान् विष्णु-राताय पृथङ्नामरूपादिसप्तको गणो मासिमासि नानानामानं सूर्यं भगवन्तं निषेवमाणः सौरे सूर्यस्य विद्यमाने स्यन्दने रथे नाना वसति । तथाऽन्ये च ऋषयो गन्धर्वाप्सरसो नागा इत्यादि पञ्चमस्कन्धे यदाह तदा तेषां पृथङ्नामानि पृथक्कर्माणि चानुक्तानि । अतः श्रद्धधानानां नोऽस्काकं तानि ब्रूहीत्यन्वयः । सूर्यात्मनः सूर्यान्तर्यामिणो हरेर् व्यूहं स्थितिविशेषं च वद । सूर्यात्मनो हरेः परितः स्थितं तेषां व्यूहम्, पृथक्पृथगिति शेषः, इति वा ॥ १२ ॥
सत्यधर्मीया
रविबिम्बगो हरिर्ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासन-सन्निविष्ट इत्यादेरादित्यान्तर्गतस्यैव विशेषत उपास्यत्वे तत्स्थित्या विदितया भाव्यमिति तां कथयत्यत्राध्याये । तत्रादौ शुकपरीक्षित्संवादापदेशेन श्रुतकिञ्चित्कः शौनकः पृच्छतीत्याह ॥ शौनक इति । भगवाञ्च्छुकः पृच्छते विष्णुराताय । सौर इति प्रथमान्तपाठे सूरस्यायं सौर इति गणविशेषणम् । सप्तमीपक्षे रथ इत्यध्याहृत्य योजनीयम् । सप्तको गणो मासि मासि नानानामानं भानुमनुसृत्य स्वयं नानाह्वयः सन्वसतीति यदाह तेनेत्युत्तरेणान्वयः । उक्तं च तेन तं प्रति पञ्चमे स्कन्धे एकविंशेऽध्याये । अथान्ये च ऋषयो गन्धर्वा नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चैकैकशो रथस्था मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नामानः पृथक् पृथक्कर्मभिर्द्वन्द्वश उपासत इत्यन्तेन ॥ तेषां गणगणितानां नामानि कर्माणि । तेऽपि न स्वतन्त्रा इत्याह । अधीश्वरैः स्वाधिपतिभिर्नियुक्तानां प्रेरितानामिति । सूर्यात्मन-स्तत्स्वामिनो हरेस्तथा हरेः सूर्यस्य । हरिरंशुर्हरिर्भानुरित्यनेकार्थध्वनिपदमञ्जरी, हरिर्वातार्क-चन्द्रयमोपेन्द्र इत्यादि विश्वश्च । व्यूहं च । श्रद्धधानानां नस्तत्रानुक्तत्वादेतत्सर्वं ब्रूहि ॥१,२॥
सूत उवाच–
आनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम् ।
निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते ॥ ३ ॥
पदरत्नावली
अयं कल्पो हरेर्बुद्धिपूर्वं प्रणीतत्वान्न मिथ्याभूत इति भावेनाह अनादीति । लोकं तन्त्रयति व्यापारयतीति लोकप्रवृत्तिहेतुरयं सूर्यादिर् लोकेषु परितो वर्तते उदयादि-निमित्तव्यापारायोदयादिकं गच्छतीत्यर्थः । कीदृशः । सर्वदेहिनामात्मनो विष्णोर् अनाद्यविद्यया कारणशून्येच्छया निर्मितः । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदिति श्रुतेः ॥ ३ ॥
सत्यधर्मीया
सर्वदेहिनामात्मनोऽन्तरात्मनो विष्णोरनाद्यविद्ययाऽनादिभूता याऽविद्या महामायेत्यविद्येति नियतिरित्यादिनोक्तेच्छा तया निर्मितोऽयं लोकतन्त्रो लोकं तन्त्रयति प्रवर्तयतीति स तथा रविर्लोके परिवर्तते ॥ ३ ॥
एक एव हि लोकानां सूर्य आत्माऽऽदिकृद् हरिः ।
सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ॥ ४ ॥
पदरत्नावली
सरतीति सूर्य इति सूरिप्राप्यत्वात् सूर्य इति तच्छब्दप्रवृत्तिनिमित्तस्य तदेकाधीनत्वान्मुख्यकर्ता हरिरेक एवेत्याह एक एवेति । लोकानामुभयेषामात्मा । सूर्य आत्मा जगतस्तस्थुषश्चेति श्रुतेः । दिनस्य आदिकृत् । कृती च्छेदने इति धातोर्दिनादिच्छिद् अस्तकर्ता च । प्रातरुत्थायाथ सन्ध्यामुपासीतेति श्रुतेः । सर्ववेदोक्तक्रियामूलम् । अत एव ऋषिभि-र्बहुधोदितः । उदितमिति पाठे तत्स्वरूपं नानात्वेन कथितम् । अत्र द्वादशसूर्येष्वेकः स्वयं हरिः, अन्यत्रान्तर्यामित्वेनेति विशेषः ॥ ४ ॥
सत्यधर्मीया
सूरिप्राप्यत्वात्सूर्य एतन्मध्ये एकः सूर्यो हरिः । आदिकृत्सोदयेन दिनादि-कृदितरः । सूर्य आत्मा जगतस्तस्थुषेत्यादेः । ऋषिभिर्मनीषिभिः । सर्ववेदक्रियामूलं सर्ववेदोदिताः क्रियाः सन्ध्योपास्त्यादयस्तासां मूल इति बहुधोदितः ॥ ४ ॥
कालो देशः क्रिया कर्ता करणं कार्यमागमः ।
द्रव्यं फलमिति ब्रह्मन् नवधोक्तोऽजया हरिः ॥ ५ ॥
पदरत्नावली
नानात्वमुपपादयति काल इति । अजया मायया अनाद्यविद्यया नवधोक्तः । कालः प्रातरादिः, देशः समादिः क्रिया अनुष्ठानम्, कर्ता ब्राह्मणादिः, करण-मिन्द्रियम्, कार्यं देहः, द्रव्यं चर्वादि भूतपञ्चकं वा, आगमो वेदादिशास्त्रम्, फलं स्वर्गादि । कालादिषु स्थित्वा तत्कर्मकारकत्वेन कालादिशब्दवाच्यत्वेन नवधा हरिरुक्त इति ज्ञातव्यम्
॥ ५ ॥
सत्यधर्मीया
नानाभावमावेदयति ॥ काल इति । कालः प्रातरादिर्देशः शुचिमासादिः । क्रिया कर्मानुष्ठानं, कर्ता ब्राह्मणादिः, कारणमिन्द्रियादिः, कार्यं देहः, आगमो वेदादिर्द्रव्यं चर्वादिकं फलं स्वर्गादिरजयाऽविद्यया स्वेच्छया हरिः कालादिफलान्तत्वेनोक्तः ॥ ५ ॥
मध्वादिषु द्वादशसु भगवान् कालरूपधृक् ।
लोकतन्त्राय चरति पृथग् द्वादशभिर्गुणैः ॥ ६ ॥
पदरत्नावली
एक एव हरिः सर्वं प्रेरयतीत्युक्तम् । तत्प्रकारं दर्शयति मध्वादिष्विति । कालरूपधृग् भगवान् लोकतन्त्राय लोकव्यापाराय मध्वादिषु चैत्रादिषु द्वादशसु मासेषु द्वादशभि-र्गुणैर् द्वादशविधकालगुणैः पृथक्पृथक् चरतीत्यन्वयः ॥ ६ ॥
सत्यधर्मीया
एकस्यैव हरेः प्रेरणप्रकारं प्रकटयति ॥ मध्वादीति । मधुश्चैत्रो द्वादशसु द्वादशेषु मासेषु कालरूपं धरतीति धृक् । लोकतन्त्राय तत्प्रवृत्तये । द्वादशभिर्गुणैस्तत्कालभवैः पृथक् पृथक् चरति ॥ ६ ॥
धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ ७ ॥
पदरत्नावली
इदानीं तेषां नामान्याह धातेत्यादिना । धाता सूर्यः, कृतस्थली अप्सराः, हेती राक्षसः, वासुकिर्नागः, रथकृत् तक्षा, पुलस्त्य ऋषिः, तुम्बुरुगन्धर्वः । अमी धात्रादयो मधुमासं नयन्ति । ते उक्तक्रियाकारकत्वेन तन्मासमतिपारयन्ति ॥ ७ ॥
सत्यधर्मीया
तेषां नामानि वदेत्युत्तरयति ॥ धातेति । धाता सविता कृतस्थल्यप्सरसो हेतिः राक्षसो वासुकिः सर्पो रथकृद् योगरूढिभ्यां तक्षा पुलस्त्यो ऋषिस्तुम्बुरुर्गन्धर्व इत्यमी मधुमासं चैत्रं नयन्ति । उक्तकर्मप्रवर्तकास्तन्मासीयत्रिंशद्दिनं पारयन्ति ॥ ७ ॥
अर्यमा पुलहाऽथौजाः प्रहेतिः पुञ्जकस्थली ।
नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ८ ॥
पदरत्नावली
अर्यमा सूर्यः, पुलहा ऋषिः, अथौजास् तक्षा, प्रहेती राक्षसः, पुञ्जकस्थली अप्सराः, नारदो गन्धर्वः, कच्छनीरो नागः । एते माधवमासाधिपतिं माधवनामानं नयन्ति शरणं प्राप्योपासते । एवमुत्तरत्राप्यनुसन्धेयम् ॥ ८ ॥
सत्यधर्मीया
वैशाखमासप्रवर्तकानाह ॥ अर्यमा सूर्य इति । यथा कथञ्चित्सत्तिके तात्पर्यं तथा मासेष्वपि न क्रमणप्रकार इति ज्ञेयम् । पुलहो ऋषिरथौजास्तक्षा प्रहेती राक्षसः पुञ्जकस्थली अप्सरा नारदो गन्धर्वः कच्छनीरो नागो माधवं वैशाखं नयन्ति ॥ ८ ॥
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः ।
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ९ ॥
पदरत्नावली
मित्रः सूर्यः, अत्रिर् ऋषिः, पौरुषेयो राक्षसः, तक्षको नागः, मेनका अप्सराः, इहा गन्धर्वः, रथस्वनस्तक्षा (शुक्रमासो ज्येष्ठमासः) ॥ ९ ॥
सत्यधर्मीया
मित्रोऽत्रिर्ऋषिः पौरुषेयो राक्षसस्तक्षकः परीक्षिद्धक्षस्तक्षको नागो मेनका अप्सरसो, हाहा गन्धर्वो रथस्वनस्तक्षेति । शुक्रमासं ज्येष्ठम् ॥ ९ ॥
वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ १० ॥
पदरत्नावली
वसिष्ठ ऋषिः, वरुणः सूर्यः, रम्भा अप्सराः, सहजन्यो राक्षसः, हुहूर् गन्धर्वः, शुक्रो नागः, चित्रस्वनस्तक्षा (शुचिराषाढः) ॥ १० ॥
सत्यधर्मीया
वसिष्ठऋषिर्वरुणोऽरुणसारथिः रम्भा सहजन्यो राक्षसो हूहूर्गन्धर्वः शुक्रो नागश्चित्रस्वनो वर्धकिः । शुचिमासमाषाढम् । न व्यासेधामो व्यासपाठम् ॥ १० ॥
इन्द्रो विश्वावसुः श्रोता (स्रोता) एलापत्रस्तथाङ्गिराः ।
प्रम्लोचा राक्षसः स्व(ध्यो)र्यो नभोमासं नयन्त्यमी ॥ ११ ॥
पदरत्नावली
इन्द्रः सूर्यः, विश्वावसुर्गन्धर्वः, स्रोता तक्षा, एलापत्रो नागः, अङ्गिरा ऋषिः, प्रम्लोचा अप्सराः, स्वर्यो नाम राक्षसः । (नभोमासः श्रावणमासः) ॥ ११ ॥
सत्यधर्मीया
इन्द्रः सूर्यो, विश्वावसुर्गन्धर्वो, विश्वस्य वसुराटोरिति दीर्घः । श्रोता तक्षा एलापत्रो नागोऽङ्गिराः, ऋषिः प्राम्लोचाऽप्सरसो, राक्षसः स्वध्यः । क्वचित्स्वर्य इति क्वापि च वर्य इति दृश्येते पाठौ तत्र च न वयं तन्नामकरणकालिका इति निर्णेतुं प्रभवाः । राक्षसत्वे त्वविवादं मूल एवानितरावकाशशंसनात् । नभोमासं श्रावणमासम् ॥ ११ ॥
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।
अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ १२ ॥
पदरत्नावली
विवस्वानादित्यः, उग्रसेनो गन्धर्वः, व्याघ्रो राक्षसः, आसारणस्तक्षा, भृगुर् ऋषिः, अनुम्लोचा अप्सराः, शङ्कपालो नागः । (नभस्यो भाद्रपदः) ॥ १२ ॥
सत्यधर्मीया
विवस्वान् रविरुग्रसेनो गन्धर्वो व्याघ्रो राक्षस आसारणस्तक्षा भृगू ऋषिरनुम्लोचाऽप्सरसः, शङ्खपालो नागो नभसाख्यं भाद्रपदम् ॥ १२ ॥
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥ १३ ॥
पदरत्नावली
पूषा आदित्यः, धनञ्जयो नागः वातो राक्षसः, सुषेणस्तक्षा, सुरुचि-र्गन्धर्वः, घृताची अप्सराः, गौतम ऋषिः । (तपोमासं माघम्) ॥ १३ ॥
सत्यधर्मीया
पूषाऽऽदित्यो, धनञ्जयो नागो, वातो राक्षसः, सुषेणस्तक्षा, सुरुचिर्गन्धर्वो, धृताच्यप्सरसो, गौतमो ऋषिस्तपोमासं माघं नयन्ति ॥ १३ ॥
ऋतुर्वर्चा भरद्वाजः पर्जन्यः श्ये(से)नजित् तथा ।
विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ १४ ॥
पदरत्नावली
ऋतुरप्सराः, वर्चा गन्धर्वः, भरद्वाज ऋषिः, पर्जन्य आदित्यः, सेनजित् तक्षा, विश्वो राक्षसः, ऐरावतो नागः । (तपस्याख्यं फाल्गुनम्) ॥ १४ ॥
सत्यधर्मीया
ऋतुरप्सराः, वर्चा गन्धर्वो, भरद्वाजो ऋषिः, पर्जन्यः सूर्यः, श्येनजित्तक्षा, विश्वो राक्षसः, ऐरावतो नागस्तपस्याख्यं फाल्गुनम् ॥ १४ ॥
अथांशुः कश्यपस्तार्क्ष्यो धृतश्ये(से)नस्तथोर्वशी ।
विद्युच्छङ्कुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ १५ ॥
पदरत्नावली
अंशुरादित्यः, कश्यप ऋषिः, तार्क्ष्यस् तक्षा, धृतसेनो गन्धर्वः, ऊर्वशी अप्सराः, विद्युच्छङ्कुः राक्षसः, महाशङ्खो नागः । (सहोमासं मार्गशीर्षम्) ॥ १५ ॥
सत्यधर्मीया
अंशुरंशुमान्कश्यपो ऋषिस्तार्क्ष्यस्तक्षा, धृतश्येनो गन्धर्वः, उर्वशी, विद्वच्छङ्कू राक्षसो महाशङ्खो नागः सहोमासं मार्गशीर्षम् ॥ १५ ॥
भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः ।
कर्कोटकः पूर्वचित्तिः सहस्याख्यं नयन्त्यमी ॥ १६ ॥
पदरत्नावली
भग आदित्यः, स्फूर्जो राक्षसः, अरिष्टनेमिर् ऋषिः, ऊर्णो गन्धर्वः, आयुस्तक्षा, कर्कोटको नागः पुर्वचित्तिरप्सराः । (सहस्याख्यं पुष्यमासम्) ॥ १६ ॥
सत्यधर्मीया
भगः सविता, स्फूर्जो राक्षसोऽरिष्टनेमी ऋषिरूर्णो गन्धर्व आयुस्तक्षा कर्कोटकश्च नागश्च पूर्वचित्तिरप्सराः । सहस्याख्यं पुष्यम् ॥ १६ ॥
त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा ।
ब्रह्मरातोऽथ शतधृत् (जिद्) धृतराष्ट्र इषम्भराः ॥ १७ ॥
पदरत्नावली
त्वष्टा आदित्यः, ऋचीकतनयो राक्षसः, कम्बलाख्यो नागः, तिलोत्तमा अप्सराः, ब्रह्मरात ऋषिः, शतजित् तक्षा, धृतराष्ट्रो गन्धर्वः । इषं बिभ्रतीति इषम्भरा इषमास (आश्विनमास) प्रणेतार इत्यर्थः ॥ १७ ॥
सत्यधर्मीया
त्वष्टा सूर्यो, ऋचीकतनयो जमदग्निर्ऋषिः कम्बलो नागस्तिलोत्तमाऽप्सरा ब्रह्मरातो राक्षसः शतधृत्तक्षा धृतराष्ट्रो गन्धर्व इषम्भरा इषं बिभ्रतीति तेऽश्वायुजरक्षकाः ॥१७॥
विष्णुरश्वतरो रम्भा सूर्यवर्चोऽश्वसत्यकौ ।
विश्वामित्रमुखा एत ऊर्जमासं नयन्त्यमी ॥ १८ ॥
पदरत्नावली
विष्णुरादित्यः, अश्वतरो नागः, रम्भा अप्सराः सूर्यवर्चो गन्धर्वः, अश्वो राक्षसः, सत्यकस्तक्षा, विश्वामित्र ऋषिः । (ऊर्जमासं कार्तिकमासम्) ॥ १८ ॥
सत्यधर्मीया
विष्णुरादित्योऽश्वतरो नाग रम्भापदस्थानेऽत्रानुक्तायाः कूर्मपुराणोक्तायाः सहजन्याया वा विश्वाच्या वाऽम्लोचाया वा वाचकपदस्योहः कर्तव्यः । अग्नये चरुं निर्वपामी-त्यादौ तथा दृष्टेः । वसिष्ठो वरुणो रम्भेत्यारम्भोक्तेश्च । तत्रानुपदमेव लेख्यते । सूर्यवर्चो गन्धर्वः (अधोराक्षसः) सत्यकस्तक्षा विश्वामित्रो ऋषिरेतेऽत्रोक्ताः । अमी प्रागभिहिताश्चेमं मासं तथाऽन्यांश्च नयन्तीत्युपसंहरणमिति नैत इति वाऽमीति वाऽतिरिक्तमिति मन्तव्यम् । तथा च कूर्मपुराणे भुवनकोश एकोनचत्वारिंशेऽध्याये ।
स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।
धाताऽर्यमा च मित्रश्च वरुणः शक्र एव च । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ।
भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते दिवाकराः । अप्यर्चयन्ति ये भानुं वसन्तादिषु च क्रमात् ।
पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गोतमश्च कश्यपः क्रतुरेव च ॥
जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः । स्तुवन्ति देवं विविधैश् च्छन्दोभिस्ते यथाक्रमम् ।
रथकृच्च रथौजाश्च रथचित्रः स्वबाहुकः । रथस्वनोऽथ वरुणः सुषेणः श्येनजित्तथा ।
तार्क्ष्यश्चारिष्टनेमिश्च रथजित्सत्यजित्तथा । ग्रामण्यो देवदेवस्य कुर्वते भारसङ्ग्रहम् ।
अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथाऽधश्च वातो विद्युद्दिवाकरः ।
ब्रह्मापेतश्च विप्रेन्द्रो यज्ञोपेतस्तथैव च । राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ।
वासुकिः कच्छनीरश्च तक्षकः सर्पपुङ्गवः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ।
धनञ्जयो महायज्ञस्तथा कर्कोटको द्विजः । कम्बलोऽश्वतरश्चैव वहन्त्येनं यथाक्रमम् ।
तुम्बुरुर्नारदो हाहाहूहूविश्वावसुस्तथा । उपसेनेव सुरुचिरर्वावसुरथापरः ।
चित्रशेनस्तथा पर्णा धृतराष्ट्रो द्विजोत्तमः । सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ।
कृतस्तनाप्सरो वर्या तथाऽन्या पुञ्जकस्थली । मेनका सहजन्या च प्रम्लोचाथ द्विजोत्तमाः ।
अम्लोचा च धृताची च विश्वाची चोर्वशी तथा । अन्या च पूर्वचित्तिः स्यात्तथाऽन्या च
तिलोत्तमा ।
रम्भा चेति द्विजश्रेष्ठ तथैवाप्सरसः स्मृताः । ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात् ।
तोषयन्ति महादेवं भानुमात्मानमव्ययम् । सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ।
प्रथितैः स्ववचोभिश्च स्तुवन्ति मुनयो रविम् । गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते ।
ग्रामणीर्यक्षभूतानि कुर्वते भीषु सङ्ग्रहम् । सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च ।
तथा–
वरुणो माघमासे तु सूर्यः पूषा तु फाल्गुने । चैत्रे मासे भवेदंशुर्धाता वैशाखतापनः ।
ज्येष्ठमूले भवेदिन्द्र आषाढे सविता रविः । विवस्वान् श्रावणे मासि प्रोष्टपद्यां भगः स्मृतः ।
पर्जन्य आश्वयुजि च कार्तिके मासि भास्करः । मार्गशीर्षे भवेन्मित्रः पौष्ये विष्णुः
सनातनः ॥ इति ।
तत्रात्र च क्वचिन्नामव्यत्यासादिकं तदनेकनामकत्वेन वा कल्पभेदेन वा समाधेयमेव । तत्र पौष्ये विष्णुरिति वचनं वचनं चात्र कार्तिके तस्य सर्वसाम्यं वर्तत इति सूचनार्थमिति च ज्ञेयम् । किरणविभागो विभागश्च कर्मणस्तस्मादेव ज्ञेयौ । विस्तरदरत उपरम्यते । भगवत्तत्त्वमेतस्य स्थिरीकर्तुमन्ते विष्णूक्त्या समापयद्ग्रन्थकृत्तथा श्रोत्राद्यूर्जितता भविष्यतीति च सूचयितुं क्रममतिक्रम्यान्ते ऊर्जमासोक्तिरिति सन्तोष्टव्यम् ॥ १८ ॥
एता भगवतो विष्णोरादित्यस्य विभूतयः ।
स्मरतां सन्ध्ययोर्नॄणां हरत्यंहो दिनेदिने ॥ १९ ॥
पदरत्नावली
उपसंहरन्नेव तत्कथनप्रयोजनमाह एता इति । आदित्यान्तर्यामिणो हरेः । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण इति वचनमत्र प्रमाणम् ॥ १९ ॥
सत्यधर्मीया
आदित्यस्य तदन्तर्गतस्य भगवतो विष्णोरेता विभूतयः सन्निधानपात्राणि । सन्ध्ययोरुभयोर्दिने दिने प्रतिदिनं स्मरतां नृणामंहो हरन्ति । एतत्पातकघातार्थं तद्विभूतिस्मरण-मावश्यकमिति तात्पर्यम् ॥ १९ ॥
द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै ।
चरन् समन्तात् तनुते परत्रेह च सन्मतिम् ॥ २० ॥
पदरत्नावली
एतदभिप्रेत्य पुनरपि लोकद्वयोपभोज्यफलमाह द्वादशस्विति । द्वादशसु मासेषु षड्भिर्गणैर् धात्रादीनृते षट्सङ्ख्यामुपगतैः सह समन्ताच्चरन् देवोऽस्य सेवकस्येह परत्र च सन्मतिं निर्दुःखानन्दानुभवलक्षणं तनुते यथायोग्यं विस्तृत्य ददातीत्यर्थः ॥ २० ॥
सत्यधर्मीया
असौ देवो द्वादशसु मासेषु षड्भिः स्वातिरिक्तैः षट्सङ्ख्यैर्ऋष्यादिभिः सह समन्तात्सञ्चरन् । अस्य भजकस्य परत्रेह च सन्मतिं तनुते विस्तारयति । षड्भिर्ऋतुभिर्वा । धियो यो नः प्रचोदयादित्यादेः ॥ २० ॥
सामर्ग्यजुर्भिस्तल्लिङ्गैर्ऋषयः संस्तुवन्त्यमुम् ।
गन्धर्वाः सम्प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ॥ २१ ॥
पदरत्नावली
इदानीं तेषां कर्माण्याह सामेति । सामर्ग्यजुर्भिस्तल्लिङ्गैस्तल्लक्षणैस्तत्तत्व-गमकैर्वाक्यैर्वा ॥ २१ ॥
सत्यधर्मीया
सामर्ग्यजुर्भिस्तत्प्रतिपादितैस्तल्लिङ्गैस्तल्लक्षणैरमुमृषयः स्तुवन्ति । इत्यृषिव्यापारः । तं गन्धर्वाः प्रगायन्त्यग्रतोऽप्सरसो नृत्यन्ति ॥ २१ ॥
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः ।
चोदयन्ति रथं पृष्ठे नैर्ऋता बलशालिनः ॥ २२ ॥
पदरत्नावली
उन्नह्यन्ति सम्यग् योजयन्ति । ग्रामण्यस्तक्षाणः । नैर्ऋता राक्षसाः
॥ २२ ॥
सत्यधर्मीया
नागा उन्नह्यन्ति रथमूर्ध्वं स्वशिरस्सु सम्बध्नन्ति वहन्तीति यावत् । ग्रामण्यस्तक्षाणो रथयोजकाः । नैर्ऋता हेत्यादयो रथं पृष्ठे चोदयन्ति ॥ २२ ॥
वालि(ल)खिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः ।
पुरतोऽभिमुखं यान्ति स्तुवन्तः स्तुतिभिर्विभुम् ॥ २३ ॥
पदरत्नावली
एवं गणनमन्तरेणान्येपि सन्तीत्याह वालखिल्या इति ॥ २३ ॥
सत्यधर्मीया
गणागणितानृषीन्भाषते ॥ वालिखिल्या इति । वालवद्बालवत्खिल्या अणवः । छान्दोग्ये सैन्धवखिल्येत्यत्र खिल्यं शकलमित्युक्तेः । इकारस्तृतीयोऽतिशय इत्यतिशये । ते प्रतिमासं त एव । तत्सङ्ख्यामाख्याति ॥ षष्टिसहस्राणीति । पुरतोऽभिमुखं विलोकयन्तो लोकबान्धवं विभुं स्तुतिभिः स्तुत्यगुणैः स्तुवन्तो यान्ति ॥ २३ ॥
एवं ह्यनादिनिधनो भगवान् हरिरीश्वरः ।
कल्पे कल्पे स्वमात्मानं व्यूह्य लोकान् तपत्यजः ॥ २४ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे एकादशोऽध्यायः ॥
पदरत्नावली
अध्यायार्थमुपसंहरति एवमिति । तपति आवर्तयति ॥ २४ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां
द्वादशस्कन्धस्य एकादशोऽध्यायः ॥ १२-११ ॥
सत्यधर्मीया
एवं चानादिनिधन उपचारतोऽयमन्तर्गतस्त्वनुपचारत ईश्वरो हरिर्नारायणो हरिः सूर्यश्च कल्पे कल्पे प्रतिकल्पमात्मानं स्वमेव च संव्यूह्य मत्स्याद्याकारविशेषैर्धात्राद्यैरन्यत्र लोकान्नयन्ति प्रवर्तयतीति । विष्णुपुराणे द्वितीयांशे दशमेऽध्याये पराशरः ।
अशीतिमण्डलशतं काष्ठयोर्मण्डलं द्वयोः । आरोहणावरोहाभ्यां भानोरब्धेन या गतिः ।
स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।
धाता कृतस्थली चैव पुलस्त्यो वासुकिस्तथा । रथकृद्ग्रामणीर्हेतिस् तुम्बुरुश्चैव सप्तमः ।
एते वसन्ति चैत्रे वै मधुमासे सदैव हि । मैत्रेयः स्यन्दने भानोः सप्तमासाधिकारिणः ।
अर्यमा पुलहश्चैव रथौजाः पुञ्जकस्थली । प्रहेतिः कच्छनीरश्च नारदश्च रथे रवेः ।
माधवे च वसन्त्येते शुचिसंज्ञे निबोध मे । मित्रोऽत्रिस्तक्षको दक्षः पौरुषेयश्च मेनका ।
हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति हि । वरुणो वसिष्ठो रम्भा च सहजन्या हूहूर्वधः ।
रथचित्रस्तथा चक्रे वसन्त्याषाढसंज्ञके । इन्द्रो विश्वावसुः श्रोतैलापत्रस्तथाऽङ्गिराः ।
प्रम्लोचा च नभस्यान्ते सर्पश्चक्रे वसन्ति हि । विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा ।
अनुम्लोचा शङ्खपालो व्याघ्रा भाद्रपदे यथा । पूषा च सुरुचिर्वातो गौतमोऽथ धनञ्जयः ।
सुषेणोऽन्यो धृताची च वसन्त्याश्वयुजे रवौ । विश्वावसुभवद्वाजौ पर्जन्यैरावतौ तथा ।
विश्वाचीन् सेनजिच्चापः कार्तिके चाधिकारिणः । अंशुः कश्यपतार्क्ष्यस्तु महापद्मस्तथोर्वशी ।
चित्रसेनस्तथा विद्युन्मार्गशीर्षाधिकारिणः । ऋतुर्भर्गस्तथोर्णोऽर्कः स्फूर्जः कर्कोटकस्तथा ।
अरिष्टनेमिश्चैवान्या पूर्वचित्तिर्वराप्सराः । पौषे मासि क्सन्त्येते सप्त भास्करमण्डले ।
लोकप्रकाशनार्थाय विप्रवर्याधिकारिणः । त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा ॥
ब्रह्मीयोत्तरऋतजिद्धृतराष्ट्रोऽथ सप्तमः । माघमासे वसन्त्येते सप्त मैत्रेयमण्डले ।
श्रूयतां चापरे सूर्ये फाल्गुने च वसन्ति ये । विष्णुरश्वतरो रम्भा सूर्यवर्चाऽथ सप्तजित् ।
विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने । मासेष्वेतेषु मैत्रेय वसन्त्येते हि सप्तकाः ।
सवितुर्मण्डले ब्रह्मन् विष्णुशक्त्युपबृंहिताः । स्तुवन्ति मुनयः सूर्यं गन्धर्वैर्गीयते पुनः ।
नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानु निशाचराः । वहन्ति पन्नगा यक्षैः क्रियते भीषु सङ्ग्रहः ।
वालिखिल्यास्तथैवामुं परिवार्यसमासते । सोऽयं सप्तगणः सूर्यमण्डले मुनिसप्तमेत्युक्तेरुक्ता
गतिरवधेया ॥ २४ ॥
**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **
द्वादशस्कन्धे एकादशोऽध्यायः ॥ १२-११ ॥