अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम्
॥ अथ दशमोऽध्यायः ॥
शौनक उवाच–
अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।
समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् ॥ १ ॥
पदरत्नावली
स्थूलमतीनामुपासनार्थं पुरुषरूपस्य हरेर्यजनप्रकारं वदत्यस्मिन्नध्याये । तत्र तद्बुभुत्सया शौनकः पृच्छति अथेति । बुद्धिसन्निहितत्वादिममित्युक्तम् । समस्ततन्त्रराद्धान्ते सर्वपञ्चरात्रतन्त्रलक्षणशास्त्रोक्तसिद्धान्ते उक्तं यद् भागवतं भगवद्विषयं तत्वं तद् वेत्तीति ॥१॥
सत्यधर्मीया
यद्यपि शौनकेन करिष्यमाणस्य प्रश्नस्य द्वितीयस्कन्धोक्तस्य विराड्-रूपस्याङ्गोपाङ्गाकल्पादिध्यानोक्तिमात्रेणालं तथाऽप्युपक्रमोपसंहारयोः सम्पुटीभावनं युक्तमिति किञ्चित्तद्रूपं निरूप्य तद्धार्याकल्पादिकथनेन तत्सुग्रहमिति तदाद्यत्र प्रतिपाद्यते । तत्र नापृष्टः कस्यचिद् ब्रूयादित्यादेः सूतं शौनकः पृच्छतीत्यादितो वदति ॥ अथेति । मङ्गलं स्वप्नस्योत्तरी-करणमथेत्यनेनासूचयत् । बहुवित्तमं बहवो वित्तमा येन विदितेनार्थेन तमर्थं वयं भवन्तमिममिति बुद्धिसन्निहितं पृच्छामः । मां प्रत्येव कुतोऽनुयोग इति तत्राह ॥ समस्ततन्त्रराद्धान्त इति । पञ्चरात्रादिसिद्धान्तस्तस्मिन्भवान्भागवततत्त्वविद्भागवतं तत्त्वं रहस्यं वेत्तीति स तथेति ॥१॥
तान्त्रिकाः परिचर्यायां केशवस्य श्रियः पतेः ।
अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथैव यैः ॥ २ ॥
पदरत्नावली
तान्त्रिकाः श्रीनारायणपूजाविधायकशास्त्रपटवः श्रियः पतेः पत्युः, प्रयोग-रूढेः प्राबल्याद् घिसंज्ञा वैकल्पिकेति बोद्धव्यम् । परिचर्यायामङ्गोपाङ्गायुधाकल्पम् अङ्गानि पादादीनि, उपाङ्गानि गरुडादीनि, आकल्पमाभरणं कौस्तुभादि ॥ २ ॥
सत्यधर्मीया
तान्त्रिकाः पाञ्चरात्रिकाः । श्रियः पतेरिति षष्ठ्या अलुक् । श्रीमात्र-पतित्वमाक्रोशविषय इति घिसंज्ञोपपत्तिः । इममेवाभिप्रायं मनस्यानीय द्विरूपकोशे श्रियः पतिः श्रीपतिः स्यादित्युक्तिः । परिचर्यायां सेवाविषये यैर्यथा तत्सृष्टैः पदार्थैरङ्गान्यखण्डा देहा उपाङ्गानि पादादीनीति केचित् । अङ्गानि पादादीन्युपाङ्गानि गरुडादीनीत्यपरे । आयुधानि चक्रादीन्येतैः सहितमाकल्पम् आभरणं तथैव कल्पयन्ति ॥ २ ॥
तान् नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् ।
येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ॥ ३ ॥
पदरत्नावली
तान् पदार्थान् । क्रियायोगं पूजालक्षणं बुभुत्सतां ज्ञातुकामानाम् । क्रिया-नैपुणेन क्रियापटुत्वेन । अमर्त्यतां मरणराहित्यं मुक्त्याख्यम् ॥ ३ ॥
सत्यधर्मीया
क्रियायोगं पूजादिक्रियोपायं, बुभुत्सतां बोद्धुमिच्छतां नस्तानङ्गोपाङ्गकल्पां-स्तान् पदार्थानिति वा । येन क्रियानैपुणेन तत्कौशल्येन मर्त्योऽमर्त्यतां यायात् । तन्न इति पठित्वा क्रियायोगं नो वर्णयेत्यन्वयं वर्णयन्ति । ते भद्रमस्त्विति विप्रत्वत उक्तिः ॥ ३ ॥
सूत उवाच–
नमस्कृत्वा गुरून् वक्ष्ये विभूतीर्वैष्णवीरपि ।
या वेदागमतन्त्राभ्यामाचार्यैः पद्मजादिभिः ॥ ४ ॥
पदरत्नावली
वेदागमतन्त्राभ्यां वेदाख्यागमेन तन्त्रशास्त्रेण च पद्मजादिभिराचार्यैः प्रतिपादिता यास्ता विभूतीः ॥ ४ ॥
सत्यधर्मीया
सूतोऽपि महाप्रमेयमिदं विना न मङ्गलं वक्तव्यमिति मतिमान्यत्प्रसादा-दासादितं ज्ञानं तन्नमनरूपमङ्गलमाचरति ॥ नम इति । नमः कृत्वेति छेदः । नमस्कृत्येति पाठे एकपद्यम् । वैष्णवीर्विष्णुसम्बन्धिनीरागमतन्त्राभ्यां पद्मजादिभिराचार्यैर्मुख्योपदेशकैः प्रतिपादितास्तन्मध्येऽहं च या वेद ता विभूतीर्वक्ष्ये ॥ ४ ॥
मायाद्यैर्नवभिस्तत्त्वैः सविकारैरयं विराट् ।
निर्मितो दृश्यते यस्मिन् सचित्के भुवनत्रयम् ॥ ५ ॥
पदरत्नावली
माया प्रकृतिः । आदिशब्देन महदहङ्कारमनांसि पञ्चभूतानि च गृह्यन्ते । विकारा इन्द्रियादयः । विराट् ब्रह्माण्डम् । सचित्के चेतनसहिते यस्मिन् ब्रह्माण्डे भुवनत्रयं दृश्यते ॥ ५ ॥
सत्यधर्मीया
मायाद्यैर्नवभिर्माया प्रकृतिराद्या येषां ते तैर्महानहङ्कारो मनः पञ्चभूतानि पञ्चतन्मात्रा यास्तत्पूर्वकसृष्टाविति नवभिस्तत्त्वैस्तानि चैवंविधानीत्याह ॥ सविकारैरिति । सेन्द्रियादिभिरयं विराड्देहो निर्मितो ब्रह्माण्डं निर्मितमिति यावत् । यस्मिन्सचित्के चेतनयुक्ते । विधिं ब्रह्माण्डविग्रहमित्यादेर्दृश्यते स इति ॥ ५ ॥
एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।
नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ ६ ॥
पदरत्नावली
एतद् ब्रह्माण्डं पौरुषं रूपं पुरुषसन्निधानयोग्यप्रतिमारूपम् । यैरङ्गादिकं कल्पयन्ति तानाह भूरिति । अत्र विवरणं पूर्ववदूह्यम् ॥ ६ ॥
सत्यधर्मीया
सचित्क इत्युक्तं सा चित्केत्यत आह ॥ एतदिति । पुरुषनामक-भगवत्सन्निधानपात्रमिति पौरुषं रूपम् । तदाश्रितान्युपाङ्गानि ध्यानसौकर्यायाह ॥ भूः पादावित्यादिना । विराजोऽधिपूरुषः, पुरुष एवेदं सर्वमिति पुरुषसूक्तार्थानुवादरूपा इमे श्लोका अर्थस्तु द्वितीयस्कन्धे विवृतावाचार्यवर्योक्तप्रकारेण ज्ञेयः । द्यौः शिरो नाभिर्नभः सूर्योऽक्षिणी नासो वायुः कर्णौ दिशः ॥ ६ ॥
प्रजापतिः प्रजननमपानो मृत्युरीशितुः ।
तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवोर्यमः ॥ ७ ॥
पदरत्नावली
प्रजापतिर्दक्षः प्रजननमुपस्थम् ॥ ७ ॥
दुर्घटभावदीपिका
भ्रुवोर्यम इत्युक्तिः प्रमाणप्रमितभेदविशिष्टैक्यव्यपदेशः सर्वोऽपि गौण इति ज्ञापनार्था । अन्यथा भ्रुवौयम इत्यवक्ष्यत् ॥ ७ ॥
सत्यधर्मीया
प्रजापतिर्दक्षः प्रजननं गुह्येन्द्रियम् । अपानो गुह्येन्द्रियं तद्वातो वा । मृत्युस्तद्बाहवो लोकपालाः, मनश्चन्द्रो भ्रुवोर्यम इति वचनेनात्रोत्तरत्र च सामानाधिकरण्यप्रतीत-तादात्म्यं प्रतिषेधं किञ्चात्रैव वदंस्तथा प्रतिपन्नापत्तिं यमतः सूचयति चेति ज्ञेयम् ॥ ७ ॥
लज्जोत्तरोऽधरो लोभो द्युतिर्ज्योत्स्ना स्मयो भ्रमः ।
रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ॥ ८ ॥
पदरत्नावली
उत्तरोष्ठो लज्जा, अधरोष्ठो लोभः । द्युतिः स्वरूपकान्तिर् ज्योत्स्ना । भ्रमो भ्रान्तिः, स्मयो दर्पविशेषः । एतावती अङ्गकल्पना ॥ ८ ॥
सत्यधर्मीया
लज्जोत्तरोऽधर ओष्ठो, लोभो द्युतिः कान्तिर्ज्योत्स्ना, स्मयो हासः । नयनाश्रितचन्द्रप्रकाशो ज्योत्स्नापदार्थ इति नामरविरोधः । अत एव कान्तिमात्रवाची स इति पामरो वाऽमरः । भ्रम इतरमोहदो हासो जनोन्मादकारी च मायेति द्वितीयोक्तेः । भ्रमो भ्रूविक्षेपः स्मयो हास इति वा । रोमाणि भूरुहाः, पुरुषमूर्धजा मेघाः ॥ ८ ॥
यावानयं स पुरुषो यावत्या संस्थया मितः ।
तावानसावपि महान् पुरुषो लोकसंस्थया ॥ ९ ॥
पदरत्नावली
सोऽयं पुरुषो ब्रह्माण्डाख्यः लोकसंस्थया यावत्या संस्थया मितः परिमितः, असौ महान् पुरुषस् तदन्तस्थपुरुषो भगवानपि तावान् तावत्परिमाणोपेतः ॥ ९ ॥
सत्यधर्मीया
पुरुषो ब्रह्माण्डाख्यो लोकसंस्थया लोकाकारविशेषेण यावत्या संस्थया परिमितस्तावानयं तदन्तःस्थः पुरुषो भगवान्महानपि ततोऽपीति ॥ ९ ॥
कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः ।
तत्प्रभा व्यापिनी साक्षाच्छ्रीवत्समुरसा विभुः ॥ १० ॥
पदरत्नावली
उपाङ्गान्याह कौस्तुभेति । अजो विष्णुः स्वात्मज्योतिर् ज्योतिःस्वरूपः । यद्वा स्वाधीनब्रह्माख्यज्योतिः । श्रीरित्यध्याहार्यम् । साक्षाच्छ्रीस्तस्य श्रीवत्सस्य प्रभां व्याप्नोतीति तत्प्रभाव्यापिनी । तादृशं श्रीवत्समुरसा बिभर्ति ॥ १० ॥
सत्यधर्मीया
उपाङ्गान्यङ्गयति ॥ कौस्तुभेति । कौस्तुभव्यपदेशेनाजो हरिर्बिभर्ति । स्वस्वरूपज्योतिस्तदात्मकत्वेन बिभर्तीति यावत् । अजो ब्रह्मा च सा कौस्तुभव्यपदेशेन स्वात्म-ज्योतिः प्रकाशात्मकं स्वरूपं बिभर्तीत्यप्यर्थ इति सूचयितुमज इत्युक्तम् । तत्कण्ठगं कौस्तुभमास दधातेत्यादेः । तत्प्रभाव्यापिनी ई साक्षाच्छ्रीवत्समिति पदानि । ततश्चैवं विग्रहः । प्रभां व्याप्नोतीति प्रभाव्यापिनी साक्षाद् ई श्रीर्यस्य तत्तम् । श्रीवत्समुरसा विभुर्बिभर्ति । सा अक्षादिति छेदो वा । अक्षादितरेन्द्रियं परित्यज्य भृगुचरणचिन्हवत्त्वात्तस्य च स्वमूलपुरुषत्वाच्चेति । तत्प्रभाव्यापिनी सा लक्ष्मीरिति । उरसा तं श्रीवत्सं बिभर्तीति । लौकिकमाभाणकं भार्यामुर उपरि धृत्वा विराजत इति समूलम् । सा लक्ष्मीरिति गीयत इत्यनेकार्थध्वनिपदमञ्जरी ॥१०॥
स्वमायां वनमालाख्यां नानागुणमयीं दधत् ।
वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत् स्वरम् ॥ ११ ॥
पदरत्नावली
स्वां मायां श्रियम् । नानावर्णगुणमयीम् । छन्दोमयं वेदस्वरूपम् । त्रिवृत् त्रिवर्णात्मकं स्वरं प्रणवलक्षणं ब्रह्मसूत्रं (च) दधत् ॥ ११ ॥
सत्यधर्मीया
नानागुणमयी नानावर्णयन्ती । वनमालेत्याख्या यस्याः सा तां श्रीरूपिणीं दधत् । नाभ्यस्ताच्छतुरिति नुम्न । छन्दोमयं वेदात्मकं, पीतं वासो दधदिति यथास्वस्थानमन्वेति । वासस्तु मध्य इत्यादिकस्य द्वितीयाद्युक्तस्य वासश्छन्दोमयमित्यादिना व्यत्यस्योक्तिः कथं न विरुद्धेति चेन्न । अनन्तरूपतैकैकस्यानन्तसम्बन्धिवस्तुन इत्येवमावेदनपरत्वादेवमादेरित्यविरोधो-पपत्तेः । विशिष्य तत्र तत्रोक्तिः स्थूलदृश्वविवक्षयेति । त्रिवृत्त्रिगुणं तथा त्रिवृदकारोकार-मकारान्वृणोतीति तं, स्वरं स्वं विष्णुं रात्यादत्ते प्रतिपाद्यतयेति प्रणवस्तं, ब्रह्मसूत्रं यज्ञोपवीतम्
॥ ११ ॥
बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले ।
मौलिं पदं पारमेष्ठ्यं सर्वलोकनमस्कृतम् ॥ १२ ॥
पदरत्नावली
साङ्ख्यं ज्ञानं योगं कर्म एतद्द्वयाख्ये मकरकुण्डले, पारमेष्ठ्यं पदं स्थानं मौलिं किरीटम् ॥ १२ ॥
सत्यधर्मीया
साङ्ख्यं शुद्धात्मतत्त्वविज्ञानं, योगमणिमादिकं कर्म वा । मकरकुण्डले तद्रूपतया देवो बिभर्ति । सर्वलोकनमस्कृतं पारमेष्ठ्यं स्थानं मौलिं किरीटं बिभर्ति ॥१२॥
अव्याकृतमनन्ताख्यमासनं यदधिष्ठितम् ।
धर्मज्ञानादिभिर्युक्तं सत्वं पद्ममिहोच्यते ॥ १३ ॥
पदरत्नावली
यदधिष्ठितमासनं पीठं तदनन्ताख्यमव्याकृतं विकाररहितम् । सत्वं सत्वगुणाभिमानिनी श्रीः पद्मम् ॥ १३ ॥
सत्यधर्मीया
यदधिष्ठितं येनाधिष्ठितमासनमव्याकृतमविकृतं नित्यम् । अनन्तेत्याख्या यस्य तत् । धर्मज्ञानादिधर्मैर्युक्तं सत्त्वं तद्गुणाभिमानिनी श्रीर्विराड्रूपेह पद्ममुच्यते ॥ १३ ॥
ओजस्सहोबलयुतं मुख्यतत्वं गदां दधत् ।
अपां तत्वं दरवरं तेजस्तत्वं सुदर्शनम् ॥ १४ ॥
पदरत्नावली
मुख्यतत्वं मुख्यप्राणरूपां गदां दधत् ॥ १४ ॥
सत्यधर्मीया
ओजश्च सहश्च बलं च तैर्युतं मुख्यतत्त्वं मुख्यप्राणः । प्राणो वै मुख्य इति श्रुतेः । तद्रूपिणीं गदां कौमोदकीं, गदा तु वायुर्बलसंविदात्मा । शार्ङ्गं च विद्येति रमैव खड्गः । दुर्गात्मिका सैव च चर्मनाम्नीत्याद्यन्यत्रोक्तमुक्तगतिकम् । अपां तत्त्वं तज्जन्यत्वात्तत्तत्त्वता-पाञ्चजन्यस्य । तेजस्तत्त्वं महाज्वालारूपं सुदर्शनं चक्रम् ॥ १४ ॥
नभोनिभं नभस्तत्वमसिं चर्म तमोमयम् ।
कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधी ॥ १५ ॥
पदरत्नावली
नभोनिभमाकाशवन्नीलवर्णं नभस्तत्वरूपमसिं नन्दकम् । तमोमयं तमोगुण-वदाच्छादनकरं चर्म दधत् । पुण्यकर्मस्वरूपे इषुधी च ॥ १५ ॥
सत्यधर्मीया
नभोनिभं नभस्तत्त्वं भूतस्तत्त्वं तद्रूपमसिं नन्दकं, तमोमयं दुर्गाप्रधानकं वैरिनेत्राद्याच्छादकं तमोमयं चर्म शृङ्गमयं शार्ङ्गं कालमयं कालरूपं धनुः कर्ममयौ पुण्यकर्मात्मकौ च ताविषुधी चेत्येकं पदम् । कर्ममये इषुधी इति भवितव्यमिति परास्तम् ॥ १५ ॥
इन्द्रियाणि शरानाहुराकृतिरस्य स्यन्दनम् ।
तन्मात्राण्यस्याभिव्यक्तिरिन्द्रियार्थाः क्रिया मताः ॥ १६ ॥
पदरत्नावली
अस्य हरेः स्यन्दनमाकृतिः पृथिवी । अस्याभिव्यक्तिस् तन्मात्राणि शब्दादीनि । इन्द्रियार्थाः कर्मेन्द्रियविषयाः क्रिया मता विसर्गादीनि कर्माणि ज्ञातव्यानि
॥ १६ ॥
सत्यधर्मीया
इन्द्रियाणि तदभिमानिनः शरान्बाणान्पञ्चात्मको मारुत एष बाण इत्युक्त्येतरान् आकृतिः स्वाधिष्ठातृकर्मौपयिकत्वात्पृथिव्याकृतिः । रथस्य भूम्यात्मकत्वं च मानिकं ज्ञेयम् । केचिन्मन आकृतिरित्याहुः । तन्मात्राणीति मात्रलग्नं तत्राप्रवृत्तिस्तूक्तगतिका । याऽऽ-कृतिस्तां स्यन्दनमाहुरित्यन्वयः । अस्य स्यन्दनस्य तन्मात्राणि गन्धादीनि चाभिव्यक्तिर्व्यक्ति-स्थानम् । इन्द्रियार्था इन्द्रियगोचरविषयाः क्रियाः कर्माणि ॥ १६ ॥
मण्डलं देवयजनं दीक्षा संस्कार आत्मनः ।
परिचर्या भगवत आत्मनो दुरितक्षयः ॥ १७ ॥
भगवान् भगशब्दात्मा लीलाकमलमुद्वहन् ।
धर्मं यशश्च भगवान् चामरव्यजनेऽभजत् ॥ १८ ॥
पदरत्नावली
देवयजनं हरेः पूजास्थानं चक्राब्जादिकं मण्डलम् । आत्मनः परमात्मनः सकाशात् संस्कारः शरीरशुद्धिर् दीक्षा । दीक्षया हि देहशुद्धिः । भगवतः परिचर्या आत्मनः स्वस्य दुरितक्षयः पापनाशनम् ॥ भगवान् पूज्यः भगशब्दात्मा भगशब्दस्वरूपः, ऐश्वर्यादिगुण-स्वरूप इत्यर्थः । धर्मयश आख्ये चामरव्यजने ॥ १७,१८ ॥
सत्यधर्मीया
मण्डलं चक्राब्जादिकं देवयजनं देवपूजामुद्दिश्य कार्यम् । आत्मनः शरीरस्य नियमो दीक्षा संस्कारः शुद्धिलक्षणः । मण्डलं पावमानरूपं नीराजनं वा । एकादशतात्पर्ये । नितरां रञ्जयेद्यस्मात्पावमानन्तु मण्डलम् । विष्णुनीराजनं तस्माद्विद्वद्भिः समुदाहृतमिति नीराजनपदव्याकृत्यवसरे पावमानमण्डलमित्युक्तेर्नीराजनमित्यपि पूजाप्रस्तावाद्युक्तमिति केचित् । एवं भगवतः परिचर्याऽऽत्मनो जीवस्य दुरितक्षयः पापनाशिका । भग इति शब्दो वाचको येषां त ऐश्वर्यादय आत्मा देहो यस्य सः । भरा इति शब्द्यते इति वा । इतरत्प्राग्वत् । लीलाकमलमुद्वहन्धर्मं च यशश्चैते चामरव्यजने अभजत् ॥ १७,१८ ॥
आतपत्रं तद्वैकुण्ठं निजधामाकुतोभयम् ।
त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरूषम् ॥ १९ ॥
पदरत्नावली
निजधाम तद्वैकुण्ठं तदभिमानिदेवता आतपत्रम् । त्रिवृत् त्रिविधो वेदः सुपर्णाख्यो यज्ञं पूरुषं यज्ञपुरुषं वहति ॥ १९ ॥
सत्यधर्मीया
वैकुण्ठं निजं धामाकुतोभयमातपत्रं तदभिमानिनी देवताऽऽतपत्र-स्थानीयेत्यर्थः । त्रिवृदृग्यजुःसामाख्यो वेदस्तं वृणोति । ते व्रियन्त इति वा । सुपर्णाख्यः सन् यज्ञपुरुषं भगवन्तं वहति ॥ १९ ॥
अनपायिनी भगवती श्रीः साक्षादात्मनो हरेः ।
(अनपायिनी श्रीः साक्षादात्मभूता हरेः प्रभोः ।)
विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः ॥ २० ॥
पदरत्नावली
साक्षादनपायिनी नित्यावियोगिनी श्रीर्हरेरात्मभूता अर्धदेहा नाम । विष्वक्सेनः पार्षदाधिपो विदितस् तन्त्रमूर्तिस् तन्त्रग्रन्थाभिमानी ॥ २० ॥
सत्यधर्मीया
भगवत्यनपायिनी श्रीर्हरेरात्मनः साक्षात्तुल्याऽर्धाङ्गिनीति यावत् । तन्त्रमूर्तिः पञ्चरात्रात्मा विष्वक्सेनः पार्षदाधिपो विदितः ॥ २० ॥
नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् ।
अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहेऽभिधीयते ॥ २१ ॥
स विश्वतैजसप्राज्ञतुरीय इति वृत्तिभिः ।
अर्थेन्द्रियाशयज्ञानैर्भगवान् भाष्यते ततः ॥ २२ ॥
पदरत्नावली
अष्टौ नन्दादयो द्वाःस्था हरेरणिमाद्या गुणा तदाश्रिताः । मूर्तिव्यूहे मूर्तिस्थापने वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धः स्वयमभिधीयते ॥ स भगवानेव विश्वादिशब्दवाच्य इति भाष्यते । अर्थेन्द्रियाशयज्ञानैर् वृत्तिभिः, अर्थज्ञानलक्षणवृत्त्या जाग्रदवस्थया विश्वः, मनआदीन्द्रियगतवासनालक्षणज्ञानवृत्त्या स्वप्नावस्थया तैजसः, आशयः सुषुप्तिस् तदवस्थाज्ञान-लक्षणवृत्त्या वर्तमानः प्राज्ञः, एतावन्तं कालं सुखमस्वाप्समित्यनुभवात् । किमेते भिन्ना इत्यत्राह तत इति । ततो व्याप्तोऽपरिच्छिन्न इत्यर्थः । बहुत्वसङ्ख्यामात्रयोगित्वं न तु मिथो भिन्नत्वम्
॥ २१,२२ ॥
सत्यधर्मीया
हरेर्येऽणिमाद्या अष्टौ गुणा भूतयोऽष्टौ सुनन्दादयो द्वाःस्था दौवारिकाः । वासुदेवाद्यनिरुद्धान्ताश्चत्वारो मूर्तिव्यूहे तत्सङ्घे पुरुषः स्वयं नारायण एवाभिधीयते । विशेषकृतो व्यवहारविशेष इत्यर्थः । अर्थेन्द्रियाशयज्ञानैरर्थज्ञानवृत्त्या जाग्रदवस्थया तत्प्रेरको विश्व इति भाष्यते । इन्द्रियज्ञानेन मनआदीन्द्रियवासनाज्ञानवृत्त्या स्वप्नावस्थातस्तैजस इति भाष्यते । आशयः सुषुप्तिस्तदवस्थाज्ञानवृत्त्या प्राज्ञ इति भाष्यते । एतैस्तृतीयैः साक्षी तैजस (तुरीय इति भाव्यम् ।) इति भाष्यत इति केचित् । अर्थैरिन्द्रियैराशयेन ज्ञानेन क्रमाच्चत्वारो भाष्यन्त इति वा । जाग्रद्दर्शनरूपत्वादित्यारभ्य विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थित इति गर्भीकृत्य मुक्तस्य सर्वव्यापारहेतुरेव तुरीयक इत्यन्तेन माण्डूकभाष्येण विस्तरोऽवसेयः । परिच्छिन्नदेश-निवेशेऽपि न तेषां परिच्छिन्नतेत्याह ॥ तत इति । चतुर्णामपि पृथग्विशेषणम् ॥ २२ ॥
अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम् ।
बिभर्ति स्म चतुमूर्तिर्भगवान् हरिरीश्वरः ॥ २३ ॥
पदरत्नावली
अङ्गादिकथनस्योपयोगमाह ओति । अङ्गादिशब्दवाच्यवासुदेवाद्यावरणै-र्भगवान् पूज्य इत्येतदर्थत्वेन कथनमित्यर्थः । अङ्गादिचतुष्टयस्यापि हरिरेवाधार इत्याह तदिति । चतुर्मूर्तिर्भगवान् अङ्गादिचतुष्टयं बिभर्ति । अङ्गात्मका वासुदेवाद्याः स्वयमुपाङ्गादिषु ब्रह्मादिषु सन्निहितत्वेन पूजाकाले तथा स्मरणार्थं स्मेत्युक्तम् । भगवान् वसिष्ठाद्यन्यतमो नेत्याह हरिरिति । हरिरपि पुरन्दराद्यन्यतमः किं न स्यादित्यत उक्तम् ईश्वर इति । सोपि सदाशिवः स्यादत उक्तं चतुर्मूर्तिरिति । सोऽष्टमूर्तिरिति प्रसिद्धः ॥ २३ ॥
सत्यधर्मीया
यदर्थमङ्गादिनिरूपणं तदाह ॥ ओति । भगवांस्तच्चतुष्टयं चतुर्मूर्ति-र्वासुदेवाद्यात्मेश्वरो हरिरेव बिभर्ति स्म । अङ्गं स्वयमुपाङ्गादिषु सन्निहित इति विवेकः । अनेनैवमुपासार्थमेतदुक्तिरित्युक्तं भवति । भगवानिति नाश्वकर्णादिवद्रूढमिति दर्शयितुं पुनर्भगवा-नित्युक्तमिति ज्ञेयम् ॥ २३ ॥
द्विजवृषभ स एष ब्रह्मयोनिः स्वयं दृक्
स्वमहिमपरिपूर्णो माययाऽऽद्यः स्वयैतत् ।
सृजति हरति पातीत्याख्ययाऽनावृताक्षो
विसृजत इव निरुक्तैस्तत्परैरात्मलभ्यः ॥ २४ ॥
पदरत्नावली
यद् वेदान्तेवद्यं तदेवात्र पुरुषरूपेणोच्यते तस्मादिदं मुमुक्षुभिः श्रद्धयोपास्य-मिति श्लोकद्वयेनाह द्विजवृषभेति । हे द्विजवृषभ तत्परैस् तद्भक्तैर् आत्मलभ्य आत्मनि मनसि लभ्यः प्रकाश्यो भवति । यद्वा आत्मनैव स्वानुग्रहेणैव लभ्यः प्राप्यः । यमेवैष वृणुते तेन लभ्य इति श्रुतेः । किं लक्षणकोऽयं पुरुष इति तत्राह माययेति । स्वया मायया स्वेच्छयैव सृजतीति स्रष्टा हरतीति हरः पातीति पाता, स्रष्टा पाता तथैवात्ता निखिलस्यैक एव त्वित्यादेः । अत्र किं प्रमाणम् । तत्राह ब्रह्मेति । ब्रह्म वेदादिशब्दराशिर् योनिर्ज्ञप्तिकारणं यस्य स तथा । वेदादिशब्दराशिरस्मिन्नर्थे मानमित्यर्थः । चतुर्मुखस्यापि सृष्ट्यादिकर्तृत्वस्य प्रमितत्वात् कथं हरेरेवेति निश्चीयते, ब्रह्मा देवानां प्रथमः सम्बभूवेत्यादि श्रुतेरित्यतो वाह– ब्रह्मेति । ब्रह्मणश्चतुर्मुखस्य योनिः कारणम्, यो ब्रह्माणं विदधाति पूर्वमिति श्रुतेः । लोकवत् परोपदेशेन कर्मणि न प्रवर्तते किन्तु स्वरूपज्ञानेनेत्याशयेनाह स्वयं दृगिति । स्वयंभूतज्ञानत्वेऽपि कर्म परापेक्षाऽविनाभूतं दृष्टमत्राह स्वमहिमेति । स्वे महिम्नीति श्रुतेः । स्वयं प्रकाशमानस्य प्रद्योत-नस्य मेघाद्यावरणेनेव हरेर्ज्ञानस्यापि तत् स्यादित्यत्राह अनावृताक्ष इति । आवरणरहितदृष्टिः । कथं प्रकाशत इत्यत्राह विसृजत इति । स्रष्टाऽयमित्युपासमानस्य विविधं सृजत इति प्रकाशते, संहर्ताऽयमिति ज्ञानवतः संहरतीव, (एवं) रक्षतीव, इतरस्योपलक्षणमेतत् । यान् यान् गुणानुप-संहृत्योपास्ते तत्तद्गुणत्वेन प्रकाशत इति ॥ २४ ॥
दुर्घटभावदीपिका
अनावृताक्षोऽनावृतदृष्टिर्भगवानिव भगवानेव सृजति हरति संहरति पाति । ननु भगवानेव सृष्ट्यादि कर्तेत्ययुक्तम् । श्रुत्यादिषु विरिञ्चः सृष्ट्यादिकर्ता रुद्रः संहारकर्तेत्युक्तत्वादित्यत आह ॥ इत्याख्ययेति । भगवान्विरिञ्च इत्याख्यया रुद्र इत्याख्यया निरुक्तः प्रतिपादितः । नन्वेवमपि भगवानेव सृष्टिसंहारकर्तेत्यनुपपन्नम् । विरिञ्चस्यापि विरिञ्चाख्यानिरुक्तत्वेन भगवत इव सृष्टिकर्तृत्वस्य वक्तव्यत्वात् । रुद्रस्यापि रुद्राख्यानिरुक्तत्वेन भगवत इव संहारकर्तृत्वस्य वक्तव्यत्वादित्यत आह ॥ विसृजत इति ॥ भगवानेव विसृजते वि विशेषेण । स्वातन्त्र्येणेति यावत् । सृजते सृष्टिं करोति । उपलक्षणमेतत् । भगवानेव स्वातन्त्र्येण संहरतीत्यपि द्रष्टव्यम् । इदमुक्तं भवति । भगवान्विरिञ्चाख्यया विशिष्टः सन् स्थित्वा स्वातन्त्र्येण सर्वं सृजति । विरिञ्चस्तु परमेश्वराधीनः सन् सर्वं सृजति । रुद्रे रुद्राख्यया विशिष्टः सन् स्थित्वा स्वातन्त्र्येण सर्वं संहरति । रुद्रस्तु परमेश्वराधीनः सन् सर्वं संहरति । श्रुत्यादिभिरपि परमेश्वरस्य स्वातन्त्र्येण सर्वसृष्टिसंहारकर्तृत्वं विरिञ्चरुद्रयोस्तु भगवदधीनतया सृष्टिसंहारकर्तृत्वमुच्यते । अतः स्वातन्त्र्येण सृष्टिसंहारयोः कर्ता भगवानेवेत्युक्ते न किमपि बाधकमिति । भगवत्स्वातन्त्र्योपासकानां फलमाह ॥ तत्परैरिति । भगवांस्तत्परैर्भगवत्स्वातन्त्र्यपरैः । भगवत्स्वातन्त्र्योपासकैरिति यावत् । आत्मलभ्यः स्वप्रसादेन लभ्य इति । एतेन विसृजत इत्यत्र इवेत्येतद्व्यर्थमिति दूषणं परास्तम् । इवेत्यस्य एवार्थत्वं बिभर्तिस्म चतुर्मूर्तिर्भगवान् हरिरीश्वर इत्यतोऽनुवृत्तेन भगवानित्यनेनान्वयं च स्वीकृत्य भगवानेव स्वातन्त्र्येण सृष्ट्यादिकर्तेति वक्तुमिवशब्दः प्रत्युक्त इत्यभ्युपगमात् ॥ २४ ॥
सत्यधर्मीया
एतद्गुणकतयोपास्यो वेदान्तवेद्यो भगवानेवायं पुरुष इति मुमुक्षुभिरवश्योपास्य इति वक्ति ॥ द्विजवृषभेति । शौनक सर्ववेदावेदितोपास्यत्वक एष पुरुषो ब्रह्मयोनिर्ब्रह्म वेदो योनिर्ज्ञप्तिकारणं यस्येति सः । ब्रह्मणो योनिः कारणमिति वा । शास्त्रयोनित्वात् । यो ब्रह्माणं विदधाति पूर्वमित्यादेः । स्वयमाद्यः सकलादिभवः । स्वमायया स्वरूपभूतया शक्त्या । एतद्विश्वं सृजति हरति पातीत्याख्यया नाममात्रेण निरुक्तो वस्तुतस्तु न वस्तुभेद इत्यर्थः । स्वयं स्वरूपभूता दृग्यस्य स स्वमहिमपरिपूर्णः । तस्या दृशोऽप्रतिहततामाह ॥ अनावृताक्ष इति । सृजत इत्यनेन लोके कर्ता प्रायो न हर्ता हर्ता च नैवमिति यद्यपि तथाऽपि नैवमस्येत्यत्र श्रौतमेतदनुगुणनिदर्शनं दर्शयितुं यथोर्णनाभिः सृजते गृह्णते चेति श्रुतिप्रतीकं किञ्चिन्मया धृतमिति सूचयति ग्रन्थग्रथक इति ज्ञेयम् । एवमुपासनातत्परैरधिकारिभिरात्मलभ्यः स्वप्रसादेनैव स्वयं लभ्यः । यमेवैष वृणुते तेन लभ्य इत्यादेः ॥ २४ ॥
श्रीकृष्ण कृष्णसख वृष्णिवृषावनिधु्रग्
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार
तीर्थश्रवःश्रवणमङ्गल पाहि भृत्यान् ॥ २५ ॥
पदरत्नावली
श्रीकृष्ण कृष्णेत्युक्तार्थः ॥ २५ ॥
सत्यधर्मीया
गोपवनिताश्च व्रजे विद्यमाना भृत्याश्च तैर्गीतं तीर्थं स्वयं पवित्रं पवित्र-यच्चान्यान्यच्छ्रवः कीर्तिस्तस्या यच्छ्रवणं तेन मङ्गलं यस्मात्तत्सम्बुद्धिः । वनिताव्रजस्तत्सङ्घश्चेति वा । इतरत्प्राग्विवृतम् । स पुर एवायं कृष्ण इति स्मारणं फलमप्रस्तुतस्तुतेरिति मन्तव्यम् । भारतं प्राग्विलिखितमनुकूलितं चेति च । भृत्यान्नः पाहि ॥ २५ ॥
य इदं कल्य उत्थाय महापुरुषलक्षणम् ।
तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥ २६ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे दशमोऽध्यायः ॥
पदरत्नावली
एवमुपास्तिं कुर्वतः फलमाह य इदमिति । कल्ये उषसि महापुरुषलक्षणं यो जपति स जप्त्वा हृदयगुहायां शेत इति हृदयगुहाशयं ब्रह्म जानाति । कुशेशयमिति वत्
॥ २६ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां
द्वादशस्कन्धस्य दशमोऽध्यायः ॥ १२-१० ॥
दुर्घटभावदीपिका
यः कल्ये उषःकाले उत्थाय प्रयतः शुचिः सन् महापुरुषलक्षणं महापुरुषलक्षणप्रतिपादकमिदं पूर्वोक्तवाक्यजातं जप्त्वा तच्चित्तो भवति । पूर्वोक्तवाक्यजात-प्रतिपाद्यलक्षणविशिष्टध्यानवान्भवतीति यावत् । स गुहाशयं ब्रह्मापरोक्षतो वेदेति । एतेन यो जप्त्वा वेदेत्येतदनन्वितमिति दूषणं परास्तम् । यो जप्त्वेत्यस्य ब्रह्म वेदेत्यनेनान्वयमनङ्गीकृत्य तच्चित्तो भवतीत्यनेनान्वय इत्यभ्युपगमात् ॥ २६ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां
द्वादशस्कन्धे दशमोऽध्यायः ॥ १२-१० ॥
सत्यधर्मीया
एतच्छ्रवणश्रद्धातिशयजननाय फलमभिलपति ॥ य इति । कल्ये वा कालेषु वा न वृत्तविच्छित्तिर्नाप्यर्थभेद । किन्तु प्रत्ययवैलक्षण्यमात्रम् । पठन्त्युभयथाऽपि । कल्प इति तु न पाठः । कल्यं प्रभाते सज्जे चेति यद्विश्वः । कल्ये प्रातर्महापुरुषलक्षणम् । प्रयतो जप्त्वा तच्चित्तः सन् गुहाशयं हृदयगुहानिहितं गतं ब्रह्म वेद जानाति । एतेनैतदुपास्ता-वैकान्तिकताऽधिकारिण इति ध्वन्यते । अन्यथा मुक्तिमित्याद्युक्तिः स्यात् ॥ २६ ॥
**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **
द्वादशस्कन्धे दशमोऽध्यायः ॥ १२-१० ॥