स एवमनुभूयेदं नारायणविनिर्मितम्
॥ अथ नवमोऽध्यायः ॥
सूत उवाच–
स एवमनुभूयेदं नारायणविनिर्मितम् ।
वैभवं योगमायायास्तमेव शरणं ययौ ॥ १ ॥
पदरत्नावली
मार्कण्डेयः पुनः किमकार्षीद् यत्कथा शृण्वतां हरौ भक्तिसमुद्रेककरीति हार्दं शौनकादीनां चोद्यं परिहरति स एवमिति । यः पूर्ववत् स्वाश्रमे स्थितः सः । योगमायाया अणिमादिविभूतेर् वैभवं व्याप्तिम्, स्वरूपशक्तेः प्रभावं वा ॥ १ ॥
दुर्घटभावदीपिका
स मार्काण्डेयो योगमायायाः सर्वदा योगोऽस्यास्तीति, योगा च सा माया च योगमाया तस्या योगमायाया वैभवं प्रभवं नारायणविनिर्मितं नारायणसामर्थ्योत्कर्षनिर्मितम् इदं जगच्च । एवमनुभूय सम्यग्ज्ञात्वा तं नारायणमेव शरणं ययाविति । एतेन योगेत्येतद्व्यर्थमिति दूषणं परास्तम् । भगवत्सामर्थ्यस्य नित्यत्वं वक्तुं योगेत्युक्तमित्यभ्युपगमात् । एतेनैव वैभवमित्यनेन किं योगमायाशब्दोक्तभगवत्सामर्थ्यस्य कार्यं गृह्यते । किंवा भगवत्सामर्थ्यस्य सामर्थ्यं गृह्यते । नाद्यः । नारायणविनिर्मितमित्यनेन पुनरुक्तिप्रसङ्गात् । न द्वितीयः । भगवत्सामर्थ्यमनुभूयेत्यनेनैव पूर्णत्वेन भगवत्सामर्थ्यस्य सामर्थ्यमनुभूयेत्यस्य वैयर्थ्यादिति दूषणं परास्तम् । वैभवशब्देन भगवत्सामर्थ्यनिष्ठाधिक्यस्य ग्रहणात् ॥ १ ॥
सत्यधर्मीया
मायां दर्शयित्वा तया सह हरावन्तर्हिते मुनिरत उत किं ततानेति शनैः शौनकमनो विज्ञाय सूतस्तद्व्यावृत्तिं हरिचरणभक्तिहेतुमीरयंस्तत्रादौ मार्काण्डेयघटनाप्रकारं वक्ति ॥ स इति । स मार्काण्डेयो नारायणविनिर्मितयोगमायाया वैभवमेवमनुभूय तं हरिं शरणं ययौ
॥ १ ॥
ऋषिरुवाच–
प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे ।
यन्माययाऽपि विबुधा मुह्यन्त्यज्ञानकातराः ॥ २ ॥
सूत उवाच–
तमित्थं निभृतात्मानं वृषेण दिवि पर्यटन् ।
रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३ ॥
पदरत्नावली
यस्य हरेर्मायया मोहनशक्त्या । विबुधा अज्ञानकातरा इति पदद्वये-नान्योन्यविरुद्धेन मायाशब्दो व्याख्यात इति ज्ञातव्यम् ॥ निभृतात्मानं पूर्णमनसम् । हरावेव नितरां भृतमनसं वा । दिवि व्योमि्न ॥ २,३ ॥
सत्यधर्मीया
अन्तर्ध्यानाध्वनीनं माधवमानम्य बहिरपि तत्प्रकाशयति ॥ प्रपन्न इति । विबुधा अपि यन्माययाऽज्ञानकातरास्तदादयोऽपि मुह्यन्ति । ते तस्य हरेः प्रपन्नाभयदं शरणागत-विभयदमङ्घ्रिमूलं ज्ञानसाधनं पादमूलं प्रपन्नोऽस्मि । इत्थं निभृते पूर्णे आत्मा मनो यस्य स तम् । वृषेण नन्दिना पर्यटन्निभृतः पूर्ण आत्मा यस्य स वा । भगवान् रुद्रो रुद्राण्या स्वगणैः प्रमथसार्थैर्वृतो ददर्श । रुद्राण्या रुद्र इति तूक्तगतिकम् ॥ ३ ॥
अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥
सत्यधर्मीया
उमा कात्यायनी । हे भगवन् निभृतात्मेन्द्रियाशयमिमं विप्रम् । इः काम इच्छा मा न विद्यते यस्य स तं वा । पश्य । आश्चर्यचर्योऽयं त्रिलोक्यामिति विलोक्यस्त्वयेति भावः ॥ ४ ॥
निभृतो नन्वृषिव्रातस्तपापाये यथाऽर्णवः ।
कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ ५ ॥
पदरत्नावली
निभृतो ननु पूर्ण एव तपापाये वर्षाकाले । ऋषीणां व्रातो व्रतसमूहो यस्य स तथा । पूर्वविशेषणार्थे हेतुरयम् । अस्य मुनेः ॥ ५ ॥
दुर्घटभावदीपिका
मार्काण्डेयो ऋषिव्रातो ऋषीणां यानि व्रतान्याहारपरित्यागादीनि तद्वानपि तपापाये ग्रीष्मापाये यथाऽर्णवोऽर्णवसदृशस्तटाकादिर्यथा निभृतः पूर्णो भवति । तथा निभृतः पूर्ण इत्येतन्ननु निश्चितमिति । एतेन ऋषिव्रतवानिति वक्तव्यम् ऋषिव्रात इति कथनमनुपपन्नमिति दूषणं परास्तम् । ऋषिव्रातशब्देन मार्काण्डेयस्य ऋषिव्रतसम्बन्धित्वमुच्यते । ऋषिव्रतसम्बन्धित्वं च कर्तृत्वेनेत्यभ्युपेत्य ऋषिव्रात इत्यस्य ऋषिव्रतवानित्यर्थ इत्यभ्युपगमात् । एतेनैव समुद्रस्य वृष्टिकालप्रयुक्तपूर्णताऽदर्शनात् । तपापाये यथाऽर्णव इति कथनमनुपपन्नमिति दूषणं परिहृतम् । अर्णव शब्देन प्रसिद्धसमुद्रग्रहणमित्यनभ्युपगमात् ॥ ५ ॥
सत्यधर्मीया
तपापाये ग्रीष्मगमने वर्षाकाल इति यावत् । अर्णवो यथा तथा ऋषीणां व्रातं व्रतसङ्घस्तेषां व्रातः सङ्घो यस्य स स्वस्वाम्यतत्कः निभृतो ननु पूर्ण एव । सिद्धिदो भवानस्य साक्षात्संसिद्धिं कुरु । अनियमात्कुर्वित्युक्तिः । विवृत एतत्प्रकारः प्राक् । भाः कान्तिरस्यास्तीति भवांस्त्वं कुर्विति । मार्काण्डेयस्य वा विशेषणम् । भं नक्षत्रे भः प्रकाश इति विश्वः ॥ ५ ॥
श्रीभगवान् उवाच–
नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥
पदरत्नावली
रुद्रः प्रतिवक्ति नैवेति । मोक्षमपि नेच्छति किमुतान्या आशिषः । तत्र हेतुमाह भक्तिमिति ॥ ६ ॥
सत्यधर्मीया
सत्यामेवमुक्तवत्यां सत्यां किमचरद्धर इत्यत आह ॥ नेति । आशिष ऐहिकीरुत मोक्षमपि नैव वाञ्छति । अव्यये पुरुषे परां भक्तिं यल्लब्धवानत इति ॥ ६ ॥
अथापि संवदिष्यामो भवान्येतेन साधुना ।
अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७ ॥
पदरत्नावली
यद्यप्येवं तथापि भवत्या वचनगौरवाद् यतिष्याम इत्याशयेनाह अथापीति । हे भवानि एतेन साधुना । मुनिना सह संकथनेन किं प्रयोजनम् अत्राह अयं हीति । साधूनां समागमः सङ्गतिः ॥ ७ ॥
दुर्घटभावदीपिका
नृणामित्यस्य ज्ञानिनामित्यर्थः । एतेन शूद्रस्य मनुष्यत्वभावान्नृणा-मित्ययुक्तमिति दूषणं पराकृतम् । नृशब्देन भगवज्ज्ञानित्वमुच्यत इत्यभ्युपगमात् ॥ ७ ॥
सत्यधर्मीया
अथाऽपि सत्यपि निःस्पृहत्वे । हे भवानि । एतेन साधुना संवदिष्यामः संवादं करिष्यामः । कुत इत्यतो हि यतः साधूनां समागमो यः स नृणां परमो लाभस्तद्रूप इति ॥ ७ ॥
इत्युक्त्वा समुपेयाय भगवान् स सतां गतिः ।
ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ॥ ८ ॥
पदरत्नावली
समुपेयाय सम्प्राप । अयं साधारणो भगवान् न किन्तु वेदसिद्ध एवेत्यशये-नाह ईशान इति । श्रोत्रादीन्द्रियवतां जीवानां शिवाधीनत्वेन तत्तदिन्द्रियसाध्यस्य ज्ञानस्यापि तत्प्रसादायत्तत्वं युक्तम् ॥ ८ ॥
सत्यधर्मीया
सतां गतिरीशानः सर्वविद्यानामीश्वरः सर्वदेहिनां स भगवानीशानः सर्वविद्यानामिति श्रुतिप्रतीकग्रहणम् । तं समुपेयाय प्रापत् ॥ ८ ॥
तयोरागमनं साक्षादीशयोर्जगदात्मनोः ।
न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥ ९ ॥
पदरत्नावली
तदा मुनिना किमकारीति तत्राह तयोरिति । अहङ्काररूपेण जगदात्मनो-रिति । अज्ञाने किं कारणमत्राह रुद्धधीवृत्तिरिति । धीपूर्वकत्वादिन्द्रियवृत्तेस्तद्रोधे सर्वेन्द्रियरोधो युक्त इति रुद्धधीवृत्तिरित्युक्तम् । आत्मानं स्वं विश्वं पुरोवर्ति सर्वम् ॥ ९ ॥
सत्यधर्मीया
जगदात्मनोर्जगद्व्याप्तयोरीशयोः स्वामिनोः सतीतत्पत्योरागमनं न वेद । आत्मानं तथा सन्निहितं विश्वं तद्विशेषं च न वेद । अवेदने हेतुमाह ॥ रुद्धधीवृत्तिरिति । रुद्धा बहिरप्रसृता धीर्वृत्तिर्बुद्धिव्यापृतिर्येन सः । बुद्धेः सर्वमूलत्वात्तद्रोधे सर्वरोध इत्येवमभिधानम्
॥ ९ ॥
भगवांस्तदभिज्ञाय गिरिशो योगमायया ।
आविशत् तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १० ॥
पदरत्नावली
योगमायया अणिमादियोगसामर्थ्येन । छिद्रं रोमकूपादिसुषिरम् ॥१०॥
सत्यधर्मीया
तद्गुहाकाशं हृदयगुहावकाशम् । अभिज्ञाने तथाऽन्तःप्रवेशे च हेतूक्ति-र्योगमाययेति । छिद्रं कर्णादिरन्ध्रम् ॥ १० ॥
आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् ।
त्र्यक्षमष्टभुजं शम्भुमुद्यन्तमिव भास्करम् ॥ ११ ॥
व्याघ्रचर्माम्बरं शूलधनुरिष्वसिचर्मभिः ।
अक्षमालां डमरुकं कपालं परशुं सह ॥ १२ ॥
बिभ्राणं सहसा भान्तं व्यचष्ट हृदि विस्मितः ।
पदरत्नावली
न केवलं बर्हिरेव, आत्मनि स्वस्मिन्नपि ॥ इषुयुक्तं धनुश्च, असिश्च चर्म च तानि तैर्युक्तम् । करे डमरुगम् अणुतरतन्तुपर्वाढ्यं चर्मपिनद्धमुखं दारुवाद्यम् ॥ व्यचष्ट अपश्यत् ॥ ११-१३ ॥
सत्यधर्मीया
आत्मनि स्वान्तरपि । अनेनांशेनान्तरावेश ईशस्य द्योत्यते । तडिद्व-त्पिङ्गाश्च ता जटाश्च तासां धरं शिवं मङ्गलरूपं शम्भुं तन्नामानमुद्यन्तं भास्करमिव विद्यमानं धनुरिष्वसिचर्मभिः सह डमरुकं चर्मपिनद्धं दारुमयं वाद्यं बिभ्राणं हृदि व्यचष्टापश्यत्
॥ ११-१३ ॥
किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३ ॥
नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् ।
रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४ ॥
पदरत्नावली
सह उमया । सोषामविन्ददित्यादेः ॥ १४ ॥
सत्यधर्मीया
समाधेर्विरतो नेत्रे उन्मील्योद्घाट्य सः । उमया सहागतम् । सोषामविन्द-दित्यादेश्छान्दसो गुणः । सोऽचिलोपे चेदिति सुलोपो वा । अविशेषात् श्लोकपादेऽपीत्युक्तेः । उमा वा । प्रमथादिप्रजास्तत्सहिता तयोमया सहागतमिति वा । सोमो हिनोति मर्त्यमित्यृग्भाष्ये उमोक्तत्वतोऽपि वा । भूतानि वै विश्व ऊमरिति श्रुतेरिति तट्टीकोक्तेः । सोमस्य चन्द्रस्य ई शोभा तया सहिततयाऽऽगतमिति वा । चन्द्रशेखरमित्यर्थः । यदन्ते वक्ष्यति इति चन्द्रललाम-स्येति ॥ १४ ॥
तस्मै सपर्यां व्यदधात् सगणाय सहोमया ।
स्वागतासनपाद्यार्घ्यगन्धस्रग्धूपदीपकैः ॥ १५ ॥
पदरत्नावली
पूर्णकामत्वं व्यनक्ति येन त्वया जगन् निर्वृतं भवतीति ॥ १५ ॥
सत्यधर्मीया
उमया सह सगणाय तस्मै सपर्यां व्यदधात् । सपर्यापर्यायमाह ॥ स्वागतेत्यादिना । उमयेति सगणमिति च सोऽत्यगुरित्युक्तेः ससगणे पद इति ध्वन्यते । गमनं तत्फलमिति प्रकृतसङ्गतिः । उक्तं चालङ्कारचन्द्रिकायाम् । सगणो गमनप्रदो विनीलः शनिवायुग्रहदेवतोऽत्यगुश्चेति ॥ १५ ॥
आह चात्मानुभावेन पूर्णकामस्य ते विभो ।
करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥
सत्यधर्मीया
येन त्वया जगन्निर्वृतं सुखितं हे ईशान विभो आत्मानुभावेन पूर्णस्य वयं किं करवाम चेत्याह च ॥ १६ ॥
नमः शिवाय शान्ताय सत्वाय प्रमृडाय च ।
रजोजुषेप्यघोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥
सूत उवाच–
एवं स्तुतः स भगवान् महादेवः सतां गतिः (पतिः) ।
परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत ॥ १८ ॥
पदरत्नावली
सत्वाय पराक्रमयुक्ताय । सद्ब्रह्म शरणं वाति गच्छतीति सत्वस्तस्मै वा प्रमृडाय प्रकृष्टपालाय । तत्तद्वस्तुयोग्यतानुसारेण रक्षाद्यर्थं सत्वादिगुणप्रवर्तकत्वात् सत्वाय रजोजुष इत्याद्युक्तम् ॥ १७-१८ ॥
सत्यधर्मीया
शिवाय मङ्गलाङ्गाय । शान्ताय समाधानमूर्तये । सत्त्वाय । अर्श आद्यचि । बलवते । प्रमृडाय नाम्ना । ज्ञानिभिर्विचार्यचर्याय वा । रजोजुषे तमोजुषे च सत्त्वाय तत्प्रवर्तकाय तत्तत्कार्यानुरोधेन गुणत्रिकजुषे घोराय रिपूणां तुभ्यं सतां गतिर्भगवान्महादेव एवं स्तुतः परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत ॥ १७,१८ ॥
श्रीमहादेव उवाच–
वरं वृणीष्व नः कामं वरदेशा वयं त्रयः ।
अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥
पदरत्नावली
त्रयो ब्रह्मादयः । येषां त्रयाणां दर्शनममोघम् । तत्र हेतुमाह मर्त्य इति । मर्त्योऽमृतं मुक्तिं विन्दते यद् यस्माद् दर्शनात् । यद् येभ्योऽमृतमिति वा ॥ १९ ॥
सत्यधर्मीया
नः सकाशात्कामं वरं वृणीष्व वयं त्रयो हरिर्हिरण्यगर्भोऽहं हरश्चेति त्रितयो वयं येषां त्रयाणां दर्शनममोघं यद्यतो दर्शनान्मर्त्योऽमृतं मुक्तिं विन्दते ॥ १९ ॥
ब्राह्मणाः साधवः शान्ता निस्सङ्गा भूतवत्सलाः ।
एकान्तभक्ता अस्मासु निर्वैराः समदर्शनाः ॥ २० ॥
पदरत्नावली
ब्राह्मणभक्तिं दर्शयति ब्राह्मणा इति । ब्राह्मणा ब्रह्मवादैकनिष्ठाः । साधवो रागादिदोषविधुराः । शान्ता भगवन्निष्ठापारङ्गताः । अत एव निस्सङ्गा दुष्टसङ्गरहिताः, अत एव भूतेषु सज्जनेषु वत्सलाः स्निग्धाः, एकान्तेन विष्णुरेव सर्वोत्तमो नान्य इति निर्णयेन अस्मासु भक्ताः, योग्यतातिरेकेण वैरशून्याः, समं ब्रह्म तद्दर्शनं येषां ते तथा ॥ २० ॥
सत्यधर्मीया
ब्राह्मणा ब्रह्माणन्ति ते । स्वरव्यत्ययः । वर्णितं चैतत्प्रमेयं प्रमेय-दीपिकाद्युदाहरणेन प्रागनुसन्धेयम् । साधवः सत्स्वभावाः शान्ता भगवन्निष्ठा निस्सङ्गा भार्यादि-कार्यानुपयुक्त सङ्गहीना भूतवत्सला भूतानि प्राणिनः स्ववत्सवल्लान्तीति ते तथा भूतेषु स्निग्धा इति वा । अस्मासु त्रिष्वेकान्तभक्ता यथायथं तरतमभावेन भक्ताः । निर्वैरा योग्यतातिरेकेण विरहितवैराः समदर्शनाः शुनि चैव श्वपाके च हरिरेकरूप इति समं दर्शनं येषां ते । निर्दोषं हि समं ब्रह्मेत्यादेः समस्य निर्दोषस्य हरेर्दर्शनं येषां ते वा ॥ २० ॥
सलोका लोकपालास्तान् वन्दन्तेऽर्चन्त्युपासते ।
अहं च न पृथग् ब्रह्मा स्वयं तु (च) हरिरीश्वरः ॥ २१ ॥
पदरत्नावली
य एवं विधास्तान् वन्दन्ति स्तुवन्तीत्यादि । सपर्यां कुर्वत इत्यर्थः । अहं ब्रह्मा च हरेः पृथक् स्वतन्त्रौ न, तदधीनावेव । तत्र हेतुरीश्वर इति । ई लक्ष्मीः शंरूपः शतानन्दस्तयोर्वरः, ईशादीशानाच्च वर इति यस्मात् तस्माद् द्वयोर्वर इत्युक्तम् । यूयं के इत्यतो वाऽऽह अहमिति स्वयमित्यनेन हरेरेव स्वातन्त्र्यं नावयोः, आवां तदधीनाविति स्पष्टमुक्तम् । अत्राप्ययमेव हेतुरीश्वर इति । ईश ऐश्वर्य इति धातोरनुपहतैश्वर्यमूर्तित्वादीश्वर इत्युच्यते ॥२१॥
सत्यधर्मीया
सलोका लोकपालास्तान्वन्दन्ते । वन्दतीति पाठे स्तुवन्तीत्यर्थः । अर्चन्त्युपासते च । अधुना त्रय इति सूचितं साम्यं प्रतिषेधति ॥ अहं चेति । अहं ब्रह्मा च पृथक् स्वतन्त्रौ न । स्वयं हरिरेवेशेभ्यो वर इतीश्वरः । स्वयं तु हरिः । गतम् ॥२१॥
न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।
नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥
पदरत्नावली
इतोपि ब्राह्मणा एव पूज्या यत एवं विधं तत्वं त एव जानन्तीत्याह न त इति । ते ब्राह्मणा मयि स्थितत्वान् मयीत्युच्यमाने हरौ अजे च स्थितत्वादजशब्दवाच्ये च पृथक् स्थिते उच्यते च भिदामण्वपि परमाणुमात्रमपि न चक्षते न पश्यन्ति । किञ्च जनस्य जननवतः स्थावरजङ्गमरूपस्य प्रपञ्चस्य आत्मनोऽन्तर्यामिणश्च भिदां न पश्यन्ति । अपिशब्देन एको देव इति श्रुतिं प्रमाणयति । तत् तस्माद् वयं युष्मान् अखिलैः पूज्यान् ईमहि बुध्यामहे । यद्वा मयि भिदामन्यथाज्ञानं विष्णुरयमिति किञ्चित्साम्येनापि न पश्यन्ति । अपि तु ततो विलक्षणत्वेन तत्कटाक्षाहितशक्तित्वेन जगत्संहर्तृत्वेन ततोऽनन्तांशहीनत्वेनैव मत्तत्वं पश्यन्ति । चतुर्मुखे (च) यथास्थितं पश्यन्ति । अच्युते च तथा यथा श्रुतिविहितम् । आत्मनश्चेतन-समुदायस्य जन्यत इति जनो देहस्तदादिजडस्यापि तत्त्वं यथा (तथा) पश्यन्ति । अन्यथा न पश्यन्ति (इति) ॥ २२ ॥
सत्यधर्मीया
ब्राह्मणा एव प्रायस्तत्त्वविद इति त एव वन्दनीया इति तमाह ॥ न त इति । ते ब्राह्मणा मय्यजे तज्जाते चतुर्मुखे च भिदामच्युतं विना किञ्चिदुदञ्चयितुं तत्स्वातन्त्र्यमण्वपि न चक्षते । तर्हि ते क्वेत्यत आह ॥ नत इति । मद्विध्यादिसर्वनतेऽच्युत एव चक्षते । तत्र हेतुमप्याह ॥ क्षते चेति । क्षते च प्रलयेऽपीति । ब्रह्मचर्म शिरः पट्टी दिक्पालोर्ध्वाङ्गभूषण इत्यादेरजे कैमुत्येनैव मयि चेति । आचार्याः प्राच्येवैतदर्थकतात्पर्यं बहुषु स्थानेषु समानमुदाहृतवन्त इति नात्र पराक्रान्तवन्तः । किञ्चाजशब्दोऽपि नेतरार्थावकाशं दिशतीति मूलकृदपि भगवत्यच्युतां भक्तिं तत्परेषु तथा मयीति वदन्नावसरं वितरतीति च ज्ञेयम् । जनस्य चेतनस्य नात्मनोऽनात्मनो जडस्य उक्तरूपां भिदां न चक्षते । यद्वा मयि तथा चेतनात्मनो जनस्यान्तश्च विद्यमानेऽच्युते अणु यथा तथा भिदां न चक्षत इति यत्तत्ततो युष्मान्वयमीमहि संवादो वा विधेय इति स्वयमेवेमहि आगच्छामो बुध्यामहे वा ॥ २२ ॥
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः ॥ २३ ॥
पदरत्नावली
सर्वस्माच्छुद्धिहेतुत्वाच्च ब्राह्मणा एव पूज्या इत्याह नहीति ॥ २३ ॥
सत्यधर्मीया
भवादृशां दृशा शुद्धिर्भवतीति भव आवेदयति ॥ न हीति । सामान्य-मुखत उक्तमन्यत्र । प्रस्तुतं विप्रं पुरस्कृत्याह ॥ यूयमिति । दर्शनमात्रतः केवलालोकनात् । व्याख्यातचरोऽयं श्लोकः ॥ २३ ॥
ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम् ।
बिभ्रत्यात्मसमाधानं तपःस्वाध्यायसंयमैः ॥ २४ ॥
पदरत्नावली
अस्माभिश्च सम्भाष्यत्वाद् विप्रा एव श्रेयांस इत्याह ब्राह्मणेभ्य इति । त्रयीमयं वेदमुख्यप्रतिपाद्यम् । आत्मनि सम्यगाधानमवस्थानं सन्निधानलक्षणं यस्य तत् तथा । तप आलोचनं स्वाध्यायोऽध्ययनं संयमो वागादिनियमः, तैर् बिभ्रति । आचारहीनं न पुनन्ति वेदा इत्यतस्तप इत्यादि ॥ २४ ॥
सत्यधर्मीया
अस्मदादिसम्भाव्या इति विप्राः प्राज्यप्राज्ञैः पूज्या इति वदति ॥ ब्राह्मणेभ्य इति । त्रयीमयं वेदवेद्यमस्मद्रूपमस्मदादीन् रूपयति प्रतिष्ठापयति । अथवाऽस्मदादीनां रूपं स्वरूपमानन्दादिकं यस्मात्तं हरिम् । आत्मसमाधानमात्मनि स्वान्तः सम्यगाधीयत इति समाधानं यस्येति वा । तपःस्वाध्यायसंयमैः साधनैर्बिभ्रति शिष्यप्रशिष्याद्युपदेशादिहेतुभूतभरणवन्तो भवन्ति । ततस्तेभ्यो ब्राह्मणेभ्यो वयं नमस्यामः । अनेनास्मद्रूपमित्यर्थो हरेणैव निरूपितप्रायः । अन्यथा नमनवचनं न मनोहरं हरस्य स्यात् । आत्मसमं स्वस्वयोग्यमाधानं यस्येति वा
॥ २४ ॥
श्रवणाद् दर्शनाद् वाऽपि महापातकिनोऽपि वः ।
शुद्ध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः ॥ २५ ॥
पदरत्नावली
न केवलं दर्शनाच्छुद्धिरपि तु श्रवणादपीति समुच्चितत्वादाह श्रवणादिति । तर्ह्यधिकशुद्धिः कस्मादिति तत्राह किम्विति । आदिपदेन नामस्मरणं गृह्यते ॥ २५ ॥
सत्यधर्मीया
तर्हि मम दर्शनं जातं कुतो न गत इत्यतस्तद्वादो भवत्विति तात्पर्यं न मिश्रीभूय श्रवणसम्भाषणादिप्रतिषेध इति वक्ति ॥ श्रवणादिति । महापातकिनोऽपि जना वश्चरितस्य श्रवणाद्दर्शनाच्च शुद्ध्येरन् । तथा वेदानधिकारिणोऽन्त्यजाश्चापि शुद्ध्येरन् । सम्भाषणाभिवन्दनसहसंवादादिभिः शुद्ध्येरन्निति किमुतेति यूयं सम्भाष्या इति वयमीमहीत्यन्वयः
॥ २५ ॥
सूत उवाच–
इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् ।
वचोऽमृतायनमृषिर्नातृप्यत् कर्णयोः पिबन् ॥ २६ ॥
पदरत्नावली
चन्द्रललामस्य चन्द्रशेखरस्य । धर्मगुह्योपबृंहितं धर्मरहस्यगूढम् अमृतायन-ममृतवद् वर्तमानं कर्णयोर्हितम् ॥ २६ ॥
सत्यधर्मीया
अत उत कथा का प्रवृत्तेति शौनकाशयं शनकैर्विदित्वा सूत आह ॥ इतीति । चन्द्रो ललामं चिन्हं यस्य स चन्द्रशेखरस्तस्य । धर्मगुह्येन तद्रहस्येनोपबृंहितममृतपानं मोक्षसाधनतया तदाश्रयममृतवत्तर्पकं वा वचः कर्णयोस्ताभ्यां पिबन्नातृप्यत्तृप्तो नाभूत् । ललामं च ललाम चेत्यमरः ॥ २६ ॥
स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम् ।
शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥
पदरत्नावली
भ्रामितः समाधेः सञ्चालितो ऽत एव कर्शितः । अनेन संयमिनां समाधेरन्यत् सुखं नास्तीति ज्ञापितम् ॥ २७ ॥
सत्यधर्मीया
स चिरं मायया भगवदिच्छया समाधेर्भ्रामितः सञ्चालितो भृशं कर्शितश्च । शिवस्य वागेवामृतं तेन ध्वस्तः क्लेशपुञ्जो यस्य सः । यद्यपि प्राक् तद्दर्शनाद्भीतपरिश्रमो मुदेत्युक्तेस्तदानीं दानवारिनिरीक्षणत एव क्लेशोपशमो जातस्तथाऽपि स उभयमात्रानुभवगोचरोऽयं तु बहुलं लक्षत इति सूचयितुं लोकरीत्या रुद्रेत्यादिकमितरत्रान्वेतुमशक्यमप्रयुञ्जानः प्रयुञ्जानश्च शिववागिति शिवा मङ्गलकारी च सा वाक्च तयेत्यपि हरिगिरःसङ्ग्रहः कर्तव्य इत्यभिप्रैतीति ज्ञेयम् । तं शिवम् ॥ २७ ॥
ऋषिरुवाच–
अहो ईश्वरचर्येयं दुर्विभाव्या शरीरिणाम् ।
यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८ ॥
पदरत्नावली
इयं वाग्लक्षणा चेष्टा । ईशितव्यानि भवद्भिर्नियम्यानि ब्रह्मकुलानि स्तुवन्ति यद् यस्मात् तस्मात् ॥ २८ ॥
सत्यधर्मीया
गिरीशगिरो भक्तभक्त्युपरोधेन न वस्तुत इति चेतश्चित्रयन्परोक्षत उक्त्वाऽ-परोक्षतः स्थितिकथनेन तत्पर्यवसाययति ॥ अहो इति । शरीरिणां निन्दितदेहवतामीश्वरचर्या दुर्विभाव्या । ईश्वरपदेन स्वदृष्टभगवन्तमपि कटाक्षयति । अन्यथैतदसम्भाव्यगुणवर्णनं क्रियमाण-मसङ्गतं स्यात् । दुर्विभाव्या दुर्ज्ञेया । कृत्यानां कर्तरि वेति षष्ठ्युपपत्तिः । स्वयं जगदीश्वराः सन्तोऽपीशितव्यानि स्वप्रेर्येर्याणि नमन्तीति ॥ २८ ॥
धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनः (देहिनाम्) ।
आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥
पदरत्नावली
मुनिः स्वयमेव स्तवनादेरभिप्रायं वक्ति धर्ममिति । न केवलं देहिनां धर्मस्य प्रवक्तारः, आचरन्ति च । आचरतोऽनुमोदन्ते । क्रियमाणं धर्मं स्तुवन्ति ॥२९॥
सत्यधर्मीया
तर्हि ते वृथा कथं कथयन्ति तत्कथयेत्यतः कथयति ॥ धर्ममिति । देहिनस्तान्धर्मं ग्राहयितुमेवं त्वयाऽनुष्ठेयमिति शिक्षयितुं स्वयं धर्मप्रवक्तारः सन्तोऽपि तमाचरन्ति न तु यदाकदाचिदित्याह ॥ प्रायो बाहुल्येनेति । स्वयमाचरन्ति तैः क्रियमाणं तमनुमोदन्ते कर्तारम् । अहो महीयांस्त्वमिति तं धर्मं वा स्तुवन्ति चेति ॥ २९ ॥
नैतावता भगवतः स्वमायामयवृत्तिभिः ।
प्रदुष्येतानुभावस्ते मायिनः कुहकैर्यथा ॥ ३० ॥
पदरत्नावली
ननु विध्यादिवर्जितानां भवतां धर्माचरणादिना तेजः क्षतिः स्यादित्यत्राह नेति । वृत्तिस्तु ग्रन्थसन्दर्भे इति वचनात् स्वमायामयवृत्तिभिः स्वेच्छया कृता वृत्तिर्येषां ते तथा, तैः स्तवनादिभिर्विवृतेनैतावता कर्मणा भगवतोऽनुभावः प्रभावः न प्रदुष्येत प्रदुष्टो न भवति । कुहकैरिन्द्रजालैर्मायिनोनुभावो निश्चयो यथातथेति ॥ ३० ॥
सत्यधर्मीया
विधूतविधिबन्धस्य मदादेः पुनरनुष्ठाने धर्मादेस्तेजसोऽञ्जसा भङ्गः स्यादित्यत आह ॥ नेति । एतावता स्वमायया स्वेच्छैव माया प्रधानीभूता यासां ताश्च ता वृत्तयश्च धर्माद्याचारास्ताभिस्तेऽनुभावो न प्रदुष्येत न दोषवान्स्यात् । तेजीयसां नैव दोष इत्यादेरधर्माचरणं यदा न दोषावहं तदा धर्माचरणं न दोषावहमिति किं वक्तव्यमिति भावः । अमायिनोऽकपटिनः कुहकैर्विनोदार्थं कृतैर्वेषादिभिरनुभावः स्वाभाविको यथा न प्रदुष्यति तथेति । यद्वा मायिनस्तस्यैव स्वकल्पितैः कुहकैरैन्द्रजालिकव्यापारैर्यथा मायानुभवोऽयथार्थज्ञानं न प्रदुष्यति तथेति । सिकतास्तण्डुलीकृत्य कुण्डलीकृत्य रज्जुं लोकलोचनं वन्द्यविधया दर्शयतो मायाविनोऽनुभाव इमाः सिकता रज्जुरियमिति मतिर्न प्रदुष्यति यथा तथेति । यद्वा त्वज्ज्ञास्येतरस्यापरस्य कुहकैर्यथा तथेति । न च मायाविना माया दृश्यत इत्यादेः ॥ ३० ॥
सृष्ट्वेदं मनसा विश्वं स्वात्मनाऽनुप्रविश्य यः ।
गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग् यथा ॥ ३१ ॥
पदरत्नावली
प्रकारन्तरेण दोषाभावं वक्ति सृष्ट्वेति । यो भगवान् मनसा स्वेच्छया इदं विश्वं सृष्ट्वा अन्तर्यामिरूपेणान्तःप्रविश्य दर्शनादिकुर्वद्भिर्गुणैरिन्द्रियैर् अहं कर्तेति निरूप्य जीव इवाभातीत्येतावता जीववद् दुष्टो न भवति । कथमिव । स्वप्नदृग् भगवदिच्छयोद्बोधित-मानसवासनया करितुरगादिपदार्थान् सृष्ट्वा यथा तद्वदेव लिप्तो न भवति ॥ ३१ ॥
दुर्घटभावदीपिका
यो मनसेच्छामात्रेणेदं विश्वं सृष्ट्वा स्वात्मना स्वरूपान्तर्यामिरूपेणानु-प्रविश्य कुर्वद्भिर्दर्शनादिकं कृत्वाऽऽभातीवाभात्येव सुखवानेव भवति । दुःखलेशवानपि न भवतीति यावत् । तस्मै भगवते नम इत्युत्तरत्रान्वयः । अत्र दृष्टान्तमाह ॥ कर्तेति । मनसा मनोमयसंस्कारैः कर्ता स्वाप्नगजादेः कर्ता जीवो यथा स्वप्नदृक् समीचीनस्वप्नदृक् सुखसाधनस्वाप्नगजादिदर्शनादिकं कुर्वन् । सन्निति यावत् । आभाति सुखवानेव भवति । न तु दुःखवानिति । एतेन इवेत्येतद्यथेत्यनेन पुनरुक्तमिति चोद्यं प्रत्युक्तम् । इवशब्दस्य एवार्थमङ्गीकृत्याभातीत्यनेनान्वयस्योक्तत्वात् । एतेनैव जीवस्य स्वप्नदर्शनेन सुखस्येव दुःखस्यापि भावाज् जीवस्य स्वप्नदर्शनेन सुखमेव भवति न तु दुःखमिति कथनमयुक्तमिति दूषणं परिहृतम् । स्वप्नशब्देन समीचीनस्वप्नस्यैव ग्रहणं न त्वसमीचीनस्वप्नस्येत्यभ्युपगमात् ॥ ३१ ॥
सत्यधर्मीया
पुनर्निदर्शनान्तरेण दोषप्रमोषप्रकारमृषिभिर्भाषते ॥ सृष्ट्वेति । यो भगवा-न्मनसा स्वेच्छयेदं विश्वं सृष्ट्वा स्वात्मनाऽन्तर्यामिरूपेणानुप्रविश्य तत्सृष्ट्वा तदेवानुप्राविशदित्यादेः कुर्वद्भिः श्रवणादिकम् । करणे कर्तृत्वोपचारः । गुणैः प्राणतोऽप्रधानैरिन्द्रियैरहं कर्तेति दुरभिमानवान् जीव इवाभातीति न तु तदिन्द्रियगुणदोषलिप्तो भवति । यथा स्वप्नदृक् इच्छया स्ववासनामुपादानमुपादाय हरिणाऽन्तर्देहं सृष्टकरितुरगादीन् पश्यन् जीवस्तदनन्तरं तद्राजगजादि-सम्पृक्तो न भवति तथेति । अथवा भगवान्स्वेच्छया जीववासनोपादानिकीं सृष्टिं विचित्रकरिरथ-योगादिरूपिणीं विधाय तत्स्वप्नदृग्यथा हरिस्तदसम्बद्धो भाति तथेति ॥ ३१ ॥
तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।
केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥
पदरत्नावली
तस्मै भगवते नम इत्यन्वयः । त्रयः सत्वादयो गुणा यस्य स तथा तस्मै । गुणित्वं दोषित्वेन व्याप्तं दृष्टमत्राह केवलायेति । निर्दोषाय । निर्दोषत्वं मुक्तस्याप्य-स्तीति तत्राह अद्वितीयायेति । मुक्तनिर्दोषत्वं हरिप्रसादायत्तं, न हरेस्तथा, तस्य समाधिक-शून्यत्वात् । कथमयमर्थः सम्पद्यत इति तत्राह गुरव इति । ब्रह्मादीनां स्वात्मरहस्योपदेष्टृत्वात् तेषां सिद्ध इत्यर्थः । निराकरस्योपदेष्टृत्वं कथं घटत इति तत्राह ब्रह्मेति । ज्ञानादिगुणाकाराय । बृहन्तो ह्यस्मिन् गुणा इति श्रुतावस्मिन्निति वचनादाकारः सिद्ध इति ॥ ३२ ॥
सत्यधर्मीया
त्रिगुणाय तन्नियमनशीलायेति, त्रयो गुणा यस्य स तस्मै । गुणात्मने ज्ञानानन्दाद्यात्मने । केवलाय जडामिश्रायाद्वितीयाय समाभ्यधिकविकलाय । गुरवे ब्रह्मादिब्रह्मोपदेष्टे्र तारकोपदेशकृत इतीतरत्र । ब्रह्ममूर्तये ब्रह्मरूपतया स्थिताय भगवते तस्मै नमः । तस्मा इति वदन्मुख्यः कश्चित्परोक्षः सन्वर्तत इति सूचयति ॥ ३२ ॥
कं वृणेऽतः परं भूमन् वरं त्वद् वरदर्शनात् ।
यद्दर्शनात् पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३ ॥
पदरत्नावली
यत एवं निरूप्यमाणे हरेरधिकः समो वा नास्ति सर्वप्रेष्ठश्च अतस्तद्भक्ति-मन्तरेण त्वत् परमन्यं कं वरं वृणे । वरं वरेण्यं दर्शनं ज्ञानं यस्य स तथा तस्मात् । एतदेवाह यद्दर्शनादिति । यद्दर्शनाद् येनोपदिष्टज्ञानाद्वा पुमान् पूर्णकामः स्यादत एव सत्यकामश्च
॥ ३३ ॥
दुर्घटभावदीपिका
सत्यकाम इत्यस्य सद्भावं यापयतीत्यादिव्युत्पत्त्या सत्यशब्दवाच्यो यः परमेश्वरस्तत्कामो भवेदित्यर्थः । एतेन सत्यकाम इत्येतत्पूर्णकाम इत्यनेन पुनरुक्तमिति दूषणं निरस्तम् । सत्यकामशब्देन पूर्णकामत्वं नोच्यते । किंतु पूर्णकामत्वोपपादकं भगवत्सेवादिकामनावत्त्व-मुच्यत इत्यभ्युपगमात् ॥ ३३ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां
द्वादशस्कन्धे नवमोऽध्यायः ॥ १२-९ ॥
सत्यधर्मीया
अतःपरं भगवद्दर्शनानन्तरं वरदर्शनाद्वरान्दर्शयतीति तस्मात्त्वत्तः कं वरं भूमन्पूर्वमलब्धं वृणे । यद्दर्शनाद्यस्य हरेर्दर्शनात्पुमान्पूर्णकामः । सत्यं हरिस्तत्काम इव कामो यस्येति सः । कामेन मे काम आगादित्यादेः । भवेन्मुक्तो भवेदिति यावत् ॥ ३३ ॥
वरमेतं वृणेऽथापि पूर्णकामाभिवर्षणात् ।
भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥
पदरत्नावली
मद्दर्शनात् पूर्णकामत्वे वरं वृणीष्वेति मद्वचनं व्यर्थमभूदिति मा शङ्कीत्याह वरमिति । यद्यपि वरो न प्रार्थनीयस्तथापि त्वद्वचनसाफल्यायैतं वरं वृणे । पूर्णकामाभिवर्षणात्, त्वदिति शेषः । कोऽसौ वर इति तत्राह भगवतीति । तत्परेषु, तद्भक्तश्रेष्ठे त्वयि च
॥ ३४ ॥
सत्यधर्मीया
तर्हि किं मुने विनेयं मदाज्ञावज्ञानं क्रियत इत्यत आह ॥ वरमिति । पूर्णकामाभिवर्षणात् पूर्णश्चासौ कामाभिवर्षणश्च तस्मात् । अयनशब्दवत्त्रिलिङ्गता । पूर्णा ये कामास्तेषामभिवर्षणं यस्मादिति वा । अथाप्येतं वरं वृणे । मध्ये मध्ये हरिं हरासम्भाव्यगुणैः स्तुत्वा तदिदानीं पर्यवसाययति ॥ भगवतीति । अच्युतामस्खलन्तीं, तथा तत्परेषु तदासक्तेषु त्वयि च । अनेनैतदपेक्षयाऽधिका विधिपवनतद्वनिताः सन्तीति तत्परोदीरणमिति मन्तव्यम्
॥ ३४ ॥
सूच उवाच–
इत्यर्थितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।
तमाह भगवान् शर्वः शर्वया चाभिवन्दितः ॥ ३५ ॥
पदरत्नावली
शर्वया पार्वत्या सह ॥ ३५ ॥
सत्यधर्मीया
सम्यगुक्तोच्चारिता या गीस्तया गिरा । शिवेतिवदपुंयोगविवक्षेति शर्वेति । शर्वोऽस्यास्तीति शर्वेति वा । तया चाभिवन्दितः । प्रागेव, कुर्वस्य तपसः साक्षात्संसिद्धिं सिद्धिदो भवानिति याचितो हरस्तमाह ॥ ३५ ॥
कामस्ते महर्षे सत्यो भक्तिमांस्त्वमधोक्षजे ।
आकल्पान्तं यशः पुण्यमजरामरता तथा ॥ ३६ ॥
ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।
ब्रह्मवर्चस्विता भूयात् पुराणाचार्यताऽस्तु ते ॥ ३७ ॥
पदरत्नावली
त्वमधोक्षजे भक्तिमान्, भूया इति शेषः । आकल्पान्तं पुण्यं यशोऽ-जरामरणता च, भूयात् तवेति शेषः ॥ किञ्च वरान्तरं च स्यादित्याह ज्ञानमिति
॥ ३६,३७ ॥
सत्यधर्मीया
सत्यो महर्षे ते काम इति सारल्येन पठनीये कामस्ते महर्षे सत्य इति पठन्महाशास्त्रे न वृत्तविच्छित्तिर्दोषायेति सूचयति । महर्षे त्वमधोक्षजे भक्तिमानिति ते कामः सत्योऽवध्यः । कं वृणेऽतःपरमिति श्लोकस्यास्मत्कृतव्याख्यासख्यं भवति भववचनमन्यत्र किञ्चिदलग्नकमिति ज्ञेयम् । आकल्पान्तं तमभिव्याप्य, पुण्यं तन्निमित्तकं यशो, तथा कल्पान्त-मजरामरता अजरश्चामरश्च तयोर्भावोऽजरताऽमरता च, त्रैकालिकं कालत्रितयभाव्यर्थविषयं, विरक्तिमत्तत्सहितं विज्ञानं हरिविषयकं ज्ञानं, ब्रह्मवर्चस्विता ब्रह्मवर्चसवत्ता च भूयात् । पुराणाचार्यता तेऽस्तु । तथा पुराणाचार्यता भूयादित्येतन्मात्रेणान्वयपूर्तौ पुनरस्त्विति प्राह हरस्तेनैतन्मात्रस्य नवतामभिप्रैतीति ध्वन्यते । हे अस्तुते समीचीनस्तुतिकर्तर्वा लोककर्तृक-तत्पात्रेति वा त्वयीति वा, पुराणाचार्यता कियतीति पृथङ्न त इत्युक्तिरेतत्पक्षे ज्ञेया ॥३६,३७॥
सूत उवाच–
एवं वरान् स मुनये दत्त्वाऽगात् त्र्यक्ष ईश्वरः ।
देव्यै तत् कर्म कथयन्ननुभूतं पुराऽमुना ॥ ३८ ॥
पदरत्नावली
अमुना मार्कण्डेयेन ॥ ३८ ॥
सत्यधर्मीया
स सदाशिवो मुनये वरान्दत्वा देव्यै तत्कर्म प्रागमुनाऽनुभूतं कथयन्नगात् । भगवान्क्व गतवानित्यप्याह ॥ अगादिति । ल्यब्लोपनिमित्ता पञ्चमी । कैलासमगमुद्दिश्यागा-दित्यावर्त्यान्वयः ॥ ३८ ॥
सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तमः ।
विचरत्यधुनाऽप्यद्धा हरावेकान्ततां गतः ॥ ३९ ॥
पदरत्नावली
अवाप्तमहायोगमहिमा प्राप्तमहाज्ञानमहिमा प्राप्तमहाणिमादियोगमहिमा वा । एकान्ततां नियतभक्तताम् ॥ ३९ ॥
सत्यधर्मीया
अधुनाऽप्यद्धा विचारयति ॥ ओति । महात्मनामद्यापितु तद्दर्शनं भविष्यतीति सूचयति ॥ ३९ ॥
अनुवर्णितमेतत् ते मार्कण्डेयस्य धीमतः ।
अनुभूतं भगवतो मायावैभवमद्भुतम् ॥ ४० ॥
एतत् केचिदविद्वांसो मायाप्रसृतमात्मनः ।
अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१ ॥
पदरत्नावली
ज्ञानवतो मार्कण्डेयस्य यदेतदनुभूतं हरेर्मायावैभवं तेऽनुवर्णितम् ॥ एतनॄणां मध्ये केचिदविद्वांस आत्मनो हरेर्मायाप्रसृतिं सामर्थ्यविस्तारं कादाचित्कं प्रचक्षते । अकाले प्रदर्शितत्वेन कादाचित्कं किं न स्यादत्राह अनादीति । अनादिकालवर्तिनं न नूतनम् । यद्वोप-संहरति अनुवर्णितमिति । मार्कण्डेयस्यैतच्चरितं तेऽनुवर्णितम् । किं तच्चरितमत्राह अनुभूतमिति । श्रद्धेयत्वे मतभेदमाह एतदिति ॥ ४०,४१ ॥
सत्यधर्मीया
यदद्भुतं भगवतो मायामयवैभवं धीमतो मार्काण्डेयस्य तेनानुभूतं तत्ते वर्णितम् । यो धीमतो धिया सम्मतस्तस्य मार्काण्डेयस्येति वा ॥ अकालेऽप्यदर्शित(एन दर्शितम् अदर्शितमित्यर्थः)त्वाल्लीलेयं कादाचित्कीति भवेदैन्द्रजालिकवदिति वदन्तो बालिशाः । किन्तु स नाद्यन्तभगवति सत्येवेति सत्यभूतेति श्रद्धाश्रव्येति श्रावयति ॥ एतदिति । आत्मनो भगवतो मायाप्रसृतिमित्यपपाठो लेखकप्रमादकृत उत्तरविशेषणाननुगुण्यात् । प्रसृतः सम्प्रसादे स्याद्विनीते विततेऽपि चेति विश्वात्प्रसृतमिति पाठः । इच्छाविस्तारं शक्तिविस्तारं वा । यद्यप्यनाद्यावर्तित-मनादिरावर्तितम् । नृणां मध्ये ये केचित्कादाचित्कं त्रैविक्रमादिविक्रमवन्नित्यविक्रान्त्यन्त-र्भवनीयताविरहितं स्वातन्त्र्येशशक्तावनन्तभाव्योपसंहरणीयं रमण्या चतुराननस्य तस्य स्वातन्त्र्येणोपसंहार्यं नेति प्रचक्षते ते विद्वांस इत्यर्थः ॥ ४०,४१ ॥
य एवमेतद् भृगुवर्यवर्णितं रथाङ्गपाणेरनुभावभावितम् ।
संश्रावयेत् संशृणुयादुतोभयोस्तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे नवमोऽध्यायः ॥
पदरत्नावली
इतोऽप्येतच्छ्रद्धेयमिति फलमाह य एवमिति । अनुभावेन भावितं संवर्धितम् । तयोरुभयोः श्रावयितृश्रोत्रोः कर्माशयसंसृतिः कर्मणामाशयः स्थानं देहस्तन्निमित्तसंसारो न भवेदिति संसारस्वरूपनाश एवोच्यते । अस्य श्रीहरिभक्तिर्मुख्यहेतुरतोऽच्युतां भक्तिमित्याह
॥ ४२ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां
द्वादशस्कन्धस्य नवमोऽध्यायः ॥ १२-९ ॥
सत्यधर्मीया
योग्यात्कर्मवशतो श्रद्धालूनप्यनुकूलयितुं तदनुजिघृक्षुः फलमालपति ॥ य इति । हे भृगुवर्य शौनक रथाङ्गपाणेश्चक्रधरस्यानुभावो भविता येन तद्वर्णितमेतन्मार्काण्डेयचरितं यश्च संश्रावयेद्यश्चोत शृृणुयात्तयोरुभयोः कर्माश्रयसंसृतिः संसारो न भवेत् । अत इदं श्राव्यमिति । भगवदागमनमात्रहेतुकसंसारहानं कथमत इति तु रथाङ्गपाणेरनुभावभावितमित्यनेनोत्तरितमिति मन्तव्यम् ॥ ४२ ॥
**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **
द्वादशस्कन्धे नवमोऽध्यायः ॥ १२-९ ॥