०८ अष्टमोऽध्यायः

संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता

॥ अथ अष्टमोऽध्यायः ॥

सूत उवाच–

संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।

नारायणो नरसखः प्रीत आह भृगूद्वह ॥ १ ॥

सत्यधर्मीया

धीमता मार्कण्डेयेनेत्थमुक्तप्रकारेण संस्तुतो नरसखो नरस्य सखा नरसखो नारायणः । हे भृगूद्वह शौनक । भृगुद्वहमिति पाठे मार्कण्डेयं वा प्रीत आह ॥ १ ॥

श्रीभगवानुवाच–

भो भो ब्रह्मर्षिवर्यासि सिद्ध आत्मसमाधिना ।

मयि भक्त्याऽनपायिन्या तपःस्वाध्यायसंयमैः ॥ २ ॥

पदरत्नावली

आत्मनो हरेः समाधिना उपासनाजन्यज्ञानेन सिद्धः कृतकृत्यः ॥ २ ॥

सत्यधर्मीया

अनपायिन्या मयि भक्त्या तपःस्वाध्यासंयमैरात्मसमाधिना । भो भो ब्रह्मर्षिवर्य सिद्धः कृतकृत्योऽसि । ब्रह्मर्षिवर्यासि सिद्ध इति सरलः पाठः । प्रथमान्त-पाठेऽसीत्येकस्यैवावृत्त्या ब्रह्मर्षिवर्योऽसि सिद्धोऽप्यसीत्यन्वयः ॥ २ ॥

वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया ।

वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥ ३ ॥

पदरत्नावली

प्रतीच्छ स्वीकुरु ॥ ३ ॥

सत्यधर्मीया

त्वद्बृहद्व्रतचर्यया वयं ते त्वदुपरि परितुष्टाः स्मः । वरदेशान्मत्तोऽभीप्सितं वरं प्रतीच्छ । ते भद्रमस्तु । वरदेशाद्वरो यो देशो बदर्यादिस्तद्देशादागत्य वयं परितुष्टाः स्म इत्यप्यन्वयार्थौ ॥ ३ ॥

ऋषिरुवाच–

जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।

वरेणैतावताऽलं नो यद् भवान् समदृश्यत ॥ ४ ॥

पदरत्नावली

भवन्माहात्म्यप्रकटनं वरं वरयिष्यन्नपि भगवद्दर्शनादितरो वरोऽनभीष्टो मुमुक्षोरिति हृदि कृत्वा प्रतिवक्ति जितमिति ॥ ४ ॥

सत्यधर्मीया

एवं विप्रः प्रलोभनं भगवतोऽवगत्य नाहमहन्तया युतः स्वामिन्कामये किमपि यदि रासि श्रीमन्ययाचे मायया ज्ञातयाऽहं मुक्तः । स्वान्तां दर्शयेति ययाच इति त्रिभिराह ॥ जितमिति । हे देवदेव ईश, देवदेवानामीश इति वा देवैर्देवस्तुतिर्यस्याः सा ई च तस्या ईशेति वा । गुणान्तराङ्गपरिभाषाऽनित्येति प्रागेव सवर्णदीर्घः । प्रपन्नार्तिहर । अच्युतेति दर्शयिष्यमाणमायया ममापि तत्त्वं दिश देवेति सूचकम् । यद्भवान्समदृश्यतेति दर्शनं ते सकाशाज्जितं प्राप्तमेतावता वरेणालं पर्याप्तम् । अलभ्यलाभे कोऽपरोऽवशिष्टो यं कामये स्वामिन्निति भावः । यद्भवान्नः समदृश्यतैतावता वरेण सर्वं जितमितः किमपि न कामयेऽतोऽलमिति वाऽन्वयः । ते तव जितं जय इति वा ॥ ४ ॥

वाञ्छन्त्यजादयो यस्य श्रीमत्पादाब्जदर्शनम् ।

मनसा योगपक्वेन स भवान् मेऽक्षगोचरः ॥ ५ ॥

पदरत्नावली

यदाकाङ्क्षापूरकं प्रायस्तदेव साध्यम्, अस्य तदभावात् पथि तृणमिवेदमपि वन्ध्यमिति तत्राह वाञ्छन्तीति । भक्तियोगपक्वेन भक्त्युपासनाभ्यां परिपाकं प्राप्तेन, चाक्षगोचरोऽभूदिति शेषः ॥ ५ ॥

सत्यधर्मीया

हे मम किं मम दर्शनमियद्दुर्लभमित्यतो लपति ॥ वाञ्छन्तीति । यस्य ते श्रीमत्पदाब्जं तस्य दर्शनमजादयोऽजो ब्रह्माऽऽदिर्येषां तेऽनिमिषाः । अजा चित्प्रकृतिश्चादिर्येषां तेऽजादय इति वा । योगपक्वेन समाध्याद्युपायतः फलोपलम्भकतया परिपक्वेन मनसा वाञ्छन्ति स एतदपेक्षास्पदं भवान्मे ममाक्षिगोचरो भवेति । तत्र तन्त्रमप्याह ॥ अजेति । यो म उपर्यादयः सन्नक्षगोचरो भवेति ॥ ५ ॥

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।

ईक्षे मायां यया लोकः सपालो वेद सद्भिदाम् ॥ ६ ॥

पदरत्नावली

ननूक्तं सत्यं तथापि भगवत्समाधेरेतदेव फलं नान्यदस्तीति भाति किमत्राह अथापीति । मायामघटमानघटकशक्तिलक्षणाम् । लोकोपकारकयथार्थज्ञानजनकत्वेनेन्द्रजाललक्षणा नेति भावेनाह ययेति । सतः परब्रह्मणः सर्वस्माद् भिदां वैलक्षण्यं वेद तादृशीं द्रष्टुमिच्छामि, नेन्द्रजाललक्षणामित्यर्थः ॥ ६ ॥

सत्यधर्मीया

आज्ञावज्ञा न सर्वथा कार्येत्याह ॥ अथापीति । यया, लोको ज्ञानी । सपालः सोत्तमसमेतः । सद्भिदां सच्च जगच्च संश्च भवांश्च तयोर्भिदाम् । ईक्षतिकर्मव्यपदेशात्सः । सोऽक्षरः सन्नित्यादेः । भेदं, वेद तां मायाम् । अम्बुज हे जपत्राक्षेति पदद्वयम् । हे जपत्राक्ष जपतो मदादींस्त्रायत इति जपत्रं जपत्रमक्षि यस्य तत्सम्बुद्धिः । अम्बुज ईक्षे । इत्यनेन य ईक्षे वेदैरावेदिता च सा, सती च सा भिदा च ताम् । सदिति व्यावहारिकतापरासः । वेदेत्या-वृत्त्याऽन्वयः ॥ ६ ॥

सूत उवाच–

इतीरितोऽर्चितः काममृषिणा भगवान् मुने ।

तथेति सस्मयं प्रागाद् बदर्याश्रममीश्वरः ॥ ७ ॥

पदरत्नावली

सस्मयं सस्मितम् । तथा द्रक्ष्यसीत्युक्त्वा ॥ ७ ॥

सत्यधर्मीया

काममृषिणाऽर्चित इतीरितश्चाभवद्भगवांस्तथेति दर्शयिष्यामीति सस्मयमुक्त्वा बदरिकाश्रमं प्रागात् । मुने शौनक ॥ ७ ॥

तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः ।

वसन्नग्न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥ ८ ॥

पदरत्नावली

आत्मनि स्वस्मिन् ॥ ८ ॥

सत्यधर्मीया

तमेवार्थं मया वैभवदर्शनात्मकमर्थं स्वाभीप्सितं चिन्तयंस्तथा स्वाश्रम एव च । सन्स मृकण्डुतनयः । अग्निश्चार्कश्च सोमश्चाम्बूनि च भूश्च वायुश्च वियच्चात्मा च देहश्च तेषु ॥ ८ ॥

ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।

क्वचित् पूजां विसस्मार भक्तिप्रसरसम्प्लुतः ॥ ९ ॥

पदरत्नावली

किं बहुना । सर्वत्र च व्याप्तं भावद्रव्यैर् मनःकल्प्यपुष्पादिद्रव्यैः, अहिंसाद्यैरित्यर्थः । क्वचित् कदाचित् । विस्मरणे कारणं भक्तिप्रसरसम्प्लुत इति ॥ ९ ॥

सत्यधर्मीया

एवं सर्वत्रायकं (व्यापकं, अवकम् इति वा स्यादिति भाति ।) हरिं ध्यायन् । भावद्रव्यैर्मनसैवानुध्यातैः पुष्पादिभिरपूजयत् । क्वचिच्च भक्तिप्रसरोऽवशश्च्योतद्रसस्तेन सम्प्लुतः । पूजां मानसीं विसस्मार । तदनुभवैकवेद्यं प्रमेयं वक्तुं ग्रन्थग्रथकस्य सर्ववित्त्वमनेन ध्वन्यते । मध्यस्थानां तूहननः कृतिव्यत्यस्तितो विस्मरणज्ञानमिति च ज्ञेयम् ॥ ९ ॥

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने ।

उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

पदरत्नावली

वरदानफलं वक्तुमुपक्रमते तस्येति । तस्याश्रमे महान् वायुरभूत् ॥१०॥

सत्यधर्मीया

पुष्पभद्रा काचिन्नदी तस्यास्तटे । सन्ध्यायां तद्देवतोपास्तौ । महान्वायुरभूत्

॥ १० ॥

तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् करालाः ।

अक्षस्थविष्ठा मुमुचुस्तडिद्भिस्तन्वन्त उच्चैरभिवर्षधाराः ॥ ११ ॥

पदरत्नावली

तं वायुमनु अनन्तरं ते बलाहका अभि अभितः, अक्षस्थविष्ठा अक्षो रथाङ्गनीपो दण्डस् तद्वत् स्थूलतया वर्षधारा मुमुचुस् तडिद्भिः सह ॥ ११ ॥

सत्यधर्मीया

चण्डशब्दं चण्डः शब्दो यस्य तं भीकररवं समुदीरयन्तं कम्पयन्तम् । यद्वा चण्डशब्दं समुदीरयन्तं तं तन्वन्तं मारुतं करालाः क्रूरा बलाहका मेघा अनुसृत्याभवन् । भूत्वा चैवमकुर्वन्निति तद्व्यापारमीरयति ॥ अक्षःस्थविष्ठा इति । अक्षश्च शकटचक्रनाभिनिवेश्य-दण्डस्तद्वदोतप्रोतोऽपि वा स्थविष्ठा अतिस्थूला वर्षधारास्तडिद्भिः सहोच्चैस्तन्वन्तो विस्तारयन्तस्ता मुमुचुरित्यन्वयः ॥ ११ ॥

तते व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः ।

समीरवेगोर्मिभिरुग्रनक्रभयानकावर्तगभीरघोषाः ॥ १२ ॥

पदरत्नावली

समीरवेगेनोन्नमितोर्मिभिः सह उग्रनक्रैर्भयानकस्य भयङ्करस्य आवर्तस्य गभीरा गम्भीरा घोषा येषां ते तथा ॥ १२ ॥

सत्यधर्मीया

ततस्तदनन्तरं, समन्ततः क्ष्मातलं भूतलमाग्रसन्तः सर्वमविशेषेण मज्जयन्तः समीरवेगोर्मिभिस्तद्वेगतोऽगाधैस्तरङ्गैः । उग्रा ये नक्रा भयानका ये आवर्ता अम्भोभ्रमा गभीरघोषश्च येषां ते चतुःसमुद्राः । विशेषणसमासः । व्यदृश्यन्त ॥ १२ ॥

अन्तर्बहिश्चाद्भिरभिद्युभिर्घनैः शतह्रदाभिरुपतापितं जगत् ।

चतुर्विधं वीक्ष्य महामना मुनिर्जलप्लुतां क्ष्मां विमनाः समत्रसत् ॥१३॥

पदरत्नावली

घनैर्मैघैरभिवृष्टाभिरुपतापितमाप्लावितम् अभितो द्युतिमतीभिः शतह्रदाभि-स्तडिद्भिश्चोपतापितं दग्धवत् कृतम् । क्ष्मामब्धिजलप्लुतां वीक्ष्य ॥ १३ ॥

सत्यधर्मीया

अभिद्युभिरभितो द्यौः प्रकाशो येषां ते तैर्घनैर्मेघैः । तथा चोक्तं तत्त्वप्रकाशिकायाम् । तस्मै नूनमभिद्यव इति व्याख्यावसरेऽभितो द्यौः प्रकाशो यस्य सोऽभिद्युरिति । तथा शतह्रदाभिस्तडिद्भिरुपतापितमन्तर्बहिश्चाद्भिश्च सहितं चतुर्विधं जरायुजादिभेदेन जगद्वीक्ष्य महामना अपि मुनिर्जलप्लुतां क्ष्मां च वीक्ष्य समत्रसद्भीतिमाप ॥ १३ ॥

तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः ।

आपूर्यमाणः प्रवृषद्भिरम्बुदैः क्ष्मामप्यधाद् द्वीपवर्षादिभिः समम् ॥ १४ ॥

पदरत्नावली

अप्यधाच् छादितवान् । तस्य मुनेरुद्वीक्षतः ॥ १४ ॥

सत्यधर्मीया

एवमुद्वीक्षतो वीक्ष्यमाणस्य मार्कण्डेयस्य सतः । ऊर्मिभीषणः । प्रभञ्जनेन वायुना घूर्णिता निरस्तास्ततश्चलन्ति च तानि वारि च यस्य स चासौ महांश्चासावर्णवश्च । प्रवृषद्भिरम्बुदैरापूर्यमाणो द्वीपवर्षादिभिर्घ्नन्त (अत्र किमपि त्रुटितमिति भाति) इत्यादिना पशब्दा-कारेकारो वरषाश्च वर्षाश्च खण्डास्तदादिभिः समं साकमप्यधात्पिदधे ॥ १४ ॥

सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सहसाऽद्भिराप्लुतम् ।

स एक एवोर्वरितो महामुनिर्बभ्राम विक्षिप्तजटो जडान्धवत् ॥ १५ ॥

पदरत्नावली

सदिवं स्वर्गेण सहितम् । सभागणं सनक्षत्रगणम् । जडवदन्धवत्

॥ १५ ॥

सत्यधर्मीया

क्ष्मा चान्तरिक्षं च ताभ्यां सहितं सदिवं दिवेन स्वर्गेण सहितम् । गतम् । सभागणं भानां नक्षत्राणां भागणोऽसङ्कुचितः सङ्घस्तेन सहितम् । सहसाऽतर्केण त्रैलोक्यमद्भिराप्लुतं स मार्कण्डेय एक एवोर्वरितो, विक्षिप्ता जटा यस्य स जडान्धवज्जडवदज्ञवदन्धवच्च बभ्राम

॥ १५ ॥

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैरुपद्रुतो वीचिनभस्वता हृतः ।

तमस्यपारे पतितो भ्रमन्दिशो न वेद खं गां च परिश्रमोषितः ॥ १६ ॥

पदरत्नावली

वीचिनभस्वता तरङ्गवायुना भ्रमन्त्यो दिशा यस्य स तथा । वष्टि भागुरि-रल्लोपमिति वचनाट् टाबन्तो दिशाशब्दः । परिश्रमोषितः दुःखसमुद्रवासी ॥ १६ ॥

सत्यधर्मीया

क्षुत्तृड्भ्यां परीतः । पूर्णेऽर्णवाम्भसि तृट्परीतता तु तिमिङ्गिलादिगिलनभिया नास्यप्रसरणादिति सम्भवतीति ज्ञेयम् । भीतेरप्रतिभानाद्वा । मकरैस्तिमिङ्गलैश्चोपद्रुतः । वीचे-स्तरङ्गस्य नभस्वता पवनेनाहृत इतस्ततो नीतोऽपारे तमसि पतितो भ्रमन् दिशो न वेद । भ्रमद्दिश इति पाठे भ्रमत्यश्च ता दिशश्च ताः खमाकाशं गां च परिश्रमोषितः परिश्रमेणोषितः सन्न वेद । दिग्भ्रमणं दिग्भ्रमणत इति ज्ञेयम् । परिश्रम उषितो यत्र स इति वा । श्रमवानिति यावत् ॥ १६ ॥

क्वचिन्मग्नो महावर्ते तरलैस्ताडितः क्वचित् ।

यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः ॥ १७ ॥

पदरत्नावली

तरलैस्तरङ्गैः ॥ १७ ॥

सत्यधर्मीया

महांश्चासावावर्तोऽम्भसां भ्रमस्तस्मिन् । क्वचिन्मग्नः । तरलानि तरङ्गास्तैः । तरलं चञ्चले भङ्गे हारमध्यमणावपीति विश्वः । यादांसि जलजन्तवोऽन्योन्यं परस्परं घातयितुं शीलं येषां तैः ॥ १७ ॥

क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दुःखं सुखं भयम् ।

क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुपद्रुतः ॥ १८ ॥

सत्यधर्मीया

सुखं त्वेकाकित्वेऽपि क्वचिद्वीपाद्युपात्तौ । मृत्युमवाप्नोति अवाप्नोतीव । व्याध्यादिभिः क्वचिदुपद्रुतश्च ॥ १८ ॥

अयुतायुतवर्षाणां सहस्राणि शतानि च ।

व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मनः ॥ १९ ॥

सत्यधर्मीया

कियान्यामो यात इत्यत आह । अयुतायुतवर्षाणां सहस्राणि च व्यतीयुरिति । विष्णुमाययाऽऽवृत आत्मा मनो यस्य तस्य । तस्मिंल्लयतोये भ्रमतः ॥१९॥

स कदाचिद् भ्रमंस्तस्मिन् पृथिव्याः ककुदि द्विजः ।

न्यग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ २० ॥

पदरत्नावली

ककुदि उन्नततस्थले ॥ २० ॥

सत्यधर्मीया

पृथिव्याः ककुदि, ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे राजलक्ष्मणीति विश्वाच्छे्रष्ठे भाग उन्नतप्रदेश इति यावत् । न्यग्रोधपोतमनुत्कण्ठं वटमित्यर्थः । अणुत्वावस्थायामेव फलपल्लव-शोभितं ददृशे ॥ २० ॥

प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।

शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ २१ ॥

पदरत्नावली

तस्य वटस्य ॥ २१ ॥

सत्यधर्मीया

प्रागुत्तरस्यां प्राच्युदिता प्रसृता चोत्तरस्यां दिशीति प्रागुत्तरोत्तरस्यां शाखायां तत्रापि पर्णपुटके शयानं कञ्चन शिशुं, प्रभया स्वया तमो ग्रसन्तमपहरन्तं ददर्श ॥ २१ ॥

महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।

कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥ २२ ॥

सत्यधर्मीया

स्तोकं तोकं कैश्चित् श्लोकैरुपश्लोकयति ॥ महामरकतेति । गारुत्मतं मरकतमश्मगर्भो हरिन्मणिरित्यमरः । इन्द्रनीलवच्छामवर्णं श्रीमद्वदनपङ्कजं यस्य स तम् ॥२२॥

श्वासैजदलकव्रातमिश्रश्रीकर्णदाडिमम् ।

विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ २३ ॥

पदरत्नावली

श्वासेन मुखवायुना एजतां कम्पमानानामलकानां व्रातेन मिश्रया श्रिया युक्तं कर्णदाडिमं कर्णाभरणं यस्य स तथा तम् । ईषच्छोणाश्लिष्टा ॥ २३ ॥

सत्यधर्मीया

श्वासेनैतदादिवत्तत्कालसृष्टेन । तमोवाय्वादीनां सर्वात्मना निवृत्तिरिति टीकोक्तेः । विस्तृतं चैतदस्माभिः सप्तमे । एजन्त एजमाना अलकाश्चूर्णकुन्तलास्तेषां व्रातेन समूहेन तत्कान्त्येति यावत् । मिश्रा सम्पृक्ता श्रीः शोभा तया युक्तं कर्णयोर्दाडिमं बीजापूरं कुसुमं यस्य तम् । ईषच्छोणायितं किञ्चिद्रक्तिमोपेतं सुधावद्धवलं स्मितं मन्दहासो यस्य तम् । तच्छोणिमि्न कारणमीरयति ॥ विद्रुमाधरभासेति । विद्रुमवत्प्रवालवद्विद्यमानोऽधरो दन्तवसनं तस्य भासा कान्त्येति ॥ २३ ॥

पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् ।

श्वासैजद्वलिसंविग्ननिम्ननाभिचलोदरम् ॥ २४ ॥

पदरत्नावली

पद्मगर्भवद् अरुणावपाङ्गौ नेत्रान्तौ यस्य तम् । श्वासैरेजन्त्यश् चलन्त्यो वलयस् तिर्यग्रेखास् ताभिः संविग्नगम्भीरा नाभिर्यस्य स तथा । चलमुदरं यस्य स तथा । श्वासैजद्वलि संविग्ननिम्ननाभिश्च चलोदरश्च स तथा तम् । दलोदरमिति वा पाठः । दलवदश्वत्थदलवद् उदरं यस्येति ॥ २४ ॥

सत्यधर्मीया

पद्मगर्भवदरुणावपाङ्गौ नेत्रान्तौ यस्य तम् । हृद्यहासेन सहावलोकनं यस्य तम् । श्वासेनैजन्त्यस्त्रिवलयस्ताभिः संविग्नेव निम्ना नाभिर्यस्य स चासौ चलमुदरं तनीयस्त्वाद्यस्य स च तम् ॥ २४ ॥

चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।

मुखे निधाय विप्रेन्द्र धयन्तं वीक्ष्य विस्मितः ॥ २५ ॥

पदरत्नावली

धयन्तं पिबन्तम् ॥ २५ ॥

सत्यधर्मीया

चारवश्च ता अङ्गुलयश्च ययोस्ताभ्यां पाणिभ्यां हस्ताभ्यां चरणाम्बुज-मुन्नीयोर्ध्वं नीत्वा मुखे निधाय धयन्तम् । धेट् पाने । पिबन्तं, विप्रेन्द्र शौनक । वीक्ष्य विस्मितः । विप्रेन्द्र इति पाठे मार्कण्डेयः ॥ २५ ॥

तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुजः ।

प्रहृष्टरोमाऽद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥

पदरत्नावली

अद्भुतभावेन आश्चर्यलीलाचेष्टया शङ्कितः सन्नपि पुरः प्रससार समीपं गतः ॥ २६ ॥

सत्यधर्मीया

तद्दर्शनाद्बालावलोकनाद्वीतो गतः परिश्रमो यस्य स; मुदा, प्रोत्फुल्लानि विकसितानि हृत्पद्मं च विलोचनाम्बुजे च यस्य सः, प्रहृष्टरोमा प्रहृष्टानि रोमाणि यस्य सः, अद्भुतभावेनाद्भुतत्वेन स्वदृष्टवस्त्वन्यतमत्वाभावाच्छङ्कितस्तं बालकं प्रष्टुं त्वं क इति पुरोऽग्रतः प्रससार ॥ २६ ॥

तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तःशरीरं मशको यथाऽविशत् ।

तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुराऽमुह्यदतीव विस्मितः ॥२७॥

पदरत्नावली

स भार्गवो मार्कण्डेयस् तावत् ततः पूर्वमेव श्वसितेन अन्तर्गच्छता सह शिशोरन्तःशरीरं मशको यथा तथाऽविशदित्यन्वयः । तत्रोदरान्ते विन्यस्तमदो विश्वं कृत्स्नशोऽचष्ट दृष्टवान् । दृष्ट्वा च पुरा यथा बहिर्विस्मितोऽमुह्यत् तथाऽमुह्यदित्यन्वयः । अत्र मोहो नामाश्चर्य-बुद्धिरेव नत्वन्यथाज्ञानं तथात्वे प्राचीनाचीर्णपुण्यराशेर्वैयर्थ्यपत्तेरिति ॥ २७ ॥

सत्यधर्मीया

तावत्तन्मध्य एव । शिशोः श्वसितेन तत्कालसृष्टेन मातरिश्वना स भार्गवोऽन्तः शरीरं शरीरे मशको यथा तथाऽविशत् । तत्रापि कृत्स्नशो न्यस्तमदस्तद्विश्व-मचष्टापश्यत् । यथा पुरा विस्मितोऽतीवामुह्यन्मुमोह । मोहस्तु विमनस्कताद्यात्मा, विमनाः समत्रसदित्युक्तेः ॥ २७ ॥

खं रोदसी भगणानद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान् ।

वनानि देशान् सरितः पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तयः ॥ २८ ॥

पदरत्नावली

विश्वं विशिनष्टि खं रोदसी इत्यादिना । आश्रमवर्णवृत्तयो यास्ताश्च

॥ २८ ॥

सत्यधर्मीया

यथा पुरेतीरितं विशदयति ॥ खमिति । रोदसी द्यावापृथिव्यौ, अद्रयः सागराश्च तान्सवर्षान्सखण्डान्द्वीपमस्त्रियामित्युक्तेर्द्वीपान् । गतम् । ककुभो दिशः । सुरैः सहिताश्च तेऽसुराश्च तान् अतो येषां शाश्वतिको विरोध इति न विरोधः । पुराणि चाकराः खनयश्च तान् । गतम् । आश्रमवर्णवृत्तयो यास्ता वृत्तयो वृत्तीरिति वा ॥ २८ ॥

महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम् ।

यत् किञ्चिदन्यद्व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥

पदरत्नावली

महान्ति भूतानि पञ्चभूतानि नानायुगकल्पनं येन स तथा तं कालं च । अन्यद् यत् किञ्चिद् व्यवहारकारणं हानोपादानादिसमर्थं तथाऽद्राक्षीत् । सदिव सत्वेन यथार्थत्वेनैवावभासितं प्रकाशितं न मिथ्याभूतत्वेन ॥ २९ ॥

दुर्घटभावदीपिका

सदिवावभासितमित्यत्रार्थवशाद्विपरिणाममङ्गीकृत्य महान्ति भूतानीत्यादि-नाऽन्वयो वक्तव्यः । असौ मार्काण्डेयः सदिवावभासितं सदिवावभासितानि । रात्रिस्त्वज्ञातमुद्दिष्टं सम्यग्ज्ञानं दिवा स्मृतमिति शब्दनिर्णयवचनाद्दिवाशब्दः सम्यग्ज्ञानवाची । सम्यग्ज्ञानेन प्रमारूपज्ञानेन सहिता ब्रह्मादयः सदिवावभासितानि ज्ञातानि । सत्यानीति यावत् । महान्ति भूतानि पृथिव्यादि-महाभूतानि भौतिकान्यथ भौतिकानि च सदिवावभासितं सत्यं नानायुगकल्पकल्पनं नानायुगानां नानाकल्पानां च कल्पनमुत्पादनं यस्मात्स नानायुगकल्पनस्तं कालं च यत्किञ्चित्पूर्वोक्तेभ्योऽन्य-द्व्यवहारकारणं सदिवावभासितं सत्यं तद्विश्वं समस्तं च ददर्शेति । एतेन मार्काण्डेयदृष्टानां महाभूतादीनां सत्यत्वात्सदिवावभासितमिति मिथ्यात्वकथनमयुक्तमिति दूषणं परास्तम् । सदिवावभासितमित्येकं पदमङ्गीकृत्य सदिवावभासितमित्यनेन महाभूतादीनां मिथ्यात्वनिरासार्थं सत्यत्वमुच्यत इत्यभ्युपगमात्

॥ २९ ॥

सत्यधर्मीया

महान्ति पञ्चेति । अथैतदनन्तरं भौतिकानि भूतहेतुकानि । नानायुगानां कल्पानां च कल्पनं येन तं कालं च, व्यवहारकारणं प्रवृत्तिनिवृत्त्यौपयिकं यत्किञ्चिदन्यदपि । इवेत्येवार्थे । अवभासितं तत्सदेव । सदिवोदरे च तदिति पाठे उदरे उद्गतदोषे उदरकुक्षौ विश्वं यत्तद्ददर्श । सः दिवा व भासितमिति छेदः । व इव, दिवा भासितमिव स ददर्शेति ॥२९॥

हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषीनपश्यत् ।

विश्वं विपश्यन् श्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ॥ ३० ॥

पदरत्नावली

पुनः किमभूदत्राह विश्वमिति । बहिः श्वसतः शिशोः श्वासेन बहिर्निरस्तो नुन्नः प्रलयाब्धौ न्यपतत् ॥ ३० ॥

दुर्घटभावदीपिका

यत्र यस्मिन्नुदरे विश्वं विपश्यन् विशेषेण पश्यन् मार्काण्डेयो हिमालयं हिमाश्रयं हिमाचलं पुण्यवहां तां सर्वनद्युत्तमत्वेन प्रमाणप्रसिद्धां नदीं गङ्गां निजाश्रमम् ऋषीं चापश्यत । तस्मादुदरात् शिशोः श्वसिताच्छ्वासाद् बहिर्निरस्तः सन् लयाब्धौ निपतदित्येतद्वै प्रमाणप्रसिद्धमिति । एतेन यत्रेत्येतदनन्वितमिति दूषणं परास्तम् । तस्मादुदरादित्यध्याहारेणान्वयस्योक्तत्वात् ॥३०॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां

द्वादशस्कन्धे अष्टमोऽध्यायः ॥ १२-८ ॥

सत्यधर्मीया

यदभूदुदरे तदवलोकनकौतुकस्तस्थौ । तत्स्थाने किंवा बहिरयमहयदित्यत आह ॥ हिमालयमित्यादिना । हिमालयं, पुष्पवहेति पुष्पभद्राया एव नामान्तरम् । यत्र पूर्वमृषयः स्थितास्तन्निजमाश्रमं तानृषींश्चापश्यत्पुनः शिशोः श्वसितान्निरस्तोऽपवाहितो लयाब्धौ न्यपतत् ॥ ३० ॥

तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् ।

तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥

पदरत्नावली

वटं च तोकं च वीक्ष्य तस्य शिशोः प्रेमसुधायाः प्रेमामृतादुद्भूतस्मित-सहितेनापाङ्गनिरीक्षणेन निरीक्षितोऽभूदित्यन्वयः ॥ ३१ ॥

सत्यधर्मीया

प्ररूढमकिञ्चिदुदञ्चितं वटं च तत्पर्णपुटे शयानं तोकं च । चौ परस्पर-समुच्चयौ । ददर्श । तस्य तोकस्य प्रेम्णा सहितं सुधाविस्मितं यस्य तेनापाङ्गनिरीक्षणेन निरीक्षितो विषयीकृतोऽभूत् ॥ ३१ ॥

अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्टितं हृदि ।

अभ्यगादतिसंहृष्टः परिष्वक्तुमधोक्षजम् ॥ ३२ ॥

पदरत्नावली

अथ तं बालकं परिष्वक्तुमभ्यगात् ॥ ३२ ॥

सत्यधर्मीया

तं बालं नेत्राभ्यां वीक्ष्य हृद्यधिष्ठितमासीनमधोक्षजं परिष्वक्तुमति-संहृष्टोऽभ्यगात् । अधोक्षजमित्यनेन परिरम्भणमुपजहास व्यास इत्यवसेयम् ॥ ३२ ॥

तावत् स भगवान् साक्षाद् योगाधीशो गुहाशयः ।

अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥

पदरत्नावली

अनीशेनासमर्थेन निर्मिता ईहा मायालक्षणा चेष्टा यथा क्षिप्रमन्तर्दधाति तथेदम् । अन्तर्धानशैघ्य्रे निदर्शनमिदं न तु मिथ्यात्वे ॥ ३३ ॥

सत्यधर्मीया

गुहाशयो योगाधीशस्तावदृषेरालिङ्गनात्पूर्वमेवान्तर्दधे । तत्र निदर्शन-मन्तर्धानमात्रमाह ॥ यथेति । अनीशेन सत्यसृष्टावशक्ता हि मायासृष्टिं वितन्वत इत्यादेरसमर्थेन निर्मिता । इहैन्द्रजालिकी चेष्टाऽन्तर्धत्ते । सद्यस्तथाऽन्तर्दध इति ।

जनमेजय उवाच । प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि । पुष्करे वै यथोद्भूता देवाः सर्षिगणा इत्यारभ्य भगवन्वक्तुमर्हसीत्यन्तप्रश्नग्रन्थेन तथा नारायणयशो ज्ञानेत्यारभ्य श्रीभगवानुवाच । मा भैर्वत्स न भेतव्यमिहैवायाहि चान्तिकम् । मार्काण्डेय महाप्राज्ञ बालस्त्वं श्रमपीडितः । मार्काण्डेयः । को मां नाम्ना पीडयति तपः परिभवन्मम । बहुवर्षसहस्राख्यं धर्षयंश्चैवमेव यः । न ह्येष समुदाचारो देवेष्वपि समाहितः । मां ब्रह्मापि स विश्वेशो दीर्घायुरिति भाषते । कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः । मार्काण्डेयेति मां प्रोक्त्वा मृत्युमीक्षितु-मिच्छति । एवमाभाषते क्रोधान्मार्काण्डेयो महामुनिः । तथैव भगवान्भूयो बभाषे तत्परायणम् ।

श्रीभगवानुवाच । अहं ते जनको वत्स हृषीकेशः पिता गुरुः । आयुः प्रदातेति गर्भीकृत्य स्वयम्भूः शयनेऽसृजत्तदा जगन्मयं पद्मनिधिं महार्णवे इत्यन्तेन ग्रन्थेन हरिवंशशंसिता नाभिपद्मतः पद्मसृष्टिस्तत्र जगत्सृष्टिरत्रानुसन्धेया ।

तथा वनपर्वणि । पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः । अनुभूतं तु बहुशस्त्वयैकेन द्विजोत्तम । न ते त्वविदितं किञ्चित्सर्वलोकेषु नित्यदा । मार्काण्डेयः । हन्त ते वर्तयिष्यामीत्यारभ्येदानीं शरीरेऽस्मिन्मामके मुनिसत्तम । उषितस्त्वं परिश्रान्तो मार्काण्डेय ब्रवीम्यहम् । मुहूर्तादथ मे दृष्टिरित्यादि गर्भीकृत्य स एव कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः । आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः । एष धाता विधाता च संहर्ता चैव शाश्वतः । श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः । दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता । आदिदेवमयं जिष्णुं पुरुषं पीतवाससम् । सर्वेषामेव भूतानां पिता माता च माधवः । गच्छद्ध्वमेनं शरणं शरण्यं कौरवर्षभ इत्यन्तेन ग्रन्थेन कथितायाः कथाया अनुसन्धाने भगवन्माहात्म्योत्तेजकता मार्काण्डेयकथाया ज्ञायत इति भगवत एवेयमुक्तिर्युक्तेति ज्ञेयम् । सृष्टिस्तु प्रकृतिसूक्ष्मोपादानिकी भगवदिच्छानिमित्तयुता तापसतया फलरूपेति सत्यभूतेति निर्गलोऽर्थः ॥ ३३ ॥

तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लवम् ।

तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत् स्थितः ॥ ३४ ॥

॥ इति श्रीमद्भागवते द्वादशस्कन्धे अष्टमोऽध्यायः ॥

पदरत्नावली

अन्तर्हितं भगवन्तमनु लोकस्य सम्प्लवो यस्मात् तत् तथा । तिरोधायि तिरोहितमभूत् ॥ ३४ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां

द्वादशस्कन्धस्य अष्टमोऽध्यायः ॥ १२-८ ॥

सत्यधर्मीया

तमनु बालमनु वटः सलिलं लोकसम्प्लवं लोकानां सम्प्लवो यस्मात्तदस्य पश्यतः सतः क्षणात्तिरोधायि तिरोहितमभूत् । स च पूर्ववत्स्वाश्रमे स्थितः ॥ ३४ ॥

**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **

द्वादशस्कन्धेऽष्टमोऽध्यायः ॥ १२-८ ॥