०७ सप्तमोऽध्यायः

सूत जीव चिरं साधो वद नो वदतां वर

॥ अथ सप्तमोऽध्यायः ॥

शौनक उवाच–

सूत जीव चिरं साधो वद नो वदतां वर ।

तमस्यपारे भ्रमतां नृणां त्वं पारदर्शनः ॥ १ ॥

पदरत्नावली

अस्मिन्नध्याये मार्कण्डेयकथाव्याजेन हरेर्निरतिशयमाहात्म्यं ब्रूते । पुराण-विभागप्रसङ्गेन पुराणकर्तुमार्कण्डेयस्य चरितं च । तत्र शौनकः सूतं पृच्छति सूतेति । वद, भगवत्कथाद्योतिनीं कथामिति शेषः ॥ १ ॥

सत्यधर्मीया

अत्र भगवदवगमो मोक्षादिहेतुरिति सोऽवश्यं सम्पाद्यस्तत्साधनं च तन्निरतिशयचरितश्रवणमिति तत्तत्प्रतिपाद्यते । तत्र तृतीयषट्कोपसंहाररूपे प्रथमं मार्काण्डेय-पुराणग्रहणसन्निधापितस्य चिरञ्जीवित्वप्रथातश्चिरं श्राव्यभाव्यचरितत्वेन शुश्रूषाविषयतया चित्तसमुल्लसितस्य मार्कण्डेयस्य कथां कथयेति शौनकः सूतं पृच्छन् स्वयं विप्रत्वात्तदायुराशास्त इत्याह ॥ सूतेति । साधो सूत चिरञ्जीव । आदावेवमेवाशासनं चिरञ्जीविमार्कण्डेयकथाकथन-प्रार्थनाहेतुकमिति । वदतां वाग्मिनां वरमपारे तमस्यज्ञानप्रचुरसंसारे भ्रमतां नृणां, पारं दर्शयतीति स तथा त्वमन्यं प्रमेयविशेषं वद । जीवेषु जीविषु चिरं बहुकालिकं वदेति वा । सुप्सुपेति मयूरव्यंसकादित्वेन वा किञ्चन इत्यादिवत्समासः ॥ १ ॥

आहुश्चिरायुषमृषिं मृकण्डुतनयं जनाः ।

यः कल्पान्तेऽप्युर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥

सत्यधर्मीया

जना आहुरिति बहुसम्मत्या विश्वसनीयता सूच्यते । उर्वरितो जीवन्येन कल्पान्ते इदं जगद्ग्रस्तं तदप्युर्वरितः ॥ २ ॥

स वा अस्मत्कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः ।

नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥ ३ ॥

एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।

वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥ ४ ॥

एष नः संशयो भूयान् जातः कौतूहलं यतः ।

तन्नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः ॥ ५ ॥

सूत उवाच–

प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः ।

नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥

पदरत्नावली

अस्मत्कुलसम्बन्धित्वात् तच्चरितमवश्यं श्रवणार्हमित्याशयवानाह स वा इति ॥ सप्तभूतानां मध्ये कोऽपि सम्प्लवो न जायते लुङ्त्वे लट् । पञ्चभूतानां कोऽपि सम्प्लवो नाश इति वा ॥ तस्यामवस्थायां प्रलय इवार्णवे पुरुषं ददर्श किलेति वा ॥ यतः संशयान्महा-कौतूहलविषयोऽर्थः । मम संशयच्छेदनं कथमुपपद्यत इति तत्राह पुराणेष्विति । ज्ञातृत्वेन सम्मतो भवानिति ॥ मार्कण्डेयकथाया लोकाज्ञाननिवारणसामर्थ्यं कुत इत्याह नारायणेति । यत्र मार्कण्डेयकथायाम् । तत्कथाविषयः प्रश्नः ॥ ३-६ ॥

सत्यधर्मीया

लौकिकरीत्याऽनुबन्धरूपोपाध्यन्तरमपि श्रवणे श्रावयति ॥ स इति । अस्मत्कुलोत्पन्न इत्युक्तं तत्कथमित्यतस्तदाह ॥ भार्गवर्षभ इति । अस्मिन्कल्पे भूतानां कोऽपि सम्प्लवो न जायते । क्रियाप्रबन्धे लडित्युक्तेर्लङर्थे लट् । तत्र लयः कथं कथन्तरामुदीर्णोर्णवस्तत्र कथन्तमामेक एव बभ्राम भ्राम्यंश्च वटपत्रपुटे शयानमेकमद्भुतं तोकं बालं कथं ददर्श नैष संशयो भूयांस्त्वद्वचनतोऽन्येन परिहार्यः । यतः परं कौतूहलं जातं ततः संशयं छिन्धि । न मया तदवगतमिति न वदेति वदति ॥ महायोगिन्पुराणेष्वपि सम्मत इति । मन्तृतया सम्मत इत्यर्थः । अनुयोक्तः शौनक त्वं तु विदितैतत्कः सन्नपि परसंशयं स्वयमाहृत्य पृच्छसीति तमर्थादभिनन्द्य वदतीति वदति ॥ सूत इति । हे महर्षे त्वयाऽयं कृतः प्रश्नो, लोकभ्रमम-पहन्तीति स तथा यत्र मार्काण्डेयकथायां कलिमलापहा नारायणकथा गीता । अत उत्तरं वक्ष्यामीति तात्पर्यम् ॥ ६ ॥

प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् ।

छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ ७ ॥

पदरत्नावली

पितुर् मृकण्डोः प्राप्तद्विजातिसंस्कारो ऽन्नप्राशनोपनयनान्तब्राह्मणसंस्कारान् प्राप्तः ॥ ७ ॥

सत्यधर्मीया

पितुर्मृकण्डोः क्रमाज्जातकर्मादिक्रमाच्छन्दांस्यप्यधीतवानित्यन्वयः । धर्मेण प्राङ्मुखोऽधीयेतेत्यादिविधिना । तपःस्वाध्यायाभ्यां स्वकर्तृकाभ्यां संयुतः ॥ ७ ॥

बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः ।

बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥

कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमैर्युतः ।

अग्न्यर्कगुरुविप्रांश्च स्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥

पदरत्नावली

बृहद्व्रतधरः प्रह्मचारिव्रतधरः ॥ हरिम्, स्मरन्निति शेषः ॥ ८,९ ॥

सत्यधर्मीया

बृहद्व्रतधरो बृहद्व्र्रतं ब्रह्मचारियोग्यं महाव्रतं तस्य धरो जटिलो जटावान् । मत्वर्थ इलच् । वल्कलमम्बरं यस्य सः । बिभ्रदिति कमण्डल्वादिकुशान्तपदैरन्वयम् । बिभ्रत् । साक्षमक्षमालासहितमुपवीतं यज्ञोपवीतम् । नियमैर्यमनियमादिभिरग्नेरर्चनमग्निकार्यादिकम् । अर्कोपस्थानं गुरून्विप्रान्हरिं च स्वर्चयन्कालानतिलङ्घनेन तदित्याह ॥ सन्ध्ययोरिति ॥८,९॥

सायंप्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः ।

बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः ॥ १० ॥

पदरत्नावली

नोचेदनुज्ञाभावे ॥ १० ॥

सत्यधर्मीया

वाग्यतो यतवाक् । सायं प्रातश्च भैक्ष्यं वागुपदेशरूपिणी यतस्तस्मादिति वा । गुरव आहृत्य स्वयं गुर्वनुज्ञातः । तसिलन्तत्वे प्रथमान्तत्वे च सममाज्ञानवज्ज्ञानम् । बुभुजे तदपि सकृदेकवारं नो चेच्चेतःपरीक्षार्थमाज्ञा न चेत् । उपोषितः । क्रोधेन न दूरं गत इत्यप्याह ॥ उपोषित इति । समीपवासीत्यर्थः ॥ १० ॥

एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम् ।

आराधयद्धृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥

सत्यधर्मीया

चिरायुष्ट्वे कारणमीरयति ॥ एवमिति । तपःस्वाध्यायपरो वर्षाणामयुतायुतं हृषीकेशमाराधयत् । सुदुर्जयं मृत्युं जिग्येऽजयत् ॥ ११ ॥

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे ।

नृदेवपितृभूतानि तेनासन्नतिविस्मिताः ॥ १२ ॥

पदरत्नावली

तेन कर्मणा ॥ १२ ॥

सत्यधर्मीया

मृत्यूज्झिता अप्येते न विस्मिता इत्याह ॥ ब्रह्मेति । इत्येते इत्या-ध्याहारेणान्वय इत्यतिविस्मिता इत्युपपद्यते । यद्वा नृदेवपितृभूता नि त इति पदच्छेदः । भूता देवयोनयो नीत्यस्यासन्नित्यनेनान्वयः । नितेन मुष्टिहत्यया निवृत्येत्यत्रेवान्वयो व्यवधानेऽपीति ज्ञेयम् । विस्तृतं चैतत्पुरा । भूताश्चानिन इतरे प्राणिनश्च ते च ते ते चातिसः । अति तेऽवितरतिरूपिणोऽतिविस्मिताऽतिक्रान्ता नीतितोऽविस्मिता इति यावत् । नासन्विस्मिता अभवन् जिग्य इति चान्वयः ॥ १२ ॥

इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः ।

दध्यावधोक्षजं योगाद् ध्वस्तक्लेशोऽन्तरात्मना ॥ १३ ॥

पदरत्नावली

मनोयोगादन्तरात्मनाऽन्तर्यामिणा ध्वस्तक्लेशः ॥ १३ ॥

सत्यधर्मीया

योगादुपायात्समाध्यादेर्वा । अन्तरात्मनाऽन्तःस्थित्वा रमणकृदन्तरः समुदाहृत इत्यादेर्भगवानन्तरस्तन्मनसा । ध्वस्तः क्लेशः सांसारिको यस्य येन स वाऽधोक्षजं श्रीहरिं दध्यौ ॥ १३ ॥

तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः ।

व्यतीयाय महान् कालो मन्वन्तरषडात्मकः ॥ १४ ॥

सत्यधर्मीया

महायोगेन योगिनश्चित्तं युञ्जतो मन्वन्तरषडात्मकः कालोऽत एव महान् व्यतीयाय मन्वन्तराणां षट् आत्मा परिच्छेदकावयवो यस्य सः ॥ १४ ॥

एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।

तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥ १५ ॥

पदरत्नावली—अस्मिन् सप्तमे मन्वन्तरे । तपसो विशङ्कितस्तद्विघातनं तस्य तपसो विघ्नम् ॥१५॥

सत्यधर्मीया

तपो नः पदमपहर्तुं करोति किं करोतीति मतिमान्मघवानन्तराऽन्तरायानेवं तेन इत्याह ॥ एतदिति । सप्तमेऽन्तरेऽस्मिन्पुरन्दर एतत्तपो ज्ञात्वा विशङ्कितः संशयसम्पन्नः किं नाकमाकाङ्क्षयन्नयं तप्यतीति संशयाश्रयो विघातनं कर्तुमारेभे ॥ १५ ॥

गन्धर्वाप्सरसः कामं वसन्तं मलयानिलम् ।

मुनये प्रेषयामास रजःस्तोभमदौ तथा ॥ १६ ॥

पदरत्नावली

रजोगुणं स्तोभमदौ व्यर्थकर्मदर्पौ च । अत्र कामादयो मूर्तिमन्तो निर्दिश्यन्ते

॥ १६ ॥

सत्यधर्मीया

तमेव देवेशरचितमन्तरायं विशदयति ॥ गन्धर्वेति । कामं स्मरं, यथेच्छमित्यर्थेऽव्ययम् । बहिर्गन्धवहगन्धर्वादीन् । अन्तर्बहिश्च स्मरम् । रजो रागजनकं गुणम् । स्तोभं जृम्भणादि व्यर्थं कर्म । मदमहन्तां चान्तस्तपोऽपहाय तूष्णीमवस्थानार्थं मुनये मार्कण्डेयाय । क्रियाभिप्रायेण न मात्रेण चतुर्थी । प्रेषयामास ॥ १६ ॥

ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे ।

पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥

सत्यधर्मीया

यत्र पुष्पभद्रा नाम्ना नदी । शिला, चित्रेत्याख्या यस्याः सा यत्र तत्राश्रमस्तं जग्मुः । स्थानमित्यादिकं वक्तुं यद्यपि युक्तं तथाऽपि तदाश्रममित्यानुपूर्व्या वक्ष्यमाणकार्यानुसारेण तदाश्रमं जग्मुः स्वाभिप्रेतासिद्धेरित्यर्थमपि कटाक्षयतीति ज्ञेयम् ॥१७॥

तत्राश्रमपदं पुण्यं पुण्यद्रुमलतान्वितम् ।

पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥

सत्यधर्मीया

लताञ्चितं लताचितमिति चोचितौ पाठौ । द्विजकुलं विहङ्गसङ्घो, जलाशया नदीतीरसरोवरादयः ॥ १८ ॥

मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् ।

मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥

पदरत्नावली

आटोपं सविलासनृत्यम् ॥ १९ ॥

सत्यधर्मीया

नटानटनं तदाटोपमारभटी तद्वत् ॥ १९ ॥

वायुः प्रविष्ट आदाय हिमनिर्झरसीकरान् ।

सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥

पदरत्नावली

उत्तम्भयन् वर्धयन् ॥ २० ॥

सत्यधर्मीया

मलयानिलागममवगमयति ॥ वायुरिति । यदाश्रमपदं प्रविष्टः सन्सुमनोभिः परिष्वक्तः स्मरं मारमुत्तम्भयन्नुदःस्थास्तम्भोः पूर्वस्येत्युत्तम्भेति भवति । मनसिजमुज्जृम्भयन्ववौ

॥ २० ॥

उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः ।

गायन्द्रुमलताजालैस्तत्रासीत् कुसुमाकरः ॥ २१ ॥

अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथपैः ।

अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ २२ ॥

पदरत्नावली

उद्यन् चन्द्रो यस्य स तथा, स च निशावक्त्रः प्रदोषो यस्य स तथा । कुसुमाकरो वसन्तः प्रवालस्तबकालिभिर् भृङ्गैर्गायन् द्रुमलतामुकुलैः सहाऽसीत्, आविरिति शेषः ॥ आत्तचापेषुर्धनुर्ज्यासहितबाणः । स्वःस्त्रीयूथपातिः स्वर्गस्त्रीगणनाथः ॥ २१,२२ ॥

सत्यधर्मीया

उद्यंश्चन्द्रो यस्य तन्निशावक्त्रं रजनीमुखं प्रदोषसमयो यस्य सः । प्रवालानां स्तबका गुच्छास्तेषु विद्यमानाश्च तेऽलयश्च तैः । स्याद्गुच्छकस्तु स्तबक इत्यमरः । स्तबको हारिभेदे च गुच्छे स्तम्बेऽपि कीर्तित इति रुद्रः । तैर्गायन्ति विद्यमानानि द्रुमलताजालानि तैः समेतो वसन्तस्तत्राविरासीत् । प्रवालस्तबकानामालयस्ताभिः सहेति वा । गायन्तो भ्रमरा-स्तैर्द्रुमलताजालैश्च सहेति वा । गीतवादित्रसहिताश्च ते यूथपा गणप्रणेतारस्तैः । गन्धर्वैरन्वीयमान आत्ताश्चाप इक्षुश्चेषवोऽरविन्दादयश्च येन स स्मरः, स्वःस्त्रीयूथस्याप्सरःसङ्घस्य पतिरदृश्यत । अनङ्गतया यस्यादृश्यत सोऽपि कार्यगौरवादाविरासीदित्यन्वयो वा ॥ २२ ॥

हुत्वाऽग्निं समुपासीनं ददृशुः शक्रकिङ्कराः ।

मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥

पदरत्नावली

अग्निं हुत्वोपासीनम् अग्निसमीपे तिष्ठन्तम् । दुराधर्षं चलितेन्द्रियं कर्तुम् अशक्यम् ॥ २३ ॥

सत्यधर्मीया

शक्रकिङ्करा अग्निं हुत्वा समुपासीनं दीप्तिमन्तमनलमिव दुर्धर्षं मीलिताक्षं मार्कण्डेयं ददृशुः ॥ २३ ॥

ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः ।

मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥

सत्यधर्मीया

वादका वाद्यं चक्रुर्गायका गानम् ॥ २४ ॥

सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा ।

मधुर्मदो रजःस्तोभ इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥

सत्यधर्मीया

पञ्चमुखं पञ्च शोषणं, मोहनं, सन्दीपनं, तापनं, मादनं चेति मुखानि यस्येति केचित् । तद्गिलनानुकूलं पञ्च विशालं मुखं यस्येत्यन्ये । पञ्चसु मुखं प्रधानमर-विन्दमित्यपरे । मध्वाद्याः स्तोभान्ता इन्द्रभृत्या व्यकम्पयंस्त इवाभवन् । केचित्स्तोक इति पठित्वा तदर्थमनिरूप्य पुंस्त्वमार्षमिति जगदुर्जगदुत्साहकृतः ॥ २५ ॥

क्रीडन्त्याः पुञ्जकस्थल्याः कन्दुकैः स्तनगौरवात् ।

भृशमुद्विग्नमध्यायाः केशविभ्रंशितस्रजः ॥ २६ ॥

पदरत्नावली

पुञ्जकस्थल्या अप्सरसां प्रधानायाः कस्याश्चिदप्सरसः केशविभ्रंशितस्रजः केशभागाद् विभ्रंशिता विभ्रष्टा स्रक् यस्याः सा तथा तस्याः ॥ २६ ॥

सत्यधर्मीया

पुञ्जकस्थल्यास्तन्नाम््नयाः स्तनयोर्गौरवं गुरुता तस्माद्भृशमुद्विग्नो मध्यमप्रदेशो यस्याः । कन्दुकैः क्रीडन्त्या व्रीडात्यागेन क्रीडातन्मनआदिकं क्रोडीकृत्य कर्षणहेतुः । केशा-द्विभ्रंशिताश् च्युताः स्रजो माला यस्याः सा तस्याः ॥ २६ ॥

इतस्ततो भ्रमद्दृष्टेश्चलन्त्या अनुकन्दकम् ।

वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥

पदरत्नावली

अनुकन्दुकमुत्पतत्कन्दुकानुकूलं यथा भवति तथा चलन्त्याः । सूक्ष्ममणुतरम् । त्रुटितमेखलं त्रुटिता छिन्ना मेखला काञ्ची यस्य तत् तथा तत् ॥ २७ ॥

सत्यधर्मीया

भ्रमत्यौ दृष्टी यस्याः सा तस्याः । अनुकन्दुकं कन्दुकमनुसृत्य चलन्त्या-स्त्रुटिता मेखला यस्य तत् । सूक्ष्मं, तद्वासस्तस्या वस्त्रं जहार । स्वयं तत्तस्मिन्देशे वासो यस्य सः सन् जहारेत्यपि योजयन्ति । असमानाधिकरणत्वे हरणानुपपत्तेः ॥ २७ ॥

विससर्ज ततो बाणं मत्वा तं स्वजितं स्मरः ।

सर्वं तत्राभवन्मोघमनीशस्य यथोद्यमः ॥ २८ ॥

पदरत्नावली

स्वेन आत्मना जितम् ॥ २८ ॥

सत्यधर्मीया

स्मरस्तं विजितं मत्वा बाणं ततो विससर्ज । किं मुनिरनुससार तमुत निष्फलस्तच्छ्रम इत्यतो द्वितीयाभ्युपगममुत्तरमाह ॥ सर्वमिति । अनीशस्यासमर्थस्योद्यमो यथा मोघो भवति तथा तत्र मार्कण्डेये, तद्विषये मोघं व्यर्थमभूत् ॥ २८ ॥

त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।

दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः ॥ २९ ॥

पदरत्नावली

अर्भका अहिं प्रबोध्येव ॥ २९ ॥

सत्यधर्मीया

इन्द्रदूता इत्थमपकुर्वन्तो मुनेस्तत्तेजसा तत्प्रसिद्धं च तत्तेजश्च तेन । अर्भका अहिं प्रबोध्य प्रसुप्तं पाषाणादिप्रक्षेपेण जाग्रतमग्रे विधाय यथा भीता निवर्तन्ते तथा निववृतुर्निववृतिरे ॥ २९ ॥

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः ।

यन्नागादहमोभावं न तच्चित्रं महत्स्वपि ॥ ३० ॥

पदरत्नावली

अहमोऽहङ्कारस्य भावं नागात् । कपालमुक्तनारिकेलफलवद् देहाभिमानरहित इत्यर्थः ॥ ३० ॥

सत्यधर्मीया

तैर्धर्षितोऽपि महामुनिरहमोभावमहन्ताविकारं नागादिति यत्तन्महत्स्वपि नाश्चर्यं महामुनौ तु किं वक्तव्यं नाश्चर्यमित्यपिशब्दसूचितोऽर्थः । अतो नापिरनन्वितः । हीति पाठे प्रसिद्धोऽयं महत्स्वभाव इत्यर्थः ॥ ३० ॥

दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।

श्रुत्वाऽनुभावं ब्रह्मर्षेर्विस्मयं समगात् परम् ॥ ३१ ॥

पदरत्नावली

निस्तेजसं दुर्बलम् । स्वराडिन्द्रः ॥ ३१ ॥

सत्यधर्मीया

स्वराडिन्द्रः । गतम् । सगणं कामं निस्तेजसं मार्कण्डेयं स्वर्गमानेतु-मक्षममिति यावत् । दृष्ट्वा ब्रह्मर्षेरनुभावं प्रत्यागतदूतमुखतः श्रुत्वा परं विस्मयमगात् ॥३१॥

तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः ।

अनुग्रहायाविरासीन्नरनारायणो हरिः ॥ ३२ ॥

पदरत्नावली

नरेण युक्तो नारायणः नरनारायणः ॥ ३२ ॥

सत्यधर्मीया

नरेण युक्तो नारायणः । अनेनाविष्टरूपतादात्म्यं नारायणस्येतरस्य तु नामग्रहणेन भेदं चासूचयदिति । अनुग्रहाय तं कर्तुम् ॥ ३२ ॥

तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ ।

पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥

पदरत्नावली

रुरोर्विद्यमानं रौरवं वल्कलं चाम्बरं ययोस्तौ ॥ ३३ ॥

सत्यधर्मीया

तद्रूपं निरूपयति ॥ ताविति । तौ आगतौ । तकारश्चागते चोर इति विश्वः । तौ नरनारायणौ शुक्लकृष्णाविति क्रमात् । नवकञ्जलोचनौ तद्दलतुललोचनौ रुरोः कृष्ण-सारस्येदं चर्म रौरवं वल्कलं च वृक्षत्वक् चाम्बरे ययोस्तौ पवित्रं पाण्योर्ययोस्तौ । त्रिवृत्त्री-न्गुणान्वृणोतीति त्रिवृत् । उपवीतकम् । कप्रत्ययेनाविधिबन्धाविति तदनावश्यकता द्योत्यते । दधानावित्युत्तरेणान्वयः । त्रितन्तुकोपवीतोक्त्याऽविवाहो ध्वन्यते । वैणवं वेणोरयं वैणवस्तमृजुम-वक्रदण्डं कमण्डलुं च दधानौ ॥ ३३ ॥

पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात्तपएकरूपिणौ ।

तपत्तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्जितौ ॥ ३४ ॥

पदरत्नावली

जन्तुमार्जनं पिञ्जरचितपुञ्जिं चामरविशेषमित्यर्थः । वेदं दर्भमुष्टिम् । तपती प्रकाशमाना तडित् तपत्तडित् तद्वद् वर्णेन पिशङ्गरोचिषा कपिलप्रभया तपएकरूपिणौ । प्रांशू अत्युच्छ्रितौ । दधानौ, जग्मतुरिति शेषः । उपवीतादिकं च दधानौ । रूपविशेषौ ॥३४॥

दुर्घटभावदीपिका

पद्माक्षमालामुत जन्तुमार्जनं चामरं च वेदं दर्भमुष्टिं च दधानौ साक्षात्तपो मुख्यं तपो दधानौ कुर्वाणौ तपत्तडिद्वर्णपिशङ्गरोचिषैकरूपिणौ एकसौन्दर्योपेतौ प्रांशू उन्नतौ विबुधर्षभार्चितौ विबुधश्रेष्ठार्चिताविति । एतेन तपत्तडिद्वर्णपिशङ्गरोचिषेत्येतदनुचितमिति दूषणं निराकृतम् । सौन्दर्यवद्वाचिकेन रूपिणावित्यनेनान्वय इत्यभ्युपगमात् । एतेनैवैकशब्दो व्यर्थ इति दूषणं परास्तम् । उभयोः सौन्दर्यविशेषो नास्तीति ज्ञापयितुमेकशब्देनैक्यमुच्यत इति स्वीकरणात्

॥ ३४ ॥

सत्यधर्मीया

पद्माक्षमालां पद्ममालां नारायणो नरस्त्वक्षमालामिति योग्यार्थक्रमः । एवं पूर्वोत्तरत्रापि । उत जन्तुमार्जनं करप्रसारणे मरणं न स्याद्दंशमशकादीनामिति तन्मार्जनादिकं वेदं दर्भमुष्टिं वेदं कृत्वा वेदिं कुर्यादित्यादौ याज्ञिकास्त्रिशिरस्कं दर्भमुष्टिं, कृत्वेति वर्णयन्ति । साक्षात्तपोरूपमेकं च तद्रूपं तदस्त्यनयोरिति तौ । तपन्त्यो दीप्तिमन्त्यश्च तास् तडितश्च तद्वर्णव-त्पिशङ्गं यद्रोचिस्तेन रोचिषा सहितौ । रोचिषाविति पाठः सरोचिष्कः । वर्णं वर्णनीयं यत्पिशङ्गरोचिस्तद्ययोरिति वा एतेनानतिरेको वर्णपदस्येति ज्ञेयम् । प्रांशू उन्नतौ । गतम् । विबुधर्षभा ब्रह्माद्याः ॥ ३४ ॥

ते वै भगवतो रूपे नरनारायणौ ऋषी ।

वीक्ष्योत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥ ३५ ॥

पदरत्नावली

तौ नरनारायणौ ऋषी वीक्ष्य ननाम । नमने हेतुमाह ते इति । ते हरे रूपे वै यस्मात् तस्मात् ॥ ३५ ॥

सत्यधर्मीया

ते वै, वैशब्द उक्तविशेषसूचकः । ओनोरआद्यष्टकेन । दण्डवदित्य-नभिमानसूचकम् ॥ ३५ ॥

एतत्सन्दर्शनानन्दनियतात्मेन्द्रियाशयः ।

हृष्टरोमाऽश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥

पदरत्नावली

तयोः सन्दर्शनादुत्पन्नेन आनन्देन नियतात्मेन्द्रियाशया यस्य स तथा

॥ ३६ ॥

सत्यधर्मीया

तद्दर्शनाज्जनितो य आनन्दस्तन्नियता आत्मेन्द्रियाशयास्तन्निघ्नास्ते यस्य सः । तावुदीक्षितुमवलोकितुं न सहे सहनार्थोऽप्यत्र शक्यार्थे न समर्थोऽभूदित्यर्थः ॥३६॥

उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव ।

नमो नम इतीशानौ बभाषे गद्गदाक्षरम् ॥ ३७ ॥

पदरत्नावली

गद्गदाक्षरं वचः ॥ ३७ ॥

सत्यधर्मीया

नमो नम इत्यादरातिशयेन द्विरुक्तिर्वा । ईशानौ । तयोरित्यानुगुण्येन चेति ज्ञेयम् । गद्गदाक्षरं यथा तथा बभाषे ॥ ३७ ॥

तयोरासनमादाय पादयोरवनिज्य च ।

अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥

दुर्घटभावदीपिका

तयोरुपवेशनार्थमासनमादाय ताभ्यामासनं दत्वा पादयोः शिरः स्थापयित्वा पादाववनिज्य चेत्यर्थः । एतेन तयोरासनमादायेत्येतद्व्यर्थमिति दूषणं परास्तम् । स्वहस्तेनैवासनं दत्तं न तु परहस्तेनेति वक्तुमासनग्रहणमुच्यत इत्यङ्गीकारात् । एतेनैव ताभ्यामासनं दत्वेति वक्तव्यम् । तन्नास्तीति न्यूनमिति शङ्का परास्ता । तयोरित्यस्याथर्वशाद्विपरिणामेन ताभ्यामिति भवति । आसनमित्यस्यावृत्तिर्दत्वेत्यस्याध्याहार इति चाङ्गीकृत्य ताभ्यामासनं दत्वेत्यस्यार्थस्योक्तत्वात् । एतेनैव पादयोरित्येतदनन्वितमिति दूषणं परास्तम् । अध्याहृतेन शिरः स्थापयित्वेत्यनेनान्वय-स्योक्तत्वात् । एतेनैवावनिज्येत्यस्य कर्मप्रतिपादनार्थं पादाविति वक्तव्यम् । तदभावान्न्यूनतेति चोद्यानवकाशः । पादयोरित्येतदर्थवशाद्विपरिणतं सत् पादाविति भवतीत्यभ्युपगमात् ॥ ३८ ॥

सत्यधर्मीया

पादयोः पृथक् पृथक् । तवत्वां चतुर्षु षष्ठीति चतुर्थतात्पर्योक्तेः पादयोः पादौ अर्हणेन वस्त्रतो नीरनिर्मार्जनादिनाऽनुलेपो गन्धलेपनादि धूपेन माल्यैर्मालाभिः पुष्पैश्चापूजयत्

॥ ३८ ॥

सुखमासनमासीनौ प्रसादाभिमुखौ मुनिः ।

पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥

पदरत्नावली

पादाभ्यां पादावुद्दिश्य । गरिष्ठौ गुरूणां ब्रह्मादीनामपि गुरू ॥ ३९ ॥

सत्यधर्मीया

सुखं यथा भवति तथा । आसनं स्वदत्तं तत्रासीनौ सुखसाधनेऽपि तच्छब्दप्रयोगः । सुखमासीनमिति यथेति सुधाऋग्भाष्यटीकोक्तेस्तत्साधनं वा । पुनरानम्येति भाषणव्यत्यस्तामपि क्षयमाणार्थमिति गरिष्ठौ गुरुगुरू ॥ ३९ ॥

मार्कण्डेय उवाच–

किं वर्णये तव विभो यदुदीरितासुः

संस्पन्दते तमनु वाङ्मनइन्द्रियाणि ।

स्पन्दन्ति वै तनुभृतामजशर्वयोश्च

स्वस्याप्यथापि भजतामनुभावबद्धः ॥ ४० ॥

पदरत्नावली

अपरिमितमहिम्नोर्युवयोः पुरतो यत् किञ्चिद् वर्णनं किं वर्णये न किमपि । माहात्म्यानामनन्तत्वात् तदेकदेशमपि वर्णयितुं न शक्तोऽस्मि । वागादीन्द्रियाणां त्वन्नियतत्वेन त्वत्प्रसादायत्तत्वादिति शेषः । एतत् कथमित्याशङ्क्य सर्वेन्द्रियनायकः प्राणोऽपि भगवन्नियत एव चेष्टते । किमुतान्यानीति भावेनाह यदुदीरित इति । येन त्वयोदीरितः प्रेरितो ऽसुः प्राणः । तमनु प्राणमनु तनुभृतां मनइन्द्रियाणि यत्प्रेरितानि स्पन्दन्ति चेष्टन्ते । किञ्चाजशर्व-योरिन्द्रियाणि येन प्रेरितानि । अनेनाजशर्वयोः समत्वेन त्वदप्रेरितानि विषयेषु प्रवर्तन्ते, अतो व्यभिचीर्णो हेतुरिति निरस्तम् । अथापि त्वदिन्द्रियप्रवृत्तौ हेतोर्व्यभिचारस्तदवस्थ इति मन्दाशङ्कां परिहरति स्वस्येति । स्वस्येन्द्रियाण्यपि त्वत्प्रेरितानि । यद्यप्येवं स्वतन्त्रोऽसि स त्वमथापि भजतां पुंसां भावबद्धोऽसि । तस्मात् परतन्त्र इव प्रतीयसे, मादृशानामित्यर्थः ॥ ४० ॥

सत्यधर्मीया

यदुदीरितो यद्यस्मादुत्कथ्यत्वेनोत्कृष्टतयेरितोऽप्यसुः । प्रायिकं बहुवचन-वचनम् । सोऽपि यदुदीरितो येन त्वयोदीरितः प्रेरितः संस्पन्दते किञ्चिच्चलति । भीषाऽस्माद्वातः पवत इत्यादेः । तमसूननु । तनुभृतां देहिनां वाङ्मनइन्द्रियाणि मनश्चेन्द्रियाणि च मनइन्द्रियाणि वाक् च मनइन्द्रियाणि चेति विग्रहः । अतो नाचतुरादिसूत्रशंसिताच्प्रसक्तिः । स्पन्दन्ति स्पन्दन्ते । स्पन्दन्ते इति स्पन्दास्तद्वदाचरन्तीति वा । किञ्चित्पदाधिक्यप्रयुक्ताधिक्यात्स्त्रष्टृत्व-संहर्तृत्वापप्रथातश्च समतया मरुदुरुनिरासतः सरोजासनोऽसने नत एव तदधमो माधवप्रतिषेधेऽपि पुनर्वचनम् । अजश्च शर्वश्च तयोर्वाङ्मनइन्द्रियाणि स्पन्दत इति । ननु ममापीन्द्रियादिप्रेरक इतरोऽस्ति चेत्स एवोपास्तिगोचरः स्यादित्यतो न तथेति कथयति ॥ स्वस्यापीति । स्वस्यापि मनआदीनि स्वेनैव नियतानि न चान्यो नियन्ताऽस्तीति त्वमेवोपास्य इति । तर्हि कुतोऽत्रा-स्मदागतिरित्यत आह ॥ अथाऽपि भजतामिति । यद्भजतां भावो भक्तिस्तेन बद्धोऽसीति भक्तिवशः पुरुष इति श्रुतेः । नित्यसापेक्षत्वाद्देवदत्तस्य गुरुकुलमित्यादिवद्भजतां भावबद्ध इत्युपपद्यते । हे विभो तव त्वां किं वर्णये माहात्म्यं महदिति न मम समर्थतेति तात्पर्यम्

॥ ४० ॥

मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः

क्षेमाय तापविरमाय च मृत्युजित्यै ।

नाना बिभर्ष्यनुपमान्यतनूर्यथेदं

सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१ ॥

पदरत्नावली

भावबद्धत्वं दर्शयति मूर्ती इति । हे भगवन् भक्तवत्सलस्य भवत इमे मूर्ती नरनारायणसञ्ज्ञे त्रिलोक्याः क्षेमाय रक्षायै शत्रुकृतसन्तापनाशाय मृत्युजित्यै संसाराख्य-शत्रुजयाय च भवतः । किञ्च त्वं नाना अनुपमान्यतनूर् नानाविधा अनुपमा असदृशीर् अन्या अनयोरितरास् तनूर् मूर्तीर् बिभर्षि, त्रिलोकीक्षेमादिकार्यायेति शेषः । किञ्च ऊर्णनाभिरिव इदं यथापूर्वं सृष्ट्वा पुनर्यथापूर्वं ग्रससि । अनेन मायाविवृत्तबहुरूपग्रहणेन चित्रं स्यादिति शङ्का परिहृता । सत्यप्रपञ्चस्रष्टुरीश्वरस्य तन्नियमनार्थं तावद्रूपग्रहणोपपत्तेः । तत् सृष्ट्वा तदेवानु-प्राविशदिति श्रुतेः । यद्वा अतनूरप्राकृतशरीरस्त्वं यथा सर्वमिदं सृष्ट्वा पुनर्ग्रससि तथा अनुपमानि नानाविधानि शरीराणि बिभर्षि ग्रससि अन्तर्गतान् करोषि । त्रिलोके क्षेमोदये भरणं क्षेमाद्यनन्तरमेकीकरणमिति विशेषः । भगवत इमे मूर्ती च तथेति ॥ ४१ ॥

सत्यधर्मीया

भक्तिवशत्वमेव विशदयति ॥ मूर्ती इति । नरनारायणाख्ये इमे मत्प्रत्यक्षविषयौ हे भगवन्नित्युक्तगतिकम् । त्रिलोक्यास्त्रयाणां लोकानां समाहारस्त्रिलोकी तस्याः । क्षेमाय प्राप्तपरिपालनाय । वैरिप्राप्तस्य तापस्य विरम उपरमस्तस्मै । तथा मृत्युजित्यै संसृति-विजयाय भवतः । किञ्च यथाकार्यं नानाविधा अनुपमा अन्या एतदितराश्च तास्तानवश्च ता बिभर्षि । यथोर्णनाभिः सृजते गृह्णते चेति श्रुतेर्यथोर्णनाभिस्तन्तुं सृष्ट्वा ग्रसते तथेदं सर्वं जगत्सृष्ट्वा ग्रससि । मुख्यामुख्यसर्जकवर्जकतया पूर्वं मूर्ती इमे इत्युक्तिर्मुख्यमात्रविवक्षया बिभर्षीत्याद्युक्तिरिति मन्तव्यम् । अनुपमान्यतनूरुपमान्या अमुख्यमान्यास्तन्वो न भवन्तीति तथा । नाना नाना-विधान्यनुपमान्यतनूः प्राकृतभिन्नशरीरविधुरोऽपि शरीराणि बिभर्षीति वा । स्थूणार्णे नपुंसके चेति लिङ्गानुशासनोक्तेरूर्णनाभिरिति सम्भवति ॥ ४१ ॥

तस्यावितुः स्थिरचरेशितुरङ्घ्रिमूलं

यत्स्थं न कर्मगुणकालरजः स्पृशन्ति ।

यद् वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं

ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥ ४२ ॥

पदरत्नावली

एतमर्थं प्रमाणयति तस्येति । यत्स्थं यस्मिन् पादमूले स्थितं पुरुषं कर्मगुणकालरजः दुष्कर्म गुणाः सत्वादयः कालो जन्मादिहेतुः रज आर्तवं शुक्लशोणिताख्यम्, एकवद्भावविवक्षयैकवचनम्, न स्पृशन्ति नोत्तपन्ति न दुःखमापादयन्ति । वेदस्य हृदयं येषां ते वेदहृदया वेदात्पर्यज्ञा मुनयो ब्रह्मादयः स्थिरचरेशितुरवितुः पालकस्य तव अङ्घ्रिमूलं स्तुवन्ति । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीति श्रुतिः । निनमन्ति नितरां नमन्ति, नमो विष्णवे महते करोमीति । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनमिति । ध्यायन्ति, आत्मानमेव लोक-मुपास्त इति । यद् यस्मात् तस्मात् त्वदङ्घ्रिसेवायां तदेव मानं वेत्यर्थः । तस्य यदङ्घ्रिमूलं यत्स्थं कर्मादयो न स्पृशन्ति तत् तव पादमूलं भजामीत्येकवाक्यं वा ॥ ४२ ॥

सत्यधर्मीया

एतादृशा अपि सदृश एव तन्वतेऽहं किं तरुपत्रमित्याह ॥ तस्येति । स्थिरचरेशितुरवितू रक्षयितुर्यत्स्थं यद्ध्यानादिनिरतमिति यत्स्थं, कर्मगुणकालरजः कर्मानिष्टं गुणाः सत्त्वाद्याः कालो जनिहानिहेतू रज आर्तत्वं शोणिताख्यं सर्वे संहत्य वा वैशकलित्येन चानर्थरूपैककार्यकारिण इत्येकवचनम् । विना भगवदवगममेकोऽपि न त्यक्ष्यत्येनमिति सूचयितुं स्पृशन्तीति बहुवचनम् । इदमपि मार्काण्डेयस्याङ्गस्मरणाभावादुपपद्यते । कर्मगुणकालैः सहितं रजो न स्पृशति । यच्चाङ्घ्रिमूलं स्पृशन्ति स्तुवन्ति निनमन्तीत्यन्वयो वा । अभीक्ष्णमिति योग्यसर्वान्वयि । भजन्ति ध्यायन्ति । ते च न यादृशतादृशा इत्याह ॥ वेदहृदया इति । वेदोऽखिलधर्ममूलमित्यादेः । स हृदये येषां ते तद्विचारनिपुणा मनुयस्तदाप्त्यै तत्फलोक्तिरियम्

॥ ४२ ॥

नान्यत् तवाङ्घ्य्रुपनयादपवर्गमूर्ते

क्षेमं जनस्य परितोऽभय ईश विद्मः ।

ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः

कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥

पदरत्नावली

किमर्थमेतदेव स्तुवन्ति, निर्दुःखसुखावाप्तये अन्यत् किं न स्यादिति तत्राह नान्यदिति । हे ईश अपवर्गमूर्ते पुरुषार्थस्वरूप यस्त्वं परितोऽभयः सर्वस्मादभयः जनस्य तवाङ्घ्य्रुपनयादङ्घ्रिशरणप्राप्तेरन्यत् क्षेमं न विद्मः । परितोभिय इति वा पाठः । जनस्येति विशेषणम् । सर्वस्माद् भीर्भयं यस्य स तथा तस्य । ननु त्वदन्यः क्षेमकर्ता ब्रह्मास्ति, प्रजापते न त्वदेतान्यन्य इति श्रुतेः । अत्राह ब्रह्मेति । यतः परितोभयो ऽतो द्विपरार्धसम्बन्धि धिष्ण्यं यस्य स तथा स ब्रह्मा कालस्य ते तव सकाशाद् बिभेति । यन्मां निशम्य सदनादुरुकम्पमानम्, यो अस्कभयादुत्तरं सधःस्थं विचक्रमाणस्त्रेधोरुगाय इति श्रुतेः । भूतग्रामस्य विचित्रादृष्टत्वात् कस्यचिन्निर्भयत्वोपपत्तेर्ब्रह्मणस्तु लोकविडम्बनत्वेन तथाभावः किं न स्यादिति मन्दाशङ्कां कैमुत्यन्यायेन परिहरति किमुतेति । अत इत्युत्तरत्रापि सम्बध्यते । ब्रह्माप्यलं बिभेति यतोऽतस् तत्कृतभौतिकानां तेन ब्रह्मणा कृतानि भौतिकानि शरीराणि येषां ते तथा तेषां प्राणिनां भयमस्तीति किमुतेत्यन्वयः ॥ ४३ ॥

सत्यधर्मीया

पादमूलस्य सुखदुःखप्राप्तिहान्यन्यतरत्वाभावात्किं तदाप्त्येत्यत आह ॥ नान्यदिति । अपवर्गमूर्ते पुरुषार्थस्वरूपा तत्साधनाकारा वा । तवाङ्घ्य्रुपनयो हि शरणागति-र्ध्यानेनान्तर्नयनं वा तस्मात् । परितोऽभये ईप्सिते क्षेमं तत्कारणमन्यन्न विद्मः । न विद्मेति क्वाचित्कपाठे विदो लटो वेति मसो मादेशः । द्विपरार्धधृष्ण्यः पुरा द्विपरार्धेति शतसंवत्सरसम्बन्धि धिष्ण्यं यस्य सः । कालस्य गतम् । ते सकाशाद्यतो ब्रह्माऽलं बिभेति । एतत्प्रकारस्तु षष्ठे स्पष्टमुक्तोऽस्माभिः । यतो ब्रह्मणोऽपि यदेयं दशा का कथेतीतरेषामिति भाषते ॥ तत्कृतेति । तत्कृतानि चतुरानननिर्मितानि भौतिकानि शरीराणि येषां किमुत भीतिरिति किं वक्तव्यमित्यर्थः । द्विपरार्ध्यधिष्ण्य इति पाठे द्विपरार्धभवं द्विपरार्ध्यं धिष्ण्यं यस्य स इत्यर्थः ॥ ४३ ॥

तद् वै भजाम्यृतधियस्तव पादमूलं

हित्वैतदात्मभिदमात्मगुरोः परस्य ।

देहाद्यपार्थमसदित्यनभिज्ञमात्रं

विन्देय चेत् तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥

पदरत्नावली

सेवायामित्थम्भावमाह तद् वा इति । ऋतधिय एकप्रकारबुद्धेः, निश्चलबुद्धेरित्यर्थः, आत्मगुरोर् जीवगुरोः परस्य परमात्मनस्तव पादमूलम् एतद् देहाद्यभिमानं हित्वा यदि भजामि तर्हि ते तव प्रसादात् सर्वं मनीषितार्थं विन्देयेत्यन्वयः । कीदृशम् । आत्मच्छिदम् आत्मनाशहेतुम् अत एवापार्थं पुरुषार्थलक्षणप्रयोजनशून्यम् असद् अभद्रम् अनभिज्ञमात्रं केवलमज्ञाननिर्मितं केवलाविद्वत्कृतं वा । अनेन देहे अहम्भावो भवहेतुस्तदभावो मुक्तिहेतुरिति कथितं भवति ॥ ४४ ॥

सत्यधर्मीया

ऋतधियः शाश्वतमतेरात्मगुरोर्लोके केऽपि गुरवः केचिदादानादिकर्तार इति प्रायो न तथा त्वमिति वाऽऽह । आत्मा चासावादानादिकर्ता चासौ गुरुश्च । आत्मगुरोर्ब्रह्मगुरोः । आत्मा विरिञ्चः सुमना इति बृहद्भाष्योक्तेः । परस्य परमात्मनस्तत्तव पादमूलं यर्हि भजामि । तत्रेत्थम्भावमावेदयति ॥ देहादीति । अपार्थं विगतप्रयोजनमसदभद्रमनभिज्ञमात्रमज्ञानिज्ञेयम् । आत्मभिदमात्मनो भिदा विदारणं नाश इति यावद् यस्मात्तत् । आत्मच्छिदमिति पाठेऽप्यात्म-नश्छिदा यस्मात्तदिति । छेचेति तुगभाव आर्षः । षिद्भिदाद्यङ् उभयत्रापि । हित्वा स्तवपादः स्तुतिलेशस्तेनैवान्तिके सदिति मूलम् । तद्वन्तिक इति श्रुतेः । मूलमाद्ये शिफायां स्याद्भे निकुञ्जेऽन्तिकेऽपि चेति विश्वः । अतो नाङ्घ्य्रुपनयनादिति वा पादमूलमिति वाऽतिरिक्तम् । तर्हि सर्वमनीषितार्थं सर्वमपेक्षितार्थं विन्देयं प्राप्नुयाम् । अथवा अङ्घ्य्रुपनयाज्ज्ञानसाधनात्तत्रात्र पादमूलत्वमिति नान्यतरातिरेकः ॥ ४४ ॥

सत्वं रजस्तम इतीश तवात्मबन्धो

मायामया स्थितिलयोदयहेतवोऽस्य ।

लीलाधृता यदपि सत्वमयः प्रशान्त्यै

नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥

पदरत्नावली

देहाहंभावस्य निमित्ते रजस्तमसी, तदभावस्य (निमित्तं) सत्वं त्वन्नियत-मिति भावेनाह सत्वमिति । हे ईश आत्मबन्धो सत्वं रजस्तम इति गुणास्त्वया लीलाधृता जगन्निर्माणक्रीडायै धृता अङ्गीकृताः । ननु जीववदनिष्टं किं कर्तुं शक्या येन धार्याः स्युरिति (अस्पष्टमिदम् । ननु जीवे इव (जीववत्) अनिष्टं किं कर्तुं शक्तयेनाधार्या स्युरिति पाठः स्याद्वा ।) तत्राह स्थितीति । अस्य जगतः स्थित्यादिहेतवः । किमात्मका इति तत्राह मायामया इति । इच्छात्मकाः । यदपि यद्यपि तथापि सत्वमयः सात्विकः प्रशान्त्यै मुक्तये भवति । अन्ये राजसतामसाः प्रशान्त्यै न स्युरित्यर्थः । यद्वा सत्वादन्ये रजस्तमसी शान्त्यै न स्याताम् । पुनः कस्मै भवत इति तत्राह नृणामिति । याभ्यां रजस्तमोभ्यां नृणां व्यसनादयः स्युः । च एवार्थे । त्रिविधानां नृणां मध्ये सत्वमय एव इति वा ॥ ४५ ॥

दुर्घटभावदीपिका

याभ्यामित्यत्र य आभ्यामिति पदद्वयम् । तत्राकारान्तसम्बुध्यन्तयशब्दो अकयप्रविसम्भूमसखहा विष्णुवाचका इति वचनाद्विष्णुवाची । हे य विष्णो यदपि यद्यपि सत्त्वंरजस्तम इति त्रयो गुणास्त्वया लीलाधृता जगत्सृष्ट्यादिलीलां कर्तुं धृतास्तथाऽपि सत्त्वमयः सत्वात्मको गुणः प्रशान्त्यै मुक्त्यै भवति । अन्ये सत्त्वादन्ये रजस्तमसी प्रशान्त्यै न भवतः । आभ्यां रजस्तमोभ्यां नृणां व्यसनमोहभियश्च भवन्तीति । एतेन तच्छब्दाभावाद्यमिति यच्छब्दोऽ-नन्वितमिति दूषणं परास्तम् । याभ्यामित्येतद्यच्छब्दस्य रूपमित्यनङ्गीकारात् । यद्यपि मोक्षहेतु-भूतसत्त्वगुणेऽल्पं रजोऽल्पं तमोऽस्ति । तथाऽपि सत्त्वमिति व्यवहारस्तु सत्त्वस्याधिक्याभिप्रायेण तज्ज्ञापनार्थं सत्त्वमय इति तादात्म्यार्थमयट्प्रत्ययस्य प्रयोगः । अन्यथा सत्त्वमित्यनेन पूर्णत्वान्मयट्प्रत्ययो व्यर्थः स्यात् । एवं रजस्तमसोराधिक्यं द्रष्टव्यम् ॥ ४५ ॥

सत्यधर्मीया

योऽहम्भाव इयदनर्थदः स कस्माज्जायते हीयते च कस्मादित्यत आह ॥ सत्त्वमिति । आत्मबन्धो सन् स्वामी च बन्धुश्चेत्यात्मनैव बन्धुर्न फललाभेनेति वा तत्सम्बुद्धिः । तव मायामया इच्छाप्रधानकाः स्थितिलयोदयहेतवः । यद्यप्युदयस्थितिलयहेतव इति वक्तव्यं तथाऽपि स्थितिपुरस्कृतिर्हरहिरण्यगर्भौ लयोदयहेतू इत्यङ्गीकुर्वन्तोऽपि स्थितिहेतुतां मन्वते हरेरिति वस्तुस्थितिबोधनार्थं लयोदययोर्भगवत्कर्तृकत्वं प्रसाधितं चातो यथायथमुक्तावपि न दोष इत्येवमुक्तिः । यद्वा चक्रतः क्रमः प्रवृत्त इति बोधनार्थमेवमभिधानम् । सत्त्वं रजस्तम इतीत्यप्यनेनैवोक्तगतिकम् । अस्य प्रपञ्चस्य न च तैः स्वप्रयोजनमित्याह ॥ लीलाधृता इति । प्रपञ्चरचनारूपक्रीडायै । लोकवत्तु लीलाकैवल्यमित्यादेः । यदपि यद्यपि तथाऽपि सत्त्वमयो यो गुणः स नृणां प्रशान्त्यै मुक्त्यै भवति याभ्यां रजस्तमोभ्यां व्यसनमोहभियश्च भवन्ति ते अन्ये रजस्तमसी प्रशान्त्यै न भवतः ॥ ४५ ॥

तस्मात् तवेह भगवन्नथ तावकानां

शुक्लां तनुं स्वदयितां कुशला भजन्ति ।

यत् सात्वताः पुरुषरूपमुशन्ति सत्वं

लोको यतोऽभयमुतात्मसुखं च नान्यत् ॥ ४६ ॥

पदरत्नावली

उहसंहरन्नेव सत्वं स्तौति तस्मादिति । यस्मात् सत्वमेव निःश्रेयसहेतु-स्तस्माद् इह कुशला अथ कल्याणानां तावकानामुपासायोग्यां स्वतो दयितां शुक्लां तव तनुं भजन्ति । तावकानामिति किं विशिष्योच्यत इति तत्राह यदिति । सात्वताः साधुगुणयुक्ताः पुरुषाः सत्वं सत्वगुणप्रवर्तकं पुरुष इति रूपं शब्दो यस्य तत् तथा, पुरुषशब्दवाच्यमित्यर्थः, उशन्ति कामयन्त इति यद् यस्मात् तस्माद् विशेषवचनम् । यतः पुरुषरूपाद् लोकोऽभयं विन्दति आत्मसुखमुत अपि लभते तस्मादन्यदभयादिदं न । यद्वा यतः सत्वाद् लोको रक्षितो भवति अभयमुत आत्म-सुखमप्याप्नोति, अन्यद् रजस्तम इति यद् द्वयं (तत्) स्वरूपसुखादिहेतुर्न भवति ॥ ४६ ॥

दुर्घटभावदीपिका

हे भगवन् सत्त्वगुणस्य मोक्षदत्वात्कुशला इह कर्मभूमौ तव तावकानामथ तव भक्तानां च स्वदयितां शुक्लां सात्त्विकीं तनुं भजन्ति । अत्र भगवद्देहस्य सात्विकत्वं नाम सत्त्वगुण-नियामकत्वम् । भगवद्भक्तानां देहस्य सात्विकत्वं नाम सत्त्वगुणयुक्तत्वमिति विवेको द्रष्टव्यः । ननु भगवद्भक्तसात्त्विकदेहो भगवत्सन्निधानादुपास्य इत्यङ्गीकारे भगवद्भक्तराजसदेहे तामसदेहे च भगवत्सन्निधानस्य विद्यमानत्वाद् भगवद्भक्तराजसतामसदेहयोरप्युपास्यत्वं स्यादित्यत आह ॥ यत्सा-त्वता इति । सात्वताः सात्विका यद्यस्मात् कारणात् सत्त्वं भगवद्भक्तसात्विकशरीरं पुरुषरूपं पुरुषस्योत्तमपुरुषस्य नारायणस्य रूपमुपास्य प्रतिमारूपमुशन्तीच्छन्ति । अन्यद्भगवद्भक्तराजसशरीरं च पुरुषरूपं नेच्छन्ति । यतश्च भगवद्भक्तसात्त्विकशरीरोपास्यतया लोको वैकुण्ठादिलोकोऽभयं संसार-भयाभाव आत्मसुखं स्वरूपसुखं प्राप्तं भवति । तस्मात्कारणात्कुशलास्तावकानां शुक्लां तनुं भजन्तीति

॥ ४६ ॥

सत्यधर्मीया

सत्त्वमयः प्रशान्त्या इत्युक्तं सत्त्वं स्तुवन्नुपसंहरति ॥ तस्मादिति । यतः सत्त्वमेव निःश्रेयससाधनं तत इह तव शुक्लां शुद्धां स्वदयितां तनुं यद्यन्मूर्तौ स्वबिम्बे वा मनःस्थितं तां दयितां स्वप्रियां कुशला निपुणा भजन्ति उपासते । अथ तावकानां तेषां कुशलानां तनुं चोपासते । पुरुषरूपसत्त्वम् । गतम् । उशन्ति कामयन्ते ते च सात्त्वता यतः सत्त्वाद्गुणादेव लोकः साधुरभयं तथाऽऽत्मसुखं च विन्दति । अन्यद्रजस्तमश्च नाभयादिदमिति । तावकानां सूयतां तनुं भजतीति वाऽन्वयः । अथा निरन्नास्तावकास्तेषामिति वा । अन्नं थमिति श्रुतेः । सात्त्वताः पञ्चरात्राद्युक्तप्रकारज्ञाः ॥ ४६ ॥

तस्मै नमो भगवते पुरुषाय भूम्ने

विश्वाय विश्वगुरवे परदेवतायै ।

नारायणाय ऋषये च नरोत्तमाय

हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥

पदरत्नावली

निरन्तध्यानासमर्थस्योपास्तिप्रकारमाह तस्मा इति । विश्वाय विश्वनाम्ने । अस्य सर्वनामसंज्ञा नास्ति अर्थान्तरत्वात् । तत्प्रेक्षणशीलत्वेन (?) संयतगिरे मितभाषणाय

॥ ४७ ॥

सत्यधर्मीया

श्रीश तवान्वहं नम इति प्रह्वत्वमेवार्हणमित्याह ॥ तस्मै नम इति । विश्वाय तन्नाम्ने गतम् । विश्वं जगत्तस्य गुरवे इयदामननादित्युक्तमरुद्गुरवे वा । परदेवतायै नारायणाय नरोत्तमाय ऋषये हंसाय नित्यं हीनोऽखिलैर्दोषैः साररूपो यतो हरिः । हंस इत्युच्यत इति काठकभाष्योक्तेः । संयता गीर्यस्य तस्मा असम्भाष्यासम्भाषणशीलाय । निगमानां वेदानामीश्वरः प्रवर्तकस्तस्मै नम इत्यन्वयः । संयता स्वाधीनो गिरिः प्राणो यस्य तत्सम्बुद्धिः । गिरिः प्राणः समुद्दिष्टस्तत्सुता वेदवाक् स्मृतेति चतुर्थतात्पर्योक्तेः ॥ ४७ ॥

यं वै न वेद वितताक्षपथैर्भ्रमद्धीः

सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु ।

त्वन्माययाऽऽवृतमतिः स उ एव साक्षा

दा(द)द्यस्तवाखिलगुरोरुपपद्य वेदम् ॥ ४८ ॥

पदरत्नावली

भवत्साक्षात्कारो भवत्प्रसादायत्तो न स्वप्रयत्नसाध्य इत्याह यमिति । हे वितत यः पुरुषो ऽक्षपथैः शब्दादिभिर् भ्रमद्धीर् यं त्वां न वेद । कीदृशम् । स्वखेषु स्वेन्द्रियेषु असुषु प्राणेषु हृद्यपि दृक्पथेषु दृग्विषयेषु सन्तं निर्दोषत्वेन वर्तमानम् । ज्ञापकाभावान्न जानन्तीति नेत्याह तवेति । अखिलगुरोस्तव वेदं ज्ञापकप्रमाणुपपद्यापि सः साक्षादद्यो ऽदनयोग्यः विषयभोगशीलस् तस्य तव मायया बन्धकशक्त्या आवृतमतिर् आच्छादितज्ञानः । तस्माद् त्वत्प्रसादेन त्वज्ज्ञानं सुलभमित्यर्थः ॥ ४८ ॥

सत्यधर्मीया

यस्मात्पराञ्चि खानि व्यतृणात्स्वयम्भूस्तस्मात्पराक् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्निति काठकोपनिषदुक्तेस्त्वदज्ञानज्ञाने त्वदप्रसाद-प्रसादायत्ते इत्याह ॥ यमिति । अधिकारी, वेदं त्वामेव वेदयन्तमुपपद्य प्राप्यापि स्वखेषु स्वेन्द्रियेषु नेन्द्रादिवदेकैकेन्द्रियनिष्ठतेति वक्तुं विशदं तदाह । असुषु हृदये हृद्यपि दृक्पथेषु दृग्गोचरमार्गेष्वपीति । सन्तं विततायेऽक्षाणां पन्थानस्तैः । गतम् । यश्च साक्षादाद्य उपजीव्यः । पूर्वं मान्धात्रीत्याद्यैतरेयोपनिषद्भाष्याद्युदाहरणपूर्वकं व्याकृतमनुसन्धेयम् । अवृत्तविच्छित्ते-र्ऋहलोर्ण्यदिति ण्यतो वर्जनीयत्वादद्य इति नानवद्यः पाठः । अखिलगुरोस्तव । तन्माययाऽऽ-वरकत्वेन प्रसिद्धा ततत्वात्सा च सा माया च तया । आवृतमतिरत एव भ्रमन्ती धीर्मतिर्यस्य सः । न वेद स उ एवोत्कृष्टः स एवाद्य इति वाऽन्वयः । यश्चावृतमतिः स एव वेदं वेदयितारं त्वामुपपद्य प्राप्य प्रसादसुमुखं माययाऽऽवृता नावृता मतिर्यस्य स साक्षादाद्यश्चतुर्मुखो वेद न वेद च साकल्येन । स उ आवृतमतिरेवाधिकारी वेद न वेदेति वा । स उ एवेत्यत्र निपात एकाजनाङिति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावः ॥ ४८ ॥

यद्दर्शनं निगम आत्मरहःप्रकाशं

मुह्यन्ति यत्र कवयोऽजपरा यतन्तः ।

तं सर्ववादविषयप्रतिरूपशीलं

वन्दामहे पुरुषमात्मनि गूढबोधम् ॥ ४९ ॥

॥ इति श्रीमद्भागवते द्वादशस्कन्धे सप्तमोऽध्यायः ॥

पदरत्नावली

त्वज्ज्ञानस्य किं माहात्म्यं येन त्वदनुग्रहेण सर्वथा आपाद्यं स्यादिति तत्राह यद्दर्शनमिति । यस्य तव दर्शनं ज्ञाननिगमे तत्वनिर्णायके वेदे प्रतिपादितम् आत्मरहः प्रकाशो यस्मात् तत् तथा तद् अजपरा विष्णुपरायणा यतन्तः कृतोपास्तिप्रयत्नाः कवयो यत्र परमात्मरहस्ये मुह्यन्ति इदमित्थमिति ज्ञातुमुपदेष्टुं वा न शक्नुवन्ति, तं भगवन्तं वन्दामह इत्यन्वयः । सर्ववादानां सर्वसिद्धान्तानां विषयाणां प्रतिपाद्यानामर्थानां प्रतिरूपशीलं विरुद्ध-स्वभावम्, तदुक्तान्यथास्थितस्वभावमित्यर्थः । आत्मनि जीवविषये गूढबोधम्, जीवेनाज्ञात-स्वरूपमित्यर्थः । आत्मना स्वेनेति वा ॥ ४९ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां

द्वादशस्कन्धस्य सप्तमोऽध्यायः ॥ १२-७ ॥

दुर्घटभावदीपिका

आत्मनिगूढबोधमित्यस्यात्मनां जीवानां निगूढो बोधः स्वरूपबोधो यस्मात्स आत्मनिगूढबोधस्तमित्यर्थः ॥ ४९ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां

द्वादशस्कन्धे सप्तमोऽध्यायः ॥ १२-७ ॥

सत्यधर्मीया

सज्ज्ञानस्य किं माहात्म्यं येन मदनुग्रहे तदापाद्यं स्यादिति तत्राह ॥ यदिति । यद्दर्शनाय यज्ज्ञानं, निगमे वेदे । आत्मरहःप्रकाशं स्वरूपप्रकाशकं प्रतिपादितं नान्यः पन्था अयनाय विद्यत इत्यादौ । एवं सत्यपि यत्र तद्रहस्यप्रतिपत्तौ यतन्तो यतमानाः । अजः परो येषां ते विध्यधिकावधिकाः कवयो मुह्यन्ति मोहं प्राप्नुवन्ति । सर्वे च ते वादाश्च मुखतो वचनानि तेषां विषयप्रति रूपमविषयीभूतं तद्विषयविरुद्धं वा शीलं यस्य तम् । आपाततो वेदादिविचारे विरुद्धवत्प्रतीतस्वभावम् । आत्मनि जीवजातविषये । गूढो बोधो येन तम् । आत्मनैव निगूढो बोधो यस्य तं पुरुषं वन्दामहे । सर्वे वादा लौकिका येऽणुत्वेनैव महत्त्वं महत्त्वेनाणुत्वमित्यादयस्तेषां प्रतिकूलं शीलं यस्य तत् । तत्समाहारादिसहितमिति वा ॥४९॥

**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **

द्वादशस्कन्धे सप्तमोऽध्यायः ॥ १२-७ ॥