पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः
॥ अथ षष्ठोऽध्यायः ॥
शौनक उवाच–
पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः ।
वेदा वै कतिधा व्यस्ता एतत् सौम्याभिधेहि नः ॥ १ ॥
पदरत्नावली
भगवन्माहात्म्यप्रकटनाय तत्प्रेरितेन चतुर्मुखेन नादादिवेदान्तशब्दराशि-मुद्धृत्याध्यापनेन पुत्रेभ्यो विश्राणनं तच्छिष्येभ्यो विभज्य दानम्, अनुयुगं पुनरपि तद्विभागः पुराणप्रवचनं च निगदत्यनेनाध्यायेन । तत्रादौ सूतः शौनकं वेदविभागं पृच्छति पैलादिभिरिति । वैपदेन वेदादेरभिव्यक्तिर्मूलवेदविभक्तिश्च कथं केनेति सूचयति । व्यासशिष्यैरित्यनेन कस्मिन् युगे किं विभक्तान् वेदान् व्यस्यन्नुताविभक्तानिति, वेदाचार्यैरित्यनेन वेदोपयोगिकल्प-प्रणयानादिनिपुणैरिति, महात्मभिरित्यनेन तपोबलाद् वेददर्शनसमर्थैरिति, अभिधेहीत्येननान्वर्थनाम-पूर्वकं वदेति ॥ १ ॥
सत्यधर्मीया
यद्वेदवेद्यो भगवानित्यवगमितं स कतिधा विभक्तोऽभूद्व्यक्तः कस्मात्प्रवर्तकश्च व्यासोऽपि कथं विव्यास । प्रस्तुता पुरापुराणसंहिता कथमुदभूदिदं कथयेति शौनकादिपृष्टः सूतो वक्ति सर्वमिति वक्त्यत्राध्याये । तत्रादौ तत्प्रश्नप्रकारं निरूपयति ॥ शौनक इति । व्यासशिष्यै-र्वेदाचार्यैस्तदर्थमाचिन्वन्तीति ते तथा । आचिनोति हीत्यादेः । महात्मभिरेतद्विचारचतुरैः स्वश्रुतं नाम किञ्चिदनुवदति ॥ पैलादिभिरिति । वेदाः कतिधा व्यस्ता विस्तारमाप्ताः । ऋचां प्रवर्तकं पैलमित्यादेः । सौम्य किं पुनः पुनर्युष्मदुपद्रव इति न रोषः प्रादुष्यादिति वदनबन्धनं कृतमिति ज्ञेयम् । आनन्दानुभवस्तूम उत्कृष्ठानुभवात्स्मृतः । तद्युक्तत्वं तथा सौम्यं गुणानामधिकं हि तद् इत्येकादशतात्पर्योक्तेः । कथाकथनानन्दानुभववान्वा नः प्रत्यभिधेहि ॥ १ ॥
सूत उवाच–
समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः ।
हृ(द्या)दाकाशादभून्नादो वृत्तिरोधाद् विभाव्यते ॥ २ ॥
यदुपासनया ब्रह्मन् योगिनो मलमात्मनः ।
द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥ ३ ॥
पदरत्नावली
तत्रादौ सूचितप्रश्नं परिहर्तुं सूतः कथामाह समाहितात्मन इति । सं समीचीने निर्दुःखानन्दानुभवे हरावाहित आत्मा मनो यस्य स तथा तस्य । ब्रह्मपदस्यानेकार्थे वृत्तेर्विवक्षितमर्थमाह परमेष्ठिन इति । शब्दस्याकाशविशेषगुणत्वेन ततोऽभिव्यक्तिर्युक्तेति सूचयति हृदाकाशादिति । तत्सत्वे किं प्रमाणमत्राह वृत्तिरोधादिति । स नादः सर्वेन्द्रियवृत्तिस्तम्भाद् वायुवृत्तिनिरोधाच्च विभाव्यते ज्ञायते, योगिनेति शेषः ॥ किममुना नादेन शून्यकल्पेन फलमिति तत्राह यदुपासनयेति । यस्य नादस्योपासनया योगिनो द्रव्याणि पञ्चभूतानि तन्निर्मितदेहो वा क्रिया कर्मेन्द्रियं कारकं ज्ञानेन्द्रियम् एभ्य आख्यातं प्रकाशितमुत्पन्नमिति यावत् । आत्मनो मनसो मलं धूत्वा अपुनर्भवं मोक्षं यान्तीत्यन्वयः । ‘‘स्त्रीपुंनपुसकात्माऽयं नादो ब्रह्मविनिर्मितः । घण्टादिनादसदृशो मुक्तिस्वर्गादिदो विभुः’’ इति वचनादपुनर्भवं तातम्योपेतं फलमाप्नुवन्तीति भावः ॥ २३ ॥
सत्यधर्मीया
सूतस्तत्पूर्वं रङ्गं सङ्गमयन्नाह ॥ समाहितात्मन इति । समे श्रीसमेत आहित आत्मा यस्य स तस्य । हे ब्रह्मन् शौनक यद्वा ब्रह्मन् ब्रह्मणि । समाहितः सम्यक् स्थापित आत्मा येन स तस्य । परमे व्योमन्नितिवद्ब्रह्मन् । परमेष्ठिनः । गतम् । ब्रह्महृदि तत्रत्याकाशात् । नादो नाम वर्णविशेषो मन्त्रशास्त्रेषु प्रसिद्ध इति कर्मनिर्णयटीकाद्युक्तेर्वर्ण-विशेषोऽभूद्व्यक्त इत्यर्थः । स कथं ज्ञेय इत्यतस्तल्लिङ्गमावेदयति ॥ वृत्तिरोधादिति । सर्वेन्द्रियवृत्तिनिरोधात्कराभ्यां कर्णयोः पिधाने यः श्रूयते स स इति । यथोक्तं छान्दोग्योपनिषदि । यत्रैतत्कर्णावपि गृह्य निनद इव न दधुरिवाग्नेरिव ज्वलत उपशृृणोतीत्यादिनेति केचित् । तत्प्रकृते किञ्चित्तथा । उक्तस्योपयोगं वक्ति ॥ यदुपासनयेति । यन्नादान्तर्गतभगवदुपासनया । योगिन आत्मनो मनसो मलं धूत्वा । किं प्रयोजकं किं तन्मलमित्यतो लपति ॥ द्रव्येति । द्रव्यं पाञ्चभौतिकमिति शरीरं, क्रिया तन्मध्ये कर्मेन्द्रियाणि, कारकं ज्ञानखान्येतेभ्य आख्या प्रकाशो यस्मात्तदेतज्जातमिति यावत् । प्राणरूपघोषोऽयं प्राणनादः । उक्तं चैकादशे । यथोर्णनाभि-र्हृदयादूर्णामुद्वमते मुखात् । आकाशाद्धोषवान्प्राणो मनसा स्पर्शरूपिणा । छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः । ओङ्कारे व्यञ्जता स्पर्शस्वरोष्मान्तस्य भूषिताम् । विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः । अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयमिति । निरस्यापुनर्भवं मोक्षम् । स्त्रीपुन्नपुंसकात्माऽयं नादो ब्रह्मविनिर्मितः । घण्टादिनादसदृशो मुक्तिस्वर्गादिदो विभुरिति वचनात्तत्तदिच्छोस्तत्तत्प्रद इत्यर्थः ॥ ३ ॥
ततोऽभूत् त्रिवृदोङ्कारो यो व्यक्तप्रभवः स्वराट् ।
यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ ४ ॥
पदरत्नावली
ततो नादाद् घण्टानादानुकारात् त्रीन् अकारोकारमकाराख्यान् वर्णान् वृणोतीति त्रिवृद् ओङ्कारोऽभूदभिव्यक्तः । व्यक्तस्य प्रपञ्चस्य प्रभव उत्पत्तिर्यस्य स तथा । भूतं भवद् भविष्यदिति सर्वमोङ्कार एवेति श्रुतेः । वर्णपक्षे अव्यक्तस्य हरेः सकाशात् प्रभवो यस्य स तथा । स्वत एव राजतीति स्वराट्, स्वयं प्रकाशमान इत्यर्थः । स्वयं परमात्मनं राजयतीति वा । एतदेवाह यत्तदिति । यत्तदोङ्कारात्मकं वस्तु हरेर्लिङ्गं ज्ञापकम् । ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोततामिति वचनात् । चतुर्मुखव्यावृत्तये परमात्मन इति ॥ ४ ॥
सत्यधर्मीया
ततोऽभिव्यक्तान्नादाद्व्यक्तस्य प्रभवः प्रपञ्चस्योत्पत्तिर्ज्ञप्तिर्यस्मात्सः । त्रिवृत् त्रीनकारोकारमकारान्वृणोति स्वावयवत एतत्त्रिवृत् । भूतं भवद्भविष्यदिति सर्वमोङ्कार एवेति श्रुतिः । यद्वा ब्रह्मव्यक्तनादाद्व्यक्तस्तथाऽपि सोऽव्यक्तादव्यक्तमाह हीत्यादेरव्यक्तो भगवां-स्तस्मात्प्रभवति प्रथममुपलभ्यत इति स तथेति । स्वराट् स्वयं राजत इति । स्वं हरिम् । गतम् । राजयतीति वा । स्वरो वायुः । गतम् । तस्मादप्यटतीति स्वराड्वा । स्वरान् अजक्षरादीनटति स्वावयवतया गच्छतीति यावत् । अनन्तमात्रान्तमुदाहरन्तीत्यादेः । यदोमित्यक्षरं त्रिमात्रगात्रं ब्रह्मणः प्रस्तुतत्वाद्धातेति पातनिकार्थं वारयन्नीरयति ॥ परमात्मन इति । लिङ्गं गुणगणपूर्णतावचनद्वारा तज्ज्ञापकमोतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् । ओं नामा भगवान्विष्णुरित्यादेर्नामरूपचिह्नितया व्यापह्नवं कुर्वदिति लिङ्गमिति वा ॥ ४ ॥
शृणोति य इमं स्फोटं सुप्तः श्रोतेव शून्यदृक् ।
येन वाग् व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ ५ ॥
पदरत्नावली
शम् ऊनं यापयति दैत्यादेरिति शून्यं परब्रह्म पश्यतीति शून्यदृक् सः ब्रह्मापरोक्षी, यश्च सुप्तः ब्रह्म प्राप्तः स इमं स्फोटं प्रणवलक्षणं ध्वनिं शृणोति । क इव श्रोतेव । भगवानिव । श्रोता मन्तेति श्रुतेः । अनेनास्य सत्वे प्रमाणमुक्तं भवति । किञ्च येनोङ्कारेण वाग् वेदलक्षणा व्यज्यते अकारस्य प्रणवात्मकत्वात् । अकारो वै सर्वा वागिति श्रुतेः । प्रणवस्य वेदादित्वादकारस्यापि सर्वादित्वात् । आप्तेरादिमत्वाद्वेति श्रुतेः । आत्मनः परमात्मन उत्पद्यमान आकाशो यस्य व्यक्तिः स्थानम् । आत्मन आकाशः सम्भूत इति श्रुतेः । आकाशात् सर्वमुत्पद्यत इति च ॥ ५ ॥
दुर्घटभावदीपिका
येनोङ्कारेण वाक् वेदादि वाग्व्यज्यते । यस्योङ्कारस्य सकाशादात्मनः परमात्मन आकाशे हृदयाकाशे व्यक्तिस्तमिमं स्फोटमोङ्कारं यः शून्यदृक् ऊनं यापयतीति शून्यं ब्रह्म तत्पश्यतीति शून्यदृक् ब्रह्मापरोक्षज्ञानी । यश्च सुप्तः । सुशब्दः सुखवाची । सुखरूपं ब्रह्म आप्तः । स्वाप्त इत्यत्राकारलोपे सुप्त इति रूपम् । मुक्तः सोऽपि श्रोतेव भगवदपरोक्षज्ञानाद्यर्थं भगवच्छ्रवणादेः कर्तेव शृृणोति श्रवणोच्चारणादिकं करोतीति ॥ अयं भावः ॥ ओङ्कारस्य सर्ववेदादिव्यञ्जकत्वात् श्रवणादि द्वाराऽपरोक्षज्ञानहेतुत्वाद् भगवदपरोक्षज्ञानिमुक्तपूर्वमुमुक्षु-कर्तृश्रवणाविषयत्वाच्चेदानीन्तनमुमुक्षुभिर् ओङ्कारश्रवणात् । ओङ्कारोच्चारणादेः क्रियमाणत्वात्, श्रवणादेः कर्तेवेति वक्तव्यम् । श्रोतेवेति कथनमयुक्तमिति दूषणं परिहृतम् । उपलक्षणत्वेनोङ्कारोच्चारणादेरपि ग्रहणात् । एतेनैव श्रोतेवेति मुमुक्षूणां दृष्टान्तत्वेनोक्त्या ओङ्कारश्रवणाद्यनुष्ठानस्य विद्यमानस्य लाभात् । ओङ्कारश्रवणादिविधानं व्यर्थमिति दूषणस्यानवकाशः । पूर्वमुमुक्षूणामेव दृष्टान्तत्वं न त्विदानीन्तन-मुक्षूणामित्यङ्गीकारात् । एतेनैव भगवदपरोक्षज्ञानिभिर्मुक्तैश्च । ओङ्कारश्रवणवदोङ्कारोच्चारणादेरपि क्रियमाणत्वात् श्रवणादिकं करोतीति वक्तव्यम् । शृृणोतीति कथनमयुक्तमिति चोद्यं परास्तम् । शृृणोतीत्यस्योच्चारणाद्युपलक्षकत्वस्याभ्युपगमात् ॥ ५ ॥
सत्यधर्मीया
शून्यदृक् शमूनं स्वानन्दापेक्षया सदोनमितरेषां तदभावम् । शमित्यव्ययं ततष्टालोपः । सुखेनोनं करोतीति तत्रार्थः । मध्यमपक्षे ऊनं शं दुःखमिश्रं करोतीति च शून्यं ब्रह्म पश्यतीति सः । सुप्तो भगवन्तमेवाप्तो यः । यथोक्तं बृहद्भाष्ये । स्वित्यानन्दः परो विष्णु-स्तमाप्तः सुप्त उच्यत इति । इमं स्फोटं स्फुटति प्रकाशत एवेति । स्फोटयति प्रकाशयति भगवन्तमित्योङ्कारम् । शृृणोतीति श्रवणस्वातन्त्र्यमाख्यातलभ्यमसहमानः स्वयं मूलकृद् व्याख्याति ॥ श्रोतेवेति । तच्छ्रावको भगवानेवेत्यर्थः । श्रोता मन्तेत्यादिश्रुतेर्भगवानेवेत्यर्थ इति प्राञ्चः । यद्वा सुप्तः प्रामाणिकनिर्वचनत्वादाकारलोपेन सुप्तः मुक्तोऽपि श्रोतेव भवति विध्यतीतत्वा-त्कर्तोच्चारणादेरित्यपि ज्ञेयम् । येनोङ्कारावयवाकारेण वाग्वेदवाग्व्यज्यते । अकारो वै सर्वा वागिति श्रुतेः । आप्तेरादिमत्त्वादाकाशात्सर्वमुत्पद्यते । आत्मन आकाशः सम्भूत इत्यादेः । आत्मन-स्तत्सम्बन्धिन्याकाशे यस्याकारादेर्व्यक्तिस्तमित्यन्वयः ॥ ५ ॥
स्वधाम्नो ब्रह्मणः साक्षाद् वाचकः परमात्मनः ।
स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥ ६ ॥
पदरत्नावली
पूर्वं लिङ्गत्वेन तद्विषयत्वमुक्तमधुना वाचकत्वेनाह स्वधाम्न इति । स्वयंप्रकाशस्य । ओङ्कारस्य सर्वानुगतत्वमाह स इति । स ओङ्कारः सनातनं सदातनं सर्वमन्त्रोपनिषद्वेदानां बीजं फललक्षणाङ्कुरजनकशुक्रस्थानीयं स्त्री (त्रिर्घण्टान्मदवदिति पाठः स्याद्वा इति अभिप्रायन्ति विद्वांसः ।) घण्टानादवदच्छिन्नत्वेनोच्चार्यमाणं सर्वमन्त्रादीनां जपानां फलदानसामर्थ्यं जनयतीति भावः ॥ ६ ॥
सत्यधर्मीया
प्राचीनव्याख्यानपक्षे लिङ्गतयाऽवगमकत्वमोङ्कारस्योक्तमिदानीं वाचकोऽपीति द्वितीयपक्षे मुख्यतया वाचक इत्याह । स्वधाम्नः स्वप्रकाशस्य । परमात्मनः साक्षात्परममुख्यवृत्त्या वाचकः । स ओङ्कारः सर्वमन्त्रोपनिषत्सहिता वेदास्तेषां बीजं मूलम् । यथा शङ्कुना सर्वाणि सन्तृण्णान्येवमेवोङ्कारेण सर्वा वाक् सन्तृण्णेति श्रुतेः । सनातनं नित्यं नादेनोच्चारणेन सह वर्तत इति तत्तथा । त्रिमात्रोङ्कारमात्रोच्चारणेन सर्ववेदपारायणफलं तथा स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यत इत्यादेस्तत्फलोन्नाहकं च भवतीति तात्पर्यम् ॥ ६ ॥
तस्य हासंस्त्रयो वर्णा अकाराद्या भृगूद्वह ।
धार्यन्ते यैस्त्रयो भावा गुणनामर्थवृत्तयः ॥ ७ ॥
पदरत्नावली
त्रिवृदित्युक्तं विवृणोति तस्येति । अकाराद्यास्त्रयो वर्णा तस्योङ्कारस्यावयवा आसन्नित्यन्वयः । हेत्यनेन सोयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा अकारोकारमकारा इति प्रसिद्धिमाह । यद्वा वृत्त्यभिव्यक्तौ प्रत्यारम्भः क्रियत इति सूचयति । प्रत्यारम्भे प्रसिद्धौ हेत्यभिधानम् । एभ्यो भूर्भवः स्वरिति नामाभिव्यक्तिं वक्ति धार्यत इति । यैरकाराद्यैस्त्रयो भावा व्याहृतिलक्षणा धार्यन्ते व्याहृतिभ्योऽक्षरसमाम्नायो व्यज्यते । ज्ञानादिगुणानामर्थे विषयभूते हरौ वृत्तिर्येषां ते तथोक्ताः । सर्ववेदोक्तगुणार्णवनारायणलीलाव्याहरणाद् व्याहृतय इत्यर्थः । यद्वा भूरादिलोकेषु शब्दादिगुणानां भोगप्रवर्तकाः ॥ ७ ॥
सत्यधर्मीया
त्रिवृदित्युक्तं विवृणोति ॥ तस्येति । तस्योङ्कारस्य त्रयो वर्णास्ते चाकार एव घोषो येषामकारोकाराणां तेऽकाराद्या आसन् । हेति सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पदानां मात्रा अकारोकारमकारा इत्यादिप्रसिद्धिसूचकः । यैरकारोकारमकारैस्त्रयो भावा भूर्भुवः स्वरिति भावा धार्यन्ते । गुणाः सत्त्वाद्या, नामानि ऋगादीन्यर्थाः शब्दाद्या विषयाः, वृत्तयो जाग्रदाद्या यैर्भवन्ति त इति भावाः । विशेषाणाम् । गुणैः सहितानामर्थवृत्तयो यैस्त इति विग्रहः । एवमुत्तरार्थानुरूपोऽपि ज्ञेयः । नाम्नामर्थवृत्तयः प्रवृत्तिनिमित्तानीति वा । गुणानामर्थवृत्तय इति पाठो न सरलो विरलार्थश्च ॥ ७ ॥
ततोऽक्षरसमाम्नायमसृजद् भगवानजः ।
अन्तःस्थोष्मस्वरस्पर्शहृस्वदीर्घादिलक्षणम् ॥ ८ ॥
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः ।
सव्याहृतिकान् सोङ्कारांश्चातुर्होत्रविवक्षया ॥ ९ ॥
पदरत्नावली
ततो व्याहृतिभ्योऽक्षरसमाम्नायमकारादिहकारान्तानामक्षराणां समीचीनं सम्प्रदायं गुरुपारम्पर्यक्रममसृजदित्यन्वयः । कोऽसौ क्रम इति तं स्पष्टयति अन्तःस्थेति । यरलवा अन्तःस्थाः शषसहा ऊष्माणः, अचः स्वराः, कादयो मावसानाः स्पर्शाः । ‘‘एकमात्रो भवेद् हृस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम्’’ इत्यत आदिशब्दो विवृतः ॥ तेनाक्षरसमाम्नायेन सव्याहृतिकान् भूर्भुवःसुवरिति वा एतास्तिस्रो व्याहृतय इत्यादि व्याहृतिसहितान् सोङ्कारान् ओमित्येतदक्षरमिदं सर्वमित्याद्योङ्कारसहितान् । विनियोगमाह चातुर्होत्रेति । चतुर्भिर्होतृभिः क्रियमाणं कर्म चातुर्होत्रम् ॥ ८९ ॥
सत्यधर्मीया
प्रपञ्चादनं प्रपञ्चयति ॥ तत इति । व्याहृतेः । भगवानजो ब्रह्माऽक्षर-समाम्नायमकारादिहकारान्तानामक्षराणां समाम्नायं समाहारमसृजत्ससर्ज । समाम्नायः किंरूप इत्यतो निरूपयति ॥ अन्तःस्थेति । यरलवाश्चान्तःस्थाः, शषसहा ऊष्माणो, अचः स्वराः कादयो मावसानाः स्पर्शाः, ह्रस्व एका मात्रा, द्विमात्रादिर्दीर्घ एतदादयो लक्षणानि यस्य स तम् । एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकमित्याद्युक्त आदिपदार्थः । तेनाक्षरसमाम्नायेन सव्याहृतिकान्, भूर्भुवःसुरिति वा एतास्तिस्रो व्याहृतय इत्यादिव्याहृतिसहितान् सोङ्कारांश्चतुरो वेदानसौ चतुराननश्चतुभिर्वदनैरसृजदित्यन्वयः । वेदविनियोगमाह ॥ चातुर्हात्रेति । चतुर्भिर्होतृभिः क्रियमाणं कर्म चातुर्होत्रं यज्ञादिकं तद्विवक्षया तत्सम्पत्तिविवक्षयाऽऽध्वर्यादिकं तद्विवक्षया वा ॥ ८९ ॥
पुत्रानध्यापयत् तांस्तु महर्षीन् ब्रह्मकोविदान् ।
ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ॥ १० ॥
पदरत्नावली
ब्रह्मकोविदान् वेदविचारविचक्षणान् । ते पुत्राः ॥ १० ॥
सत्यधर्मीया
तान्वेदान्पुत्रानध्यापयामास । ते चतुराननतनया वेदविचारचतुरा धर्मोप-देष्टारः स्वपुत्रेभ्यः समादिशन् । एतेन ते च सनकादिव्यतिरिक्ताः पुत्रा इति ज्ञायत ॥१०॥
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः ।
चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥ ११ ॥
पदरत्नावली
ते वेदाश् चतुर्युगेषु परम्परया प्राप्ताः, यथा चतुर्मुखेनाधीता अध्यापितास्तथा अध्ययनं प्राप्ता इत्यर्थः । उक्तापवादमाह अथेति । अथ त्रेतानन्तरं द्वापरादौ महर्षिभिर्वेदा व्यस्ता अभूवन् ॥ ११ ॥
सत्यधर्मीया
ते च वेदाश्च चतुर्युगेषु परम्परया धृतव्रतैस्तच्छिष्यैः प्राप्ताः । तदपवादमाह ॥ महर्षिभिरिति । अथ त्रेतानन्तरं द्वापरादौ व्यस्ताः शाखाभेदं प्राप्ता अभूवन् ॥ ११ ॥
क्षीणायुषः क्षीणसत्वान् दुर्मेधान् वीक्ष्य कालतः ।
वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतनोदिताः ॥ १२ ॥
पदरत्नावली
एतदेव विवृणोति क्षीणायुष इति । नन्वेषां स्वातन्त्र्यमापतितमिति तत्राह हृदिस्थेति ॥ १२ ॥
सत्यधर्मीया
कुतस्ते विव्यसुरित्यत आह ॥ क्षीणायुष इति । कालत इति तद्विपर्यासहेतूक्तिः । न च तत्र तेषां स्वतः शक्तिरिति वक्ति ॥ हृदिस्थेति । हृद्युभ्यामिति सप्तम्या अलुक् । हृदिस्थश्चासावच्युतश्च तेन नोदिताः प्रेरिताः । एतेन ब्रह्माऽपि परब्रह्मपरायत्त इति ध्वन्यते ॥ १२ ॥
अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः ।
ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ १३ ॥
पराशरात् सत्यवत्यामंशांशकलया विभुः ।
अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ १४ ॥
पदरत्नावली
ननु सत्यवतीसुतेन वेदाः कस्मिन् युगे व्यस्ता इत्याह अस्मिन्निति । अस्मिन् श्राद्धदेवमन्वन्तरे ॥ १३ ॥
सत्यधर्मीया
अस्मिन्नप्यन्तरे श्राद्धदेवमन्वन्तरेऽपि लोकभावनो वेदव्यासो ब्रह्मेशाद्यै-र्लोकपालैर्याचितः । कश्चिदविपश्चित्कश्चनायमृषिरिति बभाषे । न तथेत्यपि कथयति ॥ येति । या रमया चित आचित आचितो वा सम्बन्ध इत्यर्थः । एकंपदं वा । तत्र नित्यावियुक्त-ताऽऽङोऽर्थः । अंशः पद्मनाभस्तस्यांशकलाऽभिन्नांशकला तया । पराशरात्सत्यवत्यामवतीर्णो विभुर्व्यासो वेदं राशीभूतं चतुर्विधं चक्रे ॥ १३,१४ ॥
ऋगथर्वयजुःसाम्नां राशीनुद्धृत्य वर्गशः ।
चतस्रः संहिताश्चक्रे सूत्रैर्मणिगणानिव ॥ १५ ॥
पदरत्नावली
एतदेव विवृणोति ऋगिति । ऋगादीनां राशीन् वर्गसङ्ख्ययोद्धृत्य चतस्रः संहिताश्चके्र । सूत्रैः स्यूतान् ॥ १५ ॥
सत्यधर्मीया
राशितो विभक्तानां नामान्याह ॥ ऋगिति । अत्र ऋग्यजुस्सामाथर्वणा-मित्यभिहितव्ये यदेवमभ्यधात्तेन कृतयुगे विप्लवे वेदकानां वेदानां न पारावर्यमिति सूचयति । तदुक्तमाथर्वणभाष्ये । तस्माद्वेदे न किञ्चन पारावर्यमिति । ननु गीतातात्पर्ये दशमेऽध्याये वेदेष्वृग्वेद एव चेति विभूतत्व इत्युक्तेः कथं न पारावर्यमिति चेन्न । तट्टीकायाम् ऋग्वेद एवेत्यस्य स्वरूपत उत्तमत्वविवक्षया प्रवृत्तत्वस्याभिधानेनात्रोक्तस्य प्रतिपाद्यादिभेदप्रयुक्तपारावर्यस्या-प्रतिहतत्वात् । न चैवमपि वेदानां सामवेदोऽस्मीति साम्न आधिक्योक्तिविरोधः स्यादेवेति वाच्यम् । तस्य सजातीयैकदेशापेक्षयाऽऽधिक्यमिति तात्पर्यात् । न च ऋगादिवेदत्रयापेक्षयाऽपि क्वचित्साम्न आधिक्यवचनं त्वभिमान्यपेक्षयेति तात्पर्य एवोक्तेः । ननु तथाऽपि ऋचः श्रीर्गीरुमाद्याश्चेति ऋचो रमाभिमन्यमानत्वेन साम्नस्तु साम्नः प्राणशिवादय इत्यनेन त्वभिमान्यपेक्षया कथं साम्न आधिक्यमिति चेन्न । तदपि योग्यमिति तात्पर्यतट्टीकयोरेव श्रियं विहाय भारत्यादिऋगभिमानि-विवक्षया सामाभिमानिप्राणस्याधिक्यमस्तीत्येवमभिमानिविवक्षया साम्न आधिक्यं स्फुटतरं प्रतिपादितमित्यलम् । ऋक्चाथर्वश्च यजुश्च साम च तेषां राशीन्वर्गश उद्धृत्य सूत्रैर्मणिगणानिव चतस्रः संहिताश्चक्रे ॥ १५ ॥
तासां स चतुरः शिष्यानुपहूय महामतिः ।
एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ॥ १६ ॥
पदरत्नावली
तासां संहितानां मध्ये एकैकाम् ॥ १६ ॥
सत्यधर्मीया
महामतिर्व्यासश्चतुरः शिष्यान् । शुकः साक्षात्सूत इति सामस्त्येन वेददानं वेत्यत्र नोक्तः । सोऽप्युपलक्षणीयः । यथोक्तम् । सुमन्तं च महाभाग वैशम्पायनमेव च । जैमिनिं च महाप्राज्ञ पैलं चापि तपस्विनम् । यस्य शिष्यैरित्यारभ्य शिष्या ऊचुः । महता तेजसा युक्ता यशसा स्म विवर्धिता इति गर्भीकृत्य पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् । ऊचुस्ते संहितां राजन्निदं वचनमुत्तमम् । यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम । काङ्क्षामस्तु वयं सर्वे वरं दातुं महर्षिणा । षष्ठः शिष्यो न तत्ख्यातिं गच्छेदत्र प्रसीद नः । चत्वारस्ते वयं शिष्या गुरुपुत्रस्तु पञ्चमः । इह वेदान्प्रतिष्ठेरन्नेष नः काङ्क्षितो वर इति । ननु काशकृत्स्नादय एतदन्ये सूत्रगृहीता इति ख्याताः । कथं षष्ठो नेत्युक्तिरिति चेत् । वेदाचार्यतयाख्यातिवरवितरणमित्यविरोधोपपत्तेः । आहूयैकैकस्मा एकां संहितां ददौ । विभावयति, एकधा दशधा द्वादशधा चेत्यादिप्रकारेण विभाजक इति विभुः । चतुर इति प्रथमान्तं व्यासविशेषणं च, कुशल इति तदर्थः ॥ १६ ॥
पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह ।
वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गुणम् ॥ १७ ॥
साम्नां जैमिनये प्राह तथा च्छन्दोगसंहिताम् ।
अथर्वाङ्गिरसां नाम स्वशिष्याय सुमन्तवे ॥ १८ ॥
पदरत्नावली
एकैकामित्युक्तं विशिनष्टि पैलायेति ॥ तथा साम्नामुद्धृतां च्छन्दोगसंहितां जैमिनये प्राह ॥ १७,१८ ॥
सत्यधर्मीया
एकैकस्मा इत्युक्तं विशदयति ॥ पैलायेति । बह्वृचाख्यामाद्यां संहितां बह्वृचा इति टाबन्तम् । पैलायोवाच । ऋचां प्रवर्तकं पैलमित्यादेः । वैशम्पायन इति संज्ञा यस्य तस्मै यजुर्गुणं निगद्यते संश्लिष्टतयेति निगद इत्याख्या यस्य तम् । यजुर्विद्या गुणो विद्यादि-रहितादिष्विति विश्वः । यजुर्गणमिति पाठः सगुणः । यजुषां च प्रवर्तकम् । वैशम्पायनमेवैकं द्वितीयं सूर्यमेव चेत्युक्तेः । उवाचावोचत् । साम्नां गुणमिति वा संहितामिति वाऽन्वयः । जैमिनये था छन्दोगसंहितां च प्राह । चक्रेऽथ जैमिनिः साम्नामित्याम्नानात् । साम्नां तेभ्य उद्धृतां छन्दोगसंहितामिति वा । अथर्वाङ्गिरसां नाम नाम्ना सुमन्तवे स्वशिष्याय प्राह । अथर्वाङ्गिरसामपि सुमन्तं भारतस्यापि वैशम्पायनमादिशदित्यादेः ॥ १७,१८ ॥
पैलः स्वसंहितामूचे इन्द्रप्रम(मि)तये मुनिः ।
बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् ॥ १९ ॥
सत्यधर्मीया
स्वसंहितां स्वाधीतामिन्द्रप्रमतिस्तन्नामशिष्यस्तस्मै इन्द्रप्रमतिर्बाष्कलाय स बाष्कलोऽपि शिष्येभ्यः स्वकां स्वाधीताम् ॥ १९ ॥
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव ।
पराशरायाग्निमित्रे इन्द्रप्र(म)मितिरात्मवान् ॥ २० ॥
पदरत्नावली
इन्द्रप्रमितिरपि स्वसंहितां चतुर्धा व्यस्य विभज्य । शिष्यान् नाम्ना निर्दिशति बोध्यायेति । हे भार्गव । इन्द्रप्रमितिरपि आत्मवान् परमात्मज्ञानी ॥ २० ॥
सत्यधर्मीया
चतुर्धा व्यस्य विभज्य । शिष्यनामान्याह ॥ बोध्यायेति । याज्ञवल्क्याय पाराशराय । अग्निमितृशब्दतायां चतुर्थी । मित्रशब्दतायां सप्तम्येकवचनं वा । आत्मवान्मनस्वी भगवान्वा ॥ २० ॥
अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविः (कविम्) ।
तस्य शिष्यो वेदमित्रः सौभर्यादिभ्य ऊचिवान् ॥ २१ ॥
पदरत्नावली
कविं नाम्ना माण्डूकेयमृषिं च स्वसंहितामध्यापयत् । तस्य माण्डूकेयस्य
॥ २१ ॥
सत्यधर्मीया
कविः कश्चित् । अनेन नोक्तोऽपि तदुपदेशः प्रागूह्यः । माण्डूकेयमृषिं स्वां संहितामध्यापयत् । तस्य माण्डूकेयस्य शिष्यो वेदमित्रः सौभर्यादिभ्य ऊचिवान् ॥२१॥
शाकल्यस्तत्सुतस्तां तु पञ्चधा व्यस्य संहिताम् ।
वात्स्यमौद्गल्यशालीयगोसत्यशिशिरेष्वधात् ॥ २२ ॥
पदरत्नावली
तस्य सुतो वेदमित्रस्य पुत्रः वात्स्यादिषु पञ्चसु अधाद् अदात् ॥ २२ ॥
सत्यधर्मीया
तत्सुतो वेदमित्रपुत्रः शाकल्यस्तां संहितां पञ्चधा व्यस्य वात्स्यश्च मौद्गल्यश्च शालीयश्च गोसत्यश्च शिशिरश्चेति पञ्च तेष्वधात् ॥ २२ ॥
जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् ।
व्यलीकयोगपैलालविरजेभ्यो ददौ मुनिः ॥ २३ ॥
पदरत्नावली
तस्य शाकल्यस्य शिष्यः । सनिरुक्तां निरुक्तसहिताम् ॥ २३ ॥
सत्यधर्मीया
तच्छिष्यः शाकल्यशिष्यो जातूकर्ण्यः पराशरशरीरजः । यथोक्तं बृहद्भाष्ये । पाराशर्यो जातूकर्ण्यः पराशरसुतावुभौ । विप्रायामेव भार्यायां तृतीयः कृष्ण एव चेति । सनिरुक्तां निरुक्तेन सहिताम् । व्यलीकश्च योगश्च पैलालश्च विरजश्चेति चतुर्भ्यो ददौ । त्रेधा विभज्येति पक्षे व्यलीकयोग इति विशिष्टमेकनाम ॥ २३ ॥
बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ।
चक्रे बलायनिर्भज्य(बालायनिर्गार्ग्य)कासाराश्चैव तां दधुः ॥ २४ ॥
पदरत्नावली
बाष्कलिः पूर्वोक्तबाष्कलपुत्रः प्रतिशाखाभ्यः पूर्वोक्तसर्वशाखाभ्य उद्धृत्य वालखिल्याख्यसंहितां चक्रे । तां नाम्ना वालखिल्याख्यसंहितां बालायनिप्रभृतयो दधुरधीतवन्तः
॥ २४ ॥
दुर्घटभावदीपिका
बालायनिर्गार्म्यकासारा इत्यस्य बालश्चायश्च निर्गार्म्यश्च कासारश्च बालायनिर्गार्म्यकासाराः । बालानामक एक आयनामको द्वितीयो निर्गार्म्यनामकस्तृतीयः कासारनामकश्चतुर्थ इत्यर्थः । एतेन बालायनिर्गार्म्यकासारा इत्यत्र बालायनिरित्येकं पदं गार्म्यकासार इति द्वितीयं पदमित्यङ्गीकृत्य बालायनिर्नामक एको गार्म्यनामको द्वितीयः कासारनामकस्तृतीय इत्यर्थो वक्तव्यः । स चानुपपन्नः । गार्म्यकासाराविति द्विवचनप्रसङ्गादिति दूषणं निरस्तम् । बालायनिर्गार्म्यकासारा इत्येकं पदमित्यभ्युपेत्य बालादयश्चत्वार इत्यर्थस्योक्तत्वात् ॥ २४ ॥
सत्यधर्मीया
बाष्कलिर्बाष्कलपुत्रः प्रतिशाखाभ्यः प्रतिरयं प्रदत्तेत्यर्थे । उपसर्गा एव क्रियायोगेऽसति ससाधनक्रियावाचिनः । प्रति विप्रमतिं नरमित्यादाविव । प्रदत्ताश्च ताः शाखाश्च ताभ्यः । वालखिल्याख्यां संहितां चक्रे । बलायनिर्भज्यकासारास्तन्नामानस्तां दधुः ॥२४॥
बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः ।
शृृत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ॥ २५ ॥
पदरत्नावली
उक्ता एता संहिता नाम्ना विशिनष्टि बह्वृचा इति । ऋग्वेदसंहिताः । किमनेन च्छन्दसां व्यासेन श्रुतेनाधीतेन निःश्रेयसानुपयुक्तेनेति तत्राह श्रुत्वेति ॥ २५ ॥
सत्यधर्मीया
बह्वृचाः संहिता एभिरुक्तैर्ब्रह्मर्षिभिस्ताः संहिता धृताः । एतच्छन्दसां व्यासं श्रुत्वा स्थितः सर्वपापैः प्रमुच्यते । एतेनैतच्छ्रवणादिनिष्फलताशङ्कोन्मूलितेति ज्ञेयम्
॥ २५ ॥
वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् ।
यच्चेरुर्ब्रह्महत्यांहःक्षपणाय गुरोर्व्रतम् ॥ २६ ॥
पदरत्नावली
चरकास्तीर्थसेवकाः । अध्वर्यवः यज्ञकर्मणि निपुणा ऋत्विग्विशेषाः
॥ २६ ॥
सत्यधर्मीया
चरकास्तीर्थसञ्चारिणस्ते चाध्वर्यवोऽध्वरकर्मकोविदाश्चाभवन् । चरका इति नाम निर्वक्ति । गुरोर्ब्रह्महत्याहेतुकं यदंहस्तत्क्षपणाय यद्यतो व्रतं चेरुस्ततश्चरका इति ॥२६॥
याज्ञवल्क्यस्तु तच्छिष्य आहांहो भगवन् कियत् ।
चरितेनाल्पसाराणां चरिष्येऽहं सुदुष्करम् ॥ २७ ॥
पदरत्नावली
तस्य वैशम्पायनस्य शिष्यो याज्ञवल्क्यो गुरुमित्याह । हे भगवन् गुरो ब्रह्महत्यांहःक्षपणाय व्रतं चेरुरिति यस्मात् तस्मादंहः प्रत्यल्पसाराणामेतेषां चरितेन कियत् किं प्रयोजनं स्यात्, अहं दुश्चरं व्रतं चरिष्ये करिष्यामीति ॥ २७ ॥
दुर्घटभावदीपिका
तच्छिष्यो वैशंपायनशिष्यो याज्ञवल्क्यः । हे भगवन् वैशंपायनोऽल्पसाराणां तव शिष्याणां चरितेन व्रताचरणेन कियदंहो गमिष्यति । पापलेशस्य निवृत्तिर्भविष्यतीति यावत् । अतोऽहं समग्रपापनिवृत्त्यर्थं सुदुष्करं व्रतं चरिष्य इति वैशंपायनमाहेति । एतेन कियदंहो गमिष्यतीति वक्तव्यम् । तन्नास्तीति न्यूनतेत्याशङ्का परास्ता । गमिष्यतीत्यस्य शेष इत्यभ्युपगमात् ॥ २७ ॥
सत्यधर्मीया
याज्ञवल्क्यस्तिरस्कृत्येतरान्स्वयं तं गुरुमाह ॥ याज्ञवल्क्य इति । हे भगवन् वैशम्पायन अल्पसाराणामल्पः सारो बलं येषां तेषा अहः कियद्बह्विति तात्पर्यम् । चरितेन किं स्यात् । अल्पेत्यनेनांहोमहत्त्वममहत्त्वं व्रतस्य ध्वनयति । सुदुष्करं व्रतं चरिष्य इत्याह ॥ २७ ॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।
विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ २८ ॥
पदरत्नावली
ततो गुरूणा किमुक्तमत्राह इतीति । विप्रावमन्त्रा ब्राह्मणावज्ञानकर्त्रा शिष्येण त्वया अलम् इतो याहि किञ्च मदधीतम् आशु त्यज उत्सृजेति ॥ २८ ॥
सत्यधर्मीया
गुरुर्वैशम्पायनोऽलं कुपित इत्यन्वयः । त्वयाऽलं पर्याप्तं त्वत्सहवासो माऽस्त्विति पराभवो वा । त्वं याहि गच्छ । तत्र तन्त्रं विप्रावमन्त्रा शिष्येणेति । कियत्तेषां व्रतं महतोंऽहसो न पर्याप्तं ततोऽहं चरिष्य व्रतमित्यृचज्ञात्रा । अर्हित तर्ह्याज्ञा चेद्गच्छामि नमस्तेऽस्त्वित्यतः किञ्चिदितिकर्तव्यं तद्गमने स्वमनःस्थितं तदनास्थायामाह ॥ आशु मदधीतम् । उक्तं च विष्णुपुराणे तृतीयेंऽशे ब्रह्महत्या गमनम् । तथा हि । ऋषिर्योऽद्य महामेरौ समाजेनागमिष्यति । तस्यैव सप्तरात्रान्ते ब्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैः समयोऽयं कृतो द्विज । वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा । स्वस्त्रीयबालकं सोऽथ पदा स्पृष्टमघातयत् । स्पृष्टमात्रे पदा तेन स ममार किलार्भकः । शिष्यानाह च भो शिष्या ब्रह्महत्यापहं व्रतम् । चरथास्मत्कृते सर्वे न विचार्यमिदं तथा । अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्द्विजैः । क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् । ततः कुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिः । मुच्यतां यत्त्वयाऽधीतं मत्तो विप्रावमानक । निस्तेजसो वदस्येतान्यस्त्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा । याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् । ममाप्यलं त्वयाऽधीतं यन्मया त्वदिदं द्विज । पराशर इत्युक्त्वा रुधिरार्द्राणि सरूपाणि यजूंषि सः । छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनेरिति । त्यजेति अहं चरिष्य इति वचनतोऽर्थात्प्रतीतं मदसहितत्वमप्याह । मदधीस्तयेतं युक्तमिति । एतेऽशक्ताः शक्तस्त्वहमित्यहन्तासन्तानसन्त इति मदधीतस्तम् । अध्ययनं यद्युदस्त्यै साहन्ता न हि तान्ता तव तत्त्यज । व्रजेति । अत एवास्मदधीतमिति न स्माह ॥ २८ ॥
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् ।
ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥ २९ ॥
सत्यधर्मीया
देवरातसुतः शुनःशेपसुतः । पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवमिति नवमे तथा बह्वृचब्राह्मणे देवा आरासतेत्युक्तेर्देवै रातो देवरात इति निरुक्तिर्ज्ञेया । यो रातो देवयजनेर्देवैर्गाधिसुताय स इति च । सोऽपि याज्ञवल्क्यो यजुषां गणं छर्दित्वा ततो देशैकदेशतो गतः । अथ तद्गमनानन्तरं केचन मुनयस्तान्यजुर्गणांस्तच्छर्दितान्ददृशुः ॥ २९ ॥
भूत्वा तित्तिरयो ब्रह्मन् तल्लोलुपतयाऽऽददुः ।
तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥ ३० ॥
सत्यधर्मीया
तित्तिरयः पक्षिविशेषो भूत्वा तल्लोलुपतया मन्त्रास्ते च महान्त इति तद्ग्रहणलालस्येनाददुस्तांस्तच्छर्दितान्स्वीचक्रुः । तित्तिरितया यतो जगृहुस्ततस्तास्तैत्तिरीयाः सुपेशला यजुः शाखा आसन् । ननु वान्तानामकान्तानां कथं सुपेशलतेति मधुरेण मधुना निदर्शनेन परिहर्तव्यमिव तित्तिरीयाणां प्रायो वान्ताऽसि त्वं वर्तेति तत्त्वेन भवनतश्चेति ज्ञेयम् । किञ्च दुःसाधं गुर्वाज्ञायाः ॥ ३० ॥
याज्ञवल्क्यस्ततो ब्रह्मन् छन्दांस्यधिगवेषयन् ।
गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ३१ ॥
सत्यधर्मीया
ततो वान्तास्तेनान्तःस्थिता इति तदनन्तरम् । छन्दांसि न तानि साधारणानीत्याह ॥ गुरोरविद्यमानानीति । प्राक्तनगुरोरलभ्यान्यधि अध्येतुमुपसर्गाः क्रियायोगे तदर्थविशेषकास्तदभावे ससाधनक्रियाबोधनं त एव तन्वन्तीत्यत्राधिरध्येतुमित्यर्थकः । विस्तृतं चैतत्प्रागृग्भाष्यसुधाद्यभिधानेन । गवेषयन्कञ्चन गुरुमिति शेषः । ध्येयस्सदा सवितृमण्डल-मध्यवर्तीत्यादेरर्कः । अलङ्कं सुखात्मकमीश्वरं सूर्यान्तर्गतं सूपतस्थे सुष्टूपतस्थे सम्यक् तुष्टाव
॥ ३१ ॥
याज्ञवल्क्य उवाच–
ओं नमो भगवते आदित्यायाखिलजगदात्मस्वरूपेण कालरूपेण च चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरप्याकाश इवोपाधिना व्यवधीयमानो भगवानेक एव क्षणलवनिमेषाद्यवयवोपचित संवत्सरगणेन तोयादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ३२ ॥
पदरत्नावली
ओं ब्रह्मनाम्ने । ओं स्याद् ब्रह्मण्यनुज्ञायामिति यादवः । अथ कस्मा-दुच्यते । अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा इति श्रुतेः । गुणैरोतत्वादोङ्कार-स्याप्ययमेवार्थः । इममेवार्थं सूचयति भगवत इति । भगवते षड्गुणपूर्णाय । अयं वसिष्ठादिवदीदानीन्तनो भगवान्नेत्याह आदित्याय आदिभवाय पुरातनाय । यद्वा अखण्डितैश्वर्याय । एतद् द्वयमुपपादयति अखिलेति । यो भगवान् ब्रह्मादिस्तम्बपर्यन्ता-नामण्डजादिभेदेन चतुर्विधानां भूतसमूहानां हृदयेष्वन्तरखिलजगदात्मस्वरूपेण समस्त-जगदन्तर्यामिरूपेण स्थितो बहिरपि क्षणलवनिमेषाद्यवयवोपचित संवत्सरगणलक्षणेन कालरूपेणा-काश इव व्यवधीयमानस् तोयादानविसर्गाभ्यां प्रत्यब्दं तोयस्यादानं शोषणं विसर्गो वृष्टिस्ताभ्याम् इमां लोकयात्रामनुवहति । यद्वा घटाद्युपाधिना आकाश इव सुरनरादिशरीरोपाधिना व्यवधीयमानः परिच्छिद्यमान इति ॥ ३२ ॥
सत्यधर्मीया
मद्गुह्यं त्वां प्रतीयदिति मतिमांस्तेनैव तमभिष्टौति ॥ ॐ नम इति । भगवते षड्गुणपूर्णाय प्रसिद्धसवितर्यसम्भावितानां भगवत्परता च सम्भावितानां सवितुरिति मन्तव्यम् । आदित्यायादौ भवायादितिपुत्रायेति सवित्र उपेन्द्राय हरये वा । अखिलजगदात्मक-स्वरूपेण कालरूपेणाण्डजादिभेदेन चतर्विधभूतसमूहानाम् । ब्रह्माऽऽदिः स्तम्बस्तृणजीवस्स एव पर्यन्ते येषां तेषां ब्रह्माणमारभ्य तृणजीवावसानानाम् । जगदात्मस्वरूपेणेति विवृणोति ॥ अन्तर्हृदयेष्वन्तर्यामिरूपेणेति । कालरूपेणेति विवृणोति ॥ बहिरपीति । यथाऽऽकाशो व्याप्तस्सन्नपि घटाद्युपाधिना व्यवधीयमानः परिच्छिद्यमानस्तथा स्वयमेक एव सन्क्षणलवनिमेषा-द्यवयवोपचितसंवत्सरगणेन व्यवधीयमान उदयमस्तं यात इति प्रभृतिव्यवहार्यस्तोयादान-विसर्गाभ्यामिमां लोकयात्रामनुवहति वाहयति किरणसरण्या नीरं गृह्णाति तैरेवोत्सृजति । ओमिति गुणपूर्णतां भगवति वदन्मन्त्रः । स्रवणदोषवानपि न भवति ॥ ३२ ॥
यदिहवाव विबुधर्षभ सवितरदस्तप(त्य)नुसवनमहरहराम्नायविधि-नोपतिष्ठमानानामखिलदुरितवृजिनबीजावभर्जनं भगवतः समभिधीमहि तपन मण्डलम् ॥ ३३ ॥
पदरत्नावली
हे विबुधर्षभ हे सवितस् तव यददोमण्डलमनुसवनं तपति प्रकाशते इहवावे-त्यलङ्कारार्थः । हे तपन प्रकाशनशील तत् समभिधीमहि सम्यक् चिन्तयामः । कीदृशं मण्डलम् । अहरहराम्नायविधिना वेदोक्तप्रकारेण उपतिष्ठमानानां सेवमानानाम् अखिलानां दुरितानां दुष्पापानां वृजिनानां दुःखानां बीजानि दुष्कर्माणि अवभर्जयितुं शीलमस्यास्तीत्यस्मिन्नेवार्थे ल्युट्प्रत्ययः
॥ ३३ ॥
सत्यधर्मीया
विबुधर्षभ देवताश्रेष्ठ सवितो जगत्प्रसवितः । हे तपन । यन्मण्डलमनु-सवनमाम्नायविधिनोपतिष्ठमानानामुपासकानामखिलदुरितानि पापानि वृजिनानां दुःखानाम् । व्रजिनं वृजनं दुःखमिति बृहद्भाष्योक्तेः । बीजानि तेषामवभर्जनं येन तत् । दुरितानां वृजिनानां यद्बीजं कर्म तदवभर्जतीति वा । इह हवा वाऽहरहस्तपति भगवतस्तद्वयं समभिधीमहि सञ्चिन्तयामः
॥ ३३ ॥
य इह वाव स्थिरचरनिकराणां स्वनिकेतनानां मनइन्द्रियासुगणा-ननात्मनस्तत्वं स्वयमात्माऽन्तर्यामी प्रचोदयति ॥ ३४ ॥
पदरत्नावली
इह भुवि यो वाव स्वनिकेतनानां स्वाश्रयाणां स्थिरचरनिकराणाम् आत्मा स्वामी अन्तः स्थित्वा सुखप्रेरकश्च । तत्वमनारोपितस्वभावः स्वयं तेषामनात्मनो ऽचेतनप्रायान् मनइन्द्रियासुगणान् प्रचोदयति प्रेरयति । अनेन विशेषणद्वयेन तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादित्ययं विस्तृतः । यः नः धियः ज्ञानसाधनत्वादिन्द्रियाणि प्रचोदयात् तस्य सवितुर् जगत्स्रष्टुर् भर्गः सकलदुःखबीजभर्जनकं वरेण्यं रमणीयं तन्मण्डलं धीमहीति । आ प्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेति ॥ ३४ ॥
सत्यधर्मीया
इह यः स्थिरचराणामचरचराणां निकराः समुदायास्तेषां, स्वनिकेतनानां स्वो निकेतनमाश्रयो येषां तेषां, मनश्चेन्द्रियाणि चासूनां गणाश्च प्राणाद्यास्तान् । अनात्मनः स्वतो निष्प्रयत्नान्स्वयमात्मा स्वामी अन्तर्यामी । तत्त्वं च रहस्यध्येय इति प्रचोदयति । अनात्मनस्तत्वं परतन्त्रप्रमेयं वा । सूर्य आत्मा जगतस्तस्युषश्चेत्यादेः ॥ ३४ ॥
य एवेमं लोकमतिकरालवदनान्धकारसञ्ज्ञाजगरगृहीतं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्य आत्मावस्थाने प्रवर्तयत्यनिमिषाधिपतिरसाधूनां भयमुदीरयन्नटति परित आशापालैस्तत्र तत्र कमलकोशाञ्जलिभिरुप-हृतार्हणः ॥ ३५ ॥
पदरत्नावली
अतिकरालं वदनं यस्य स तथा स एवान्धकारो ऽज्ञानलक्षणस् तन्नाम्नाऽ-जागरग्रहेण गृहीतं ग्रस्तं मृतकमिव शववदचेतनकल्पमिमं लोकं जनमवलोक्य द्रवीकृतचित्तवृत्त्या परमकरुणिको यो भवान् ईक्षयैव कटाक्षनिरीक्षणेनैव तमुत्थाप्य अनुदिनमात्मनः परमात्म-नोऽवस्थानं प्राप्तिर्यस्मात् तत् तथा तस्मिन् स्वधर्माख्ये श्रेयसि प्रवर्तयत्येव । चित्रं देवाना-मुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेरिति श्रुतेः । कालप्रणायको यश्च भवानाशापालैर् इन्द्रादिभिः कमलकुड्मलाञ्जलिभिस्तत्र तत्र समुपचितो ऽसाधूनां मरणभयमीरयन् परितोऽटति परिवर्तते । आ प्रा द्यावापृथिवी अन्तरिक्षमिति श्रुतेः । तस्मै तुभ्यं नम इति पूर्वेणान्वयः ॥ ३५ ॥
सत्यधर्मीया
अतिकरालं वदनं यस्य स चासावन्धकार इति संज्ञा यस्य स चासाव-जगरश्च तेन गृहीतं रात्रौ ग्रस्तम् । मृतकमिव विचेतनं निःसंज्ञं लोकमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहर्दिवा तत्राप्यनुसवनमात्मावस्थाने आत्मनोऽवस्थानं येन हृदये भवति तस्मिन् स्वधर्माख्ये स्वस्वाश्रमवर्णाद्युचिते श्रेयस्यनिमिषाधिपतिः प्रवर्तयति । असाधूनां भयमुदीरयन् दस्युप्रभृतीनां तत्र तत्र परिवर्तवर्तन्याऽऽशापालैस्तत्तद्दिक्पालैः कमलकोश-निकाशाञ्जलिभिरुपहृतमर्हणं यस्य स सन्नटति ॥ ३५ ॥
अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितमहमया-तयामयजुःकाम उपसरामीति ॥ ३६ ॥
पदरत्नावली
स्वाभिप्रायमुद्गलयति अथेति । यस्मादयातयामयजुष्कामो ऽथ तस्मात् त्रिभुवनगुरुभिरभिवन्दितं तव चरणनलिनयुगलमुपसरामि शरणं गतोऽस्मीति तुष्टावेत्यर्थः ॥३६॥
सत्यधर्मीया
फलितमभिलप्योपसंहरति ॥ अथेति । भगवंस्तव त्रिभुवनगुरुभिः स्वधामैः । भगवत्पक्षे सर्वैर्ब्रह्मादिभिरभिवन्दितं चरणनलिनयुगलमयातयामनि संसारिणि यजूंषि कामयतीति स, तेषां कामो यस्य स वा । अहमुपसरामि शरणमुपयामीति तुष्टाव ॥ ३६ ॥
सूत उवाच–
एवं स्तुतः स भगवान् वाजिरूपधरो रविः ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥ ३७ ॥
पदरत्नावली
वाजिरूपधरो ऽश्वरूपधरः । अयातयामानि अगतसाराणि, वीर्यवन्तीत्यर्थः ॥ ३७ ॥
सत्यधर्मीया
एवं सेवितः सविता किमददादथवा नेत्यवादीदुत दत्तवान् दास्यमित्यत आह ॥ एवमिति । वाजिरूपधरो वाजिरूपस्य धरः । वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकमिति बृहद्भाष्योक्तेः । एवं स्तुतः प्रसादितश्च मुनये याज्ञवल्क्यायायातयामानि यजूंषि ददौ । प्रसादत इति पाठोऽपि सुलग्नः ॥ ३७ ॥
यजुर्भिरकरोच्छाखा दशपञ्च सुतैर्विभुः ।
जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥ ३८ ॥
पदरत्नावली
वाजसनः सूर्यस् तत अगताः शाखा वाजसन्यस्ताः शाखा काण्वादयो माध्यन्दिनादयश्च ॥ ३८ ॥
सत्यधर्मीया
तैर्यजुर्भिर्विभुर्याज्ञवल्क्यो दशपञ्च तुशाखा या वाजिसन्यस्ता अकरोद्विबभाज । वाजिना सूर्येण सन्यन्ता इति वाजसनानि निर्वचनत्वाज्जकारेकारस्याकारः । तेषामिमा वाजसनेयि-न्यस्ता एव वाजिसन्यो यास्ताश्च काण्वमाध्यन्दिनादयो जगृहुः ॥ ३८ ॥
जैमिनेः सामगस्यासीत् सुमन्तुस्तनयो मुनेः ।
सुमन्वांस्तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ३९ ॥
पदरत्नावली
साम गायतीति सामगः, तस्य जैमिनेस्तनयः सुमन्तुर्नाम । तस्य सुमन्तोः सुतः सुमन्वान्नाम । ताभ्यां सुमन्तुसुमन्वभ्यां पुत्रपौत्राभ्यां क्रमेणैकामेकां प्राह ॥ ३९ ॥
सत्यधर्मीया
क्रमप्राप्तं साम प्रवर्तकमुखेन वदति ॥ जैमिनेरिति । साम गच्छत्यव-गच्छतीति स तस्य जैमिनेर्मुनेः सुमन्तुस्तनयः सुमन्वान्नाम तत्सुतः सुमन्तुतन्तुस्ताभ्यामेकैकां संहितां क्रमात्प्राह ॥ ३९ ॥
सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान् ।
सहस्रं संहिताभेदं चक्रे साम्नां ततो द्विजः ॥ ४० ॥
पदरत्नावली
सुकर्मापि तस्य जैमिनेः शिष्यः महान् अतिप्रज्ञावान् सामवेदाख्यतरोः साम्नां संहितारूपं भेदं चक्रे ॥ ४० ॥
सत्यधर्मीया
तच्छिष्यस्तस्य जैमिनेः । तयोः सुमन्तुसमन्वतोः शिष्य इति वा । महान्सुकर्मा सामवेदतरोस्तद्रूपवृक्षस्य तत उद्धृतानां साम्नां संहिताभेदं सहस्रं चक्रे ॥ ४० ॥
हिरण्यनाभः कोशल्यः पौष्यञ्जिश्च सुकर्मणः ।
शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ॥ ४१ ॥
उदीच्याः सामगाः शिष्या आसन् पञ्चशतानि वै ।
पौष्यञ्ज्यावन्त्ययोश्चापि तांश्चोदीच्यान् प्रचक्षते ॥ ४२ ॥
पदरत्नावली
कौसल्यः कोसलपुत्रः । हिरण्यनाभश्च पौष्यञ्जिश्च सुकर्मणः शिष्यौ जगृहुः, सामशाखामिति शेषः । अन्य आवन्त्य उदीच्यश्च, सामशाखां जगृहतुरिति शेषः । पौष्यञ्ज्या-वन्त्ययोश्चापि सामगाः पञ्चशतानि शिष्या आसन् । तेषां समुदितानां नामान्याह तानिति
॥ ४१,४२ ॥
सत्यधर्मीया
कोशल्यः कोशलपुत्रो नाम्ना हिरण्यनाभः पौष्यञ्जिश्चेति सुकर्मणः शिष्यौ जगृहतुः । सामशाखां ब्रह्मवित्तम आवन्त्यश्चोदीच्यश्च जगृहतुः । पौष्यञ्जिश्चावन्त्यश्च तयोः सामगाः पञ्चशतानि शिष्या आसन् । उदीच्यानावन्त्यशिष्यानुदीच्यान्प्रचक्षते ॥ ४१,४२ ॥
लौगाक्षिर्लाङ्गलिः कुल्यः कुसीदः कुक्षिरेव च ।
पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ॥ ४३ ॥
पदरत्नावली
पौष्याञ्जिशिष्या लौगाक्ष्यादयो नाम्ना शतंशतं संहितां जगृहुः ॥४३॥
सत्यधर्मीया
लौगाक्षिर्लाङ्गलिः कुल्यः कुशीदः कुक्षिश्चेत्येते पञ्च पौष्यञ्जिशिष्यास्ते शतं शतं संहितां जगृहुः ॥ ४३ ॥
कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिताः ।
शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् ॥ ४४ ॥
पदरत्नावली
हिरण्यनाभस्य शिष्यः नाम्ना कृतश् चतुर्विंशतिसंहिताः स्वशिष्येभ्य ऊचे
॥ ४४ ॥
सत्यधर्मीया
हिरण्यनाभस्य शिष्यः कृतो नाम्ना स्वशिष्येभ्य ऊचे । आत्मवानावन्त्यश्च शेषाः शाखाः स्वशिष्येभ्य ऊचे ॥ ४४ ॥
अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् ।
संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ ४५ ॥
पदरत्नावली
सोऽपि सुमन्तोः शिष्योऽपि पथ्याय ॥ ४५ ॥
सत्यधर्मीया
अथर्ववित्सुमन्तुः शिष्यं कञ्चित्स्वकां संहितामध्यापयत् । सोऽपि सुमन्तुशिष्योऽपि पथ्याय तथा वेददर्शायाप्युक्तवान् ॥ ४५ ॥
शौक्लायनिर्ब्रह्मवालिर्मोदोषः पिप्पलायनिः ।
वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु
कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ ४६ ॥
पदरत्नावली
कुमुदादयः पथ्यशिष्याः ॥ ४६ ॥
सत्यधर्मीया
एकवेदवेदितृत्वात्पथ्यस्य शिष्यान् क्रमप्राप्ताननुक्त्वा वेददर्शशिष्योक्तिर्न दोषाय । एवं पूर्वत्रोत्तरत्र चानुसन्धेयम् । अथ पथ्यशिष्याञ्शृृणु । अनेन स्वस्य विवक्षाऽस्तीति सूचयति । कुमुदः शुनको, जाजलिरथर्वविदिति सर्वान्वयि ॥ ४६ ॥
बभ्रुः शिष्योऽप्यङ्गिरसः सैन्धवायन एव च ।
अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथाऽपरे ॥ ४७ ॥
पदरत्नावली
बभ्रुसैन्धवायनौ पथ्यशिष्यस्य अङ्गिरसोऽङ्गिरोगोत्रे विद्यमानस्य शुनकस्य शिष्यो अधीयेताम् अधीतीवन्तौ । ‘‘शुनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे । द्वितीयां संहितां प्रादात् सैन्धवायनसञ्ज्ञिते’’ इति । सावर्ण्याद्याश्च सैन्धवादीनाशिष्याः ॥ ४७ ॥
सत्यधर्मीया
अङ्गिरसो बभ्रुरेकः शिष्योऽपरः सैन्धवायन इति द्वौ शिष्यौ । शुनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे । द्वितीयां संहितां प्रादात्सैन्धवायनसंज्ञित इति वचनात् । आङ्गिरसो गोत्रपुत्रः शुनकस्तस्य । द्वे संहिते अधीयेतामपरे सावर्णाद्याः ॥ ४७ ॥
नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः ।
एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ॥ ४८ ॥
पदरत्नावली
आथर्वणाचार्या अथर्ववेदाचार्याः, पाठतोऽर्थतश्च अथर्ववेदप्रवर्तका इत्यर्थः । पौराणिकान् पुराणाचार्यान् ॥ ४८ ॥
सत्यधर्मीया
नक्षत्रकल्पः शान्तिः कश्यपश्चाङ्गिरसश्चादयो येषां त एत आथर्वणाचार्या आथर्वणवेदप्रवर्तकाचार्या इतःपरं पौराणिकाञ्छृणु ॥ ४८ ॥
त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः ।
वैशंपायनहारीतौ षड् वै पौराणिका इमे ॥ ४९ ॥
सत्यधर्मीया
त्रय्यारुणिः कश्यपः सावर्णिरकृतव्रणो, वैशम्पायनश्च हारीतश्चेति द्वावाहत्य षट् पौराणिकाः । तदधीते तद्वेदेति ठक् ॥ ४९ ॥
अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् ।
एकैकामहमेतेषां शिष्यः सर्वां समध्यगाम् ॥ ५० ॥
काश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः ।
अधीमहि व्यासपुत्राच्चतस्रो मूलसंहिताः ॥ ५१ ॥
पदरत्नावली
मत्पितुर्मुखात् पुराणसंहितामधीयन्त । त्रय्यारुण्यादयः कथमेकै-कामधीतवन्तः, त्वं तु कथं सर्वानधीतवानिति तत्राह अहमिति । अहमेतेषां शिष्यः सर्वां पुराणसंहितामपठम् ॥ व्यासपुत्रात् श्रीशुकात् ॥ ५०,५१ ॥
सत्यधर्मीया
एते षट् कस्य शिष्या इत्यत आह । व्यासशिष्यान्मत्पितुर्मुखात्संहिता-मेकैकामेकैक इति पुराणस्याधीयन्तेति ॥ त्वं तु कस्य शिष्यः कथं कथयाधीतवान्संहिताः सर्वा ओ इत्यत आह ॥ अहमेतेषां शिष्य इति । सर्वामेकैकस्मादेकैकमिति सर्वामध्यगां शुकादपि ममाध्ययनमेतैः सहेत्याह ॥ काश्यपः सावर्णी रामशिष्यो भार्गवरामशिष्योऽकृतव्रणश्चाहं चेति चत्वारश्चतस्त्रः संहिता व्यासपुत्राच्छुकादधीमहि ॥ ५०,५१ ॥
पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् ।
श्रुणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ५२ ॥
पदरत्नावली
प्रसङ्गात् पुराणलक्षणं वक्तुं प्रतिजानीते पुराणेति ॥ ५२ ॥
सत्यधर्मीया
पौराणिकप्रसङ्गसन्निधापितस्य पुराणस्य स्वरूपं निरूपयति ॥ पुराणेति । ब्रह्मर्षिभिरिति वृत्ताविच्छित्त्यर्थं पठने शब्दोऽबद्धो भविष्यतीति लघुः पठनम् । एतेन सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति लक्षणानां च पञ्चकमित्युक्तं लघुलक्षणं च स्वीकर्तव्यमविरोधादिति सूचयति । वक्ष्यति च क्वचित्पञ्चविधमिति । वेदशास्त्रानुसारतो निरूपितं बुद्धिमाश्रित्यैकाग्रबुद्धिः सन् शृृणुष्व ॥ ५२ ॥
सर्गश्चैव विसर्गश्च वृत्तिरक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ५३ ॥
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।
क्वचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ ५४ ॥
पदरत्नावली
वृत्तिश्च रक्षा च अन्तराणि च वृत्तिरक्षान्तराणि ॥ पुराणस्य महदल्प-व्यवस्थया । क्वचित् स्थले । पञ्चविधं पञ्चलक्षणप्रकारोपेतम् ॥ ५३,५४ ॥
सत्यधर्मीया
सर्गो विसर्गो वृत्तिश्च रक्षा चान्तराणि मन्वन्तराणि वंशो वंशानुचरितं च संस्था हेतुरपाश्रय इति दशभिर्लक्षणैर्युक्तं पुराणमिति तद्विदः । क्वचित्केचन पञ्चविधं तद्विदुः । व्यवस्थया न विरोधदुरवस्थेत्याह ॥ महदल्पव्यवस्थयेति । महच्चाल्पं चेति महदल्पे लक्षणे इति व्यवस्था तया दशेति पञ्चेति लक्षणानीति तथा ॥ ५३,५४ ॥
अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः ।
भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ ५५ ॥
पदरत्नावली
तत्र सर्गादिकं क्रमेण लक्षयति अव्याकृतेति । अव्याकृतगुणक्षोभात् प्रकृतिगुणानामन्योन्यसंयोगलक्षणसञ्चलनान् महतो महत्तत्त्वस्य, वैकारिकादिभेदेन त्रिवृतोऽहमो ऽहङ्कारस्य, भूतसूक्ष्मेन्द्रियार्थानां पञ्चभूतसूक्ष्मेन्द्रियविषयाणां सम्भवो जन्म । भूतमात्रेन्द्रियधियां जन्मेत्यधस्तादुक्तम् ॥ ५५ ॥
सत्यधर्मीया
सर्गादिपदार्थानाह ॥ अव्याकृतेति । अव्याकृतं प्रकृतिस्तस्या गुणा-नामन्योन्यसंयोगरूपचलनं क्षोभस्तस्मात् । त्रिवृतो वैकारिकादिभेदेन त्रिविधस्याहमोऽहङ्कारतत्त्वस्य महतः सकाशाद्भूतसूक्ष्मेन्द्रियार्थानां पञ्चभूतसूक्ष्मेन्द्रियगोचराणां सम्भवः संसर्गः । उक्तं च प्राक् । भूतमात्रेन्द्रियधियां जन्मेत्यादिना ॥ ५५ ॥
पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गो यः समाहारो जीवोऽजीवश्चराचरः ॥ ५६ ॥
पदरत्नावली
पुरुषेण भगवता अनुगृहीतानामनुप्रवेशलक्षणानुग्रहवताम् एतेषां तत्वानां सकाशाद् वासनामयो यः समाहारस् तत्तत्त्कर्मवासनानुसृतिः सृष्टिः स विसर्गः । जीवोऽजीवश् चेतनाचेतनलक्षणश् चराचरश् चराचरात्मको ब्रह्माण्डसर्गः । ‘‘ब्रह्मणो गुणवैषम्याद् विसर्गः पौरुषः स्मृतः’’ इति (अत्रैव पूर्वत्र) ॥ ५६ ॥
सत्यधर्मीया
विसर्गरूपमाह ॥ पुरुषेति । पुरुषेण भगवताऽनुगृहीतानामन्तःप्रवेशरूपानु-ग्रहयुक्तानां तत्त्वानां सकाशाद्यो वासनामयः समाहारस्तत्तत्कर्मवासनात्मको जीवश्चेतनश्चराचरात्मको ब्रह्माण्डसर्गो विसर्ग इत्युच्यते । ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृत इत्युक्तेः ॥५६॥
वृत्तिर्भूतानि भूतानां चरणामचराणि च ।
कृतेशेन नृणां तत्र कामाच्चोदनयाऽपि वा ॥ ५७ ॥
पदरत्नावली
पञ्चानां भूतानां पञ्चभूतान्येवान्योन्यं वृत्तिर्जीवनमन्नमित्यर्थः । तेजोवृत्तिः पार्थिवानि दारूणीत्यादि । यद्वा भूतानां पिशाचानां भूतानि मनुष्यलोकस्थितानि शरीररुधिराणि । ‘‘पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः’’ इत्यमरः । चराणां गतिमताम् अचराणि स्थावर-तुल्यानि व्रीह्यादीनि वृत्तिर् ईशेन हरिणा कृता कल्पिता । ‘‘अहस्तानि सहस्तानां सहस्तानि चतुष्पदाम् । अणूनि तात महतां जीवो जीवस्य जीवनम्’’ इत्युक्तं (प्राक्) तत्रैवं स्थितिः । नृणां वृत्तिः कामादिच्छातः फलमूलादीनि, चोदनया विधिना तत्तत्क्रियानुसारेण विहिता चरुपुरोडाशादिलक्षणा ॥ ५७ ॥
सत्यधर्मीया
क्रमप्राप्तवृत्तेर्वृत्तिं करोति ॥ वृत्तिरिति । चराणां भूतानामचराणि भूतानि व्रीह्यादीनि वृत्तिरन्नम् । प्रत्यवायानास्पदता हेतुरीशेन कृतेति । कामादिच्छातश्चोदनया विधिना । अहस्तानि सहस्तानां सहस्तानि चतुष्पदाम् । अणूनि तात महतां जीवो जीवस्य जीवन-मित्यादेः । अज्ञान्यचराणीति पशव इत्यपि पिशाचानामित्यपि वर्णयन्ति । चोदनया विधिना चर्वादीत्यपि ॥ ५७ ॥
रक्षाऽच्युतावतारेहा विश्वस्यानु युगेयुगे ।
तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ ५८ ॥
पदरत्नावली
युगे युगे विश्वस्यानु योग्या अच्युतावतारेहा हरेरवतारेण चेष्टा परिरक्षणं रक्षा । यदा यदा हि धर्मस्येति गीतायाम् । कुत्रेति तत्राह तिर्यगिति । यैरवतारैस् त्रयीद्विषः वेदवैरिणोऽसुरा हन्यन्ते तेषां चरितवर्णनं रक्षणमित्यर्थः । स्थितिर्वैकुण्ठविजय इति पोषणं तदनुग्रह इति च ॥ ५८ ॥
सत्यधर्मीया
अच्युतावतारेहास् तत्कृताश्चेष्टाः । अनु याचनामनुसृत्य । युगे युगे प्रतियुगं तिर्यक्षु मत्स्यादिर् ऋषिषु व्यासादिर्देवेषूपेन्द्रादिः । त्रयीद्विषो वेदानामर्थं वर्णयन्तो हन्यन्ते तदीहा विश्वस्य रक्षेत्युच्यते ॥ ५८ ॥
मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः ।
ऋषयोंऽशावताराश्च हरेः षड्विधमुच्यते ॥ ५९ ॥
पदरत्नावली
एतन् मन्वन्तरं षड्विधमुच्यते । षण्णां कथाकथनं मन्वन्तरमित्यर्थः । तत्रांशकानामिति शेषः (?) । मन्वन्तरेषु तद्धर्मा इति । मन्वन्तरादितद्धर्मकथनमित्यर्थः
॥ ५९ ॥
दुर्घटभावदीपिका
मनुर्देवा मनुपुत्राः सुरेश्वराः सुरेश्वर ऋषयो हरेरंशावतारा अंशावतारश्चेति षड्विधं वस्तु मन्वन्तरमिति शब्देनोच्यत इति । एतेन सुरेश्वरशब्दवाच्यस्योक्तत्वात्सुरेश्वर इति वक्तव्यम् । सुरेश्वरा इति बहुवचनमनुपपन्नम् । तथांऽशावतारस्येकत्वादंशावतार इति वक्तव्यम् । अंशावतारा इत्यनुपपन्न इति दूषणं परिहृतम् । जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामित्यनेन जातौ बहुवचनमित्यङ्गीकारात् । अत्र मनोः स्वातिरिक्तमनुप्रतियोगिकभेदवत्त्वान्मन्वन्तरशब्दवाच्यत्वं देवादीनां मनुसम्बन्धित्वान्मन्वन्तरशब्दवाच्यत्वमिति विवेको द्रष्टव्यः । एतेन किमन्तरशब्दस्य भेदवाचित्वमङ्गीकृत्य स्वातिरिक्तमनुप्रतियोगिकभेदवत्त्वं मन्वन्तरशब्देनोच्यत इत्यङ्गीक्रियते । किंवाऽन्तरशब्दस्यान्तःस्थत्ववाचित्वाल्लक्षणया सम्बन्धिवाचित्वमित्यङ्गीकृत्यमन्वन्तर शब्देन मनुसम्बन्धित्वमुच्यत इत्यङ्गीक्रियते । नाद्यः । देवादीनां मनुत्वाभावेन स्वातिरिक्तमनुप्रतियोगिक-भेदवत्त्वायोगात् । न द्वितीयः । मनोर्मनुसम्बन्धित्वाभावादिति दूषणं परास्तम् । स्वातिरिक्त-मनुप्रतियोगिकभेदवत्त्वं मनुसम्बन्धित्वं चेत्युभयं मन्वन्तरशब्देनोच्यत इत्यभ्युपगमात् ॥ ५९ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां
द्वादशस्कन्धे षष्ठोऽध्यायः ॥ १२-६ ॥
सत्यधर्मीया
मनुः स्वयं, देवाः, मनुपुत्राः, सुरेश्वरा इन्द्राः, प्रतिमन्वन्तरीयेन्द्रानपेक्ष्य बहुवचनम् । जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्यामिति जातौ बहुवचनमिति । ऋषयः सप्त हरेरंशावतारा इति मन्वन्तरं षड्विधमुच्यते । यत्रेन्द्रो हरिस्तत्र पञ्चविधं तदिति प्राक् प्रपञ्चितम्
॥ ५९ ॥
राज्ञां मनुप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।
वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ ६० ॥
पदरत्नावली
मनुप्रसूतानां राज्ञामन्वयो वंश इत्युच्यते । कीदृशः । त्रैकालिको भूतभविष्यद्वर्तमानविषयः । एतत्कथनमत्रेति । वंशस्यानुचरितं नाम तेषां राज्ञां वृत्तिकथनम् । ये वंशधरा उत्सन्नं वंशं धृतवन्तस्तेषां वृत्तम् ॥ ६० ॥
सत्यधर्मीया
मनुप्रसूतानां राज्ञां त्रैकालिकस्त्रिकालभवो वंशस्तस्यान्वयः प्रतिपाद्यतया सम्बन्धः कथ्यते । ये च वंशधरास्तत्तद्वंशप्रवर्तका उत्सन्नवंशस्थापका वा तेषां वृत्तं वंशानुचरितं कथितम् ॥ ६० ॥
नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।
संस्थेति कविभिः प्रोक्ता चतुर्धाऽस्य स्वभावतः ॥ ६१ ॥
सत्यधर्मीया
तत्र तत्र विकीर्णतयोक्तं प्रलयनामेकत्र सङ्गृह्याह ॥ नैमित्तिक इति । अयं लयः कविभिः स्वभावतोऽस्य संस्था चतुर्धेति प्रोक्ता ॥ ६१ ॥
हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः ।
यं वाऽनुशायिनं प्राहुरव्याकृतमुतापरे ॥ ६२ ॥
पदरत्नावली
यं च प्रलये परमात्मानमनुविश्य शायिनं स्वपन्तमाहुः, अपरे अव्याकृतम् अव्याकृताकाशवन्निर्विकारं प्राहुः, सो ऽविद्यया कर्मकारकः कर्मकर्ता अस्य जगतः सर्गादि-निमित्तभूतो जीवो हेतुरित्युच्यते । जीवसमुदायः सुखदुःखप्राप्तये तं हेतुं कृत्वा जगतः सृष्ट्यादिकं प्रवर्तत इति । ‘‘निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः’’ इति ॥ ६२ ॥
सत्यधर्मीया
यं केचनानुशायिनं प्राहुः । अपरे चाव्याकृतं निर्विकारं प्राहुः । स जीवोऽविद्याकर्मकारकोऽविद्यया कर्म करोतीति स तथा । अस्य जगतः सर्गादेर्हेतुः सुखदुःखादि-भोक्तृत्वेन च भगवता कृतः । निरोधोऽस्यानुशयनमात्मनः सहशक्तिभिरित्युक्तेः ॥ ६२ ॥
व्यतिरेकान्वयौ यस्य जाग्रत्स्वप्नसुषुप्तिषु ।
मायामयासु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ ६३ ॥
पदार्थेषु यथा द्रव्यं तन्मात्रं रूपनामसु ।
बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ ६४ ॥
विरमेत यदा चित्तं हित्वा वृत्तित्रयाश्रयम् ।
योगेन वा तदाऽऽत्मानं वेद नात्मा निवर्तते ॥ ६५ ॥
पदरत्नावली
अपाश्रयं लक्षयति व्यतिरेकान्वयाविति । अपगत आश्रयो यस्य स तथा अद्वितीय इत्यर्थः । अद्वितीयत्वं कथमुच्यते । अन्वयव्यतिरेकाभ्यां ज्ञायत इति । यस्य हरेर्जीववृत्तिषु जीवानां जीवनोपायभूतासु जाग्रत्स्वप्नसुषुप्तिषु व्यतिरेकान्वयौ स्तः जाग्रदाद्यभावेऽपि विद्यत इति व्यतिरेकस् तद्भावेप्यस्तीत्यन्वयः । मायामयासु श्रीहरीच्छारचितासु । तद्ब्रह्म व्यपाश्रय इत्युच्यते ॥ प्राकारान्तरेणाश्रयं लक्षयति पदार्थेष्विति । रूपनामयुक्तेषु पदार्थेषु यद् द्रव्य-मुपादानकारणभूतं प्रकृत्याख्यं तन्मात्रं पदार्थस्वरूपं तस्मिन् द्रव्ये बीजादिपञ्चतान्तासु जन्मादि-मरणान्तासु अवस्थासु युतायुतम् अन्वयव्यतिरेभ्यां यद् वर्तते तद्ब्रह्म व्यपाश्रयम् । यद्वा रूपनामप्रपञ्चपदार्थेषु युतायुतमन्वयव्यतिरेकलक्षणानुमानेन यत् तन्मात्रं विज्ञानानन्दमात्रं द्रव्यं द्रुतं ज्ञेयं यद् बीजत्वाद्यवस्थासु वस्तुनः पञ्चत्वावसानलक्षणावस्थासु युतायुतं वर्तते तद्ब्रह्मेति ॥ एतादृशब्रह्मप्राप्तिः कदा स्यादिति तत्राह विरमेतेति । वृत्तित्रयाश्रयं जाग्रत्स्वप्नसुषुप्तिलक्षण-वृत्तित्रयविरूढं चित्तं हित्वा वृत्तित्रयाद् विरमेत उपरतं भवति । तदा योगेन ध्यानलक्षणयोपसनया निरन्तरं श्रीनारायणकथालक्षणोपासनया च आत्मानं परमात्मानं वेद जानाति लभते प्राप्नोति च । ततः किमत्राह नेति । पुनर्निवर्तते नैव । न च पुरावर्तते न च पुनरावर्तत इति श्रुतेः
॥ ६३-६५ ॥
सत्यधर्मीया
अपाश्रयं लक्षयति ॥ व्यतिरेकेति । अपगत आश्रयो यस्य स तथा स्वाश्रयोऽ द्वितीय इत्यर्थः । जाग्रत्स्वप्नसुषुप्तिषु । जाग्रदित्यत्र शताऽविवक्षितार्थ इति जागरणं ग्राह्यम् । यद्वा जाग्रच्च स्वप्नश्च सुषुप्तिश्च जाग्रत्स्वप्नसुषुप्तिश्च जाग्रत्स्वप्नसुषुप्तय इत्यवस्थाः । प्रकर्ण्या विशिष्ये बाधाद्विशेषभूतजागरणं ग्राह्यम् । वस्तुतस्तु जाग्रत्स्वप्नेति सुभावेऽपि तु किञ्चिज्ज्ञेयम् । अभावेऽति प्रत्यय इति केचित् । जीववृत्तिषु तच्छ्रमादिपरिहारहेतुतया तज्जीवनोपायभूतासु जाग्रत्स्वप्नसुषुप्तिषु जीववृत्तिषु मायामयीषु तदिच्छाप्रधानासु व्यतिरेको जाग्रदाद्यभावेऽपि भावस्तद्भावे भावोऽन्वयस्तौ यस्य ज्ञापकौ तद्ब्रह्म । व्यपश्चासावाश्रयश्चेति वा । व्यपोह्य शीर्षकपाल इति तैत्तिरीयभाष्ये वासुदेवो व्यपः स्मृतः, यस्माद्व्यपगतेः स्थाता जगति प्रलये विभुरित्युक्तेः । इति सर्गादिव्यपाश्रयं तद्दशकं लक्षणानि । व्यपाश्रयं प्रकारान्तरेण दर्शयति ॥ पदार्थेति । रूपनामसु रूपनामात्मकेषु तद्वत्सूपादेयेषु द्रव्यमुपादानं प्रकृत्यादिकं तन्मात्रं सदपि बीजादिपञ्चतां तासु बीजमुत्पत्तिरादिर्यासां, पञ्चता मरणमन्ते च यासां ता इति विग्रहः । अवस्थासु यथा युतायुतं स्थूलरूपेण युतं च सम्बद्धमयुतं सूक्ष्मरूपेणेति चान्वयव्यतिरेकाभ्यां तथा तद्बह्मेति । एतेन नेति नेतीति परिशिष्यमाणमित्युक्तवृत्तमिति केऽपि । वर्तमानमात्रे निदर्शनं स्वतन्त्रतयाऽवस्थानं तु बीजादिपञ्चतोपपादकतयाऽन्वयव्यतिरेकगम्यमिति शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमला इत्यादि च तत्स्वातन्त्र्यं मानसिद्धमिति हिराह ॥ ६३-६५ ॥
एवं लक्षणलक्ष्याणि पुराणानि पुराविदः ।
मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ ६६ ॥
ब्राह्मं पाद्मं वैष्णवं च शैवं लिङ्गं च गारुडम् ।
नारदीयं भागवतमाग्नेयं स्कन्दसञ्चितम् ॥ ६७ ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।
वाराहं मात्स्यं कौर्म्यं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ ६८ ॥
पदरत्नावली
उपसंहरन्नेव पुराणानां क्षिप्रप्रवृत्तये सङ्ख्यामाह एवमिति । क्षुल्लकानि श्लोकसङ्ख्यया परिमितानि न त्वर्थतः । कानिचिदर्थतः शब्दतः फलतोऽपि महान्ति ॥ तानि क्रमेण निर्दिशति ब्राह्ममित्यादिना ॥ त्रिषट् अष्टादशः ॥ ६६-६८ ॥
सत्यधर्मीया
प्रसङ्गसङ्गत्या सङ्ख्यासङ्ख्यापनमुखेन फलमभिलप्योपसंहरति ॥ एवमिति । क्षुल्लकानि सङ्क्षिप्तशब्दानि महान्ति सङ्ख्यातश्चार्थतोऽपीति सूचयति । ब्रह्मादिगारुडान्तमेकषट्-सम्पुटी । नारदादिब्रह्मवैवर्तान्ता द्वितीया । मार्काण्डेयादि ब्रह्माण्डाख्यमित्यन्ता तृतीयेति षट्कत्रिक-मित्यष्टादश पुराणसम्पत्तिः पूर्वत्रोत्तरत्र च सवामनमिति यथाऽन्वयं संयोज्यम् ॥ ६६-६८ ॥
ब्रह्मणैतत् समाख्यातं शाखाप्रणयनं मुने ।
शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविदीपनम् ॥ ६९ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे षष्ठोऽध्यायः ॥
पदरत्नावली
अत्र शिष्यप्रशिष्यैः शाखाप्रणयनं ब्रह्मणोऽनभिमतं कृतमिति मा शङ्कीत्याह ब्रह्मणेति । शिष्यादीनामेतत् शाखाप्रणयनं ब्रह्मणैव समाख्यातं कथितम् । कीदृशम् । ब्रह्मतेजो-विदीपनं ब्रह्मतेजसः प्रकाशकम् । निरर्थकं प्रणयनं किमर्थं कृतमित्यो वाह ब्रह्मेति । ब्रह्मणः परमात्मनस्तेजसः प्रभावस्य विदीपनं प्रकाशनकरम् ॥ ६९ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्यां द्वादशस्कन्धस्य षष्ठोऽध्यायः ॥ १२-६ ॥
सत्यधर्मीया
गुर्वाज्ञां विना तदवज्ञया कृतमेतैरिति नोपेक्ष्यमित्याप्तिमूलकतामभिलप्य तद्ग्राह्यतां ग्राह्यति ॥ ब्रह्मणेति । एतच्छाखाप्रणयनं शिष्यशिष्यप्रशिष्याणां समाख्यातम् । तत्र तन्त्रं त्वल्पायुष्यादिकं प्रागुक्तं वेदितव्यम् । ब्रह्मणस्तेजसः प्रभावस्य प्रकाशनं येन तत् । अनेन न तन्नैरर्थक्यमिति बोधितं भवति ॥ ६९ ॥
**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **
द्वादशस्कन्धे षष्ठोऽध्यायः ॥ १२-६ ॥