०५ पञ्चमोऽध्यायः

एतन्निशम्य मुनिनाऽभिहितं परीक्षिद्

॥ अथ पञ्चमोऽध्यायः ॥

सूत उवाच–

एतन्निशम्य मुनिनाऽभिहितं परीक्षिद्

व्यासात्मजेन निखिलात्मदृशा समेन ।

तत्पादपद्ममुपसृत्य नतेन मूर्ध्ना

बद्धाञ्जलिस्तमिदमाह स विष्णुरातः ॥ १ ॥

पदरत्नावली

श्रीनारायणानुग्रहेण परीक्षितो देहवियोगलक्षणं मरणं जनमेजयस्य पितृभक्ति-प्रदर्शनाय सर्पयागः शक्तस्य च शक्रस्य स्वविमानपातोपेक्षां च कथयत्यस्मिन्नध्याये । तत्रादौ परीक्षितः शुकानुज्ञानदानप्रार्थनाप्रकारं वक्तुमाह एतदिति । एतत् पुराणाम् । निखिलं पूर्णमात्मनं पश्यतीति निखिलात्मदृक् तेन । समस्तस्वामिदृशा वा ॥ १ ॥

सत्यधर्मीया

स्वैरसङ्गतस्य स्वैरमटतो घटितमियन्मुनेर्विनेयस्योत द्वावपि किं चक्रुरित्यतः शुकमुखविकसितहरिचरितामृतः किञ्चित्स्तुतिमुदच्य नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत इत्यादेश्चेतश्चाञ्चल्याद्वाचोविमोचनं ययाच इति तथा तक्षकधक्षणं तेन तन्मरणं मारणं च तत्कुमारेण सरीसृपाणामित्यादि निरूप्यतेऽत्राध्याये । तत्रादौ किं वृत्तमुत्तरप्रवृत्तमिति शौनकमानससन्देहं सूतो निवर्तयतीत्याह ॥ सूत इति । व्यासात्मजेन निखिला खिला नेति साऽऽत्मदृग्घरिज्ञानं यस्य तेन । समदृशावा । असमेनानुत्तमेन मुनिनाऽभिहितमभितो हितरूपं चाभिहितमुदाहृतम् । एतन्निशम्य परीक्षित्क्षितिपतिस्तत्पादपद्मं मुनिचरणनलिनमुपसृत्य सविनयमागत्य नतेन नम्रेण मूर्ध्ना शिरसाऽनशनव्यसनेन सत्यपि विपरीतत्वे न स्वोचितार्थप्रच्युतिरिति ध्वनयितुं नतेनेत्या-रोहावरोहविषमार्थकशब्दप्रयोग इति ध्येयम् । बद्धाञ्जलिः स विष्णुरातस्तं प्रतीदमाह ॥१॥

परीक्षिदुवाच–

सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना ।

श्रावितो यच्च मे साक्षादनादिनिधनो हरिः ॥ २ ॥

पदरत्नावली

सिद्धः सम्पादितपुरुषार्थदेहः ॥ २ ॥

सत्यधर्मीया

यद्यतः करुणात्मना कृपायतचित्तेन भवताऽनादिनिधन उत्पत्तिनाशशून्यः साक्षाद्धरिर्मे श्रावितः । ततोऽहमनुगृहीतः । ततश्च सिद्धः कृतकृत्योऽस्मि । अस्मीत्यहमर्थेऽ-व्ययम् । गतम् । मयीहको लोकोत्तरो विशेषस्त्वयाऽऽलोकि लोके लोकेशसिद्धत्वसिद्धिद इत्यतोऽप्याह ॥ यद्यत इति । साक्षीवत्प्रेक्षावत्प्रत्यक्षेण तव भवता रुद्रता तत इयद्भाग्यं मम योग्यमिति, इः मम कामो यद्यस्मिंस्तदहः मोक्षश्च एतीति यत् । अतः सिद्धोऽस्मीति वा । अहर्मोक्षः समुद्दिष्टं ज्ञानं च क्वचिदीर्यत इति बृहद्भाष्यात् । अनादिनिधनः । अह इरिति पदानि ॥ २ ॥

नात्यद्भुतमिदं मन्ये महतामच्युतात्मनाम् ।

दीनेषु तापतप्तेषु भूतेषु यदनुग्रहः ॥ ३ ॥

पदरत्नावली

दीनेष्वनुग्रह इति यत् तदिदम् ॥ ३ ॥

सत्यधर्मीया

अच्युतात्मनां भगवन्मनसां महतां, तापयतीति तापः संसारस्तत्तप्तेषु दीनेषु भूतेष्वनुग्रह इति यत्तदिदमत्यद्भुतं नेति मन्ये । स्वभाव एवायं तेषामिति भावः । इदमनु-गृहीत इति प्रकृतमनुग्रहणं परामृश्यते । इदमद्भुतं नेत्यन्वयः । ननु भवता मम भवतापापादिता तर्हि स क्रूर इति कथं तदात्मनो मम नात्यद्भुतं मन्य इत्युच्यत इत्यत आह ॥ यत्त्वमनुग्रह इति । हीयत इति हः । जहातेर्घञर्थे कविधानमिति कः । ओयत्वादहं नामेत्यादेः । उग्र इति हः, त्याज्यः स नेत्यनुग्रहः । उग्रान्प्रत्युग्रो नान्यान्प्रतीति भावः । अनुगृहीतोऽस्मीत्यनेन पुनरुक्तिर्नापि लिङ्गरिरक्षिषयेतिशब्दाध्याहारक्लेशश्चेति ज्ञेयम् । इदमित्युक्तेर्न स्वतन्त्रोऽन्वयः स्वरसः श्लोकयोः ॥ ३ ॥

पुराणसंहितामेतामश्रौषं भवतो ह्यहम् ।

यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ॥ ४ ॥

पदरत्नावली

कोऽयमनुग्रह इति तमाह पुराणेति ॥ ४ ॥

सत्यधर्मीया

यस्यामुत्तमश्लोको भगवाननुवर्ण्यते तां पुराणसंहितां भवतः सकाशादश्रौषं खलु निश्चयेन । खं लुनातीति तदुद्गतं तमोऽज्ञानं येन स श्लोको यशो यस्य स खलूत्तमःश्लोक इति पदमेकं वा । अतोऽनुगृहीत इति योजनासूचको हिः ॥ ४ ॥

भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् ।

प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ॥ ५ ॥

पदरत्नावली

भयाभावे निमित्तमाह प्रविष्ट इति । निर्वाणमानन्दं प्राकृतशरीररहितं वा

॥ ५ ॥

सत्यधर्मीया

वासुदेवानुचिन्तयेति त्वदुक्तोपासनफलमिदं किलेति तत्प्रकाशयन्नाह ॥ भगवन्निति । तक्षकादिभ्य मृत्युभ्यो न बिभेमि यत्त्वया दर्शितं ब्रह्म निर्वाणमशरीराभिमानं यथा तथा प्रविष्टः । कायो बाणं शरीरं चेति गीताभाष्योक्तेः । तद्ध्यानेकतानमानस इति । प्राकृतशरीररहितत्वान्निर्वाणं ब्रह्मेति वा । अभयं भयाभावः । भयाभावे भगवच्चित्तता हेतुरिति भावः । इदमपि ब्रह्मविशेषणं वा ॥ ५ ॥

अनुजीनीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे ।

मुक्तकामाशयं चेतः प्रवेक्ष्ये विसृजाम्यसून् ॥ ६ ॥

पदरत्नावली

कामानामाशयः यस्मात् तज्जडचेतो निगृह्य अधोक्षजे प्रवेक्ष्ये ॥ ६ ॥

सत्यधर्मीया

लोकावलोकतोऽप्येवं कुर्व इति गुर्वग्य्रमर्थयते ॥ अनुजानीहीति । हे ब्रह्मन्वाचं कामेष्वाशेत इति तत्तथा । अधिकरणे शेतेरित्यच् । चेतो जडं मुक्त्वा वाचं यच्छामि तदोपसंहृत्य गिरं सहस्रणीरिति तद्यमनस्य मुख्यसाधनत्वबोधनात् । अधोक्षजे प्रवेक्ष्येऽनन्तर-मसून्विसृजामि । मामत्रानुजानीह्याज्ञापय ॥ ६ ॥

अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया ।

भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ ७ ॥

पदरत्नावली

क्षेमं मङ्गलम् । क्षेमो ना प्राप्तरक्षायां मोक्षेऽप्यस्त्री तु मङ्गलमिति यादवः

॥ ७ ॥

सत्यधर्मीया

द्वादशवारं रामायणं श्रुत्वा रामः सीतायाः सा वा तस्य का भाविनीतिवन्न नीतिभागहमिति सङ्गृह्य सर्वं सर्वसहादेवं प्रति भूदेवो व्याहृत्योपसंहरति ॥ अज्ञानं चेति । अज्ञानं मे मम निरस्तम् । ज्ञानं तत्साधनं वेदादिकं तद्विज्ञेयं ब्रह्मविज्ञानं तन्निष्ठा तत्र स्थितिस्तयेत्यज्ञाननाशहेतूक्तिः साऽपि न मम समर्थिते(?)त्याह । परं भगवतः पदं क्षेमं नित्यक्षेममोक्षदमिति तद्रूपं भवता दर्शितमिति । क्षेममस्त्रियामित्यमरः । क्षेमो ना प्राप्तरक्षायां मोक्षेऽप्यस्त्री तु मङ्गलम् इति यादवोक्तेर्मङ्गलमिति वा । तच्च मोक्षादिश्रेय इति ॥ ७ ॥

सूत उवाच–

इत्युक्तस्तमनुज्ञाय भगवान् बादरायणिः ।

जगाम भिक्षुभिः साकं नरदेवेन पूजितः ॥ ८ ॥

सत्यधर्मीया

तं परीक्षितम् । नरदेवेन पूजितो नमनादिना ॥ ८ ॥

परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना ।

समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ॥ ९ ॥

पदरत्नावली

अस्पन्दासुर् निश्चलेन्द्रियः, विषयव्यापारशून्येन्द्रिय इत्यर्थः ॥ ९ ॥

सत्यधर्मीया

आत्मनि मनस्यात्मना बलेनात्मानं भगवन्तं समाधाय परं यथा तथा तरुर्निःशाखः । अनेन निष्पत्रशाखे वृक्षे पवनोपपत्तिरित्याभाणकमूलमालापि । तथाऽस्पन्दा अकिञ्चिच्चलना असवो यस्य स सन् । असुशब्द इन्द्रियपरः । दध्यौ परमित्यात्मविशेषणं वा । अस्पन्दासुर्यथा तरुरित्यनेन पूर्वं वासुदेवानुचिन्तयेत्यत्र वाऽसुदेवानुचिन्तयाऽसुदेव-स्यानुचिन्तयेत्यपि कटाक्षितं भवति ॥ ९ ॥

प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः ।

ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः ॥ १० ॥

पदरत्नावली

ब्रह्मणि भूतः ॥ १० ॥

सत्यधर्मीया

प्राक् कूले पूर्वं कूलमनन्तरं प्रासादो यत्र तत्र गङ्गाकूले यथाकथञ्चि-त्तत्प्रतीरे । कूलं कूपे तटाके च सैन्यपृष्ठप्रतीरयोरिति विश्वः । आस्तृते बर्हिंषि तत्सङ्गे उदङ्मुखः । सम्मन्त्र्य मन्त्रिभिश्चैव तथा मन्त्रार्थतत्त्ववित् । प्रासादं कारयामासैकस्थम्भं सुरक्षितमित्याद्यादि-पर्वोक्तिरनुकूलिताऽनेनेति ज्ञेयम् । तत्रानुक्तोऽत्रोक्तोदर्भसन्दर्भोऽपि तत्रानुसन्धेयः । ब्रह्मभूतो ब्रह्मणि स्थितो निस्सङ्गश्छिन्नसंशय आसीनो दध्यावित्यन्वयः । गङ्गा वाऽकूले कूलभिन्नं तस्मिंस्तदपि न नीराद्दूर इत्याह ॥ प्राक्कूल इति । प्राक्कूलं यस्मिंस्तस्मिन्प्रासादादिति वा

॥ १० ॥

तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना ।

हन्तुकामो नृपं गच्छन् ददर्श पथि काश्यपम् ॥ ११ ॥

तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् ।

द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् ॥ १२ ॥

पदरत्नावली

हे विप्राः ॥ ११,१२ ॥

सत्यधर्मीया

हे विप्राः क्रुद्वेन जपोपविष्टपितृगलमृतगरलवत्समासज्जनेन रुष्टेन शृृङ्गिना प्रहितः शापापदेशेन प्रेषित इव । साक्षाद्वेति । नृपं हन्तुकामस्तद्विषविषज्जनेन जीवनमित्येव-मुक्तिः । गच्छंस्तक्षकः पथि मार्गे काश्यपं कञ्चित्कश्यपगोत्रपुत्रं ददर्श ।

अत्रेयती कथाऽनुसन्धेया । दिधक्षुस्तं क्षितिरक्षकं तक्षकश्छद्माच्छादिताकारः पथि रटन्कञ्चित्काश्यपं पश्यन्नुवाच । कुत्रोद्यतोऽसि मुने गन्तुमिति । हे द्विज द्विजतनुजशापोपया-तस्तक्षको भक्षयति परीक्षितमिति किंवदन्ती श्रावं श्रावं तमुज्जीवयितुमहं यामीत्यवादीत् । स च चक्षुश्रवाः श्रुत्वाऽहमेव सः । अये त्वमृषे मद्विषविषमताकृतौ किं त्वं विषमाक्षः किंवा वायुः किं व्योमरोमन्थनं कर्तुमिच्छसि गच्छेत्युक्त्वोवाच च पुनर्मुनिम् । यदि शक्त इति त्वं तत्त्वतस्त्वां मनुषे तर्हि तनुमद्विषविषमममुं वटं यथापूर्वं सन्तमिति तेनाहिनाऽभिहितोहि तमभ्यधात् । पन्नगामुं नगं दश तदा तव दशा विज्ञाता भवतीति । ततः पलाशिनं ददंश दन्दशूकः । सोऽगोऽगाद्भस्मतां तदवगत्य भगवानभिमन्त्र्य यथापूर्वमुर्वीरुहं ततान । ततश्चकितः कितवोऽहिः किं कार्यं तत्र गमनागमनतस्तव वदेत्यवादीदवादीत्सो ह्यर्थार्थ्यहमिति । तद्द्विगुण-द्रविणमहं ते वितरामि तदायुश्च सृतं गतवतोऽपि न तव कीर्तिरथ चार्तिः स्यादत इतो निवर्तस्वेति । ततः स्तुतो गृहीतवित्तो निववृत इति । आदिपर्वण्यास्तिकेये नृपं कुरुकुलोत्पन्न-मित्यारभ्य यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तमेति गर्भीकृत्य, निवृत्ते काश्यपे तस्मिन्समयेन महात्मनीत्यन्तेनैतदुक्तेः ।

तं काश्यपं द्रविणैस्तर्पयित्वा तन्निवर्तने हेतुर्विषहारिणं विषपरिहारकमिति । कामरूप इति द्विजैस्तदाकारैरहिभी राज्ञे रूपाणि रूप्यन्त इति तानि समर्पणीयानीति यावत् । तन्मध्य एकस्मिन्प्रतिच्छन्नो गृहीतसमीहितदेहः । उक्तं च तत्रैव । गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया । फलदं भेदकं नाम प्रतिग्राहयितुं नृपम् । सौतिरुवाच । ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च । तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् । यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् । यद्दत्तं च फलं राज्ञे तत्र कृमिरभूदणुः । कृमिरिति क्रिमिरिति च पर्यायौ । गतम् । ह्रस्वकः कृष्णनयनस्ताम्रवर्णेन शौनकेत्यारभ्य तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् । वेष्टयित्वा च भोगेन विनद्य च महास्वनम् । अदशत्पृथिवीपालं तक्षकः पन्नगोत्तम इत्यन्तेनेतीदमर्थताकृतौ न वैसरण्यं तस्यैतस्येति ज्ञेयम् । यच्च फलं बदर्या इत्यर्थः । युक्तियुक्तयश्च प्रवादोऽधुनाऽपि तन्मध्ये कृमयः किञ्चिदत्रोक्त-भङ्ग्योपलभ्यन्त इति । द्विजरूपप्रतिच्छन्नो यः प्राक् कायस्य यस्य समीपे स कामरूप इच्छोपात्तोक्तरूपकृमिरूपो नृपमदशत् ॥ १२ ॥

ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना ।

बभूव भस्मसात् सद्यः पश्यतां सर्वदेहिनाम् ॥ १३ ॥

पदरत्नावली

अहिगरलाग्निना सर्पविषाग्निना ॥ १३ ॥

सत्यधर्मीया

तद्धालाहलबलमालपति ॥ ब्रह्मेति । अहिगरलाग्निना ब्रह्मभूतस्य राजर्षेर्देहो भस्मसात्तदात्मेति यावत् । सर्वदेहिनां तत्रत्यानां प्राणिनां पश्यतां सतां बभूव ॥ १३ ॥

हाहाकारो महानासीद् भुवि खे दिक्षु सर्वतः ।

विस्मिता अभवन् सर्वे देवासुरनरादयः ॥ १४ ॥

सत्यधर्मीया

सर्वत एवं विदिगादिष्विति वा विस्मिताः । किं वासुदेवदासमाहात्म्यमहो तृणीकृतं मरणमिति ॥ १४ ॥

देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः ।

ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः ॥ १५ ॥

सत्यधर्मीया

नेदुः स्वयमेव । गतम् । तदात्मकवर्षणीयानि ववृषुः । साधु इति वादिन उक्तगतिकम् ॥ १५ ॥

जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् ।

अथाजुहाव सङ्क्रुद्धः सर्पान् सत्रे सह द्विजैः ॥ १६ ॥

पदरत्नावली

कथान्तरमारभते जनमेजय इत्यादिना ॥ १६ ॥

सत्यधर्मीया

ननु परीक्षित्तनयो नात्तविनयो परीक्षको वा । इह सन्तो न वा सन्ति सन्तो वा नानुवर्तन्ते । को वाऽपराधो मुनेरुपरोधेनागच्छतोऽनागस्येति न सर्वत्रोपसरणं युक्तमिति चेन्न । एवमभिप्रायो जनमेजयस्य दिशतु स ऋषिसुतः शापं, दशतु वा स्वयं विशतु पितृपतिपदवीमपि मम पिता । तथाऽपि न विफलः शापो नापि स्वापायो मध्येऽध्वनः पश्यपश्य कश्यपस्यानवने कोदरव्यथा सरीसृपस्य । तदागमनेन मत्पित्रुज्जीवने का हानिरहेरिति । न च द्वयोरेव तत्र सत्त्वात्को वाऽवादीदनेन कश्यपो धनेन निवर्तित इति वाच्यम् । तत्र वटविटपे कश्चिन्नरो वर्तते तेन सह सहसाऽभिपतत्तमिव जीवनमप्युपयातः । स चागत्यामात्यान्प्रति स्वानुभूतां कथामचकथत्ते भूपं प्रत्युपादिशुः । ततो राज्ञा तदवज्ञान इममारेभेऽध्वरमिति ।

यथोक्तमादिपर्वणि । तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव । विचिन्वन्पूर्वमारूढः शुष्काः शाखा वनस्पतौ । नाबुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ । सह तेनैव वृक्षेण भस्मीभूतो नरो ह्यसौ । द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः । तेनागत्य नृपश्रेष्ठ नरेणास्मासु वेदितम् । यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च । एतत्ते कथितं राजन्यथादृष्टं यथा श्रुतमिति । ऋतं च शृृङ्गिणो वाक्यं कृत्वा दग्ध्वा च पार्थिवम् । अयं दुरात्मा तावस्य कश्यपं यो न्यवर्तयत् । यथा गच्छेदयं विप्रो ननु जीवेत्पिता मम । परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः । कश्यपस्य प्रसादेन मन्त्रिणां विनयेन च । स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् । तं सञ्जीवयितुं प्राप्तं राजानमपराजितम् । महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः । द्विजस्य योऽददाद्द्रव्यं मा नृपं जीवयेदिति । उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम् । भवता चैव सर्वेषां यास्याम्यपचितिं पितुरिति । अहल्या गुरुतरुण्या दक्षिणात्वेन याचितमदयन्ती । कुण्डलास्ते तत्प्रतिगृहीत्वा यातस्तदा बिल्ववृक्षे ग्रन्थिं प्रस्थाप्य माध्यान्हिकं कर्तुं गतस्तदाऽयं तक्षको जहार । तेन पुनरानयने बहुश्रमः सम्पादित इति तत्प्रियं कर्तुमित्युक्तिः । वैरिवैरिसहजमित्रमित्या-भाणकात् । तथा ह्याश्वमेधिके पर्वणि । तथा ते कुण्डले बद्ध्वा तदा कृष्णाजिनेन यत् । स कस्मिंश्च क्षुधाविष्टः फलभारसमन्वितम् । बिल्वं ददर्श विप्रर्षिरारुरोह महातरुमित्यादि । आदिपर्व तु । अथोत्तङ्कस्ते कुण्डले भूमौ न्यस्योदकार्थं प्रचक्रम इत्युक्तिः । कार्यकारण-शब्दसाङ्कर्यात्परम्पराधिष्ठानाभिप्रायेण वेति न परस्परविरोधः । अत एतदपराधोऽगाध इति तदुपरोधः सम्भवी । अन्यथा सर्पसत्रेऽन्यस्याधिकाराभावादेव तत्समये तदनुष्ठाने तत्समय-नैरर्थक्यापत्तेः । यथोक्तम् । अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् । सर्पसत्रमिति ख्यातं पुराणे परिपठ्यते । आहर्ता तस्य सत्रस्य त्वं नान्योऽस्ति नराधिप । इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुरिति ।

हन्तैवमस्तु । वस्तुतस्तु भवतु तक्षकधक्षणं निरपराधानां रोषपराधीनधीस्ततानाहीनां हननमिति मतिमान्किमिति परमवशिष्यते शङ्केति चेन्न । परीक्षिति परिक्षीणे तद्बन्धवो मृतप्राया न च सकुण्डल्यखण्डतन्मण्डलेशो येन तद्दाहतोऽपि मृतप्राया भवेयुरिति तदीयदाहसम्भवादिति केचित् । वस्तुतस्तु मातृशापोऽप्यवर्ततेति तथा मतिरुदभूद्भूपस्येति । उक्तं च । प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिता इति । निमित्तं च तत्रोक्तं तत्रैव । ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षति । आज्ञापयामास तदा बालं भूत्वाऽञ्जनप्रभाः । आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा । नान्वपद्यन्त ते वाक्यं ताञ्छशाप भुजङ्गमान् । सर्पयागे वर्तमाने पावको वः प्रधक्षति । जनमेजयस्य राजर्षेरित्यादिनाऽऽदिपर्वोक्तः क्षपणकस्तक्षकः । उत्तङ्कस्य तमिन्द्रो वज्रं प्रेषया-मासेत्यादेस्तत्रैवोक्तेस्तदोत्तङ्कं सहायं कृतवानधुना तन्मार्जयितुं तनुयान्मम सहायमिति तक्षकः सहस्राक्षं शरणमुपयात इति युक्त्यन्तरं चानुसन्धेयम् । तदेतत्सङ्कुच्याह जनमेजय इति । श्रुत्वेत्यनेन भारते इति कथासङ्ग्राह्यतां सूचयति । किञ्च मूर्धाभिषिक्तेनैतादृशसमये न वर्तितव्यमिति सूचयति । द्विजैः सह सत्रे सर्पाञ्जुहाव । तन्नाम जातिभेदश्च ये सर्पाः सर्पसत्रे तु पतिता हव्यवाहने । तेषां नामानीत्यारभ्य योजनायामविस्तीर्णो द्वियोजनसमयता इत्यन्तेनोक्तावनुसन्धेयौ । द्विजाश्च होत्रादयश्चण्डभार्गवादयस्तैः सह ॥ १६ ॥

सर्पसत्रे समिद्धेऽग्नौ दह्यमानान् महोरगान् ।

दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ ॥ १७ ॥

सत्यधर्मीया

भयात्तत्साधनसंविग्नो भीत इन्द्रं शरणं ययौ ॥ १७ ॥

नापश्यत् तक्षकं तत्र राजा पारिक्षितो द्विजान् ।

उवाच तक्षकः कस्मान्न दह्येतोरगाधमः ॥ १८ ॥

पदरत्नावली

तत्र यज्ञे कुण्डाग्नौ ॥ १८ ॥

सत्यधर्मीया

तत्र सत्रवीतिहोत्रे ॥ १८ ॥

तं गोपायति राजेन्द्र इन्द्रः शरणमागतम् ।

तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ १९ ॥

सत्यधर्मीया

हे राजेन्द्र इन्द्रस् तं स्वशरणं गतं तक्षकं गोपायति । तेन तद्गोपनादिना यस्मात्स स्तम्भितोऽतोऽसावग्नौ न पतति । राजेन्द्र इन्द्र इत्यत्र विवक्षाभावाद्भवन्न सन्धि-रभिसन्धित्सितसवानवसानं सूचयति ॥ १९ ॥

पारिक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः ।

सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २० ॥

पदरत्नावली

हे विप्राः पात्यतामिति शेषः ॥ २० ॥

सत्यधर्मीया

हे विप्राः सेन्द्रस्तक्षकः किमित्यग्नौ न निपात्यते । युष्माभिरिति शेषः

॥ २० ॥

तच्छ्रुत्वा जुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे ।

तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ २१ ॥

इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।

बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ २२ ॥

पदरत्नावली

मरुत्वता मरुद्भिर्युक्तेन ॥ ब्रह्मोदिताक्षेपैर् ब्राह्मणोत्कर्षणमन्त्रवचनैः

॥ २१,२२ ॥

सत्यधर्मीया

मरुत्वता मरुतोऽस्य सम्भवन्तीति स तथा । अनेन ते पितृपक्षपातिन इत्यसूचि । हे स्वेह स्वस्मिन्नीहा जीवेच्छा यस्य सः । तत्सम्बुद्धिः पतेति वा । ब्रह्मभिर्ब्राह्मणै-रुदिता आक्षिप्यन्त एभिरित्याक्षेपाः सेन्द्राय तक्षकाय स्वाहेत्यादिकास्तैः । स्थानात्प्रचालितो मन्त्रबलतः ॥ २१-२२ ॥

तं पतन्तं विमानेन सहतक्षकमम्बरात् ।

विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ २३ ॥

तात्पर्यम्

‘स्वसन्तानोद्भवं कीर्त्या योजयन् जनमेजयम् ॥ शक्तोऽप्यशक्त-वद्यष्टुरिन्द्र आसीदुपेक्षकः ॥ एवमेव ऋषीणां च कीर्तिं योजयताऽमुना ॥ कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः ॥ तस्माद्विष्णोरशक्यं न भूतभव्यभवत्स्वपि ॥ न चानिष्टं गुणैरेष पूर्णो नारायणः सदे’ति वामने ॥ २३

॥ इति द्वादशस्कन्धतात्पर्ये पञ्चमोऽध्यायः ॥

नित्यादोषस्वरूपाय गुणपूर्णाय सर्वदा ।

नारायणाय हरये नमः प्रेष्ठतमाय मे ॥ १ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमद्भागवततात्पर्यनिर्णये द्वादशस्कन्धः समाप्तः ॥

॥ श्रीमद्भागवततात्पर्यनिर्णयः सपूर्णः ॥

पदरत्नावली

आङ्गिरसो ऽङ्गिरोग्रोत्रप्रभवः । किमिति अत्रेन्द्रेणोपेक्षाऽकारि स्वपाते, न हीन्द्रस्य ब्राह्मणेभ्योऽभिभवो भवेद् देवोत्तमत्वादिति शङ्का न कार्या । जनमेजयस्य स्वसन्तानो-द्भवत्वेन तत्प्रीतिकामेनेन्द्रेणेयमुपेक्षा कृता । ‘‘स्वन्तानोद्भवं कीर्त्या योजयन् जनमेजयम् । शक्तोऽप्यशक्तवद् यष्टुरिन्द्र आसीदुपेक्षकः । एवमेव ऋषीणां च कीर्तिं योजयताऽमुना । कृतोपेक्षा महेन्द्रेण किमु विष्णुः परात्परः । तस्माद् विष्णोरशक्यं न भूतभव्यभवत्स्वपि । नचानिष्टं गुणैरेष पूर्णो नारायणः सदा’’ इति वचनात् ॥ २३ ॥

सत्यधर्मीया

अम्बरात्पतन्तम् । नन्विदमनुचितमुच्यते । इन्द्रस्यैतदाद्यत्युत्तमस्य कथमेतन्मात्रमन्त्रतः पातोन्मुखतेत्यतः कृपात एवेन्द्रादिव्यापृतिरिति मानाननेनाह ॥ स्व-सन्तानेति । स्वांशार्जुनप्रपौत्रत्वात्स्वसन्तानोद्भवं जनमेजयं कीर्त्या योजयन् शक्तोऽप्य-शक्तवदुपेक्षक उदासीन आसीत् । अपि किं विष्णुरुपेन्द्र उपेक्षक आसीदिति किं वक्तव्यम् । न वक्तव्यमेव । एतद्विषयेऽप्यक्षुण्णं स्वसन्तानभवत्वं जनमेजयस्येत्यत्रापि तदन्वेति । जिष्णुपाठोऽपि जिष्णुत्वदः । जिष्णुर्लेखर्षभः शक्र इत्यमरः । जी जयेऽभिभवैव । ग्लाजिस्थश्चेति ग्स्नुः । जिष्णुर्ना वासवेऽर्जुने जित्वरे वाच्यत्वादिति भानुः । एवमेवर्षीणां चण्डभार्गवादीनां तान्कीर्त्या योजयता हरिहयमपीह यतनोन्मुखं चक्रुरिति यशसाऽमुना महेन्द्रेणोपेक्षा कृता । यदैवं तदा परात्पर इन्द्राद्युत्तमो विष्णुः सर्वशक्तो हरिरित्युक्त्वोपसंहरति ॥ तस्मादिति । भूतभव्यभवत्स्वपि विष्णोरशक्यं न तथाऽनिष्टं च न । एष नारायणः सदा गुणैः पूर्णः । समापितै तद्ग्रन्थः श्रीमदाचार्यवर्योऽन्तेऽपि तमपरोक्षीकृत्य नमति ॥ नित्येति ॥ आङ्गिरसोऽ-सुनन्तोऽङ्गिरःशब्दो निपातितोऽङ्गिरसोऽपत्यम् । ऋष्यन्धकेत्यण् । जीव आङ्गिरस इत्यमरः । आस्तीकवरवितरणतस्तद्याञ्चया चाध्वरोपरमो जनमेजयेन कृत इति भारतोक्तं चानुसन्धेयम् । बृहस्पतिः प्राह । एतद्धननायोग्य इन्द्र इत्यप्याह । राजानन्तमित्येकं पदम् । राज्ञा जनमेजयेन अनन्तस्तं विलोक्य । राट्सशब्दतृतीयैकवचनान्तं सद् भिन्नं पदं वा ॥ २३ ॥

नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।

अनेन पीतममृतमथायमजरामरः ॥ २४ ॥

पदरत्नावली

अथ तस्मात् ॥ २४ ॥

सत्यधर्मीया

हे मनुष्येन्द्र अयं सर्पराट् त्वया वधं नार्हति । तत्र हेतुमाह ॥ अनेनेति ॥ अमृतं पीतम् । अनुवादेन वादोऽपि फलभागेन वासुकिमिति सूचितममृतवितरणं वासुकेस्तदनुबन्धेन पीतिरेतस्यापि पीयूषस्येत्यूहनीयः । अथैतस्मादजरामरश्चेति ॥ २४ ॥

जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा ।

राजंस्तेन विना नान्यो प्रदाता सुखदुःखयोः ॥ २५ ॥

पदरत्नावली

मरणं देहवियोगलक्षणम् । गतिः परलोकावाप्तिलक्षणा । स्वेन स्वतन्त्रेण हरिणैवोद्बोधितेन स्वानुष्ठितेन कर्मणा । तेन स्वकर्मोद्बोधकेन हरिणा विना सुखदुःखयोः प्रदाता अन्यो नास्ति ॥ २५ ॥

सत्यधर्मीया

किञ्चित्तद्विरत्योपरममनीषाजननाय जनमेजयं कौशिकदैशिक उपदिशति ॥ जीवितमिति । जन्तोर्जीवितं मरणं तथा गतिः शुभाशुभभवनावस्थितिश्च स्वेन । अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यत इति तृतीयतात्पर्योक्तेः । परःस्वो हरिरुद्दामः । स्वे विष्णौ रमते यस्मात्स्वरो वायुरिति छान्दोग्यभाष्ये स्वे विष्णाविति बृहद्भाष्ये चोक्तेः । स्वेन स्वतन्त्रेण हरिणोद्बोधितेन कर्मणा शुभेनाशुभेन तत्समाहाररूपेण च भवन्तीति शेषः । सुखदुःखयोः प्रदाता । दातारोऽमुख्याः सन्ति परन्तु मुख्यस्त्वेक इति ध्वनयितुं प्रेति व्यशिषद्दातारम् । तेन हरिणा विनाऽन्योऽस्तीति काकुर् नास्त्येवेत्यर्थः । न दाता सुखदुःख-योरिति क्वचित्पाठस्तत्र सरलोऽर्थः ॥ २५ ॥

सर्पचोरादिवह्न्यम्बुक्षुत्तृड्व्याध्यादिभिर्नृप ।

पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म च ॥ २६ ॥

पदरत्नावली

कर्मणः कारणत्वे सर्पादिना मृतो विष्णुमित्र इति कथमुपपद्यत इत्याशङ्क्य तेऽपि कर्म निमित्तीकृत्य कारणमिति भावेनाह सर्पेति । आदिशब्देन वृक्षादिभ्यः पतनं गृह्यते । सुखादिभोगहेतुत्वाच्च कर्म प्रधानकारणमित्याह भुङ्क्त इति ॥ २६ ॥

सत्यधर्मीया

पितुरपि तु मरणदुरन्तःकरणतां भजन् जनमेजय तदाद्या अपि भगव-दिच्छया भवन्ति तत्कर्म च तत्र सहकारीति तदवर्जनीयमिति शोकः किंफल इत्यभिप्रेत्य वक्ति ॥ सर्पेति । प्रस्तुतत्वात्तदाद्युक्तिः । आदिनो राक्षसाः प्रोक्ता इति तात्पर्योक्तेर् आदिनः राक्षसाः । मध्ये आदिशब्दः कुत इति शङ्कानवकाशः । आधिर्मनोव्यथा पञ्चत्वं मृतिम् । गतम् । ऋच्छते ऋच्छेति । कर्म स्वकृतं जन्तुर्भुङ्क्ते । गर्भेऽप्यर्भकं तव पितरमपि योऽपीपलल्लप तस्य कियदिदं दन्दशूकविषविषमीकरणं तथाऽपि तत्कर्मानुसारिस्वसङ्कल्पो नाल्पीकर्तुं शक्य इत्युपेक्षणीयमिति जातमिदं जातस्य हीत्यादेर्न भूपतापः सम्पादनीय इति बोधयितुमिदं वाङ्मुखं वाक्पतेरिति तात्पर्यं ज्ञेयम् ॥ २६ ॥

तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् ।

सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥ २७ ॥

पदरत्नावली

फलितमाह तस्मादिति । संस्थीयेत समाप्तं भवतु । आभिचारिकं जनोपद्रवकारकं कर्म । एकस्यापराधेनानपराधिबहुजननाशेन पापमेव स्यादिति भावेनाह सर्पा इति । ननु तज्जातित्वात् तक्षकापरध एषामपराधस्तस्मादनागसो न स्युः, एकः पापानि कुरुते फलं भुङ्क्ते महाजन इत्याशङ्क्य तक्षकस्याप्यपराधो नास्ति दैवेन तद्दंशनेन स्वकृतकर्मपूर्वकेण परीक्षितो मरणस्य क्लृप्तत्वादिति भावेनाह जनैरिति ॥ दिष्टं दैवकृतं कर्मफलम् ॥ २७ ॥

सत्यधर्मीया

यदर्थमत्यर्थमियान्नयोपदेशस्तमुपदिश्योपसंहरति ॥ तस्मादिति । आभिचारिकं नीलचैलादिधारणेन भूतहतिहेतुतयाऽऽरब्धत्वात् । सत्रं यज्ञः संस्थीयेत स्थितं स्याद्विरमत्विति यावत् । यद्यपि मातुरपराधतस्तदुपरोधस्तथाऽपि त्वद्विषये न विषभृद्भिराचार्यपराध इतरैरित्यनागसो दग्धा इत्युक्तिः । सामान्यार्थान्तरन्यासमुखेन तत्र हेतुं वदंस्तमप्याश्वासयति ॥ जनैरिति ॥ हि यतो जनैर्दिष्टं स्वस्वदेवातिसृष्टं भुज्यते । अनेन तक्षकोऽपि न त्वत्पितृधक्षकः किन्तु दैवमेव तत इतरे सरीसृपा अनपराधिन इति किं वक्तव्यमिति भावः

॥ २७ ॥

इत्युक्तः स तथेत्याह महर्षेर्मानयन् वचः ।

सर्पसत्रादुपरतः पूजयामास वाक्पतिम् ॥ २८ ॥

पदरत्नावली

इत्यादियुक्तिपूर्वकेण वचसा । वाक्पतिं बृहस्पतिम् । वाग्वै बृहतीति श्रुतेः । तद्बृहतोः करपत्योश्चोरदेवतयोरिति सुट् तलोपश्च ॥ २८ ॥

सत्यधर्मीया

महर्षेर्बृहस्पतेः । उक्तं चादिपर्वणि । ब्रह्मोवाच । जरत्कारु जरत्कारुं यां भार्यां समवाप्स्यसि । ततो जातो द्विजः शापान्मोक्षयिष्यति पन्नगानित्यारभ्य ततो राजाऽब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् । काममेतद्भवत्वेवं यथाऽऽस्तीकस्य भाषितम् । समाप्यतीदं कर्म पन्नगाः सन्त्वनामयाः । प्रीयतामयमास्तीक इत्यन्तेन । सर्पसत्रादुपरतो वाक्पतिं बृहस्पतिं पूजयामास ॥ २८ ॥

सैषा विष्णोर्महामाया बाध्यबाधकलक्षणा ।

यया मुह्यत्यसावात्मा भूतेषु गुणवृत्तिभिः ॥ २९ ॥

पदरत्नावली

सुखादेर्जीवादृष्टमेव मुख्यं कारणं नान्यदित्याशङ्कां परिहरति सैषेति । या अदृष्टो द्बोधिका सैषा महामाया महदपरिमितं माहात्म्यं तस्य विष्णोः । तस्मान्न दुर्गाऽत्रोच्यते । बाध्ये स्थितत्वाद् बाध्यात्मत्वेन जानाति । सत्वादिगुणवृत्तिभिः कारणैः, विषयवृत्तिभिर्व्यापारैरिति शेषः ॥ २९ ॥

सत्यधर्मीया

अदृष्टमेव मुख्यकारणमिति मतमसम्मतमितीह बोधयितुं माधवमाहात्म्यमाह ॥ सैषेति ॥ दैवोज्जीविकैषा बाध्यबाधकलक्षणा । उपपादितं च सप्तमतात्पर्ये । बाध्यादिस्थो हरिर्नित्यमित्यादिनाऽनुसन्धेयम् । महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यत इत्यादेर्भागवतीच्छा । ययाऽसावात्माऽभूतेषु स्वकीयत्वेन निदर्शनैरननुभूतेषु कार्येषु गुणवृत्तयो रजस्तमआदिगुणव्यापारास्ताभिर्मुह्यति मोहमहं कर्तेति प्राप्नोति । भूतेषु दारदारकादिष्विति वा मुह्यति मदीया इति ॥ २९ ॥

न यत्र दुर्भाव्यतया विराजते मायात्मवादेऽसकृदात्मवादिभिः ।

न यद्विवादो विविधस्तदाश्रयो मनश्च संकल्पविकल्पवृत्ति यत् ॥ ३० ॥

पदरत्नावली

मुह्यत्यात्मा परमात्मेति शङ्कामपाकरोति नेति । आत्मवादिभिर् उपनिष-द्विचारचतुरैः पुरुषैर् असकृद् बहुवारमात्मवादे परमात्मविचारे कृते सति माया मोहनशक्तिर्यत्र हरौ न विराजते मोहकत्वेन न प्रवर्तते अन्यैर्दुर्विभाव्यतया स्थिता । उपक्रमादितात्पर्यलिङ्गैः क्रियमाण एव विचारो निर्णायको न तु यथाप्रतीतार्थ इत्याह नेति । विविधो यद् विवादस् तदाश्रयो ब्रह्मविषयो न भवति । यद् वाचाऽनभ्युदितमिति श्रुतेः । तर्हि मननसमर्थस्य मनसो विषयत्वं स्यादत्राह मनश्चेति । चोऽप्यर्थः । मनोऽपि यद् ब्रह्म न विषयीकरोति । यन्मनसा न मनुते इति श्रुतेः । सङ्कल्पविकल्पाभ्यां वृत्तिर्यस्य तत् तथा । अनेन मनसोऽस्थिरत्वेन विषयीकरणसामर्थ्यं नास्तीति सूचितम् । मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरतीति श्रुतेर् वचोविषयो नेति किं वक्तव्यमिति कैमुत्यन्यायोऽप्यदर्शि । अत्र वागादिशब्देन तदभिमानिदेवता व्यपदिश्यन्ते । तासां जडत्वेन प्रवृत्त्यनुपपत्तेः ॥ ३० ॥

सत्यधर्मीया

विष्णुर्महामायावैभवं तन्मुख्यचिन्हप्रदर्शनेन दर्शयति ॥ नेति । आत्म-वादिभिः स्वाम्यस्तीति वादो येषामस्तीति तैः । आत्मवादे वासुदेवविचारे प्रस्तुते । न यादृच्छिकः स इति शंसति ॥ असकृदिति । यस्य दुर्विभाव्यतया विभावयितुं तर्कयितुमशक्यतया यत्र भगवति माया प्रकृतिः स्वकार्यकर्त्री सती न विराजते नानावादिभिर्नानाप्रकारो विवादः प्रवृत्यते चेदप्युपक्रमादितात्पर्यनिर्णायकैर्लिङ्गैर्विचारे स न सम्भवतीत्याह ॥ न यदिति । यस्मिन्विषये विवादो यद्विवादः । विविधस्तत्तद्दुर्मत इति बहुप्रकारस्तदाश्रयो न । स आश्रयो यस्य स नेति । अलग्नकः स विवाद इति यावत् । मनसः सकलविषयग्राहकस्यापि योऽविषयः स कथं भवेद्विवादविषय इति भाषते ॥ मनश्चेति । यन्मनः, सङ्कल्पविकल्पात्मके वृत्ती यस्य तत् । यद्विषये न प्रवर्तते यन्मनसा न मनुते । यतो वाचो निवर्तन्तेऽप्राप्य मनसा सहेत्यादेः । दुर्विभाव्यतयेतरत्र हरौ न विराजत इत्यन्वयो वा । अनेनैव वचोविचोदितता नास्तीत्युक्तप्रायैवेति कैमुत्यं सूचितम् ॥ ३० ॥

न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितः स्वयम् ।

तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन् विरमेत तन्मुनिः ॥ ३१ ॥

पदरत्नावली

सृज्यं विश्वं यत्र न वर्तते, बाधकतयेति शेषः । उभयोर्देवासुरयोः परं विलक्षणम् आनन्द(दुःख) लक्षणं श्रेयः सृजता ददता येन वैषम्यनैर्घृण्ये नाप्येते इति शेषः । त्रिभिः सत्वादिगुणैर्धर्मार्थकामैर्वा अन्वितो जीवः स्वयं च यत्र न कञ्चन विशेषमापादयतीति शेषः । यस् तदेतद् ब्रह्म जानाति तन्मुनिः स ज्ञानी षडूर्मीन् निषिध्य विरमेत, कृत्यादिति शेषः । कीदृशं ब्रह्म । उत्सादितबाध्यबाधकम् उत्सादितौ बाध्यबाधकौ येन तत् तथा ॥३१॥

दुर्घटभावदीपिका

सृजतारुद्रादि सर्वस्रष्ट्रा विरिञ्चेन सहितं सृज्यं रुद्रादिकं यत्र ब्रह्मणि नास्तीति न किंत्वस्त्येव । उभयोः श्रीभूदेव्योर्यद्ब्रह्म परममुत्तमं साक्षाच्छ्रेयः फलं न तु फलसाधनत्वेन फलं येन ब्रह्मणा जीवश्च त्रिभिः सत्त्वादिगुणैरन्वितो भवति । यद्ब्रह्म तद् व्याप्तं यद्ब्रह्म उत्सादितबाध्यबाधकम् उत्सादितं बाध्यानामसुरैर्बाध्यानां देवानां बाधकं न तदुत्सादितबाध्यबाधकं तदेतच्च तस्मिन्नेतस्मिन्नेव ब्रह्मणि मुनिरूर्मीन् अहंकारादीन्निषिध्य परित्यज्य विरमेत विशेषेण रमेतेति । एतेन सृज्यं यत्रास्तीति वक्तव्यम् । यत्र नास्तीति कथनमयुक्तमिति चोद्यस्यानवकाशः । सृज्यं यत्र नेत्यत्र काकुस्वरमङ्गीकृत्य सृज्यं यत्र नास्तीति न किंत्वस्त्येवेत्यर्थस्योक्तत्वात् । एतेनैव तन्मुनिरिति तच्छब्दस्तदेतदिति तच्छब्देन पुनरुक्त इति दूषणमपास्तम् । तदेतदिति तच्छब्द-स्तनोतेरूपमङ्गीकृत्य व्याप्तमित्यर्थस्योक्तत्वात् । एतेनैव तस्मिन्विरमेतेति वक्तव्यम् । तदेतद्विरमेतेति कथनमयुक्तमिति दूषणं निराकृतम् । तस्मिन्नेतस्मिन्निति वक्तव्ये तदेतदिति व्यत्ययः स्वातन्त्र्ये व्यत्यय इति वचनानुसारेण भगवत्स्वातन्त्र्यज्ञापनार्थमित्यभ्युपगमात् ॥ ३१ ॥

सत्यधर्मीया

सृज्यं सृजता येनोभयोरिह परत्र चेत्युभयोः । यत्र जीवस्य सङ्घे परं श्रेयो भवति स जीवस्त्रिभिर्गुणैरन्वितः स्वयं तद्ब्रह्म तैर्नान्वितम् । यद्यत उत्सादितबाध्यबाधक-मुत्सादितौ बाध्यबाधकौ येन तत् । बाध्यबाधकत्वे स्वाधीन इति तदुत्सादकम् । यद्वा यदा यदा देवाद्याः सन्तो बाध्या दैतेयैस्तदा तदा तेषां बाधकास्ते दैत्या उत्सादिता येनेति तत् । ऊर्मीन् षट् । निषिध्य । तत्तत्र । विरमे विशेषतो वक्षआद्याश्रिता रमा यस्य तस्मिन्मुनी रमेत । अतः सर्वत्र व्याप्तश्चासौ स च व्याप्तं च तत्तच्चेति हरिर्ब्रह्म तज्ज्ञानीत्यततन्मुनिरिति तदर्थो ज्ञेयः । यद्ब्रह्म तन्मुनिस्तज्ज्ञानी । ऊर्मीञ्जन्मादीन् षण्णिषिध्य तुच्छीकृत्य विरमेत् । संसारादिति शेषः । उभयोः सदसतोः सृज्यं देयं श्रेयस्तथा परं तद्विलक्षणमश्रेयश्च सृजता येन मुख्येन यत्र च तेन तैस्त्रिभिरन्वितो जीव इत्यन्वयो वा ॥ ३१ ॥

परं पदं वैष्णवमामनन्ति यन्नेतिनेतीत्यतदुत्सिसृक्षवः ।

विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः

(हृदौपगुह्यापुरमुं पदे पदे) ॥ ३२ ॥

पदरत्नावली

किं नामधेयं ब्रह्मेति तत्राह परं पदमिति । यन्नेतिनेतीत्यतदुत्सि सृक्षवो विचक्षणा यदेवं स्थितं तद् वैष्णवं पदमामनन्ति वदन्तीत्यन्वयः । कीदृशम् । तस्मिन्नेव समाहितैः करणैरवसितं सम्यग् वशीकृतम् ॥ ३२ ॥

सत्यधर्मीया

यन्माया जगन्मोहिनी न तद्वैष्णवं पदमतन् न तद् व्याप्तभगवद्भिन्नं स आत्मा नेति नेतीति इदं ब्रह्म नेतीत्युत्सिसृक्षवस्त्यक्तुमिच्छावन्तः । स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो जयतादशेष इत्यादेः । कीदृक् तत्पदमित्यत आह ॥ विसृज्येति । दौरात्म्यं विषयविषममनस्कतां विसृज्य त्यक्त्वा । अनन्यसौहृदाः । अन्येषु भगवद्भक्तेषु सौहृदं येषां ते न तेऽनन्यसौहृदाः । समाहितैरेकतानीकृतैरिन्द्रियैः सह हृदोपगृह्यालिङ्ग्य विचार्येति यावत् । अवसितं निषेधशेषत्वेन निर्णीतं परमित्यामनन्तीत्यन्वयः ॥ ३२ ॥

तदेतदधिगच्छन्ति विष्णोर्यत् परमं पदम् ।

अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ ३३ ॥

पदरत्नावली

अत्र प्रमाणमाह तदेतदिति ॥ ३३ ॥

दुर्घटभावदीपिका

देहगेहजं देहगेहाभ्यां जातम् । देहगेहविषयकमिति यावत् । अहं ममेति यज्ज्ञानं तेन जन्यं यद्दौर्जन्यं दुर्जनत्वं येषां नास्ति ते विष्णोर्यत्परमं पदं तदेतदधिगच्छन्तीति । एतेनाहं ममेत्येतदनन्वितमिति दूषणं परास्तम् । यज्ज्ञानमित्यादेः शेषेणान्वयस्योक्तत्वात् ॥ ३३ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां

द्वादशस्कन्धे पञ्चमोऽध्यायः ॥ १२-५ ॥

सत्यधर्मीया

एवंभूता एव तद्गच्छन्तीत्याह ॥ तदेतदिति । येषामहं ममेदमिति दौर्जन्यं देहगेहे च जायत इति तत् । क्रमादन्वयः । सप्तम्यां जनेर्डः । नास्ति ते । यदेतद्विष्णोस्तत्परमं पदमधिगच्छन्ति प्राप्नुवन्ति । तदेतद्विष्णोः परमं पदमिति वैशकलित्येन श्रुतिप्रतीकग्रहणमिति केचित् ॥ ३३ ॥

अतिवादांस्तितिक्षेत नाव(मंस्येत)मन्येत कञ्चन ।

न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ३४ ॥

पदरत्नावली

अतिवादान् दुष्टवचनानि ॥ ३४ ॥

सत्यधर्मीया

अतिवादान्वादानतिक्रान्ता अतिवादा अव्यवहार्यास्तांस्तितिक्षेत सहेत । कञ्चन कमपि वा नावमंस्येत नावमन्येत । इमं साक्षिसिद्धनश्वरत्वकं देहमाश्रित्य केनचिदपि वैरं न कुर्वीत । तदपारणेन मरणसम्भवादफलं तद्वैरं न कुर्यादित्याशयः ॥ ३४ ॥

नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे ।

यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ॥ ३५ ॥

॥ इति श्रीमद्भागवते द्वादशस्कन्धे पञ्चमोऽध्यायः ॥ १२-५ ॥

पदरत्नावली

श्रेयः प्राप्तौ तस्मादिदं प्रकृष्टसाधनमित्याशयेनाह नम इति । श्रीकृष्ण-चरणारविन्दप्रणतिस्मरणपूर्वकं भागवतपुराणलक्षणसंहिताश्रवणमननादिकं मुख्यसाधनमित्यर्थः

॥ ३५ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्यां द्वादशस्कन्धस्य पञ्चमोऽध्यायः ॥ १२-५ ॥

सत्यधर्मीया

सूतः शौनकादीन्प्रति स्वैतत्संहिताध्ययनमेतत्प्रसादासादितमिति तन्नमन् शंसति ॥ नम इति । यत्पादाम्बुरुहयोर्ध्यानादहमिमां संहितामध्यगां तस्मादकुण्ठमेधसे । गतम् । भगवते कृष्णाय नमः । इयं संहितात्वेन न सम्प्रतिपन्नेत्यतोऽप्याह ॥ संहितामध्यगामिति

॥ ३५ ॥

॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां

द्वादशस्कन्धे पञ्चमोऽध्यायः ॥ १२-५ ॥