०४ चतुर्थोऽध्यायः

कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप

॥ अथ चतुर्थोऽध्यायः ॥

श्रीशुक उवाच–

कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप ।

कथितो युगमानं च शृणु कल्पलयावथ ॥ १ ॥

पदरत्नावली

भगवत्कटाक्षप्रेक्षणाक्षिप्तकल्पप्रलयप्रकारं तत्स्वरूपं भागवतप्रवृत्तिं च कथयत्यस्मिन्नध्याये । तत्रादावुक्तमनूद्य वक्तव्यं प्रतिविधत्ते काल इति । कथितस् तृतीये स्कन्धे । अथ कल्पप्रलययोरपि कालाधीनत्वेन तत्स्वरूपश्रवणानन्तरम् ॥ १ ॥

सत्यधर्मीया

किञ्चित्प्रपञ्चितमनूद्य युगानि युगधर्मांश्च मानं प्रलयकल्पयोरित्युत्तरय-त्यत्राध्याये । तत्रादौ शृृण्विति वाण्या तं प्रोत्साहयन्वक्तव्यं प्रतिजानीते ॥ काल इति । द्विपरार्धा-वधिर्द्वौ परार्धौ समौ यस्य स द्विपरार्धः सोऽवधिर्यस्य स चतुराननद्विपञ्चाशत्संवत्सरात्मा शतशरदात्मेति यावत् । कथितो विदुरमैत्रेयसंवादे । स कालः परमाणुर्वै यो भुङ्क्त इत्यारभ्य तृतीये द्वादशाध्याये । अथ कालनिरूपणान्तरं युगमानं तत्प्रमाणं, चत्वारि त्रीणि द्वे वैकं वृत्तादिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि चेति युगमानं च कथितम् । कल्पश्च लयश्च तौ शृृणु । यद्यपि प्रलयकल्पयोरित्यनुरोधेनात्र लयकल्पाविति वक्तव्यम् । भगवन्मात्र-स्वामिकत्वाद्बीजाङ्कुरपरम्पराविश्रान्त्यभावात्कथं कथनेऽपि किमित्येवमुक्तिरिति ज्ञेयम् ॥ १ ॥

चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते ।

स कल्पो यत्र मनवश्चतुर्दश विशां पते ॥ २ ॥

पदरत्नावली

यत्र दिने ॥ २ ॥

सत्यधर्मीया

एतन्निर्देशक्रमेणादौ कल्पस्वरूपं निरूपयति ॥ चतुर्युगेति । चतुर्णां युगानां विशेषणसमासः । सहस्रं ब्रह्मणो दिनमुच्यते । यत्र युगे चतुर्दशमनवः सम्भवन्ति स कल्प उच्यते ॥ २ ॥

यदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।

त्रयो लोका इमे यत्र कल्पन्ते प्रलयाय हि ॥ ३ ॥

पदरत्नावली

यस्य दिनस्यान्ते । ब्राह्मी ब्रह्मसम्बन्धिनी । यत्र रात्रौ ॥ ३ ॥

सत्यधर्मीया

यदन्ते यस्य दिनस्यान्ते ब्राह्मी ब्रह्मसम्बन्धिनी रात्रिरुद्राहृता यत्र रात्रौ त्रयो लोकाः प्रलयाय कल्पन्ते ॥ ३ ॥

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् ।

शेतेऽनन्तासनो विश्वमात्मसात्कृत्य आत्मभूः ॥ ४ ॥

द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।

तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥

पदरत्नावली

यत्र प्रलये । आत्मसात् कृत्य आत्मनि निधाय ॥ सप्तप्रकृतयः महदहङ्कारौ, आकाशादिपञ्चभूतानि च ॥ ४,५ ॥

सत्यधर्मीया

एष प्रलयो नैमित्तिको निमित्तात्कस्माच्चिज्जात इति नैमित्तिकः । तदेव निमित्तं वक्ति ॥ यत्रेति । विश्वसृग्विश्वं सृजतीति विश्वसृङ्नारायणो विश्वमात्मसात्कृत्य सोदराधीनं विधायात्मनि निधायाऽनन्तासनः । अनन्तासन इति सप्तमीपाठोऽनन्तरूप आसन इत्यर्थः । शेते । आत्मभूः स्वयम्भूश्च शेते । एतदुभयशयननिमित्तकोऽयं प्रलय इति नैमित्तिक इत्यर्थः । कृत्य आत्मभूरित्यत्राभिसन्धिर्नेति न सन्धिः । आत्मसात्कृत्य चात्मभूरिति पाठः सरलः ।

ननु सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जना इति गीतायां सहस्रयुगपर्यन्तत्वमन्हो रात्रेश्च पृथक् पृथग्युगसहस्रान्तामित्युक्तेरत्र चतुर्युगसहस्रन्तु ब्रह्मणो दिनमुच्यत इति । तथा चतुर्युगसहस्राणि दिनमेकं पितामह इत्यत्राप्युक्तेर्विरोध इति चेत् । गीताभाष्यप्रमेयदीपिकयोः सम्यग्गीता व्याख्यातेति न तदेतद्वैसंवाद्यम् । भिन्नविषयत्वात् । तथा हि भाष्यम् । सहस्रशब्दोऽनेकवाची । ब्रह्मपरम् । सा विश्वरूपस्य रजनीत्युक्तेः । द्विपरार्धप्रलय एवात्र विवक्षितः । अव्यक्ताद्व्यक्तयः सर्वा इत्युक्तेः । उक्तं च महाकौर्मे । अनेकयुगपर्यन्तमह-र्विष्णोस्तथा निशा । रात्र्यादौ लीयते सर्वमहरादौ च जायत इति च । यः स सर्वभूतेष्विति वाक्यशेषाच्चेति टीकायां च । अत्र सहस्रशब्दो दशशतवाचीति निरासायाह ॥ सहस्रेति । बहुशब्दपर्यायोऽयम् । न तु प्रसिद्धार्थः । विरिञ्चाहोरात्रयोः प्रसिद्धसहस्रचतुर्युगपर्यन्तत्वात्कथ-मेतदित्यत आह ॥ ब्रह्मेति । तथा च द्विपरार्धप्रलयस्यादिसृष्टेश्चात्र विवक्षितत्वादुक्तं युक्तम् ।

ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तस्तत्कथं तत्परमेतदित्यत आह ॥ सेति । सा नित्या पारवस्था परिपूर्णरूपस्यापि हरे रजनीत्यर्थः । अनेनाहरपि सिद्धम् । भवेदेतद्यद्यत्र द्विपरार्धप्रलयस्यादिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह ॥ द्विपरार्धेति । एवमादिसृष्टि-श्चेत्यपि ग्राह्यम् । न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः । आगमान्तर-सम्मतेश्चैवमित्याह ॥ य इति । न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां नाशः । नापि विरिञ्चस्य पञ्चभूतानां नाशेऽप्यविनाशित्वमिति भाव इति । वाक्यान्तरमप्यनेनैवोक्तगतिकमिति प्राकृतिकं लयमालपति ॥ द्विपरार्ध इति । परमेष्ठिनो ब्रह्मणो द्विपरार्धे शतसंवत्सरकालेऽतिक्रान्ते तदा सप्तप्रकृतयो भूतपञ्चकं महत्तत्त्व महङ्कारतत्त्वं चेति सप्तप्रकृतयः प्रकृतिकार्यत्वान्मुख्यतस्तत्त्वेनोक्तिः प्रलयाय कल्पन्ते ॥ ५ ॥

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।

आण्डकोशस्तु सङ्घातो विघात उपसादिते ॥ ६ ॥

पदरत्नावली

यत्र प्रकृतिप्रलये । सङ्घातश् चतुर्विंशतितत्वसमूहात्मकः । प्रलयप्रकारमाह विघात इति । विघाते प्रलये उपससादिते आसन्ने सति ॥ ६ ॥

सत्यधर्मीया

यत्रैतद्रूपप्रकृतिप्रलये सङ्घातश्चतुर्विंशतितत्त्वसमूहात्मकोऽण्डकोशो लीयते एषः प्राकृतिकः प्रलय इत्यन्वयः । साम्मुग्ध्येनाभिधाय विविच्य वक्ति ॥ विघात इति विघाते नाशे प्राप्ये ॥ ६ ॥

पर्जन्यः शतवर्षाणि भूमौ राजन् न वर्षति ।

तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ।

क्षयं यास्यन्ति शनकैः काले नोपद्रुताः प्रजाः ॥ ७ ॥

(अयमर्धपादः भाग्यनगरमुद्रापितकोशे नास्ति ॥ वैष्णवपाठे गृहीतः ।

व्याख्यानं विजयध्वजभट्टारकैः काले नेति पदेन ।)

पदरत्नावली

कल द्रवण इति धातोः कालेन द्रवणहेतुना ॥ ७ ॥

सत्यधर्मीया

शतवर्षाणि पर्जन्यः प्रसिद्धः परस्य सस्यादेर्जनकेन प्रेरितः सन्भूमौ न वर्षति यदा तदा निरन्नेऽन्नशून्ये लोके सति निरन्नेऽन्नाभावे सतीति वा । अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः कालेन संहर्त्रा हरिणोपद्रुताः प्रजाः शनकैरप्रबलं प्रबलः कवलयति । सोऽपि स्वप्रबलकवलितो भवतीति शनकैरिति क्षयं यास्यन्ति ॥ ७ ॥

सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ।

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ॥ ८ ॥

पदरत्नावली

सामुद्रं समुद्रस्य रसं जलं दैहिकं देहस्य विद्यमानं रसं रेतोलक्षणं वीर्यं भूमे रसं तिक्तादिलवणम् ॥ ८ ॥

सत्यधर्मीया

सामुद्रं समुद्रसम्बन्धिनं दैहिकं देहगतमब्भागगं रसं रेतोलक्षणं वा भौमं भूसम्बन्धिनं रसं वा । सांवर्तकः प्रलयकालिको रविर्घोरै रश्मिभिः पिबते पिबति । सर्वं यथा पीतं तथा न मुञ्चति नीरदद्वारा नोत्सृजति ॥ ८ ॥

ततः सांवर्तको वह्निः सङ्कर्षणमुखोत्थितः ।

दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ ॥ ९ ॥

उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ।

दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ॥ १० ॥

पदरत्नावली

सांवर्तकः प्रलयकालीनः । सत्वशून्यान् प्राणिरहितान् भूविवरान् पातालादीन् ॥ ९ ॥

सत्यधर्मीया

ततः सांवर्तको वह्निः सङ्कर्षणमुखोत्थितोऽनिलवेगोत्थोऽनिलेन मातरिश्वना वेग उत्थो यस्मिन्स सन् प्रायः प्राणिरहितान्भूविवरान् भुवो विवराणि बिलानि येषु तान्य-तलादीन्दहति । सुषिरं विवरं बिलमित्यमरः । वह्निसूर्ययोः शिखाभिरुपर्यधश्चेति समन्ता-द्दह्यमानमण्डं दग्धगोमयपिण्डवद्विभाति ॥ ९,१० ॥

ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ।

परः सांवर्तको वाति धूम्रं खं रजसा वृतम् ॥ ११ ॥

पदरत्नावली

रजसा वृतं खं धूम्रस्थानम् ॥ ११ ॥

सत्यधर्मीया

ततश्च प्रचण्डश्चासौ पवनश्च । परः परितः प्रसरन्सांवर्तको वर्षाणां किञ्चि-दधिकं शतं वाति यदा तदा खं रजसाऽऽवृतम् । धूम्रं भवति धूम्रं भावप्रधानः । तत्त्वं याति गच्छतीति वा ॥ ११ ॥

ततो मेघकुलान्यङ्गश् चित्रवर्णान्यनेकशः ।

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ॥ १२ ॥

पदरत्नावली

चित्रवर्णानि नीलादिनानाविधानि ॥ १२ ॥

सत्यधर्मीया

अङ्ग हे राजन् चित्रवर्णान्यनेकशो मेघकुलानि । उक्तं च पवनपर्वणि मार्काण्डेये प्रलयप्रस्तावे । ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः । उत्तिष्ठन्त महामेघा नभस्यद्भुतदर्शनाः । केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । केचित्किञ्जल्कसङ्काशाः केचि-त्पीतपयोधराः । केचिद्धारिद्रसङ्काशाः केचिन्मकरसन्निभाः । केचित्कमलपत्राभाः केचिद्धिङ्गुल-सप्रभाः । केचित्युरवराकाराः केचिद्गजकुलोपमाः । केचिदञ्जनसङ्काशाः काकाण्डकनिभास्तथेति । शतं वर्षाणि वर्षन्ति । रभसस्वनैर्नदन्ति तान्कुर्वन्तीत्यर्थः ॥ १२ ॥

तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥

तदा भूमेर्गन्धगुणं ग्रस(त्या)न्त्याप उपप्लवे ।

ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥

पदरत्नावली

ब्रह्माण्डविवरान्तरं ब्रह्माण्डबिलविशेषं ब्रह्माण्डबिलोदरं वा एकोदक-मुदकात्मकं भवति । पञ्चभूतगुणलयप्राकारमाह तदेति । उपप्लवे प्रलये ॥ नीरसा आपः

॥ १३,१४ ॥

सत्यधर्मीया

ततो ब्रह्माण्डविवरान्तरं ब्रह्माण्डविवरमध्यगं विश्वं समग्रमेकोदकं केवलं जलमयं भवति ॥ पञ्चभूतगुणलयप्रकारमाह ॥ तदेति । भूमेः स्वोद्भूताया गन्धगुणं तदात्मकं गुणमुपप्लवे लये आपः ग्रसति । ग्रसन्तीति क्वाचित्कः पाठः सोऽपि सम्भवी । न चाप इति बहुवचनात्तस्य कथं ग्रसतीत्येकवचनेनान्वय इति वाच्यम् । नायमस्ति नियमः । तथा हि प्रयोगाः । अप्तेजसोश्च कार्यमित्यादयः । अन्यथा भवेदप्तेजसां कार्यमिति । स्वाभाविकशब्दबहुत्वं स्वान्वेतव्यविशेषणाख्यातादिबहुवचनहेतुर्नेति कृत्वैव पेद्दंभट्टो जायाप्रतिग्राहितगन्धमाल्यामित्यत्र जायया प्रतिग्राहिते गन्धाश्च माल्यं चेति ते यथा सेति व्यतनोत् । गुणग्रासेऽद्भिः कृते किं भवत्यनन्तरमित्यत आह ॥ ग्रस्तगन्धेति । प्रलयत्वाय कल्पते ॥ १३,१४ ॥

अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसाः ।

ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥

पदरत्नावली

तद्रहितं रूपरहितं तेजो वायौ लीयते ॥ १५ ॥

सत्यधर्मीया

तेजोऽपां स्वजन्यानाम् । एवमुत्तरत्रापि ज्ञेयम् । रसं ग्रसति नीरसास्ता आपो लीयन्ते तेजसि । तेजसो रूपं वायुर्ग्रसति तद्रहितं रूपरहितमनिले लीयते ॥ १५ ॥

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।

स वै विशति खं राजंस्ततश्च नभसो गुणम् ।

शब्दं ग्रसति भूतादिर्नभस्तम(द)नु लीयते ॥ १६ ॥

पदरत्नावली

स वायुः खं विशति । तदनु शब्दगुणलयानन्तरम् ॥ १६ ॥

सत्यधर्मीया

खमाकाशो वायोर्गुणं स्पर्शं ग्रसति स वायुर्निर्गुणः खं विशति । भूतादि-स्तामसाहङ्कारः शब्दं ग्रसति । तमनु गुणमन्वेव नभो लीयते ॥ १६ ॥

तैजसानीन्द्रियाण्यङ्ग देवा वैकारिका गुणैः ॥ १७ ॥

महान् ग्रसत्यहङ्कारं गुणाः सत्वादयश्च तम् ।

ग्रसतेऽव्याकृतं बीजं गुणान् कालेन चोदितम् ॥ १८ ॥

पदरत्नावली

तैजसानीन्द्रियाणि, तैजसाहंकारे लीयन्त इति शेषः ॥ वैकारिका देवा वैकारिकाहङ्कारे स्वगुणैः सह ॥ तं महान्तम् बीजं व्यञ्जकम् । मूलप्रकृतिः कालेन हरिणा चोदितं प्रेरितं सत्वादिगुणान् ग्रसते ॥ १७,१८ ॥

सत्यधर्मीया

तथा तैजसानीन्द्रियाणि तैजसेऽहङ्कारे तथा वैकारिका देवा वैकारिकाहङ्कारे स्वगुणैः सह लीयन्त इति । लीयते इति विपरिणतं सदन्वेति । दैवान्देहान्मनः खानि खं च स त्रिविधात्तत इत्यादेः । एवं त्रिविधमहङ्कारं महान्ग्रसति । ये सत्त्वादयो गुणास्तान्गुणांस्तं कालेन चोदितं भगवता प्रेरितमव्याकृतं प्रकृतिर्बीजे सर्वमूलं ग्रसते ॥ १८ ॥

न तस्य कालावयवैः परिणामादयो गुणाः ।

अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥

पदरत्नावली

मूलप्रकृतिस्वरूपं वक्ति न तस्येति । तस्याव्यक्तस्य त्रुटिलवादि-कालावयवैः परिणामादयो गुणा न सन्ति । तदव्यक्तं मूलप्रकृतिं विश्वसृजां कारणम्, आमनन्तीति शेषः । इतरविशेषणमुक्तयोः सममित्याशयेनाह अनादीति ॥ १९ ॥

सत्यधर्मीया

भभ्भापङ्क्तिनिवेशन्यायेन नाशस्तस्य स्यादित्यतस्तत्स्वरूपं निरूपयति ॥ न तस्येति । कालावयवैस्त्रुटिलवादिभिः परिणामादयो गुणा न सन्ति । अव्यक्तमनाद्यनन्तं कारणं कार्यनाशेऽप्यव्ययम् ॥ १९ ॥

न यत्र वाचो न मनो न सत्वं तमो रजो वा महदादयोऽमी ।

न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः

ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

न यत्र वाच इत्यादि कालाख्यस्य ब्रह्मणः स्वरूपम् ॥ २० ॥

पदरत्नावली

कालेनेत्युक्तस्य हरेः स्वरूपं दर्शयति न यत्रेति । वागादयो यत्र कञ्चन विशेषं नापादयन्तीति शेषः ॥ २० ॥

सत्यधर्मीया

न यत्रेति श्लोके प्रकृतप्रकृत्यसम्भावितं भाष्यत इत्यतस्तत्परामृश्यं दर्शयत्सङ्गमयति ॥ न यत्र वाच इत्यादि कालाख्यब्रह्मणः स्वरूपमिति । यच्छब्दार्थः कालेति प्रकृतो भगवान्ग्राह्य इति सूचयति । तात्पर्यमिदमत्रोपपन्नं प्रक्षिप्तं च परस्परमित्यतः परमवयव्यवयवेत्येतत्पूर्वं तत्र सिंहावलोकनन्यायेनेति विवृण्वते । ततश्चायं श्लोकार्थः । कालेन चोदितमिति चोदितं स किं लक्षणक इत्यत आह ॥ नेति । यत्र यद्विषये वाचो न प्रवर्तन्ते साकल्येनेति शेषः । मनोऽपि तथा । यतो वाचो निवर्तन्तेऽप्राप्य मनसा सहेत्यादेः । सत्त्वा-दयस्तु सर्वात्मना न वर्तन्ते । अमी महदादयो न स्वकार्यकारिणः प्राणबुद्धीन्द्रियदेवताः प्राणदेवता मुख्यप्राणो बुद्धिदेवतोमा इन्द्रियदेवताः सूर्यादयः प्राणुबुद्धीन्द्रियैस्तद्व्यापारैः सह न प्रवर्तन्ते । यत्र लोककल्पः सन्निवेशो लोकाकारसदृशाकारो न नास्तीति । हे महद नित्योत्सववितरितः । अनमनोन नमनेनेतरकर्तृकेण ऊनो नमनोनः स न भवति सर्वदा सर्वनमनस्येति । यदा त्वमदयस्तदाऽमी न न सन्त्येव । आदयो यदा तदा नयत्राणां वाचो नीतिपात्रवाचो मनआदयश्च नेति न । सत्त्वादिकमन्यत्र स्वकार्यकारि । अमी महदादयश्च नेति न । अनसन्निवेश्च प्राणसम्प्रवेशश्च भवतीति त्वमेव लोककल्पः समर्थः । खलु निश्चय इत्यप्यर्थः ॥ २० ॥

न स्वप्नजाग्रन्न च तत् सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः ।

सुषुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ॥ २१ ॥

पदरत्नावली

आकाशाद्यन्यतमवच्च न भवतीत्याह न स्वप्नेति । स वा एष आत्मा नेतिनेतीति श्रुतेः । सुषुप्तवत् सुखरूपम् । सुखमस्वाप्समिति सुप्तिपदेन सुखं लक्ष्यते । शून्यवत् सूक्ष्ममत एवाप्रतर्क्यं तर्कागोचरम् । मूलभूतं सर्वस्य प्रधानकारणम् । पद्यत इति पदं गम्यमित्यर्थः

॥ २१ ॥

सत्यधर्मीया

आकाशाद्यन्यतमं च न भवतीति वक्तुं नावस्थादौ स्वास्थ्यं तस्येत्याह ॥ नेति । स्वप्नसहितो जाग्रत्स्वप्नजाग्रन्न सुषुप्तं न तदवस्थोपेतम् । तत्र खं जलं भूमिरनिलोऽ-नलोऽर्कश्च न । सुषुप्त्यवस्थायां यथा सुखमस्वाप्समित्यौत्तरिकानुभवात्सुखमेव लक्ष्यते तथा सदा सुखरूपम् । शून्यवदिति तदादिकल्पिततद्वत् । अप्रतर्क्यं शुष्कतर्कागोचरः । मूलभूतं प्रधानकारणम् । पद्यत इति पदं मुख्यं गम्यमामनन्ति । आगमास्तदवगमकाश्च । अव्यक्त-मेवैतल्लक्षणमिति व्याख्यान्त इयत्साम्राज्यं कथं प्रकृतप्रकृतावुपपादयन्ति पुरा न तज्जानीमः । तदा तद्भवेच्च यद्याम्नाया मूका भवेयुः ॥ २१ ॥

लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।

शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ २२ ॥

पदरत्नावली

कालाख्यपरमात्मस्वरूपमुक्त्वा लयं निर्दिशति लय इति । यदा यस्मिन् लये कालविद्रुताः । कालेन समाप्तजीवनावधयः, अत एव विवशा हर्यधीनाः पुरुषाव्यक्तयोर् ब्रह्मप्रकृत्योः शक्तयः पृथिव्यादयः सम्प्रलीयन्ते । एषः लयः प्राकृतिको हि नामेति शेषः

॥ २२ ॥

सत्यधर्मीया

प्राकृतिकोऽयं लय इति निर्धारणमुखेनोपसंहरति ॥ लय इति । यदा पुरुषाव्यक्तयोर्ब्रह्मप्रकृत्योः शक्तयः पृथिव्यादयः कालविद्रुताः प्रसिद्धकालेन विद्रुता विवशा विः परमात्मा तद्वशाः सम्प्रलीयन्ते तदैष लयः प्राकृतिक इत्युच्यते ॥ २२ ॥

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।

अन्वयव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥ २३ ॥

तात्पर्यम्

‘जीवविष्ण्वोरभेदश्च देहयोगवियोजने ॥ विष्णोर्दुःखं व्रणित्वादि परा-भावस्तथैव च ॥ अस्वातन्त्र्यं च वेदादावुक्तवद्भासते विभोः ॥ क्वचित्क्वचिद्विमोहाय दैत्यानां च दुरात्मनामि’ति ब्रह्माण्डे ॥ २३ ॥

पदरत्नावली

चराचरेऽवशिष्यमाणं किं तत्राह बुद्धीति । तदा प्रलये आश्रीयतेऽनेन चराचरेणेत्याश्रयं प्रपञ्चाधारभूतं ज्ञानं नित्यनिर्दोषज्ञानात्मकं ब्रह्म बुद्धीन्द्रियार्थरूपेण बुद्ध्या ज्ञानात्मिकया लक्ष्म्या, ज्ञानहेतुत्वेन बुद्धिशब्दवाच्यया त्रय्या, मुक्तश्रेण्या वा । चक्षुरादीन्द्रिय-विषयसौन्दर्यातिशयेन भाति ज्योतीरूपेण वर्तते । कथंकारं वर्तत इति तत्राह अन्वयव्यतिरेका-भ्यामिति । प्रपञ्चसद्भावासद्भावाभ्यां कालाभ्यां वर्तत इति । यद्वा बुद्धीन्द्रियात्मकदेहाकारेण, बुद्धिवान् मनोवानिति श्रुतेः । अनेन ‘‘संविदेव परितो विराजत इति पूर्वाचार्यवचनाज्ज्ञातृज्ञेय-विवर्जितं ज्ञानम्’’ इति व्याख्यानं प्रत्युक्तम् । तादृशज्ञानस्य पाषाणकल्पत्वेन हेयत्वात् । नासदासीदितीतरवस्तुनिषेधाद् धात्रादिसद्भावः कथमत्राह आद्यन्तवदिति । यत् शरीरयोग-वियोगवत् तद् अवस्तु अस्वतन्त्रम् । यदादावन्ते च वर्तमानं लक्ष्म्यादितत्वं तदप्यस्वतन्त्रम् । ‘‘यदादिनिधनयुक्तम् उत्पत्तिनाशवत् तद्वस्तुनो ब्रह्मणो व्यतिरिक्तं न भवति । तदध्यस्तत्वेन तज्ज्ञानेन लीयते’’ इति यन्मतं तदासुरम् । तदुक्तम्– ‘‘जीवविष्ण्वोरभेदश्च देहयोगवियोजने । विष्णोर्दुःखव्रणित्वादि पराभावस्तथैव च । अस्वातन्त्र्यं च वेदादावुक्तवद् भासते विभोः । क्वचित् क्वचिद्विमोहाय दैत्यादीनां दुरात्मनाम्’’ इति ॥ २३ ॥

सत्यधर्मीया

बुद्धीन्द्रियार्थेति श्लोके यदाद्यन्तवज्जगत्तदवस्तुतस्त्वपारमार्थिकं ततश्च सर्वं खल्विदं ब्रह्म तत्त्वमसीत्यादिभिर्ब्रह्माभिन्नमुच्यत इति प्रतीतिनिराकृत्यै प्रमाणमेवादावुदाहृत्य व्याकरोति ॥ जीवविष्ण्वोरिति । यद्यपि ण्यन्तत्वाभ्यर्हितत्वाभ्यां विष्णुशब्दः प्राक् प्रयोज्य-स्तथाऽपि सर्वं खल्वित्यनुरोधेन जीवादिकमुद्दिश्य विष्णुत्वं विधेयम् । किञ्च गच्छच्छब्दा-दभ्यर्हितत्वं विधीयमानतादात्म्याननुकूलमित्यलंकृत्य शिरश्छेदनयेन जीवशब्दं प्राक् प्रयोज्य किञ्चित्तुष्टमतनोन्मानकृत्प्रत्यर्थिनमिति ज्ञेयम् । क्वचित्सर्वं खल्विदमित्यादौ जीवविष्ण्वोरभेदो देहयोगवियोजने उत्पत्तिविनाशौ जनितोत इत्यादौ । विष्णोर्दुःखमवतारे रामादौ व्रणित्वं परशुरामादौ पराभावोऽस्वातन्त्र्यं भीष्मे वा मेलननियमव्यत्यासाद्वेदादौ श्रुतिस्मृत्यादावुक्तवद्भासते । वतिना प्रतिपत्तृदोषत एवैवं प्रतिपत्तिर्वस्तुतस्तु न मुख्योऽर्थोऽयमिति द्योतयति । किं फलं संवलितृलपितस्येत्यतो लपति ॥ क्वचित्क्वचिदिति । दुरात्मनां दैत्यादीनां विमोहायान्यथा तद्गतेर्निरधिकारिता स्यादिति भावः ।

केचिच्चेदमतीतस्कन्धान्तिमाध्याये कृष्णपत्न्योऽविशन्नग्निं कृष्णविच्युत इत्यादिप्रतीतदेह-योगवियोगादिकं पराकर्तुं मानमुक्तमिति तत्रैव व्यातन्वते । अन्ये पुनर्मन्यन्ते न यत्रेत्यत्र सङ्गत-मिदमिति । नास्माकमाग्रहो यथाकथञ्चित्तादात्म्यादिप्रतीतिदोषप्रमोषार्थमेतदुदाहृतिरिति यथारुचि स्वीकार्यमिति मध्यस्थाः । वस्तुतस्त्ववस्त्वित्युक्तेरवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विति भण्यते । वसनाद्वासनाद्विष्णुर्वस्तुशब्देन भण्यत इति तात्पर्यान्तरादत्रैव तत्सुलग्नम् ॥

ततश्चायं श्लोकार्थः ॥ परिशिष्यमाणं किमित्यत आह ॥ बुद्धीति । तदश्रयं तस्याश्रयो यस्मात्तच्चराचराश्रयं ज्ञानं ज्ञानरूपं ब्रह्म बुद्धीन्द्रियार्थरूपेण बुद्ध्या ज्ञानात्मकरमया । बुद्ध्यतेऽ-नयेति बुद्धिस्त्रयी तयेन्द्रियाणां चार्थतया विषयतया भाति । अन्वयव्यतिरेकाभ्यां यदाद्यन्तव-द्भगवदधीनोत्पत्ति विनाशवत्तदवस्तु नित्यशक्तियुक्तभगवद्भिन्नमस्वतन्त्रमनुकूले पीतदुकूले सर्वं सम्पद्यत इत्यन्वयः । अन्यथेति व्यतिरेकः । अनुकूले जगन्नाथे विपरीते विपर्यय इत्यादेः । यत्सत्त्वे भगवतः सत्त्वे यत्सत्वं भविष्यतो जगतः सत्त्वम् । यत्प्रसादोन्मुखताभावे यदसत्प्रायमिति वर्तते जगदतः सोऽस्तीत्यन्वयः । अन्यदा त्वप्रसादोन्मुखे नास्तीत्युच्यत इति व्यतिरेकस्ताभ्यां परिशिष्टं ज्ञानं ब्रह्मेति वा । द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षयेति दयान्वयव्यतिरेकाभ्यामाद्यन्तवदवस्तु भगवद्भिन्नं जगदिति वा । विश्वसद्भावा-सद्भावाभ्यां कालाभ्यां वर्तते । बुद्धिमान्मनोवानङ्गप्रत्यङ्गवानित्यादिश्रुतेः । बुद्धीन्द्रियात्मकला-कारणमिति च व्यातन्वते ॥ २३ ॥

दीपश्चक्षुश्च रूपं च तेजसो न पृथग् भवेत् ।

एवं धीः खानि मात्राश्च न स्युरप्युत मारुतात् ॥ २४ ॥

पदरत्नावली

एतमर्थं सोदाहरणमाह दीप इति । दीपादिकं ज्यातिषस्तेजसस्तच्छक्ति-मन्तरेण पृथक् स्वातन्त्र्येण प्रकाशकं न भवेत् । एवं बुद्ध्यादिकमपि मारुतान्मुख्यप्राणादपि पृथक् ज्ञानजननशक्तिमन्न । वायुना वै गौतम सूत्रेणेति श्रुतेः । किमुत परब्रह्मणः । एतस्मा-ज्जायते प्राणः, आत्मन एष प्राणो जायते, ब्रह्मणो वा एतानि करणानीत्यादिश्रुतेः ॥२४॥

सत्यधर्मीया

यदा नमेतादित्युक्तमरुत्परवशं किं भगवद्वशमिति शंसनीयमिति सनिदर्शनं शंसति ॥ दीप इति । दीपो वर्तिवर्ती चक्षुश्चेन्द्रियं रूपं तद्ग्राह्या गुणाश्च ज्योतिषस्तेजसः शक्तिं पृथगन्तरेण यथा न भवेत्तत्सामर्थ्याभावे यथा सर्वं वृथा तथा धीः खानीतराणीन्द्रियाणि मात्रास्तद्विषयाश्च । मारुतात्पृथगित्यत्राप्यन्वेति । तं प्राणं विना न स्युरुत किमुत भगवतः पृथङ् न स्युरिति वक्तव्यम् । वायुना वै गौतम सूत्रेण यथा सुहयः पट्वीशशङ्कुर्मारुत्येव यतश्चेष्टा । एतस्माज्जायते प्राणः । आत्मन एव प्राणो जायते । सर्वा तां हरयेऽर्पयेदित्यादिश्रुतिस्मृतयोऽत्र भवन्ति ॥ २४ ॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते ।

मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥

तात्पर्यम्

‘प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्रा भिदा मता ॥ जगतश्चैव विष्णोश्च सत्यो भेदः सदैव तु ॥ यथाऽऽकाशंघ(नौ)टौ नित्यं भिन्नावेव परस्परम् ॥ एवमीशो जगच्चैव भिन्नावेव परस्परमि’ति च ॥ २५ ॥

पदरत्नावली

न स्वप्नेत्यत्र स्वप्नाद्यवस्था अपि न ब्रह्मण इत्युक्तम् । तर्हि कस्य ता इति तत्राह बुद्धेरिति । बुधं ज्ञानं धीयतेऽस्मिन्निति बुद्धिर्जीवः । तस्य जागरणादिकमुच्यते । ह, सता सोम्येत्यादिश्रुतिसिद्धम् । अथ हैतत् पुरुषः स्वपिति नामेति च । अनेन जाग्रदादीनां निरालम्बनतया मिथ्यात्वमपास्तम् । ननु सुप्त्याद्यवस्थावद् विश्वादीनामपि नानात्वं सत्यं स्यदिति तत्राह मायामात्रमिति । प्रत्यगात्मनि परमात्मनि स्थितं नानात्वं मायया स्वेच्छया मात्रं निर्मितं त्रातं न स्वाभाविकम् । एतेन कृष्णरामादिरूपाणां मूलरूपेण भेदो निरस्तः । तदुक्तम्– ‘‘प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्राभिदा मता जगतश्चैव विष्णोस्तु सत्यो भेदः सदैव तु । यथाकाशघनौ नित्यं भिन्नावेव परस्परम् । एवमीशो जगच्चैव भिन्नावेव परस्परम्’’ इति

॥ २५ ॥

सत्यधर्मीया

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरित्यादिश्लोकद्विके मायामात्रं प्रत्यगात्मनि हरौ जीवस्य नानात्वं मिथ्येति भाति भाति च जीववृत्तीरभिधयैतन्नानात्वं मिथ्यात्वं कथ्यते तदसङ्गतमित्यतो मानेन विवक्षितमर्थं दर्शयति ॥ प्रत्येकमिति । जाग्रदादीनामवस्थानां नानात्वा-त्तत्प्रवर्तकानां विश्वादीनां भागवतानां रूपाणामिति विष्णुरूपाणां भिदा भेदो भ्रान्तिर्मात्रा मीयते विषयीक्रियत इति मात्रा तन्मात्रविषय इति यावत् । यद्यप्यत्र प्रत्यगात्मनीश्वरे नानात्वं जीवादिभिन्नत्वं मायामात्रं भगवदिच्छया मितं त्रातं चेति जीवेश्वरादिभेदपरत्वेन व्याख्यातुं शक्यं तथाऽपि सोऽर्थो मायामात्रमिदं द्वैतमद्वैतं परमार्थत इत्यन्यत्रोदाहृतश्रुत्यर्थपर्यालोचनया शिष्यैरेव ज्ञातुं शक्य इति मत्वेश्वररूपादिविषयतया वाक्यमिदं व्याख्यातमिति केचित् । जगतश्चैव विष्णोश्चेत्यादिना सनिदर्शनं वृत्त्यन्तरस्याचार्यैश् छाययाऽप्यदर्शितत्वात्सोऽप्यर्थः स्वीकार्य इत्यन्ये । जगतश्च विष्णोश्च यो भेदः स सदैव सत्यः सदेत्यौपाधिकताधिक्कारः । यथा जलधरा इति वाक्यमन्ते निगमयज्जगज्जगदीश्वरभेदसत्यत्वपरमिति मानत आह ॥ यथेति । आकाशः घनश्चाकाशघनौ परस्परं नित्यं भिन्नावेव । एवं जगद् ईशश्चेत्यन्वय इति जगतश्चैव विष्णोश्चेति प्रागुक्ते । क्रम एव नियमयतीति द्योतयितुं परवल्लिङ्गभङ्गमङ्गीकृत्योक्तिर्भिन्नावेवेत्यनुसन्धेयम् । अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तिताविति सुधाभिधानधाट्येतीमावित्यध्याहृत्य योजना वा । तात्पर्यं किञ्चित्पुस्तकसम्पुट्यामन्यत्र क्षिप्तमन्यत्रोत्सन्नमित्यस्माभिः सङ्गतमित्यत्र योजितमिति मन्तव्यम् ॥ ततश्चायं श्लोकार्थः ॥ ‘‘न स्वप्नजाग्रन्न च तत्सुषुप्तम्’’ इति भगवति तदवस्थादौरवास्थ्ये क्व तास्तर्हि वर्तन्त इत्यत आह ॥ बुद्धेरिति ॥ बुद्धेर्जीवस्य । गतम् । इत्यवस्थात्रयमुच्यते । प्रत्यगात्मा हि हरिः स प्रत्यक् पराङ् एक ईयते स बहुधेयत इति श्रुतेः । यद्वा प्रतीचिजीवे विद्यमानश्चासावात्मा चान्तर्यामी च तस्मिन् । हरिरूपगुणकर्मणां नानात्वं भिदा मायामात्रं प्रतिपत्तृभ्रान्तिविषयः ॥ २५ ॥

यथा जलधरा व्योमि्न भवन्ति न भवन्ति च ।

ब्रह्मणीदं तदा विश्वमुपयात्युदयाप्ययम् ॥ २६ ॥

पदरत्नावली

नन्वेवं तर्हि जगद्ब्रह्मणोश्च भेदो न पारमार्थिकः स्यादित्यतः सोदाहरणं भेदस्य सत्यत्वं समर्थयते यथेति । उदयाप्यययोर्मिथो विरुद्धधर्मत्वादेकवद्भावः । इदं विश्वं ब्रह्माधारतया सृष्टिसंहारौ याति । गगनघनयोराधाराधेययोर्भेदो यथा सत्यस्तथा जगद्ब्रह्मणोरपीति । एतदप्युक्तं यथाकाशघनावित्यादिना ॥ २६ ॥

सत्यधर्मीया

धरन्तीति धरा जलानां धरा व्योमि्न गगने कदाचिन्न भवन्ति च यथा तथेदं विश्वमुदयाप्ययमुदयसहितमप्ययम् । उदयाप्ययाविति पठितव्ये यदाहोदयाप्ययमिति तेनोदयस्याप्यप्ययोऽप्ययस्याप्युदयश्च तत्तत्काले सम्भवतीति द्योतयामास । केचिच्चैषां शाश्वतिको विरोध इत्यत्र चेतनामात्रविरोध इति निष्टङ्कनात्तत एकवद्भाव इत्यप्यधुः । वृत्तावहिनकुलं देवासुरमित्याद्युदाहरणाच्चेतनपरतया नैतत्परं तदिति तदुपरि वर्णयन्ति । वस्तुतस्तु प्रतिषिद्धं चानधिकरणेति विरुद्धधर्मत्वादेकवद्भाव इति ज्ञेयम् । उपयाति ॥ २६ ॥

एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह ।

विनार्थे न प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥

तात्पर्यम्

‘अवयव्यवयवाभेदात्कोट्यंशो भेद ईरितः ॥ सोऽपि भेदो न चाभेदा-त्पृथगेव प्रवर्तते ॥ अवयव्यवयवानां च कार्यकारणवस्तुनाम् ॥ एक एव नियन्ताऽसौ हरिर्नारायणः पर’ इति च ॥ २७ ॥

पदरत्नावली

ननु जगद्ब्रह्मणोरिवायवावयविनामपि भेदः सन्नेव किं न स्यात् पटस्यामी तन्तव इति प्रतीतेरत्राह एत इति । सर्वेषां महदादीनामवयविनां येऽवयवाः प्रोक्ताः खादयः, एते अर्थेन विना भेदव्यवहारमन्तरेण प्रतीयेरन् हि यस्मात् तस्मादभिन्ना इति शेषः । कथमभेद इत्यत्राह पटस्येति । पटस्यावयवास्तन्तवोऽवयविना पटेनाभिन्ना इति यथा अङ्गीकर्तव्यम्, तन्तु पटः मृद् घटः शुक्लः पट इत्याद्यभेदव्यवहारदर्शनात् । प्रत्येकं तन्तुना भेदेऽपि समुदाय-रूपेणाभेद इति प्रकटनाय तन्तव इति बहुवचनम् । अत एव ‘‘अवयव्यवयवाभेदात् कोट्यंशो भेद ईरितः । सोऽपि भेदो न चाभेदात् पृथगेव प्रवर्तते’’ इति वाक्यमत्र गृहीतम् । अनेन कार्यकारणादीनां भेद इति मतमपास्तम् । पटस्य तन्तव इति प्रयोगः पटस्य शौक्ल्यमितिव-न्निष्कर्षणार्थः । सोऽपि श्रीहरिनियत इति न युक्तिविरोधः । ‘‘अवयव्यवयवानां तु कार्यकारण-वस्तुनाम् । एक एव नियन्ताऽसौ हरिर्नारायणः परः’’ इति वाक्यादवगन्तव्यः ॥ २७ ॥

सत्यधर्मीया

भगवतो जगतो भेदे, भवतु भेदः भगवद्भगवदवयवानां चेत्यतो निदर्शन-प्रदर्शनपूर्वकं तदभेदं मानत आह ॥ अवयवीति । अवयविनाऽवयवानां यावतामभेदात्तमविहाय कोट्यंशो ह्येकैकांशो भेदः भिद्यतेऽनेनेति भेदस्तत्प्रयोजकोऽर्श आद्यचीह भेदस्तद्वान् ईरित इति केचित् । समुदायादभेदे भेदेऽभेदश्चैकैकतन्तुनेति भावः । इममेव विशदयति ॥ सोऽपीति । सोऽप्युक्तोभेदोऽभेदात्पृथक् असमानाधिकृतो न प्रवर्तते । व्यतिषङ्गविशेषविशिष्टत्वतदविशिष्टत्वाभ्यां द्वावपि । अंशिनोंऽशैरभेदोऽयमंशेन तु भिदाभिदेति । जडानामंशतो भेदः समुदायेन चोभयम् । खण्डिते भेद ऐक्यं चेत्यादेः । ननु सत्यभेदे कथमेतेऽवयवा अयं चावयवीति व्यवहारस्तौ च विरुद्धावेकत्र भेदाभेदावित्यत आह ॥ अवयव्यवयवानां चेति । कार्यकारणवस्तूनां नियन्ताऽतः परो हरिरेक एव । अनेनेश्वरसामर्थ्येन विरुद्धयोरेकत्रोपपादितरीत्या समावेश इति द्योत्यते । अत्यन्ताभेदस्थले भेदस्थलेऽभिषिक्तो विशेष इत्यनुसन्धेयम् ॥ ततश्चायं श्लोकार्थः ॥ सर्वावयविनां सर्वेषामेवावयविनां महदादीनां येऽवयवाः, एवं धीः खानीति प्रोक्तास्तेऽर्थेऽवयविनि सति तं विना न प्रतीता भवेयुः । अतोऽभिन्ना इत्यर्थः । तन्तव इति बहुवचनेन समुदायमादायार्थो वर्णनीय इत्यसूचि । अङ्ग हे राजन् । पटस्य राहोः शिर इतिवदभेदषष्ठी तदभिन्नास्तन्तव इति तदर्थः । तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इत्यादेः ॥ २७ ॥

यत् सामान्यविशेषाभ्यामुपलभ्येत स भ्रमः ।

अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु च ॥ २८ ॥

पदरत्नावली

नन्वेवं चेदवयविनि सत्यवयवनाशे तस्यापि तदभेदः स्यादत्राह यदिति । यावद्द्रव्यभावि सामान्यमित्युच्यते । अयावद्द्रव्यभावी विशेष इति । तत्र यद् वस्तु नष्टावयवा-भिन्नमित्युपलभ्येत सामान्यावयववत् स बुद्धेर्भ्रमः । कुतः । अन्योन्यापाश्रयाद् विश्लेषात् । तस्मादाद्यन्तवदवस्त्वेव । यद्वा हनुमद्भीमांशानां वाय्वाद्यंशिनां सामान्यविशेषशक्तिदर्शनात् कथमभेदः सङ्गच्छत इति तत्राह यदिति । अन्योन्यापाश्रयाद् अन्योन्याभेदविषयप्रमाणाद् असुरजनमोहाधिकृतत्वेनाद्यन्तवत्त्वादवस्तु सर्वमविद्यमानमेव ॥ २८ ॥

सत्यधर्मीया

यावद्द्रव्यभाव्यवयवानामवयविना तादात्म्यवदयावद्द्रव्यभाविनां तथा किमित्यतो नेति वदति ॥ यदिति । सामान्यं च यावद्द्रव्यभावित्वम् । विशेषोऽयावद्द्रव्यभावित्वं च । ताभ्यां यदुपलभ्येत । अयावद्द्रव्यभाविनाऽवयवेनाभिन्नोऽवयवीति यदुपलम्भविषयो भवेत्स उपलम्भो भ्रमः । तत्र तन्त्रम् अन्योन्यापाश्रयादिति । अन्योन्यमपाश्रयो विश्लेषस्तस्मात् । तदेवान्योन्याश्रयत्वं विशदयति ॥ सर्वमिति । आद्यन्तवदवस्त्ववयविभिन्नं च । यद्वाऽन्योन्या-पाश्रयादिति यावद्द्रव्यभाविसामान्यापेक्षयाऽन्योन्यमविश्लेषाद्वस्तु । सर्वं तदितरत् । यदयावद्द्रव्यभावि तदाद्यन्तवदित्यवस्तु नावयव्यभिन्नमिति ॥ २८ ॥

विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।

न निरूप्यो ह्यणुरपि स्याच्चेत् स भ्रम आत्मनः ॥ २९ ॥

पदरत्नावली

यथा अवयव्यवयवादीनामभेदो दुरवबोध एवं पदार्थानामनन्तत्वात् तत्स्वरूपभेदोऽपि परमात्मानमन्तरेण दुर्ज्ञेय इत्याशयेनाह विकार इति । वि निषेधे पृथग्भाव इत्यतो विकारः पृथक्कारो नानाविधो भेदः प्रत्यगात्मानं साक्षिभूतं श्रीनारायणमन्तरेण अणुरल्पोऽपि निरूप्यो नास्ति । स एव निरूपयितुं शक्तः, नासत्त्वान्नेत्याह (नासत्वदित्याहेति पाठः स्यात्) ख्यायमान इति । प्रतीयमानस्यासत्वं जुगुप्सितं प्रमाणविरोधादित्यपिशब्दः ॥ २९ ॥

सत्यधर्मीया

एक एव नियन्तेति दुर्घटाभेदघटकस्तज्ज्ञानजनको यथा हरिस्तथा भेदबोधजनकः स एवेत्याह ॥ विकार इति । विविधः कार आकारो येन स विकारो भेदः । प्रत्यगात्मानं सर्वसाक्षिणमधोक्षजमन्तरा विना निरूप्यो निरूपितुं शक्यो न । केवलं न शक्य इति न किन्तु सम्भाव्यो न । अतो नाप्यधिकः । सपरिकरनिरूपणसम्भावनयोरशक्यत्वेऽपि किञ्चिन्निरूपयितुं शक्यमित्यपि नेत्याह ॥ अणुरपीति । स्वल्पोऽपीत्यर्थः । तर्हि स नास्तीति किमिति नोच्यत इत्यत आह ॥ ख्यायमानोऽपीति । आत्मनो जीवस्य स विकारो मया ज्ञात इति स्याच्चेत्स उपलम्भो भ्रम इत्यन्वयः ॥ २९ ॥

न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।

नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥

तात्पर्यम्

‘महाकाशो बहिःस्थश्च घटाद्यन्तःस्थ एव च ॥ द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ ॥ घटरूपस्तदन्यश्च महाकाशात्परो लघुः ॥ महाकाशवदेवात्र परमात्मा सनातनः ॥ घटान्तःस्थमहाकाशप्रतिमोऽन्तर्गतो हरिः ॥ घटस्यान्तर्गताकाशो महाकाशात्परो मतः ॥ तद्वद्देवादयः सर्वे जीवा मुक्त्युपयोगिनः ॥ तमोगाश्चैव ये सर्वे घटरूपखवन्नरा’ इति तत्त्वसंहितायाम् ॥ ३० ॥ इति द्वादशस्कन्धतात्पर्ये चतुर्थोऽध्यायः ॥

पदरत्नावली

नन्वेकस्य प्रतिभातं तु कृतकान्न विशिष्यत इतिवन्निर्धारणायोग इति तत्राह न हीति । यद्यविद्वान् ब्रह्मरूपाणां नानात्वं मन्यते, तर्ह्यपि सत्यस्य ब्रह्मणो रूपाणां नानात्वं सत्यं न भवति । अविद्वन्मतत्वात् । ननु युक्ता ह्यस्य हरयः शता दशेति श्रुतेः कथं सत्यं नेत्यत्राह– नानत्वमिति । नेत्यनुवर्तते । छिद्रयोर्बाह्यान्तःस्थाकाशयोर् यद्वद् यथा नानात्वं नास्ति एक एव महाकाशो घटे जायमाने बहिरन्तश्चेति द्वित्वसङ्ख्यामुपैति । उत्पद्यमानो नीलिमाकारोऽप्याकाशो द्वित्वमेति । तत्र प्रागुक्तो हरेरुपमितिं याति पश्चादुक्तो जीवाना-मित्यर्थविशेषो हिशब्देनोपात्तः । उक्तं च– ‘‘महाकाशो बहिस्थश्च घटाद्यन्तस्थ एव च । द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ । घटरूपस्तदन्यश्च महाकाशात् परो लघुः । महाकाश-वदेवात्र परमात्मा सनातनः । घटान्तस्थमहाकाशप्रतिमोऽन्तर्गतो विभुः । घटस्यान्तर्गताकाशो महाकाशात् परो मतः । तद्वद् देवादयः सर्वे जीवा मुक्त्युपयोगिनः । तमोगाश्चैव ये सर्वे घटरूपखवन्नराः’’ इति । ज्योतिषोरधिदैवाध्यात्मसंज्ञयोः । सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वातता इति श्रुतेः । तयोर्वातप्राणसञ्ज्ञयोरधिदैवमथाध्यात्ममिति श्रुतेश्च । अत्रापि विशेषः पूर्ववदवगन्तव्य इति ॥ ३० ॥

सत्यधर्मीया

न हि सत्यस्य नानात्वमिति श्लोके छिद्रयोरिति गगनद्वित्वमुच्यते । तच्च न सङ्गच्छत इत्यतस्तच्चतुष्ट्वमुपपादयन्मानमुदाहृत्य दृष्टान्तदार्ष्टान्तिकयोर्भिन्नमभिन्नं च दर्शयति ॥ महाकाश इति । महाकाशोऽव्याकृताकाशो बहिस्थो बहिष्ठो व्याप्तः । स एव घटाद्यन्तः स्थित इति द्विविधः । इति महाकाशो द्वेधा समुदितः । अन्यौ च घटरूपस्तदुपादानभूतस्तदन्यो घटाद्बहिष्ठश्चेति । महाकाशात्परो लघुभूताकाशो महाकाशवन्मूलाव्याकृताकाशवत्सनातनः पुरातनः । आवेदकं वेदसहितो वा । गतं, घटान्तःस्थो यो महाकाशस्तेन प्रतिमोऽन्तर्गतोऽन्तर्यामी । यथाऽन्तः स्थमहाकाशबहिष्ठमहाकाशतादात्म्यं तथा । पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत इत्यादेर्मूलावतारान्तर्यामितादात्म्यमिति । घटस्यान्तः-स्थिताकाशो यतो भूतभूतो महाकाशात्तदन्तःस्थात्परो विलक्षणः । मुक्त्युपयोगिनो देवा जीवाश्च सर्वेश्वराद्विलक्षणास्तथा नरा नित्यसंसारिणस्तद्वद् घटान्तर्गतबहिष्ठाव्याकृताकाशभिन्नभूताकाश-वद्भिन्नास्तमोगाश्च हरिणा नानात्वोपेतास्तद्वदेवेत्यर्थः । इदं मानं घटे भिन्ने यथाऽऽकाश इति पद्येन या पद्ययोपयोक्ष्यते ।

ततश्चैवमुत्कृष्य प्रक्षिप्ततात्पर्यसङ्ग्रहः क्रमः । न यत्र वाच इत्यादीकृत्य कालाख्यब्रह्मस्वरूपं चेत्यन्तं प्रत्येकमित्यारभ्य परस्परमिति चेत्यन्तम् । अवयव्यवयवानामित्यादीकृत्य पर इति चेत्यन्तम् । एतदुपरि महाकाश इत्यारभ्य नरा इत्यन्तं चेति । जीवविष्ण्वोरिति ब्रह्माण्ड इत्यन्तं पूर्वाध्यायसङ्गतमिति ।

तत्तत्पदार्थविचित्रतायामपि न तदन्तःस्थस्य भगवतः सेति सदृष्टान्तमाचष्टे ॥ नेति । सत्यस्य सत्यं ज्ञानमनन्तमित्यादेस्तच्छब्दवाच्यस्य भगवतो नानात्वं भेदो हि यतो न । न स्थानतोऽपीत्यादेः । अत एवं यो मन्यते भेद इति सोऽविद्वानित्यन्वयः । सत्यस्य यथार्थस्य जगतो देवादेः सत्यस्य सकाशान्नानात्वं यो यदि मन्यते सोऽविद्वान्न हि । विद्वानेवेत्यप्यन्वयः । ततश्च तात्पर्यं सर्वमनुकूलं भविष्यतीति ज्ञेयम् । छिद्रयोर्महाकाशघटाद्यन्तःस्थाकाशयोर-व्याकृतयोर्यथा नानात्वं न हि । यथा महाकाशाद्घटरूपतदितरभूताकाशयोर्नानात्वं तथेति । ज्योतिषोराध्यात्मिकाधिदैविकभेदेन द्विविधयोर्वा तयोर्मूलेन साक्षादंशस्य भेद इतरयोर्भेद इति दार्ढ्यार्थं पयोऽम्बुवच्चेत्तत्रापीत्यादिवदनेकदृष्टान्तोपादानम् । ज्योतिर्वा तयोश्चातुर्विध्यमनुज्ञापरिहारौ ज्योतिरादिवदिति सूत्रभाष्योक्तप्रमाणेन तथा पञ्चवृत्तिर्मनोवद्व्यपदिश्यत इति सूत्रभाष्यदिशा ज्ञेयम् । एतत्सङ्ग्रहार्थं दृष्टान्तद्वयमधिकमुक्तमिति च मन्तव्यम् । अपिशब्दस्तु सूत्रशंसितादिपदार्थसमुच्चायकः

॥ ३० ॥

यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु ।

एवं वचोभिर्भगवानधोक्षजो व्याख्यायते वैदिकलौकिकैर्जनैः ॥ ३१ ॥

पदरत्नावली

बहुत्वसङ्क्यावाचिन्याः श्रुतेः किं विनिगमक(?)मत्राह यथेति । बहुधा कटककुण्डलाद्यात्मना हेम नानासंज्ञाविषयं समीयते तथा भगवानपि देवो नरो वराहः शुक्लः पीतो ह्रस्वोऽणुर्दीर्घो महानिति विविधाकारेण व्याख्यायते प्रकाश्यत इति ॥ ३१ ॥

सत्यधर्मीया

ननु युक्ता ह्यस्य हरयः शता दशेति हरिबहुरूपनिरूपकवेदादेः सद्भावा-त्कथं महाविहायोनिदर्शनेनैक्यमुच्यत इत्यतस्तदेतद्गतिमवगमयति ॥ यथेति । यथा हिरण्यं बहुधा बाहुभूषणाद्यात्मना नानाप्रकारं क्रियाभिः स्वनिवर्त्याभिर्व्यवहारवर्त्मसु तन्मार्गेष्विदं न मुकुटं किन्तु कटकमित्यादिषु नृभिस्तदादिभिः समीयते ज्ञानविषयो भवति । एवं भगवानधोक्षजस्तैस्तैर्वसन्नपि तत्तदिन्द्रियदोषसंश्लेषरहितो वैदिकलौकिकैः शुक्लः कृष्णो घनोऽघनो मध्यमोऽमध्यमो व्यापकोऽ-व्यापक इत्येवमादिवेदितृभिर्लौकिकैरिति कर्तृभिर्वचनैः करणैर्व्याख्यायते प्रकथ्यते ॥ ३१ ॥

यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तमः ।

एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२ ॥

पदरत्नावली

हरेस्तत्त्वस्वरूपं निरूप्य संसारप्रकारमाह यथेति । अर्कशब्देनाप्तेजोवायव उच्यन्ते । तेजस्सम्बन्धेन धूम उपलक्ष्यते । अर्कप्रभवः धूमतेजोजलमरुद्भ्यः प्रभव उत्पत्तिर्यस्य स तथा । र्ओण नभसि दर्शितः । सूर्यप्रकाशे सत्येव दृश्यते नान्यथा । यथा घनः सूर्यदर्शन-प्रतिबन्धकः । आपो वा अर्क इति श्रुतेः । यथा अर्कांशस्य चक्षुषस् तमः सूर्यदर्शने प्रतिबन्ध-कम् । आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशदिति श्रुतेः । एवमहङ्कारो ब्रह्मापेक्ष्य गुणोऽमुख्यस् तदीक्षितस् तेन प्रकाशितः ब्रह्मांशकस्य जीवस्य, पादोऽस्य विश्वा भूतानीति श्रुतेः, ब्रह्मणो भिन्नांशस्य आत्मनो जीवस्य आत्मानं मतिं ज्ञानं बध्नातीत्यात्मबन्धनः । आत्मा देहे धृतौ जीव इत्यादौ यादवप्रकाशे मतौ प्रयुक्तत्वात् । तद्ब्रह्मावेदहं ब्रह्मास्तीति श्रुतेर् ब्रह्मणो विशेषभूत इति वा ॥ ३२ ॥

सत्यधर्मीया

किंमूलकोऽस्य संसारस्तदपसारश्च किंमूलक इत्यतस्त्रिभिराह ॥ यथेति । घनोऽर्कप्रभवोऽर्कात्प्रभवतीति स तथा । तथा हि भारते वनपर्वणि तृतीयेऽध्याये धर्मकृतसूर्य-प्रस्तावे । त्वद्दीधितिसमुत्पन्ना नानावर्णमहाघना इति । धूमयोनित्वादुपादानं धूमाद्यर्कदर्शितः । सति सवितरि दृश्यते नापरथेति भवत्यर्कदर्शितः । अर्कांशभूतस्य चक्षुषस्तदन्तर्गतज्योतिषः । तमः प्रभाकरप्रभाप्रतिबन्धक इति तद्रूपः । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदिति श्रुतिप्रसिद्धिं हिराह । अहमित्यव्ययम् । तेन गुण इत्याद्युपपत्तिः । ब्रह्मगुणो ब्रह्मणा लिङ्गशरीरानुस्यूतत्वेन कल्पित इति ब्रह्मगुणस्तदीक्षितस्तेनैवेक्षितः प्रकाशितस्तत्तत्कर्मानुरोधात् । ब्रह्मांशकस्य परब्रह्मांशभूतस्यात्मनो जीवस्य ब्रह्मांशस्येत्येवोक्तेऽयमपि मत्स्यादिवत्स्यादिति भायान्न तथा भातव्यमिति केन सह निर्दिदेश । ततश्च शरीररूपकविन्यस्तेत्यत्रेवांशं कुत्सयंस्तं भिन्नमूचिवानिति सिध्यति । आत्मानं हरिं बध्नाति यथा तन्मतिर्न भवेत्तथा करोतीति सः । यावदभिमति-स्तावद्भगवतो मतिर्न भवतीति भावः । जीवं बध्नातीति संसृतिहेतुरित्यात्मबन्धनो वा । तुशब्दोऽधिकारितरतमभावविशेषसूचकः । आहुतय आदित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिरष्टौ मासात्रयीयेत्यादेः । पर्जन्योऽर्ङ्को घनाघननिमित्तमिति ज्ञेयम् । दग्धपटायमानतनुमत्यम्बुजभवादि-परशुक्लत्रयेऽहङ्कारस्याभ्रस्वकार्यानुकूल्येन सजलजलदतुलतेति विवेकः ॥ ३२ ॥

घनो यदाऽर्कप्रभया विदीर्यते चक्षुःस्वरूपं परमीक्षते तदा ।

यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥

पदरत्नावली

यदा घनो ऽर्कप्रभया तीव्रया सूर्यप्रभया विदीर्यते नष्टो भवति तदा सूर्यांश-श्चक्षुः स्वबिम्बं रविमीक्षते यथा तथा यदा जीवस्यात्मनः परमात्मनो दर्शने उपाधिर् निमित्त-भूतोऽहङ्कारो जिज्ञासया परमात्मोपासनया नश्यति तर्हि तदा जीवः परं परमात्मानम् अनुस्मरेद् अनुकूलस्मरणसमर्थो भवतीत्यन्वयः । हिशब्देन भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया इतीदं वाक्यमग्राहि ॥ ३३ ॥

सत्यधर्मीया

यदाऽर्कप्रभया यदा घनस्तत्तमो विदीर्यते । स्वरूपं सूर्यांशभूतं चक्षुस्तदादित्यं समीक्षते । यथातथा यदोपाधिः स्वस्वभावाभिभावकोऽहङ्कार आत्मनो भगवतो जिज्ञासया नश्यति तर्हि तदैव परं पूर्णमनुस्मरेदधिकारी । हिर्भिद्यते हृदयग्रन्थिरित्यादिमानसिद्धतामाहेति प्राञ्चः

॥ ३३ ॥

यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् ।

छित्वाऽच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ ३४ ॥

पदरत्नावली

असम्प्रज्ञातसमाधिस्थलक्षणमाह यदेति । एवमुक्तविधयोद्भूतया एतया विवेकहेतिना निशितज्ञानायुधेन मायामयाहङ्करणात्मबन्धनं भगवदिच्छानिर्मितलिङ्गशरीरलक्षणाहङ्कार-जनितसंसारहेतुं छित्वा अच्युतात्मानुभवः नित्यमुक्तपरमात्मापरोक्षदर्शनेनासम्प्रज्ञातसमाधिस्थः निर्मुक्तलिङ्गशरीराभिमानोऽवतिष्ठते । एतमङ्ग आत्यन्तिकं सम्प्लवं प्रलयमाहुः । असम्प्रज्ञात-समाधिस्थावस्थाया नामान्तरमिदम् ॥ ३४ ॥

सत्यधर्मीया

आत्यन्तिकप्रलयलक्षणमाह ॥ यदैवमिति । विवेक एव हेतिरायुधं तेनैतेन विवेकहेतिना । मायामयं भगवदिच्छागतम् । मय गतौ । मय्यते मां ययेति तत् । यद्यहङ्करण-महङ्कारस्तदात्मकं यद्बन्धनं तच्छित्वाऽच्युतश्चासावात्मा च तस्यानुभवो ज्ञानं यस्य सः । यस्मिन्सम्प्लवेऽवतिष्ठते जीवस्तमात्यन्तिकं सम्प्लवमाहुरिति बहुसम्मतिमाह । ब्राह्मो नैमित्तकस्तेषां कल्पान्ते प्रतिसञ्चरः । आत्यन्तिकोऽपि मोक्षाख्यः प्राकृतो द्विपरार्धक इति विष्णुपुराणे षष्ठेंऽश उक्तेः । अत्रोपक्रमे लयं प्रति श्रुत्योत्तरत्र नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः । आत्यन्तिकश्च कथित इत्याद्युक्तेः कथमसम्प्रज्ञातसमाधिस्थलक्षणमाहेति प्राञ्चोऽलीलिखन्निति न जानीमः । पुनः सर्जनवर्जनमेवात्यन्तिकः सम्प्लवो मुक्तिरिति । उपाधिर्बाह्यो नश्यति, छित्वेत्यादि स्वारस्यात् । ओति हेपर्यायं सदिष्टपरम् । अच्युतावात्मा देहश्चानुभवश्च यस्य इति वा ॥ ३४ ॥

नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।

उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५ ॥

पदरत्नावली

इदानीं दैनन्दिनजन्मप्रलयावाह नित्यदेति । दिनेदिने ब्रह्मादीनां सर्वभूता-नामुत्पत्तिप्रलयौ स्त इति एके सूक्ष्मज्ञाः सम्प्रचक्षते वदन्तीत्यन्वयः ॥ ३५ ॥

सत्यधर्मीया

इदानीमवशिष्टं प्रलयमाह ॥ नित्यदेति । सर्वभूतानामित्यनेन सर्वसम्पत्तौ यत्पुनर्ब्रह्मादीनामित्याह तेन तत्तरतमभावं तथा रमाया अपि समं याते दुःखस्पृष्टमात्रस्येति तद्व्युत्पादनं चासूचयत् । उत्पत्तिलयावपि प्रसिद्धौ ग्राह्यौ । यदि च पराधीनविशेषावाप्ति-र्ह्यत्यन्तसामीप्ये तच्छब्देन गृह्यते तदा ब्रह्मशब्द एवासाधारण्येन महद्ब्रह्म रमादिर्येषामिति तत्तदसङ्कुचिततामवादीदत्ताचराचराग्रहणादाविवेति विवेचनीयम् । नित्यदा दिनेदिने सम्प्लवमित्य-नेनान्वेति । सूक्ष्मज्ञाः क्षणक्षणविलक्षणताविद एके सम्प्रचक्षते । सम्प्राभ्यां तद्दर्शनस्यानन्यथा-सिद्धतां दर्शयति ॥ ३५ ॥

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।

परिमाणाद्यवस्थास्ता जन्मप्रलयहेतवः ॥ ३६ ॥

पदरत्नावली

चेतनानां निर्विकारत्वेन जन्माद्यसम्भवात् कथमुच्यते नित्यदा जन्माद्यस्तीति तत्राह– कालेति । कालस्रोतोजवेन कालनदीप्रवाहवेगेन क्षिप्रं ह्रियमाणस्य नीयमानस्य देहस्य

॥ ३६ ॥

सत्यधर्मीया

नित्यदा चेदुदितं च न निम्लौचौ जीवस्य स्यातां तर्हि विकार इत्युररीकारः स्यान्न च सम्भवतीति जन्मादिमन्न सेरुरुच इत्यत आह ॥ कालेति । कालस्य स्रोतः प्रवाहस्तस्य वेगस्तेनाशु ह्रियमाणस्य । अनेन पारवश्यं ध्वन्यते । देहस्य ताः परिणामा-द्यवस्थास्तत्तद्योग्यतानुसारिकर्मपरिपाका जन्मप्रलययोर्हेतवः कारणानि ॥ ३६ ॥

अनाद्यन्तवताऽनेन कालेनेश्वरमूर्तिना ।

अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥

पदरत्नावली

प्रतिदिनं जीवस्योर्वारुकविकारवत् परिणामाद्यवस्थाः किं न स्युरिति तत्राह अनाद्यन्तवतेति । आकाशे ज्योतिषां नक्षत्राणां यथा स्थितेर्लयो नास्ति, तथा चेतनस्येति शेषः ॥ ३७ ॥

सत्यधर्मीया

न च कालो लोकावगतः क्षणादिलक्षण इति तदर्थमाचष्टे ॥ अनाद्य-न्तवतेति । अनाद्यन्तवताऽऽद्यन्तरहितेनेश्वरमूर्तिना भगवद्रूपेण कालेनावस्थाः सौक्ष्म्येण क्षीयमाणा वियति विष्णुपदे ज्योतिषामवस्था यथा मौहूर्तिकातिरिक्तैस्तैस्तैरपि झटिति न दृश्यन्ते तथा शरीरविकाराः प्रत्यभिज्ञानहेतवो न दृश्यन्त इति । सा प्रत्यभिज्ञा सादृश्यनिबन्धना मुख्या चेन्मृषेति मन्तव्यम् । यथोक्तमेकादशस्कन्धे । नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्यवेगेन सूक्ष्मत्वं तन्न दृश्यते । यथाऽर्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथैव सर्वभूतानां वयोऽवस्थाश्च तत्कृताः । सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् । सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषामिति ॥ ३७ ॥

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः ।

आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८ ॥

पदरत्नावली

उक्तमुपसंहरति नित्य इति । कालस्य कालान्तर्यामिणो हरेर्गतिः स्थितिर् ईदृशा दुरवबोधेति ॥ ३८ ॥

सत्यधर्मीया

वैशकलत्येनोक्तलयचतुष्टयमेकत्र सङ्कलय्योक्त्वोपसंहरति ॥ नित्य इति । यद्यपि प्रक्रमक्रममनतिक्रम्य नैमित्तिक आदावुदाहार्यस्तथाऽपि त्रिकस्यान्यनिरूपणसापेक्षत्वेन नैरपेक्ष्यान्नित्यपुरस्कृतिरत्र तत्र चतुर्युगेत्यादिना निरूपणीयतया बुद्धिपद्धतिं नीत इति तत्पुर-स्करणमिति मन्तव्यम् । अव्यवहिताभिहितं नित्यं बुद्धिसन्निहितमूचिवानिति वा । यथा षट्प्रश्ने कबन्धी कात्यायन उपेत्य पप्रच्छेत्यन्तिमप्रश्नोत्तरणपूर्वमिति नापूर्वम् । लय इति नित्यादिसर्वा-न्वयि । कालस्य भगवतो मुख्यतोऽमुख्यतश्च कालस्य गतिरीदृशी दुःसाधबोधा ॥ ३८ ॥

एताः कुरुश्रेष्ठ जगद्विधातुर्नारायणस्याखिलसत्वधाम्नः ।

लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥३९॥

पदरत्नावली

परमप्रमेयमुपसंहरति एता इति । यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रोडीं तनुं सकलयज्ञमयीमित्यारभ्य याः कथा एताः । जगद्विधातृत्वं चतुर्मुखस्यास्तीत्यतोऽखिल-सत्वधाम्न इति । सत्वगर्भत्वमुदरम्भरत्वमित्यतो नारायणस्योति । सत्वोऽस्त्री जन्तुषु क्लीबे इति यादवः । विस्तरतः कथनं किं न स्यादिति तत्राह कार्त्स्न्येनेति । अजो ब्रह्मा

॥ ३९ ॥

सत्यधर्मीया

उपसंहरति ॥ एता इति । हे कुरुश्रेष्ठ जगद्विधातुर्जगद्विधाता तस्याखिलं सत्त्वं बलज्ञानादिसमाहारस्तदात्मकं धाम स्वरूपं यस्य सः । तन्नामाह ॥ नारायणस्येति । एताः क्रोडीं तनुमित्यादिनैतत्पर्यन्तं क्रोडीकृत्य लीलाकथाः समासतः सङ्कोचेन कथिताः । किमु न तव व्यापारान्तरमस्तीति सञ्चुकोचोक्तौ च मे मतिः किंवा मृगयोग्यतादौर्भाग्येन त्यजनं किंवा भजनं मम निर्ममायनरुरुचे किंवा लवलयस्तव नावसर इत्यतो नैतदत्र कारणं किन्तु मरससम्भवादयो न शक्ताः । तथा का ममेति समासत उक्तिरित्युक्त्वा तं सम्मुखीकरोति शुकः कार्त्स्न्येनेत्यभिधातुमीश इति पदेऽधिकारिकसमुदाये । अजो ब्रह्मा । इयक्षमनादित्यादेः । स कार्त्स्न्येनाभिधातुमीशः शक्तो न । ईचेशकोशनिवेशेति शंसेदिति नाशासनीयमित्याह ॥ ईति । अस्य स्त्री ई रमाऽपि ईश इति विपरिणतं सदन्वेति । नेशा । ननु बहुकालं स एव व्यापारश्चे-न्मरुदुरश्चतुराननो वा शक्तौ स्यातामिति चेन्नेत्यप्याह ॥ श्रेष्ठजगद्विधातुरिति । श्रेष्ठश्चासौजग-त्प्राणश्चेति मुख्यप्राणस्तेन श्रेष्ठजगत्कर्तासहितश्चासौ विधाता च तस्य जगदिति । गतम् । समासु शरत्सु सन् तस्य । ईश इति षष्ठ्यन्तस्य नारायणपदेनेदानीमन्वयः । कार्त्स्न्येनाजो ज्ञानम् । अजेर्गत्यर्थत्वादवगत्यर्थता । स नेति व्यादेशादिसंसारसम्भवासम्भवोपपत्तिः प्रागुपपादिताऽनुसन्धेया । कुरु मतिमिति शेषः । कुरुश्रेष्ठो भीमात्मा चासौ जगद्वायुश्चेति तत्सहितो विधाता तस्येति वा ॥ ३९ ॥

संसारसिन्धुमतिदुस्तरमुत्तितीर्षो

र्नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।

लीलाकथारसनिषेवणमन्तरेण

पुंसो भवेद् विविधदुःखदवार्दितस्य ॥ ४० ॥

पदरत्नावली

कथाकथनप्रयोजनमाह संसारेति । प्लवो नौः ॥ ४० ॥

दुर्घटभावदीपिका

ननु मोक्षार्थं भगवन्माहात्म्यश्रवणं न कर्तव्यम् । वाय्वादेर्गुरोश्चानुग्रहेण मोक्षसम्भवादित्यत आह ॥ संसारेति । विविधदुःखदवार्दितस्य विविधदुःखदवानलपीडितस्य । अत एवातिदुस्तरं सिन्धुमुत्तितीर्षोः पुंसः पुरुषोत्तमस्य भगवतो लीलाकथारसनिषेवणमन्तरेणान्यो भगवतोऽन्यो वाय्वादिगुरुश्च प्लवो न भवेदिति ॥ अयं भावः ॥ सत्यं वाय्वादिगुरुश्च संसारोत्तरण-हेतुरिति । परन्तु भगवल्लीलाकथारसनिषेवणमुत्पाद्यैव संसारोत्तारहेतुः । अतो मोक्षार्थं भगवल्लीला-कथारसनिषेवणं कार्यमिति । वाय्वादेः संसारोत्तरणहेतुत्वं पिता माता तथा भ्राता सर्वे संसारहेतुवः । गुरुरेकः सदा सेव्यः संसारोत्तरणक्षम इत्यादि प्रमाणसिद्धम् । एतेन भगवतो लीलाकथारस-निषेवणादन्यः प्लवो न भवेदित्यनेन पूर्णत्वात् । लीलाकथारसनिषेवणमन्तरेण प्लववत्संसारोत्तरणहेतुर्न किंत्वधिकारिषु भगवल्लीलाकथारसनिषेवणं समुत्पाद्यैव संसारोत्तरणहेतुरित्यर्थं वक्तुं लीलाकथारसनिषेवणमन्तरेणेत्युक्तमिति स्वीकरणात् ॥ ४० ॥

सत्यधर्मीया

किं फलं लपतस्तस्येत्यत आह ॥ संसारसिन्धुमिति । महोदयेत्यत्र महच्छब्दवन्न स्वार्थवाचकः संशब्द इति बोध्यम् । तल्लक्षणं सिन्धुं समुद्रमतिदुस्तरं तितीर्षो-स्तरीतुमिच्छावतः । एकवचनेन च तद्दुर्मिलतां विलासयति । पुरुषोत्तमस्य भगवतो लीलाकथार-सस्य निषेवणं सम्भजनं श्रवणं तेनान्तरेण विना विविधदुःखान्येव दवो वनानलस्तेनार्दितस्य पुंसोऽन्यः प्लवो नौर्भवेत् । कुतो न इत्यतः सर्वो यस्मादन्यश्चेष्ट्यः सप्लवः काकुः । अमुमेवाभि-प्रायं वेदयितुं पुरुषोत्तमोक्तिरिति ज्ञेयम् ॥ ४० ॥

पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः ।

नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥

पदरत्नावली

कथारसनिषेवणाय भागवतपुराणमेव मुख्यसाधनमित्यभिप्रेत्य तस्याप्ति-मूलत्वज्ञापनाय मूलं दर्शयति पुराणेति ॥ ४१ ॥

सत्यधर्मीया

एवं परम्पराप्राप्तत्वादाप्तोक्तेति विश्वसनीयेयं संहिता स्वहितार्थिभिरिति श्रावयति ॥ पुराणेति । नारायणो धर्मसूनुर्ऋषिर् ज्ञानी । पुराणसंहितामेतां नारदाय पुरा प्राह । स नारदः कृष्णद्वैपायनाय प्राह विज्ञापयामास ॥ ४१ ॥

स वै मह्यं महाराज भगवान् बादरायणः ।

इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२ ॥

पदरत्नावली

संहिताया वेदसंहितात्वज्ञापनाय वेदसम्मितामिति ॥ ४२ ॥

सत्यधर्मीया

स नारदविज्ञापितैतत्संहितो भगवान्बादरायणः पितामहं प्राहेत्यन्वयः । वेदसंमितां मद्योग्यतानुसारेण मितामल्पीयसां प्राहाहं तावतीमेव वेदेत्यर्थः । वेदसंमितामित्यनेन पौरुषेयतायास्तद्दोषिताशङ्कां प्रमोषयतीति ज्ञेयम् ॥ ४२ ॥

एतां वक्ष्यत्यसौ सूत ऋषिभ्यो निमिशालये ।

दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३ ॥

सत्यधर्मीया

निमिषालये नैमिषारण्ये । ऋषिभ्यः शौनकादिभ्यः । सूतो रोमहर्षाणिः । नापृष्टः कस्यचिद्ब्रूयादित्यादेराह ॥ दीर्घेति । बहुकालिके सत्रे यज्ञे प्रवर्तमाने ॥ ४३ ॥

अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।

यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ ४४ ॥

त्वं च राजन् मरिष्येति पशुबुद्धिमिमां जहि ।

न जातः प्रागभूतोऽद्य देहवत् त्वं न नंक्ष्यसि ॥ ४५ ॥

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।

बीजाङ्कुरवद् देहादेर्व्यतिरिक्तो यथाऽनलः ॥ ४६ ॥

पदरत्नावली

अस्या विषयमाह अत्रेति । कुतोऽस्या इतरेभ्यः श्रैष्ठ्यं येनादरेण ग्राह्या स्यादित्यतो वाह अत्रेति । विष्ण्वभिन्नत्वेन ब्रह्माद्यन्यतमः किं नस्यादित्यत्राह यस्येति । अनेन आत्मा वै पुत्रनामाऽऽसीदिति वाक्यप्राप्ता तदात्म(ता)शङ्काऽपि दूरीकृतेति ॥ ननु जातः मृतोऽहमिति बुद्धेर्विक्रियायाः (सत्वेन) कथं चेतनस्य परिणामाद्यवस्थाभाव इत्याशङ्क्य सिंहावलोकन्यायेन तस्याविकारित्वमाह त्वंचेति । मरिष्येति (इति) सन्धिभावेन घटादि-नाशवैलक्षण्यं देहवियोगस्य दर्शयति नेति । न जायते म्रियते वा कदाचिदित्यादेः । देहवदिति प्रत्येकमभिसम्बद्ध्यते । नेति च । त्वं देहवन् न जातः । तर्हि प्रागसन् नेत्याह प्रागिति । देहवत् प्रागभूतोऽनुत्पन्नः (न) । अद्य देहवन्न परिणमसि ॥ देहान्तरवन्न भविष्यसि । पुत्रपौत्रादिरूपवान् भूत्वा त्वं देहवन्न न नङ्क्ष्यसि । कथमिव पुत्रपौत्रादिरूपवान् । तत्राह बीजेति । बीजाङ्कुरपरम्परा यथा तथा । कस्मान्नाशाभाव इति तत्राह देहादेरिति । हेतुगर्भ-विशेषणम् । अत्रापि निदर्शनं यथाऽनल इति । दार्वादेरिति शेषः । पुत्रादिरूपत्वे त्वभेदोऽपि प्राप्त इत्यतो वाह बीजेति । यथा बीजपरम्पराया भेदः प्रमितस्तथा प्रकृत इति । शेषः प्राग्वत्

॥ ४४-४६ ॥

सत्यधर्मीया

अभीक्ष्णं विश्वात्मा भगवान्हरिरत्रानुवर्ण्यते । किं तन्महत्त्वं यदनुवर्णने तदुदीर्णतेत्यत आह ॥ यस्येति । प्रसादाज्जायत इति स तथा । रुद्रश्च क्रोधात्समुद्भवतीति स तथा । कर्तृत्वेन हर्तृत्वेनोभयवादिभिः पुरस्कृतिरिति तद्ग्रहः । विधिविधिजयोरियं दशा चेदितरेषां का कथेति भावः । नात्मनः परिणामाद्यवस्था दृश्यन्त इति न सम्भवति विक्रियाप्रतीतेरित्यतो न त आत्मनः किन्तु देहस्यैवेति परीक्षितपरीक्षिद्धीरत्वोऽपि मुनिरन्यान्विषयीकृत्य मनसि बहिर्महीमहीयसि पर्यवसाययन्नाह ॥ त्वं चेति । हे राजन् त्वं चाहं मरिष्य इति । आर्षोऽयम् । मरिष्ये । अतिपशुबुद्धिमिति वा पशुबुद्धिमिति वा छेदः । इतीति शेषः । इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलमित्यादेः । अतिपशुबुद्धिं महाप्राज्ञप्रज्ञामिति न । अन्यथामत्या ये पशवस्तत्प्रायास्तेषां बुद्धिरिव बुद्धिस्ताम् । ततत्वादन्यथाजानातीत्येवं समुदीर्यत इति तात्पर्यान्तरात् । इमां जहि त्यज । प्रागभूतोऽत्यन्तासंस्त्वं न जातो देहवत् । मन्मते देहादेः कार्यस्य सदसत्त्वाभ्युपगमात् । विस्तरतस्तु न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । अभूत्वाऽ-भावित्वादित्यादिगीतातद्भाष्यादितोऽवसेयः । तद्वन्न नंक्ष्यसि । नाशस्तु शरीरस्य न च तवेति नरिष्य इति मतिर्भवति पशुशेमुषीति तन्माषं तन्वन्न न्वशासन्मुनिरिति मननीयम् ॥ भूत्वा कार्यात्मना । पुत्रपौत्रादिरूपवान् न भविष्यसि । तद्वन्न नंक्ष्यसि च बीजाङ्कुरवत्तत्परम्परावत् । बीजादङ्कुरोऽङ्कुराद्बीजं यथा तथा पुत्रपौत्रादिरूपवत्त्वे निदर्शनम् । यथा तत्र भेदस्तथाऽत्रापीति । मम देहाभिन्नस्य देहहानिरित्यतो नेति सदृष्टान्तमाचष्टे ॥ देहादेरिति । आत्मा देहादेर्व्यतिरिक्त इति न तद्वन्नाशः । यथा दार्वादेरनलो व्यतिरिक्तस्तथा पुत्रादिभेदः पित्रादेस्ततः पुत्रादे-रित्यनलतुलता ॥ ४६ ॥

स्वप्ने यथा शिरश्छेदः पञ्चत्वाद्यात्मनस्तथा ।

यस्मात् पश्यसि देहस्य तत आत्मा ह्यजोऽमरः ॥ ४७ ॥

पदरत्नावली

ननु जातो मृत इत्यभेदप्रतीतेस्तद्व्यतिरेकः कथमनलदृष्टान्तः परमात्मनि सङ्गत इति तत्राह स्वप्न इति । आत्मनो जीवस्य स्वप्ने स्वशिरश्छेदो यथा मिथ्या तथा पञ्चत्वादि । इदं स्वानुभवसिद्धमित्याह यस्मादिति । त्वं देहस्य पञ्चत्वादि पश्यसीति यस्मात् तत आत्मा अजो न जातो ऽमरो न मृतश्चेति यत् तस्माद् देहस्यैव जन्मादयो न चेतनस्येति सिद्धम् ॥ ४७ ॥

सत्यधर्मीया

तव देहस्य च भेदत्वदर्शनमेव मानमित्याह ॥ स्वप्न इति । आत्मनो यथा स्वप्ने शिरश्छेदस्तथा पञ्चत्वादिकं यस्माद्देहस्य पश्यसि ततस्तस्मादात्मा जीवो भवानजोऽ-मरश्चावलोक्यावलोककयोर्न तादात्म्यमिति जन्मादयो न देहिनः किन्तु देहस्यैवेति ॥ ४७ ॥

घटे भिन्ने यथाऽकाश आकाशः स्याद् यथा पुरा ।

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ४८ ॥

पदरत्नावली

अधुना प्रसङ्गात् सामान्यविशेषमरणावस्थामाह घट इति । घटे भिन्ने कपालीभूते घटाकारपरिमितो घटाकाशो नीलिमाकारबहिस्थाकाशः स्यात् । पुरा यथा तथेत्यर्थः । एवं देहे मृते पञ्चत्वमुपगते सति जीवः संसारी ब्रह्म तत्त्वं यथाकर्म स्वर्गनरकादिकं सम्पद्यते । घटान्तस्थमहाकाशैकदेशो बहिस्थव्याप्ताकाशो भवति तथा पुरा जीवः प्राणधारकः परमात्मा अन्तर्यामी ब्रह्म व्याप्तस्वरूपमाप्नोति । घटान्तर्गतभूताकाशः पुरा यथा महाकाशाधीनः पश्चादपि तदधीनतामापद्यते तथा चरमदेहान्तलिङ्गशरीरे मृते नष्टे जीवो मुक्तियोग्य आत्मा परञ्जोतिः सम्पद्यते । अयमर्थः । ‘‘महाकाशो बहिस्थश्च घटाद्यन्तस्थ एव च’’ इति तत्त्वसंहितावचनादव-गन्तव्यः । ब्रह्म मोक्षं पुनरावृत्तिशून्यं वा ॥ ४८ ॥

सत्यधर्मीया

घटे भिन्ने तन्निष्ठो य आकाशो महाविहायोंऽशः स यथा पुराऽऽकाशस्तथा स्यान्महाकाश एव भवति । एवं कलशतुले कलेवरे मृते नष्टे सति पुनर्ब्रह्मा स्वस्वरूपं सम्पद्यते । अत्रोपयोगितात्पर्यं महाकाशो बहिश्चेत्यादिकमुदाहृतं प्राक् तदनुसन्धेयम् । छिद्रयोरिति तत्राप्ये-तत्सङ्गतिरस्तीति प्रथमातिक्रमे कारणाभावात्तत्रोदाहरणं चेति ॥ ४८ ॥

मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।

तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ४९ ॥

पदरत्नावली

प्रकारान्तरेण संसारावस्थामाह मन इति । आत्मनो जीवस्य मनः सुरनरादिदेहान् गुणान् कर्माणि आवृत्तिहेतुभूतानि पुण्यपापलक्षणानि च सृजति आपादयति । शब्दादिविषयासक्तिहेतुभूतानि वा । एवं विधं मनः सत् किम् । तत्राह तदिति । माया जडप्रकृतिस् तन्मन उत्पादयति । सृजत इत्यात्मनेपदप्रयोगेण चिन्मिश्रं मन इति सूचयति । ततो जडमनसः जीवस्य संसृतिः संसारः, वर्तत इति शेषः ॥ ४९ ॥

सत्यधर्मीया

रीत्यन्तरेण संसारोऽस्य भवतीत्याह ॥ मन इति । आत्मनो जीवस्य कर्तृ मनो देहान् गुणान् कर्माणि च सृजति तन्मन इति । माया जडप्रकृतिः सृजते सृजति । सर्जनार्जनफलमात्मगामीत्यचिन्मनस एवात्र ग्रहणमिति सूचयितुमात्मनेपदप्रयोगः । ततो जडप्रकृतिसम्बन्धनिबन्धनेनास्य संसृतिर्भवतीति ॥ ४९ ॥

स्नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते ।

तावद् दीपस्य दीपत्वमेवं देहकृतो भवः ॥ ५० ॥

पदरत्नावली

कियन्तं कालं जन्मात्मकः संसार इति तत्राह स्नेहेति । यावद् यावन्तं कालं तैलादिस्नेहाधिष्ठानद्रव्यस्थितवर्त्यग्निसंयोगस् तावत् तावन्तं कालं दीपस्य दीपत्वं प्रकाशन-सामर्थ्यम् । एवं देहकृतो देहादिकर्मनिमित्तकृतो भव इत्यन्वयः ॥ ५० ॥

दुर्घटभावदीपिका

स्नेहाधिष्ठानवर्त्यग्निसंयोगः स्नेहस्तैलमधिष्ठानं तैलपात्रं वर्ति वर्तिका तास्वग्निसंयोगो यावदीयते यावत्तिष्ठति तावद्दीपस्याग्नेर्दीपत्वं तिष्ठतीति । एवं देहकृतः । देहशब्दः कर्ममनसोरुपलक्षकः । देहेषु देहकर्ममनःसु जीवसंयोगकृतो भवः संसार इति ॥ अयं भावः ॥ यथाऽग्नेर्दीपत्वं तैलाधीनमेवं जीवस्य संसारः कर्माद्यधीन इति । तैलस्थाने कर्म । तैलपात्रस्थाने मनः । वर्तिकास्थाने देहः । अग्निस्थाने जीवः । अग्निसंयोगस्थाने जीवसंयोगः । दीपत्वस्थाने संसार इति विवेको द्रष्टव्यः ॥ ५० ॥

सत्यधर्मीया

निदर्शनं दर्शयित्वा तत्संसृत्यवधिमभिधत्ते ॥ स्नेहेति । स्नेहो घृतादि-रधिष्ठानं पात्रं, वर्तिर्दशाऽग्निसंयोगश्च यावद्यत्कालपर्यन्तमीयते तावद्दीपस्य दीपत्वं दीपकता । एवं तथा देहकृतो देहगुणकर्मादिकृतोऽस्य भवः संसारो यावद्देहादि तावदिति भावः ॥५०॥

रजःसत्त्वतमोवृत्त्या जायेतैधेत नश्यति ।

न तत्रात्मा स्वयञ्ज्योतिर्यो व्यक्ताव्यक्तयोः परः ॥ ५१ ॥

पदरत्नावली

तैलाद्यभावेन यथा दीपादेः शून्यता एवं जीवस्यापि देहाद्यभावेन शून्यत्वमायातमत्राह रज इति । मनसो रजआदिगुणोपजीवने देहो जायत इत्यादि । तत्र तस्यामवस्थायामपि यो व्यक्ताव्यक्तयोर् देहप्रकृत्योः परो विलक्षणः स आत्मा जीवो न जायते न वर्धते न नश्यति । कुतः । स्वयञ्ज्योतिर्ज्ञानात्मा ॥ ५१ ॥

सत्यधर्मीया

तैलादिसरणे दीपलोपवन्न जीवशून्यतेत्याह ॥ रज इति । रजआदि-गुणानुगुणतस्त्रिवृत्करणादेतत्त्रिकोक्तिः । यद्वा यथामानं क्रमोऽत्रोत्पत्तिस्थितिमतिषु ज्ञेयः । जायतेऽथ तिष्ठति विनश्यति । किन्न स्यादित्यतोऽप्याह ॥ आत्मेति । देहो यो व्यक्ताव्यक्तयोर्देहप्रकृत्योः सकाशतः परो विलक्षणः स्वयंज्योतिः स्वयं भगवान् । गतम् । तेनैवेति स्वयं ज्योतिर्ज्ञानाद्यभिव्यक्तियुक्त आत्मा जीवो न जायते न वर्धते । अणुर्ह्येष आत्मेति श्रुतेः । न नश्यति । नतत्रात्मा नतांस्त्रायत इति नतत्रः स चासावात्मा च । व्यक्ताव्यक्तयोः परः कार्यकारणप्रपञ्चविलक्षणः । स्वयंज्योतिरनन्यनिघ्नज्ञानघनो न जायत इत्यादि किं वक्तव्यमिति कटाक्षयत्यान्तरङ्गिकमर्थं च । तत्र नात्मेत्यनिहायेदमानुपूर्व्येति मन्तव्यम् । तं जीवं त्रायत तत्रो न जायत इत्यन्वयः । एतद्द्रक्ष्यस्य यदा तदवशिष्टता तदा तद्रक्षकस्य तदवशिष्टता किं वक्तव्यमिति किमु ततोज्जीविता भवति सौलभ्येन ॥५१॥

आकाशवद् ध्रुवाधारो ध्रुवो नानामितस्ततः ।

एवमात्मानमात्मस्थमात्मनैवामृश प्रभो ॥ ५२ ॥

पदरत्नावली

इदानीमुपास्तिप्रकारं विधत्ते आकाशवदिति । आकाशवत् ततो व्याप्तः ध्रुवाधारो नित्याधारः ध्रुवो नित्यश्च यः नानामितस् तत्तद्वस्तुपरिमाणपरिमितश्च एवंविध-माहात्म्योपेतमात्मस्थं स्वहृदयकुहरनिलयम् आत्मानं परमात्मानम् आत्मनैव सर्वप्रयत्नेन आमृश सम्यग् विचार्योपास्व । प्रभो इत्युपास्तिसामर्थ्यमाह ॥ ५२ ॥

सत्यधर्मीया

फलितमभिलप्योपसंहरति ॥ आकाशवदिति । आकाशवत्ततो व्याप्तो ध्रुव आधारः शाश्वतिक आश्रयः । नानामितस्तद्वस्तुपरिमाणपरिमाणः । अत्राप्याकाश इवेत्य-न्वेति । एवमात्मस्थं स्वान्तर्गतमात्मानं भगवन्तमात्मना यत्नेनामृश चिन्तय । नानेति नेह नानेत्यादाविव भावप्रधानम् । नानात्वेन मित इत्यर्थो वा । आत्मानमित्येकवचनेन तदेकतां सूचयति । प्रभवित्यनेन स्वोपदेशासादितैतदुपासासामर्थ्यं तवास्तीति द्योतयति ॥ ५२ ॥

बुद्ध्याऽनुमानगर्भिण्या वासुदेवानुचिन्तया ।

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः ॥ ५३ ॥

पदरत्नावली

दुर्मरणदोषदुष्टस्य मम देहत्यागेऽपि मोक्षो नास्तीति न चिन्तयेत्याशयेनाह बुद्ध्येति । आत्मा स्वस्वेतरवृत्तित्वानाक्रान्तनित्यनिष्ठाधिकरणं मेयत्वादात्मवदिति, देहः स्वस्वेतरवृत्तित्वानाक्रान्तनित्यनिष्ठाधिकरणं मेयत्वाद् घटवदित्यनुमानगर्भिण्या वासुदेवानुचिन्तया हरेर्निरन्तरसदुपासनया वर्तमानं त्वां विप्रकुमारवाक्येन चोदितः प्रेरितस् तक्षको न धक्ष्यति दष्टदोषं नापादयतीत्यन्वयः ॥ ५३ ॥

सत्यधर्मीया

अनुमानगर्भिण्या बुद्ध्या निमित्तेनाङ्कुरितया वासुदेवानुचिन्तयोपासनया वर्तमानं त्वां विप्रकुमारवाक्येन चोदितस्तक्षको न धक्ष्यति दंशनदोीषिणं न करोतीत्यर्थः । मृत्यूनां मृत्युं मारकमीश्वरमुप समीपे स्थितं मृत्यवस्त्वां न प्राप्नुवन्तीति व्यातन्वते । अनुमानद्वयमप्युदाहृतवन्तस्ततस्तद्विलोक्यम् । त्वं च राजन्नित्यारभ्येयं जीवप्रकरणीमध्ये प्रकरणमाकाश इव चाधार इति श्लोके किमुत्तमश्लोकोक्तिरिति जीवपरोऽयं व्याख्यायते । आकाश एव तदोतं प्रोतं चेत्यादेराकाशवत्स्वयं ध्रुवो नित्यः शाश्वतः सदैकरूप इत्युक्तेः । नानामितः स्वकर्मनिर्मितनानायोनिरिति मित आधार इन्द्रियादीनामात्मस्थं जीवकूटघटितं स्वमेवमात्मना प्रयत्नेनानुमानगर्भिण्या बुद्ध्या युक्तियुक्तज्ञानेनाहं स्वकर्मायत्तातीतनानादेहावच्छिन्नाभिन्नः । अधुना नानास्वादितस्तत्कृत्वेऽप्यौत्तरिकप्रवृत्तिहेतुभूतानुसन्धानवत्त्वात् । तथा कौमाराद्यवस्थावदात्मेति । देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति । यथा कौमारादिशरीरभेदे देही तदीक्षिता सिद्धः । एवं देहान्तरप्राप्तावपि ईक्षितृत्वादित्यादिगीतातद्भाष्य प्रमेयदीपिकादितो विस्तरोऽवसेयः । विमृशतल्लब्धया वासुदेवानुचिन्तया सहितं त्वाम् । अनुमानगर्भिण्या वासुदेवानुचिन्तया । अनवस्थितेरसम्भवाच्च नेतरः । इतरव्यपदेशाद्धिताकरणादि दोषप्रसक्तिरित्यादियुक्तय इतरानपेक्षणेन वासुदेवापेक्षणे हेतवस्तानि गर्भेऽस्यास्तथा जातया वासुदेवानुचिन्तया सहितं स्वस्वातन्त्र्यतत्स्वातन्त्र्यदेहे नित्यत्वादिज्ञानिनं विप्रवाक्येन चोदितोऽपि तक्षकस्त्वां न धक्ष्यति तद्दंशहेतुकं दुर्मृतिपातकदो न भवति । विजयध्वजीयव्याख्याप्रदर्शितानु-मानद्वयार्थः । आत्मा स्वस्वेतरवृत्तित्वानाक्रान्तनित्यनिष्ठाधिकरणं मेयत्वादात्मवदिति । देहः स्वस्वेतरवृत्तित्वानाक्रान्तनित्यनिष्ठाधिकरणं मेयत्वाद्घटवदित्यनुमानगर्भिण्या वासुदेवानुचिन्तया हरेर्निरन्तरसदुपासनया वर्तमानं त्वां विप्रकुमारवाक्येन चोदितः प्रेरितस्तक्षको न धक्ष्यति दष्टदोषं नापादयतीत्यन्वयः । आत्मेति जीवात्मेत्यर्थः । स्वस्वेतरवृत्तित्वानाक्रान्तेत्यनेन स्ववृत्तित्वस्वेतर-वृत्तित्वोभयाभाववद्ब्रह्म विवक्षितम् । स्वपदं पक्षीभूतास्वातन्त्र्यादिगुणविशिष्टजीवपरम् । स्वेतरेऽस्वातन्त्र्यादिगुणवत्तया जीवसदृशा जीवभिन्ना घटादयस्तदुभयवृत्तित्वाभाववद्ब्रह्म । न च सर्वगतस्य कथं जीवतदितरावृत्तित्वमिति वाच्यम् । अखिलजीवतदितरवृत्तित्वपदेन जीवतदि-तरात्मकाधिकरणसापेक्षसत्ताकत्वस्य विवक्षितत्वात् । तस्य च किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत्यधिष्ठानस्याक्षेपश्रुतिविरोधेनासम्भवात् । स भगवः कस्मिन्प्रतितिष्ठत इति स्वे महिम्नीति श्रुतेस्तस्य परमात्मनो या नित्यनिष्ठा नित्यसम्बन्धः परमात्मनिष्ठस्वामित्वनिरूपित-स्वस्वरूपस्तदधिकरणं मेयत्वात्परिमितशक्तित्वादित्यर्थः । न च माविषयत्वरूपयथाश्रुतार्थपरत्वमेव किन्न स्यादिति वाच्यम् । तथा सति घटादेरेव दृष्टान्तत्वसम्भवेन घटवदिति वक्तव्ये आत्मवदिति दृष्टान्तकथनासाङ्गत्यापत्तेः । न चैवमपि साध्यहेत्वोरुभयोरप्यभावात्कथं दृष्टान्तत्वमिति वाच्यम् । व्यतिरेकदृष्टान्तत्वाशयात् । देहपक्षकद्वितीयानुमाने मेयत्वादित्यस्य परिमितत्वादित्यर्थः । परिमितिशक्तित्वादित्यर्थकरणे घटवदिति दृष्टान्तानानुगुण्यापत्तेः । शक्तिपदस्य कार्योत्पत्ति-प्रयोजकचेष्टाजनकप्रयत्नस्वरूपयोग्यतापरत्वात् । अत एव द्वितीयानुमानं न केवलव्यतिरेकि । न च निष्ठापदस्य कथं सम्बन्धपरत्वमिति वाच्यम् । भूतलनिष्ठो घट इत्यादौ भूतले निष्ठा यस्येति विग्रहवाक्यघटकीभूतनिष्ठापदस्य भूतलानुयोगिकघटनिष्ठसंयोगात्मकाधेयतापरत्वस्य दृष्टत्वात् । न च साध्ये नित्यपदं व्यर्थमिति वाच्यम् । भगवतो भगवद्भक्तानां च स्वामिभृत्य-भावरूपसम्बन्धो नित्य इति प्रतीतेरुद्देश्यत्वादुद्देश्यप्रतीत्यर्थत्वेन सार्थक्यात् । अत एव गुणादिकं गुण्यादिनाभिन्नाभिन्नं समानाधिकृतत्वादित्यत्र गुणगुणिभेदस्य पूर्वपक्षिणा तार्किकेणाङ्गीकृततयाऽ-भिन्नत्वमात्रस्यैव साधनीयत्वेऽपि भिन्नाभिन्नत्वेनैव गुणादिप्रतीतेरुद्देश्यत्वात्तदर्थत्वेन भिन्नपदस्य सार्थक्यम् । साध्यघटकविशेषणस्य व्यभिचारादिनिरासकत्वानियमात् । क्षित्यङ्कुरादिकं स्वोपादान-गोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यं कार्यत्वाद्घटवदित्यत्र कृतिमज्जन्यमित्यनेनैव क्षित्यङ्कुराद्युत्पाद-प्रयोजककृतिमत्तयैवेश्वरसिद्धौ सम्भवत्यामपि ज्ञानचिकीर्षाग्रहणं ज्ञानचिकीर्षाकृतिमत्त्वेनेश्वर-प्रतीतेरुद्देश्यत्वात्तदर्थत्वेन सार्थकमिति समाहितम् । तथा चैतद्युक्तिपूर्वकं स्वस्मिन्स्वीयदेहे च भगवत्स्वामिकमनुसन्दधतस्तव तक्षको दष्टत्वदोषं नापादयतीत्याशयः ।

‘‘आत्मेत्युपासनं कार्यं सर्वदैव मुमुक्षुभिः । नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत् । सर्वोत्कृष्टोऽयमेवैकस्तदीयोऽहं स मे पतिः । मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव चे’’त्यादि प्रमाणानुसारादित्थं व्याख्यानम् ॥ ५३ ॥

मृत्यवो नोपसर्पन्ति मृत्यूनां मृत्युमीश्वरम् ।

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ॥ ५४ ॥

एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥ ५५ ॥

दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।

न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ ५६ ॥

पदरत्नावली

मृत्यूनां मारकाणां मृत्युं मारकमीश्वरमुपसमीपे स्थितं मृत्यवो न सर्पन्ति त्वां न प्रप्नुवन्ति । दंशदोषास्पर्शने प्रकारान्तरेणोपायमाह अहमिति । न हन्यत इत्यहं, न हीयत इति वा, कदापि न जहाति स्वशक्तिमिति वा । एवंविधमीश्वरं विहाय कदापि न तिष्ठति, अस्वातन्त्र्यादित्यर्थः ॥ उपासनफलमाह एवमिति । एवंविधस्त्वं निष्कले आत्मनि परमात्मानं समाधाय संयुज्य समीक्ष्य सम्यग् ध्यायन् विषयुक्ताननैः पदे दशन्तं तक्षकं लेलिहानं सर्पं न द्रक्ष्यसि, इतरसर्पवदिति शेषः । आत्मनो हरेः पृथक् स्वातन्त्र्येण स्थितं विश्वं शरीरं च न पश्यसीत्यन्वयः ॥ ५४-५६ ॥

दुर्घटभावदीपिका

मृत्यवो मृत्युहेतवः । मृत्यूनां मृत्युं मारकमीश्वरमुपसर्पन्तं भजन्तं नोपसर्पन्ति न प्राप्नुवन्तीति । एतेनेश्वरमुपसर्पन्तमिति वक्तव्यम् । ईश्वरमुपेति कथनमयुक्तमिति दूषणं परास्तम् । उपसर्गाः सति क्रियावचने सत्सम्बन्धिनो भवन्ति । असति ससाधनां क्रियामाहुरिति वचनानुसारेणोपशब्द उपसर्पन्तमित्यर्थवाचीत्यभ्युपगमात् ॥ ५४ ॥

सत्यधर्मीया

स एव नागच्छतु मुने विनेये तथा दया विधेयेति चेन्नेत्याह ॥ मृत्यूनां मृत्युं श्रीहरिमिति । ईश्वरं तमेव मृत्यवो नोपसर्पन्ति । तदितरे न तथेति मृत्युरुल्लङ्घ्यस्तदनु-चिन्तया पातकमात्रं यतो भविष्यतीति तात्पर्यम् । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहमित्यादेः । यद्वेश्वरमीश्वरोऽस्यास्तीति स तं त्वां मृत्युमृत्युमिति विशेष्ये बाधितार्थं सद्विशेषणीभूतेश्वरपदार्थेनान्वेति । मृत्युमृत्वीश्वरवन्तमित्यर्थः । तत्स्वामिकमिति यावत् । मृत्यवस्त्वां नापसर्पन्ति दुर्मृतिफलोपलम्भका न भवन्तीति ॥ साम्मुग्ध्येनोक्तां प्राग्वासुदेवचिन्तैवंरूपेति निरूपयति ॥ अहमिति । ओयत्वादहन्नामेत्यादेः । परमहेयं हरिर्ब्रह्मा चाहंपरमो हरश्च तयोर्धाम तेजोगृहं सत्यकैलासादिकं यस्मात्तत् । धामशब्द एभ्यो योग्यतयाऽन्वेति । यद्वा ब्रह्मा चाहपश्च ताभ्यां सहिता रमा यस्य तद्गम्यं ब्रह्म गुणपूर्णमेवमिति समीक्ष्यात्मानं स्वं निष्कले स्वभिन्नांशविकले परमात्मन्याधाय तदाश्रयतया सञ्चिन्त्य पादे दंशन्तम् । अनेन शृृङ्गीशापः पादे तक्षको धक्षत्वित्येवंरूप इति सूच्यते । तथा विषाननैर्लेलिहानमास्वादयन्तं शरीरं च न द्रक्ष्यसि निरभिमानित्वात् । विश्वं जगच्चात्मनः पृथक् स्वातन्त्र्योपेतं न भगवदधीनमिति न द्रक्ष्यसि । तक्षको मम धक्षणमधोक्षजाज्ञयैव तनोतीति क्षणमेव तदनीक्षणमिति न द्रक्ष्यसीत्युक्तिः । परंधाम तेजःपुञ्जं ब्रह्मेति वा पदम् । एवं समीक्ष्यात्मानं भगवन्तमात्मनि निष्कले निर्गता कला तदभिन्नांशो यस्मिन्स्वस्मिन्नाधाय ध्यानेनान्तर्निविष्टं विधाय न सर्प उपसर्पति दंशति च मामिति दर्शनं च पृथगात्मनो मूढचेतस इति वा ॥ ५४-५५ ॥

विरोधोद्धारः— दशन्तमिति । अत्र पादस्य दंशस्थानोक्तेः । कण्ठेऽदशदिति भारतोक्त्या विरोधोऽतोऽर्थान्तरम् । पादे स्वशरीरचतुर्थांशे । उरूपर्यन्तमेकांशः । नाभ्यान्तो द्वितीयांशः । वक्षोऽन्तस्तृतीयांशः । कण्ठादिशिरोऽन्तश्चतुर्थांशः । अत एकवाक्यतया न विरोधः । यद्वा । महतां हि स्वरूपं च पादशब्देन भण्यत इत्युक्त्या पादशब्दस्य सर्वशरीरवाचकत्वेन कण्ठावयवस्यापि सुग्रहत्वात् । अथवा । पं जगत्पालकं स्वरक्षकं वा विष्णुमुच्चार्यतयाऽऽददाति अङ्गीकरोतीति तथा (पादः) तस्मिन्कण्ठे इत्यर्थः । उच्चारणस्य कण्ठायत्तत्वात् । किंवा । पादे चरणे । विषाननैः । लेलिहानं केवलं लिहन्तम् । प्रमितस्थाने तु तक्षकमित्यादि । अतः पस्य विष्णोर् आ अतिशयाद् आदानेऽभ्युपगमे सति दशंतं तक्षकं न दृक्ष्यसि । बाह्यदृष्ट्यभावादित्यर्थः । स्वशरीरस्यापि दर्शनाभावेन परतक्षकशरीरदर्शनस्यात्यन्तासम्भवात् । तत्र हेतुमाह ॥ शरीरं चेति । आत्मनः परमात्मनः । सकाशात् । शरीरं शीरणविकारि जडमित्यर्थः । विश्वं च । ओहाश्विगतिवृध्योरिति धातोः । गमनकारि चेतनमित्यर्थः । तदुभयम् । पृथक् भिन्नम् । अत्र चशब्देन स्वात्मेतरचेतनं गृह्यते । अत आत्मनो दर्शनेऽपि तदत्यन्तभिन्नस्य स्वशरीरादेर्दर्शनाभाव इति भावः ॥ ५६ ॥

॥ इति पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारे चतुर्थोऽध्यायः ॥ १२-४ ॥

॥ श्रीभागवते द्वादशस्कन्धे पाङ्घरीश्रीनिवासाचार्यकृतविरोधोद्धारः समाप्तः ॥ १२ ॥

एतत् ते कथितं तात यथा त्वं पृष्टवान् नृप ।

हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ ५७ ॥

॥ इति श्रीमद्भागवते द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ १२-४ ॥

पदरत्नावली

अवान्तरप्रमेयमुपसंहरति एतदिति । चेष्टेति पाठे सा कथितेति शेषः

॥ ५७ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्यां द्वादशस्कन्धस्य चतुर्थोऽध्यायः ॥ १२-४ ॥

दुर्घटभावदीपिका

हे तात नृप एतत्ते कथितम् । एतदेव विवृणोति ॥ यथेति । त्वं विश्वात्मनो विश्वनियामकस्य हरेश्चेष्टां यथा पृष्टवानसि । तथा हरेश्चेष्टा मया कथिता । भूयः किं श्रोतुमिच्छसीति । एतेन एतदिति नपुंसकप्रथमैकवचनान्तस्य चेष्टामिति स्त्रीलिङ्गद्वितीयैक-वचनान्तेनानन्वय इति दूषणस्यानवकाशः । एतदित्यस्य चेष्टामित्यनेनान्वय इत्यनभ्युपगमात्

॥ ५७ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां

द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ १२-४ ॥

सत्यधर्मीया

हे नृप विश्वात्मनो हरेश्चेष्टामुद्दिश्य यथा त्वं पृष्टवानस्येतदुत्तरं ते त्वां प्रति कथितम् । तातेत्यन्ते सम्बोधयन्नासन्नेऽपि तृणगणसन्निवेशं तस्य ध्वनयामास । भूयः किं पृच्छसि त्वं यत्पृष्टवानेतत्ते कथितम् । विश्वात्मनो हरेश्चेष्टां भूयः श्रोतुमिच्छस्यथवा किन्त्वमन्यत्तदुपयुक्तं गतं श्रोतुमिच्छसीति ॥ ५७ ॥

**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **

द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ १२-४ ॥