०३ तृतीयोऽध्यायः

दृष्ट्वाऽऽत्मनिर्जयव्यग्रान् नृपान् हसति भूरियम्

॥ अथ तृतीयोऽध्यायः ॥

श्रीशुक उवाच–

दृष्ट्वाऽऽत्मनिर्जयव्यग्रान् नृपान् हसति भूरियम् ।

अहो मां विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ १ ॥

काम एष नरेन्द्राणां मोघः स्याद् विदुषामपि ।

येन फेनोपमे पिण्डे येन विस्रम्भिता नृपाः ॥ २ ॥

पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः ।

ततः सचिवपौराप्तकरीन्द्रानथ कण्टकान् ॥ ३ ॥

पदरत्नावली

चतुर्युगधर्मविभागः कलिदोषपरिहारश्चेत्येतदस्मिन्नध्यायेऽभिधीयते । तत्रादौ राज्ञां मौढ्यदर्शनेन भूमेः परिहासप्रकारमाह दृष्ट्वेति । आत्मनो नितरां जये व्यग्रान् तदेक-परायणान् ॥ मौढ्यमेवोपपादयति येनेति ॥ कीदृशस्तेषां काम इति तत्राह पूर्वमिति । षड्वर्गं सन्ध्यादिलक्षणम् । निर्जयो नामोत्कर्षः । षडिन्द्रियविषयं वा । अनेन भूम्येकसाधनाग्रहं सूचयति । राजमन्त्रिणः राजा च मन्त्रिणश्च राजमन्त्रिणः । मन्त्री बुद्धिसहायः स्यादिति । ततो मन्त्रिजयानन्तरम् । सचिवः कर्मसहायः, अमात्या कर्मसचिवा इत्यमरः । आप्ता विश्वस्ताः । अथ पश्चात् कण्टकान् क्षुद्रशत्रून् ॥ १-३ ॥

सत्यधर्मीया

तान्दृष्ट्वा मेदिनी किं विधत्त इत्यतोऽभिधत्ते ॥ दृष्ट्वेति ॥ आत्मनो निर्जये व्यग्रान्नृपतीन्दृष्ट्वा स्वयमियं भूर्हसति, मृत्योः क्रीडनकास्तत्क्रीडासाधनभूता नृपा मां विजिगीषन्ति जेतुमिच्छन्ति । यागबद्धच्छागः स्वोपरिबद्धचूतपल्लवखादनयत्नवानिव क्षणे तदीक्षणे क्षयिष्णूनां मज्जयसाहसमहो इति हसति । कदाचित्कर्मवशाद्दया चेदीषत्संवित्तदाऽपि काम एष मोघः स्यात्किम्वविदुषामिति सूचयितुं विदुषामपि सोऽपि निर्देशः कृतः । तेन च सा गर्हितेति ज्ञायते । येन कामेन फेनोपमे फेनेनोपमाऽऽशुनाशेन । यस्मिन्पिण्डे ये नृपा अतिविस्रम्भिता विस्रम्भः सञ्जात एषामिति विग्रहः । तारकादिरितच् । एतेन उदितो वेति क्त्वायां यस्य च विभाषेति निष्ठायामिण्निषेधात्कथमिति निरस्तम् । यद्वा स्रम्भो येषामस्तीति स्रम्भिणस्तेषां भावः स्रम्भिता विशिष्टा स्रम्भिता येषां ते तथेति । बहुविश्वस्तास्तेषां कामो मुधा इदमद्य मया लब्धमिमं प्राप्स्य इति न तदवसितिरिति । गोत्रात्तद्वैचित्र्यं वक्तीति वक्ति ॥ पूर्वमिति । षड्वर्गं कामादिकं निर्जित्य । अजित्वा । दस्यून्पुरं षण्णविजित्य लुम्पत इत्यादेः । सन्धिभेदादि-षट्कं निर्जित्य सम्पाद्येति वा । राजमन्त्रिणो राज्ञामालोचनदांस्ततः सचिवांस्तत्सहायान् अमात्यान्पौरान्पुरप्रवर्तकान् । आप्तांस्तद्विश्वासवतः करीन्द्रांस्तदीयान्गजानथ कण्टकान्क्षुद्रजन्तू-ञ्जेष्यामः ॥ १-३ ॥

एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् ।

इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥

पदरत्नावली

एवं क्रमेण राज्ञो जित्वा पृथिवीं जेष्यामः वशीकरिष्याम इत्याशया अतितृष्णया । अन्तकं मृत्युम् ॥ ४ ॥

सत्यधर्मीया

एवं तद्देशेशान्क्रमेण जित्वा । सागर एव मेखला रशना यस्याः सा तां पृथ्वीम् । जेष्याम इत्याशया, बद्धं हृदयं येषां ते । अन्तिके अन्तिकं समीपवर्तिनं न पश्यन्ति ॥ ४ ॥

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।

कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥

यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह ।

गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धयः ॥ ६ ॥

पदरत्नावली

एवं केचिन्मां जित्वाप्यतितृष्णया अब्धिं विशन्तीत्यनेन द्वितीयादिजयाद्यं सूचयति । भूजयादिना न किञ्चिदपि प्रयोजनमपि त्वन्ततोऽनर्थ एवावशिष्यते मनोजय-फलापेक्षयेत्याह कियदिति । अत्मजयस्य मनोजयस्य फलापेक्षया एतद् भूजयादिकं कियत्फलम् । आत्मजयेऽपि किं फलं येनायमेव साध्य इत्यत्राह मुक्तिरिति । आत्मजये मुक्तिरेव फलं यस्मात् तस्मादिति शेषः ॥ इतोऽपि मज्जयकामा अज्ञा एवेत्याह यामिति । मनवस्तत्सुताश्च यां मां विसृज्य यथागता याता अबुद्धयस् तां मां जेष्यन्तीत्यन्वयः । आत्मजयवतां त्यागशक्ति-रन्येषामन्यथेति सूचयति ॥ ५,६ ॥

सत्यधर्मीया

आशातिशयवशादेवमाशयः केषाञ्चिद्भविष्यतीत्याह ॥ समुद्रेति ॥ समुद्रावरणां मां जित्वा मनसैवाब्धिं तदन्तर्वर्तमानद्वीपादिकमोजसा विशन्ति । तज्जयचिन्तनां तन्वते । इदं सर्वं मनोजयभाव्यं तज्जये चेदं कथितं कृषेरिव पलालकुलमिति न फलं किन्तु मुख्यमन्यदित्याह ॥ कियदिति ॥ आत्मजयस्य मनोजयस्येदं मज्जयात्मकं कियत्किं फलं स्यात् । तज्जये फलं मुक्तिरेव न तु मत्प्राप्तिरतोऽल्पफलक इति स कामो मोघ इति भावः । इतोऽपि मत्कामा मूढा इत्याह ॥ यामिति ॥ मनवो मनुतनुजाश्च यां मां विसृज्य गता यथा गतं तथा तां तादृशीमसहगामिनीं मामबुद्धयो न विद्यते बुद्धिः सती येषां ते । युद्धे मां जेष्यन्ति तथेच्छन्ति ॥ ५६ ॥

मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः ।

जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥

पदरत्नावली

न केवलमितरेषां मत्कृते विग्रहः, अपि तु शरीरसम्बन्धिनामपि स्यादित्याह मत्कृत इति ॥ अपिशब्दः पुत्रादीनामित्यनेन सम्बन्धयितव्यः । अयमपि प्रायिक इत्याह असतामिति ॥ असतामप्रशस्तकर्मणाम् ॥ ७ ॥

सत्यधर्मीया

भवतु भवज्जयचिन्ता भूपतीनामितरेषां स्वकसुखं न त्वत्प्रयुक्तविग्रहेण सुसम्पादमिति नेत्याह ॥ मत्कृत इति ॥ पितृपुत्राणां पितृसहिताश्च ते पुत्राश्च तेषाम् । एतेनानङ् ऋतो द्वन्द्व इत्यानङि पितापुत्राणामिति द्वन्द्वेन भाव्यमिति निरस्तम् । तथा भातॄणां सहोदराणां विग्रहः कलहोऽपि रविग्रहास्पदानामित्यर्थे । चः समुच्चये । न स्वैकापदि निवर्तते स इत्यप्याह ॥ चापिविग्रह इति ॥ चापी चासौ विग्रहश्चेति विग्रहः । अनेन मरणान्तं वैरमिति सूचितं भवति । ममताबद्धचेतसामसतां राज्ये विषये जायत एवमिति भावः ॥ ७ ॥

ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।

स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ ८ ॥

पदरत्नावली

किं प्रकारो विग्रह इति तत्राह ममेति ॥ ८ ॥

सत्यधर्मीया

तत्प्रकारमाह ॥ ममैवेति ॥ वादो मुखतो वचनं येषामस्ति ते । वादो-विषयकत्वं च मुखतो वचनं स्मृतमिति गीताभाष्योक्तेः । मत्कृते मन्निमित्तं म्रियन्ते मरिष्यन्ति

॥ ८ ॥

पृथुः पुरूरवा गाधिर्भरतो नहुषोऽर्जुनः ।

मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ ९ ॥

पदरत्नावली

तत्र कांश्चिन्नृपान् निर्दिशति पृथुरित्यादिना ॥ ९ ॥

सत्यधर्मीया

कांश्चन तान्कीर्तयति ॥ पृथुरिति ॥ स्वसमीपकारित्वात्पृथुमादौ मेदिनी जग्राहेति ज्ञेयम् । केचिदाविष्टावतारत्वात्पुरा धरा पृथुमवादीदिति वदन्तो रामं साक्षादधोक्षजं न निभालितवन्तस्त इव रामपदार्थं न वर्णयाम्बभूवुरिति पृथवः । गाधिर्विश्वामित्रपिता । अर्जुनः कृतवीर्यजः । रामो दाशरथिः । स्वत्यागस्यैव कृतत्वेऽपि त्यागमात्रेणैतत्पङ्क्तिर्निवशपङ्क्तिरथसुतस्येति ज्ञेयम् । परशुरामो वा । भार्गवेयरामवदयमपरो रामो राजा वा । वस्तुतस्त्वयं पक्षः सध्रीचीनः समतां मयीत्याद्युत्तरोक्त्यानुकूल्यात् । अन्यथा भगवतस्तदनुपपत्तिरिति ज्ञेयम् । एतत्पक्षे केचिदित्युक्तमपि लग्नम् । धुन्धुहा धुन्धुमारः ॥ ९ ॥

तृणबिन्दुर्ययातिश्च संयातिः (शर्यातिः) शन्तनुर्गयः ।

भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः (नृपः) ॥ १० ॥

सत्यधर्मीया

संयातिर्ययातिभ्राता । शर्यातिरित्यपि पठन्ति । नैषधो नलः ॥१०॥

हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः ।

नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥ ११ ॥

सत्यधर्मीया

लोकरावण इति पौराणिकं निर्वचनान्तरम् ॥ ११ ॥

अन्ये च बहवो दैत्या राजानो ये प्रजेश्वराः ।

सर्वे सर्वविदः शूराः सर्वे सर्वजितोऽजिताः ॥ १२ ॥

ममतां मय्यमर्त्यायां कृत्वोच्चैर्मत्यधर्मिणः ।

कथावशेषाः कालेन ह्यकृतार्थाः कृता अहो ॥ १३ ॥

पदरत्नावली

एते मर्त्यशरीरधर्मिणः सर्वेऽप्यमर्त्यायां मयि विषये ममतां कृत्वा अकृतार्था असाधितपुरुषार्थाः कालेन बलिना कथावशेषाः कृता हि यस्मात् तस्मादमीषामज्ञानमहो । अत आत्मजयेन भाव्यमित्यर्थः ॥ १३ ॥

सत्यधर्मीया

अजिताः स्वयममर्त्यायां तांस्त्यक्त्वाऽप्यव्यवस्थितेरमर्त्या तस्यां मय्युच्चै-र्ममतां कृत्वा स्वयं मर्त्यधर्मिणः । कालेन कालबलेन । कथावशेषा अपूरितसङ्कल्पाः कृताः । अहो आश्चर्यम् ॥ १३ ॥

कथा इमास्ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् ।

विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥

पदरत्नावली

निगमयति कथा इति । लोकेषु यशो विताय विस्तृत्य परेयुषां लोकं प्राप्तानां महीयसां मन्वादीनामुत्तमानां पुरुषाणामिमाः कथास्ते कथिताः, मयेति शेषः । किमर्थं कथिता इति तत्राह विज्ञानेति । वचोविभूतीर् वचसां विभूतयो विविधभवनविषया वा । विज्ञान-वैराग्यविवक्षया योग्यस्य पुंसो विज्ञानवैराग्ये स्यातामित्यभिप्रेत्य विवृताः । न तु पारमार्थ्यं परमार्थ उत्तमार्थो वेदमुख्यार्थो भगवान् तत्सम्बन्धविवक्षया नैव । तस्य विधिनिषेधाविषयत्वात् । विज्ञानविवक्षयापि मदुक्त एव ग्राह्यो नान्योक्त इत्याह वचोविभूतीरिति । अन्यवाचोविभूतयो वचसां बहुत्वान्न पारमार्थ्यम् उत्तमपुरुषार्थसाधनज्ञानमुद्दिश्य न भवन्तीत्यर्थः । वाचो विग्लापनं हि तदिति श्रुतेः ॥ १४ ॥

दुर्घटभावदीपिका

हे विभो वचोविभूतीर्वचोविभूतयो राजविषयकवचोविलासा विज्ञानवैराग्य-विवक्षया भगवद्विज्ञानवैराग्ययोर्विवक्षया । भगवद्भक्तत्वविवक्षयेति यावत् । प्रवृत्ताः । पारमार्थ्यं परमार्थो भगवांस्तस्य भावः पारमार्थ्यम् । भगवदैक्यमिति यावत् । वक्तुं न तु प्रवृत्ता नैव प्रवृत्ता इति । एतेन विज्ञानवैराग्यविवक्षयेत्यर्थो व्यर्थ इति दूषणं परास्तम् । भगवन्माहात्म्यकथनावसरे राजमाहात्म्यकथनं राज्ञां भगवदैक्यादिति शङ्कानिरासार्थं राज्ञां भगवद्भक्तत्वाद् भगवन्माहात्म्य-कथनावसरे राज्ञां माहात्म्यमुच्यते । न त्वैक्यादिति वक्तुं विज्ञानवैराग्यविवक्षयेत्यर्थः ॥ १४ ॥

सत्यधर्मीया

फलमुक्त्वोपसंहरति ॥ कथा इति ॥ महीयसां लोकेषु यशो विताय विस्तार्य परेयुषां परलोकं गतानाम् । लिटः क्वसुः । वसोः सम्प्रसारणं भसंज्ञायाम् । इमाः कथा मया ते कथिताः । विज्ञानवैराग्यविवक्षया सदधिकारिणस्ते स्यातामिति । ताश्च कथाः किं रूपिण्य इत्यत आह ॥ वचोविभूतीरिति ॥ वचसां तत्तद्राज्यादिचरितवर्णनपराणां विभूतयो विविधभवनानि यासां ताः । तत्कृत्यानत्ययेन वचनानां नानाविधताऽनुसन्धेया न तु पारमार्थ्यम् । वच इत्येकदेशानुवृत्तिः स्वार्थे च ष्यञ् । इदं वचः परमार्थं परमोऽर्थो यस्य तन्न किन्तु मुख्यार्थमिति हेतुरिति श्राव्यमित्यर्थः । यस्य पारमार्थ्यं मुख्यार्थत्वं नास्ति तद्वच इति वाऽन्वयः

॥ १४ ॥

यत्रोत्तमश्लोकगुणानुवादः सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः ।

तमेव नित्यं शृणुतादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः ॥ १५ ॥

पदरत्नावली

कुत इतरा वाचोविभूतयः पुरुषार्थोपयोगिन्यो न स्युरित्यत आह यत्रेति । यत्र यस्यां वाचि उत्तमश्लोकगुणानुवादः सङ्गीयते पुरुषस्तामेव वाचं शृणुतात् शृणोत्वित्यर्थः । श्रीहरिभक्त्यनुत्पादकत्वादितरा वाचो हेया इत्यर्थः । अन्या वाचो विमुञ्चथेति श्रुतेः ॥१५॥

सत्यधर्मीया

परमार्थज्ञानसाधनत्वेनेमाः कथाः कथिताः किल मुने सोऽर्थः को वेदादि-वेद्यः सदा श्राव्य इत्यत आह ॥ यत्रेति ॥ यत्र यस्मिन्ग्रन्थे उत्तमश्लोकस्य रमाब्रह्मादि-कीर्तनीयस्य हरेर्गुणानुवादः सङ्गीयते । न प्रसङ्गसङ्गत्येत्याह ॥ अभीक्ष्णमिति ॥ तद्व्यापार-मीरयति ॥ अमङ्गलघ्न इति ॥ कृष्णेऽमलां भक्तिमभीक्ष्णमभीप्समानः कामयानो नित्यं श्रुणुतात् । शृृणोतु ॥ १५ ॥

राजोवाच–

केनोपायेन भगवन् कलेर्दोषान् कलौ जनाः ।

विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥

पदरत्नावली

ज्ञातकलिदोषपरिहारोऽपि राजा लोकोपकाराय पृच्छति केनेति ॥ कलेरुत्पन्नान् दोषान् विधमिष्यन्ति परिहरिष्यन्ति । उपचितान् संवृद्धान् । तदुपायस्वरूपं यथा यथावत् ॥ १६ ॥

सत्यधर्मीया

कलौ कलिदोषा एवं प्रदुष्याश्चेत्कथं कथयाऽमला भक्तिर्भवति भगवति येनामङ्गलगलनं स्यादिति मतं तत्प्रकारोऽप्यारोपितेतराविज्ञातस्तदुपकृतये परीक्षित्पृच्छति ॥ केनेति ॥ कलेस् तत्सम्बन्धिनः । उपचितान्मेदुरान्दोषाञ्जनाः केनोपायेन कलौ काले विधमिष्यन्ति यथा सम्यग्ब्रूहि । मुन इति प्रवचनाचातुर्यनिरासः ॥ १६ ॥

युगानि युगमानं च मानं प्रलयकल्पयोः ।

कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः ॥ १७ ॥

पदरत्नावली

कालस्य विष्णोर्गतिं गमनप्रकारं च ॥ १७ ॥

सत्यधर्मीया

युगानि तथा तद्भवान्धर्मांश्च । प्रलयो नाशः कल्पोऽवस्थितिस्तयोर्मानं प्रमाणं च । ईश्वररूपस्य भवान्भवस्येश ईशोऽस्य भवान्भवत्वितीश्वरान्रूपयति प्रतिष्ठापयतीति स तस्य महात्मनः कालस्य तच्छब्दवाच्यस्य विष्णोर्गतिं गमनप्रकारं च ब्रूहीत्यन्वयः ॥१७॥

श्रीशुक उवाच–

कृते प्रवर्तते धर्मश्चतुष्पात् तज्जनैर्धृतः ।

सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥

पदरत्नावली

सूचीकटाहन्यायेन युगधर्मस्वरूपमादौ वक्ति कृत इति ॥ तज्जनैः कृतयुगजनैः । के चत्वारः पादा इत्यत्राह सत्यमिति । विभोर्धर्मस्य ते पादाः ॥ १८ ॥

दुर्घटभावदीपिका

तज्जनैर्धृत इत्यस्य तस्य प्रसिद्धस्य नारायणस्य जनैर्नारायणभक्तजनैर्धृत इत्यर्थः । एतेन युगान्तरे विद्यमानानां जनानां कृतयुगधर्मधारणस्य बाधितत्वेन युगान्तरजनानां प्रसक्तेरभावात् । तज्जनैरित्येतद्व्यर्थमिति दूषणस्यानवकाशः । तज्जनैरित्यस्य कृतयुगजनैरित्यर्थ-मनङ्गीकृत्य नारायणभक्तानामेव धर्मधारकत्वं नान्येषामिति वक्तुं तज्जनैरित्यनेन नारायणभक्तजनैरित्यर्थ उच्यत इत्यङ्गीकारात् ॥ १८ ॥

सत्यधर्मीया

यद्यपि प्रश्नपद्यमासाद्य कलिदोषप्रमोषप्रकारः प्रथमतः प्रथनीयस्तथाऽपि युगधर्मादिनिरूपणानन्तरं स सुलभो लपितुमिति तत्रापि कृतं प्रधानमिति तद्धर्मानादावुदाहरति ॥ कृत इति ॥ कृते तज्जनैस्तद्युगजन्मभिर्धर्मश्चतुष्पाद्धृतः प्रवर्तते । के च ते पादा इत्यत आह । सत्यं भूतहितं, दया स्वावरेषु, तपः कृच्छचान्द्रादि, दानं सत्पात्रे वित्ततरणं विभो-र्धर्मस्य । विभविति न सरलो विरलार्थश्च पाठः ॥ १८ ॥

सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः ।

आत्मारामाः समदृशः प्राय आश्रमिणो जनाः ॥ १९ ॥

पदरत्नावली

तत्राश्रमिणां स्वभावमाह सन्तुष्टा इति ॥ समदृशो वस्तुयाथार्थ्यज्ञानिनः । करुणयन्तीति करुणाः । आश्रमिण इत्यनेन भार्याद्यवियोगमाह । नित्यगृहस्था इत्यर्थः ॥१९॥

सत्यधर्मीया

तज्जनानां लक्षणमाह ॥ सन्तुष्टा इति ॥ सन्तुष्टा यदृच्छागतेन । करुणयन्तीति, करुणा येषामस्तीति त इति वा । खिद्यतो जनान्वीक्ष्य ते मैत्राः सतां शान्ता भगवन्निष्ठा दान्ता निगृहीतेन्द्रियास्तितिक्षवः सहनशीला आत्मारामा आत्मन्येव भगवत्येवारमन्त इति तथा । समदृशः सर्वत्र भगवानस्ति ततस्ते सत्कार्य इति समदृग्येषां ते तथा । प्रायो बाहुल्येनाश्रमिणः प्रशस्ताश्रमस्थाश्चत्वारोऽप्याश्रमा भवन्ति ॥ १९ ॥

त्रैतायां धर्मपादानां तुर्योंऽशो हीयते शनैः ।

अधर्मपादैरनृतहिंसाऽसन्तोषविग्रहैः ॥ २० ॥

पदरत्नावली

तुर्यांशश्चतुर्थांशो दानलक्षणः पादो हीयते ह्रसति । पादहानौ प्रतिपक्षमाह अधर्मेति ॥ २० ॥

सत्यधर्मीया

क्रमप्राप्तां त्रेतां तद्धर्मस्थितिं चेदानीमाह ॥ त्रैतायामिति ॥ धर्मपादानां चतुर्णां मध्ये तुर्योंऽशश्चतुर्थोंऽशो दानं शनैर्हीयते ह्रसति । तुर्यांश इति पाठे तुर्यश्चासावंशश्चेति विग्रहः । तत्र हायकमाह ॥ अधर्मपादैरिति ॥ अनृतं, हिंसा प्रत्यक्षतोऽप्रत्यक्षतो वा । असन्तोषोऽनलम्बुद्धिर्विग्रहः कलह इत्येतैः ॥ २० ॥

तदा क्रियातपोनिष्ठा नातिहिंसा न लम्पटाः ।

त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृपाः ॥ २१ ॥

पदरत्नावली

तदा त्रेतायां यज्ञादिक्रियातपोनिष्ठा भवन्ति । न लम्पटा विषयरागिणो न भवन्ति । त्रैवर्गिकास् त्रिवर्गसहिताः । त्रयीवृद्धा वेदविद्यायां विशारदाः, त्रैविद्या इत्यर्थः । ब्रह्मोत्तरा ब्राह्मणोत्तरा ब्राह्मणाधिकाः ॥ २१ ॥

सत्यधर्मीया

तात्कालिकलोकधर्मानाह ॥ तदेति । क्रिया यज्ञादिस्तपश्च तन्निष्ठा नातिहिंस्रा न हि बहु सहिंस्रकाः । न लम्पटा विषयाभिलाषविकलास्त्रैवर्गिका धर्मार्थकामकामास्त्रयी- वृद्धा अध्ययनाध्यापनादिभिस्तत्पोषयितारः । ब्रह्म ब्राह्मण उत्तरं येषां त इतरे वर्णाः ॥२१॥

तपः सत्यदयादानेष्वर्धं ह्रसति द्वापरे ।

हिंसाऽतुष्ट्यनृतद्वैधैर्धर्मस्याधर्मलक्षणैः ॥ २२ ॥

पदरत्नावली

अधर्मलक्षणैर् अधर्मस्वरूपपादैर् हिंसाऽतुष्ट्यनृतद्वेधैर् हिंसाऽतुष्ट्यनृतलक्षणं द्वैधं द्वित्वं येषां ते तथा तैः । अतुष्टियुतमनृतमतुष्ट्यनृतम् । धर्मस्य तपःसत्यदयादानेषु पादेष्वर्धं ह्रसति । अनेन द्वापरशब्दो निरुक्तः ॥ २२ ॥

दुर्घटभावदीपिका

अत्र धर्माधर्मशब्दौ क्रियाजन्यस्वरूपवाचकौ । द्वापरेऽधर्मलक्षणै-रधर्महेतुभिर्हिंसातुष्ट्यनृतद्वैधैर्धर्मस्य हेतुषु तपः सत्यदयादानेष्वर्धं ह्रसतीति हिंसया दययाऽतुष्ट्या तपसोऽनृतेन सत्यस्य द्वैधशब्दोक्तम् । द्वेषेण दानस्य ह्रास इति विवेको द्रष्टव्यः । एतेन हिंसातुष्ट्यनृ-तद्वेषैरिति वक्तव्यम् । हिंसातुष्ट्यनृतद्वैधैरिति कथनमयुक्तमिति दूषणं निराकृतम् । द्वैधशब्देन द्वेषातिरिक्तस्यार्थस्याग्रहणात् ॥ २२ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां

द्वादशस्कन्धे तृतीयोऽध्यायः ॥ १२-३ ॥

सत्यधर्मीया

द्वापरे युगे न पाठक्रमोऽत्रोत्तरत्र विवक्षितः । तात्पर्यमर्धह्रासमात्र इति ज्ञेयम् । स च यथासम्भवं निरूपणीयः । हिंसाऽतुष्टिरनृतं द्वेषश्च । पूर्वं विग्रहग्रहणेऽपि द्वेषभाषणं तन्मूलत्वेन विग्रहस्येति न व्यत्यस्तिः । अधर्मलक्षणैस्तत्पादैर्धर्मस्यार्धं ह्रसति । द्वौ परौ पादौ ह्रसतो यत्र तदिति तत्र व्युत्पत्तिर्ज्ञेया । अत्र द्व्यष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योरिति निषेधादात्वस्य तत्पृषोदरादित्वेन ज्ञेयम् । बहुप्राज्ञप्रयोगस्य निर्वाह्यत्वावश्यम्भावात् । हिंसा चातुष्टिश्चानृतं च द्वैधं मित्रभेदकरणं चेति तैः ॥ २२ ॥

यशस्विनो महाशालाः स्वाध्यायाध्ययने रताः ।

आढ्याः कुटुम्बिनो दृष्टा वर्णाः क्षत्रद्विजोत्तमाः ॥ २३ ॥

पदरत्नावली

महाशाला यज्ञकर्तारः ॥ २३ ॥

सत्यधर्मीया

यशस्विन इत्यादिना तत्कालवर्तिजनलक्षणोक्तिः । महाशालाः क्रतुकर्तारः । आढ्याः सम्पन्नाः । क्षत्रद्विजोत्तमाः क्षत्रं च द्विजाश्चेत्युत्तमा येषां ते वर्णाः ॥ २३ ॥

कलौ तु धर्महेतूनां पर्यासोऽधर्महेतुभिः ।

एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनश्यति ॥ २४ ॥

पदरत्नावली

पर्यासो निरासः । सोऽपि सत्यलक्षणोऽपि, धर्मो वा ॥ २४ ॥

सत्यधर्मीया

कालधर्महेतुभिरेधमानैर्धर्महेतूनां परासः । स धर्मोऽपि स्वयं स्वहेतुनाशा- नन्तरं क्रमान्नश्यति ॥ २४ ॥

तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः ।

दुर्भगा भूरिदर्पाश्च शूद्रदासोत्तराः प्रजाः ॥ २५ ॥

पदरत्नावली

शुष्कवैरिणो निष्प्रयोजनवैरिणः । शूद्रदासोत्तराः प्राधान्येन शूद्राणां दासाः

॥ २५ ॥

सत्यधर्मीया

तत्र लोकप्रवृत्तिमाह ॥ तस्मिन्निति । शुष्कवैरिणोऽनिमित्तप्रयोजनवैरवन्तः । शूद्रदासोत्तराः शूद्रदासास्तदुपजीविनस्त उत्तराः ॥ २५ ॥

सत्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।

कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥

पदरत्नावली

सत्वादयो गुणा आत्मनि मनसि परिवर्तन्ते पर्यायेण वर्तन्ते ॥ २६ ॥

सत्यधर्मीया

स्वकार्यप्रसञ्जकाः सत्त्वादयो गुणा इति वक्ति ॥ सत्त्वमिति । पुरुषे सत्त्वं रजस्तम इति गुणा दृश्यन्ते । ते च गुणाः कालेन मुख्येन हरिणा तथा कालेनामुख्येन सञ्चोदिता आत्मनि परिवर्तन्ते मनसि पर्यायेण वर्तन्ते ॥ २६ ॥

प्रसीदति यदा सत्वं मनोबुद्धीन्द्रियाणि च ।

तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचिः ॥ २७ ॥

पदरत्नावली

कथं तत्राह प्रसीदतीति । यदा सत्वं प्रसीदति तदा मनआदीनि प्रसन्नानि भवन्ति । लक्षणान्तरमाह ज्ञान इति । यद् यदा ज्ञानादिरुचिस्तदा । कुत एतत् कल्प्यत इत्यत्राह यदिति । मनआदिप्रसादेन ज्ञानाद्यभिरुचिर्ज्ञायत इति यद् यस्मात् तस्मादिति ॥ २७ ॥

सत्यधर्मीया

यदा सत्त्वं प्रसीदति स्वकार्योन्मुखं भवति, मनश्च बुद्धिश्चेन्द्रियाणि च तदानुकूल्येन प्रसीदन्ति तदा कृतयुगं विद्याज्जानीयादागतमिति । तत्कार्यमाह । ज्ञाने तपसि च रुचिर्यतस्तत इति ॥ २७ ॥

यदा धर्मेषु कामेषु भक्तिर्यशसि देहिनाम् ।

तदा त्रेता रजोवृत्तिरिति जानीत बुद्धिमान् ॥ २८ ॥

पदरत्नावली

देहिनां यदा काम्यंत इति कामास्तेषु कर्मसु यशसि चापादनीयमिति स्नेहविशेषो भवति तदा बुद्धिमान् रजोवृत्तिस्त्रेतेति जानीत जानातु ॥ २८ ॥

सत्यधर्मीया

यदा धर्मेषु कामेषु कर्मसु । काम्यन्त इति कामा विषयास्तेषु । देहिनां यशसि तत्सम्पादनविषये भक्तिः स्नेहो जायते । तदा बुद्धिमान् रजोवृत्तिस्त्रेता प्राप्तेति जानीत जानीयात् ॥ २८ ॥

यदा लोभस्त्वसन्तोषो मनोदम्भोऽथ मत्सरः ।

कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ २९ ॥

पदरत्नावली

यदा आत्मनि लोभादयो दृश्यन्ते तदा रजस्तमः रजस्तमोगुणयुतं द्वापरं जानातु ॥ २९ ॥

सत्यधर्मीया

यदा तु लोभोऽसन्तोषो मानो दम्भोऽथ मत्सरः काम्यानां कर्मणां विषये भक्तिरुक्तरूपा जायते तदा रजस्तमस्तद्गुणद्विकप्रवृत्तिमद्द्वापरं नाम युगमिति जानीहि ॥ २९ ॥

यदा मायाऽनृतं तन्द्री निद्रा हिंसा विषादनम् ।

शोको मोहो भयं दैन्यं स कलिस्तामसः स्मृतः ॥ ३० ॥

पदरत्नावली

यदा मायादयो दृश्यन्ते यत्र स कलिस्तामसस्तमोगुणवृत्तिमानित्युपलक्ष्यते । विषादनं विषण्णता ॥ ३० ॥

सत्यधर्मीया

यदा माया कापट्यमनृतं, तन्द्री जाड्यं, विषादनं स्वमनसः परेषां च तत्प्रापणम् । मायादिदैन्यान्तं यत्र स कलिस्तामसस्तद्गुणप्रचुरः ॥ ३० ॥

यस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः ।

कामिनो वृत्तिहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः ॥ ३१ ॥

पदरत्नावली

यस्मात् कलिदोषात् क्षुद्रदृशो ऽल्पज्ञाना लोकोपद्रवकर्मज्ञाना वा । वृत्तिहीना जीवनोपायरहिताः । असतीरसत्यः ॥ ३१ ॥

सत्यधर्मीया

यस्मात्कलिकलिताद्दोषात् । क्षुद्राऽल्पा दृग्ज्ञानं येषां ते । क्षुद्रं नीचोचितं भाग्यं येषां ते । महाशना एकान्तेऽपङ्क्तिपावनपङ्क्तौ महद्भारायितमशनं येषां ते । वृत्तिर्जीविका । कामिनः स्वैरिणस्तथा स्त्रियश्च स्वैरिण्यो व्यभिचारिण्योऽसतीरसत्यः ॥ ३१ ॥

दस्यूत्कृष्टा जनपदा वेदाः पाखण्डदूषिताः ।

राजानश्च प्रजाभक्ष्याः शिश्नोदरपरा द्विजाः ॥ ३२ ॥

पदरत्नावली

दस्यूत्कृष्टा दस्यूपद्रुताः । कृष हिंसायामिति धातुः ॥ ३२ ॥

सत्यधर्मीया

जनपदा देशा दस्यूत्कृष्टा दस्यव उत्कृष्टा येषु । दस्यूत्कृष्टा दस्युक्लिष्टा इति पठन्ति स्फुटोऽर्थः । वेदाः पाखण्डैस्तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यत इति चतुर्थोक्तेः । पापनाम््नयैकदेशग्रहेण पापानां खण्डानि लिङ्गानि येषां त इति तन्निरुक्तिर्ज्ञेया । तैर्दूषिता विपरीतार्थपरीतत्वनयनमेव दोषः । राजानश्च प्रजा एव भक्ष्या येषान्ते । द्विजाः शिश्नोदरपरा अशनव्यसनमात्रासक्ताः ॥ ३२ ॥

अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ।

तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः ॥ ३३ ॥

पदरत्नावली

वटवो ब्रह्मचारिणः । अव्रता महाव्रतादिहीना अग्निकार्यादिव्रतहीना वा

॥ ३३ ॥

सत्यधर्मीया

वटवो ब्रह्मचारिणोऽव्रता न विद्यन्ते व्रतानि येषां ते । अशौचा इति योग्यसर्वान्वयि । कुटुम्बिनो भिक्षवस्तत्तुलाः कस्मैचित्किञ्चन स्वयं न ददति । तपस्विनो वनस्था ग्रामवासा न्यासिनो बहिर्विरक्ता इव दृश्यमानाः सन्न्यासिनोऽत्यर्थलोलुपा द्रव्यार्जनाशा भविष्यन्ति

॥ ३३ ॥

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः ।

शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः ॥ ३४ ॥

पदरत्नावली

भूर्यपत्या बहुसन्तानाः ॥ ३४ ॥

सत्यधर्मीया

भामिनीभावं भाषते ॥ ह्रस्वकाया इति । भूरीण्यपत्यानि यासां ताः । भूरिभ्यः पतिव्यतिरिक्तेभ्योऽपत्यानि यासां ता इति वा । गतह्रियो निर्लज्जाः । शश्वत्सदा कटुकानि परव्यथाजनकानि भाषन्त इति तास्तथा । चौर्यं माया कापट्यं तयोर्विषय एवोरु-महत्साहसं यासां ताः ॥ ३४ ॥

पणयिष्यन्ति वै क्षुद्राः किराटान् (कटु) कूटकारिणः ।

अनापद्यपि मंस्यन्ते वार्तां साधुजुगुप्सिताम् ॥ ३५ ॥

पतिं त्यक्ष्यन्ति निर्द्रव्यं भूत्या अप्यखिलोत्तमम् ।

भृत्यं विपन्नं पतयः कौलं गाश्चापयस्विनीः ॥ ३६ ॥

पदरत्नावली

क्षुद्रा दरिद्राः किराटान् परिणतफलानि पणयिष्यन्ति विक्रेष्यन्ति कूटकारिणः धातुर्वादकरणशीलाः । वार्तां कुसीदादिवैश्यवृत्तिम् ॥ अखिलोत्तमम्, कुलादिनेति शेषः । कौलं कुले विद्यमानं विपन्नमापदं प्राप्तं भृत्यं पतयस्त्यक्ष्यन्ति । अपयस्विनीः क्षीररहिता गाश्च त्यक्ष्यन्तीति शेषः ॥ ३५,३६ ॥

सत्यधर्मीया

क्षुद्राः कटु(कूट)कारिणः । कपटव्यापाराः किराटान्पक्वफलादीन् आपणयितव्यान्पणयिष्यन्ति । साधूनां जुगुप्सितां वार्त्तां कृष्यादिवैश्यवृत्तिमनापद्यपि मंस्यन्ते उत्तमेयं वृत्तिरिति जानते । समुदिता वृत्तीराह ॥ पतिमिति । निर्द्रव्यं पतिं त्यजन्ति भार्या इति शेष इति केचित् । भूत्या अखिलोत्तममखिलगुणैरुत्तममपि पतिं निर्द्रव्यं त्यजन्तीत्येकान्वयो वा । तेऽपि पतयो विपन्नं किञ्चिदापद्ग्रस्तं भृत्यं त्यक्ष्यन्ति । स न नूतन इत्याह ॥ कौलमिति । कुलस्यायं कौलः कुलपरम्परायातस्तमपि । अपयस्विनीर्जरठतायां निःक्षीरगाः ॥ ३६ ॥

पितॄन् भ्रातॄन् स्वसॄर्ज्ञातीन् हत्वा सौरतसौहृदाः ।

श्वशुरश्यालसंवादा दीनाः स्त्रैणा कलौ नराः ॥ ३७ ॥

पदरत्नावली

सौरते सुरतमन्त्रविषये सौहृदं प्रेम येषां ते तथा । श्वशुरशालाभ्यां सह सम्यक् संवादो येषां ते तथा ॥ ३७ ॥

सत्यधर्मीया

सौरते सुरतसम्बन्धिनि सौहृदं प्रेमो येषां ते । स्त्रैणाः । गतम् । पित्रादीन् हत्वा । श्वशुरो भार्यापिता शालास्तद्भ्रातरस्तैरेव संवाद इष्टगोष्ठीर्येषां ते ते च तेऽदीनास्तद्विषये चेति ते । एवं दीना इतरत्रेति वा ॥ ३७ ॥

शूद्राः प्रतिग्रहीष्यन्ति तपो वेषोपजीविनः ।

धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥

सत्यधर्मीया

शूद्राश्च तपः प्रतिग्रहिष्यन्ति करिष्यन्ति । वेषेण विप्रवेषेणोपजीवन्तीति ते तथा । स्वयमधर्मज्ञा अपि धर्मं तत्त्वेन स्वमात्रमतं वक्ष्यन्ति । उत्तमासनं व्यासासनमधिरुह्य

॥ ३८ ॥

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिताः ।

निरन्ने भूतले राजन्ननावृष्टिभयातुराः ॥ ३९ ॥

सत्यधर्मीया

कलौ प्रजा नित्यमुद्विग्नमनसश्चोरतो, राजानश्च दुर्भिक्षेण घञर्थे कविधान-मिति भिक्षे कः, करेण च कर्शिताः । भूतल एवं निरन्ने सत्यनावृष्टिभयातुराश्च ॥ ३९ ॥

वासोऽन्नपानशयनव्यवायस्नानभूषणैः ।

हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ ४० ॥

पदरत्नावली

पिशाचवत् सन्दर्शो दर्शनं येषां ते यथा ॥ ४० ॥

सत्यधर्मीया

वासआदिभूषणान्तैर्हीनाः पिशाचवत्सन्दर्शो दर्शनं यासां ता भविष्यन्ति

॥ ४० ॥

कलौ काकणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः ।

त्यक्ष्यन्ति हि प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥

पदरत्नावली

विगृह्य विग्रहं वैरं कृत्वा । काकणिकेऽप्यर्थे अत्यल्पधनविषये ॥४१॥

सत्यधर्मीया

काकणिके विंशतिवराटात्मकेऽल्पे अर्थे तद्विषयेऽपि । विगृह्य विग्रहं विरोधं कृत्वा । त्यक्तसौहृदाः प्रियान्प्राणांस्त्यक्ष्यन्ति । ततो दुर्बलाश्चेत्प्रबलांश्चैतान्स्वकानपि हनिष्यन्ति

॥ ४१ ॥

न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि ।

पुत्रीं भार्यां च कुलजां क्षुद्राः शिश्नोदरम्भराः ॥ ४२ ॥

सत्यधर्मीया

शिश्नोदरम्भराः । उदरशब्दादिमं मानवमावर्तन्नितिवन्मुमार्षः । शिश्नो-दरम्भरा इति पदे शिश्नश्चोदरं च शिश्नोदरं प्राण्यङ्गत्वादेकवद्भावो विस्रम्भतीति (अत्र ग्रन्थपात इति भाति) इति वा समाधानान्तरवक्तारस्तु कति न सन्ति कुक्षिंभराः । क्षुद्रमनुजाः स्थविरौ पितरौ मातापितरौ । गतम् । न रक्षिष्यन्ति । कुलजामपीति त्यागकारणविधुरतां भार्याया अनेन दर्शयति ॥ ४२ ॥

कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् ।

प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाखण्डविभिन्नचेतसः ॥ ४३ ॥

पदरत्नावली

पाखण्डशास्त्रेणाद्वैतविषयेण भिन्नचेतसो व्यामोहितचित्ताः ॥ ४३ ॥

सत्यधर्मीया

त्रिलोकप्रार्थ्यैर्ब्रह्मादिभिरानतं पदपङ्कजं यस्य स तं परं गुरुमच्युतं भगवन्तम् । पाखण्डविभिन्नचेतसो मर्त्याः प्रायेण न यक्ष्यन्ति न पूजयिष्यन्ति ॥ ४३ ॥

यन्नामधेयं म्रियमाण आतुरः पतन्

स्खलन् वा विवशो गृणन् पुमान् ।

विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति

यक्ष्यन्ति न तं कलौ जनाः ॥ ४४ ॥

पदरत्नावली

किं माहात्म्योऽयं भगवान् येन तद्यजनं सप्रयोजनं स्यादिति तत्राह यन्नामधेयमिति । विमुक्तं कर्मलक्षणमर्गलं तालकीलं यस्य स तथा, विध्वस्तकर्मबन्धन इत्यर्थः

॥ ४४ ॥

सत्यधर्मीया

को विशेषो येन तद्यजनत्यजनं न कार्यमित्यत आह ॥ यदिति । आतुरो रोगार्दित एतादृशोऽपि पुमान्यन्नामविवशः परायत्तचित्तो गृणन्मुक्तानि कर्मरूपाण्यर्गलानि कपाटविष्कम्भाः प्रतिबन्धकानीति यावद् यस्मात्स तथा । कवाटकरमतुल्ये तद्विष्कम्भेऽर्गलं ननेत्यमरः । अर्ज आर्जने वृषादित्वात्कलच् । न्यङ्क्वादित्वात्कुत्वं स्त्रियां टाप् । न नेत्युक्त्या निषिद्धलिङ्गं शेषार्थमिति पुल्लिङ्गमात्रं व्यवच्छिनत्त्यमरकारः । मतान्तरे त्रिलिङ्गता । तथा च रभसः । अर्गलस्त्रिषु कल्लोले चण्डे चान्तः कवाटयोरिति । उत्तमां गतिं मुक्तिं प्राप्नोति । एतादृशमीशमपि कलौ जना न यक्ष्यन्ति ॥ ४४ ॥

पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् ।

सर्वं हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ ४५ ॥

पदरत्नावली

केनोपायेनेत्यादिना पृष्टं परिहर्तुमाह पुंसामित्यादिना । द्रव्यदेशात्म-सम्भवान् द्रव्यदेशस्वभावोद्भूतान् द्रव्यदेशस्वभावोद्भूतान् । किमपि नावशिष्यते । अतः सर्वमित्युक्तम् ॥ ४५ ॥

सत्यधर्मीया

कल्यादि दोषान्प्रभाष्य तत्प्रमोषः केनोपायेनेति प्राथमिकप्रश्नस्योत्तरमीरयति ॥ पुंसामिति । पुंसामधिकारिणां द्रव्यदेशात्मसम्भवान्केचिद्द्रव्यसम्भवा मदादयो देशसम्भवा आचारदोषा आत्मनः स्वभावात्स्वदेहतो वा पररमणीरमणादय एवं द्रव्यदेशात्मभ्यः सम्भवन्तीति ते तथा । कलिकृतान् दोषान् भगवान् पुरुषोत्तमः सर्वं सरवं यथा तथा । हरे दयालो इति सरवं स्मरणपूर्वकम् । गतं, स्थापित इति चित्तस्थो हरति सर्वं दोषं हरतीति वा । अनेन तदेनःसामान्यहनी भगवानिति सूच्यते ॥ ४५ ॥

श्रुतः संकीर्तितो ध्यातः पूजितश्चादृतोऽपि वा ।

नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥

पदरत्नावली

चित्तस्थितिभावे नानासाधनमाह श्रुत इति । अशुभमित्युपलक्षणम् । प्रथमकर्मभोगायतनप्रारम्भप्रभृति (?) सम्पादिताशुभमित्यर्थः ॥ ४६ ॥

सत्यधर्मीया

आदौ हृत्स्थः कथं भवति भगवानित्यतः साधनमभिधत्ते ॥ श्रुत इति । श्रुतो गुरुमुखतः, सङ्कीर्तितः, सो ध्यातोऽन्तः, पूजितः सभाजित, आदृतो भक्तिविषयीकृतो भगवान् जन्मायुताशुभमनन्तजन्मकृतं बहुजन्मप्रापकं च यदशुभं तत्सर्वं हृत्स्थो धुनोति

॥ ४६ ॥

यथा हेमि्न स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् ।

एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७ ॥

पदरत्नावली

मन्दाधिकारिणः क्षिप्रप्रवृत्त्यर्थं सदृष्टान्तमाह यथेति । शास्त्रोक्ता अष्टादशदोषा दुर्वर्णमित्यनेन गृह्यन्ते । धातुजं गैरिकसमुद्भवं वा । आत्मगतश् चित्तगतः । अशुभाशयं पापराशिं पापसम्पृक्तजडमनो वा ॥ ४७ ॥

सत्यधर्मीया

बुद्ध्यारोहाय स्पष्टं दृष्टान्तमाचष्टे ॥ यथेति । हेमि्न स्थितो वह्निर्धातुजं ताम्रादिधातुभ्यो जातं दुर्वर्णं यथा हन्त्येवमात्मगतो मनोगतो विष्णुः श्रवणाद्युक्तोपायवताम- शुभाशयमशुभस्य तन्मात्रस्याशयम् आधारभूतं कर्म हन्ति । आशयः स्यादभिप्राये मनसाधारयोरिति विश्वः ॥ ४७ ॥

विद्यातपःप्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानज(जा)प्यैः ।

नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥

पदरत्नावली

विद्यादिनाऽन्तःकरणशुद्ध्या श्रेयः स्यात्, किं चित्तस्थेन हरिणेति तत्राह विद्येत्यादिना । प्राणनिरोधः प्राणायामः । अन्तरात्मा अन्तःकरणम् । हृदिस्थे सति

॥ ४८ ॥

सत्यधर्मीया

अनु विद्यातपआदिसाधनेषु सत्सु किमिति विशेष्य भगवत्स्थितिरुच्यत इत्यत आह ॥ विद्या तप इति । प्राणनिरोधः प्राणो यमादिर्मैत्री । जाप्यैरिति पाठे जप्या एव जाप्या इत्यण् स्वार्थे । जप्यैरिति पोरदुपधादिति यदिति ज्ञेयम् । मन्त्रैः । अन्तरात्माऽन्तः-करणमत्यन्तशुद्धिं यथा भगवत्यनन्ते हृदि स्थिते सति शुद्धिं लभते न तथेति ॥ ४८ ॥

तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।

म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९ ॥

पदरत्नावली

उपसंहरति तस्मादिति ॥ ४९ ॥

सत्यधर्मीया

समयोऽयं तव समयोक्तोऽर्थो न विस्मरणीय इति मुख्यमुद्देश्यं परीक्षितं कटाक्षीकृत्य वक्ति ॥ तस्मादिति । सर्वात्मना शक्यसर्वयत्नेन यस्मान्म्रियमाणस्तस्मात्केशवं हृदिस्थम् । गतम् । कुरु । ततः परां गतिं यासि ॥ ४९ ॥

म्रियमाणैरभिध्येयो भगवान् परमेश्वरः ।

आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसम्भवः ॥ ५० ॥

पदरत्नावली

आत्मभावमात्मनि भक्तिं नयति प्रापयति । सर्वमादत्त इति सर्वात्मा । सर्वस्य सम्भवो यस्मात् स सर्वसम्भवः ॥ ५० ॥

सत्यधर्मीया

म्रियमाणैर्भगवान् परमेश्वरोऽभिध्येयो ध्यातश्च सर्वात्मा सर्वादानादिकर्ता सर्वसम्भवो मोचकत्वबन्धकत्वादयो लोक एकस्मिन्नसम्भावितास्तेषां सर्वेषां सम्भवो यस्मिन्सः । अङ्ग राजन् आत्मभावं ध्यातुर्निजो यो भावः स्वभावो योग्यज्ञानात्मकत्वं नयति प्रापयति

॥ ५० ॥

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।

कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ ५१ ॥

पदरत्नावली

कलिः केवलं न दोषाकर एव, अपि तु गुणापादकोपि भवति, औषधोप-चितद्रव्यवदित्याह कलेरिति ॥ ५१ ॥

सत्यधर्मीया

यद्यपि कलिः कलितानाकलनीयानीषद्दोषस्तथाऽपि सहकारिसमवधाने कश्चिद्गुणोऽप्यस्ति तस्मिन्निति तं स्तौति ॥ कलेरिति । दोषा निधीयन्तेऽस्मिन्निति दोषनिधि-स्तस्यापि कलेरेको महान्गुणोऽस्ति । स क इत्यत आह ॥ कीर्तनादेवेति । कृष्णस्य कीर्तना-त्प्राक्तनसुकृतप्रादुर्भूतात्तत्कालभवोऽप्यधिकारी मुक्तबन्धः सन्परं भगवन्तं व्रजेदिति । बहुदुर्लभ-लाभेगतिरनन्तरं सुमिलितेति भावः ॥ ५१ ॥

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।

द्वापरे परिचर्यायाः कलौ तद् हरिकीर्तनात् ॥ ५२ ॥

॥ इति श्रीमद्भागवते द्वादशस्कन्धे तृतीयोऽध्यायः ॥

पदरत्नावली

ध्यानादिप्रधानसाधनमन्तरेण कीर्तनमात्रेण संसारबन्धनिर्मोकः कथमित्याशंक्य तत्तद्युगेषु भगवत्क्लृप्तत्वेन युक्तमित्यभिप्रेत्याह कृत इति । कृते यत् तत् स्यादित्यर्थः ॥५२॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्यां द्वादशस्कन्धस्य तृतीयोऽध्यायः ॥ १२-३ ॥

सत्यधर्मीया

वेदादिबोधितध्यानादिमहासाधनेषु सत्सु कथं गतिदं कीर्तनमित्यतो भगवानेवामुं तत्तद्युगानुगं साधनसन्दर्भमचीक्लृपदिति लपति ॥ कृत इति । कृते युगे विष्णुं ध्यायतो यत्फलं भविष्यति तत्र त्रेतायां मखैर्यजतो भवति । तत्कालभवेष्वप्रचुरं ध्यानं प्रचुरं यजनं तत्कालमहिम्ना किञ्चिध्द्यानेन चित्तस्थैर्यमिति मखमुखकृतिः । द्वापरे तु परिचर्यायाः सेवाया यद्यजतस्त्रेतायां भवति तद्भवति । अत्र द्वयोरप्राचुर्यं प्राचुर्यं परिचर्यायास्तत्फलं हरिकीर्तनात् सर्वथोक्तत्रितयसंसर्गाभावेनाकरणं तस्य स्यादिति शक्तमितरद्युक्तं हरिकीर्तनमिति तस्माद्भवती-त्युक्तमिति मन्तव्यम् ॥ ५२ ॥

**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **

द्वादशस्कन्धे तृतीयोऽध्यायः ॥ १२-३ ॥