ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया
॥ अथ द्वितीयोऽध्यायः ॥
श्रीशुक उवाच–
ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।
कालेन बलिना राजन् नङ्क्ष्यन्त्यायुर्बलं स्मृतिः ॥ १ ॥
पदरत्नावली
कल्क्यवतारं तच्चरितं च युगविभागलक्षणं च वक्त्यस्मिन्नध्याये । तत्रादौ कलिवैभवमाह ततश्चेति । कालक्षयानन्तरं धर्मादयो नंक्ष्यन्तीत्यन्वयः । कारकाभावादिति शेषः
॥ १ ॥
सत्यधर्मीया
कलिकात्कारककल्किनोऽवतारं शम्बले तच्चरितं युगविभागं चावगमय-त्यस्मिन्नध्याये । तत्रादौ कालानुकूलं धर्मादेर्दशेदृश्यासीदिति शंसति ॥ तत इति । दयाऽऽयुर्बलं स्मृतिरित्येता बलिना कलिना नंक्ष्यन्ति नाशमायास्यन्ति ॥ १ ॥
वित्तमेव कलौ नॄणां जन्माचारगुणोदयाः ।
धर्मन्यायव्यवस्थायां कारणं धनमेव (बलमेव) हि ॥ २ ॥
पदरत्नावली
यदि कलौ नृणां वित्तमस्ति तर्ह्येव तेषां जन्मादयः, पूज्याः स्युरिति शेषः । अयं धर्मोऽयं न्याय इति व्यवस्थायां बलमेव कारणम् । धनमिति वा पाठः ॥ २ ॥
सत्यधर्मीया
मान्यता कलावस्ति चेत्तन्निमित्तेति वक्ति ॥ वित्तमेवेति । जन्माचार-गुणोदया वित्तमेव । दुर्जन्मादिर्जनो वित्तवांश्चेन्मान्यो नान्यः सुजन्मादिर्दरिद्र इति भावः । धर्मस्य न्यायस्य नीतेर्धर्मस्य न्यायः प्रकारस्तस्येति वा । गतम् । व्यवस्थायां निष्कर्षे धनमेव कारणम् । वित्तान्यथा वक्ति तथाऽनुतिष्ठन्तीत्येवमुक्तिः । बलमिति पाठोऽपि सबलः ॥ २ ॥
दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके ।
स्त्रीत्वे पुंस्त्वे चातिरतिर्विप्रत्वे सूत्रमेव हि ॥ ३ ॥
पदरत्नावली
अभिरुचिर् अन्योन्यस्नेहलक्षणेच्छा हेतुः, न कुलगोत्रादिशास्त्रीययोगः । व्यावहारिके क्रयविक्रयादिव्यवहारविषये मायैव हेतुः । अतिरतिर् अतितरामात्मनो दर्शनीयता-विशेषः । सूत्रं तन्तुलक्षणम् ॥ ३ ॥
दुर्घटभावदीपिका
दांपत्ये दंपतिभावेऽभिरुचिर्हेतुः कारणम् । व्यावहारिके क्रयविक्रियादि-व्यवहारे मायैव छद्मैव हेतुः । स्त्रीत्वे स्त्रीत्वस्य पुंस्त्वे पुंस्त्वस्य च फलमतिरतिरतिशयेन रतिः रमणम् । विप्रत्वे विप्रत्वनिमित्तकपूज्यतायां सूत्रमेव हेतुरित्येतद्धि प्रसिद्धमिति । एतेन व्यवहार इति वक्तव्यम् । व्यावहारिक इति वचनमनुपपन्नमिति दूषणं निरस्तम् । व्यावहारिक इति ठक्प्रत्ययः स्वार्थ इत्यङ्गीकारात् । एतेनैव स्त्रीत्वे पुंस्त्वे चात्•िरतिरित्येतद्व्यर्थमिति दूषणं परिहृतम् । स्त्रीत्वे पुंस्त्व इति सप्तम्यौ षष्ठ्यादेशौ । फलमिति पदस्याध्याहार इति चाङ्गीकृत्यार्थस्योक्तत्वात् ॥३॥
सत्यधर्मीया
दाम्पत्ये पत्नीपतिभावेऽभिरुचिः परस्परं स्नेहो हेतुः कारणं नार्या विवाहा-दावपेक्षिताः । न वा समयस्तत्समये । व्यावहारिके व्यवहारनिर्वृत्यै क्रयविक्रयादौ माया कापट्यं स्त्रीत्वे पुंस्त्वे चातिरतिः सौन्दर्यमेव तदौत्तम्यनिमित्तम् । न कुलं न वा शीलम् । विप्रत्वे सूत्रं यज्ञोपवीतमात्रं तदप्यमन्त्रितम् ॥ ३ ॥
लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् ।
अवृत्त्यन्यायदौर्बल्ये पाण्डित्ये चापलं वचः ॥ ४ ॥
पदरत्नावली
आश्रमाणां ख्यातौ ज्ञाने ब्रह्मचर्याद्याश्रम इति वक्तव्ये अन्योन्या-पत्तिकारणम् आश्रमादाश्रमान्तरप्राप्तिकारणं लिङ्गमुपाध्यायादिलक्षणं लाञ्छनम् । अन्यायदौर्बल्ये अन्यायाकरणे अवृत्ति वृत्तिराहित्यं वृत्त्यभाव एव हेतुः । कुतो न्यायो न्याय इत्यर्थः(?) । अचापलम् अचञ्चलतालक्षणं वचः, कारणमित्यनुवर्तते ॥ ४ ॥
दुर्घटभावदीपिका
आश्रमख्यातौ ब्रह्मचर्याद्याश्रमज्ञापने लिङ्गमेव कारणम् । अन्योन्यापत्तिकारणमन्याश्रमादन्याश्रमापत्तौ तज्ज्ञापने कारणं च लिङ्गमेव । प्रसङ्गसमये उक्तानां न्यायानां दौर्बल्यं तस्य भावेऽवृत्ति तूष्णीं वृत्त्यभावः कारणम् । पाण्डित्ये पाण्डित्यख्यापने चापलं वचः कारणमिति । एतेन परस्पराश्रयप्राप्तेरभावात् परस्पराश्रयप्राप्तिकारणं लिङ्गमेवेति कथनमयुक्तमिति दूषणं परास्तम् । अन्योन्यापत्तिकारणमित्यर्थस्योक्तत्वात् । एतेनैव ज्ञानदौर्बल्याभावे तूष्णीं वृत्त्यभावः कारणमिति वक्तव्यम् । न्यायदौर्बल्याभावे वृत्त्यभावः कारणमिति कथनमनुपपन्नमिति दूषण-स्यानवकाशः । तूष्णीमित्यस्य योग्यतया सम्बन्ध इत्यङ्गीकारात् ॥ ४ ॥
सत्यधर्मीया
आश्रमख्यातावयमाश्रमीति प्रसिद्धिविषये अन्योन्यापत्तिः परस्परं नमनं प्रतिनमनं च तयोश्च कारणं लिङ्गं दण्डकमण्डल्वादिकमेव न विद्या । अवृत्तिरितरवृत्ति-च्छेदोऽन्यायश्च ताभ्यां सहितं दौर्बल्यमितरदुर्बलीकरणं च तस्मिन् । तथा पाण्डित्ये च चापलं वचः परवञ्चनं वचनमेव । लिङ्गमित्यन्वेति ॥ ४ ॥
अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।
स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥ ५ ॥
दूरे वार्य(ट)यनं तीर्थं लावण्ये केशधारणम् ।
उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥ ६ ॥
पदरत्नावली
अनाढ्यता दरिद्रत्वमसाधुत्वे दुष्टत्वे । त्वं मम जाया इति स्वीकारो हेतुः । प्रसाधनं शरीरस्य शुद्धिरलङ्कारो वा ॥ दूरे वार्यटनं दूरतरजलयात्रा यत्र क्रियते तत् तीर्थं न तु गुर्वादि । केशधारणं धम्मिल्लधारणम् । उदरम्भरता स्वोदरपूर्णता स्वार्थः स्वप्रयोजनम्
॥ ५,६ ॥
दुर्घटभावदीपिका
दूरे वार्यटनं तीर्थमित्यस्य यत्तद्दूरेऽयनं गम्यं वारि उदकं तदेव तीर्थम् । न तु समीपस्थं गुर्वादिसम्बन्धिसालग्रामाद्युदकं तीर्थमित्यर्थः ॥ ६ ॥
सत्यधर्मीया
असाधुत्वेऽनाढ्यता, साधुत्वे दम्भोऽविद्यमानाचारप्रदर्शनं, स्वीकारो मनोमात्रतः स्नानं प्रसाधनं मुख्यं साधनमलङ्कारो वा । गतम् । दूरे वर्तमानं वार्ययनं जलाशय-स्तीर्थं न तु महत्सहवासेन समीपवर्तितटकादिकम् । लावण्ये सुन्दरतायां केशधारणं धम्मिल्ल-मल्लनमुदरम्भरता स्वकुक्षिभरितार्थो न तु देवभूदेवनिवेदनं सत्यत्वे वचनसत्यतायां धार्ष्ट्यमेव विपातनाकरणम् ॥ ५,६ ॥
दाक्ष्यं कुटुम्बभरणे यशोर्थं धर्मसेवनम् ।
एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ॥ ७ ॥
ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः ।
प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः ॥ ८ ॥
आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।
शाकमूलामिषक्षौद्रफलपुष्पादिभोजनाः ॥ ९ ॥
पदरत्नावली
ब्रह्म ब्राह्मणः । दस्यूनां धर्माणि चौर्यादीनि येषां ते तथा तैः ॥ आच्छिन्नदारद्रविणा बलादाकृष्टभार्यावित्ताः । क्षौद्रं मधु । मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुरित्यभिधानम् । शाकादि भोजनं येषां ते तथा ॥ ८,९ ॥
दुर्घटभावदीपिका
भोजनशब्दो भोगपरः । शाकादीनां भोगो नाम भक्षणम् । अभक्ष्य-पुष्पादीनां भोगो नाम धारणमिति विवेकः । एतेनाभक्ष्यपुष्पादीनां भक्षणाभावात्पुष्पादिभोजना इत्यनुपपन्नमिति दूषणं परास्तम् ॥ ९ ॥
सत्यधर्मीया
कुटुम्बभरणे दाक्ष्यं समर्थता । धर्मसेवनं तथा प्रदर्शनं यशोऽर्थं केवल-कीर्तिमात्रफलकम् । एवं दुष्टाभिरसतीभिः प्रजाभिः क्षितिमण्डल आकीर्णे । ब्रह्मविट्क्षत्रशूद्राणां क्रमातिक्रमस्तु तद्धर्मक्रमाभावसूचकः । यो बली स एव नृपो भविता । लुब्धैरदातृभिर्निर्घृणैर-करुणैः । दस्यूनां धर्मो येषां ते दस्युधर्माणस्तैः । आच्छिन्नान्यपहृतानि दाराश्च द्रविणानि च यासां ताः प्रजा गिरिकाननं यास्यन्ति । पर्वतसहितं वनम् । गिरि तन्मुखतो वचनमात्रे निःसृते काननं यास्यन्तीति वा । तद्भक्तिं वक्ति ॥ शाकेति । क्षौद्रं मधुमक्षिकारसः । क्षुद्रा स्यान्मधुमक्षिकेत्यनेकार्थध्वनिमञ्जरी । शाकादिकं भोजनं येषां ते तथा ॥ ९ ॥
अनावृष्ट्या विनंक्ष्यन्ति दुर्भिक्षाकरपीडिताः ।
शीतवातातपप्रावृड्ढिमैरन्योन्यतः प्रजाः ॥ १० ॥
पदरत्नावली
दुर्भिक्षाकरनिमित्तपीडिताः । हिमं नीहारः ॥ १० ॥
सत्यधर्मीया
दुर्भिक्षा च करश्च ताभ्यां पीडिताः । शीतं वात आतपः प्रावट् वृष्टिर्हिमं नीहारोऽन्योन्यत एतदन्योन्यतः स्वासेवान्योन्यतो वा विनंक्ष्यन्ति ॥ १० ॥
क्षुत्तृषाव्याधिभिश्चैव सन्तप्यन्ते च चिन्तया ।
त्रिंशद्विंशतिवर्षाणि परमायुः कलौ नृणाम् ॥ ११ ॥
सत्यधर्मीया
व्याधिभी रोगैस्त्रिंशद्वर्षं परमायुर्विंशद्वर्षं मध्यमम् ॥ ११ ॥
क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।
वर्णा(धर्मा)श्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥
पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।
चौर्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥ १३ ॥
पदरत्नावली
तृषया तृष्णया । व्याधिभिः कुष्ठादिभिः ॥ चौर्याद्यर्थं नानावृत्तयो येषां ते तथा ॥ ११,१३ ॥
सत्यधर्मीया
धर्माश्रमवतां देहिनां कलिदोषतो देहेषु क्षीयमाणेषु वेदपथाद्वेदमार्गं विहाय धर्मे नष्टेऽधर्मे च पाखण्डप्रचुरे तत्प्राये ते च चतुर्थेऽभिहिता राजसु दस्युप्रायेषु चोरसदृशेषु । चौर्यं चानृतं च वृथाहिंसा निर्मन्त्रवापनं पशुहिंसा च नानाविधा वृत्तिर्वर्तनं येषां तेषु ॥१२,१३॥
शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु ।
गृहप्रायेष्वाश्रमेषु योनिप्रायेषु बन्धुषु ॥ १४ ॥
पदरत्नावली
छाग अत्र तुगभावो लिङ्गव्यत्यासं प्रति गृहमायना एव । बन्धुत्वं योनि-सम्बन्धमात्रम् ॥ १४ ॥
दुर्घटभावदीपिका
योनिप्रायेषु बन्धुष्वित्यस्य योनिप्रायेषु प्राचुर्येण योन्यात्मकेषु । प्राचुर्येण योनिसम्बन्धिष्विति यावत् । बन्धुषु सत्स्वित्यर्थः । एतेन योनिप्रायेषु बन्धुष्वित्येतद्व्यर्थमिति दूषणस्यानवकाशः । कलियुगे प्राणिनां प्रचुरो योनिसम्बन्धोऽस्त्येव । बन्धुत्ववृद्धिर्भविष्यति । न त्वन्यत्रेत्यर्थः । योनिप्रायेषु बन्धुष्वित्यनेनोच्यत इति स्वीकरणात् ॥ १४ ॥
सत्यधर्मीया
वर्णेषु त्रिषु शूद्रप्रायेषु स्वस्वधर्मविकलतया छागप्रायासु परिमाण-तस्तत्सदृशीषु क्षीरं तद्वदल्पमिति लभ्यते । छाग्यश्च छागाश्च छागाः । क्षीरतः परिमाणतश्च तत्प्रायासु । पुमांस्त्रियेत्येकशेषः । अतश् छागीप्रायास्विति वक्तव्यं चैवमिति निरस्तम् । आश्रमेषु सन्न्यास्यावासेषु गृहप्रायेषु सांसारिकागारतुल्येषु । अनेन तेषां धर्मभ्रंशो ध्वन्यते । बन्धुषु योनिप्रायेषु तन्मात्रसम्बन्धेन बन्धुतावत्सु ॥ १४ ॥
अणुप्रायेष्वौषधीषु शमिप्रायेषु स्थास्नुषु ।
विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५ ॥
पदरत्नावली
अणुप्रायेषु कक्षमाषप्रचुरासु । जनशून्यप्रायेषु ॥ १५ ॥
सत्यधर्मीया
ओषधीष्वणुप्रायासु । अणवश्चाटव्यनुत्पन्नमाषविशेषास्तत्प्रायासु । चटकाकाकणिका अणवौ वा व्रीहिभेदस्त्वणुः पुमानित्यमराद्व्रीहिविशेषसदृशीष्विति वा । स्थास्नुषु महामहीरुहेषु शमीसमेषु । मेघेषु विद्युत्प्रायेषु तद्वद्दृश्यादृश्येषु चञ्चलेषु मेघेष्विति यावत् । सद्मसु शून्यप्रायेष्वातिथ्यातिथ्यादिराहित्येनाविद्यमानसमानेषु ॥ १५ ॥
इत्थं कलौ गतप्राये जनेषु परधर्मसु ।
धर्मत्राणाय सत्वेन भगवानवतरिष्यति ॥ १६ ॥
दुर्घटभावदीपिका
कल्पान्तरे परधर्मसु परमेश्वरविषयकधर्मसंपन्नेष्वजनेष्वित्थं पूर्वोक्तरीत्या कलौ गतप्राये सतीत्यर्थः । एतेन कलियुगप्रान्तभागे स्वधर्माणामिव परधर्माणामप्युच्छेदात्परधर्मसु जनेष्वित्यनुपपन्नमिति दूषणं पराकृतम् । परधर्मस्वित्वस्य स्वधर्मं परित्यज्य परधर्ममनुतिष्ठत्स्वित्यर्थ इत्यनङ्गीकारात् ॥ १६ ॥
सत्यधर्मीया
परेषां धर्मो येषां तेषु । तस्मिन्कलौ गतप्राये भूयिष्ठे गते सति धर्मत्राणाय तत्पालनार्थं सत्त्वेन बलज्ञानसमाहृतिरूपेण भगवानवतरिष्यति ॥ १६ ॥
चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः ।
धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ १७ ॥
पदरत्नावली
विष्णोर्जन्म कर्म च साधूनां धर्मत्राणाय दुष्कर्मापनुत्तये च, स्यादिति शेषः ॥ १७ ॥
सत्यधर्मीया
चराचरगुरोर्जगद्गुरोर्ज्ञान्यज्ञानिसर्वगुरोरीश्वरस्याखिलात्मनः सर्वान्तर्यामिणो जन्म यत्तत्साधूनां कर्म दुष्कर्म तदपनुत्तये परिहारार्थम् । अवतरिष्यति ॥ १७ ॥
शम्बलग्राममुख्यस्य ब्राह्मणस्य महात्मनः ।
भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८ ॥
पदरत्नावली
शम्बलग्रामे मुख्यस्य प्रधानस्य नाम्ना विष्णुयशसो ब्राह्मणस्य भवने गृहे
॥ १८ ॥
सत्यधर्मीया
जन्म चेति यदुक्तं तत्क्वेत्यत आह ॥ शम्बलेति । तस्मिन्मुख्यः प्रवर्तक इति तस्य । महात्मनो भगवदवतरणशरणप्रशस्तचित्तादिमतः । तन्नामाह ॥ विष्णुयशस इति । भवने भार्यायां स हरिः किमाह इत्यत आह ॥ कल्किरिति । नान्त इकारान्तश्च कल्किशब्दः
॥ १८ ॥
अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः ।
असिनाऽसाधुदमनमष्टैश्वर्यगुणान्वितः ॥ १९ ॥
विचरन्नसिमान् क्षोण्यां हयेनाप्रतिमद्युतिः ।
नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥ २० ॥
पदरत्नावली
आशुगं शीघ्रगामिनम् ॥ नृपलिङ्गच्छदः राजलक्षणच्छन्नान् ॥१९,२०॥
सत्यधर्मीया
अश्वम् । तत्प्रवृत्तिनिमित्तमाह ॥ आशुगमिति । यथोक्तं भगवत्पक्षे ऋग्भाष्ये । आशुवानात्तथैवाश्व इति । देवदत्तमारुह्यासिना नन्दकेनाष्टैश्वर्यगुणान्वितोऽसाधुदमन-मुद्दिश्यासाधुदमनमश्वमिति वा । असिमान्हयेन विचरन्नप्रतिमद्युतिर्नृपलिङ्गेन छद आच्छादनं येषां ते तान् । भावे सम्पदादिक्विप् । कोटिशः शं सुखार्थे कोटिसङ्ख्यान्बहूनिति यावत् । स्वयं नैतत्क्लिश्यत्कोटिनिविष्ट इत्याचष्टे । कोटिशो बहुसुख इति ॥ २० ॥
अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।
वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम् ॥ २१ ॥
पदरत्नावली
वासुदेवस्याङ्गरागस्य चन्दनाद्यनुलेपस्य प्रशस्तपुण्यगन्धेन युक्तं वायुं स्पृशन्तीति वायुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशस्तेषाम् ॥ २१ ॥
सत्यधर्मीया
अथ दस्युदमनानन्तरं तेषां तात्कालिकलोकानां मनांसि विशदानि प्रसन्नानि विशिष्टं शं विशं तद्ददति तत्साधनानि भविष्यन्तीति तथा । वासुदेवस्य हरेरङ्गरागेणाङ्गानुलिप्त-चन्दनादिनाऽतिपुण्यो गन्ध आमोदो यस्य चासावनिलो वायुस्तं स्पृशन्तीति ते तथा । तेषामिदमपि मनोवैशद्यहेतुः । पुष्पगन्धेत्यपि स्फुटार्थः पाठः ॥ २१ ॥
पौरजानपदानां वै हतेष्वखिलदस्युषु ।
तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति ॥ २२ ॥
पदरत्नावली
प्रजाविसर्गः सन्ततीनामुत्पत्तिः । स्थविष्ठो बहुलः ॥ २२ ॥
सत्यधर्मीया
अखिलदस्युषु हतेषु सत्सु तेषां पौरजानपदानां स्थविष्ठोऽतिमहान्प्रजासर्गः सम्भविष्यति ॥ २२ ॥
वासुदेवे भगवति सत्वमूर्तौ हृदि स्थिते ।
यदाऽवतीर्णो भगवान् कल्की धर्मपतिर्हरिः ।
कृतं भविष्यति तदा प्रजासूतिश्च सात्विकी ॥ २३ ॥
पदरत्नावली
प्रजासूतिः सन्तानोत्पत्तिः ॥ २३ ॥
सत्यधर्मीया
यदा कल्की धर्मपतिर्भगवानवतीर्णस्तदा कृतं भविष्यति तद्युगप्रवृत्ति-र्भविष्यति । वासुदेवे हृदि स्थिते सात्विकी सत्त्वप्रधाना प्रजासूतिः प्रजाप्रसवो भविष्यति
॥ २३ ॥
यदा चन्द्रश्च सूर्यश्च तथा तिष्ये बृहस्पतिः ।
एकराशौ समेष्यन्ति तदा भवति तत् कृतम् ॥ २४ ॥
पदरत्नावली
कृतप्रारम्भे लक्षणान्तरमाह यदेति । तिष्यः पुष्यः । चन्द्रसूर्यबृहस्पतीनां यदा पुष्यनक्षत्रयोगस् तदा कृतयोगं भविष्यति । यद्यपि प्रतिद्वादशाब्दे कर्कराशौ बृहस्पतौ वर्तमाने द्वित्रास्वमावास्यासु तेषां त्रयाणामपि पुष्पयोगः सम्भवति तथापि तेषां सहप्रवेशोऽत्र विवक्षितः । समेष्यन्तीति वचनात् ॥ २४ ॥
सत्यधर्मीया
मुख्यकारणं कल्क्यवतरणमुक्त्वाऽवान्तरकारणं प्रकृतकृतप्रवृत्तावाह ॥ यदेति । चन्द्रः सूर्यस्तिष्ये पुष्ये बृहस्पतिश्चेत्येते यदा पुष्ये नक्षत्रे एकराशौ चन्द्रसूर्यबृहस्पतीनां योगस्तदा कृतयुगं भविष्यति । ननु प्रतिद्वादशाब्दं कर्काटके राशौ सति बृहस्पतौ द्वित्रास्वा-मावास्यासु सूर्यादित्रिकयोगः पुष्ये भविष्यतीति मौहूर्तका आहुरतोऽतिप्रसक्तिरिति चेन्न । सह-प्रवेशोऽत्राभिमतो न सदेत्यतो नातिप्रसक्तिरित्यभिप्रेत्यैव मूलकृल्ललाप समेष्यन्तीति ॥२४॥
येऽतीता वर्तमाना ये ये भविष्यन्ति पार्थिवाः ।
ते त उद्देशतः प्रोक्ता वंशजाः सूर्यसोमयोः ॥ २५ ॥
पदरत्नावली
एवं नवमस्कन्धमारभ्यानुक्रान्तं वैवस्वतमनोर्वंशद्वयमुपसंहरति येऽतीता इति । उद्देशतः संक्षेपतः ॥ २५ ॥
सत्यधर्मीया
सूर्यसोमयोर्वंशजाः ॥ २५ ॥
आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् ।
एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६ ॥
पदरत्नावली
कलियुगावान्तरविशेषमाह आरभ्येति । वर्षसहस्रं पञ्चदशोत्तरशतं चेति कयापि विवक्षयाऽवान्तरसङ्ख्येयम् । वस्तुतः सहस्रवत्सरं भोक्ष्यन्तीत्युक्तं नवमस्कन्धे ‘‘ये बार्हद्रथभूपाला भाव्याः साहस्रवत्सरम्’’ इति । ‘‘शिशुनागाश्च षष्ठ्युत्तरशतत्रयम् । भोक्ष्यन्ति पृथिवीम्’’ इति अत्रैवोक्तम् ॥ २६ ॥
सत्यधर्मीया
भवतस्तव । नन्दपर्यन्तं पञ्चदशोत्तरशतं वर्षसहस्रमवान्तरसङ्ख्येयं परीक्षणे । परीक्षिन्नन्दयोरन्तराकालस्य तथा मार्जारिमारभ्य पुरञ्जयान्तकालस्य सहस्राब्धं विंशति-सङ्ख्यराजाः । नन्दाः संवत्सरसहस्रं भोक्ष्यन्तीति नवमोक्तेः । ये बार्हद्रथभूपाला भाव्याः साहस्र-वत्सरमिति । तदनन्तरं प्रद्योतना अष्टत्रिंशच्छतं शिशुनागाश्च षष्ट्युत्तरशतत्रयं भोक्ष्यन्तीत्युक्त-मत्रैवेति ॥ २६ ॥
श्री पाङ्घरीश्रीनिवासाचार्यकृतविरोधोद्धार
आरभ्येति । अत्रेयं योजना । हे राजन् भवतस्तव जन्मारभ्य यावन्नन्दाभिषेचनं शिशु-नागानन्तरिकनन्दनामकस्याभिषेकपर्यन्तमित्यर्थः । एतदन्तरं वर्षसहस्रं पञ्चशतं तदपि दशोत्तरं दशाधिकम् । दशाधिकपञ्चशतोत्तरैकसहस्रमित्यर्थः । शतशब्दस्याव्ययत्वेन बहुवचनाभावः । शतं जीवेत्यत्रापि कारकान्वयाभावात् । परीक्षित्समकालमाधसहदेव सुतसोमापिना परीक्षिज्जन्मानन्तरं तत्पितुः सहदेवस्य स्वपूर्वयुद्धसहाय्यकारित्वात्तदुपेक्षया सार्वभौमत्वं द्वादशवर्षे आक्रान्तम् । अत एव तत्प्रभृति बार्हदृथानां भाव्यत्वेन द्वादशसहस्रवर्षराज्यकारित्वम् । ततः पञ्चप्रद्योतना इमेऽष्टा-विंशोत्तरशतं भोक्ष्यन्ति पृथिवीमिमामित्युक्त्या शिशुनागादीनां षष्ठ्युत्तरसमा भोक्ष्यन्ति पृथिवीमित्युक्त्या प्रद्योतनानामष्टाविंशदधिकशतवर्षपर्यन्तं राज्यम् । ततः शैशुभानागा दशैते ये षष्ठ्युत्तरशतत्रयं त्रिशतवर्षं राज्यम् । एवं मिलित्वैकसहस्रोपरिदशाधिकपञ्चशतसङ्ख्यैव जायते । अतो न काचिदर्थानुपपत्तिः ।
यत्तु श्रीधरेणैतत्कालगणनं कयाचिद्विवक्षयेति लिखितम् । तदयुक्तम् । व्याख्यात्राऽज्ञात-विवक्षाविषयकथने कृते परार्थाज्ञापनेन व्याख्यातृत्वानुपपत्तेः । यश्चानेन पूर्वसङ्ख्याविरोधः प्रदर्शितः सोऽपि नास्ति । एकार्थप्रतिपादकत्वस्यात्र प्रदर्शितत्वात् । यद्वा । आरभ्य भवतो जन्मेत्यत्र अजन्मेति पदच्छेदः । जन्मविरोधमरणमित्यर्थः । तदारभ्य जनमेजयेन द्वादशवर्षपर्यन्तं सार्वभौमत्वं कृतम् । तदूर्ध्वं सोमापिपुत्रः श्रुतश्रवः पूर्वं बार्हद्रथैः कृतम् । अत इमानि द्वादशाधिकसहस्रवर्षाणि प्रद्योतनानामष्टात्रिंशदधिकशतवर्षाणि शिशुनागानां षष्ठ्युत्तरत्रिशतवर्षाणि । एवं सर्वमेलने कृते दशोत्तरपञ्चशताधिकैक सहस्रवर्षसङ्ख्या सिध्यतीति ॥ २६ ॥
॥ इति पाङ्घरीश्रीनिवासाचार्यकृतविरोधोद्धारे द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ १२-२ ॥
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत् समं निशि ॥ २७ ॥
पदरत्नावली
कलेः प्रवृत्तिं बुद्धिं च निरूपयितुं कालज्ञानोपलक्षणमाह सप्तर्षीणामिति । अयमर्थः । प्रागग्रं शकटाकारं सप्तर्षिमण्डलम् । तत्र किञ्चिदुन्नतरेखाया अग्रस्थानीयो मरीचिः । ततः पश्चादानम्रयुगन्धराकारो वसिष्ठः सभार्यः । ततः पश्चादीषदुन्नतस्तेषां मूलस्थानीयोऽङ्गिराः । ततः पश्चाच्चतुरश्रताराचतुष्के ईशान्येऽत्रिः । ततो दक्षिणतः पुलस्त्यः । पुलस्त्यात् पश्चिमतः पुलहः । तत उत्तरतः क्रतुः । एवं स्थिते तेषां मध्ये यौ पूर्वौ उदयसमये प्रथममुदितौ पुलहक्रतुसञ्ज्ञौ तयोस्तु मध्ये तयोः पूर्वयोश्च मध्ये यत् समं दक्षिणतः समदेशावस्थितमश्विन्यादिषु यदन्यतमं नक्षत्रं दृश्यते ॥ २७ ॥
सत्यधर्मीया
कथं ज्ञातव्यः स काल इत्यत आह ॥ सप्तेति । मौहूर्तिका एवं सङ्गिरन्ते । तथा हि । सप्तर्षीणां सभार्याणां मण्डलम् । शकटाकारं तत्रोत्तरे ईषास्थानीयो मरीचिस्तत्पश्चात् । किञ्चित्प्रवणयुगन्धराकारो वसिष्ठः । तत्पश्चादीषदुन्नतमूलनिलयोऽङ्गिराः । ततः पश्चाच्चतुरस्रं ताराचतुष्कमीशान्येऽत्रिस्तद्दक्षिणभागेषु पुलस्त्यः । तत्पश्चिमतः पुलहस्तत उत्तरतः क्रतुरिति । तत्र यौ प्रथमावुदयसमये उदितौ पुलहश्च क्रतुश्च तयोर्मध्ये यदश्विन्यादिषु समदेशस्थमेकं नक्षत्रं दृश्यते ॥ २७ ॥
तेनैते ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाम् ॥ २८ ॥
पदरत्नावली
तेन तथैव युक्ता नृणामब्दशतं तिष्ठन्ति । ते च द्विजास्त्वदीये काले अधुना मघामाश्रिता वर्तन्ते ॥ २८ ॥
सत्यधर्मीया
तेनैते युक्ता ऋषयस्तिष्ठन्ति । तदा नृणामब्दशतं भविष्यति । ते द्विजास्त्वदीये त्वदधिपतिकालेऽधुना मघामाश्रितास्तेषु मघामाश्रितेषु ॥ तेषु (अयं पाठो नोपलब्धः) ऋषिषु मघासु वर्तमानेषु सत्सु ॥ २८ ॥
विष्णोर्भगवतो भागः कृष्णाख्योऽसौ दिवं गतः ।
तदाऽविशत् कलिर्लोकं पापे यद् रमते जनः ॥ २९ ॥
सत्यधर्मीया
विष्णोर्भगवतो भागः कृष्णाख्यो दिवं गतस्तदा कलिर्लोकं भुवमाविशत् । ननु सन्धौ न प्रविष्टः कलिरिति शक्यते वक्तुमिति कथमाविशत्कलिरधुनेत्युक्तिरिति चेन्न । भगवच्छक्तिशक्तस्वशक्तिः सन्नप्यसन्निति तत्सम्भवात् । यद्वक्ष्यति । पराक्रान्तुं न चाशकदिति
॥ २९ ॥
यावत् स पादपद्माभ्यां स्पृशन्नास्ते रमापतिः ।
तावत् कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥ ३० ॥
पदरत्नावली
पराक्रान्तुं स्वसामर्थ्यं दर्शयितुम् ॥ ३० ॥
सत्यधर्मीया
तत्कथं ज्ञेयमत आह ॥ यावदिति । रमापतिः पादपद्माभ्यां भुवं स्पृशन्कृष्ण आस्ते तावत्पराक्रान्तुं स्वशक्तिं व्यक्तीकर्तुं न चाशकत्समर्थो नाभूत् ॥ ३० ॥
यदा देवर्षयः सप्त मघासु विचरन्ति हि ।
तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मकः ॥ ३१ ॥
पदरत्नावली
कियन्तं कालं विचरणमित्यत उक्तं द्वादशेति ॥ ३१ ॥
सत्यधर्मीया
यदा सप्तदेवर्षयो मघासु विचरन्ति तदा द्वादशाब्दशतात्मकः सन्ध्याभ्या-मुभाभ्यां सह कलिकालः प्रवृत्तः ॥ ३१ ॥
यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः ।
तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥
पदरत्नावली
अस्तु कलेः परं कञ्चित् कालं हित्वा पश्चाद् वृद्धिः सा कदेति तत्राह यदेति ॥ ३२ ॥
सत्यधर्मीया
यदा तु महर्षयः मघाभ्यो यास्यन्ति नन्दात्प्रभृत्येष कलिर्वृद्धिं गमिष्यति । नन्दा हि राजानः क्रमात्स्वपराक्रमं दर्शयिष्यन्ति । गमिष्यतीत्यप्यत्रोक्ता ॥ ३२ ॥
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि ।
प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः ॥ ३३ ॥
पदरत्नावली
कृष्णस्वर्गारोहणानन्तरं कञ्चित् कालं हित्वा पश्चादाविष्टः किं कलिरुत तस्मिन्नेवाहनीति सन्देहं व्यवच्छिनत्ति यस्मिन्निति ॥ ३३ ॥
सत्यधर्मीया
तद्वर्धनं कदेत्यत आह ॥ यस्मिन्निति । कृष्णो यस्मिन्नहनि दिवं यात-स्तस्मिन्नेवाहनि दिवसे । तत्रापि न विलम्ब इत्याह ॥ तदैवेति । तत्क्षण एवेति कलियुगं प्रतिपन्नम् । स्वकार्यमङ्कूरयदिति प्राहुः पुराविदः पूर्वे ज्ञातार आहुः ॥ ३३ ॥
दिव्याब्दानां सहस्रे तु प्रतियाते पुनः कृतम् ।
भविष्यति यदा नॄणां मन आत्मप्रकाशकम् ॥ ३४ ॥
इत्येवं मानवो वंशो यथा संख्यायते भुवि ।
तथा विट्शूद्रविप्राणां वंशा ज्ञेया युगेयुगे ॥ ३५ ॥
एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् ।
कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६ ॥
पदरत्नावली
ततः कियान् कालः कृतप्रारम्भायेति तत्राह दिव्येति । यदा यस्मिन् कृतयुगे । आत्मप्रकाशकं परमात्मप्रकाशकं, भवतीति शेषः ॥ इतिशब्दः समाप्तिवचनः । इति समाप्तिपर्यन्तं कथित एष मानवो वंशः वैवस्वतमनुसम्बन्धी भुवि यथा सङ्ख्यायते । तथा विट्-शूद्रविप्राणां वंशा अपि युगेयुगे ज्ञेया बोद्धव्या इत्यतिदेशोऽयम् ॥ एतेषां सत्वे किं ज्ञापकमत्राह एतेषामिति । नामलिङ्गयुक्तानाम् । अनेनैतिह्यं प्रमाणमुक्तं भवति ॥ ३४-३६ ॥
सत्यधर्मीया
दिव्यानां देवसम्बन्धिनामब्दानां सहस्रे प्रतियाते । यत्र नृणां मन आत्मप्रकाशकं स्वपरमात्मरूपप्रकाशकं परापरतत्त्वविवेकजनकं भवति तत्कृतयुगं पुनर्भविष्यतीत्युक्त एष मानवो मनुसम्बन्धी वंशो यथाऽऽख्यायते तथा विशां शूद्राणां विप्राणां च युगेयुगे, पदमेकं, प्रतियुगं सङ्ख्यानं स्यात् । एतेषां महात्मनां पुरुषाणां कथामात्रमवशिष्टं येषां ते तथा तेषाम् । कथामात्रेणावशिष्टास्तेषां वा । भुवि कीर्तिरेव स्थिता नाम्नां लिङ्गानां स्थिरतापेक्षया कीर्तिस्थैर्य-मतितरामित्येवोक्तिः ॥ ३४-३६ ॥
देवापिः शन्तनोर्भ्राता मरु(नु)श्चेक्ष्वाकुवंशजः ।
कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७ ॥
ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।
वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥ ३८ ॥
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥
पदरत्नावली
कृते धर्मप्रतिष्ठापकः क इति तत्राह देवापिरिति । महायोगबलान्वितौ महाज्ञानबलयुक्तौ, अणिमाद्यैश्वर्ययुक्तौ वा ॥ कानि युगानीत्यत्राह कृतमिति ॥ ३७-३९ ॥
सत्यधर्मीया
शन्तनोर्भ्राता ज्येष्ठ इक्ष्वाकुवंशजो मनुः । अनेन सोमवंशज इक्ष्वाकुवंशजो मनुश्चेत्येतौ कलापनामके ग्राम आसाते । महायोगबलन्विताविति तथैतावत्पर्यन्तमवस्थाने योगबलं हेतुरिति सूचयति । तौ वासुदेवानुशिक्षितौ वर्णाश्रमयुतं धर्मं पूर्ववत्पूर्वकृतयुगे यथा तथा प्रथयिष्यतो विस्तारयिष्यतः । चतुर्युगं चतुःसङ्ख्यं च तद्युगं चेति विशेषणसमासः । अनेनोक्तेन क्रमयोगेन प्राणिषु वर्तते ॥ ३७-३९ ॥
राजन्नेते मया प्रोक्ता नरदेवास्तथा परे ।
भूमौ ममत्वं कृत्वाऽन्ते हित्वेमां निधनं गताः ॥ ४० ॥
पदरत्नावली
एषामज्ञानमाह राजन्निति ॥ ४० ॥
सत्यधर्मीया
विरक्तिजननद्वारा भक्तिहेतुत्वेनैतत्कीर्तनमिति यदुक्तमर्थाच्छब्दतोऽपि तदुद्बोधयन्नुपसंहरति ॥ राजन्निति ॥ मया प्रोक्ता नरदेवास्तथाऽपरे चैते भूमौ ममत्वं ममभावो ममत्वं, विभक्तिप्रतिरूपकम् । ममेत्यव्ययम् । ममेयमित्यभिमानं कृत्वाऽन्ते नाशसमये इमां हित्वा निधनं मरणं गताः ॥ ४० ॥
कृमिविड्भस्मसञ्ज्ञान्ते राजनाम्नोऽपि यस्य च ।
भूतध्रुङ् मनुते स्वार्थं किं वेद निरयो यतः ॥ ४१ ॥
पदरत्नावली
राजनाम्नोऽपि यस्य शरीरस्यान्ते नाशे कृमिविड्भस्मसञ्ज्ञा तादृशं शरीरं प्राप्य भूतध्रुक् स्वार्थं मनुते न परप्रयोजनम् । यतो भूतद्रोहान्निरयो भवति तं वेद किम् । न वेदैव । यस्य पुरुषशरीरस्यान्त इति वा ॥ ४१ ॥
दुर्घटभावदीपिका
राजनाम्नोऽपि यस्य देहस्यान्ते । मरणानन्तरमिति यावत् । कृमिविड्-भस्मसंज्ञा भवति च भवत्येव त्वत्कृते तद्देहकृते भूतध्रुक् स्वार्थं किं कुरुते न कुरुते । प्रत्युत स्वानर्थं कुरुते । कुत इत्यत आह ॥ निरयो यत इति ॥ यतः कारणाद्भूतद्रोहान्निरयो भवति । अतो भूतध्रुक् स्वानर्थं कुरुते । तर्हि कथं भूतद्रोहार्थं प्रवृत्तिरित्यत आह ॥ किं वेदेति ॥ भूतध्रुक् निरयं किं वेद न वेद । अतो भूतद्रोहार्थं प्रवृत्तिरिति । एतेन भूतध्रुक् स्वार्थं किं कुरुत इत्यादि वक्तव्यम् । तत्रास्तीति न्यूनतेत्याशङ्का परास्ता । कुरुत इत्यादीनां शेषेण भूतध्रुक् स्वार्थं किं कुरुत इत्याद्यर्थस्योक्तत्वात् ॥ ४१ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां
द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ १२-२ ॥
सत्यधर्मीया
राजेति नाम यस्य तस्य देहस्यान्ते यथाकार्यं कृमिविड्भस्मेति संज्ञा भवति । तत्कृते एतादृशशरीरस्य कृते तदर्थम् । भूतध्रुक् भूतेभ्यो द्रोग्धा यतो निरयो नरकादिस्तद्भूतद्रोहकृत् स्वार्थं वेद किं नैव वेदेत्यर्थः ॥ ४१ ॥
कथं सेयमखण्डा भूः पूर्वैर्मत्पुरुषैर्धृता ।
मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य च ॥ ४२ ॥
तेजोऽबन्नात्मकं कायं गृहीत्वाऽऽत्मतया मुधा ।
महीं ममतया चोभौ हित्वाऽन्तेऽदर्शनं गताः ॥ ४३ ॥
पदरत्नावली
स्वार्थमननप्रकारमाह कथमिति । भवन्त्यस्यां सत्वानीति भूर् येयं मत्पूर्वैः पुरुषैर्धृता सेयं भूर्ममाखण्डा राजान्तरानधिकृता कथं स्यात् । मत्पुत्रस्य मत्पौत्रस्य च मद्वंशजस्य, कथं स्यादिति मत्वा अहं पूर्वो यस्यां सा मत्पूर्वा ॥ तेजोबन्नमिदं कायमात्मतया नित्यत्वेन मुधा गृहीत्वा । अमी राजानो ममत्वेन गृहीत्वा । उभौ महीं देहं च हित्वा अदर्शनं मरणं गता भवन्तीत्यन्वयः ॥ ४२,४३ ॥
सत्यधर्मीया
ममता चेत्थमित्याह ॥ कथमिति । पूर्वैः पूर्वजैर्धृता भूरखण्डा मम कथं स्यात् । तथा मम पुत्रस्यैवं पौत्रस्य । अनेनान्तरालिकपुत्रपौत्रादिभवनमपि मननविषय-मित्यसूचि । मत्पूर्वाऽहमेव पूर्वः प्रवर्तक इत्यादीनां यस्याः सा । वंशजस्य कथं स्यात् । मत् पूर् वा वंशजस्येति भेदः । मत्तः पूर्वंशजस्य कथं स्यादिति वा । तेजोऽबन्नमयं कायमात्मतया स्वाभाविकत्वेन ध्रुवतयेति यावत् । मुधा गृहीत्वा मत्वा तथा महीं च गृहीत्वा । उभौ मही देहश्चेत्युभौ हित्वाऽदर्शनं मृत्युं गताः ॥ ४३ ॥
ये ये भूपतयो राजन् भुञ्जते भुवमोजसा ।
कालेन ते कृताः सर्वे कथामात्राः कथासु वै ॥ ४४ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ १२-२ ॥
पदरत्नावली
साम्प्रतं तेष्वेकोऽपि नास्तीत्याशयेनाह य इति । पुराणादिगतकथासु कथामात्राः सर्वात्मना कथैव येषां ते तथा कृताः । स्वरूपतो न सन्तीति शेषः ॥४४॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्यां
द्वादशस्कन्धस्य द्वितीयोऽध्यायः ॥ १२-१ ॥
सत्यधर्मीया
ये भूपतयो भुवमोजसा भुञ्जते ते ते सर्वे कालेन कथासु पौराणकीषु कथामात्राः कथा एव कथामात्राः कृतास्तत्त्वेन कृताः स्वरूपतो न सन्तीत्यर्थः । सत्साधना-भावादनन्तेऽप्रवणे तादृशे काले सति कथामात्राः कृता इति वा । कृता इत्यन्तर्णितणिजर्थम् । कारिता हिंसिता इति । सर्वे मरणे सति कथापुराणेषु कथामात्रा एवावशिष्टा इति वा । कृतं युगे च पर्याप्ते विहिते हिंसिते फल इति विश्वः ॥ ४४ ॥
**॥ इति श्रीसत्यधर्मतीर्थविरचितायां श्रीभागवतटिप्पण्यां **
द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ १२-२ ॥