योऽन्त्यो रिपुञ्जयो नाम भविष्यो बारुहद्रथः
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
द्वादशस्कन्धः
अथ प्रथमोऽध्यायः
ॐ नमो भगवते वासुदेवाय
श्री शुक उवाच–
योऽन्त्यो रिपुञ्जयो नाम भविष्यो बारुहद्रथः ।
तस्यामात्यस्तु मुनिको हत्वा स्वामिनमात्मजम् ॥ १ ॥
प्रद्योतसञ्ज्ञं राजानं कर्ता यत् पालकः सुतः ।
विशाखयूपस्तत्पुत्रो भविता चाजकस्ततः ॥ २ ॥
श्रीमद्विजयध्वजतीर्थविरचिता पदरत्नावली
पदरत्नावली
ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः
पद्मावासालयं नत्वा पद्मभूपूर्वस्वर्गीड्यम् ।
द्वादशस्कन्धं व्याकुर्वे द्वादशात्मप्रीत्यै नित्यम् ॥
श्रीनारायणक्लृप्तशिष्टवंशादिकथनेन तन्माहात्म्यमेव कथयत्यस्मिन् द्वादशस्कन्धे । तत्र प्रथमेऽध्याये वंशशेषं कथयति य इति । अन्त्यः वंशावसानभवः । कस्य वंशान्ते भव इत्यत उक्तम् बार्हद्रथ इति । स्वामिनं रिपुञ्चयम् । आत्मजम्, स्वस्येति शेषः ॥ यद् यस्य प्रद्योतस्य सुतः पालको नाम । यदित्यस्याव्ययत्वात् षष्ठी । यद्वा यः पालको यस्य यत्पालकः स तस्य सुत इति (?) ॥ १,२ ॥
श्री सत्यधर्मतीर्थविरचिता टिप्पणी
सत्यधर्मीया
श्रीमद्भनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।
द्वादशस्कन्धवार्युत्थविकासनरवौ गुरौ ।
मनोमिलिन्दलसिते सुमिल्लोर्थरसोदरम् ॥ १ ॥
इदानीमिन्दुवंश्याः पुरुमारभ्य रिपुञ्जयान्ता नवमे निरूपिताः । तदनन्तरजनिषस्तु मलीमसाश् चोराश्चेदपि तच्छ्रवणभवं वैराग्येण योग्यसंविद्ववद्वाशिता तया च मुक्तिर्भवतीति किञ्चिदनूद्य रिपुञ्जयवृत्तं कथयति ॥ योऽन्त्य इति । अन्ते भवोऽन्त्यः । अन्त्य इति किं वंशान्त्य इत्यत आह ॥ बारुहद्रथ हति । पुरोरुपरिचरस्तस्य वसुस्तस्य ब्रह्मद्रथस्तस्य जरासन्धस्तस्य सहदेव इत्येवमादयो व्यवधायका विंशत्सङ्ख्या रिपुञ्जयस्येति । स बारुहद्रथ इति । तस्य रिपुञ्जयस्य अमात्यो मन्त्री मुनिकस्तन्नामा । स्वामिनं रिपुञ्जयं हत्वा स्वमात्मजं पुत्रं प्रद्योत इति संज्ञा यस्य स तं राजानं कर्ता यद्यस्य सुतः पालकस्तन्नामा । तत्पुत्रो पालकबालको विशाखयूप इति भविता । ततो विशाखयूपादजकः । यत्तदित्यन्वये ॥ १,२ ॥
नन्दिवर्धस्तु तत्पुत्रः पञ्चप्रद्योतना इमे ।
अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीमिमाम् ॥ ३ ॥
शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः ।
क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः ॥ ४ ॥
विधिसारः सुतस्तस्याजातशत्रुर्भविष्यति ।
दर्भकस्तत्सुतो भाव्यो दर्भकस्याजयस्ततः ॥ ५ ॥
पदरत्नावली
प्रद्योतनेन साकं पञ्च । तेषां राज्यावधिकालमाह ओति । भोक्ष्यन्ति पालयन्ति । भुजोऽनवन इत्यतः परस्मैपदम् । पूर्ववंशवैलक्षण्यद्योतनार्थो वा व्यत्यासः ॥३॥
सत्यधर्मीया
नन्दिवर्धनस्तत्पुत्रोऽजकपुत्र इति । प्रद्योतनाः प्रद्योतनेन सह पञ्चेति ऋभवो विष्ट्यकृतेत्यत्र ऋभवोऽन्वेति त्रयाणां साहचर्यादृभुर्नामैव । प्रद्योतनसाहचर्यात्पञ्चानां प्रद्योतना इत्युक्तिः । एकस्यासमञ्जससमानवदेकस्य प्रद्योतप्रद्योतननामेति ज्ञेयम् । तद्भोज्यराज्य-विधिमभिदत्ते ॥ अष्टत्रिंशेति । शतोत्तरमष्टत्रिंशत्सङ्ख्यसंवत्सरात्मकं कालमिमां पृथिवीं भोक्ष्यन्ति । भुजोऽनवन इत्युक्तेरवने परस्मैपदम् । ततो नन्दिवर्धनात् । काकवर्णस्तत्सुतः शिशुनागसुतस्तस्य काकवर्णस्य । क्षेमधर्मा क्षेमो धर्मो यस्य स इति विग्रहः । अन्यथाऽवनिजेतृता न स्यात् । तस्य क्षेमधर्मणः क्षेत्रधर्मा तस्य क्षेत्रज्ञस्तस्य विधिसारस्तस्याजातशत्रुः । अयमन्यो युधिष्ठिरः । तत्सुतोऽजातशत्रुसुतो दर्भकस्तस्य अजयः ॥ ३-५ ॥
सत्याभिनवयतिकृता दुर्घटभावदीपिका
दुर्घटभावदीपिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ क्षेत्रधर्मा क्षेत्रज्ञः क्षेत्रधर्मजस्तस्य काकवर्णस्य सुत इति ॥ अयं भावः ॥ काकवर्णस्य क्षेमधर्मा क्षेत्रज्ञः क्षेत्रधर्मज इत्येते त्रयः पुत्रा इति । एतेन क्षेत्रधर्मस्य पूर्वमनुक्तत्वात् क्षेत्रज्ञः क्षेत्रधर्मादुत्पन्न इति कथनमयुक्त-मिति दूषणं परास्तम् । क्षेत्रज्ञः क्षेत्रधर्मज इत्यस्य क्षेत्रज्ञः क्षेत्रधर्माज्जात इत्यर्थ इत्यनङ्गीकारात्
॥ ४ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिकायां
द्वादशस्कन्धे प्रथमोऽध्यायः ॥ १२–१ ॥
नन्दिवर्धन आजेयो महानन्दिश्च तत्सुतः ।
शैशुनागा दशैते वै षष्ट्युत्तरशतत्रयम् ॥ ६ ॥
समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः ।
महानन्दिसुतो राजन् शूद्रागर्भोद्भवो बली ॥ ७ ॥
पदरत्नावली
महानन्दिं विशिनष्टि महानन्दीति ॥ ७ ॥
सत्यधर्मीया
आजेयो नन्दिवर्धनोऽयमन्यः प्रद्योतननिकेतनतस्तस्य नन्दिवर्धनस्य महानन्दिवर्धनस्तस्य सुतः शूद्रगर्भोद्भवः । शूद्राचामहत्पूर्वाजातिरिति टाबन्तः ॥ ६,७ ॥
महापद्मापतिः कश्चित् कुलक्षत्रविनाशकृत् ।
ततो नृपा भविष्यन्ति शूद्रप्राया अधार्मिकाः ॥ ८ ॥
पदरत्नावली
महानन्दिभवः क इति (आह) कश्चिदिति । महापद्मसङ्ख्यया सङ्ख्याता सेना महापद्मा, तस्याः पतिः । कुलक्षत्रविनाशकृत् ततः कुलक्षत्राभावात् ॥ ८ ॥
सत्यधर्मीया
महापद्मापतिर्महापद्मसङ्ख्यं यत्सैन्यं तस्य पतिः । महापद्मपतिरिति पाठे महापद्मस्तदाख्या सङ्ख्याऽस्यास्तीत्यर्श आद्यचि । सा सेना तस्याः पतिरित्यर्थः । महापद्मा तन्नाम्नी भार्या तस्याः पतिरिति केचित् । कुलक्षत्रविनाशकृत् क्षत्रकुलविनाशं करोतीति स तथा क्षत्रकुलविनाशकृदित्यर्थः । शूद्रप्राया अधार्मिका नृपा भविष्यन्ति ॥ ८ ॥
स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः ।
शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥ ९ ॥
पदरत्नावली
स महापद्मनामा नन्दः ॥ ९ ॥
सत्यधर्मीया
पूर्वं कश्चिदित्युक्तं तन्नाम किमित्यतस्तावत्सेनानायकत्वात्तदेव नामेति वक्तुं तच्छक्तिं वक्ति ॥ एकच्छत्रामिति । एकं छत्रं यस्याः सा ताम् । अनुल्लङ्घितं केनापि स्वशासनं यस्य सः । द्वितीयो भार्गव इव महापद्मस्तन्नामा शासिष्यति । एतस्यापि क्षत्रकुलनाशकतयाऽनुरूपं निदर्शनम् । स एकछत्रामिति क्वाचित्कः पाठः । एकच्छत्रां स पृथिवीमिति सरलः पाठस्तु किं कृतेऽपि वृत्ताविच्छित्तेः ॥ ९ ॥
तस्य चाष्टौ भविष्यन्ति सुमालिप्रमुखाः सुताः ।
य इमां पृथिवीं राजन् भोक्ष्यन्ति स्म शतं समाः ॥ १० ॥
सत्यधर्मीया
तस्य महापद्मस्य सुमालिप्रमुखाः सुता अष्टौ भविष्यन्ति । शतं समाः पृथिवीं भोक्ष्यन्ति ॥ १० ॥
नवनन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति ।
तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ ११ ॥
स एव इन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।
तत्सुतो वारिराजस्तु ततश्चाशोकवर्धनः ॥ १२ ॥
सुयशा भविता यस्य सङ्गतः सुयशःसुतः ।
शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ॥ १३ ॥
पदरत्नावली
नन्देन सह नवसङ्ख्यान् नन्दान् नन्दवंशजान् उद्धरिष्यति, आपद इति शेषः । मौर्या मुरवंशजाः । हीनजातयः कैवर्ताः ॥ कथं भोक्ष्यन्तीत्यत आह स एवेति । स एव नवनन्दाचार्यः ॥ ११,१२ ॥
सत्यधर्मीया
कश्चिद्द्विजः कौटिल्यवात्सायनचाणक्यनामवान्नव नन्दान् नन्देन सहिता नवनन्दास्तान् प्रपन्नान्विश्वस्तानप्युद्धरिष्यत्युन्मीलयति । कथमुद्धरिष्यतीत्यस्योन्मूलयतीत्यर्थ इति चेत् । भारत उद्योगपर्वणि दशार्णनृपतिद्रुपदप्रस्तावे ‘‘एष ते ससुतामात्यमुद्धरामि स्थिरा भव । अवमान्य च वीर्यं मे कुलं चारित्र्यमेव च । विप्रलम्भस्त्वया पूर्वं मनुष्येषु प्रवर्तितः । कुरु कार्याणि नृपते भुङ्क्ष्व भोगानननुक्रमान् । अभिनिर्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवमिति’’ । आपद इति शेष इति व्याकरणे तेषामभावे जगतीं मौर्या भोक्ष्यन्तीति दुर्घटयोजनं स्यात् । उन्मूलनानन्तरं तदभावे मौर्यास्तदाद्या महीं कलौ युगे भोक्ष्यन्ति । स एव द्विजश्चाणक्य इन्द्रगुप्तं राज्येऽभिषेक्ष्यति । वारिराजस्तत्सुत इन्द्रगुप्तसुतस्ततो वारिराजादशोकवर्धनस्तन्नामा । तस्याशोकवर्धनस्य सुयशाः । सङ्गतश्च सुयशसः सुतः । ततः सङ्गतात् शालिशूकस्तस्य सोमशर्मा भविष्यति । सोमेति शर्म यस्य स इति वाऽखण्डं वा नामेति निर्णेतुं न वयं नामकरणभोजिनः
॥ ११-१३ ॥
शतधन्वा ततस्तस्य भविता तु बृहद्रथः ।
मौर्या ह्येते नव नृपाः सप्तत्रिंशच्छतोत्तरम् ॥ १४ ॥
पदरत्नावली
मौर्यराजा मौर्याः ॥ १४ ॥
सत्यधर्मीया
ततः शतधन्वा भविता । अतः शतधन्वनो बृहद्रथः । एते मौर्यमारभ्य बृहद्रथान्ताः शतोत्तरसप्तत्रिंशत्सङ्ख्याः समाः कलौ पृथिवीं भोक्ष्यन्ति ॥ १४ ॥
समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह ।
हत्वा बृहद्रथं मौर्यं तस्य सेनापतिः कलौ ॥ १५ ॥
पुष्पमित्रस्तु शुङ्गाह्वः स्वयं राज्यं करिष्यति ।
अग्निमित्रस्ततस्तस्मात् सुधेष्टो भविता ततः ॥ १६ ॥
पदरत्नावली
वंशव्यत्यासं कथयति हत्वेति ॥ पुष्यमित्र इत्यादि जातिप्रयुक्तं नाम शुङ्ग इत्यादि विशेषनाम ॥ १५,१६ ॥
सत्यधर्मीया
बार्हद्रथं मौर्यान्तिमं तस्यैव सेनापतिस्तं हत्वा शुङ्गाह्वो राजत्वदशायामनन्तरं पुष्पमित्र इति नामेति विशेषसूचकस्तुरिति केचित् । पुष्पमित्र इति कुलनाम तन्नाम शुङ्गेत्यन्ये । शुङ्गेति कुलनाम पुष्पमित्र इत्येव नाम शुङ्गाद्दशैत इति वक्ष्यमाणत्वात् । स्वयं राज्यं करिष्यति । ततस्तस्मादग्निमित्रस्ततः सुधेष्ठा भविता ॥ १५,१६ ॥
वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः ।
ततो घोषः सुतस्तस्माद् वज्रमित्रो भविष्यति ॥ १७ ॥
ततो भागवतस्तस्माद् देवभूतिः कुरूद्वह ।
शुङ्गाद् (शुङ्गा) दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ॥ १८ ॥
पदरत्नावली
शुङ्गा शुङ्गवंशजा नृपाः ॥ १७,१८ ॥
सत्यधर्मीया
वसुमित्रो भद्रकः पुलिन्दश्च ततो भविता । ततः पुलिन्दाद्धोष-स्तस्माद्घोषाद्वज्रमित्रो भविष्यति । ततो भागवतस्तस्माद्देवभूतिर्वर्षशताधिकं शतवर्षोपरि किञ्चिदधिकं कालम् ॥ १७,१८ ॥
ततः कण्वानियं भूमिर्यास्यत्यल्पगुणान् नृपान् ।
शुङ्गं हत्वा देवभू(हू)तिं कण्वोऽमात्यस्तु कामिनम् ॥ १९ ॥
स्वयं करिष्यते राज्यं वसुदेवो महामतिः ।
तस्य पुत्रस्तु भूमित्रस्ततो नारायणः सुतः ॥ २० ॥
पदरत्नावली
कण्वाः कण्ववंशजाः । तान् नृपान् यास्यति । अल्पगुणा ओषध्यादिगुणसम्पत्तिरहिताः । कथं कण्वान् यास्यतीत्यत आह शुङ्गमिति । शुङ्गं शुङ्गाख्यं राजानं देवहूतिं हत्वा नाम्ना वसुदेवः कण्वः । तस्य शुङ्गस्यामात्यः । कामिनं ग्राम्यकर्मासक्तम्
॥ १९ ॥
सत्यधर्मीया
ततः कण्वांस्तन्मूलकांस्तन्नाम्नः । अल्पगुणान् । अनेन दोषानीषता सूच्यते । इयं भूमिर्यास्यति । तत्तद्गमनप्रकारमीरयति ॥ शुङ्गमिति । शुङ्गं वङ्गजम् । देवभूतिमन्तिमम् । कामिनमिति हननहेतूक्तिः । कण्वोऽमात्यः स्वयं राज्यं करिष्यति । तस्य पुत्रो वसुदेवो महीपतिस्तस्य भूमित्रस्ततो नारायणः ॥ १९,२० ॥
सुशर्माख्योऽस्य नृपतिः कण्वानां भविता ततः ।
काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ॥ २१ ॥
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ।
हत्वा कण्वं सुशर्माणं तद्भृत्यो वृषलो बली ॥ २२ ॥
गां भोक्ष्यत्यान्ध्रजातीयः कञ्चित्कालमसत्तमः ।
कृष्णनामा च तद्भ्राता भविता पृथिवीपतिः ॥ २३ ॥
श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः ।
लम्बोदरस्तु तत्पुत्रस्तस्माच्छिबिलको नृप ॥ २४ ॥
मेघस्वातिः शिबिलकाद्दृढमानस्तु तस्य च ।
अनिष्टकर्मा हालेयस्तलङ्कस्तस्य चात्मजः ॥ २५ ॥
पुरीषसेरुस्तत्पुत्रस्ततो राजा सुनन्दनः ।
चकोरो दृढकायोऽस्य (विवस्वाति) शिवख्यातिररिन्दमः ॥ २६ ॥
तस्यापि गोमतीपुत्रः पुरीमान् भविता ततः ।
शिवशिराः शिवस्कन्दो जयश्रीस्तत्सुतस्ततः ॥ २७ ॥
विजयस्तत्सुतो भाव्यश्चन्द्रबीजः सुलोमधीः ।
एते त्रिंशन्नृपतयश्चत्वार्यष्टशतानि च ॥ २८ ॥
षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ।
सप्ताभीरा आन्ध्रभृत्या दश गर्दभिनो नृपाः ।
कङ्काः षोडशभूपाला भविष्यन्त्यतिलोलुपाः ॥ २९ ॥
पदरत्नावली
काण्वायना कण्ववंशभावाः ॥ कण्वानां चतुर्थः सुशर्मा । इमे च वसुदेवादयः काण्वायना वर्षाणां त्रीणि शतानि पञ्चचत्वारिंशद्वर्षाणि च भूमिं भोक्ष्यन्ति । तस्य सुशर्मणो भृत्यः ॥ तस्य वृषलस्य भ्राता ॥ हालेयः हलान्मेयः ॥ २२-२४ ॥
सत्यधर्मीया
कण्वानां मध्ये सुशर्मा भविता । इमे काण्वायनास्तद्वंश्याः । नडादिफक् । त्रिशतसंवत्सरोपरि पञ्चचत्वारिंशद्दिनानि । तद्भृत्यो वृषलः शूद्रस्तज्जातिमभिधत्ते । आन्ध्राणां जातिजः । किञ्चिदल्पकालम् । असत्तम इत्यायुषः प्रमोषे कारणोदीरणम् । तद्भ्राता वृषलभ्राता तत्पुत्रः कृष्णपुत्रस्तत्सुतः पौर्णमाससुतस्तस्माल्लम्बोदराच्छिबिलिकान्मेघस्वातिस्तस्य मेघस्वातेर्दृढ-मानोऽनिष्टकर्मा ततो हालेयस्तस्यात्मजस्तलङ्कः पुरीषसेरुस्ततः सुनन्दनो राजा । ततो दृढकाय-स्तस्य चकोरस्तस्य विवस्वातेर्गोमती तद्भार्या । तत्पुत्रः पुरीमांस्ततः शिवशिरास्तस्य शिवस्कन्ध-स्तत्सुतो जयश्रीस्तस्य विजयस्तत्सुतश्चन्द्रबीजो भाव्यः । तस्य सुलोमधीश्चतुःशतवत्सरोपरि षट्पञ्चाशत्संवत्सरं पृथिवीं भोक्ष्यन्ति । आन्ध्रभृत्या आभीरा गोपजातयः । गर्दभेति वंशनाम । दशैते तथा कङ्काः षोडश । लोलुपाः कामुकाः ॥ २१-२९ ॥
ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्कराः ।
त्रयोदश(भूयो दश) सुरुण्डाश्च मौना एकादशैव तु ॥ ३० ॥
एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।
नवाधिकां च नवतिं मौना एकादश क्षितिम् ॥ ३१ ॥
भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि वै संस्थिते कुले ।
कि(कु)लकिलायां नृपतयो भूतवंशोपवङ्गरैः ॥ ३२ ॥
शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः ।
युक्ता एते वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३३ ॥
पदरत्नावली
एते आभीरादयो मौनव्यतिरिक्ताः पञ्चषष्टिनृपा एकोनशताधिकं वर्षसहस्रं पृथिवीं भोक्ष्यन्ति । ततः पूर्वोक्ता एवैकादशमौनास् त्रीण्यब्दशतानि क्षितिं भोक्ष्यन्ति । मौना मौनकुलेजाता एकादश । त्रीणि अब्दशतानि ॥ कुले मौनकुले संस्थिते नष्टे किलकिलायां नगर्यां तस्य शिशुनन्देर्भ्राता भूतवंशोपवङ्गरैर्युक्ता षट्षड्वर्षाण्यधिकानि ॥ ३१-३२ ॥
सत्यधर्मीया
ततोऽनन्तरं यवना अष्टौ भाव्याः । तुरष्कराश्चतुर्दशसङ्ख्याः सुरुण्डास्त्रयो-दशसङ्ख्याः । मौनास्तत्प्रभेदा एकादशेत्येते दशवर्षशतानि सहस्रसंवत्सरीं नवनवतिं च । एकादशाब्दशतानि तदुपरि त्रीणि शतानीति चतुर्दशशतीम् । ततः संस्थिते कुत इति शेषः । कुल इति पाठादनुकूलः नष्टे सति । कुलकिलायाम् । नगर्यां भूतवंशोपवङ्गरा इति केचित्तै-र्युक्ताः शिशुनन्दिर्यशोनन्दिः प्रवीरक इत्येते षडधिकान्हायनान्वर्षशतं च ॥ ३०-३३ ॥
तेषां त्रयोदश सुता भवितारोऽथ बाह्लिकाः ।
पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥ ३४ ॥
पदरत्नावली
बाह्लिका बाह्लीका बाह्लीकदेशपतयः ॥ ३४ ॥
सत्यधर्मीया
बाह्लिकास्तद्देशभवाः । अस्य पुष्पमित्रस्य दुर्मित्रः ॥ ३४ ॥
एककाला इमे भूपाः सप्तान्ध्राः सप्त कोसलाः ।
वैदूरपतयो भाव्या नैषधास्तत एव हि ॥ ३५ ॥
पदरत्नावली
तथा आन्ध्रा अन्ध्रदेशपतयः कोसला कोसलविषयपतयः, वैदूरयः वैदूराख्यनगरपतयो निषधाश्च । एते तत्तद्देशनामभिः प्रख्यातास् तुल्यकाला अखण्डमण्डलेषु भूपास् तत एव तेभ्यो बाह्लीकेभ्य एव भाव्या भविष्यन्ति ॥ ३५ ॥
सत्यधर्मीया
सप्त आन्ध्रास्तत्पतयः । सप्त च कोसलास्ते च वैदूरपूरपतयो भाव्याः । ततो नैषधा निषधदेशाः ॥ ३५ ॥
नैषधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः ।
करिष्यत्यवरान् वर्णान् पुलिन्दयदुमद्रकान् ॥ ३६ ॥
पदरत्नावली
ततश्च नैषधानां विषयाणां राजा पुरञ्जयः, शत्रूणामिति शेषः, स पुलिन्द-यदुमद्रकान् अवरान् नीचान् वर्णान् करिष्यति । किं बहुना । सर्वाः प्रजाश्चापि विवक्षिताः
॥ ३६ ॥
सत्यधर्मीया
विश्वस्फूर्जिर्नाम्ना । पुरञ्जयः परपुरंजेता । पुलिन्दयदुमद्रकान्वर्णावरा-न्करिष्यति ॥ ३६ ॥
प्रजाश्चा(श्च)ब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः ।
वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ॥ ३७ ॥
पदरत्नावली
ब्रह्मभूयिष्ठा बहुलवेदविदः । स्थापयिष्यति स्थिरीकरिष्यति ॥ ३७ ॥
सत्यधर्मीया
अब्रह्मिष्ठाः प्रजा अवेदविदः । अब्रह्मनिष्ठाश्च प्रजाः स्थापयिष्यति । शिक्षया दुर्मार्गप्रवृत्तीः करिष्यति । तत्र हेतुर्दुर्मतिरिति । स्वयं वीर्यवान् । क्षत्रं तज्जतिमुत्साद्यो-न्मूलयित्वा पद्मवत्यां तन्नाम््नयां पुरि ॥ ३७ ॥
अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ।
सौराष्ट्रावन्त्याभीराश्च शूद्राश्चार्बुदमालवाः ॥ ३८ ॥
पदरत्नावली
अनुगङ्गं गङ्गासमीपे । आप्रयागं प्रयागाख्यक्षेत्रपर्यन्तं दीर्घां मेदिनीं पद्मवत्यां पुरि स्थितिं कृत्वा । आप्रयागं गुप्तां पालिताम् (वा) । तदनन्तरं सौराष्ट्राश्च आवन्त्याश्च आभिराश्च शूद्राश्च अर्बुदाश्च मालवाश्च ॥ ३८ ॥
सत्यधर्मीया
अनुगङ्गं गङ्गाद्वारमारभ्याप्रयागं प्रयागपर्यन्तं स्वेन गुप्तां मेदिनीं भोक्ष्यति । सौराष्ट्राश्चावन्तयश्चाभीराश्चार्बुदमालवाः शूद्राश्च ॥ ३८ ॥
व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः ।
सिन्धोस्तटं चन्द्रभागां काञ्चीं काश्मीरमण्डलम् ॥ ३९ ॥
पदरत्नावली
व्रात्याः संस्कारहीना द्विजाः शूद्रप्राया जनाधिपतयो भविष्यन्ति ॥३९॥
सत्यधर्मीया
द्विजा व्रात्याः संस्कारहीनाः शूद्रप्राया बाहुल्येन तद्धर्माणश्चन्द्रभागां काञ्चीं काश्मीरमण्डलो देशः ॥ ३९ ॥
भोक्ष्यन्ति शूद्रा व्रात्याश्च म्लेञ्छा अब्रह्मवर्चसः ।
तुल्यकाला इमे राजन् म्लेञ्छप्रायाश्च भूभृतः ॥ ४० ॥
एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः ।
स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः ॥ ४१ ॥
पदरत्नावली
किञ्चैते सर्वे अधर्मानृतपरा अधर्मे अनृते च परिनिष्ठिताः । फल्गुदा अल्पदातारः ॥ ४१ ॥
सत्यधर्मीया
इमे इत्यत्रायं चायं चायं चैतीम इत्यन्तविग्रहः । कालिकायमित्यस्य पृथक् पृथगब्रह्मवर्चस इति विशेषणम् । अत उपपद्यतेऽब्रह्मवर्चस इति । यद्वा न विद्यते ब्रह्म तपो वेदो वा वर्चश्च ते येषामिति । भूभृतः म्लेञ्छप्रायाः । अधर्माश्चानृतं च परे येषां ते । फल्गुदा क्षुद्रदातारः ॥ ४०,४१ ॥
उदितास्तमितप्राया अल्पसत्वाल्पकायुषः ।
असंस्कृताः क्रियाहीना रजसा तमसा वृताः ॥ ४२ ॥
प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ।
तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः ॥ ४३ ॥
अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ॥ ४४ ॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे प्रथमोऽध्यायः ॥ १२-१ ॥
पदरत्नावली
उदितास्तमितप्राया बहुलं सूर्योदयमस्तङ्गतमेव जानन्ति नापरम् । अल्पकालावस्थायिनो वा । असंस्कृता गर्भाधानादिसंस्कारहीनाः ॥ प्रजा भक्षयिष्यन्ति धनाद्यपहारादिना पीडयिष्यन्ति । किञ्च एवं विधा ये त एव नाथा येषां ते तन्नाथा जनपदा देशवर्तिनो मनुष्यास् तच्छीलाचारवादिनस् तेषां शीलं चाचारश्च वादश्च तद्वन्तः ॥४२,४३॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्यां द्वादशस्कन्धस्य प्रथमोऽध्यायः ॥ १२-१ ॥
सत्यधर्मीया
उदयास्तमिते एव प्रकर्षेणायन्ते जानन्तीति ते तथा । अतत्कालोचित-धर्मानुष्ठातार इति यावत् । अल्पसत्त्वाश्च तेऽल्पायुषश्चासंस्कृता उपनयनादिसंस्काररहिताः । क्रिया सन्ध्यादिः । रजसा तमोबहुलेन ॥ म्लेञ्छा राजन्यरूपिणो राजन्यानां राज्ञा राज्ये जातानां रूपमिव रूपमेषामस्ति ते । प्रजाः स्वदेशभवा जनपदास्तन्नाथा इति तच्छीला-स्तदाचारास्तद्वादवद्वादिनः । अन्योन्यतः परस्परं राजभिः पीडिताः क्षयं यास्यन्ति
॥ ४२-४४ ॥
॥ इति श्री सत्यधर्मीयतीर्थविरचितायां श्रीभागवतटिप्पण्यां
द्वादशस्कन्धे प्रथमोऽध्यायः ॥ १२-१ ॥