अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः
॥ अथ एकत्रिंशोऽध्यायः ॥
श्रीशुक उवाच–
अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः ।
महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १ ॥
पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः ।
चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ २ ॥
द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः ।
गायन्तश्च गृणन्तश्च शौरेः कर्माणि जन्म च ॥ ३ ॥
पदरत्नावली
हरेः स्वलोकनिर्याणप्रकारादिकं कथयत्यस्मिन्नध्याये । तत्रादौ ब्रह्मादीनामागतिमाह– अथेति । भवान्या रुद्राण्योमया ॥ द्विजा ऋषयः ॥ १,२ ॥
श्रीनिवासतीर्थीया
निर्याणं नाशम् ॥ १–३ ॥
प्रमेयचन्द्रिका
भगवतः स्वधामप्रवेशः सोपाद्घातमुच्यते ॥ अथेत्यादिना ॥१॥
ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः ।
कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४ ॥
श्रीनिवासतीर्थीया
सङ्कुलं कुर्वन्त इत्यन्वयः ॥ ४ ॥
भगवानपि तान् वीक्ष्य विभूतीरात्मनो विभुः ।
संयुज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५ ॥
पदरत्नावली
विभूतीः स्वसन्निधानस्थानविशेषानिन्द्रादीन् । आत्मानं स्वमात्मनि मूलरूपे
॥ ३–५ ॥
श्रीनिवासतीर्थीया
आत्मनो विभूतीः स्वसन्निधानविशेषांस्तानिन्द्रादीन्वीक्ष्यात्मनि मूलरूपे आत्मानं संयोज्य पद्मवद्विद्यमाननेत्रे न्यमीलयदित्यर्थः ॥ ५ ॥
प्रमेयचन्द्रिका
अन्याश्चात्मनो विभूतीः स्वभूतिरुपसन्निधानस्थानभूतान् देवादीन् आत्मनि मूलरूपे स्वात्मानं संयोज्य एकसंस्थानापन्नतया योजयित्वा ॥ ५ ॥
लोकाभिरामां स्वतनुं धरणाध्यानमङ्गलाम् ।
योगधारणयाऽऽग्नेय्याऽदग्ध्वा धामाविशत् स्वकम् ॥ ६ ॥
तात्पर्यम्
आग्नेय्या धारणया स्वतनुमदग्ध्वा स्वकं धामाविशत् । ‘आग्नेय्याऽन्ये धारणया दग्ध्वा देहं परं पदम् । यान्ति देवाः समस्ताश्च तेषामन्यां तनुं हरिः । नृसिंह-रूपी सर्वेषां भित्त्वा ताभिरलङ्कृतः । नृत्यते प्रलये देवः स्वयं कृष्णादिरूपवान् । अदग्ध्वैव तनुं याति नित्यानन्दस्वरूपत’ इति तन्त्रभागवते ॥ ६ ॥
पदरत्नावली
आग्नेय्या योगधारणया जातेनाग्निना तनुमदग्ध्वा परं पदं स्वकं धामाविशत् । ‘‘आग्नेय्याऽन्ये धारणया देहं दग्ध्वा परं पदम् । यान्ति देवाः समस्ताश्च तेषामन्यास्तनूर्हरिः । नृसिंहरूपी सर्वेषां भित्त्वा ताभिरलङ्कृतः । नृत्यति प्रलये देवः स्वयं कृष्णादिरूपवान् । अदग्ध्वैव तनुं याति नित्यानन्दस्वरूपतः’’ इति वचनादुक्तार्थ एवाङ्गीकरणीय इति भावः ॥ ६ ॥
श्रीनिवासतीर्थीया
लोकाभिरामां लोकानां मनोहरां धारणाध्यानयोर्मङ्गलां स्वतनु-माग्नेय्या योगधारणया दग्ध्वा स्वकं धामाविशदिति प्रतीयते । न च तद्युक्तम् । तृतीये स्वतनुं गृहीत्वैवान्तर्धानस्योक्तत्वेन तद्विरोधः स्यादित्यत आह ॥ आग्नेय्येति । एवं चाद-ग्ध्वेत्युक्त्याऽकारप्रश्लेषेण पदच्छेद इति दर्शितम् । तथा च न विरोध इति भावः । उक्तार्थे नियामकं प्रमाणमाह ॥ आग्नेय्येति । अन्ये भगवदितरे समस्ता देवा आग्नेय्या धारणया देहं दग्ध्वा परं पदं यान्ति तेषां देवानामन्यां तनुं मूलरूपे विद्यमानां तनुम् । ताभि-स्तनूभिः । कुत इत्यत आह ॥ नित्यानन्देति । तथा चाग्नेय्या योगधारणया तनुमदग्ध्वा स्वकं धामाविशदित्यर्थः ॥ ६ ॥
प्रमेयचन्द्रिका
धारणाध्यानमङ्गलाम् ॥ खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते । तद्विषयत्वेन माङ्गल्यप्रदामित्यर्थः । अत्र स्वकां तनुं दग्ध्वा स्वकं धामाविशदिति भाति । तदयुक्तम् । आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनमिति तृतीयस्कन्धे स्वरूपभूतस्य देहस्यान्तर्धानकथनेन तद्विरोधात् । पूर्णमदः पूर्णमिदं, सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः । परमानन्दसन्दोहज्ञानमात्राश्च सर्वश इत्यादिविरोधाच्चेत्यत आह ॥ आग्नेय्येति ॥ नन्वदग्ध्वेति पदच्छेदे योगधारणयेति व्यर्थम् । योगधारणाया अदाहं प्रत्यनुपयुक्तत्वादित्या-शङ्कायामन्येषां देवानामाग्नेय्या धारणया देहदाहेन भगवद्धामप्राप्तिवन्न हरेः । किं तु तया धारणया तनुमदग्ध्वा स्वधामप्राप्तिरिति ज्ञापनाय तत्सार्थक्यादित्याशयेन प्रमाणमाह ॥ आग्नेय्याऽन्य इति ॥ आग्नेय्या तनुदाहोपयुक्ताग्निजनकत्वादाग्नेयीनामिकया । ननु ब्रह्मचर्म-शिरः पट्टी दिक्पालोर्ध्वाङ्गभूषणः । द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपर इति वासुदेवसहस्रनाम-प्रकरणे नरसिंहस्यैव देवदेहनाशकत्वात्तद्विरोध इत्यत आह ॥ तेषामिति ॥ रूपभेदविवक्षया तदुक्तिरिति भावः ॥ ६ ॥
दिवि दुन्दुभयो नेदुः पेतुः सुमनसश्च खात् ।
सत्यं धर्मो धृतिर्भूतिः कीर्तिः श्रीश्चानु तं ययुः ॥ ७ ॥
पदरत्नावली
तं कृष्णमनु ॥ ७ ॥
श्रीनिवासतीर्थीया
परलोकगमनसमये पुनः किं जातमित्यत आह ॥ दिवीति । तं कृष्णमनु ॥ ७ ॥
प्रमेयचन्द्रिका
मूले सत्यं धर्म इति कलियुगवृत्तये सत्याद्यभिमानिनो देवा अपि तं कृष्णमनुययुरित्यर्थः ॥ ७ ॥
देवादयो ब्रह्ममुखा आविशन्तं स्वधामनि ।
अविज्ञातगतिं कृष्णं दद्दशुश्चातिविस्मिताः ॥ ८ ॥
पदरत्नावली
अत्राप्येकं माहात्म्यातिशयमाह– देवादय इति ॥ ८ ॥
श्रीनिवासतीर्थीया
अविज्ञातगतिं परेणाविज्ञातस्वरूपं कृष्णं ददृशुरित्यर्थः ॥८ ॥
सौदामिन्या यथाऽऽकाशे यान्त्या भित्त्वाऽभ्रमण्डलम् ।
गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः ॥ ९ ॥
ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः ।
विस्मितास्तां प्रशंसन्तः स्वंस्वं लोकं ययुस्तदा ॥ १० ॥
पदरत्नावली
यथा मर्त्यैरभ्रमण्डलं भित्त्वा आकाशे यान्त्याः सौदामिन्या गतिर्न लक्ष्यते तथा कृष्णस्य गतिर्दैवतैर्न लक्ष्यते ॥ ९ ॥
श्रीनिवासतीर्थीया
तदेव दर्शयति ॥ सौदामिन्या इति । यथाऽभ्रमण्डलं भित्वा आकाशे यान्त्याः सौदामिन्या गतिर् मर्त्यैर्न लक्ष्यते तथा कृष्णस्य गतिर्दैवतैर्न लक्ष्यते साकल्येन न ज्ञायत इत्यर्थः । योगगतिं योगसामर्थ्यम् ॥ ९,१० ॥
राजन् परस्य तनुभृज्जननाप्ययेहां
मायाविडम्बनमवैहि यथा नटस्य ।
सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते
संहृत्य चात्ममहिमोपरतः स आस्ते ॥ ११ ॥
तात्पर्यम्
तनुभृद्वज्जननवदप्ययवच्च ईहा तनुभृज्जननाप्ययेहा । ‘प्रजापतिश्चरति गर्भे अन्तो ऽजायमानो बहुधा विजायत’ इति च । ‘अजातो जातवद्विष्णुरमृतो मृतवत्तथा । मायया दर्शयेन्नित्यमज्ञानां मोहनाय चे’ति ब्राह्मे ॥ ११ ॥
पदरत्नावली
जन्मादिमतो हरेस्तनुमदग्ध्वेति कथं घटत इति तत्राह– राजन्निति । परस्य सर्वविलक्षणस्य परमात्मनस् तनुभृज्जननवदप्ययवच्च ईहा चेष्टा मायाविडम्बनं स्वेच्छानुकरणमवैहि । यथा नटस्य राजादिरूपग्रहणविषयचेष्टा । ‘‘प्रजापतिश्चरति गर्भे अन्तः,’’ ‘‘अजायमानो बहुधा विजायते,’’ ‘‘अजातो जातवद् विष्णुरमृतो मृतवत् तथा । मायया दर्शयेन्नित्यमज्ञानां मोहनाय च’’ इति प्रमाणबाहुल्याद् हरेरयं स्वभाव इत्यर्थः । स्वतो देहाद्यभावे हरेः सर्जनादिकं कथं युज्यत इति तत्राह– सृष्ट्वेति । स हरिरात्मना स्वरूपशक्त्या इदं जगत् सृष्ट्वा अनुविश्यावतारैर्विहृत्य अन्ते प्रलये संहृत्य चात्ममहिमोपरतः स्वमहिमि्न स्थित आस्ते । अनेन स्वमहिम्नैव सर्वं घटत इत्युक्तं भवति ॥ ११ ॥
श्रीनिवासतीर्थीया
कृष्णो देहं त्यक्त्वा दिवं गत इति न मन्तव्यमित्याह ॥ राजन्निति । अत्र तनुभृज्जननाप्ययेहामित्यस्य तनुभृतां जननमप्ययश्च तद्वच्चेष्टेत्युच्यत इति भातीत्यतोऽत्र विवक्षितमर्थमाह ॥ तनुभृद्वदिति । प्राणिवदित्यर्थः । तनुभृद्वदीहां श्रुत्यैव दर्शयति ॥ प्रजापतिरिति । जननवदीहामपि श्रुत्यैव दर्शयति ॥ अजायमान इति । अप्ययवदीहां प्रमाणेनैव दर्शयितुं स्मृत्याऽप्युक्तमर्थं दर्शयति ॥ अजात इति । अमृतो मृतवदित्यनेनाप्ययवदीहा प्रदर्शिता । तथा च परस्य लोकविलक्षणस्य हरेस्तनुभृज्जननाप्य-येहां गर्भेऽन्तश्चरणाज्जीववदजायमानो बहुधा विजायत इति कृत्वा जननवदमृत इति कृत्वाऽप्ययवदीहां चेष्टां मायाविडम्बनमिच्छयाऽनुकरणमवैहि । कथम् । यथा नटस्याकार-विशेषप्रदर्शनं मायया तथा मिथ्याभूतमेव किं न स्यादित्यत आह ॥ सृष्ट्वेति । स हरिरात्मना स्वसामर्थ्येनेदं जगत्सृष्ट्वाऽनुविश्यावतारैर्विहृत्यान्ते संहृत्यात्ममहिमोपरतः सन् आस्ते स्वे महिम््नयास्ते । अनेनापरिमितसामर्थ्यात्सर्वं युज्यत इत्युक्तम् भवति ॥ ११ ॥
प्रमेयचन्द्रिका
तनुभृज्जननाप्ययेहामित्यत्र शरीरिणां जननमरणविषयां भगवच्चेष्टाम् । मायाविडम्बनमवैहीत्यन्यथाभानादाह तनुभृदिति ॥ तनुभृद्वत् । भिन्नदेहयुक्तपुरुषवत् । तेषां जननवत् । अप्ययवच्च । या भगवतश्चेष्टा तां मायाविडम्बनं स्वेच्छया कृतं तदनुकरणमवैहीति मूलार्थ उक्तो भवति ।
तत्र तनुभृद्वदीहां श्रुत्या दर्शयति ॥ प्रजापतिरिति ॥ देवक्यादिगर्भेषु सञ्चरणं तनुभृद्वदीहेत्युक्तं भवति । जननवदीहायां श्रुतिं पठति ॥ अजायमान इति ॥ जनन-वदप्ययवदित्युभयत्र प्रमाणमाह ॥ अजात इति ॥ मायया इच्छया । मूले ननु भगवतोऽस्मदादिवद्भोगदेहाभावे कथं जगत्सृष्ट्यादिरित्यत उच्यते ॥ सृष्ट्वेति ॥ आत्मना भिन्नदेहाद्यनपेक्षस्वरूपशक्त्यैव जगत्सृष्ट्वा तदनुप्रविश्य तद्रक्षणायावतारैश्च विहृत्य अन्ते उपसंहृत्य आत्ममहिम्नैव सम्यक् स्थितः । आत्मस्वरूपानन्दादिमहिम्नैव सम्यग्रत इति वा । आस्त इत्यर्थः ॥ ११ ॥
मर्त्येन यो गुरुसुतं यमनीतलोकं
त्वां चानयच्छरणदः परमास्त्रदग्धम् ।
जिग्येऽन्तकान्तकमपीशतनावनीशः१
किं स्वावने स्वरनयन् मृगयोः स्वदेहे२ ॥ १२ ॥
पदरत्नावली
एवमपि मृगयुविद्धत्वं हरेर्जननादिकमापादयतीत्यत्राह– मर्त्येनेति । यः कृष्णः मर्त्येन शरीरेण सह यमनीतलोकं यमेन नीतो लोकं समुद्दिश्य यः स तथा तम्, यमेन स्वलोका-नीतमित्यर्थः, गुरोः सान्दीपिनेः सुतम्, द्रौणेः परमास्त्रदग्धं त्वां चानयत् । तथा यो बाणपुरेऽन्तकं रुद्रमपि जिग्ये । रुद्रो मा विशान्तक इति श्रुतेः । यद्वा पारिजातापहरणे अन्तकं यममपि जिग्य इति । अन्तकान्तकमिति पाठे यमस्याप्यन्तकं रुद्रमित्यर्थः । सोऽनीशो ऽन्येशरहितः श्रीकृष्ण ईशतनौ सर्वेशानां रुद्रादीनामपीशत्वं तनोतीतीशतनुस्तस्मिन् देहे मृगयोरनीश्वरः स्यात् किम् । न स्यादेव । अतोपि सामर्थ्यप्रकटनाय विप्रशापमनुस्मरन्नविद्ध एव स्वभक्तं व्याधशरीरान्मोचयन् तेन शल्येषुणा विद्ध इव तस्य स्वात्मानं प्रकाश्य तेन प्रसादितस्तस्मै स्वलोकं ददावित्यर्थः
॥ १२ ॥
श्रीनिवासतीर्थीया
इतोऽप्येतादृशस्य देहत्यागेन गमनमिति न मन्तव्यमित्याह ॥ मर्त्येनेति । यः कृष्णो मर्त्येन शरीरेण सह यमलोकं नीतं गुरुसुतमानयत् । यश्च शरणदः परमास्त्रेण ब्रह्मास्त्रेण दग्धं त्वां चानयत् । यो बाणपुरेऽन्तकान्तकं रुद्रमपि जिग्ये । यद्वा । पारिजातहरणेऽन्तकान्तकं यममपि जिग्ये । सोऽनीशोऽन्येशरहितः कृष्ण ईशतनौ सर्वेशानां रुद्रादीनामीशत्वं तनोतीतीशतनुस्तस्मिन्स्वदेहे । मृगयोः सकाशाल्लुब्धकजराव्याधसकाशा-दनीश्वरः स्यात्किं न स्यादेवेति । अथो तस्मात्सामर्थ्यातिशयप्रकटनाय विप्रशापमनुस्मरन्नविद्ध एव स्वभक्तं व्याधशरीरान्मोचयितुं शल्येषुणा विद्ध इवेति ॥ १२ ॥
दुर्घटभावदीपिका
यो यमलोकनीतं गुरुसुतं मर्त्येन मरणशीलेन । नष्ठेनेति यावत् । देहेन सहितं कृत्वाऽऽनयत् । शरणदो यो भगवान् । परमास्त्रदग्धं त्वां चानयत् । योऽन्तकान्तमप्यन्तकस्य यमस्यान्तकं रुद्रमपि जिग्ये । यः सदेहं मृगयुं स्वः कर्मानयत् । स ईशतनावीशान् जगदीशांश्चतु-र्मुखादींस्तनोति करोत्युत्पादयतीतीशतनुस्तस्मिन्नीशतनौ । ईशतनोः स्वावने स्वस्य रक्षणेऽनीशोऽ-समर्थः किम् । किमाक्षेपे । असमर्थो नेति । एतेन गुरुसुतदेहस्य नष्टत्वान्मर्त्येन देहेन सहितमानयदिति कथनमयुक्तमिति दूषणं निरस्तम् । स्वातन्त्र्यज्ञापनार्थमीशतनाविति व्यत्ययः कृत इत्यभ्युपगमात् ॥ १२ ॥
॥ इति श्रीभागवतटिप्पण्यामेकत्रिंशोऽध्यायः ॥ ११–३१ ॥
॥ इति दुर्घटभावदीपिकायामेकादशस्कन्धः समाप्तः ॥ ११ ॥
प्रमेयचन्द्रिका
जराव्याधकृतवेधेन हरेस्तनुत्यागोऽनेकयुक्तिपराहत इत्याशायेनोच्यते ॥ मर्त्येनेति ॥ यः कृष्णो यमनीतलोकं प्रति यः स नीतलोकः । यमलोकं प्राप्त इति यावत् । सान्दीपिनिसुतं मर्त्येन सहानयत् । अश्वत्थाम्ना विसृष्टब्रह्मास्त्रलग्नं त्वां चानयत् । रुद्रो माविशान्तक इत्युक्तेरन्तकं सर्वसंहारिणं रुद्रमपि बाणपुरे पारिजातहरणादौ च जिग्ये । स्वयमनीशः न विद्यते ईशो यस्य स तथोक्तः । एवंविधः कृष्ण ईशतनौ ब्रह्मरुद्रादीना-मीशत्वं तनोतीति ईशतनुस्तस्यामीशतनौ स्वदेहे विषये मृगयोर् व्याधस्यानीशः स्यात्किम् । न स्यादेवातो न व्याधनिमित्तकदेहत्यागः सर्वथा शङ्कार्ह इति भावः ॥ १२ ॥
तथाप्यशेषस्थितिसम्भवाप्ययेष्वनन्यहेतुर्यदशेषशक्तिधृक् ।
**नैच्छत् प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थ (स्वस्य) गतिं प्रदर्शयन् **
॥ १३ ॥
तात्पर्यं
शेषितं वपुर्बलभद्रादीनाम् । ‘जगतो मोहनार्थाय भगवान्पुरुषोत्तमः । दर्शयेन्मानुषीं चेष्टां तथा मृतकवद्विभुः । प्रकाशयेददेहोऽपि मोहाय च दुरात्मनाम् । मायया मृतकं देहं तदा सृष्ट्वा प्रदर्शयेत् । कुतो हि मृतकं तस्य मृत्यभावात्परात्मन’ इति च । जीवविष्ण्वोरभेदश्च देहयोगवियोजने । विष्णोर्दुःखं वृणित्वादि पराभावस्तथैव च ॥ अस्वातन्त्र्यं च वेदादावुक्तवद्भासते विभोः । क्वचित्क्वचिद्विमोहाय दैत्यादीनां दुरात्मनाम्
॥ १३ ॥
पदरत्नावली
तर्हि किं बलभद्रादीन् सदेहान् स्वलोकं नानैषीदिति तत्राह– तथापीति । यद्यप्यशेषस्थितिसम्भवाप्ययेषु अनन्यहेतुः स्वयमेव हेतुर् हेत्वन्तरविवर्जितः । कुलालस्य मृद्दण्डाद्यपेक्षावत् प्रकृत्यादिशक्त्यपेक्षितत्वेन कथं हेत्वन्तरं नास्तीत्यत उक्तम् अशेषशक्तिधृगिति । तथापि बलभद्रादीनां वपुः प्रणेतुं नैच्छद् भगवान् । मर्त्येन मरणशीलेन देहेन किं प्रयोजनमिति भावेनात्र शेषितम्, हरिणेति शेषः । अनेनापि किं प्रयोजनमत उक्तं स्वस्य गतिमिति । स्वस्य गतिं स्वभक्तानां स्वविषयज्ञानलक्षणयोगगतिं प्रदर्शयन् । एवं प्रदर्शनं प्रयोजनमित्यर्थः । अतः समर्थोऽपि प्रयोजनाभावान्न नीतवानित्यर्थः । अतः स्वशरीरं नेतुं नैच्छदित्यर्थोऽनुपपन्नः, उक्तहेतुविरुद्धत्वादसम्भवाच्चेति । ‘‘जगतो मोहनार्थाय भगवान् पुरुषोत्तमः । दर्शयन् मानुषी चेष्टां तथा मृतकवद् विभुः । प्रकाशयेददेहोपि मोहनाय दुरात्मनाम् । मायया मृतकं देहं तदा सृष्ट्वा प्रदर्शयेत् । कुतो हि मृतकं तस्य मृत्यभावात् परात्मनः’’ इति प्रमाणसद्भावाच्च ॥ १३ ॥
श्रीनिवासतीर्थीया
तर्हि बलभद्रादीन्सदेहान्किं किमिति स्वलोकं प्रति न नीत-वानिति तत्राह ॥ तथाऽपीति । तत्र कृष्णः स्ववपुः प्रणेतुं नैच्छत् किं त्वत्र शेषितम् । कुतो मर्त्येन देहेन किं प्रयोजनमिति कृष्णः स्वदेहमत्र परित्यज्य गत इत्युच्यत इत्यतोऽ-त्राभिप्रेतमर्थमाह ॥ शेषितं वपुर्बलभद्रादीनामिति । तथा च कृष्णः स्वकीयं वपुः परित्यज्य गत इत्युक्ते स्वयं कृष्णादिरूपवानित्युदाहृतप्रमाणविरोध इति भावः । उक्त एवार्थ इत्यत्र नियामकं प्रमाणमाह ॥ जगतो मोहनार्थायेति । मानुषीं चेष्टां स्त्र्यादिद्वारा जननादिरूपाम् । किमर्थमित्यत उक्तम् ॥ मोहायेति । दैत्यानां मोहायेति । कुतः । वस्तुस्थितिरेव किं न स्यादित्यत आह ॥ माययेति । ननु वेदादौ विष्णोर्जनिमृत्यादिक-मुच्यतेऽतः कथं विष्णोर्जन्मादिकं नास्तीत्युच्यत इत्यत आह ॥ जीवविष्ण्वोरिति । (केचित्त्विदं प्रमाणवचनं द्वादशस्कन्धसम्बद्धतया व्याचक्षते । सुधीन्द्रतीर्थैरपि अत्रैव श्लोके व्याख्यातमस्ति ।) तथा च क्वचित्तथोक्तिर्दैत्यानां मोहानार्थायैवेति भावः । तथा च कृष्णो यद्यप्यशेषस्थितिसम्भवाप्ययेष्वनन्यहेतुः । कुलालस्य दण्डादिवद्धेत्वन्तरवर्जितः । स्वतन्त्र इति यावत् । कुतः । यदशेषशक्तिदृगिति । तथाऽपि बलभद्रादीनां वपुरूर्ध्वं प्रणेतुं नैच्छ-द्भगवान् । कुत इत्यत उक्तम् । मर्त्येन मरणशीलेन शरीरेण किं प्रयोजनमिति भावेनात्र शेषितं हरिणेति । अनेनाऽपि किं प्रयोजनमित्यत उक्तम् ॥ स्वस्थगतिमिति । स्वभक्तानां स्वविषयज्ञानलक्षणां योगगतिं प्रदर्शयन् । तत्प्रदर्शनमेव प्रयोजनमिति भावः ॥ १३ ॥
प्रमेयचन्द्रिका
ननु यथैवं महाशक्तिमान् हरिश्चेत्तर्हि स्वस्यातिप्रियान् बलभद्रादीन् सदेहानेव स्वलोकं प्रति कुतो न नीतवानित्याशङ्कानिवारणायोच्यते ॥ तथापीति ॥ यद् यद्यपि भगवानशेषस्थितिसम्भवाप्ययेषु अनन्यहेतुः स्वव्यतिरिक्तकारणरहितः । ननूपादान-कृता सृष्टिः सर्वलोकेषु दृश्यते तत्कथं हेत्वन्तरं नास्तीत्यत उक्तम् ॥ अशेषशक्ति-धृगिति ॥ एतदारम्भणाधिकरणे सर्वभूतगणैर्युक्तं दैवत्वं ज्ञातुमर्हसीति गीताभाष्यादौ स्पष्टमुपपादितः । तथापि मर्त्येन नाशशीलेनानेन वपुषा तेषां किं प्रयोजनमिति मत्वा बलभद्रादीन् सदेहान् प्रणेतुं नैच्छत् । किं तु तेषां स्वस्य गतिं स्वविषयकमतिं ज्ञान-योगादिरूपां स्वरूपभूतज्ञानानन्दाद्यात्मकदेहेनानवस्थानरूपां स्थितिं प्रदर्शयन् तेषां जडवपुरत्रैवावशेषितं कृतवानित्यर्थः ॥
अत्र कृष्णः स्वस्य वपुः प्रणेतुं नैच्छत् । किं तु मर्त्येनानेन वपुषा किं ममेति ज्ञात्वा तेनात्रैव वपुः शेषितमित्यन्यथाप्रतीतिवारणायाह ॥ शेषितमिति ॥ नात्रोत्तरार्धो भगव-च्छरीरपरः । किं तु बलभद्रादिदेहपर एवेति भावः ॥
नन्वत्र त्यक्तदेहस्यार्जुनेन संस्कृतत्वादिश्रवणात्प्रतीत एवार्थो युक्त इत्याशङ्कां प्रमाणेन परिहरति ॥ जगत इति ॥ अज्ञानिजगतो मोहनार्थाय मानुषीं बालयौवनाद्यनुसारिणीं चेष्टां दर्शयन् वर्तत इति शेषः । प्राकृतदेहरहितोऽपि दुरात्मनां मोहाय मृतकवद्दर्शयेत् । एतदेव विवृणोति ॥ माययेति ॥ मायया स्वेच्छया । तदैव मृतकदेहं सृष्ट्वा प्रदर्शयेत् । तत्र हेतुमाह ॥ कुत इति ॥ परेषां मुक्तानामात्मनः स्वामिनः सर्वोत्तमस्येति वा । महात्मन इति पाठेऽप्ययमेवार्थः । मृतेरेवाभावान्मृतकं कुतः स्यात् । कुतोऽपीति हीति श्रुत्यादि-प्रसिद्धिं द्योतयति ॥ १३ ॥
य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेद् भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४ ॥
पदरत्नावली
एतज्ज्ञानस्य स्वप्राप्तिहेतुत्वाच्चोक्त एवार्थ इति भावेनोक्तमुपसंहरति य एतामिति
॥ १४ ॥
श्रीनिवासतीर्थीया
कृष्णोक्तेः फलमाह ॥ य इति ॥ १४ ॥
दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः ।
पतित्वा चरणावस्रैर्न्यषिञ्चत् कृष्णविच्युतः ॥ १५ ॥
कथयामास निधनं वृष्णीनां कृत्स्नशो नृप ।
तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविमूर्च्छिताः ॥ १६ ॥
पदरत्नावली
कृष्णोक्तो दारुकः किमकरोदिति तत्कथाशेषमाह– दारुक इति ॥१५॥
श्रीनिवासतीर्थीया
कृष्णोक्तो दारुकः किमकरोदिति कथाशेषमाह ॥ दारुक इति । कृष्णविच्युतः कृष्णेन रहितः ॥ १५,१६ ॥
तत्र वै त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः ।
व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आयुधैः ॥ १७ ॥
श्रीनिवासतीर्थीया
कुत्र जग्मुरित्यत आह ॥ व्यसव इति ॥ १७ ॥
देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।
कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥ १८ ॥
पदरत्नावली
भगवद्विषयां स्मृतिं विजहुः, क्षणमिति शेषः ॥ १८ ॥
श्रीनिवासतीर्थीया
स्मृतिं विजहुर्विस्मरणं प्राप्ता इत्यर्थः ॥ १८ ॥
प्राणांश्च विजहुस्तत्र भगवद्विरहातुराः ।
उपगुह्य पतींस्तात चितामारुरुहुः स्त्रियः ॥ १९ ॥
श्रीनिवासतीर्थीया
चितामारुरुहुः । सहगमनं गता इति यावत् ॥ १९ ॥
प्रमेयचन्द्रिका
स्त्रीणां प्राणत्यागो विव्रियते ॥ उपगुह्येत्यादिना ॥ १९ ॥
रामपत्न्नयश्च तं देहमुपगुह्याग्निमाविशन् ।
वसुदेवपत्न्नयस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।
कृष्णपत्न््नयोऽविशन्नग्निं रुग्मिण्याद्यास्तदात्मिकाः ॥ २० ॥
तात्पर्यम्
‘अग्नावन्तर्दधे भैष्मी सत्यभामा वने तथा । न तु देहवियोगोऽस्ति तयोः शुद्धचिदात्मनोरि’ति च ॥ २० ॥
॥ इति श्रीमद्भागवतैकादशस्कन्धतात्पर्ये श्रीमदानन्दतीर्थ-
भगवत्पादाचार्यविरचिते एकत्रिंशोऽध्यायः ॥ ३१ ॥
पदरत्नावली
तदात्मिकास्तदेकचित्ताः । ‘‘अग्नावन्तर्दधे भैष्मी सत्यभामा वने तथा । न तु देहवियोगोस्ति तयोः शुद्धचिदात्मनोः’’ इति प्रमाणाद् रुग्मिणीसत्यभामयोरन्तर्धानमवगन्तव्यम् । अन्याः षण्महिष्योऽग्नौ देहं त्यक्तवत्य इति भावः ॥ २० ॥
श्रीनिवासतीर्थीया
तद्गात्रं वसुदेवशरीरमुपगुह्याग्निमाविशन्नित्यन्वयः । हरेः स्नुषाः प्रद्युम्नादींस्तद्देहान् उपगुह्याग्निमाविशन्नित्यर्थः । ननु पूर्वं रामादिपत्नीनां रामादिदेहेन सहाग्नि-प्रवेशमुक्त्वा कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्या इत्युक्त्या कृष्णदेहस्याग्निदाहोऽस्तीति लभ्यते तन्न युज्यते । अर्जुनेन दग्धत्वात् । नन्वस्तु दाहस्तथाऽपि रुक्मिण्यादिदेहानामग्निदाह इति प्रतीयतेऽत आह ॥ अग्नाविति । भैष्मी भीष्मकसुता रुक्मिण्यग्नावन्तर्दधे सत्यभामा तु वनेऽन्तर्दधे । अन्याः षण्महिष्योऽग्नौ देहं त्यक्तवन्त इति भावः । तयोः रुक्मिणीसत्य-भामयोः । याश्च रुक्मिण्याद्याः कृष्णपत्न््नयोऽग्निम् अविशन् अग्नावन्तर्धानं प्राप्ता इत्यर्थः । कुतः । यतस्तदात्मका इति भगवदेकमनस्का इत्यर्थः ॥ २०,२१ ॥
प्रमेयचन्द्रिका
कृष्णपत्न््नयोऽविशन्नग्निं रुग्मिण्याद्यास्तदात्मिका इति रुग्मिणीसत्य-भामयोरपि देहहानिर्भाति । तन्न । स च मानाभावात् सृत्युपक्रमादमृतत्वं चानुपोष्येत्यादि-सूत्रश्रुतिपुराणादिविरुद्धः । अतः प्रमाणेन तदभिप्रायमाह ॥ अग्नाविति ॥ वने तथा अन्तर्दधे । तयोरिति रूपद्वयापेक्षया द्विवचनम् । सत्या रुग्मिणीत्येकसंविद्विधाभूत्वेत्येक-स्वरूपत्वात् । चिदात्मनोरित्युपलक्षणम् । ईश्वरवदनादिनित्यनिर्विशेषानन्दज्ञानाद्यगणितगुण-गणात्मकदिव्यदेहमङ्गलस्वरूपयोरिति मङ्गलम् ॥ २० ॥
नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः ॥
स्मृत्याऽशेषाशुभहरः सर्वमङ्गलमङ्गलः ॥
(भागवतमूलश्लोक एव मङ्गलश्लोकत्वेन परिगृहीत इति भाति ।)
यो निःसीमगुणाभिपूर्णसुमहाज्ञानात्मकोरुद्युतिर्व्याप्तान्तर्बहिरण्डकोश उरुधा गोपाल-सङ्घार्चितः । बादर्युद्धवपार्थपूर्वकनिजान् कृत्वा निमित्तं ददौ सद्भ्यो ज्ञानमिदं तमेमि शरणं गोपालकृष्णं सदा ॥
यः प्रेष्टः कमलापतेरभितरां विद्याधिदेवीप्रियो नित्यानन्तमहामतिः सुरगुरुः सर्वप्रणेता प्रभुः । यच्छास्त्रं न विना विमुक्तिपदवी शर्वादिकानां च तं श्रीमध्वार्यतनुं व्रजामि शरणं प्राणं प्रपन्नेष्टदम् ॥
श्रीमध्वशास्त्रामृतवारिराशौ यदीयटीकाप्लवमप्रगृह्य ।
न शक्यते सर्वजनैः प्रवेष्टुं तान् श्रीजयार्यान् प्रणमामि भक्त्या ॥
श्रीमद्विप्रपदाश्रयश्च सुविदो ज्ञानोरुकान्त्युल्लसन्
सन्तापापहरः स्वशिष्यविमलज्ञानाब्धिवृद्धिप्रदः ।
गोसन्दर्शितसत्पथः श्रितयशाः श्रीविठ्ठलार्याभिधः
सोमोऽलं भवतापहा भवतु मे सत्कैरवामोददः ॥
श्रीमद्विठ्ठलदेशिकार्यतनयः स्वानन्दतीर्थाभिधः
श्रीमद्भागवते महार्थकलितेऽप्येकादशस्योत्तमाम् ।
श्रीमध्वार्यविनिर्मितस्य नरधीष्वल्पोऽपि टीकामिमां
सत्तात्पर्यविनिर्णयस्य कृतवान् संप्रीतये श्रीपतेः ॥
क्वाहं सुमन्दधिषणः कलुषी क्व चैतच्छास्त्रं शिवादिविबुधैरधिगिम्यमञ्जः ।
वैय्यात्यमद्भुतमिदं यदहं प्रवृत्तस्तत्क्षाम्यतां बुधवरैरपराधजातम् ॥
वक्तव्यमुक्तं च तथोच्यमानं नाहं विजाने स्थिरबुध्यभावात् ।
मध्वार्यवाक्क्षीरमहार्णवोर्मिभिः स्खलन्नपि स्यान्न हि दूषणीयः ॥
मयैकादशतात्पर्यप्रमेयनवचन्द्रिका । समर्पिता श्रीपतये प्रीयतां मे रमापतिः ॥
॥ इति श्रीमद्विठ्ठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत एकादशस्कन्धतात्पर्यनिर्णयप्रमेयचन्द्रिकायाम् एकत्रिंशोऽध्यायः ॥
एकादशस्कन्धतात्पर्यटीका समाप्ता ॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।
आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१ ॥
पदरत्नावली
आत्मानं स्वम् ॥ २१ ॥
बन्धूनां नष्टगोत्राणामर्जुनः साम्परायिकम् ।
हतानां कारयामास यथावदनुपूर्वशः ॥ २२ ॥
पदरत्नावली
साम्परायिकं परेतविषयं कर्म ॥ २२ ॥
श्रीनिवासतीर्थीया
सदुक्तिभिः सदुक्तिरूपैर्नष्टगोत्राणां गोत्रशून्यानां सांपरायिकं परेतविषयकं कर्म ॥ २२ ॥
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्भगवदालयम् ॥ २३ ॥
नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः ।
स्मृत्याऽशेषाशुभहरः सर्वमङ्गलमङ्गलः ॥ २४ ॥
स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः ।
इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५ ॥
श्रीनिवासतीर्थीया
कुत इत्यत आह ॥ नित्यमिति ॥ २३–२५ ॥
श्रुत्वा सुहृद्वधं राजन्नर्जुनात् ते पितामहाः ।
त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६ ॥
श्रीनिवासतीर्थीया
वंशधरं वंशप्रवर्तकं महापथं वीराध्वानम् ॥ २६ ॥
य एतद् देवदेवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७ ॥
इत्थं हरेर्भगवतो रुचिरावतारं
वीर्याणि चास्य चरितानि च सत्तमानि (मङ्गलानि) ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमंहसगतौ लभेत ॥ २८ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥
पदरत्नावली
अन्यत्र ग्रन्थान्तरे । इह अस्मिन् ग्रन्थे । परमहंसगतौ परमहंसानामाश्रये हरौ, शरणे वा ॥ २८ ॥
यत्तत्वं निगमोपि वक्तुमनलं शाखेन्दुवल्लक्षितं
ब्रह्माद्याः किमुतावलम्बविधुरा निर्दोषचित्ता अपि ।
अप्येवं जलवेगवन्मतिगतेरेषां सदैकं पदं
तद् ब्रह्माख्यमखण्डबुद्धिहृदयावासं प्रवन्दे परम् ॥ १ ॥
एकादशस्कन्धगता पदरत्नावलिस्त्वियम् ।
अधिग्रीवं मुकुन्दस्य वनमालेव राजताम् ॥ २ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभट्टारकस्य कृतौ श्रीमद्भागवतटीकायां पदरत्नावल्याम् एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥
॥ समाप्तश्चायं स्कन्धः ॥
श्रीनिवासतीर्थीया
न केवलमेतावदेव फलं किन्तु फलान्तरमप्यस्तीति भावेनोप-संहरति ॥ इत्थमिति । भगवतो हरेः सत्तमानि निर्दुष्टानि । अन्यत्र चेह च श्रुतान्यत्र ग्रन्थान्तरे इहास्मिन् ग्रन्थे च प्रतिपाद्यमानानि रुचिरावतारवीर्याणि रुचिराणि यान्यवतारे कृतानि वीर्याण्यस्य चरितानि बाल्यचरितानि गृणन्मनुष्यो यः परमहंसगतौ भगवत्स्वरूपे परामत्युत्तमां गतिं लभेत प्राप्नुयादित्यशेषमतिमङ्गलम् ॥ २८ ॥
॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां श्रीभागवतटिप्पण्यामेकोनत्रिंशोऽध्यायः ॥ ११-३१ ॥
इति समाप्तश्चायम् एकादशः स्कन्धः ॥ ११ ॥