ततो महाभागवत उद्धवे बदरीं गते
॥ अथ त्रिंशोऽध्यायः ॥
राजोवाच–
ततो महाभागवत उद्धवे बदरीं गते ।
द्वारवत्यां किमकरोद् भगवान् भूतभावनः ॥ १ ॥
पदरत्नावली
भगवतो मायालक्षणमाहात्म्यं प्रकटयितुं यादवानां मिथोवधनिमित्तनिधनं सज्जन-चेतोनुरागजननाय चतुर्भुजत्वादिलक्षणनिजरूपदर्शनं दुर्जनमनोमोहनाय जराख्यव्याधशरविद्धपादत्वं तत्स्वर्गदानमित्येत् सर्वमस्मिन्नध्याये वक्ति । तत्रादौ परीक्षित्प्रश्नप्रकारं भगवद्वाक्येन यादवानां द्वारकाया निर्गत्य प्रभासप्रयाणं तीर्थस्नानपूर्वकं विप्रादिपूजनं च वक्ति ततो महाभागवत इत्यादिना
॥ १ ॥
प्रमेयचन्द्रिका
उद्धवगमनानन्तरं यादवानां द्वारकातो निर्गमनप्रभासतीर्थस्नानादिकं परीक्षित् प्रश्नपूर्वकमुच्यते ॥ तत इत्यादिना ॥ १ ॥
ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः ।
प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥
तात्पर्यम्
तनुमत्यजत् । अतिशयेनाहरत् । अज हरण इति धातोः । भूलोका-त्स्वर्गलोकं प्रत्यहरदित्यर्थः ॥ २ ॥
पदरत्नावली
अत्यजत्, अतिरत्रातिशये वर्तते, अतिः स्यादधिकार्थोक्तौ प्रशंसायाममिक्रम इति यादवः, अज हरण इति धातोर् भूलोकात् स्वर्गलोकं प्रत्यहरत् ॥ २ ॥
श्रीनिवासतीर्थीया
भूमिं त्यक्त्वा गत इति चेत्तत्राह ॥ ब्रह्मशापेति । संसृष्टे सम्बद्धे । युक्ते इति यावत् । प्रेयसीमिति प्रियाम् । नन्वत्यजदित्यत्र भगवान्कथं तनुम-त्यजत्त्यक्तवानिति पृच्छ्यत इति भातीत्यतस्तदनूद्य व्याचष्टे ॥ तनुमत्यजदिति । तेनाति-शब्दोऽतिशयार्थः । अत्यजदित्यस्यार्थः ॥ अहरदिति । कोऽर्थः संपन्न इत्यत आह ॥ भूलोकादिति । तथा च भगवान्प्रेयसीं तनुं कथं भूलोकात्स्वर्लोकं प्रत्यहरदित्यर्थः ॥ २ ॥
प्रमेयचन्द्रिका
तनुं स कथमत्यजदित्यत्र देहमत्यजदित्यन्यथाभानादनूद्य व्याचष्टे ॥ तनुमत्यजदिति ॥ अतिरत्रातिशये वर्तत इति भावेनोक्तमतिशयेनेति । अत्यजदित्यस्यार्थ-माह ॥ अहरदिति ॥ अत्र धातुसूत्रं पठन्ति ॥ अज हरण इति ॥ नायं शब्दस्त्यज विसर्ग इति धातुनिष्पन्नः । किं त्वतिशब्दे उपपदे अज हरणे इति धातोर्लङन्त इति भावः । अतिशयेन हरणं नाम किमित्यतस्तदर्थमाह ॥ भूलोकादिति ॥ भूलोके जनप्रत्यक्षतया स्थितस्य चिदानन्दात्मकदेहस्य वैकुण्ठलोकं प्रत्याहरणमतिशयेनाहरणमिति भावः ॥ २ ॥
प्रत्याक्रष्टुं नयनमबला यत्र लग्नं (मग्नं) न शेकुः
कर्णाविष्टं न सरति यशो यत् सतामात्मलग्नम् ।
यच्छ्रीवाचं(क्यं) जनयति रतिं कोऽनुमानः कवीनां
दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३ ॥
तात्पर्यम्
कः सुखरूपः । अनुमानः कवीनां मानानुसारी ॥ ३ ॥
॥ इति एकादशतात्पर्ये त्रिंशोऽध्यायः ॥ ३० ॥
पदरत्नावली
प्राकृतरूपवदप्राकृतं च रूपं दिव्यं त्यक्तुमयोग्यं स्वात्मैकत्वेन सतां श्रवणमनोगोचरत्वात् सारूप्यादिमुक्तिदत्वाच्चेति भावेनाह– प्रत्याक्रष्टुमिति । अबला यत्र यस्मिन् हरेरङ्गे मग्नं नयनं प्रत्याक्रष्टुं तत आनेतुं न शेकुः । सतां कर्णाविष्टमात्मलग्नं मनोमन्दिरं यद्यशः कंससंहर्तृत्वादिलक्षणं न सरति कर्णादेर्नापयाति । न सरति ततो यत् सतामिति केचित् पठन्ति । यद्रूपं यच्छ्रीवाक्यं यस्य श्रीमद्वाक्यं च मनः कर्णयो रतिं निर्दुःखसुखं जनयति करोति । श्रीवाचामिति पाठे लक्ष्म्या वचसां रतिं जनयति, श्रोतॄणामिति शेषः । यच्च किं तृतीयोतिशय इति सूत्रात् सुखपूर्णम् । कवीनां नु मानं मानानुसारि च । इदं सर्वस्मिन्नुक्तार्थे मानं भवति । कोऽनुमान इति पाठे देहः कः सुखात्मकः कवीनां मानानुसारी चेत्यर्थः । यच्च युधि भारताख्ये जिष्णोर्जयमूर्तेरर्जुनस्य रथगतं दृष्ट्वा तत्साम्यं तस्य स्वरूपस्य निर्दोषत्वादिलक्षणसाम्यमीयुरापुः, भीष्मादय इति शेषः । अत एतादृशं रूपं कथमहरदित्यन्वयः ॥ ३ ॥
श्रीनिवासतीर्थीया
इतोऽप्यतिसुन्दरं देहं कथं त्यक्तवान् । ननु स्यादेतत् । यदि भगवद्देहः सुन्दरः स्यात्तदेव कुत इत्यत आह ॥ प्रत्याक्रष्टुमिति । अबलाः स्त्रियः । यत्र भगवदङ्गे लग्नं सम्बद्धं नयनं प्रत्याक्रष्टुं प्रत्याहर्तुं न शेकुर्न शक्ताः । यद्यशो यस्य यशः । आत्मलग्नं सतां मनः सम्बद्धं चेत्सतां कर्णाविष्टं चेन्न सरति कर्णादेर्नापसरति । यस्य श्रीवाचं श्रीमद्वाक्यं मनः कर्णयो रतिं सुखं जनयति । कोऽनुमानः कवीनामित्येतद्दुर्गमार्थं ततो व्याचष्टे । कः सुखरूपोऽनुमानः कवीनां मानानुसारीति । ततश्च यो देहः सुखरूपः यश्च कवीनां ज्ञानिनां मानानुसारी मानप्रतिपाद्य इत्यर्थः । यच्च युधि भारताख्ये युद्धे जिष्णोरर्जुनस्य रथं गतं दृष्ट्वा तत्साम्यं तद्रूपसाम्यमीयुः प्रापुः । भीष्मादय इति शेषः । अत एतादृशं रूपं कथमत्यजदित्यन्वयः ॥ ३ ॥
प्रमेयचन्द्रिका
प्रकृतभगवत्तनोरपि ब्रह्मत्वं ज्ञापयितुं तद्गुणा उच्यन्ते ॥ प्रत्याक्रष्टु-मिति ॥ सतां कर्णाविष्टं कर्णद्वारा प्रविष्टम् । आत्मलग्नं मनसि निरूढम् । यद्यशः यस्य यशः नापसरति । यच्छ्रीवाचं श्रीमत्संपत्करं वाक्यं प्रति श्रोतॄणां मनःकर्णयोः सुखं जनयति । कोऽनुमान इत्येतदसङ्गतं प्रतीयते । अतः क इत्येतदनूद्यार्थमाह ॥ कः सुखरूप इति ॥ क इत्ययं न किंशब्दरूपः । किं तु सुखवाची कशब्दोऽयमिति भावः । अनुमान इत्येतदनूद्य कवीनामित्यनेनान्वयं दर्शयन्नर्थमाह ॥ अनुमान इति ॥ मानान्यनु-सरतीत्यनुमानः । तदीयप्रत्यक्षादिप्रमितमित्यर्थः । अत्र वपुर्वर्ष्मणोरभेदप्रदर्शनाय पूर्वत्रोत्तरत्र च यदिति क्लीबवचसि सत्वेऽपि मध्ये पुल्लिङ्गप्रयोग इति ज्ञेयम् । कुरुपाण्डवयुद्धे योद्धारः स्वमृतिकाले जिष्णोः रथगतं यच्च वपुर् दृष्ट्वा तत्साम्यमीयुस्तद्वपुः कथमत्यजदिति पूर्वेणान्वयः ॥ ३ ॥
श्रीशुक उवाच–
दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वाऽऽसीनान् सुधर्मायां कृष्णः प्राह यदूनिदम् ॥ ४ ॥
पदरत्नावली
राज्ञा पृष्टः शुकोऽत्राह– दिवीति ॥ ४ ॥
श्रीनिवासतीर्थीया
सुधर्मायामासीनान्यदून्प्रतीत्यन्वयः ॥ ४ ॥
श्रीभगवानुवाच–
एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः (नाशहेतवः) ।
मुहूर्तमपि न स्थेयमत्र वो यदुपुङ्गवाः ॥ ५ ॥
पदरत्नावली
द्वारवत्यां दृश्यन्ते ॥ ५ ॥
श्रीनिवासतीर्थीया
द्वार्वत्यां दृश्यन्ते । उपायप्रदर्शिभिरास्थितं चेन्नष्टा भविष्याम इति ज्ञानवद्भिः ॥ ५ ॥
स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः ।
वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ ६ ॥
श्रीनिवासतीर्थीया
सरस्वती वर्तत इति शेषः ॥ ६ ॥
तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः ।
देवताः पूजयिष्याम स्नपनालेपनार्हणैः ॥ ७ ॥
ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम् ।
गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः ॥ ८ ॥
श्रीनिवासतीर्थीया
अभिषिच्य स्नात्वा । सुसमाहिता एकाग्रचित्तयुक्ताः सन्तः
॥ ७,८ ॥
विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् ।
देवद्विजगवां पूजा भूतेषु परमा दया ॥ ९ ॥
इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः ।
तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः ॥ १० ॥
श्रीनिवासतीर्थीया
विधिरुपायः । एष क इत्यत आह ॥ देवेति ॥ ९,१० ॥
प्रमेयचन्द्रिका
मङ्गलायनं मङ्गलमय्यते प्राप्यते अनेनेति मङ्गलप्रापकमित्यर्थः । एष इत्युक्तस्य विवरणम् ॥ देवेति ॥ ९ ॥
तस्मिन् भगवताऽदिष्टं यदुदेवेन यादवाः ।
चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ ११ ॥
श्रीनिवासतीर्थीया
तस्मिन्क्षेत्रे ॥ ११ ॥
ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु ।
दिष्टविभ्रंशितधियो यादवा नष्टमङ्गलाः ॥ १२ ॥
पदरत्नावली
कदम्बरसधारात्तु मदिरानिर्मितं मधु । मैरेयमिति सम्प्रोक्तं यत्पानाद् भ्रश्यते मनः’’ इति । दिष्टेन दैवसंज्ञेन भगवता ॥ १२ ॥
श्रीनिवासतीर्थीया
कदम्बरसनिर्मितं मधु मैरेयकम् ॥ १२ ॥
दुर्घटभावदीपिका
महापानं पपुर्मैरयेकं मध्वित्यस्य परिमाणतो महदपानमपेयं चेति महापानं मैरैयकं मैरेयसंज्ञकं मधु मद्यं पपुरित्यर्थः । एतेन महापानमित्यस्य किं परिमाणतो महदपेयं चेत्यर्थः । किंवा महद्भिः पेयमित्यर्थः । नाद्यः । पपुरित्युक्तपानान्यथाऽनुपपत्त्या पेयत्वस्य सिद्धत्वेना-पेयत्वोक्तेर्वैयर्थ्यात् । न द्वितीयः । बुद्धिभ्रंशकरस्य महाकर्तृकपानयोग्यत्वायोगात् । आकारानुपपत्तेश्चेति दूषणं निराकृतम् ॥ १२ ॥
प्रमेयचन्द्रिका
महापानं मद्यम् । कदम्बरसधाराभिर्नितरां निर्मितं मधु । मैरेयमिति संप्रोक्तं यत्पानाद्भ्रश्यते मन इत्युक्तमेरेयनामकं मधु स्वादु । दिष्टेनादृष्टनियामकेन दैवेन विभ्रंशितधियः ॥ १२ ॥
महापानाभिमत्तानां वीराणां दृप्तचेतसाम् ।
कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् ॥ १३ ॥
पदरत्नावली
सङ्घर्षः कलहः ॥ १३ ॥
श्रीनिवासतीर्थीया
सङ्घर्षः कलहः ॥ १३ ॥
युयुधुः क्रोधसंरब्धा वेलायामाततायिनः ।
धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः ॥ १४ ॥
पदरत्नावली
वेलायां समद्रजलसीमि्न ॥ १४ ॥
श्रीनिवासतीर्थीया
वेलायां समुद्रतीरे । आततायिनो वधोद्युक्ताः ॥ १४ ॥
प्रमेयचन्द्रिका
यतः पानतः । वेलायां समुद्रसीमि्न ॥ १४ ॥
पतत्पताकैः रथकुञ्जरार्वभिः खरोष्ट्रभिर्महिषैर्नरैरपि ।
मिथः समेत्याश्वतरैः सु(श्च)दुर्मदा न्यहञ्छरैर्दद्भिरिव द्विपा वने ॥१५॥
पदरत्नावली
अर्वाणोऽश्वाः । दद्भिर्दन्तैः ॥ १५ ॥
श्रीनिवासतीर्थीया
तदेव विशदयति ॥ पतदित्यादिना । दुर्मदा एते मिथः समेत्य शरैर्न्यहन् । कथमिव । द्विपा गजा वने दद्भिर्यथा न्यहंस्तथेत्यर्थः ॥ १५ ॥
प्रमेयचन्द्रिका
अर्वभिरश्वैः । दद्भिर् दन्तैः ॥ १५ ॥
प्रद्युम्नसाम्बौ युधिरूढमत्सरावक्रूरभोजावनिरुद्धसात्यकी ।
सुभद्रसङ्ग्रामजितौ सुचारुगदौ सुमित्रासुरथौ समीयतुः ॥ १६ ॥
अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः ।
अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥१७॥
श्रीनिवासतीर्थीया
अन्योन्यमासाद्य मदान्धकारिताः कर्तव्यविचारमूढाः सन्तो जघ्नुः । कुतः । मुकुन्देन विमोहिता इति ॥ १६,१७ ॥
प्रमेयचन्द्रिका
भोजः कृतवर्मा ॥ १६ ॥
दाशार्हवृष्ण्यन्धकभोजसात्वता अध्वर्युदा माधुरशूरसेनाः ।
विसर्जनाः कुकुरा कुन्तयश्च मिथस्तु जघ्नुः सुविसृज्य सौहृदम् ॥१८॥
पदरत्नावली
अध्वर्युदा इति केचिद् यादवविशेषाः ॥ १८ ॥
श्रीनिवासतीर्थीया
अध्वर्युदाः केचन यादवा विसृज्यमाना आसज्यमानाः सौहृदं विसृज्य जघ्नुरिति ॥ १८ ॥
प्रमेयचन्द्रिका
अध्वर्युदा माधुराः शूरसेना इति यादवविशेषाः ॥ एवं विसर्जना-दयोऽपि ॥ १८ ॥
पुत्रास्त्वयुध्यन् पितृभिर्भ्रातृभिश्च स्वस्रीयदौहित्रपितृव्यमातुलैः ।
मित्राणि मित्रैः सुहृदः सुहृद्भिर्ज्ञातींस्त्वहन् ज्ञातय एव मूढाः ॥ १९ ॥
शरेषु हीयमानेषु भज्यमानेषु धन्वसु ।
शस्त्रेषु क्षीयमाणेषु मुष्टिभिर्जह्रुरेरकाः ॥ २० ॥
पदरत्नावली
एरकाः समुद्रतीररुहः सूचीमुखतृणानि जह्रुरुत्पाटितवन्तः ॥ २० ॥
श्रीनिवासतीर्थीया
एतदेव विशदयति ॥ पुत्रा इति ॥ १९,२० ॥
प्रमेयचन्द्रिका
एरकाः समुद्रतीररुहः सूचीमुखतृणानि । जह्रुरुदपाटयन् ॥ २० ॥
ता वज्रकल्पा अभवन् परिघा मुष्टिना हृताः ।
जघ्नुर्द्विषस्ते कृष्णेन वार्यमाणास्तु तं च ते ॥ २१ ॥
श्रीनिवासतीर्थीया
तं कृष्णं ते यादवाः ॥ २१ ॥
प्रमेयचन्द्रिका
परिघा इति लुप्तोपमा । परिघा इव मुष्टिना हृताः । वज्रकल्पा वज्रवद्दृढा अभवन्नित्यर्थः ॥ २१ ॥
प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः ।
हन्तुं कृतधियो राजन्नापन्ना आततायिनः ॥ २२ ॥
अथ तावपि संक्रुद्धावुद्यम्य कुरुनन्दन ।
एरकामुष्टिपरिघैश्चरन्तौ जघ्नतुर्युधि ॥ २३ ॥
पदरत्नावली
एरकायुक्तमुष्ट्याख्यपरिधैः ॥ २३ ॥
श्रीनिवासतीर्थीया
बलभद्रं प्रत्यनीकं द्वेषिणं मन्यमानाः ॥ २२,२३ ॥
प्रमेयचन्द्रिका
एरकायुक्तमुष्ट्याख्यपरिघैः ॥ २३ ॥
ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् ।
स्पर्द्धाक्षोभः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥ २४ ॥
श्रीनिवासतीर्थीया
क्षयं नाशम् ॥ २४ ॥
प्रमेयचन्द्रिका
स्पर्धाक्रोधः स्पर्धाजनितः क्रोधः ॥ २४ ॥
एवं सर्वेषु नष्टेषु कुलेषु स्वेषु केशवः ।
उत्तारितो भुवोभार इति मेनेऽवशेषितः ॥ २५ ॥
प्रमेयचन्द्रिका
अवशेषितो ऽवशिष्टः । पूतनावधमारभ्य भूभारहरणस्य कृतत्वा-दित्थमुक्तिः ॥ २५ ॥
रामः समुद्रवेलायां योगमास्थाय पौरुषम् ।
तत्यजे योगमाविश्य संयोज्यात्मानमात्मनि ॥ २६ ॥
पदरत्नावली
पौरुषं पूर्णषड्गुणभगवद्विषयं ध्यानं समास्थाय सम्यगेकाग्रचित्तत्वेन कृत्वा योगं योगनामानं विष्णुमाविश्य आत्मानं स्वान्तर्यामिणमात्मनि व्याप्ते भगवद्रूपे संयोज्य एकीभवतीति सञ्चित्य देहं तत्यज इत्यन्वयः । आत्मनेपदप्रयोगेण सुखेन देहत्यागं सूचयति ॥ २६ ॥
श्रीनिवासतीर्थीया
आत्मानं मन आत्मनि हरौ ॥ २६ ॥
दुर्घटभावदीपिका
योगमास्थायेत्यस्य ध्यानमारभ्येत्यर्थः योगमाविश्येत्यस्य ध्यानं समाप्येत्यर्थः । एतेन योगमास्थाय योगमाविश्येत्येतत्परस्परं पुनरुक्तमिति दूषणं परास्तम् । साङ्गध्यानं कृतमिति वक्तुं योगमास्थायेत्ययेन ध्यानमास्थायेत्युच्यते योगमाविश्येत्यनेन ध्यानं समाप्येत्युच्यत इत्यभ्युपगमात् ॥ २६ ॥
प्रमेयचन्द्रिका
पौरुषं पूर्णषड्गुणभगवद्विषयम् । ज्ञानमास्थाय योगं ध्यानमाविश्या-त्मानं स्वान्तर्यामिणमात्मनि व्याप्ते परमात्मनि संयोज्य एकीभावं संचिन्त्य देहं तत्याजेत्यर्थः ॥ २६ ॥
रामनिर्याणमालोक्य भगवान् देवकीसुतः ।
निषसाद धरोपस्थे तूष्णीमासाद्य पिप्पलम् ॥ २७ ॥
श्रीनिवासतीर्थीया
निर्वाणं नाशम् । धरोपस्थे भूपृष्ठे पिप्पलमासाद्य तूष्णीं निषसादेत्यर्थः ॥ २७ ॥
बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णुप्रभया स्वया ।
दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥ २८ ॥
श्रीवत्साङ्गं घनश्यामं तप्तहाटकवर्चसम् ।
कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ २९ ॥
सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् ।
पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥ ३० ॥
कटिसूत्रब्रह्मसूत्रकिरीटकनकाङ्गदैः ।
हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ॥ ३१ ॥
पदरत्नावली
भगवता देहं त्वक्त्वा न दिवङ्गतं तत्प्रदर्शनमसुरजनमोहनार्थं कृतमिति ज्ञापयन् शुको हरेस्तदानीन्तनस्वरूपप्रकारं ब्रूते बिभ्रदिति ॥ २८ ॥
श्रीनिवासतीर्थीया
विधूमो निर्धूमः पावक इव ज्वलन्नित्यर्थः ॥ २८–३१ ॥
दुर्घटभावदीपिका
दिशो वितिमिराः कुर्वन्नित्यस्य दिशोऽतिप्रकाशयुक्ताः कुर्वन्नित्यर्थः । एतेन सर्वदाऽन्धकाराभावाद्दिशो वितिमिराः कुर्वन्नित्ययुक्तमिति दूषणं परास्तम् । वितिमिरा इत्यनेन लक्षणयाऽतिप्रकाशत्वमुच्यत इति स्वीकरणात् ॥ २८ ॥
प्रमेयचन्द्रिका
अश्वत्थमूलेऽवस्थितभगवद्रूपविचिन्तनस्य महाफलहेतुत्वात्तद्वर्णनं क्रियते ॥ बिभ्रदित्यादिना ॥ निजायुधैरुपासितं चतुर्भुजमित्यारभ्य पङ्कजारुणमित्यन्त-मध्याहृतस्य वपुरित्यस्य विशेषणम् । तद्बिभ्रत्कृष्णो धरोपस्थे निषसादेत्यन्वयः ॥ २८ ॥
वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः ।
कृत्वोरौ दक्षिणं पादमासीनं पङ्कजारुणम् ॥ ३२ ॥
श्रीनिवासतीर्थीया
ऊरौ दक्षिणपादं कृत्वा ॥ ३२ ॥
मुसलावशेषायःखण्डकृतेषुर्लुब्धको जरः ।
मृगाकारं तच्चरणं विव्याध मृगशङ्कया ॥ ३३ ॥
चतुर्भुजं तं पुरुषं दृष्ट्वा य कृतकिल्बिषः ।
भीतः पपात शिरसा पादयोरसुरद्विषः ॥ ३४ ॥
व्याघ उवाच–
अजानता कृतमिदं पापेन मधुसूदन ।
क्षन्तुमर्हसि पापस्य उत्तमश्लोक मेऽनघ ॥ ३५ ॥
पदरत्नावली
अत्र श्रीकृष्णोऽसुरजनमोहकरी मायां प्रकटयति जराख्यव्याधेनेत्याह मुसलेति । मुसलावशेषायःखण्डेन कृत इषुः शरो यस्य स मुसलावशेषायः खण्डकृतेषुः । चूर्णितमुसला-वशिष्टायःखण्डेन कृतशरवानित्यर्थः । मृगाकारं मृगत्वबुद्धिजनकम् ॥ अजानता मया ॥३३,३५॥
श्रीनिवासतीर्थीया
मुसलस्यावशेषायाः खण्डेन कृतेषुः ॥ ३३–३५ ॥
प्रमेयचन्द्रिका
मुसलावशेषायःखण्डेन कृतेषुः । अयःपिण्डेनेति क्वचित्पाठः । मृगास्याकारम् ॥ पापस्य मे अपराधमिति शेषः ॥ ३३,३५ ॥
यस्यानुस्मरणं नॄणामज्ञानध्वान्तनाशनम् ।
वदन्ति तस्य ते विष्णो मयाऽसाधु कृतं विभो ॥ ३६ ॥
पदरत्नावली
असाधु अनुचितम् ॥ ३६ ॥
तमाशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् ।
यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥ ३७ ॥
पदरत्नावली
तं मृगलुब्धकं मृगलोभिनं जहि ॥ ३७ ॥
दुर्घटभावदीपिका
हे वैकुण्ठ । यथा यस्मान्मद्धननानन्तरं पुनरेवं पूर्ववदहं सदा विक्रमं न तु नैव कुर्यां तस्मान्मृगलुब्धकं मृगलोभिनमत एव पाप्मानं तं पापित्वेन देवेषु प्रसिद्धं मामाशु जहीति । एतेन यथा पुनरित्यस्य पूर्वोक्तहननकर्तव्यत्वोपपादनार्थं प्रवृत्तत्वाद्यस्मादिति वक्तव्यम् । यथेति कथनमयुक्तमिति दूषणं पराकृतम् । यथेतिशब्दो यस्मादित्यर्थे वर्तते । अव्ययानामनेकार्थ-त्वादित्यभ्युपगमात् । एतेनैव तमित्येतद्व्यर्थमिति दूषणं परिहृतम् । तमित्यनेन धर्मसाक्षिषु सूर्यादिदेवेषु पापित्वेन प्रसिद्धमित्यर्थ उच्यत इत्यङ्गीकारात् ॥ ३७ ॥
यस्यात्मयोगरचितं न विदुर्विरिञ्च
रुद्रादयोऽस्य तनयाः पतयो गिरां ये ।
त्वन्मायया विहतदृष्टय एतदञ्जः
किं तस्य ते वयमसद्गतयो गृणीमः ॥ ३८ ॥
पदरत्नावली
तत्र कृतब्रह्महत्यादिदोषपरिहारसद्भावेप्यत्र कृतदोषपरिहारो नास्त्येव, तेनाधःपात एवातो मद्वध एव श्रेयानिति भावेनाह– यस्येति । विरिञ्चरुद्रादयः, अस्य विरिञ्चस्य तनया मरीच्यादयः, गिरां पतयो बृहस्पत्यादयः, ते एते यस्य तव आत्मयोगरचितं स्वरूप-सामर्थ्योपायेन कृतं सृष्ट्यादिकं न विदुः । तत्र निमित्तमाह– त्वन्माययेति । त्वन्मायया बन्धकशक्त्या विहतदृष्टयः प्रलुप्तज्ञानाः, यस्मात् तस्मादिति शेषः । असद्गतयो ऽप्रशस्तव्या-धयोनिगता अत एव ज्ञानशून्या वयं तस्य ते तव एतच्चरितमञ्जो गृणीमः किम् । नैव ज्ञातुं शक्ता इत्यत एतत्स्तुत्यादिकर्मणाप्येतत्पापपरिहारोपायाज्ञानादधःपातात् पूर्वमेव मां जहीत्यर्थः । रुद्रादयः सुमतय इति केचित् पठन्ति । अनेन कैमुत्यन्यायो दर्शित इति ज्ञायते ॥ ३८ ॥
श्रीनिवासतीर्थीया
इतोऽपि मम वध एव श्रेयानिति भावेनाह ॥ यस्येति । विरिञ्चरुद्रादयः । अस्य विरिञ्चस्य तनया मरीच्यादयो गिरां पतयो बृहस्पत्यादय इत्येते यस्य तवात्मयोगरचितमात्मसामर्थ्येन रचितं सृष्ट्यादिकं न विदुः । तत्र निमित्तमाह ॥ त्वन्माययेति । त्वन्मायया तव बन्धकशक्त्या विहतदृष्टयः प्रलुप्तज्ञानाः । यस्मादिति शेषः । एतादृशस्य तस्य ते । असद्गतयोऽसत्स्वरूपा वयमेतत्तव चरितमञ्जः किं गृणीमो न किमपीत्यर्थः ॥ ३८ ॥
प्रमेयचन्द्रिका
आत्मयोगरचितं स्वरूपसामर्थ्येन कृतं कर्म, तस्य विरिञ्चस्य । तनया मरीच्याद्याः । तस्य ते एतत्कर्म । असद्गतयोऽभद्रव्याधजन्मरूपगतिमन्तः ॥३८॥
श्रीभगवानुवाच–
मा भैर्जर त्वमुत्तिष्ठ काम एष कृतो हि मे ।
याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ ३९ ॥
पदरत्नावली
भगवान् भक्तवत्सलत्वान्मयि भक्तिरेव सकलपापध्वंसिनीति भावं कृत्वा वक्ति मा भैरिति । मा भैर् भयं मा कार्षीः । एष कृतः शरवेधो मे कामः कामितः काङ्क्षित इत्यर्थः । हिशब्देन दुष्टजनमोहनं प्रयोजनं सूचयति । अतः किमस्मै फलं ददासीति तत्राह– याहीति । सुकृतिनां पदमित्यनेनेदमपि सुकृतमेवास्त्विति ध्वनयति ॥ ३९ ॥
प्रमेयचन्द्रिका
जरेति व्याधनाम्ना सम्बोधनम् ॥ ३९ ॥
श्री शुक उवाच–
इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा ।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४० ॥
पदरत्नावली
नेदं प्राकृतपुरुषोक्तवत् कालान्तरेऽपि सन्देहकरमिति भावेनाह– इतीति
॥ ४० ॥
श्रीनिवासतीर्थीया
इच्छाशरीरिणेच्छायत्तशरीरिणा ॥ ४० ॥
दुर्घटभावदीपिका
इच्छाशरीरिणेत्यस्येच्छाधीनाः शरीरिणो जीवा यस्य स इच्छाशरीरी तेनेत्यर्थः । एतेनेच्छाशरीरिणेत्येतद्व्यर्थमिति दूषणस्यानवकाशः । स्वर्गं प्रति गच्छेत्युक्तिमात्रेण विमानागमनादिकं कथं जातमित्याशङ्कापरिहारार्थं सर्वजीवानां कृष्णेच्छाधीनत्वेन स्वर्गस्थानामपि कृष्णेच्छाधीनत्वाद्विमानागमनादिकमुपपन्नमिति वक्तुमिच्छाशरीरेत्युक्तमिति स्वीकरणात् ॥ ४० ॥
॥ इति श्रीभागवतटिप्पण्यां त्रिंशोऽध्यायः ॥ ११–३० ॥
प्रमेयचन्द्रिका
इच्छाशरीरिणा स्वेच्छया प्रकटितनिजदेहवता ॥ ४० ॥
दारुकः कृष्णपदवीमन्विच्छन् नाधिगम्य तम् ।
वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥ ४१ ॥
पदरत्नावली
प्रासङ्गिकं समाप्य कथाशेषं प्रस्तौति दारुक इति । अन्विच्छन् अन्वेषणं कुर्वन् तं कृष्णं नाधिगम्य अविज्ञाय पुनस् तुलसिकामोदो यस्य स तथा तं वायुमाघ्राय ज्ञात्वा तुलसिकामोदवाय्वभिमुखम् ॥ ४१ ॥
श्रीनिवासतीर्थीया
अन्विच्छन् अन्वेषणं कुर्वन् । तं कृष्णं नाधिगम्याविज्ञाय पुनस्तुलसिकामोदो यस्य स तं वायुमाघ्रायाभिमुखं तुलसिकामोदवाय्वभिमुखं ययौ ॥४१॥
तं तत्र तिग्मद्युतिमायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम् ।
स्नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचनः ॥ ४२ ॥
पदरत्नावली
तत्राश्वत्थमूले कृतकेतनं तं कृष्णं दृष्ट्वा ॥ ४२ ॥
श्रीनिवासतीर्थीया
कृतं केतनमाश्रयो यस्य सः । तं स्नेहेन परिप्लुतात्मा सन् द्रवीभूतमनाः सन् ॥ ४२ ॥
अदृश्यतस्ते (य आश्रितस्ते) चरणाम्बुजं प्रभो दृष्टिः प्रनष्टा तमसि प्रविष्टा ।
दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रनष्टे ॥ ४३ ॥
पदरत्नावली
प्रभाते तव चरणाम्बुजमदृश्यतोऽपश्यतो मम दृष्टिः प्रनष्टा अस्तङ्गता । दृश्यमानायाः कथं नाश इत्यत आह– तमसीति । फलमाह– दिश इति । शान्तिं मङ्गलम् । शान्तिः प्रशममङ्गले इति यादवः । उडुपे चन्द्रे प्रनष्टे अस्तङ्गते । अत्रोडुभिः सह चन्द्रस्यादर्शनं विवक्षितम् । अन्यथा नक्षत्रपे्रक्षणेनापि दिगादिविवेकोपपत्तेरिति । अत उडुपपदप्रयोग इति । आहाश्रित इति पाठे पादप्रपन्नः सूतः कृष्णमाह योहं हरेश् चरणाम्बुजमाश्रितस्तस्य मे दृष्टिः प्रनष्टेति योजना ॥ ४३ ॥
श्रीनिवासतीर्थीया
दृष्टिः । भावे क्तः । दर्शनं चक्षुः । एवं च तमसि प्रविष्टा दृष्टिः प्रनष्टा नाशयुक्ताऽभूत् । पुनराह ॥ दिश इति । शान्तिं सुखम् । यथा निशायामुडुपे चन्द्रे प्रनष्टेऽस्तं गते दिगादिज्ञानं न भवत्येवमित्यर्थः ॥ ४३ ॥
प्रमेयचन्द्रिका
अदृश्यत इति ॥ ते चरणांबुजमप्यपश्यतो मम दृष्टिः प्रनष्टा अन्धीभूता । य आश्रित इति पाठे योऽहं ते चरणाबुजमाश्रितस्तस्य मे दृष्टिरिति योजना । कुतः प्रनष्टा? तमसि अदर्शनजन्यशोकनिमित्तकान्धकारे प्रविष्टा । शान्तिं मङ्गलं सुखं वा । सोम इत्यनुक्त्वा उडुप इत्युक्त्या उडूनामप्यदर्शनं सूचयति ॥ ४३ ॥
श्री शुक उवाच–
इति ब्रुवति सूते वै रथो गरुडलाञ्छनः ।
ख उत्पपात राजेन्द्र साश्वध्वज उदीक्षितः ॥ ४४ ॥
पदरत्नावली
इदमप्यतिमाहात्म्यं हरेरिति भावेनाह– इतीति । उदीक्षितः हरिणा उर्ध्वं गतो दृष्टः । अत्र चेतनानियतरथाद्यचेतनप्रवृत्तिदृशां लौकिकानां भगवन्माहात्म्यबुद्धिरितरेषां ज्ञानिनां प्रेक्षालक्षणसंज्ञया गतिं पश्यतां चैतन्यात्मकान्यच्युतरथादीनीत्यहो विश्वमूर्तेर्माहात्म्यमिति ज्ञातव्यम्
॥ ४४ ॥
श्रीनिवासतीर्थीया
खमुत्पपात खं प्रत्युत्पपातेत्यर्थः । सूते उदीक्षितः सतः
॥ ४४ ॥
प्रमेयचन्द्रिका
उदीक्षितः हरिणाऽपाङ्गेन प्रेरितः ॥ ४४ ॥
तमन्वगच्छन् दिव्यानि विष्णुप्रहराणानि च ।
तेनातिविस्मितात्मानं सूतमाह जनार्दनः ॥ ४५ ॥
पदरत्नावली
तेन रथादिगमनेन ॥ ४५ ॥
श्रीभगवानुवाच–
गच्छ द्वारवतीं सूत ज्ञातिनां निधनं मिथः ।
सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ ४६ ॥
द्वारकायां न च स्थेयं भवद्भिश्च स्वबन्धुभिः ।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ ४७ ॥
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेनान्विताः सर्वे इन्द्रप्रस्थं गमिष्यथ ॥ ४८ ॥
श्रीनिवासतीर्थीया
अतिविस्मितात्मानं सूतम् ॥ ४५–४८ ॥
प्रमेयचन्द्रिका
सर्व इति द्विरुक्तिस्तात्पर्यार्था ॥ ४८ ॥
त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः ।
मन्मायारचनामेतां विज्ञायोपशमं व्रज ॥ ४९ ॥
पदरत्नावली
पुत्रादावुपेक्षकः । एतां संसारवृत्तिम् मन्मायया मदिच्छया रचना प्रकारो यस्याः सा मन्मायारचना ताम् ॥ ४९ ॥
श्रीनिवासतीर्थीया
एतां संसृतिं मन्मायारचितां मदिच्छया रचनवतीं विज्ञायोपशमं मन्निष्ठबुद्धिं व्रज प्राप्नुहीत्यर्थः ॥ ४९ ॥
॥ इति इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासतीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे त्रिंशोऽध्यायः ॥११–३०॥
प्रमेयचन्द्रिका
मद्धर्मं मद्विषयकत्वादिरूपं धर्मम् । उपेक्षको विषयादौ । मन्माया-रचनां मदिच्छया कृतां प्रवृत्तिम् । उपशमं शान्तिम् ॥ ४९ ॥
॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां त्रिंशोऽध्यायः ॥
श्री शुक उवाच–
इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् ॥ ५० ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे त्रिंशोऽध्यायः ॥
पदरत्नावली
दुर्मना दुःखितान्तःकरणः । पुरी द्वारवतीसंज्ञाम् ॥ ५० ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य त्रिंशोऽध्यायः ॥