२९ एकोनत्रिंशोऽध्यायः

सुदुश्चरामिमां मन्ये योगचर्यामनात्म(ना)नः

॥ अथ एकोनत्रिंशोऽध्यायः ॥

उद्धव उवाच–

सुदुश्चरामिमां मन्ये योगचर्यामनात्म(ना)नः ।

यथाऽञ्जसा पुमान् सिध्येत् तन्मे ब्रूह्यञ्जसाऽच्युत ॥ १ ॥

पदरत्नावली

निर्विघ्नयोगाचरणसाधनं हरेर्भक्तानुकम्पित्वं कथिततत्वज्ञानप्रशंसां तन्निरतानां श्रेयस्त्वम् उद्धवस्य हरौ भक्त्यतिशयलक्षणं तस्य भगवद्रतिप्राप्तिं च कथयत्यस्मिन्नध्याये । तत्रादावुद्धव उक्तयोगाचरणस्याशक्यत्वं मनसि कृत्वा तत्सिध्युपायं पृच्छति सुदुश्चरामिति । अनात्मनो मनोजयरहितस्याधीरस्य वा । पुमान् यथा भवदुक्तोपायेन सिध्येत् पुरुषार्थवान् भवेत् तथा तद्योगसाधनं मे ब्रूहीत्यन्वयः ॥ १ ॥

श्रीनिवासतीर्थीया

योगचर्यामिमामित्यादि श्रुत्वोद्धवः पृच्छति ॥ सुदुश्चरामिति । अनात्मनाऽजितमनस्केन पुरुषेणेमां योगचर्यां योगानुष्ठानं सुदुश्चरामत्यन्तं कर्तुमशक्यमिति मन्ये यतोऽतः । हे अच्युत । अजित पुमान्यथा भवदुक्तोपायेन कथं सिध्येत्तत्प्रकारं मेंऽजसा ब्रूहीत्यर्थः ॥ १ ॥

प्रमेयचन्द्रिका

भगवदुक्तयोगाचरणस्याशक्यत्वं मनसि निधाय तत्सिध्द्युपायं प्रति प्रश्नः क्रियते ॥ सुदुश्चरामित्यादिना ॥ अनात्मनो मनोजयरहितस्य इमां त्वयोक्तां योगचर्यां सुदुश्चरां मन्ये अथ यथा येनांजसा सिध्येत् तद्योगसाधनं मे ब्रूहीत्यर्थः ॥ १ ॥

प्रायशः पुण्डरीकाक्ष युञ्जतो योगिनो मनः ।

विषीदत्यसमाधानान्मौनसंयमकर्शितम् ॥ २ ॥

पदरत्नावली

तदकथने कोऽनर्थ इति तत्राह– प्रायश इति । मौनसंयमाभ्यां कर्शितं विषीदति विशेषान्नष्टं भवति । योगाचरणसाधनेऽज्ञाते मनो विषीदति ॥ २ ॥

श्रीनिवासतीर्थीया

किं तेनेति न वाच्यमित्याह ॥ प्रायश इति । हे पुण्डरीकाक्ष । योगं युञ्जतः कुर्वतो योगिनो मनोऽसमाधानात्समाधानाभावे त्वय्यासक्तं न भवेच्चेद्विषीदति विषण्णं भवति । कुतः । मौननिग्रहसंयमाभ्यां कर्शितं कष्टयुक्तं यतोऽतस्त्वय्यर्पितं स्थितं न चेद्विषीदतीति कृत्वा योगानुष्ठानं न कार्यमिति भावः ॥ २ ॥

प्रमेयचन्द्रिका

सुदुश्चरामित्युक्तविवरणं क्रियते ॥ प्रायश इति ॥ मौनेनेन्द्रिय-निग्रहेण च कर्शितं मनो विषीदति विषण्णं भवति ॥ २ ॥

अथो त आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन ।

सुखं(तु) च विश्वेश्वर योगकर्मभिस्त्वन्माययाऽमी विहता न मानिनः

॥ ३ ॥

पदरत्नावली

अथो तस्मात् तज्ज्ञाः परमहंसा एव भवदुक्तयोगाधिकारिण इति भावेनाह– अथो इति । योगकर्मभिर् योगाख्यकर्मभिः । अत एव मानिनो ज्ञानिनस् त्वन्मायया अहङ्कारादिरूपया न विहता इत्यर्थः ॥ ३ ॥

श्रीनिवासतीर्थीया

किं फलं तेनेत्याशङ्क्याह ॥ अथो इति । यस्मादसमाधाना-द्विषण्णं भवति अथो तस्मात् । हे विश्वेश्वर हे अरविन्दलोचन । सुखं सुखकरमानन्ददुघं ते पदाम्बुजं हंसाः श्रयेरन् । कुतः । यतोऽमी मानिनो ज्ञानिनो योगकर्मभिर्योगाख्यकर्मभि-स्त्वन्मायया विहताः प्रतिबद्धा न भवन्तीत्यर्थः ॥ ३ ॥

प्रमेयचन्द्रिका

यस्मादथो तस्माद्धंसा रागादिदोषहीनाः साररूपा ज्ञानिनस्ते पदांबुजं श्रयेरन् । विषयत्यागे तेषां सुखालाभेन मनोविषादः स्यादित्यत उक्तम् ॥ सुखं त्विति ॥ हे विश्वेश्वर एतेषां हंसानां योगकर्मभिः सुखमेव भवेत् । अमी मानिनो ज्ञानिनस्त्वन्मायया अहंकारादि रूपया न विहताः । किं तु ये मानिनः देहादावभिमानिनस्ते अज्ञा एव त्वन्मायया विहता इत्यर्थः ॥ ३ ॥

किं चित्रमच्युत तवैतदशेषबन्धो-

र्दासेष्वनन्यशरणेषु यदात्मदस्त्वम् ।

योऽरोचयश्च पशुपैः स्वयमीश्वराणां

श्रीमत्किरीटमणिघट्टितपादपीठः ॥ ४ ॥

पदरत्नावली

प्रकृतौ स्थित्वापि प्रकृत्यविहतत्वं त्वद्दासेषु न चित्रमिति विज्ञापयति किं चित्रमिति । त्वम् अनन्यशरणेषु दासेषु आत्मद इति यदतोच्युत अशेषबन्धोेस्तवैतच्चित्रं किम् । एतत् कुत्र दृष्टमिति तत्राह– य इति । ईश्वराणां ब्रह्मादीनां श्रीमत्किरीटपरिघट्टितपादपीठः स्वयं यो गोकुले पशुभिः पशुपालैश्च सहात्मदत्वेन अरोचयः प्रकाशितवान् तस्य तव दासेषु एतच्चित्रं किमित्यन्वयः ॥ ४ ॥

श्रीनिवासतीर्थीया

हे अच्युत । अशेषबन्धो । ज्ञानिनो मिथ्याज्ञानरहिता भवन्तीत्येतन्न चित्रं तव । कुतः । यद्यस्मात्त्वं दासेष्वनन्यशरणेष्वनन्यरक्षकेष्वात्मदः सायुज्यलक्षणमोक्षदः । दासेष्वात्मद इत्यस्येदमेव तात्पर्यमित्याह ॥ य इति । यः स्वयमीश्वराणां ब्रह्मादीनां श्रीमत्किरीटमणिसम्बन्धपादपीठः स त्वं मृगैर्गोभिर्गोपालैश्च सह तदन्वरोचयः । गतवानिति यावत् । अतो दासेष्वात्मदस्तस्मात्तव नैतच्चित्रमित्यर्थः ॥४॥

प्रमेयचन्द्रिका

नन्वेतदद्भुतं यन्निग्रहं यदिन्द्रियनिग्रहेण योगं कुर्वाणा नामत एवा-यासवतां भोगरहितानां सुखमस्तीत्यत उच्यते ॥ किं चित्रमिति ॥ यस्मात्त्वमनन्यशरणेषु दासेष्वात्मदः स्वात्मानमेव ददाति । तस्मादशेषबन्धोस्तवैतद्भजतां सुखदत्वं चित्रं किम् । नैव । आत्मदत्वविवरणम् ॥ य इति ॥ ईश्वराणां ब्रह्मादीनां श्रीमत्किरीटे परिघट्टित-पादपीठे यस्त्वं साक्षान्मृगैर् मृगप्रायैर्गोपबालैर्गोभिर्हरिणादिभिर्वा सहारोचयः । सखित्वादि-प्रतीतिं कृतवान् । तस्य तवेति पूर्वेणान्वयः । तथा च भक्तेष्वनुग्रहेण तदुक्तकारित्वं तैः सह विहारादिकर्तृत्वमात्मदस्त्वमित्युक्तं भवति ॥ ४ ॥

तं त्वाऽखिलात्मदयितेश्वरमाश्रितानां

सर्वार्थदं सुकृतविद् विसृजेत को नु ।

को वा भजेत् किमपि विस्मृतचित्तवृत्तिः

किं वा न वेद तव पादरजोऽमृताम्भः ॥ ५ ॥

पदरत्नावली

भगवद्भक्तमाहात्म्यं तन्माहात्म्याविनाभूतमुक्तम् । तद् विशदयन् सारासार-ज्ञानमाह– तं त्वेति । यो ब्रह्मादिशिरोभिः श्रीमत्किरीटमणिघट्टितपादपीठस् तं त्वां सुकृतवित् सुष्ठुकृतोपकारज्ञः सारज्ञः को विसृजेत् । कीदृशं त्वाम् । अखिलानामात्मनां जीवानां दयितं प्रेष्ठम्, ईश्वरमणिमाद्यैश्वर्याकरम्, आश्रितानां सर्वार्थदम् अभिष्टाशेषपुरुषार्थप्रदम् । किञ्च कोवा पुरुषः किमप्यस्वतन्त्रं दैवं भजेत् । यदि भजेत् तर्ह्यसौ विस्मृतचित्तवृत्तिर् असारज्ञः । चित्तवृत्तिविस्मृति-मुपपादयति किं वेति । तव शिवशिरोमौलिमालायितं पादरजोऽमृताम्भो न वेदेत्यतो पशुरेवेत्यर्थः

॥ ५ ॥

श्रीनिवासतीर्थीया

पुनर्भक्त्या तं प्रशंसति ॥ तमिति । अखिलात्मदयितेश्वर-मखिलानामात्मदयितानां प्रियाणामीश्वरमाश्रितानां सर्वार्थदम् । एतादृशं तं त्वां को नु सुकृत-वित् । हेतुगर्भमिदं विशेषणम् । त्वया क्रियमाणोपकारवित्पुमान्विसृजेत् । किं चैतादृशं त्वां हित्वाऽन्यत्किमपि कमपि को वा त्वयि विस्मृतचित्तवृत्तिः पुमान् भजेत् । यो भजेत्स एक एवेत्यर्थः । विस्मृतचित्तवृत्तित्वं कुतः । यतस्तव पादरजःसम्बद्धामृताम्भः स्वादं किं वा वेद न वेदेत्यर्थः । यदि वेद तर्हि तस्य चित्तवृत्तिस्त्वय्येव स्यादित्याशयः ॥ ५ ॥

दुर्घटभावदीपिका

अखिलात्मदयितेश्वरमखिलानामात्मा स्वामी चतुर्मुखस्तस्य दयितेश्वरं प्रियेश्वरमाश्रितानां सर्वार्थदं सर्वपुरुषार्थप्रदमेवं गुणविशिष्टत्वेन प्रमाणप्रसिद्धं त्वा त्वां सुकृतवित्सम्य-क्कृतोपकारवित्कोऽनु को वा विसृजेत् । न कोऽपि । किमपि दैवमन्यं दैवं को वा भजेत् । तव पादरजोमृताम्भस्त्वत्पादरजोधारणविशिष्टोदकरूपां गङ्गां किं वा न वेद किं किंतु वेदैव । विस्मृत-वित्तवृत्तिः । चित्तशब्दः सर्वेन्द्रियोपलक्षकः । चित्तादिसर्वेन्द्रियेषु नियामकतया वृत्तिर्यस्य स चित्तवृत्तिर्विस्मृता चित्तवृत्तिर्नारायणो येन स विस्मृतचित्तवृत्तिर्नारायणकृतोपकारस्मरणरहितः को वा त्वां भजेत् । किं तु किमपि देवमन्यदेव भजेत् । तवपादरजोमृतांभश्च नैव जानीयादिति ॥ अयं भावः ॥ श्रीनारायणकृतोपकारानुस्मरणं यस्यास्ति तस्य सर्वदा भगवज्ज्ञानमेव भवति । अन्यदेवताभजनं कदाऽपि न भवति । श्रीनारायणपादोदकभूतगङ्गामाहात्म्यज्ञानं च भवतीति । एतेनायोग्यानां भगवति प्रीतेरभावादखिलजीवानां प्रियेश्वरमिति कथनमयुक्तमिति दूषणं निरस्तम् । अखिलात्मदयितेश्वरमित्यस्य सकलजीवानां प्रियेश्वरमित्यर्थ इत्यनङ्गीकारात् ॥ ५ ॥

प्रमेयचन्द्रिका

यत एवंविधो हरिरत एव दयालुं न विसृजेदित्युच्यते ॥ तमिति ॥ सुष्टु कृतोपकारज्ञः को नु पुरुषः । अखिलानामात्मनां भक्तजीवानां दयितं प्रियमीश्वरं चेत्यखिलात्म-दयितेश्वरम् । आश्रितानां सर्वार्थदम् । तमुक्तगुणं त्वा विसृजेत । किमपि देवतान्तरं योषिदादि-विषयजातं वा भजेन् न कोऽपि विसृजेत् । अन्यत्किमपि भजेत् । विस्मृतचित्तश्च स्यात्तर्हि स पुरुषः शिवशिरोमौलिमालायितं पादरजोऽमृताम्भो गङ्गामथवा तवपादपद्मरजोऽमृतसारं न वेद किं वा न वेदैव । स उष्ट्रादिपशुतुल्य इति भावः ॥ ५ ॥

नैवोपयान्त्यपचितिं कवयस्तवेश

ब्रह्मायुषाऽपि१ नतमूर्द्ध सदा स्मरन्तः ।

योऽन्तर्बहिस्तनुभृतामशुभं विधुन्व

न्नार्चार्यचैत्यवपुषा स्वगतिं व्यनंक्षि ॥ ६ ॥

पदरत्नावली

एवमनिमित्तबन्धुत्वेन सर्वस्मादुपकारकस्य भवतः प्रत्युपकारं कर्तुं कवयोपि न समर्था इत्याह– नैवेति । नतमूर्द्धत्वेन सदा स्मरन्तः कवयो ब्रह्मादयोपि तवापचितिं प्रत्युपकारं नैवोपयान्ति । क्रियमाण उपकारः कीदृश इति तं प्रकारमाह– य इति । तनुभृतामन्तर्बहिः स्थित्वा अशुभं विधुन्वन् यस्त्वमाचार्यचैत्यश् चित्तस्थ आचार्यश्चैत्यो ब्रह्मा तस्यान्तर्यामिवपुषा स्वगतिं स्वयोग्यज्ञानं व्यनङ्क्षि व्यक्तीकरोषि । आचार्यस्य चित्तस्थवपुषेति वा ॥ ६ ॥

श्रीनिवासतीर्थीया

सुकृतविदित्युक्तमुपकारं दर्शयति ॥ नैवेति । हे नतमूर्ध मूर्ध्ना नत नतमूर्ध ईश । कवयस्तवोपकारस्यापचितिं प्रत्युपकारं कर्तुं ब्रह्मायुषाऽपि नैवोपयान्ति । न समर्था इति यावत् । किं तदुपकारमित्यतस्तद्दर्शयति ॥ य इति । यस्त्वं तनुभृता-मन्तर्बहिः स्थित्वाऽशुभं विधुन्वन् आचार्याणां चैत्यं चित्तस्थितिं तद्वपुस्तेन तनुभृतां स्वगतिं त्वद्विषयक-ज्ञानं व्यनंक्षि व्यक्तीकरोषि । अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेदित्युक्तेः । अतस्त्वां विनाऽन्य उपकारी क्वास्तीत्याशयः ॥ ६ ॥

प्रमेयचन्द्रिका

एवमनिमित्तबन्धुत्वेनाप्युपकारकस्य भगवतः प्रत्युपकारं कर्त्तुं कवयोऽपि न समर्था इत्युच्यते ॥ नैवेति ॥ अपचितिं प्रत्युपकारम् । नतमूर्धत्वेन सदा स्मरन्तः । तमुपकारं वक्ति ॥ य इति ॥ अन्तर्बहिःस्थित्वा अशुभं विधुन्वन् आचार्य-चैत्यवपुषा आचार्यचित्तं गतेन रूपेण स्वगतिं स्वयोग्यज्ञानम् ॥ ६ ॥

श्री शुक उवाच–

इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।

गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेम मनोहरस्मितः ॥ ७ ॥

तात्पर्यम्

‘आत्मान्तरात्मा परमात्मेति मूर्तित्रयं हरेः । जाग्रत्स्वप्नसुषुप्तीनां सृष्ट्यादेश्च प्रवर्तकमि’ति त्रैकाल्ये ॥ ७ ॥

पदरत्नावली

उद्धवेन पृष्टो भगवान् किमकरोदिति परीक्षितो मानसं चोद्यं परिहरति शुक इत्याह इतीति । जगत्क्रीडनकः जगत् क्रीडासाधनं यस्य स तथा । जगत्क्रीडनकस्वशक्तिभिरित्येकं वा पदम् । गृहीतं मूर्तीनामात्मान्तरात्मपरमात्मेतिसंज्ञानां त्रयं येन स तथा । जाग्रस्त्वप्नसुषुप्तिप्रेरकत्वेन तत्स्थत्वेपि जाग्रदाद्यवस्थाक्लेशपरिहारसमर्थ इत्याह– ईश्वरेश्वर इति । ‘‘आत्माऽन्तरात्मा परमात्मेति मूर्तित्रयं हरेः । जाग्रत्स्वप्नसुषुप्तीनां सृष्ट्यादेश्च प्रवर्तकम्’’ इति अत्र प्रमाणम् ॥ ७ ॥

श्रीनिवासतीर्थीया

अत्यनुरक्तचेतसाऽत्यन्तस्निग्धचेतसा । पृष्टः स्वशक्तिभि-र्ज्ञानेच्छाक्रियाभिर्जगदेव क्रीडनकं यस्य सः । गृहीतमूर्तित्रयो जगतो जाग्रदाद्यवस्थाप्रवृत्त्यर्थं सृष्ट्याद्यर्थं च स्वीकृतमूर्तित्रय इश्वरेश्वरः सप्रेम मनोहरस्मितः सन् जगादेत्यर्थः । अत्र किं तन्मूर्तित्रयं विवक्षितमिति न प्रतीयतेऽतः प्रमाणेन तदभिप्रायमाह ॥ आत्मेति । यथाक्रमं हरेरात्मादिमूर्तित्रयं जाग्रत्स्वप्नसुषुप्तीनां सृष्टिस्थितिसंहाराणां प्रवर्तकं विवक्षितम् इत्यर्थः ॥७॥

प्रमेयचन्द्रिका

जगत्क्रीडनकं यस्य स जगत्क्रीडनकः । (अत्र ग्रन्थपातः ।) क्षि(स्थि)तत्वाद् ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थित इति वक्तुं शक्यत्वेऽपि इत्थमुक्तिर्विश्वतैजसप्राज्ञरूपवदात्मादिरूपत्रयस्याप्यवस्थाप्रेरकत्वज्ञापनायेत्याहुः । सृष्ट्यादेश्च प्रवर्तकम् इत्युक्तेरात्मपरमात्मरूपाभ्यां ब्रह्मशिवान्तर्यामित्वम् अन्तरात्मरूपेण स्वयं विष्णुरिति वदन्ति ॥ ७ ॥

श्रीभगवानुवाच–

हन्त ते वर्णयिष्यामि मम धर्मान् सुमङ्गलान् ।

यान् शुद्धानाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥

पदरत्नावली

मृत्युं जननमरणात्मकं संसारं जयति ॥ ८ ॥

श्रीनिवासतीर्थीया

मृत्युं संसारं मर्त्यो जयति न प्राप्नोति ॥ ८ ॥

प्रमेयचन्द्रिका

मृत्युं संसारम् ॥ ८ ॥

कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।

मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९ ॥

पदरत्नावली

मद्धर्मेषु मदात्मसु मद्रूपेषु च मनोरतिर्यस्य स तथा ॥ ९ ॥

श्रीनिवासतीर्थीया

मां स्मरन् शनकैर्मदर्थं मत्प्रीत्यर्थं सर्वाणि कर्माणि कुर्यात् । मयि समर्पितमनस्तत्प्रभेदभूतचित्तः पुमान् । मद्धर्मात्ममनोरतिर्मद्धर्मेषु मदात्मसु भक्तेषु मनोरतिः ॥ ९ ॥

प्रमेयचन्द्रिका

मदर्थं मत्पूजोद्देशेन शनकैरसत्वरम् । मद्धर्मात्ममनोरतिर् मदाधार-धर्मेषु आत्मनः स्वस्य मनसो रतिर्यस्य सः । मत्स्वरूपभूतेष्वानन्दादिधर्मेष्वात्मसु मद्रूपेषु मनसो रतिर्यस्य स इति वा ॥ ९ ॥

देशान् पुण्यान् संश्रयेत मद्भक्तैः साधुभिः श्रितान् ।

देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ १० ॥

पदरत्नावली

मद्भक्तानामाचरितानि ॥ १० ॥

श्रीनिवासतीर्थीया

साधुभिः श्रितान्देशान्संश्रयेत । मद्भक्ताचरितानि कर्माणि कुर्यात्

॥ १० ॥

प्रमेयचन्द्रिका

देवासुरमनुष्येषु मध्ये स्वात्मनः सहवासयोग्यैः साधुभिः श्रितान् देशान् संश्रयेदित्यन्वयः । तत्र मद्भक्तानामाचरितान्याचारान् कुर्यादिति शेषः ॥ १० ॥

पृथक् सत्रेण वा मह्यं मम यात्रामहोत्सवम् ।

कारयेन्नृत्यगीताद्यैर्महाराजविभूतिभिः ॥ ११ ॥

तात्पर्यम्

पृथक्स्वयमेव सत्रेण बहुभिः सह वा मम यात्रामहोत्सवं कुर्यात्

॥ ११ ॥

पदरत्नावली

पृथक् स्वयमेव सत्रेण बहुभिः सह वा मह्यं मत्प्राप्त्यर्थं मम यात्रामहोत्सवमयनादिलक्षणं कुर्यात् ॥ ११ ॥

श्रीनिवासतीर्थीया

पृथक् सत्रेणेति प्रत्येकं क्रियमाणसत्रेण यागेनेति प्रतीयतेऽतो व्याचष्टे ॥ पृथक् स्वयमेवेति । यात्रामहोत्सवं रथोत्सवादिवार्षिकयात्रामहोत्सवं कुर्या-दित्यर्थः । तथा च पृथक् स्वयमेव सत्रेण बहुभिः सह वा यात्रामहोत्सवान् गीतादिभिः कारयेदित्यर्थः ॥ ११ ॥

प्रमेयचन्द्रिका

पृथक् सत्रेण वेत्यप्रतीतेः क्रमेणानूद्यार्थं वदन्नन्वयं दर्शयति ॥ पृथगिति ॥ पृथगन्यासाहित्येन । तेन स्वयमेवेति लभ्यते । साकं सत्रा समं सहेत्युक्तेः सत्रेणेत्यभिप्रेत्य सहेत्युक्तम् । बहुभिरिति योग्यतयाऽध्याहारः । कुर्यादित्यनेन मूले कारयेदिति स्वार्थे णिजिति सूचनाय कुर्यादित्युक्तम् । मह्यं मत्प्रीत्यर्थं पृथक् स्वयमेव वा एकस्य शक्त्य-भावे बहुभिः सह वा मम यात्रामहोत्सवं दूरस्थाक्रीडनादिकं प्रति वा अवभृतार्थं यात्रामहोत्सवं कुर्यादिति मूलार्थः ॥ ११ ॥

मामेव सर्वभूतेषु बहिरन्तरवस्थितम् ।

ईक्षे(यजे)तात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥

पदरत्नावली

आत्मनि हृदि आत्मानमन्तर्यामिणम् । यथा शरीरस्थं खमाकाशं निर्लेपं तथा ॥ १२ ॥

श्रीनिवासतीर्थीया

अमलाशयः पुमान् भूतेषु अस्तित्वेन मामीक्षेत । तथात्वे जीववदावृतत्वं किं नेत्याह ॥ बहिरिति । बहिरन्तरपगतावरणमित्यपीक्षेत । एतादृश-मात्मनि स्वस्मिन् आत्मानं मामीक्षेदित्यन्वयः ॥ १२ ॥

प्रमेयचन्द्रिका

अपावृतमपगतावरणम् । आत्मनि हृदये आत्मानमन्तर्यामिणम् । यथा शरीरान्तस्थितमाकाशं निर्लेपं तथेति । हृदयांतःस्थितमपि देहदोषलेपरहितमिति भावः । अमलाशयः सन् यजेतेति सम्बन्धः ॥ १२ ॥

इति सर्वाणि भूतानि मद्भावेन महाद्युते ।

सभाजयेन्मन्यमानो ज्ञानं केवलमाश्रयन् ॥ १३ ॥

तात्पर्यम्

सर्वभूतेष्वस्ति विष्णुरिति भावः सतां मतः ॥ ‘अनेन सर्वभूता-नामादित्ये तद्गतात्मने’ति च ॥ १३ ॥

पदरत्नावली

इत्येवं पूर्वोक्तगुणविशिष्टत्वेन सर्वभूतानि प्रविश्य स्थित इति भावना मद्भावः, तेन मन्यमानः । सर्वभूतेष्वस्ति विष्णुरिति मद्भावेन सर्वाणि भूतानि ममालयत्वेन मन्यमान इति वा योजनाभेदः । ‘‘सर्वभूतेष्वस्ति विष्णुरिति भावः सतां मतः । अर्चने सर्वभूतानामादित्ये तद्गतात्मना’’ इति वचनात् सर्वभूतार्चनायां विशेषो ज्ञातव्यः । केवलमप्राकृतं ज्ञानमेवाश्रयन्

॥ १३ ॥

श्रीनिवासतीर्थीया

हे महाद्युते उद्धव । मद्भावेनेति मदभेदेनेति प्रतीयतेऽतो व्याचष्टे ॥ सर्वभूतेष्वस्ति विष्णुरिति । सर्वभूतानामर्चने क्रियमाणे सति तदानीं सर्वभूते-ष्वस्त्वित्वेन विष्णुरिति भावो यः स एव मद्भाव इति सतां मत इत्यर्थः । किं चादित्येऽर्चने क्रियमाणे सति तदानीमेवमनुसन्धानं कार्यम् । तद्गतात्मना विष्णुः पूज्य इति । तथा चाधिष्ठानं विहाय पुल्कसादिषु विद्यमानो हरिरेव पूज्यः । आदित्ये चाधिष्ठानसद्भावेनेति भावः । तथा च सर्वभूतेष्वस्ति विष्णुरिति मद्भावेन सर्वाणि भूतानि मन्यमानः सभाजयेन्नावज्ञां कुर्यात् केवलं च ज्ञानं समाश्रयेत् ॥ १३ ॥

दुर्घटभावदीपिका

हे महाद्युते । केवलं जडामिश्रज्ञानं स्वरूपज्ञानमाश्रयन्मद्भावेन महद्भावो मम सर्वभूतेषु सत्ताऽस्तीति मन्यमानः सन् सर्वाणि भूतानि सभाजयेदिति ॥ अयं भावः ॥ नारायणः सर्वभूतेष्वस्तीति सत्वात्सर्वभूतानां सभाजनं यः करोति तस्य नारायणप्रसादेन स्वरूपज्ञानाभि-व्यक्तिर्भवतीति । एतेन मद्भाव इति मन्यमान इति वक्तव्यम् । मद्भावेनेति मन्यमान इति कथनमयुक्तमिति चोद्यस्यानवकाशः । स्वातन्त्र्ये व्यत्ययोऽप्ययमिति वचनानुसारेण नारायणस्य स्वातन्त्र्यज्ञापनार्थं मद्भावेनेति व्यत्ययः कृत इति स्वीकरणात् ॥ १३ ॥

प्रमेयचन्द्रिका

मद्भावेन महाद्युते इत्यादावनुवर्तमानं मद्भावशब्दमभेदप्रतीतिवारणाय प्रमाणेन व्याचष्टे ॥ सर्वभूतेष्विति ॥ सर्वभूतानामर्चने क्रियमाणे सर्वभूतेष्वस्ति विष्णुरिति भावः सतां सम्मतः । आदित्ये भगवदर्चने प्रसक्ते आदित्यगतः हरिः स्थित इत्यात्मना मनसा अर्चयेदित्यर्थः । एतेनार्क इत्येतद्व्याख्यातं भवति । केवलमुत्तमं शुद्धं वा ज्ञान-माश्रयन् पुरुषः सर्वाणि भूतानि मद्भावेन मन्यमानः सर्वभूतेषु हरिरस्तीति परमात्मालयत्वेन सर्वाणि भूतानि मन्यमान इति यावत् । इति उक्तप्रकारेण सभाजयेद् इति मूलार्थः ॥१३॥

ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्यर्के स्फुलिङ्गके ।

अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥

पदरत्नावली

केवलाज्ञानप्रकारं दर्शयति ब्राह्मण इति । ब्राह्मणादिषु सर्वत्रावस्थितं ब्रह्म सममेकप्रकारं पश्यन् समदृङ् मतः, सतामिति शेषः ॥ १४ ॥

श्रीनिवासतीर्थीया

किं तत्केवलज्ञानमित्यत आह ॥ ब्राह्मण इति । ब्राह्मणादिषु सर्वत्र सममेकप्रकारं मन्यमानो यः स एव पण्डितो मत इत्यर्थः ॥ १४ ॥

प्रमेयचन्द्रिका

तदेव केवलज्ञानं प्रदर्श्यते ॥ ब्राह्मणे इति ॥ ब्रह्मणि विरिञ्चे । समदृक् न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीत्युक्तन्यायेन सर्वत्र स्थितेषु भगवद्रूपेषु गुणपूर्त्यादिसाम्यज्ञानी पण्डित इत्यर्थः ॥ १४ ॥

नरेष्वभीक्ष्णं मद्भावः पुंसो भावयतोऽचिरात् ।

स्याद्वा माया तिरस्कारं साहंकाराऽपि याति हि ॥ १५ ॥

पदरत्नावली

एवं भावनाफलमाह– नरेष्विति । नरेषु मामभीक्ष्णं भावयतः पुंसो मद्भावः मद्भक्तिः स्याद्वा स्यादेव । यो मन् मत्तः भावो मुक्तिलक्षणा भूतिश्च स्यादेव । भगवद्बन्धक-शक्तिलक्षणप्रतिबन्धके सति कथं मुक्तिः स्यादत्राह मायेति । साहङ्कारा अहङ्कारसहकारिणी मायापि तिरस्कारं याति । हिशब्देन ‘‘भक्त्या प्रसन्नो भगवान् दद्यान्मुक्तिं तथा ध्रुवम्’’ इति स्मृतिं सूचयति

॥ १५ ॥

श्रीनिवासतीर्थीया

एवं भावनाफलमाह ॥ नरेष्विति । नरेषु मामभीक्ष्णं भावयतः स्मर्तुरचिरान्मयि भक्तिः स्यात् । तथा च साहंकारा माया मिथ्याज्ञानं तिरस्कारं नाशं यातीत्यर्थः । हिशब्देनात्रार्थे भक्त्या प्रसन्नो भगवान्दद्यान्मुक्तिं न चान्यथेति प्रमाणं सूचयति

॥ १५ ॥

प्रमेयचन्द्रिका

एवं भावयतः फलमुच्यते ॥ नरेष्विति ॥ नरेषु मध्ये मामभीक्ष्णं बहुशो भावयतः पुंसो मद्भावः सर्वभूतेष्वस्ति । विष्णुरिति भावना मयि भावो भक्तिर्वा स्याद्वा । वाशब्दोऽवधारणे । स्यादेव साहङ्कारा माया प्रतिबन्धिका प्रकृतिरपि तिरस्कारं यातीत्यर्थः ॥ १५ ॥

विसृज्य स्वयमात्मस्थां दृश्यव्रीडां च दैहिकीम् ।

प्रणमेद् दण्डवद् भूमावाश्वचण्डालगोखरम् ॥ १६ ॥

पदरत्नावली

भक्तिमतैवं भाव्यमित्याह– विसृज्येति । भक्तः स्वयं दैहिकी आत्मस्थां मनसि स्थितां दृश्यव्रीडां दृश्यमानां लज्जां विसृज्य आश्वचण्डालगोखरं दण्डवद् भूमौ प्रणमेदित्यन्वयः । ब्राह्मणादीन् प्रति भूमौ दण्डवन्नमनम्, अन्यांश्चण्डालादीन् प्रति मानसस्मरणमिति भेदः । अत्राप्यन्तर्यामिणः स्मरणं प्रणाम इति विशेषः ॥ १६ ॥

श्रीनिवासतीर्थीया

भक्तिमतैवं भाव्यमित्याह । विसृज्येति । स्वयमहंकारं दैहिकीं देहसम्बन्धिनीं परिदृश्यमानव्रीडां लज्जां विसृज्य त्यक्त्वाऽश्वचण्डालगोखरान् श्वचण्डाल-गोखरपर्यन्तं विद्यमानान् जनानुद्दिश्य प्रणमेदित्यर्थः ॥ १६ ॥

प्रमेयचन्द्रिका

सर्वाधिष्ठानेषु हर्याराधनसमये लज्जा त्याज्येत्युच्यते ॥ विसृज्येति ॥ आत्मसंस्थां मनसि स्थितां दैहिकीं देहे भवाम् । अत एव दृश्यमानां व्रीां च विसृज्य आश्व-चण्डालगोखरं श्वचण्डालाद्यंतर्यामिपर्यन्तं सर्वगतं हरिमिति यावत् । प्रणमेदित्यर्थः ॥ १६ ॥

यावत् सर्वेषु भूतेषु मद्भावो नोपयुज्यते ।

तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ॥ १७ ॥

पदरत्नावली

एतदुपासनावधिमाह– यावदिति । यावत् सर्वेषु भूतेषु विष्णुरस्तीति मद्भावो मद्विषयं ज्ञानं नोपजायते तावद् वाङ्मनःकायवृत्तिभिरेवमुपासीतेत्यन्वयः ॥ १७ ॥

श्रीनिवासतीर्थीया

एतदुपासनावधिमाह ॥ यावदिति । मद्भावः सर्वभूतेष्वस्ति विष्णुरिति ज्ञानं नोपजायते तावदेवं पूर्वश्लोकोक्तरीत्या वाङ्मनःकायवृत्तिभिरुपासीतेत्यन्वयः

॥ १७ ॥

प्रमेयचन्द्रिका

एतदुपासना कियत्पर्यन्तं कार्येत्यतो विधिरुच्यते ॥ यावदिति ॥ सर्वेषु भूतेषु मद्भावः विष्णुरस्तीति ज्ञानं यावन्नोपजायते । तावद्वाङ्मनःकायवृत्तिभिरेव-मुपासीतेत्यन्वयः ॥ १७ ॥

सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।

परिपश्यन्ति च परं परमात्मानमच्युतम् ॥ १८ ॥

तात्पर्यम्

‘ब्रह्मणाऽऽत्तमिदं सर्वं यत्किञ्चित्सचराचरम् । इति पश्येत यो विद्वान्स हि ब्रह्मात्मविन्मत’ इति ब्राह्मे ॥ १८ ॥

पदरत्नावली

एवमुपासीनस्य परोक्षज्ञानिनो मतिप्रकारमाह– सर्वमिति । तस्योपासकस्य सर्वं जगद् ब्रह्मात्मकं ब्रह्मणा आत्तं स्वीकृतमधीनत्वेन वर्तितमिति मननं हरेः प्रीतिजनकमित्यर्थः । ‘‘ब्रह्मणाऽऽत्तमिदं सर्वं यत् किञ्चित् सचराचरम् । इति पश्येत यो विद्वान् स हि ब्रह्मात्मविन्मतः’’ इति विशिष्टवचनान्न ब्रह्मात्मैक्यमुच्यत इति सिद्धम् । फलमाह– विद्ययेति । विद्यया ज्ञानेन आत्ममनीषया स्वरूपभूतबुद्ध्या चाच्युतं परमात्मानं स्वात्मादेः परमन्यं परिपश्यतीत्यन्वयः । चशब्देन अन्यमीशमिति श्रुतिं प्रमाणयति ॥ १८ ॥

श्रीनिवासतीर्थीया

एवमुपासीनस्य परोक्षज्ञानिनो मतिप्रकारमाह ॥ सर्वमिति । तस्योपासकस्य सर्वं जगद्ब्रह्मात्मकं ब्रह्मणाऽऽत्तं स्वीकृतमिति अधीनमिति मतिर्भवति । तया स्वमनीषोत्थया विद्ययाऽच्युतं परमात्मानं परं भिन्नं परिपश्यति ॥ १८ ॥

प्रमेयचन्द्रिका

एवमुपासकस्य ज्ञानप्रकारोऽभिधीयते ॥ सर्वमिति ॥ तस्य भगवतः मम सम्बन्धिन्या मद्विषयविद्यया शास्त्रजनितज्ञानेन आत्ममनीषया स्वरूपभूतज्ञानेन तस्य प्रागुक्तं जगतः सकाशात्परं विलक्षणं परमात्मानं सर्वोत्तममच्युतं सर्वं जगद्ब्रह्मात्मक-मिति च परिपश्यन्ति विषयीकुर्वन्तीत्यर्थः । अथवा आत्मनो मनीषा यया सा आत्म-मनीषा । तया विद्यया वेदादिरूपया । परिपश्यन्ति जानन्तीत्यर्थः । अत्र ब्रह्मात्मकं ब्रह्मा-भिन्नमिति भानात्प्रमाणेन तात्पर्यतो व्याचष्टे ॥ ब्रह्मणेति ॥ नात्रात्मशब्दः स्वरूपपरः । किंतु अशु व्याप्तावित्यस्मात्प्रत्यये निष्पन्नो व्याप्त्यर्थक इति भावः ॥ १८ ॥

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।

मद्भावः सर्वभूतेषु मनोवाक्कायकर्मभिः ॥ १९ ॥

पदरत्नावली

अन्येनापि मुक्तिः स्यात्, किमनेनेति तत्राह– अयं हीति । सर्वकल्पानां सर्वमोक्षोपायानां मध्ये अयमुपायो हि सध्रीचीनो मत इति मम सिद्धान्त इत्यनेनाप्ति-मूलत्वेनान्योक्तानामाभासत्वं सूचयति । अयमिति क इत्यत उक्तं मद्भाव इति ॥ १९ ॥

श्रीनिवासतीर्थीया

ननु सर्वभूतेष्वस्ति विष्णुरित्येतत्कादाचित्कं किमित्यतो नेत्याह ॥ अयमिति । मनोवाक्कायकर्मणा सर्वेषु भूतेषु मद्भावो योऽयं सर्वकल्पानां सध्रीचीनः साधारण इत्यर्थः ॥ १९ ॥

दुर्घटभावदीपिका

मनोवाक्कायवृत्तिभिः साध्यानां सर्वकल्पानां सर्वेषां मोक्षकल्पानां मोक्षोपायानां मध्येऽयं कल्पो मम सध्रीचीनो मतः । अयं क इत्यत आह ॥ सर्वभूतेष्विति । सर्वभूतेषु मद्भावो मम ध्यानं सर्वकल्पानां सध्रीचीन इति । एतेन वाक्कायवृत्त्योर्ध्यानसाधनत्वाभावान् मनोवाक्कायवृत्तिभिर्मद्भाव इति कथनमनुपपन्नमिति दूषणं परिहृतम् । मनोवाक्कायवृत्तिभिरित्यस्य मद्भाव इत्यनेनान्वय इत्यभ्युपगमात् ॥ १९ ॥

प्रमेयचन्द्रिका

मूले उक्तप्रकारकज्ञानमेव मोक्षहेतुर्नान्यदित्युच्यते ॥ अयमिति ॥ सर्वकल्पानां मोक्षोपायत्वेनाभिमतानां मध्ये अयमेवोपायः सध्रीचीन इति मम मतोऽभिमतः । एतेनोपायान्तरत्वेनाभिमतानामसमीचीनत्वं सूचितं भवति । अयमिति क इत्युत उक्तम् ॥ मद्भाव इति ॥ मनआदिभिः सर्वभूतेषु मद्भावः । सर्वभूतेष्वस्ति विष्णुरिति ध्यानम् । तथा वचनम् । तदनुकूलकायप्रवृत्तिरित्ययमित्यर्थः ॥ १९ ॥

नह्यङ्गोपक्रमे ध्वंसो न धूरस्योद्धवाण्वपि ।

मया व्यवसितं सम्यङ् निर्गुणत्वादनाशिषः ॥ २० ॥

पदरत्नावली

अङ्ग उद्धव अस्य धर्मस्योपक्रमे कृतेपि तन्मात्रस्य ध्वंसो नाशो नैव भवति । अस्य धर्मस्य कर्तुरण्वपि अणुमात्रोपि धूर् भार आयासलक्षणो नास्ति । कुतः । अनाशिषः निष्कामस्य मद्धर्मस्य निर्गुणत्वान्मुक्तिसाधनत्वान् मया सम्यग् व्यवसितं निश्चितमतो नान्यधर्मसमो मद्धर्म इति ॥ २० ॥

श्रीनिवासतीर्थीया

प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फलेति प्रमाणानुसारेणाह ॥ न हीति । हे अङ्ग उद्धव । अस्य मद्धर्मस्योपक्रमे प्रारम्भे क्रियमाणेऽण्वप्यणुमात्रोऽपि ध्वंसः फलाभावो नास्तीति मया सम्यग्व्यवसितो निश्चितः । कुतः । अनाशिषो निष्काम-धर्मस्य निर्गुणत्वान्मोक्षसाधनत्वात् । तथा च निष्कामधर्मस्य मोक्षफलकत्वनिश्चयेन तादृश-धर्मोपक्रमेणापि मोक्षस्यावश्यं भाव्यत्वादित्याशयः ॥ २० ॥

प्रमेयचन्द्रिका

सध्रीचीनत्वं श्लोकत्रयेणोपपाद्यते ॥ न ह्यङ्गेत्यादिना ॥ हे उद्धव अस्य उपक्रमे प्रारंभमात्रे कृतेऽपि ध्वंसः फलाभावलक्षणो न हि । अण्वपि धूर्भार आयास-रूपः कर्मशेषकरणप्रयुक्तप्रत्यवायरूपो भारो वा न हि । तदुपपदानं क्रियते ॥ मयेति ॥ अनाशिषो निष्कामस्य मद्धर्मस्य निर्गुणत्वात् । ल्यब्लोपपञ्चमी । निर्गुणत्वं मुक्तत्वमपेक्ष्य मोक्ष एवेति निश्चितमिति यावत् ॥ २० ॥

यो योऽपरो मनोधर्मः कल्पते निष्फलाय ते ।

तदायासो निरर्थः स्यान्नयादेरिव सत्तम ॥ २१ ॥

तात्पर्यम्

‘नयादिर्दुर्नयः प्रोक्तो यन्नयं सोऽतिसर्वदे’ति शब्दतत्त्वे ॥ २१ ॥

पदरत्नावली

अस्यैवोत्तमत्वमुपपादयति यो य इति । अन्यदेवतोद्देशेन क्रियमाणो यो यो धर्मः ध्यानार्चनादिलक्षणः क्रियते, पुम्भिरिति शेषः, स ते तव निष्फलाय कल्पते । एतदेवाह– तदायास इति । तदायासस् तत्र क्रियमाणप्रयत्नो निरर्थः स्यात् । कथमिव । नयादेरिव दुर्नयरूपधर्मस्येव । ‘‘नयादिर्दुर्नयः प्रोक्तो यन्नयं सोऽत्ति सर्वदा’’ इति वचनात् ॥ २१ ॥

श्रीनिवासतीर्थीया

नन्वन्यदेवतोद्देशेन क्रियमाणधर्मोपक्रमोऽपि सफलश्चेत्को विशेषस्त्वद्धर्मस्येत्यत आह ॥ यो य इति । पुंभिरन्यदेवतोद्देशेन क्रियमाणो यो योऽपरो मनोधर्मो ध्यानादिः स ते त्वदुपलक्षिताधिकारिणो निष्फलाय कल्पते । तदेवाह । तदायास- स्तदुद्देशेन क्रियमाणधर्माद्यायासः । सत्तम उद्धव । निष्फलः स्यादिति । कथम् । नयादे-रिवेति । अत्र नयादिशब्दार्थमाह ॥ नयादिरिति । कुत इत्यत उक्तम् ॥ यदिति । यद्यस्मात्कारणात्सुदुर्नयः । नयं सन्नयम् । अति अतीत्य सर्वदा वर्तत इत्यर्थः । तथा चादौ नये प्राप्ते सति तदुल्लङ्घ्य दुर्नयं प्राप्नोतीति भावः । एवं च नयः सन्नय आदिर्यस्य स दुर्नय इति व्युत्पत्तिर्नयादिशब्दस्योक्ता भवति । तथा च नयादेरिव दुर्नयस्येव स यथा निष्फलस्तथाऽयमपीति दृष्टान्तार्थः ॥ २१ ॥

दुर्घटभावदीपिका

हे सत्तम । यो योऽपरोऽन्यविषयको मनोधर्मो ध्यानादिस्तदायासोऽन्य-विषयको वागायासो देहायासश्च ते त्वदुपलक्षितानां सर्वेषां निष्फलाय फलाभावाय कल्पते भवति । निरर्थो विरुद्धफलश्च स्यात् । अत्र दृष्टान्तमाह ॥ नयादेरिति । नयतीति नयादिस्तस्य नयादे-र्दुर्नयविशिष्टस्य पुरुषस्यायासो यथा फलाभावाय भवति । विरुद्धफलकश्च भवतीति ॥ ता.अर्थः ॥ दुर्नयो दुर्नयविशिष्टः पुरुषो नयादिरिति शब्देन प्रोक्तः कुत इत्यत आह ॥ यदिति ॥ स दुर्नयविशिष्टः पुरुषो यद्यस्मात्सर्वदा नयं सन्नमयति भक्षयति तस्मान्नयादिरिति शब्देन प्रोक्त इति । अत्र दुर्नयात्पूर्वस्मिन्काले विद्यमानस्य सन्नयस्य भक्षणं नाम नाशो दुर्नयानन्तरभावि सन्नयस्य भक्षणं नाम तदुत्पत्तिप्रतिबन्ध इति द्रष्टव्यम् । एतेन नयादिःप्रोक्त इत्येतदनन्वितमिति दूषणं परास्तम् । इतिशब्देनेत्यस्याध्याहारेणान्वयस्योक्तत्वात् ॥ २१ ॥

प्रमेयचन्द्रिका

अपरो यो यो मनोधर्मः । अन्यदेवतोद्देशक्रियमाणो ध्यानार्चनादि-रूपो धर्मः पुंभिः क्रियते । स धर्मस्त्वदुपलक्षितस्य जनस्य निष्फलाय कल्प्यते । तस्यैव विवरणम् ॥ तदायास इति ॥ तदायासस्तत्र क्रियमाणः प्रयत्नः निरर्थकः स्यात् । तत्र दृष्टान्तः नयादेरिति ॥ अत्र नयादेरायासो यथा निष्फलस्तथेति भाति । तदयुक्तम् । नयपदोक्तराजनीत्यादेः सफलत्वस्यैव दर्शनादित्यतः प्रमाणेन व्याचष्टे ॥ नयादिरिति ॥ नात्र नय एवादिर्यस्येति विवक्षितो येनोक्तदोषः स्यात् । किं तु नीतिवाचकेन नयशब्देन उपपदेन अदभक्षण इत्यस्मात्किप्रत्यये नयादिशब्दो निष्पन्नस्तस्यार्थः । यद्यस्मान्नयं नीतिं नीतिफलं जयादिकमिति यावत् तस्मान्नयादिरित्यनेन दुर्नयः प्रोक्त इति । यथा दुर्नीति-र्निरर्थका अनर्थफला च तथा इतरदेवताराधनप्रयत्नोऽनर्थक इति भावः ॥ २१ ॥

एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।

यत् सत्यमनृतेनेह मर्त्येनाप्नोति माऽमृतम् ॥ २२ ॥

तात्पर्यम्

‘एकदा ज्ञातरूपेण यन्न तिष्ठति सर्वदा । चञ्चलत्वात्सत्यमपि ह्यनृतं जगदुच्यत’ इति च ॥ ‘सर्वदैकप्रकारत्वात्सत्यं ब्रह्म सदोच्यत’ इति च ॥ २२ ॥

॥ इति एकादशतात्पर्ये एकोनत्रिंशोऽध्यायः ॥ २९ ॥

पदरत्नावली

बुद्धिमतां निश्चयज्ञानवतां बुद्धिर्निश्चयात्मिकैषा । मनीषिणां मनसा सारेच्छावतां मनीषा मनसा सारान्वेषणमेतत् । अनृतेन क्षणेक्षणे अन्यथाभवता अत एव मर्त्येन शरीराख्यजगत ऋतं शश्वदेकप्रकारं सत्यं ब्रह्म मामाप्नोतीति यत् तस्मात् । ‘‘एकदा ज्ञातरूपेण यन्न तिष्ठति सर्वदा । चपलत्वात् सत्यमपि ह्यनृतं जगदुच्यते’’ इति, ‘‘सर्वदैकप्रकारत्वात् सत्यं ब्रह्म सदोच्यते’’ इति वाक्यद्वयेन सत्यानृतशब्दयोरुक्त एवार्थ इति ॥ २२ ॥

श्रीनिवासतीर्थीया

बुद्धिमतां बुद्धिः । एषा मनीषिणां च । मनीषिणां का एषा ॥ यदिति । अत्रानृतेन मर्त्येनेति देहमिथ्यात्वमुच्यत इति भाति । किञ्च सत्यशब्दार्थश्च न प्रतीयतेऽत आह ॥ एकदेति । यद्यस्मात्कारणाज्जगदेकदा ज्ञातरूपेण न तिष्ठत्यतोऽनृत-मित्युच्यते । कुत इत्यत उक्तम् ॥ चञ्चलत्वादिति । सत्यशब्दार्थमाह ॥ सर्वदेति । अनृतेन चञ्चलेन मर्त्येन देहेनामृतं नित्यमुक्तं सत्यं सर्वदैकप्रकारं मां प्राप्नोतीति यद्येषे-त्यन्वय इत्यर्थः ॥ २२ ॥

दुर्घटभावदीपिका

इह संसारे विद्यमानः पुरुषोऽनृतेन सर्वदैकप्रकारतया ऋतं ज्ञातं न भवतीत्यनृतम् । सर्वदैकप्रकारतया ज्ञानविषयकार्थरूपेण न तिष्ठतीति यावत् । एतेन मर्त्येन नाशस्वभावेन भगवदाराधनानुकूलेन शरीरादिना ऋतं सर्वदैकप्रकारतया ज्ञातं सत् सत्यं विद्यमानम् । सर्वदैकप्रकारतया ज्ञानविषयरूपेण विद्यमानमिति यावत् । मामाप्नोति । यत्प्रमेयं मद्विषयिण्येषा सम्पाद्यत्वेन प्रमाणप्रसिद्धा बुद्धिर्बुद्धिमतां संसारासारविषयकबुद्धिमतां मोक्षसाधनम् । मनीषा पूर्वोक्तप्रमेयविषयकज्ञानं च मनीषिणां संसारासारविषयकज्ञानवतां मोक्षसाधनमिति । एतेन पदानाम-नन्वय इति दूषणं परास्तम् । विद्यमान इत्यादीनां शेषणान्वयस्योक्तत्वात् । एतेनैव मर्त्येनेत्ये-तदनृतेनेत्यनेन पुनरुक्तमिति दूषणं पराकृतम् । अनृतेनेत्यनेन नाशवैशिष्ट्यमुच्यते । मर्त्येनेत्यनेन नाशस्वभावत्वमुच्यते इत्यङ्गीकारात् । एतेनैव बुद्धिमतां मनीषा च मनीषिणामित्येतत्पुनरुक्तमिति दूषणमपास्तम् । बुद्धिशब्देन साधनबुद्धेर्ग्रहणम् । मनीषाशब्देन बुद्धिसाध्यज्ञानस्य ग्रहणमित्यभ्युपगमात् ॥ ता.अर्थः । अनृतशब्देन जगतो मिथ्यात्वमुच्यत इति भ्रमं वारयितुमनृतशब्दतात्पर्यमाह ॥ एकदेति । यद्यस्मात्कारणाज्जगत्सर्वदा चञ्चलत्वात्तन्नाशस्वभावत्वादेकदाऽपि न तिष्ठति । तस्मा-त्कारणात्सत्यमप्यनृतमुच्यते । कारणरूपेण जगतोऽवस्थानात् । जगन्न तिष्ठतीत्ययुक्तमित्याशङ्का-परिहारायोक्तम् ॥ ज्ञानरूपेणेति । अनेन जगतः कारणरूपेणावस्थानेऽपि ज्ञानविषयकार्यरूपेण न तिष्ठतीति कथनमयुक्तमिति दूषणं परास्तम् । आवृत्तापि शब्दसहितस्यैकदेत्यस्य सर्वदेत्यर्थे तात्पर्यमिति स्वीकरणात् । एतेनैव सर्वदा चञ्चलत्वादिहेतोः सर्वदा न तिष्ठतीति साध्यावैशिष्ट्यमिति चोद्यस्यानवकाशः । चञ्चलत्वादित्यस्य अवशिष्टत्वादित्यर्थ इत्यनङ्गीकारात् ॥ २२ ॥

प्रमेयचन्द्रिका

एवमुपदिश्य भेदज्ञानमवश्यं संपाद्यमिति सूचयन् भगवत्प्राप्तिरूप-मोक्षसाधकहर्याराधनरूपो धर्म एव सर्वथा संपाद्य इति सूचयति ॥ एषेति ॥ अत्रानृतेन मिथ्याभूतेन मर्त्येन देहेन ऋतं सत्यं मामाप्नोतीत्यन्यथाभानात्प्रमाणेनानृतशब्दार्थं तावदाह ॥ एकदेति ॥ यद् यस्मात्कारणाद् एकदा ज्ञातरूपेण सर्वदा न तिष्टति तस्मात्सत्यमप्यनृत-मित्युच्यते । तथा सर्वदाऽनवस्थाने निमित्तमाह ॥ चञ्चलत्वादिति ॥ प्रतिक्षणमुपचया-पचयवत्वेन चञ्चलत्वादित्यर्थः । तदुक्तम् । ऋ गताविति धातोस्तु पूर्वावगतवत्सदा । स्थितेर् ब्रह्मर्त्तमित्युक्तमनृतं परिणामतः । प्रकृतिप्राकृतं प्रोक्तमिति । एतेन ऋतशब्दो ब्रह्मणि व्याख्यातो भवति ॥

ननु जगतोऽपि सत्यत्वेन विशिष्य ब्रह्मणि सत्यत्वोक्तिः कथमित्यत आह ॥ सर्वदेति ॥ सदातनं सत्यमित्युक्तत्वेन सर्वदैकप्रकारत्वाद्ब्रह्म सदा सत्यमित्युच्यत इत्यर्थः ॥

मूलाक्षरार्थस्तु अनृतेन प्रतिक्षणमन्यथाभाववता एवं मर्त्येन नश्वरेण भगवदाराधनसाधन-देहेन भगवदधीनत्वादिना विज्ञातेन जगतेति वा । एवंविधज्ञानेनेति यावत् । ऋतं पूर्वाव-गतवत्सदा स्थितम् । सत्यं सर्वदैकप्रकारं ब्रह्म प्राप्नोतीति यत्तस्मादेषैव सर्वं भगवद्भिन्नम् । एकप्रकारेणानवस्थानादिना तदधीनम् । हरिस्तु स्वतन्त्र एकप्रकार इत्यादिविषयणी बुद्धि-मतां तत्वनिश्चयवतां बुद्धिरतिशयितनिश्चय इति स्तुतिः । मनीषिणां मनीषा सारान्वेषणम् । तद्वतां परमसारभूतभगवत्प्रीतीच्छावताम् ॥ २२ ॥

एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः ।

समासव्यासविधिना देवानामपि दुर्गमः ॥ २३ ॥

पदरत्नावली

सुगमो योगो वक्तव्य इति त्वया पृष्टेन मया योग उक्त इत्युपसंहरति एष इति ॥ २३ ॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ एष इति । ब्रह्मवादस्य प्रतिपादकस्य । समासव्यासविधिना संक्षेपविस्तरेण देवानामपि दुर्गमोऽयमभिहितो गदितमुक्तमित्यर्थः ॥२३॥

प्रमेयचन्द्रिका

एवं भगवता श्रीकृष्णेनोद्धवं प्रति यदुपदिष्टं तस्योपसंहारमुखेन श्रद्धाजननायोच्यते ॥ एष इत्यादिना ॥ ब्रह्म वदति प्रतिपादयतीति ब्रह्मवादो वेदादिशास्त्रं तस्य सङ्ग्रहः सारसङ्क्षेपः ॥ २३ ॥

अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।

एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४ ॥

पदरत्नावली

ब्रह्मवादः संसारमोचकं ब्रह्मज्ञानमेवेत्याशयेनाह– अभीक्ष्णश इति ॥२४॥

श्रीनिवासतीर्थीया

नष्टसंशयो भूत्वा ॥ २४ ॥

प्रमेयचन्द्रिका

अभीक्ष्णशः बहुशः । ज्ञायतेऽनेनेति ज्ञानं शास्त्रम् ॥ २४ ॥

सुविविक्तं तव प्रश्नं मयोक्तमपि धारयन् ।

सनातनं ब्रह्म गुह्यं परब्रह्माधिगच्छति ॥ २५ ॥

पदरत्नावली

सुविविक्तं तव प्रश्नमवधार्य मयोक्तं सनातनं ब्रह्मगुह्यं वेदरहस्यं परिहारमपि धारयन् पुरुषः परं ब्रह्म जानाति ज्ञात्वा प्राप्नोति चेत्यन्वयः ॥ २५ ॥

श्रीनिवासतीर्थीया

धारयन्यः सनातनं ब्रह्म । गुह्यं वेदरहस्यम् । परं ब्रह्माधि-गच्छति प्राप्नोति ॥ २५ ॥

प्रमेयचन्द्रिका

सुविविक्तं तव प्रश्नं तत्परिहाररूपं मयोक्तं सनातनं नित्यं ब्रह्मगुह्यं वेदरहस्यमपि धारयन् पुरुषः सनातनं परब्रह्म मां गच्छति प्राप्नोतीति जानातीति वा ॥२५॥

य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।

तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥

पदरत्नावली

प्रचयगमनफलमाह– य एतदिति । सुपुष्कलं यावदपेक्षितं तावज्ज्ञानम् । ब्रह्मैव दायः पितृधनं यस्य स ब्रह्मदायः, तस्य । यद्वा ब्रह्मदश्च आयोऽर्थागमो यस्य स तथा तस्य । आत्मना प्रसन्नेन मनसा आत्मानं मद्विषयं ज्ञानं दत्वा मत्स्वरूपं ददामि ॥ २६ ॥

श्रीनिवासतीर्थीया

प्रचयगमनफलमाह ॥ य इति । ब्रह्मदायस्य ब्रह्मधनवतः

॥ २६ ॥

प्रमेयचन्द्रिका

व्याख्यातुः फलमुच्यते ॥ एतदिति ॥ सुपुष्कलं तत्तदधिकारानु-सारेण पर्याप्तम् । एतद्ज्ञानं ब्रह्मदायस्य ब्रह्मधनवत आत्मना प्रसन्नेन मनसा आत्मानं मां दास्यामि तद्वशवत्तदभीष्टं ददामीति भावः । तदुक्तं गीतातात्पर्यनिर्णये । व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचिदिति ॥ २६ ॥

य एतत् समधीयीत पवित्रं परमं शुचि ।

स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥

पदरत्नावली

अध्येतुः फलमाह– य इति । मां दर्शयन् ॥ २७ ॥

श्रीनिवासतीर्थीया

अध्येतुः फलमाह ॥ य इति । मां दर्शयन् ॥ २७ ॥

प्रमेयचन्द्रिका

अध्येतुः फलमुच्यते ॥ य एतत्समधीयीतेति ॥ परोक्षज्ञानाख्य-दीपेन मां पश्चाद्दर्शयन्नापरोक्ष्येण पश्यन्निति स्वार्थे च । दर्शयन्विषयीकुर्वन्निति वा ॥२७॥

य एतच्छ्रद्धया नित्यमव्यग्रं शृणुयान्नरः ।

मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥

पदरत्नावली

श्रोतुः फलमाह– य इति ॥ २८ ॥

श्रीनिवासतीर्थीया

श्रोतुः फलमाह ॥ य इति ॥ २८ ॥

प्रमेयचन्द्रिका

अथ तटस्थतया श्रोतुः फलमुच्यते ॥ य एतच्छ्रद्धयेति ॥ स कर्मभिर्न बध्यते । बन्धककर्म त्यजति । मुक्तो भवतीत्यर्थः । ‘‘श्रुणुयादपि यो नरः । सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् । पुण्यकर्मणामिति गीतायाम् ॥ २८ ॥

अप्युद्धव त्वया ब्रह्म सखे समुपधारितम्१ ।

अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९ ॥

पदरत्नावली

अज्ञातांशं सम्यग्वक्तुं स्वोक्तज्ञानेऽवधृतिं पृच्छति अपीति । समुपधारितम् अपि किम् । मोहश्च विगतोऽपि । असौ मनोभवः मनःशल्यत्वेन जातः शोकश्च नष्टः किम्

॥ २९ ॥

श्रीनिवासतीर्थीया

स्वोक्तज्ञानेऽवधृतिं पृच्छति ॥ अपीति । हे उद्धव हे सखे । त्वयेदं ब्रह्मोपधारितमपि किमित्यर्थः । मोहो विगतः किम् अपि किमित्यर्थः ॥ २९ ॥

प्रमेयचन्द्रिका

स्वोपदिष्टज्ञानस्थिरीकरणायोद्धवं प्रत्यनुनयं क्रियते ॥ अपीति ॥ ब्रह्म रहस्यविद्या परब्रह्म वा । समवधारितमपि सम्यङ्मनसि दृढीकृतं किम् । मनोभवो मनसि स्थितो मोहः संशयादिरूपः । विगतो विगतः किं यदुकुलक्षयादिनिमित्तकः शोको विगतोऽपि स्विदित्यर्थः ॥ २९ ॥

नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च ।

अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥

पदरत्नावली

एतस्य ज्ञानस्योपदेष्टुर्महाफलसम्भवेपि योग्यायैवोपदेष्टव्यं नायोग्यायेत्याह– नैतदिति ॥ ३० ॥

श्रीनिवासतीर्थीया

शठाय गूढद्वेषिणे ॥ ३० ॥

प्रमेयचन्द्रिका

डाम्भिकाय स्वात्मनोऽल्पत्वं ज्ञात्वाऽपि महत्वप्रदर्शकाय । नास्ति-काय श्रद्धाहीनाय । शठाय गूढद्वेषिणे । अशुश्रूषोर् अशुश्रूषवे भगवद्भक्तिरहिताय । दुर्विनीताय वंचकाय । विनयप्रदर्शकाय ॥ दुर्विज्ञेयमित्यत्रेव दुरोऽनञर्थकत्वाद्विनयरहितायेति वा ॥ ३० ॥

एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च ।

साधवे शुचये ब्रूयाद् भक्तिः स्याच्छूद्रयोषिताम् ॥ ३१ ॥

पदरत्नावली

शूद्राणां योषितां च यदि भक्तिः स्यान्मयि तर्हि तेभ्योऽपि ब्रूयादित्यन्वयः

॥ ३१ ॥

श्रीनिवासतीर्थीया

शूद्रयोषितां यदि भक्तिः स्यात्तासां ब्रूहीत्यन्वयः ॥ ३१ ॥

प्रमेयचन्द्रिका

शूद्रेति ॥ शूद्राणां योषितां च यदि मयि भक्तिः स्यात्तर्हि तेभ्योऽपि ब्रूयादित्यध्याहारादिना योज्यम् । यद्वा एतेन वेदानधिकारिणां शूद्रयोषितामपि मय्यनपायिनी भक्तिः स्यादित्यर्थः ॥ ३१ ॥

नैतद् विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते ।

पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥

पदरत्नावली

इदमेव मुक्तिसाधनं नान्यदित्याशयेनाह– नैतदिति ॥ ३२ ॥

श्रीनिवासतीर्थीया

इदमेव मुक्तिसाधनं नान्यदित्याह ॥ नैतदिति । द्वितीयार्धो दृष्टान्तार्थः ॥ ३२ ॥

प्रमेयचन्द्रिका

इदमेव मुक्तिसाधनं नान्यदित्याशयेनोच्यते ॥ नैतदिति ॥ पीत्वेति लुप्तोपमा । अमृतं न विद्यते मृतिर्येन तत् । पीयूषं सुधाम् ॥ ३२ ॥

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।

यावानर्थो नृणां तात तावान् मोहश्चतुर्विधः ॥ ३३ ॥

पदरत्नावली

तर्हि लोका एतत् किमिति न विविदिषन्तीति तत्राह– यावानिति । नृणां यावान् ज्ञातव्यार्थो भवेत् तावान् चतुर्विधो मोह इत्युपलक्षणम्, पञ्चपर्वाविद्याप्रतिरुद्धत्वान्न ज्ञातुमिच्छन्तीत्यर्थः ॥ ३३ ॥

श्रीनिवासतीर्थीया

नन्वेतद्विज्ञायान्यज्ज्ञातव्यं नास्तीति कथम् । अन्यज्ञानदर्शना-दित्यतस्तत्सर्वं मोहकारणं मोहसाध्यं वेत्याह ॥ ज्ञानेति । भगवदितरज्ञाने दुष्कर्मणीतर-योगे । वार्तायां दण्डधारणे इत्यत्र नृणां यावानर्थोऽस्ति तावान्सर्वोऽपि चतुर्विधमोहस्त-त्साध्यो वा तत्साधनं वेत्यतो नान्यज्ज्ञातव्यमित्यर्थः ॥ ३३ ॥

दुर्घटभावदीपिका

हे तात । कर्मणि काम्यकर्मणि कृते कामनया योगे ध्याने च कृते वार्तायां दण्डधारणे कृते यावानर्थो यावत्प्रयोजनं तावानर्थो ज्ञाने सम्पादिते सति भवति । नृणां जायमानप्रयोजनलाभार्थं काम्यं कर्म कर्तव्यं काम्यध्यानं कर्तव्यं वार्ता च कर्तव्या दण्डधारणं कर्तव्यमिति चतुर्विधप्रत्ययः स मोहो भ्रम इति ॥ ३३ ॥

प्रमेयचन्द्रिका

ज्ञातव्यं नावशिष्यत इत्युक्तस्य विवरणं क्रियते ॥ ज्ञान इति ॥ ज्ञानशास्त्रे कर्मशास्त्रे ध्यानादियोगपरशास्त्रे । वार्त्तायां दण्डनीत्यादिग्रन्थे । इत्येतेषु यावानर्थो नृणां ज्ञातव्यस्तावान्सर्वोऽप्यर्थोऽनेन ज्ञायत इति शेषः । चतुर्विधो मोहश्च विनश्यतीति शेषः । ईश्वरः प्रकृतिर्जीवो जडं चेति चतुष्टयमित्युक्तचतुर्विधपदार्थविषये प्राप्तत्वान्मोहस्य चतुर्विधो मोह इति युक्तम् ॥ ३३ ॥

मर्त्यो यदा त्यक्तसमस्तकर्मा निवेशितात्मा विचिकीर्षितो मे ।

तदाऽमृतत्वं प्रतिपद्यमानो मयाऽऽत्मभूयाय च कल्पतेऽसौ ॥ ३४ ॥

पदरत्नावली

नन्वेवं चेद् विविदिषाऽभावेन कदाप्यनुदया मुक्तेरत्राह– मर्त्य इति । अयं मोक्षं प्राप्नोत्विति मोक्षोपायं प्रति मे मया चिकीर्षितो भवेत् । यदा मदुपदेशेन मर्त्यस्त्यक्तसमस्तकर्मा हरिरेव मयि स्थित्वा सर्वकर्म करोति अहं तदधीन एव कर्म करोति न स्वतन्त्र इति हरावेव निवेशितात्मा च भवति तदाऽमृतत्वं प्रतिपद्यमानः प्राप्तुं योग्यो भवन् मया असौ आत्मभूयाय निर्दुःखानन्दानुभवरूपमोक्षायैव कल्पत इत्यन्वयः । यमैवैष वृणुते तेन लभ्य इति श्रुतेः ॥३४॥

श्रीनिवासतीर्थीया

यदा मर्त्योऽयं त्यक्तसमस्तकर्मा हरौ निवेशितात्मा भवति । अहमस्वतन्त्रस्तदधीन इति यदा मे मया चिकीर्षितश्च भवति कारितो भवति । भगव-त्प्रेरितोऽहं कर्म करोमीत्यनुसन्धानवान् भवतीति यावत् । तदाऽमृतत्वं प्रतिपद्यमानः प्राप्तुं योग्यो भवेत्पश्चादात्मभूयाय निर्दुःखानन्दानुभवाय मोक्षाय कल्पत इत्यर्थः ॥ ३४ ॥

प्रमेयचन्द्रिका

ज्ञातव्यं नावशिष्यत इत्युक्तं यावज्ज्ञातव्यार्थपरिज्ञानेन किं स्यादित्यत्रोच्यते ॥ मर्त्य इति ॥ साधनसंपूर्त्या मुक्तत्वं प्रति मे मया चिकीर्षितः कर्त्तुमिच्छितो मर्त्यो यदा त्यक्तसमस्तकर्मा भगवत्यर्पितसकलसत्कर्मा । निवेशितः भगव-त्यर्पित आत्मा स्वस्य रूपं मनश्च यस्य स निवेशितात्मा भवति । तदा असौ अमृतत्वं मुक्तत्वं प्रतिपद्यमानः सन्नात्मभूयाय स्वात्मनि ब्रह्मभाव आत्मभूयस् तस्मै । स्वयोग्य-सायुज्यादिप्राप्तये मया कल्प्यत इत्यर्थः । यद्वा अमृतत्वं प्राप्तुं योग्यः सन्ना पुरुष आत्म-भूयाय निर्दुःखानन्दानुभवाय मोक्षाय कल्पत इति ॥ ३४ ॥

श्री शुक उवाच–

स एवमादर्शितयोगमार्गस्तदोत्तमश्लोकवचो निशम्य ।

बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥

पदरत्नावली

उद्धवस्य भक्त्यतिशयलक्षणमाह– स एवमिति ॥ ३५ ॥

प्रमेयचन्द्रिका

एवं भगवतोपदिष्टे सति उद्धवेन कृतप्रत्युत्तरं वक्तुं तद्वृत्तिः शुका-चार्यैरुच्यते ॥ स एवमिति ॥ एवंविधभगवदुपदेशेन सम्यक् प्रदर्शितयोगमार्गः । स उद्धव उपदेशरूपम् उत्तमश्लोकवचो निशम्येत्यर्थः ॥ ३५ ॥

विष्टभ्य चित्तं प्रणयेन पूर्णं धैर्येण राजन् बहुमन्यमानः ।

कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥

श्रीनिवासतीर्थीया

पूर्णमुत्सिच्यमानं विष्टभ्य स्थिरीकृत्य बहुमन्यमानो बहुमानं कुर्वाणः ॥ ३६ ॥

प्रमेयचन्द्रिका

विष्टभ्येति ॥ भगवद्भक्तियोगभयेन व्याकुलं भगवद्विषयप्रणयेन पूर्णं चित्तधैर्येण विष्टभ्य स्थिरीकृत्य यदुप्रवीरं बहुमन्यमानः प्राहेति योजना ॥ ३६ ॥

उद्धव उवाच–

विद्रावितो मोहमयोऽन्धकारो य आश्रितो मे तव सन्निधानात् ।

विभावसोः किन्नु समीपगस्य शीतं तमोऽभिप्रभवत्यजाद्य ॥ ३७ ॥

पदरत्नावली

अप्युद्धवेत्याद्युक्तं परिहरति विद्रावित इति । यो मोहमयान्धकारो मे मनआश्रितः स एव । तव सन्निधानान्मोहान्धकारापगमः कथमत्राह– विभावसोरिति । हे अजाद्य । तमश्चाभिभवति किं नु । नैव ॥ ३७ ॥

श्रीनिवासतीर्थीया

हे अजाद्य । यो मे आश्रितो मोहमयोऽन्धकारो मिथ्या-ज्ञानात्मक अन्धकारः स तव सन्निधानाद्विद्रावितः । यथा विभावसोरग्नेः समीपगस्य पुरुषस्य शीतं तमश्च किं नु अभिप्रभवन्ति । किमाक्षेपे । नाभिप्रभवन्तीत्यर्थः ॥ ३७ ॥

प्रमेयचन्द्रिका

य आश्रित इति योऽन्धकारो मे मनस्याश्रितः । सततं सन्निधाना-द्विद्रावित इति सम्बन्धः । तम इत्यत्र चशब्दो ग्राह्यः । आद्य आदिकर्त्ता । अजादप्याद्य इति वा ॥ ३७ ॥

प्रवर्धिता मे भवताऽनुकम्पिता दत्तो हि विज्ञानमयः प्रदीपः ।

हित्वा कृतज्ञस्तव पादमूलं कोऽज्ञः समीयाच्छरणं त्वदन्यम् ॥ ३८ ॥

पदरत्नावली

हरेः स्वात्मन्यनुकम्पातिशयं सद्धेतुं करोति (?) प्रवर्धितेति । हिशब्दो हेतौ । अनुकम्पितामपि प्रवर्धितेति मन्ये । विज्ञानमयः प्रदीपो दत्तो हि यस्मात्, तस्मादिति शेषः । अतः सर्वस्मादुपकारकत्वाद् भवानेव निषेव्य इति भावेनाह– हित्वेति ॥ ३८ ॥

श्रीनिवासतीर्थीया

अनुकम्पिताशयं कथयति ॥ प्रवर्धितेति । हि यस्माद्भवता मे मम विषये । अनुकंपिता । भावे क्तः । अनुकंपा कृपा वर्धिता । विज्ञानमयः प्रदीपो दत्तः । अतः को वा त्वदीयः कृतज्ञस्त्वत्कृतोपकारज्ञस्त्वत्पादमूलं हित्वाऽन्यच्छरणं समीया-दित्यन्वयः ॥ ३८ ॥

दुर्घटभावदीपिका

हि यस्माद्विज्ञानमयो विज्ञानात्मकः प्रदीपोऽनुकंपाप्रवर्धिता । कृतज्ञो वा कस्तव पादमूलं हित्वा त्वदन्यं शरणं समीयात् । न कोऽपि । किं त्वज्ञः कृतज्ञादन्यस्तव पादमूलं हित्वा त्वदन्यं शरणं समीयादिति । एतेनाज्ञ इत्येतदनन्वितमिति दूषणं परास्तम् । किं त्वित्यस्य शेषेण तवपादमूलमित्यादीनामावृत्त्या चान्वयस्योक्तत्वात् ॥ ३८ ॥

प्रमेयचन्द्रिका

अनुकम्पिता अनुकम्पवता । मे मयि । एवं दयाशालित्वात्त्वमेव शरण्य इत्युच्यते ॥ हित्वेति ॥ ३८ ॥

वृक्णश्च मे सुदृढः स्नेहपाशो१ दाशार्हवृष्ण्यन्धकसात्वतेषु ।

प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥

पदरत्नावली

कीदृशो मोहान्धकारो योऽसौ ज्ञानासिना छिन्न इति तत्राह– वृक्ण इति । यः सृष्टिविवृद्धये त्वया प्रसारितो विस्तारितः स एव स्वमायया एनं (न) संसारयामीत्युद्गतनिजेच्छया प्रादुर्भूतात्मविबोधाख्यहेत्या वृक्णश्चेत्यन्वयः ॥ ३९ ॥

श्रीनिवासतीर्थीया

यः स्नेहपाशः सृष्टिविवृद्धये त्वया प्रसारितो विस्तारितः सः स्वमायया निजेच्छया प्रादुर्भूतात्मविबोधाख्यहेतिना वृक्णश्छिन्न इत्यर्थः ॥ ३९ ॥

प्रमेयचन्द्रिका

वृक्ण इति ॥ जगत्सृष्टिविवृद्धये स्वेच्छया दाशार्हादिबन्धुषु त्वया प्रसारितोऽत एव रूढो मदीयः स्नेहपाशोऽध्यात्मज्ञानरूपायुधेन च्छिन्न इत्यर्थः ॥ ३९ ॥

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।

यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४० ॥

पदरत्नावली

स्वात्मनो भगवदेकशिष्यत्वं प्रकटयन्नाह– नम इति ॥ ४० ॥

श्रीभगवानुवाच–

गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं मदाश्रमम् ।

तत्र मत्पादतीर्थोदैः स्नानोपस्पर्शनैः शुचिः ॥ ४१ ॥

पदरत्नावली

भगवाननुशाधीत्युक्तं विवृणोति गच्छेति ॥ ४१ ॥

दुर्घटभावदीपिका

तत्र बदर्याश्रमे मत्पादतीर्थोदैः कृतैः स्नानो यस्य स्पर्शनैः शुचिः शुद्धो भविष्यसीति । एतेन मत्पादतीर्थोदैरित्येतदनन्वितमिति दूषणमपहस्तितम् । कृतैरित्यस्य शेषेणान्वयस्योक्तत्वात् ॥ ४१ ॥

॥ इति श्रीभागवतटिप्पण्यामेकोनत्रिंशोऽध्यायः ॥ ११–२९ ॥

प्रमेयचन्द्रिका

स्नानलक्षणोपस्पर्शनैः स्नानपानैरिति वा ॥ ४१ ॥

ईक्षयाऽलकनन्दाया विधूताशेषकल्मषः ।

वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः ॥ ४२ ॥

पदरत्नावली

ईक्षया ज्ञानेन । मत्पादतीर्थैर् मिश्रितत्वेन प्रवृद्धपापविध्वंसनशक्तियुक्ताया अलकनन्दाया जलस्नानोपस्पर्शनैः शुद्धः ॥ ४२ ॥

तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।

शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३ ॥

श्रीनिवासतीर्थीया

द्वन्द्वमात्राणां शीतोष्णादीनाम् ॥ ४३ ॥

प्रमेयचन्द्रिका

द्वन्द्वमात्राणां शीतोष्णादिद्वन्द्वधर्माणाम् ॥ ४३ ॥

मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् ।

मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव ॥ ४४ ॥

श्रीनिवासतीर्थीया

विविक्ते एकान्ते ॥ ४४ ॥

प्रमेयचन्द्रिका

अनुभावयन् चिन्तयन् ॥ ४४ ॥

अतिक्रम्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४५ ॥

पदरत्नावली

तिस्रो गतीर् जाग्रत्स्वप्नसुषुप्तिलक्षणाः ॥ ४५ ॥

श्रीनिवासतीर्थीया

तिस्रो गतीर्भूभुवःस्वरिति गतीरतिव्रज्यातिक्रम्य ततः परं मामेष्यसि ॥ ४५ ॥

प्रमेयचन्द्रिका

तिस्रो गतीर् जागराद्यवस्थाः । त्रिदिवनिरयभूरूपा वा ॥ ४५ ॥

श्रीशुक उवाच–

स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिवृत्य पादयोः ।

शिरो निधायाश्रुकलाभिरार्द्रधीः सिञ्चन् पदद्वन्द्वमथोऽनुचक्रमे ॥ ४६ ॥

पदरत्नावली

हरिमेधसा विष्णुना । आत्मनो हरित्वमेधयतीति वा हरिमेधास्तेन ॥४६॥

श्रीनिवासतीर्थीया

हरिमेधसा विष्णुना । तं प्रदक्षिणं परिवृत्य कृत्वा पादयोः शिरो निधाय । आर्द्रधीरश्रुकलाभिः पदद्वन्द्वमभिषिञ्चन् अथोऽनुचक्रमे ॥ ४६ ॥

प्रमेयचन्द्रिका

हरिमेधसा सकलपापहरधारणाविषयेण विष्णुना । अनुचक्रमे पाद-विक्षेपमकरोत् ॥ ४६ ॥

सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहर्तुमातुरः ।

कृच्छ्रं ययौ मूर्धनि भर्तृपादुके विभ्रन्नमस्कृत्य ययौ पुनःपुनः ॥ ४७ ॥

पदरत्नावली

न चक्रम इत्युक्तं स्वाभिप्रायं विवृणोति सुदुस्त्यजेति । विशालां बदरीम्

॥ ४७ ॥

श्रीनिवासतीर्थीया

कृच्छ्रं कष्टं यथास्यात्तथा । पुनः पुनर्नमस्कृत्य ॥ ४७ ॥

प्रमेयचन्द्रिका

किं तत्रावस्थितवानित्यत उच्यते ॥ सुदुस्त्यजेति ॥ ४७ ॥

ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालाम् ।

यथोपदिष्टं जगदेकबन्धुना तपः समास्थाय हरेरगाद् गतिम् ॥ ४८ ॥

श्रीनिवासतीर्थीया

विशालां बदरीं समास्थायानुष्ठाय ॥ ४८ ॥

प्रमेयचन्द्रिका

विशालां बदरीम् ॥ ४८ ॥

यदे(य एत)तदानन्दसमुद्रसम्भृतं

ज्ञानामृतं भागवताय भाषितम् ।

कृष्णेन योगेश्वरसेविताङ्घ्रिणा

सच्छ्रद्धयाऽऽसेव्य जगद् विमुच्यते ॥ ४९ ॥

पदरत्नावली

न केवलमेतज्ज्ञानमुद्धवस्यैव फलदं (अपि तु) निषेवमाणानामितरेषामपीत्याह– यदेतदिति । आसेव्य ॥ ४९ ॥

श्रीनिवासतीर्थीया

आनन्दसमुद्रेण कृष्णेन सम्भृतमुत्पन्नं ज्ञानामृतं भागवतायोद्ध-वाय भाषितं यज्ज्ञानामृतमेतन्निषेव्यासेव्य जगद्विमुच्यत इत्यर्थः ॥ ४९ ॥

प्रमेयचन्द्रिका

श्रीकृष्णोद्धवसंवादश्रवणादिफलमुच्यते ॥ य एतदिति ॥ आनन्द-समुद्रः सम्भृतो येन तत्तथोक्तम् । यत्कृष्णेन भाषितं ज्ञानामृतम् । एतदासेव्य जगद् योग्यजनः विमुच्यत इत्यर्थः ॥ ४९ ॥

भवभयमपहन्तुं ज्ञानविज्ञानसारं

निगमकुमुददभ्रं भृङ्गवद् वेद्यसारम् ।

अमृतमुदधिकल्पं पाययन् भृत्यवर्गान्

पुरुषऋषभमाद्यं विष्णुसंज्ञं नतोऽस्मि ॥ ५० ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे एकोनत्रिंशोऽध्यायः ॥

पदरत्नावली

भगवतो भक्तानुकम्पितां विस्मयमान उत्तरग्रन्थानुवर्तनार्थं भगवत्प्रसाद-माकाङ्क्षमाणो भगवन्तं नमति भवभयमिति ॥ आद्यं सर्वज्ञं पुरुषर्षभं पुरुषोत्तमं नतोऽस्मीत्यन्वयः । यो भवभयमपहन्तुमुन्मूलयितुं निजयशोमृतं भृत्यवर्गान् पापयन्नास्ते । कीदृशम् । ज्ञानविज्ञान एव सारं वरणीयं स्वादु यस्मिन् तत्तथा । निगमकुमुददभ्रं वेदलक्षणकुमुदैकदेशसिद्धम् । अनेन वेदानामनन्तत्वेपि तत्तद्योग्यतानुसारेणोदितमिति ज्ञायते । अत एव वेद्यसारं ज्ञातव्येषु श्रेष्ठम् । ननु वेदैकदेशसिद्धं चेत् स्वापेक्षितसामग््रयाभावान्नेदमुपादेयमिति तत्राह– उदधिकल्पमिति । योग्यताविशेषादधिकारिणां पूर्णत्वेन समुद्रसमानम् । भृङ्गवद् यथा भृङ्गो भृङ्गी मधु पाययति तथेति

॥ ५० ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य एकोनत्रिंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

शुको मङ्गलमाचरति ॥ भवभयमिति । अहं तमाद्यं सर्वज्ञं पुरुषर्षभं सर्वोत्तमं नतोऽस्मीत्यन्वयः । यो भवभयमपहन्तुं भृत्यवर्गान् ज्ञानामृतं पाययन्नास्ते । अमृतसाम्यमुपपाद्यते । कीदृशममृतम् । ज्ञानविज्ञाने एव सारं स्वादु यस्य तत्तथा । पुनरमृत-साम्यमुपपाद्यते । निगमकुमुददभ्रं पूर्वोक्तं ज्ञानं निगमलक्षणं कुमुदैकदेशसिद्धम् । अमृतमप्युत्तमं भवति । अत इदमपि वेदवेद्येषु सारं श्रेष्ठम् । पुनः कीदृशम् । उदधिकल्पं समुद्रकल्पम् । अधिकारिणां योग्यताविशेषात्पूर्णत्वेन समानम् । एतादृशं ज्ञानामृतं भृङ्गवत् । प्रथमार्थे वतिः । तथा च भृङ्गराजो यथा स्वभृत्यान्पुष्परसं पाययति तथा भृत्यवर्गान्पाययन्नास्ते तमित्यन्वय इत्यर्थः ॥ ५० ॥

॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे एकोनत्रिंशोऽध्यायः ॥ ११–२९ ॥

प्रमेयचन्द्रिका

अथ शुकाचार्यवर्यो भगवन्तं प्रणमति ॥ भवेति ॥ ज्ञानविज्ञाने साधारणज्ञानात्मयोग्यज्ञाने इतरयोग्यज्ञाने देवादिज्ञाने वा सारभूते यस्मिंस्तत् । निगमकुमुद-दभ्रं वेदाख्यकुसुमैकदेशसिद्धं निगदकुसुमार्थरूपमपिशब्दतोऽल्पमिति वा । अर्थतस्तु वेद्येषु ज्ञातव्येषु सारम् । अत एवार्थमपेक्ष्यापारसमुद्रकल्पम् । स महिमामृतं भृत्यवर्गान् । भृङ्ग-वद्भङ्गो भृङ्गीमिव पाययन् पाययति । तं पुरुषश्रेष्टं सर्वोत्तमं विष्णुसंज्ञं श्रीकृष्णं वेदव्यासं चाहं नतोऽस्मीत्यर्थः ॥

॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायाम् एकोनत्रिंशोऽध्यायः ॥