परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत्
॥ अथ अष्टविंशोऽध्यायः ॥
श्रीभगवानुवाच–
परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् ।
विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
परस्वभावकर्माणि यः प्रशंसति निन्दति ।
स आशु भ्रंशते स्थानादसत्याभिनिवेशतः ॥ २ ॥
तात्पर्यम्
‘न प्रशंसेत निन्द्यांस्तु प्रशंस्यान्नैव निन्दयेत् । उभयं यः करोत्ये-तदसत्यात्स पतत्यधः । यः प्रशंस्यान्न प्रशंसेन्निन्द्यो येन न निन्द्यते । सोऽपि तद्वदधो याति यतोऽरिवदुदासक’ इति सत्कारे ॥ प्रकृत्या पुरुषेण च सहैकेन परात्मना व्याप्तमेकात्मकम् । तथा पश्यत एव यथार्थज्ञानं भवति ॥ १ ॥
पदरत्नावली
हरेः परमस्वातन्त्र्यं तदधीनसत्ताकत्वेन जगतोऽत्यन्तमस्वातन्त्र्य-मेतादृशतत्वज्ञानेन सत्यबन्धनिवर्तनं नाभेदज्ञानेनेत्यादिकमुपदिशत्यस्मिन्नध्याये । तत्रादौ दुर्जनस्वभाव-तत्कृतपापकर्माप्रशंसननिन्दाभ्यां सज्जनस्वभावतदनुष्ठितपुण्यकर्मस्तुत्यनिन्दाभ्यां चावश्यमवस्थेयं पुरुषेणेति शिक्षयति परस्वभावेत्यादिना । परोऽरिपरमात्मनोरित्यतः परः शत्रुः, जीवब्रह्मणोर्वैलक्षण्यसत्यताया असहमानत्वादिति शेषः । तस्य यः स्वभावः यानि च तदाचरितानि पापकर्माणि तानि सर्वाणि न प्रशंसेन् न प्रशंसयेच्च । निन्दयेन् निन्देच्च । किञ्च परः परमात्मा, परे श्रीनारायणे स्वभाव आत्मा मनो यस्य स तथा । यद्वा परो लोकबाह्यो ज्ञानी तस्य स्वभावस् तेनाचीर्णानि पुण्यकर्माणि च इतरैर्न गर्हयेत् स्वयं न गर्हेच्च । प्रत्युत प्रशंसेत् प्रशंसयेच्च । एतादृशः पुरुषो दुर्लभ इति तत्राह– विश्वमिति । प्रकृत्या चेतनया पुरुषेण हिरण्यगर्भेण सह स्थितं विश्वमेकेन परमात्मना आत्मकं व्याप्तमेकात्मकं पश्यन् स यथार्थज्ञानी भवितैव, अतो न दुर्लभः । अनेन तथा पश्यत एव यथार्थज्ञानं भवतीत्युक्तं भवति । ‘‘न प्रशंसेत निन्द्यांस्तु प्रशंस्यान्नैव निन्दयेत् । उभयं यः करोत्येतदसत्यात् स पतत्यधः । यः प्रशंस्यान्न प्रशंसेन्निन्द्यो येन न निन्द्यते । सोपि तद्वदधो याति यतोऽरि-वदुदासकः’’ इति वाक्यात् परस्वभावकर्मणां प्रशंसा निन्दा च न कार्येति प्रतीतार्थः किं न स्यादितीयं शङ्का दूरोत्सारितेति ज्ञातव्यम् ॥ उक्तार्थानङ्गीकारे बाधकमाह– परस्वभावेति । परोऽन्यो हरिविमुखत्वेन निन्द्यस् तस्य स्वभावकर्माणि यः स्तौति, परो वरणीयः स्तुत्यः श्रीहरिपरायणस् तस्य स्वभावकर्माणि यो निन्दति स पुरुषो ऽसत्याभिनिवेशतो मिथ्याज्ञानाभिनिवेशतः स्वस्थानाद् भ्रंशते अन्धन्तमो यातीत्यन्वयः । यः प्रशंस्यानित्यादेरस्याप्युक्त एवार्थः ॥ १,२ ॥
श्रीनिवासतीर्थीया
परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् । विश्वमेकात्मकं पश्य-न्नित्यत्र सर्वस्यैकत्वात्कस्यापि प्रशंसा निन्दा न कार्येति विरुद्धं प्रतीयते । परशब्दस्याप्यर्थो न ज्ञायतेऽतः प्रमाणेनैव तदभिप्रायमाह ॥ नेति । अनेन परशब्दो निन्द्यप्रशंस्यपर इति सूचितं भवति । द्वितीयार्धेन द्वितीयश्लोको विवृतः । ननु यथा निन्द्यप्रशंसा न कार्या तथा तन्निन्दाऽपि न कार्या किम् । तथा प्रशंस्यनिन्दा यथा न कार्या तथा तत्प्रशंसाऽपि न कार्या किं नेत्याह ॥ य इति । तद्वत्प्रशंस्यनिन्दको निन्द्यप्रशंसकश्च यथाऽधो याति तद्व-दित्यर्थः । कुत इत्यत आह ॥ यत इति । उदासको निन्द्ये निन्दादौ प्रशंस्ये प्रशंसा-दाविति शेषः । तथा चानर्थकफलश्रवणादुदासकस्यावश्यं तत्कार्यमिति भावः । अभेद-निरासायार्थमाह ॥ प्रकृत्येति । तेन सहयोगे तृतीयेत्युक्तं भवति । ननु निन्द्ये स्वभावभूतं निन्द्यत्वादिकं प्रशंस्ये च स्वभावभूतं प्रशंसादिकं कथं ज्ञेयमित्याशङ्कापरिहाराय प्रवृत्तो विश्वमेकात्मकमित्यर्धः । तेन कथं सा शङ्का परिहृतेत्यतस्तदभिप्रायमाह ॥ तथेति । इदं सर्वं जगत्प्रकृत्यादिभिर्व्याप्तमिति पश्यत एवेत्यर्थः । यथार्थज्ञानं निन्द्ये निन्द्यत्वप्रकारकं स्तुत्ये स्तुत्यत्वप्रकारकम् । निन्द्यान्निवर्तेति ।
यद्वा । ननु निन्द्यप्रशंसा न कार्येत्युक्तं तदयुक्तम् । तेन प्रशंसाकारणीभूतधनादे-र्दीयमानत्वेन स्तोत्रस्य कर्तव्यत्वात् । तथा स्तुत्यनिन्दा न कार्येत्युक्तं तदयुक्तम् । तादृश-कार्ये क्रियमाणेऽवश्यं तस्य निन्द्यत्वादित्यतो निन्दा वा प्रशंसा वा न कार्या । कुतः । ईश्वरस्य सर्वत्र व्याप्तत्वेन तत्र तत्र स्थित्वा तथा कर्तव्यकरणादित्याशयेनाह ॥ विश्वमिति । यथार्थज्ञानं निन्द्यस्य प्रशंसात्वाभावप्रकारकं प्रशंस्यस्य निन्द्यत्वाभावप्रकारकं ज्ञानम् । मूलार्थे प्रमाणमाह ॥ निन्द्यान्निवर्तेतेति । अन्यथेति मत्वाऽपि निन्द्यादनिवर्तते । कोऽर्थोऽ-निन्दाकरणे मौक्तानन्दह्रासः स्यात् । तस्मादिदं मत्वा निन्द्यान्निवर्तेति वाक्यशेषः । गुणान्कुर्यात् । पूर्णगुणार्थमिति शेषः । ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात्कारणात् । अनित्या गुणा मे न स्युरिति मत्वा तथा दोषाः कथञ्चन नैव स्युरिति मत्वा शुभं कुर्यात् । नन्वशुभान्निवर्तनं किम् । अशुभकरणजनितदोषापनुत्तये इत्याशङ्कायां नेत्याह ॥ न त्विति । किन्तु मौक्तिकानन्दह्रासो भविष्यतीति बुद्ध्याऽशुभान्निवर्तेत इत्यन्वयः ॥
ततश्चायं श्लोकार्थः ॥ पूर्वं कर्मयोग उक्तस्तत्प्रसङ्गादन्यदपि प्रमेयं शिक्षयति ॥ परेति । अत्र परशब्दो निन्द्यप्रशंस्यपरः । परस्वभावकर्माणि निन्द्यस्वभावानुसारेण कृतकर्माणि न प्रशंसेत् । तथा पर उत्तमः । प्रशंस्य इति यावत् । तत्स्वभावानुसारिकर्माणि न गर्हयेत् । कुतः । यः परस्वभावकर्माणि निन्द्यस्वभावानुसारिकर्माणि न निन्दयति । तथा प्रशंस्य-स्वभावानुसारिकर्माणि न प्रशंसति स आशु स्थानाद्भ्रश्यतेऽधो याति । कुत इत्यत उक्तम् ॥ असत्येति । असत्यभाषित्वप्राप्तेरित्यर्थः । कथम् । प्रशंस्ये निन्दाया अभावात्तत्करणेऽ-सत्यभाषित्वम् । तथा निन्द्ये प्रशंसाया अभावात्तत्करणेऽसत्यभाषित्वं प्राप्तमेव । तथा च नानृतात्पातकं परमित्युक्तेरनृतभाषणेनाधः पातो भवतीति कृत्वा निन्द्यप्रशंसा प्रशंस्यनिन्दा न कार्यैव । ननु स्यादेतत् । यदि परस्वभावभूतं निन्द्यत्वं प्रशंस्यत्वं वा ज्ञातुं शक्यं स्यात्तदेव कथं ज्ञेयमित्यत उक्तम् ॥ विश्वमिति । प्रकृत्या सरस्वत्या पुरुषेण ब्रह्मणा सह स्थितं विश्वमेकेन प्रधानेन परमात्मना एकात्मकं व्याप्तं पश्यन् यस्तस्य यथार्थज्ञानं निन्द्ये निन्द्यत्व-प्रकारकं प्रशंस्ये प्रशंस्यत्वप्रकारकं ज्ञानं भवतीति । तथा च सर्वं जगत्प्रकृतिपुरुषपरमात्मभि-र्व्याप्तं तैः प्रेरितं सत् स्वस्य योग्यतानुसारेण कर्म करोतीत्येवं ज्ञानवतो हरिप्रसादान्निन्द्ये निन्द्यत्वप्रकारकं प्रशंस्ये प्रशंस्यत्वप्रकारकं ज्ञानमपि भवतीति ॥ १,२ ॥
दुर्घटभावदीपिका
परस्वभावकर्माणि परस्य शत्रोः । निन्द्यस्येति यावत् । स्वभावकर्माणि न गर्हयेत् । को निन्द्यः कः स्तुत्य इत्यत आह ॥ विश्वमिति । प्रकृत्या पुरुषेण च सहितं विश्वमेकात्मकमेक आत्मा स्वरूपं यस्य तदेकात्मकं पश्यन् । निन्द्य इति शेषः । प्रकृत्या पुरुषेण च सहितं विश्वमेकात्मकमेकेन प्रधानेन नारायणेन व्याप्तं पश्यन् । स्तुत्य इति शेषः । निन्दास्तुति-करणेत्यस्य निन्दायाः करणे बाधकमाह ॥ परेति । यः परस्वभावकर्माणि निन्द्यस्वभावकर्माणि प्रशंसति । स्तुत्यस्वभावकर्माणि निन्दति । सोऽसत्याभिनिवेशितोऽविद्यमानगुणदोषप्रतिपादनाभि-निवेशितादाशु स्थानाद्भ्रश्यत इति । एतेन विश्वमेकात्मकमित्यर्धमसङ्गतमिति दूषणं परास्तम् । ईश्वराभेदज्ञानिनो निन्द्यत्वमीश्वरभेदज्ञानिनः स्तुत्यत्वं वक्तुम् इदमर्धं प्रवृत्तमित्यङ्गीकारात् ॥ ता.अर्थः ॥ निन्द्यान् ईश्वराभेदज्ञानिनो न प्रशंसेत । प्रशंस्यान् ईश्वरभेदज्ञानिनो नैव निन्दयेत् । य एतदुभयं करोति सोऽसत्यादविद्यमानगुणदोषप्रतिपादनादधः पतति । भागवते उपलक्षणत्वेन स्तुत्यस्तुते-र्निन्द्यनिन्दायाश्च कर्तव्यत्वमभिप्रेतमिति मनसि निधाय स्तुत्यस्तुत्यकरणे निन्द्यनिन्दाया अकरणे च बाधकमाह ॥ यः प्रशंस्यानिति । यः प्रशंस्यान् ईश्वरभेदज्ञानिनो न प्रशंसेत् । यो निन्द्य ईश्वराभेदज्ञानी न निन्द्यतेऽतस्तद्वदीश्वराभेदज्ञानी स्तावकेश्वरभेदज्ञानिनिन्दकवत् । उदासकोऽपि स्तुत्यस्तुतिनिन्द्यनिन्दामकुर्वाणोऽप्यधो यातीत्येतत्प्रमाणप्रसिद्धमतः स्तुत्यस्तुतिर्निन्द्यनिन्दा च । कर्तव्येति शेषः । प्रकृत्या पुरुषेण चेत्यत्राध्याहार्यं दर्शयति ॥ प्रकृत्येति । एकात्मक-मित्यस्यार्थमाह ॥ एकेनेति । एकेन परमात्मना सर्वं व्याप्तमिति ज्ञानिनः स्तुत्यत्वं कुत इत्यत आह ॥ तथा पश्यत इति । यत एकेन परमात्मना सर्वं व्याप्तमिति दृष्टवत एव ज्ञानं यथार्थज्ञानं भवति । अतोऽयं स्तुत्य इति शेष इति । एतेन यतोऽरिवदुदासक इत्येतद्व्यर्थमिति दूषणमपास्तम् । अरिवदुदासकानामप्यधः पातो भवतीत्यस्य प्रमाणप्रसिद्धत्वं वक्तुमिदं प्रवृत्तमित्यङ्गीकारात् ॥१,२॥
प्रमेयचन्द्रिका
अत्र भगवदाराधनोपयुक्तधर्मशिक्षा भगवता क्रियते ॥ परेत्यादिना ॥ अत्र परस्वभावकर्माणि न प्रशंसेन्न निन्दयेदित्युक्त्वा उत्तरश्लोके तत्कर्त्तुरनर्थ उच्यते । तद-युक्तम् । गुर्वादिप्रशंसावश्यकर्तव्यत्वस्य गुरुं प्रकाशयेद्धीमान् । ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दका इत्यादावुक्तत्वादित्याशङ्कां प्रमाणेन परिहरति ॥ न प्रशंसेतेति ॥ तुशब्दो विशेषद्योतकः । निन्द्यान् हरिभक्तद्वेषिणः । प्रशंस्यान् भगवद्भक्तान् । न निन्दयेत् । शिष्यादिभिर् निन्दयेत् ॥ असत्यादिति ॥ प्रशंसा हि गुणाभिधानम् । असत्सु गुणाभावा-त्तत्प्रशंसा असत्यवचनमेव । दोषोक्तिर्निन्दा सा सत्स्वसत्यरूपैव । नानृतात्पातकं परम् । अत उभयं कुर्वन्नसत्यात्पततीत्यर्थः । न केवलमेतावत् । प्रत्युत सज्जनप्रशंसा दुर्जननिन्दा च कार्येत्याह ॥ य इति ॥ प्रशंसाद्यकर्त्तुरधोगतिरयुक्ता । औदासीन्येनानिष्टफलायोगादित्यत आह ॥ यत इति ॥ सत्सु गुणदर्शनेऽपि तदुक्तेः प्रसक्तत्वेऽप्यवचनं द्वेषनिमित्तकम् । एवमसत्सु विद्यमानदोषानुक्तिर्वैरिणि स्नेहनिमित्तका । उभयथाऽपि सत्प्रशंसाद्यकर्त्ता वैरिवदेवेति युक्ता अधोगतिरिति भावः । तदुक्तमुदासीनोऽरिवद्वर्ज्य इति ।
एतेन मूले परोऽरिपरमात्मनोरित्युक्तेः परस्यारिणः हरिद्वेषिणः स्वभावकर्माणि न प्रशंसेत् । परस्योत्तमस्य हरिभक्तस्य स्वभावभूतानि कर्माणि न निन्दयेदिति योजनोक्ता भवति । अथ प्रकृत्या पुरुषेण चैकात्मकमभिन्नं विश्वं पश्यन्नित्यन्यथाभानाद्योजयति ॥ प्रकृत्येति ॥ सहयोगे तृतीया । एकशब्दः प्रधानवाचकः । सर्वप्रधानभगवत्पर आत्मशब्दः । अत सातत्यगमन इत्यस्मान्मन्प्रत्यये निष्पन्नो व्याप्तत्वं वक्ति । तथा प्रकृत्या महालक्ष्म्या सरस्वत्या च पुरुषेण विरिञ्चेन सह एकेन परमात्मना व्याप्तं विश्वमित्यर्थो लभ्यते । चतुर्मुखस्तु सर्वान्तर्व्याप्तदेहो महातपा इत्युक्तेर्नानुपपत्तिः ॥
ननु प्रतीतार्थ एव किं न स्यात् । किमेकशब्दस्य प्राधान्यार्थत्वमात्मशब्दस्य व्याप्त्यर्थत्वं कल्प्यत इत्यत आह ॥ तथा पश्यत इति ॥ यदि विश्वमेकात्मकमित्यत्र चेतनाचेतनैक्यमर्थः स्यात् । तर्हि पश्यन्नित्युक्तज्ञानमयथार्थं भवेत् । चेतनाचेतनैक्यस्य सर्वप्रमाणविरुद्धत्वात् । अतो विश्वमेकेन परमात्मना व्याप्तमित्येव वक्तव्यम् । तथा पश्यत एव ज्ञानं यथार्थं भवति । अस्यार्थस्यान्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इत्याद्यनेक-प्रमाणसिद्धत्वात् । तस्मादिदमेव व्याख्यानं युक्तमिति भावः ॥ १,२ ॥
तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।
मायां प्राप्नोति मृत्युं वा तद्धि नानार्थदं मनः ॥ ३ ॥
तात्पर्यम्
‘तैजसाहङ्कृतेर्जात इन्द्रियग्रामके परात् । निद्रया वशमापन्ने जीवः स्यान्नष्टचेतनः । अतो विष्णोर्वशे सर्वं तेन व्याप्तमिति स्मरेदि’ति च ॥ ‘निद्रा चैव सुनिद्रा च द्विधा निद्रा प्रकीर्तिता । तत्र निद्रा भवेन्नित्या सुनिद्रा मृतिकालगे’ति पाद्मे । ‘मनोमात्रस्वरूपत्वात्स्वप्नो मायेति कथ्यत’ इति च । तथा नानार्थदं मन एव । मनसा हि विषयाः प्रतीयन्ते ॥ ३ ॥
पदरत्नावली
असत्याभिनिवेशे निमित्तमाह– तैजस इति । निद्राशब्देन निद्रा सुनिद्रेति द्विविधा निद्रोच्यते । तत्र निद्रा स्वापापरपर्याया सुनिद्रा मरणकालीना । तथा चैवमस्य श्लोकस्यार्थः । तैजसे तैजसाहङ्कारकार्ये श्रोत्रादीन्द्रियगणे मनसि च निद्रया दैनन्दिनस्वापेनापन्ने सुप्ते सति पिण्डस्थो जीवः नष्टचेतनः सुप्तो भवति । तदा स्वापे ईश्वरेच्छाप्रबोधितमनोगतसंस्कारजन्यत्वान्मायां स्वप्नं प्राप्नोति । सुनिद्रयाऽऽपन्ने मृत्युं मरणं प्राप्नोति । नानाविधसंस्काराविष्टं मनः स्वप्नदशायां नानार्थदं नानार्थप्रदं दृष्टं हि । जाग्रदवस्थायां किमु वर्णनीयमिति भावेनाह– तदिति । तन्मन एव नानार्थदं नानाविधविषयप्रत्यायकं हि प्रसिद्धत्वात् । (अतः) मन एव मिथ्याज्ञाननिमित्तमिति भावः । ‘‘तैजसाहङ्कृतेर्जात इन्द्रियग्रामके परात् । निद्रया वशमापन्ने जीवः स्यान्नष्टचेतनः । अतो विष्णोर्वशे सर्वं तेन व्याप्तमिदं स्मरेत्’’ इति । ‘‘निद्रा चैव सुनिद्रा च द्विधा निद्रा प्रकीर्तिता । तत्र निद्रा भवेन्नित्या सुनिद्रा मृत्युकालगा’’ इति । मनोमात्रस्वरूपत्वात् स्वप्नो मायेति कथ्यते’’ इत्येतैर्वाक्यैरुक्त एवार्थोऽङ्गीकार्य इति ॥ ३ ॥
श्रीनिवासतीर्थीया
ननु सर्वजगत्तेन व्याप्तमित्युक्तं तत्कुत इति चेन्न । सर्वस्य तदधीनत्वात् । तदपि कुत इत्यतः सुषुप्त्याद्यवस्थानां तदधीनत्वेन तद्दृष्टान्तेनावस्थात्वादिति हेतुना सर्वस्येशाधीनत्वं सिद्ध्यतीत्याशयेन स्वप्नमरणनिद्रावस्थानामीश्वराधीनत्वमस्तीत्याह ॥ तैजस इति । एतत्प्रकृतासङ्गतत्वाद्दुर्गमार्थत्वाच्च व्याचष्टे ॥ तैजस इति । परात्परमात्म-प्रेरणयेत्यर्थः । अतो विष्णोर्वशे सर्वमित्यनेन प्रकृतोपयोगो दर्शितः । ननु निद्रयेन्द्रियाणा-मुपरमे सति मृत्यादेरभावात्कथमेतदित्यत आह ॥ निद्रा चेति । मृतिकालगा मरणकाले विद्यमाना कालनिद्रेत्यर्थः । तथा च निद्रा द्विविधा । नित्यनिद्रा सुनिद्रा चेति । ताभ्यां यथाक्रमं मायां मृतिं प्राप्नोतीत्यर्थः । मायां प्राप्तोतीत्युक्तम् । तत्रानिर्वचनीयाविद्या मायेति प्रतीयतेऽतो मायाशब्दार्थं प्रमाणेनाह ॥ मनोमात्रस्वरूपत्वादिति । मनोगतवासनामयत्वा-दित्यर्थः । तद्धि नानार्थदमित्येतद्व्याचष्टे ॥ तथेति । स्वप्नावस्थायामीश्वरप्रेरितं मन एव स्वनिष्ठवासनाद्वारा गजतुरगादिनानार्थदमित्यर्थः । तर्हि तदानीमिन्द्रियाणामुपरतत्वात्कथं स्वाप्नार्थप्रतीतिरित्यत आह ॥ मनसा चेति । विषयाः स्वप्नार्थाः ॥
ततश्चेयं योजना । तैजसे तैजसाहंकारकार्ये इन्द्रियगणे परात्परमात्मप्रेरणया जायमाना या निद्रा नित्यनिद्रा तया वशमापन्ने उपरते सति पिण्डस्थो देहस्थो जीवो नष्टचेतनो ज्ञानरहितो भवति । यदा ज्ञानशून्यो भवति तदा मायां वासनामयं स्वाप्नार्थम् । स्वप्नमिति यावत् । पश्यति । तदेव विवृणोति ॥ तद्धीति । मनः स्वनिष्ठसंस्कारद्वारा ईश्वरप्रेरणया गजतुरगादिनानार्थप्रदं हि । अतो युक्तमुक्तम् । तथा निद्रया परमात्मनः सकाशादुपजाय-मानयेन्द्रियगणे उपरते सति पिण्डस्थो नष्टचेतनः सन् मृत्युं प्राप्नोतीति । अत्रेश्वरः सर्वेन्द्रियोपरमं कृत्वा निद्रां ददाति । पश्चात्तन्मध्ये वैकारिकत्वादेकं मनो विहाय तैजस-सर्वेन्द्रियोपरमं कृत्वा स्वप्नं ददाति । तत्र च मनसो नानाविधार्थपरिणामशक्तिं ददातीत्ये-तदवस्थात्रयस्य भगवदधीनत्वं प्राप्तमिति ध्येयम् ॥ ३ ॥
प्रमेयचन्द्रिका
विश्वमेकात्मकमित्युक्तं सर्वस्य भगवद्वशत्वमुपपाद्यते ॥ तैजस इति ॥ दुर्गमार्थत्वात्सङ्गतिं सूचयन् प्रमाणेन व्याचष्टे ॥ तैजसेति ॥ तैजस इत्यस्यार्थ-स्तैजसाहंकृतेर्जात इति । तद्विशेषं दर्शयति ॥ परादिति ॥ परात्परमात्मन इति शेषोक्तिः । निद्रयाऽऽपन्ने निद्राया वशमापन्न उपपन्ने सति । पिण्डस्थ इत्यस्यार्थो जीव इति । स्यादिति शेषोक्तिः । नष्टचेतन इति निगदव्याख्यानं नष्टज्ञान इत्यर्थः । मूले अस्य श्लोकस्य प्रकृतोपयोगं दर्शयति ॥ अत इति ॥ विष्णोरेव स्वप्नसुप्त्यादिप्रदत्वा-दित्यर्थः । एतेनैकात्मक इति भगवतो व्याप्तत्वम् । तेन च तद्वशत्वं चोक्तं तदुपपादनाय तैजस इति श्लोकप्रवृत्तिरिति सूचितं भवति ।
प्रमाणेन निद्रां विवेचयति ॥ निद्रेति ॥ सुनिद्रा दीर्घनिद्रा । द्विधैव । निद्रा प्रतिदिने भाविनी । मृतिकालगेति । मरणकालभवा निद्रयोपरतिः सुनिद्रेत्युच्यत इत्यर्थः । अथ मायापदं प्रमाणेन व्याचष्टे ॥ मनोमात्रेति ॥ मनउपादानकवासनामयत्वादित्यर्थः । उक्तं चानुव्याख्याने । मनोरूपाश्च वासनाः । वासनामात्रमूलत्वादिति । तत्वप्रकाशिकायां च सन्ध्यं मायामात्रमित्यादि । चतुर्थपादं व्याचष्टे ॥ तथेति ॥ अर्थ इत्यस्यार्थो विषयेति । एतेन मायां स्वप्नं प्राप्नोतीत्येतदुपपादनाय चतुर्थपादप्रवृत्तिरिति सङ्गतिः सूचिता भवति । मनसो विषयप्रदत्वं कथमित्यत आह ॥ मनसा हीति ॥ चक्षुरादिजनितमनोवृत्तिरूपज्ञानेन विषयाः प्रतीयन्ते । विषयीक्रियन्ते । तज्जनितमानसवासनोपादानकाः करितुरगादयो विषयाः स्वप्ने मनसा प्रतीयन्ते दृश्यन्ते हि यस्मात्तस्मात्स्वप्ने नानाविषयदं मन एवेत्यर्थः ।
तदयं मूलार्थः ॥ तैजसाहङ्कारजन्ये बाह्येन्द्रियग्रामे निद्रया प्रतिदिनं भाविन्या आपन्ने सङ्गत उपरते सतीति यावत् । पिण्डे देहे स्थितो नष्टज्ञानः सन् मायां स्वप्नं प्राप्नोति । मनसोऽप्युपरतिं सुप्तिं प्राप्नोतीत्यध्याहार्यम् । सुनिद्रयाऽऽपन्ने इन्द्रियदेवानामंशेनाधिदेवप्राप्त्या आत्यन्तिकोपरतौ सत्यां मृत्युं प्राप्नोतीति व्यवस्थितविकल्पो वाशब्दः । स्वप्ने करितुरगाद्यर्थ- दर्शनं कथं भवतीत्यत उक्तम् ॥ तद्धीति ॥ यथा स्वप्ने नानार्थप्रतीतिर् भवति तत्तथा नानाविषयप्रदं मन एव । मनस्स्वयं वासनात्मकतया परिणम्य तदुपादानककरितुरगदि-स्वाप्नार्थपरोक्षकरणभूतं मनो जनयति । एतदेव मनसो विषयप्रदत्वमिति ॥ ३ ॥
किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् ।
वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
तात्पर्यम्
एकं तु शुभमुद्दिष्टमशुभं द्वैतमुच्यते । पुंसोऽशुभस्य किं भद्रं किमभद्रं विशेषतः । सर्वदाऽशुभरूपत्वाद्विशेषोऽत्यल्प एव ही’ति भारते ॥ द्वैतस्याशुभस्य पुरुषस्य कियदल्पमेव हि भद्रमभद्रं वा स्वयोग्यादाधिक्येन न भवति यत्नवतोऽपीत्यर्थः । अतस्तद्विषये ध्यातमुक्तं च शुभमनृतमेव । ‘उच्यते ध्यायते वापि कुनरं प्रति यच्छुभम् । असत्यमेव भवति स्वभावोऽसत्यमेव यदि’ति प्रद्योते ॥ ४ ॥
पदरत्नावली
अवस्तुनो नित्याप्रतिहतवस्त्वजानतो द्वैतस्याशुभस्य मिथ्याज्ञानिनः पुंस आशीर्वादादिना किं भद्रं भवति । कालगुणात् स्वाद् गुणाद्वा भवति चेदपि तत् कियदेव अत्यल्पमेव । भद्रवदभद्रमपि विशेषापादकं न भवतीत्याह– किमभद्रमिति । नित्यमशुभात्मनस्तस्य विशेषतोऽभेदं किम् । न किमपि भवति चेदपि तत् कियदेव । यत्नवतोपि मायावादिनः स्वयोग्यादाधिक्येन न भवतीति यस्मात् तस्मादशुभं जीवमुद्दिश्य सज्जनेन वाचा उदितमुक्तं मनसा शुभादिकं भवत्विति ध्यातं चिन्तितमपि अनृतमसत्यमेव । विशेषापादकं न भवतीत्यर्थः । अनेन वैष्णवेनावैष्णवमुद्दिश्य तत्प्रशंसादिवदाशीर्वादादिकं न कर्तव्यमित्युक्तं भवति । ‘‘उच्यते ध्यायते वापि कुनरं प्रति यच्छुभम् । असत्यमेव भवति स्वभावोऽसत्वमेव यत्’’ इति वचनात् । द्वैतनिषेधोऽत्र क्रियत इत्यन्यथाव्याख्यानं चशब्दसूचितेन ‘‘एकं तु शुभमुद्दिष्टमशुभं द्वैतमुच्यते । पुंसोऽशुभस्य किं भद्रं किमभद्रं विशेषतः । सर्वदाऽशुभरूपत्वाद् विशेषोऽत्यल्प एव हि’’ इति वाक्येन निरस्तत्वादुपेक्षणीयमिति भावः
॥ ४ ॥
श्रीनिवासतीर्थीया
ननु यदुक्तं विनिन्द्ये निन्दा कार्या प्रशंस्ये प्रशंसा कार्येति तदयुक्तम् । निन्द्यादीनामपि प्रशंसनीयशुभगुणसद्भावादित्यतः । सत्यम् । सर्वदाऽशुभरूप-त्वेन तस्याल्पत्वाद्विद्यमानमप्यविद्यमानप्रायम् । ततश्च निन्द्यत्वादिकं सम्भवतीत्याह ॥ किं भद्रमिति । अत्र मिथ्यात्वप्रतीतिनिरासाय व्याचष्टे ॥ एकमिति । औतमित्यर्थः । ज्ञानार्थयोरैक्यादशुभं द्वैतमित्युच्यते । अर्थापेक्षयाऽन्यथात्वादित्यर्थः । अशुभरूपस्याप्यभद्रम-स्त्येवातः कथमाक्षेप इत्यत उक्तम् ॥ विशेषत इति । अमङ्गलरूपस्य तस्य भद्रं नास्त्येव । प्रतीयमानमपि भद्रं कियदल्पम् । अभद्रमपि विशेषतः किमस्तीति भावः । कुत इत्यतोऽवस्तुन इत्येतद्व्याचष्टे ॥ सर्वदाऽशुभरूपत्वादिति । अवस्तुनोऽस्वतन्त्रस्य सर्वदाऽ-शुभरूप एव तिष्ठति । कदाऽप्यशुभापगमने स्वात्रन्त्र्याभावादिति भावः । कियदित्यस्यार्थ-माह ॥ विशेषत इति । प्रतीयमानशुभरूपविशेषः । प्रमाणेन व्याख्यातमेव स्ववचनेन व्याख्याति ॥ द्वैतस्येति । यत्नं कुर्वतोऽप्यभद्रं स्वयोग्यतादाधिक्येन न भवति । स्वरूप-भूताशुभादधिकमशुभं यत्नेनापि न भवति । कुतः । सर्वदाऽशुभरूपत्वात् । तथा च स्व-भावतोऽशुभस्य नूतनतया प्राप्यमशुभं किमस्तीति भावः । द्वितीयार्धं व्याचष्टे ॥ अत इति । श्लोकं प्रमाणेनैव व्याख्याति ॥ उच्यत इति । अयमर्थः । द्वैतस्याशुभरूपस्य चावस्तुनः । अस्वतन्त्रपुरुषस्य भद्रं किमस्ति । यद्यस्ति तत्कियत् । अल्पमेव । अभद्रं च किमस्ति । न किमपि । तर्ह्यस्ति खलु यद्यस्ति तर्हि तत्कियत् । विशेषतः स्वरूपा-दाधिक्येन नूतनतया यत्प्रशंस्यत्वादिकं तदनृतमेवेति ॥ ४ ॥
प्रमेयचन्द्रिका
एवं भगवतः सर्वावस्थापे्ररकत्वाद्विश्वमेकात्मकमित्यत्रोक्तं सर्वस्य तद्वशत्वं युक्तमित्युपपाद्य भगवद्वेषिप्रशंसा न कार्येत्युक्तम् । तेन यत्सूचितमसज्जनस्य शुभा-शंसनादेरकार्यत्वं तत्सोपपत्तिकमुपपादयितुं किं भद्रमिति श्लोकं केचिदेवं व्याचक्षते । अवस्तुनो मिथ्याभूतस्य द्वैतस्य जगतः भद्रादिकं किं कियच्च न किमपि । मनोवा-ग्गोचरत्वात्कथं मिथ्यात्वं येन भद्रादिधर्माभाव इति न वाच्यम् । वाचा यदुदितं मनसा ध्यातं तदप्यनृतमिति । एतद्व्याख्यानं सर्वप्रमाणविरुद्धमित्याशयवान्प्रमाणमुदाहृत्य व्याचष्टे ॥ एकमिति ॥ यच्छुभं तदेकमित्युद्दिष्टम् । एकप्रकारत्वान्मुख्यत्वात् । यदशुभं तद्द्वैत-मित्युच्यते । अत्रैकपदार्थोक्तिर् द्वैतपदस्योक्तार्थावधारणायेति ज्ञेयम् । एवं द्वैतपदस्यार्थ-मुक्त्वा पूर्वार्धार्थमाह ॥ पुंस इति ॥ अशुभस्यापि दुर्योधनादेर्भद्रमैश्वर्यादिकं दृश्यत इत्यत उक्तम् ॥ विशेषत इति ॥ अतिशयेनेत्यर्थः । तद्विवृणोति ॥ विशेष इति ॥ आगन्तुकः स पदादिरूपो विशेषोऽत्यल्प एवाल्पकालीन इत्यर्थः । भद्राभावः कुत इत्यत उक्तम् ॥ सर्वदेति ॥ अशुभरूपत्वं तात्कालिकमिति भावेनोक्तम् ॥ सर्वदेति ॥ एतेन मूले द्वैतस्येत्येतद्धेतुगर्भमिति सूचितं भवति । इति भारते उक्तत्वादित्येवार्थ इति योज्यम् ।
द्वैतस्येत्यनुवादः । अशुभस्य पुरुषस्येति व्याख्यानम् । कियदित्यनुवादः । उत्तरार्ध-गतैवशब्दस्यात्रावृत्तिमभिप्रेत्य व्याख्यातम् ॥ अत्यल्पमेवेति ॥ हीति मोघाशा मोघकर्माण इति प्रमाणसिद्धिं दर्शयति । ननु महाप्रयत्ने कृते भवत्यधिकं शुभं तत्कथमेवेत्यवधार्यत इत्यत उक्तम् ॥ स्वयोग्यादिति ॥ अत्राभद्रमित्युक्तिः शुभस्वरूपस्याभद्रमित्यल्पमिति दृष्टान्तार्थमुक्तम् । अत्रोत्तरार्धमेतत्सङ्गततया व्याचष्टे ॥ अत इति ॥ यतोऽशुभस्वरूपस्य विशेषतो भद्रफलयोग्यता नास्ति । तस्मादयोग्यविषये अस्य शुभं भवेदिति ध्यातं चिन्तितम् । यच्चास्य शुभं भूयादित्याशीर्वादरूपेणोक्तं च तदनृतं भवेदित्यर्थः । ध्यातस्या-नृतत्वमविद्यमानविषयत्वमिति ज्ञेयम् ।
अत्र प्रमाणमाह ॥ उच्यत इति ॥ स्वभावो योग्यता । असत्यमशुभम् । तदयं मूलार्थः । अवस्तुनः वसनाद्वासनाद्वस्तु नित्याप्रतिहतं यत इत्युक्तेर् वस्तु परम्ब्रह्म । तद्रहितस्य तद्द्वेषिण इति यावत् । द्वैतस्य सर्वदाऽशुभरूपस्य किं भद्रं न किमपि । यद्दृश्यते तदपि कियदत्यल्पमेव । वाशब्द उपमायाम् । यथा सज्जनस्याशुभं किमपि नैव तथा । दृश्यमानं कियदल्पकालीनमिति । महाप्रयत्नेऽपि न बहुकालमिति भावः । यत एवं तमोयोग्यानामशुभप्राप्त्यैकयोग्यता । अतस्तद्विषय आशीर्वादरूपेण यद्वाचोदितं मनसा ध्यातं च शुभं तदनृतमेवेति । ततश्चासज्जनविषये शुभाशंसनात्प्रशंसा न कार्येति भावः ॥ ४ ॥
छायाप्रत्युदकाभासा ह्यसन्तोऽप्यर्थकारिणः ।
एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
तात्पर्यम्
**स्वभावतोऽशुभस्याशुभदेहादिकं नाशुभकारणं तर्हीत्यत आह । छाया प्रत्युदकाभासा इति । ‘व्यपेक्ष्य जीवं देहादि निःशक्तत्वादवस्त्वपि । पुनः शुभाशुभनृणां यच्छेदेव शुभाशुभम् । छाया नीहारकाभासा निःशक्ता अपि कार्यदाः । एवं शुभादिदेहादेर्भवे-त्कार्यं शुभादिकमि’ति सुमते ॥ ‘नीहारः प्रत्युदं चैव धूम्रमित्यभिशब्द्यत’ इति शब्दनिर्णये **
॥ ५ ॥
पदरत्नावली
ननु स्वभावतोऽशुभजीवस्य सदाप्यशुभरूपत्वाद् अन्यस्माच्छुभाशुभयो-रत्यल्पत्वात् तद्विषयशुभवचनादेरप्यनृतत्वाद् अशुभदेहादिकमपि नाशुभकारणमिति तत्राह– छाया-प्रत्युदकाभासा इति । हिशब्दो याथार्थ्ये । यथा छायाप्रत्युदकाभासा जीवमपेक्ष्यासन्तोऽपि निश्शक्ता अपि अर्थकारिणो ऽर्थक्रियाकारिणो दृष्टा एवं देहादयो भावा अमङ्गला अप्यामृत्युतो ऽन्धन्तमः-प्रवेशपर्यन्तं भयमित्युपलक्षणं शुभाशुभफलं यच्छन्ति । अशुभजीवानामिति शेषः । ‘‘नीहारः प्रत्युदं चैव धूम्रमित्यपि शब्द्यते’’ इत्यतः प्रत्युदकं नीहारः । आभासाः सूर्यकादयः । नेदं रजतमितिवन्नेयं छायेति बाधकप्रत्ययानुदयादेतद्दृष्टान्तेन न देहादीनां मिथ्यात्वं विवक्षितं किन्तु निःशक्तत्वमेव । ‘‘व्यपेक्ष्य जीवं देहादि निःशक्तत्वादवस्त्वपि । पुनः शुभाशुभनॄणां यच्छेदेव शुभाशुभम् । छायानीहारकाभासा निःशक्ता अपि कार्यदाः । एवं शुभादिदेहादेर्भवेत् कार्यं शुभादिकम्’’ । एत-द्वचनाद् भयमभयमिति वा पदच्छेदः ॥ ५ ॥
श्रीनिवासतीर्थीया
ननु स्वभावतोऽशुभस्य पुरुषस्य नूतनतया जायमानं भद्रं किमपि नास्तीति यदि तर्हि तस्य प्राप्तमशुभदेहादिकं नाशुभकारणमित्यागतमित्यतः । सत्यम् । तेन देहेन स्वरूपे किमप्यशुभं न जायते किं तर्हि बहिरेवेत्याह ॥ छायेति । असङ्गतत्वादेतत् श्लोकमवतार्य प्रमाणेन व्याचष्टे ॥ स्वभावतोऽशुभस्येति । नाशुभ-कारणम् । नूतनतयेति शेषः । इदानीं व्याचष्टे ॥ व्यपेक्ष्येति । देहादि जीवं व्यपेक्ष्य निःशक्तत्वादवस्त्वपि । शुभाशुभनृणाम् । स्वभावतः शुभाशुभनृणां शुभाशुभं यच्छेदेव । बहिरेवेति शेषः । छाया नीहारकाभासा इत्यनेन छायाप्रत्युदकाभासा इति विवृतम् । प्रत्युदकशब्देन नीहारकमुच्यत इत्युक्तं भवति । असन्तोऽपीत्यस्य व्याख्यानम् ॥ निःशक्ता अपीति । बिम्ब इति शेषः । कार्यदाः । बहिरेवेति शेषः । अनेनार्थकारिण इति पदं विवृतं भवति । देहादेः सकाशादिति शेषः । शुभाशुभकार्यं भवेत् । बहिरिति शेषः । प्रत्युदकशब्दस्य नीहारवाचकत्वेऽभिधानमाह ॥ नीहार इति । अयमर्थः ॥ यथा छाया-प्रत्युदकाभासाश् छायानीहारसूर्यका बिम्बभूतपुरुषे चन्द्रसूर्याद्यपेक्षयाऽसन्तोऽपि निःशक्ता अप्यर्थकारिणो दृष्टाः । बिम्बादन्यत्रेति शेषः । कथं पुमधीना छाया पुरुषे बिम्बे न किञ्चित्करोति । किं त्वन्यत्र । तदाश्रितपुरुषे आल्हादादिकं करोति । तथा चन्द्राधीनो नीहारश्चन्द्रबिम्बे किञ्चिन्न करोति । किं त्वन्यत्र तत्कार्यं शैत्यादिकं करोति । तथा सूर्याधीनः सूर्यकः सूर्यबिम्बे किञ्चिन्न करोति किं त्वन्यत्राग्न्यादिकमुत्पादयति । एवं देहादयो भावा असन्तोऽपि जीवापेक्षया निःशक्ता अपि आमृत्युतो मृत्युपर्यन्तं भयम् । उपलक्षण-मेतत् । अशुभादिकं यच्छन्ति । अशुभजीवानां बहिरेव न स्वरूपे । तथा शुभजीवानां शुभदेहाः शुभादिकमपि न स्वरूपे यच्छन्ति किन्तु बहिरेवेत्यपि द्रष्टव्यम् । तात्पर्ये तथोक्त-त्वादिति ॥ ५ ॥
प्रमेयचन्द्रिका
छायेत्युत्तरश्लोकस्य सङ्गत्यप्रतीतेस्तामाह ॥ स्वभावत इति ॥ अशुभस्वभावस्य पुंसो महाप्रयत्नेऽपि शुभं न भवेत् । तद्विषये महद्भिः कृतमाशीर्वादादिकं व्यर्थमित्युक्तम् । यद्येवं तर्हि स्वभावत एवाशुभभाक्त्वादशुभदेहदुष्कर्मशापादिकं च नाशुभ-कारणं भवेत् । तस्य स्वभावत एवाशुभैकभागित्वात् । प्रयत्नशतेनापि योग्यादाधिक्येन प्राप्त्यभावस्योक्तत्वाद्दुष्कर्मादेरभद्रकारणत्वाभावे च तत्प्रतिपादकवेदशास्त्राप्रामाण्यं स्यादित्या-शङ्का यतः प्राप्ता अतस्तत्परिहारमाह भगवान् ॥ छायाप्रत्युदकाभासा इति श्लोके-नेत्यर्थः ॥ अत्र छाया यथा प्रत्युदकाभासा उदके दृश्यमानसूर्यप्रतिबिम्बादयो सन्तोऽप्यर्थ-क्रियाकारिण एवं मिथ्याभूता अपि देहादयो भयं यच्छन्तीति व्याख्यानमयुक्तम् । बाधका-दर्शनाच् छायादिमिथ्यात्वायोगात् । उदकाभासा इत्येव पूर्त्तेः प्रतिशब्दवैय्यर्थ्याच्चेत्याशयेन प्रमाणेन व्याचष्टे ॥ व्यपेक्ष्येति ॥ जीवसम्बन्धिशुभमशुभं देहादि शरीरकर्मादिकं स्वयं शुभादिस्वभावं जीवमपेक्ष्य अवस्त्वपि । अवस्त्वित्यस्य व्याख्यानम् ॥ निःशक्त-त्वादिति ॥ अवस्त्वशक्तमुद्दिष्टमित्युक्तेर्जीवव्यपेक्षया अवस्त्वपि असमर्थमपि नृणां शुभमशुभं च फलं यच्छेदेव । प्रभुर्हि जीवो जडमपेक्ष्य स्वातन्त्र्यं च जडान्प्रति इति गीताभाष्योक्त-रीत्या जीवाधीनप्रवृत्तिकमिह जीवमपेक्ष्य न शक्तत्वमिति ज्ञेयम् । अशक्तस्य देहादेः कथं कार्यकरत्वमित्यतो दृष्टान्तेनोपपादयति ॥ छायेति ॥ यथैषा पुरुषे छायेति । छाया पुरुषाधीना सिद्धा । नीहारमिव भास्कर इति हिमस्याशक्तत्वम् । न हि प्रतिबिम्बस्य क्रिया सहि बिम्बक्रिययैव क्रियावान् । इत्याभासपदोक्तस्य प्रतिबिम्बस्य बिम्बाधीनत्वं च निश्चित-मेव । एवं निःशक्ता अपि छायाद्या कार्यदाः । छाया शीतापहारी । नीहारः शीतदः । आभासो बिम्बसौष्टवादिज्ञापकः । यद्वा जले नात्मनमीक्षेतेत्यादेरिव च्छाया पुण्यं हन्ति पुरातनम् । वेदविद्ब्राह्मणच्छाया न दुष्यति कदाचनेत्युक्तेश् छाया शुभाशुभकार्यप्रदा । नीहारोऽपि सस्याद्यभिवृध्द्यनारोग्यरूपशुभाशुभकार्यदः । दर्पणजलगतमुखप्रतिबिम्बः शुभा-शुभप्रद इत्यर्थः । अनेन पूर्वार्धो व्याख्यातः । एवमित्यनेन द्वितीयार्धः । शुभादिदेहादेः शुभाशुभकर्मदेहादेरित्यर्थः । मूले अशुभदेहादेरेव प्रस्तुतत्वेऽपि दृष्टान्तत्वेन शुभदेहाद्युपादान-मिति ज्ञेयम् । प्रत्युदकशब्दो नीहारार्थतया व्याख्यातः । तत्राभिधानं च पठति ॥ नीहार इति ॥
मूलार्थस्तु यथा छाया हि मत्प्रतिबिम्बा असन्तो अशक्ता अपि अर्थक्रियाकारिणः । एवमशुभदेहादयो भावा जीवमपेक्ष्याशक्ता अपि आमृत्युतस् तमःपर्यन्तं भयं प्रयच्छन्तीति । अयमाशयः । यद्यप्यसज्जनस्य स्वरूपमेव सर्वाशुभस्वभावम् । स्वयोग्यादधिकम् । केनापि न भवति । स्वतोऽशक्तं च देहकर्मादिकं तथाप्यनादियोग्यतासिद्धदुःखाज्ञानाद्यशुभव्यक्तिहेतुत्वं दुष्कर्मादेरस्तीति न शास्त्राप्रामाण्यम् । संसारे स्वरूपानुसारिमानसदुःखाद्यशुभजनकत्वं चास्ति । स्वतोऽशक्तछायानीहारादेरिवाल्पकार्यकरत्वं चाशक्तस्यापि देहस्य युज्यत इति
॥ ५ ॥
आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
तस्मान्न ह्यात्मनोऽमुष्मादन्यो भावो निरूपितः ।
अनिरूपितेयं त्रिविधा निर्मूला मतिरात्मनि ॥ ७ ॥
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ८ ॥
एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणः ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ९ ॥
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ।
आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ १० ॥
तात्पर्यम्
इदं विश्वं सृजति त्राति हरति च; स्वयं स्वात्मनैव सृज्यते त्रायते ह्रियते च । ‘दीपाद्दीपान्तरं यद्वत्सृष्टिरीशस्य कीर्त्यते । एतावत्कालमाशिष्ये मानुषेष्विति चिन्तनम् । विष्णोस्त्राणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु । दीपे दीपान्तरस्येव ह्येकीभावश्च संहृतिरि’ति च ॥ ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवा-वशिष्यत’ इति च ॥
आत्मनः परमेश्वरस्य तस्मादन्यो भावो नास्ति । ‘सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम् । तद्यः करोति पुरुषः स भाव इति कीर्त्यत’ इति विवेके । अन्येन सृष्टिः स्थितिः संहार इति त्रिविधा मतिर्विद्वद्भिर्नैव निरूपिता निर्मूला प्रमाणवर्जिता (च) । ‘अन्यस्मात्सृष्टिसंहारौ स्थितिश्च परमात्मनः । निरूपिता न विद्वद्भिः प्रमाणाभावतो हरेरि’ति ब्रह्मतर्के ॥
अन्यतः सृष्टिः स्थितिः संहार इति त्रयं गुणप्रधानं सत्त्वादिगुणाधीनम् । ‘गुणसम्बन्धयोग्यानामुत्पत्त्याद्याः स्युरन्यतः । सर्वदा निर्गुणस्यास्य सर्गाद्याः स्युः कुतोऽन्यत’ इति च ॥
‘असमर्थमसत्प्रोक्तं सत्समर्थं प्रकीर्तितमि’ति च ॥ ६–१० ॥
पदरत्नावली
सत्यसङ्कल्पेन सत्यकर्मणा निरस्तकुहकेन परमेश्वरेण सृष्टत्वादिदं सर्वं सत्यं न मिथ्याभूतमिति भावेनाह– आत्मैवेति । प्रकृत्याद्युपसर्जनं विना सर्जनादिकं कर्तुमीश्वर इत्यर्थे एवशब्दः । परमात्मैवेदं सर्वं सृजति त्राति हरति आत्मा स्वयमेव स्वात्मनैव सृज्यते त्रायते ह्रियते च । दीपाद् दीपान्तरवत् । ईश्वर इत्यनेन कर्मकर्तृत्वविरोधं परिहरति । प्रभुरित्यनेन मानुषेष्वेतावन्तं कालं स्थास्यामीति चिन्तनमेवात्मनस्त्राणं नान्यत्, अखण्डस्वामित्वात् समर्थत्वाच्चेति सूचयति । ‘‘दीपाद् दीपान्तरं यद्वत् सृष्टिरीशस्य कीर्त्यते । एतावत्कालमासिष्ये मानुषेष्विति चिन्तनम् । विष्णोस्त्राणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु । दीपे दीपान्तरस्यैव ह्येकीभावश्च संहृतिः’’ । इति वचनाद् अविद्ययाऽऽक्षिप्तमतिः स्वात्मानं सृजतीत्यादि दुर्मतमपास्तं बोद्धव्यम् । ह्रियत इत्यनेन दीपान्तरस्य दीप इवैकीभावः संहार इति दर्शयति । ‘‘पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’’ इति श्रुतेः ॥
ननु हिरण्यगर्भादेः स्रष्टृत्वादिवादिनि वेदे जाग्रति कथं हरेरेव स्रष्टृत्वादिकमवधार्यत इति शङ्कां धिक्कुर्वन्निव परिहरन्नुपसंहरति तस्मादिति । यस्मान्निरवकाशप्रमाणबलाद् हरिरेव सृष्ट्यादिकर्ता तस्मादमुष्मादात्मनो हरेरन्यो भावः सृष्ट्यादिकर्ता न निरूपितः कुत्रापि वेद इत्यन्वयः । ननु पितेव पुत्रादेर्हरेरपि सृष्ट्यादिकर्ता अन्यः किं न स्यादित्यतो वाह– तस्मादिति । यस्मादिति । यस्मात् स्वात्मनैव स्वयं सृज्यत इत्यादिकं प्रामाणिकं तस्मादात्मनः परमेश्वरस्य भावः सृष्ट्यादिकर्ता अमुष्माद् हरेरन्यो नास्ति । ‘‘सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम् । तद् यः करोति पुरुषः स भाव इति कीर्तितः’’ इति वचनाद् भावशब्दस्य सृष्ट्यादिकर्तृवाचकत्वं सिद्धम् । अनेनोक्तशङ्कायाः कः परिहार आयात इति तत्राह– निरूपितेति । अन्येन सृष्टिस्थितिसंहारा इति त्रिविधा मतिर् विद्वद्भिर् नैव निरूपिता निर्मूला प्रमाणवर्जिता । ‘‘अन्यस्मात् सृष्टिसंहारौ स्थितिश्च परमात्मनः । निरूपिता न विद्वद्भिः प्रमाणाभावतो हरेः’’ इति । विद्वद्भिरिति विशेषणादासुरमत एव तथा प्रतिभानमिति ज्ञायते ॥
परमात्मनः सत्वादिगुणरहितत्वादन्यतः सृष्ट्यादिकं न युक्तं सगुणस्य गुणबद्धत्वादन्यतो युज्यत इत्याशयेनाह– इदमिति । मायया हरेरिच्छया कृतमिदं त्रिविधं सृष्टिस्थितिसंहारा इति त्रित्वसङ्ख्याविशिष्टम् आत्मनि जीवे गुणमयं सत्वादिगुणाधीनं विद्धि । न परमात्मनीति शेषः । ‘‘गुणसम्बन्धयोग्यानामुत्पत्त्याद्या स्युरन्यतः । सर्वदा निर्गुणस्यास्य सर्गाद्याः स्युः कतोऽन्यतः’’ इत्यतो विशेषः कल्प्यत इति । अनेन सत्वादिगुणेषु कारणत्वेन सिद्धेषु (सत्सु) कथमन्यो भावो नास्तीति समञ्जसं स्यादितीयमाशङ्का परिहृता । विद्धीति पुरुषार्थोपयोगित्वादिदमेवावश्यं ज्ञेयमिति निर्धारयति । माययेत्यनेन गुणानामचेतनत्वेन स्वतः प्रवृत्त्यनुपपत्तेः कार्येषु प्रवर्तकत्वेन हरेर्मुख्य-कारणत्वमवधृतम् ॥ परस्वभावेत्यादिना शिक्षितज्ञानफलमाह– एतदिति । मदुदितमेतद् विद्वान् ॥ सूर्यवदित्युक्तं दार्ष्टान्तिके कथमित्यतो विवृणोति प्रत्यक्षेणेति । प्रत्यक्षादिप्रमाणबलेनेदं गुणमयमाद्यन्तवत्त्वादसद् असमर्थमस्वतन्त्रमिति ज्ञात्वा । ‘‘असमर्थमसत् प्रोक्तं समर्थं सत् प्रकीर्तितम्’’ इति वचनाद् असत्वं न शून्यत्वमत्राभिप्रेतम् । इह जगति निःसङ्गो निर्लेपः । निगमेन वेदेन । आत्मसंविदा साक्षिणा ॥ ६–१० ॥
श्रीनिवासतीर्थीया
नन्ववस्थात्रयस्य भगवदधीनत्वात्सर्वं तेन व्याप्तमित्युक्तम् । तत्र न केवलं तावदेव किन्तु सर्वस्रष्टृत्वाच्च सर्वं तदधीनमित्याह ॥ आत्मैवेति । अत्रात्मा सृजति त्राति हरतीत्यन्यस्य जातत्वात्सृज्यते त्रायते हरत इत्यनन्वितमित्याशङ्क्य योजनां दर्शयति ॥ इदमिति । ननु कथमीश्वरस्य जगत्स्रष्टृत्वं तस्याप्युत्पत्त्यादेः सत्वादित्या-शङ्कायामाह ॥ स्वयं स्वात्मनेति । ईश्वरः स्वेनेत्यर्थः । ननु परमात्मा स्वेनैव सृज्यत इत्युक्तम् । तदनुपपन्नम् । परमात्मनः सृष्ट्यादिसद्भावे तथा योजनोपपत्तेः । तदेव कुत इत्याशङ्क्य प्रमाणेनैव परमात्मनः सृष्ट्यादिकमाह ॥ दीपादिति । दीपाद्दीपान्तरस्याभि-व्यक्तिवत्परमात्मनः सृष्टिर्नामाभिव्यक्तिरित्यर्थः । एतावत्कालपर्यन्तम् । उक्तार्थे श्रुति-मप्याह ॥ पूर्णमद इति । अदो मूलरूपं पूर्णम् । इदमवताररूपं पूर्णम् । पूर्णान्मूलरूपा-त्पूर्णमवताररूपमुदच्यते उद्रिच्यते आविर्भूतं भवति । पूर्णस्यावताररूपस्य पूर्णत्वमादायैकी-भावं प्राप्य पूर्णमेव मूलरूपमेवावशिष्यत इत्यर्थः ।
तस्मान्न ह्यात्मन इत्यनेन सर्वस्य मिथ्यात्वमुच्यत इति भाति । अतो योजयति ॥ आत्मन इति । भावशब्दार्थमाह ॥ सृष्टिरिति । अनिरूपितेयं त्रिविधेत्येतद्व्याचष्टे ॥ अन्येनेति । तत्र प्रमाणमाह ॥ अन्यस्मादिति । इदं गुणमयमित्येतद्व्याचष्टे ॥ अन्यत इति गुणप्रधानमित्यनेन गुणमयमित्येतद्व्याख्यातम् । गुणप्रधानव्याप्तम् । ततश्च व्यापका-भावाद्व्याप्याभाव इति भावः । अत्रैव प्रमाणमाह ॥ गुणसम्बन्धेति । प्रत्यक्षेणानुमाने-नेत्यत्र प्रत्यक्षादिनाऽसज्ज्ञात्वेति मिथ्यात्वमुच्यत इति भाति । अतोऽसच्छब्दार्थमाह ॥ असमर्थमिति ॥ ततश्चात्मैवेत्यादेरयमक्षरार्थः ॥ न केवलं स्वप्नाद्यवस्थाप्रेरकत्वेनैव सर्वं भगवदधीनं किं तर्हीत्यत आह ॥ आत्मैवेति । प्रभुः समर्थः । आत्मैव भगवानेवेदं जगत्सृजति त्राति हरति । ननु भगवतः सृष्ट्यादिकर्तृत्वं तदा स्याद्यदि स्वयमुत्पत्त्यादि-शून्यः स्यात् । न चैवम् । किं नाम स्वस्याप्यन्यतः सृष्ट्यादिसद्भावादित्यत आह ॥ आत्मैवेति । आत्मनैव स्वेनैव सृज्यते त्रायते ह्रियते । ननु कुतः स्वस्य स्वेनैवोत्पत्ति-रित्यत उक्तम् ॥ तस्मादिति । आत्मनः परमेश्वरस्य तस्मादमुष्मादीश्वरादन्यो भावः सृष्ट्यादिकर्ता न निरूपितः । कुत इत्यत आह ॥ अनिरूपितेति । आत्मनि परमात्मनि विषयेऽन्येन सृष्टिस्थितिसंहार इति त्रिधा मतिर्विद्वद्भिर्न निरूपिता । कुतः । निर्मूला मूलप्रमाणवर्जितेत्यर्थः ॥
परमात्मनोऽन्यतः सृष्ट्यादिकं नास्तीत्येतदेव विवृणोति ॥ इदमिति । अन्यतः क्रियमाणमिदं त्रिविधं सृष्टिस्थितिसंहार इति त्रयं गुणमयं गुणप्रधानं तद्व्याप्यमितीश्वरमायया कृतमिति विद्धीत्यर्थः । तथा चान्यतः सृष्ट्यादिकं गुणमयत्वव्याप्यम् । एवं च व्यापकी-भूतगुणमयत्वाभावान्नान्यतः सृष्ट्यादिकमिति भावः । एवं च सृष्ट्यादिकर्तृत्वात्सर्वस्य भगव-दधीनत्वं तेन च तद्व्याप्यत्वं लब्धम् । ततः किमित्यत आह ॥ एतदिति । मदुदितमेतन्म व्याप्तत्वं विद्वान् ज्ञानविज्ञानैः पूर्णो भूत्वा न निन्दति न च स्तौति । स्वामी सर्वेषां प्रेरयित्वा तत्तत्कर्म कारयतीति यथार्थज्ञानी भूत्वा न निन्दति न च स्तौति । लोके निःसङ्गः सन् सञ्चरतीत्यर्थः । सूर्यवदित्युक्तं दार्ष्टान्तिके कथमित्यतो विवृणोति ॥ प्रत्यक्षे-णेति । प्रत्यक्षेणेदं जगदाद्यन्तवदसदसमर्थमिति ज्ञात्वा तथा कृतकत्वादित्याद्यनुमानादि-नाऽऽद्यन्तवदसमर्थमिति ज्ञात्वा निःसङ्गः सन् संसारेऽनासक्तः सन् इह चरेदित्यर्थः
॥ ६–१० ॥
प्रमेयचन्द्रिका
एवमाद्यश्लोकद्वयेन सर्वस्य भगवता व्याप्तत्वेन तत्तदधीनत्वात्तत्प्रशंसा च कार्या । निन्दा च नैव कार्या भगवद्वेषिप्रशंसा च न कार्या । प्रत्युत निंदैव कार्येत्युक्त्वा तृतीयेन हरेर् व्याप्तत्वोपपत्तये सर्वावस्थाप्रेरकत्वेन सर्वस्य तद्वशत्वमुपपाद्य चतुर्थेन हरि-द्वेषिणां निंद्यत्वोपपादनायाशुभैकस्वभावानामसतां श्रेयआशंसनादिकं न कार्यमित्युक्त्वा पञ्चमेन तत्र प्राप्तानुपपत्तिः परिहृता । अथ हरेरेव सर्वसृष्ट्यादिकर्तृत्वात्प्रत्यक्षावताररूपैश्च तत्तत्कालप्राप्तोपद्रवनिवारणेन रक्षकत्वाच्च सकलगुणाकरस्य तस्यैव स्तुतिः कार्या । तथा तद्भक्तानां चेति भावेनोच्यते सार्धश्लोकद्वयेन ॥ आत्मैवेति ॥
अत्रात्मैवेदं विश्वं भूत्वा सृज्यत सृजति चेत्याद्यन्यथाप्रतीतेर्यथावद्व्याख्याति ॥ इदमिति ॥ सृज्यते सृजतीत्यादि नैव कर्मकारकः । किं तु वाक्यभेदेन योजनेति भावः । तथा हि । विश्वात्मा सर्वस्वामी हरिस्तदिदं प्रत्यक्षादिभिः प्रमितं विश्वं सृजति हरति चेत्येकं वाक्यम् । स्वयं स्वेन रामकृष्णादित्वेन सृज्यते त्रायते ह्रियते चेत्यपरमिति । ननु स्वातन्त्र्येणैक-प्रकारतया नित्यस्य हरेः कथं सृष्ट्यादिकमित्यतः प्रमाणेन तद्दर्शयति ॥ दीपादिति ॥ दीपवदंशिविभागः । सृष्टिर् जनप्रत्यक्षत्वम् । हरेर्जन्मेति च ग्राह्यम् । एतावत्त्रयोदशसहस्र-वत्सरं षण्मासाधिकषडुत्तरशतवर्षं च कालं मानुषेषु प्रत्यक्षतया वसेयमिति चिन्तनमवस्थानं त्राणम् । पुनर्मूलरूपेणैकीभावः संश्लेष एव संहृतिः । तत्र स्वेच्छयैव स्वस्यैवांशविभागा-वस्थानचिन्तनं संश्लेषाणां कारणात्स्वसृष्ट्यादिकर्तृत्वं तत्कर्मत्वं चेत्यविरोध इति ॥
उक्तार्थस्थापके हरेरंशतो विभागे इन्द्रार्जुनादाविव द्रव्यगुणादिव्यत्ययोऽस्ति किमिति शङ्कां च परिहरंस्तत्प्रमाणमाह ॥ पूर्णमिति ॥ अदो ऽंशि मूलरूपं पूर्णम् इदमवान्तररूपं पूर्णं पूर्णात् समग्रादेव मूलरूपात्तथा समग्रमेवेदमुदच्यते व्यज्यते । न त्वेकदेशेन पूर्णम् । यदवतारगं रूपं तत्पूर्णस्यादाय मूलरूपेणैकीभूय तथा पूर्णमेवावशिष्यते । न तु रूपान्तरम् । संश्लेषेणाधिक्यं लभ्यत इत्यर्थः ॥
ननु हरिरूपाणां स्वस्मादेवोक्तविधसृष्ट्यादिरिति कुत इत्यत उच्यते ॥ तस्मादिति ॥ अत्र ब्रह्मण एव जीवभावो न स्रष्टृसृज्यभावापन्नत्वादमुष्मादात्मनो जीवादन्यो भावोन निरूपित इति । अत आत्मनि त्रिविधा सृष्ट्यादिविषयिणी मतिर्निमूला प्रमाणानिरूपितेत्य-न्यथाभानाद्यथावद्व्याचष्टे ॥ आत्मन इति ॥ अत्रात्मशब्दो न जीवपर इति ज्ञापनायात्मन इत्यनूद्य परमेश्वरस्येति व्याख्यातम् । तस्मात्परमेश्वरादन्यो भाव इत्यर्थ प्रदर्शनं पूर्वम् । न निरूपित इत्यस्यार्थो नास्तीति । भावो नाम क इत्यतस्तदर्थं प्रमाणेनाह ॥ सृष्टिरिति ॥ तद्भावनं भवतीति भावो भवनं मतुबर्थे अर्शआद्यजन्तोऽयम् । मतुबर्थश्चात्र कर्तृत्वं विवक्षितम् । अतः स भावनकर्त्ता भाव इति कीर्त्तित इत्यर्थः । एतेन स्वतन्त्रेण सर्वसृष्टृतया प्रकृतादमुष्माद्विष्णोरन्यदात्मनो रामकृष्णाद्यवताररूपस्य परमेश्वरस्य भावः सृष्टिसंहृतिकर्त्ता न निरूपित इति पूर्वार्धार्थ उक्तो भवति ।
ननु जनितोत विष्णोर्दशरथाज्जात इत्यादिश्रुत्यादौ निरूपणात्कथमनिरूपित इत्युच्यत इत्यतः प्राप्तं द्वितीयार्धमेतच्छङ्कानिवाराकतया योजयति ॥ अन्येनेति ॥ भगवत इति ग्राह्यम् । इतीत्यतःपरं मतिरिति शेषः । क्वचित्स्मृतिरिति पाठो दृश्यते । तथा चेयं त्रिविधा मतिरित्यस्यार्थः । भगवतः स्वात्मान्येन सृष्टिः स्थितिः संहार इति मतिरनिरूपिते-त्यस्य कर्तृत्वाध्याहारः कृतः । विद्वद्भिरिति ॥ नैवेत्यनेनानिरूपितेत्येतत्सावधारणमिति सूचयति । भ्रमरूपमतेः प्रत्यक्षाभासादिजन्येन समूलत्वात्कथं निर्मूलत्वमित्यतो अनूद्यार्थमाह ॥ निर्मूलेति ॥ मूले अनिरूपिता निर्मूलेत्यनयोः समुच्चये चशब्दो ग्राह्य इत्याशयेन चशब्दः । अत्र प्रमाणमाह ॥ अन्यस्मादिति ॥ प्रमाणाभावत इत्यनेन अनिरूपितेत्यत्र निर्मूलेति हेतुरिति सूचितं भवति ।
ततश्चायमर्थः ॥ आत्मनि परमेश्वरविषये । इयं विविधा मतिस् तदन्येन सृष्ट्यादित्रितयं भवतीति विद्वद्भिरनिरूपिता । यतो निर्मूला मूलप्रमाणवर्जिता चेति । जनितोतेत्यादौ विष्णोरित्यस्य यजमानाद्यन्यार्थकत्वात् । दशरथादित्यतः प्रादुर्भूत इत्यर्थकत्वात् । पुराणादेरिति भावः । किञ्चान्यतः सृष्ट्यादेर्गुणत्रयाधीनत्वाद्धरेश्च सर्वगुणाबद्धत्वाच्च नान्यत-स्तस्य सृष्ट्यादीति प्रतिपादके इदं गुणमयमित्यर्धे गुणत्रयात्मकमिदं जगदनिर्वाच्यं मायया कृतमित्यन्यथाभानाद्व्याचष्टे ॥ अन्यत इति ॥ इदं त्रिविधमित्यस्यार्थो ऽन्यतः सृष्टिः स्थितिः संहार इति त्रयमिति । गुणमयमित्यत्र मयटः प्राधन्यार्थत्वमभिप्रेत्योक्तं गुणप्रधान-मिति ॥ गुणशब्दार्थं च वदन् तत्पुरुषार्थभ्रमं वारयति ॥ सत्वादीति ॥ सत्वरजस्तमो-गुणाः प्रधाना यस्येति विग्रह उक्तो भवति ॥
मूलाभिप्रायं प्रमाणेनाह ॥ गुणेति ॥ यद्गुणमयं गुणत्रयाधीनं जीवजातं तस्यैवा-न्यस्मादिदं सृष्टिः स्थितिः संहार इति त्रिविधं भावनं मम माययेच्छया कृतं विद्धि न तु गुणातीतस्य ममेति यच्छब्दाद्युपस्कारेण मूलयोजना द्रष्टव्या ॥
एवंज्ञानिनः फलमुच्यते ॥ एतदिति ॥ मदुदितं सर्वव्याप्यत्वसर्वावस्थाप्रदत्व-सर्वस्रष्टृत्वानन्यसृज्यत्वादिकं विद्वान् साधारणे स्वात्मयोग्ये च ज्ञाने कुशलः पुरुषः विष्णुं वैष्णवांश्च न निन्दति किं तु स्तौति । द्वेषिणः न च स्तौति । प्रत्युत निन्दति । सूर्यवत्सर्वत्रासङ्ग एव चरतीत्यर्थः ॥
एतद्विवरणं क्रियते ॥ प्रत्यक्षेणेति ॥ इदमित्यनुवर्तते । इदं ब्रह्मादिकं सर्वं जगदाद्यन्त-वदसदिष्टप्रदानासमर्थमिति प्रत्यक्षादिप्रमाणेनात्मसंविदा प्रतिभया स्वरूपज्ञानरूपसाक्षिणा वा । ज्ञात्वा निश्चित्य हरिरेव स्वातन्त्र्येणेष्टदानसमर्थ इति च निश्चित्येति ग्राह्यम् । इह विचरेदित्यर्थः । अत्रासदित्येतदन्यथाप्रतीतिवारणाय प्रमाणेन तदर्थमाह ॥ असमर्थमिति ॥ ६–१० ॥
उद्धव उवाच–
नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः ।
अनात्मस्वदृशोरीश कस्येयमुपलभ्यते ॥ ११ ॥
पदरत्नावली
स्वप्रकाशत्वेन जडत्वेन देहपरमात्मनोः संसारासम्भवं जानन्नप्युद्धवो विवेकार्थं लोकदयालुः पृच्छति नैवेति । निःसङ्ग इत्यनेन प्रस्तुतः सङ्गलक्षणः संसारः कस्य आत्मनो हरेरुत देहस्य । द्रष्टृदृश्ययोरुभयोरपि न सम्भवति । अनात्मस्वदृशोर् अनात्मत्वाज्जडत्वाद् दृश्यस्य, स्वदृक्त्वात् स्वयम्प्रकाशत्वाद् द्रष्टुः । अतः कस्येयं संसृतिरुपलभ्यते ॥ ११ ॥
श्रीनिवासतीर्थीया
संसारः कस्येति पृच्छति ॥ उद्धवेति । जीवस्य वा देहस्य वा संसारो नोभयमपीत्याह ॥ नैवेति । आत्मनो जीवस्य । कुत इत्यत उक्तम् ॥ द्रष्टृ-दृश्ययोरनात्मस्वदृशोरिति । तथा च देहस्य जडत्वेन जीवस्य स्वदृक्त्वेन स्वप्रकाशत्वेन निमित्तेन तयोर्न सम्भवतीति भावः । अतः । हे ईश । कस्येयं संसृतिरुपलभ्यत इत्यर्थः
॥ ११ ॥
प्रमेयचन्द्रिका
अथ निःसङ्ग इति सङ्गपदसंनिधापितः संसारः कस्येत्युद्धवेन प्रश्नः क्रियते ॥ नैवेति ॥ हे ईश आत्मनो जीवस्य देहस्य च संसृतिर्नैव । कुत इत्यत उक्तम् ॥ द्रष्टृदृश्ययोरिति ॥ तस्यैव संनिधानक्रमेण विवरणमनात्मस्वदृशोरिति । अनात्मा अचेतनम् । स्वदृक् स्वप्रकाशज्ञानरूपो जीवस्तयोः । हेतुगर्भमेतत् । तथाहि । न ताव-ज्जीवस्य संसृतिः । तस्य स्वप्रकाशज्ञानरूपत्वेन संसारकारणाज्ञानासम्भवात् । नापि देहस्य तस्य सुखदुःखाद्यनुपपत्तेः । अत इतीयं संसृतिः कस्योपपद्यते । न कस्यापीति । तर्हि संसृतिः कस्येति प्रश्नो वा ॥ ११ ॥
आत्माऽव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः ।
अग्निवद् दारुवदपि देहः कस्येति संसृतिः ॥ १२ ॥
पदरत्नावली
देहस्थस्य हरेरित्यपि न युज्यत इत्याह– आत्मेति । अग्निवदीश्वरः दारुवद् देहः । जीवपक्षस्तु परमात्मकोटावन्तर्भूतत्वान्न पृथगुक्तः । कस्येति पुनरुक्तिरवश्यपरिहारवक्तव्यार्था
॥ १२ ॥
श्रीनिवासतीर्थीया
ननु माऽस्तु तयोः संसारः । ईश्वरस्य स्यादित्यत आह ॥ आत्मेति । अनावृत आवरणशून्यः । अग्निवदीश्वरो दारुवद्देहोऽतः कस्यायं संसार इत्यर्थः
॥ १२ ॥
प्रमेयचन्द्रिका
नापीश्वरस्य संसार इत्याह ॥ आत्मेति ॥ परमात्मा अव्ययः । सत्वादिगुणाबद्धः । पापादिदोषरहितः । स्वप्रकाशज्ञानरूपः । सर्वदा आवरणरहितः । तथा चाग्निवज्ज्योतीरूपः । अत एवासम्भाव्यमानदुःखादिदोषौ जीवपरमात्मानौ । दारुवद-सम्भावितदुःखादिर्देहो जडत्वात् । अतः संसृतिः कस्य । न च संसारापह्नवो युक्तः । प्रमितत्वादिति प्रश्नाभिप्रायः । यद्यपीयमाशङ्का स्वप्रकाशज्ञानरूपस्य जीवस्यास्वातन्त्र्यादौ औपाधिकी युज्यत इति भिक्षुगीतादौ परिहृता । तथाप्युक्तदार्ढ्याय विशेषज्ञानाय च पुनः प्रश्नो लोकानुग्रहार्थं क्रियत इत्यदोषः ॥ १२ ॥
श्रीभगवानुवाच–
यावद् देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् ।
संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १३ ॥
तात्पर्यम्
‘फलवान्मोक्षहेतुत्वान्नित्यानन्दादपार्थकः । जीवात्मनस्तु संसारः स्वप्नवच्चञ्चलत्वत’ इति तत्त्वविवेके ॥ १३ ॥
पदरत्नावली
जीवस्यैव संसृतिरिति भावेनाह– यावदिति । आत्मनो जीवस्य यावद् देहेन्द्रियप्राणैः सन्निकर्षणं सम्बन्धस् तावत् संसारः । कस्य जीवस्येत्यत उक्तम् अविवेकिन इति । नित्यानन्दादपार्थोपि । अविवेकिन इति विशेषणाद् विवेकिनो मोक्षहेतुत्वात् फलवानपि । ‘‘फलवान् मोक्षहेतुत्वान्नित्यानन्दादपार्थकः । जीवात्मनस्तु संसारः स्वप्नवच्चञ्चलत्वतः’’ इति वचनात्
॥ १३ ॥
श्रीनिवासतीर्थीया
जीवस्यैव संसारः । नन्वत्रोक्तं किल स्वप्रकाशत्वादिति । देहसम्बन्धानन्तरं स्वप्रकाशत्वेऽपि तत्सम्बन्धदशायां स्यात्संसार इत्याशयेनाह ॥ फलवानिति । अत्र संसारोऽपार्थोऽपि फलवानिति विरुद्धमुच्यतेऽतः प्रमाणेनैव विरोधं परिहरति ॥ फलवानिति । संसारो जीवात्मनः फलवानित्युच्यते । संसारे स्थूलदेहादिप्राप्तौ जीवस्य श्रवणादिना मोक्षो भवतीति । नित्यानन्दान्नित्यानन्दस्वरूपत्वाद्दुःखादिरूपः संसारोऽपार्थको निरर्थक इत्युच्यते । अतो न विरोध इत्यर्थः । तथाचात्मनो जीवस्य देहादिभिः सन्निकर्षणं सम्बन्धो यावदस्ति तावत्पर्यन्तं दुःखादिरूपः संसारः । कीदृशोऽयं संसारः । अपार्थो जीवस्य नित्यानन्दस्वरूपत्वेन निरर्थकः फलवांश्च । श्रवणादिसम्पत्त्या मोक्षरूपफलप्रदः । निरर्थकत्वे कथमहं दुःखीति प्रत्यय इत्यत उक्तम् ॥ अविवेकिन इति । स्फुटतरविवेकाभावादानन्दरूपस्यापि दुःखानुभव इत्यर्थः ॥ १३ ॥
दुर्घटभावदीपिका
यावद्देहेन्द्रियैः प्राणैः सन्निकर्षणं सम्बन्धस्तावदात्मनो जीवस्य संसारस्तिष्ठति । अविवेकिनो भगवज्ज्ञानशून्यस्यापार्थोऽपि संसारः । अविवेकिनः परमेश्वरज्ञानवतः फलवान् मोक्षफलवान् भवतीति ॥ अयं भावः ॥ भगवज्ज्ञानाभावे संसारे सौख्यं न भवति । किं तु नानाविधक्लेशा एव भवन्ति । भगवज्ज्ञाने जाते संसारनिवृत्तौ जातायां मोक्षो भवतीति । एतेनापार्थः फलवानित्येतद्विरुद्धमिति दूषणं परास्तम् । अविवेकिन इत्यस्यावृत्तिमङ्गीकृत्य ब्रह्मज्ञानशून्यस्यापार्थः । ब्रह्मज्ञानिनः फलवानित्यर्थस्योक्तत्वात् । अविवेकिन इत्यस्य ब्रह्मज्ञानिवाचकत्वम् अशब्दस्य ब्रह्मवाचित्वादिति द्रष्टव्यम् ॥ १३ ॥
प्रमेयचन्द्रिका
निर्दोषज्ञानस्वरूपस्यापि जीवस्याहङ्कारादिवशाद्युज्यते संसृतिरित्या-शयेन भगवता परिहारोऽभिधीयते ॥ यावदित्यादिना ॥ अत्रापार्थ इति मिथ्यात्वं भ्रान्तिः । अपगतप्रयोजन इत्यर्थकत्वे फलवानिति विरोध इत्यतः प्रमाणेन तदर्थमाह ॥ फल-वानिति ॥ जीवात्मनो विशिष्टदेहप्राप्तौ सत्यां श्रवणमननादिसाधनसंपत्या मोक्षसाधनत्वात् फलवान् संसारः । नित्यानन्दादिति भावप्रधानः । जीवस्य नित्यानन्दस्वरूपत्वात्प्रति-बन्धकसंसारापगतप्रयोजनः स्वप्नवच्चलात्मको स्थिरः भङ्गुरदेहादिमानित्यर्थः । एतेन स्वप्नवदित्युत्तरग्रन्थतात्पर्यमुक्तं वेदितव्यम् । मूलार्थस्तु यावत्पर्यन्तं देहेन्द्रियादिभिर्जीवस्य सम्बन्धः । तावत्पर्यन्तं संसारोऽपार्थः । स्वरूपानन्दानुभवविरोधितयाऽपगतप्रयोजनोऽपि मोक्षहेतुज्ञानाद्यापादकत्वात्फलवानिति ॥ १३ ॥
अर्थेऽप्यविद्यमानेपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १४ ॥
तात्पर्यम्
संसृत्यभावस्यैव फलरूपत्वान्निरर्थ एव संसार इत्यवधारयति । अर्थेऽपीति । ‘उच्यते निष्फलत्वेन यदत्यल्पफलं भवेदि’ति च । अतोऽफलत्त्वावधारणार्थं च पुनर्वचनम् ॥ १४,१५ ॥
पदरत्नावली
संसृत्यभावस्यैव फलरूपत्वान्निरर्थ एव संसार इत्यवधारयति अर्थेऽपीति । अपिशब्दोऽल्पफलार्थः । ‘‘उच्यते विफलत्वेन यदत्यल्पफलं भवेत्’’ इति वचनात् । अर्थेऽविद्य-मानेपि अस्मात् संसारात् प्रयोजनाभावेपि पुंसः संसृतिर्न निवर्तते । तत्रेदं निमित्तं ध्यायतो विषयानिति । कथमिव । अस्य स्वप्नदर्शिनो यथाऽनर्थागमः प्रयोजनविधुरव्याप्तिर्भवति । अत्रापि निमित्तं ध्यायत इति । यथा स्वप्नार्थानामस्थिरत्वेऽपि निरन्तरविषयानुस्मरणसंस्कारसन्तत्याऽनर्थागमो न निवर्तते एवं संसारोऽपि ॥ १४ ॥
श्रीनिवासतीर्थीया
अपार्थक इत्युक्तं निरर्थकत्वं पुनरवधारयति ॥ अर्थेऽपीति । असङ्गतिपरिहारायोत्तरश्लोकमवतारयति ॥ संसृत्यभावस्यैवेति । अपार्थोऽप्यविवेकिन इत्युक्तम् । निरर्थकत्वं पुनरप्यविद्यमान इत्यादिना नित्यानन्दस्वरूपस्य जीवस्य निरर्थक एव संसार इत्यवधारणार्थः । तथा च द्विरुक्तेरवधारणार्थत्वान्न पुनरुक्तिरिति भावः । ननु संसारः फलवांस्तावदिति फलवत्त्वस्याप्युक्तत्वात्कथं निरर्थक एवेत्यवधारणमित्यत उक्तम् ॥ संसृत्यभावस्यैव फलरूपत्वादिति । तथा च संसारदशायां संसृत्यभावाभावान्निरर्थकत्व-मिति भावः । ननु संसारे वैषयिकसुखरूपफलस्य विद्यमानत्वात्कथं निरर्थक एव संसार इत्यवधारणमित्यत आह ॥ उच्यत इति । वैषयिकसुखादेरल्पफलत्वविवक्षया निरर्थकत्व-मिति भावः । साध्यमध्याहरति ॥ अत इति । चशब्द एवार्थे । यतः प्रमाणेनाल्पसुखं निष्फलमित्युच्यते । अतोऽफलत्वावधारणार्थं पुनर्वचनमिति भावः ॥ ततश्चैवं योजना ॥ अर्थेऽविद्यमानेऽपि अस्मात्संसारात्प्रयोजनाभावेऽपि पुंसः संसृतिर्न निवर्तते । अत्रेदं निमित्तम् ॥ ध्यायतो विषयानिति । विषयध्यानेन तत्रैवासक्त्या पुनः संसारः प्राप्यत इति भावः । यथा स्वप्ने विषयध्यानेन निरन्तरविषयानुस्मरणसञ्जातवासनासन्तत्याऽनर्थागमो न निवर्तेत तथेत्यर्थः ॥ १४ ॥
दुर्घटभावदीपिका
अर्थे सुखलक्षणेऽर्थेऽविद्यमानेऽपि विषयान् ध्यायतोऽस्य जीवस्य स्वप्नेऽनर्थागमो यथा न निवर्तते तथा संसृतिः संसारदुःखं न निवर्तते । भगवन्तं ध्यायतस्तु संसारदुःखं निवर्तते परमानन्दावाप्तिलक्षणमोक्षश्च भवतीत्यनुक्तवाक्यार्थसमुच्चयार्थोऽर्थेऽपीत्यपिशब्दः । हिशब्दोऽस्यार्थस्य प्रमाणप्रसिद्धिद्योतक इति ॥ ता.अर्थः ॥ अर्थेऽप्यविद्यमानेऽपीत्येतत्संसारः फलवानित्यनेन पुनरुक्तमित्याशङ्कां परिहरति ॥ संसृत्यभावस्यैव फलरूपत्वादिति । यद्यपि संसृत्यभावस्यैव फलरूपत्वात्संसारः फलरहित इत्ययमर्थः संसारः फलवानित्यत्रोक्तस्तस्तथाऽप्यव-धारणार्थमर्थेऽप्यविद्यमानेऽपीति पुनर्वचनं प्रवृत्तम् । ननु संसारे फलस्य विद्यमानत्वात् । अफलत्वोक्ति-रयुक्तेत्याशङ्कां प्रमाणेन परिहरति ॥ उच्यत इति । यद्यस्मात्कारणात्संसारे विद्यमानं फलमत्यल्पफलं भवेदतोऽफलत्वेनोच्यते । प्रकारान्तरेण पुनरुक्तिं परिहरति ॥ अत इति । यतोऽल्पफलत्वाभिप्रायेणा-फलत्वोक्तिरतोऽपार्थोऽप्यविवेकिन इत्युक्ताल्पफलत्वावधारणार्थं चार्थेऽप्यविद्यमानेऽपीति पुनर्वचनम् । अनेनापार्थ इत्यस्य महाफलरहित इत्यर्थेऽविद्यमान इत्यस्य महाफलेऽविद्यमान इत्यर्थान्तरमुक्तं भवति । एतेनातोऽफलत्वावधारणार्थं च पुनर्वचनमित्यतेत्संसृत्यभावस्यैव फलरूपत्वान्निरर्थ एव संसार इत्यवधारयतीत्यनेन पुनरुक्तमिति दूषणं परिहृतम् । अनुदरा कन्येत्यादाविवाफलत्वावधारणार्थमिति नञोऽल्पार्थत्वमङ्गीकृत्याल्पफलत्वावधारणार्थं पुनर्वचनमित्यर्थस्योक्तत्वात् ॥ १४ ॥
प्रमेयचन्द्रिका
उत्तरश्लोको न प्रकृतेन सङ्गतः । संसृतिः कस्येति प्रश्नपरिहारप्रसङ्गे संसृतिनिवृत्यभावप्रतिपादनस्यानुपयुक्तत्वात् । अर्थेऽप्यविद्यमान इत्यस्य अपार्थोऽपीत्यनेन पुनरुक्तिश्चेत्यतः पुनरुक्तिपरिहारं सूचयन् सङ्गतिं दर्शयति ॥ संसृतीति ॥ मूले अपार्थक इति संसारस्य निरर्थकत्वं पूर्वमुक्तम् । संसारेऽपि सुखदर्शनात्कथमपार्थकमित्यतो दुःखादि-रूपसंसृत्यभावस्यैव फलरूपत्वात्प्रतियोगिरूपः संसारो निरर्थो विरोध्येव । न चात्यल्प-सुखवत्वमात्रेण तस्यार्थवत्वं पूर्णानन्दप्रतिबन्धकत्वात्तस्य । अतः संसारोऽपार्थक इत्यवधार-यत्युत्तरमूलेन । अतो नासङ्गतिः । पुनरुक्तेरवधारणार्थत्वाददोषत्वमिति भावः ।
ततश्चायं मूलार्थः । अपिरवधारणे । अर्थशब्दश्च मुख्यपुरुषार्थपरः । एवं च परम-पुरुषार्थमोक्षे अविद्यमान एव संसृतिर्न निवर्तते । संसृत्यभावरूपं फलं नास्ति । अतोऽपार्थ एव संसार इति । अथ मूलपदयोरर्थान्तरमभिप्रेत्यापि पुनरुक्तिं तदुपयुक्तं प्रमाणं पठन् परिहरति ॥ उच्यत इति ॥ अतोऽपार्थ इति । अर्थेऽविद्यमान इति पदद्वयस्य निष्फल इत्यर्थकत्वादत्यल्पफलं तदेव निष्फलमित्युच्यत इति प्रमाणसद्भावाच्चापार्थ इत्युक्ताल्प-फलत्वावधारणार्थम् अर्थे अविद्यमान इति पुनर्वचनं ततो न दोष इति भावः । मूलार्थस्तु अर्थे अविद्यमानेऽपि फलाभावेऽपि अत्यल्पफले विद्यमानेऽपीति यावत् । संसृतिर् न निवर्तत इति । तथा च संसृतिर्नेश्वरस्य नापि जडस्य किं तु निर्दोषज्ञानानन्दरूपस्यापि जीवस्य देहेन्द्रियप्राणैः सम्बन्धात्स्वरूपानन्दविरोधी संसारो भवति । न च तत्रापि सुखसद्भावान्न तस्य पुरुषार्थविरोधित्वमिति वाच्यम् । महाधनलाभविरोधिफलीकरणलाभस्येव सांसारि-कात्यल्पसुखस्यापुरुषार्थत्वादिति परिहाराभिप्रायः । सांसारिकस्यैवमौपाधिकत्वे कुतोऽसौ न निवर्तत इत्यत उच्यते ॥ ध्यायत इति ॥ यथा जाग्रति विषयान् ध्यायतः पुंसस्तज्जनित-वासनया स्वप्ने दुःखाद्यनर्थागमो न निवर्त्यस्तथा दुर्विषयान् धनवनितादीन् ध्यायतः संसृतिर्न निवर्तते । प्रतिकलेवरत्यागकालेऽपि विषयान् स्मरतः देहान्तं परंपरारूपसंसारनिवृत्य-सम्भवादिति भावः ॥ १४ ॥
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थकृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्प(ल्प्य)ते ॥ १५ ॥
पदरत्नावली
अज्ञानिन एव संसारोऽनर्थकरो न ज्ञानिन इत्याह– यथाहीति । अप्रतिबुद्धस्य स्वप्नावस्थामास्थितस्य यथा प्रस्वापो बह्वनर्थकृच् चोराद्यनर्थप्रापकः स एव स्वप्नार्थः प्रतिबुद्धस्य न मोहाय कल्पते एवं संसृतिरज्ञानिनामनर्थकृत्, सैव ज्ञानिनां मोहाय नैव । विषयलोलुपत्वेन दुर्जनस्याफलः, सज्जनस्य स्वरूपानन्दापेक्षया अफलोपि मज्ज्ञानेन स्वरूपानन्दसाधनत्वादल्पफल इति हेयः संसार इत्यवधारणार्थं पुनर्वचनमिति भावः ॥ १५ ॥
श्रीनिवासतीर्थीया
अज्ञानिन एव संसारोऽनर्थकरो न ज्ञानिन इत्याह ॥ यथा हीति । अप्रतिबुद्धस्य स्वप्नावस्थामास्थितस्य स्वाप्नो निद्रा बह्वनर्थकरः । स एव प्रस्वापः प्रतिबुद्धस्य नैव मोहाय कल्प्यते । एवं संसृतिरज्ञानिनामनर्थकृन्न ज्ञानिनामित्याशयः ॥१५॥
प्रमेयचन्द्रिका
नन्वत्रोक्तं संसारस्यानर्थकरत्वं फलवानित्यनेन विरुद्धमित्यतोऽ-ज्ञानिन एव संसारोऽनर्थकरः न तु ज्ञानिन इत्युच्यते ॥ यथा हीति ॥ यथा अप्रतिबुद्धस्य बाह्यार्थज्ञानरहितस्य स्वापः बाह्येन्द्रियोपरतिः । स्वप्न इति यावत् । सर्पव्याघ्रादिदर्शनेन भयदुःखाद्यनर्थकृत् । सः स्वप्नः प्रतिबुद्धस्य स्वप्नादुत्थितस्य मोहाय बाह्यसर्पादिरयमिति मोहनिमित्तकानर्थाय नैव कल्प्यते । तथा अप्रतिबुद्धस्य भगवत्स्वातन्त्र्यादिज्ञानशून्यस्य संसारो बह्वनर्थकृत् । ज्ञानिनस्तु स एव संसारो नैव मोहाय कल्प्यते । प्रत्युताफलवानेवेति दार्ष्टान्तिकेऽपि योज्यम् । अत्र स एवेति दार्ष्टान्तिके मुख्यम् । दृष्टान्ते स निवृत्तः स्वप्न इति द्रष्टव्यम् ॥ १५ ॥
शोकहर्षभयक्रोधलोभमोहस्पृहादयः ।
अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १६ ॥
तात्पर्यम्
**अहङ्कारस्य सकाशाद्दृश्यन्ते । नात्मनः स्वतः । ‘अहङ्कारात्तु संसारो भवेज्जीवस्य न स्वतः । कुतश्चिदानन्दतनोः स्वरूपेच्छायुतस्य स’ इति तन्त्रभागवते **
॥ १६ ॥
पदरत्नावली
जीवस्यापि संसार आभिमानिक एव न स्वाभाविकः, अन्यथा तन्निवृत्तिसाधनविधानानुपपत्तिरित्याशयेनाह– शोकेति । शोकादयो जन्म मृत्युश्च अहङ्कारस्य साकाशाज्जीवस्य दृश्यन्ते न स्वतः । परमात्मनस्त्वनभिमानात् सुतरामसम्भव इत्यर्थः । अहङ्कारात्तु संसारो भवेज्जीवस्य न स्वतः । कुतश्चिदानन्दतनोः स्वरूपेच्छायुतस्य सः’’ इत्यनेन परमात्मन एव निषेधो न जीवस्येत्येतन्निरस्तम् ॥ १६ ॥
श्रीनिवासतीर्थीया
नन्वयं जीवस्य संसारः स्वाभाविक औपाधिको वेत्याशङ्कायां न स्वाभाविकः किं त्वौपाधिक इत्याह ॥ शोकेति । नन्वत्राहङ्कारस्य शोकादयो नात्मन इति प्रतीयते । तत्तु पूर्वविरुद्धम् । पूर्वं जीवस्य संसार इत्युक्तत्वादित्याशङ्क्याभिप्रेतमर्थमाह ॥ अहंकारस्येति । उक्तार्थे प्रमाणमाह ॥ अहङ्कारादिति । मनःप्रभेदरूपाहङ्कारादित्यर्थः । स्पृहेच्छा । ततश्च शोकादयो मनःप्रभेदभूताहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च तस्यैव । आत्मनो जीवस्य त्वहङ्कारसम्बन्धादेते प्रतीयन्ते न स्वतश्चिदानन्दस्वरूपत्वादिति भावः
॥ १६ ॥
प्रमेयचन्द्रिका
ननु ज्ञानरूपस्यापि जीवस्य देहेन्द्रियादिसन्निधानाद्यदि दुःखादि-संसारस्तर्हि देहादौ हरेरपि सत्वेन तत्रापि संसृतिरिति प्रसङ्ग इत्याशङ्कायां प्राकृतदेहवतस्तत्र दृढतराभिमानादिरूपाहङ्कारवत्वादस्वतन्त्रत्वाच्च युक्तो जीवस्य संसारः । न तु हरेः । तस्य चिदानन्दतनुत्वेनाहङ्काराभावात्स्वतन्त्रत्वाच्चेति भावेन प्राप्ते शोकहर्षेति श्लोकेऽहङ्काररूपान्तः-करणस्यैव संसारो न जीवस्येत्यन्यथाभानाद्यथावद्व्याचष्टे ॥ अहङ्कारस्येति ॥ हेतौ षष्टी-त्यभिप्रेत्य सकाशादित्युक्तम् । सकाशादित्यध्याहारो वा । स्वत इति शेषोक्तिः । तथा च देहादावतिदृढाभिमानकर्तृत्वादिस्वातन्त्र्यभ्रमादिरूपाहङ्कारलक्षणोपाधेः सकाशादेवात्मनः शोका- दयो दृश्यन्ते । न स्वतः । परमात्मनस्त्वप्राकृतदेहवत्वेनोक्तरूपाहङ्काराभावात्स्वतन्त्रत्वाच्च न संसार इति रूपेण मूलार्थ इति भावः ।
अत्र प्रमाणमाह ॥ अहङ्कारादिति ॥ तुरवधारणे । अत्राहङ्कारादिति पञ्चम्या मूले सकाशादिध्याहार इत्येतत्समर्थयितुं जीवस्य न स्वत इत्यनेन स्वत इत्यध्याहारः समर्थितः । चिदानन्दात्मकदिव्यमङ्गलदेहस्य तादृशस्वरूपभूतेच्छायुतस्वतन्त्रस्य सत्यसंकल्पस्य हरेः संसारः कुत इत्यनेनोक्तरीत्याऽपेक्षितपूरणेन मूलं व्याख्येयमिति सूचितं भवति ॥ १६ ॥
देहेन्द्रियप्राणमनोभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः ।
सूत्रं महानित्युरुधेह गीतः संसार आधावति कालतन्त्रः ॥ १७ ॥
तात्पर्यम्
**देहेन्द्रियप्राणमनसामभिमानयुक्तः । सूत्रं महानित्याद्यधिकारनामभि-र्युक्तः । प्रधानजीवो हिरण्यगर्भोऽप्याधावति संसारे किमुतान्य इत्याशयः । ‘संसारयुग्यो ब्रह्माऽपि सर्वजीवेश्वरेश्वरः । विष्ण्वधीनः सदा ज्ञानी किमुतान्येऽल्पचित्तिन’ इति सत्तत्त्वे **
॥ १७ ॥
पदरत्नावली
कया युक्त्या जीवस्यैव संसार इति तत्राह– देहेति । देहेन्द्रियप्राणमनसां सङ्गतो अभिमानो यस्य स तथा । सर्वेषामन्तः स्थित्वा सर्वमादत्त इत्यन्तरात्मा च । गुणैः कर्मभिरारब्धा मूर्तियस्य स तथा । सूत्रं महानित्यधिकारनामभिर्बहुधा पुराणेषु गीतश्च कालतन्त्रः कालाभिमानिदुर्गाधीनो जीवः पुरुषो हिरण्यगर्भोऽपि संसार आधावति किमुतान्ये जीवा इति कैमुत्यन्यायलक्षणया युक्त्या जीवस्यैव संसार इति निश्चीयते । ‘‘संसारयुग् यद् ब्रह्मापि सर्वजीवेश्वरेश्वरः । विष्ण्वधीनः सदा ज्ञानी किमुतान्येऽल्पचेतनाः’’ इत्यनेन जीवोपाध्यवच्छिन्नस्य परमात्मनः संसार इति मतं निरस्तमिति ज्ञातव्यम् ॥ १७ ॥
श्रीनिवासतीर्थीया
ननु कया युक्त्या जीवस्यैव संसार इत्यतः कैमुत्यन्यायलक्षणे-नेत्याह ॥ देहेन्द्रियेति । अप्रतीत्यैतद्व्याचष्टे ॥ देहेन्द्रियेति । सूत्रं महानित्युरुधेह गीत इत्यस्यार्थमाह ॥ सूत्रं महानिति । अभिप्रायमाह ॥ प्रधानजीव इति । उक्तार्थे नियामकं प्रमाणमाह ॥ संसारयुगिति ॥ ततश्चायं श्लोकार्थः ॥ यो देहेन्द्रियप्राणमनसामभिमानो यस्य सः । तदभिमानेन युक्तो योऽन्तरात्मा सर्वेषामन्तःस्थितो गुणैः कर्मभिरारब्धा मूर्ति-र्यस्य सः । यश्च सूत्रं महानित्याद्यधिकारनामभिरुरुधा बहुधेह गीतः स कालतन्त्रः कालाभिमानिदुर्गाधीनो जीवो हिरण्यगर्भोऽपि इह संसारे आधावति किमुतान्ये जीवा इत्याशय इति ॥ १७ ॥
प्रमेयचन्द्रिका
सर्वदोषरहितस्य हिरण्यगर्भस्यापि यदा संसारस्तदा किमु वाच्यमितर- जीवानामित्याशयेन प्रवृत्ते देहेन्द्रियेति श्लोके देहेन्द्रियप्राणमनोभिमानो जीव इत्यनेन सामानाधिकरण्यनिर्वाहाय बहुव्रीहिसमासं सूचयन् सूत्रं महानित्यादेः प्रकृतोपयोगाप्रतीतेस्तं सूचयन्नर्थमाह ॥ देहेन्द्रियेति ॥ मनसामिति ॥ षष्टी सम्बन्धार्थे । तथा च देहेन्द्रिय-प्राणमनसां विषये अभिमानो यस्य स तथोक्त इत्याशयेनाभिमानयुक्त इति बहुव्रीह्यर्थो दर्शितः । अभिमानो नाम परदत्तस्वाम्यं विवक्षितम् । सर्वजीवदेहेन्द्रियादिनियामक इत्युक्तं भवति । मूले इतिशब्दः प्रकारार्थे आद्यर्थे चेत्यभिप्रेत्योक्तमित्यादीति ॥ अधिकार-नामभिरिति ॥ सूतमस्मिन् जगद्यस्मात्सूत्रमित्युक्तेः सर्वाधारत्वाधिकारेण सूत्रम् । महत्तत्वाभिमानित्वेन महान् । परमेष्टिधिष्ण्यमध्यासितमित्युक्तेः पारमेष्ट्यपदप्राप्त्या परमेष्टी । विरिञ्चश्च विरेचनादित्युक्तेः स्रष्टृत्वाद्विरिञ्च इत्यादिभिरधिकारनामभिरित्यर्थः । एतेन विरिञ्चस्य संसारित्वे युक्तिः सूचिता । जगद्व्यापारवर्जमिति मुक्तस्याधिकाराभावोक्तेरस्य चाधिकारनामवत्वादयं संसारीति । मुक्तौ तु भूतपूर्वगत्या व्यवहार इति नानुपपत्तिः ।
ननु सर्वजीवानां संसारसद्भावव्युत्पादनावसरे हिरण्यगर्भमात्रस्य तद्व्युत्पादनमनुचित-मित्यत आह ॥ प्रधानेति ॥ अनादिकालतः सर्वदोषहीनः सर्वजीवोत्तमो जीवो गुणैर्ज्ञान-सुखादिभिरित्युक्तः प्रधानजीवो हिरण्यगर्भोऽपि केवलेश्वरेच्छया तदधीनपरमोत्साहवर्जनमात्रेण संसारे आधावति वर्तते । तदन्ये जीवाः संसारे धावन्तीति किमु वक्तव्यम् । दोषा अनादिसम्बद्धाधास्ते मुक्तिपथपरिपंथिनः । सर्वे एतेषु जीवेषु दृश्यन्ते तारतम्यत इति रुद्रादिजीवेषु संसारप्रापकदोषसद्भावस्य प्रमितत्वादिति भावः ॥
स्वोक्तार्थे प्रमाणमाह ॥ संसारेति ॥ संसार आधावतीत्यस्यार्थः ॥ संसारयुगिति ॥ आद्यपादत्रयतात्पर्यं सर्वजीवेश्वरेश्वरः सदा ज्ञानीति ॥ कालतन्त्र इत्यस्यार्थो विष्ण्वधीन इति ॥ किमुतान्य इति समग्रमूलतात्पर्यम् । अल्पचित्तिन इति ॥ चितिश्चित्तमिति प्रज्ञानामसु पाठादल्पं चित्तं ज्ञानमेषामस्तीत्यल्पचित्तिन इत्यर्थः । यद्वा चित्तमेषामस्तीति चित्तिनो जीवा अल्पाश्च ते चित्तिनश्चेति विरिञ्चापेक्षया अत्यधमा जीवा इत्यर्थः । कैमुत्योपपादनायैतद्विशेषणम् । तदयं मूलार्थः ॥ सर्वदेहेन्द्रियप्राणमनसामभिमानी । सर्वजीवान्तरात्मा, ज्ञानानन्दादयो गुणा अगणिताः शुभकर्माणि चेति मूर्त्तिः स्वरूपं यस्य स । गुणकर्माणि मूर्त्तिः प्रतिमा यस्येति वा गुणकर्ममूर्त्तिः । सूत्रं महान्विरिञ्च इत्यधि-कारनामभिरिह श्रुतिपुराणादावुरुधा गीतः जीवो जीवाभिमानी सर्वजीवोत्तमो जीवो ब्रह्मा कालनामकहर्यधीनः सन् संसारे आधावति । किम्वन्ये जीवा इति ॥ १७ ॥
अमूलमेतद् बहुरूपरूपं मनोवचःप्राणशरीरकर्म ।
ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १८ ॥
तात्पर्यम्
अमूलं विष्णुमूलम् । बहुरूपेण तेनैव रूप्यते । मनआदीनां विषयः
॥ १८ ॥
पदरत्नावली
नन्वेवम्प्राप्तसंसारस्य समुच्छेदः कथङ्कारं स्यादत्राह– अमूलमिति । मुनिर् निरन्तरानुस्मरणासमर्थः पुरुष एतत्संसारकारणमज्ञानं मदुपासनया जातत्वान्निशितेन ज्ञानेन च्छित्त्वा पुनस्तत्र अतृष्णः निःसङ्गो भूत्वा गां विचरति, यावच्छरीरनिपातमिति शेषः, इत्यन्वयः । यदज्ञानेनोत्पन्नं तज्ज्ञानेन निवर्तत इति तत्कारणमाह– अमूलमिति । विष्णुकारणककर्ममूलम् । बरवत्कारणजन्यस्य निवृत्तिः कथमिति चोद्यमप्यनेन परिहृतम् । ज्ञानस्यापि तत्कारणकत्वात् । अज्ञानस्य तत्कारणकत्वे कथितं युक्तं तदेव कथमित्यत उक्तं बहुरूपेति । मनआदिषु सन्निहितेन बहुरूपेण तेन रूप्यते तददृष्टानुगुणं निरूप्यते प्रेर्यत इति बहुरूपरूम् । मनोवचः प्राणशरीराणि कर्म विषया यस्य स तथा । अहं गन्ता वक्ता इत्याद्याकारेण जायमानमित्यर्थः ॥ १८ ॥
श्रीनिवासतीर्थीया
नन्वेवं प्रबलस्य संसारस्य कथं समुच्छेद इत्यतस्तन्मूलाज्ञान-नाशेन नाशो भविष्यतीत्याशयेनाज्ञाननाशप्रकारमाह ॥ अमूलमिति । अत्रामूलमित्यस्य निर्मूलमिति प्रतीयतेऽतो व्याचष्टे ॥ अमूलमिति । बहुरूपरूपमिति द्विवारमुक्तिः किमर्थे-त्यत आह ॥ बहुरूपेणेति । मनोवचःप्राणशरीरकर्मेत्येतदप्रतीतेर्व्याचष्टे ॥ मनआदी-नामिति । अयमर्थः । अत्रैतच्छब्देन मोहशब्दोक्तमिथ्याज्ञानपरामर्शः । यदमूलं विष्णुमूलम् । विष्णुजन्यमिति यावत् । यद्बहुरूपेण तेनैव विष्णुना रूप्यते ज्ञायते । यच्च मनआदीन्येव विषयो यस्मात् । तद्विषयकमेतन्मिथ्याज्ञानं मुनिर्मननसमर्थोऽधिकार्युपासनया शितेन तीक्ष्णेन ज्ञानासिना छित्वाऽतृष्णो निःसङ्गो भूत्वा शरीरपातपर्यन्तं गां भूमिं चरतीति ॥ १८ ॥
दुर्घटभावदीपिका
मुनिरमूलं विष्णुर्जन्यं बहुरूपरूपं बहुरूपेण विष्णुना रूप्यते उपादेयतया ज्ञायत इति बहुरूपरूपम् । मनोवाचःप्राणशरीरकर्म । प्राणशब्देन चक्षुरादीन्द्रियाणां ग्रहणम् । शरीरशब्देन त्वगिन्द्रियग्रहणम् । कर्मशब्दो विषयवाची । मनआदीनां विषयभूतमेतद्भार्यादिकमुपासनया शितेन ज्ञानासिना छित्वा । भार्यादिसङ्गं छित्वेति यावत् । अतृष्णः सन् गां विचरतीति । एतेन शरीरस्य सविषयकत्वाभावान् मनोवाचःप्राणशरीरकर्मेति भार्यादीनां शरीरविषयत्वाभिधानमयुक्तमिति दूषणं परास्तम् । शरीरशब्देन शरीरव्यापित्वगिन्द्रियस्यैव ग्रहणात् ॥ १८ ॥
ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् ।
आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥ १९ ॥
तात्पर्यम्
केवलं स्वतन्त्रम् । आद्यन्तयोर्यत्स्वतन्त्रं तदेव मध्येऽपि स्वतन्त्रम् । परं ब्रह्म । ज्ञानविवेकादिस्वरूपम् । परिपूर्णगुणत्वात् । अन्यतो विविक्तत्वाद्विवेकः । सर्वं निगमयति प्रापयतीति निगमः । सर्वैरालोच्यत्वात्तपः । प्रतिप्रत्यक्षेषु स्थितत्वा-त्प्रत्यक्षम् । आचार्यसम्प्रदायसिद्धत्वादैतिह्यम् । अनुमेयत्वादनुमानम् ॥ १९ ॥
पदरत्नावली
ज्ञानासिश्च किमाकारो निशितः स्यादित्यतस्तद्विषयप्रकारमाह– ज्ञानमिति । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेरखण्डं ब्रह्मैव विजानीहीत्यन्वयः । कथम् । अस्य जगत आद्यन्तयोः केवलं स्वतन्त्रमेव वर्तते । यच्च कालः पूर्णगुणात्मत्वात् फलपाचकत्वात् (च) । यच्च हेतुर्निमित्त-कारणम् । यच्च जगतो मध्येऽपि तदेव तत्त्वेन वर्तते नान्यथा । यच्च विविक्तत्वाद् विवेकः । यच्च सर्वं निगमयति प्रापयति स्वाधीनमिति निगमः । यच्च सर्वैरालोच्यत्वात् तपः, तप आलोचन इति धातुः । प्रतिप्रति अक्षेष्विन्द्रियेषु स्थितत्वात् प्रत्यक्षम् । आचार्यसम्प्रदायसिद्धत्वादैतिह्यम् । अथ वेदादिप्रमाणसिद्धत्वादनुमीयत्वादनुमानम् । अनेनास्मिन्नर्थे प्रत्यक्षादिप्रमाणमुक्तं भवति ॥१९॥
श्रीनिवासतीर्थीया
ननु ज्ञानासिना छित्वेत्युक्तम् । तत्र किमाकारकं ज्ञान-मित्यतस्तत्स्वरूपं दर्शयति ॥ ज्ञानमित्यादिना । अत्र केवलशब्दार्थमाह ॥ केवल-मिति । तदेव मध्ये इत्यस्यान्वयो न भातीत्यतस्तदाह ॥ आद्यन्तयोरिति । पूर्वार्धे विशेष्याप्रतीतेस्तदाह ॥ परं ब्रह्मेति । मूले परं ब्रह्मेत्यध्याहारः । कीदृशं ब्रह्मेत्यतोऽन्वयं दर्शयति ॥ ज्ञानं विवेकादिस्वरूपमिति । पूर्वार्धं व्याचष्टे ॥ परिपूर्णगुणत्वादिति । तपःशब्दस्य सन्तापार्थकत्वप्रतीतेराह ॥ सर्वैरिति ॥ अयमर्थः ॥ यत्परब्रह्म ज्ञानं ज्ञानरूपं च यच्चान्यतो विविक्तत्वाद्भिन्नत्वाद्विवेकः । यच्च नितरां गमयतीति निगमः । यच्च सर्वैरालोच्यत्वात्तपः । यच्च प्रति प्रत्यक्षेष्विन्द्रियेषु स्थितत्वात्प्रत्यक्षम् । यच्चाचार्य-सम्प्रदायसिद्धत्वादैतिह्यम् । यच्चार्थादनुगीयमानत्वादनुमानम् । यच्च पूर्णगुणत्वात्कालः । यच्च हेतुर्निमित्तकारणम् । यस्मात्कारणादेतादृशं ब्रह्मास्य जगत आद्यन्तयोः केवलं स्वतन्त्रम् । तस्मात्कारणात्तदेव मध्ये स्वतन्त्रमिति ॥ १९ ॥
प्रमेयचन्द्रिका
नन्वेवमीशेच्छाद्युपोद्बलितस्य संसारस्य कथमुच्छेद इत्याशङ्कावारणाय प्रवृत्ते अमूलमिति श्लोके अमूलं कारणशून्यमित्यन्यथाप्रतीतिवारणाय व्याख्यातुं केवलपदार्थं तावदाह ॥ केवलं स्वतन्त्रमिति ॥ केवलशब्दः सर्वोत्तमत्ववाची प्रसिद्धः । स्वातन्त्र्य-मेवोत्तमत्वमिति भावेनोक्तं स्वतन्त्रमिति । आद्यन्तयोरित्यर्धं व्याचष्टे ॥ आद्यन्तयोरिति ॥ अस्य प्रपञ्चस्येति ग्राह्यम् । केवलमित्यस्य प्रतिपदं स्वतन्त्रमिति । मूले एकश्चशब्दोऽप्यर्थो मध्य इत्यनेन सम्बध्यत इति भावेनोक्तम् ॥ मध्येऽपीति ॥ केवलमित्यस्यावृत्तिमभ्युपेत्य मध्येऽपि स्वतन्त्रमित्युक्तम् । ज्ञानमित्यादिपदानि लौकिकज्ञानादिपराणि न भवन्ति । किं तु भगवन्महिमावाचकानीत्याशयेन विशेष्यपरपदाध्याहारपूर्वकं व्याचष्टे ॥ परं ब्रह्म ज्ञान-विवेकादिस्वरूपमिति ॥ आदिपदेन निगमादिग्रहणम् । स्वरूपमित्यनेन ज्ञानमित्यादि-पदानामध्याहृतेन परब्रह्मपदेनान्वय इति सूचितम् ।
ज्ञानपदस्य स्पष्टार्थत्वाद्विवेकादिपदार्थानाह ॥ परिपूर्णत्वादिति ॥ अन्यतो रमा-ब्रह्मादेर्वैलक्षण्योपपादनाय परिपूर्णत्वादित्युक्तम् । प्रापयति सर्वेषां मोक्षाद्यशेषपुरुषार्थं देहादिकं चेति योग्यतया सम्बध्यते । तप आलोचन इति धातोरालोच्यत्वादित्युक्तम् । सर्वैरिति तु योग्यतया सम्बध्यते । प्रत्यक्षमित्यत्र प्रतिशब्दे वीप्सा । अक्षमिति सप्तम्यर्थे । सप्तमी चाधिकरणे इत्यभिप्रेत्योक्तम् ॥ प्रति प्रतीति ॥ सर्वेन्द्रियेषु नियामकत्वात् स्थितमित्यर्थः । प्रवादपारम्पर्यमैतिह्यम् । तच्चाचार्यवचनपरम्परारूपम् । इतीहविषयमैतीह्य-मिति भावः । अनु स्वयोग्यतानुसारेण वेदादिभिर्मेयत्वात्तदनुसारिणीभिर्युक्तिभिरनुमातुं योग्यत्वाच्चानुमानम् ।
अयं मूलार्थः ॥ ज्ञानविवेकादिरूपः कालो जगद्बन्धनच्छेदनादिना सर्वधर्मवान् । कल बन्धन इति । कलच्छेदने कलज्ञाने कलकामधेनुरिति हि पठन्ति । हेतुर्जगत्कारणाभिधं यद्ब्रह्माख्यं जगदाद्यं यः केवलं स्वतन्त्रमेव वर्तते । तदेव परमं ब्रह्म मध्येऽपि केवलं स्वतन्त्रम् । उत्पत्तेः पूर्वं लयानन्तरं जीवस्य न स्वातन्त्र्यं किं तु हरेरेव स्वातन्त्र्यं सिद्धम् । अतो मध्येऽपि तद्वत्स्वातन्त्र्यं ज्ञेयम् । तदुपपादनाय ज्ञानमित्यादीनिति ॥ १९ ॥
यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य ।
तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ २० ॥
तात्पर्यम्
हिरण्यखचितत्वेन हिरण्यप्रधानं हिरण्मयम् । शङ्खमञ्चकरथादिषु मध्येऽपि केवलं प्राधान्येन व्यवहार्यमाणं तदेव । ‘रथोपस्थे परिष्कारात्पूर्वं दारुमयाद्रथात् । सुवर्णं व्यवहाराय मुख्यं रथपरिष्कृतम् । मध्ये चान्ते रथोपस्थान्निष्कृष्य पृथगास्थितम् । स एव मुख्यो जगतः स्वातन्त्र्यात्परमेश्वर’ इति ब्रह्मतर्के ॥ सुरपितृ-मनुजादिकल्पनादिभिरित्याद्यन्तर्याम्यपेक्षया । ‘यथा सुवर्णमकृतं क्रियते कुण्डलादिकम् । पुनरेकीभवत्यद्धा तद्वद्विष्णुरजोऽपि सन् । सुराद्यन्तःस्थितो भूत्वा पुनरेकीभवेद्विभुरि’ति च ॥ ‘तत्तन्नियामकस्यैव नाम सर्वं सुरादिकम् । तत्सम्बन्धादुदीर्येत व्यवहृत्यै सुरादिष्वि’ति शब्दनिर्णये ॥ ‘एकलं केवलं चेति स्वतन्त्रमभिधीयते । स्वतन्त्रस्तु हरिः साक्षात्परिष्कृतहिरण्यवदि’ति प्रवृत्ते । ‘प्रत्येकं न तु दार्वादि स्वतन्त्रं विक्रियागतम् । महाफलं स्यात्स्वर्णं तु स्वतन्त्रं विक्रियोपगम् । तद्वत्स्वतन्त्रो भगवान्प्रवृत्तावन्यदन्यथे’ति च ॥ २० ॥
पदरत्नावली
जगत आदिमध्यावसानेषु ब्रह्मण एवाप्रतिहतं स्वातन्त्र्यं सोदाहरणं स्पष्टयति यथेति । यथा हिरण्यं रथाद्युपरि स्वकृतमतिचित्रितं पुरस्ताच् चित्रतायाः पूर्वं, रथादेः पृथगिति शेषः । पश्चाच्च सर्वस्य हिरण्मयस्य द्रव्यस्य हिरण्यत्यागलक्षणनाशान्तरं च पृथगेव । मध्ये च स्वर्णखचितदशायां तदेव स्वर्णरथः स्वर्णशङ्ख इत्यादि नानाव्यपदेशैर्व्यवहारयोग्यम् । तदेव हिरण्यं दार्वादिभ्यः पृथगेव । तद्वत् तथा स्वतन्त्रोऽहमस्य जगतोऽप्यादावन्ते मध्ये सुरनरादिनानाव्यपदेशै-स्तत्तदन्तर्यामितया मुख्यतया व्यवहार्यः पृथगेव स्थितः । ‘‘रथोपस्थे परिकरात् पूर्वं दारुमयाद् रथात् । सुवर्णव्यवहाराय मुख्यं रथपरिष्कृतम् । मध्ये चान्ते रथोपस्थान्निष्कृष्य पृथगास्थितम् । यद्वदेवं हरिः साक्षाज्जगद्देहात् पृथक् स्थितः । पूर्वं जगति संस्थश्च जगदन्ते पृथक् स्थितः । स एव मुख्यो जगतः स्वातन्त्र्यात् परमेश्वरः’’ इति । तत्तन्नियामकस्यैव नाम सर्वं सुरादिकम् । तत्सम्बन्धादुदीर्यन्ते व्यवहृत्यै सुरादिषु’’ इति च । ‘‘एकलं केवलं चेति स्वतन्त्रमभिधीयते । स्वतन्त्रस्तु हरिः साक्षात् परिष्कृतहिरण्यवत्’’ इति च । सुरनराद्युपाधीनां नानात्वेप्यहमेक एव । यथा हिरण्यमकृतं पिण्डीकृतं कुण्डलाद्याकारेण विविधं पुनरेकमेव तथाऽहमपि । ‘‘यथा सुवर्णमकृतं क्रियते कुण्डलादिकम् । पुनरेकीभवत्यद्धा तद्वद् विष्णुरजोपि सन् । सुराद्यन्तः स्थितो भूत्वा पुनरेकीभवेद् विभुः’’ इति वचनात् । किञ्च दार्वादि अल्पफलं सुवर्णमेव तस्मिन् (सुवर्णरथादौ) निमित्तकारणं महाफलं तथा जगदल्पफलमस्वतन्त्रं च, नाहं तथा किन्तु महाफलहेतुः स्वतन्त्रश्चेति । ‘‘प्रत्येकं न तु दार्वादि स्वतन्त्रं विक्रियागतम् । महाफलं स्यात् स्वर्णं तु स्वतन्त्रं विक्रियोपगम् । तद्वत् स्वतन्त्रो भगवान् प्रवृत्तावन्यदन्यथा’’ इति वाक्यात् ॥ २० ॥
श्रीनिवासतीर्थीया
पुनर्ज्ञानस्वरूपप्रतिपादनाय प्रवृत्तमिमं श्लोकं हिरण्मयेत्यस्य हिरण्मयात्मककटकादिकमित्यर्थ इति प्रतीयतेऽतो व्याचष्टे ॥ हिरण्यादीति । शङ्खादिकं हिरण्मयमित्यर्थः । तथा च नात्र मयटस्तादात्म्यार्थत्वं किन्तु प्राधान्यार्थत्वमित्युक्तं भवति । द्वितीयार्धं योजयति ॥ शङ्खेति । पूर्वश्लोकस्थं केवलमित्येतदनुवर्तत इत्यभिप्रायेण केवल-मित्युक्तम् । तस्यार्थः ॥ प्राधान्येनेति । शङ्खमञ्चादिष्वित्यध्याहारः संपूर्णश्लोकं प्रमाणेन विवृणोति ॥ रथोपस्थ इत्यादिना । परिष्कारात्सम्बन्धात् । व्यवहाराय मुख्यं प्रधानम् । प्राधान्येन व्यवहार्यमाणमिति यावत् । अनेन द्वितीयार्धाद्यपादं विना श्लोको व्याख्यातः । रथपरिष्कृतं मध्ये इत्यनेन तदेव मध्ये व्यवहार्यमाणमिति व्याख्यातं भवति । मध्येऽपि प्राधान्येन व्यवहार्यमिति योजितमित्यर्थः । रथोपस्थान्निष्कृष्येत्यनेन पश्चाच्चेत्यपि व्याख्या-तम् । तद्वदेवमित्यादिनाऽहमस्य तद्वदिति व्याख्यातम् । जगद्देहाज्जगतो देहाच्चेत्यर्थः । सर्वदा सर्वशब्दवाच्यो भगवानित्याशयेन योजनान्तरमाह ॥ सुरपित्रित्यादिना । ततश्च सुरनरान्तर्याम्यपेक्षया तत्तच्छब्दवाच्यो भगवानित्याशयः । यथा सुवर्णं पूर्वं पश्चान्मध्येऽपि सुवर्णम् । तथाऽहं जगतः सकाशात्पूर्वं पश्चाच्चेन्द्रादिसर्वशब्दवाच्य इत्यत्र प्रमाणमाह ॥ यथेत्यादिना । अकृतमित्यनेन स्वकृतमित्यस्य सुष्ट्वकृतमित्यर्थो दर्शितः । कुण्डलादिकम् । तृतीयार्थे द्वितीया । कुण्डलाद्याकारेणेत्यर्थः । एकीभवति । कुण्डलाद्याकारनाशानन्तरमिति शेषः । अत्रैव प्रमाणान्तरमाह ॥ तत्तन्नियामकस्यैवेति । सर्वं सुरादिकं नामैवेत्यन्वयः ।
ननु सर्वशब्दवाच्यत्वे भगवतः कथमन्यत्र व्यवहार इत्यतोऽव्यक्ताधिकरणन्यायेनेत्याह ॥ तत्सम्बन्धादिति । केवलं प्राधान्येनेत्युक्तं तत्रार्थे प्रमाणमाह ॥ एकलमिति । प्रधान-मित्यर्थः । परिष्कृतहिरण्यवदिति । रथोपरि परिष्कृतहिरण्यवदित्यर्थः । परिष्कृतहिरण्य-वदित्यनेन यथा हिरण्यस्य दार्वादिभ्यः प्राधान्यमेवं भगवतः प्राधान्यमुक्तम् । तत्र प्रमाणमाह ॥ प्रत्येकमिति । आदिपदेन शङ्खादिकं गृह्यते । दार्वादिकं प्रत्येकं प्रत्येकं स्वतन्त्रं प्रधानं नेत्यर्थः । कुत इत्यत उक्तम् ॥ विक्रियागतमिति । विक्रियां गच्छतीति विक्रियागतं रथादिमहाफलं नियतसुवर्णापेक्षया । एतद्विक्रियेऽधिकद्रव्यप्राप्तिर्न भवतीत्यर्थः । सुवर्णं स्वतन्त्रं प्रधानम् । कुतः । विक्रियोपगं महाफलम् । यतस् तद्विक्रिये द्रव्याद्यपेक्षयाऽधिक-द्रव्यप्राप्तेः सत्वादित्याशयः । कुत इत्यत उक्तम् ॥ प्रवृत्ताविति । अन्यजगत्प्रवृत्तौ । उपलक्षणमेतत् । सत्तादात्वित्यपि ग्राह्यम् । अन्यथाऽस्वतन्त्रम् । अतो जगत्प्रवर्तकत्वा-न्यथाऽनुपपत्त्या स एव स्वतन्त्र इति भावः ॥
तथा चेयं योजना ॥ भगवान्सर्वदा सर्वजगद्विलक्षण इति ज्ञातव्य इत्यत्रोच्यते । सुवर्णलिप्तं रथादिकमस्ति । तत्र यथा स्वकृतं स्वेन परमात्मना कृतं सुवर्णं सर्वस्य हिरण्मयरथादेः पुरस्ताच्चित्रितायाः पूर्वं रथादेः सकाशात्पृथक् । केवलं प्राधान्येन स्वर्ण-व्यवहार्यमाणं च भवति ।
तथा सर्वस्य हिरण्यखचितत्वेन हिरण्यप्रधानस्य रथादेः पश्चाच्च रथादिभ्यः पृथक्करण-कालेऽपि रथादेः पृथक् केवलं च प्राधान्येन स्वर्णमिति व्यवहार्यमाणं तदेव स्वर्णं मध्येऽपि रथादिपरिष्करणकाले पृथक् केवलं च प्राधान्येन नानापदेशैः स्वर्णरथः स्वर्णशङ्ख इत्यादि-नानापदेशैर्व्यवहार्यमाणम् । तद्वदस्य जगत आदावन्ते मध्येऽप्यहं स्वतन्त्रः पृथक् चेत्यर्थः । यद्वा । यथा स्वर्णं कालत्रयेऽपि सुवर्णमेव । एवं कालत्रयेऽप्यहं सर्वशब्दवाच्य इत्यत्रोच्यते ॥ यथेति । यथा हिरण्यं स्वर्णं सर्वस्य हिरण्मयस्य कुण्डलादेः पुरस्तात्कुण्डलकरणात्पूर्वं स्वकृतं सुष्ट्वकृतम् । कुण्डलाद्याकारेण विकृतमिति यावत् । हिरण्यमेव पश्चात्कुण्डला-द्याकारनाशानन्तरमपि हिरण्यमेव । मध्ये कुण्डलाद्याकारदशायामपि तदेव स्वर्णमेव । तद्वदस्वतन्त्रस्य जगतः पूर्वं सर्वशब्दवाच्यः । पश्चाच्च प्रलयेऽपि सर्वशब्दवाच्य इति । मध्येऽपि सुरनरादिनानाव्यपदेशैः शब्दैरहमेव वाच्य इति ॥ २० ॥
प्रमेयचन्द्रिका
आदिमध्यावसानेषु ब्रह्मण एवाप्रतिहतं स्वातन्त्र्यमित्येतत्सोदाहरण-मुपपाद्यते ॥ यथेति ॥ अत्र सम्यग् अकृतमुपादानदशापन्नमपि हिरण्यमेव । सर्वस्य हिरण्मयस्य पश्चाद्विकारनाशानन्तरमपि हिरण्यमेव । तद्धिरण्यमेव मध्ये विकारदशायामपि कटकमुकुटकुण्डलादिनानापदेशैः र्व्यवहार्यमाणं भवति । यथा तद्वदहमपि पूर्वं पश्चाच्च ब्रह्मैव सन्मध्येऽपि सुरनरादिनानापदैर्व्यवहार्यमाण इति ब्रह्मणो जगदात्मकत्वं दृष्टान्तेनोच्यत इति केचिद्व्याचक्षते । तदप्रामाणिकम् । सर्वप्रमाणविरुद्धं चेत्याशयवान् यथावद्व्याख्यातुं हिरण्मय-पदार्थं तावदाह ॥ हिरण्यखचितत्वेनेति ॥ मयटोऽत्र प्राधान्यार्थत्वमेव न विकारार्थत्व-मित्युक्तं भवति । कथं प्राधान्यमित्यतस्तदुक्तं हिरण्यखचितत्वेनेति ॥ किं तद्धिरण्य-खचितत्वेन हिरण्यप्रधानमित्यतो मूले उपस्कर्तव्यं दर्शयति ॥ शङ्खमञ्चरथादिष्विति ॥ मूले मध्य इत्यतःपरं पूर्वश्लोकात्केवलमित्यनुवर्तनीयमित्याशयेनाह ॥ मध्ये केवलमिति ॥ अनुवृत्तस्य केवलपदस्यार्थं वदन् अन्वयं दर्शयति ॥ प्राधान्येनेति ॥ मध्ये प्राधान्येन व्यवहार्यमाणं तदेव सुवर्णमिवेत्यन्वय इत्युक्तं भवति ।
समग्रश्लोकं प्रमाणेन व्याचष्टे ॥ रथोपस्थ इति ॥ दारुमयाद्रथादत्यन्तभिन्नमिति शेषः । भेदव्युत्पादनायोक्तं दारुमयादिति । दारुमयाद्रथादत्यन्तभिन्नं सुवर्णं रथोपस्थे रथ-स्योपरि परिष्कारादलङ्कारतया स्थापनात् पूर्वमेव तत्सुवर्णमिति व्यवहाराय मुख्यं तावत् । एतेन यथा सुवर्णं स्वकृतं पुरस्तादित्यंशो व्याख्यातो भवति । मध्ये रथं परिष्कृतं च । सुवर्णरथ इत्यादिव्यवहाराय भवति । अनेन तदेव मध्ये व्यवहार्यमाणमित्यंशो व्याख्यातः । अन्ते रथोपस्थान्निष्कृष्य पृथक्कृत्य पृथगन्यत्रस्थितमपि सुवर्णमेव व्यवहाराय मुख्यमित्यनेन सुवर्णस्य हिरण्मयस्य पश्चाच्च व्यवहार्यमाणमित्यंशो व्याख्यातः । यथेत्यस्यार्थो यद्वदिति । नानापदेशैरहमस्य तद्वदित्यस्य व्याख्यानमेवमित्यादि । साक्षान्मुख्यतः । जगद्देहाज् जगदाख्याद्देहात् । जगतः सम्बन्धिनः सुरनरादिदेहाच्चेति वा । पृथगत्यन्तभिन्नतया जगदुत्पत्तेः पूर्वं स्थितः मध्ये जगति संस्थश्च ततः पृथग्भिन्नः । जगदन्ते जगन्नाशेऽपि विनाशानन्तरं च पृथग्भिन्नतया स्थितः । स एव जगतो मुख्यः प्रधानः । कुतः स्वातन्त्र्यात् । अतो नानुवृत्तस्य केवलमित्यस्यार्थ उक्तो भवति ।
तथा चायं मूलार्थः । यथा पुरस्तात्स्वकृतं रथशङ्खाद्युपर्यपरिष्कृतम् । यद्धिरण्यं पश्चा-दन्ते यच्च हिरण्मयस्य हिरण्यखचितत्वेन हिरण्यप्रधानस्य रथशङ्खादेः सकाशात्पृथक्कृत्य स्थापितं च । तदेव हिरण्यं मध्येऽपि रथोपरि परिष्कृततादशायामपि केवलमित्यनुवर्तते । केवलं यथा भवति तथा । प्राधान्येनेति यावत् । केवलं प्राधान्येन निमित्तेनेति वा । नानापदेशैः स्वर्णरथः स्वर्णमंचः स्वर्णशङ्ख इत्यादिनामभिः केवलरथः शङ्ख इत्यादिरूपैश्च नानानामभिर्दार्वादिमयरथादिभ्योऽत्यन्तभिन्नमपि व्यवहार्यमाणं भवति । तद्वदस्य प्रपञ्चस्य पुरस्तात्पश्चाच्च परब्रह्मेति व्यवहार्यमाणोऽहं जगदवस्थितिदशायामपि सुरपितृमनुजादिनाना-पदेशैः सर्वं ब्रह्मेत्यादिभिश्च स्वातन्त्र्येण व्यवहार्यमाणो भवामीति ।
नन्वेवं व्याख्यानमयुक्तम् । समाख्यारूपविष्णुपुराणविरोधात् । विष्णुपुराणे तृतीयांशे सप्तमाध्याये कटकमुकुटकर्णिकादिभेदैः कनकमभेदमाभाष्यते यथैकं सुरपितृमनुजादि-कल्पनाभिर्हरिरखिलाभिरुदीर्यते तथैवेक इति हिरण्यदृष्टान्तेन ब्रह्मणः सुरनराद्यभेद-स्यैवोक्तत्वेनात्रापि तदनुसाराद्ब्रह्मणो जगदभेद एवार्थ इत्यतस्तद्वाक्यं सावकाशमित्याशयेनाह ॥ सुरेति ॥ इत्यादिवचनजातमपि सुराद्यन्तर्यामितया स्थितसुरादिनामकभगवद्रूपापेक्षया प्रवृत्तम् । न तु प्रसिद्धसुराद्यभेदाभिप्रायेणेति भावः ।
ननु सुवर्णस्य कटकाद्यभेद एव दृष्टान्ततयोक्तस्तद्बलाद्ब्रह्मणो जगदभेद एवोत्तरार्धतया वक्तव्य इत्यतो विष्णुपुराणवचनं प्रमाणेन व्याख्याति ॥ यथेति ॥ यथा अकृतमविकृतं पिण्डीभूतं सुवर्णम् । पश्चात्कुण्डलादिकं क्रियते । कुण्डलकटकमुकटाद्यनेकधा क्रियत इति यावत् । तत्पुनरद्धा स्पष्टमेकीभवति । तद्वद्विष्णुरजोऽपि सुवर्णवदविकृतोऽपि सन् जगत्सृष्टेः पूर्वमेकसंस्थानत्वेन स्थितः सुरनराद्यनेकविधजगत्सर्जनानन्तरं स्वयमनेकरूपः सुराद्यंतःस्थितो भूत्वा विलये सति पुनरेकीभवेदित्यर्थः । अविकृतत्वेऽप्यनेकरूपत्वसामर्थ्यं सूचयति ॥ विभुरित्यनेन ॥ पूर्वमेकीभूतस्य पुनरनेकधा स्थितिरपि पुनरेकीभाव इत्यंशे दृष्टान्तो न विकारित्वादाविति विज्ञेयम् ।
ननु सुरपितृमनुजेति स्पष्टं सुरादिरूपतया एव प्रतीतेः कथं सुराद्यन्तःस्थितो भूत्वे-त्युच्यत इत्यतः सुरादित्वं नाम सुरादिशब्दवाच्यत्वं तद्विष्णोरेव मुख्यम् अतो विष्णोः सुरादिरूपत्वं प्रसिद्धसुरादिभिन्नस्यापि युज्यत इत्याशयवानाह ॥ तत्तदिति ॥ सुरादिकं सुरो नर इत्यादिकम् । तर्हि देवादिषु कथं सुरादिशब्दवृत्तिरित्यतः समाकर्षाधिकरणन्यायेन सोपपत्तिकमाह ॥ तत्सम्बन्धादिति ॥ उदाहृतविष्णुपुराणश्लोकार्थस्तु अभेदमभिन्नमेकतया स्थितमपि कथनं यथा कटकमुकुटकर्णिकादिभेदैरनेकधा तैर्व्यवह्रियते । अखिलाभिरिति । कल्पना नामानि । तैः सुरादिनामभिर्मुख्यतयोदीर्यत इति । तथा च विष्णुपुराण-विरोधाभावादुक्त एवार्थ इति भावः ॥
पूर्वं न केवलमित्येतत्स्वतन्त्रमिति व्याख्यातम् । तद्द्रढयन् स्वोक्त एव मूलार्थ इति स्थापनाय प्रमाणान्तरं पठति ॥ एकलमिति ॥ साक्षान्मुख्यतः दारुमयरथादिषु परिष्कृत-सुवर्णस्येव हरेः स्वातन्त्र्यमित्युक्तार्थे समाख्यान्तरमाह ॥ प्रत्येकमिति ॥ दार्वादि रथा-द्युपादानभूतः प्रत्येकं स्वपरिष्कारं विना क्रियागतरथादितया विकारं प्राप्तं चेत्स्वतन्त्रं महाफलं बहुद्रव्यसंपादकं नैव स्यात् । सुवर्णं तु केवलमपि विक्रयोपगं चेन्महाफलं स्यादित्यर्थः । दार्ष्टान्तिकं दर्शयति ॥ तद्वदिति ॥ विक्रयप्रतिनिधितयाऽत्र प्रवृत्तिरुक्ता । तथा तद्वत्स्वर्णवज्जगतः प्रवृत्तौ स्वतन्त्रः प्रधानः । महाफलप्रापकश्च भगवान् । तदन्यत्तु प्रवृत्तावन्यथा अस्वतन्त्रमल्पफलकं चेत्यर्थः । तथा च बाधकाभावादुदाहृतसमाख्याप्रमाण-विकलाज्जगद्भिन्नस्य हरेः स्वर्णदृष्टान्तेन प्राधान्यमत्रोच्यत इति सिद्धम् ॥ २० ॥
विज्ञानमेतत् त्रिपदस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ ।
समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २१ ॥
तात्पर्यम्
मोक्षदं संसारदं तमःप्रदं चेति त्रिपदस्थं विज्ञानम् । तदिच्छायाः सत्व एतत्सर्वमस्ति अन्यथा नास्तीत्यन्वयव्यतिरेकौ ॥ २१ ॥
पदरत्नावली
इतोपि मोक्षादिदातृत्वेन निरुपचरितं स्वातन्त्र्यं हरेरेवेत्याह– विज्ञानमिति । अङ्ग उद्धव । एतद् ब्रह्म विज्ञानं निर्दोषज्ञानस्वरूपम् । कुतः । त्रिपदस्थं त्रीनुत्तमाधममध्यमान् जीवान् त्रिषु पदेषु मोक्षादिषु स्थानेषु स्थापयतीति । मोक्षसंसारतमआख्यपदत्रयदातृ इत्यर्थः । चेतनानामपि ज्ञानदातृत्वेन मोक्षदातृत्वं किं न स्यादित्याशङ्क्य तत्सत्तादेर्यदिच्छाधीनत्वेन प्रतीतिस् तदेव विज्ञानं, विज्ञानमानन्दं ब्रह्मेति श्रुतेरिति भावेनाह– गुणत्रयमिति । येनेति तृतीया षष्ट्यर्थे । येन यस्य तुर्येण तुर्यस्य जाग्रदाद्यवस्थातीतस्य विशुद्धज्ञानमूर्तेः समन्वयेन इच्छायाः सत्वेनानुग्राहक-लक्षणाभिमुख्येन, गुणत्रयादिकं सर्वमस्तीति शेषः । व्यतिरेकतः (इच्छायाः) असत्वे नास्ति तदेव केवलमित्युक्तम् । केवलपदं सर्वत्रानुवर्तनीयम् (पूर्वश्लोकतः) । तत् केवलमेव सत्यं सदाऽस्तित्वेन स्वतन्त्रमेव । सत्यपदं चानुवर्तनीयं विज्ञानं सत्यं त्रिपदस्थं सत्यमिति । गुणत्रयं सत्वादि कारणं महदहङ्काराद्युपादानं, कार्यं देहादि, कर्तृ कालकर्मादिनिमित्तकारणम् । ‘‘स्वातन्त्र्यमेव सत्यत्वं विष्णोरन्यस्य सत्यता । प्रवाहतः सदाऽस्तित्वं पुम्प्रकृत्योः सदाऽस्तिता’’ इति वचनात् । ईश्वरेच्छासदसद्भावाभ्यामस्तित्वनास्तित्वे इति तस्य स्वातन्त्र्यमनुपहतमिति ॥ २१ ॥
श्रीनिवासतीर्थीया
हरिर्वासुदेवरूपेण जगत्कर्तेति स्वतन्त्र इति ज्ञातव्य इत्यत्रोच्यते ॥ विज्ञानमिति । अत्र त्रिपदस्थमित्येतद्व्याचष्टे ॥ मोक्षदमिति । विज्ञानशब्दवाच्य- परमात्मन इदं विशेषणमिति भावेन विज्ञानमित्युक्तम् । ननु समन्वयेन परमात्मनोऽन्वय-व्यतिरेकाभ्यां कर्तृत्वमुक्तम् । तदयुक्तम् । नित्यत्वे सति विभुत्वेन कालदेशयोरन्वयव्यतिरेका-सम्भवादित्याशङ्क्यात्राभिप्रेतान्वयव्यतिरेकौ दर्शयति ॥ तदिच्छाया इति । भगवतोऽन्वय-व्यतिरेकाभावेऽपि तदिच्छयाऽन्वयव्यतिरेकसम्भवादुक्तमुपपन्नम् । इच्छायाः स्वरूपत्वेऽपि सृष्टिकालाद्युपाधिविशिष्ठाया अन्वयव्यतिरेकोक्तिर्युक्ता । कालाद्युपाधिविशिष्ठाया इच्छायाः कालविशेषस्थत्वात् । स्यात्कालः स तदैवेति कालस्य स्वगतत्वत इत्युक्तेरिति भावः । ततश्च गुणत्रयं गुणानां त्रयं यस्य तत्सात्त्विकराजसतामसजीवजातं त्रिपदस्थं त्रिषु पदेषु मोक्ष-संसारतमोलक्षणस्थानेषु स्थापयतीति त्रिपदस्थम् । यदेतत्पूर्वोक्तं विज्ञानरूपं ब्रह्म वर्तते तद्येन तुर्येण वासुदेवरूपेणान्वयव्यतिरेकतस्तदिच्छायाः सत्वे यत्तत्सर्वं जगदस्त्यन्यथा नेत्यन्वय-व्यतिरेकतः कारणकार्यकर्तृ कारणं महदादि कार्यं ब्रह्माण्डादि ॥ तयोः कर्तृ तदेव रूपं सत्यं स्वतन्त्रमिति योजनेत्यर्थः ॥ २१ ॥
प्रमेयचन्द्रिका
इतश्च हरेरेव स्वातन्त्र्यमित्युच्यते ॥ विज्ञानमिति ॥ अत्र गुणत्रयादिकं सर्वं ब्रह्मैव । तद्व्यतिरेकतो नास्ति । किंतु येन तुर्येणाक्षिणाऽधिष्ठानभूतेन ब्रह्मणा सत्यमिव प्रतीयते । तद्ब्रह्मैव सत्यमन्यन्मिथ्येति व्याख्यानमयुक्तमित्याशयवान्दुर्गमार्थं त्रिपदस्थपदं तावद्व्याचष्टे ॥ मोक्षदमिति ॥ इति हेतोर्विज्ञानं त्रिपदस्थमित्युच्यत इत्यर्थः । त्रिविधान् जीवान् त्रिषु मोक्षादिषु पदेषु स्थापयतीति त्रिपदस्थमिति भावः । समन्वयेन व्यतिरेकतश्चेत्युक्तान्वयव्यतिरेकौ केन निरूपितौ । कस्य च तौ कथं चेत्यत आह ॥ तदिच्छाया इति ॥ तुर्येण भगवता । तात्पर्यं तदिच्छायाः सत्व इति । एतत्सर्वं विज्ञान-मित्यादिप्रथमार्धोक्तं सर्वमस्ति । अन्यथा भगवदिच्छाया अभाव एव तत्सर्वं नास्तीत्येव-माकारको तुर्याख्यहरीच्छानिरूपितावन्वयव्यतिरेकौ विज्ञानादिप्रपञ्चस्येति भावः ।
नन्वीशेच्छाया नित्यत्वात्कथं व्यतिरेक इति चेत् । सत्यम् । नित्यत्वेऽपीच्छाया इदानीमिदं भवत्वित्यादिप्रकारकस्येच्छागतस्याकारविशेषस्य शक्तिव्यक्त्यङ्गीकारेण व्यक्त्यभाव-विवक्षया व्यतिरेकोपपत्तेः । तदुक्तम् । स्वत एव काले विशेषोऽङ्गीकृतश्चेति वैशेषिक-परीक्षागतभाष्यतत्वप्रकाशिकायां तत्काल एवेश्वरेच्छाया अपि सृष्टिविषयत्वादिविशेषाविर्भावा-भ्युपगमादिति ।
तदयं मूलार्थः । हे ओति प्रियसम्बोधनम् । मोक्षसंसारतमोरूपेषु त्रिषु स्थानेषु त्रिविधानधिकारिणः स्थापयतीति त्रिपदस्थम् । सम्यज्ञानं मिश्रज्ज्ञानं मिथ्याज्ञानं चेति त्रिविधं ज्ञानम् । सत्वादिगुणत्रयं कारणं महदहङ्कारादिकं, कार्यं ब्रह्माण्डादि, कर्तृ जीव-जातम् । द्वन्द्वैकवद्भावः । इत्येतत्सर्वं येन तुर्येण त्रिगुणातीतेन अवस्थात्रयातीतेनेति वा हरिणा समन्वयेन व्यतिरेकतश्च सिध्द्येत् । परमेश्वरेच्छायाः सत्वे विज्ञानादिकं सर्वं भवति । अन्यथा नास्तीति । यदिच्छान्वयव्यतिरेकाभ्यां सिध्द्येत् तद्ब्रह्मैव सत्यं स्वतन्त्रमिति भगवत एव स्वस्वातन्त्र्यसिद्धये तदन्यस्यास्वातन्त्र्यमुपपद्यते ॥ २१ ॥
न यत् पुरस्तादुत यन्न पश्चान्मध्ये च तन्न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद्यत् तदेव सत् स्यादिति मे मनीषा ॥ २२ ॥
तात्पर्यम्
तदेव केवलं सत्यमिति सर्वत्र सम्बध्यते । ‘स्वातन्त्र्यमेव सत्यत्वं विष्णोरन्यस्य सत्यता । प्रवाहतः सदाऽस्तित्वं पुंप्रकृत्योः सदाऽस्तिते’ति वस्तुतत्त्वे ॥
पदरत्नावली
ननु ब्रह्मवदितरस्य स्वातन्त्र्यसम्भवे कथं तस्य स्वातन्त्र्यमनुपहतमिति तत्राह– न यदिति । यत् (जगत्) उत्पत्तेः पुरस्तात् केवलं न, यन् नाशात् पश्चादुत केवलनं न, यन् मध्ये च स्थितिकाले च केवलं च, यत् परेण भूतमुत्पन्नं यत् परेण प्रसिद्धं सत्तादिमत् तद् व्यपदेशमात्रं स्वतन्त्रमिति वाङ्मात्रम् । अतस्तद् ब्रह्मैव सत् परमं सत्यं स्यादिति मे मनीषा । ‘‘तत् स्वातन्त्र्येण नैवास्ति यदुत्पत्तिविनाशवत् । स्वातन्त्र्येणास्तिता तस्य यत् सत्ताज्ञानदं सदा’’ इत्यनेन कालत्रयसत्वप्रतिषेधेन सदसद्विलक्षणं जगदिति निरस्तम् ॥ २२ ॥
मध्ये च तत्केवलं नेति सम्बध्यते । ‘तत्स्वातन्त्र्येण नैवास्ति यदुत्पत्तिविनाशवत् । स्वातन्त्र्येणास्तिता तस्य यत्सत्ताज्ञानदं सदे’ति वैभवे । ‘जगतो नास्तिता सैव या पराधीनता सदा । अभावस्तु कुतस्तस्य यद्विभातीह सर्वदे’ति प्राकाश्ये ॥ २२ ॥
श्रीनिवासतीर्थीया
ननु हरिरेव स्वतन्त्र इति कुतः । अन्यत्स्वतन्त्रं किं न स्यादित्यत आह ॥ न यदिति । अत्र पुरस्तात्पश्चान्मध्ये च यन्नेति त्रिकालनिषेधमुक्त्वा परेण यद्भूतं यच्च प्रसिद्धं तद्व्यपदेशमात्रं न वस्तुत इति मिथ्यात्वमुच्यत इत्यतो योजयति ॥ तदेव केवलमिति । सदित्यस्य सत्यमित्यर्थः । पूर्वश्लोकोक्तं केवलमिति पदमत्रानुवर्तनीय-मिति भावेन केवलं सत्यमित्युक्तम् । ननु तदेव केवलं सत्यं चेज्जगतः सत्यत्वं नास्तीति प्रतीयतेऽतः प्रमाणेनैव तां शङ्कां परिहरति ॥ स्वातन्त्र्यमिति । अन्यस्य जगतः । ननु विष्णोरन्यस्य प्रवाहतः सदाऽस्तित्वं सत्यत्वमित्युक्तमयुक्तम् । जडस्य सत्यत्वं न स्या-दित्यत आह ॥ पुंप्रकृत्योरिति । तेनानित्यप्रपञ्चस्य प्रवाहतः सदाऽस्तिता सत्यत्वम् । नित्यप्रपञ्चस्य तु स्वरूपेण सदाऽस्तिता सत्यत्वमिति भावः । मध्ये च तन्नेत्येतदप्रतीतेर्व्याचष्टे ॥ मध्ये च तत्केवलं नेतीति । प्रकारान्तरेण व्याचष्टे ॥ तदिति । जगत्स्वातन्त्र्येण नैवास्तीत्यर्थः । कुतः । यद्यस्मात्तदुपत्पत्तिविनाशवदित्यर्थः । तर्हि स्वातन्त्र्यं कस्येत्यत उक्तम् ॥ स्वातन्त्र्येणेति । तस्य विष्णोः । कुत इत्यत उक्तम् ॥ यदिति । यस्मात्कारणात्सत्ताज्ञानदम् । जगदिति शेषः । अनेन भूतशब्दस्य सत्तार्थ-कत्वं च प्रसिद्धशब्दस्य ज्ञानार्थकत्वमित्युक्तं भवति ॥
तथा चायमर्थः ॥ यद्ब्रह्म पूर्वस्तात्पूर्वकल्पे केवलं नाद्वितीयं न किन्तु सद्वितीयं तदेव सत्यं स्वतन्त्रं स्यादिति मे मनीषा । उत्तरत्राप्यस्यान्वयो द्रष्टव्यः । तथा च यद्ब्रह्म पश्चा-दुत्तरकल्पे केवलं नाद्वितीयं न किन्तु सद्वितीयम् । यद्ब्रह्म मध्ये इदानीं केवलं नाद्वितीयं न किंतु सद्वितीयं तदेव सत्यम् । ननु कालत्रये ब्रह्मणः केवलं नेति केवलत्वं निषिद्धम् । तथात्वे केवलो निर्गुणश्चेति श्रुतिविरोध इत्यत उक्तम् ॥ तद्व्यपदेशमात्रमिति । तत्केवलो निर्गुणश्चेति वचनं व्यपदेशमात्रं वाङ्मात्रम् । तथा च जडामिश्रत्वादिरूपस्तस्यान्य एवार्थोऽ-स्तीत्याशयः । अनेन कालत्रयेऽपि ब्रह्मजगतोरुभयोरपि सत्वमुक्तं भवति । ननु तर्ह्युभयोः सत्वाविशेषाद्ब्रह्मवज्जगतः स्वातन्त्र्यं स्यादित्यतस्तत्सत्तायास्तदधीनत्वान्नेत्याह ॥ भूत-मिति । यज्जगद्भूतं सत्तावद्यत्प्रसिद्धं च ज्ञानादिमत्परेणैवास्ति । तदधीनत्वेनास्तीति यावत् । यद्वा । यज्जगत्पुरस्तादुत्पत्तेः पूर्वं स्वतन्त्रं न । यत्पश्चादुत्तरत्र स्वतन्त्रं न । यन्मध्ये स्वतन्त्रं न । ननु मध्येऽहं कर्तेति स्वातन्त्र्यं प्रतीयतेऽतः कथं निषेध इत्यत उक्तम् ॥ तद्व्यपदेशमात्रमिति । पूर्वोत्तरत्र चाभावेन मध्ये स्वातन्त्र्यं वाङ्मात्रमित्यर्थः । तथा च यन्मध्ये स्वतन्त्रं न तदिदं जगद्येन परेण भूतं प्रसिद्धं तदेव केवलं सत्यमिति मे मनीषा स्यादिति जगतः कालत्रयेऽपि स्वातन्त्र्यं निषिद्धं भवतीति ॥ २२ ॥
प्रमेयचन्द्रिका
न युत्परस्तादिति ॥ अत्र प्रकृतं स्वतन्त्रमित्येतन्न यत्पुर-स्तादित्यादि सर्वत्र सम्बध्यते । तथा च यत्पुरस्तादुत्पत्तेः पूर्वं स्वतन्त्रं न । यन्मध्ये स्थितिकालेऽपि स्वतन्त्रं न । किं त्वहङ्कर्त्तेत्यादिकं व्यपदेशमात्रं वाङ्मात्रम् । किं तु तदेतज्जगत् । यत्तु येन परेण । भूतं जातम् । भू सत्तायामिति धातोः सत्ता वाऽत्र क्वाचित्का विवक्षिता । नित्यं सत्तावद्वा । प्रसिद्धं प्रमितम् । उपलक्षणतयाऽत्र प्रवृत्तमिति च ग्राह्यम् । एतेन परेण सत्ताप्रतीतिप्रवृत्तिमदिति यावत् । तस्मात्कारणाद्ब्रह्मैव सत् । केवलं स्वातन्त्र्यात्स्यादिति मनीषेति मूलार्थः ॥
केचिदेवं व्याचक्षते ॥ यत्पुरस्तादित्यादि ॥ कालत्रयेऽपि सदर्थं न किं तु सदिति व्यवहारमात्रविषयम् । अतः परेण यद्यद्भूतं प्रसिद्धं तत्तत्सर्वं तद्ब्रह्मैव । तद्व्यतिरेकेण मृषेति । तदयुक्तम् । ज्ञानं विवेक इति श्लोके तदेव केवलमिति स्वातन्त्र्यवाचकपदसद्भावात् । यथा हिरण्यमिति श्लोके च केवलमित्यस्यानुवृत्तेरावश्यकत्वाद्विज्ञानमित्यव्यवहितश्लोके च तदेव सत्यमिति स्वातन्त्र्यवाचकपदसद्भावाच्च । स्वातन्त्र्यस्यैव सर्वत्रानुवर्तमानत्वेन प्रकारप्राप्तं स्वातन्त्र्यमेव सर्वत्र सम्बध्यैतच्छ्लोकस्य व्याख्यानस्य युक्तत्वात्प्रकरणविरुद्धम् । याथार्थ्यं संबध्य याथार्थ्यनिषेधः सर्वप्रमाणविरुद्धत्वात्परेण भूतमित्यादेरयाथार्थ्यद्विरोधकत्वाच्चेत्याशयेनाह ॥ तदेव केवलमिति ॥ इत्यादावुक्तं स्वातन्त्र्यमिति शेषः । तथा च तदेव केवलं तदेव सत्यमिति प्रकरणप्राप्तं स्वातन्त्र्यमेव न यत्पुरस्तादुत यन्न पश्चादित्यादौ सर्वत्र सम्बध्यत इत्यर्थः । अथवा तदेव केवलं तदेव सत्यमिति सर्वत्र पूर्वश्लोकेष्वनुवर्तमानं स्वातन्त्र्यमस्मिन्नपि श्लोके सम्बध्यत इत्यर्थः ।
अभिधानस्योक्तत्वात्केवलं स्वतन्त्रमित्यस्तु सत्यमित्यस्य स्वातन्त्र्यार्थकत्वं कथमित्यतः प्रमाणमाह ॥ स्वातन्त्र्यमेवेति ॥ विष्णोः सत्वं नाम स्वातन्त्र्यमेव । पराधीनसत्यत्वस्य सत्यशब्दे मुख्यार्थत्वाभावादिति भावः । तर्हि विश्वं सत्यमित्यादिश्रुतिः कथमित्यत आह ॥ अन्यस्येति ॥ विष्णोः सकाशादन्यस्येति योज्यम् । अन्यस्येत्यनित्यजडस्येत्यर्थः । सदाऽस्तित्वं सद्भावः । सत्यत्वमित्यनुवर्तते । प्रकृतिपदेन वेदाकाशौ उपलक्ष्येते । पराधीनतयाऽवस्थितिः सत्यत्वमिति भावः । पूर्वं प्रकृतं स्वातन्त्र्यं न यत्पुरस्तादित्यादौ सर्वत्र सम्बध्यत इत्युक्तम् । मास्तु वा स्वातन्त्र्यवाचकस्य केवलमित्यस्य सर्वत्र सम्बन्धः । मध्ये च यत्रेत्यत्र केवलमित्यस्य सम्बन्धेऽप्यर्थो युज्यत इत्याशयवानाह ॥ मध्ये चेति ॥ ततश्च यत्पुरस्तान्न यत्प्रागभावप्रतियोगि यत्पश्चान्न प्रध्वंसप्रतियोगि तदुत्पत्तिविनाशवदिति यावत् । तन्मध्येऽपि केवलं नेति मूलार्थ इति भावः ।
अस्मिन्नर्थे प्रमाणमाह ॥ स्वतन्त्र्येणेति ॥ यत्सर्वस्य त्रिविधसत्ताप्रदमुक्तरूपं ज्ञान-प्रवृत्तिदं च तस्यैव स्वातन्त्र्येणेत्युत्तरार्धयोजना । प्रकारान्तरेणापि मूलयोजनां प्रमाणेन दर्शयति ॥ जगत इति ॥ सैव न त्वभावप्रतियोगिता । तदुपपादयति ॥ अभावस्त्विति ॥ अस्य जगतो ऽभावो अत्यन्ताभावः । कुतस्तु कुत एव स्यान्न कुतोऽपि । तदुपपादनं यस्माज्जगदिह प्रत्यक्षादिप्रमाणेषु विभाति प्रतीयत इति । न हि प्रमाणप्रमितस्यासत्वमिति भावः । एतेन एवं मूलयोजना सूचिता । यत्पुरस्तान्नास्ति यच्च पश्चाच्च नास्ति यन्मध्येऽपि नास्ति किंतु परतंत्रत्वेन मुख्यसत्वाभावात्सदिति व्यपदेशमात्रम् । वस्तुतस्तु यद्यद्भूतं प्रसिद्धं तत्सर्वं येन परेण ब्रह्मणा भवति तद्ब्रह्मैतत्केवलं स्यादिति मनीषेति । अस्यां योजनायां केवलमित्यनुवर्तनीयम् । नास्तितोक्त्यैव पराधीनतालाभात् । जगतो नास्तिता सैव या पराधीनतेत्युक्तत्वादिति ज्ञेयम् ॥ २२ ॥
अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः ।
ब्रह्म स्वयंज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २३ ॥
तात्पर्यम्
‘अविद्यमानता नाम जगतः परतन्त्रता । यथाऽशक्तस्तु पुत्रादि-रसन्नित्युच्यते जनैरि’ति विवेके ॥ अतो ब्रह्मण एव विभाति । द्वितीयं ब्रह्म प्रकृतिः । आत्मा जीवः प्रकृतीन्द्रियविषयजीवादिविचित्रं जगद्ब्रह्मत एव विभातीत्यर्थः ॥ २३ ॥
पदरत्नावली
नन्वसच्चेन्न प्रतीयेत सच्चेन्न बाध्येतेत्यन्यथानुपपत्तिप्रमाणसद्भावात् सदसद्वै-लक्षण्यापलापो न युज्यत इत्याशङ्क्य प्रपञ्चस्यासत्वोक्त्या स्वातन्त्र्यमेव निषिध्यते, न तु प्रतीत्यन्यथानुपपत्त्याऽनिर्वचनीयत्वं, परमार्थसत्वाभावेन नाशोपपत्तेश्च । सच्चेन्न बाध्येते-त्यस्याप्यन्यथोपपत्तिरिति भावेनाह– अविद्यमान इति । सदसद्वैलक्षण्यमनुपपन्नं चेज् जगदसदेव स्यादिति शून्यवादिमतं वाऽनेन प्रत्याह– अविद्यमान इति । ब्रह्मणो द्वितीयो वैकारिको विकारयोग्यो राजससर्गः रजोगुणसम्बन्धी सर्गो यस्य प्रपञ्चस्य स तथा एषः प्रपञ्चो ऽविद्यमानोऽपि असन्नप्य-स्वतन्त्रोऽपि अवभासते स्वतन्त्रमिति, अज्ञानामिति शेषः । यतः स्वयञ्ज्योतिर्ब्रह्म परमार्थसत् स्वतन्त्रं विभाति, विदुषामिति शेषः । इतोऽप्यविद्यमानत्वमस्वतन्त्रत्वमेव नान्यदिति भावेनाह– अत इति । ब्रह्म मूलप्रकृतिः, श्रोत्रादीन्द्रियाणि, अर्थाः शब्दादयः, आत्मा जीवः, विकारा इन्द्रियाभिमानिदेवाः, एवमादिभिश्चित्रं विचित्रं जगदतो ब्रह्मत एव विभातीत्यतो नानिर्वाच्यं न शून्यमित्यर्थः । तस्य भासा सर्वमिदं विभातीति श्रुतेः । ‘‘अविद्यमानता नाम जगतः परतन्त्रता । यथाऽशक्तस्तु पुत्रादिरसन्नित्युच्यते जनैः’’ इति, ‘‘जगतो नास्तिता सैव या पराधीनता सदा । अभावस्तु कुतस्तस्य यद् विभातीह सर्वदा’’ इति प्रमाणद्वयेन कल्पित एवायमर्थः न स्वकपोल-कल्पितः ॥ २३ ॥
श्रीनिवासतीर्थीया
ननु जगत्स्वतन्त्रमेव किं न स्यादित्यतस्तदज्ञानां मतम् । ज्ञानिनां मतं तु जगद्ब्रह्माधीनमिति वक्तुं प्रवृत्तोऽयमविद्यमान इति श्लोकः । अत्र जगतोऽ-सत्वं स्पष्टमुच्यत इत्यतो व्याचष्टे ॥ अविद्यामानता नामेति । कुत इत्यतो दृष्टान्तमुखेन विवृणोति ॥ यथेति । असन्नित्युच्यते जनैरस्वतन्त्रत्वादित्याशयः । अतः स्वयंज्योति-र्ब्रह्मैव जगदाकारेण भातीत्यन्यथाप्रतीतिनिरासाय योजयति ॥ अत इति । ब्रह्मणः सकाशादेवेत्यर्थः । द्वितीयं जगत् । नात्रातःशब्दस्य हेत्वर्थकत्वं किन्तु ब्रह्मार्थकत्वम् । तच्च पूर्वं प्रकृतमित्यतःशब्देन तत्परामृश्यत इत्यर्थः । ब्रह्मशब्दार्थमाह ॥ ब्रह्मेति । आत्मशब्दार्थमाह ॥ आत्मेति । कोऽर्थः संपन्न इत्यत आह ॥ प्रकृतीति । ततश्चेयं योजना । यो द्वितीयो वैकारिको विकारयोग्यो राजससर्गो रजोगुणसम्बन्धी सर्गो यस्य स एष प्रपञ्चोऽविद्यमानोऽप्यसन्नप्यस्वतन्त्रोऽप्यवभासते । स्वतन्त्रम् इत्यज्ञानामवभासते । कुतः । यतः स्वयंज्योतिर्ब्रह्मैव स्वतन्त्रम् । तर्हि कथं जगदवभासत इत्यत उक्तम् ॥ अत इति । ब्रह्मेन्द्रियार्थात्मविकारचित्रम् । प्रकृतीन्द्रियजीवविषयादिविचित्रं जगत् । अतो ब्रह्मतयैवावभासते ब्रह्माधीनतयैवावभासत इति ॥ २३ ॥
प्रमेयचन्द्रिका
नन्वहं कर्त्तेत्यादिस्वातन्त्र्यप्रतीतेः कथं जगतोऽस्वातन्त्र्यमित्यत उच्यते ॥ अविद्यमानोऽपीति ॥ अत्राविद्यमान इत्यसदुच्यत इति भावादाह ॥ अविद्य-मानतेति ॥ परतन्त्रता कथमविद्यमानशब्दार्थ इत्यत उक्तम् ॥ यथेति ॥ यथा सन्नपि पुत्रभृत्यादिः पित्रादिसेवायामशक्तत्वादसन्निति मम पुत्रादिर्नेत्युच्यते तथेत्यर्थः । जगतो नास्तितेति पूर्वोदाहृतं प्रमाणमत्र श्लोके वा संयोज्य व्याख्येयम् । तदा नास्तितेत्यस्या-विद्यमानतेत्यर्थो ज्ञेयः । तर्ह्यविद्यमानतेति तत्रैव मानान्तरम् । अत इत्येतदनूद्य विवक्षितार्थं वदन्नन्वयं दर्शयति ॥ अतो ब्रह्मण एव विभातीति ॥ पुनरुक्तिवारणाय चतुर्थ-पादोक्तब्रह्मशब्दस्यार्थमाह ॥ द्वितीयमिति ॥ द्वितीयवारोक्तमित्यर्थः । प्रकृतिश्चेतना । मम योनिर्महद्ब्रह्म, पञ्चभिः पञ्चभिर् ब्रह्मेति उभयत्र प्रयोगदर्शनात् । आत्मपदस्य विष्णुपरत्वे पौनरुक्त्यादाह ॥ आत्मा जीव इति ॥ एतेनान्वयो दर्शितो भवति । भिन्नपदत्वे इन्द्रियेत्यादिपदस्य ब्रह्मेत्येतद्विशेषणत्वायोगादेकपदत्वेऽन्वयाभानाद् द्वितीयार्धार्थमाह ॥ प्रकृतीति ॥ ब्रह्मेत्यस्य प्रतिपदं प्रकृतीति । एतेनैकमेवेदं पदमिति सूचितम् । आत्मेत्यस्य जीवेति । आदिपदेनार्थविकारयोर् ग्रहणम् । जगदिति विशेषोक्तिः । अत इत्यस्यार्थो ब्रह्मत एवेति । एतेनान्वयो दर्शितो भवति ।
तदयं मूलार्थः ॥ यो वैकारिको विकारयोग्यः रजोगुणनिमित्तकतावानेष प्रपञ्चोऽ-विद्यमानोऽस्वतन्त्रोऽपि अज्ञानां स्वतन्त्र इवेति शेषः । अवभासते । अत्र वैकारिको राजससर्ग इति विशेषता प्रपञ्चस्यास्वातन्त्र्योपपादनायोक्तम् । इतश्चास्वातन्त्र्यमित्युच्यते ॥ ब्रह्मेति ॥ यत्स्वप्रकाशं ब्रह्म अतो ब्रह्मण एव ब्रह्मेन्द्रियार्थात्मविकारयुक्तं ब्रह्म प्रकृतिश्चेन्द्रियाणि च अर्था विषयाः शब्दादितन्मात्राः पृथिव्यादिभूतानीति वा । ते च आत्मनो जीवस्य जीवैर्ब्रह्म चित्रमेतज्जगद्विभाति प्रतीयते । तथा चित्प्रकृत्याद्यशेषजगतो यत्स्वयंज्योतिर्यद्ब्रह्म तदधीनप्रतीकत्वाद्युक्तमस्वातन्त्र्यमिति ॥ २३ ॥
एवं स्फुटं ब्रह्म विविच्य हेतुभिः परापवादेन विवेकबुध्या ।
छित्वाऽऽत्मसन्देहमुपारमेत स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २४ ॥
पदरत्नावली
एवं तावज्ज्ञातव्यांशं ज्ञात्वा मुनिना परं कर्तव्यं किमित्यत्राह– एवमिति । एवमुक्तप्रकारेण विवेकबुध्या सर्वस्माद् वैलक्षण्यज्ञानेनानुगृहीतहेतुभिर् निर्दोषोपपत्तिभिः परापवादेन परस्यापवादेन नेदं नेदमिति निषेधमुखेन, एष आत्मा नेति नेतीति श्रुतेः, स्फुटं ब्रह्म विविच्य पृथक्कृत्य ज्ञात्वा आत्मसन्देहं मनसि स्थितं संशयं च्छित्त्वा आखिलकामुकेभ्यः, अनल्पतृष्णाजननशीलेभ्यो विषयेभ्य उपारमेत । शब्दादिविषयोपरमे सुखानुत्पत्तिरत्राह– स्वानन्दतुष्ट इति । स्वानन्दानुभवेनालम्बुद्धिं प्राप्तः । अनेन जीवपरमभेदज्ञानमेव मुक्तिसाधनं नाभेदज्ञानमतः श्रेयोऽर्थिभिरभेदमतं सर्वथा हेयमिति दर्शितम् ॥ २४ ॥
श्रीनिवासतीर्थीया
ज्ञातव्यांशमुक्त्वोपसंरति ॥ एवमिति । एवमुक्तप्रकारेण परापवादेन नेति नेति इति वैलक्षण्यज्ञानेनानुग्रहीतैर्हेतुभिर्निर्दोषोपपत्तिर्विवेकबुद्ध्या निश्चय-बुद्ध्या स्फुटं ब्रह्म विविच्य पृथक्कृत्य तेन ज्ञानेनात्मसन्देहं मनसि स्थितं सन्देहं छित्वा स्वरूपानन्देन तुष्टः सन् अखिलकामुकेभ्यस्तृष्णाजननशीलेभ्यः सर्वदुर्विषयेभ्य उपारमेतेत्यर्थः
॥ २४ ॥
प्रमेयचन्द्रिका
पूर्वं ज्ञानासिनेत्युक्तं भगवत्स्वातन्त्र्यं प्रकृत्याद्यस्वातन्त्र्यविषय-मित्याशयेन हरिस्वातन्त्र्यं तदन्यस्यास्वातन्त्र्यं सप्रपञ्चज्ञानविवेक इत्यादिभिः श्लोकैर् उपपाद्य ज्ञानासिना च्छित्वाऽतृष्णो विचरतीत्युक्ततृष्णत्यागोपायसूचनपूर्वकमुपसंहारः क्रियते ॥ एवमिति ॥ एवमुक्तप्रकारेण स्वतन्त्रमिदमस्वतन्त्रमिति विविक्तज्ञानेनानुगृहीतैर्हेतुभिर्निर्दोषो-पपत्तिः परापवादेन परस्य ब्रह्मणो जगत्तादात्म्यापवादेन परस्यान्यस्य जगतो ब्रह्मत्वनिरासे-नेति वा । नेति नैवात्मेति श्रुत्युक्तन्यायेन सर्ववैलक्षण्यरूपापवादेन वा ब्रह्म विविच्य सर्वं भिन्नं विसदृशमिति ज्ञात्वा आत्मनि मनसि स्थितं तत्वविषयकसन्देहं छित्वा, खिलमल्पम् अखिलमनल्पम् । कामुकाः कामुकसम्बन्धिनः । कामजनका विषयाः । तथा चाखिल-कामुकेभ्यो ऽनल्पतृष्णाजननशीलेभ्यो विषयेभ्य उपारमेत उपरतो भवेत् । विषयत्यागे सुखाभाव इत्यत उक्तम् ॥ स्वानन्दतुष्टः ॥ भगवत्स्वातन्त्र्यानुभवेन व्यक्तस्वरूपानन्देनैवा-लम्बुद्धिं प्राप्त इति । एतेन जगतोऽसारताज्ञानं हरेः स्वातन्त्र्यादिज्ञानं च तृष्णात्यागोपाय इति उक्तं भवति ॥ २४ ॥
नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुजलं हुताशः ।
मनोऽन्नमात्रं धिषणा च सत्वमहङ्कृतिः स्वं कृतिरर्थसाम्यम् ॥ २५ ॥
तात्पर्यम्
वायुरेव स्वयं प्राणस्तत्रस्थे चोदतेजसी । उदेन तेजसा चैव प्राणस्य हि कृतं वपुरि’ति प्रकाशिकायाम् ॥ ‘प्राणस्य वायुरूपस्य भूतत्रयकृतं वपुः । ततो (यतो) हि पार्थिवं नात्र खं चात्यल्पमुदाहृतमि’ति सन्धारणे ॥ सत्वं मूलबुद्धिः । अहं शृृणोम्यहं स्पृशाम्यहं पश्यामीति सर्वार्थेषु समत्वादहङ्कारोऽर्थसाम्यम् । ‘न देहो नेन्द्रिय-प्राणमनोबुध्द्यहमादयः । विष्णुश्चिदानन्दतनुः स हि जीवाधिपः सदे’ति सत्तत्त्वे ॥२५॥
पदरत्नावली
परापवादप्रकारं विवृणोति नात्मेति । अत्र नेति प्रत्येकं सम्बन्धितव्यम् । पार्थिवं वपुः शरीरम् आत्मा परमात्मा न भवति । इन्द्रियाणि न हि । देवा इन्द्रियाभिमानिनो न हि । वायुजलं हुताशः वायुजलहुताशनकृतशरीरो ऽसुर् मुख्यप्राणश्च न । ‘‘वायुरेव स्वतः प्राणस्तत्रस्थे उदतेजसी । उदेन तेजसा चैव प्राणस्य हि कृतं वपुः’’ इति वचनात्, ‘‘प्राणस्य वायुरूपस्य भूतत्रयकृतं वपुः । यतो हि पार्थिवं नात्र खं चात्यल्पमुदाहृतम्’’ इत्यस्माच्चोक्तं युक्तम् । मन आत्मा न । अन्नमात्रम् अन्नं पृथिवी मात्रं गन्धादिमात्रा च न । एकवद्भावविवक्षया ह्रस्वत्वम् । धिषणा प्राकृतबुद्धिश्च न । सत्वं मूलबुद्धिर् अहङ्कृतिरहङ्कारतत्वं खं महाकाशं च न । कृतिर् दर्शनादिक्रिया च न । अहं शृणोम्यहं स्पृशाम्यहं पश्यामीति सर्वार्थेषु समानत्वा-दहङ्कारोऽभिमानविशेषोऽर्थसाम्यं चात्मा न भवतीत्यर्थः । ‘‘नहि देहो नेन्द्रियप्राणमनोबुध्यहमादयः । विष्णुश्चिदानन्दतनुः स हि जीवाधिपः सदा’’ इति वचनात् । स वा एष आत्मा नेतिनेतीति श्रुत्यर्थ एव विव्रियते ॥ २५ ॥
श्रीनिवासतीर्थीया
परापवादप्रकारं विवृणोति ॥ नात्मेति । अत्रात्माऽसुर्नेत्यनेनैव प्राणभिन्नत्वस्य प्राप्तत्वात्पुनर्वायुजलं हुताश इत्यनेन किमर्थमुच्यत इत्यत आह ॥ वायु-रेवेति । वायुरेव स्वयं प्राण इत्यनेन वायुजलमित्यत्र वायुशब्दः प्राणपर इत्युक्तं भवति । तत्रस्थे प्राणस्थे । अनेन वाय्वाद्याधारत्वेन स्थितोदतेजसी गृहीते इत्युक्तं भवति । ननु तद्गृहणे क उपयोग इत्यत आह ॥ उदेनेति । वाय्वाद्याधारत्वेन स्थितजलहुताशशरीरोऽसुः प्राणो नेत्येकेन प्रकारेण व्याख्याय प्रकारान्तरेणापि व्याचष्टे ॥ प्राणस्येति । पञ्चभूतेषु त्रयमेव कुतो गृहीतमित्यत आह ॥ ततो हीति ॥ अत्यल्पमिति । तथा चाल्पत्वादविवक्षेति भावः । इदमुक्तं भवति । यदा वायोर्ब्रह्माण्डाद्बहिः पञ्चभूतोत्पत्तेः प्रागुत्पत्तिस्तदा प्रकृत्यात्मकमूलजल-तेजोभ्यामेव तच्छरीरमुत्पन्नम् । यद्वा ब्रह्माण्डान्तरुत्पत्तिस्तदोक्तविवक्षया भूतत्रयकृतं वपुरिति ।
धिषणेति बुद्धेर्गृहीतत्वात्पुनः सत्त्वमिति बुद्धेर्ग्रहणे पौनरुक्त्यमित्याशङ्कायामाह ॥ सत्त्वं मूलबुद्धिरिति । महत्तत्त्वजन्यं बुद्धितत्त्वं मूलबुद्धिशब्देनोच्यते । अहंकारजन्या बुद्धिर्धिषण-शब्देनोच्यते । अतो न पौनरुक्त्यमिति भावः । अर्थसाम्यमित्यनेन किमुच्यत इत्यतोऽ-त्राभिप्रेतार्थं वदंस्तस्यान्वयं दर्शयति ॥ अहमिति । अर्थेषु श्रवणादिषु समत्वादहमुल्लेखस्य समत्वात् । श्लोकार्थे प्रमाणमाह ॥ नेति । ततश्चात्मा परमात्मा पार्थिवं वपुर्न । आत्मा इन्द्रियाणि न । देवास्तदभिमानिनो देवाश्चात्मा न । वाय्वाधारजलहुताशशरीरोऽसुरप्यात्मा न । अथवा आत्मा वायुजलहुताशलक्षणभूतत्रयकृतशरीरोऽसुर्न । मनोऽन्नं पृथिवी मात्रं पञ्चतन्मात्रं न । धिषणा चाहंकारजन्या बुद्धिर्न । सत्त्वं मूलबुद्धिरित्येते आत्मा न भवतः । खं महाकाशं न । कृतिः करणमात्मा न । अर्थसाम्यमहंकृतिः । अहं शृृणोमीत्यादिरूपेण सर्वार्थेषु समत्वादहंकारोऽर्थसाम्यम् । अर्थसाम्यमहङ्कार आत्मा नेत्यर्थः ॥ २५ ॥
प्रमेयचन्द्रिका
उक्तस्य सर्ववैलक्षण्यस्य विवरणं क्रियते ॥ नात्मेति ॥ पार्थिवं पृथिवीप्रवरम् । वपुः शरीरम् । इन्द्रियाणि देहेन्द्रियाभिमानिनो देवाश्चात्मानः न भवन्तीति प्रत्येकं सम्बन्धः । असुर्मुख्यप्राणः । वायुजलं हुताशः । अत्र वाय्वित्यविभक्तिको निर्देशः । सप्तमीविभक्तिः । तथा च वायौ स्थितं जलं हुताशश्च वायोः शरीरभूतावबग्नीति यावत् । यद्वा वायुजलंहुताश इत्येकं पदम् । जलमित्यत्र छान्दसो अनुस्वार इति वा । समासे सुलोपाभावो वा । असुरित्यस्य विशेषणमेतत् । तथा च वायुश्चासौ जलहुताशश्चेति समासः । वायुजलहुताशरूपभूतत्रयकृतशरीरो मुख्यवायुरित्यर्थः । अयमात्मा न मनुश्च अन्नं पृथिवी प्रसिद्धान्नं वा । तच्च शब्दादितन्मात्राश्च ग्राह्याः । सर्वत्रात्मा नेति सम्बध्यते इति मूलार्थः ॥
अत्र वायुजलंहुताश इति पृथग्भूतत्रयमुच्यत इति भानाद्विवक्षितमर्थं प्रमाणेनाह ॥ वायुरेवेति ॥ स्वयं प्राणः साक्षान्मुख्यप्राण एव वायुर् वायुपदोक्तः । तत्र असुर्वायुजलम् इत्यनेन वाय्वित्यविभक्तिकः शब्दः । वायुरित्यर्थः । अधिकरणसप्तमीबलात्तत्रस्थं जलं तत्रस्थो हुताशाश्चेति योजना सूचिता भवति । तत्रस्थत्वं नाम किमित्यत उक्तम् ॥ उदेनेति ॥ अत्राद्येनैवशब्देन भूतान्तरं व्यावर्तयति । द्वितीयेन देवतान्तरस्य चाध्यात्मं मुख्यप्राणाति-रिक्ताधिदैवादिरूपान्तरस्य च व्यावृत्तिः क्रियत इति ज्ञेयम् । वायुजलंहुताश इत्यस्य प्रकारान्तरेण योजनां प्रमाणान्तरेणाह ॥ प्राणस्येति ॥ मुख्यवायुरूपस्य वाय्वाख्य-रूपोपेतस्य । भूतत्रयेति । जलानलानिलाख्यभूतत्रयेत्यर्थः । भूतत्रयमात्रग्रहणे निमित्तमाह ॥ यत इति ॥ अत्र रूपविशेषे पार्थिवं पृथिवीकार्यमत्र नैव । खमाकाशस्तु अत्यल्प-मेवेत्यविवक्षया भूतत्रयमित्युक्तमिति भावः । अत्र दीपिकायाम् अण्डाद्बहिः पञ्चभूतोत्पत्तेः प्रागुत्पन्नस्य वायुदेवस्य प्रकृत्यात्मकमूलजलतेजोभ्यामेवोत्पत्तिः । अण्डान्तर्भूतत्रयकृतं वपुरिति । प्रकाशिकायां तु प्रणाख्यम् अध्यात्मरूपं तच्छरीरं भूतद्वयजन्यम् । यद्वाय्वाख्य-मधिदैवाधिभूतं रूपं तच्छरीरं भूतत्रयजन्यमित्युक्तम् ।
धिषणापदेन पुनरुक्तिवारणाय सत्वमित्येतदनूद्यार्थमाह ॥ सत्वमिति ॥ अत्र दीपिकायां महत्तत्वजन्यं सरस्वत्यभिमन्यमानकं बुद्धितत्वं सत्वशब्देन गृहीतम् । धिषणेति बुद्धिः प्राणस्तैजस इति तैजसाहङ्कारजन्या अभिमन्यमानिका बुद्धिर्गृहीतेति न पौनरुक्त्य-मित्युक्तम् । प्रकाशिकायां तु अवान्तरबुद्धिर्धिषणा तत्प्रयोजिका मूलबुद्धिः सत्वमित्युक्तम् । अर्थसाम्यमिति किमुच्यत इत्यभानात्तदभिप्रेतमर्थं वदन्नन्वयं दर्शयति ॥ अहमिति ॥ इतिशब्द आद्यर्थः । प्रकारवचनश्च । इत्यादिप्रकारेण सर्वार्थेषु गृह्यमाणेष्वहङ्कारस्य समत्वा-दहङ्कारोऽर्थसाम्यमित्युच्यत इत्यनेन विशेषणविशेष्यभावेनान्वय इत्युक्तं भवति ।
श्लोकं प्रमाणेन व्याचष्टे ॥ न देह इति ॥ देहो न विष्णुरिन्द्रियादयो न विष्णुः । आदिपदेन मात्रादिग्रहणम् । हि यस्माद्विष्णुः सदा चिन्दानन्दतनुर्जीवाधिपश्च तस्मादिति पूर्वेणान्वयः ॥ २५ ॥
समाहितैः कः करणैर्गुणात्मभिर्गुणो भवेत् तत्सुविविक्तधाम्नः ।
विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतै रवेः किम् ॥ २६ ॥
पदरत्नावली
इन्द्रियसमाधानविक्षेपयोर्हरिप्रियाप्रियसाधनत्वेनोच्यमानत्वात् ताभ्यां हरेरपि गुणदाषौ स्यातां किमिति तत्राह– समाहितैरिति । गुणात्मभिः शब्दादिविषयमनस्कैः पुरुषैः स्वविषयत्वेन समाहितैरेकाग्रचित्तत्वेन स्थापितैः करणैरिन्द्रियैस् तत्सुविविक्तधाम्नस् तेभ्य इन्द्रियेभ्यो विषयेभ्यश्च पृथग्भूतस्वरूपस्य प्राकृतेन्द्रियरहितस्य भगवतः को गुणो भवेत् । न कोपि । विषयेषु विक्षिप्यमाणैरितस्तत आकृष्यमाणैरिन्द्रियैर् हरेः किं दूषणम् । न किमपि दूषणम् । अत्रोदाहरणमाह– घनैरिति । आह्लादरूपैर्घनैरुपेतैः सर्वाह्लादगुणरूपस्य रवेः किं भवेत् । न किमपि प्रयोजनम् । विगतैर्दोषोपि भवेत् किम् । न भवेदेव । यथा रवेर्गुणदोषाभावेपि अन्येषां घनैरुपेतैश् छायया सुखं भवेत्, विगतैस्तापेन दुःखं भवेत् तथा समाहितकरणैः समाधानकर्तुः सुखं विक्षिप्तैर्दुःखं भवेदिति भावः । ‘‘समाहितेपि जीवेन विक्षिप्ते वा न तु क्वचित् । विशेषो विद्यते विष्णोस्तथापि तु समाहिते । प्रीतो भवति वै नित्यं सर्वधर्मकृतोऽपि च’’ इत्येतदुक्तार्थे मानम् ॥ २६ ॥
श्रीनिवासतीर्थीया
एवं जगद्विलक्षणस्य हरेरन्यप्रयुक्तगुणदोषौ न स्त इत्याह ॥ समाहितैरिति । तत्सुविविक्तधाम्नः । तेभ्य इन्द्रियेभ्यो विषयेभ्यश्चात्यन्तविलक्षणस्वरूपस्य हरेर्गुणात्मभिः शब्दादिविषयासक्तैः पुरुषैः समाहितैश्चित्तैकाग्य्रत्वेन स्थापितैः करणैरिन्द्रियैः को गुणो भवेत् । न कोऽपि । उत विक्षिप्यमाणैर्विषयेष्वितस्तत आकृष्यमाणैरिन्द्रियैर्हरेः किं दूषणं न किमपीति । अत्रोदाहरणमाह ॥ घनैरिति । उपेतैः प्राप्तैर्घनैर्मेघैः सर्वगुण-पूर्णस्य रवेः सूर्यस्य किं को वा गुणः । न कोऽपि । तथा विगतैर्मेघैस्तस्य किं किं दूषणं न किमपीत्येवमित्यर्थः ॥ २६ ॥
प्रमेयचन्द्रिका
प्रागुपारमेतेतीन्द्रियनिग्रहो हरिप्रीतये कार्य इत्युक्तम् । तत्रेन्द्रिय-समाधाने तदभावे च हरेः प्रीत्यप्रीतिसद्भावे इन्द्रियनिग्रहणं हरेरतिशयस् तदभावे तदभाव इति प्राप्तम् । अतिशयाद्यभावे प्रीत्याद्यनुपपत्तेरित्याशङ्का परिह्रियते ॥ समाहितैरिति श्लोकद्वयेन ॥ गुणात्मभिर्विषयमनस्कैः पुरुषैः, गुणात्मभिर्विषयोपसक्तैरिति वा । करणैरित्यस्य विशेषणम् । करणैर् इन्द्रियैः समाहितैर्निगृहीतैर्हरौ सम्यगाहितैर्वा तत्सुविविक्तधाम्नस् तेभ्यः करणेभ्यो विषयेभ्यश्चात्यन्तमसक्तस्वरूपस्य हरेः कोऽतिशयितो गुणः विक्षिप्यमाणैस्तैः करणैरुत किं नु दूषणम् । भवेदिति तत्र दृष्टान्तः । उपेतैः प्राप्तैर्विगतैर्वा मेघैः सूर्यस्य किं दूषणमाधिक्य-मित्यर्थः ॥ २६ ॥
यथा नभो वाय्वनलाम्बुभूगुणैर्गतागतैर्वा त्रिगुणैर्न सज्जते ।
तथाऽक्षरं सत्वरजस्तमोमलैरसङ्गतं संसृतिहेतुभिः परम् ॥ २७ ॥
पदरत्नावली
ननु हरेरपि सत्वादिगुणकार्येषु देहादिषु स्थितस्य तत्कृतगुणदोषौ जीववत् किं न स्यातामित्याशङ्क्याकाशवदसङ्ग एव न दोषवानित्याह– यथेति । यथा नभो वाय्वादीनां गुणैः स्पर्शादिभिर्न सज्जते तत्कृतविशेषवान्न भवति । वाशब्दश्चार्थः । अत्र नभसि गतागतैश्च देहादिभूतकार्यैर्गुणैश्च । सत्वादिगुणतत्कार्याणामसारतया तदन्तरं वर्तमानमक्षरं ब्रह्म संसृतिहेतुभिः सत्वादिगुणैस्तन्मयै रागादिदोषैश्च असङ्गतमसम्बन्धमेव । अत्र हेतुः परमिति । सत्वादिगुणेभ्य उत्तमत्वेन विलक्षणम् । अनेन निःसङ्गत्वेन मनः समाधानासमाधानाभ्यां हरेर्गुणदोषाभावेपि विषयसङ्गाज्जीवस्य तौ स्यातामिति दर्शितम् ॥ २७ ॥
श्रीनिवासतीर्थीया
तदेव विवृणोति ॥ यथेति । यथा नभ आकाशं वाय्वादि-गुणानां गुणैः स्पर्शादिभिर्न सज्जते सम्बद्धं न भवति तथा गतागतैर्यातायातैर्देहादिगुणैर्न सज्जते । तथा परमक्षरं संसृतिहेतुभिः संसारहेतुभिः सत्त्वरजस्तमोमलैस्तन्मलै रागादिदोषै-रसङ्गतमसम्बद्धमित्यर्थः ॥ २७ ॥
प्रमेयचन्द्रिका
एतस्यैव विवरणम् ॥ यथेति ॥ यथाऽत्र नभसि गतागतैर्वाय्वादि-भूतचतुष्टयगुणैरन्यैरातपहिमादिगुणैर्वा नभो न सज्जते । तथा परमुत्तमं सर्वविलक्षणं वाऽक्षरं ब्रह्म संसृतिहेतुभिः सत्वादिगुणकृतैस्तदादिभिर्मलैरसङ्गतमेवेत्यर्थः । तथा च मेघादीनां गता-गतैरितरेषामतिशयभावाभावयोः सद्भावेऽपि सूर्यनभसोस्तदभावः । एवमिन्द्रियसमाधान-विक्षेपाभ्यां जीवानामतिशयादिसद्भावेन हरेस्तस्य सर्वस्मादुत्तमत्वाद्विलक्षणत्वाच्च ॥ २७ ॥
तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् ।
मद्भक्तियोगेन दृढेन यावद्रजो निरस्येत तमःकषायम् ॥ २८ ॥
तात्पर्यम्
भगवतो गुणदोषाभावेऽपि जीवस्य सङ्गोऽवर्जनीय एव मुक्तिपर्यन्तम् । ‘समाहिते(ऽपि)न जीवेन विक्षिप्ते वा न तु क्वचित् । विशेषो विद्यते विष्णोस्तथापि तु समाहिते । प्रीतो भवति वै नित्यं सर्वधर्मकृतोऽपि चे’ति पाद्मे ॥ २८ ॥
पदरत्नावली
तर्हि मुमुक्षोः साधनविधानं व्यर्थमिति न मन्तव्यम् । सर्वदोषाणां सङ्गमूलत्वात् स एव मुमुक्षुणा पुरुषेण निर्मूलनीय इत्याह– तथापीति । हरेर्गुणदोषाभावेपि तावन्मायारचितेषु प्रकृतिनिर्मितेषु गुणेषु विषयेषु सङ्गः परिवर्जनीयः । कियन्तं कालम् । अन्यथा स्त्रीभिर्वा यानैर्वैत्यादि श्रुतिः सगुणविषया स्यादित्यतोऽवधिमाह– मद्भक्तीति । दृढेन मद्भक्तियोगेन यावद् रजस्तमश्च तज्जनितं कषेण कर्षणेन अयते गच्छतीति कषायं पापं च निरस्येत । मुक्तिपर्यन्तमिति भावः । अय गताविति धातुः ॥ २८ ॥
श्रीनिवासतीर्थीया
असङ्गतिपरिहाराय तथाऽपीति श्लोकतात्पर्यमाह ॥ भगवत इति । यथा भगवतो निर्दोषत्वमेवं जीवस्यापि निर्दोषत्वान्न समाधानं तदभावभावाभ्यां गुणदोषौ । तथा च सङ्गपरिवर्जनं न कर्तव्यमित्याशङ्क्य यद्यपि भगवतो गुणदोषाभावेऽपि जीवस्य दोषित्वात्सङ्गः परिवर्जनीय एवेत्याह । तथाऽपीत्यनेनेत्यर्थः । तावदित्यस्यार्थः ॥ मुक्तिपर्यन्तमिति । उक्तार्थे प्रमाणमाह ॥ समाहितेनेति । विष्णोरित्यन्तेन पूर्वश्लोकार्थे प्रमाणं दर्शितं भवति । तथाऽपीत्यनेन तथाऽपीति श्लोको विवृतः । तथा च तथाऽपि भगवतो गुणदोषाभावेऽपि मायारचितेषु गुणेषु प्रकृतिनिर्मितेषु विषयेषु सङ्ग आसक्तिर्दृढेन भक्तियोगेन मद्भक्तिलक्षणोपायेन परिवर्जनीय एव तावत्पर्यन्तम् । कियन्तं कालमित्यत उक्तम् ॥ यावदिति । यावत्पर्यन्तम् । रजस्तमःकषायं रजस्तमोभ्यां जनितं पापं निरस्येत गमिष्यति । मुक्तिपर्यन्तमिति शेषः । तावत्पर्यन्तं वर्जनीय एवेत्यन्वयः ॥ २८ ॥
प्रमेयचन्द्रिका
तथापीत्यादिकं सर्वजगद्रक्षणशिक्षणस्वभावत्वादिति भावः । अत एवाधिकारिविषयसङ्गपरिवर्जनेनेन्द्रियसमाधानं कार्यमित्युच्यते ॥ तथापीति ॥ यद्यपि हरेर्गुणदोषौ न तथापि मायया ईश्वरेच्छया तदधीनप्रकृत्या वा निर्मितेषु गुणेषु विषयेषु सङ्ग-स्तावत् त्याज्यः । तावदित्युक्तं विशदयितुमुक्तम् ॥ भक्तीति ॥ यावद्दृढेन भक्तियोगेन रजस्तमश्च तज्जनितम् । कषणेन अयते गच्छतीति कषायं पापं च समूलघातं च निरस्ये-तेति भावः ॥
प्रारब्धकर्मशेषस्तु विरजातरणावधिरित्युक्तेर्मुक्तिपर्यन्तमित्यर्थः । ननु विषयसङ्गादिना भगवतो गुणदोषाभावः प्रागुक्तः । अत्र तथापि सङ्गः परिवर्जनीय इति उच्यते । तदयुक्तम् । भगवतः सङ्गादिना गुणाद्यभावे तत्त्यागस्यानावश्यकत्वादित्यतस् तात्पर्यमाह ॥ भगवत इति ॥ यद्यपि जीवस्य विषयसङ्गेन भगवतो गुणदोषौ न स्तस् तथापि जीवस्य तौ स्तः । न तु सर्वदा किन्तु मुक्तिपर्यन्तम् । अतो जीवस्य गुणसङ्गोऽवश्यं वर्जनीय एव । अन्यथा मुक्त्यप्राप्तेरित्येवात्रोच्यते । अतो नायुक्ततेति भावः । एतेन तथापीत्येतद्व्याख्यातम् । जीवेनेति मूलेऽध्याहार्यमिति सूचितं भवति ।
श्लोकार्थे प्रमाणमाह ॥ समाहितेऽपीति ॥ इन्द्रियगुण इति शेषः । सर्वधर्मकृतश्च प्रीतो भवतीत्यनुकर्षणार्थोऽपिशब्दः । तस्मादिन्द्रियसमाधानादिकं कार्यमिति शेषः । अत्र तथा-पीत्यन्तेन मूलगतं तथापीतिपदं व्याख्यातम् । सङ्गः परिवर्जनीय इत्यादेरभिप्रायः ॥ समाहित इत्यादि ॥ २८ ॥
यथाऽमयोऽसाधुचिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् ।
एवं मनोऽपक्वकषायकर्म कुयोगिनं विद्ध्यति सर्वसङ्गम् ॥ २९ ॥
पदरत्नावली
व्यतिरेके दोषमाह– यथाऽमय इति । यथा नृणामसाधुचिकित्सित आमयः सम्यक् चिकित्साभावात् पुनः पुनः प्ररोहन् आमयिनं सन्तुदति, एवमपक्वकषायकर्म सर्वेषु विषयेषु सङ्गो यस्य तत् सर्वसङ्गं मनः कुयोगिनमपरिपक्वयोगयुक्तं पुरुषं विध्यति तस्य भगवद्ध्यानविघ्नं करोति, पुनः पुनर्विषयाभिलाषप्ररोहादिति भावः ॥ २९ ॥
श्रीनिवासतीर्थीया
विपक्षे बाधकमाह ॥ यथेति । यथा नृणामसाधुचिकित्सित आमयः साधुचिकित्साशून्यो रोगः पुनः पुनः प्ररोहन् प्रबलं भवत् सन्तुदति व्यथयति रोगिणम् । एवमपक्वकषायकर्म परिपाकशून्यकर्मफलं मनः सर्वसङ्गेषु सर्वेषु विषयेषु सङ्गो यस्य सः । तं कुयोगिनं विद्ध्यति पीडयतीत्यर्थः ॥ २९ ॥
प्रमेयचन्द्रिका
सङ्गवर्जनस्यावश्यकताज्ञापनायावर्जने दोषोऽभिधीयते ॥ यथेति ॥ असाधु यथा भवति तथा चिकित्सितः । औषध्यादिचिकित्सां प्राप्तो रोगः पुनः पुनः प्ररोहन्पुरुषं सन्तुदति ॥ २९ ॥
कुयोगिनो ये विहता ह्यन्तरायैर्मनुष्यभूतैस्त्रिदशोपसृष्टैः ।
ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ ३० ॥
पदरत्नावली
नन्वेवमपरिपक्वयोगवतामनादिकर्ममूलान्तरायविहतानां योगापरिपाकेन भगवद-प्राप्तिरापतितेति तत्राह– कुयोगिन इति । कुयोगिनो ध्यानपरिपाकरहितास् त्रिदशोपसृष्टैराधिदैविकैः, मनुष्यैर्वनितादिभिराध्यात्मिकैः, भूतैराधिभौतिकैरन्तरायैर्विहता हि यस्मात् तस्मात् तेऽपक्वयोगिनः प्राक् पूर्वजन्मनि कृतध्यानाभ्यासबलात् तत्वेन योगं ध्यानं युञ्जन्ति कुर्वन्ति । भूयो मत्प्रसादेन मामाप्नुवन्तीति शेषः । कर्मलक्षणतन्त्रसाधनं नानुतिष्ठन्तीत्यन्वयः । अतो मद्योगाभ्यासो न व्यर्थो न मदप्राप्तिश्चेति भावः ॥ ३० ॥
श्रीनिवासतीर्थीया
ननु कुयोगिनं विद्ध्यतीत्युक्तम् । तर्हिं तस्य विघ्नप्रतिरुद्धत्वेन योगानुष्ठानासम्भवाद्भगवदप्राप्तिः स्यादित्यत आह ॥ कुयोगिन इति । ये कुयोगिनो ध्यान-परिपाकरहितास्त्रिदशोपसृष्टैरन्तरायैराधिदैविकैर्विघ्नैर्मनुष्यभूतैर्मनुष्यैश्च भूतैश्च सृष्टैरन्तरायैरा-ध्यात्मिकैराधिभौतिकैश्च विघ्नैर्विहताः प्रतिबद्धा हि यस्मात्तस्मात्ते कुयोगिनः । प्राक्कृताभ्या-सबलेन पूर्वजन्मकृतो यो ध्यानलक्षणोपायस्तद्बलेन विघ्नान्परिहृत्य योगं युञ्जन्ति कुर्वन्ति । पश्चान्मत्प्रसादेन माम् । आप्नुवन्तीति शेषः । अनन्तरं कर्मतन्त्रं कर्मयोगं भूयो न युञ्जतीत्यर्थः ॥ ३० ॥
प्रमेयचन्द्रिका
त्रिदशोपसृष्टैर्देवैः प्रेरितैः कलत्रापत्यादिभिर्मनुष्यैरग्निजलादिभूतैरन्त-रायैर्ये विहता अनिष्टयोगा अत एव कुयोगिनः । ते प्राग्जन्मनि कृतेन भगवदाराधनाभ्या-सेन भूयोऽपि योगं ध्यानादिकं मोक्षोपायं युंजन्ति प्राप्नुवन्ति । न तु कर्मतन्त्रं बन्धकं कर्मेत्यर्थः ॥ ३० ॥
करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपातात् ।
न तत्र विद्वान् प्रकृ(तौ)तिस्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ॥३१॥
पदरत्नावली
नन्वत्र कैश्चित् कर्मैव पूर्वाभ्यासवशैः क्रियते न योगोऽभ्यस्यते, कैश्चित् पूर्वाभ्यासेन योग एवाभ्यस्यते न कर्म क्रियत इत्यत्र वासनातिरिक्तप्रयोजकेन भाव्यं स क इति चोद्यं परिहरति करोतीति । योग्ययोगिलक्षणो जन्तुर्जीवः कर्म करोतीति प्रत्यक्षम् । तत्रापि केनापि पुरुषेण चोदितः प्रेरित एव क्रियते कार्यते आनिपातात् शरीरपातपर्यन्तम् । अनेन वासानाद्यतिरिक्तप्रयोजककर्ताऽस्तीत्यवगतम् । स च पूर्णगुणो हरिरेव, एष उ एव साधु कर्म कारयति, यदेष आकाश आनन्दो न स्यादिति श्रुतेः । ननु तर्हि विद्वदविदुषोः को विशेष इत्यत्राह– न तत्रेति । इदं सर्वं विद्वान् प्रकृतौ प्रकृतिविकृतमहादादिविकृतपञ्चभूतनिर्मितदेहे स्थितोऽपि स्वसुखानुभूत्या भगवदनुग्रहाविर्भूतस्वरूपानन्देन विषयेभ्यो निवृत्ततृष्णः कर्माणि कुर्वन्नपि, तत्र कर्मसु न सज्जत इति शेषः ॥ ३१ ॥
श्रीनिवासतीर्थीया
ननु कर्मयोगं नानुतिष्ठन्तीत्युक्तम् । योगं युञ्जन्तीत्यपि चोक्तम् । किं तदुभयकरणे स्वातन्त्र्यमस्येत्यतो नेत्याह ॥ करोति । असौ जन्तुः प्राणी । आनिपाताच्छरीरपातपर्यन्तं कर्म स्वयं करोति । एतावता स्वातन्त्र्यं नास्तीत्याह ॥ क्रियत इति । केनापि पुरुषेण चोदितः प्रेरितः । तत्प्रेरणयेति यावत् । कार्यते स च नियामको हरिरेवेति भावः । ननु तर्हि विद्वदविदुषोः को विशेषः । उभावपि भगवत्प्रेरणयैव कर्म कुरुतो यत इत्यत उक्तम् ॥ नेति । तत्रोभयोर्मध्ये विद्वान्ज्ञानी प्रकृतौ स्थितोऽपि देह-स्थितोऽपि स्वसुखानुभूत्या भगवदनुग्रहाविर्भूतनिजस्वरूपानन्दानुभवेन विषयेभ्यो निवृत्ततृष्णो यतोऽतः कर्माणि कुर्वन्नपि तत्र कर्मसु न सज्जते इति विशेष इत्यर्थः ॥ ३१ ॥
दुर्घटभावदीपिका
केनापि कर्म क्रियते केनापि चोदितोऽसौ जन्तुश्च आनिपातान्मरणपर्यन्तं कर्म करोतीति ॥ अयं भावः ॥ स्वातन्त्र्येण कर्मकर्ता भगवानेव । जीवस्तु भगवत्प्रेरणया कर्म करोतीति । एतेन क्रियत इत्येतद्व्यर्थमिति दूषणं परास्तम् । जन्तुः केनापि चोदितः सन् कर्म करोतीत्येवोक्ते भगवतः कर्म कारयितृत्वमेव न तु कर्मत्वमिति भ्रान्तिः स्यात्तां निवारणार्थं भगवतः स्वातन्त्र्येण कर्तृत्वमप्यस्तीति वक्तुं क्रियत इत्युक्तमित्यङ्गीकारात् ॥ ३१ ॥
प्रमेयचन्द्रिका
ननु प्राग्जन्मसु बन्धककर्माभ्यासस्यापि सत्वात्कुतो न युंजन्तीत्यत उच्यते ॥ करोतीति ॥ अतो जन्तुरानिपाताच्छरीरपातपर्यन्तं शुभमशुभरूपं कर्म करोति । असौ कर्मकर्ता पुरुषः केनापि योग्यताऽदृष्टनियामकेनानन्दरूपेण हरिणा चोदित एव क्रियते । करोति । एतेन पूर्वाभ्यासजनितवासनातिरिक्तः कर्म प्रयोजकः । स्वतः कारयिता हरिरित्यवगतम् । तत्रैवं सति प्रकृतिनिर्मितदेहे पूर्वाभ्यासरूपप्रकृताविति वा स्थितोऽपि स्वसुखानुभूत्या स्वरूपसुखात्मकभगवदनुभवेन तत्प्रसादाविर्भूतस्वरूपानन्दानुभवेन च निवृत्त-विषयतृष्णः सन् केन हरिणा हर्यनुग्रहेण बन्धकर्मसु न सज्जत इत्यर्थः ॥ ३१ ॥
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुद्यन्तमदन्तमन्नम् ।
स्वभावमन्यत् किमपीहमानमात्मानमात्मस्थमतिर्न वेद ॥ ३२ ॥
तात्पर्यम्
**आत्मस्थमतिः परमात्मस्थमतिः । परमात्मनोऽन्यत् । पारतन्त्र्यादेः **
॥ ३२ ॥
पदरत्नावली
अधुना योगिनोऽसम्प्रज्ञातसमाध्यवस्थामाह– तिष्ठन्तमिति । मम देहे तिष्ठन्नासीनो व्रजन् शयान इत्यादि क्रियाः कुर्वन् हरिरेवेत्यात्मस्थमतिः परमात्मन्येव स्थितमतिस् तिष्ठन्तमासीनमित्यादिक्रियाकरमात्मानं देहं न वेद । किं बहुना पारतन्त्र्याद्यन्तरेण परमात्मनोऽन्यन् न किमपि वेदेत्यर्थः । स्वभावं देहस्य प्रियाप्रियलक्षणम् ॥ ३२ ॥
श्रीनिवासतीर्थीया
पुनः कीदृशोऽयं ज्ञानीत्यतोऽसंप्रज्ञातसमाध्यवस्थापन्नस्य ज्ञानिनः स्थितिमाह ॥ तिष्ठन्तीति । अत्रात्मानमिति स्वात्मन उक्तत्वात्तत्सह-पठितात्मस्थमतिरित्यत्राप्यात्मशब्दः स्वात्मवाचीति भात्यतो व्याचष्टे ॥ आत्मस्थमति-रिति । सहपाठलक्षणसान्निध्यापेक्षायोग्यतायाः प्रबलत्वादित्याशयः । उद्यन्तमुद्योगं कुर्वन्तम् । अन्नमदन्तम् । स्वभावं स्वस्य धर्मं पारतन्त्र्यादिकम् । अन्यत्किमपीहमानम् । अन्यत्किञ्चित्क्रियमाणमेतादृशं स्वात्मानं न वेद ज्ञानी । कुतः । यत आत्मस्थमतिः परमात्मस्थमतिः । असंप्रज्ञातसमाध्यवस्थाविशिष्ट इति यावदित्यर्थः ॥ ३२ ॥
प्रमेयचन्द्रिका
विद्वानिति सूचिताऽपरोक्षज्ञानिस्थितिरुच्यते ॥ तिष्ठन्तमिति ॥ उद्यन्तमुद्योगं कुर्वन्तम् । देहस्वभावभूतं किं कर्मेहमानं कुर्वाणम् । आत्मनो व्यक्तिमपि न वेद कुतो न वेदेत्यत उक्तमात्मस्थमतिरिति । अत्रात्मस्थमतिरिति पदमनूद्यात्मानमिति प्रकृतदेहस्थमतिरिति प्रतीतिवारणायार्थमाह ॥ आत्मस्थेति ॥ विद्वानिति परमात्मस्थमतेरेव प्रस्तुतत्वादिति भावः । अत्रान्यदित्यस्य प्रतियोगिनं दर्शयति ॥ परमात्मन इति ॥
ननु ज्ञानिनो भगवदधीनतया देहादेः प्रतीयमानत्वात्कथं भगवतोऽन्यन्न वेदेत्युच्यत इत्यत उक्तम् ॥ पारतन्त्र्यादेरिति ॥ पारतन्त्र्यादिभगवद्विरुद्धधर्मवत्वादन्यत्वमिति भावः ॥३२॥
यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् ।
न मन्यते वस्तुतया मनीषी स्वप्नं यथोत्थाय तिरोदधानम् ॥ ३३ ॥
तात्पर्यम्
‘नानामानविरुद्धं हि स्वातन्त्र्यं जगतः सदा । स्वतन्त्रो भगवा-न्विष्णुरेक एव न संशय’ इति च ॥ वस्तुतया स्वतन्त्रत्वेन । विरुद्धं तथा न मन्यते । ‘अस्त्येव स्वाप्नमखिलं वासनारूपमात्मनि । जाग्रदेतदिति ज्ञानं यत्तदेव भ्रमात्मकम् । तद्वज्जगदिदं सर्वं विद्यमानं न संशयः । स्वतन्त्रमेतदिति तु यज्ज्ञानं तद्भ्रमात्मकमि’ति च ॥ ‘उत्थितो नैव जाग्रत्त्वं क्वचित्स्वप्नस्य पश्यति । स्वातन्त्र्यमेवं जगतो ज्ञानवान्नैव पश्यती’ति विवेके ॥ ३३ ॥
पदरत्नावली
यदि कश्चित् प्रारब्धकर्मवशात् तडितमिव पश्यति तथापि स्वतन्त्रतया न पश्यतीत्याह– यदि स्मेति । यदि स्मरणवासनया हरेरन्यदसदिन्द्रियार्थममङ्गलमिन्द्रियविषयं देहगेहादिजगत् कर्मनिबन्धनतया पश्यति मनीषी तथापि वस्तुतया स्वतन्त्रतया न मन्यते । तत् कुत इत्यत उक्तं नानेति । तत् स्वतन्त्रत्वं नानानुमानेन उत्पत्त्यादिमत्त्वरूपविविधानुमानेन विरुद्धं हि । एतमर्थं निदर्शयति स्वप्नेति । यथा स्वप्नदृक् स्वप्नादुत्थाय स्थितस् तिरोदधानम् अनित्यं परतन्त्रं स्वस्वप्नं जाग्रत्त्वेन न मन्यते, स्वप्नजाग्रत्त्वस्य नानानुमानविरुद्धत्वात् । न हि स्वप्नं पश्यन् स्वप्नं बाध्यं मन्यते अपि तु स्वप्नमद्राक्षमित्यबाध्यत्वमेव जानाति, जाग्रत्त्वमारोपितं पश्यतीति भावः । तथा विद्वानपि जगदबाध्यमेव स्वातन्त्र्यमारोपितं (इति) पश्यतीति भावः । ‘‘नानामानविरुद्धं हि स्वातन्त्र्यं जगतः सदा । स्वतन्त्रो भगवान् विष्णुरेक एव न संशयः’’ इत्यनेन ‘‘अस्त्येव स्वाप्नमखिलं वासनारूपमात्मनि । जाग्रदेतदिति ज्ञानं यत् तदेव भ्रमात्मकम् । तद्वज्जगदिदं सर्वं विद्यमानं न संशयः । स्वतन्त्रमेतदिति तु यज्ज्ञानं तद् भ्रमात्मकम्’’ इत्यनेन ‘‘उत्थितो नैव जाग्रत्त्वं क्वचित् स्वप्नस्य पश्यति । स्वातन्त्र्यमेव जगतो ज्ञानवान् नैव पश्यति’’ इत्यनेन (च) सिद्धत्वात् स्वप्नदृष्टान्तबलेन जगतो बाध्यत्वमुच्यत इत्येतदासुरमतमित्यवगम्यते ॥ ३३ ॥
श्रीनिवासतीर्थीया
नन्वसंप्रज्ञातसमाध्यवस्थापन्नोऽन्यन्न पश्यतीत्युक्तम् । यदि समाध्युपरतौ किञ्चित्पश्यति तत्र विशेषमाह ॥ यदीति । अत्र स्वप्नदृष्टान्तेन जगतो मिथ्यात्वमुच्यते इति प्रतीयते तथाऽन्यदित्यस्याप्यर्थो न प्रतीयतेऽतोऽपेक्षिताध्याहारेणान्वयं दर्शयति ॥ परमात्मन इति । पारतन्त्र्यादेः सकाशात्परमात्मनोऽन्यदस्वतन्त्रमित्यर्थः । समग्रश्लोकं प्रमाणेन विवृणोति ॥ नानेति । हि यस्माज्जगतः स्वातन्त्र्यं नानाप्रमाणेन विरुद्धं तस्मात्स्वतन्त्रो भगवान्विष्णुरेक एव न संशय इति योज्यम् । असदिन्द्रियार्थं वस्तुतया न मन्यत इति विश्वमिथ्यात्वमुच्यत इति भातीत्यतो वस्तुशब्दार्थकथनपूर्वक-मन्वयप्रदर्शनेन विवक्षितमर्थमाह ॥ वस्तुतयेति । मूले तथेति शेष इत्युक्तं भवति । तथा स्वतन्त्रत्वेन न मन्यत इत्यर्थः । स्वप्नं यथोत्थाय तिरोदधानमिति स्वप्नस्य मिथ्यात्वमुच्यत इति भात्यतः प्रमाणेनैव योजयति ॥ अस्त्येवेति । स्वाप्नं स्वप्नावस्थापन्नमखिलं गज-तुरगादिकम् । आत्मनि मनस्यस्त्येव । कुत इत्यतो वासनामयत्वादित्याशयेनाह ॥ वासनारूपमिति । तर्हि तत्र मिथ्याभूतं किमित्यत आह ॥ जाग्रदिति । यस्मात्कार-णात् । एतत्स्वाप्नगजादिकं जाग्रदिति ज्ञानं भ्रमात्मकं तस्मात्कारणाज्जाग्रत्वं मिथ्याभूत-मित्यर्थः । तद्वत्स्वप्नपदार्थवद्विद्यमानं सदेव । एतज् जगत् ।
ननु भवतु स्वाप्नजाग्रत्वस्य मिथ्यात्वं पश्चाददर्शनात् । प्रकृते जगत्स्वातन्त्र्यं मिथ्या-भूतमिति कुतः । अपि तु सत्यमेव । कुतः । अहं कर्तेत्यादिप्रतीतेरित्यत आह ॥ उत्थित इति । स्वप्नादुत्थित इत्यर्थः । ज्ञानवान्ज्ञानी । तथा चाहं कर्तेत्यादिप्रतीतिस्तु भ्रान्तस्यैव भवतीत्याशयः ॥ तथा चायमर्थः ॥ मनीषी ज्ञानी । असदिन्द्रियार्थे । अमङ्गलमिन्द्रियविषयं देहगेहादि यदि पश्यति स्म । तर्हि तत्तथा स्वतन्त्रत्वेन न मन्यते । कुतः । यतोऽन्यद्वस्तुतया नानाऽनुमानेन विरुद्धम् । परमात्मनोऽन्यज्जगद्वस्तुतया स्वतन्त्र-त्वेन नानाऽनुभूतेनानुसारिप्रमाणेन विरुद्धम् । कोऽर्थस्तत्स्वतन्त्रं न भवतीति । परतन्त्रत्वात् । अतो न तथा मन्यते । कथमिव । यतः सुप्तः पुमान् उत्थाय तिरोधानं स्वाप्नं गजादिकं जाग्रत्वेन न मन्यते । स्वाप्नपदार्थे जाग्रत्वस्याभावात् । एवं मनीषीन्द्रियार्थं स्वतन्त्रत्वेन न मन्यत इति ॥ ३३ ॥
दुर्घटभावदीपिका
हे अङ्ग । आत्मन्यज्ञानं परमात्मविषयकमज्ञानं पूर्वं ज्ञानोत्पत्तेः पूर्वम् । अनादिकाल इति यावत् । गृहीतं जीवगृहीतम् । जीवे विद्यमानमिति यावत् । गुणकर्मचित्रं भगवद्गुणकर्मभ्यां चित्रम् । भगवद्गुणकर्मविषयकमिति यावत् । अविविक्तं भगवतः स्वभावा-भावाभ्यामविशेषकरं च भवति । तदज्ञानम् । पुनरित्यस्यावृत्तिः । पुनः पुनरीक्षया परमात्मात्मेक्षयैव निवर्तत । जीवः पुनरज्ञानेन न गृह्यते । पुनरज्ञानयुक्तो न भवतीति यावत् । यत आत्मा परमात्मा जीवेन । अपिरवधारणे । नापि नैव विसृज्यः । सर्वदा ज्ञेयो भवतीति यावत् । अतो जीवः पुनरज्ञानवान्न भवतीति ॥ ता.अर्थ. ॥ गुणकर्मचित्रमित्यस्य तात्पर्यार्थमाह ॥ आत्मनीति । अज्ञानसद्भावे प्रमाणमाह ॥ एतदिति । अनुभवसिद्धमिति शेषः । अज्ञानमेतन्नजानामीत्यनुभव-सिद्धम् । अविविक्तमित्यनूद्य प्रमाणेनैव व्याचष्टे ॥ अन्यैरिति । अनेन विशेषवाचकाद्विविक्त शब्दात्करोतीत्यर्थे णिच् प्रत्यये पचाद्यचि णि लोपे च कृते विविक्तशब्देन विशेषकरत्वं लभ्यते । तस्य नञा समासे विशेषकरं नेत्यर्थो लभ्यत इत्युक्तं भवति । एतेनैतन्न जानामीत्येतद्व्यर्थमिति दूषणं परास्तम् । अज्ञानसद्भावे प्रमाणं नास्तीत्याशङ्कापरिहारार्थमज्ञानस्यानुभवसिद्धत्वमनेन वाक्येनोच्यत इत्यभ्युपगमात् ॥ ३४ ॥
प्रमेयचन्द्रिका
अत्र ब्रह्मणोऽन्यदिन्द्रियविषयं वस्तुतया सत्यत्वेन न मन्यते । यतः दृश्यत्वादिभिर् नानानुमानैर् विरुद्धं स्वप्नवदित्यन्यथाभानात्प्रमाणमुदाहरन्व्याचष्टे ॥ नानामानेति ॥ हि यस्माज्जगतः स्वातन्त्र्यं प्रत्यक्षेण, ‘‘यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेदि’’त्याद्यनुमानैः श्रुतिस्मृतीतिहासादिभिरनवस्थितेरसम्भवाच्च नेतर इत्यादिसूत्रैरित्येवं नानाप्रमाणैर्विरुद्धम् । तस्माद्विष्णुरेक एव स्वतन्त्र इति योजना । इति प्रमाणेन अन्यस्वातन्त्र्यस्यैव सर्वप्रमाणविरुद्धत्वोक्तेः । वस्तुतयेत्यस्य स्वतन्त्रत्वेने-त्यर्थः । मूलयोजनां लेशतो दर्शयति ॥ विरुद्धं तथा न मन्यत इति ॥ यतो भगवतोऽ-न्यस्य स्वातन्त्र्यं नानामानेन विरुद्धमतस्तथा न मन्यत इति योजनाऽनेन दर्शिता भवति ।
नन्वत्र मिथाभूतस्वप्नदृष्टान्तोक्त्या जगतो मिथ्यात्वमेव । वस्तुतयेत्यस्या सत्यतयेत्यर्थ इति वक्तव्यमित्यतः स्वप्नमिथ्यात्वमेव नास्ति । येन तद्दृष्टान्तेन जगतो मिथ्यात्वं भवे-दित्याशयेन प्रमाणं पठति ॥ अस्त्येवेति ॥ स्वाप्नं स्वप्ने दृश्यमानं पदार्थजातमात्मनि मनसि वासनारूपमस्त्येव । जाग्रत्पदार्थानुभवजनितवासनाया मनसि विद्यमानत्वात्तदुपादानकं स्वाप्नं वस्तु सत्यमेवेति भावः ॥ तद्वदिति ॥ स्वाप्नार्थवदित्यर्थः । स्वतन्त्रमेतदित्यत्रापि तद्वदित्यनुवर्तनीयम् । स्वप्नजाग्रत्वज्ञानवदित्यर्थः । मूले स्वप्नं यथेत्येतावता पूर्तेरुत्थाय तिरोदधानमित्येतावत्कुत इत्यतस्तदभिप्रायं प्रमाणेन दर्शयति ॥ उत्थित इति ॥ स्वप्नादुथितः पुरुषः स्वप्नस्य स्वाप्नार्थस्य जाग्रत्वं जाग्रत्पदार्थात्मकत्वं नैव क्वचिदपि पश्यति । प्रत्युत नेदं जाग्रदिति बाधकमेवानुभवतीत्येवशब्दार्थः । परापरतत्वज्ञानवान्पुरुषः स्वातन्त्र्यमेव न पश्यति । प्रत्युतास्वातन्त्र्यमेव पश्यतीत्यर्थः । एतेन स्वप्नजाग्रत्वमात्रे बाधकसद्भावात्तस्य मिथ्यात्वाज्जीवस्वातन्त्र्येऽपि बाधकस्य भावात्तन्मात्रस्यासत्वमिति ज्ञापयितुं तदुक्तिरित्युक्तं भवति ॥
तदयं मूलार्थः ॥ मनीषी अपरोक्षज्ञानी । असदभद्रम् । इन्द्रियार्थं यदि प्रारब्ध-वशात्तत्पश्यति । तदा भगवतोऽन्यत्सर्वं वस्तुतया स्वतन्त्रत्वेन न मन्यते । यतो जग-त्स्वातन्त्र्यं नानाविधेनानुकूलेन प्रत्यक्षादिप्रमाणसमुदायेन विरुद्धं जातम् इति पूर्वेणान्वयः । तत्र दृष्टान्तः ॥ स्वप्नमिति ॥ यथा स्वप्नादुत्थाय स्थितः पुरुषस् तिरोधानेनेदं जाग्रदिति बाध्यमानं स्वप्नजाग्रत्वं सत्यतया न मन्यते । तथा सर्वप्रमाणविरुद्धं भगवदन्यस्य स्वातन्त्र्यं न मन्यत इति । तथा चापरोक्षज्ञानिनः प्रारब्धवशाद्विषयानुभवेऽपि सर्वत्र भगवत्स्वातन्त्र्य-स्य च सुदृढं ज्ञायमानत्वात्कदाचित्प्रारब्धबलेन ज्ञानतिरोधानदशायाम् ईषदस्वातन्त्र्य-ज्ञानेऽप्यस्थिरत्वाच्च न दोष इति भावः ॥ ३३ ॥
पूर्वं गृहीतं गुणकर्मचित्रमज्ञानमात्मन्यविविक्तमङ्ग ।
निवर्तते तत् पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३४ ॥
तात्पर्यम्
भगवद्गुणविषयं तत्कर्मविषयं चेति गुणकर्मचित्रम् । आत्मनि परमात्मविषयम् । एतन्न जानामीत्यप्यविविक्तम् । ‘अन्यैर्ज्ञातेऽपि वाऽज्ञाते न विशेषो हरेः क्वचित् । तेषामेव विशेषः स्यादज्ञानापगमेन त्वि’ति च ॥ ३४ ॥
पदरत्नावली
ननु जगत्स्वातन्त्र्यप्रतीतौ किं कारणमित्याशङ्क्याज्ञानं कारणमित्याशयेनाह– पूर्वमिति । ज्ञानोदयात् पूर्वमात्मनि परमात्मनि अज्ञानं गृहीतं परमात्मस्वरूपविषयत्वेनाज्ञानमार्जितम्, जीवेनेति शेषः । न केवलं स्वरूपविषयकमज्ञानं किन्तु गुणकर्मचित्रमिति । भगवतो गुणविषयकत्वेन कर्मविषयकत्वेन च चित्रं नानाविधम् । अज्ञानसद्भावे प्रमाणमाह अविविक्तमिति । एतमहं न जानामीति विवेकशून्यम् । नन्वेतदज्ञाननिवृत्तौ का प्रतिभटीति तत्राह– ओति । ओत्यामन्त्रणेन भयं माकार्षीरित्याह । पुनः पुनरीक्षया हरेः स्वरूपस्य गुणानां कर्मणां चालोचनालक्षणो-पासनाजनितज्ञानेन तदज्ञानं निवर्तते पुनस्तदज्ञानं न गृह्यते । ज्ञानोदयानन्तरमात्मा परमात्मापि न विसृज्यः स्वस्वरूपसुखाविष्कारलक्षणापरोक्षज्ञानेनापरोक्षीकृतो न परोक्षी भवति । तस्य जगत्स्वातन्त्र्यं च न प्रतीयत इत्यर्थः । ‘‘अन्यैर्ज्ञातेऽपि चाज्ञाते न विशेषो हरेः क्वचित् । तेषामेव विशेषः स्यादज्ञानापगमेन तु’’ इति वचनाज्जीवस्यैव विशेषो न हरेर्विशेष इति च ज्ञातव्यं ज्ञानार्थिनेति भावः ॥ ३४ ॥
प्रमेयचन्द्रिका
अस्वतन्त्रे गतिस्वातन्त्र्यप्रतीतौ भावरूपमज्ञानं कारणमिति दर्शयन् जीवगतेन भगवद्विषयकेन ज्ञानेनानेन च भगवति कश्चिद्विशेष इत्युच्यते ॥ पूर्वमिति ॥ अत्र गुणकर्मचित्रमित्यज्ञानविशेषणम् । तदप्रतीतेर्व्याचष्टे ॥ भगवद्गुणेति ॥ अज्ञानं भगव-द्विषयतया तत्कर्मविषयतया चित्रं गुणकर्मादिविषयमिति भावः । आत्मनीत्यत्रात्मपदस्य जीवपरत्वम् । सप्तमी चाधिकरण इति भाति । अतोऽनूद्यार्थमाह ॥ आत्मनीति ॥ नन्व-ज्ञानस्य स्वेतरविविक्तत्वादविविक्तमित्युक्तमित्यत आह ॥ एतदिति ॥ मामन्यं च न जानामीतिवत् । एतद्भगवद्गुणादिकं न जानातीत्येवं सामान्याकारमेव । न त्वेतमानन्दमहं जानामीति । एतं मोदं प्रमोदं ज्ञानं बलादि सृष्टिकर्मस्थितिविशेषतो न विजानाति विविक्तं नेत्यर्थः । न गृह्यत इत्यत्र परमात्मनो ग्रहणत्यागायोग्यत्वमुच्यत इत्यन्यथाभानात्प्रमाणेन तदर्थमाह ॥ अन्यैरिति ॥ हरौ ज्ञातेऽप्यज्ञाते च सति हरेस्तेन जीवनिष्टेन ज्ञानेनाज्ञानेन च विशेषो न । किं तु तेषां ज्ञातृणामेव भगवद्विषयकज्ञानापगमेन निमित्तेन विशेषः स्यादित्यर्थः । तुशब्दः पूर्वार्धोक्ताद्वैलक्षण्यद्योतकः ।
तदयं मूलार्थः ॥ हे अङ्ग गुणकर्मचित्रं सामान्याकारेण वस्तुतो विचित्रगुणकर्म-विषयतया चित्रं स्वयमविविक्तम् । एतमानन्दं न जानामीत्यादिरूपेण प्रत्येकं विवेचन-रहितम् । पूर्वं ज्ञानोदयात्परमात्मनि गृहीतम् । जीवेनार्जितं भगवद्विषयं यद्ज्ञानं तत्तु पुनः पुनः श्रवणादिपरिपाकजनितापरोक्षज्ञानेन निवर्तते । एवमन्यैर्भगवति ज्ञातेऽप्यज्ञाते च परमात्मा न गृह्यते । नापि विसृज्यः । जीवकर्तृकग्रहणविसर्जनप्रयुक्तविशेषवान्भवतीति यावदिति ॥ ३४ ॥
यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न च (तु)संविधत्ते ।
एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ ३५ ॥
पदरत्नावली
मम साक्षात्कारेणाज्ञानं निवर्तत इत्युक्तम् । तत्र तेन मम कश्चन विशेषो नास्तीतीममर्थं सोदाहरणमाह– यथेति । हिशब्दः साक्षिसूचकः । यथा भानोः सूर्यस्योदयो चक्षुषां तमो निहन्यान् न तु तमः संविधत्ते स्वस्मिन् कमप्यतिशयं च नाधत्ते । एवं वैराग्यादिसाधनसामग््रया निपुणा सती मे समीक्षा पुरुषस्य सर्वदा श्रीनारायणं शरणं गतस्य बुद्धेस्तमिस्रं हन्यात्, नतु मम कञ्चन विशेषं कुर्यात् ॥ ३५ ॥
श्रीनिवासतीर्थीया
यथेति । यथा भानोः सूर्यस्योदयो नृचक्षुषां तमो हन्यान्न तु तमः संविधत्ते । तमः प्रापको न भवतीति यावत् । एवं वैराग्यादिसाधनसामग्य्रा निपुणा सती मे समीक्षा ज्ञानं पुरुषस्य बुद्धेस्तमिस्रं हन्यादित्यन्वयः ॥ ३५ ॥
दुर्घटभावदीपिका
अविविक्तमित्यनेनोक्तमर्थं दृष्टान्तेन दृढीकरोति ॥ यथेति । यथा भानोरुदयो नृचक्षुषां तमो ज्ञानप्रतिबन्धकमन्धकारं निहन्यात् । सूर्ये कमपि विशेषं च न संविधत्ते नैव करोति । एवं मे समीक्षा निपुणा सती पुरुषस्य बुद्धेस्तमिस्रं ज्ञानप्रतिबन्धकमज्ञानं हन्यात् । मयि कमपि विशेषं नैव संविधत्त इत्येतदन्यैर्ज्ञातेऽपीत्यादि प्रमाणप्रसिद्धमिति । एतेन भानोरुदयस्तमः करोतीत्यस्याप्रसक्तत्वात् । न च संविधत्त इति कथनमयुक्तमिति दूषणं परास्तम् । भानोरुदयस्तमो न करोतीत्यर्थस्यानङ्गीकारात् ॥ ३५ ॥
प्रमेयचन्द्रिका
तदेतत्सोदाहरणमुच्यते ॥ यथा हीति ॥ नृचक्षुषां प्रतिबन्धकं तमः । देवादिचक्षुषामन्धकारस्याप्रतिबन्धकत्वान्नृचक्षुषामेषामित्युक्तम् । न तु संविधत्त इत्यत्र तमोनाशेन भानोरतिशयमिति शेषः । निपुणा भक्तिवैराग्यादिसाहित्येन परिपक्वा सती मे समीक्षा मद्विषयकज्ञानं पुरुषस्य बुद्धेः सम्बन्धि तमिस्रं ज्ञानं हन्यात्तेन च मे ममातिशयं संविधत्त इत्यावृत्या योज्यम् ॥ ३५ ॥
एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः ।
एकोऽद्वितीयो वचसां विरामो येनेरिता वाग्रचनाश्चरन्ति ॥ ३६ ॥
तात्पर्यम्
‘ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः । अद्वितीयो महाविष्णुः पूर्णत्वात्पुरुषः स्मृत’ इति च ॥ ३६ ॥
पदरत्नावली
बहुशः श्रुतपरमात्मस्वरूपस्यापि तत्स्वरूपं कीदृशमित्युद्धवस्यान्तरं चोद्यं परिहरति एष इति । एषोऽहं स्वयञ्ज्योतिः स्वतः पूर्णप्रकाशो ऽत एवाजो ऽत एवाप्रमेयः । महती अनुभूतिर्ज्ञप्तिर्यस्य स महानुभूतिः, सर्वज्ञ इत्यर्थः । सकलानुभूतिः पूर्णसुखानुभवः । एकः ज्ञानानन्दादिगुणाभिन्नत्वात् स्वगतभेदरहितः । अद्वितीयः सर्वोत्तमः । अप्रमेयत्वाद् वेदादि-वाचामगोचरः । वाचामगोचरश्चेत् तदीयं ज्ञानं कथं वरीवर्तीति तत्राह– येनेति । वाग्रचना वैदिक-लौकिकसर्ववाग्व्यवहारा येनेरिताः प्रवर्तन्त इत्यनेन भगवदनुग्रहीतवाग्व्यवहारविषयत्वेन तज्ज्ञानमुदेतीति ज्ञातव्यम् । ‘‘ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः । अद्वितीयो महाविष्णुः पूर्णत्वात् पुरुषः स्मृतः’’ इति वचनात् ॥ ३६ ॥
श्रीनिवासतीर्थीया
नन्वस्तु ज्ञानस्य स्वरूपमेतादृशम् । अथाऽपि ज्ञेयस्य स्वरूपं कीदृशमित्युद्धवस्य चोद्यं परिहरति ॥ एष इति । अत्रैकाद्वितीयपदयोः पौनरुक्त्यं प्रतीय-तेऽतोत्राभिप्रेतमर्थं प्रमाणेनाह ॥ ज्ञानानन्दाद्यभिन्नत्वादिति । प्रसङ्गात्पुरुषशब्दं हरौ निर्वक्ति ॥ पूर्णत्वादिति । तथा च येनेरिताः प्रेरिता वाग्रचना वाग्व्यवहाराश्चरन्ति प्रवर्तन्ते । एषोऽहमेतादृशः । कीदृश इत्यत उक्तम् ॥ स्वयंज्योतिरित्यादि । स्वयंज्योतिः स्वप्रकाशोऽत एवाज उत्पत्तिशून्योऽप्रमेयः साकल्येनाज्ञेयो महानुभूतिर्महत्यपरिच्छिन्नाऽनु-भूतिर्ज्ञप्तिर्यस्य सः सकलानुभूतिः सर्वज्ञ एको ज्ञानानन्दाद्यभिन्नत्वादेकोऽद्वितीयः सर्वोत्तमो वचसां विरामः साकल्येन वागगोचरः । यतो वाचो निवर्तन्त इति श्रुतेरित्यर्थः ॥ ३६ ॥
दुर्घटभावदीपिका
सकलानुभूतिरित्यस्य सकलानामनुभूतिर्यस्मात्सकलानुभूतिः सर्वेषां ज्ञानप्रद इत्यर्थः ॥ एतेन महाभूतिरित्यनेन महती सफलविषयिण्यनुभूतिर्यस्येति सर्वज्ञस्योक्तत्वात्सकलानु-भूतिरित्येतत्पुनरुक्तमिति दूषणस्यानवकाशः । सकलानुभूतिरित्यस्य सकलविषयिण्यप्यनुभूतिर्यस्येत्यर्थ इत्यनङ्गीकारात् ॥ ३६ ॥
॥ इति श्रीभागवतटिप्पण्यामष्टाविंशोऽध्यायः ॥ ११–२८ ॥
प्रमेयचन्द्रिका
उक्तस्य हरेः स्वातन्त्र्यस्योपपत्तये तन्माहात्म्यमुच्यते ॥ एष इति ॥ एषोऽहं महानुभूतिर् महत्यनुभूतिर्यस्य सः सर्वज्ञ इत्यर्थः । सकलानुभूतिः सकलसुखादिगुणानुभूतिः । अत्रैकोऽद्वितीय इत्यन्यथाप्रतीतिवारणाय प्रमाणेन व्याचष्टे ॥ ज्ञानेति ॥ स्वगतज्ञानगुणकर्मरूपावयवादिभेदरहितत्वादेक इति भावः । न विद्यते द्वितीयः समोऽधिको वा यस्य सोऽद्वितीयः । तस्याभिप्रायः ॥ सर्वोत्तमत्वत इति ॥ पुरुषशब्दार्थ-कथनं प्रासङ्गिकम् । मूले वेदादिसर्ववचसां ब्रह्मादिसर्ववचसां च विरामोऽवसानं यत्र सः साकल्येन वचनागोचर इति यावत् । येन च भगवता प्रेरितवाग्रचना वाग्व्यवहाराः प्रवर्तन्त इत्यनेन सर्ववचसां तदधीनत्वात्साकल्येन वाचामगोचरत्वं युक्तमित्युक्तं भवति ॥ ३६ ॥
एतावानात्मसंमोहो यद् विकल्पस्तु केवले ।
आत्माऽमृते स्वमात्मानमचलं यन्न पश्यति ॥ ३७ ॥
तात्पर्यम्
‘एतावानात्मसम्मोहो यद्विरुद्धस्य कल्पनम् । यत्परात्माश्रयाञ्जीवा-न्निश्चयेन (नियमेन) न पश्यती’ति तन्त्रभागवते । अचलमिति क्रियाविशेषणम् ॥३७॥
पदरत्नावली
एवं ज्ञानज्ञेयस्वरूपं निरूप्य मिथ्याज्ञानस्वरूपं तत्कारणाज्ञानस्वरूपं च विविच्य दर्शयति एतावानिति । यद् विकल्पः प्रमाणविरुद्धं कल्पनं जीवस्वातन्त्र्य-परमात्मास्वातन्त्र्यजीवपराभेदादिविषयो य एतावान् आत्मसंमोहो मनोभ्रमः । भ्रमत्वं बाधक-ज्ञाननिश्चेयम्, तत् कथमत्रेत्याह– केवल इति । आत्मा जीवः केवले स्वतन्त्रे अमृते नित्यमुक्ते परमात्मनि स्थितं मदाधारतया स्थितं स्वमात्मानं स्वस्वभावं कदाप्यनपनोद्य अस्वतन्त्रमचलं स्थिरं न पश्यति यद् यावत् तावद् भ्रमो न निवर्तत इत्यतः स्वस्वभावाज्ञानं निमित्तं तन्निवृत्तौ भ्रमो निवर्तत इति निश्चीयते । ‘‘एतावानात्मसम्माहो यद् विरुद्धस्य कल्पनम् । यत् परात्माश्रयान् जीवान् निश्चयेन न पश्यति’’ इति वचनान् नाद्वैतज्ञानेन भेदभ्रमो निवर्तत इत्यर्थः ॥ ३७ ॥
श्रीनिवासतीर्थीया
एवं ज्ञानं ज्ञेयस्वरूपं निरूप्य मिथ्याज्ञानस्वरूपं निरूपयति ॥ एतावानिति । एतावानात्मनः स्वस्य संमोहो मिथ्याज्ञानम् । एतत्किं यद्विकल्पः प्रमाण-विरुद्धकल्पनं यज्जीवस्वातन्त्र्यादि तदेव । तुशब्दोऽपिशब्दार्थः । आत्मा जीवः । केवले जडामिश्रेऽमृते नित्यमुक्ते मयि स्वमात्मानं स्वस्य रूपं तदाधारत्वेनाचलं यथा स्यात्तथा न पश्यतीति यत्तदप्यात्मसंमोह इत्यर्थः । तदिदमाह ॥ एतावानिति । विरुद्धस्य प्रमाण-विरुद्धस्य । अचलं स्वात्मानमिति सामानाधिकरण्येनान्वयभ्रान्तिं वारयितुमाह ॥ अचल-मिति । अचलं यथा भवति तथा न पश्यतीत्यन्वय इति भावः ॥ ३७ ॥
प्रमेयचन्द्रिका
एवं सम्यज्ञानं निरूप्य ओयत्वसिद्धयेऽवश्यं ज्ञेयमज्ञानमत्र निरूप्यते ॥ एतावानिति ॥ अत्र केवले निर्विशेषे ब्रह्मणि विकल्पो भेद इत्येतावानात्म-संमोह इत्यन्यथाभानात्प्रमाणेन व्याचष्टे ॥ एतावानिति ॥ यद्विकल्प इत्यस्यार्थो यद्विरुद्धस्य कल्पनमिति ॥ केवले अमृत इत्याधिकरणसप्तम्यर्थकथनम् । परात्माश्रया-निति । उपलक्षणतया स्वमात्मानमित्यस्यार्थो जीवानिति ॥ अचलमित्यस्यार्थो नियमेनेति ॥ नियमेनेत्यनेन सूचितमपि क्रियाविशेषत्वं स्पष्टयति ॥ अचलमितीति ॥ पश्यतीत्युक्तक्रियाविशेषणमित्यर्थः । योजनातु विरुद्धस्य कल्पनमिति यद् एतावानात्म-सम्मोहः । किं तद्विरुद्धकल्पनमित्यत उक्तम् ॥ यदिति ॥ जीवानां न परमात्माश्रयत्वं नियमेन । तदाश्रितत्वस्यादर्शनं तदनाश्रितत्वज्ञानपर्यवसानमित्यतः सर्वप्रमाणविरुद्धस्य कल्पनमित्युपपद्यत इति ज्ञेयम् ।
मूलार्थस्तु आत्मा जीवः केवले स्वतन्त्रे अमृते नित्यमुक्ते हरावाश्रिततया स्वमात्मान-मचलं यथा भवति तथा नियमेनेति यावत् । न पश्यति । प्रत्युत तदनाश्रितमेव पश्यतीत्येवंरूपो यद्विकल्पः यो विकल्पः प्रमाणविरुद्धकथनमित्येतावानात्मनस् तस्यात्मनि मनसि स्थितः संमोह इति ॥ ३७ ॥
यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।
व्यर्थो नाप्यर्थवादोऽयं द्वयं विन्दन्ति सूरयः ॥ ३८ ॥
तात्पर्यम्
**अयं व्यर्थवादो न भवति किन्त्वर्थवादः । जगत्परमेश्वरं च द्वयं विन्दन्ति (विदन्ति) ज्ञानिनः । ‘पञ्चभूतात्मकं विश्वं भ्रान्तिसिद्धमपण्डिताः । वदन्ति पण्डितास्त्वद्धा जगदाहुरबाधितम् । प्रवाहरूपेण सदा विष्णोरिच्छावशे स्थितमि’ति च **
॥ ३८ ॥
॥ इति एकादशतात्पर्ये अष्टाविंशोऽध्यायः ॥ २८ ॥
पदरत्नावली
इतोपि पञ्चविधभेदभ्रमोऽद्वैतज्ञानेन निवर्तत इत्ययं वादो न विदुषां परिषदि स्वारस्यमाधत्त इति भावेनाह– यन्नामाकृतिभिरिति । नामाकृतिभिर्नामरूपैर्ग्राह्यं ज्ञेयं पञ्चवर्णं पञ्चभूतात्मकं पञ्चभेदात्मना वर्तनीयं जगद् अबाधितमद्वैतज्ञानबाध्यं न भवति । जगदबाधितमित्ययं व्यर्थो वादो न भवति किन्त्वर्थवादः यथार्थवाद एव । कुतः । सूरयो जीवं परमात्मानं च द्वयं द्वित्वसङ्ख्याविशिष्टं विन्दन्ति ज्ञात्वा परमानन्दं लभन्त इति भावः । अनेन जगज् ज्ञानबाध्यमिति वदन्तोऽपण्डिताः, अन्ये तु पण्डिता इत्युक्तं भवति । ‘‘पञ्चभूतात्मकं विश्वं भ्रान्तिसिद्धमपाण्डिताः । वदन्ति पण्डितास्त्वद्धा जगदाहुरबाधितम् । प्रवाहरूपेण सदा विष्णोरिच्छावशे स्थितम्’’ इति वचनात् ॥ ३८ ॥
श्रीनिवासतीर्थीया
ननु यदुक्तं स्वात्मनो भगवदधीनत्वादर्शनं मिथ्याज्ञानमिति तन्न । जीवब्रह्मणोरैक्यात् । ननु कथमेतज्जगत्कारणत्वस्य भगवति सत्वेन जीवे तदभावेन तयोर्विरुद्धधर्माधिकरणत्वादिति चेन्न । जगतो मिथ्यात्वेन तत्कारणत्वस्य च मिथ्यात्वा-दित्यतो जगत्सत्यमित्याह ॥ यदिति । नामाकृतिभिर्ग्राह्यम् । यन्नामभिराकृतिभी रूपैर्ग्राह्यम् । ज्ञेयं यत्पञ्चवर्णं पञ्चभूतात्मकं विश्वं यदस्ति तदबाधितं ज्ञानबाध्यं न भवति । कुतः । विश्वं सत्यमित्यादि श्रुतेः । नन्वयं व्यर्थवाद इत्यत उक्तम् ॥ व्यर्थ इति ॥ अत्रायं वादो व्यर्थः । नाप्यर्थवाद इत्यन्यथाप्रतीत्या व्याचष्टे ॥ अयमिति । विश्वं सत्यमित्ययं वादः । द्वयं विन्दन्ति सूरय इत्येतद्विवृणोति ॥ जगत्परमेश्वरं चेति । श्लोकार्थे प्रमाणमाह ॥ पञ्चभूतात्मकमिति । पञ्चभूतात्मकमित्यनेन पञ्चवर्णमिति व्याख्यातम् । व्यर्थो नेति निषेधस्य प्रसक्तिपूर्वकत्वात्तदर्थं व्यर्थ इति प्रसक्तिं दर्शयति ॥ भ्रान्तिसिद्धमपण्डिता वदन्तीति । अर्थवाद इत्येतत्पण्डितास्त्वद्धा जगदाहुरबाधितमित्यनेन विवृतम् । तेनार्थशब्दो विषयपर्याय इति दर्शितम् । अर्थोऽभिधेयोरैवस्त्वित्युक्तेः । प्रवाहरूपेण सदा विष्णोर्वशे स्थितमित्यनेन द्वयं विन्दन्ति सूरय इति विवृतम् । तेन सूरय इत्यनेन पण्डिता इति व्याख्यातम् । जगद्विष्णोः सहभावोपपादनार्थं प्रवाहरूपेण सदेत्युक्तम् । समप्रधान-निवृत्त्यर्थमिच्छावशे स्थितमित्युक्तमिति बोध्यम् ॥ तथा चायमर्थः ॥ अयं जगदबाध्यमिति वादो व्यर्थो न किं त्वर्थवाद एव । अर्थवानेवायं वादः । कुतः । सूरयो ज्ञानिनो जगत्परमेश्वरं चेति द्वयं विन्दन्ति जानन्ति । ज्ञात्वा च मुक्तिं प्राप्नुवन्त्यतो मोक्षजनक-ज्ञानविषयत्वात्सत्यमिति सिद्ध्यतीति ॥ ३८ ॥
प्रमेयचन्द्रिका
ननु ब्रह्मातिरिक्तं जीवादिजगन्मिथ्या तत्कस्य भगवदाश्रितत्वमुच्यत इत्यत उच्यते ॥ यन्नामेति ॥ विरुद्धमुच्यत इत्यतो व्याचष्टे ॥ अयमिति ॥ मूलेऽय-मित्यत्र वाद इत्यध्याहार्यमिति भावेनोक्तम् ॥ वाद इति ॥ मूले अपीत्यत्र तु इति ग्राह्यम् । अपि त्विति पर्यवस्यति । तस्यार्थः किंत्विति । तेनार्थवादपदस्य सम्बन्ध इत्युक्तम् । किंत्विति ॥ द्वयं विन्दन्तीत्ययुक्तम् । जीवादिप्रपञ्चस्यानन्तत्वादित्यत आह ॥ जगदिति ॥ स्वतन्त्रास्वतन्त्रभेदेन द्वित्वमिह विवक्षितमिति भावः । सूरय इत्यस्यार्थो ज्ञानिन इति ।
श्लोकं प्रमाणेन व्याचष्टे ॥ पञ्चभूतात्मकमिति ॥ पञ्चवर्णमित्यस्यार्थः पञ्चभूतात्मक-मिति । अयं वादो व्यर्थो नेत्यस्याभिप्रायकथनं भ्रान्तिसिद्धमपण्डिता वदन्तीति । सूरयो विन्दन्तीत्यस्यार्थः । पण्डिता आहुरिति । अबाधितं द्वयमित्यस्यार्थोऽबाधितमिति । जगन्नाश एवाबाधित इत्यत उक्तम् ॥ प्रवाहरूपेण सदा स्थितमिति ॥ विष्णुजगतो-रुभयोरबाधितत्वेऽपि न साम्यमित्याह ॥ विष्णोरिच्छावशे स्थितमिति ॥
तदयं मूलार्थः ॥ नामाकृतिभिश्चतुर्मुखत्वादिरूपैर्युक्तता ज्ञेयम् । पञ्चवर्णं नीलादि-पञ्चवर्णोपेताकाशादिपञ्चभूतात्मकम् । यद्विश्वं तज्जगदबाधितमित्ययं वादो व्यर्थो न । अपि तु अर्थवादः । अपिवरवधारणेऽपि । अर्थवानेवायं वादः यद्यथार्थ इति यावत् । कुतः सूरयो ज्ञानिनः द्वयं जगत्परमेश्वरं चेति द्वयमपि यथार्थं विन्दन्ति जानन्ति । तथा च ब्रह्मातिरिक्तप्रपञ्चस्यापि सत्यत्वादुक्तं युक्तमिति भावः ॥ ३८ ॥
योगिनो पक्वयोगस्य युञ्जतः काल उत्थितैः ।
उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३९ ॥
पदरत्नावली
पूर्वमन्तरायहतयोगाः कुयोगिनो जन्मान्तरेऽपि योगमभ्यसन्तीत्युक्तम् । अधुना तस्मिन् जन्मन्येव प्राप्तयोगान्तरायपरिहारप्रकारं वक्तुमाह– योगिन इति । काले योगाभ्यासविहितसमये प्रभातादिलक्षणे योगं युञ्जतः । उपसर्गैरुपद्रवैः । विधिर् वक्ष्यमाणः ॥ ३९ ॥
श्रीनिवासतीर्थीया
अन्तरायैर्विहताः कुयोगिनः प्राक्कृताभ्यासबलेन तान्परिहृत्ये-त्युक्तम् । अधुना प्रकारान्तरेणोपायमाह ॥ योगिन इति । अपक्वयोगस्य योगिनो युञ्जतो योगानुष्ठानं कुर्वतस्तस्य काले योगानुष्ठानसमये उपस्थितैः प्राप्तैरुपसर्गैर्विघ्नैरयं यदि विहन्येत तत्रायं विधिरुपायो विहितः कल्पित इत्यर्थः ॥ ३९ ॥
प्रमेयचन्द्रिका
पूर्वं कुयोगिन इत्यत्र योगस्य विलये प्रसक्ते जन्मान्तरयोगसिद्धि-र्भवतीत्युक्तम् । अधुना तस्मिन्नेव जन्मनि प्राप्तयोगान्तरायपरिहारप्रकारं वक्तुमुच्यते ॥ योगिन इति ॥ काले तत्तत्समये युञ्जतो योगं कुर्वतोऽपक्वयोगस्य अपूर्णयोगस्य योगिनो योगो यद्युपसर्गैर्विहन्येत तत्तत्परिहारे अयं विधिर्विहित इत्यर्थः ॥ ३९ ॥
योगधारणया कांश्चिदासनैर्धारणान्वितैः ।
तपोमन्त्रौषधैः कांश्चिदुपसर्गान् विनिर्दहेत् ॥ ४० ॥
पदरत्नावली
कोयमिति तत्राह– योगधारणयेति । योगधारणया यमनियमादीनामावर्तनेन
॥ ४० ॥
श्रीनिवासतीर्थीया
कोऽयमित्यत आह ॥ योगधारणयेति । यमनियमादि-नेत्यर्थः । खण्डस्मृतिरूपधारणान्वितैरासनैः कांश्चिद्विघ्नान्निर्दहेत् ॥ ४० ॥
प्रमेयचन्द्रिका
स एवावधिप्रकारोऽभिधीयते ॥ योगेत्यादिना ॥ योगधारणया श्रवणमननध्यानादिरूपमोक्षोपायाभ्यासेन ॥ ४० ॥
कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः ।
योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शुभैः ॥ ४१ ॥
पदरत्नावली
अनुध्यानेन तत्तदन्तरायविहितपरिहारसमर्थहरिस्मरणेन । नामसङ्कीर्तनादिभि-रित्यनेनाधिकारिणः कालविशेषांश्च लक्षयति । अशुभदान् विघ्नान् ॥ ४१ ॥
श्रीनिवासतीर्थीया
नामसंकीर्तनादिभिः कांश्चिदनुवृत्त्या सेवया । अशुभदान्विघ्नान् शुभैः शुभप्रदैर्विविधोपायैः ॥ ४१ ॥
प्रमेयचन्द्रिका
शुभैर्नामसंकीर्तनादिभिरिति सम्बन्धः ॥ ४१ ॥
केचिद् देहमिमं धार्यं सुकल्पं१ वयसि स्थितम् ।
विधाय विविधोपायैरथ युञ्जन्ति सिद्धये ॥ ४२ ॥
पदरत्नावली
रसायनादिनानाविधोपायैः शरीरस्य नाशाद्यन्तरायपरिहारस्य सुशकत्वेन सिद्धि-साधनसौलभ्याद् व्यर्थं योगधारणादिविधानमत्राह– केचिदिति । केचिदविवेकिनः परेण धार्यं सुकल्प-मिन्द्रियसामर्थ्योपेतं वयसि स्थितं तारुण्यवयसोपेतम् अथ शरीरस्य चिरस्थायित्वानन्तरं योगसिद्धये युञ्जन्ति, मन इति शेषः ॥ ४२ ॥
श्रीनिवासतीर्थीया
देहेन योगधारणादिविधानप्रकारमाह ॥ केचिदिति । केचिद-विवेकिनः परमात्मना धार्यं सुकल्पमत्यन्तदृढं वयसि स्थितं तारुण्यवयसोपेतमेतादृशं देहं विविधोपायै रसायनादिभिः स्थिरं विधाय कृत्वा । अथ वार्धक्यावस्थायां सिद्ध्यर्थं युञ्जन्ति । योगमिति शेषः ॥ ४२ ॥
प्रमेयचन्द्रिका
बाल्यादेव साधनमनुष्ठेयम् । सुशकत्वादात्मफलत्वाच्च । न तु चरमे वयसीत्याशयेनाज्ञानिन एव चरमे वयस्यनुतिष्ठंतीत्युच्यते ॥ केचिदिति ॥ केचिदित्यस्य स्फोरणायोक्तं सुकल्यमिन्द्रियशक्त्युपेतम् । बाल्ययौवनादिवयसि स्थितमिमं देहं मातृ-कलत्रादिभिर्धार्यं विधायाथ चरमे वयसि विविधैरुपायैर्योगसिद्धये युञ्जन्ति मन इति शेषः । यद्वा सिद्धये मोक्षाय युञ्जन्ति योगं कुर्वन्तीति वा ॥ ४२ ॥
इह वर्षशताशीत्या तदायासो ह्यपार्थकः ।
अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पतेः ॥ ४३ ॥
पदरत्नावली
तेषामविवेकित्वं कुत इति तत्राह– इहेति । तदायासस् तस्य देहस्य पोषणायासः । अपार्थकत्वमाह– अन्तवत्त्वादिति ॥ ४३ ॥
श्रीनिवासतीर्थीया
तारुण्यावस्थायां मोक्षार्थं यतन्तीत्युक्तम् । तत्रास्यानित्यत्वेन निश्चितपतनस्य देहस्य पोषणायासेन किं व्यर्थत्वादित्याह ॥ इहेति । इह लोके वर्षशतेन । वर्षशतपर्यन्तमिति यावत् । अशीत्या च । अशीतिवर्षपर्यन्तमिति यावत् । तदायासो यः सोऽपार्थको व्यर्थः । कुतः । अद्य श्वो वा देहस्य पतननिश्चयस्यैव सत्वादिति भावेनाह ॥ अन्तवत्वादिति । यथा वनस्पतेर्वृक्षस्य फलस्येव वृक्षस्य पक्वं फलं यथा पतति तथा शरीरस्यान्तवत्वेन पतिष्यत्येवेति निश्चयस्यैव सत्वात्तदायासो ह्यपार्थक इत्यर्थः । यद्वा । विविधोपायैर्देहं स्थिरं कृत्वेत्यनेन देहपोषणं कार्यमित्युक्तम् । तत्र कियत्पर्यन्तं कार्यमित्युक्ते शतवर्षाशीतिवर्षात्प्रागेव । तदनन्तरं पोषणेन किं प्रयोजनं कार्याक्षमेन व्यर्थत्वादित्याह ॥ इहेति । वर्षशताशीत्या वर्षशतेनाशीतिवर्षेण च । कोऽर्थः । तदनन्तरमिति यावत् । तदायासो ह्यपार्थकः । कुत इत्यतस्तदनन्तरं पतिष्यत्येवेति निश्चयस्य सत्वादित्याह ॥ अन्तवत्वादिति ॥ ४३ ॥
प्रमेयचन्द्रिका
केचिदित्युक्तानामज्ञानित्वं प्रदर्श्यते ॥ इहेति ॥ इह देहे वर्षाणां शतैरशीत्या वा प्राप्तस्तदायासो देहपोषणायासोऽपार्थको व्यर्थः । अपेत्यस्य विरुद्धार्थत्वं च नरकादिरूपविरुद्धप्रयोजनकः । अशीत्यादिवर्षपर्यन्तं शरीरावस्थाननिश्चयो नेत्युच्यते ॥ अन्तवत्वादिति ॥ प्रतिक्षणं सम्भावितत्वादित्यर्थः । फलस्येवेति ॥ कलावाम्रोपमा जीवा इत्युक्तेरिति भावः ॥ ४३ ॥
योगं निषेवतो नित्यं कायश्चेत् कल्प(ल्य)तामियात् ।
तच्छ्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४४ ॥
पदरत्नावली
योगस्य शरीररक्षणयोगत्वाभावात् तदायासस्य तत्फलदत्वान्न वैयर्थ्यं शरीरक्षणायासस्येत्याशङ्क्याह– योगमिति । नित्यं योगं भगवद्ध्यानलक्षणं रसायनं निषेवतः सेवमानस्य पुंसश् चेद् यदि कायः कल्पतां समर्थत्वमियात् प्राप्नोति तत् तर्हि स मतिमान् योगमेव श्रद्धध्यात्, तं योगम् उत्सृज्य अन्यत्र रसायनादौ श्रद्धां न कुर्याद् इत्यन्वयः । मत्पर इत्यनेन मतिमत्त्वं विवृतम् । अनेन योगस्यापि शरीररक्षणफलत्वाद् रसायनादौ प्रवर्तमाना अविवेकिनः, अतो मतिमद्भिर् मद्योग एवाभ्यसनीय इति सिद्धम् । अत उक्तं युक्तम् ॥ ४४ ॥
श्रीनिवासतीर्थीया
ननु योगानुष्ठानोपयुक्तत्वाद्देहस्य तत्पोषणं रसायनाद्युपायैरवश्यं कार्यमित्यतो योगेनैव सर्वं भविष्यतीत्याह ॥ योगमिति । नित्यं योगं निषेवतो ध्यान-लक्षणयोगं सेवमानस्य पुंसः कायो देहश्चेद् यदि कल्पतां समर्थतामियात् प्राप्नोति तत्तर्हि स मतिमान्योगी देहदार्ढ्यत्वे हेतुभूतं योगमेव श्रद्धध्यात् । योगमुत्सृज्यान्यत्र रसायनादौ न श्रद्धां कुर्यादित्यर्थः ॥ ४४ ॥
प्रमेयचन्द्रिका
योगसाधनभूतदेहरक्षणादिविषयभोगोऽवश्यं कार्य इत्यत उच्यते ॥ योगं निषेवत इति ॥ योगं नित्यं निषेवतः । कायः कल्यतां समर्थत्वमियाच्चेत्तर्हि मतिमान्मत्पर एव भवेत् । योगमुत्सृज्य तद्विषयभोगादिकं न श्रद्दध्यादित्यर्थः ॥ ४४ ॥
योगचर्यामिमां योगी विचरन् मदपाश्रयः ।
नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४५ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥
पदरत्नावली
अत उक्तयोगान्तरायपरिहारमाचरन्नेव योगपारं गमिष्यतीति भावेनाह– योगचर्यामिति । स्वसुखं स्वस्वरूपसुखमनुभवतीति स्वसुखानुभूर् इत्यनेन योगः सर्वापेक्षिताशेष-पुरुषार्थसाधनमित्युक्तं भवति ॥ ४५ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचिायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य अष्टाविंशोऽध्यायः ॥
श्रीनिवासतीर्थीया
ननु किं योगे श्रद्धया प्रयोजनमित्यत आह ॥ योगचर्यामिति । इमां योगचर्यामाचरन् मदपाश्रयोऽहमेवापाश्रयो यस्य स मदपाश्रयो योगी यः सः स्वसुखानुभूः स्वरूपसुखमनुभवतीति स्वसुखानुभूः । अत एव निस्पृहोऽनासक्तः सन् अन्तरायैर्विघ्नैर्न विहन्यत इत्यशेषमतिमङ्गलम् ॥ ४५ ॥
॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ ११–२८ ॥
प्रमेयचन्द्रिका
विषयभोगत्यागेन योगाचरणे अन्तरायपरिहारोऽपि भवतीत्युच्यते ॥ योगचर्यामिति ॥ स्वं स्वरूपभूतं सुखं यस्य स्वसुखो हरिः । तद्विषयकानुभवात् स्वसुखानुभूः । परस्वो हरिरुद्दामेत्युक्तेः स्वो विष्णुः । तत्प्रसादासादितस्वरूपभूत-सुखानुभववानित्यर्थः ।
श्रीभागवततात्पर्यनिर्णयामृतसागरे । स्खलन्प्रतिपदं चाहं नापहास्यः कृपावताम् ॥
॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायाम् अष्टाविंशोऽध्यायः ॥