क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो
॥ अथ सप्तविंशोऽध्यायः ॥
उद्धव उवाच–
क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।
येन त्वां ये यथाऽर्चन्ति सात्वताः सात्वतर्षभ ॥ १ ॥
पदरत्नावली
कर्मयोगानुष्ठानप्रकारं प्रपञ्चयत्यस्मिन्नध्याये । तत्रोद्धवो धिष्ण्येष्वित्यादिना सङ्क्षिप्योक्तं क्रियायोगं विस्तरतो विविदिषुः पृच्छति क्रियायोगमित्यादिना । ‘‘क्रिया तु निष्कृतौ शिक्षाचिकित्सापापकर्मसु । कारणारम्भपूजासु सम्प्रधारणचेष्टयोः’’ इत्यतो विवक्षितमाह– भवदाराधनमिति । ये सात्वताः सात्वततन्त्रोक्तविधानं विद्वांसस् ते, येन केन, यथा कथं, अर्चन्ति
॥ १ ॥
श्रीनिवासतीर्थीया
कर्मानुष्ठानप्रकारं प्रपञ्चयत्यस्मिन्नध्याये । तत्रोद्धवः संक्षिप्योक्तं क्रियायोगं विस्तरतो विविदिषुः पृच्छति ॥ क्रियायोगमित्यादिना । ये सात्त्वताः पञ्चरात्रोक्तप्रकारेण कर्मानुष्ठातारस्ते येन कर्मणा त्वां यथाकथमर्चन्ति तं भगवदाराधनरूपं क्रियायोगं समाचक्ष्व वदेत्यन्वयः ॥ १ ॥
प्रमेयचन्द्रिका
अत्रोद्धवेन प्राक् संक्षेपत उक्तं क्रियायोगं विस्तरेण ज्ञातुकामेन प्रश्नः क्रियते ॥ क्रियायोगमित्यादिना ॥ येन क्रियायोगेन यथा येन प्रकारेण तं क्रियायोगमिति सम्बन्धः । सत्वं तु शोभनत्वं स्यात्तद्युक्ताः सात्वताः स्मृताः ॥ १ ॥
एतद् वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् ।
नारदो भगवान् व्यास आचार्योऽङ्गिरसः सुतः ॥ २ ॥
पदरत्नावली
इदमेव वक्तव्यमिति किम्, किमन्यन्न स्यादिति तत्राह– एतदिति । मुनय एतद् भगवदाराधनं नृणां निःश्रेयसं पुरुषार्थसाधनं मुहुर्मुहुरनुक्षणं वदन्ति । ग्राह्यत्वे तान् निर्दिशति नारद इत्यादिना । अङ्गिरसः सुत आचार्यो बृहस्पतिः ॥ २ ॥
श्रीनिवासतीर्थीया
नन्वन्यद्विहायेदमेव कस्मात्पृच्छसीत्यत आह ॥ एतदिति । एतद्भवदर्चनं निःश्रेयसं श्रेयःसाधनं वदन्ति । के ते मुनय इत्यत आह ॥ नारद इत्यादिना । अङ्गिरसः सुतः । आचार्यो बृहस्पतिरित्यन्वयः ॥ २ ॥
प्रमेयचन्द्रिका
एतद्भगवदर्चनं मुहुरतिशयेन निःश्रेयसं मोक्षसाधनम् । के ते मुनय इत्यत उक्तम् ॥ नारद इति ॥ अङ्गिरसः सुत आचार्यो बृहस्पतिः ॥ २ ॥
निःसृतं ते मुखाम्भोजाद् यदाह भगवानजः ।
पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३ ॥
एतद् वै सर्ववर्णानामाश्रमाणां च सम्मतम् ।
श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४ ॥
एतद्धि कमलपत्राक्ष कर्मबन्धविमोचनम् ।
भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥
पदरत्नावली
इतोऽपीदमेव श्रोतव्यं नान्यदित्याह– निःसृतमिति । ऋषिवचनानां विकल्प-सम्भवात् कथं निर्णय इत्यतो वाह– निःसृतमिति । भवदाज्ञया असुरजनमोहनायान्यथा वदन् शिवोपीदं ग्राह्यत्वेनाहेत्याह– देव्या इति । देव्या इत्यनेनाप्तिमूलत्वं सूचयति ॥ उत्तमश्रोतॄणा-मर्थायोक्तमस्तु नापरेषामधिकार इति नाश्रद्धेयमिति भावेनाह– एतदिति । सम्मतं समानम् ॥ अनेन कर्मबन्धविध्वंसाभावान्नानुष्ठानार्हमिति नेत्याह– कर्मेति ॥ ३–५ ॥
श्रीनिवासतीर्थीया
इतोऽपीदमेव श्रोतव्यं नान्यदित्याह ॥ निःसृतमिति । ते मुखांभोजान्निःसृतं क्रियायोगं भगवानजो ब्रह्मा भृगुमुख्येभ्यः पुत्रेभ्यो यथाऽऽह तं प्रकारं वदेत्यर्थः । भवश्चेति चशब्दान्वयः ॥ इतोऽपीदमेव वाच्यमित्याह ॥ एतदिति । श्रेयसा-मुत्तमम् । एतत्सर्वेषां संमतम् ॥ ३–५ ॥
प्रमेयचन्द्रिका
ब्रह्मादिभिश्चैतदुपदिष्टमिति उच्यते ॥ निस्पृहमिति ॥ यदित्यस्यै-तदित्यनेनान्वयः ॥ ब्रह्मादिभिर्भृग्वादिभ्य उपदिष्टत्वेनास्य सर्वाधिकारिकत्वमिति न मन्तव्य-मित्युच्यते ॥ एतद्धीति ॥ ३–५ ॥
श्रीभगवानुवाच–
न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।
संक्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६ ॥
श्रीनिवासतीर्थीया
क्रियायोगं वदेत्युक्तम् । तत्र सर्वोऽपि क्रियायोगो वक्तुं न शक्यते । गहना कर्मणो गतिरित्युक्तत्वेनापरिच्छिन्नत्वात् । अपि तर्हि संक्षेपेण वक्ष्य इत्याशयेनाह ॥ भगवानिति । अनन्तपारस्य न विद्यतेऽन्तपारो यस्य स तस्य कर्मकाण्ड-स्यान्तो न हि । अथाऽपि संक्षिप्तं संक्षेपेणोक्तं क्रियायोगं यथावद्याथार्थ्येनानुपूर्वशो यथा-क्रमेण वर्णयिष्यामीत्यन्वयः ॥ ६ ॥
दुर्घटभावदीपिका
हे उद्धव । अनन्तपारस्य नारायणप्रापकस्य कर्मकाण्डस्य कर्मसमुदायस्यातो न च नैवेतद्धि प्रमाणप्रसिद्धमिति । अनेनानन्तरपारस्येत्येतदन्तो नास्तीत्यनेन पुनरुक्तमिति चोद्यं परिहृतम् । अनन्तपारस्यान्तपाराभ्यां रहितेत्यर्थ इत्यनङ्गीकारात् ॥ ६ ॥
प्रमेयचन्द्रिका
अनन्तपारो ऽनन्तलक्षणः । पारः पर्यवसानं यस्य नास्ति सोऽनन्तपारस्तस्य कर्मकाण्डस्य कर्मकलापस्य । संक्षिप्तमिति क्रियाविशेषणम् ॥ ६ ॥
वैदिकस्त्रान्त्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समाचरेत् ॥ ७ ॥
पदरत्नावली
वैदिको वेदाधिकारिविषयोऽग्निष्टोमादिः । तान्त्रिकस् तन्त्राधिकारिविषयः पुष्पाञ्जल्यादिः । मिश्रः स्त्रीशूद्रादिविषयो नामसङ्कीर्तनादिः । मखो यागः पूजालक्षणः । तत्तदधिकारिणमाह– त्रयाणामिति । इप्सीतेन योग्येन ॥ ७ ॥
श्रीनिवासतीर्थीया
मे मम मखो मत्पूजालक्षणमखो वैदिको वेदोक्तज्योतिष्टोमादि-कर्माधिकारिविषयः । तान्त्रिकस् तन्त्रोक्तपुष्पाञ्जल्याद्यधिकारविषयो वैदिकतान्त्रिकोक्तप्रकारा-नुष्ठात्रधिकारविषयः । अथवा मिश्रः स्त्रीशूद्रादिविषयो नामसङ्कीर्तनादिरिति त्रिविध इत्यर्थः । तत्र त्रयाणां मध्ये ईप्सितेन विधिना विधानेन मां समर्चयेत् ॥ ७ ॥
प्रमेयचन्द्रिका
वैदिको यज्ञादिः । पुरुषसूक्तऋग्भिः षोडशोपचारलक्षणो वा । तांत्रिकः पञ्चरात्रोक्तप्रकारकः । स्त्रीशूद्रादिसाधारणो नामसङ्कीर्तनादिरिति टीकायाम् । मखो यागः । पूजेति यावत् ॥ ७ ॥
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तं निबोध मे ॥ ८ ॥
पदरत्नावली
स्वनिगमने स्वशाखया विहितं यथा तथा द्विजत्वमुपनयनं प्राप्य ॥८॥
श्रीनिवासतीर्थीया
तदेव विवृणोति ॥ यथेति । पुरुषो यथा स्वनिगमेनोक्तं स्वशाखाविहितं तथा द्विजत्वं प्राप्योपनयनं प्राप्य मां यथाकथं यजेत तं प्रकारं मे सकाशान्निबोधेत्यन्वयः ॥ ८ ॥
प्रमेयचन्द्रिका
स्वनिगमेन स्वशाखायाम् ॥ ८ ॥
अर्चायां स्थण्डिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे ।
द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥
पदरत्नावली
अर्चादीन्यधिष्ठानानि उत्तरोत्तरशस्तानि यथायोग्यम् ॥ ९ ॥
श्रीनिवासतीर्थीया
हृदये वा जले वाऽपि चले वा केवलस्थल इत्युक्तिं हृदि कृत्वाऽऽह ॥ अर्चायामिति । गुरुभूतं मामर्चयेदित्यन्वेयः ॥ ९ ॥
प्रमेयचन्द्रिका
आर्चायां प्रतिमायाम् । सुपरिशुद्धे स्वहृदये । हृदये वा जले वापीति तन्त्रसारोक्तेः ॥ ९ ॥
पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये ।
उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिभिः ॥ १० ॥
पदरत्नावली
उभयैर् वैदिकैस्तान्त्रिकैरपि मन्त्रैः ॥ १० ॥
श्रीनिवासतीर्थीया
अर्चनाङ्गभूतं किञ्चिदाह ॥ पूर्वमिति । अङ्गशुद्धये देहशुद्धये उभयैर्वैदिकैस्तान्त्रिकैरुद्धृतासीत्यादि मन्त्रैर्मृद्गृहणादिना स्नानं प्रकुर्वीतेत्यन्वयः ॥ १० ॥
प्रमेयचन्द्रिका
उभयैर्वैदिकैस्तांत्रिकैरिति मन्त्रैः ॥ १० ॥
सन्ध्योपास्त्यादिकर्माणि वेदतन्त्रोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनः ॥ ११ ॥
पदरत्नावली
सन्ध्योपास्त्यादिकर्माणि यानि तैर्मम पूजां प्रकल्पयेत् । किमर्थमेवं सङ्कल्प इति तत्राह– सम्यगिति । मत्पूजात्वेन सङ्कल्पः कर्मशुद्धिकर इत्यर्थः ॥ ११ ॥
श्रीनिवासतीर्थीया
वेदतन्त्रोदितानि यानि सन्ध्योपास्त्यादिकर्माणि तैर्मम पूजां प्रकल्पयेत् । किमर्थमेवं कल्पनमित्यत आह ॥ सम्यगिति । सम्यक् मम पूजात्वेन सङ्कल्पः कर्मपावनः कर्मशुद्धिकर इत्यर्थः ॥ ११ ॥
प्रमेयचन्द्रिका
यानि सन्ध्योपास्त्यादिकर्मणि मे मया चोदितानि विहितानि तैः कर्मभिर् मे पूजां सङ्कल्पयेत् । तत्पूजा कर्म चाखिलमिति तत्पूजात्वेनादौ सङ्कल्प्यान्तेऽपि समर्पयेदित्यर्थः । एवंविधः सङ्कल्पः कृतकर्मणां पावनः पावित्र्यहेतुः । महाफलप्रापक इति यावत् ॥ ११ ॥
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता ॥ १२ ॥
पदरत्नावली
अर्चायामित्युक्तप्रतिमाभेदमाह– शैलीति । शैली शिलामयी । लोहेन कांस्यताम्रादिना निर्मिता लौही । लेप्या औषधरससंलिप्तशिला । लेख्या पटादिलिखितचित्रलक्षणा । सैकती तत्तत्कालोचितसिकतया कृता । मनोमयी ध्यानकाले चित्तप्रतिबिम्बिताकृतिः । मणिमयी सूर्यकान्तादिरचिता ॥ १२ ॥
श्रीनिवासतीर्थीया
अर्चायामित्युक्तं प्रतिमाभेदमाह ॥ शैलेति । शैली शिलामयी । दारुमयी दारुनिर्मिता । लौही लोहनिर्मिता । लेप्या औषधिरससंलिप्ता शिला तन्मयी । लेख्या चित्रादि । सैकता सिकताकृता । मनोमयी ध्यानकाले चित्तप्रतिबिम्बिताकृतिः । मणिमयी स्फटिकादिमणिमयीत्येवं प्रतिमाऽष्टविधेत्यर्थः ॥ १२ ॥
प्रमेयचन्द्रिका
भित्यादिषु धातुविशेषलेपनेन कृता प्रतिमा लेप्या । शिलातले रेखारूपेण प्रकृता प्रतिमा लेख्या । मनोमयी चित्ते प्रतिबिम्बिता प्रतिमा, मणिमयी रत्नमयी
॥ १२ ॥
चलाचलेति द्विविधा प्रतिष्ठा१ जीवमन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३ ॥
पदरत्नावली
जीवमन्दिरं देहः, इयमपि चलान्तर्भूतम् । स्थिरायां प्रतिमायामर्चने उद्वासा-वाहने न स्तः ॥ १३ ॥
श्रीनिवासतीर्थीया
स्थिराचलप्रतिमामुक्त्वा पुनः प्रतिमा द्विविधाऽस्तीत्याह ॥ चलाचलेति । जीवमन्दिरं देहम् । इदं चलान्तर्भूतमिति दर्शयितुं पृथगुक्तिः । चलं देहादिकम् । अचलमस्थिराचलं गृहे विद्यमानप्रतिमादि । स्थिरायामर्चने शैलाद्यचलप्रतिमायामुद्वासावाहने उपसंहारावाहने ॥ १३ ॥
प्रमेयचन्द्रिका
पुनर्द्वैविध्यमुच्यते ॥ चलेति ॥ उत्सवादौ पेटिकायां वाऽन्यत्र नेतुं योग्यप्रतिमा चलेति प्रसिद्धम् । प्रकारान्तरेण च चलोच्यते ॥ जीवमन्दिरमिति ॥ अचला तु गर्भगृहेऽवस्था अन्यत्र नेतुं योग्या इत्येवं प्रतिमा द्विविधेत्यर्थः । प्रतिष्ठा जीवमन्दिरमिति क्वचित्पाठः । जीवमन्दिरं गर्भगृहस्तत्रैव प्रतिष्ठिता । अचलेति तस्यार्थ इत्याहुः ॥
तत्र पूजाविशेषोऽभिधीयते ॥ उद्वासेति ॥ प्राक्प्रतिमायामावाहितस्य स्वबिम्बरूपस्य हरेः पुनःहृदये सन्निधापनमुद्वासः ॥ १३ ॥
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।
स्नपनं तु विलेप्यायामन्यत्र परिमार्जनम् ॥ १४ ॥
पदरत्नावली
अन्यत्र शिलादिष्वेव स्नपनम् । विलेप्यायां तुशब्दात् स्थाण्डिलादावपि परिमार्जनमेव स्नपनमित्युच्यते ॥ १४ ॥
श्रीनिवासतीर्थीया
अस्थिरायां रामादिप्रतिमायां विकल्पः । उद्वासावाहनयोरिति शेषः । द्वयमुद्वासावाहनरूपम् । अन्यत्र लेख्यादिप्रतिमायां परिमार्जनं तुलस्याः सेकादिः
॥ १४ ॥
प्रमेयचन्द्रिका
अस्थिरायां च प्रतिमायां विकल्पः । स्वयंव्यक्तस्थलीयसालग्रामादि-रूपप्रतिमासु नोद्वासावाहने । तदन्यासु प्रतिष्ठितचलासु ते स्त इति भावः । द्वयमित्यतःपरं नियतमिति शेषः । विलेप्यायामित्युपलक्षणम् । मण्डले सैकतादौ च । परिमार्जनमस्नपनं न तु तत्राभिषेकः । अन्यत्र तदन्यत्र सिद्धशिलालोहमयाद्यासु सम्यक्स्नपनमभिषेक एवेत्यर्थः
॥ १४ ॥
द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः ।
भक्त्या चैव यथालब्धैर्हृदि भावेन चैव हि ॥ १५ ॥
पदरत्नावली
प्रसिद्धैस् तन्त्रेषु प्रशस्तत्वेन निरूपितैः । सामग््रयभावे यथालब्धैः । हृदि भक्त्या भावेन ध्यानेन । द्रव्यध्यानसमुच्चये चशब्दः । एवशब्दो भक्तेः सार्वत्रिकत्वे । हिशब्दो ज्ञानाद्याधिक्ये ॥ १५ ॥
श्रीनिवासतीर्थीया
यथालब्धैः पञ्चरात्रादिषु प्रसिद्धैर्द्रव्यैः । अमायिनोऽस्य भक्त्या भावेन ध्यानेन च हृदि मद्यागो विहित इत्यर्थः ॥ १५ ॥
दुर्घटभावदीपिका
प्रतिमादिष्वित्यत्रादिशब्देन साक्षात्कृतरामादिरूपाणाम् । एतेन प्रतिमाशब्देन चलाचलाप्रतिमानां प्राप्तत्वाद् आदिशब्दो व्यर्थ इति दूषणं परास्तम् । आदिशब्देन प्रतिमा विशेषण ग्रहणमित्यनभ्युपगमात् ॥ १५ ॥
प्रमेयचन्द्रिका
अमायिनोऽवञ्चकस्य मद्यागः पूजा विहिता इति शेषः । न केवलं द्रव्यैर्गन्धपुष्पधूपदीपादिभिः । किं त्वस्य पूज्यस्य हरेः सम्बन्धिन्या भक्त्या च हृदये भावेन ध्यानेन च । तयोरावश्यकताद्योतनाय एव हीत्युक्तम् । सामस्त्येन द्रव्यालाभे यथालब्धेनेति योज्यम् ॥ १५ ॥
स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव१ ।
स्थण्डिले तत्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६ ॥
पदरत्नावली
तत्वस्य हरेः सच्चिदानन्दरूपस्य विन्यासः सन्निधानम् । तत्वानां प्राणश्रद्धादीनां विन्यासो वा ॥ १६ ॥
श्रीनिवासतीर्थीया
पुनः कस्या अर्चायाः केन द्रव्येण पूजा कार्येत्यत आह ॥ स्थण्डिल इति । तत्त्वविन्यासस्तेन पूजा तत्रेत्यर्थः । वह्नावाज्यप्लुतं हविस्तेन पूजा तत्रेत्यर्थः ॥ १६ ॥
प्रमेयचन्द्रिका
उक्ताष्टविधप्रतिमासु पूजायां विशेष उच्यते ॥ स्नानालङ्करण-मिति ॥ अत्र द्वन्द्वैकवद्भावः । एतद् एतस्यां शैलीत्यादिकायां तत्वविन्यासः परमतत्वस्य सन्निधापनम् । तत्वमन्त्रैर्न्यासो वा । प्रतिमायामात्मनि च न्यासोऽयं सन्निधानकृदिति तन्त्रसारे ॥ १६ ॥
सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।
श्रद्धयोपहृतं श्रेष्ठं भक्तेन मम वार्यपि ।
गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १७ ॥
पदरत्नावली
सूर्ये पुष्पादिभिरभ्यर्हणं प्रेष्ठमतिशयितप्रीतिजनकम् । सर्वस्माद् भक्तिपूर्वकमुपाहृतं प्रेष्ठमित्याह– श्रद्धयेति ॥ १७ ॥
श्रीनिवासतीर्थीया
प्रेष्ठं प्रीतिजनकम् । पुष्पादिभिरभ्यर्हणम् । किं पुनर्मम भक्तेन श्रद्धयोपहृतं वार्यपि प्रेष्ठमित्यर्थः । सुमनसः पुष्णाणि ॥ १७ ॥
प्रमेयचन्द्रिका
अभ्यर्हणं कुसुमाञ्जलिनमस्कारादिभिरर्चनं प्रेष्ठमतिशयेन प्रीतिदम् । श्रेष्ठमिति च पाठः । अर्घ्यार्हणमिति पाठे अर्घ्यप्रदानादिनाऽर्चनम् । सर्वत्र भक्तिः श्रद्धा चावश्यकी । तत्सद्भावे जलमात्रेणार्चनमपि प्रियकरं किं पुनरधिकद्रव्यलाभ इत्युच्यते ॥ श्रद्धयेति ॥ १७ ॥
शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ।
आसीनः प्रागुदग्वाऽर्चेदर्चायां त्वथ सम्मुखः ॥ १८ ॥
पदरत्नावली
प्रागुद्ग् वा आसीनः । सम्मुखो ऽभिमुखः ॥ १८ ॥
श्रीनिवासतीर्थीया
॥ सम्भृतेति । पूर्णेत्यर्थः ॥ प्रागग्रदर्भैः कल्पितासनः पुमान् । अथ संमुखो देवतासंमुखः सन् प्रागुदग्वासीनोऽर्चायामर्चयेत् ॥ १८ ॥
प्रमेयचन्द्रिका
स प्रागुदग्वा प्राङ्मुख उदङ्मुखो वा । अर्चायां पूजन इति शेषः । सम्मुखोऽभिमुखः ॥ १८ ॥
कृतन्यासो मदर्चां च पाणिनाऽभिमृजेद् बुधः ।
कलशं प्रोक्षणीयं च यथावदुपसादयेद् ॥ १९ ॥
पदरत्नावली
कृतषडङ्गन्यासः । कलशमग्य्रोदकपात्रम् । प्रोक्षणीयं पुष्पादिपात्रम् ॥१९॥
श्रीनिवासतीर्थीया
स्वयं च कीदृशः कीदृशीमर्चामर्चेदित्यत आह ॥ कृतेति ॥ कृतषडङ्गन्यासोऽभिमृजेदभिमन्त्रयेत् । कलशं कलशपात्रम् । प्रोक्षणीयं पुष्पादि पुष्पादिस्थानपात्रम् ॥ १९ ॥
प्रमेयचन्द्रिका
कृतन्यासो मातृकातत्वषडङ्गादिन्यासः । अभिमृजेन् मन्त्रपूर्वकं स्पृशेत् ॥ १९ ॥
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ।
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च सादयेत् ॥ २० ॥
श्रीनिवासतीर्थीया
तदद्भिः प्रोक्षणीयपात्रस्थोदकैर्देवयजनादिद्रव्याणि गन्धादीनि ॥ प्रोक्ष्य सेकं कृत्वाऽद्भिस्तैस्तैर्द्रव्यैश्च पूर्णानि त्रीणि पात्राणि साधयेत् ॥ २० ॥
प्रमेयचन्द्रिका
तदद्भिः प्रोक्षणीयपात्रस्थाभिर् अद्भिः । देवयजनं भूमिम् आत्मानं स्वदेहं तैः पाद्याद्युपयुक्तैश्चम्पकोसीरकर्पूरकुङ्कुमागरुपूर्वकैर्द्रव्यैरित्यर्थः ॥ २० ॥
पाद्यार्ध्याचमनीयार्थं त्रीणि पात्राणि देशिकः ।
हृदा शीर्ष्णाऽथ शिखया गायत्र्या वाऽभिमन्त्रयेत् ॥ २१ ॥
पदरत्नावली
देशिको मन्त्रज्ञः । हृदादिमन्त्रैर् नमआदिलक्षणैः ॥ २१ ॥
श्रीनिवासतीर्थीया
किमर्थमित्यत उक्तम् । पाद्यादीति । दैशिकः पूजकः । गायत्र्या मन्त्रेण हृदादिस्थाने चाभिमन्त्रयेदित्यर्थः ॥ २१ ॥
प्रमेयचन्द्रिका
पात्राणीत्यस्य विवरणम् ॥ पाद्येत्यादि ॥ देशिको मन्त्रज्ञः । हृदे-त्यादि ॥ हृदादिषु सन्न्यसनीयेन कृद्धोल्काय नम इत्यादि मन्त्रैरित्यर्थः । तदुक्तं तन्त्रसारे– क्रुद्धवीरमहोद्युल्कसहस्रसहितोल्ककाः । चतुर्थ्यन्ता हृदादीनीति ॥ २१ ॥
पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २२ ॥
तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पद्य तन्मयः ।
आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २३ ॥
तात्पर्यम्
**जीवः कला यस्याः सा जीवकला भगवन्मूर्तिः । ‘हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः । यद्वशे वर्तते जीवः स तु जीवकला स्मृता । शब्दैः सर्वात्मनाऽनुक्तेर्नादान्तस्था च सा मते’ति विवेके ॥ **
‘व्याप्तो भूतश्च नित्यं यदात्मभूतो हरिस्ततः । जीवस्य तत्प्रधानत्वं तन्मयत्व-मुदाहृतमि’ति तन्त्रभागवते ॥ ‘व्याप्तोऽपि भगवान्विष्णुर्देहे सर्वगतत्वतः । भक्तस्य फलदो यस्माद्व्याप्तिकृत्तस्य तेन स’ इति च ॥ २२,२३ ॥
पदरत्नावली
ध्येयस्वरूपमाह– पिण्ड इति । प्राणायामाज्ज्वलितवाय्वग्निसंशुद्धे पिण्डे देहे हृत्पद्मस्थाम्, जीवः कला यस्याः सा जीवकला तां बिम्बस्वरूपमित्यर्थः, ‘‘हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः । यद्वशे वर्तते जीवः सा तु जीवकला स्मृता’’ इति वचनात्, ध्यायेत् । नादान्ते सिद्धभावितां नादः शब्दो ऽन्तोऽवसानं सर्वात्मना नादानुक्तत्वात् शब्दागोचरतया सिद्धैः सनकादिभिरुपासिताम् । ‘‘शब्दैः सर्वात्मनाऽनुक्तेर्नादान्तस्था तु सा मता’’ इत्युक्तेः ॥
आत्मा व्याप्ता भूता नित्यं वर्तमाना या जीवकला तया शरीरव्यापिन्या भगवन्मूर्त्या व्याप्ते पिण्डे देहे सम्पद्य सम्यक् प्रतिपत्तिं कृत्वा तन्मय एवं ध्यानेन भगवत्प्रधानो भूत्वा अर्चादिषु आवाह्य संस्थाप्य सन्निरुध्य न्यस्ताङ्गं मातृकादिमन्त्राक्षरैर्न्यस्ततत्तदवयवं मां पूजयेदित्यन्वयः । ‘‘व्याप्तो भूतश्च नित्यं यदात्मा भूतो हरिस्ततः । जीवस्य तत्प्रधानत्वं तन्मयत्वमुदाहृतम्’’ इति वचनात् । अत सातत्यगमन इति धातोर्मन्प्रत्यये आत्मेति रूपम् । ‘‘व्याप्तोऽपि भगवान् विष्णुर् देहे सर्वगतत्वतः । भक्तस्य फलदो यस्माद् व्याप्तिकृत् तस्य तेन सः’’ इत्यनेन मयि स्थित्वा स्ययमेवावाहयत्यर्चयति चाहं तदधीनतयाऽऽवाहनादिकं करोमीत्युक्तं भवति ॥ २२,२३ ॥
श्रीनिवासतीर्थीया
ध्यानप्रकारमाह ॥ पिण्ड इति । वाय्वग्निसंशुद्धे दहनशोषणेन संशुद्धेऽपि पिण्डे देहे ॥ नन्वण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभावितामित्यत्र जीवकला-मित्यनेन जीवस्वरूपभूतां कलामिति जीवस्य ध्यानमुच्यतेऽतोऽत्राभिप्रेतमर्थमाह ॥ जीव इति । नात्र जीवश्चासौ कला चेति कर्मधारयः । किन्तु जीवः कला प्रतिबिम्बा यस्याः सा जीवकलेति बहुव्रीहिः । तेन भगवन्मूर्तिरेव ध्येयत्वेनाभिप्रेतेत्युक्तं भवति । उक्तार्थे नियामकं प्रमाणमाह ॥ हृदीति । नादान्त इति पदं व्याचष्टे ॥ शब्दैरिति । तयाऽऽत्मभूतया । पिण्डे व्याप्ते । संपद्य तन्मय इत्यत्रात्मभूतयेत्यनेन जीवस्वरूपभूतया जीवकलयेत्युच्यत इति भातीत्यतोऽत्राभिप्रेतमर्थं प्रमाणेनाह ॥ व्याप्त इति । व्याप्त इत्यात्मशब्दार्थनिरूपणम् । तेनात्मा व्याप्ता भूता विद्यमाना चेत्यात्मभूत इत्युक्तं भवति । जीवस्येत्यादिना तन्मय इति व्याख्यानम् । आत्मभूतया तया सम्पद्य तन्मयो मामावाह्यार्चादिषु स्थाप्यार्चादिषु न्यस्ताङ्गं विन्यस्याङ्गं मां पूजयेदित्यन्वयस्य जातत्वात्पिण्डे इति व्याप्त इत्येतदनुपयुक्तमित्याशङ्क्य प्रमाणेनैव तदभिप्रायमाह ॥ व्याप्तोऽपीति । सर्वगतत्वतो देहेऽपि व्याप्तो भगवान्विष्णु-र्यद्यपि । तथाऽपि भक्तस्य फलदो यस्मात्तेन तस्माद्देहे पुनर्व्याप्तिकृदिति योज्यम् । एवं चात्मभूतया तयेत्युक्त्यैव देहेऽपि व्याप्तिर्लब्धा सर्वगतत्वाद्विष्णोः । तथाऽपि पिण्डे इति व्याप्त इति पुनर्व्याप्तिनिरूपणं देहे व्याप्तः सन् भक्तस्य फलं ददातीति सूचनार्थं पुनर्वचन-मिति भावः ॥ तथा चायमर्थः ॥ वाय्वग्निसंशुद्धेऽपि पिण्डे देहे हृत्पद्मस्थां परमामण्वीं सूक्ष्मां मम जीवकलां जीवः कला यस्याः सा जीवकला तां बिम्बभूतां नादान्ते नादानां शब्दानामन्तेऽवसाने विद्यमानां साकल्येनाशब्दवाच्यां सिद्धैर्ज्ञानिभिर्भावितामुपासितामेतादृशीं मम कलां ध्यायेत् । पश्चादात्मभूतया व्याप्तो भूत्वा नित्यं विद्यमाना या जीवकला तया भगवन्मूर्त्या व्याप्ते पिण्डे देहे संपद्य सम्यक् प्रतिपत्तिं कृत्वा तन्मयः ॥ एवं ध्यानेन भगव-त्प्रधानो भूत्वाऽर्चादिष्वावाह्य स्थाप्य न्यस्ताङ्गं विन्यस्ताङ्गं मां प्रपूजयेदिति ॥ २२,२३ ॥
प्रमेयचन्द्रिका
पूजोपक्रमकालीयं साधिष्ठानमुच्यते ॥ पिण्ड इति ॥ प्राणाया-मोत्थितवाय्वग्निभ्यां शुद्धे वाय्वग्निबीजाभ्यां पापपुरुषस्य शोषणेन दहनेन च संशुद्धे देहे । उपलक्षणमेतत् । वारुणीबीजेन प्रापिताप्लावनेन च संशुद्ध इति ग्राह्यम् । तदप्युक्तम् । आदावेव जपं कुर्याच्छोषणं दहनं प्लुतिः । वाय्वग्निवारुणैर्बीजैरिति । अण्वीं सूक्ष्मां नादान्ते अधिकरणसप्तमी । नादांतस्थां सिद्धैर्ब्रह्मादिभिर्भावितां ध्यातां जीवकलां ध्यायेदित्यर्थः ॥
अत्र जीवरूपां मम कलामित्यत्र जीवाभेदप्रतीतेर्व्याचष्टे ॥ जीव इति ॥ नात्र कर्मधारयः । किं तु बहुव्रीहिः । ततश्च न जीवाभेद इत्युक्तं भवति । अन्यपदार्थं दर्शयति ॥ भगवन्मूर्त्तिरिति ॥ तथापि जीवस्य भगवत्कलात्वमयुक्तम् । कलाशब्दस्यांशवाचि-त्वात् । जीवस्य तदनंशत्वादित्याशङ्कापरिहाराय उक्तार्थे प्रमाणं पठति ॥ हृदीति ॥ यस्याश्च प्रतिबिम्बो जीवः । यस्य वशे च जीवो वर्तते । सा भगवन्मूर्त्तिर्जीवकला स्मृते-त्यनेन जीवः कला प्रतिबिम्बो यस्याः सा जीवकलेति कलाशब्देन प्रतिबिम्बमिह विवक्षित-मिति नानुपपत्तिरित्युक्तं भवति ।
नादान्त इत्यस्यार्थाभानात्प्रमाणशेषेण तदर्थमाह ॥ शब्दैरिति ॥ सर्वात्मना साकल्येन । मूले नादस्य वेदस्यान्तेऽवसाने वेदमतिक्रम्येति यावत् । अधिकरणसप्तमीबलात् स्थितेति लभ्यते । तथा च नादान्ते नादमतिक्रम्य स्थितामित्यस्य वेदानुक्तिविशिष्टमित्यर्थो लभ्यत इति भावः ॥
तयाऽऽत्मभूतयेत्यत्र जीवस्वरूपभूतयेति जीवेशाभेदो भाति । तदयुक्तम् । तन्मय इति पुनरुक्त्यापत्तेः । प्रमाणविरुद्धत्वाच्चेत्यत आत्मभूतशब्दं प्रमाणेन व्याचष्टे ॥ व्याप्त इति ॥ आङ्पूर्वात्तनोतेर्निष्पन्नात्मशब्दो व्याप्त्यर्थक इत्याशयेन व्याप्त इत्युक्तम् । भूत इत्यस्य नित्यं विद्यमान इत्यर्थः । भू बहाविति धातोर्भूः परिपूर्ण इति वा ॥ तत्प्रधानत्वम् ॥ स हरिरेव प्रधानो यस्य स तत्प्रधानः । तस्य भावस्तत्प्रधानत्वम् ।
ततश्चात्मभूतया देहे व्याप्तया नित्यं विद्यमानया परिपूर्णया भगवन्मूर्त्या पिण्डे व्याप्ते तन्मयः सा हरिमूर्त्तिः प्रधाना यस्य स तथोक्तः । भगवत्प्रधानोऽहमिति बुद्धिमान्भूत्वा स्वस्य देहेन्द्रियवृत्यादौ तदधीनतां ज्ञात्वेति यावत् । अर्चादिषु प्रतिमास्थण्डिलाग्न्यादिषु मामावाह्य स्थाप्य । आवाहनं स्थापनं च सान्निध्यं सन्निरोधनमित्युक्तेः । आवाहितस्य तत्रैवावस्थानं प्रार्थयित्वा । न्यस्ताङ्गं कृतमातृकादिन्यासं मां पूजयेदिति मूलार्थः ॥
नन्वात्मभूतेनेत्यात्मपदेनैव व्याप्तेरुक्तत्वात्पुनस्तया पिण्डे व्याप्त इति देहे हरेर्व्याप्ति-कत्वोक्तिः कुत इत्यतस्तदभिप्रायं प्रमाणेनाह ॥ व्याप्तोऽपीति ॥ विष्णुः सर्वदेशकालादि-जगति सर्वदेहेषु च व्याप्तोऽपि भक्तस्य देहे सर्वत्र गतत्वतः फलदो यस्मात्तेन विशेषेण पूजयेदिति मूलार्थः । नन्वत्र सन्निधानभोगपरिहारविज्ञानादिगुणसंपादनरूपफलप्रदत्वेन करणेन विशिष्य व्याप्तिकृदित्युच्यत इत्यर्थः ॥ २२,२३ ॥
पाद्योपस्पर्शनार्घ्यादीनुपचारान् प्रकल्पयेत् ।
धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २४ ॥
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्वलम् ।
उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २५ ॥
पदरत्नावली
धर्मादिभिर्विमलादिभिर्नवभिः शक्तिभिश्च समं पीठं कल्पयित्वा तत्र धर्मादिक्लृप्ते पीठेऽष्टदलं पद्मं ध्यात्वा तत्र प्रकृतिसन्निहिते पद्मे मां पूजयेत् । वेदतन्त्राभ्यां मह्यं महनीयं पूजनीयम् । उभयसिद्धये वेदतन्त्रोक्तफलसिद्धये ॥ २४,२५ ॥
श्रीनिवासतीर्थीया
धर्मादिभिर्विमलादिभिश्चासनं पीठं कल्पयित्वा तत्रासने कर्णिका-केसरोज्वलमष्टदलं पद्मं कल्पयित्वा तत्र मां वैदिकतान्त्रिको वा अधिकारीति शेषः । किमर्थमित्यत उक्तम् उभाभ्यां वेदतन्त्रोक्तमन्त्राभ्यामुभयफलसिद्धये वेदतन्त्रोक्तफलसिद्ध्यर्थं मह्यं मम प्रीत्यर्थं पूजयेदित्यन्वयः ॥ २४,२५ ॥
दुर्घटभावदीपिका
वेदतन्त्रोक्तमन्त्राणामत्यावश्यकत्वं तन्त्रमन्त्राणामावश्यकत्वमात्रमित्यादि-भ्रमवारणार्थमुभयोरप्यत्यावश्यकत्वज्ञापनायोभाभ्यामित्युक्तमिति स्वीकरणात् ॥ २५ ॥
प्रमेयचन्द्रिका
मूले पाद्योपस्पर्शनं पादप्रक्षालनम् । आदिपदेनाचमनीयार्घ्य-मधुपर्कादिग्रहणम् ॥ धर्मादिभिरिति ॥ धर्मो ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान् । तदन्तः पूर्वदिक्पूर्वमधर्मादींश्च पूजयेदित्यादिनोक्तैः पीठरूपैरेवेत्यर्थः । विमलोत्कर्षणी ज्ञान-क्रियायोगा तथैव च । प्रह्वी सत्या तथेशानानुग्रहाश्चेत्युक्ताभिः शक्तिभिश्च ममासनं पीठं कल्पयित्वा ध्यात्वा तत्र च पीठे लक्ष्म्यात्मकं पद्मं ध्यात्वा वेदतन्त्रेत्युभाभ्याम् उभयसिद्धये वेदतन्त्रोक्तफलसिद्धये ऐहिकामुष्मिकफलसिद्धये वा मह्यं पूजां कल्पयेदित्यर्थः ॥२४,२५॥
सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् ।
मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २६ ॥
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ।
महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ॥ २७ ॥
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ २८ ॥
चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः ।
सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥ २९ ॥
पदरत्नावली
अनु अनन्तरम् ॥ अभिमुखान् मध्यावाहितप्रधानदेवताभिमुखान् । प्रोक्षणीया-दिभिर् अर्घ्यादिभिः ॥ २६–२९ ॥
श्रीनिवासतीर्थीया
पुनः कान्पूजयेदित्यत आह ॥ सुदर्शनमिति ॥ स्वे स्वे स्थाने देवताभिमुखान् एतान्प्रोक्षणादिभिः सेकादिभिः पूजयेदित्यन्वयः ॥ २६–२९ ॥
दुर्घटभावदीपिका
एवकारस्य नन्दं पूजयेदेवेत्यन्वयः । एवं सर्वत्रैवकारस्यावृत्तिमभ्युपेत्या-न्वयो वक्तव्यः ॥ २७ ॥
प्रमेयचन्द्रिका
आवरणपूजाविशेष उच्यते ॥ सुदर्शनमित्यादिना ॥ प्रोक्षणादि-भिरर्घ्यादिभिः ॥ २६–२८ ॥
स्वस्य घर्मानुवाकेन महापुरुषविद्यया ।
पौरुषेणापि सूक्तेन धामनीरजनादिभिः ॥ ३० ॥
तात्पर्यम्
स्वस्य विष्णुसूक्तेन धामसूक्तं समुद्रादूर्मिरिति । ‘नितरां रञ्जयेद्यस्मा-त्पावमानं तु मण्डलम् । विष्णुनीराजनं तस्माद्विद्वद्भिः समुदाहृतमि’ति च ॥ ३० ॥
पदरत्नावली
स्वस्य सूक्तेन विष्णुसूक्तेन । घर्मसूक्तेन घर्मा समन्तात् त्रिवृतं व्यापतुरिति सूक्तेन । महापुरुषविद्यया जितं ते पुण्डरीकाक्षेत्यादिकया । पौरुषेण सूक्तेनापि । धामसूक्तं समुद्रादूर्मिरिति । पावमानं सूक्तं नीराजनम् । ‘‘नितरां रञ्जयेद् यस्मात् पावमानं तु मण्डलम् । विष्णोर्नीराजनं तस्माद् विद्वद्भिः समुदाहृतम्’’ इति वचनात् । आदिशब्दोक्तै रुद्रो जज्ञे वीर्यायेत्यादिसूक्तैः स्तुतिं कुर्यात् ॥ ३० ॥
श्रीनिवासतीर्थीया
तानेव मन्त्रान्दर्शयति ॥ स्वस्येति । अत्र स्वस्येत्यनन्वितं प्रतीयते । नीराजनशब्दस्याप्यर्थो न प्रतीयतेऽतो व्याचष्टे ॥ स्वस्येत्यादिना । रञ्जये-त्प्रतिपादयेत् । मण्डलमध्यायः । तथा च स्वस्यानुवाकेन विष्णुसूक्तेन । घर्मानुवाकेन घर्म-सूक्तेन महापुरुषविद्यया जितन्त इति स्तोत्रेण ॥ पौरुषेण पुरुषसूक्तेन धामसूक्तेन समुद्रा-दूर्मिरिति सूक्तेन । तथा वक्तव्ये सूक्तान्त्यधामं ते विश्वमिति ऋग्गृहणं सर्वमपि सूक्तमुप-लक्षयति । नीराजनादिभिः पवमानसूक्तादिभिः स्नापयेदित्यर्थः ॥ ३० ॥
प्रमेयचन्द्रिका
मन्त्रैरित्यस्य विवरणम् ॥ स्वस्येति ॥ स्वस्येत्यत्रानुवाके-नेत्येतद्बुध्या विविक्तं सम्बध्यते ॥ स्वयं विष्णुस्तस्यानुवाको विष्णुसूक्तमित्याशयेनाह ॥ स्वस्येति ॥ विष्णोर्नुकमिति सूक्तेनेत्यर्थः । मूले घर्मानुवाकेन घर्मा समंतादिति सूक्तेन । महापुरुषविद्यया जितन्तेस्तोत्रेणेति टीकायाम् । विश्वकर्मसूक्तेनेत्यन्ये । धाम च नीराजनं च धामनीराजने तदादिभिः सूक्तैरित्यर्थः । अप्रतीतेर्धामसूक्तमित्येतदनूद्य दर्शयति ॥ धामेति ॥ नीराजनसूक्तं प्रमाणेन दर्शयति ॥ नितरामिति ॥ वायुस्थमाश्रिता देवाः पवमानाभिधं हरिमित्यैतरेयभाष्योक्तेः पवमानो मुख्यवाय्वन्तर्यामी हरिस् तत्सम्बन्धि पाव-मानम् । मण्डलं सूक्तसमुदायः । यस्माद्विष्णुं नितरां रञ्जयेत्तत्प्रीणयेत्तस्मान्नीराजनमिति विद्वद्भिः समुदाहृतमित्यर्थः । आदिशब्दोक्तो उग्रो जज्ञे वीर्यायेति सूक्तमिति टीकायाम् । मूल आदिभिरित्यस्य मन्त्रैरिति पूर्वेणान्वयः ॥ ३० ॥
वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः ।
अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितैः ॥ ३१ ॥
श्रीनिवासतीर्थीया
सप्रेमं स्नेहपूर्वम् । भक्तिपूर्वमिति यावत् । यथोचितैर्गन्ध-माल्यादिभिरित्यन्वयः ॥ ३१ ॥
पाद्यमाचमनीयं च गन्धं सुमनसोज्वलम् ।
धूपदीपोपहार्याणि दद्यान्मे श्रद्धयाऽर्चकः ॥ ३२ ॥
श्रीनिवासतीर्थीया
उपहार्याण्युपायनानि । मे दद्यादर्चकः श्रद्धयेत्यन्वयः ॥३२॥
प्रमेयचन्द्रिका
उक्तानुवादपूर्वकमितिकर्तव्यान्तरमुच्यते ॥ पाद्यमिति ॥ ३२ ॥
गुडपायससर्पींषि शश्कुल्यापूपमोदकान् ।
संयावं दधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३३ ॥
पदरत्नावली
संयावं गोधूमापायसं राजान्नं वा । वित्ते सति ॥ ३३ ॥
श्रीनिवासतीर्थीया
सति वित्ते सति दरिद्रस्तु कुर्यादित्यन्वयः ॥ ३३ ॥
प्रमेयचन्द्रिका
उपहार्यपदोक्तनैवेद्यद्रव्याण्युच्यते ॥ गुडेति ॥ संयावं पयःशर्करा-गोधूमखण्डैः कृतयवागुरित्याहुः । सति विभव इति शेषः ॥ ३३ ॥
अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् ।
अन्नादि१ नृत्यगीतादि पर्वणि स्युस्तथाऽन्वहम् ॥ ३४ ॥
श्रीनिवासतीर्थीया
एवमन्नादीनि पर्वणि पर्वकाले प्रत्यहं च स्युरित्यर्थः ॥ ३४ ॥
प्रमेयचन्द्रिका
अन्नं चर्वणेन भोज्यम् । अद्यं दन्तैः खाद्यम् ॥ ३४ ॥
विधिना विहिते कुण्डे मेखलावर्तवेदिभिः ।
अग्निमाधाय परितः समूहेत् पाणिनोदितम् ॥ ३५ ॥
पदरत्नावली
मेखलावर्तवेदिभिः सह विहिते । उदितं ज्वलितम् ॥ ३५ ॥
श्रीनिवासतीर्थीया
अनुयागप्रकारमाह ॥ विधिनेति । मेखलावर्तवेदिभिः सह विधिना विहिते कुण्डेऽग्निमाधायोदितं ज्वलितमग्निं परितः समूहेत्पाणिना स्थलशुद्धिं कुर्यात्
॥ ३५ ॥
प्रमेयचन्द्रिका
अथानुयाग उच्यते ॥ विधिनेत्यादिना ॥ मेखलेति ॥ मेखलासंज्ञिकावर्त्तिरूपाभिर्वेदविहितैरित्यर्थः । उदितं ज्वलितम् ॥ ३५ ॥
परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि ।
प्रोक्षणीयानि द्रव्याणि प्रोक्ष्याग्नावावहेत माम् ॥ ३६ ॥
श्रीनिवासतीर्थीया
अथ स्थलशुद्धिं कृत्वा परिस्तीर्य दर्भान्प्रक्षिप्य यथाविध्यग्नि-मन्वाधाय पर्युक्षेदुदकेन सेकं कुर्यात् ॥ प्रोक्षणीयानि सेक्यानि द्रव्याणि प्रोक्ष्य सेकं कृत्वा पश्चादग्नौ मामावाहयेत् ॥ ३६ ॥
प्रमेयचन्द्रिका
आवाहनपरिसमूहनपरिस्तरणपर्युक्षणान्वाधानादिकं गृह्यतन्त्रोक्तं ज्ञेयम्
॥ ३६ ॥
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।
लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३७ ॥
श्रीनिवासतीर्थीया
कीदृशं मामित्यत उक्तम् ॥ तप्तेत्यादिना । प्रख्यं सदृशम् । किञ्जल्कं केसरः ॥ ३७ ॥
स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ३८ ॥
ध्यायन्नभ्यर्च्य दारूणि हविषाऽभियुतानि च ।
प्रास्याज्यभागावाघार्य दत्वा चाज्यप्लुतं हविः ॥ ३९ ॥
जुहुयान्मूलमन्त्रेण षोडषार्चाविधानतः ।
धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टकृतं बुधः ॥ ४० ॥
पदरत्नावली
हविषा सर्पिषाऽभियुतानि मिश्रितानि दारूणि समिधः प्रास्य हुत्वा । अर्चाविधानतः पूजाविधानतः ॥ धर्मादिमन्त्रैर् धर्मादिभ्यो यथान्यायं, हविर्जुहुयादिति शेषः । पुनः स्विष्टकृतं कुर्यात् ॥ ३९,४० ॥
श्रीनिवासतीर्थीया
अभ्यर्च षोडशोपचारपूजां कृत्वा हविषाभियुतानि दारूणि सर्पिषा मिश्रिताः समिधः प्राश्य हुत्वाऽऽघार्यमाघार्यसमिधा आज्यभागौ दत्वा कोणात्कोणं प्रति हुत्वाऽऽज्यप्लुतं हविरन्नादिद्रव्यं मूलमन्त्रेण षोडश जुहुयात् । अर्चाविधानतः पूजाविधानतो धर्मादिमन्त्रैर्धर्मादिभ्यश्च यथान्यायं हविर्जुहुयादित्यन्वयः । पुनः स्विष्टकृतं बुधो जुहुयात्
॥ ३९,४० ॥
प्रमेयचन्द्रिका
दारूणीध्मरूपाणि । हविषा सर्पिषा । षोडशोपचारूपविधानत अभ्यर्च्येत्यन्वयः । धर्मादिभ्यः पीठदेवेभ्यः । मन्त्रैस्तत्तद्देवतामन्त्रैः । हविर्जुहुयादिति शेषः । स्विष्टकृतं स्विष्टकृद्धोमं कुर्यात् ॥ ४० ॥
अभ्यर्च्याग्निं नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।
मूलमन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् ॥ ४१ ॥
पदरत्नावली
अभ्यर्चायामिति पाठे अभिमुखे भूत्वा अर्चायां सन्निहितं भगवन्तं नमस्कृत्येत्यर्थः ॥ ४१ ॥
श्रीनिवासतीर्थीया
एवमभ्यर्च्याथ नमस्कृत्य पुनर्धूपं दत्वा पार्षदेभ्यः सनकादिभ्यो बलिं हरेदित्यर्थः ॥ ४१ ॥
प्रमेयचन्द्रिका
पुनरग्निमभ्यर्च्य नमस्कृत्य । अभ्यर्चायां नमस्कृत्येति पाठे अभिमुखो भूत्वा अर्चायां सन्निहितं हरिं नमस्कृत्येत्यर्थः । बलिं हरेत् । संपूर्णपूजानन्तर-मिति शेषः । जपेन्नैवेद्यसमर्पणांगत्वेनेति भावः ॥ ४१ ॥
दत्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् ।
मुखवासं सुरभिमत् ताम्बूलाद्यमथार्हयेत् ॥ ४२ ॥
पदरत्नावली
सुरभिमन्मुखवासताम्बूलादिकं च दत्वाऽनन्तरं चामाराद्युपचारैर् अर्हयेत् सम्भावयेत् ॥ ४२ ॥
श्रीनिवासतीर्थीया
उच्छेषमुच्छिष्ठम् । सुरभिमन्मुखवासं ताम्बूलाद्यं च दत्वाऽथा-नन्तरं चामराद्युपचारैर्मामर्हयेदित्यन्वयः ॥ ४२ ॥
प्रमेयचन्द्रिका
ताम्बूलाद्यं दद्यादिति ग्राह्यम् । अथ पुनर्धूपदीपच्छत्रचामराद्युपचारै-रर्हयेत् ॥ ४२ ॥
उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम ।
मत्कथाः श्रावयन् शृण्वन् मुहूर्तक्षणिको भवेत् ॥ ४३ ॥
तात्पर्यम्
मम कर्माणि कीर्तयित्वाऽभितो नयन्सर्वेषां प्रकाशयन्मत्कथाः श्रावय-न्नित्यभिनयपदार्थः ॥ ४३ ॥
पदरत्नावली
न केवलमुपगायन् गृणन् शृण्वंश्च किन्तु मम कर्माणि अन्यैः कीर्तयित्वा अभिनयन् सर्वेषां प्रकाशयन् । अर्थान्तरं चाह मत्कथा इति । अनेनाभिनयशब्दार्थोऽपि विवृतः । किमुक्तं स्यात्तत्राह मुहूर्तक्षणिक इति । मत्कथार्थमेव मुहूर्तः क्षणश्चास्येत्यस्मिन्नर्थे ठप्रत्ययः । मत्कथातिवाहितसर्वकालो भवेदित्यर्थः ॥ ४३ ॥
श्रीनिवासतीर्थीया
ननूपगायन् गृणन्नित्यनयोर्भेदाप्रतीतेरभिनयन्नित्यस्य प्रकृतोप-युक्ततयाऽर्थाप्रतीतेश्च यथावद्व्याचष्टे ॥ ममेति । कीर्तयित्वेत्यनेन गृणन्निति व्याख्यातम् । अभीत्यस्याभित इत्यर्थ इति दर्शितम् । पदार्थमुक्त्वाभिप्रायमाह ॥ सर्वेषां प्रकाशयन्निति । अभितः सर्वेषामित्यर्थः । नयन्नित्यस्य प्रकाशयन्नित्यर्थभावेन प्रकाशयन्नित्युक्तम् । एवं च मम कर्माणि प्रकाशयन्निति अभिनयन्नित्यस्यार्थ उक्तः स्यात् । न च तद्युक्तम् । तथात्वे मत्कथाः श्रावयन्नित्यनेन पौनरुक्त्यमित्याशङ्क्य तत्राभिप्रेतमर्थमाह ॥ मत्कथा इति । तथा चाभिनयशब्दार्थं दर्शयितुं मत्कथाः श्रावयन्नित्युक्तमतो न पौनरुक्त्यमिति भावः । तथा च मम कर्माण्युपगायन् गायनं कुर्वन् गृणन्कीर्तयन्मुहुरभिनयन् । तदेव विवृणोति ॥ मत्कथाः श्रावयन्निति । स्वयमपि शृृण्वन् सर्वमुहूर्तांश्च क्षणलवांश्च भवेदित्यर्थः । सर्वमुहुर्तेषु सर्वक्षणेषु चैवमेव हरिकथाश्रवणादिना कालक्रमणं कुर्यादिति भावः ॥ ४३ ॥
प्रमेयचन्द्रिका
अत्र कर्माण्यभिनयन्ममेत्यस्य हस्तादिचेष्टया नवनीतभक्षणवेणुनादा-दीनां मम कर्मणामनुकरणं कुर्वन्नित्यर्थोऽनुपपन्नः । हर्यवज्ञाप्राप्तेः । अतोऽत्राभिप्रेतार्थमाह ॥ मम कर्माणीति ॥ मम कर्माण्यनुगृह्णन् । अभिनयन्निति मूले सम्बन्धमभिप्रेत्योक्तम् ॥ कीर्तयित्वेति ॥ अभीत्यस्यार्थोऽभित इति । अभितो नयनं नाम किमित्यतो विवृणोति ॥ सर्वेषामिति ॥ अभीत्यनेन सार्वत्रिकाधिकारिणो विवक्षिताः । नयनं ज्ञापनमिति भावः । तथाप्यनुपपत्तिरेव । भगवत्कर्मणामतीन्द्रियत्वेन ज्ञापनायोगादित्यत उक्तं स्पष्टयति ॥ मत्कथा इति ॥ कर्मणां प्रशंसनं नाम भगवच्चरितपरकथारूपस्य ग्रन्थस्य विशिष्य परेषु सुप्रकाशनामिति नानुपपत्तिरिति भावः । मूले गायन्नित्यस्य गानं कुर्वन्नित्यर्थः । कर्माण्यभिनयन्नित्युक्तं कथाप्रकाशनमनुवदन् तद्रत्या बहुकालमप्यल्पकालवन्नयेदित्युच्यते ॥ मत्कथा इति ॥ ४३ ॥
स्तवैरुच्चावचैः २श्रौतैः पौराणैः प्राकृतैरपि ।
स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥ ४४ ॥
पदरत्नावली
स्तवैर् मुक्तकश्लोकनिबन्धनैः ॥ ४४ ॥
श्रीनिवासतीर्थीया
प्राकृतैर्विष्णुस्तुतिरूपादिभिः ॥ ४४ ॥
दुर्घटभावदीपिका
उच्चावचैरुच्चैः शब्दतोऽधिकैरवचैः शब्दतोऽल्पैः श्रौतैः श्रुतिषु विद्यमानैः । प्राकृतैः प्राकृता जगदुद्धारकत्वेन प्रकृताः श्रीमदाचार्यादयस्तन्निर्मिताः प्राकृतास्तैरपि स्तवैः स्तुत्वा हे भगवन् प्रसीदेत्युक्त्वा दण्डवन्मां वदेतेति । एतेन ज्ञानिकृतस्तोत्राणामेव वक्तव्यत्वात् प्राकृतैरिति मूर्खकृतस्तोत्राणां वक्तव्यत्वकथनमयुक्तमिति दूषणमपहस्तितम् । प्राकृतैरित्यस्य मूर्खकृतैरित्यनभ्युप-गमात् ॥ ४४ ॥
प्रमेयचन्द्रिका
सर्वैस्तोत्रैरिति छन्दोबद्धत्वाबद्धत्वाभ्यां विशेषः । पौराणैः स्तोत्रैः । प्राकृतैस्तवैरिति विशेषो ज्ञेयः ॥ ४४ ॥
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४५ ॥
पदरत्नावली
परस्परं बद्धाभ्यां बाहुभ्यां सह शिरो मत्पादयोः ॥ ४५ ॥
श्रीनिवासतीर्थीया
परस्परं बद्धाभ्यां बाहुभ्यां शिरो मत्पादयोः कृत्वा प्रणमेदित्य-न्वयः । मृत्युग्रहः संसाररूपः ॥ ४५ ॥
दुर्घटभावदीपिका
शिरो मत्पादयोः कृत्वेत्यस्य मत्पादयोर्मम चिदानन्दात्मकपादयोः शिरः कृत्वा स्थापयित्वेत्यर्थः । किं वा मम चिदानन्दपादयोः शिरः कृत्वेत्यर्थः । नाद्यः । शिष्टाचार-विरोधात् । न द्वितीयः । चिदानन्दपादयोरदृश्यत्वादिति दूषणं निरस्तम् । चिदानन्दपादयोर्व्याप्तत्वेन शिरस्थापनस्थले सत्वाद्ध्यातयोश्चिदानन्दपादयोः शिरः स्थापनीयमित्यत्र तात्पर्यात् ॥ ४५ ॥
प्रमेयचन्द्रिका
परस्परं बद्धाभ्यां बाहुभ्यां सहितं शिरो मत्पादयोः कृत्वेत्यन्वयः
॥ ४५ ॥
ततः शेषां मया दत्तां शिरस्याधाय सादरम् ।
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत् पुनः ॥ ४६ ॥
पदरत्नावली
शेषां मालाक्षतादिदानम् । शेषोऽस्त्रीष्वन्यस्मिन्नुपयुक्तः । माल्याक्षतादिदाने स्त्रीति यादवः ॥ ४६ ॥
श्रीनिवासतीर्थीया
मया दत्तां पश्चात्प्रसन्नेन मया दत्तां शेषां निर्माल्यम् । उद्वास्यमुपसंहार्यम् । ज्योतिषि प्रतिमान्तर्गते विद्यमानं यज्ज्योतिस्तत् । उद्वासयेदुपसंहारयेत्
॥ ४६ ॥
प्रमेयचन्द्रिका
शेषां मालाक्षतादिकाम् । मालाक्षतादिकास्तीति यादव इति टीकायाम् । स्थिरायामुद्वासनाभावादुद्वासयेच्चेदित्युक्तम् । तज्जातिप्रतिमायामंशत आवाहितं बिंबरूपं परंज्योतिर्हृद्गते बिम्बरूपे पुनरुद्वास्य तदेकीभूतया प्रार्थनापूर्वकं विचिन्त्येत्यर्थः
॥ ४६ ॥
अर्चादिषु यथा यत्र श्रद्धा मां तत्र चार्चयेत् ।
सर्वभूतेष्वात्मनि च सर्वात्माऽहमवस्थितः ॥ ४७ ॥
पदरत्नावली
यत्र येष्वर्चादिषु यथा श्रद्धा तथा मामर्चयेत् ॥ ४७ ॥
श्रीनिवासतीर्थीया
अभीष्टप्रतिमायां पूजा कार्येत्याह ॥ अर्चादिष्विति । यत्र येष्वर्चादिषु यथा श्रद्धा तत्र तथा मां पूजयेदित्यन्वयः । कुत इत्यत आह ॥ सर्वभूते-ष्विति । यत इति शेषः । सर्वभूतेष्वात्मनि च समास्थितो यतोऽहं सर्वात्मेत्यर्थः ॥४७॥
प्रमेयचन्द्रिका
उक्ताष्टविधप्रतिमासु किं परिग्रहः कार्यः । कथं च पूजा कार्ये-त्येतदुच्यते ॥ अर्चादिष्विति ॥ अर्चादिषु यत्र श्रद्धा यथा वा श्रद्धा । तत्र तथा मामर्चयेदित्यर्थः । सामान्यतः सर्वत्र भगवान्यथोचितमर्चनीय इत्याशयेनोच्यते ॥ सर्वभूतेष्विति ॥ आत्मनि स्वस्मिन् । सर्वात्मा सर्वान्तर्यामी स्वामी वा ॥ ४७ ॥
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चानुभावतः सिद्धिं मत्तो विन्दन्त्यभिप्सिताम् ॥ ४८ ॥
पदरत्नावली
अर्चानुभावतः प्रतिमासामर्थ्यात् ॥ ४८ ॥
श्रीनिवासतीर्थीया
वैदिकैर्वेदोक्तैस्तांत्रिकैस्तन्त्रोक्तैः । अर्चानुभावतः पूजानुभावतः
॥ ४८ ॥
प्रमेयचन्द्रिका
उपसंहरन् फलमुच्यते ॥ एवमिति ॥ आर्चानुभावतो ऽर्चकस्य तपोयोगात्पूजायाश्चातिशयनात् । आभिरूप्याच्च बिम्बस्येत्युक्तप्रतिमासामर्थ्यात् ॥ ४८ ॥
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् ।
पुष्पोद्यानानि रम्याणि पूजां तत्रोत्सवाश्रिताम् ॥ ४९ ॥
पूजादीनां प्रवाहार्थे महापर्वसु चान्वहम् ।
क्षेत्रापणपुरोग्रामान् दत्वा मत्सार्ष्टितामियात् ॥ ५० ॥
पदरत्नावली
प्रवाहरूपेण प्रवर्तनार्थे ॥ ४९,५० ॥
श्रीनिवासतीर्थीया
मन्दिरं देवालयं कारयेत् । रम्याणि मनोहराणि पुष्पोद्यानानि कारयेत् । तत्र पुष्पोद्यानेषूत्सवाश्रितां प्रत्युत्सवे पूजां कुर्यात् । कुत इत्यत उक्तम् ॥ पूजादीनामिति । उत्तरत्र प्रवाहरूपेण पूजादीनां प्रवर्तनार्थम् । अथ महापर्वसु । अन्वहं च पूजां कुर्यादित्यर्थः । क्षेत्रेति । देवस्येति शेषः ॥ ४९,५० ॥
प्रमेयचन्द्रिका
प्रतिष्ठादिधर्मान्तरमुच्यते ॥ मदर्चामित्यादिना ॥ ४९,५० ॥
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५१ ॥
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
स भक्तियोगं लभते एवं यः पूजयेत माम् ॥ ५२ ॥
तात्पर्यम्
नैरपेक्ष्येण भक्तियोगेनैव साम्यमित्यर्थः । ‘निर्दुःखत्वं हरेः साम्यं न तादृशसुखात्मता । सर्वोत्तमः सदानन्दः कथं कस्य कदाप्यत’ इति प्रवृत्ते ॥ ‘आधिपत्यं त्रिलोकस्य योग्यानामिन्द्रता स्मृता । अयोग्यानां त्रिलोकेऽपि पूज्यत्वं समुदाहृतम् । तद्भवेत्परया भक्त्या विष्णोरालयकारिणः । ततोऽप्युद्रिक्तया भक्त्या विष्णुं पूजयतः सदा । अवाप्यते ब्रह्मलोकस्तदुद्रिक्तश्च मुच्यत’ इति च ॥ ५१,५२ ॥
॥ इति एकादशतात्पर्ये सप्तविंशोऽध्यायः ॥ २७ ॥
पदरत्नावली
प्रतिष्ठागृहकरणपूजानां फलतारतम्यमाह– प्रतिष्ठयेत्यादिना । मत्साम्यतां निर्दुःखानन्दानुभवरूपताम् ॥ ज्ञानं विना प्रतिष्ठादिभिरेव साम्यता कथं स्यात्तत्राह– मामेवेति । नैरपेक्ष्येण भक्तियोगेनैव मां विन्दति साम्यं लभते । ‘‘निर्दुःखत्वं हरेः साम्यं न तादृशसुखात्मता । सर्वोत्तमस्तदानन्दः कथं कस्यचिदाप्यते । आधिपत्यं त्रिलोकस्य योग्यानामिन्द्रता स्मृता । अयोग्यानां त्रिलोकेऽपि पूज्यत्वं समुदाहृतम् । तद् भवेत् परया भक्त्या विष्णोरालयकारिणः । ततोऽप्युद्रिक्तया भक्त्या विष्णुं पूजयतः सदा । अवाप्यते ब्रह्मलोकस्तदुद्रिक्तश्च मुच्यते’’ इति मानाद् विशेषोऽवगन्तव्यः । नन्वेवं तर्हि प्रतिमादिपूजा व्यर्थेति तत्राह– एवमिति । य एवं मां पूजयेत् स भक्तियोगं लभते, तेन मामाप्नोतीति शेषः । अनेन ज्ञानभक्तिद्वारेण भगवत्प्राप्तिरित्युक्तं भवति
॥ ५१,५२ ॥
श्रीनिवासतीर्थीया
प्रतिष्ठाग्रहकरणपूजादीनां फलतारतम्यमाह ॥ प्रतिष्ठयेति । अत्र त्रिभिर्मत्साम्यतामियादित्युक्त्वा मामेव नैरपेक्ष्येण भक्तियोगेन विन्दतीत्युक्तौ मत्प्राप्तावेव भक्तियोगोऽपेक्षितो न मत्साम्यप्राप्तावित्यतो योजयति ॥ नैरपेक्ष्येणेति । भक्तियोगे-नैवेत्यनेन मामेवेत्यवधारणम् । भक्तियोगेत्यनेन सम्बध्यत इत्युक्तं भवति । ननु मत्साम्यतामियादित्युक्तम् । तत्र साम्यं नाम भगवज्ज्ञानानन्दादिना सादृश्यं तेन भगव-त्स्वरूपभूतसुखादिसमानसुखादिप्राप्तिरित्युच्यत इति भात्यतः प्रमाणेन तदभिप्रायमाह ॥ निर्दुःखत्वमिति ॥ तादृशेति । भगवत्स्वरूपभूतसुखात्मता नेत्यर्थः । कुत इत्यत उक्तम् ॥ सर्वोत्तम इति । कस्यचित्केनचित् । तथा चात्र दुःखाभावेनैव साम्यमभिप्रेत्य तत्साम्यतामियादित्युक्तमिति भावः । ननु सद्मना भुवनत्रयमित्युक्तं तन्न । भुवनत्रय-प्राप्तिर्हीन्द्रस्यैव । तेन यो भगवतः सद्म करोति स इन्द्रो भवतीत्युक्तं स्यात् । न चैतत्सर्वेषां युक्तम् । अयोग्यानामिन्द्रत्वप्राप्तेरयोगादित्याशङ्कायां प्रमाणेनैव तदभिप्रायमाह ॥ आधिपत्यमिति । इन्द्रत्वप्राप्तियोग्यानां त्रिलोकाधिपत्यं नामेन्द्रतैव भवति । अयोग्यानां त्रिलोकाधिपत्यं नाम पूज्यत्वमात्रं भवतीति ध्येयम् । तत्पूज्यत्वम् । उद्रिक्तयोत्कृष्टया । एवं च प्रतिष्ठया मूर्तिप्रतिष्ठया भुवनत्रयम् । अयोग्यश्चेत्परया भक्त्या भुवनत्रये पूज्यत्वम् । पूजादिना । ततोऽप्युन्द्रिक्तया भक्त्या पूजादिना । तत्पूर्वकपूजादिनेति यावत् । त्रिभिः प्रतिष्ठासद्मपूजादिभिर्नैरपेक्ष्येण भक्तियुक्तैर्मत्साम्यतामियात् । नैरपेक्ष्येण भक्तियोगेनैव मां विन्दति मत्सायुज्यं विन्दतीत्यर्थः । फलमाह ॥ स भक्तियोगमिति ॥ ५१,५२ ॥
प्रमेयचन्द्रिका
त्रिभिरिति ॥ प्रतिष्ठादेवालयनिर्माणक्षेत्रादिदानैस्त्रिभिरित्यर्थः । अत्र मत्साम्यतामियादित्युक्त्वा भक्तियोगेन मामेव विन्दतीति भक्तियोगस्य ब्रह्मप्राप्तिरूपफल-कथनात्साम्यप्राप्तौ भक्तिरनपेक्षितेति ब्रह्मप्राप्त्यतिरेकेण साम्यमस्तीति भाति । तदयुक्तम् । विना भक्तिप्राप्तिं च साम्याख्यमोक्षायोगादित्यत आह ॥ नैरपेक्ष्येणेति ॥ नात्र प्रतिष्ठादेः फलं भगवत्साम्यभक्तियोगफलं तत्प्राप्तिरिति पृथगुच्यते । येनोक्तदोषः । किं तु प्रतिष्ठादि-फलतया प्राप्तेन नैरपेक्ष्येण फलान्तरापेक्षावर्जितभक्त्याख्योपायेनैव साम्यमियादित्येवं मूलार्थ इत्यर्थः । तथा च त्रिभिर्मत्साम्यतामियादिति प्रतिष्ठादीनामेव स्वतः साम्यरूपमोक्ष-साधनत्वमुच्यते । किं नाम प्रतिष्ठादिभिर्निष्कामनयैव भक्तियोगो जायते । तेन च ब्रह्म-प्राप्त्या साम्यमित्याशयेन मामेवेत्यर्धप्राप्तिरित्युक्तं भवति । मत्साम्यतामित्यत्रात्यन्तसाम्य-प्रतीतिं प्रमाणेन वारयति ॥ निःर्दुखत्वमिति ॥ न तादृशसुखात्मता साम्यमिति वर्तते ।
ननु सद्मना भुवनत्रयमिति देवालयनिर्माणेन त्रिलोकाधिपत्योक्तिरयुक्ता । तन्मात्रेण पदयोग्यातिरिक्तानां तदप्राप्तेरित्यत आह ॥ आधिपत्यमिति ॥ द्विधा हि भुवनत्रयाधि-पत्यम् । त्रिलोकेन्द्रता त्रिलोकपूज्यत्वं चेति । तत्र योग्यानामेव त्रिलोकाधिपत्यमिन्द्रता स्मृता । इन्द्रपदायोग्यानां तु त्रिलोकेषु पूज्यत्वमेव त्रिलोकाधिपत्यमित्यर्थः । विद्यागम्यं फलं यस्मादित्युक्तेः । देवसद्मनिर्माणमात्रेण त्रिलोकाधिपत्यमित्यतः परभक्त्युपेतानामुत्त-मानामेवेत्याह ॥ तद्भवेदिति ॥ पूजादिना ब्रह्मलोकमित्यत्रापि पूजादिना लब्धया परमभक्त्यपेक्षयाप्युद्रिक्तया भक्त्यैवेत्याह ॥ ततोऽपीति ॥ एतेन ज्ञानेन ब्रह्मलोकः स्यादित्यनेन विरोधो निरस्त इति ज्ञेयम् । मत्साम्यतामियादित्यस्य साधनतयोक्तो भक्तियोगस् ततोऽप्युद्रिक्त इत्याशयेनाह ॥ तदुद्रिक्तस्तु मुच्यत इति ॥ अत्र मुक्तिः श्वेतद्वीपादिस्थितिरिति ध्येयम् । ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः । महाज्ञाना-द्गच्छन्ति क्षीरसागरमिति वचनात् ॥ ५१,५२ ॥
यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः ।
वृत्तिं स जायते विड्भुग् वर्षाणामयुतायुतम् ॥ ५३ ॥
कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च ।
कर्मणां भागिनः प्रेत्य भूयो भूयसि तत् फलम् ॥ ५४ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे सप्तविंशोऽध्यायः ॥
पदरत्नावली
देवस्वापहरणे महान् दोष इत्याह– य इति ॥ न केवलं प्रतिमादिपूजाकर्तुरुक्तं फलम् (किन्तु) साहाय्यकर्तॄणां यथायोग्यं फलं भवतीत्याह– कर्तुरिति । सारथेः कार्यहेतोः प्रेत्य कर्मणां फलभागिनो भवन्तीत्यर्थः । फलतारतम्यमाह– भूय इति । भूयसि महति तत् फलं भूयो भवति ॥ ५३,५४ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य सप्तविंशोऽध्यायः ॥
श्रीनिवासतीर्थीया
न केवलं प्रतिमादिपूजाकर्तुरुक्तं फलम् । किन्तु तत्सहाय-कर्तृणामपि यथायोग्यं भवतीत्याह ॥ कर्तुरिति । कर्मणां कर्तुर्यत्फलमुक्तमस्ति तद्भागिन एते सारथ्यादयो भवन्ति । तथा सारथेः सहकारिणो यत्फलमुक्तमस्ति तद्भागिन एते कर्त्रादयो भवन्ति । तथा हेतोः कारणस्य यत्फलमुक्तमस्ति तद्भागिन इतरे भवन्ति । तथाऽनुमोदितुर्यत्फलमुक्तमस्ति तद्भागिनोऽपरे भवन्तीति योज्यम् । ननु सर्वेषां किं सामान्येन फलं नेत्याह ॥ प्रेत्येति । मरणानन्तरं भूयसि महति मुख्यकर्तरि तत्फलं भूयो महद्भवतीत्यर्थः ॥ ५३,५४ ॥
॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे सप्तविंशोऽध्यायः ॥ ११–२७ ॥
दुर्घटभावदीपिका
भूयसि भूयांसैर्गुणैः पूर्णं नारायणम् । भूय इत्यस्यावृत्तिर् भूयोभूयः प्रेत्य प्रकर्षेण ज्ञात्वा । कर्तृत्वादिकं भगवत एवेति ज्ञात्वेति यावत् । कर्मणां कर्तुः कर्मणां सारथेः प्रतिबन्धकपरिहारादिना कर्मणां सहायस्य कर्मणां हेतोः । ऋत्विगादिरूपेण कर्मणां कारणस्य कर्मणामनुमोदितुश्च कर्मणां भागिनः कर्मैकदेशवतश्च तत्पुरुषार्थोत्तमत्वेन प्रमाणसिद्धफलं मोक्षाख्यं फलं भवत्येवेति । एतेन भागिन इत्येतद्व्यर्थमिति दूषणं परास्तम् । प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फलेत्यादि वचनानुसारेण कर्मैकदेशकर्तुरपि मोक्षो भवतीति वक्तुं भागिन इत्युक्तमित्यङ्गीकारात्
॥ ५४ ॥
॥ इति श्रीभागवतटिप्पण्यां सप्तविंशोऽध्यायः ॥ ११–२७ ॥
प्रमेयचन्द्रिका
न केवलं पूजाकर्त्तुः फलं तदनुकूलानां चेत्युच्यते ॥ कर्तुरिति ॥ सारथेः सहकारिणः । हेतोर् द्रव्यत्यागादिना । प्रयोजकस्य कर्तुरित्यादेस्तत्फलं भवतीति सम्बन्धः । तत्र फलतारतम्यमुच्यते ॥ भूयोभूयसीति ॥ भूयसि महति कर्मणि भूयः महत्फलमित्यर्थः । उक्तं फलं किमिहैव मुख्यं नेत्युक्तम् ॥ प्रेत्य कर्मणां फलभोगिनो भवन्तीति ॥ ५४ ॥
॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां सप्तविंशोऽध्यायः ॥