मल्लक्षणमिमं कायं लब्ध्वा मद्धर्ममास्थितः
॥ अथ षड्विंशोऽध्यायः ॥
श्रीभगवानुवाच–
मल्लक्षणमिमं कायं लब्ध्वा मद्धर्ममास्थितः ।
आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ ॥
पदरत्नावली
अनन्तरातीताध्याये सर्वतः सङ्गमुत्सृज्य मन्निष्ठैव कार्येत्युक्तम् । तमेवार्थमितिहासपूर्वकं प्रपञ्चयत्यस्मिन्नध्याये । तत्रादावुक्तमपि ब्रह्मज्ञानफलं विश्वासजननाय पुनराह– मल्लक्षणमिति । मां लक्षयति दर्शयतीति मल्लक्षणं मुद्रा यस्य स तथा तं मद्धर्मं भागवतसंज्ञम् । आत्मस्थं हृदिस्थं समुपैति, दर्शनेनेति शेषः। पश्यतीत्यर्थः ॥ १ ॥
श्रीनिवासतीर्थीया
विषयवैराग्यं मुख्यसाधनमित्येतदितिहासेनास्मिन्नध्याये वक्ति ॥ मल्लक्षणमिति । मां लक्षयति भावयतीति मल्लक्षणम् । आस्थितोऽनुष्ठाता यः । स इति शेषः । तथा हि । देहे सति भगवत्ज्ञानं नान्यथेति । आत्मस्थं हृदिस्थम् । तं माम् । दृष्ट्वेति शेषः ॥ १ ॥
प्रमेयचन्द्रिका
देहमिमं लब्ध्वा मय्येव मनसा चरेदित्युक्तस्य फलकथनपूर्वकं विषयसङ्गं परित्यज्य मामेव भजेदित्युक्तोऽर्थः प्रपञ्च्यते ॥ मल्लक्षणमित्यादिना ॥ मां लक्षयति ज्ञापयतीति मल्लक्षणम् । मम लक्षणानि चक्रशङ्खादिचिह्नानि यस्मिन्निति वा । मद्धर्मं मदाधाररूपं धर्मम् । आत्मसंस्थं हृदये स्थितम् । आनन्दात्मकं परमात्मानं मां समुपैति दर्शनेनेति शेषः । पश्यतीत्यर्थः । मां समुपैति प्राप्नोतीति वा ॥ १ ॥
गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।
वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥
तात्पर्यम्
‘वस्तु स्वतन्त्रमुद्दिष्टमस्वतन्त्रमवस्तु चे’ति माहात्म्ये ॥ २ ॥
पदरत्नावली
दृष्टतत्वस्य तस्य यावद्देहपातं स्थितिप्रकारमाह– गुणमय्येति । पुमान् स ज्ञानी अवस्तुभिरमङ्गलैर् गुणैः शब्दादिभिर् न युज्यते न सम्बध्यते, योग्यतातिरेकेणासेवनात् । तत्र कारणमाह– ज्ञानेति । परतत्वाद्यशेषतत्वापरोक्षज्ञाननिष्ठया गुणमय्या सत्वादिगुणरूपया जीवयोन्या लिङ्गशरीराख्यमायया विमुक्तः । तदभिमानरहित इत्यर्थः । मायामात्रेषु प्रकृतिनिमित्तेषु अवस्तुतो ऽस्वातन्त्र्येण दृश्यमानेषु गुणेषु शरीरेषु वर्तमानोऽपि । ‘‘वस्तु स्वतन्त्र-मुद्दिष्टमस्वतन्त्रमवस्तु च’’ इति वचनादवस्तुत इत्यनेन न मिथ्यात्वमुच्यते, तन्निवृत्ति-साधनविधानवैयर्थ्यापत्तेः ॥ २ ॥
श्रीनिवासतीर्थीया
जीवन्मुक्तस्य स्थितिप्रकारमाह ॥ गुणेति । अत्रावस्तुत्वोक्त्या मिथ्यात्त्वप्रतीतेस्तन्निवारणार्थमाह ॥ वस्त्विति । तथा चावस्तुतोऽस्वातन्त्र्येण दृश्यमानेषु भगवदिच्छानिर्मितत्वेन मायामात्रेषु गुणेषु तत्कार्यभूतदेहेन्द्रियादिषु वर्तमानोऽपि पुमानपरोक्ष-ज्ञान्यवस्तुभिरस्वतन्त्रैर्गुणैर्देहकार्यैः कामक्रोधादिभिर्न युज्यते । अभिमानाभावादित्यर्थः ॥२॥
दुर्घटभावदीपिका
ज्ञाननिष्ठया भगवज्ज्ञाननिष्ठयावस्तुतः परब्रह्माख्यस्वतन्त्रवस्तुतः । परब्रह्मप्रसादादिति यावत् । जीवयोन्या जीवानां तिर्यगादियोन्यापादिकया गुणमय्या सत्त्वादि-गुणमय्याऽविद्यया विमुक्तः पुमान् मायामात्रेषु भगवदिच्छया निर्मितेषु दृश्यमानेष्वापाततः सुन्दरेषु गुणेषु सत्त्वादिगुणकार्येषु शरीरादिषु वर्तमानोऽपि शरीरादिसम्बन्धोऽपीति यावत् । अवस्तुभिर-स्वातन्त्र्यैर्गुणैः शब्दादिविषयैर्न युज्यते । शब्दादिविषयासक्तो न भववीति यावदिति ॥ २ ॥
प्रमेयचन्द्रिका
अत्र भावधर्मपदोदितं वैराग्योत्तेजितं ज्ञानं प्रधानं मोक्षसाधन-मित्युच्यते ॥ गुणमय्येति ॥ अत्र अवस्तुतोऽपारमार्थिकतया दृश्यमानेष्विति । अवस्तुभि- र्मिथ्याभूतैरिति च भानात्प्रमाणेन व्याचष्टे ॥ वस्त्विति ॥
इत्थं मूलयोजना ॥ यः पुमान् ज्ञाननिष्ठया भगवज्ज्ञानादिज्ञानोत्कर्षेण अवस्तुभिर-स्वतन्त्रैर्गुणैः शब्दादिभिर्विषयैर्न युज्यते न सम्बध्द्यते । तत्र सक्तिं न करोतीति यावत् । स पुमान् मायामात्रेषु मायया भगवदिच्छया तदधीनप्रकृत्या च निर्मितेषु अवस्तुतो अस्वतन्त्र-त्वेन दृश्यमानेषु स्वातन्त्र्याविषयतया अनुभवसिद्धेषु गुणेषु विषयतया वर्तमानोऽपि अप्रधानेषु शरीरेषु वर्तमानोऽपीति वा । सत्वादिगुणमय्या जीवयोन्या जीवस्य संसरणभूतया अविद्यया विमुक्तो भवतीत्यर्थः ॥ २ ॥
सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।
तस्यानुगस्तमस्यन्धे पतत्यन्धानुगोऽन्धवत् ॥ ३ ॥
पदरत्नावली
ज्ञानिना योग्यतातिरेकेण विषयनिषेवा न कार्येत्युक्तं किमुत ज्ञानार्थिनेत्यत्र कैमुत्यमाह– सङ्गमिति । शिश्नोदरे एव तर्पयन्तीति शिश्नोदरतृपः । तेषामसतां सङ्गं स्नेहलक्षणं न कुर्यात् । करणे बाधकमाह– तस्येति । तस्यासत इति जातावेकवचनम् । अनेन विषयसङ्गो न कर्तव्य इति किं वक्तव्यमित्युक्तं भवति ॥ ३ ॥
श्रीनिवासतीर्थीया
शिश्नोदरे तर्पयन्तीति शिश्नोदरतृपस्तेषां तस्यासतः । जात्यैक-वचनम् । अतो बहुवचनेन प्रस्तुतानामपि तस्येत्येकवचनेन परामर्शो युक्तः ॥ ३ ॥
दुर्घटभावदीपिका
शिश्नोदरतृपां शिश्नोदरतर्पकाणामसतां सङ्गं न कुर्यात् । किन्तु विरक्तानां सङ्गं कुर्यादिति शेषः । विपक्षे बाधकमाह ॥ क्वचिदिति । क्वचित्कस्मिंश्चिद्देशे कस्मिंश्चित्काले तस्य शिश्नोदरतर्पकस्यैकस्याप्यनुगोऽन्धे तमसि सर्वदेशेषु सर्वकालेषु शिश्नोदरतर्पकाणां बहूनामनुगतः पततीति किमु वक्तव्यमिति शेषः । अत्र दृष्टान्तमाह ॥ अन्धेति । अन्धानुगोऽन्धवदित्येकं पदम् । प्रथमाया अलुक् । अन्धानुगोन्धो यथा पतति तथा शिश्नोदरतृपामनुगः शिश्नोदरतर्पकः पततीति । एतेनान्धानुगान्धवदिति वक्तव्यम् । अन्धानुगोऽन्धवदिति कथनमयुक्तमिति दूषणं परिहृतम् । अन्धानुगोऽन्धवदित्यत्र पदद्वयमित्यनङ्गीकारात् ॥ ३ ॥
प्रमेयचन्द्रिका
विषयासक्तिरहितस्य फलमुक्त्वा विषयसङ्गस्यानर्थहेतुत्वं विषय-सङ्गिनां सङ्गोऽप्यनर्थहेतुः किमु विषयसङ्ग इति कैमुत्यमभिप्रेत्योच्यते ॥ सङ्गमिति ॥ तस्यासत इति जातावेकवचनम् ॥ ३ ॥
ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः ।
उर्वशीविरहान्मुह्यन् निर्विण्णः शोकसंयुतः ॥ ४ ॥
त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः ।
विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५ ॥
कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः ।
न वेद गणनां यान्तीमुर्वश्याऽऽकृष्टचेतनः ॥ ६ ॥
पदरत्नावली
सङ्गात् कस्यानर्थः कस्य च सुखकरो निर्वेदश्चाभूदित्युद्धवस्य मानसी शङ्कां परिहर्तुमैलोपाख्यानमाह– ऐल इति । गाथां शिक्षाकरं वचनम् ॥ जाये घोरे तिष्ठेत्यनेन ‘‘हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु’’ इतीदं सूचयति ॥ वर्षयामिनीर् वर्षरात्रीर् उद्दिश्य यान्ती गणनां न वेद । अज्ञाने हेतुमाह– उर्वशीति ॥ मोहविस्तारो ऽज्ञानविस्तारः । आयुःखण्डा अहोरात्रविभागाः ॥ ४–७ ॥
श्रीनिवासतीर्थीया
ऐलो महादेवशापात्सुद्युम्नस्य यदेलात्वं प्राप्तं तस्यामिलायां बुधाज्जातः पुरूरवाः ॥ वर्षयामिनी रात्रीरुद्दिश्य यान्तीं गणनां न वेद ॥ ४–६ ॥
प्रमेयचन्द्रिका
विषयसङ्गेऽनर्थो निर्वेदे च सुखमितीतिहास उच्यते ॥ ऐ इत्यादिना ॥ गाथां शिक्षारूपं वचनम् । बृहच्छ्रवा महाकीर्त्तिः । तामूर्वशीं नग्नो विवस्त्रः जाये घोरे तिष्ठेति विलपन्नित्यनेन ‘‘हये जाये मनसा तिष्ट घोरे वचांसि मिश्रा कृणवावहै’’ इत्यादिश्रुतिं तदा दृष्टवानिति सूच्यते । विक्लवोऽस्वस्थमानसः । वर्षयामिनीर् अनेकवर्षाणां रात्रीत्वात्ता उद्दिश्य यान्तीं गणनां न वेद । एतावत्यो रात्र्योऽतिक्रान्ता इति न वेदेति यावत् ॥ ४–६ ॥
ऐल उवाच–
अहो मे मोहविस्तारः कामकश्मलचेतसः ।
देव्या गृहीतकण्ठस्य नायुः खण्डा अनुस्मृताः ॥ ७ ॥
श्रीनिवासतीर्थीया
देव्या उर्वश्या आयुःखण्डा आयुःशकला आयुरेकदेशाः ॥ ७ ॥
नाहं वेदाभिनिर्मुक्तः सूर्येणाभ्युदितो मृषा ।
मुषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥
पदरत्नावली
उक्तमेव विवृणोति नाहमिति । अहं वर्षपूगानां सङ्ख्यानयोग्यानि गतान्याहान्युत न वेद किमुतान्यानि । सूर्योदयादिना ज्ञातुं शक्यत्वात् कथमेतदत्राह– अभिनिर्मुक्त इति । सूर्येणाभ्युदितोऽहरंशः सूर्येणाभिनिर्मुक्तो कालो रात्र्यंश इति मृषा विवेकज्ञानाभावात् । कुतोऽत्राह– मुषित इति । तत्सङ्गेन ज्ञानस्य मुष्टत्वात् । अभिनिर्मुक्त इत्यादि राजविशेषणं वा
॥ ८ ॥
श्रीनिवासतीर्थीया
तदेव दर्शयति ॥ नेति । यः सूर्येणाभिनिर्मुक्तो रात्र्यंशः यः सूर्येणाभ्युदितोऽहरंशस्तन्मृषा मुषितोऽहं न वेद । अहानि मृषा वृथा गतानीत्यपि सम्बन्धः
॥ ८ ॥
दुर्घटभावदीपिका
अहमनया मुषितो वञ्चितः सन् मृषा वृथा गतानि वर्षपूगानामहानि दिनानि न वेद । ननु सूर्योदयास्तमयाभ्यां दिनज्ञानस्यावर्जनीयत्वाद्दिनानि न वेदेत्येतदनुपपन्नमित्यत आह ॥ अभिनिर्मुक्त इति । यः सूर्येणाभिनिर्मुक्तो रहितो रात्रिकालो यः सूर्येणाभ्युदितः सूर्योदयविशिष्टो दिवा कालस्तमुत तं च न वेद बतेति खेद इति । एतेन मुषित इत्यनेनैव पूर्णत्वान्मृषेत्येतद्व्यर्थमिति दूषणं परास्तम् । मृषेत्यस्य मुषित इत्यनेनान्वय इत्यनभ्युपगमात्
॥ ८ ॥
प्रमेयचन्द्रिका
नाहमिति ॥ मुषितः स्त्रिया वञ्चितोऽहं वर्षपूगानां बहून्यहान्यपि गतानीति न वेद । किमु रात्रीः । तद्विवरणम् अयं सूर्येणाभ्युदितोऽहःकालो ऽयं सूर्येणाभि-निर्मुक्तो रात्रिकाल इति च नाहं वेद । किंतु सर्वः कालो मृषाऽभिनिर्मुक्तः विना हर्याराधनं वृथाऽतीत इत्यर्थः ॥ ८ ॥
अहो मे आत्मसम्मोह येनात्मा योषिता हृतः ।
क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९ ॥
पदरत्नावली
पुनरपि पश्चादनुतपन्नाह– अहो इति । आत्मा मनो धृतिगुणो वा । क्रीडामृगश्च, कृत इति शेषः ॥ ९ ॥
श्रीनिवासतीर्थीया
येन संमोहेनात्मा मदीयदेहो योषिता क्रीडामृगः कृतः ॥ ९ ॥
दुर्घटभावदीपिका
येन संमोहेनात्माऽन्तःकरणं योषिताऽपहृतोऽपहृतं चक्रवर्ती नरदेव-शिखामणिर्नरदेवानां राज्ञां शिखामणिवत्प्रियोऽहं क्रीडामृगश्च कृतः । स मे मदीय आत्मसंमोहः परमात्मकृतः संमोहो भ्रमो अहोऽत्याश्चर्यकर इति । एतेन संमोहस्यान्तःकरणसम्बन्धित्वस्य सिद्धत्वात् । तत्कथनस्याश्चर्यकरत्वोपपादकत्वाभावाच्च आत्मसंमोह इत्यत्रात्मपदं व्यर्थमिति दूषणं परिहृतम् । आत्मसंमोह इत्यत्र संमोहस्यान्तःकरणसम्बन्धित्वमात्मशब्देनोच्यत इत्यनङ्गीकारात् । एतेनैव चक्रवर्तीत्यनेनैव राजश्रेष्ठत्वप्राप्तत्वान्नरदेवशिखामणिरित्येतद्व्यर्थमिति दूषणमपास्तम् । नरदेवशिखामणिरित्यनेन राजश्रेष्ठत्वमुच्यत इत्यनभ्युपगमात् ॥ ९ ॥
प्रमेयचन्द्रिका
आत्मसंमोह अकर्तव्ये च कर्तव्यतारूपो मे मनोभ्रमः । अहो आश्चर्यम् । येन च भ्रमेणात्मा मनो योषिता हृतः । चक्रवर्ती नरदेवशिखामणिरप्यहं क्रीडामृगतया कृतश्चेति योज्यम् ॥ ९ ॥
सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।
यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥
पदरत्नावली
क्रीडामृगत्वं लक्षयति सपरिच्छदमिति । हस्त्यश्वादिपरिकरोपेतम् ॥१०॥
श्रीनिवासतीर्थीया
क्रीडामृगत्वमेव दर्शयति ॥ सपरिच्छदमिति । अश्वादि-सोपस्करमित्यर्थः । ईश्वरमैश्वर्ययुक्तमात्मानं देहं हित्वा । तदभिमानं त्यक्त्वेति यावत्
॥ १० ॥
प्रमेयचन्द्रिका
बहुधनवाहनादिपरिकरसहितमात्मानं मां तृणमिव हित्वा यान्ती-मित्यन्वयः । अथवा ईश्वरः समर्थोऽप्यहं सपरिच्छदमात्मानं देहं तृणमिव हित्वा सानुबन्धे देहे अभिमानं त्यक्त्वेति यावत् । स्त्रियमन्वगममिति योजना ॥ १० ॥
कुतस्तस्यानुभावः स्यात् तेज ईशित्वमेव वा ।
योऽन्वगच्छं स्त्रियं यान्तीं स्मरबाणविताडितः ॥ ११ ॥
पदरत्नावली
अनुभावादिगुणैः स्त्रीसङ्गदोषलेपो न स्यादिति तत्राह– कुत इति । अनुभावस् तत्वनिश्चयः । तेजः सामर्थ्यम् । ईशित्वं योगशक्तिविशेषः । अनेन सङ्गदोषं मार्ष्टुं न समर्था एते गुणा इत्युक्तं भवति । स्मरबाणेत्यनेनानुगमने हेतुरुच्यते ॥ ११ ॥
श्रीनिवासतीर्थीया
यस्त्रियमनुगच्छेत्तस्यानुभावादिः कुतः स्यात् । अनुभावस्तत्त्व-निश्चयसामर्थ्यम् । तेजो मनोनिग्रहादिसामर्थ्यम् । ईशित्वं योगविशेषः ॥ ११ ॥
दुर्घटभावदीपिका
यः स्मरबाणविताडितः सन् आत्मानं परित्यज्य स्त्रियमन्वनुगच्छेत् । तस्यानुभावस्तत्त्वनिर्णयस्तेजः सामर्थ्यमीशत्वं योगैश्वर्यं वा कुतः स्यात् । न कथमपि । किंतु यः स्मरबाणविताडितोऽपि यान्तीं स्त्रियमगच्छन्भवति । न गच्छेदिति यावत् । तस्यैवानुभावस्तेज ऐश्वर्यं च स्यादिति । एतेनानुगच्छेदिति वक्तव्यम् । अन्विति कथनमनुपपन्नमिति दूषणं पराकृतम् । उपसर्गाः सति क्रियावचने तत्सम्बन्धिनो भवन्ति । असति तु ससाधनां क्रियामाहुरिति वचनानुसारेणान्वित्यस्यानुगच्छेदित्यर्थकत्वमिति स्वीकरणात् ॥ ११ ॥
प्रमेयचन्द्रिका
अनुभावादिगुणयुक्तस्त्वं प्रसिद्धस्तत्कुत आत्मानं निन्दसीत्यत उच्यते ॥ कुत इति ॥ अनुभावो ज्ञानादिमाहात्म्यम् । तेजः पराभिभवशक्तिः । ईशित्वं स्वामित्वम् । योगशक्तिर्वा ॥ ११ ॥
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥
पदरत्नावली
विद्यादयोपि सङ्गदोषं मार्ष्टुं न प्रभवा इत्याह किं विद्ययेति ॥ १२ ॥
प्रमेयचन्द्रिका
तद्विवरणम् ॥ किमिति ॥ १२ ॥
स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् ।
योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३ ॥
पदरत्नावली
जातनिर्वेदो राजा स्वात्मानं धिक्करोति स्वार्थस्येति । स्वार्थविषये अकोविदं स्वप्रयोजनविषयज्ञानपाटवरहितमित्यर्थः ॥ १३ ॥
श्रीनिवासतीर्थीया
स्वार्थस्य साधन इति शेषः ॥ १३ ॥
प्रमेयचन्द्रिका
स्वार्थस्येति ॥ सप्तम्यर्थे ॥ १३ ॥
सेवतो वर्षपूगान्मे उर्वश्या अधरासवम् ।
न तृप्त आत्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४ ॥
पदरत्नावली
आत्मभूशब्दस्यानेकार्थतया अत्र क इति शङ्कानिवृत्तये काम इति ॥१४॥
श्रीनिवासतीर्थीया
आत्मभूर्मनोभवः ॥ १४ ॥
पुंश्चल्याऽपहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।
आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ १५ ॥
पदरत्नावली
संसारकामवैरिणि शार्ङ्गिणि जाग्रति प्रभुर्नास्तीति वचनं कथं युज्यत इति तत्राह आत्मारामेति ॥ १५ ॥
श्रीनिवासतीर्थीया
पुंश्चल्या व्यभिचारिण्या । भगवन्तं नरनारायणम् ॥ १५ ॥
दुर्घटभावदीपिका
पुंश्चल्यापहृतं चित्तं क आत्मारामेश्वरमधोक्षजं भगवन्तमृते मोचितुं प्रभुः समर्थ इत्येतन्नु निश्चितमिति ॥ अयं भावः ॥ पुंश्चल्यापहृतचित्तमोचने भगवानेक एव स्वतः समर्थः । ब्रह्मादयस्तु भगवत्प्रसादेन समर्था इति । एतेन भगवतोऽन्यः कः प्रभुरित्यनेनैव पूर्णत्वाद्भगवन्तमृत इत्येतद्व्यर्थमिति दूषणं परिहृतम् । पुंश्चल्यापहृतचित्तमोचने भगवतोऽन्यः कः प्रभुरित्युक्तम् । भगवतोऽन्येषां ब्रह्मादीनां प्रभूणां विद्यमानत्वादित्याशङ्कापरिहारार्थं भगवत्प्रसादेनैव ब्रह्मादीनां सामर्थ्यं भगवत्प्रसादं विना सामर्थ्यं नास्तीति वक्तुं भगवन्तमृत इत्युक्तमित्यङ्गीकारात्
॥ १५ ॥
बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।
मनोगतो महामाहो नापयात्यजितात्मनः ॥ १६ ॥
पदरत्नावली
बोधकाभावादेवमभूदिति नेत्याह– बोधितस्यापीति । किमेता वाचेत्यादि सूक्तवाक्येन । पुरूरवो मा मृथा मा पप्तो मा त्वा वृकासो अशिवास उक्षन् । न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदायान्येता’’ इति ॥ १६ ॥
श्रीनिवासतीर्थीया
किमेतया वाचेत्यादिसूक्तवाक्येन ॥ १६ ॥
प्रमेयचन्द्रिका
ममैवायं दोषो नोर्वश्याः । तया बोधने कृतेऽपि मद्दोषानपगमा-दित्युच्यते ॥ बोधितस्येति ॥ सूक्तवाक्येन किमेतया वाचेत्यादिवेदेन ॥ १६ ॥
किं न्वेतया म एकान्ते रज्ज्वां वै सर्पचेतसः ।
द्रष्टुः स्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७ ॥
पदरत्नावली
एतयोर्वश्या रहसि रतया किं नु सुखं न किमपि प्रत्युत दुःखमेव । तत्र दृष्टान्तः रज्ज्वां वै सर्पचेतस इति । यथा रज्ज्वां सर्पबुद्धेर्भयलक्षणं दुःखं तथा । अन्यथाबुद्धेः किं कारणमत्राह द्रष्टुरिति । द्रष्टुरीश्वरस्य स्वरूपाविदुषः । किञ्च योऽहं यादृशेश्वराधीनसत्ताकोऽहं तस्य मम ईश्वरस्वरूपाज्ञानं मत्स्वरूपाज्ञाने कारणमित्यर्थः । रथाङ्गपाणेः स्वरूपाज्ञाने स्वस्वरूपा-ज्ञाने चाजितेन्द्रियत्वमेव कारणमित्याह– यदिति ॥ १७ ॥
श्रीनिवासतीर्थीया
रज्ज्वामित्यादिभ्रान्तस्येत्यर्थः । द्रष्टुरीश्वरस्य स्वरूपाविदुषो मे ममैतया किं सुखम् । कुतः । यद्यस्माद्योऽहमजितेन्द्रियः ॥ १७ ॥
दुर्घटभावदीपिका
द्रष्टुः सर्वज्ञस्य यो यस्य विष्णोः स्वरूपविदुषः स्वरूपविषयक-सम्यग्ज्ञानवतो मे एतया सहैकान्ते वासेन किं सुखं भविष्यति किन्तु दुःखमेवात एतद्वियोगो नानिष्टहेतुरिति शेषः । दुःखसाधनताज्ञानस्य हेयताबुद्धिहेतुत्वे दृष्टान्तमाह ॥ रज्ज्वामिति । रज्ज्वां सर्पचेतसो रज्जुवियोगो नानिष्टहेतुरित्येतद्वै प्रसिद्धम् । तर्हि पूर्वमेतयैकान्ते वासः कथं कृत इत्यत आह ॥ अहमिति । यद्यस्मात्कारणाद्भगवज्ज्ञानाभावेनाहमजितेन्द्रियोऽभवमत एकान्तेऽनया वासः कृत इति ॥ अयं भावः ॥ पूर्वं भगवज्ज्ञानाभावेनाजितेन्द्रियत्वात्सुखसाधनताभ्रान्त्योर्वश्या सहैकान्ते वासः कृत इदानीं भगवज्ज्ञानेनाजितेन्द्रियत्वाभावात् । सर्पत्वेन ज्ञातायां रज्वामिव दुःखसाधनता-निश्चयाच्चैतया सहैकान्तवासो नापेक्षित इति रज्जुविषयकदुःखसाधनताज्ञानं भ्रम उर्वशीविषयकदुःखसाधनताज्ञानं प्रमेति तु वैषम्यमात्रमतो दृष्टान्तदार्ष्टान्तिकभाव उपपन्न इति द्रष्टव्यम् । एतेन य इत्येतदनन्वितमिति दूषणं प्रत्युक्तम् । य इति शब्दोऽकारान्तो विष्णुवाचकः । य इति प्रथमा षष्ठ्यादेश इति चाङ्गीकृत्यान्वयस्योक्तत्वात् ॥ १७ ॥
प्रमेयचन्द्रिका
किं न्वेतयेति ॥ एकान्ते सङ्गतयोर्वश्या मम किं सुखं न किमपि । दृष्टान्तेनैतदुपपादनं कृतम् ॥ रज्वामिति ॥ लुप्तोपमेयम् । रज्जौ सर्पानिव भ्रान्तस्य ममेत्यर्थः । यथार्थज्ञानिन एव सुखं भवति । न तु भ्रान्तस्य । अहं च परमसुखविरोधिनि स्त्रीसङ्गे परमसुखसाधनत्वभ्रान्तिमान् । अतो न मम तया सुखमिति भावः । भ्रान्तिमात्रे दृष्टान्तोऽयमिति । भ्रान्तौ कारणमुच्यते ॥ द्रष्टुरिति ॥ सर्वद्रष्टुरीश्वरस्य स्वरूपाविदुषः । किं च योऽहं यादृशगुणरूपाद्युपेतोऽहम् । तस्य मम स्वरूपाविदुषः हरेः स्वस्य च यथाव-त्स्वरूपाज्ञानं भ्रमकारणमिति भावः । तदज्ञानेऽपि किं कारणमित्यत उक्तम् ॥ यदजितेन्द्रिय इति ॥ यस्मादजितेन्द्रियोऽहं तस्माद्द्रष्टुर्मम च स्वरूपाज्ञानी । तदज्ञानिनो रज्जुसर्पज्ञानि-वद्भ्रान्तस्य मम किमेतया सुखमिति योजना ॥ १७ ॥
क्वायं मलीमसः कायो दौर्गन्धाद्यात्मकोऽशुचिः ।
क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८ ॥
पदरत्नावली
इतोपि सर्वस्याप्यज्ञानमेव कारणमित्याह– क्वायमिति । सौमनस्यं सौन्दर्यम् । दौर्गन्ध्यादिदुर्गुणाधिकरणस्य देहस्य सौमनस्यादिगुणसमुदायो न घटत इति यस्मात् तस्मादनाद्यविद्यया भगवत्स्वरूपाज्ञानेन अध्यासो ऽस्मिन् तद्बुद्धिरभूदित्यर्थः ॥ १८ ॥
श्रीनिवासतीर्थीया
सौमनस्यं सौन्दर्यम् । दुर्गन्धयुक्ते सौन्दर्याध्यासः । अविद्ययाऽ-धिष्ठानतत्त्वाज्ञानेन ॥ १८ ॥
दुर्घटभावदीपिका
मलीमसो मलयुक्तो दौर्गन्ध्याद्यात्मको दुर्गन्ध एव दौर्गन्ध्यो दुर्गन्धा-द्यात्मकोऽशुचिः शुद्धिरहितोऽयं कायः क्व सौमनस्याद्याः सौमनस्यं सुगन्धस्तदाद्या गुणाः क्व तस्मादविद्ययाऽध्यासः सुगन्धाद्यारोपः कृत इत्येतद्धि प्रमाणप्रसिद्धमिति । एतेन पूर्वार्धे दौर्गन्ध्याद्यात्मक इत्युक्तत्वात् । उत्तरार्धेऽपि सुगन्धाद्या इति वक्तव्यम् । सौमनस्याद्या इति कथनमयुक्तमिति दूषणं पराकृतम् । सौमनस्यशब्दस्य समीचीनान्तःकरणत्वरूपार्थमनङ्गीकृत्य सुगन्धरूपार्थस्यैवाङ्गीकारात् ॥ १८ ॥
प्रमेयचन्द्रिका
अजितेन्द्रियत्वादौ च कारणं हेयतासूचनपूर्वकमुच्यते ॥ क्वाय-मिति ॥ मलीमस इति कश्मलः । सौमनस्यं सौन्दर्यमिति टीकायाम् । एवं सद्गुणविरोधि-न्यपि देहे भगवत्स्वातन्त्र्याद्यज्ञानरूपयाऽविद्यया हि ममेत्यध्यासः कृतः । अतोऽजितेन्द्रिय-त्वादीति भावः ॥ १८ ॥
पित्रोः किं स्विन्नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।
किमात्मनः किं सुहृदामिति यो नावसीयते ॥ १९ ॥
तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० ॥
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥
पदरत्नावली
अध्यासं प्रपञ्चयति पित्रोरिति । भार्याया अपि भोगार्हत्वाद् विशयकोटावन्तर्भावः । यो देहः पित्रादीनामस्येति नावसीयते न निश्चीयते ॥ तस्मिन् तुच्छानां पञ्चानां भूतानां निष्ठा उत्कर्षो यस्मिन् । तुच्छा निष्ठा व्यवस्था च यस्मिन् स तथेति वा । तस्मिन्नमेध्ये कलेवरे सुभद्रमिति विषज्जते पुरुषः । अहो भ्रान्तिरिति ॥ इतोऽपि स्त्रीष्वर्थबुद्धिं कुर्वन् भ्रान्त इत्याह– त्वगिति । संहतौ त्वगादिसन्निबिडदेहे रमतां रममाणानां कृमीणां कीटकानां चान्तरं व्यवच्छेदनं कियत् ॥ १९–२१ ॥
श्रीनिवासतीर्थीया
प्राणिनां यो देहः पित्रादिरधीन इति नावसीयते न निश्चीयते । भार्याया अपि भोगार्थत्वादधीनत्वं देहस्य । मरणानन्तरं सत्यां दिश्यग्नेर्न चेच्छ्वगृध्रयोः । आत्मनः स्वस्य ॥ तुच्छा नीचा निष्ठाऽवस्था यस्य तस्मिन् ॥ किमित्यत आह ॥ अहो इति ॥ १९–२१ ॥
दुर्घटभावदीपिका
अत्रायं देह इत्यादेः शेषः । अयं देहः पित्रोः किं स्विन्नु किं पित्रोर्न भवतीति न किन्तु पित्रोर्भवत्येव । भार्यायाः किं किं भार्याया न भवतीति न किन्तु भार्याया भवत्येव । स्वामिनोऽन्नादिदातुः किं किं न भवतीति न किंत्वन्नादिदातुर्भवत्येव । अग्नेः किं किमग्नेर्न भवतीति न किंत्वग्नेर्भवत्येव । श्वगृध्रयोः किं श्वगृध्रयोर्न भवतीति न किन्तु श्वगृध्रयोर्भवत्येव । सुहृदां किं किं सुहृदां न भवतीति न किन्तु सुहृदां भवत्येवेति यो देहो नावसीयते निश्चयविषयो न भवति किंत्वामन एवेति निश्चयविषयो भवति तस्मिन्मेध्येऽशुभे तुच्छनिष्ठे तुच्छाऽल्पा निष्ठा स्थितिर्यस्य तस्मिन् । नश्वर इति यावत् । कलेवरे विषज्जत इति ॥ अयं भावः ॥ अयं देहः पित्रादिसाधारण इति प्रमा यस्य वर्तते तस्य देहे आसक्तिर्न भवति । यस्य ममैवायं देह इति भ्रमस्तस्य देहे आसक्तिर्भवति । अतो ममैवायं देह इति कथनमयुक्तमिति दूषणं पराकृतम् । आक्षेपार्थककिंशब्दद्वयेन पित्रादीनां भवतीत्यर्थो लभ्यत इत्यङ्गीकारात् । स्वदेहासक्तौ कारणमाह ॥ अहो इति । मम शरीरं सुभद्रं सुनसं सुस्मितं च भवत्यहो आश्चर्यम् इति मत्वा स्वदेहे विषज्जत इति पूर्वेणान्वयः । न केवलं स्वदेहे विषज्जते किन्तु स्त्रीमुखेऽपि विषज्जत इत्याह ॥ मुखं स्त्रिय इति । स्त्रियो मुखं सुभद्रं सुमनसं सुस्मितं च भवतीत्यहो आश्चर्यमिति मत्वा स्त्रीमुखेऽपि विषज्जत इति । एतेन मुखं स्त्रिय इत्येतदनन्वितमिति दूषणं परास्तम् । सुभद्रमित्यादेः शेषमभ्युपेत्यान्वयस्योक्तत्वात्
॥ १९,२० ॥
प्रमेयचन्द्रिका
देहस्य पराधीनत्वादिकथनपूर्वकमध्यासप्रपञ्चनं क्रियते ॥ पित्रोरिति सार्धश्लोकेन ॥ पितरौ मातापितरौ तयोरधीनं किं स्विदित्यादियोजना । अग्नेराहुतितयोप-युक्तं किम् । श्वगृध्रयोः । श्वशब्दः सृगालादेः, गृध्रशब्दश्च काकादेरुपलक्षणार्थः । आत्मनः स्वस्य पोषणमात्रे उपयुक्तमिति । एवं यो देहो नावसीयते तस्मिन् अमेध्ये अपवित्रे तुच्छनिष्ठे तुच्छानां पञ्चभूतानां निष्ठोत्कर्षो यस्मिन् तुच्छत्वेन निष्ठा व्यवस्थितिर्यस्मिन्निति वा । तस्मिन्कलेवरे इदं सुभद्रमिति पुरुषे विशेषणं युज्यते । इतश्च स्त्रीसक्तिर्जुगुप्सिते-त्युच्यते ॥ अहो इति ॥ त्वगादिसङ्घातरूपे विण्मूत्रपूर्णे स्त्रीदेहे अहो सुभद्रमित्यादि ज्ञात्वा रमतां विण्मूत्रपूर्णे गर्भे पतितानां कीटानां किं वैलक्षण्यमित्यर्थः ॥ १९–२१ ॥
अथापि नो विषज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।
विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यदा ॥ २२ ॥
पदरत्नावली
स्त्रीष्वभिरमणमपि गर्हितं यस्माद् अथ तस्माद् अर्थवित् स्वप्रयोजनवित् स्त्रीषु स्त्रीलोलेषु च नो विषज्जेत । यद्यपि विशेषो नास्ति तथापीदं न कर्तव्यमिति वाह– अथापीति । स्त्रीसङ्गादिवर्जने मनोवशीकरणमेव प्रथमं साधनम् अन्यथा सर्वं कुञ्जरस्नानवन्निष्फलं स्यादिति भावेनाह– विषयेति । अन्यदा विषयेन्द्रियसंयोगाभावे मनःक्षोभो नास्ति ॥ २२ ॥
श्रीनिवासतीर्थीया
अथाऽपि तस्मात् । कुत इत्यत आह ॥ विषयेति ॥२२॥
प्रमेयचन्द्रिका
मनःकालुष्यहेतुत्वाच्च न स्त्रीसक्तिः कार्येत्युच्यते ॥ अथापीति ॥ इतोऽपीत्यर्थः । विषयेन्द्रियेत्यत्र यत इति ग्राह्यम् । अन्यथा विषयेन्द्रियसंयोगाभावे मनो न क्षुभ्यति ॥ २२ ॥
अदृष्टादश्रुताद् भावान्न भाव उपजायते ।
असंप्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३ ॥
पदरत्नावली
तदुपपादयति अदृष्टादिति । भावो मनो ऽदृष्टादश्रुताद् भावाद् वस्तुनः न उपजायते विकारविशिष्टं भवति संयोगलक्षणसम्बन्धाभावात् । अतो दृष्टश्रुतवस्तुन्येव सम्बन्धसमर्थं मनः । ततश्च प्रकृते किमनेनेति तत्राह– असम्प्रयुञ्जत इति । यतो विषयेन्द्रियसंयोगात्तु क्षुब्धं भवत्यतः प्राणान् इन्द्रियाणि विषयेष्वप्रयुञ्जतः विषयेभ्य आकृष्य स्ववशे कुर्वतः पुंस आकर्षण-पाशाभावात् स्तिमितं निश्चलं मनः शाम्यति भगवदेकनिष्ठं भवतीत्यर्थः ॥ २३ ॥
श्रीनिवासतीर्थीया
तदुपपादयति ॥ अदृष्टादिति । भावात्पदार्थात् । भावः संस्कारः । एवं दृष्टाच्छ्रुतादेव भावाज्जायते । तथा च विषयेन्द्रियसंयोगे पदार्थानुभवजनित-संस्कारेण मनःक्षोभ इति भावः ॥ २३ ॥
प्रमेयचन्द्रिका
तदुपपाद्यते ॥ अदृष्टादिति ॥ अदृष्टादश्रुताद्विषयाद्भावो रागादिरूपो मनोवृत्तिदोषो न जायते । अस्तु ततः किमित्यत उक्तम् ॥ सम्प्रयुञ्जत इति ॥ प्राणानिन्द्रियाणि । विषये स्वतो ऽप्रयुञ्जतः पुरुषस्य मनः स्तिमितम् । निश्चलं सच्छाम्यति भगवदेकनिष्ठं भवतीत्यर्थः ॥ २३ ॥
तस्माद् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।
विदुषां चाप्यविश्रभ्यः षड्वर्गः किमु मादृशाम् ॥ २४ ॥
पदरत्नावली
उक्तं निगमयति तस्मादिति । कुत इति तत्राह– विदुषामिति ॥२४॥
श्रीनिवासतीर्थीया
कामक्रोधमदमत्सरलोभमोहरूपषड्वर्गो विदुषां विद्वद्भिर-विश्रभ्योऽविश्वास्यः । विदुषाऽप्यरिषड्वर्गो मया जितोऽस्तीति विश्वासो न कर्तव्य इत्यर्थः । मादृशां मत्सदृशानां मत्सदृशैरविश्रभ्य इति किं वक्तव्यमित्यर्थः ॥ २४ ॥
प्रमेयचन्द्रिका
निगमनं क्रियते ॥ तस्मादिति ॥ षड्वर्गः कामाद्यरिषड्वर्गः
॥ २४ ॥
श्री भगवानुवाच–
एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकमथो विहाय ।
आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञानविधूतमोहः ॥ २५ ॥
श्रीनिवासतीर्थीया
उर्वशीलोकं तस्याः शरीरम् । आत्मानमात्मन्यवगम्य ध्यात्वा
॥ २५ ॥
दुर्घटभावदीपिका
उर्वशीलोकं विहायेत्यस्योर्वश्या लोको मनसाऽवलोकस्तं परित्यज्येत्यर्थः । एतेनोर्वशीध्यानं विहायेति वक्तव्यमुर्वशीलोकं विहायेति कथनमयुक्तमिति चोद्यं पराकृतम् । लोकशब्देन मानसावलोकार्थत्वमङ्गीकृत्य ध्यानमित्यर्थे तात्पर्यमित्यभ्युपगमात् ॥ २५ ॥
प्रमेयचन्द्रिका
उर्वशीलोकं तद्विषयबुद्धिम् ॥ २५ ॥
ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६ ॥
पदरत्नावली
जन्मप्रभृत्यभ्यस्तस्य दुःसङ्गस्य त्यागो दुःशक इति न मन्तव्यं, सत्सङ्गेन स्वत एव शिथिलीभूतस्य त्यागः सुलभ इति भावेनाह– तत इति । तृणगूढावलम्बरहितकूपपतनवद् दुःसङ्गो दुःखकर इति यत् ततः । ते किमस्य कुर्वन्तीति तत्राह– सन्त इति । सन्त एतस्य मनोवाक्कायकर्मभिः सम्यक् शरणङ्गतस्य पुंसो मनोव्यासङ्गं मनसो दुष्टेषु सङ्गमुक्तिभिश् छिन्दन्ति
॥ २६ ॥
श्रीनिवासतीर्थीया
भगवान् आह ॥ तत इति । एतस्य पुरुषस्योक्तिभिः सदुक्तिभिः ॥ २६ ॥
प्रमेयचन्द्रिका
यदर्थमैलोपाख्यानमुक्तं तदुच्यते ॥ तत इति ॥ विषयस्यैवमनर्थ-हेतुत्वात् । मनोव्यासङ्गं मनसा विशेष आ सम्यक् स्नेहम् ॥ २६ ॥
सन्तोऽनपेक्षा मच्चिताः प्रशान्ताः समदर्श(र्शिनः)नाः ।
निर्ममा निरहङ्कारा निर्दन्द्वा निःपरिग्रहाः ॥ २७ ॥
तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।
सम्भवन्ति हिता नॄणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥
ता ये शृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।
मत्पराः श्रद्धधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥
भक्तिं लब्धवतः साधो किमन्यदवशिष्यते ।
मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥
पदरत्नावली
एवंविधमाहात्म्याश्चैते कथं ज्ञातव्या इति तल्लक्षणमाह– सन्त इति ॥ अनपेक्षतादिगुणानामन्यत्रापि दर्शनात् तेषामपि दुःसङ्गनिवर्तकत्वं स्यादित्याशङ्क्य तच्छक्त्युद्बोधकगुण-सद्भावादन्यत्र तदभावादिति भावेनाह– तेष्विति । ततः किमत्राह ता इति । ताः कथाख्या उक्तयो मनोव्यासङ्गं छिन्दन्तीत्यर्थः ॥ त्वद्भक्तिर्हि सकलव्यसनच्छेत्री, तदनुदये ताभिः किमत्राह ता इति ॥ भक्तेः साधनोत्तमत्वमाह– भक्तिमिति ॥ २७–३० ॥
श्रीनिवासतीर्थीया
के सन्त इत्यत आह ॥ सन्त इति । ताः कथा ये शृृण्वन्तीत्यादि । ते मयि भक्तिं विन्दन्ति । अनन्तसुखादिरूपे मयि भक्तिमित्यन्वयः
॥ २७–३० ॥
प्रमेयचन्द्रिका
सतां लक्षणमुच्यते ॥ सन्त इति ॥ प्रशान्ताः प्रकर्षेण शान्ति-युक्ताः । समदर्शिनः विद्याविनयसंपन्न इत्युक्तरीत्या समदर्शिनः ॥ श्रद्धधानाः ॥ मयि भक्तिं लब्धवत इत्यन्वयः । किमन्यदप्राप्तं फलं किमवशिष्यते । सर्वेष्टप्राप्तिर्भवतीति भावः
॥ २७–३०॥
यथोपाश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमो व्येति साधुं संसेवतस्तथा ॥ ३१ ॥
निमज्योन्मज्जतां घोरे भवाब्धौ ते परायणम् ।
सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥
पदरत्नावली
एतमर्थं सोदाहरणं समर्थयते यथेति । विभावसुमग्निं निषेवमाणस्य शीतादिकं यथा नश्यति तथा साधुं सत्पुरुषं सेवमानस्य मनोव्यासङ्गविनाशो भवतीत्यर्थः ॥ इतोपि सन्तः सेव्या इत्याह– निमज्येति । तथा ते सन्तः पुंसां परायणमप्सु मज्जतो दृढा नौरिव ॥३१,३२॥
श्रीनिवासतीर्थीया
उपाश्रयमाणस्य सेवमानस्य । विभावसुमग्निम् ॥ ३१,३२ ॥
प्रमेयचन्द्रिका
न केवलं मोक्षादीष्टलाभः किं त्वशेषानिष्टनिवृत्तिश्च भवतीति सदृष्टान्तमुच्यते ॥ यथेति ॥ विभावसुमग्निम् । तमश्चेतीतिशब्दो ग्राह्यः । तथा साधून् संसेव्यमानस्य सर्वमप्यनिष्टं व्येतीति ग्राह्यम् ॥ इतोऽपि सन्तः सेव्या इत्युच्यते ॥ निमज्येति ॥ नरकादिप्राप्तिर्निमज्जनम् । तदुत्तारणं स्वर्गादिप्राप्तिरुन्मज्जनम् ॥ ३१,३२ ॥
अन्नं हि प्राणिनां प्राणं (प्राणः) आर्तानां शरणं त्वहम् ।
धर्मो वित्तं नृणां प्रेत्य सन्तोऽतो बिभ्यतोऽरणम् ॥ ३३ ॥
पदरत्नावली
सत्स्वपि प्रधानः सन्नहमेवेति सोदाहरणमाह– अन्नमिति । लुप्तोपमेयम् । क्षुधितानामन्नं यथा प्राणो प्रकृष्टचेष्टाप्रदं, यथा प्रेत्य मरणानन्तरं धर्मो वित्तं नृणां सुखाय स्याद्, यथा वा आर्तानां शरणं रक्षिताऽहमेव तथा अतः संसाराद् बिभ्यतो जनस्य अरणं शरणं सन्त इति ॥ ३३ ॥
श्रीनिवासतीर्थीया
प्राणं चेष्टाप्रदम् । नृणां प्रेत्य वित्तं धर्मः । लुप्तोपमेयम् । तथा च यथा धर्मसाधनीभूतं वित्तं नृणां प्रेत्य मरणानन्तरं मरणं धर्मसाधनं भवतीति । अर्वाक् मरणात्पूर्वं संसाराद्बिभ्यतोऽरणमाश्रयः ॥ ३३ ॥
प्रमेयचन्द्रिका
सन्तः परायणमित्युक्तोऽर्थः सदृष्टान्तमुपपाद्यते ॥ अन्नमिति ॥ प्राणो जीवनहेतुः । लुप्तोपमेयम् । क्षुधितस्य यथा अन्नं प्राणः, यथा वा आर्त्तानामहं शरणम्, यथा च नृणां मरणानन्तरं धर्मो वित्तवत्सुखकरं तथाऽतः संसाराद्बिभ्यतः सन्तोऽरणं रक्षका इत्यर्थः ॥ ३३ ॥
सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।
देवता बान्धवाः सन्तः पिता माताऽहमेव च ॥ ३४ ॥
तात्पर्यम्
भगवतोऽपि सतां मध्ये प्रधानत्वात्सन्तोऽहमेव चेत्युक्तम् । ‘विष्णोश्च सत्प्रधानत्वान्न सतां विद्यते परम् । इत्याहुर्वेदविदुषः स हि सर्वेश्वरेश्वर’ इति च ॥३४॥
॥ इति एकादशतात्पर्ये षड्विंशोऽध्यायः ॥ २६ ॥
पदरत्नावली
तदुपपादयति सन्त इति । यथा समुत्थित उदितोऽर्कः बहिश् चक्षुर्दिशति तथा सन्त आन्तरं चक्षुर्दिशन्ति । बहुवचनादादित्यादधिकप्रयोजकत्वं सूचयति । सत्प्रधानो हरिरित्यस्यावगतिः कथमभूदिति तत्राह– देवता इति । अहमेवेत्यनेन सत्प्रधानत्वमवगतं हरेः । ‘‘विष्णोश्च सत्प्रधानत्वान्न सतां विद्यते परम् । इत्याहुर्वेदविदुषः स हि सर्वेश्वरेश्वरः’’ इति वाक्यं चशब्देन सूचयति ॥ ३४ ॥
श्रीनिवासतीर्थीया
अरणत्वमुपपादयति ॥ सन्त इति । समुत्थितोऽर्को बहिश्चक्षु-र्ग्राह्यपदार्थज्ञानं दिशत्येवं सन्तश्चूंषि परापरत्तत्त्वज्ञानानि दिशन्ति । अनेन सतां सूर्या-पेक्षयाऽपि वैलक्षण्यमुक्तं भवति । अहमेव देवतादिरिति योज्यम् । ननु कथमेतद्भगवतः कृष्णस्य देवतात्वं कांश्चित्प्रति बान्धवत्वं पितृत्वं मातृत्वं च यद्यप्युपपन्नम् । तथाऽपि सन्तोऽहमेवेत्ययुक्तं सद्भिर्भगवतोऽभेदस्य बाधितत्वादित्यतोऽस्य तात्पर्यमाह ॥ भगवतोऽ-पीति । प्राधान्येनाभेदोक्तिश्च राजाराष्ट्रमित्यादौ द्रष्टेत्याशयः । यदि देवतादिरपि भगवदितर एव विवक्षितस्तदाऽपि प्राधान्याद्देवताप्रभेदोक्तिरिति तात्पर्यं द्रष्टव्यम् । नन्वत्रैवमस्तु क्वचि-त्सदपेक्षयाऽन्यदुत्तमं वस्तु नास्तीत्युच्यते तत्रावश्यं भगवदभेदः सतां वाच्य एव । तत्समाख्यानादत्रापि तथैवार्थ इत्यतस्तद्वचनार्थोऽप्येवमेवेत्याह ॥ विष्णोश्चेति । सत्प्रधानत्वात्सतां मध्ये प्रधानत्वादित्यर्थः । सतां सकाशात्परमुत्तम् । वेदविदुषो वेदार्थ-विदुषः । अभेद एव कस्मान्नेत्यतो विरुद्धधर्माधिकरणत्वादित्याह ॥ स हीति ॥ ३४ ॥
दुर्घटभावदीपिका
समुत्थितोऽर्को बहिर्लोकप्रसिद्धघटादिविषयकाणि चक्षूंषि चक्षुर्जन्यज्ञानानि दिशन्ति । सन्तः सज्जनाश्चक्षूंष्यलौकिकभगवदादिविषयकस्पष्टज्ञानानि दिशन्तीति । एतेन घटादि-वद्भगवदादीनामपि बहिर्विद्यामानत्वात् सूर्यस्य बाह्यपदार्थज्ञानजनकत्वं सज्जनानामान्तरपदार्थज्ञान-जनकत्वमित्यूरीकरणात् ॥ ३४ ॥
॥ इति श्रीभागवतटिप्पण्यां षड्विंशोऽध्यायः ॥ ११–२६ ॥
प्रमेयचन्द्रिका
तदुपपादनं क्रियते ॥ सन्त इति ॥ यथा बहिरर्कश्चक्षूंषि ज्ञानानि प्रकाशेन निर्दिशति तथा सन्तोऽपि परापरतत्वज्ञानानि दिशन्तीत्यर्थः । सन्तोऽनपेक्षा मच्चित्ता इत्यादिना सन्तो निरूपिताः । वस्तुतस्तु मुख्यतो देवता बान्धवाद्या यथा अहं तथा मुख्यतः सन्तोऽप्यहमेवेत्युच्यते ॥ देवता इति ॥ देवता बान्धवाः पिता मातेत्येते सन्तश्चाहमेवेति योजना ॥
ननु अधिदैवं स एवैक आधिक्यात्पुरुषोत्तमः । देवमात्रास्तदन्ये तु, मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः । पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिरित्यादौ देवबान्ध-वत्वाद्युक्तेर्देवता अहमेवेति सन्तो अहमेवेति तु कथमित्यत आह ॥ भगवतोऽपीति ॥ भगवतोऽपि सत्वादहं सन्त इत्युक्तमिति योज्यम् । बहुवचनमवधारणं च घटायितुमुक्तम् ॥ सतां मध्ये प्रधानत्वादिति ॥ यद्वा न केवलं विरिञ्चादेः सत्प्रधानत्वं भगवतो सतां मध्येऽतिशयेन प्रधानत्वादिति यथाश्रुतैव योजना । तथा चैतद्ग्रामस्थाः सर्वेऽप्ययमेव राजा राष्ट्रमित्यादिवत्प्राधान्यस्याभेदोक्तिनिमित्तत्वात्सन्तोऽहमित्युक्तिरुपपद्यत इति भावः ॥
अत्र प्रमाणमाह ॥ विष्णोश्चेति ॥ चोऽतिशयार्थे । विष्णोः सत्स्वपि प्रधानत्वा-द्विष्णोः सकाशात्परमन्यत्परमुत्तमं न विद्यते । अतो वेदविदुषो विष्णोरेव प्रधानत्वात् सन्त इत्याहुरिति अध्याहारेण योज्यम् ॥ ३४ ॥
चेतसेलासुतोऽप्येवमुर्वश्या लोकनिःस्पृहः ।
मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ॥ ३५ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे षड्विंशोऽध्यायः ॥
पदरत्नावली
स्वोक्तमर्थमितिहासेन सङ्गमयति चेतसेति । चेतसा, एवं निरूप्यैवेति शेषः
॥ ३५ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य षड्विंशोऽध्यायः ॥
श्रीनिवासतीर्थीया
स्वोक्तमर्थमितिहासेन सङ्गमयति ॥ चेतसेति । एवं चेतसा । विचार्येति शेषः । उर्वश्या लोके देहे निस्पृहः । आत्मनि हरौ । आ सम्यक् रमणं यस्या-सावात्मारामः । तस्मान्मुमुक्षुणा मुक्तसङ्गेनात्मारामेण भवितव्यमित्याशयः ॥ ३५ ॥
॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे षड्विंशोऽध्यायः ॥ ११–२६ ॥
प्रमेयचन्द्रिका
भगवान् स्वोक्तमर्थमितिहासेन सङ्गमयति ॥ चेतसेति ॥ आत्मारामः परमात्मदर्शनादिनिमित्तकसुखं प्राप्तः ॥
॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां षड्विंशोऽध्यायः ॥