२५ पञ्चविंशोऽध्यायः

गुणानामप्यमिश्राणां पुमान् येन यथा भवेत्

॥ अथ पञ्चविंशोऽध्यायः ॥

श्रीभगवानुवाच–

गुणानामप्यमिश्राणां पुमान् येन यथा भवेत् ।

तन्मे पुरुषवर्येदमुपधारय शंसतः ॥ १ ॥

पदरत्नावली

उक्तज्ञानाधिकारी सात्विक एवेत्यभिप्रेत्य सत्वादिगुणानां वृत्तीर्वक्त्यस्मिन्नध्याये । तत्र प्रथमममिश्रा वृत्तीराह– गुणानामिति । सत्वादिगुणानाममिश्राणां च मध्ये येन गुणेन पुमान् यथा भवेत् तथा तच्छंसतो मे सकाशादिदमुपधारय ॥ १ ॥

श्रीनिवासतीर्थीया

उक्तज्ञानाधिकारी सात्त्विक एवेत्याशयेन सत्त्वादिगुणानां वृत्ती-राहात्राध्याये । तत्राह भगवान् ॥ गुणानामिति । सत्त्वादिगुणास्त्रिविधाः । अमिश्रा शुद्धाश्चेति । तत्रामिश्राणां गुणानाम् । अपिशब्दान्मिश्राणां च गुणानां च मध्ये येन गुणेन पुमान्यथा भवेत्तदिदं शंसतो मे सकाशादुपधारय ॥ १ ॥

प्रमेयचन्द्रिका

प्रोक्तसाङ्ख्यशब्दोदितज्ञाने सत्वगुणवृत्तिमानेवाधिकारीत्याशयेन सत्वादिगुणानां वृत्तय उच्यन्ते ॥ गुणानामित्यादिना ॥ अमिश्राणां संमिश्राणाम् असंकल्पि-तानां सत्वादिगुणानां मध्ये येन गुणेन यथा यादृशवृत्तिमान्भवेत् । तथा शंसतो मे इदमुपधारयेत्यर्थः ॥ १ ॥

शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः ।

तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीः क्षमा निस्तुतिर्धृतिः ॥ २ ॥

पदरत्नावली

इतराभ्याममिश्रा गुणवृत्तीराह– शम इति । ईक्षा ज्ञानम् । स्मृतिर् अखण्डशास्त्रार्थस्मरणम् । त्यागो निषिद्धस्य । अस्पृहा निषिद्धेच्छाराहित्यम् । निस्तुतिर् आत्म-प्रशंसावर्जनम् । धृतिर् विपद्यपि चित्तानुद्वेगः । एते गुणा यस्य सन्ति स सात्विकः साङ्ख्यज्ञानाधि-कारीत्युक्तमनेन ॥ २ ॥

श्रीनिवासतीर्थीया

तत्रादावमिश्रसत्त्वगुणप्रवृत्तीराह ॥ शम इति । ईक्षा ज्ञानम् । स्मृतिः शास्त्रार्थस्मरणम् । त्यागो निषिद्धस्य । अनिषिद्धेच्छाभावोऽस्पृहा । निस्तुतिः स्वप्रशंसाभावः । धृतिश्चित्तधैर्यम् । एताः सत्त्वस्य वृत्तयः । तद्वान्सात्त्विको ज्ञानाधिकारी नेतर इति भावः ॥ २ ॥

प्रमेयचन्द्रिका

तत्र तावदसंमिश्राः सत्वगुणवृत्तय उच्यन्ते ॥ शम इति ॥ तितिक्षा द्वन्द्वसहिता । ईक्षा शास्त्रपर्यालोचनम् । स्मृतिरखण्डशास्त्रधारणम् । तुष्टिरलंबुद्धिः । त्यागो निषिद्धस्य । मिथ्याभिमानविरतिस्त्याग इत्यभिधीयत इति वा । अस्पृहा निषिद्धेच्छाराहित्यम् । श्रद्धेत्यास्तिक्यनिष्टोक्ता । ह्रीर्निषिद्धकरणे । क्षमा क्रोधासमुत्थितिः । निस्तुतिरात्मप्रशंसाभावः । धृतिर्धैर्यम् । विपद्यपि हर्याराधनादौ धैर्यम् ॥ २ ॥

काम ईहा मदस्तृष्णा१ स्तम्भ आशीर्भिदाऽसुखम् ।

मनोत्साहो यशः प्रीतिर्धार्ष्ट्यवीर्यबलोद्यमाः ॥ ३ ॥

तात्पर्यम्

‘राजसेऽपि यदा दुःखं तामसे किमुतेति तत् । राजसे दुःखवचनं तामसेऽतिविवक्षये’ति प्रद्योते ॥ ३ ॥

पदरत्नावली

रजोगुणवृत्तीराह– काम इति । कामो विषयरागः । ईहा निषिद्धचेष्टा । तृष्णा अनलम्बुद्धिः । स्तम्भ उक्तानङ्गीकारित्वम् । आशीर् धनाकाङ्क्षा । भिदा भेदकरणमन्यथाज्ञानं वा । असुखं दुःखम् । राजसस्य दुःखं भवति तामसस्य किं वक्तव्यमित्यभिप्रायेणोक्तम् । तदुक्तम् ‘‘राजसेऽपि यदा दुःखं तामसे किमुतेति तत् । राजसे दुःखवचनं तामसेऽतिविवक्षया’’ इति । एवंविधगुणो राजस इत्यर्थः ॥ ३ ॥

श्रीनिवासतीर्थीया

रजोवृत्तीराह ॥ काम इति । कामो विषयरागः । ईहा निषिद्ध-चेष्टा । स्तम्भ उक्तानङ्गीकारः । आशीर्धनाकाङ्क्षा । भिदाऽन्यथाज्ञानम् । असुखं दुःखम् । नन्वेतदनुपपन्नम् । दुःखस्य तमोगुणकार्यत्वेन तमोवृत्तिमध्ये परिगणनीयत्वेन रजोवृत्तिमध्ये परिगणनायोगात् । तथात्वे तमोपेक्षया रजसः क्लिष्टत्वापत्तेरित्यतः कैमुत्यविवक्षयेद-मित्यभिप्रेत्य तात्पर्यमाह ॥ राजसेऽपीति । पुरुष इत्यर्थः । तद्राजसे दुःखवचनं यदा राजसेऽपि पुंसि दुःखं तदा तामसे पुंसि दुःखं भवतीति किमु वाच्यमित्याशयेन तामसे इति । दुःखमिति । दुःखातिशयविवक्षयेत्यर्थः ॥ ३ ॥

प्रमेयचन्द्रिका

असंमिश्ररजोवृत्तय उच्यन्ते ॥ काम इति ॥ कामो विषयरागः । ईहा निषिद्धेच्छा । मनस्तृष्णा मनसोऽनलम्बुद्धिः । स्तम्भ उक्ताकारित्वमविभीतता वा । आशीर्यथा दीर्घकाले भवद्धनाद्यपेक्षा । भिदा भेदकारणमनन्याज्ञानं वा । असुखं दुःखम् । मनोत्साहः कामभोगविषयः । यशो ऽपात्रे नटादौ द्रव्यदानेन कीर्तिसंपादनम् । प्रीति-र्विषयभोगेन इदमद्य लब्धमिति हर्षः । अशक्येप्यर्थतृष्णा । वीर्यं दुर्बलेषु बलम् । अविषये बलप्रयोगः । उद्योगो वृथा महायत्नः । यशःप्रीतिरिति पाठे तु यशआदिसंपादने उद्योग इत्यर्थः ।

नन्वसुखमित्युक्तं दुःखं तामसवृत्तिस् तत्कथं तामसे अनुक्त्वा राजसे तदुक्तिरित्यत आह ॥ राजसेऽपीति ॥ अतिविवक्षया अतिशयाभिप्रायेण कैमुत्येन तामसे अतिशयित-दुःखोक्तिपर्यवसानाय राजसदुःखोक्तिरिति भावः ॥ ३ ॥

क्रोधो लोभोऽनृतं हिंसा माया दम्भोऽक्षमा कलिः ।

शोकमोहौ विषादार्ती निद्राऽऽशा भीरनुद्यमः ॥ ४ ॥

पदरत्नावली

तमोगुणवृत्तीराह– क्रोध इति । माया कपटम् । अविद्यमानमहिमाप्रकटनं दम्भः । अस्थानेऽपि क्रोधोऽक्षमा । कलिः कलहः । मोहोऽज्ञानम् । आशा उत्कण्ठा । एवंविधस्तामसाधिकारीति ॥ ४ ॥

श्रीनिवासतीर्थीया

तमोवृत्तीराह ॥ क्रोध इति । माया कपटम् । कलिः कलहः

॥ ४ ॥

प्रमेयचन्द्रिका

तामसवृत्तय उच्यन्ते ॥ क्रोध इति ॥ माया कपटः । कलिः कलहः । अतीतेषु उपद्रवज्ञाननिमित्तकचित्तखेदः शोकः । मोहो ज्ञानम् । विषादो उद्वेगः । आर्तिर् व्याध्यादिपीडा । आशा अशक्येऽपि दुर्विषये औत्कट्यम् । भीः सर्वातिशङ्कितया भयः । अनुद्यम आलस्येन कर्मणि प्रवर्तनम् ॥ ४ ॥

सत्वस्य रजसश्चैव तमसश्चानुपूर्वशः ।

वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु ॥ ५ ॥

पदरत्नावली

उक्तवृत्तीर्विविनक्ति सत्वस्येति । सन्निपातं गुणानां मिश्रतां पुरुषनिष्ठतयाह– सन्निपात इति । देहे कलत्रादौ योऽहङ्कारो ममकारश्च सत्वादिगुणानां मिश्रतालक्षणः । मात्राः शब्दादयः । सन्निपाते सति ॥ ५,६ ॥

श्रीनिवासतीर्थीया

उक्तवृत्तीर्विविनक्ति ॥ सत्त्वस्येति । संन्निपातो मिश्रता । मिश्रगुणवृत्तीः शृृण्वित्यर्थः ॥ ५ ॥

प्रमेयचन्द्रिका

उक्ताः सत्वादिगुणानामसंमिश्रा वृत्तीर्विवेचयन् संमिश्रकथनप्रतिज्ञा क्रियते ॥ सत्वस्येति ॥ ५ ॥

सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः ।

व्यवहारः सन्निपाते मनोमात्रेन्द्रियासुभिः ॥ ६ ॥

श्रीनिवासतीर्थीया

सन्निपातो मिश्रगुणकार्यम् । मात्राः शब्दादयः । सन्निपाते सति गुणानां मिश्रतायां सत्यां मनआदिभिरिन्द्रियैः शब्दादिविषयकं ज्ञानं भवतीत्यर्थः ॥ ६ ॥

दुर्घटभावदीपिका

हे उद्धव । तु विशेषतोऽहं या मतिर्विशेषतोऽहं ममेति यो व्यवहारः स सन्निपातः सत्त्वादिगुणमिश्रितः कार्यः । एतदेव विवृणोति ॥ सन्निपात इति । मनोमात्रेन्द्रिया-सुभिर्मनो मनोरूपेन्द्रियं मात्राः पञ्चतन्मात्रा इन्द्रियाणि चक्षुरादीन्द्रियाण्यसवः पञ्च प्राणा एतैर्निमित्तैः सन्निपाते सत्त्वादिगुणानां मिश्रीभावे सत्ययं ममेति मतिरहं ममेति व्यवहारश्च भवतीति । एतेन संनिपाते मनोमात्रेन्द्रियासुभिरित्येतद्व्यर्थमिति दूषणं निरस्तम् । कैर्निमित्तैर्गुणानां मिश्रीभाव इत्याशङ्कापरिहारार्थं सन्निपातस्त्वहमित्यस्य विवरणं क्रियत इत्यभ्युपगमात् ॥ ६ ॥

प्रमेयचन्द्रिका

सन्निपात इति ॥ देहापत्यकलत्रादौ योऽहङ्कारो ममकारश्च सत्वादिगुणानां मिश्रतालक्षणः सन्निपातः । एवंविधे सन्निपाते सति मनोमात्रादिभि-र्व्यवहारोऽभिलपनरूपो भवतीत्यर्थः । मात्राः शब्दादयो विषयभूता इन्द्रियाणीह ज्ञानेन्द्रियाण्युच्यन्ते । असवः कर्मेन्द्रियाणि सर्वक्रियाप्रवर्तकप्राणादिवायवो वा ॥ ६ ॥

धर्मे चार्थे च कामे च यदाऽसौ परिनिष्ठितः ।

गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ॥ ७ ॥

पदरत्नावली

मनोमात्रेन्द्रियासुभिर्व्यवहारोऽभिज्ञानादिलक्षणो भवतीत्युक्तं विवृणोति धर्मे चेति । यदाऽसौ पुरुषो धर्मादौ परिनिष्ठितो भवति तदा तस्यायं गुणानां सन्निकर्षः श्रद्धादिकरो भवति । यदा धर्मे निष्ठा तदा श्रद्धा यदार्थे निष्ठा तदा धनकारी यदा कामे निष्ठा तदा रतिं करोतीत्यर्थः ॥ ७ ॥

श्रीनिवासतीर्थीया

यदाऽसौ पुमान् धर्मे परिनिष्ठितो भवति तदा तस्य पुंसो गुणानां सन्निकर्षो मिश्रीभावः श्रद्धावहो भवति । यदाऽर्थे परिनिष्ठितस्तदा धनावहः । यदा कामे परिनिष्ठितस्तदा रत्यावह इति योज्यम् ॥ ७ ॥

प्रमेयचन्द्रिका

तस्यैव विवरणम् ॥ धर्मेति ॥ यदा धर्मे निष्ठितस्तदा गुणानां सन्निकर्षः सन्निपातः श्रद्धावहः । यदा त्वर्थे निष्ठितस् तदा त्वयं धनावह इति योज्यम्

॥ ७ ॥

प्रवृत्तिलक्षणां निष्ठां पुरुषो यर्हि गृहाश्रमे ।

स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥ ८ ॥

पदरत्नावली

यर्हि गृहाश्रमे पुमान् प्रवृत्तिलक्षणां निष्ठां भजमानः स्वधर्मे चानुतिष्ठेत तत्र सा गुणानां समितिर् मिश्रीभाव इति द्रष्टव्यम् ॥ ८ ॥

श्रीनिवासतीर्थीया

गृहाश्रमे यर्हि यदा प्रवृत्तिलक्षणां निष्ठामनुतिष्ठेत । प्रवृत्ति-धर्मासक्तो भवतीति यावत् । स्वधर्मे च यद्यनुतिष्ठेत सा गुणानां समितिः समूहस्तदनुष्ठानं मिश्रगुणकार्यमित्यर्थः ॥ ८ ॥

प्रमेयचन्द्रिका

गृहाश्रमे स्वधर्मे निष्ठितः पुमांस्तदा प्रवृत्तिलक्षणां काम्यकर्मा-नुष्ठानलक्षणां निष्ठामनुतिष्टेत तदा सा प्रवृत्तिर्गुणानां समितिः सन्निपातः ॥ ८ ॥

पुरुषं सत्वसंयुक्तमनुमायाच्छमादिभिः ।

कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसाऽवृतम् ॥ ९ ॥

पदरत्नावली

व्यवहारस्य सन्निपातमूलत्वेऽयं सात्विक इत्यादि कथं घटत इति तत्राह– पुरुषमिति । शमादिभिर्लिङ्गैः पुरुषं सत्वगुणयुक्तमनुमायात् । अनुमानेन जानातु । कामादिभिरप्येवम्

॥ ९ ॥

श्रीनिवासतीर्थीया

व्यवहारस्य सन्निपातमूलकत्वेऽयं सात्त्विक इत्यादि विविच्य ज्ञानं व्यवहारो वा कथमित्यत आह ॥ पुरुषमिति । शमादिभिर्युक्तं पुरुषं सत्त्वे संयुक्तं सत्त्वगुणसंयुक्तमनुमायादिति योज्यम् ॥ ९ ॥

प्रमेयचन्द्रिका

उक्तसन्निपातस्य सर्वेष्वपि भावात्कथमयं सात्विक इत्यादिनिर्णय इत्यत उच्यते ॥ पुरुषमिति ॥ शमादिभिर्गुणैः सत्वगुणसंयुक्तमनुमायात्सात्विकमनुमाया-दित्यादि योज्यम् ॥ ९ ॥

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।

तं सत्वप्रकृतिं विद्यात् पुरुषं स्त्रियमेव च ॥ १० ॥

पदरत्नावली

स्वभक्तेष्वेव सात्विकादिविवेचनप्रकारं दर्शयति यदेत्यादि श्लोकद्वयेन

॥ १० ॥

श्रीनिवासतीर्थीया

सत्त्वप्रकृतिं सत्त्वस्वभावम् ॥ १० ॥

प्रमेयचन्द्रिका

तदेव श्लोकद्वयेन विव्रीयते ॥ यदेति ॥ १० ॥

यदा आशिष आशास्य मां यजेत स्वकर्माभिः ।

तं रजःप्रकृतिं विद्यात् हिंसामाशास्य तामसम् ॥ ११ ॥

पदरत्नावली

आशिषः सम्पद आशास्य मनस्यभिसन्धाय ॥ ११ ॥

श्रीनिवासतीर्थीया

आशिषः संपद आशास्य मनस्यभिसन्धाय । हिंसामाशास्य यो यजेत तं तामसं विद्यात् ॥ ११ ॥

प्रमेयचन्द्रिका

आशास्य मनस्यभिसन्धाय । हिंसां परपीडां यो भजेत तं तामसं विद्यादिति योज्येम् । देहस्थत्वात्तवापि गुणवृत्तयो भवन्ति ॥ ११ ॥

सत्वं रजस्तम इति गुणा जीवस्य नैव मे ।

चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥ १२ ॥

पदरत्नावली

एवंविधविभागस्य गुणहेतुत्वे तवापि तत् स्यात् किमिति तत्राह– सत्वमिति । सत्वादयो गुणा उक्तवक्ष्यमाणविशेषापादका जीवस्यैव, मे नैव । तत्र हेतुगर्भविशेषणमाह– चित्तजा इति । भूतानां पञ्चनां समुदायरूपबाह्यान्तःकरणे चित्ते जायन्ते व्यज्यन्त इति चित्तजाः । मम प्रकृत्यादिसम्बन्धराहित्यात् । जीवे तद् युक्तं तत्सम्बन्धसद्भावादित्याह– यैस्त्विति । भूतानामुपादानानां सकाशादुत्पन्ने चित्तेऽभिव्यक्तैः सज्जमानो निबध्यत इति । तस्मान्मम गुणकृतानर्थं न शङ्कयेति भावः ॥ १२ ॥

श्रीनिवासतीर्थीया

गुणा उक्तवक्ष्यमाणविशेषापादकतया सन्ति जीवस्येत्यर्थः । कीदृशाः । भूतानां पञ्चानां कार्यं यच्चित्तं तत्र जायन्ते व्यज्यन्त इति चित्तजाः ॥ यैर्गुणैः सज्जमानो जीवो निबद्ध्यते । गुणा जीवस्यैव न म इत्यन्वयः ॥ १२ ॥

प्रमेयचन्द्रिका

किन्नेत्युच्यते ॥ सत्वमिति ॥ चित्तजा बाह्यान्तःकरणजायमान-कामादिवृत्तिमन्तः सत्वादयो गुणा जीवस्यैव नमे इत्यर्थः । चित्तजा इति हेतुगर्भविशेषण-मिति ज्ञेयम् । यैर्गुणैः संबध्यमानो जीवो नितरां संहारे बध्यत इति योज्यम् । टीकाया-मन्योऽर्थोऽभिहितः ॥ १२ ॥

यदेतरौ जयेत् सत्वं भास्वरं विशदं शिवम् ।

तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् ॥ १३ ॥

पदरत्नावली

सङ्क्षिप्योक्तं सत्वादिगुणानां वृत्तिं प्रपञ्चयति यदेति । इतरौ रजस्तमसी । सत्वस्य स्वरूपमाह– भास्वरमिति ॥ १३ ॥

श्रीनिवासतीर्थीया

भास्वरमित्यादि सत्त्वगुणविशेषणम् । इतरौ रजोगुणतमोगुणौ

॥ १३ ॥

प्रमेयचन्द्रिका

त्रिष्वपि गुणेष्वन्यतमप्राबल्ये सतीतरयोर्निग्रहस्थितिरुच्यते ॥ यदेतराविति श्लोकत्रयेण ॥ भास्वरं शुक्लभास्वरम् । लोहितशुक्लकृष्णमिति रजःसत्वतमसां वर्णाभिधानात् । विशदं निर्मलम् । शिवं माङ्गल्यप्रदम् । इतरौ रजस्तमोगुणौ । जयेदिति भावयेत् ॥ १३ ॥

यदा जयेत् तमस्सत्वे रजः सङ्गभिदाचलम् ।

तदा१ दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ १४ ॥

यदा जयेद् रजस्सत्वे तमो मूढं२ ह्ययं जनः ।

युज्यते शोकमोहाभ्यां निद्रया हिंसयाऽऽशया ॥ १५ ॥

पदरत्नावली

रजस् तमस्सत्वगुणौ जयेत् । रजःस्वभावमाह– सङ्गेति । विषयसङ्गकारि भेदकारि चपलताकारि च ॥ तमोगुणो रजस्सत्वगुणौ जयेत् । आशया अतितृष्णया । मूढ इत्यनेन तमःस्वभावो दर्शितः ॥ १४,१५ ॥

श्रीनिवासतीर्थीया

यदा सङ्गं सङ्गकारि । भिदा भेदकारि चलं चाञ्चल्यकारि रजस्तमःसत्त्वं जयेदित्यन्वयः । यदा मूढं मौढ्यापादकं तमो रजःसत्त्वं जयेदित्यर्थः । आशयाऽतितृष्णया ॥ १४,१५ ॥

प्रमेयचन्द्रिका

सङ्गभिदाचलम् । विषयसङ्गचित्तभेदान्मनश्चांचल्यकारकं रज इत्यत्रान्वेति । चित्तभिदा भ्रमः । असुखेनेति पदच्छेदः । शोको दुःखोत्कर्षः । मोहो मिथ्या न दार्ढ्यम् । पुनश्च सत्वादि गुणवृत्तयोऽभिधीयन्ते ॥ यदा जयेदिति श्लोकत्रयेण

॥ १४,१५ ॥

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।

देहेऽभयं मनोऽसङ्गं तत् सत्वं विद्धि मत्पदम् ॥ १६ ॥

पदरत्नावली

यदा चित्तं प्रसन्नमिन्द्रियाणां निर्वृतिर्ह्रादश्च देहे अभयं मनो ऽसङ्गं च भवति तदा तन् मत्पदं मत्स्थानं सत्वं विद्धि ॥ १६ ॥

श्रीनिवासतीर्थीया

देहेऽभयमसङ्गं सङ्गशून्यं मनो भवतीत्यर्थः । तत्तदा मत्पदं मत्सन्निधानपात्रम् ॥ १६ ॥

प्रमेयचन्द्रिका

तत् तदा । मत्पदं मत्सन्निधानस्थानं विद्धि ॥ १६ ॥

विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसः ।

गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय ॥ १७ ॥

सीदच्चितं विलीयेत चेतसो ग्रहणेऽक्षमम् ।

मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय ॥ १८ ॥

एधमाने गुणे सत्त्वे देवानां बलमेधते ।

असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥ १९ ॥

पदरत्नावली

क्रियया विकुर्वन् भवति चेतसो विषयादनिवृत्तिश्च भवति । गात्रास्वास्थ्यं शरीरावयवानां विजृम्भणम् । एतैर्लिङ्गैरिदं रज इति निशामय पश्य ॥ तमोगुणवर्तनप्रकारं स्पष्टयति सीददिति । यदा चित्तं स्मरणकारणमन्तःकरणं सीदन् नश्यद् अथवा विलीयेत । चेतसो ग्रहणे बहुस्मरणशक्तेश्चेतनाया ग्रहणे अक्षममसमर्थं मनो नष्टं भवति, तमो ऽज्ञानं ग्लानिर् ग्लानता च भवति, तदा तमोगुणवर्तनमुपधारय ॥ बुभूषुणा सत्वमेव सेवनीयमिति भावेनाह एधमान इति

॥ १७–१९ ॥

श्रीनिवासतीर्थीया

यदा क्रियया विकुर्वन् भवति । आधीरनिवृत्तिरित्यत्राधीरिति पदम् । मनोव्यथेत्यर्थः । अनिवृत्तिरनानन्दः । यदा च मनश्चेतसो ग्रहणे निग्रहेऽक्षमं सन् नष्ठं भवति । यदा तमो ज्ञानं ग्लानिर्म्लानता च भवति ॥ १७–१९ ॥

दुर्घटभावदीपिका

यः क्रियया ज्योतिष्टोमादिक्रियया विकुर्वन् अहङ्कारादिविकारं प्राप्नुवान् भवति यस्याधीर्मनोव्यथा च भवति । यस्य चेतसोऽन्तःकरणस्य रमनिवृत्ती रमात्सुखज्ञान-विशिष्टात्परमेश्वरान्निवृत्तिर्भवति । यस्यान्तःकरणं परमेश्वरविषयं न भवतीति यावत् । गात्रास्वास्थ्यं यस्य गात्रेष्वस्वास्थ्यं भवति । मनोभ्रान्तं यस्य चेतसः परमेश्वरनिर्वृत्तिरिति वक्तव्यम् । रमनिवृत्तिरिति कथनमयुक्तमिति दूषणमपास्तम् । रमेर्भावे डप्रत्यये रशब्दो निष्पन्न इति रशब्दः सुखवाची । माशब्दो ज्ञानवाची । अतः पूर्णसुखज्ञानत्वाद् अर्शआद्यन्तरमशब्देन परमेश्वर उच्यत इत्यभ्युपगमात्

॥ १७ ॥

दुर्घटभावदीपिका

हे उद्धव । सत्त्वे सत्त्वगुणे एधमानेऽभिवृद्धे सति देवानाम् । देवशब्द उत्तमजीवोपलक्षकः । देवानामुत्तमजीवानां बलमेधते । रजसि रजोगुणे एधमाने सत्यसुराणां देवभिन्नानां मध्यमजीवानां च बलमेधते । तमसि तमोगुणे प्रधाने सति रक्षसाम् । रक्षःशब्दोऽधम-जीवोपलक्षकः । अधमजीवानां बलमेधत इति । एतेन रजस्येधमाने मध्यमजीवानां बलमेधत इति वक्तव्यम् । रजस्येधमानेऽसुराणां बलमेधत इति कथनमयुक्तमिति दूषणस्यानवकाशः । नञिवयुक्त-न्यायेनासुरशब्देन देवभिन्नानां तमोयोग्योक्त्यभावेन देवसदृशानां मध्यमजीवानां ग्रहणात् ॥१९॥

प्रमेयचन्द्रिका

आधीरिति पदच्छेदः । क्रियया कर्मकरणेन विकुर्वन्भवति पुरुषः । चेतसो विषयेभ्यो अनिवृत्तिः । भ्रान्तं भ्रमोपेतम् अस्थिरं सत् । भ्राम्यमाणमिति वा ॥ चेतसश्चित्तव्याप्तेर्ग्रहणे निग्रहे अक्षमम् ॥ अथाधिकारिनिष्ठतया अन्यतमगुणव्यावृत्या तद्विशेषोऽभिधीयते ॥ एधमाने इति ॥ १७–१९ ॥

सत्वाज्जागरणं विद्याद् रजसा स्वप्नमादिशेत् ।

प्रस्वापं तमसा जन्तोस्तुरीयं त्रिष्वसङ्गतम् ॥ २० ॥

पदरत्नावली

तुरीयमवस्थास्वरूपं त्रिषु गुणेषु सङ्गतं न भवति ॥ २० ॥

श्रीनिवासतीर्थीया

तुरीयं त्रिषु त्रिभिर्गुणैर्जागरणादिभिर्वाऽसङ्गतमसम्बद्धम् ॥२०॥

दुर्घटभावदीपिका

तुरीयं त्रिष्वसङ्गतमित्यस्य यत्त्रिषु मिश्रितसत्त्वादिगुणेष्वसङ्गतमसम्बद्ध-मप्रविष्टम् । मिश्रसत्त्वादिगुणात्मकं न भवतीति यावत् । तेन शुद्धसत्त्वेन तुरीयं चतुर्थं मोक्षलक्षणा-वस्थान्तरमादिशेज्जानीयादित्यर्थः । यत्त्रिषु त्रिभिः सत्त्वादिगुणैरसङ्गतमसम्बद्धं सत्त्वादिगुणविशिष्टं न भवतीति यावत् । तेन परमात्मस्वरूपेण । तत्प्राप्त्येति यावत् । तुरीयं चतुर्थमोक्षलक्षणावस्थान्तरं जानीयादिति वाऽर्थः ॥ २० ॥

॥ इति श्रीभागवतटिप्पण्यां पञ्चविंशोऽध्यायः ॥ ११–२५ ॥

प्रमेयचन्द्रिका

अवस्थात्रयमपि सत्वाद्यन्यतमप्राचुर्यादित्युच्यते ॥ सत्वादिति ॥ तुरीयमसंप्रज्ञातसमाधिरूपतुरीयमवस्थानं त्रिष्वपि गुणेष्वसङ्गतमित्यर्थः ॥ २० ॥

उपर्युपरि गच्छन्ति सत्वेनाब्रह्मणो जनाः ।

तमसा अधोऽध आमुख्याद् रजसाऽन्तरचारिणः ॥ २१ ॥

पदरत्नावली

इतोपि सत्वमेव श्रेयःसाधनमित्याह– उपरीति । आब्रह्मणो ब्रह्मलोकपर्यन्तम् । आमुख्यादन्धन्तमःपर्यन्तम् । अन्तरचारिणः स्वर्गादौ चरन्ति ॥ २१ ॥

श्रीनिवासतीर्थीया

आब्रह्मणः सत्यलोकपर्यन्तम् ॥ २१ ॥

प्रमेयचन्द्रिका

एवमुत्तरग्रन्थसन्दर्भेनापि गुणत्रयनिमित्तका विशेषा उच्यन्ते । आब्रह्मणः स्वर्गमारभ्य विरिञ्चस्य परब्रह्मणो वा लोकपर्यन्तमुपर्युपरि गतान् लोकान् सत्वेन सत्वगुणाधिक्येन प्राप्तकर्मज्ञानलभ्यान् गच्छन्तीत्यर्थः । आमुख्याद् रौरवादिनरकमारभ्या-मुख्यादत्यन्तामुख्यमधरान्धन्तमःपर्यन्तं गच्छन्तीत्यनुवर्तते । रजसा राजससाधनेनान्तर-चारिणो भवन्ति । उर्ध्वाधोलोकवर्त्तिनो भवन्तीत्यर्थः ॥ २१ ॥

सत्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।

तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२ ॥

तात्पर्यम्

‘नैर्गुण्यसाधनं यत्तन्निर्गुणं परिकीर्तितमि’ति च ॥ २२ ॥

पदरत्नावली

सत्वेन सत्वगुणप्रवृद्धौ प्रलीना मृताः स्वर्गम् । रजसि प्रवृद्धे लयो येषां ते रजोलयाः । तमोलया इत्येतदनेन व्याख्यातम् । निर्गुणास् तमआदिगुणानभिभूता आत्यन्तिक-भक्तिसाधनाः ॥ २२ ॥

श्रीनिवासतीर्थीया

निर्गुणं मां यान्तीत्यन्यथाप्रतीतनिरासाय प्रमाणेनार्थमाह ॥ नैर्गुण्येति । मोक्षेत्यर्थः । तथा च निर्गुणा मोक्षसाधनानुष्ठातारो मामेव यान्तीत्यर्थः

॥ २२ ॥

प्रमेयचन्द्रिका

सत्वे सत्वगुणोद्रेकावस्थायां प्रलीना मताः । रजोलया रजस उद्रेकावस्थायां लयो येषां ते रजोलयाः । एवं तमोलया इत्यपि । निर्गुणा गुणत्रयातीत-समाध्यवस्थायामुत्क्रान्ताः ॥ २२ ॥

मदर्पणं निष्फलं वा सात्विकं निजकर्म तत् ।

राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३ ॥

पदरत्नावली

वाशब्दश्चार्थे । मदर्पणत्वेन निष्फलत्वेन फलानुसन्धानराहित्येन यत् कर्म तन् निजकर्म वर्णाश्रमविहितं कर्म सात्विकम् ॥ २३ ॥

श्रीनिवासतीर्थीया

निष्फलं फलकामनां विहाय मदर्पणमित्यर्थः ॥ हिंसाप्रायादि प्रायो हिंसादियुक्तमित्यर्थः ॥ २३ ॥

प्रमेयचन्द्रिका

निष्फलं फलाकांक्षारहितम् ॥ २३ ॥

कैवल्यं सात्विकं ज्ञानं कर्मनिष्ठं तु राजसम् ।

प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥

तात्पर्यम्

‘यथाशास्त्रोक्तविज्ञानं केवलं ज्ञानमुच्यते । स्वदृष्टशास्त्रानुकूल्याददृष्टानां च भक्तितः । गुणानां तु हरौ भावं विनिश्चित्यैतदाश्रयात् । यथाशास्त्रानुसन्धानं ज्ञानं तु हरिसंश्रयमि’ति च ॥ २४ ॥

पदरत्नावली

गुणनिमित्तकर्मभेदं निरूप्य ज्ञानभेदमाह– कैवल्यमिति । कैवल्यं यथा शास्त्रे प्रतिपादितं तत्वं तद्विषयज्ञानं केवलमेव कैवल्यं ज्ञानं सात्विकम् । अग्निहोत्रादिकर्मनिष्ठम् । प्राकृतं बहिर्मुखजनप्रियविषयकम् । निर्गुणं मुक्तिसाधनम् । तदुक्तम् ‘‘नैर्गुण्यसाधनं यत् तन्निर्गुणं परिकीर्तितम्’’ इति । ‘‘यथा शास्त्रोक्तविज्ञानं केवलं ज्ञानमुच्यते । स्वदृष्टशास्त्रानुकूल्याददृष्टानां च भक्तितः । गुणानां तु हरौ भावं विनिश्चित्य तदाश्रयात् । यथा शास्त्रानुसन्धानं ज्ञानं च हरिसंश्रयम्’’ इति च ॥ २४ ॥

श्रीनिवासतीर्थीया

केवलं ज्ञानं सात्त्विकं वैकल्पिकं ज्ञानमिदमदो वेति सन्देहरूपं ज्ञानं राजसम् । प्राकृतं ज्ञानम् । मिथ्याज्ञानमिति यावत् । मन्निष्ठं ज्ञानं निर्गुणं मोक्ष-साधनमित्यर्थः । अत्र केवलं ज्ञानं नाम किम् । मन्निष्ठं ज्ञानं किमित्यतः प्रमाणेन विविच्य दर्शयति ॥ यथेति । स्वेन यच्छास्त्रं श्रुतमस्ति तदुक्तप्रकारेणैवोहापोहं विना यज्ज्ञानं तत्केवलं ज्ञानमुच्यत इत्यर्थः । मन्निष्ठमित्युक्तहरिविषयकज्ञानस्वरूपमाह ॥ स्वदृष्टेति । स्वेन यदृगादिशास्त्रं दृष्टं तदानुकूल्यात्तदविरोधेनैतदाश्रयात्स्वदृष्टशास्त्रोक्तन्यायमाश्रित्यादृष्टाना-मपि गुणानां हरौ भावं सद्भावं विनिश्चित्य यथावत्सर्वशास्त्रार्थानुसन्धानं हरिसंश्रयं ज्ञान-मुच्यत इत्यर्थः । मद्दृष्टशास्त्रेष्वेवेतरशास्त्रेष्वपि हरिगुणा एतन्न्यायेनैव प्रतिपादिताः सन्ती-त्यूहापोहेन विचारो मन्निष्ठं च ज्ञानं तन्निर्गुणं ज्ञानं मोक्षसाधनं मोक्षसाधनभूतं ज्ञानमित्यर्थः

॥ २४ ॥

प्रमेयचन्द्रिका

कैवल्यमिति श्लोके कैवल्यपदस्य मोक्षसाधकत्वात्कैवल्यसाधनज्ञानं च कैवल्यम् । तादृशं ज्ञानं सात्विकमित्युक्त्वाऽऽत्मनिष्टं मद्विषयं ज्ञानं निर्गुणं गुणातीत-मिति विरोध इत्यतो निर्गुणमित्यस्य गुणातीतमिति नार्थः । येन विरोधः स्यादित्याशये-नार्थान्तरं प्रमाणेनाह ॥ नैर्गुण्येति ॥ नैर्गुण्यं मोक्षः ।

तर्हि कैवल्यपदेन पुनरुक्तिरित्यतस् तस्य पदस्यार्थमाह ॥ यथेति ॥ वेदादिशास्त्रे यथा भगवन्मत्यादिकमुक्तं तथा विज्ञानं विशिष्टज्ञानं केवलं शास्त्रतात्पर्यगोचरार्थज्ञानत्वादेव कैवल्यमित्युच्यते । न मोक्षसाधनताविवक्षया । अतो न पुनरुक्तिरिति भावः । ननु तथापि पुनरुक्तिरेव । कैवल्यपदोदितज्ञानस्यापि वस्तुतो भगवद्विषयत्वात् । मन्निष्टमित्यस्यापि मद्विषयमित्यर्थकत्वात् । आर्थिकपुनरुक्तेरदोषत्वपक्षेऽपि केवलस्य ज्ञानस्यापि भगवन्निष्टत्वेन वस्तुतो मुक्तिहेतुत्वेन निर्गुणमित्युक्तज्ञानस्यैव विशिष्य मन्निष्टत्वोक्तिरयुक्तेत्यत आह ॥ स्वदृष्टेति ॥ स्वदृष्टं यावच्छास्त्रं तदानुकूल्यात् । स्वाभ्यस्तशास्त्रे स्वेन यावन्तो गुणा दृष्टा-स्तदनुकूलतयेति यावत् । स्वेनादृष्टानां गुणानां हरौ सद्भावं निश्चित्यैतदाश्रयात् । सामान्यतः स्वेनाविदितशङ्काविशेषेष्वपि निश्चितभगवद्गुणावलम्बनाद्यथा शास्त्रानुसन्धानं स्वाभ्यस्तशास्त्रार्थतया अनभ्यस्तशास्त्रे च प्रतिभाबलेन विशेषतो गुणानुसन्धानरूपं ज्ञानं तु विशेषाकारेण हरिसंश्रयं मन्निष्टं ज्ञानमित्युच्यत इत्यर्थः ।

एतदुक्तं भवति । केवलमित्युक्तं ज्ञानमपि भगवद्विषयतया तन्निष्टमेव । परं तु स्वदृष्ट-शास्त्रे स्पष्टप्रतीतार्थमात्रगोचरमेव । मन्निष्टमित्युक्तं तु स्वदृष्टशास्त्रार्थभूतगुणावलम्बनेन प्राप्त-प्रतिभोत्कर्षेणाश्रुतार्थावगाहि वेदं विनाऽप्यनुभवाज्जानन्तस्त्यक्तवैदिका इत्युक्तन्यायेन प्राप्तं ज्ञानम् । तथावान्तरभेदान्मानुषादिनिष्टस्य केवलाख्यज्ञानस्य मोक्षसाधनत्वेऽपि ऋषीन् राज्ञ-स्तथारभ्य प्रतिभाभ्यधिकाक्रमादित्युक्तस्योत्तमाधिकारिनिष्टस्य प्रतिभाज्ञानस्याप्यधिकमोक्ष-हेतुत्वान्निर्गुणमिति विशिष्य मोक्षहेतुत्वोक्तिर्युज्यत इति ॥ २४ ॥

वनं तु सात्विको वासो ग्रामो राजस उच्यते ।

तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ २५ ॥

पदरत्नावली

इदानी गुणनिमित्तं क्षेत्रभेदमाह– वनमिति । मन्निकेतं मदाश्रयं देवालयादि

॥ २५ ॥

श्रीनिवासतीर्थीया

सात्त्विकावासो वनं वनवासः । सात्त्विक इति यावत् । एवमुत्तरत्र । मन्निकेतं ममाश्रयभूतं यद्देवालयादि तत्र वासो निर्गुणवासो मोक्षसाधनभूतवास इत्यर्थः ॥ २५ ॥

प्रमेयचन्द्रिका

मूले वसत्यत्रेति वासः स्थानम् । वनं सात्विकं स्थानमित्यादि-रर्थः । मन्निकेतं मदाश्रयदेवालयादिकम् । मेर्वादिस्थानमित्यप्याहुः । अत्र निर्गुणमित्यादे-र्व्यवधानं विना मोक्षसाधनमित्यर्थः ॥ २५ ॥

सात्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।

तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥ २६ ॥

पदरत्नावली

इदानी कर्तृभेदमाह– सात्विक इति । असङ्गी कारकः कर्ता निष्कामत्वेन कर्मणां कर्तेत्यर्थः । स्मृतिविभ्रष्टः श्रुत्याद्यविहितकारित्वेन सत्कर्मणः स्रस्तः । निर्गुणो मोक्षगामी

॥ २६ ॥

श्रीनिवासतीर्थीया

असङ्गी कारको विषयासक्तिशून्यः कर्ता सात्त्विकः । स्मृतिविभ्रष्टः शास्त्रार्थस्मरणशून्यः । मदपाश्रयकारको निर्गुणकारको मोक्षभागी कर्तेत्यर्थः

॥ २६ ॥

प्रमेयचन्द्रिका

यो असङ्गः । सङ्गः स्नेह इति गीतातात्पर्योक्तेः कर्मफलेष्वैहिका-मुष्मिकविषयेषु स्नेहरहितः । कारकः कर्त्ता । सात्विक इत्यादि योज्यम् । स्मृतिविभ्रष्टे-त्यत्रोपलक्षणतया श्रुतिस्मृतिविहितकर्मभ्रंशवान् कर्त्ता तामस इत्यर्थः । वर्णाश्रमाचारस्य प्रायेण स्मृतिगतत्वादत्र स्ववचनेन स्मृतिग्रहणम् । मदेकसंश्रय एकान्ती निर्गुणकर्त्तेत्यर्थः

॥ २६ ॥

सात्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।

तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥

तात्पर्यम्

‘श्रुतशास्त्रानुसारेण या श्रद्धा परमात्मनि । सा सात्विकी तदन्य-स्याप्यनुसारेण निर्गुणा । अश्रुत्वाऽपि प्रमाणं यो वासुदेवैकसंश्रयः । स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिरि’ति च ॥ २७ ॥

पदरत्नावली

श्रद्धाभेदमाह– सात्विकीति । आध्यात्मिकी यथाश्रुतशास्त्रविषया । ‘‘श्रुतशास्त्रानुसारेण या श्रद्धा परमात्मनि । सा सात्विकी तदन्यस्याप्यनुसारेण निर्गुणा । अश्रुत्वापि प्रमाणं यो वासुदेवैकसंश्रयः । स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिः’’ इति स्मृतेः । श्रुतशास्त्रार्थ-श्रद्धावत् तदनुसारेणाश्रुतशास्त्रार्थेषु तदुक्तप्रकारेण मत्सेवायां मत्सेवार्थं या श्रद्धा सा निर्गुणा । तदन्यस्याप्यनुसारेण निर्गुणेत्युक्तेः ॥ २७ ॥

श्रीनिवासतीर्थीया

मत्सेवायां या श्रद्धा सा निर्गुणा श्रद्धा मोक्षसाधनभूता । ननु सात्त्विकश्रद्धाया अपि निर्गुणश्रद्धात्वात्कथमेतदित्यतस्तदुभयभेदं प्रमाणेनाह ॥ श्रुतेति । तदन्यस्यानुसारेणेति । श्रुतशास्त्रभिन्नस्य स्वभावस्यानुसारेण शास्त्रश्रवणं विना स्वभावत एव या परमात्मनि श्रद्धा सा निर्गुणेत्यर्थः । ननु सात्त्विककारकनिर्गुणकारकयोश्च को भेद इत्यत आह ॥ अश्रुत्वाऽपीति । प्रमाणम् अश्रुत्वा यो वासुदेवैकसंश्रयः स सात्त्विको भागवत इत्यादौ ग्राह्यम् ॥ २७ ॥

प्रमेयचन्द्रिका

सात्विकीति श्लोके आध्यात्मिकी देहेन्द्रियादिविषयिणी श्रद्धा सात्विकीति भाति । न च सा युक्ता । अस्याः श्रद्धाया राजसादिसाधारणत्वात् । अधिक आत्मा विष्णुस्तत्सम्बन्धिनीति स्वीकारे मत्सेवायामिति पुनरुक्तिरित्यतः प्रमाणेन व्याचष्टे ॥ श्रुतेति ॥ तदन्यस्य श्रुतादन्यस्याश्रुतस्यापि शास्त्रानुसारेण स्वप्रतिभतयैवेति यावत् । अवगतभगवद्गुणादिविषयिणी श्रद्धा निर्गुणेत्यर्थः । श्रद्धाद्वयस्यापि भगवद्विषयत्वेऽपि द्वेधोक्तेर्न पुनरुक्त्यादिदोष इति भावः ॥

सात्विक इति पूर्वश्लोके विषयसङ्गरहितस्य कर्त्तुः सात्विकत्वमुच्यते । सोऽपि हरिमाश्रित एव अन्यथा सङ्गतित्वायोगात् । निर्गुणो मदपाश्रय इत्यत्रापि विषयसङ्गं विना केवलभगवदाश्रयस्य कर्त्तुर्निगुणत्वमुच्यत इत्यनयोः शब्दमात्रभेदो नाभेद इत्यत आह ॥ अश्रुत्वाऽपीति ॥ यः प्रमाणं शास्त्रमश्रुत्वाऽपि प्राक् श्रुतशास्त्रानुसारेण प्राप्तप्रतिभाबलेनैव भगवदुत्कर्षं ज्ञात्वा वासुदेवैकान्तभक्तः सः भागवतः कर्त्ता निर्गुण इत्यर्थः । उदाहृतप्रमाणेन तथा भानात्पूर्वश्लोकार्थस्य पश्चादुक्तिर्न दोषायेति ज्ञेयम् । सात्विकनिर्गुणयोरुभयोरपि असङ्गित्वादौ विद्यमानेऽपि भगवदाश्रयत्वे अवान्तरभेदादर्थभेद इति भावः ॥ २७ ॥

पथ्यं युक्तमनायस्तमाहार्यं सात्विकं स्मृतम् ।

राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥ २८ ॥

पदरत्नावली

आहारभेदमाह– पथ्यमिति । अनायस्तमक्लिष्टम् । इन्द्रियप्रेष्ठ-मिन्द्रिय-प्रीतिकरम् । आर्तिदं चाशुचि च ॥ २८ ॥

श्रीनिवासतीर्थीया

अनायस्तमायासेन क्लेशेनाप्राप्तमक्लिष्टमित्यर्थः । आहार्यमाहार-विषयमन्नादीत्यर्थः । आहार एवाहार्यमिति वा । इन्द्रियप्रेष्ठमिन्द्रियप्रीतिकरम् । आर्तिदं च तदशुचि च ॥ २८ ॥

प्रमेयचन्द्रिका

मूले अनायस्तं कट्वाम्लादिना भोक्तुरायासप्रदम् । आहार्यं भोज्यम् । इन्द्रियप्रेष्टं तात्कालिकेन्द्रियप्रीतिकरम् । आर्तिदाशुचि व्याध्याद्यार्त्तिप्रदमशुचि चेति कर्मधारयः ॥ २८ ॥

सात्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।

तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥

तात्पर्यम्

‘परोक्षज्ञानमात्मोत्थमापरोक्ष्येण दर्शनम् । विष्ण्वाश्रयं सुखं नित्यं गमयेत्तत्प्रसादतः । न तु विष्णोः स्वरूपं तु सुखं केनचिदाप्यते । तस्यैव विषयत्वात्तु तत्सुखं चेति भण्यते । परोक्षज्ञानगो यस्माद्विषयः स्वमनोगतः । अत आत्मोत्थमित्येव सुखमाहुर्विपश्चित’ इति च ॥ २९ ॥

पदरत्नावली

सुखभेदमाह– सात्विकमिति । आत्मोत्थं परोक्षज्ञानं शास्त्रश्रवणसञ्जातं यत् तस्मादात्मनो मतेर्ज्ञानादुत्थं सुखं सात्विकम् । परोक्षज्ञानमात्मोत्थमित्यादेः । मदपाश्रयं मदपरोक्षज्ञानजन्यसुखं निर्गुणम् । ‘‘अपरोक्षेण दर्शनम् । विष्ण्वाश्रयं सुखं नित्यं गमयेत् तत्प्रसादतः’’ इति । भगवतः स्वरूपसुखमिदं नेत्यतो मदपाश्रयमित्युक्तम् । ‘‘न तु विष्णोः स्वरूपं तु सुखं केनचिदाप्यते । तस्यैव विषयत्वात्तु तत्सुखं चेति भण्यते । परोक्षज्ञानगो यस्माद् विषयः स्वमनोगतः । अत आत्मेत्थमित्येव सुखमाहुर्विपश्चितः’’ इति च ॥ २९ ॥

श्रीनिवासतीर्थीया

मदपाश्रयं सुखं निर्वाणसुखम् । किमात्मोत्थं सुखं किं च मदपाश्रयं सुखमित्यतस्तयोर्भेदं प्रमाणेनाह ॥ परोक्षमिति । परोक्षज्ञानमात्मोत्थं सुखं जीवं गमयेत्प्रापयेत् । आपरोक्ष्येण दर्शनं विष्ण्वाश्रयं सुखं गमयेत् । अनेन निर्गुणमित्य-स्यापरोक्षज्ञानजन्यं सुखमित्यर्थः । विष्ण्वाश्रयमित्युक्त्या भगवदाश्रितं सुखमस्य भवतीति न मन्तव्यमित्याह ॥ न त्विति । तर्हि मदपाश्रयमिति विष्ण्वाश्रयत्वं कथमस्य सुखस्योच्यत इत्यत आह ॥ तस्यैवेति । विष्णोरेव । तत्सुखं तदाश्रयं सुखम् । अपरोक्षज्ञाने । तथा च तद्विषयकापरोक्षज्ञानजन्यत्वात्सुखं तदाश्रयमित्युच्यत इत्यर्थः । नन्वपरोक्षज्ञानेन जायमानं सुखं मदपाश्रयमिति सङ्गच्छते । परोक्षज्ञानजन्यसुखं कथमात्मोत्थं स्यादित्यत-स्तदुपपादयति ॥ परोक्षेति । परोक्षज्ञानगो विषयः स्वमनोगतो भवत्यत आत्मोत्थपरोक्षतः परमात्मादिरूपे विषये ज्ञाते सति पश्चात्स विषयो मनसि लग्नो भवति तेन कृत्वा किञ्चि-त्सुखं जायते तदात्मोत्थं सुखम् । तथा चात्मशब्दो मनोवाची । परोक्षज्ञानविषय-विषयकमनोजन्यं यज्जीवस्य सुखं तदात्मोत्थं सुखमित्यर्थो द्रष्टव्यः ॥ २९ ॥

प्रमेयचन्द्रिका

सात्विकमिति श्लोके आत्मनि जीवे उत्थितं सुखं सात्विकमिति भाति । तदयुक्तम् । चैतन्ये उत्थितस्य सत्वगुणकार्यत्वायोगात् । मदपाश्रयं मद्धर्मभूतं सुखं निर्गुणमिति विष्णुस्वरूपसुखनिरूपणमसङ्गतम् । ज्ञानिसुखनिरूपणावसरे तस्याप्रसक्तत्वात् । अतः प्रमाणेन व्याचष्टे ॥ परोक्षेति ॥ श्रवणादिजनितभगवद्विषयकपरोक्षज्ञानमात्मोत्थं मनसोदितं सुखं गमयेत् । विष्णोरापरोक्ष्येण दर्शनं तु विष्ण्वाश्रयं विष्णुना प्रापितम् । सुखं तस्य हरेः प्रसादतो नित्यं गमयेत् । भगवत्स्थितं सुखं निर्गुणमिति प्रतीत एवार्थः किं न स्यादित्यत आह ॥ न त्विति ॥ जीवस्यानुभव विषयं सुखमिह विवक्षितमित्यर्थः । तर्हि मदपाश्रयमिति भगवदाश्रयत्वोक्तिः कथमित्यत आह ॥ तस्येति ॥ विषयानुभवो हि सुखहेतुः । ततश्च तस्य हरेरेव सुखापादकविषयरूपत्वात्तदपरोक्षज्ञानलभ्यं तत्सुखं तदाश्रय-मिति भण्यत इत्यर्थः ।

तर्हि परोक्षज्ञानजं सुखमपि भगवदनुभवेनैव जातमिति तस्यात्मोत्थत्वमनुक्त्वा विशिष्यापरोक्षज्ञानजन्यसुखस्यैव मदपाश्रयमित्युक्तिरयुक्तेत्यत आह ॥ परोक्षेति ॥ यस्माच्छ्रवणादिजनितेन परोक्षज्ञानेन भवद्यत्सुखं तस्य प्रापको विषयः परोक्षज्ञानगोचरः । अतः परोक्षतया मनोगतः । बुद्धिस्थः । अतः कारणात्तेन परोक्षतया गतो गतेन हरिरूपेण विषयेण जायमानं सुखमात्मोत्थम् । मनःसमुत्थमिति ज्ञानिन आहुरित्यर्थः ।

अयं भावः ॥ लोके क्वचिदपरोक्षतो विषयानुभवेन सुखं जायते । यथा शुभगन्ध-रसादिसाक्षात्कारेण । क्वचित्परोक्षज्ञानेनैव यथा पुत्रस्ते जात इति शब्दज्ञानेन । तत्राद्ये पुरतो दृष्टो विषयः सुखहेतुः । न तु तस्य बुद्धिस्थितापेक्षिता । द्वितीये बुद्धिस्थो विषयः सुखहेतुः प्रसिद्धः । प्रकृते चापरोक्षज्ञानसमुत्थे सुखे पुरस्थितो हरिः सुखजनकविषयरूप अतः सुखं मदपाश्रयमित्युच्यते । परोक्षज्ञानजन्ये सुखे तु श्रवणादिना बुद्धिस्थो हरिः सुखप्रापको विषय इति हरेर्मनोगतत्वेनैव सुखहेतुत्वात्तत्सुखमात्मोत्थं मनःप्रापितमित्युच्यत इति । अत्र सर्वत्र निर्गुणोक्तिः परमसात्विकत्वज्ञापनाय वा त्रिगुणातीतजीवोत्तमस्थिति-सूचनाय वेति ज्ञेयम् ॥ २९ ॥

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।

श्रद्धाऽवस्था कृतिर्निष्ठा त्रैगुण्याः सर्व एव हि ॥ ३० ॥

पदरत्नावली

किं बहुना सर्वे पदार्थास्त्रिगुणसम्बन्धेन त्रिविधा इत्याह– द्रव्यमिति । फलं स्वर्गादि । कालः प्रातरादिः । अवस्था जाग्रदादिलक्षणा । कृतिः क्रिया । निष्ठा व्रतम् ॥३०॥

श्रीनिवासतीर्थीया

निष्ठा व्रतम् । त्रैगुण्यास्त्रिगुणकार्यभूताः ॥ ३० ॥

प्रमेयचन्द्रिका

गुणतस् त्रैविध्यं सर्वसङ्ग्रहेणोच्यते ॥ द्रव्यमिति ॥ कर्मादृष्टं, कृतिः क्रिया । निष्ठा व्यवस्था । कारकः कर्त्ता । कारणकलापो वा ॥ ३० ॥

सर्वे गुणमया भावा पुरुषाव्यक्तनिष्ठिताः ।

दृष्टं श्रुतमनुध्यायेद् बुध्या वा पुरुषर्षभ ॥ ३१ ॥

तात्पर्यम्

दृष्टं श्रुतं बुद्ध्या दृष्टं चानु परं ब्रह्म ध्यायेत् ॥

‘सत्वाद्गुणाज्जातमपि व्यवधानं विनैव तु । मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्विकमि’ति ब्राह्मे ॥ ३१ ॥

॥ इति एकादशतात्पर्ये पञ्चविंशोऽध्यायः ॥ २५ ॥

पदरत्नावली

तदेव विवृणोति सर्व इति । पुरुषेण विष्णुना अव्यक्तेन श्रिया स्वयं निष्ठिता व्यवस्थापिताः । सत्वादिकृतसंसारजयोपायमाह– दृष्टमिति । वाशब्दश्चार्थे । शास्त्रेण श्रुतं बुध्या च शास्त्रार्थरूपेण दृष्टं च परं ब्रह्मानुध्यायेन्निरन्तरं स्मरेत् ॥ ३१ ॥

श्रीनिवासतीर्थीया

न केवलं पुरुषाव्यक्तशब्दवाच्यब्रह्मसरस्वतीभ्यामधिष्ठिताः किं त्वित्यत आह ॥ दृष्टमिति । अत्र बुद्ध्येत्यनन्वितं बुद्ध्या श्रुतमित्ययोगात् । अतोऽन्वयं दर्शयति ॥ दृष्टमिति । तथा च चक्षुषा यद्दृष्टं श्रोत्रेण यच्छ्रुतं बुद्ध्या च यद्दृष्टं विषयीकृतं तदनु परं ब्रह्म ध्यायेत् । तत्र सर्वत्र हरिः सन्निहितोऽस्तीति ध्यायेदित्यर्थः । ननु निर्गुण-ज्ञानस्य निर्गुणवासस्य निर्गुणकारकस्य निर्गुणश्रद्धाया निर्गुणसुखस्य च सत्त्वगुणजन्यत्वा-त्सात्त्विकं निर्गुणमिति भेदेनोक्तिः कथमित्यत आह ॥ सत्त्वादिति । व्यवधानं विना साक्षात् । यतो मुक्तिदमतो निर्गुणं प्रोक्तमित्यर्थः। मदपाश्रयं ज्ञानादिकं तु तादृशमिति निर्गुणमित्युच्यत इत्यर्थः । व्यवधानेन परंपरया यन्मुक्तिदं तत्सात्त्विकं प्रोक्तम् । तादृशं च केवलज्ञानादिकमतः सात्त्विकमित्युच्यत इत्यर्थः ॥ ३१ ॥

प्रमेयचन्द्रिका

यदर्थमिदं गुणतो विभागनिरूपणं तदिदानीमुक्तविवरणपूर्वकमुच्यते ॥ सर्व इति ॥ उक्तास्तदन्ये च भावाः पदार्था गुणमयाः । ते सर्वे पुरुषाव्यक्ताभ्यां निष्ठिता व्यवस्थापिताः । पुरुषो विष्णुर्विरिंचश्च अव्यक्तं महालक्ष्मी वाणी च । सत्वादिगुणकृतसंसार-जयोपाय उच्यते ॥ दृष्टमिति ॥ अत्र दृष्टादिकं जगत्तत्तदनुध्यायेदित्यन्यथाभानादन्वयप्रदर्शन-पूर्वकमध्याहारेण योजयति ॥ श्रुतमिति ॥ श्रुतं शास्त्रश्रवणतो ज्ञानं बुध्या प्रतिभारूपया दृष्टं विषयीकृतम् । परं ब्रह्मानुयोगानुसारेण ध्यायेदिति मूलयोजनेत्यर्थः । नीचोत्तमाधिकारि-विवक्षया श्रुतं दृष्टमिति द्वेधोक्तिः ।

ननु मन्निष्टं निर्गुणमित्युत्तमाधिकारिज्ञानं मन्निर्गुणमित्युक्तमयुक्तम् । गीतातात्पर्ये सात्विकाः सात्विका देवा इत्युक्त्वा सत्वसत्वमहासत्वसूक्ष्मसत्वश्चतुर्मुख इति ब्रह्मांशावपि ब्रह्मांशयोरपि सत्वगुणसद्भावोक्तेरित्याशङ्कां प्रमाणेन परिहरति ॥ सत्वादिति ॥ अपि यद्यपि मन्निष्ठमित्युक्तं प्रातिभज्ञानमपि सत्वाद्गुणाज्जातम् । तथापि पुनः मननध्यानादि-साध्यान्तरव्यवधानं विनैव तु यस्मान्मुक्तिदं तस्मात्तत्सात्विकमपि साक्षान्नैर्गुण्यसाधनत्वा-त्तन्निर्गुणं प्रोक्तम् । कैवल्यमित्युक्तं तु यथा शास्त्रोक्तविज्ञानं तु पुनर्मननादिसाधनान्तर-व्यवधानेनैव मुक्तिदं न तु स्वतो नैर्गुण्यसाधनम् । अतः सात्विकमित्येव प्रोक्तमित्यर्थः

॥ ३१ ॥

एताः संसृतयः पुंसां गुणकर्मनिबन्धनाः ।

येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः ।

भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ ३२ ॥

पदरत्नावली

अनेन ध्यानेन किं फलमत्राह– एता इति । एवमुपासकेन येन जीवने चित्तजाताः सत्वादिगुणा निर्जितास् तेन गुणकर्मनिबन्धनाः संसृतयश्च प्रागुक्ताः, निर्जिता भवन्तीति शेषः । ननु त्वत्प्राप्तिमन्तरेण संसृतिजयेन किम् । तत्राह– भक्तीति ॥ ३२ ॥

श्रीनिवासतीर्थीया

चित्तजाश्चित्ते व्यज्यमाना येन पुंसा भक्तियोगेन निर्जिताः स मन्निष्ठो मद्भावाय मद्वद्भावाय । चिदानन्दस्वरूपत्वभावाय प्रपद्यते कल्पत इत्यर्थः । जीवेन जीवशब्दवाच्यभगवत्प्रसादेन ॥ ३२ ॥

प्रमेयचन्द्रिका

मूले एवंविधगुणबन्धनिवृत्तिः कथमित्यतो बन्धनिरूपणपूर्वकं भक्ति-योग एव तन्निवर्तकमित्युच्यते ॥ एता इति ॥ एता अनुभूयमाना जननमरणगर्भवा-सनरकवासादिरूपाः संसृतयो गुणत्रयनिबन्धनाः । पुण्यापुण्यकर्मनिबन्धनाश्च । एतन्निवृ-त्युपाय उच्यत ॥ येनेति ॥ येन पुरुषेण चित्तजा गुणाश्चित्ते व्यज्यमानाः सत्वादिगुण-वृत्तिरूपाः कामादयो निर्जितास्तेनोक्तरूपाः संसृतयो निवृत्ता भवन्तीति शेषः । न तत्प्राप्तिमन्तरेण किं संसृतिजयेनेत्यत उक्तम् ॥ भक्तियोगेनेति ॥ मद्भावो मयि भावः । प्रपद्यते कल्पते ॥ ३२ ॥

सत्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्तधीः ।

सम्पद्यते गुणैर्मुक्तो जीवं जीवो विहाय माम् ॥ ३३ ॥

पदरत्नावली

मथितार्थमाह– तस्मादिति । ज्ञानविज्ञानयोः सम्भवो यस्मात् स तथा तम् । व्यवधानेन शास्त्रद्वारा जातं ज्ञानं परोक्षज्ञानम्, अपरोक्षेण जातं निर्गुणमिति सङ्गिरन्ते । ‘‘सत्वाद् गुणाज्जातमपि व्यवधानं विनैव तु । मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्विकम्’’ इत्युक्तेः । यतः संसारमोक्षो मद्भावस्तस्मान्मानुषं देहं लब्ध्वा सर्वोत्तमं मां विज्ञाय ब्रह्मणा सर्वगुणपूर्णेन मयैव पूर्णश्चरितार्थो ना पुरुषो बहिर्विषयेषु न चरेत् । आन्तर एव इन्द्रियैः प्रत्यगात्मविषयत्वेनैव चरेदित्यर्थः । संसारस्यान्तत्वादन्तोऽहं तस्मिन् मयि रतो भूत्वेति वा । अन्तरश्छिद्र इन्द्रियव्याजी न चरेन् न स्यादिति वा । अन्तो व्यवसिते मृत्यौ स्वभावे परमात्मनीत्यन्तरो मां विना (?) न चरेदिति वा ॥ ३३ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य पञ्चविंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

त्रिगुणसम्बन्धाभावस्यैव मुक्तित्वात्सत्त्वसम्बन्धोऽपि कदाऽपै-तीत्यत आह ॥ सत्त्वं चेति । नैरपेक्ष्येण तदादिसाधनजातेन जाता या शान्तधीः शान्तो हरिः सुखमर्यादाभूमित्वात्तद्विषयिणी या धीस्तद्वान्मदपरोक्षज्ञानवान्सत्त्वं जयतीत्यर्थः । जीवं मां प्राणधारकं माम् । जीवो विनयिता साक्षीति हरेर्जीवशब्दवाच्यत्वात् ॥ ३३ ॥

तस्माद् देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ।

मयैव ब्रह्मणा पूर्णो न बहिर्नाऽन्तरश्चरेत् ॥ ३४ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे पञ्चविंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् । मयैव ब्रह्मणेत्येव पाठः । ज्ञानविज्ञानसम्भवमित्यनन्तरं गुणसङ्गं विनिर्धूयेत्यादिरधिकपाठः श्रीधरकल्पित इत्याहुः । उपसंहरति ॥ तस्मादिति । ज्ञानविज्ञानयोः सम्भवो यस्मात्स तथोक्तः । तादृशमिमं देहं लब्ध्वा मामेव । विज्ञायेति शेषः । विज्ञातेन ब्रह्मणा मयैव पूर्णश्चरितार्थो ना पुरुषो बहिर्विषयेषु न चरेत् । किं त्वन्तरे चरेत् । प्रत्यगात्मविषयकेन्द्रियैरेव चरेत् । इन्द्रियाणि तद्विषयकाण्येव चरेदिति यावत् ॥ ३४ ॥

॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे पञ्चविशोऽध्यायः ॥ ११–२५ ॥

प्रमेयचन्द्रिका

मथितोऽर्थ उच्यते ॥ तस्मादिति ॥ यस्माद्भक्तियोगेन भगवन्निष्ठ-स्यैव मोक्षस्तस्माद्विज्ञानमात्मयोग्यं स्याज् ज्ञानं साधारणं स्मृतमित्युक्तयोर्ज्ञानविज्ञानयोः सम्भवो यस्मात्तमिमं देहं लब्ध्वा ब्रह्मणा परिपूर्णेन ज्ञातेन मया पूर्णस्तृप्तः सन्ना पुरुषः । बहिर्विषुयेषु न चरेत् । किं त्वन्तरः । अन्तर अन्तःस्थित्वा रमणकर्तरि प्रत्यगात्मनि बिम्बरूपे हरावेव चरेत् । मनसेति शेषः । अन्तःस्थिते हरौ रमणवान्भवेदिति वा । यद्वा अन्तरो ऽन्तर्विद्यमानेषु मनोरथेष्वपि न चरेदिति । अस्मिन्पक्षे कर्तृवाचकपदाध्याहरः कार्यः ॥ ३४ ॥

श्रीमद्भागवततात्पर्ये देवैरपि सुदुर्गमे ।

कोऽन्यः क्षमोऽर्थविज्ञाने किंम्वहं नृषु मन्दधीः ॥

॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां पञ्चविंशोऽध्यायः ॥