२४ चतुर्विंशोऽध्यायः

अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वविनिश्चितम्

॥ अथ चतुर्विंशोऽध्यायः ॥

श्रीभगवानुवाच–

अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वविनिश्चितम् ।

यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं मलम् ॥ १ ॥

पदरत्नावली

सृष्ट्यादियाथार्थ्यज्ञानं मिथ्याज्ञाननिवर्तकमिति कथयत्यस्मिन्नध्याये । तत्र व्यर्थोऽपि नैवोपरमेतेत्युक्तविकल्पनिवर्तकोपायः क इत्युद्धवस्य हार्दशङ्कां परिहर्तुकाम आह– अथेति । साङ्ख्यं यथार्थज्ञानम् पूर्वैः पुरातनैः । विकल्पनिवर्तकत्वेन निश्चितम् ॥ १ ॥

श्रीनिवासतीर्थीया

प्रमेयान्तरं वक्तुं भगवान्प्रतिजानीते ॥ अथेति । साङ्ख्यं ज्ञानसाधनीभूतसाङ्ख्यशास्त्रोक्तं प्रमेयं पूर्वैः पुरातनैर्भ्रमनिवर्तकतया निश्चितं निश्चयेन ज्ञातं यत्साङ्ख्यं वैकल्पिकं विकल्प एव वैकल्पिकस्तं विकल्पशब्दवाच्यं भ्रमम् ॥ १ ॥

प्रमेयचन्द्रिका

व्यर्थोऽपि नैवोपरमेतेत्युक्तविकल्पनिवर्तनोपायः क इत्युद्धवहार्दशङ्कां परिहर्तुकामेन भगवतोच्यते ॥ अथेति ॥ साङ्ख्यं ज्ञानम् । पूर्वैर्ज्ञानिभिर्विकल्पाख्य-मिथ्याज्ञाननिवर्तकतया निश्चितम् । तद्विवरणं यद्विज्ञायेति ॥ १ ॥

आसीज्ज्ञानमथो ह्यर्थश्चैकमेवाविकल्पितम् ।

यदा विवेकनिपुणा आदौ कृतयुगे जनाः ॥ २ ॥

तात्पर्यम्

‘यथैवार्थस्तथा ज्ञानं ज्ञानार्थैक्यमुदाहृतम् । तथा कृतयुगे प्रायस्तदन्येषु तु कस्यचिदि’ति ब्रह्मतर्के ॥ २ ॥

पदरत्नावली

ननु विकल्पे सति तद्धानाय साङ्ख्यवचनप्रतिज्ञानं सङ्गच्छते, स एव न सम्भवति । तथाहि । किमुत्पुत्तिप्रभृति साङ्ख्यं विकल्पितमुतान्तराले । नाद्यः । स्वभावस्य निवृत्त्यनुपपत्तेरिति तत्राह– आसीदिति । अथो आरम्भे सृष्टिसमये ज्ञानमर्थश्चैकमेव यथैवार्थो विषयस्तथैव ज्ञानं विषयमनतिक्रम्य वर्तमानमासीत् । किमनेनोक्तं भवतीत्यत्राह– अकल्पितमिति । संशयविपर्ययाविषयत्वमुक्तं भवति । कस्मिन् काल इदमुत्पन्नमत्राह– कृतयुग इति । तत्रापि कदेत्यत उक्तम् आदाविति । संशयाद्यन्यथाभावः कस्मान्नाभूदिति तत्राह– यदेति । कृतयुगमारभ्य त्रेतायुगपर्यन्तं जना विवेकनिपुणा इति यदा यस्मात्, तस्मादिति शेषः । पुरुषबुद्धिदौर्बल्यनिमित्तं ज्ञानस्यान्यथात्वं सात्विकत्वेन तदानीन्तनानां तदभावादेकप्रकारमेव ज्ञानमिति भावः । अथाथोऽनन्तराप्यर्थे विकल्पारम्भमङ्गल इति यादवः । ‘‘यथैवार्थस्तथा ज्ञानं ज्ञानार्थैक्यमुदाहृतम् । तथा कृतयुगे प्रायस्तदन्येषु तु कुत्रचित्’’ इति वाक्येन विज्ञानवादिमतमत्रोच्यत इति निरस्तम्

॥ २ ॥

श्रीनिवासतीर्थीया

प्रतिज्ञातमाह ॥ आसीदित्यादिना । अथैवं प्रतिज्ञानन्तरं तत्प्रमेयं कथ्यत इत्यर्थः । आदौ कृतयुगे ज्ञानमर्थश्चेत्युभयमेकमेवासीदित्युक्तं तदयुक्तम् । उभयोरैक्यायोगादित्यतस्तात्पर्यमाह ॥ यथैवेति । तथा तदर्थप्रतिपादकतया विद्यमानं ज्ञानं ज्ञायत इति व्युत्पत्त्या ज्ञानसाधनं शास्त्रं प्रसिद्धज्ञानं च ग्राह्यम् । एवमुत्तरत्रापि । एवं हि सति शब्दार्थकमिति वक्ष्यमाणं सङ्गच्छते । वेदादिशास्त्रं कृतयुगे यथाऽर्थोऽस्ति तथैव निश्चयेन ज्ञानमुत्पादयतीति भावः । ज्ञानार्थयोर्यथैवार्थस्तथा ज्ञानमिति सत्तया सादृश्य-मभिप्रेत्य सादृश्याभेदसंश्रयाज्ज्ञानार्थैक्यं मूले उदाहृतमित्यर्थः ॥ तथेति । ज्ञानार्थयोः सादृश्यमित्यर्थः । तदन्येषु युगेषु कस्यचिदेव पुंसो यथाऽर्थस्तथा ज्ञानं भवतीत्यर्थः । संशयविपर्ययावपि शास्त्राद्भवत इति यावत् । अनेन द्विधा समभवदित्यस्य तात्पर्यमुक्तं ज्ञातव्यम् । तथा च कृतयुगे ज्ञानं शास्त्रमर्थश्चैकमेवासीत् । कोऽर्थोऽविकल्पितं संशय-विपर्ययाजनकमासीत् । कोऽर्थो वेदादिशास्त्रं कृतयुगे यथाऽर्थोऽस्ति तथैव निश्चयेन ज्ञान-मुत्पादयतीति भावः । कुतः यत्रत्या जना विवेकनिपुणा उपक्रमादिना वेदार्थज्ञाने कुशला अत इत्यर्थः । यथोक्तम् । नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितमिति ॥ २ ॥

प्रमेयचन्द्रिका

विकल्पनिवृत्तये साङ्ख्यवचनं प्रतिज्ञातम् । स च विकल्पः कदा प्राप्तः केन वा संपादित इत्यत उच्यते सार्धश्लोकेन ॥ आसीदिति ॥ अत्र ज्ञानार्थयोरैक्य-कथनमयुक्तम् । नाभावोऽनुपलब्धेरिति सूत्रे ऐक्यस्य दूषितत्वादित्यतोऽत्र विवक्षितमर्थं प्रमाणेनाह ॥ यथैवेति ॥ अर्थो विषयो यथा वर्तते तथैव ज्ञानं तत्प्रकारमनतिक्रम्य वर्तमानं ज्ञानमिति यत्तद्ज्ञानार्थयोरैक्यमुदाहृतम् । एतेनाद्यार्धो व्याख्यातो भवति । द्वितीयार्धे कृतयुग इति विशेषग्रहणात् त्रेतादिषु यथार्थज्ञानं नेति भाति । तदयुक्तम् । त्रेतादिष्वपि ज्ञानिनां भावादित्यत आह ॥ तथेति ॥ तथा ज्ञानार्थयोरैक्येनावस्थितिः । कृते मिथ्याज्ञानिनां दैत्यनां सद्भावोऽप्यस्तीति सूचयति ॥ प्राय इति ॥ तदन्येषु त्रेताद्वापरकलियुगेषु तु कस्यचित्कस्यचिदेव । तथेत्यनुवर्तते । तथा यथैवार्थस्तथैव ज्ञानं क्रमात्तद्वत्सम्यज्ज्ञानप्राचुर्यं नास्तीत्यर्थः ॥ २ ॥

तन्मया फलरूपेण केवलेन विकल्पितम् ।

वाङ्मनोगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥

तात्पर्यम्

फलं रूपयतीति फलरूपः । ज्ञानार्थैक्येन सत्यं पश्चात्तद्द्विधा समभवत् । तच्छब्दार्थात्मकमुभयं बृहत्तरम् ॥ ३ ॥

पदरत्नावली

द्वितीये किं कारणमत्राह– तन्मयेति । तत् सत्यं ज्ञानार्थैक्येन मिथो विरोधराहित्येनाबाधितं ज्ञानं पश्चात् त्रेतायां द्विधा इदमदो वेति संशयमापन्नं समभवत् सञ्जातम् । तद् द्वापरादौ इदमेव नान्यदिति विपरीतप्रत्ययेन सम् अभिन्नमभवदित्यन्वयः । ‘‘समभेदे समीचिने सुष्ठुपूजासुखेषु च’’ इति । कालस्वभावयोः सदातनत्वेन सदा विकल्पसम्भवात्, चेतनस्यापि देवदत्ताद्यन्यतमस्याल्पबुद्धित्वेनानन्तवेदादिशब्दराश्यर्थस्यावगाढुमशक्यत्वेन कारणत्वानुपपत्तेस्तत्तद्योग्य-फलदानसमर्थेन वैषम्यादिदोषविधुरेण सर्वज्ञेन कारणेन भाव्यमिति भावेनाह– मयेति । फलं रूपयति हितं कारयतीति फलरूपः । तेन तामसादिजीवानां स्वस्वयोग्यतमआदिफलदात्रेत्यर्थः । केवलेन मया तथास्त्विति विकल्पितं तामसादिबुद्धिमनुसृत्य नानेव कल्पितम् । अनन्तशब्दराशिगोचरस्य बृहत्तरस्य दुर्ज्ञेयत्वेनाश्रद्धेयत्वं नेति भावेनोक्तं वागिति । शब्दो वाग्गोचरः, अर्थो मनोगोचर-स्ताभ्यामुत्पाद्यमानत्वेन च कल्पितमिति शेषः । यद्वा तच्छब्दार्थात्मकमुयं बृहत्तरमिति यस्मात् तस्माद् वाङ्मनसयोरगोचरत्वाच्च द्विधाऽभूदिति ॥ ३ ॥

श्रीनिवासतीर्थीया

त्रेतादौ नैवमित्याह ॥ तदिति । फलस्वरूपेणेत्यन्यथाप्रतीति-परिहाराय व्याचष्टे ॥ फलमिति । रूपयति निरूपयति । ददातीति यावत् । ज्ञानार्थयोः सत्यत्वमुपपादयति ॥ ज्ञानार्थैक्येनेति । मिथो विरोधराहित्येनाबाधितत्वेन निमित्तेन ज्ञानार्थयोः सत्यत्वमित्यर्थः । कृतयुग एतद्विधासमभवदित्यन्यथाप्रतीतिनिरासायाध्याहारेण योजयति ॥ पश्चादिति । त्रेतायामित्यर्थः । बृहदित्येतत्तदित्यस्य विशेषणमित्याशयेन तच्छब्दार्थं वदन् बृहच्छब्दार्थमप्याह ॥ तदिति । शब्दार्थात्मकमुभयं शब्दोऽर्थश्चेत्युभयं तच्छब्दवाच्यं बृहन्महत्तरमित्यर्थः । अनेनात्र सर्वत्र ज्ञानपदं शास्त्रपरमिति द्रष्टव्यम् । तथा च केवलेन जडामिश्रेण फलरूपेण फलदात्रा तादृशज्ञानमुत्पाद्य तदनुसारेण । फलं दातुमिति यावत् । मया सत्यं मिथो विरोधराहित्येनाबाधितं बृहन्महत्तरं वाङ्मनोऽगोचरं तत्ज्ञानमर्थ-श्चेत्युभयं विकल्पितं विविधकल्पनाविषयम् । तस्यैव विवरणम् ॥ द्विधेति । इदमदो वेति सन्दिग्धम् । अन्यदेवेति विपर्यस्तं चाभवदित्यर्थः । यथोक्तम् । किञ्चित्तदन्यथा जातं त्रेतायामित्यादि ॥ ३ ॥

प्रमेयचन्द्रिका

फलरूपेण मयेति भगवतो जीवभोग्यफलात्मकताभानादाह ॥ फलमिति ॥ रूपयति जनयति ।

मूलार्थस्तु आदौ ते सृष्टिसमये त एवादावादिकृतयुगे यदा यस्माद् विवेके विविच्यज्ञाने निपुणा आसन् । अथो इति समुच्चये । ज्ञानमर्थश्चेत्येतदेकमेवासीदित्यस्य विवरणम् ॥ अविकल्पितमिति ॥ विरुद्धकल्पनं नासीदित्यर्थः । तदेवंभूतं ज्ञानं त्रेतादिषु फलरूपेण फलदात्रा । केवलेन सर्वोत्तमेन मया विकल्पितं विकल्पतया विविधतया च कल्पितमिति । ज्ञानार्थाभिमानिस्वरूपनिरूपणपूर्वकं विकल्पितमित्येतद्विवरणं क्रियते वाङ्मनोगोचरमिति सार्धश्लोकेन । अत्र सत्यस्य द्वैविध्यकथनं कृतमसङ्गतमित्यत आह ॥ ज्ञानार्थैक्यमिति ॥ सत्यवेदनं प्रागुक्तम् । ज्ञानार्थैक्यमेवोच्यत इत्यर्थः । कृतयुगे द्वैविध्याभावादाह ॥ पश्चा-दिति ॥ नात्र कृतेयुगे द्वैविध्यमुच्यते । किं तु पश्चात् त्रेतादिषु ज्ञानार्थयोर्वैय्यधिकरण्यं प्राप्तमित्यत उच्यत इति नानुपपत्तिरिति भावः । तर्हि द्विधाभूतस्याहेयत्वात्तस्य बृहत्वोक्ति-रयुक्तेत्यतो नात्र ज्ञानार्थयोर्वैय्यधिकरण्यस्य बृहत्वमुच्यते । किं नाम कृतयुगे स्थितम् । सत्याभिधं ज्ञानार्थैक्यम् । पश्चात्तद्विधासमभवदित्येकं वाक्यम् । तत्सत्यं वाङ्मनसोरगोचरम् । बृहदित्यपरं वाक्यम् । तथा च सत्यस्यैव बृहत्वमुच्यते । अतो नायुक्ततेत्याशयेनाध्याहार-प्रदर्शनपूर्वकं व्याचष्टे ॥ तदिति ॥ अत्र मूले तदित्यध्याहार इति सूचितम् । तदर्थकथनम् ॥ शब्दार्थात्मकमिति ॥ बृहदित्यस्यातिबृहत्वमभिप्रेतमिति भावेनोक्तम् ॥ महत्तर-मिति ॥ अज्ञातार्थात्मकमिति वक्तव्ये शब्दार्थात्मकमित्युक्तिस्तु मुक्तिसाधनपरत्वज्ञानस्येहात्र श्रुतस्य हिशब्दादेवानन्यत्वाभिप्रायेण क्षणिकत्वेनेति ज्ञेयम् । एतेन सत्यं द्विधा समभवदित्यंशेन मूले विकल्पस्वरूपं निरूपितम् ॥ ३ ॥

तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।

ज्ञानं त्वन्यतमो भागः पुरुषः सोऽभिधीयते ॥ ४ ॥

तमो रजः सत्वमिति प्रकृतेरभवन् गुणाः ।

मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन वा ॥ ५ ॥

तेभ्यः समभवत् सूत्रं मत्सूत्रेण च संयुतम् ।

ततो विकुर्वतो जातो योऽहंकारो विमोहकः ॥ ६ ॥

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।

तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥

तात्पर्यम्

ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः । अर्थाभिमानी प्रकृतिर्गायत्री सा प्रकीर्तिता । तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता । वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत । त्रिगुणात्मा समुद्दिष्टः प्रायः सत्वात्मकस्तथा । गायत्री चैव सावित्री तथैव च सरस्वती । एवं त्रिरूपा प्रकृतिरेका सत्वादिभेदतः । तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् । स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः । तस्यापि सूत्रं भगवान्धारणाद्विष्णुरव्ययः । सूत्रपुत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः । सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः । तस्यापि पुत्रोऽहङ्कारः सचानन्त उदाहृतः । अनन्तादपि रुद्रोऽभूद्ब्रह्मणश्चेति स त्रिधा । वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः । तामसोऽनन्तजश्चैव स एको गुणभेदत’ इति प्राथम्ये ॥

‘चिदचिद्यद्वशे सर्वं स रुद्रश्चिदचिन्मय’ इति च ॥ ४–७ ॥

पदरत्नावली

सम्यग् विषयविषयीकरणमन्तरेण ज्ञानार्थैक्यमत्र नोच्यत इति भावेन ज्ञानर्थाभिमानिदेवतास्वरूपं तावदाह– तयोरिति । तयोर्ज्ञानार्थयोरेकतरो योऽर्थो विषयलक्षणः स प्रकृतिर् गायत्रीनाम््नया प्रकृत्याऽभिमन्यमान इत्यर्थः । सापि न स्वतन्त्रेत्याह– सेति । प्रकृतिरुभयोर् लक्ष्मीविष्णुसंज्ञयोरावयोर् आत्मा देहः प्रयत्नश्च यस्याः सा तथा । मया श्रिया च सृष्टाऽनुग्राह्या चेत्यर्थः । अन्यतमो भागो ज्ञानं यत् सोपि पुरुषः पुरुषनाम्ना ब्रह्मणाऽभिमन्यमानमित्यर्थः । सोप्युभयात्मक इत्यनुसन्धेयम् । मया श्रिया च सृष्टोऽनुग्राह्यश्चेति । इत्यभिधीयते । ‘‘ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः । अर्थाभिमानी प्रकृतिर् गायत्री सा प्रकीर्तिता । तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता । वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत । त्रिगुणात्मा समुद्दिष्टः प्रायः सत्वात्मकस्तथा । गायत्री चैव सावित्री तथैव च सरस्वती । एवं त्रिरूपा प्रकृतिरेका सत्वादिभेदतः । तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् । स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः । तस्यापि सूत्रं भगवान् धारणाद् विष्णुरव्ययः । सूत्रपुत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः । सूत्रात्मना महांश्चैव सहजातश्चतुर्मुखः । तस्यापि पुत्रोहङ्कारः स चानन्त उदाहृतः । अनन्तादपि रुद्रोऽभूद् ब्रह्मणश्चेति स त्रिधा । वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः । तामसोऽनन्तजश्चैव स एको गुणभेदतः’’ इति स्मृतिसूचकेन हिशब्देन किमत्र प्रमाणमिति शङ्कां परिहरति ॥

प्रतिज्ञातसाङ्ख्यप्रवचनं विना ज्ञानार्थैक्यादिकथनं केन सङ्गतमित्यतस्तत्स्वरूपं वक्ति तमो रज इत्यारभ्य एष साङ्ख्य इत्यन्तेन । ‘‘वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत । त्रिगुणात्मा समुद्दिष्टः प्रायः सत्वात्मकस्तथा’’ इत्यादि व्याख्यातमपि मन्दमत्युपकाराय किञ्चिद् व्याक्रियते । तथा हि । सृष्ट्यादौ मत्तो गुणत्रयाभिमानिन्यां लक्ष्म्यां पुरुषप्रकृती ब्रह्मगायत्र्याख्ये जाते । वाशब्दश्चार्थे । तदनु मया मक्ष्म्या च पुरुषानुमतेन पुरुषनाम्नो ब्रह्मणः स्वभर्तुः प्रेरणया च प्रक्षोभ्यमाणायास्तस्याः प्रकृतेस् तमो रजः सत्वमिति गुणाभिमानीनि त्रीणि रूपाणि गायत्री-सावित्रीसरस्वतीसंज्ञान्यभवन् ॥

ततः किमभूदत्राह– तेभ्य इति । अयं भावः । तेषु रूपेषु पुरुषनाम्ना ब्रह्मणा गर्भाधाने कृते सति तेभ्यः पृथक्पृथग्जातं पश्चादेकत्वमापन्नं सूत्रमभवत् । कीदृशम् । मत्सूत्रेण च संयुतं मम सर्वाधारेण रूपेण संयुतं सर्वजगदाधारवायुतत्वमुत्पन्नमित्यर्थः । वायुना वै गौतम सूत्रेणेत्यादिना वायोः सर्वाधारत्वं महत्तत्वाभिमानिनो ब्रह्मणो द्वितीयं रूपं चतुर्मुखाख्यं वायुना सहोत्पन्नमिति ज्ञातव्यम् । सूत्रात्मना महांश्चापीति प्रमाणानुगुण्यात् । ततो विकुर्वत इत्यस्यायमर्थः । तस्माद् विकुर्वतः सृष्टिकामात् सूत्रनाम्नो ब्रह्मणः स जज्ञे यो विमोहकोऽहङ्कारोऽनन्तः । अयमेव सूत्रनाम्नो वायोरपि जज्ञे । विकुर्वतः सूत्रनाम्नो ब्रह्मणो यो विमोहको वैकारिको रुद्रः सोऽपि जज्ञे । पुनश्च विकुर्वतः सूत्रनाम्नो वायोर्विमोहकस्तैजसरुद्रः स जज्ञे । यो ब्रह्मजोऽनन्तस् तस्मादपि विकुर्वतः यो विमोहकोऽहङ्कारस्तामसः स जज्ञ इति । वैकारिको ब्रह्मजस्तैजसो वायुजस्तामसोऽनन्तज इति रुद्रस्त्रिधा जातः ॥

एतदेव स्पष्टयति वैकारिक इति । त्रैविध्यस्य प्रयोजनमाह– तन्मात्रेति । तन्मात्रशब्देन पञ्चभूतानि लक्षितानि । श्रोत्रादीन्द्रियाणि । मनःशब्देनेन्द्रियाभिमानिनो देवाश्च । एषां कारणं तामसाद्यहङ्कारत्रयं त्रिवृत् त्रिविधो रुद्रः । कीदृशः । चिदमिन्मयः वशीकृतचेतनाचेतनप्रपञ्चः । ‘‘चिदचिद् यद्वशे सर्वं स रुद्रश्चिदचिन्मयः’’ इति मानम् ॥ ४–७ ॥

श्रीनिवासतीर्थीया

ननु ज्ञानार्थयोर्वाङ्मनोऽगोचरत्वं बृहत्वं चोक्तं तत्कथमित्यत-स्तदभिमानिनावाह ॥ तयोरिति । तयोरित्यादिश्लोकान्प्रमाणेनैव व्याचष्टे ॥ ज्ञानेत्यादिना । महालक्ष्मीर्नेत्याह ॥ गायत्रीति । उभयात्मकेत्यस्य तात्पर्यम् ॥ तयोरिति । तेभ्यः समभवत्सूत्रमित्यस्यार्थमाह ॥ वायुस्त्विति । तमोरजःसत्त्वमित्यस्यार्थमाह ॥ गायत्रीति । एका प्रकृतिर्ब्रह्मपत्नी सत्त्वादिभेदतः सत्त्वादिगुणाभिमानिगायत्र्यादिभेदतस्त्रिरूपेति योज्यम् । वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायतेत्युक्तं विशदयति ॥ तास्विति । गायत्रीसावित्री-सरस्वतीषु ब्रह्मणाऽऽदौ पृथक् पृथग्वीर्यमुत्सृष्टं स्थापितमनन्तरं पृथगेवोत्पन्नम् । उत्पत्त्य-नन्तरं तद्वीर्योत्पन्नं शरीरमेकत्वमागतमिति योज्यम् । अन्यथा वाक्यार्थबाधापत्तेः । स क इत्यत आह ॥ स इति । तेभ्य उत्पन्नदेहैक्यवानित्यर्थः । मत्सूत्रेण च संयुतमित्ये-तद्विवृणोति ॥ तस्यापीति । विष्णोः सूत्रशब्दवाच्यत्वे निमित्तम् ॥ धारणादिति । ततो विकुर्वत इत्यस्यार्थमाह ॥ सूत्रेति । तत इत्येतत्प्रकारान्तरेण योजयितुं परामर्शोपपत्तये तेभ्यः समभवत्सूत्रमित्यत्राभिप्रेतमर्थमाह ॥ सूत्रात्मनेति । सूत्रात्मना सह महांश्चतु-र्मुखोऽपि गायत्र्यादिभ्यो जात इत्यर्थः । तत इत्यस्यार्थमाह ॥ तस्यापीति । ब्रह्मण इत्यर्थः । स रुद्रो नेत्याह ॥ स चेति । अनन्तः शेषः । अनन्तादपि । न केवलं सूत्रा-दित्यपिशब्दः । ब्रह्मणश्च सूत्रात्मना यः सहोत्पन्नस्तस्माद्ब्रह्मणः सकाशादपि रुद्रोऽभूदित्यर्थः । एते त्रयो रुद्राः केषाञ्चित्तत्त्वाभिमानिन इत्यत आह ॥ वैकारिक इत्यादि । वैकारिकादि-भेदेन त्रिविधाहङ्कारस्यैते त्रयोऽभिमानिन इति भावः । अनेन वैकारिक इत्यस्य तात्पर्यमुक्तं भवति । गुणभेदतो वैकारिकाद्यहंकारकार्यभेदत एकोऽपि रुद्रस्त्रिविध इत्यन्वयः ।

अयमत्र सङ्ग्रहः । आदौ वासुदेवान्मायायां पुन्नामा ब्रह्मोत्पन्नस्तत्पत्नी प्रकृतिनाम्नी प्रद्युम्नादुत्पन्ना । प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे प्रजज्ञतुर्यमले तत्र पूर्वा । प्रधानसंज्ञा प्रकृति-र्जनित्रीत्युक्तेः । सा च प्रकृतिर्गायत्री सावित्री सरस्वतीति त्रिविधा जाता । तासु पुन्नामकब्रह्मणा वीर्यमुत्सृष्टं ततः सङ्कर्षणाज्जयायामुत्पन्नोऽपि सूत्रनामा वायुः पुनरुत्पन्नस्तेन सह ब्रह्मा स्वयमपि स्वस्त्रियां स्वपुत्रत्वेन जातः । सूत्रनामकवायोः सकाशाद्रुद्र उत्पन्नः । तैजसाहङ्काराभिमानी । स्वपुत्रत्वेन सूत्रनामकवायुना सहोत्पन्नब्रह्मणः सकाशादनन्त उत्पन्न-स्तस्माच्चानन्तात्पुना रुद्र उत्पन्नः । स तु ब्रह्मोत्पन्नोऽनन्तो रुद्रस्तामसाहंकाराभिमानी । स्वपुत्रत्वेनोत्पन्नब्रह्मणः सकाशात्साक्षादेव रुद्र उत्पन्नः । स तु वैकारिकाहङ्काराभिमानीति ॥

तथा च तयोरेकतर इत्यादेरक्षरार्थः ॥ तयोर्ज्ञानार्थयोर्मध्ये एकतरोऽर्थोऽर्थाभिमानिनी । या प्रकृतिर्ब्रह्मपत्नी या प्रद्युम्नात्कृतावुत्पन्ना सा प्रकृतिरुभयात्मिका विष्णुश्रीस्वामिका । तयोर्मध्येऽर्थापेक्षयाऽन्यतमो भागो ज्ञानं यत्सः पुरुषोऽभिधीयते । तन्नामा ब्रह्मज्ञानाभि-मानीत्यर्थः । सोऽप्युभयात्मक इति द्रष्टव्यम् । अतस्तयोर्बृहत्वादिकं युक्तमित्याशयः ।

पुनरर्थात्मकप्रकृतेर्ज्ञानात्मकब्रह्मणश्च बृहत्वमुपपाद्यते ॥ तम इत्यादिना । मया प्रक्षोभ्यमाणायाः कार्याभिमुखीभूतायाः पुरुषानुमतेन पुरुषनामकब्रह्मसंमत्या । तत्कृत-गर्भाधानेनेति यावत् । प्रकृतेर्ब्रह्मपत्न््नया अव्यक्तावान्तराभिमानिन्याः सकाशात्सत्त्वादयो गुणास्तदभिमानिन्यो गायत्र्याद्या जाताः । मूलाव्यक्तगुणत्रयाणामेका रमैवाभिमानिनी । तथाऽपि महदादिकार्यानुस्यूतमव्यक्तं गुणत्रयं चास्ति । तदभिमानित्वमेव ब्रह्मपत्नी-प्रकृत्यादेरिति ध्येयम् ।

तेभ्यः सत्त्वाद्यभिमानिगायत्र्यादिभ्यः सकाशान्मत्सूत्रेण मदाख्येन सूत्रेण धारकेण संयुतं मदधीनम् । मत्प्रेरितमिति यावत् । सूत्रं वायुस्तेन सह ब्रह्मा च रूपान्तरेणोत्पन्नस्ततो विकुर्वतः सूत्राद्यो विमोहकोऽहङ्कारो रुद्रस्तैजसः स जज्ञे । तथा विकुर्वत तस्माद्ब्रह्मणो योऽहंकारो विमोहनो वैकारिको रुद्रः स जज्ञे । तथा ततो ब्रह्मणो योऽहंकारो विमोह-नोऽनन्तः स जज्ञे । एवं त्रिवृत् त्रिप्रकारवान् रुद्रो जज्ञ इत्यर्थः ॥

तामसाहंकारादिरूपो रुद्रः कीदृश इत्यत आह ॥ तन्मात्रेति । अत्र चिदात्मकत्वं रुद्रस्योच्यत इति प्रतीतिवारणायार्थमाह ॥ चिदचिद्यद्वशे सर्वमिति । तथा च तन्मात्रशब्देन पञ्चभूतान्यपि ग्राह्याणि । मनःशब्देनेन्द्रियाभिमानिदेवतादेहाश्च ग्राह्याः । वैकारिकादिभेदेन त्रिवृत् । चिदचिन्मयस्तत्स्वामी रुद्रः पञ्चतन्मात्रापञ्चमहाभूतेन्द्रियतदभि-मानिदेवतादेहमनसां कारणमित्यर्थः ॥ ४–७ ॥

प्रमेयचन्द्रिका

तत्सत्यं वाङ्मनोगोचरं बृहदिति ज्ञानार्थाभिप्रायेण ज्ञानार्थाभिमानि-देवतामहिमानमभिधाय तयोरेकतर इति श्लोकेन तद्विवरणं सूचितं भवति । अत्र च ज्ञानार्थ-योः प्रकृतिपुरुषभेदप्रतीतिं वारयन् ज्ञानार्थाभिमानिदेवते प्रमाणेन दर्शयति ॥ ज्ञानाभि-मानीति ॥ तयोर्न स्वातन्त्र्यं ज्ञानादिनियामकत्वमित्याह ॥ तयोरिति ॥

अयं मूलार्थः ॥ तयोर् ज्ञानार्थयोर्मध्ये एकतरो यो विकल्पलक्षणोऽर्थः सा प्रकृतिः सरस्वती । सा चोभयं लक्ष्मीनारायणाख्यम् आत्मा स्वामी यस्याः सा उभयात्मिका । भगवन्नियम्यया श्रिया अनुग्राह्येति यावत् । अथान्यतमो ज्ञानं स पुरुषो विरिञ्चश्चोभयात्मक इत्यभिधीयत इति ॥

साङ्ख्यं वक्ष्यामीति प्रतिज्ञातं तत्प्रसङ्गाद् वैकल्पिकभ्रमं ज्ञानार्थैक्याख्यं च निरूप्य सत्यस्योक्तं महत्परत्वमभिमानिदेवतोक्तिपूर्वकमुपपाद्येदानीं प्रतिज्ञातं साङ्ख्यमर्थाभिधप्रकृति-स्वरूपनिरूपणेनोच्यते ॥ तमो रज इत्यादिना ॥ तदेतत्केवलजडपरत्वप्रतीतिवारणा-योदाहृतप्रमाणशेषेण व्याचष्टे ॥ वायुस्त्वित्यादिना ॥ ब्रह्मणः सकाशात्प्रकृतौ वाण्यां वायुः पुत्रः समजायत । त्रिगुणात्मा गुणत्रयात्मदेहवान् । गुणत्रयस्य न तत्र साम्यम् । किं तु प्रायः सत्वात्मकः । तथाशब्दोऽप्यर्थे । प्रायः सत्वात्मकोऽपि रजस्तमसोरत्यल्पयो-र्भावात् त्रिगुणात्मा समुद्दिष्ट इति योजना । तदुक्तं गीतातात्पर्यनिर्णये । सत्वसत्वमहा-सत्वसूक्ष्मसत्वश्चतुर्मुख इति । प्रकृतौ समजायतेत्युक्तं विवृणोति ॥ गायत्रीति ॥ एका स्वगतभेदवर्जिता । सत्वादिभेदतः सत्वरजस्तमोगुणाभिमानिरूपभेदतः । तासु गायत्र्यादिति- सृषु । तत्त्रिविधं वीर्यम् एकत्वमागतम् । जडमिलितमभवत् । त्रिस्थाने स्थितो वायुरेकी-भावमगमदिति यावत् । स तत्रोत्पन्नो वायुर्न प्रवहादिरित्याह ॥ सूत्रात्मेति ॥ आदौ सङ्कर्षणाज्जयायां समुत्पन्नः सूत्रनामा सर्वलोकनियामक एव वायुः समुद्दिष्टो न त्वन्य इत्यर्थः । एतेन तेभ्यः समभवत्सूत्रमित्यन्तं व्याख्यातं भवति ॥

मत्सूत्रेण च सुंयुतमिति । अहं चासौ सूत्रं च मत्सूत्रं तेन सूत्रनाम्ना मया संयुत-मित्यस्यार्थः ॥ तस्यापीति ॥ सूत्रशब्दं भगवति निर्वक्ति ॥ धारणादिति ॥ सूतमस्मिन् जगदिति सूत्रमिति भावः । एतेन वायावपि सूत्रशब्दप्रवृत्तौ निमित्तमुक्तं भवति । एतेन लोकप्रणायक इत्येतत्सूत्रशब्दताप्तर्यकथनमिति विज्ञाप्यते । पुनरर्थनिरूपणपरस्य ततो विकुर्वत इत्यस्य व्याख्यानम् ॥ सूत्रपुत्र इति ॥ तेभ्यः समभवत्सूत्रमित्येतद्वायूत्पत्ति-परतया व्याख्यातम् । इदानीं मूले सूत्रमित्युपलक्षणम् । ब्रह्मापि व्यजायतेत्याह ॥ सूत्रात्मनेति ॥ सूत्रात्मना वायुब्रह्माभिमान्यभिमानयोरैक्यव्यपदेशान्महत्तत्वाभिमानी ब्रह्मापि त्रिरूपायां प्रकृतौ समजायतेत्यर्थः ।

अयं भावः । पूर्वं पुरुषाद्वासुदेवान्मायायां देव्यां महत्तत्वतनुर्विरिञ्जो जातः । अथ पुनः पुरुषाभिधाद्विरिञ्चात् त्रिरूपायां प्रकृतौ सूत्रनामकः हर्यधिष्टितौ वायुचतुर्मुखौ महत्तत्वाभि-मानितया सञ्जाताविति । तदुक्तं तृतीयतात्पर्ये ततः पुनर्महत्तत्वं प्रजातं जगदङ्कुरम् । स्वस्यैव पुत्रतां यातमिति । महत्तत्वात्मको ब्रह्मा तज्जत्वात्तत्र लीयते इति वा । ततो विकुर्वत इत्यस्यार्थान्तरमाह ॥ तस्यापीति ॥ चतुर्मुखस्यापीत्यर्थः । एतेन मूले तत इत्यस्य सूत्रपदोपलक्षितान्महत इत्यर्थ उक्तो भवति । अत्र चतुर्मुखाज्जातोऽहङ्कारो न रुद्रो अपि तु शेष इत्याह ॥ स चेति ॥ तत इत्यस्यार्थान्तरमाह ॥ अनन्तादपीति ॥ पुनरर्थान्तरमाह ॥ ब्रह्मणश्चेति ॥ रुद्रोऽभूदित्यनुवर्तते । एवं सति कोऽर्थः संपन्न इत्यत उच्यते मूले ॥ वैकारिक इति ॥ तत्र स त्रिधेत्यस्यार्थमाह ॥ स त्रिधेति ॥ तद्विवेचयति ॥ वैकारिक इति ॥

तदयं मूलार्थः । मया प्रक्षोभ्यमाणायाः प्रकृतेर्जडप्रकृत्यभिमानिन्याः सरस्वत्याः सकाशात्पुरुषनामकविरिञ्चानुमतेन प्रेरणया सत्वं रजस्तम इति गुणास् तदभिमानिसरस्वती-रूपाणि गायत्रीसावित्रीसरस्वत्याख्यान्यभवन् । तेभ्यः सूत्रनामकवायुर्विरिञ्चोऽपि मह-त्तत्वाभिमानितया समभवत् । कीदृशं सूत्रं महदात्मकेन सूतमस्मिन्जगदिति सूत्रेण रूपेण समन्वितमधिष्टितं प्रेरितं विकुर्वतो महत्तत्वात् तदभिमानिनो ब्रह्मणो विमोहको मूला-हङ्काराभिमानी अनन्तो जातः । ततो वायोस्ततो ब्रह्मणस्ततो अनन्तादपि प्रत्येकं रुद्रोऽ-हङ्काराभिमानी अभिजातः । ब्रह्मपुत्रो वैकारिकाहङ्काराभिमानित्वेन वैकारिकनामा । वायुज-स्तैजसाख्यस्तदभिमानी । अनन्तजस्तामसाहङ्काराभिमानित्वात्तन्नामेत्येवमहङ्काराभिमानी रुद्र-स्त्रिवृत्त्रिरूप इति । मूले त्रिविधाहङ्कारकार्यमुच्यते ॥ तन्मात्रेति ॥ रुद्रस्य चिदचिन्मयत्वं कथमुच्यत इत्यत आह ॥ चिदचिदिति ॥ मयटः प्राधान्यार्थकत्वाद्व्याहतिर्नेति भावः । चिदचिन्मयस्त्रिविधाहङ्काराभिमानी । रुद्रस्तन्मात्रेन्द्रियमनसां कारणं जनकमिति मूलयोजना ।

अत्र मात्रशब्देन तत्कार्याणि भूतानि लक्ष्यन्ते । मनःशब्देन दशदेवताश्चोपलक्ष्यन्त इति ज्ञेयम्

॥ ४–७ ॥

अर्थस्तन्मात्रको जज्ञे तामसादिन्द्रियाणि च ।

तैजसाद् देवता आसन्नेकादश च वैकृतात् ॥ ८ ॥

पदरत्नावली

उक्तमेव विवृणोति अर्थ इति । तामसादहङ्कारात् तन्मात्रकोऽर्थः पञ्चभूतलक्षणः, तैजसाहङ्कारादिन्द्रियाणि, वैकृताद् वैकारिकान्मनसा सह तदभिमानिन्य एकादशदेवता आसन् ॥ ८ ॥

श्रीनिवासतीर्थीया

तद्विविच्य दर्शयति अर्थ इति ॥ तन्मात्रकः पञ्चतन्मात्रा-रूपोऽर्थः पञ्चभूतानि च तामसाज्जज्ञे । इन्द्रियाणि च तैजसाज्जातानि । मनसा सहेति शेषः । एकादशदेवतास्तद्देहा मनसा सह वैकृताज्जाता इत्यर्थः ॥ ८ ॥

दुर्घटभावदीपिका

वैकल्पिकमित्यस्य विकल्प एव वैकल्पिकः संशयस्तं वैकल्पिकमित्यर्थः । एतेन वैकल्पिकमित्येतद्व्यर्थमिति दूषणं पराकृतम् । वैकल्पिकमित्येतद्भ्रममित्यस्य विशेषण-मित्यनङ्गीकारात् ॥ अर्थस्य तन्मात्रको जज्ञ इत्यस्य तन्मात्रकः शब्दादिपञ्चतन्मात्राः । जातावेक-वचनम् । अर्थो घटाद्यर्थसाधनपृथिव्यादिपञ्चभूतलक्षणोऽर्थश्च जज्ञ इत्यर्थः ॥ अयं भावः ॥ तामसाहङ्कारात्पञ्चतन्मात्रा उत्पन्नाः पञ्चतन्मात्राभ्यः पञ्चभूतान्युत्पन्नानि । पञ्चभूतेभ्यो घटाद्यर्था उत्पन्ना इति । एतेनार्थ इत्येतद्व्यर्थमिति दूषणं परास्तम् । अर्थशब्दस्य अर्शआद्यन्तत्वमङ्गीकृत्य घटाद्यर्थसाधनपञ्चभूतान्यर्थशब्देनोच्यन्त इत्यभ्युपगमात् ॥ ८ ॥

प्रमेयचन्द्रिका

तद्विवरणं क्रियते ॥ अर्थ इति ॥ तामसाहङ्कारात्तन्मात्रकोऽर्थः । अन्तर्भावितशब्दादिपञ्चतन्मात्रक आकाशादिपञ्चमहाभूतरूपोऽर्थो जज्ञे । तैजसाहङ्कारा-द्दशेन्द्रियाण्यभिमानिदेवतानि जज्ञिरे । वैकृताद्वैकारिकाहङ्कारादेकादश देवता आसन् । अध्यात्मं मनस्तदभिमानीन्द्रः । ‘‘अनिरुद्धो देवगुरुर्मनोदेवाः सचन्द्रका’’ इत्युक्तमनसा सहितेन्द्रादिदेवतासमूह एकः । अधिदैवं दिग्वातार्कप्रचेताश्विवन्हीन्द्रोपेन्द्रमित्रका इत्युक्ता दश देवता आसन्निति ज्ञेयम् । तदुक्तम् । वैकारिकान्मनो जज्ञे देवा वैकारिका दशेति

॥ ८ ॥

मया सञ्चोदिता भावाः सर्वे संहत्य कारिणः ।

अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ॥ ९ ॥

पदरत्नावली

एवं सृष्टैश्चतुर्विंशतिसङ्ख्यैर्महदादितत्वैः किं कृत्यमत्राह मयेति ॥ ९ ॥

श्रीनिवासतीर्थीया

एतैस्तत्त्वैर्बह्माण्डोत्पत्तिप्रकारमाह ॥ मयेति । भावास्तत्त्वानि । संहत्य सम्भूयैककार्यकारिणो न स्वातन्त्र्येण ॥ ९ ॥

प्रमेयचन्द्रिका

अथाण्डसृष्टिरुच्यते ॥ मयेति ॥ मया सञ्चोदिताः प्रेरिता भावा-श्चतुर्विंशतितत्वदेवा अभिमन्यमानतत्वसहिताः । संहत्यान्योन्यं मिलित्वा । कारिणः करण-शीला ममायतनमण्डमुत्पादयामासुरित्यर्थः । मया सञ्चोदिता इत्यादेरयं भावः । विष्णुः श्रीदेव्युदरे तत्वानि वीर्यात्मना व्यधात् । तत्र भगवता सञ्चोदितास्ते तत्वदेवाः संहत्याडं चक्रुः । तदनन्तरं श्रीरण्डं सुषुवे इति । तदुक्तं निर्णये । स विष्णुनामा श्रियमाप सृष्टये । सुषाव सैवाण्डमधोक्षजस्य । शुष्मं हिरण्यात्मकमम्बुमध्य इति ॥ ९ ॥

तस्मिन्नहं समभवमण्डे सलिलसंस्थिते ।

मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥

तात्पर्यम्

‘चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम् । तन्नाभेर्भूतदेहोऽ-भूत्पद्मादपि चतुर्मुखः । चतुर्मुखस्तु सर्वाण्डव्याप्तदेहो महातपाः । हरिस्तु सर्वव्याप्तोऽपि भूतदेहो न तु क्वचित् । नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचिदि’ति निवृत्ते ॥१०॥

पदरत्नावली

आयतनत्वं दर्शयति तस्मिन्निति । चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम् । तन्नाभेर्भूतदेहोऽभूत् पद्मादपि चतुर्मुखः । चतुर्मुखस्तु सर्वाण्डे व्याप्तदेहो माहातपाः । हरिस्तु सर्वव्याप्तोपि भूतदेहो न तु क्वचित् । नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचित्’’ । इत्यनेन हरेर्भूतदेहो नास्तीति ज्ञायते । समभवं समीचीनतया व्याप्तोऽभवम्, न तूत्पन्नो भवामीत्यर्थः

॥ १० ॥

श्रीनिवासतीर्थीया

ममायतनमित्येतदेव दर्शयति ॥ तस्मिन्निति । तस्मिन्नण्ड इत्यन्वयः । योऽहं समभवं तस्य मम नाभ्यां विश्वाख्यं सर्वलोकोत्पादनम् । तत्र पद्मे । आत्मभूर्ब्रह्मा । अत्राहं समभवमिति हरेरुत्पत्तिप्रतीतेस्तां प्रमाणेनैव निराकरोति ॥ चिदा-नन्देति । तर्ह्येवमेव चतुर्मुखोऽप्युत्पन्नः किं नेत्याह ॥ तदिति । भूतदेहो भौतिकदेहवान् । चतुर्मुखस्तन्नाभेर्जातात्पद्मादभूदित्यन्वयः । सर्वाण्डव्याप्तदेह इति स्वरूपकथनम् । पूर्वं विराट्कल्पमभिप्रेत्याहुः । तथा चाहं समभवं सम्यगेवाभवम् । चिदानन्ददेहयुक्त एव प्रकटोऽभवमित्यर्थ उक्तो भवति ॥ १० ॥

प्रमेयचन्द्रिका

अथान्तःसृष्टिप्रतिपादके तस्मिन्निति श्लोके सलिलमध्ये संस्थिते तस्मिन्नण्डे अहं समभवम् । जातोऽस्मीति भानात्तत्प्रमाणेन व्याचष्टे ॥ चिदानन्देति ॥ ततश्च समभव-मित्यस्य प्रविष्टोऽस्मीत्यर्थ इति भावः । ममेत्यत्र मूले प्रविष्टस्येति ग्राह्यम् । विश्वाख्यमित्यस्य सर्वलोकात्मकत्वाद्विश्वनामकमित्यर्थः । अत्र हरेरित्यनेन न ब्रह्मणश्चिदानन्दशरीरत्वं मन्तव्यमित्याह ॥ तन्नाभेरिति ॥ तन्नाभेर्जातात्पद्मादपीति योज्यम् । एतेन मम नाभ्यामित्यस्यार्थो व्याख्यातो भवति । चतुर्मुखदेहपरिमाणमाह ॥ चतुर्मुखस्त्विति ॥ भूतदेहैरेव व्याप्तिरमुक्तस्यामुक्तस्यैव केवलचिन्मात्रविकासेन व्याप्त्यभावादिति । विशेषद्योतनाय तुशब्दः । महत्तपो ज्ञानं यस्य स महातपाः । हरेरपि एवं भूतदेहेन सर्वव्यापित्वं किमिति शङ्कावारणायाह ॥ हरिस्त्विति ॥ द्वितीयस्तुशब्दोऽवधारणे । तद्विवृणोति ॥ नैवेति ॥ प्रादुर्भावेष्वपीत्यपिशब्दः कैमुत्यार्थः । मूलरूपसमुच्चयार्थो वा ॥ १० ॥

सोऽसृजत् तपसा युक्तो रजसा मदनुग्रहात् ।

लोकान् सपालान् विश्वात्मा भूर्भुवःस्वरिति त्रिधा ॥ ११ ॥

पदरत्नावली

तपसा ज्ञानेन ॥ ११ ॥

श्रीनिवासतीर्थीया

स आत्मभूः रजसा रजोगुणमुपादानीकृत्य विश्वात्मा विश्वान्त-र्नियामकः । भूरादिभेदेन त्रिधा स्थितान् सपालान्दिक्पालसहितान् लोकान् ॥ ११ ॥

प्रमेयचन्द्रिका

अण्डान्तःसृष्टिरुच्यते ॥ सोऽसृजदिति ॥ तपसा ज्ञानेन युक्तः रजसा रजोगुणोपादानेन भूर्भुवःस्वरिति त्रिधा स्थितान् लोकान् इत्यन्वयः । पातालादि-सप्तलोकस्य भुव्यन्तर्भावः । महदादिचतुष्टयस्य स्वःपदेन ग्रहणमिति मन्तव्यम् ॥ ११ ॥

देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् ।

मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥

पदरत्नावली

ओको निवासस्थानम् । त्रितयात् परं महरादिकम् ॥ १२ ॥

श्रीनिवासतीर्थीया

ओको निवासस्थानम् । भूतानां पिशाचादीनां पदं स्थानं भुव आसीत् । त्रितयाद्भूरादिलोकत्रयात्परं महरादि । सिद्धानामपरोक्षज्ञानिनां क्षीणप्रारब्धानां पदमासीत् ॥ १२ ॥

प्रमेयचन्द्रिका

ओकः स्थानम् । भूतादीनां पिशाचादीनाम् । सिद्धानां मुक्तानां तु वा । लोकः पातालादिकः विवरम् । त्रिगुणात्मनां कर्मिणां पुरुषाणां प्राप्या गतय-स्त्रिलोक्यामेवेति योजना । नरकाण्यपि भूम्यन्तर्गतानीत्यविरोधः ॥ १२,१३ ॥

अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः ।

त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥

पदरत्नावली

कर्मभेदेन त्रिलोक्याः स्थानभेदमाह– त्रिलोक्यामिति ॥ १३ ॥

श्रीनिवासतीर्थीया

नागानां सर्पाणां भूमेरध ओकः पातालादिस्थानम् । फलितमाह ॥ त्रिलोक्यमिति । सत्त्वादिभेदेन त्रिगुणात्मनां कर्मणां गतयस्त्रिलोक्यामेव तदन्तरेव । सात्त्विककर्मणा स्वर्गलोकः । राजसेन भूः । तामसेन भुवरिति ॥ १३ ॥

योगस्य तपसश्चैव ज्ञानस्य गतयोऽमलाः ।

महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥

तात्पर्यम्

महरादीनामपि भक्तियोगोऽपेक्षित एव । आधिक्येनापेक्षितत्वाद्भक्ति-योगस्य मद्गतिरित्युक्तम् । ‘नैव विष्णावभक्तस्य महर्लोकादिका गतिः । भक्त्यु-द्रेकात्क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् । एवं ज्ञानं विना सापि महर्लोकादिका गतिः । ज्ञानोद्रेकात्क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् । नित्यशो भगवद्रूपस्यापरोक्ष्येण दर्शनम् । मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् । ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः । सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः । अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया । अपरोक्षदृशा नित्यम् एकमात्रायुजा युतम् । योगनाम्ना समुद्दिष्टं ध्यानं नित्यमखण्डितम् । तच्चतुर्भागया नित्यमपरोक्षदृशायुतम् । पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् । पादयोगान्महर्लोको जनलोकस्तु योगतः । तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचिदि’ति ध्यानयोगे ॥ १४ ॥

पदरत्नावली

महर्लोकादिप्राप्तौ किं साधनमत्राह– योगस्येति । मद्गतिर् मत्प्राप्तिः । ‘‘नैव विष्णावभक्तस्य महर्लोकादिका गतिः । भक्त्युद्रेकात् क्रमादूर्ध्वं यावद् विष्णोः प्रवेशनम् । एवं ज्ञानं विना नापि महर्लोकादिका गतिः । ज्ञानोद्रेकात् क्रमादूर्ध्वं यावद् विष्णोः प्रवेशनम् । नित्यशो भगवद्रूपस्यापरोक्ष्येण दर्शनम् । मुहूर्तमपि ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् । ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद् हरेर्गतिः । सदैवाखण्डितध्यानं तप इत्युच्यते बुधैः । अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया । अपरोक्षदृशा नित्यमेकमात्रायुजा युतम् । योगनाम्ना समुद्दिष्टं ध्यानं नित्य-मखण्डितम् । तच्चतुर्भागया नित्यमपरोक्षदृशा युतम् । पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् । पादयोगान्महर्लोको जनलोकस्तु योगतः । तपसस्तु तपोलोकः प्राप्यते नान्यथा क्वचित्’’ इति स्मार्तवाक्येन महर्लोकादिप्राप्तावपि साधनविशेषाश्चावगन्तव्याः ॥ १४ ॥

श्रीनिवासतीर्थीया

महरादिलोकसाधनमाह ॥ योगस्येति । योगादेर्महर्जनस्तपः-सत्यमित्येता अमला गतयः फलानीत्यर्थः । भक्तियोगस्य तु मद्गतिरेव वैकुण्ठादिस्थमल्लोक-प्राप्तिरेव फलमित्यर्थः । अत्र भक्तियोगस्य मद्गतिरित्युक्तत्वान्महरादिलोकप्राप्तौ भगव-द्भक्त्यपेक्षाभावः प्रतीयते । तदनुपपन्नम् । भक्त्यभावे महरादिलोकप्राप्तेरप्यनुपपत्तेरित्यत आह ॥ महरादीनामपीति । प्राप्ताविति शेषः । तर्हि भक्तियोगस्य मद्गतिरिति कथमुक्तमित्यत आह ॥ आधिक्येनेति ॥ महरादिलोकप्राप्तौ यादृशो भक्तियोगोऽपेक्षितस्तदपेक्षयाऽधि-क्येनापेक्षितत्वात् । वैकुण्ठप्राप्तेरिति शेषः । महरादिप्राप्तौ भक्तियोगोऽपेक्षित इत्यत्र प्रमाण-माह ॥ नैवेति । विष्णुप्रवेशनपर्यन्तं भक्त्युद्रेकात्क्रमादूर्ध्वलोको भवति । भक्त्या महर्लोक-स्तदपेक्षया भक्त्युद्रेकाज्जनोलोकस्तदपेक्षया भक्त्युद्रेकात्तप इत्यादि । वैकुण्ठलोकप्राप्ते-र्ज्ञान-गतित्वोक्त्या महर्जनःसत्यादिलोकप्राप्तौ ज्ञानानपेक्षेति प्रतीयते । अतस्तत्रापि महरादि-लोकप्राप्तौ ज्ञानमपेक्षितमेवेत्याह ॥ एवमिति । भक्तिवदेवेत्यर्थः । ज्ञानमपरोक्षम् । ज्ञानस्य गतय इति मूले कथमुच्यत इत्यत आधिक्यविवक्षयेत्याह ॥ ज्ञानेति । विष्णुप्रवेशपर्यन्तं क्रमाज् ज्ञानोद्रेकात्क्रमादूर्ध्वलोका भवन्तीत्यर्थः । नन्वथाऽप्यनुपपन्नमेव तत् । योगत-पोज्ञानमिति साधनानि त्रीण्युक्तानि महर्जनस्तपः सत्यवैकुण्ठ इति प्राप्या लोकाः पञ्चोक्ताः । अतः कथमेतदिति चेत् । सत्यम् । अत्रापि पञ्चसाधनान्युक्तानि । तथा हि । अत्र योगशब्देन द्विविधयोगो विवक्षितः । ज्ञानशब्देनापि द्विविधं ज्ञानम् । एवं च पादयोगो योगस्तपो ज्ञानं महाज्ञानं चेति तेषां क्रमेण महरादिलोकप्राप्तिः फलमित्याशयेन तेषां लक्षणान्याह ॥ नित्यश इति । प्रत्यहमित्यर्थः ।

मुहूर्तमात्रं प्रत्यहं भगवद्रूपस्यापरोक्ष्येण दर्शनं ज्ञानमित्यर्थः । ततोऽधिकं द्विमुहूर्तपर्यन्तं नित्यशो दर्शनमित्यर्थः । षण्मात्रकलया अ अ इ इत्यादिषट्ह्रस्वाक्षरोच्चारणकालपर्यन्तं विद्यमाना याऽपरोक्षदृशिस्तया नित्यं प्रत्यहं यदखण्डितं ध्यानं तत्तपः । अखण्डितध्यान-समये प्रत्यहं षण्मात्रोच्चारणकालपर्यन्तं चेद्धर्यपरोक्षज्ञानं भवति । तर्हि तादृशज्ञानयुक्तं ध्यानं तप इत्युच्यत इत्यर्थः । एकमात्रयुजाम् अ इत्येवमेकह्रस्वाक्षरोच्चारणकालपर्यन्तं विद्यमानयाऽ-परोक्षदृशा नित्यं प्रत्यहं युक्तं यन्नित्यमखण्डितं ध्यानं तद्योगाख्यमित्यर्थः । अत्राप्य-खण्डितध्यानसमये प्रत्यहमेकमात्रोच्चारणकालपर्यन्तं यदपरोक्षज्ञानं तद्युक्तं ध्यानं योग इत्याशयः । तच्चतुर्भागयैकमात्रोच्चारणे यावान् कालस्तस्य चतुर्धा विभागे क्रियमाणे सति एकस्मिंश्चतुर्थे भागेऽतिसूक्ष्मके जायमानयाऽपरोक्षदृशा युक्तं ज्ञानं पादयोगाख्यम् । एक-मात्रोच्चारणकालचतुर्थभागे जायमानापरोक्षज्ञानयुक्तं ध्यानं पादयोग इत्यर्थः ।

पादयोगान्महर्लोक इति । ननु मध्यमाज्जनलोकादिरिति श्रवणादिरूपपरोक्षज्ञानेनापि महर्लोकप्राप्त्युक्तेः कथमेतत् । सत्यम् । अपरोक्षज्ञानादपि तद्भवतीति । अत्र त्वपरोक्ष-ज्ञानिनां निर्मुक्तप्रारब्धानां चरमदेहादुत्कृतानामवस्थाने सान्तानिकलोका एते कथ्यन्त इति न दोषः । एतदभिप्रायेणैव बहिस्त्रिलोक्या गतिमामनन्ति विद्यातपोयोगसमाधिभाजामिति द्वितीयस्कन्धे कथितम् । तत्र विद्यातपोयोगयुक्तो यः समाधिरखण्डध्यानं तद्भाजा-मपरोक्षज्ञानिनां गतिं त्रिलोक्या बहिरेवामनन्तीत्यर्थो वाच्य इति न कोऽपि दोष इति सम्प्रदायविदः । तथा च योगस्य पादयोगस्य तपसो ज्ञानस्य महाज्ञानस्य च महराद्या गतय इति मूलं योज्यम् ॥ १४ ॥

प्रमेयचन्द्रिका

सिद्धानां त्रितयात्परमित्युक्तं स्यात्तत्साधनप्रदर्शनपूर्वकं विवरणं क्रियते ॥ योगस्येत्यादिना ॥ योगशब्देन पादयोगः पूर्णयोगश्चेति द्वौ योगौ विवक्षितौ । तथा च पादयोगादिसाधनचतुष्टयस्य क्रमान्महरादयश्चत्वारो लोकगतयो योगिगम्या इति द्रष्टव्यम् । अत्र भक्तियोगस्य मद्गतिरित्युक्त्या महरादिगतौ भक्तिरनपेक्षितेति भाति । अत आह ॥ महरादीनामिति ॥ तर्हि विशिष्योक्तिः कुत इत्यत आह ॥ आधिक्येनेति ॥ महरादिप्राप्तिहेतुभक्त्यपेक्षयेति शेषः । अत्र प्रमाणमाह ॥ नैवेति ॥ तत्रापि विशेषमाह ॥ भक्तीति ॥ महर्लोकमारभ्य यावद्विष्णुप्रवेशनं सायुज्यं तावदूर्ध्वंगतिः क्रमाद्भक्त्युद्रेकादिति योजना । महर्लोकप्राप्तिसाधनभक्त्यपेक्षया भक्त्युद्रेकाज्जनलोकप्राप्तिस्ततोऽप्यधिकभक्त्युद्रेका-त्तपोलोकप्राप्तिरित्यादीति भावः । न केवलं भक्तिमात्रम् अपि तु ज्ञानं च महरादिप्राप्तये अपेक्षितमित्याह ॥ एवमिति ॥ सा महर्लोकादिगतिरप्येवम् । यथा भक्तिं विना नैवम् । तथा अपरोक्षज्ञानं विना नैवेत्यर्थः । तत्रापि विष्णुसायुज्यपर्यन्तं क्रमाद्ज्ञानोद्रेकादूर्ध्व-गतिरित्याह ॥ ज्ञानोद्रेकादिति ॥ ननु श्रीमद्भाष्ये मध्यमाज्जनलोकादिरिति श्रवणादि-जनितप्रसादस्य जनलोकादिप्राप्तिसाधनत्वमुच्यते । तत्कथमत्र ज्ञानं विना नैवेत्युच्यत इति चेत् । सत्यमेतत् । तथापि पुनरपरोक्षज्ञाने जाते तेन सहकारिणा प्रागापादितश्रवणादि-जनितभगवत्प्रसादफलतयैव जनादिप्राप्तिरित्यङ्गीकारादविरोधः । क्वचित्तु सामान्यदर्शन-मात्रेणापि लोकप्राप्तिः । सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनादित्युक्तेर् उपायस्योपा-यान्तरादूषकत्वात् । न तद्भाष्यविरोधः । सामान्यदर्शनं मध्यमप्रसादाद्भवतीति न विरोध इत्यप्याहुः । उपपत्यन्तरपरिहारस्तत्वरत्नप्रकाशे स्पष्ट इति ॥

ननु महरादिविष्णुप्रवेशान्तानां पञ्चानामपि ज्ञानसाध्यत्वेऽपि पुनर्ज्ञानस्येति विशिष्य सत्यलोकप्राप्तिसाधनतयोक्तं ज्ञानमतिशयितं भवेत् । तत्कीदृशम् । भक्तियोगस्य मद्गतिरित्यत्र भक्तियोगपदोपलक्षितं ज्ञानं च कीदृग्विधम् । यदि चोक्तरीत्या ज्ञानभक्त्योर्महरादिहेतुत्वं तर्हि योगतपसोस्तत्कारणत्वमुक्तमयुक्तं स्यात् । अपि च योगतपसोर्द्वयोर्महज्जनस्तपोरूप-लोकत्रयगतिहेतू च कथमित्यतः शङ्काः प्रमाणशेषेण परिहरति ॥ नित्यश इत्यादिना ॥ नित्यशः प्रतिदिनं यन्मुहूर्तकालपर्यन्तं भगवद्रूपस्यापरोक्ष्येण दर्शनं तद्ज्ञानस्येतिपदेन विवक्षितं ज्ञानं स्यात् । नित्यशो विच्छेदेन मुहूर्तमात्रमिति वा । हरेर्लोकस्य गतिः प्राप्तिः । महाज्ञानी गच्छति क्षीरसागरमित्युक्तेः । ततोऽप्यधिकज्ञानाद्धरेर्गतिः प्रवेश इति योज्यम् ।

॥ सदैवेति ॥ प्रतिदिनं षण्मात्रापरिमितः कालो यस्यास् तथोक्ता । मात्राशब्दार्थस्तु ह्रस्ववर्णस्य कालो मात्रेति शब्द्यत इति तन्त्रसारे स्पष्टः । षण्मात्रोच्चारणकालभाविन्याम-परोक्षदृशा युतम् । सदातनमखण्डितम् । ध्यानमेव तप इत्युच्यते । तप आलोचन इति धातोर्नित्यं प्रतिदिनमेकमात्रायुजाऽपरोक्षदृशा युतं नित्यं नियतम् । अखण्डितं ध्यानं योगनाम्ना पूर्णयोग इति समुद्दिष्टम् ।

पादयोगमाह ॥ तदिति ॥ ध्यानमित्याद्यनुवर्तते । तद्योगस्य चतुर्थांशभूतया अपरोक्ष-दृशा युतं नित्यमखण्डितं ध्यानं पादयोगाख्यमुद्दिष्टमित्यर्थः । तथा च योगस्य द्विविधत्वाद् योगतपसोर्द्वयोर्महरादिलोकत्रयगतिहेतुत्वं युक्तमित्याह ॥ पादयोगादिति ॥ अन्यतः योग-शास्त्रोक्ताद्योगात्कायक्लेशरूपात्तपसो वेत्यर्थः ॥ १४ ॥

मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।

गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥

तात्पर्यम्

कालात्मना ज्ञानाद्यात्मना ॥ १५ ॥

पदरत्नावली

भक्तियोगरहितस्य का स्थितिरत्राह– मयेति । कालात्मना ज्ञानाद्यात्मना धात्रा कारणेन मया प्रेरितकर्मयुक्तमिदं जगद् एतस्मिन् गुणप्रवाहे उन्मज्जति सृष्टं भवति निमज्जति संहृतं भवति ॥ १५ ॥

श्रीनिवासतीर्थीया

सर्वथा भक्तियोगशून्यस्य का गतिरित्यत आह ॥ मयेति । अत्र कालात्मनेत्यभेदप्रतीतेर्व्याचष्टे ॥ कालात्मनेति । कल ज्ञाने कल कामधेनाविति पठन्ति । तथा च कर्मयुक्तम् । कर्मानुसारेणेति यावत् । कालात्मना ज्ञानात्मना धारकेण मया प्रेरितं सत् । गुणानां प्रवाहो यस्मिंस्तादृशे एतस्मिन्संसारे उन्मज्जति निमज्जत्यूर्ध्वं गतं भवत्यधश्च गतं भवतीत्यर्थः ॥ १५ ॥

प्रमेयचन्द्रिका

एवं तत्वदृष्टिं तत्कार्यब्रह्माण्डसृष्टिं तदन्तःपद्मसृष्टिं लोके सृष्टिं चाभिधाय प्रसङ्गाल्लोकप्राप्तिसाधनानि चोक्त्वा इदानीं स्वातन्त्र्येण स्वयमेव सृष्ट्यादिकर्त्ता विरिञ्चादिर् निमित्तमात्रमेवेत्याशयेनोच्यते ॥ मयेत्यादिना ॥ अत्र कालात्मना काल-स्वरूपेणेत्यन्यथाभानादनूद्यार्थमाह ॥ कालात्मनेति ॥ कल ज्ञान इति धातोरिति भावः ॥

अयं मूलार्थः ॥ कालात्मना कालरूपेण पोषणादिकर्त्रा मया निर्मितं पुण्यापुण्य-मिश्रकर्मभिर्युक्तमिदं जीवजातरूपं जगदेतस्मिन् सत्वादिगुणप्रवाहे उन्मज्जति उत्थितं भवति । सृष्टं भवतीति यावत् । निमज्जति निमग्नं विनष्टं भवति ॥ १५ ॥

अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति ।

सर्वं ह्युभयसंयुक्तं प्रकृत्या पुरुषेण च ॥ १६ ॥

पदरत्नावली

तमेव प्रेरणप्रकारं विवृणोति अणुरिति । अतीतानागतवर्तमानत्वेन यो यो भावः प्रसिध्यति उत्पन्नो वर्तते तत् सर्वमुभयसंयुक्तं मया चित्प्रकृत्या च सरस्वत्या पुरुषेण हिरण्यगर्भेण संयुक्तमस्माभिः प्रविश्य प्रेरितं च । यस्मात् तस्मादद्यापि सर्वं द्वन्द्वीभूय स्थितं दृश्यते

॥ १६ ॥

श्रीनिवासतीर्थीया

पुनरर्थज्ञानयोर्बृहत्वमुपपाद्यते ॥ अणुरिति । भावः पदार्थः । प्रसिद्ध्यत्युत्पन्नो वर्तते । स सर्वोऽपि भावः प्रकृत्या ब्रह्मपत्न््नया पुरुषेण चतुर्मुखेन चेत्युभयं संयुक्तस्ताभ्यां व्याप्तो वर्तत इत्यर्थः ॥ १६ ॥

दुर्घटभावदीपिका

अर्णुबृहत्कृशः स्थूल इत्येवं नानाविधो यो यो भावः । प्रकृष्टेन । प्रमाणेनेति यावत् । वेदादिना सिद्ध्यति । तत्सर्वमुभयसंयुक्तमित्युक्तं विवृणोति ॥ प्रकृत्येति । प्रकृत्या पुरुषेण च संयुक्तमिति । एतेनाणुर्बृहत्कृशः स्थूल इत्येतदनन्वितमिति दूषणं परास्तम् । इत्येवं नानाविध इत्यध्याहृतेनान्वयस्योक्तत्वात् । एतेनैव प्रेत्येतद्व्यर्थमिति दूषणं परास्तम् । अप्रमाणापेक्षेया प्रमाणत्वेन प्रकृष्टस्य वेदादेर्ग्रहणार्थं प्रेत्युक्तमित्यभ्युपगमात् । एतेनैव प्रकृत्या पुरुषेण चेत्येतदनन्वितमिति दूषणं परिहृतम् । उभयसंयुक्तमित्यत्र विद्यमानस्य संयुक्तमित्यस्यावृत्ति-मभ्युपेत्यान्वयस्योक्तत्वात् ॥ १६ ॥

प्रमेयचन्द्रिका

एवमण्वादित्वेन विविधोपायो भावः पदार्थः प्रसिध्यति प्रकर्षेण सिध्यति । उत्पन्नो वर्तते । तत्सर्वं पदार्थजातम् । उभयेन संयुक्तमित्यस्य विवरणम् ॥ प्रकृत्या पुरुषेण चेति ॥ प्रकृत्या लक्ष्म्या तदधीनप्रकृत्या सरस्वत्या च । पुरुषेण मया मदधीनेन पुरुषेण विरिञ्चेन चेत्येवमुभयसंयुक्तिरिति ॥ १६ ॥

यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य तत् ।

विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥

तात्पर्यम्

‘प्रकृतेस्तु विकाराणां कोट्यंशोऽभेद इष्यते । तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः । भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधा’ इति विवेके ॥ १७ ॥

पदरत्नावली

ननु कार्याणां निमित्तकारणेन भेदः कुलाले दृष्ट इति न तत्र शङ्का, किन्तू-पादानकारणेन कथमिति तत्राह– यस्त्विति । तुः स्याद् भेदेऽवधारण इति वचनात् तुशब्दो विशेषं वक्ति । यस्य महदादिकार्यस्य यः सत्वादिकारणविशेष आदिर् उपादानकारणं घटस्य मृदिव, अन्तश्च लयस्थानं च यस्मात् तस्मात् तस्य कार्यस्य मध्ये च स वै नान्य इत्यत उपादान-कारणेनाभेदः कार्यस्येति निश्चीयते । मृद् घट इति भावानुरक्तप्रत्ययवेद्यत्वात् । व्यवहारार्थः हानोपादानादिव्यवहारविषयो विकारः विविधप्रकार इति एकस्मिन् तन्तौ नष्टे नष्टः पट इत्यौपचारिकः, असामानाधिकरण्ये विनष्टतन्तुनैव पटस्य भेदो नान्यैरतो भेदाभेद इति विजानीहि । कथम् । अत्रोदाहरणमाह– यथेति । यथा लोहमृदाद्युपात्तघटादिपदार्था विनाशिस्वरूपेण भेदवन्तोप्यादावन्ते मध्ये च कारणेनाभिन्ना अनुभूयन्त इति । ‘‘प्रकृतेस्तु विकाराणां कोट्यंशाभेद इष्यते । तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः । भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधा इति प्रमाणसिद्धो विशेषस् तुना गृह्यते । यद्वा व्यवहारार्थो व्यवहारनिवर्तको विकारो विनाशलक्षणः । तस्य अवयवस्य तेन भेद इति तन्मध्य इति वा ॥ १७ ॥

श्रीनिवासतीर्थीया

प्रसङ्गात्प्रकृतिपुरुषाभ्यां प्रकृत्यादिकमुपादानीकृत्य सृष्टं जगत्किं प्रकृत्यादिकारणेनाभिन्नं भिन्नाभिन्नं वेत्याशङ्कायामाह ॥ यस्त्विति । यस्य वस्तुनो महदादेर्यः प्रकृत्यादिरुपादानमन्तःस्थानं च यस्मात्स एव मध्यं तस्य वस्तुनस्तत्प्रकृत्या-द्युपादानं स्वभावत एवात्यन्ताभिन्न एव । तर्हि कथं प्रकृतेर्महत्तत्त्वमुत्पन्नमित्यादिव्यवहार इत्यत आह ॥ विकार इति । व्यवहारार्थो व्यवहारप्रयोजनकः । तस्यायं विकारः कार्य-मिति व्यवहारमात्रप्रयोजनकमेव । व्यवहार एवायं न वस्तुतस्तस्मात् । विकारोऽयमिति यावत् । तत्र यथेति दृष्टान्तः । तथा तैजसो रुचकादिः। पार्थिवः पटादिः । सुवर्णस्य तन्तोश्च विकारः कार्यमिति व्यवहारमात्रं तद्वदित्यर्थः । नन्वेतदयुक्तम् । कार्यकारणयोर्भेदा-भेदस्यैव शास्त्रे व्यवस्थापितत्वेन विकारो व्यवहार इत्यत्यन्ताभेदोक्त्ययोगादित्यत आह ॥ प्रकृतेरिति । प्रकृतेर्जडप्रकृतेर्महदादिकार्योपादानभूतो यः कोट्यंशो व्यतिषङ्गविशेष-रहितोंऽशसमुदायः स विकाराणां महदादिकार्याणां सकाशाद्भेदो भिद्यते इति भेदो भिन्न इष्यत इत्यर्थः । तथा विकाराणां प्रकृत्याद्येकैकांशतोऽपि भेदो यतोऽभेदवर्जितो नात इत्यर्थः । अभेदं वा । व्यतिषङ्गविशेषविशिष्टांशैरत्यन्ताभेदमित्यर्थः । तथा च यथा पटे व्यतिषङ्गविशेषरहितसर्वतन्तूनामेकैकतन्तुना च भेदाभेदः । व्यतिषङ्गविशेषविशिष्टतन्तुभि-रत्यन्ताभेद एव । तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इत्युक्तेस्तद्वत्प्रकृतेऽपीति । व्यतिषङ्गविशेषविशिष्टकारणस्यायं विकार इति व्यवहारमात्र एव । कुतः । यतो व्यतिषङ्ग-विशेषविशिष्टं कारणमेव कार्यमिति न कश्चिद्दोष इति भावः ॥ १७ ॥

प्रमेयचन्द्रिका

एवं चित्प्रकृत्याद्यभिमन्यमानजडप्रकृतेर्महदहङ्कारादिकार्यस्योपादान-कारणत्वमुक्तम् । तद्धि उपादानोपादेययोर्भेदोऽथवा अभेदो वेत्यत उच्यते ॥ यस्त्विति ॥ अत्र यो यस्यादिरंतस्तस्य मध्यं च यत्तस्माद्विकारः कार्यमपि स वै स एव । न तु कारणव्यतिरेकेण कार्यमस्ति । यथा तैजसपार्थिवयोर्लोहमणिमृत्पिण्डरूपे कारणे लोहमया मृण्मया तद्विकारा यथेति व्याख्यानमयुक्तम् । तस्यानुव्याख्यानादौ दूषितत्वादतो यथावद्व्या-चष्टे ॥ प्रकृतेरिति ॥ तत्र तावत्खण्डितं रूपमेवात्र विकारोऽपि विकारिण इत्युपादा-नोपादेययोर्भेदाभेदौ प्रमितौ । तत्र च कार्योत्पत्तेः प्राक्वार्यनाशानन्तरं च भेद एव । तदुक्तम् । प्रागूर्ध्वं सत्स्वपि तन्तुषु पटस्याभावादिति तत्वविवेकटीकायाम् । प्रागूर्ध्वं भेद एवेति मन्तव्यमिति ऋग्भाष्यटीकायाम् । विनाशानन्तरं भेद एवेति न्यायदीपिकायाम् । यद्यप्यसद्य-त्कार्यरूपेण कारणात्मतयाऽस्ति हीत्यनुभाष्ये सदसत्कार्यवादोऽभ्युपगतः । तथापि कारणा-त्मनैव पाकसत्वं न कार्यत्मनेत्यङ्गीकारान्न विरोधः । पटत्वावस्थायां तु भेदाभेदश्चेति तत्वम् । अत्राप्यस्ति विशेषः । व्यतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेदः विवक्षित इति । व्यतिषङ्गैस् तन्तुभिस्तु भेदाभेदाविति । तच्चोक्तं न्यायदीपिकायाम् । व्यतिषङ्गविशिष्टा हि तंतवोऽवगम्यन्ते । न च व्यतिषङ्गविशिष्टतन्तुसद्भावे कदाचित्पटस्याभावः । तस्मात्तैः पटस्यात्यन्ताभेद एव विवक्षितः । व्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवेति । पण्डिता-चार्यसिद्धान्तस्तु प्रागूर्ध्वं भेदः कार्यत्वावस्थायामभेद इति कालभेदेन भेदाभेदाविति । उपपादितमेतत्तत्वप्रकाशिकायाम् ।

एवं प्रमेये व्यवस्थिते तदनुसारेणेदं वाक्यं योज्यम् । तथाहि । प्रकृतेरुपादानभूतायाः सद्विकाराणाम् अभेदः कोट्यंशः । अत्र कोटिशब्दो बाहुल्यवाची । बहवो सङ्ख्याभेदस्य धर्मिभूता अभेदकोट्यंशा इष्यन्ते अङ्गीक्रियन्ते । अभेदः सर्वांशग इति यावत् । पटत्वा-द्यवस्थायां तन्त्वादीनां कारणत्वाभावादत्रांशशब्देन तन्त्वादय उच्यन्ते । तथा च व्यतिषङ्ग-विशेषणविशिष्टैः सर्वतन्तुभिस्तु तद्विकारस्य पटस्याभेद इति भावः ।

एकैकतन्तुभिस्तु पटस्य भेदाभेदाविति वक्तुं भेदं तावदाह ॥ तथैवेति ॥ वाक्यार्थ-द्वयसमुच्चये तथाशब्दः । एकैकांशमपेक्ष्य पटस्य भेद इत्यर्थः । एवशब्द उत्तरत्रान्वेति । अभेदं चाह ॥ सोऽपीति ॥ स भेदोऽप्यस्ति घटपटभेदवदेव वर्जितो नैवमभेदेन सहित एवेत्यर्थः । भेदाभेद एवेति यावत् । अथवा पूर्वार्धेऽपि भेद इत्येव पदच्छेदः । तथा च प्रकृतेस्तद्विकाराणां च भेदः कोट्यंशः । सर्वांशगत इष्यते । पूर्वोत्तरभेदाङ्गीकारात् । कार्य-त्वावस्थायामपि अविवक्षितव्यतिषङ्गैस्तन्तुभिरेकैक तन्तुभिश्च पटस्य भेद इत्युभय-विरोधोऽप्यभेद एव वर्जितो न त्वभेदासमानाधिकरणो न भवतीति यावत् ।

उपसंहरति ॥ भेदाभेदमिति ॥ यत एवमविवक्षितव्यतिषङ्गैस्तन्तुभिरेकैकतन्तुभिश्च पटस्य भेदो अभेदेन वर्जितो न भवति । अतो भेदाभेदं भेदसहितमभेदं चाह । यतश्च विवक्षितव्यतिषङ्गैस्तन्तुभिः पटस्य न भेदावकाशोऽतः कारणात्तत्वप्रदीपानुसाराद्वा तयो-स्तन्तुपटयोरभेदं प्राहुरिति ज्ञेयम् ॥

मूलार्थस्तु यस्तु यस्माद्यः प्रकृत्यादिः कारणपदार्थः । यस्य महदादेस्तत्कार्यस्यादि-रुपादानमन्तो विलयस्थानं च तस्मान्मध्यं च स एव कार्याभिन्न एव । अनेन कार्यतादशायां व्यतिषङ्गविवक्षया अत्यन्ताभेद उक्तो भवति । अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिरेकैक-तन्तुभिश्च पटस्य भेदाभेदमुपपादयति ॥ विकार इति ॥ यथा तैजसपार्थिवाः सुवर्ण-मृदादिविकाराः कटककुण्डलादयो घटादेश्च व्यवहारार्थः । स्वर्णकटको मृद्घट इत्यादि-सामानाधिकरण्यव्यवहारार्थाः । व्यवहारविषयाः । तस्मादतो भेदः यतश्च हस्तकर्णा-द्यलङ्करणजलाहरणादिव्यवहारार्थकाः । तस्माद्भेदः स्वर्णमृत्पिण्डादिदशायां कार्योचितार्थ-क्रियाकारित्वाभावात्कार्यतापत्यनन्तरमेव तत्तद्भावात्सुवर्णमृदादीनां तत्कार्ये भेदोऽपि दृश्य इत्येवं भेदाभेदस्तदर्थो महदादिविकारः व्यवहारार्थः । प्रकृत्यात्मको महदादिरिति सामानाधि-करण्यव्यवहारविषयः । प्रकृतित्वावस्थायामविद्यमानस्य स्वोचितब्रह्माण्डजननादिलक्षणार्थ-क्रियारूपव्यवहारस्यार्थः प्राप्तस्तस्माद्भेदकार्याभेदकार्ययोर्द्वयोर्दर्शनाद्विकारिणोर्भेदाभेदाविति । तदुक्तं गीतातात्पर्यनिर्णये । तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः । अनन्य-श्चेत्तत्वभावे पटाभावः कुतो भवेदिति ॥ विस्तृतं च न्यायदीपिकायामिति ॥ १७ ॥

यदुपादाय पूर्वस्तु भावो विकुरुते परम् ।

आदिरन्तो यतो यस्मिंस्तत् सत्यमभिधीयते ॥ १८ ॥

तात्पर्यम्

‘पारमार्थिकसत्यत्वं स्वातन्त्र्यमभिधीयते । तद्विष्णोरेव नान्यस्य तदन्येषां सदास्तिते’ति च ॥ यद्ब्रह्मोपादाय । पूर्वः प्रकृत्यादिः । आदिरन्तश्च यद्ब्रह्मणि यस्मात्तस्माद्ब्रह्म परमार्थसत्यम् ॥ १८ ॥

पदरत्नावली

ब्रह्मणो विकारः प्रपञ्च इति केचित् । तन्मतं प्रत्याह– यदुपादायेति । यद्वा मुख्यनिमित्तं ब्रह्म इतरकारणेभ्यो व्यावर्तयति यदिति । तुशब्दो ब्रह्मणो मुख्यत्वमभिप्रैति । पूर्वो भाव उपादानलक्षणः पदार्थः प्रकृत्यादिर् यद् ब्रह्मोपादाय निमित्तकारणतया आदाय यस्य ब्रह्मणः सामर्थ्यमाश्रित्य अपरं कार्यरूपं भावमुद्दिश्य विकुरुते विकारयति च यतो ब्रह्मणो अस्य आदिरन्तश्च यस्मिन् ब्रह्मणि मध्ये चावस्थितिस् तद् ब्रह्म सत्यं परमार्थलक्षणं स्वतन्त्रं विकारादिदोषविधुरं च इत्यर्थः । ‘‘पारमार्थिकसत्यत्वं स्वातन्त्र्यमभिधीयते । तद् विष्णोरेव नान्यस्य तदन्येषां सदाऽस्तिता’’ इति वचनात् ॥ १८ ॥

श्रीनिवासतीर्थीया

यदुपादेयेति श्लोके ब्रह्मण एव सत्यत्वं नान्यस्येत्युच्यत इत्य-न्यथाप्रतीतिपरिहाराय व्याचष्टे ॥ पारमार्थिकेति । तत्स्वातन्त्राख्यं पारमार्थिकसत्यत्वम् । तर्हि विश्वं सत्यमित्यादेः का गतिरित्यत आह ॥ तदिति । विष्ण्वितरेषां सदाऽस्तित्वमेव सत्यत्वं तदेव च श्रुत्यादावुच्यते न स्वातन्त्र्यरूपमित्यर्थः । यदुपादेयेत्यादि व्याचष्टे ॥ यदिति ॥ पूर्वपदार्थमाह पूर्व इति । आदिरन्तश्चेत्यादि व्याचष्टे ॥ आदिरिति । यद्ब्रह्मणि यच्च तद्ब्रह्म तस्मिन्यद्ब्रह्मणि । यस्मिन्नित्यस्यार्थोऽयम् । यत इत्यस्यार्थः यस्मादिति । तदित्यस्यार्थस् तद्ब्रह्मेति ॥ तथा चायमर्थः ॥ न प्रकृतिपुरुषयोरेतावता स्वातन्त्र्यं मन्तव्य-मित्युच्यते ॥ यदिति । पूर्वो भावः प्रकृत्यादिकारणपदार्थसार्थः । यद्ब्रह्मनिमित्तकारण-भूतमुपादायाश्रित्य । यत्प्रेरणयेति यावत् । परं महदादिकार्यमुद्दिश्य विकुरुते विकरोति तत्सत्यम् । तथा यतो यस्मात्कारणाज्जगत आदिरन्तश्च यस्मिन्यद्ब्रह्मणि यदधीनत्वेन वर्तते तत्तस्मात्कारणात्तद्ब्रह्मैव सत्यं स्वतन्त्रमित्युच्यत इत्यर्थः ॥ १८ ॥

प्रमेयचन्द्रिका

प्रकृतेरुपादानत्वेन तदेव प्रधानं कारणमिति न मन्तव्यम् । किं तु हरिरेव स्वतन्त्रत्वात्प्रधानकारणम् । प्रकृत्यादेरुपादानत्वादिशक्तिश्च भगवदधीनेत्याशयेनोच्यते ॥ यदुपादायेति ॥ अत्र पूर्वो जगद्रूपो भावो यद्ब्रह्मोपादायोपादानं कृत्वा विकुरुते विकारी भवति । यतश्चैवमादिरंतश्च प्रतिष्टितस्ततस्तद्ब्रह्मैव सत्यमित्युपादानं ब्रह्म व्यतिरेकेण विकारात्सत्यमुच्यत इति अपव्याख्याननिरासाय यथावद्व्याख्यातुं पदार्थं तावत्प्रमाणेनाह ॥ पारमार्थिकेति ॥ परम उत्तमश्चासावर्थश्च परमार्थस् तत्सम्बन्धि पारमार्थिकम् । तादृशं सत्यत्वं स्वातन्त्र्यमित्यभिधीयते । स्वसत्तादौ परानपेक्षं हि स्वातन्त्र्यम् । एतदेव हि मुख्यं सत्वम् । तद्विष्णोरेव नान्यस्य । तदन्यस्मिन् सत्यत्वस्य हरिसापेक्षत्वाच्च । देशकालानपेक्षा हि न सत्ता क्वापि विद्यत इति अनुव्याख्याने । तर्ह्यन्येषां सत्यत्वं कीदृशमित्यत उक्तम् ॥ तदन्येषामिति ॥ सदा कालत्रयेऽप्यबाध्यतया स्थितेः सत्यत्वमभिधीयत इति योजना । अनित्यस्यापि भावस्य कालत्रयाबाध्यत्वं प्रसिद्धमेवेति । मूले सामान्यतः सत्यपदप्रयोगेऽपि मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेन परमार्थसम्बन्ध्येवात्र विवक्षितमिति पारमार्थि-केत्युक्तमिति ज्ञेयम् ।

एवं सत्यपदार्थे व्यवस्थिते समग्रश्लोकं व्याचष्टे ॥ यदिति ॥ जगत्सृष्टृत्वेन प्रकृतं ब्रह्म यच्छब्देनोच्यते । यच्छब्दस्यान्वयं दर्शयति ॥ उपादायेति ॥ पूर्वो भाव इति कोऽत्र विवक्षित इत्यत उक्तम् ॥ पूर्वः प्रकृत्यादिरिति ॥ आदिपदेन महदहङ्कारादिग्रहणम् । आदिरित्यस्य पूर्व इत्यनेन पुनरुक्तिवारणायान्वयमाह ॥ आदिरन्तश्च यदिति ॥ आदिरुत्पत्तिरंतो विनाशः । यदित्येतन्मूलगतस्य यत इत्यस्यार्थः । मूले यस्मिन्नित्यधि-करणतया निर्दिष्टं किमित्यत उक्तम् ॥ ब्रह्मणीति ॥ ब्रह्मण इति पाठे तु यत इत्यस्य प्रतिपदं यदिति । तस्यार्थो ब्रह्मण इति । यदित्यस्यावृत्तिमभिप्रेत्य तदर्थमाह ॥ यस्मा-दिति ॥ यस्मात्कारणादित्यर्थः । तदित्यस्यार्थस्तस्मादिति । तदित्यस्यावृत्तिमभिप्रेत्य तस्यार्थं वदन्नन्वयं दर्शयति ॥ तद्ब्रह्मेति ॥ सत्यशब्दमुख्यार्थग्रहणाय परमात्मेत्युक्तिः ।

एतेन मूलस्यैवम् अर्थ उक्तो भवति । यतो यस्मात्कारणात् पूर्वो भावः प्रकृत्यादि-कारणरूपोऽर्थः । यत्परब्रह्मोपादाय स्वप्रेरकत्वादिना स्वीकृत्य । परमित्यव्ययम् । परमात्मना कारणं विकुरुते विक्रियते । यतो ब्रह्मणः सकाशादादिरुत्पत्तिरन्तो विनाशश्च सर्वस्य भवति । यस्मिंश्च ब्रह्मणि सर्वं प्रतिष्ठितं तत्तस्मात्कारणात्तद्ब्रह्मैव परमार्थसत्यं स्वतन्त्रमभिधीयत इति । तथा च हरिरुपादानादिकारकग्राममधिष्टाय तस्योपादानत्वादिशक्ति-नियमनपूर्वकं स्वाधारतयैव सर्वस्रष्टृत्वाल्लयहेतुत्वादाधारत्वाच्च जगत्सृष्ट्यादौ हरिरेव स्वतन्त्रो नोपादानादिरिति भावः । प्रकृत्यादेस्तदभिमानिनश्च भगवदधीनसत्ताकत्वाच्च ॥ १८ ॥

प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः स्मृतः ।

सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्वहम् ॥ १९ ॥

तात्पर्यम्

परः पुरुषो हिरण्यगर्भः । कालोऽपि रूपान्तरेण स एव । ‘कालाभि मानी ब्रह्मा तु काल इत्यभिशब्दितः । सर्वजीवाभिमानी स परः परुष उच्यते । प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी । सा प्रसूते जगत्सर्वं सूत्रमारभ्य सर्वश’ इति च । आधारो व्यञ्जकश्चैव प्रसविता (प्रसवीता) च केशवः । ‘कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि । आधारो व्यञ्जकश्चैव सर्वस्यापि नियामक’ इति च ॥ १९ ॥

पदरत्नावली

इतोऽपि विकारमन्तरेण मुख्यं कारणं ब्रह्मैव प्रकृत्यादीनां सत्ताया-स्तदधीनत्वादित्याह प्रकृतिरिति । सत्वादिगुणरूपा प्रकृतिरस्य जगत उपादानमात्रं परः पुरुषः हिरण्यगर्भ आधारः । कालोपि रूपान्तरेण हिरण्यगर्भ एव सतो जगतोऽभिव्यञ्जकः निमित्तकारणम् । उपादानमाधारोऽभिव्यञ्जक इति कारणत्रयं ब्रह्म सर्वशक्तिपूर्णोऽहमेव । तेषां तच्छक्तिप्रदोऽहमित्यर्थः । हिशब्देन ‘‘कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः । सर्वजीवाभिमानी स परः पुरुष उच्यते । प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी । सा प्रसूते जगत् सर्वं सूत्रमारभ्य सर्वशः’’ इति (मानं) सूचयति । तुशब्दः प्रकृत्यादिभ्यो ब्रह्मणो महान् विशेषोऽस्तीति सूचयति । तदुक्तम् - ‘‘आधारो व्यञ्जकश्चैव प्रसवीता च केशवः । कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि । अधारो व्यञ्जकश्चैव सर्वस्यापि नियामकः’’ इति ॥ १९ ॥

श्रीनिवासतीर्थीया

इतोऽप्यहमेव स्वतन्त्र इत्याह ॥ प्रकृतिरिति । अत्र पुरुषः परो भगवानिति प्रतीतिवारणायानूद्य व्याचष्टे ॥ पर इति । कः कालो योऽभिव्यञ्जक इत्यत आह ॥ कालोऽपीति । अभिव्यञ्जकत्वेनोक्तः कालः कालनामा स एव हिरण्यगर्भ एव रूपान्तरेणोच्यत इत्यर्थः । एवं व्याख्यातार्थे प्रमाणमाह ॥ कालेति । तत्पत्नी ब्रह्मपत्नी । प्रकृतेर्महदादिकार्यानुस्यूताव्यक्तभागस्य । सर्वशः सर्वत्र देशे काले च । सूत्रमारभ्य सर्वं जगत्प्रसूयते । अनेन प्रकृतिर्ह्यस्योपादानमित्यस्यार्थ उक्तो भवति । ब्रह्मतत्त्रितयं त्वहमिति प्रकृत्याद्यभेद उच्यत इति भ्रान्तिवारणाय प्रमाणेनार्थमाह ॥ आधार इति । कालप्रकृतिपुंसां चाधार इत्यादिसम्बन्धः । ननु मूलप्रकृतेरेवाधारादित्वात्केशवस्य तत्कथमित्यत उक्तम् ॥ तन्मूलेति । चशब्दात्प्रसवितेति ग्राह्यम् । ‘‘सिसृक्षत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिते’’त्युक्तेः ॥ तथा चायमर्थः ॥ अस्य सूत्रादेर्जगत उपादानं प्रसवित्री या प्रकृतिर्ब्रह्मपत्नी यश्च पृथिवीवत्कार्याधारभूतः परः पुरुषो हिरण्यगर्भो यश्च सतः सतां प्राप्नु-वतो जायमानस्य कार्यस्याभिव्यञ्जको निमित्तभूतः कालः कालाभिमानी ब्रह्मास्ति तत्त्रितयं तेषां प्रसवितृत्वाधारत्वाभिव्यञ्जकत्वशक्तिप्रदः । तत्त्रितयं तेषां कालप्रकृतिपुंसां त्रितय-माधारो व्यञ्जकः प्रसविता चातो ब्रह्म पूर्णभूतोऽहमेवेत्यर्थः ॥ १९ ॥

प्रमेयचन्द्रिका

स्वतन्त्रकारणं हरिरेवेत्यभिप्रायेणोच्यते ॥ प्रकृतिरिति ॥ अत्र परः पुरुषो हरिरिति भाति । तदयुक्तम् । तत् त्रितयं त्वहमिति पुरुषस्य भगवदधीन-सत्ताकत्वोक्त्ययोगादित्यतोऽनूद्यार्थमाह ॥ पर इति ॥ कालाभिमानी क इति न ज्ञायते । अत आह ॥ कालोऽपीति ॥ नामभेदोक्तेर्निमित्तनिरूपणम् ॥ रूपान्तरेणेति ॥ प्रमाणेन कालाद्यभिमानिनमाह ॥ कालेति ॥ कालाभिमानी तु काल इत्यभिशब्दितः ब्रह्मेति योजना । शेषादेरपि जीवाभिमानित्वात्तद्व्यावर्तये सर्वेत्युक्तम् । वाण्यादिसर्वजीवाभिमानित्वा-भावाच्छेषादेरिति भावः । प्रकृतिर्ह्यस्योपादानमित्युक्तसरस्वत्यभिमन्यमानजडप्रकृतेः सर्वजग-दुपादानत्वस्योपपादनाद् विशिष्य सरस्वतीग्रहणोपपादकसर्वोत्तमत्वोपपादनायोक्तम् ॥ सा प्रसूत इति ॥ स्वापेक्षया उत्तमस्य सूत्रशब्दवाच्यस्य मुख्यवायोरपि यदा प्रसूतिकर्त्री वाणी तदा किमु वाच्यं रुद्रादिसर्वजगदुत्तमत्वादिकमिति भावः । ब्रह्म तत् त्रितयं त्वहमित्यत्र परब्रह्मणः प्रकृतिपुरुषकालाभेद उच्यते इति भातीत्यतः प्रमाणेन तदभिप्रेतार्थमाह ॥ आधार इति ॥ पुंशब्देन जीवाभिमानी विरिञ्च उच्यते । व्यञ्जकः सर्जनाद्युन्मुखीकरणरूप-व्यक्तिकता । प्रसविता जनकः । एतेन तन्मूलप्रकृतेस् तेषां प्रकृतिकालपुरुषाणामपि या मूलभूता प्रकृतिर्महालक्ष्मीस्तस्या अपीत्यर्थः । एतेन मूलप्रकृतिपदेन वाणी लक्ष्मीत्येकं रूपम् । कालपुरुषनामकचतुर्मुखस्य रूपद्वयमित्येतत्त्रयम् । अहं मज्जन्यं मद्व्यङ्ग्यम् । मय्याश्रित इत्यर्थ उक्तो भवति ।

मूलार्थस्तु । अस्य सर्वस्य प्रपञ्चस्योपादानभूतजडप्रकृतिरभिमानिनी सरस्वती । अस्याधारः पुरुषो जीवाभिमानी विरिञ्चः सतोऽस्य जगतः व्यञ्जकः । अनित्यस्य जनने नित्यस्य जीवादेर्व्यञ्जने च निमित्तकारणभूतः कालः कालाभिमानिरूपान्तरवान् कालनामा विरिञ्च इत्येतत्त्रितयमहं ब्रह्म । महालक्ष्म्यपि प्रकृतिपदेन संगृह्यत इति एतत्त्रितयमिति युक्तम् । तन्ममाधारकम् । मद्व्यङ्ग्यम् मत्सृष्टं चेति यावत् ॥ १९ ॥

सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः ।

महान् गुणविसर्गोऽर्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥

तात्पर्यम्

यावत्स्थितिरस्ति तावदुत्पत्तिरस्त्येव । यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणम् ॥ २० ॥

पदरत्नावली

इतोपि जगतः सृष्ट्यादेर्मुखं कारणं ब्रह्मैवेति भावेन सृष्ट्यादेः कालावधिमाह– सर्ग इति । अयमर्थः । यावत् स्थितिरस्ति तावत् सर्ग उत्पत्तिरपि पौर्वापर्येण प्रवर्तते । यावदीक्षणं यदा लयः स्यादिति हरेः स्मरणं तदा स्थित्यन्तः स्थितेरन्तः प्रलयो भविष्यतीति । गुणानां सकाशाद् विसर्ग उत्पत्तिर्यस्य स महान् महत्तत्वमपि स्थित्यन्तः स्थितिसमयमात्रवर्ती प्रलये नास्तीति भावः । अत उत्पत्त्यादिकं भगवत्कर्तृकमित्यर्थः ॥ २० ॥

श्रीनिवासतीर्थीया

इतोऽपि जगत्सृष्ट्यादिकारणं ब्रह्मैवेत्याह ॥ सर्ग इति । तावत्पर्यन्तं सर्गः प्रवर्तत इत्युक्तम् । तत्र स्थित्यन्त इत्यस्यार्थमाह ॥ यावदिति । उत्पत्तिरिति सर्गशब्दार्थः । स्थित्यन्तो यावदीक्षणमित्यसङ्गतिपरिहारायानूद्य व्याख्याति ॥ यावदीक्षणमिति यावद्यदेत्यर्थः । भगवतः स्मरणं नाम चिन्ता । इच्छेति यावत् । न तु संस्कारकारणकं ज्ञानं नित्यानुभवत्वादिति भावः ॥ तथा चायमर्थः ॥ महान् गुणविसर्गः सत्त्वादिगुणोत्पत्तिनिमित्तकोऽयं विसर्गो यावत्पर्यन्तं स्थितिरस्ति तावत्पर्यन्तं प्रवर्तते । सर्गस्थित्योरेककालीनत्वानुपपत्तिपरिहाराय आह ॥ पौर्वापर्येणेति । सर्गानन्तरं स्थिति-स्तदनन्तरं पुनः सर्गः पुनः स्थितिरिति । पौर्वापर्येण नित्यशः प्रलयपर्यन्तमेवं प्रवर्तत इत्यर्थः । प्रलयः कदेत्यत आह ॥ स्थितीति । यावद्यदा जगतः प्रलयः स्यादिति भगवत ईक्षणमिच्छा भवति तदैव स्थित्यन्तः स्थितेरन्तः प्रलयो भवतीत्यर्थः ॥ २० ॥

दुर्घटभावदीपिका

पौर्वापर्येण पूर्वापरकालेषु विद्यमानेन नारायणेन कर्त्रा जातः स्थित्यन्तप्रलयो यावद्यदा भवति । तावत्पर्यन्तं पौर्वापर्येण कर्त्रा जन्यो महागुणविसर्गो गुणानां सत्त्वादीनां विसर्गो विसर्जनं यस्मिन्सगुणविसर्गः । सत्त्वादिगुणोपादान इति यावत् । अर्थः परप्रयोजनवान्सर्गः सृष्टिर्नित्यशोऽविच्छेदेन प्रवर्तते इति यावत् । यदा पौर्वापर्येणेत्येतदर्थवशात् षष्ठ्यन्तं सम्बन्धते । पौर्वापर्यस्य नारायणस्येक्षणं प्रलयः स्यादितीच्छा तदा पौर्वापर्येण कर्त्रा जन्मस्थित्यन्तः प्रलयो भवतीति । एतेनास्मिन् श्लोके भगवद्वाचकशब्दाभावेन भगवतः सृष्ट्यादि कर्तृत्वं नोच्यत इति शङ्काऽनवकाशः । तदा विद्यमानत्वेन निमित्तेन पौर्वापर्यशब्दो भगवद्वाचीत्यभ्युपगमात् । एतेनैवार्थवानिति वक्तव्यम् । अर्थ इति कथनमयुक्तमिति दूषणं परिहृतम् । अर्थशब्दस्य मत्वर्थीयार्शआद्यजन्तत्वाङ्गीकारात् ॥ ता.अर्थः ॥ यावद्यदा स्थित्यन्तः प्रलयो भवति तावत्पर्यन्तं सर्ग उत्पत्तिः प्रवर्तत इति योजनां मनसि निधाय तात्पर्यार्थमाह ॥ यावस्त्थितिरस्तीति । यावदीक्षणमित्यनुवादः । तस्यार्थमाह ॥ यावत्प्रलय इति । यावद्यदा प्रलयः स्यादिति भगवतः स्मरणमिच्छा । प्रलयो भवतीति शेषः ॥ २० ॥

प्रमेयचन्द्रिका

मूले यत्पर्यन्तं सृष्ट्यादिप्रवृत्तिरिति शङ्कां परिहरन् स्थितिश्च भगव-दधीनेत्युच्यते ॥ सर्ग इति ॥ दुर्गमार्थत्वादस्मिन् श्लोके कानिचित्पदानि व्याचष्टे ॥ यावदिति ॥ स्थित्यन्तो यावदित्यस्यार्थो यावत्स्थितिरस्तीति । अध्याहार्यमिति भावे-नोक्तम् । स्थितिरस्तीति ॥ अस्मिन्पक्षे स्थित्यंत इति मूलपदस्य स्थितेरन्तोऽवसान-मित्येवार्थः । तस्योत्तरत्रान्वयेन योजना द्रष्टव्या । सर्गः प्रवर्तते तावदित्यस्यार्थस्ताव-दुत्पत्तिरस्त्येवेति । यावदीक्षणमित्येतदनूद्य तस्यार्थकथनं यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणमिति । तत्रेक्षणमित्यस्यार्थः स्मरणमिति । तत्कस्येत्यत उक्तम् ॥ भगवत इति ॥ यावदित्यतः परमध्याहार्यप्रदर्शनं प्रलयः स्यादिति ।

तदयं मूलार्थः । यावत्स्थित्यन्तो ऽन्तः स्थानमित्यन्यत्रोक्तेः स्थित्यन्त इत्यस्य स्थितेरेव स्थानमित्यर्थः । तथा च यावत्कालं जगतः स्थितिरस्ति तावत्पर्यन्तं सर्गो नित्यशः पौर्वापर्येण प्रवर्तते । केषाञ्चित्सृष्टिः केषाञ्चित्स्थितिकाले पुनरन्येषां सर्गः केषाञ्चित्स्थितिसमये पुनरन्येषां सृष्टिरिति पौर्वापर्येणेत्यर्थः । यावदीक्षणं यावत्प्रलयः स्यादिति भगवदीक्षणं यावत् । नित्यज्ञत्पिस्वरूपस्यापि हरेरिदानीं प्रलयः स्यादित्येव ज्ञानगतव्यक्तिरूपं स्मरणं भवेत्तावत्पर्यन्तं स्थित्यन्तः । स्थितेरन्तो ऽवस्थानम् । यदा त्विदानीं प्रलयः स्यादिति भगवत ईक्षणं तदा स्थित्यन्तः स्थितेरन्तः प्रलयो भवति । नन्वेवं पदार्थानामादिसर्गमारभ्य महाप्रलयपर्यन्तमध्ये सृष्टिविनाशाङ्गीकारे महदादितत्वस्याप्येवं भवेत्किमित्यत उक्तम् ॥ महान् गुणविसर्गोऽर्थ इति ॥ सत्वादिगुणविसर्गरूपो महदहङ्कारादिरर्थो महानभ्यधिकः द्विपरार्धावसायी । तस्यावान्तरसर्गादिरिति ॥ २० ॥

विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः ।

पञ्चत्वायाविशेषाय कल्पते भुवनैः सह ॥ २१ ॥

तात्पर्यम्

‘विशेषेण गुणोद्रेकाद्विशेषः पृथिवी स्मृते’ति प्रवृत्ते । पञ्चत्वानन्तरम विशेषाय ॥ २१ ॥

पदरत्नावली

अधुना क्रमप्राप्तं प्रलयं निरूपयति विराडिति । विराडण्डकोशः भुवनैः सह पञ्चत्वाय कल्पते । पञ्चत्वानन्तरमपि अविशेषाय सत्वादिगुणानुद्रेकाय, नाशायेत्यर्थः । ‘‘विशेषेण गुणोद्रेकाद् विशेषः पृथिवी स्मृता’’ इति वचनाद् अण्डकोशनाशानन्तरं पृथिवीनाशोपि सूच्यतेऽनेन । लोकानां चतुर्दशसङ्ख्योपेतानां कल्पः कल्पना विकल्पो ऽवान्तरकल्पो विविधकल्पना च यस्मिन् स तथा स (विराट्) मया आसाद्यमानः विनाशाय प्रेर्यमाणः ॥ २१ ॥

श्रीनिवासतीर्थीया

तमेव प्रलयप्रकारं दर्शयति ॥ विराडित्यादिना । पञ्चत्वाया-विशेषायेति विशेषणविशेष्यभावप्रतीतिनिरासार्थमविशेषायेत्येतत्पदार्थज्ञानाय विशेषशब्दार्थमाह ॥ विशेषेणेति । परान्वयन्यायेन शब्दादिपञ्चगुणानामपि पृथिव्यामभिव्यक्तिरस्तीत्याशयः । विशेषणविशेष्यभावभ्रमं वारयति ॥ पञ्चत्वानन्तरमिति । तथा च कल्पविकल्पकः कल्पः कल्पना विकल्पोऽवान्तरभेदकल्पना । तदुभयसहितः प्राणी यो लोकस्तद्वान्विराडण्डकोशो मयाऽऽसाद्यमानः । सद्लृविशरणेत्यादिधातोर् विशीर्यमाणो नाशार्थमारब्धैर्भुवनैरन्तर्गतलोकैः सह पञ्चत्वाय नाशाय कल्पते नष्टो भवतीत्यर्थः । अनन्तरमविशेषाय कल्पते विशेषाभावाय कल्पते । खर्परभूतपृथिवीनाशो भवतीत्यर्थः ॥ २१ ॥

प्रमेयचन्द्रिका

प्रलयस्वातन्त्र्यं च हरेरेवेति यत्सूचितं तद्विवरणाय क्रमप्राप्तः प्रलयो निरूप्यते ॥ विराडिति ॥ लोकानां कल्पः संस्थानविशेषस् तस्य विविधतया कल्पो । विराट् ब्रह्माण्डो विराण्णामा विरिञ्चश्च । मया आसाद्यमानो विनाशाय प्रेर्यमाणो भुवनैश्चतु-र्दशलोकैः सह । पञ्चत्वाय अविशेषायेति सामानाधिकरण्यभ्रमं वारयति ॥ पञ्चत्वानन्तर-मिति ॥ प्रथमं पञ्चत्वाय विशकलितपञ्चभूतात्मकतारूपविनाशाय कल्प्यते । पञ्चत्वा-नन्तरमविशेषाय आवरणभूतपृथिव्यभावाय कल्प्यत इति भावः ॥ २१ ॥

अन्ने प्रलीयते मर्त्य अन्नं धानासु लीयते ।

धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥

अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे ।

लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥

तात्पर्यम्

‘देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी’त्यादि च ॥ २२ ॥

पदरत्नावली

अविशेषायेति प्रस्तुतं पृथिव्यादिलयं विविच्याह– अन्न इति । अत्राभिमानिनामभिमन्यमानानां चैकोक्त्या निरूप्यमाणो लयोऽभिमानिनोऽभिमन्यमानस्य स्वकारणेऽभि-मानिनि अभिमन्यमाने च विवक्षित इति । ‘‘देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी’’ इत्युक्तेर् अन्नमन्नाभिमानिनी धानास्वौषधीषु औषध्यभिमानिन्याम् । गन्धे स्वसूक्ष्मरूपे ॥ २२,२३ ॥

श्रीनिवासतीर्थीया

प्रस्तुतं पृथिव्यादिलयं विविच्याह ॥ अन्न इत्यादिना । पृथिव्या ओषधयः । औषधीभ्योऽन्नमन्नात्पुरुष इति सृष्टौ क्रमस्तद्वैपरीत्येन लयक्रममाह ॥ अन्न इत्यादिना । न केवलमत्र जडादीनामेव लयो मन्तव्यः किं नाम तदभिमानिदेवानाम-पीत्याशयेन तत्र प्रमाणमाह ॥ देव्यामिति । आदिपदेन सर्वत्रापि देवताविवक्षोक्तास्ति प्रमाणशेषे तदुक्तरीत्या द्रष्टव्येति सूचयति । मर्त्यः पुरुषदेहाभिमानी धानास्वोषधीषु

॥ २२,२३ ॥

प्रमेयचन्द्रिका

सर्वविलयो विविच्यते ॥ अन्न इति ॥ अन्नादेरौषधादिषु लयोऽनुप-लम्भबाधित इत्यतो अभिमानिदेवताविवक्षयैतदुक्तिरिति प्रमाणेनाह ॥ देव्यामिति ॥ अत्रादि-पदेन धाना भूमिर्गन्ध इत्यादिकमप्यभिमानिदेवताविवक्षयेत्यत्र प्रमाणानि द्रष्टव्यानीति दर्शयति । मूले धानाशब्देनौषधयोऽभिधीयन्ते । भूमौ देव्याम् । एवमुत्तरत्रापि तत्तदभिमानिनो ग्राह्याः

॥ २२ ॥

रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे ।

अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४ ॥

पदरत्नावली

इन्द्रियाणि स्वयोनिषु तैजसाहङ्कारे, इन्द्रियाभिमानिनश्च स्वयोनौ वैकारिकेऽहङ्कारे

॥ २४ ॥

श्रीनिवासतीर्थीया

शब्दतन्मात्राया लयो वक्तव्यस्तमनभिधायेन्द्रियाणां तावल्लय-प्रकारमाह ॥ इन्द्रियाणीति । स्वयोनिषु तैजसाहंकारे ॥ २४ ॥

प्रमेयचन्द्रिका

इन्द्रियाणि स्वयोनिष्विति ॥ तत्र बाह्येन्द्रियाणि स्वयोनौ तैजसाहङ्कारे मन इन्द्रियं स्वयोनौ वैकारिक इति विवेक्तव्यम् ॥ २४ ॥

योनिर्वैकारिके सौम्य लीयते महतीश्वरे ।

शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥

स लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।

तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥

कालो मायामये जीवे जीव आत्मनि मय्यजे ।

आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥

तात्पर्यम्

‘विकारजत्वात्तु महान्वैकारिक उदाहृतः । ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृत’ इति च ॥

‘गायत्री चैव सावित्री तथैव च सरस्वती । एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता । महत्तत्त्वात्मको ब्रह्मा तज्जत्वात्तत्र लीयते । गुणाधिकः पतिरपि तस्याः सत्वादिभेदतः । त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते । प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया । पुरुषाभिधे विरिञ्चे तु स स्वस्मिन्कालसञ्ज्ञिते । कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते । जीवमायेति यामाहुः सा च सत्वादिभेदतः । त्रिविधैकत्वमापाद्य विष्णावेव विलीयते । हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः । पुरुषेणापि सामीप्यं प्रकृतेर्लय उच्यते । ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः । अतस्तौ भिन्नदेहौ तु ज्ञानमात्रौ समीपगावि’त्यादि च ॥ २७ ॥

॥ इति एकादशतात्पर्ये चतुर्विंशोऽध्यायः ॥ २४ ॥

पदरत्नावली

योनिर्वैकारिकस्तैजसश्चाहङ्कारः विकारजत्वाद् वैकारिके महति चतुर्मुखे लीयते । ईश्वरे ईशनशक्तिमति । ‘‘विकारजत्वात् तु महान् वैकारिक उदाहृतः । ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृतः’’ इति स्मृतेः । भूतादिं तामसाहङ्कारम् । स भूतादिरनन्तद्वारेण महति महत्तत्वाभि-मानिनि ॥ स महान् स्वेषु गुणेषु कारणेषु गुणाभिमानिनीषु गायत्रीसावित्रीसरस्वतीषु । ते गुणास् ताः सत्वादिगुणवाच्यास्तिस्रो ऽव्यक्ते प्रकृत्याख्यस्वमूलरूपे । तदव्यक्तमव्यक्ताभिमानिनी गायत्री पुरुषाभिधे विरिञ्चे पत्यौ लीयते । स पुरुषः कालनामि्न स्वस्मिन् ॥ कालाख्यो विरिञ्चो मायामये जीवे मूलप्रकृत्यमिमानिन्यां महालक्ष्म्यां, जीवनाम्नी श्रीर् अजे आत्मनि मयि विशेषरतिलक्षणं लयमाप्नोति । आत्मस्वरूपं वक्ति आत्मेति । आत्मा पूर्णगुणः केवलः प्रकृतिसम्बन्धविधुरो ऽसमाधिकश्च, आत्मस्थो ऽनन्याधारो ऽत एव लयादिहीनः विकल्पापायलक्षणः सम्यग्ज्ञानरूपः, मिथ्याज्ञानापगमो लक्षणं यस्य स तथेति वा ॥ २५–२७ ॥

श्रीनिवासतीर्थीया

वैकारिक इत्यहङ्कारतत्त्वकार्यविशेषप्रतीतिपरिहाराय वैकारि-केश्वरब्रह्मशब्दैश्चतुर्मुखो वाच्य इत्याह ॥ विकारजत्वादिति । महांस्तदभिमानी चतुर्मुखः सत्त्वादिगुणविकारवत्त्वात् । तथा चेन्द्रियदेवा मनश्च योनौ स्वकारणे वैकारिकेऽहङ्कारे लीयन्त इति वक्तव्यम् । योनिरिन्द्रियदेवतादेहादिर्योनिर्वैकारकोऽहङ्कारः वैकारिक ईश्वरे ब्रह्मणि स्वपुत्रतया स्वस्त्रीषु गायत्र्यादिषु सूत्रेण सहोत्पन्ने महति ब्रह्मणि लीयत इत्यर्थः । तैजसश्च तस्मिन्नेव लीयत इत्यपि वक्तव्यम् । अम्बरं शब्दतन्मात्रमित्युक्तम् । शब्दस्य लयो नोक्तस्तमिदानीमाह ॥ शब्द इति । भूतादिं तामसाहङ्कारम् । भूतादिश्च महति सूत्रेण सह स्वपुत्रतया स्वस्त्रीषूत्पन्ने ब्रह्मणि । गुणवत्तमो महान्स्वेषु गुणेषु लीयत इत्युक्तम् । तदप्रतीतेः प्रमाणेनैव व्याकरोति ॥ गायत्रीत्यादिना । गुणवत्तम इत्यस्यार्थः गुणाधिक इति । तस्यास्त्रिरूपप्रकृतेः पतिरपि तज्जत्वात्त्रिरूपप्रकृत्याख्यस्वपत्नीजन्यत्वात्तत्र लीयत इत्यर्थः । तेऽव्यक्ते संप्रलीयन्ते इत्यस्याव्यक्तं रमेत्यन्यथाप्रतीनिरासायार्थमाह । सत्त्वादि-भेदतः सत्त्वाद्यभिमानिगायत्र्यादिप्रभेदतस्त्रिविधा सा मूलरूपायां प्रकृत्यामव्यक्तावान्तराभि-मानिन्यां प्रद्युम्नजन्यायां प्रधानसंज्ञायां ब्रह्मपत्न््नयां लीयत इत्यर्थः । तत्काल इति मूलप्रकृते-र्ब्रह्मपत्न््नयाः काले न साक्षाल्लय इत्याशयेन मूलानुक्तं तदभिप्रेतं द्वारमाह ॥ प्रकृतिरिति । तत्काल इत्यस्यार्थमाह ॥ स इति । पुरुषनामा विरिञ्चः । कालो मायामये जीव इत्यस्यार्थमाह ॥ सा चेति । सा महालक्ष्मीः सत्त्वाद्यभिमानिनी श्रीभूदुर्गादिभेदेन त्रिविधा सती विद्यमाना पश्चादेकत्वमापाद्य प्राप्य विष्णौ लीयत इत्यर्थः । कस्तस्य हरौ लय इत्यत आह ॥ हरेरिति । प्रकृतिर्ब्रह्मपत्नी पुरुषाभिधे विरिञ्चे लीयत इत्युक्तम् । तत्र विरिञ्चे तस्या देहलयो नास्ति । लक्ष्मीवत्तस्या अपि पुरुषसामीप्यप्राप्तिरेव लय इति प्रमेयविशेषं शिष्यानुकम्पयाऽऽह ॥ पुरुषेणेति । तत्र युक्तिमाह ॥ ब्रह्मा चेति । मुक्तावेषां देवानां येषु देवेषु प्रवेशादिरूपं सायुज्यमस्ति तेषां देवानां प्रलयकालेऽपि तत्र प्रवेशेन देहलयो वक्तव्यः । ब्रह्मसरस्वत्यौ तु मुक्तौ भिन्नदेहावेव परस्परं समीपे वर्तेते न तु सरस्वत्या ब्रह्मप्रवेशरूपं सायुज्यम् । अतः प्रलयकालेऽपि भिन्नदेहावेव समीपगौ सन्तौ सहैव वासुदेवं विशत इत्याशयात् ॥

तथा चायं प्रमाणार्थः ॥ यतो ब्रह्मा प्रकृतिश्चेत्युभौ विलये भिन्नदेहौ समीपस्थावत एव भिन्नदेहौ सन्तौ ज्ञानमात्रौ ज्ञानरूपौ विमुक्तिगावन्यथा तन्न स्यादिति । ‘‘स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णय’’ इत्यनुव्याख्याने गिरो ब्रह्मणि प्रवेशकथनं यत्तदपि निरवकाशैतत्प्रमाणानुसारात्सामीप्यार्थकं व्याख्येयमित्याहुः ॥ तथा चायं स लीयत इत्यादेरर्थः । महान् ब्रह्मा गुणवत्तमोऽपि गुणवत्त्वेन तदुत्तमोऽपि स्वेषु स्वजनकेषु गुणेषु गायत्र्यादिषु लीयते तज्जत्वादित्याशयः । ते गुणाभिमानिन्यो गायत्राद्या अव्यक्ते प्रद्युम्न-जन्यायामव्यक्तनाम््नयां मूलप्रकृतिशब्दवाच्यब्रह्मपत्न््नयां तदव्यक्तं पुरुषे पुन्नामकब्रह्मणि लीयते तत्सामीप्यं प्राप्नोति । तत्पुन्नामकब्रह्मा काले कालनामके स्वस्मिन् लीयते । अत्र पुन्नामकब्रह्मणः पूर्वं वासुदेवात्कालनामको ब्रह्मोत्पन्नोऽस्तीति तात्पर्यनिर्णयादावनुक्तमप्ये-तद्बलात्कल्पनीयमेव । न ह्यनुक्तिर्दोष एव । कालः कालनामा ब्रह्मा मायामये मायामय-शब्दवाच्ये जीवे सर्वप्राणधारकत्वेन तच्छब्दवाच्यायां मायायां वासुदेवपत्न््नयां स्वमातरि लीयते । अत्र प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतमिति वासुदेवप्रवेशे तदनुज्ञाग्रहणमेव लयशब्दार्थ इति विवेको भाष्योक्तरीत्याऽनुसन्धेयः । जीवो महालक्ष्मीरजे आत्मनि व्याप्ते मयि लीयते । स्वरूपैरेकतां प्राप्य मत्समीपे तिष्ठतीत्यर्थः ॥ आत्मस्वरूपं वक्ति ॥ आत्मेति । केवलो जडामिश्र आत्मा पूर्णगुण आत्मस्थोऽनन्याधारः । विकल्पस्य मिथ्या-ज्ञानस्यापाय एव यस्य लक्षणं स तथोक्तः । सम्यग्ज्ञानस्वरूप इत्यर्थः ॥ २५–२७ ॥

दुर्घटभावदीपिका

विकल्पापायलक्षण इत्यस्य विकल्पानां भक्तिनिष्ठसंशयमिथ्या-ज्ञानानामपायोऽभावो लक्षणं यस्य स विकल्पापायलक्षण इत्यर्थः । लक्ष्म्यादिनिष्ठसंशय-मिथ्याज्ञानाभावहेतुत्वलक्षण इति यावत् । लक्ष्मीनिष्ठसंशयमिथ्याज्ञानाभावस्य नित्यत्वेऽपीश्वरा-धीनत्वादीश्वरहेतुकत्वमिति द्रष्टव्यम् । एतेन संशयमिथ्याज्ञानराहित्यस्य लक्ष्म्यामपि विद्यमानत्वात् संशयमिथ्याज्ञानराहित्यं भगवल्लक्षणं कथं स्यादिति चोद्यस्यानवकाशः । विकल्पापायलक्षण इत्यनेन भगवतः संशयमिथ्याज्ञानराहित्यं लक्षणमुच्यत इत्यनङ्गीकारात् ॥ २७ ॥

प्रमेयचन्द्रिका

सा च योनिरहङ्कारः । वैकारिकनाम्नीश्वरे सकलजगदीशाधीनगुणयुक्ते महत्तत्वाभिमानिनि ब्रह्मणि लीयते । सौम्येत्युद्धवं प्रति सम्बोधनम् । अत्र वैकारिक ईश्वर इति वैकारिकाहङ्काराभिमानी रुद्र उच्यत इति भाति । तथात्वे च महतीत्युक्तिरयुक्ता स्यात् । योनिपदोक्ताहङ्कारस्य वैकारिके लयायोगाच्चेत्यतो वैकारिकेश्वरशब्दौ ब्रह्मणि निर्वक्ति ॥ विकारजत्वादिति ॥ तुरेवार्थे । गुणत्रयविकारमहत्तत्वात्मकदेहवत्वेन अतत्वादेव । न तु रुद्राभेदादित्यर्थः । ईश ऐश्वर्य इत्यस्माद्वरच्प्रत्यये ईश्वर इति भाति । न तु रूढ्येत्याशये-नोक्तमीशनादेवेति ॥ ब्रह्मशब्दनिरुक्तिर् वैकारिकेश्वरपदयोर्विरिञ्चपरताज्ञापनायेति ज्ञेयम् ।

मूले पूर्वं पृथिव्यादीनां गन्धादौ लयक्रमेण शब्दे लयमभिधाय शब्दस्य लयानुक्तेर्महति लीयत इति शेषः । अत्र सः लीयत इत्यादौ महत्तत्वाभिमानिविरिञ्चस्य स्वेषु स्वकारणेषु गुणेषु लयोऽभिधीयते । अत्र गुणशब्देन गुणत्रयाभिमानिनी रमा स्वीकार्यते इति । अव्यक्ते संप्रलीयन्त इति अनुपपन्नम् । स्वस्य स्वस्मिन् लयायोगात् । त्रिरूपा सरस्वती विवक्षि-तेत्यप्ययुक्तम् । गुणाधिकस्य तत्पतेर्ब्रह्मणस्तत्र लयायोगात् । अव्यक्तस्य काले लयोऽप्यनु-पपन्नः । अव्यक्ताभिमानिरमायाः कालाभिधे विरिञ्चे लयासम्भवात् । तस्य च कालस्य जीवे लयादिः सुतरामनुपपन्नः । जीवशब्देन रमाविवक्षायां तस्या लयोक्तिरयुक्ता स्यादित्या-शङ्कावारणाय प्रमाणेन व्याचष्टे ॥ गायत्रीत्यादिना ॥ चस्तथाशब्द इतरेतरसमुच्चयार्थः । ब्रह्मपत्न््नयैव न तु श्रीरित्येवशब्दार्थः । द्वितीय एवशब्द उत्तरत्रान्वेति । तज्जत्वादेवेति ॥ अपि यद्यपि । महत्तत्वाभिमानी ब्रह्मा तस्याः सरस्वत्याः पतिर् गुणैरधिकश्च तथापि तज्ज-त्वादेव तत्र तस्यां लीयत इत्युक्तमित्यर्थः । एतेन सरस्वत्यपेक्षया गुणवत्तमोऽपि गुणत्रयाभिमानिन्यां जातत्वादेव गुणेषु लीयत इति मूलार्थ उक्तो भवति । तज्जत्वं चोक्तं पुरस्तात् । सत्वादिभेदतस्त्रिविधा सा देवी प्रकृत्याख्या मूलरूपायां स्वस्यां विलियत इत्यनेन तेऽव्यक्ते संप्रलीयन्त इत्येतद्व्याख्यातं भवति । रूपान्तरत्वान्न स्वस्मिन् लयानुपपत्तिः । प्रकृतिमूर्लरूपा इत्यनेन तत्काले लीयत इत्येतदव्यये पुरुषनामके विरिञ्चे लीयते । स च कालनामके स्वस्मिन् लीयत इति व्याख्यातं भवति ॥

कालो मायामय इत्यस्यार्थः ॥ कालाभिध इति ॥ जीवमायेतीति सर्वप्राणधारणा-ज्जीवः सर्वप्रधानत्वान्मायेत्याहुरित्यर्थः । जीवबन्धिका मायानाम्नीति वा । जीव आत्मनि लीयत इत्यस्यार्थः ॥ सा चेति ॥ सत्वादिभेदतः श्रीभूदुर्गाभिधा त्रिविधा । सा देवी प्रकृत्याख्यस्वमूलरूपैक्यं प्राप्य हरावेव विलीयत इत्यर्थः । नन्वप्राकृतचिंदानंदात्मकदेहायाः कथं लय इत्यत उक्तम् ॥ हरेरिति ॥ यद्यपि देशतः कालतः समव्याप्तायास् तस्या अस्त्येव सदाऽत्यन्तसामीप्यम् । तथा च लक्ष्मीनामकरूपेण हरेर्भुजान्तरागतत्वमिह विवक्षितमिति द्रष्टव्यम् । प्रकृतिनामकब्रह्मपत्न््नयाः पुरुषाभिधे विरिञ्चे लयोऽप्येवमेवेत्याह ॥ पुरुषेणेति ॥ अत्र विवक्षितं सामीप्यं विशदयति ॥ ब्रह्मा चेति ॥ चशब्दा-वन्योन्यसमुच्चये । तथा च ब्रह्मा च प्रकृतिश्चेत्येतौ प्रलयकाले यतो भिन्नदेशे भग्नलिङ्गशरीरौ विभागेन व्यवस्थिताविति लिङ्गभङ्गावसानमत्वादत एव मुक्तिगौ । ज्ञानमात्रदेहौ च । अभिमतजडदेहव्यावृत्यर्थो मात्रशब्दः । विमुक्तिगौ तौ तु । अतिशयेन समीपगावेव । नेतरमुक्ता इव तत्र स्थितावित्यर्थः । ब्रह्मणश्च ब्रह्माण्याश्च स्थानैक्यमिति न्यायविवेकः ॥ सृष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेदिति न्यायेन, प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे प्रजग्मतुरिति निर्णयोक्तरीत्या प्रद्युम्नाज्जातप्रकृतिनामकरूपस्य विरिञ्चे लयायोगादिति सामीप्यं लय इत्युक्तमिति ज्ञेयम् ।

आत्मनि मयीत्युक्तस्वमाहात्म्यमुच्यते ॥ आत्मेति ॥ आत्मा गुणपूर्णः । केवलो जडामिश्रः । सर्वोत्तमो वा । आत्मस्थः स्वाधारः । स्वे महिम्नीयुक्तेः । विकल्पापा-योऽनादितोऽप्यंसस्पर्शः । स एव लक्षणं यस्य स तथा । विकल्पस्याप्ययोनिवृत्तिकत्वं वैलक्षण्यं यस्य स तथेति वा ॥ २५–२७ ॥

एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।

मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥

पदरत्नावली

कथितसृष्ट्यादिस्मरणफलमाह– एवमिति । वैकल्पिको भ्रमः विरुद्धकल्पनालक्षणमन्यथाज्ञानम् । मनस उत्पन्नं हृदि बुद्धौ ॥ २८ ॥

श्रीनिवासतीर्थीया

सृष्ट्यादिकथनफलमाह ॥ एवमिति । एवं भगवत एव स्वातन्त्र्यमन्यस्य तदधीनत्वं चान्वीक्ष्यमाणस्य विचारयितुमधिकारिणो विरुद्धकल्पनाख्यो मनस उत्पन्नो भ्रमो हृदि बुद्धौ कथं तिष्ठेत । नश्यतीति यावत् । तत्र दृष्टान्तो व्योम््नयर्कोदये तम इवेति ॥ २८ ॥

दुर्घटभावदीपिका

व्योमि्नवाऽर्कोदये तम इत्यस्यार्कोदये सति व्योमि्न सूर्यप्रकाशा-वकाशयुक्तस्थले तम इव तमो यथा न तिष्ठतीत्यर्थः । अर्कोदयानन्तरं गुहादावन्धकारस्यावस्थानाद् अर्कोदये तमोऽवतीष्ठतीति शङ्कापरिहारार्थं व्योम्नीत्युक्तम् । एतेन व्योम्नयर्कोदयो भवतीत्यर्थस्य सिद्धत्वाद्व्योम्नीति कथनं व्यर्थमिति दूषणं पराकृतम् । व्योम्नीत्यस्यार्कोदय इत्यनेनान्वय इत्यनङ्गीकारात्

॥ २८ ॥

॥ इति श्रीभागवतटिप्पण्यां चतुर्विंशोऽध्यायः ॥ ११–२४ ॥

प्रमेयचन्द्रिका

यदर्थमेवं निरूपितं तदेतत्फलमुच्यते ॥ एवमिति ॥ वैकल्पिक-नामा मनसा केवलमनोनिष्टो भ्रमो हृदि बुद्धौ कथं तिष्ठेत । अर्कोदये व्योमि्न तम इवेति योज्यम् ॥ २८ ॥

एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिहेतिकः ।

प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥

पदरत्नावली

उक्तार्थमुपसंहरति एष इति । प्रतिलोमेन विपरीतक्रमेण संहारकथनमनुलोमेन यथाक्रमेण सृष्टिकथनं संशयग्रन्थिहेतिकः संसारबन्धवनदहने अग्नेर्ज्वालायमानः । परावरदृशा सर्वज्ञेन । ‘‘गायत्री चैव सावित्री तथैव च सरस्वती । एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता । महत्तत्वात्मको ब्रह्मा तज्जत्वात् तत्र लीयते । गुणाधिकः पतिरपि तस्याः सत्वादिभेदतः । त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते । प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया । पुरुषाभिधे विरिञ्चे तु स स्वस्मिन् कालसंज्ञके । कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते । जीवमायेति यामाहुः साच सत्वादि-भेदतः । त्रिविधैकत्वमापद्य विष्णावेव विलीयते । हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः । पुरुषेणातिसामीप्यं प्रकृतेर्लय उच्यते । ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः । अतस्तौ भिन्नदेहौ तु ज्ञानमात्रौ समीपगौ’’ इत्यादिप्रमाणसिद्धत्वात् सर्वज्ञेन परमाप्तेन मया प्रोक्तत्वाच्चेदं बुभूषुभिरवश्यं ग्राह्यमिति भावः ॥ २९ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य चतुर्विंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

उक्तार्थमुपसंहरति ॥ एष इति । साङ्ख्यविधिः साङ्ख्य-शास्त्रोक्तप्रकारः । संशयग्रन्थिमन्तःकरणाख्यबन्धं भिनत्तीति तथोक्तः । परावरदृशा सर्वज्ञेन मया प्रतिलोमानुलोमाभ्यां प्रतिलोमेन विपरीतक्रमेण संहारविधिः संहारप्रकारः । अनुलोमेन च क्रमेण सृष्टिविधिः सृष्टिप्रकारश्च मया साङ्ख्यशास्त्रोक्तप्रकारेण त्वां प्रति प्रोक्त इति भावः

॥ २९ ॥

॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥ ११–२४ ॥

प्रमेयचन्द्रिका

उपसंहरति ॥ एवमिति ॥ परावरदृशा उत्तमाधमरूपपरावर-विदामया संशयग्रन्थिदहने अग्निज्वालायमान आयुधरूप इति वा । एषः साङ्ख्यो विधिर्ज्ञानप्रकारः प्रतिलोमानुलोमाभ्यां प्रोक्तः । ‘‘अनुलोमक्रमः सृष्टौ प्रतिलोमो लये क्रम’’ इत्युक्तेः प्रातिलोम्येन लय आनुलोम्येन सृष्टिरित्ययं विधिः प्रोक्त इत्यर्थः ॥

श्रीमदानन्दतीर्थार्यकृतशास्त्रामृतार्णवे ॥

स्खलन्प्रतिपदं चाहं नापहास्यः कृपावताम् ॥

॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां चतुर्विंशोऽध्यायः ॥