२३ त्रयोविंशोऽध्यायः

स एवमाशंसित उद्धवेन भागवतमुख्येन दशार्हवर्यः

॥ अथ त्रयोविंशोऽध्यायः ॥

श्री शुक उवाच–

स एवमाशंसित उद्धवेन भागवतमुख्येन दशार्हवर्यः ।

सभाजयन् भृत्यवचो मुकुन्दस्तमावभाषे श्रवणीयवीर्यः ॥ १ ॥

पदरत्नावली

भक्तिमन्तरेण सर्वसन्न्यासो दुःखहेतुरितरः सुखहेतुरित्येतदस्मिन्नध्याये समर्थ्यते । तत्रोद्धवेन पृष्टः कृष्ण उद्धवं प्रति किमाहेति राज्ञो मानसी शङ्कां परिहरति स एवमिति । आशंसितः स्तुतः पृष्टः । श्रवणीयानि वीर्याणि सृष्ट्यादिविषयसामर्थ्यानि, श्रवणेन सर्वाभीष्टप्रदानि वीर्याणीति भावः, यस्य स कृष्णस्तमाबभाषे ॥ १ ॥

श्रीनिवासतीर्थीया

आशंसितः प्रष्टुरभीष्टकथनायाकाङ्क्षां कारितः । पृष्ट इति यावत् । भृत्यस्योद्धवस्य वचः सभाजयन्पूजयन् ॥ १ ॥

प्रमेयचन्द्रिका

आशंसितः पृष्टः । अत्र जनसमुदाये । पुरुषो बाह्याभ्यन्तर जनः । बाह्यदेहेन्द्रियादिकमन्तर्मनःप्राणादिकं भर्जयति । व्रतोपवासादिना सच्छिक्षया च स तथोक्तः । स एव दुर्जनेरितैर्दुरुक्तैर्भिन्नं मग्नमात्मानं मनःसमाधातुमीश्वरो वै । तपआदिनेन्द्रियनिग्रह एवासदतिक्रमसहनोपाय इति भावः ॥ १,२ ॥

श्रीभगवानुवाच–

बाह्यान्तर्भजनो१ ह्यत्र साधुर्वै दुर्जनेरितैः ।

दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः ॥ २ ॥

पदरत्नावली

किमाहेति तत्राह– बाह्येति । अत्र जीवराशौ बाह्यान्तर्भर्जनः बाह्यान्तःशत्रुशोषकरः, साधुर्वै साधुश्चेत्यभितश्च सज्जनो दुर्जनेरितैर् दुर्जनोच्चारितैर् दुरुक्तैर्भिन्नमात्मानं मनः समाधातुमीश्वरः समर्थः । यद्वा यो दुरुक्तैर्भिन्नमात्मानं समाधातुमीश्वरः स साधुः सज्जनो वै । कुतः । बाह्यान्तर्भजनो हीति ॥ २ ॥

श्रीनिवासतीर्थीया

अत्र जीवराशौ यो बाह्यान्तर्भञ्जनो बाह्यान्तःशत्रुशोषकरः । स एव दुर्जनेरितैर्दुरुक्तैर्भिन्नं व्यथितमात्मानं मनः समाधातुमीश्वरः समर्थः ॥ २ ॥

न तथा तप्यते विद्धः पुमान् बाणैर्हि मर्मगैः ।

यथा तुदन्ति मर्मस्था असतां परुषेषवः ॥ ३ ॥

पदरत्नावली

अत्र श्रीकृष्णः सुखबोधायेतिहासं वक्ति कथयन्तीति । इह त्वत्पृष्टेऽर्थे

॥ ३,४ ॥

श्रीनिवासतीर्थीया

नन्वादौ दुरुक्तिभिर्मनोभेदः कुत इत्यत आह ॥ न तथेति । तुदन्ति व्यथयन्ति पुरुषेषवो निष्ठुरोक्तिलक्षणशराः ॥ ३ ॥

प्रमेयचन्द्रिका

वस्तुतोऽसदतिक्रमो दुःसह उच्यते ॥ तथेति ॥ ३ ॥

कथयन्ति महापुण्यमितिहासमिहोद्धव ।

तमहं वर्णयिष्यामि निबोध सुसमाहितः ॥ ४ ॥

श्रीनिवासतीर्थीया

इतिहासं पुरावृत्तम् । इह दुरुक्तिभिन्नमनःसमाधानविषये निबोध जानीहि ॥ ४ ॥

केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।

स्मरता धृतियुक्तेन विपाकं निजकर्मणः ॥ ५ ॥

पदरत्नावली

विपाकं फलनिष्पत्तिम् ॥ ५ ॥

श्रीनिवासतीर्थीया

भिक्षुणा संन्यासिना । धृत्या धैर्येण युक्तेन । निजकर्मणो विपाकं फलमेतदिति स्मरता भिक्षुणा गीतमित्यन्वयः ॥ ५ ॥

प्रमेयचन्द्रिका

विपाकं फलपर्यवसानम् ॥ ५ ॥

अवन्तीषु द्विजः कश्चिदासीदाढ्यतमः श्रिया ।

वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ॥ ६ ॥

पदरत्नावली

वार्तावृत्तिः कुसीदादिजीवनोपायवान् । कदर्यः दारिद्र्याभावेनोपेतः । कामी परवित्तस्पृहावान् ॥ ६ ॥

श्रीनिवासतीर्थीया

अवन्तीषु तन्नामकदेशेषु । वार्तावृत्तिः कुसीदादिना जीवनोपाय-वान् ॥ ६ ॥

प्रमेयचन्द्रिका

वार्तावृत्तिः कुसीदादिर्वैश्यवृत्तिः । कदर्यो ऽनार्यसेवी । कामी परवित्तकामवान् ॥ ६ ॥

ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणाप्यनर्चिताः ।

शून्यावसथ आत्माऽपि काले कामैरनर्चितः ॥ ७ ॥

पदरत्नावली

लुब्धत्वे हेतुमाह– ज्ञातय इति । अत्र कैमुत्यमाह– शून्येति । निजधनजातमन्यत्र निधाय स्वयं धनशून्यगृहे तिष्ठन् । आत्मा स्वयम् । कामैः काम्यैरशनादिभिः

॥ ७ ॥

श्रीनिवासतीर्थीया

अतिथ्यादिपूजाभावादावसथस्य शून्यत्वम् । काले भोजनादि-काले । कामैरशनादिकाम्यैः ॥ ७ ॥

प्रमेयचन्द्रिका

शून्ये स्वात्मादिभोगोपयोगिधान्यपश्वादिहीने ॥ ७ ॥

दुःशीलस्य कदर्यस्य द्रुह्यतः पुत्रबान्धवान् ।

दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ ८ ॥

पदरत्नावली

पुत्रादिभिरपि कृतप्रियो न भवति किमुतान्यैरिति भावेनाह– दुःशीलस्येति

॥ ८ ॥

श्रीनिवासतीर्थीया

तस्य लुब्धतां दृष्ट्वा विषण्णाः ॥ ८ ॥

तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः ।

धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ ९ ॥

पदरत्नावली

न केवलं कुपिताः पुत्रादयः प्रियं न चेरुः (किन्तु) पञ्चयज्ञभागभुजो देवा अपीति वक्ति तस्येति । यक्षवित्तस्य यक्षवित्तवदनुपभोगवित्तस्य ॥ ९ ॥

श्रीनिवासतीर्थीया

यक्षवित्तस्य यथा यक्षाधिष्ठितं वित्तं यक्षस्य भोग्यं न भवति नापीतरस्य तद्वद्यक्षस्य वित्तमिव वित्तं यस्यासौ तथोक्तः । पञ्चभागिनः पञ्चमहायज्ञभोक्तारः । देवर्षिपित्राद्या वक्ष्यमाणा देवाद्याः ॥ ९ ॥

प्रमेयचन्द्रिका

यक्षवित्तस्य पिशाचस्य वित्तमिवोपभोग्यहीनं वित्तं यस्य स यक्षवित्तस् तस्य । धर्मकामेति ॥ धर्महीनत्वात्परलोकात् काम्यभोगविहीनत्वादस्माल्लोका-च्च्युतस्येति भावः । पञ्चभागिनः देवा ऋषयः पितरो भूतानि स्वसम्बन्धश्चेति पञ्चविधा द्रव्यभागार्हाः ॥ ९ ॥

तदवध्यान१विस्रस्तपुण्यस्कन्धस्य भूरिद ।

अर्थोऽप्यगच्छन्निधनं बह्वायासपरिष्कृतः ॥ १० ॥

पदरत्नावली

ततः किमभूदत्राह– तदवध्यानेति । तदवध्यानेन तेषां देवानामवज्ञाजातकोपेन विस्रस्तः क्रमेण विनष्टः पुण्यस्कन्धः पुण्यसमूहो यस्य स तथा तस्य । पुण्यस्कन्धः पुण्यलक्षणो भुजः शिरो वा, विस्रस्तं शिथिलबन्धनं वा । सुकृतनाशफलमाह– अर्थ इति ॥ १० ॥

श्रीनिवासतीर्थीया

यद्द्रव्यसंपादकं पुण्यं स्थितमभूत्तदाख्यः स्कन्धो वृक्षस्तेषां देवानामवध्यानेनावज्ञानेन विस्रस्तो नष्ट इत्यर्थः । भूरिद उद्धव । बहुनाऽऽयासेन परिष्कृतः संपादितः ॥ १० ॥

दुर्घटभावदीपिका

बह्वायासपरिश्रम इत्यस्य बह्वतिशयितदुःसाध्य इत्यर्थः । एतेनायासपरिश्रमशब्दयोरेकार्थत्वात्पुनरुक्तमिति दूषणं पराकृतम् । द्विर्वचनमतिशयार्थ इति वचनानु-सारेणातिशयितदुःसाध्य इत्यर्थस्योक्तत्वात् । दुःसाधनानां द्रव्यसम्पादनव्यापाराणां बहुत्वाद्बह्वित्युक्तमतो न बहुशब्देनापि पुनरुक्तिरिति द्रष्टव्यम् ॥ १० ॥

प्रमेयचन्द्रिका

तदवज्ञानेति ॥ तेषां पञ्चभागिनामवज्ञाने विस्रस्तः शिथिलः पुण्यानां स्कन्धः समूहो यस्येत्यर्थः । परिभ्रमादित्यतःपरं संपादितमिति शेषः ॥ १० ॥

ज्ञातयो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव ।

दैवतः कालतः किञ्चिद् ब्रह्मबन्धोर्नृपार्थिवात् ॥ ११ ॥

पदरत्नावली

नाशप्रकारमाह ज्ञातय इति । नृपार्थिवान् नृराजात् ॥ ११ ॥

श्रीनिवासतीर्थीया

निधनप्रकारमेवाह ॥ ज्ञातय इत्यादि । व्यवहारेण । तं गृही-त्वेति शेषः। ब्रह्मबन्धुर्द्विजाधमस्तस्मान्नृपार्थिवान्नरराजात्तस्मिन्काले कश्चिद्ब्राह्मणाभास एव मनुष्याणां राजा जातोऽभूत्तस्मादित्यर्थः । दैवत इत्यादेर्निधनमगच्छदित्यनेनान्वयः ॥११॥

दुर्घटभावदीपिका

गृहादिरूपं किंचिद्धनं दैवतोऽग्न्यादिदैवतो गतम् । भूमौ निक्षिप्तधान्यादिरूपं किंचिद्धनं ब्रह्मबन्धोर् ब्राह्मणाभासाद्गतम् । प्रबलब्राह्मणाभासेनापहृतमिति यावत् । किञ्चिद्धनं नृपार्थिवाद्राजमनुष्येभ्यः पार्थिवाच्च गतम् । किंचिद्द्रव्यं भयमुत्पाद्य राजमनुष्यैर्गृहीतं किंचिद्द्रव्यम् । पार्थिवेनापहृतमिति यावद् इति । एतेन पार्थिवादित्यनेन पूर्णत्वान्नृपेत्येतद्व्यर्थमिति दूषणं निराकृतम् । नृ इत्येतत्पार्थिवविशेषणमित्यङ्गीकारात् ॥ ११ ॥

प्रमेयचन्द्रिका

दैवतो दृष्टविषयात् । अशनिपातादेरिति वा । कालतः कालबाहुल्यात् । धान्यवस्त्रहानिरिति ज्ञेयम् । नृपार्थिवान् नरराजात् । क्षुद्रनृपादिति यावत् ॥ ११ ॥

स एवं द्रविणे नष्टे धर्मकामविवर्जितः ।

उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् ॥ १२ ॥

तस्यैवं ध्यायतो दीर्घमगादायुस्तपस्विनः ।

खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् ॥ १३ ॥

पदरत्नावली

योग्यस्य धननाशो वैराग्यहेतुरित्याशयेनाह– स इति ॥ तपस्विनः सन्तापवतः

॥ १२,१३ ॥

श्रीनिवासतीर्थीया

दीर्घं यथा स्यात्तथा ध्यायतः । ध्यायतश्चिन्तयतः । तपस्विनः । तपसंताप इति धातोः सन्तापवत इत्यर्थः । निर्वेदो वैराग्यम् ॥ १२,१३ ॥

दुर्घटभावदीपिका

तपस्विन इत्यस्य तापज्वरयुक्तस्येत्यर्थः । एतेन तपस्विन इत्यस्य किं प्रसिद्धतपोविशिष्टस्येत्यर्थः । किं वा क्लेशविशिष्टस्येत्यर्थः । नाद्यः । प्रसिद्धतपसो बाधितत्वात् । न द्वितीयः । खिद्यत इत्यनेन पुनरुक्तिपसङ्गादिति दूषणस्यानवकाशः । क्लेशसाधनतापज्वरस्यैव ग्रहणात् ॥ १३ ॥

स चाहेदमहो कष्टं वृथाऽऽत्मा मे सुतापितः ।

न धर्माय न कामाय यस्यार्थायास ईदृशः ॥ १४ ॥

प्रायेणार्थः कदर्याणां न सुखाय कदाचन ।

इह चात्मोपतापाय मृतस्य नरकाय च ॥ १५ ॥

पदरत्नावली

निर्वेदप्रकारमाह– स चेति । आत्मा देहो यस्य मे ॥ १४ ॥

श्रीनिवासतीर्थीया

आत्मा देहो यस्य ममेदृशोऽर्थायासेन धर्मायेत्यादि । कामाय विषयभोगाय ॥ १४,१५ ॥

यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ।

लोभः स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम् ॥ १६ ॥

श्रीनिवासतीर्थीया

यच्छुद्धं यशः श्लाघयितुं योग्याः श्लाघ्या ये गुणास्तान्स्वल्पोऽपि लोभं हन्ति । ईप्सितमिष्टरूपम् । श्वित्रः श्वेतकुष्टं यथा हन्ति तथा ॥ १६ ॥

प्रमेयचन्द्रिका

तान् यशोगुणान् । श्वित्रः श्वेतकुष्टम् ॥ १६ ॥

अर्थस्य साधने सिद्ध उत्कर्षे रक्षणे व्यये ।

नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ॥ १७ ॥

पदरत्नावली

आत्मोपतापायेत्युक्तं विवृणोति अर्थस्येति । साधने आयासः । सिद्धे साधिते उत्कर्षे रक्षणे च त्रासचिन्ते । व्यये चिन्ता । नाशे त्रासः । उपभोगे च भ्रमो बुद्धिभ्रंशः, पिशाचावेशेनेति शेषः ॥ १७ ॥

श्रीनिवासतीर्थीया

आत्मोपतापायेत्युक्तं विशदयति ॥ अर्थस्येति । सिद्ध इत्या-दावप्यर्थस्येत्येतत्सम्बध्यते । नाशोपभोगे नाशसहिते उपभोगे । नाशे उपभोगे चेत्यर्थः । अर्थस्य साधने आयासः । सिद्धे उत्कर्षे । अर्थे सिद्धे सत्यर्थस्योत्कर्षेऽभिवृद्धौ चिन्ता । तस्यार्थस्य रक्षणे त्रासः । केनचिद्दृष्टं चेत्स नेष्यतीति भीतिः । अर्थस्य व्यये चिन्ता । नाशे उपभोगे च धनपिशाचावेशेन भ्रमो बुद्धिभ्रंशः ॥ १७ ॥

दुर्घटभावदीपिका

नृणां मनुष्याणामर्थस्य साधने सम्पादनार्थं सिद्धे सिद्धितेऽर्थे उत्कर्षे । साधितार्थस्योत्कर्षार्थमिति यावत् । रक्षणे रक्षणार्थम् । ब्राह्मणसमाराधनादिना व्यये सति नाशोपभोगे सत्युपभोगे सत्यायासः सुखसाधनदेहायासो दुःखं च त्रासो भयं चिन्ता भ्रमो बुद्धिभ्रमणं च भवतीति । व्ययनाशोपभोगानन्तरं पुनः सम्पादनाद्यर्थमायासादिकं भवतीति ज्ञातव्यम् । तेन व्ययनाशोपभोगेषु सत्स्वायासादिकं कथं स्यादिति शङ्काऽनवकाशः । पुनः सम्पादनाद्यर्थमित्यस्य शेषेण व्ययनाशोपभोगेषु सत्सु पुनः सम्पादनाद्यर्थमायासादिकं भवतीत्यर्यस्योक्तत्वात् ॥ १७ ॥

प्रमेयचन्द्रिका

इह चात्मोपतापायेत्युक्तस्य विवरणम् ॥ अर्थस्येति ॥ साधने सम्पादने आयासः । सिद्धे साधिते सति तदुत्कर्षे तद्रक्षणे च त्रासो भयं चिन्ता च भवति । तदुपयुक्तभृत्यादिव्यये चिन्ता । उपयोगिचिन्ताभ्रमो बुद्धिभ्रंशश्चेति ज्ञेयम् ॥ १७ ॥

स्तेयं हिंसाऽनृतं दम्भः कामः क्रोधः स्मयो मदः ।

भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च ॥ १८ ॥

पदरत्नावली

किञ्चेदं वक्ष्यमाणं वित्तत्यागे कारणं भवतीति भावेनाह– स्तेयमिति । स्मयोऽहङ्कारः । मदो दर्पः । भेदो द्वैधीभावः । राजादिभ्यो व्यसनानि विविधनिरसनानि ॥१८॥

प्रमेयचन्द्रिका

वित्तनिमित्तकानर्थान्तराण्यप्युच्यन्ते ॥ स्तेयमिति ॥ स्मयोऽ-हङ्कारः । मदो दर्पः । भेदो मित्रभेदः । व्यसनानि राजादिनिमित्तानि ॥ १८ ॥

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।

तस्मादनर्थमर्थाख्यं श्रेयोर्थी दूरतस्त्यजेत् ॥ १९ ॥

पदरत्नावली

ततः किं कर्तव्यमत्राह– तस्मादिति ॥ १९ ॥

श्रीनिवासतीर्थीया

अर्थो मूलं येषां तेऽर्थमूलाः । अर्थमूलका इत्यर्थः । अर्थाख्य-मनर्थं तद्रूपमनर्थसाधनम् ॥ १९ ॥

भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा ।

एकयाऽर्थेच्छया सद्यः सर्वे चाप्यरयः कृताः ॥ २० ॥

अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः ।

त्यजन्त्यसून् वृथा घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ २१ ॥

पदरत्नावली

अर्थः कथं द्वैधीभावं करोतीति तत्राह– भिद्यन्त इति । भिद्यन्ते दीर्यन्ते । प्राणिमात्रमपि प्रतिपक्षीभवतीत्याह– एकयेति ॥ सन्तु शत्रवस्ते किं कुर्वन्तीति तत्राह– अर्थेनेति । हिरप्यर्थोऽवधारणार्थो वा ॥ २०,२१ ॥

श्रीनिवासतीर्थीया

भिद्यन्ते विदार्यन्ते । प्रतिकूला भवन्तीति यावत् । किं बहुना प्राणिमात्रप्रतिपक्षी भवतीत्यर्थः । एकयेति ॥ २०,२१ ॥

लब्ध्वा जन्मामरैः प्रार्थ्यं मानुष्यं तद् द्विजाग्य्रताम् ।

तदनादृत्य ये सर्वं घ्नन्ति यान्त्यशुभां गतिम् ॥ २२ ॥

पदरत्नावली

जन्मान्तरैर् देवादिजन्मविशेषैरपि प्रार्थ्यं मानुष्यं लब्ध्वा तत्र द्विजाग््रयतां लब्ध्वा तद् द्विजाग््रयत्वमनादृत्य ते अर्थार्जनादिकर्मणा सर्वं शुभं घ्नन्ति ते अशुभां गतिं गच्छन्ति

॥ २२ ॥

श्रीनिवासतीर्थीया

अमरैर्देवैः प्रार्थ्यं तत्र मनुष्येष्वपि द्विजाग्य्रताम् । स्वर्गेत्याद्यमर- प्रार्थ्यत्वे हेतुः । तन्मानुष्यं प्रार्थ्यं मोक्षादिपुरुषार्थं घ्नन्ति नाशयन्ति ते यान्ति ॥२२॥

प्रमेयचन्द्रिका

जन्मान्तरप्रार्थ्यं जन्मान्तरैः स्वर्गादिजन्मवद्भिरपि प्रार्थ्यं मानुष्यम् । स्वर्गस्था मानुषोद्भवम् । वाञ्छन्त्यात्मविमोक्षाय उद्रेकार्थेऽधिकारिण इति हि पञ्चमतात्पर्ये । यत्र मानुष्ये द्विजाग््रयतां च लब्ध्वाऽपि वित्तार्जनौत्कण्ठ्येन तन्मानुष्यादिकमनादृत्य ये सर्वं मानुषादौ लभ्यं शुभं घ्नन्ति । ते यांत्यशुभां गतिमिति योजना ॥ २२ ॥

स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् ।

द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥ २३ ॥

पदरत्नावली

इदमेव विशिनष्टि स्वर्गेति । कस्माद् देवा मानुष्यं प्रार्थयन्त इत्यतो वाह– स्वर्गेति । धामनि धामि्न गृहे । लोकं शरीरम् ॥ २३ ॥

श्रीनिवासतीर्थीया

लोकं देहम् । धामनि धामि्न गृहे ॥ २३ ॥

प्रमेयचन्द्रिका

धामनि धामि्न आश्रये ॥ २३ ॥

देवर्षिपितृभूतानि ज्ञातीनन्यांश्च भागिनः ।

असंविभज्य चात्मानं यक्षवित्तः पतत्यधः ॥ २४ ॥

पदरत्नावली

कथमनर्थधामत्वं वित्तस्येत्याशङ्क्य योग्येभ्योऽप्रदानेनाधःपातहेतुत्वादित्याह– देवेति । भागिनो ऽंशभागयोग्यानुद्दिश्य । आत्मानं पतति पातयति ॥ २४ ॥

श्रीनिवासतीर्थीया

ज्ञातिरूपबन्धून् भागिनो भागार्हानुद्दिश्य वित्तमसंविभज्यात्मानं स्वात्मानमधः पतति पातयति ॥ २४ ॥

प्रमेयचन्द्रिका

देवर्षिपितृभूतानामर्थे । तथा ज्ञातीन् । अन्यान् कलत्रादीन् । स्वात्मानं चोद्दिश्य वित्तमसंविभज्य यथाविभागं तानतर्पयित्वेति यावत् ॥ २४ ॥

व्यर्थयाऽर्थेहया वित्तं प्रमत्तस्य वयो बलम् ।

कुशलाय न सिध्यन्ति जरठः किन्नु साधयेत् ॥ २५ ॥

पदरत्नावली

वित्तवयोबलैः कुशलसाधनस्य शक्यत्वादधः पातः कथमत्राह व्यर्थयेति । व्यर्थयार्थेहया एैहिकामुष्मिकार्थे प्रमत्तस्य यस्य वित्तादीनि कुशलाय न सिध्यन्ति साधनानि न भवन्ति स जरठः जरसं गतः किं नु साधयेत् । न किमपि ॥ २५ ॥

श्रीनिवासतीर्थीया

ननु कथमधःपातहेतुत्वं वित्तस्य यतो मोक्षसाधनं भविष्यति । तुष्टोऽर्थेन गुरुर्यस्मात्कैवल्यं दातुमप्यलमिति चेत् । सत्यम् । अप्रमत्तविषयं तदित्याशयेनाह ॥ व्यर्थयेति । अर्थेहया प्रमत्तस्य वित्ताद्याः कुशलाय मोक्षादिपुरुषार्थाय न सिद्ध्यन्ति न क्षमाः । ननु प्रमत्तावस्थायां गतायां वार्धक्ये मोक्षं साधयिष्यतीति चेत्तत्राह ॥ जरठ इति । जरया सङ्गतः किं साधयेत् । न किमपि ॥ २५ ॥

प्रमेयचन्द्रिका

अलमनुतापेन इतःपरं परमपुरुषार्थं साधयेत्यत उच्यते ॥ व्यर्थयेति ॥ व्यर्थयाऽर्थेहया । प्रमत्तस्य वित्तं वयोबलमित्येतानि यदा कुशलाय परम-पुरुषार्थाय न सिध्यन्ति मोक्षसाधनाय नाभवन्निति यावत् । अतःपरं जरठो दुर्बलो दरिद्र-श्चेति ग्राह्यम् । किन्नु साधयेत् । न किमपीत्यर्थः ॥ २५ ॥

तस्मात् संक्लिश्यतेऽविद्वान् व्यर्थयाऽर्थेहयाऽसकृत् ।

कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः ॥ २६ ॥

पदरत्नावली

निगमयति तस्मादिति । अविद्वान् । सङ्क्लेशे कारणमनुमिनोति कस्य-चिदिति । चिच्छब्द एवार्थे । अथ कस्य परमानन्दरूपस्य हरेर्माययैव सामर्थ्येनैव विषयसुखे विमोहित इति तर्कयामि । कस्यचिद् लोकविलक्षणस्येति वा ॥ २६ ॥

श्रीनिवासतीर्थीया

कस्यचिल्लोकविलक्षणस्य वस्तुनः ॥ २६ ॥

प्रमेयचन्द्रिका

निगमयति ॥ तस्मादिति ॥ संक्लेशे कारणं स्वयमुत्प्रेक्षते ॥ कस्यचिदिति ॥ परमानन्दरूपस्य हरेरिच्छयेत्यर्थः ॥ २६ ॥

किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत ।

मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः१ ॥ २७ ॥

पदरत्नावली

एवं तर्कयतस्तस्य परमात्मप्रसादायत्तं वैराग्यस्थैर्यं वक्ति किं धनैरिति । मृत्युना कालेन ॥ २७ ॥

श्रीनिवासतीर्थीया

धनदैः कामदैर्मनुष्यैः । जन्मदैः कर्मभिः किमिति वर्तते

॥ २७ ॥

दुर्घटभावदीपिका

मृत्युना ग्रस्यमानस्य धनैः किं धनादेर्वा धनदातृभिश्च किं कामैर्वा कामैश्च किं कामदैरुत कामदातृभिश्च किमुत पुनः पुनर्जन्मदैः कर्मभिर्वा कर्मभिश्च किमिति । एतेन कर्मभिर्वोत जन्मदैरित्यत्र कर्मभिर्वेत्यनेन पूर्णत्वात् । उतशब्दो व्यर्थ इति दूषणं पराकृतम् । उतशब्दस्य पुनरित्यर्थकत्वमावृत्तिं चाङ्गीकृत्य पुनः पुनर्जन्मदैरित्यर्थस्योक्तत्वात् ॥ २७ ॥

प्रमेयचन्द्रिका

एवं तर्कयतः सद्यो लब्धं वैराग्यमित्युच्यते ॥ किं धनैरिति ॥ मृत्युना ग्रस्यमानस्य प्रतिक्षणमासन्नमरणस्य संसाराख्यमृत्युनेति वा । कर्मभिर्यज्ञादिभिर् जन्मभिर्ब्राह्मणादिजन्मभिः । स्वब्राह्मण्यस्य संध्यावन्दनादेश्चैवं वैय्यर्थ्यस्यैव दृष्टत्वादिति भावः

॥ २७ ॥

नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः ।

येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः ॥ २८ ॥

पदरत्नावली

अत्र हेतुमाह– येनेति । एतां दशां विरक्तिलक्षणां नीत इति येन तेन हेतुना, येन हरिणा प्रसन्नेनेति वा । कीदृशो निर्वेद इति तत्राह निर्वेद इति । आत्मनः संसारनदीतरणप्लवस् तरीरूप इति ॥ २८ ॥

श्रीनिवासतीर्थीया

देवमयो देवताप्रधानः । दशमावस्थाम् । आत्मनो मम संसार-समुद्रतरणे प्लवभूतो निर्वेदश्च जात इत्यर्थः ॥ २८ ॥

प्रमेयचन्द्रिका

हर्यनुग्रह एव मुख्यमेतदिदानीमनुभवसिद्धमिति वक्ति ॥ नून-मिति ॥ देवमयो देवप्रधानः । येन प्रसन्नेन भगवता प्लवः संसाराख्यपारावार-सन्तारणतरीरूपः ॥ २८ ॥

सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः ।

अप्रमत्तोऽखिलार्थेषु यदि स्यां सिद्ध आत्मनि ॥ २९ ॥

पदरत्नावली

निर्वेदस्य किं लक्षणमित्यतः सन्न्यास इति तन्निश्चयं वक्ति सोहमिति । शोषेण किं साध्यमत्राह– यदीति । यदि येन शोषणेन सन्न्यासलक्षणेन निर्वेदसाध्येन तपसा आत्मनि परमात्मविषये सिद्धः ज्ञानी स्यां तादृशमङ्गशोषणं करिष्यामीत्यर्थः ॥ २९ ॥

श्रीनिवासतीर्थीया

कालावशेषेणावशिष्टकालेन । शोषयिष्ये इन्द्रियनिग्रहं करिष्ये । कुत इत्यत आह ॥ अप्रमत्त इति । यद्यहमखिलार्थेष्वप्रमत्तः स्यां तर्ह्यात्मनि हरौ सिद्धः स्यां तद्विषयकसिद्धिमान्स्यामित्यर्थः ॥ २९ ॥

प्रमेयचन्द्रिका

यदीति ॥ अङ्गशोषणादिरूपतपसा यद्यहं परमात्मविषये सिद्धो ज्ञानी स्यात्तर्हीत्यर्थः । अथवा यद्यहं परमात्मनि सिद्धस्तद्भक्तस्तर्ह्यङ्गं शोषयिष्ये । अन्यथा नाहं भक्त इति शपथोक्तिः ॥ २९ ॥

तत्र मामनुमोदेरन् देवास्त्रिभुवनेश्वराः ।

मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ ३० ॥

पदरत्नावली

नेदं दम्भवचनमित्याह– तत्रेति । अल्पेन किं साध्यमिति न मन्तव्यमित्याह– मुहूर्तेनेति ॥ ३० ॥

श्रीनिवासतीर्थीया

अनुमोदेरन् अनुकूला भवन्त्वित्यर्थः । नन्वायुषोऽल्पस्यैवो-र्वरितत्त्वात्तावदायुषा किं साधयसीति चेत्तत्राह ॥ मुहूर्तेनेति ॥ ३० ॥

श्रीभगवानुवाच–

इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः ।

उन्मुच्य हृदयग्रन्थिं शान्तो भिक्षुरभून्मुनिः ॥ ३१ ॥

स चचार महीमेतां संयतात्मेन्द्रियानलः ।

भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ॥ ३२ ॥

पदरत्नावली

विरज्यानेन किमकारीत्यत्राह– इतीति । हृदयग्रन्थिं मनोबन्धम् ॥ अलक्षितो ऽज्ञातः ॥ ३१,३२ ॥

श्रीनिवासतीर्थीया

हृदयग्रन्थिमन्तःकरणाख्यबन्धम् । भिक्षुः संन्यासी ॥३१,३२॥

तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः ।

दृप्ताः पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥ ३३ ॥

श्रीनिवासतीर्थीया

प्रवयसं जरठम् । पर्यभवन्परिभवमकुर्वन् । परिभूतिभि-स्तिरस्कारैः ॥ ३३ ॥

प्रमेयचन्द्रिका

परिभूतिभिर्धर्षणहेतुभिः ॥ ३३ ॥

केचित् त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् ।

पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन ॥ ३४ ॥

पदरत्नावली

त्रिवेणुं दण्डम् । चीराणि जीर्णवस्त्राणि ॥ ३४ ॥

श्रीनिवासतीर्थीया

तदेवाह ॥ केचिदित्यादिना । त्रिवेणुं त्रयो वेणवो ग्रन्थयो यस्य दण्डकाष्ठस्य तम् । चीराणि जीर्णवस्त्राणि ॥ ३४ ॥

प्रमेयचन्द्रिका

तद्विवृणोति ॥ केचिदित्यादिना ॥ ३४ ॥

प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः ।

अन्नं च भैक्षसम्पन्नं भुञ्जानस्य सरित्तटे ॥ ३५ ॥

पदरत्नावली

दर्शितानि प्रदाय पुनराददुः ॥ ३५ ॥

श्रीनिवासतीर्थीया

दर्शितानि प्रदाय पुनराददुः । मदीयानि वस्त्राणि केन नीतानीति भिक्षुणोक्ते मया नीतानि तानि ग्रहाणेति तानि प्रदर्श्य तद्धस्ते दत्वा पुनस्तद्धस्ताद्बलाज्ज-गृहुरिति भावः ॥ ३५ ॥

दुर्घटभावदीपिका

तानि त्रिवेण्वादीनि प्रदाय प्रकर्षेण दत्वा । मृदूक्तिपूर्वकं दत्वेति यावत् । मुनेः सकाशात्पुनराददुरनन्तरं त्रिवेण्वादीनि दर्शितानि च दर्शितान्येव न तु ददुरिति । एतेन दानस्य दर्शनाविनाभूतत्वाद् दर्शितानीत्येतद्व्यर्थमिति दूषणं परास्तम् । दर्शितानीत्यस्य प्रदायेत्यनेनान्वय इत्यनङ्गीकृत्यावधारणार्थकचशब्देनान्वय इत्यभ्युपगमात् ॥ ३५ ॥

प्रमेयचन्द्रिका

प्रदायेति ॥ तानि वेण्वादीनि प्रदाय पुनराददुः । अन्ये तु दास्याम इति दर्शितानि कृत्वा पुनराददुरित्यर्थः । भैक्षसंपन्नं भिक्षाटनेन लब्धम् ॥ ३५ ॥

मूत्रयन्ति च पापिष्ठा निष्ठीवन्त्यस्य मूर्धनि ।

यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ ३६ ॥

तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः ।

बध्नन्ति रज्ज्वा तं केचिद् बध्यतां वध्यतामिति ॥ ३७ ॥

पदरत्नावली

वाचयन्ति वादयन्ति ॥ ३६ ॥

श्रीनिवासतीर्थीया

वाचयन्ति वचनयुक्तं कुर्वन्ति ॥ ३६,३७ ॥

क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः ।

क्षीणवृत्त इमां वृत्तिमगृहीत् स्वजनोज्झितः ॥ ३८ ॥

अहो एष महासारो धृतिमान् गिरिराडिव ।

मौनेन साधयत्यर्थं बकवद् दृढनिश्चयः ॥ ३९ ॥

श्रीनिवासतीर्थीया

धर्मध्वजः कपटधर्मवान् ॥ ३८,३९ ॥

प्रमेयचन्द्रिका

धर्मध्वजः धर्म एव ध्वज इव ध्वजो ज्ञापको यस्य सः । स्व-प्रसिध्यर्थमेव धर्माचरणवानिति यावत् । शठो गूढद्वेषी ॥ महासारो दृढमनोवान्

॥ ३८,३९ ॥

इत्येके विहसन्त्येनमेके दौर्वादयन्ति च ।

तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ॥ ४० ॥

पदरत्नावली

दौर्वादयन्ति दुर्वचनं कारयन्ति ॥ ४० ॥

श्रीनिवासतीर्थीया

दौर्वादयन्ति दुर्वचनयुक्तं कारयन्ति । क्रीडनकं क्रीडासाधनकं द्विजं पक्षिणम् ॥ ४० ॥

प्रमेयचन्द्रिका

दौर्वादयंति दुर्वचनयुक्तं कारयन्ति ॥ ४० ॥

एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् ।

भोक्तव्यमात्मनो दिष्टं१ प्राप्तं प्राप्तमबुध्यत ॥ ४१ ॥

श्रीनिवासतीर्थीया

प्राप्तं दुःखं दिष्टं दैवाद्दुरदृष्टाल्लब्धमवश्यं भोक्तव्यमेवेत्यबुध्यत

॥ ४१ ॥

प्रमेयचन्द्रिका

भोक्तव्यमिति ॥ आत्मनः स्वस्य प्राप्तमनिष्टं भोक्तव्यम् । प्रारब्धफलमिदमवश्यं भोक्तव्यमित्यबुध्यतेत्यर्थः ॥ ४१ ॥

परिभूत इमां गाथा२मगायत नराधमैः ।

पातयद्भिः स्वधर्मस्थो धृतिमास्थाय सात्विकीम् ॥ ४२ ॥

पदरत्नावली

किमकरोदेवं परिभूत इति तत्राह– परिभूत इति । सात्विकी स्वाभाविकीम्

॥ ४२ ॥

श्रीनिवासतीर्थीया

योगमार्गादधः पातयद्भिर्नराधमैः परिभूतः परिभवं प्राप्तः सात्त्विकीं स्वाभाविकीं धृतिं धैर्यमास्थाय स्वधर्मस्थो भिक्षुरिमां गाथां वक्ष्यमाणमगायतेत्यर्थः

॥ ४२ ॥

प्रमेयचन्द्रिका

परिभूत इति ॥ अनिष्टं पातयद्भिः प्रापयद्भिर् नराधमैः परिभूतः स्वधर्मस्थो भिक्षुः सात्त्विकीं सत्त्वगुणोद्रेकेण व्यक्तां स्वाभाविकीमिति वा धृतिमास्थायेमां गाधामगायतेति योजना ॥ ४२ ॥

भिक्षुरुवाच–

नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः ।

मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद् यत् ॥ ४३ ॥

पदरत्नावली

कीदृशी गाथामगायतेति तत्राह– नायमिति । अयं जनः परितो वर्तमानः । तर्हि किं देवादय इति तत्राह– न देवतेति । देवता देवाः । आत्मा देहः । ग्रहा आदित्यादयः । तर्हि किं कारणमत्राह– मन इति । यत् संसारचक्रं परिवर्तयेत् तन्मनः परं कारणमामनन्तीत्यन्वयः

॥ ४३ ॥

श्रीनिवासतीर्थीया

कीदृशीं गाथामगायतेति तत्राह ॥ नायमित्यादिना । अयं परितो वर्तमानो जनो लोकानां देहो जीवयुक्तो लोकदेहः सुखदुःखयोर्हेतुर्न भवति । यथा देवता देवा आत्मा जीवः । ग्रहा आदित्यादिनवग्रहाः । एते सुखदुःखहेतवो न भवन्ति । मनस्तत्प्रधानकलिङ्गदेह इत्यर्थः । परं केवलम् । अभिमानग्रस्तमन एव कारणं सुखदुःख-योरित्यामनन्ति । मनो विशिनष्टि ॥ यन्मनः संसारचक्रं परिवर्तयेदिति । प्रतिज्ञा-श्लोकोऽयम् उत्तरत्र स्थिताः सर्वेऽपि एतद्विवरणात्मकाः ॥ ४३ ॥

प्रमेयचन्द्रिका

तामेव गाधामाह ॥ नायं जन इत्यादिना ॥ अयं पीडकादि-त्वेनावस्थितो जनः सुखदुःखहेतुर्न । पीडकतया दृश्यमानानां दुःखाद्यहेतुत्वे, अतीन्द्रियाणां देवतानां वा । मन एव मनुष्याणां कारणं बंधमोक्षयोरित्युक्तेः केवलजडमनसो वा । देह-स्थितस्यैव दुःखादिदर्शनाद्देहस्य वा । कर्मैव देहं वैदिकं मानुषं वाप्यथारभेदित्युक्तेः कर्मणो वा । कालाद्भवन्ति भूतानीत्युक्तेः कालस्य वा सुखदुःखहेतुत्वं सम्भवतीत्यत उक्तम् ॥ न देवतेति ॥ अत्राधिदैवरूपिणोऽभिधीयते । आत्मा मनः । गृह्यमाणत्वाद्ग्रहो देहः । कर्म पुण्यापुण्यलक्षणम् । कालः क्षणलवादिरूपः । किं तु यत्संसारचक्रम् । त्रिदिवनिरयादिषु चक्रवद्भ्रमणाच्चक्रसदृशम् । संसारं प्रति जीवं परिवर्तयेत् तदभिमानरूपं मन एव मनोभिमान एवेति यावत् । परं मुख्यं सुखदुःखादिकारणमामनन्त्यागमाः । जनादीनामप्यभिमान-जननद्वारेण कारणत्वं सम्भवतीति सूचनाय परमित्युक्तम् ॥ ४३ ॥

मनो गुणान् वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि ।

शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णा गतयो भवन्ति ॥ ४४ ॥

पदरत्नावली

मनसः कारणत्वं विवृणोति मन इति । प्राकृतं लिङ्गशरीरूपं प्रलये सूक्ष्मरूपेण स्थितं मनः सृष्टिकाले आत्मनि गुणान् सृजते वै । सात्विकादिभेदेन त्रिविधं बाह्यावयवोपचितं भवतीत्यर्थः । अत एव बलीयः कार्यकारणसमर्थं ततस् तस्माच्च मनसः सात्विकादिभेदेन त्रिविधानि विलक्षणानि कर्माणि भवन्ति । विलक्षणानीत्युक्तं विवृणोति शुक्लानीति । तेभ्यः कर्मभ्यः सवर्णाः शुक्लादिवर्णयोग्या गतयो भवन्ति । अनेन सर्वस्य सुखादीनां परं कारणं मन इत्यवगतम् ॥ ४४ ॥

श्रीनिवासतीर्थीया

तत्र संसारहेतुभूतं मन एव सुखदुःखयोर्मुख्यं कारणमित्ये-तद्विवृणोति ॥ मन इत्यादिना । मन आदौ स्थूलदेहे गुणान्समीचीनकामक्रोधादीन्सृजते । ततः समीचीनकामादिगुणयुक्तं मनो विलक्षणानि विलक्षणकर्माणि सृजते । विलक्षणा-नीत्युक्तमेव दर्शयति ॥ शुक्लानीति । शुक्लानि सात्त्विकानि कृष्णानि तामसानि लोहितानि राजसानि । तेभ्यः कर्मभ्यः सवर्णाः सदृशीर्गतयः सुखादिफलानि भवन्ति । अनेन सुखदुःखादीनां मनः कारणमित्यवगतम् ॥ ४४ ॥

प्रमेयचन्द्रिका

मनसः परमकारणत्वमुपपाद्यते ॥ मनो गुणानिति ॥ प्रलये सूक्ष्मत्वेन सन्मनः सृष्टिसमये सत्वादिगुणानात्मनि सृजति गुणत्रयेणोपचितं भवति । ततश्च बलीयो मन इच्छाप्रयत्नादीन् गुणान् सृजति । ततः सत्वेच्छादेः सकाशाच्छुक्लादीनि सात्विकानि कृष्णानि तामसानि लोहितानि राजसानि । लोहितकृष्णामित्युक्तेः । परस्परं विलक्षणानि कर्माणि सृजते अनुवर्तते । तेभ्यः कर्मभ्यः सवर्णाः कर्मानुसारिण्यो गतयो स्वर्गाद्या भवन्तीत्यर्थः ॥ ४४ ॥

अनीह आत्मा मनसा१ समीहितं हिरण्मयो मत्सख उद्विचष्टे ।

मनः स्वलिङ्गं परिगृह्य२ कामान् जुषन् निबद्धो गुणसङ्गतोऽसौ ॥ ४५ ॥

पदरत्नावली

ननु मनसः परमकारणत्वं विवक्षितं चेत् परमात्मनः कारणत्वमपहस्तितं स्यादिति तत्राह– अनीह इति । आत्मा परमात्मा मनसः समीहितं संसारावृत्तिहेतुभूतं कर्म उद्विचष्टे उत्कृष्टसाक्षित्वेन पश्यति । कीदृशः । अनीहो ऽक्लिष्टकारी मनोवत् क्लिष्टकारी न भवतीति । अनेन हरेः प्रशस्तकर्तृत्वं ज्ञायते । साक्षित्वेन देहान्तर्वर्तमानस्य दुःखादिकं स्यादित्यत उक्तं हिरण्मय इति । पूर्णस्वरूपानन्दः । स्वस्य दुःखाभावे हेतुमाह– मत्सख इति । पूर्णानन्दो हरिर्मत्सखेति यस्मात् तस्मात् । परेषां दुःखकारणं मन इति भावः । अचेतनत्वेन स्वतः प्रवृत्त्यनुपपन्नस्य मनसः कारणत्वं कथमत्राह– मन इति । असौ निबद्धो देहाभिमानी जीवः स्वलिङ्गं लिङ्गशरीररूपं मनः परिगृह्य गुणसङ्गतः विषयस्नेहतः कामान् विषयान् जुषन्नास्त इति । विषयानुक्तचेतनानुगृहीतस्य अचेतनस्यापि मनसः कारणत्वं युक्तमिति भावः । न ह्यमनाः पुमांस्तिष्ठतीति श्रुतेः । मनसः संसारकारणत्वमुक्तम्, तत्र किं प्रमाणमित्यतो वाह– अनीह इति । परमात्मनो दर्शनं प्रेरणं च प्रमाणम् ॥ ४५ ॥

श्रीनिवासतीर्थीया

तदेवोपपादयति ॥ अनीह इति । स्वरूपतो निषिद्धचेष्टा-शून्यत्वादनीहः । आत्मा जीवो मनसा मनोऽभिमानेन कर्माणि समीहते करोति । नन्वेवं मन एव कारणं चेद्भगवता किं कृत्यमिति न मन्तव्यमित्याह । अनीहः स्वयं तादृक्कर्म-करणशून्यः । हिरण्मयो हिरुक् सर्वविलक्षणं यत् णं सुखं तन्मयत्वाद्धिरण्मयो मत्सखो मम मित्रभूत आत्मा परमात्मा तानि कर्माणि साक्षीभूतः सन् चष्टे पश्यति । फलदानायेति शेषः । कर्माणि समीहत इत्युक्तं किमत इत्यत आह ॥ मन इति । मनआदिषोडश-कलात्मकं स्वलिङ्गं लिङ्गशरीरं परिगृह्य स्थितस्तद्युक्त इत्यर्थः । असौ जीवो गुणेषु विषयेषु सङ्गतः स्नेहतः कामान्विषयान् जुषन् सेवमानो नितरां बद्धो भवतीत्यर्थः ॥ ४५ ॥

प्रमेयचन्द्रिका

यद्येवं मन एव परं कारणं तर्हि बन्धको भवपाशेनेत्यादिषु प्रसिद्ध-हरेः परमकारणत्वमपहस्तितमित्यत उच्यते ॥ अनीह इति ॥ अनीहोऽक्लिष्टकारित्वात् । हिरण्मयः हिरुक् सुखं हिरण्यं स्यादित्युक्तेर्लोकविलक्षणानन्दमयः मत्सखः मम सखा परमात्मा मनसः समीहितम् । ईहा चेष्टा तदभावोऽनीहः । मनसः सम्बन्धि समीहितं कर्म मनोवृत्तिविशेषानिति यावत् । मनसोऽधीनं मनोभिमानिदेवतानियतम् । समीहितं पुण्यापुण्यरूपं कर्मेति वा । उद्विचष्टे । कथं स्वलिङ्गं स्वस्य सम्बन्धि लिङ्गदेहात्मकम् । स्वविषयज्ञानहेत्विति वा । मनः परिगृह्याधिष्टाय कामान् जुषन् उद्विचष्टे उच्चैः पश्यति ॥ तदुक्तम् ॥ अधिष्टाय मनश्चायं विषयानुपसेवते इति ॥

तथाप्यक्लिष्टकारित्वात्परिपूर्णानन्द एवेति सूचनायोक्तमनीह इति हिरण्मय इति च । शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् । पूर्णानन्दमयस्यास्येत्युक्तेरिति भावः । तर्हि हरिणा सह स्थितस्य जीवस्याप्येवं बन्धाभाव इत्यत उक्तम् ॥ निबद्ध इति ॥ मनः स्वलिङ्गमित्याद्यनुवर्तते । असौ देही जीवः स्वस्य संसारं प्रति लिङ्गं हेतुभूतं मनः प्रतिगृह्य अभिमानं कृत्वा गुणसङ्गतः सत्वादिगुणसंगात्तद्विषयस्नेहतो वा कामान् जुषन्निव बद्धो भवति । तथा च हरेरेव मुख्यकारणत्वं युक्तमिति भावः ॥ ४५ ॥

दानं स्वधर्मो नियमो यमश्च श्रुतानि कर्माणि च सद्व्रतानि ।

सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ॥ ४६ ॥

पदरत्नावली

एवंविधसंसारनिवृत्तौ क उपाय इत्यतस्तस्य मनसो निग्रह एवेत्याह– दानमिति । मनोनिग्रहलक्षणान्ता मनोवशीकरणस्वरूपनिर्णयाः । कुत इत्यत्राह– पर इति

॥ ४६ ॥

श्रीनिवासतीर्थीया

एवं संसारहेतुत्वान्मनसस्तन्निग्रहोऽवश्यं कर्तव्य इत्याशयेनाह ॥ दानमिति । दानादयः सर्वे मनोनिग्रहलक्षणान्ताः । लक्षणेत्यनन्तरं योगपदाध्याहारः । अतः परं मनोनिग्रहरूपयोग एवान्तर्येषां ते तथा । मनोनिग्रहफलका इत्यर्थः । अतो मनसः समाधिर्विषयेभ्यो निगृह्य भवति समाधानमेव परो योग इत्यर्थः ॥ ४६ ॥

प्रमेयचन्द्रिका

नन्वेवं मनसः संसारहेतुत्वे तस्य सदा सत्वात्कथं मुक्तिरित्यतो दानधर्मादिभिर्विमलीकृतम् । अत एव निगृहीतं मन एव मोक्षसाधनमित्युच्यते ॥ दान-मिति ॥ मनोनिग्रहलक्षणान्ता मनोनिग्रहरूपफलपर्यवसानाः । योगो मोक्षोपायः ॥ ४६ ॥

समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् ।

असंयतं यस्य मनो विनश्येद् दानादिभिश्चेदपरं किमेभिः ॥ ४७ ॥

पदरत्नावली

मनःसमाधानस्य परमयोगत्वमुपपादयति समाहितमिति । यस्य मनः समाहितं परमात्मध्यानयोगयुक्तं तस्य दानादिभिः किं कृत्यं वद । यस्य मनो दानादिभिरसंयतं नश्येदेभिर्दानादिभिरपरं साध्यं किम् । न किमपि ॥ ४७ ॥

श्रीनिवासतीर्थीया

मनः समाधानस्य परमयोगत्वमुपपादयति ॥ समाहितमिति । यस्य पुंसः मनो विषयेभ्यः प्रशान्तं भवति समाहितं भवति तस्य पुंसो दानादिभिः कृत्यं प्रयोजनं किमस्ति । अस्ति चेन्मां प्रति वद तथा च फलस्य जातत्वाद्दानादेर्वैयर्थ्यमिति भावः ॥ कृतैरपि दानादिभिर्यस्य मनोऽसंयतमनिगृहीतं सदेव चेद्यदि विनश्येत् । विषयेष्वेव गच्छेदिति यावत् । तर्ह्येभिर्दानादिभिरपरं साध्यं किमस्ति न किमपि ॥ ४७ ॥

प्रमेयचन्द्रिका

मनःसमाधानस्य परमयोगत्वमन्वयव्यतिरेकाभ्यामुच्यते ॥ समाहित- मिति ॥ समाहितं निगृहीतम् । विषयासक्त्यादिवैकल्प्यरहितं प्रशान्तं प्रकर्षेण भवन्निष्टं भवति तर्हि तस्य दानादिभिः किं कृत्यमस्ति । तन्मे वद । यस्य मनोऽसंयतमसमाहितं विनश्येच्च दुष्टे नष्टशब्दप्रयोगदर्शनाद्दुष्टं चेदित्यर्थः । अपरं साध्यं किं न किमपीति यावत्

॥ ४७ ॥

मनोवशेऽन्ये हि भवन्ति देवा मनश्च नान्यस्य वशं समेति ।

भीमो हि देवः सहसः सहीयान्नात्याविशत् तत् स हि देवदेवः ॥ ४८ ॥

पदरत्नावली

ननु तर्हि मनःसंयमनं कर्तव्यं तत्राशक्यं किमित्याशङ्क्यास्वतन्त्रत्वान्न शक्यमिति भावेनाह मन इति । ब्रह्मश्रीविष्णुभ्योऽन्ये देवा मनोवशे भवन्ति । तत्र गुणभूतस्य मनसः पुरुषबन्धकत्वप्रकारः कथमित्यतो वाह– मन इति । हिशब्देन ‘‘ऋते द्वे ब्रह्मणी कस्य मनो याति वशे क्वचित् । श्रियं सरस्वती चापि याति वा तत्प्रसादतः’’ इति वाक्यं प्रमाणयति । विष्ण्वादीश्चतुरो विनाऽन्यस्य वशं न याति । कुतोऽत्राह– भीम इति । सहसः सहनशक्तिमतः सहीयान् अतिशयितसहनशक्तिमान् । भीमो रुद्रस्तन्मन इति विद्वन्मतम् । ततः किमत्राह– नेति । विष्ण्वादीन् विनाऽन्यः कश्चित् तन्मनो नात्याविशत् । नातिक्रान्तवान् । तत्र हेतुः स हि देवदेव इति । स भीमो देवस्य सात्विकमनसो देवो ऽभिमानी यस्मात् तस्मात् ॥ ४८ ॥

श्रीनिवासतीर्थीया

पुनः मनः प्राबल्यमुपपादयति ॥ मन इति । अन्ये देवा इन्द्राद्याः सर्वे मनोवशे भवन्ति । तन्मनोऽन्यस्य कस्यापि वशं वशत्वं न समेति । ननु को मनो यस्येतादृशी शक्तिरुपपन्नेत्यतोऽत्र सर्वत्र मनःशब्देन रुद्रो ग्राह्य इत्याह ॥ भीमो हीति । सहसो वायोः सकाशात् । तदनुग्रहेणेति यावत् । देवस्य भर्गः सहसो यतो जनीति श्रुतौ सहस्शब्दस्य वायौ प्रयोगदर्शनात् । सहीयान् सहनशक्तिमान् भीमः । व्योम-केशो भवो भीम इत्यभिधानात् । रुद्रो हि मनोदेवोऽतस्तन्मनसस्तदभिमानिनं रुद्रं कोऽपि नात्याविशदतिक्रान्तवान् । अतः स हि देवदेव इत्यर्थः ॥ ४८ ॥

प्रमेयचन्द्रिका

ननु तर्हि मनोनिग्रहमेव कुर्म इत्यतो विना देवतानुग्रहमशक्यत्वं तस्योच्यते ॥ मनोवश इति ॥ ननु देवानां मनोवशत्वं तस्यान्यवशत्वं च कथम् । जडत्वादित्यतोऽत्र मनःशब्देन तदभिमानी देव उच्यत इत्याशयेनोक्तम् ॥ भीमो हीति ॥ सहसः सहनशक्तिमतः सर्वस्मादतिशयेन सहनवान् भीमो दुष्टजनभयंकरो रुद्रोऽत्र मन उच्यते । हीत्यनेन मनो वै रुद्र ओतं च प्रोतं चेत्यादिश्रुतिमत्र सूचयति । स च रुद्रो हि यस्माद्देवानामपि देवः । तत्तस्मान्मनः कोऽपि नात्याविशन् नातिक्रान्तवानित्यर्थः ॥४८॥

तं दुर्जयं शुत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् ।

कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्रैरुदासीनरिपुं विमूढाः ॥ ४९ ॥

तात्पर्यम्

सात्विकमनोविवक्षया देवशब्दः ॥ तामसमनोविवक्षया शत्रुशब्दः । ‘एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते । अभेदेन परामर्शः सादृश्येनापि वस्तुनोरि’ति प्रयोगे ॥ ‘ऋते द्वे ब्रह्मणी कस्य मनो याति वशं क्वचित् । श्रियं सरस्वतीं वापि याति वा तत्प्रसादत’ इति पाद्मे ॥ उदासीनानां रिपुं सम्यग्ज्ञानवतां (सम्यक् यततां) न रिपुत्वं शक्यत इत्यर्थः ॥ ४९ ॥

पदरत्नावली

रुद्रेणाभिमन्यमानं वैकारिकमपि मनो द्विविधं सात्विकं तामसमिति । प्रथमं विष्ण्वादिदेवताप्रसादेन जय्यं द्वितीयं विष्णुप्रसादं विना दुर्जयम् । विष्णुवध्यकालनेमिनाऽभिमतत्वात् । अतो मित्रैर्मर्त्यैः सह निग्रहोऽसतां भवतीत्याशयेनाह तमिति । अयमक्षरार्थः । अत्र जीवराशौ केचिद् विमूढास्तामसाः पूर्वापरादिदिगनभिज्ञास् तत् तयोर्मनसोस्तामसमनोलक्षणं शत्रुं सुखविरोधिनं नविजित्य मित्रैर्मर्त्यैरसद्विग्रहं कुर्वन्ति । कीदृशं शत्रुम् । दुर्जयम्, दुष्टेन पापिना कालनेमिना जितत्वाद् वशीकृतत्वाज् जेतुमशक्यत्वात् । अत एवासह्यवेगवायुवन्मुष्टिग्रहणायोग्यम् । अरुन्तुदं क्षतनिहित-लवणवद् दुःखकरम् । अनेन शत्रुशब्दोपि विवृतः । विष्णुप्रसादेन जय्य इत्याह– उदासीनेति । विष्णुभक्तावुदासीनानां रिपुं न तु भक्त्या तदुपास्तौ यतमानानामित्यर्थः । प्रस्तुतं सात्विकं मनो विहाय तामसमनःपरामर्शः कथं युज्यत इतीयमाशङ्का ‘‘एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते । अभेदेन परामर्शः सादृश्ये चापि वस्तुनोः’’ इत्यनेन परिहर्तव्या । यद्वा तन्मनस् तं मनोभिमानिनं कालनेमिनं नविजित्य मित्रैरसद्विग्रहं कुर्वन्ति । कीदृशं तं शत्रुम् । अनेन शत्रुमजित्वा मित्रकलहो बालकलहवत् परिहासहेतुरित्युक्तं भवति ॥ ४९ ॥

श्रीनिवासतीर्थीया

अत्र जीवराशौ केचिद्विमूढास्तमसह्यवेगमरुंतुदम् । तुद व्यथने । क्षतनिहितलवणवद्व्यथाकरम् । उदासीनरिपुं दुर्जनं शत्रुं न विजित्याविजित्य । मित्रैर्मित्रभूतै-र्मर्त्यैरसद्विग्रहममङ्गलभूतं वैरं कुर्वन्ति । तथा च शत्रुमविजित्वा मित्रकलहस्य परिहासा-स्पदत्वान्मया च शत्रुमविजित्य मित्रैः कलहः कृत इति परिहासास्पदो जातोऽस्मीत्याशयः । नन्वत्रादौ भीमो हीति मनसो देवत्वमुक्त्वा तं दुर्जयं शत्रुमिति तस्य शत्रुत्वमुच्यते । तदनुपपन्नम् । देवस्य सर्वोपकारकत्वेन सुहृत्वाच्छत्रुत्वमयुक्तमित्यतो विवक्षाभेदमाह तात्पर्यकारः ॥ सात्त्विकेति । तामसेत्युपलक्षणम् । राजसेत्यपि द्रष्टव्यम् । राजसतामसमनोविवक्षयेत्यर्थः । मनो हि सात्त्विकादिभेदेन त्रिविधम् । तत्र सात्त्विक-मनोऽभिमानी रुद्रदेवस्तदपेक्षया पूर्वश्लोके देवशब्दो राजसतामसमनोऽभिमानी कालनेम्यादिः प्रसिद्धस्तदपेक्षया द्वितीयश्लोके शत्रुशब्द इत्यदोष इति भावः । ननु वृश्चिकभयात्पलाय-मानस्याशीविषमुखे निपातो देवत्वशत्रुत्वोपपादनायैवं विवक्षाभेदे उत्तरश्लोके तं दुर्जयमिति तच्छब्दप्रयोगो विरुद्ध्येत । तस्य पूर्वप्रकृतपरामर्शकत्वात् । तथा च पूर्वोक्तदोषता-दवस्थ्यमित्यतो भिन्नविषयत्वेऽपि युक्तः परामर्श इत्यत्र नियामकं प्रमाणमाह ॥ एकेति । भिन्नानामपि पदार्थानामभेदेन परामर्श एकस्थानाधिपत्ये सति युज्यते । वस्तुनोः सादृश्ये-नापि युज्यत इत्यर्थः । एवं च प्रकृते सात्त्विकतामसमनोभिमानिनोर्भेदेऽप्येकस्थानाधिपत्य-रूपनिमित्ताभावेऽपि तमिति परामर्शोऽभेदेन युज्यते । रुद्रकालनेम्योरभिमानित्वेन सादृश्य-सद्भावात् । तथा च तं तत्सदृशमभिमानित्वेन रुद्रदेवसदृशं कालनेम्याख्यतामसमनोरूपं शत्रुमित्यर्थ उक्तो भवति ।

ननु मनश्च नान्यस्य वशं समेतीति मनोभिमानी रुद्रः कस्यापि वशो नेत्युच्यते । तदनुपपन्नम् । सरस्वत्याद्यधीनत्वात्तस्येत्यतः प्रमाणेन तात्पर्यमाह ॥ ऋत इति । द्वे ब्रह्मणी कार्याकार्ये चतुर्मुखपरब्रह्मणीत्यर्थः । श्रियं सरस्वतीं चापि मनस्तदभिमानी रुद्रः कस्य वशं वशत्वं याति न कस्यापीत्यर्थः । ननु तथात्वे मनोवशीकरणायोगादिन्द्रादेर्मोक्षो न स्यादित्यत आह ॥ याति वेति । वशमिति वर्तते । रुद्रो यस्योपरि प्रसन्नो भवति तद्वशं मन इत्युच्यत इत्यर्थः । तथा च मनो ब्रह्मश्रीचतुर्मुखसरस्वतीर्विनाऽन्यस्येन्द्रादेर्वशं वशत्वं न समेतीत्यर्थ उक्तो भवति । ननु तथाऽप्युदासीनरिपुमित्युक्तम् । उदासीनश्चासौ रिपुश्चेति हि तदर्थः । रिपुत्वं हेयत्वम् । तथा चोदासीनत्वे न रिपुत्वम् । रिपुत्वे च नोदासीनत्वम् उदासीनत्वे सति रिपुश्चाप्रसिद्धोऽतः कथमेतदित्यतः षष्ठीविग्रहोऽत्र कार्य इत्याह ॥ उदासीनानामिति । मनोनिग्रहे ये उदासीनास्तेषां संसारादिदुःखापादकत्वा-त्तान्प्रति रिपुमित्यर्थः । उदासीनानां रिपुत्वोक्त्या लब्धमर्थं दर्शयति ॥ सम्यगिति । मनोनिग्रहे सम्यग्यत्नं कुर्वताम् । कर्मणि षष्ठी । सम्यग्यत्नं कुर्वतः प्रति मनसो रिपुत्वं न शक्यत इत्यर्थः ॥ ४९ ॥

प्रमेयचन्द्रिका

एवं मनसो दुर्जयत्वमुपपाद्य तज्जयोपायं लेशेन दर्शयन् मनोजय-स्यावश्यकत्वसिद्धये तदभावे न यशश्चेत्यभिलपते ॥ तं दुर्जयमिति श्लोकद्वयेन ॥

ननु देहेन्द्रियप्राणधियां त्रिधैव ह्यभिमानिन इत्युक्तेरसुराणामपि मनोभिमानित्वात्कथं मनो हि देव इति निर्धार्यते । कथं वा मनोदेववशत्वं सर्वदेवानामित्यत आह ॥ सात्विकेति ॥ सात्विकराजसतामसभेदेन मनसस्त्रिविधत्वात्सात्विकमनोभिमानिदेवविवक्षया देवशब्दो युज्यत इति भावः । तर्ह्युत्तरश्लोके शत्रुशब्दप्रयोगो न युक्त इत्यत आह ॥ तामसेति ॥ ननु पूर्वोत्तरश्लोकयोर्मनोभिमानिनोर्भिन्नत्वे तमित्युत्तरश्लोके पूर्वश्लोकोक्तस्य परामर्शो न युक्त इत्यतः प्रमाणेनाह ॥ एकेति ॥ भिन्नानामपि पुरुषाणामेकस्थानाधिपत्ये सत्यभेदेन परामर्शो युज्यते । प्रकृते सात्विकत्वाद्यवान्तरविशेषविवक्षां विना मन इत्येकं स्थानं विहितं तदभिमानितया पूर्वं शिवस्य प्रकृतत्वेऽपि असुरस्यापि तदभिमानित्वेनैक्यविवक्षया तमिति परामर्शो युक्त इति भावः । अत एव विशेषद्योतकस्तुशब्दः । अस्तु वा सात्विकत्वताम-सत्वादिरूपावान्तरभेदविवक्षा तथापि भिन्नयोस्तयोः सादृश्येनापि एकस्य पूर्वोक्तत्वेऽपि तत्सदृशस्यान्यस्य परामर्शो युज्यत इत्यर्थः ॥

तथापि मनोवशत्वं देवानामयुक्तम् । मनोदेवरुद्रापेक्षयोत्तमदेवानां च भावादिति शङ्कां प्रमाणेन परिहरति ॥ ऋत इति ॥ द्वे ब्रह्मणी परंब्रह्म हरिम् । अपरं ब्रह्म चतुर्मुखम् । अत्र वायुरप्यपरब्रह्मपदेन स्वीकार्यः । भारत्यपि सरस्वतीपदेन वीन्द्रशेषयोरपि मनोभि-मानित्वान्मनःपदेनैव तावप्युच्येते इति ज्ञेयम् । मनसः वशत्वाभावे कथं मोक्ष इत्यत उक्तम् ॥ याति वेति ॥ तत्प्रसादतः सात्विकमनोभिमानिशेषगरुडरुद्राणां प्रसादतः । तं दुर्जय-मिति श्लोके तं पूर्वोक्तमनोरूपस्थानवासिनं तत्सदृशमिति वा । तामसमनोभिमानिनमसुरमिति यावत् । अरुन्तुदं क्षतनिहितविषक्षारवदिति व्यथाहेतुम् । केचिन् मूढा न विजित्य मित्रैर-सद्विग्रहम् अमङ्गलकलहं कुर्वन्ति । शत्रुमविजित्य मित्रजयाय कलहकर्तृत्वात्ते मूढा इति भावः ।

मनआख्योऽपि रिपुः कीदृश इत्यत उक्तम् ॥ उदासीनरिपुमिति ॥ ननु विद्वेशिषु रिपुत्वं युक्तम् । कथमेतदित्यतो विग्रहं तावत्प्रदर्शयति ॥ उदासीनानामिति ॥ कोऽर्थोऽ-नेन लब्ध इत्यत आह ॥ सम्यगिति ॥ तथा च ये हर्याराधनादावुदासीना हर्याराधन-मकुर्वाणास्तेषामेतावता समानोऽभिमानी रिपुरित्यर्थः । सम्यक् हर्याराधने प्रयतमानानां न तेन रिपुत्वं कर्त्तुं शक्यते । इत्येवात्राभिप्रेतोऽर्थो न तूदासीनानां विषये रिपुरिति । अतो नोक्तदोष इति भावः ॥ ४९ ॥

देहं मनोमात्रमिदं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः ।

एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ ५० ॥

तात्पर्यम्

अभिमानमात्रेणैव जीवस्य देहेन सम्बन्ध इति मनोमात्रम् । मनसा निर्माणमिति । अहमन्य इत्यपि देहमात्रे मन्यन्ते । ‘देहमात्रं स्वमात्मानं यः परं चाभिपश्यति । अन्धे तमसि मग्नस्य नोत्तारस्तस्य कुत्रचिदि’ति च ॥ ५० ॥

पदरत्नावली

दुष्टाभिमानबलोपचितशक्तितामसमनोनिर्मितदेहाभिमानमात्रेणैवोत्पन्नमिथ्याज्ञानेन जीवस्य नित्यनिरयप्राप्तिहेतुत्वात् स एव जेतव्य इति भावेनाह– देहमिति । इदमित्यव्ययम् । मनोमात्रं मनसा निर्माणमुपगतं देहं गृहीत्वा ममेदमहमिति स्वातन्त्र्यभ्रमेण, एष देहोऽहमित्यनात्मन आत्मभ्रमेण, अन्योऽहं देहोऽयमित्यपि भ्रमेण, अहमन्य इत्यात्मनोऽनात्मभ्रमेण मिथ्याज्ञानेनान्धधियो ऽस्तङ्गतयथार्थज्ञाना मनुष्या दुरन्तपारे तमसि पतित्वा भ्रमन्ति पुनः पुनः दुःखसमुद्र एव मग्ना वर्तन्त इत्यतो बुद्धिमता तज्जय एव प्रयतिव्यमिति भावः । ‘‘देहमात्रं स्वमात्मानं यः परं च प्रपश्यति । अन्धे तमसि मग्नस्य नोत्थानं तस्य कुत्रचित्’’ इति वचनान्मिथ्याज्ञानिनामन्धन्तमो नियतमिति ज्ञायते ॥ ५० ॥

श्रीनिवासतीर्थीया

मनस एव पुनः कारणत्वमुपपादयति ॥ देहमिति । अत्र मनोमात्रशब्दं व्याचष्टे ॥ अभिमानेति । जीवस्य देहेन सम्बन्धोऽभिमानमात्रेणैव भवती-त्यर्थः । तथा च मात्रशब्दः केवलार्थ इत्युक्तं भवति । तथा च मनोमात्रं केवल-मनोऽभिमाननिर्मितमित्यर्थ उक्तो भवति । यद्वा । मात्रशब्दो निर्माणार्थक इत्याह ॥ मनसेति । तथा च मनोमात्रं मनसा निर्माणमस्येति तथोक्तमित्यर्थ उक्तो भवति । मात्र-शब्दस्य व्याख्यानमेव पृथक्, पक्षद्वयेऽप्यर्थस्त्वेक एवेति ज्ञेयम् । एषोऽहमित्यादेर्भ्रमत्व-मुपपादयति ॥ एष इत्यादि । स एषः परिदृश्यमानो मद्देह एवाहं नैतद्देहातिरिक्तो जीवोऽस्ति । तथाऽन्यो मद्देहभिन्नः परिदृश्यमान एव देहोऽयं जीव इति देहमात्रं केवलं देहमेव जीवं मन्यते न तदतिरिक्तमित्यर्थः । श्लोकार्थे प्रमाणमाह ॥ देहेति । स्वदेहं परदेहं चेत्यर्थः । स्वात्मानं वस्तुतस्तदन्तरहमस्मीत्यज्ञात्वा देह एवाहमिति पश्यति । तथा च देहमात्रं परदेहं परमात्मानं परजीवाभिन्नं पश्यतीत्यर्थः । दुरन्तपार इत्यादेस्तात्पर्यम् ॥ अन्ध इत्यादि ॥ ततश्चायं श्लोकार्थः ॥ मनोमात्रं केवलमनोऽभिमाननिर्मितमिमं देहं गृहीत्वा ममेदमहं कर्तेत्यन्धधियो मनुष्या एष देह एवाहमन्यो देह एवायमिति भ्रमेण दुरन्तपारे तमसि पतन्ति । तद्दुःखेन भ्रमन्ति मूर्छिता भवन्तीति ॥ ५० ॥

प्रमेयचन्द्रिका

द्वितीयश्लोके देहस्य मनोमात्रत्वोक्तिरयुक्ता । पाञ्चभौतिकत्वादित्यत आह ॥ अभिमानेति ॥ जीवः स्वात्यन्तभिन्नेन देहेन सुखदुःखायतनत्वप्रकारकः सम्बन्धो दृढतराभिमानमात्रेणेति हेतोर्मनोमात्रं देहमित्येतद्युज्यत इत्यर्थः । उक्तमर्थं मूलारूढं करोति ॥ मनसेति ॥ मनसा निर्माणं यस्य तन्मनोमात्रमिति । मनःशब्द उपपदे मा निर्माण इत्यस्मादित्रच्प्रत्यये रूपमिति भावः। अथवा मात्रपदस्यावधारणार्थकत्वं गृहीत्वा व्याख्यानं मात्रेणैवेति । मा निर्मण इति धातुरूपत्वविवक्षया मनसा निर्माणमिति व्याख्यानान्तरमिति । एषोऽहमयं देवदत्तो मदन्य इति भ्रमेणेति जीवभेदज्ञानं भ्रम इति प्रतीतिवारणाय तृतीय-पादतात्पर्यमाह ॥ अहमिति ॥ देहातिरिक्तजीवमनङ्गीकृत्य परिदृश्यमानदेहमात्रे एष देह एवाहमिति तथा परदेहमात्रे जीवत्वभ्रमेण अयं मदन्यः पुरुष इत्यपि मन्यन्त इत्यर्थः ॥

अत्र भ्रमणेत्यस्यार्थो ॥ मन्यन्त इति ॥ अत्र प्रमाणमाह ॥ देहमात्रमिति ॥ यः पुरुषः स्वमात्मानं परमन्यं च देहमात्रं प्रपश्यति । तस्यैवं द्रष्टुरंधेतमसि पतनं भवति । तत्र मग्नस्योत्तारणं कुत्रचिदपि नेत्यर्थः ॥

तदयं मूलार्थः ॥ अन्धधियो मूढा मनुष्या मनोमात्रं मनसाऽभिमानमात्रेण निर्मितं देहं गृहीत्वा य एष देह एवाहमयं पुरःस्थितो देह एवान्यः पुरुष इति भ्रमेण विनाशपरिमितिभ्यां रहितेऽन्धे तमसि भ्रमन्ति परिवर्त्तन्ते । अतो मनोनिग्रहाभावेऽनर्थप्राप्तेस्तज्जये यत्नो महान्कार्य इति ॥ ५० ॥

जनोऽस्य हेतुः सुखदुःखयोश्चेत् किमात्मनश्चात्र हि भौमयोस्तत् ।

जिह्वां क्वचित् सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् ॥ ५१ ॥

तात्पर्यम्

‘जनशब्दः स्वतो जीवे क्वचिद्देहे च वर्तत’ इति प्रयोगे ॥ ५१ ॥

पदरत्नावली

एवं मनसः सुखदुःखकारणत्वमुक्तम् । तत्र तर्हि तस्य प्रतीयमानं सुखदुःखकारणत्वमभिमाननिमित्तमेवेति जानता स्वकृतं भुञ्जानेन पुुरुषेण सोढव्यं तत्र कोपो न कार्य इत्याह– जन इत्यादिग्रन्थेन । अस्य जीवस्य सुखदुःखयोर्हेतुर् जनः परदेहश्चेद् यदि तर्हि अत्र देहे वर्तमानस्य देहव्यतिरिक्तस्यात्मनो निर्मुक्तकपालनारिकेलवत् स्थितस्य किं स्यात् । न किमपि दुःखं स्यात् । तर्हि कस्य तदत्राह– हीति । तद् दुःखं विवेकेन विचारिते सति भौमयोः पृथिवीकार्ययोस्ताड्यताडकयोरेव हि यस्मात् तस्मात् तदात्मनोऽभिमानकृतं दुःखमिति जानन् एषां मध्ये कतमाय कुप्येदित्यन्वयः । तत्रोदाहरणं जिह्वामिति । स्वदद्भिः स्वदन्तैः । तस्यां जिह्वायां वेदनायां सत्याम् । अनेन देहस्याचेतनत्वेनाभिमानजन्यं दुःखमित्युक्तम् भवति । ‘‘जनशब्दः स्वतो जीवे क्वचिद् देहे च वर्तते’’ इति वचनाज्जनशब्दोऽत्र देहवाची ॥ ५१ ॥

श्रीनिवासतीर्थीया

एवं मनः परं कारणमित्यर्धोक्तमुपपाद्य नायं जनो म इत्यादिकं प्रतिज्ञातमुपपादयितुमादौ जनस्य सुखहेतुत्वं नास्तीति प्रतिज्ञातमुपपादयति ॥ जन इति । अत्र जनशब्देन देहो विवक्षित इत्यभिप्रेत्य तस्य देहवाचित्वेऽभिधानमाह ॥ जनशब्द इति

॥ ५१ ॥

प्रमेयचन्द्रिका

अत्र नायं जन इत्यादयः पूर्वोक्ताः (श्लो.४३) षट् तत्राचार्यैर् न सम्यग्व्याख्याताः । तदीयव्याख्यानमेवात्र लिख्यते ॥ जनप्रभृतीनां षण्णां सुखदुःख-कारणत्वं प्रतिषिध्यन्मनोऽभिमानस्यैव तत्कारणत्वं प्रतिज्ञातं जनोऽस्येत्यादिभिः षड्भिः श्लोकैस् तत्क्रमेणोपपादयति । तत्रादौ जनशब्दोक्तदेहस्य दुःखादिकारणत्वमाशङ्क्य निरा-करोति ॥ जनोऽस्येति ॥ अस्य मदादेर्जीवस्य सुखदुःखयोर्हेतुर्जनः । ताडनादिकर्तृदेहो हेतुश्चेद्यदि तर्ह्यात्मनस् तद्गुणसारत्वादिति सुखरूपतया प्रमितस्य ताडनादिविषयस्य जीवस्य किमनिष्टम् । न किमपि । येन कोपः स्यात् । अतो न कोपः कार्यः । कोपकारणा-भावात्कोपविषयाभावाच्च । कोपकारणाद्यभावमुपपादयति ॥ हि भौमयोस्तदिति ॥ हि यस्माद्भौमयोर् भूम्युपचितयोः पीड्यपीडकयोरुभयमनसोः सतोरेव पीड्यपीडकयोर्मानसाभि-माने सत्येवेति यावत् । तद्दुःखमात्मनो भवति । नान्यदा । सुप्तौ समाधौ मुक्तौ चाभि-मानाभावदशायां तदभावात् । अतो मनोभिमान एव कारणम् । तत्यागे च न दुःखं भवति । अतो न ताडकदेहस्य दुःखादिहेतुत्वमिति भावः ॥

अत्र यद्यपि पीड्यस्यैव मानसिकाभिमाननिमित्तं दुःखादिकम् । न तु पीडकजीवस्य तथाऽपि पीडकस्य यत्परपीडनाप्रयुक्तं तात्कालिकं सुखम् । यच्च तज्जन्यपापफलं नरकादि-दुःखम् । तदप्यहं पीडक इत्यभिमाननिमित्तक एवेति ज्ञापयितुं भौमयोरिति पीड्यपीडको-भयमनसोर्ग्रहणम् ॥

तद्दृष्टान्तेनोपपादयति ॥ जिह्वामिति ॥ क्वचित्प्रमादवशात्स्वदद्भिर्दन्तैः स्वजिह्वां सन्दशति चेत्तद्वेदनायां तन्निमित्तवेदनायां जातायां कतमाय कुप्येत् । यथा दन्तानामन्य-मनस्कत्वेन मनःपूर्वं पीडकत्वाभावान्न कोपविषयत्वम् । तद्वत्परदेहस्यापि जडत्वान्न कोपविषयत्वमिति भावः ।

अत्र जनशब्दस्य प्रजावाचित्वभ्रमं वारयितुं प्रमाणेनैव तदर्थमाह भगवानाचार्यः ॥ जनशब्द इति ॥ अत्र देहवाचीति भावः । अथवा अत्र श्लोके जनशब्दः पीडकजीवपर एव । तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः । दृप्ताः पर्यभवन्निति प्रस्ताव्य, नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकाला इति उपक्रमपूर्वकं प्रवृत्तस्य जनोऽस्येत्यस्य पीडक-जीवपरत्वस्यैव युक्तत्वात् । अजस्य जनस्येत्युपरि जनशब्दस्य जीवपरत्वदर्शनात् । चतुः-पञ्चाशच्छ्लोके(५४) ‘‘गृह्यमाणत्वाद् ग्रहो देह’’ इति तात्पर्यबलेन ग्रहशब्दोक्तदेहस्य दुःखादिहेतुतानिरासादत्रापि जनशब्देन देहग्रहणे पौनरुक्त्यप्रसङ्गाच्च । साधारणतया ग्रहशब्देन स्वपरोभयदेहग्रहणसम्भवे जनशब्देन प्रथमश्लोके परदेहग्रहणम् । चतुःपञ्चाशच्छ्लोके स्वदेह-ग्रहणमिति विशेषाभिधाने नियामकविशेषादर्शनात् । प्रकृततात्पर्यवाक्यं तु सावकाशम् । तथाहि पञ्चमस्कन्धे अयं जनो नामेत्याद्युक्तजनशब्दस्य देहपरतावगमेनानेकार्थत्वादत्र कोऽर्थो विवक्षित इत्यत इदं तात्पर्यवाक्यं प्रवृत्तम् । स्वत इत्यनेनेदं सूचयति । जनशब्दाभिधेय- जीवसम्बन्धे देहे जनशब्दप्रवृत्तिर्न स्वत इति । अत एव क्वचिदित्युक्तम् । अस्मिन्नपि पक्षे मूलयोजना पूर्ववदेव । जनशब्दस्यार्थव्यत्यासमात्रम् ॥

अत्र षट्सु श्लोकेषु कतमाय कुप्येत् । क्रुध्द्येत कस्मै पुरुष इत्यादिना कोपविषय आक्षिप्यते । तदनुपपन्नमिवाभाति । तत्र दुःखादिकारणतया शङ्कितजनादीनामेव क्रोध-विषयत्वासम्भवेन तदाक्षेपायोगादित्याशङ्कावारणायोक्तस्य भौमविकारयोरित्यादेरभिप्रायमाह ॥ अयोग्येति ॥ (इदं तात्पर्यम् आर्ग्रमश्लोके वर्तते ।) आदिपदेन दुःखरागादेश्च ग्रहणम् । सत्यं दुःखादिकारणस्यैव क्रोधादिविषयत्वमिति । दुःखादिकारणत्वं च न जनादीनां षण्णां किं त्वभिमानरूपस्य मनस एव । अन्वयव्यतिरेकाभ्यां तथावगमात् । अतोऽयोग्यस्य क्रोधादेर्मन एव कारणम् । ततस्तस्यैव कोपविषयत्वेन जनादीनां तदभावादुक्ताक्षेपो युक्त इति भावः ॥

ननु रागाद्या न गुणोद्भवाः । शुद्धज्ञानात्मकाः सर्वमुक्तानामिति दशमतात्पर्ये मिथ्या-ज्ञान्यादिषु क्रोधस्य गुर्वादिषु भक्तिज्ञानादिषु च रागस्वरूपत्वोक्तेः कथमभिमानरूपस्य मनसः कारणत्वमुच्यत इति शङ्कावारणायोक्तम् ॥ अयोग्येति ॥ सत्यं योग्यक्रोधादेः स्वरूपत्वं भगवद्भक्तेषु यः क्रोधादिर्यश्चासज्जनादिषु रागादिरयोग्यस् तस्यैवायोग्यक्रोधादे-रुक्तरूपं मनः कारणामिति नोक्तदोष इति भावः ॥ ५१ ॥

दुःखस्य हेतुर्यदि देवताऽस्तु किमात्मनस्तत्र विकारयोस्तत् ।

यदङ्गमङ्गेन विहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२ ॥

तात्पर्यम्

अयोग्यक्रोधादेर्मन एव कारणम् । ‘अविकाराश्च ते देवा विकारा इति शब्दिताः । अभिमानाद्विकारस्य स्वतः शक्ता अपि ध्रुवमि’ति च ॥ ५२ ॥

पदरत्नावली

देहस्याचेतनत्वेन दुःखहेतुप्रवृत्त्ययोगादभिमानस्य च पराधीनत्वेनायुक्तमुक्तं किन्तु देवतायाः सर्वस्मात् प्रधान्येन तद्धेतुत्वमुचितमित्यत्राह– दुःखस्येति । यदि दुःखस्य हेतुर्देवतेत्युच्यते तद्वचनमस्तु । विचारिते (सति) न घटते । तथा हि । विकारयोर् विकाराभिमानिदेवयोः सकाशादुत्पद्यमानं तद् दुःखमभिमाननिमित्तमेव । तत्र निरभिमानस्यात्मनस् तेन किं स्यात् । अतः स्वामिदेवान् प्रति कोपो न कार्य इति भावः । तत्रोदाहरणं यदङ्गमिति । यदा स्वदेहे विकाराभिमानीन्द्रादिदेवताभिमन्यमानहस्ताद्यङ्गेन चक्षुराद्यङ्गं क्वचिद् विहन्यते तदा तत् सोढव्यमेव । अन्यथा पुरुषः कस्मै क्रुध्येत । हस्तादेरकारणत्वादयोग्यक्रोधादेर्मन एव कारणमत्रेति । ‘‘अविकाराश्च ते देवा विकारा इति शब्दिताः । अभिमानाद् विकारस्य स्वयं शक्ता अपि धु्रवम्’’ इति वाक्याद् विकारशब्दवाच्यत्वं युक्तं देवानाम् ॥ ५२ ॥

श्रीनिवासतीर्थीया

यदङ्गमङ्गेनेत्यत्र देवतोपरि कोपो न क्रियत इत्युच्यते । तदयुक्तम् । देवतोपर्यपि कोपकर्तॄणां दर्शनादित्यतस्तत्र निमित्तमाह ॥ अयोग्येति । क्रोधकरणे येऽयोग्याः । कोपानास्पदा इति यावत् । तद्विषयकक्रोधादेरभिमानयुक्तं मन एव कारणम् । तादृशं च मनो मम नास्तीति न मम तेषु क्रोध इति भावः । विकारयोस्त-दित्यत्र विकारशब्देन तावद्देवता ग्राह्यास्तत्प्रकरणाद् देवतानां च कथं विकारशब्दवाच्यत्वं विकाराभेदाभावात् । यावद्विकारं त्वित्युक्तरीत्या विकारित्वेनाल्पशक्तित्वप्राप्तेश्चेत्यत आह । अविकाराश्चेति । स्वतः शक्ता अपि अविकाराश्च । अविकारा अपि विकारस्याभिमानि-त्वादेव विकारा इति शब्दिता इति योज्यम् ॥ ५२ ॥

प्रमेयचन्द्रिका

देवताया दुःखादिहेतुत्वमाशङ्क्यापाकरोति ॥ दुःखस्येति ॥ यदि देवता दुःखस्य हेतुरित्युच्यते तत्र तर्ह्यस्तु । अत्रास्त्विति निरासोऽभ्युपगत इति ज्ञेयम् । तथापि पीड्यपुरुषगतमभिमानं विना देवतामात्रेण दुःखमिति भावेनोक्तम् ॥ किमात्मन इति ॥ आत्मनो जीवस्य किं स्याद् दुःखं कथं स्यात् । कोपविषयता च कथं स्यादिति यावत् । ननु देवतानिमित्तकदुःखस्याङ्गीकृतत्वात्कथमयमाक्षेप इत्यत उक्तम् ॥ विकारयो-स्तदिति ॥ तयोर्विकारयोर्जन्ययोः पीड्यपीडकोभयपुरुषसम्बन्धिनोर्मनसोस्तन्निमित्तकाभि-मानयोरिति यावत् । तथा विकारयोर्विकाराभिमानित्वेन विकाराभिधेययोर्देवयोरित्यर्थः । एवमुक्तविधविकारयोः सतोरेव देवतानिमित्तकं दुःखं भवतीत्यङ्गीक्रियते । न त्वेवमेव । सुप्तिसमाध्योरभिमानाभावदशायां देवतासद्भावेऽपि दुःखाद्यभावदर्शनात् । अतः केवलदशाया दुःखाद्यहेतुत्वादाक्षेपो युक्त इति भावः । अत्र मनसोरिति वक्तव्ये विकारयोरिति वचनं मनसोऽभिमानरूपविकारे सत्येव दुःखहेतुत्वं न स्वरूपसत्वमात्रेणेति सूचनायेति ज्ञेयम् । विकारयोरिति द्विवचनकृत्यं भौमयोरित्यत्रोक्तमनुसन्धेयम् । देवताया अभिमाना भावेऽपि स्वत एव दुःखादिदाने शक्तिसद्भावेऽपि भगवदाज्ञयैवाभिमानद्वारा तद्दानमित्यदोषः ॥

अयोग्यविषयः कोपो न कार्य इत्यत्र दृष्टान्तमाह ॥ यदङ्गमिति ॥ यत्तु यदा स्वदेहे कदाचिच्चक्षुराद्यगमंगुल्याद्यंगान्तरेण निहन्यते । तदा पुरुषः कस्मै क्रुध्येत । न ताव-दङ्गुल्याद्यङ्गान्तराय तस्य स्वतः प्रवृत्तिरहितस्य क्रोधाविषयत्वात् । नापि तन्नियामकदेवतायै तस्याभिमानं जीवगतं विना पीडकत्वाभावात्पूज्यत्वेन च क्रोधानर्हत्वादिति भावः ॥

नन्वस्तु विकारपदेन मनोविकाररूपाभिमानग्रहणम् । देवानां कथं विकारशब्दवाच्य-त्वम् । तेषामविकारित्वस्य प्रमितत्वादित्याशङ्कापरिहारपूर्वकं देवानां पीड्यगताभिमानं विना दुःखादिदाने अशक्तत्वप्रतीतिं प्रमाणेन परिहरति भगवानाचार्यः ॥ अविकारा इति ॥ देवा अविकारा अपि विकाराख्यमनसोऽभिमानान्निमित्ताद्विकारा इति शब्दिताः । ते चाभि-मन्यमानमनो विनैव दुःखादिदाने शक्ता अपि विकाराख्ये मनसि सत्येव दुःखादिहेतव इति शेषः । यद्वा मनोभिमानं विना स्वतो दुःखादिदाने शक्ता अपि ते देवा विकारस्य मनसोऽभिमानाद्धेतोर्विकारा इति शब्दिता इति योज्यम् ॥ ५२ ॥

आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजः स्वभावः ।

न ह्यात्मनोऽन्यद् यदि तन्मृषा स्याद् क्रुध्येत कस्मै न सुखं न दुःखम्

॥ ५३ ॥

तात्पर्यम्

न ह्यात्मनः स्वभावादन्यद्भवति । यदि दृश्यते तथापि मृषा स्यात् । सुखरूपं दुःखं न भवति । अतो मन एव तथा दर्शयति । ‘जीवस्य सुखरूपस्य न दुःखं क्वचिदिष्यते । अतो मनोऽभिमानेन दुःखी भवति नान्यथे’ति भारते ॥ ५३ ॥

पदरत्नावली

मनसोऽपि सुखादिहेतुत्वमभिमानमन्तरेण विचारासहमित्याह– आत्मेति । यदि आत्मा मनो दुःखादिकारणं स्यदिति मतं तत्र पृच्छामः । दुःखादिकारणं भवन्मनः स्वतो वा परतो वेति । नाद्य इत्याह– किमन्यत इति । अन्यतो दुःखस्वभावत्वेन विलक्षणान्मनसस्तत्र सुखस्वभावे आत्मनि चेतने किं भवति न किमपि । उभयोः सुखादिस्वभावः सिद्ध इत्याह निज इति । चेतनस्य सुखस्वभावो मनसो दुःखस्वभावो निजो नित्यः सदातन इत्यर्थः । निजमात्मीयनित्ययोरिति यादवः । द्वितीयं प्रत्याह– न हीति । आत्मनोऽन्यद् दुःखकारणं न हि । अहं दुःखीति दुःखं दृश्यते यदि तत्रापि तन्मृषा स्यात् शुक्तिरजतवत् । अन्यस्यान्यात्मत्वं न दृष्टचरमित्याह– न सुखमिति । सुखं सुखरूपं दुःखं दुःखरूपं न भवति, दुःखरूपं सुखरूपं न भवतीति । अतोऽभिमानं विनाऽन्यन्निरूपणमप्रामाणिकमिति विद्वान् कस्मै क्रुध्येतेत्यन्वयः । ‘‘जीवस्य सुखरूपस्य न दुःखं क्वचिदिष्यते । अतो मनोभिमानेन दुःखी भवति नान्यथा’’ इति वाक्यमत्र मानम् । यद्वा यदि मनः सुखादिहेतुस्तर्हि तत् स्यादित्युक्तं हि । मनोभिमाननिमित्तं तद् दुःखं विना तत्र सुखस्वभावे आत्मन्यन्यतो मनसो दुःखं स्यात् किम् । न स्यादेव । कुतोऽत्राह– निज इति । मनोधर्मो दुःखमात्मनो निजस्वभावो न हि । कुतः । तदात्मनोऽन्यद्धि । प्रतीयमानस्य का गातिरत्राह– यदीति । जपाकुसुमसान्निध्याच्छङ्खस्य लौहित्यमिव मृषा स्यात् । अतोऽन्यस्यान्यत्वं नेत्याह– न सुखमिति । ‘‘जीवस्य सुखरूपस्य न दुःखं क्वचिदिष्यते’’ इत्यादेरभिमाननिमित्तं दुःखं मन एव दर्शयतीत्यङ्गीकार्यम् ॥ ५३ ॥

श्रीनिवासतीर्थीया

आत्मा यदीति श्लोके न ह्यात्मनोऽन्यदित्येतद्व्याचष्टे ॥ न हीति । स्वभाव इत्येतद्विभक्तिविपरिणामेनानुवर्तत इत्याशयेन स्वभावादित्युक्तम् । यदि तन्मृषा स्यादित्येतद्व्याचष्टे ॥ यदि दृश्यत इति । स्वभावादन्यद्दृश्यत इत्यर्थः । मृषात्व-मुपपादयितुं प्रवृत्ते न सुखं न दुःखमित्यत्र च सुखमित्यंशं व्याकरोति ॥ सुखरूपमिति । सुखरूपं जीवस्वरूपं दुःखं दुःखरूपं न भवति । उपलक्षणमेतत् । दुःखरूपं जीवस्वरूपं सुखरूपं न भवतीति न दुःखमित्यंशस्यापि व्याख्यानं द्रष्टव्यम् । प्रकृतोपयोगमुपपादयति ॥ अत इति । वस्तुतः सुखरूपस्य दुःखरूपत्वाभावात् । अभिमानयुक्तं मन एव । तथा सुखिनं दुःखतया स्वसन्निधानेन जीवे दर्शयति ॥ जपाकुसुमं स्वसन्निधानात्स्फटिके लौहित्यमिवातो मम तादृशमनसोऽभावाद्दुःखित्वं कथं प्रतीयेतेत्याशयः । न सुखं न दुःख-मित्यत्र प्रमाणमाह ॥ जीवस्येति ॥ ५३ ॥

प्रमेयचन्द्रिका

मनसोऽप्यभिमानरूपविकारं विना केवलस्य दुःखहेतुत्वाभावान्न कोपविषयतेत्याह ॥ आत्मा यदीति ॥ आत्मा मनो यदि सुखदुःखहेतुरङ्गीक्रियते तत्र तर्हि स्यादस्तु । सुखदुःखादिधर्माणां मनःपरिणामित्वस्य प्रमितत्वात् । तथापि यः निजः स्वभावः निज आत्मीयनित्ययोरित्यभिधानान्निज आत्मीय आनन्दादिस्वाभावो यस्य सः । आनन्दादिरूपो यो जीवस्तस्यान्यतः स्वात्यन्तभिन्नात्मना परिणितान्मनसः सकाशा-त्किमनिष्टम् । येन कोपः स्यादिति शेषः।

ननु दुःखरूपमनसः सन्निधानबलादानन्दरूपेऽपि जीवे दुःखं भवतीत्यत उक्तम् ॥ न ह्यात्मनोऽन्यदिति ॥ स्वभाव इति पदं विभक्तिविपरिणामेनान्यत्रान्वेति । एवं च आत्मनः स्वभावादन्यविरुद्धं दुःखादिकमुपाधिसहस्रेणापि न हि स्वरूपत्वेन भवति । नन्वहं चेतन इतिवदहं दुःखीत्यपि प्रतीतेः कथं दुःखस्वरूपतानिषेध इत्यत आह ॥ यदि तन्मृषा स्यादिति ॥ यद्यपि तद्दुःखं जीवनिष्टतया दृश्यते । तथापि जीवस्वरूपतया दृश्यमानं दुःखं मृषा मिथ्या स्यात्तद्दर्शनं च मृषा भ्रमः स्यादित्यर्थः । बाधकादर्शनात्कथं मृषात्वमित्यत आह ॥ न सुखं न दुःखमिति ॥ सुखरूपं दुःखं न भवति । दुःखं च सुखस्वरूपं न भवतीति आवृत्या योज्यम् । नञद्वयसद्भावात् । अत्र दुःखं सुखं न भवतीत्ये-तद्दृष्टान्तार्थमिति ज्ञेयम् । अत्यन्तविरुद्धयोरन्योन्यात्मतायाः प्रमाणविरुद्धत्वेन बाधकत्वा-त्सुखरूपजीवस्वरूपतया दृश्यमानं दुःखं मिथ्येति भावः । एवं च मनसोऽभिमानं विनैव स्वरूपेण दुःखकारणत्वाभावेनात्मनोऽनिष्टाभावात्कस्मै क्रुध्येतेति मूलार्थः ॥

अत्रोत्तरार्धे आत्मनश्चेतनादन्यन्न ह्यस्ति । यद्यद्विश्वं दृश्यते तन्मृषा स्यादतः सर्वस्य मिथ्यात्वात्सुखं दुःखं च स्वरूप एव नास्ति । तस्मात्कस्मै क्रुध्येतेति अन्यथाभानाद्यथा-वद्व्याचष्टे ॥ न ह्यात्मन इति ॥ मूले स्वभावपदं विपरिणामेनात्मन इत्यत्र सम्बध्यते । अस्तिभवत्योः सर्वत्र सम्बन्धाद्भवतीति ग्राह्यमिति भावेनैवं योजितम् । यदीत्यतःपरं दृश्यत इत्यध्याहारेण तथापीत्युपस्कृत्य योजयति ॥ यदीति ॥ यद्यहं ज्ञानीतिवदहं दुःखीति दुःखं स्वरूपतया दृश्यते तथापि तन्मृषा स्यादित्यर्थः । मिथ्यात्वनियामकबाधकोक्तिरूपं न सुखं तदुदासीनमित्येतद्व्याचष्टे ॥ सुखरूपमिति ॥ एवं दुःखरूपं सुखं न भवतीत्यपि ग्राह्यम् । अतिविलक्षणयोरेकत्वालम्भवज्जीवस्य दुःखरूपतादर्शनं भ्रम एवेति भावः । नन्वहं दुःखीत्य-बाधितसाक्षिप्रतीतेः कथं मृषात्वमित्यत आह ॥ अत इति ॥ यतः सुखैकस्वभावे जीवे न दुःखस्वरूपत्वं युक्तम् । अतो मन एवेदं दुःखं मदीयमित्यभिमानरूपतया विकृतं सत्तथा दुःखरूपोऽहमिति दर्शयति । न तु साक्षी, स तु जीवस्य दुःखस्वामित्वमेव गृह्णाति । अतो युक्तं दुःखरूपताज्ञानस्य मृषात्वमिति भावः ॥

उक्तमर्थं प्रमाणेन दृढयति ॥ जीवस्येति ॥ दुःखमित्यतःपरं स्वभावत एवेति शेषः । मनोभिमानेन दुःखात्मकतया मनसि परिणते सति तत्रेदं मदीयमिति मानसिकाभिमाने-नेत्यर्थः । तथा च मनसि दुःखाद्यात्मना परिणते सति तस्मिंश्च मनसि मिश्रीभावेनाभि-सन्निहिते जीवे इदं मदीयमिति अभिमानेन जपाकुसुमसन्निधानेन स्फटिके यथा सत्यमेव लौहित्यं जायते तथा भिन्नाभिन्नेनैव दुःखेनाहं दुःखीत्यादिनीचोच्चतारूपविशेषो जायते । तथा चाहं दुःखीति दुःखस्वामित्वानुभवः साक्षिरूपो युज्यते । उच्चतैकस्वभावे च जीवे नीचता तु केवलेश्वरेच्छयैवेति नानुपपत्तिः । दुःखात्मकताज्ञानं भ्रम इति भावः ॥ ५३ ॥

ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै ।

ग्रहैर्ग्रहस्यैव भवन्ति पीडाः क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४ ॥

तात्पर्यम्

गृह्यमाणत्वाद्ग्रहो देहः ॥ ५४ ॥

पदरत्नावली

देहस्य दुःखादिहेतुत्वे बाधकमाह– ग्रहा इति । गृह्यमाणत्वाद् ग्रहा देहा आत्मनो दुःखादेर्निमित्तं चेदविवेकदशायामस्तु । अजस्य स्वतो जन्मादिरहितस्य न ममेति विवेकिनो जीवस्य ते देहा दुःखादेर्निमित्तं स्युः किम् । नैव स्युः । अतो ग्रहैर्देहैः पीडा देहनिमित्तपीडा ग्रहस्य विषयग्रहणरूपस्य मनस एव भवन्ति । मनोभिमाने सत्येव ते स्युरित्यर्थः । ततो देहादन्यः पुरुषः पुरु ब्रह्म सरतीति ब्रह्मज्ञानी कस्मै क्रुध्येतेत्यन्वयः ॥ ५४ ॥

श्रीनिवासतीर्थीया

ग्रहा निमित्तमिति श्लोके ग्रहस्येति षष्ठ्यन्तं पदं व्याचष्टे ॥ गृह्यमाणत्वादिति । गृह्यत इति कर्मव्युत्पत्त्येति भावः ॥ ५४ ॥

प्रमेयचन्द्रिका

देहजातस्य दुःखादिकारणत्वमाशङ्क्य निराकरोति ॥ ग्रहा इति ॥ प्रथमश्लोके जनशब्देन परदेह उच्यते । अत्र तु स्वकीयदेहजातमिति न पुनरुक्तिः । तत्र जीवग्रहणे तु अत्र ताड्यताडकोभयदेहग्रहणमिति ज्ञेयम् । अत्र ग्रहशब्दस्यादित्यादिग्रहपरत्वे द्वितीयश्लोके पौनरुक्त्यप्रसङ्गाद्विवक्षितमर्थमाह भगवानाचार्यः ॥ गृह्यमाणत्वादिति ॥ अत्रैकवचनं जात्यभिप्रायेण । मूले वस्तुतो बहुत्वज्ञापनाय बहुवचनम् । ग्रहस्येत्येक-वचनान्तपदस्य तु मनस इत्यर्थं वक्ष्यत्याचार्यः । तथा चायमर्थः । चेद्यदि ग्रहा देहाः सुखदुःखयोर्निमित्तमित्युच्यते तर्ह्यस्तु जननमरणजरारोगादिद्वारा दुःखादिहेतुताङ्गीकारात् । तथाऽप्यात्मनः किमनिष्टं भवति । जन्मनिमित्तकदुःखमेवानिष्टमित्यतो गूढाभिसन्धिरुत्तरमाह ॥ अजस्येति ॥ अजस्य जनस्य जननरहितस्य जीवस्य । उपलक्षणमेतत् । मरणादि-वर्जितस्येत्यपि ग्राह्यम् । जीवस्यानादिनित्यत्वेन जननाद्यभावान्न जननादिनिमित्तकं दुःखं किं तु जनस्य जन्यत इति जनस्तस्य सम्भवति । य उत्पत्तिमान् मृत्यादिमांश्चेत्यपि द्रष्टव्यम् । तस्यैव ते ग्रहा दुःखादिहेतव इति शेषः । स्वोत्पत्यादिनिमित्तकोत्पत्यादिमत एव ते दुःखादिहेतव इत्येतत्प्रसिद्धमिति द्योतयति ॥ वै इत्यनेन ॥ न च जनिमद्देह-सम्बन्धाद्दुःखादीति वाच्यम् । अस्मद्देहसम्बन्धिनां देवानां लीलाविग्रहवतां मुक्तानां तदभावात् ।

ननु जनिमद्देहवज्जीवस्य दुःखादिकं दृष्टम् । तत्कथमेतदित्यतोऽभिसन्धिमुद्घाटयति ॥ ग्रहैरिति ॥ ग्रहस्य ममायं देह इति ग्रहणरूपस्य मनसः सत एवाभिमाने सत्येवेति यावत् । ग्रहैर्देहैः । पीडा भवति । यद्देहे अभिमाने जाते तन्निमित्तकाश् चैतन्ये नीचतारूपविकारविशेषा-द्दुःखाद्या भवन्तीति भावः । अतोऽभिमानाभावदशायां सुप्त्यादौ देहनिमित्तकदुःखाद्यभावेन केवलदेहानां दुःखाद्यहेतुत्वादन्योऽभिमानरहितेन लोकविलक्षणः पुमान् कस्मै क्रुध्येतेति ॥५४॥

कर्मास्तु हेतुः सुखदुःखयोर्वै किमात्मनस्तद् हि जडेऽजडत्वे ।

देहे स्ववित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ ५५ ॥

तात्पर्यम्

अजडत्वे आत्मनः ॥ ५५ ॥

पदरत्नावली

कर्म तावत् सुखदुःखहेतुरस्तु । तथाप्यात्मनो जीवस्याजडत्वे सत्यतोऽनेनानिष्टं स्यात् किमिति शेषः । तर्हि कस्येदमत्राह– तद् हीति । तद् दुःखादिकं जडे जडात्मके मनसि हि यस्मात् । ततः किमत्राह– देह इति । देहे वर्तमानोऽयं स्वं स्वतन्त्रं परमात्मानं स्वस्य स्वरूपं च वेत्तीति स्ववित् सुपर्णः सुखात्मकः पुरुषः कस्मै क्रुध्येत । कर्मणे कुप्यतीत्यत्राह– नहीति । जडात्मकमनआद्यभिमाननिमित्तदुःखादिकं कर्ममूलं न हि यस्मात् (तस्मात्) कर्मणेपि न कुप्येत । यद्वा कर्ममूलमनआदेरभिमाननिमित्तं दुःखादि स्वतस्तस्य नास्तीति ॥ ५५ ॥

श्रीनिवासतीर्थीया

कर्मास्त्विति श्लोके तद्धि जडे जडत्व इति पदच्छेदप्रतीतेः कस्येत्यप्रतीतेर्व्याचष्टे ॥ अजडत्व इति । आत्मनः । सिद्धे सतीति शेषः ॥ ५४ ॥

प्रमेयचन्द्रिका

कर्मणो दुःखहेतुत्वमाशङ्क्य निराकरोति ॥ कर्मेति ॥ अत्र जडेजडत्व इत्यत्र पदविभागप्रदर्शनपूर्वकमन्वयं दर्शयति ॥ अजडत्वे आत्मन इति ॥ एतेनाजडत्व इत्येतज्जीववाचकेनात्मनेतिपदेनान्वितमित्युक्तं भवति । जडे मनसि सत्येवेति तदर्थं सतीत्युपस्कारेणान्वयं च वक्ष्यत्याचार्यः । ततश्चायमर्थः । पुण्यपापलक्षणं कर्म सुख-दुःखयोर्हेतुरित्युच्यते । चेद्यदि तर्ह्यस्तु कर्मणः सुखादिहेतुतायाः श्रुतिप्राप्तत्वात् । तथाप्यत्मनो जीवस्यानिष्टं किमित्यत आह ॥ तद्धीति ॥ हि यस्मादभिमानरूपे जडे मनसि सत्येव तत्कर्म दुःखकारणं भवतीति शेषः । एतदुपपादयति ॥ अजडत्व इति ॥ आत्मन इत्यनुवर्तते । जड इति मनसः प्रस्तुतत्वादजडत्व इत्यस्यामनस्कत्व इत्यर्थः । तथा चात्मनो जीवस्याजडत्वे अमनस्कत्वे मनस उपरमदशायां प्रलय इति यावत् । अयं पुरुषो जीवः । सुपर्णः सुष्टु परमानन्दरूपो वर्तते । न तु किञ्चिदपि दुःखमनुभवति । यद्यपि ज्ञाने नैरपेक्ष्येण कर्मैव कारणं स्यात्तर्हि तदापि दुःखं स्यात् । कर्मणस्तदाऽपि भावात् । न च मनस उपरमे दुःखं भवति । अतो न कर्ममात्रं दुःखादिकारणमिति भावः । न च देहाभावनिबन्धनो दुःखाभाव इति वाच्यम् । सत्यपि देहे सुप्तौ मनस उपरमत्वेन दुःखाभावदर्शनादित्याशयेनोक्तम् ॥ देह इति ॥ विद्यमानेऽपीति शेषः । नापि तदा ज्ञानाभावाद्दुःखाभाव इति शङ्कानिरासाय स्वविदिति पुरुषविशेषणम् । सुप्तावहमिति ज्ञानसद्भावेऽपि दुःखाभावान्न ज्ञानाभावनिबन्धनत्वं दुःखाभावस्येति शेषः । स्वविदि-त्युपलक्षणम् । देशकालसुप्तावस्थासुखवदिति ग्राह्यम् । सुप्तौ देहे विद्यमानेऽपि अयं स्व-वित्पुरुषः सुपर्णो भवतीति योजना । उपसंहरति ॥ न हि कर्ममूलमिति ॥ दुःखादिक-मिति शेषः । कर्मैव मूलं यस्येति विग्रहः । क्रमतः प्राप्तं नेत्यर्थः । यद्वा कर्मेति भिन्नं पदम् । कर्म दुःखादेर्मूलं न हीत्यर्थः । यत एवं कर्मणः स्वतो न दुःखहेतुत्वमतः कस्मै क्रुध्येत कर्म विना कोपविषयमिति भावः ॥ ५५ ॥

कालोऽस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मनोऽसौ ।

नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य बोद्धुः

॥ ५६ ॥

तात्पर्यम्

तदात्मनः कालाधीनस्य । ‘स्वातन्त्र्य(स्वामित्व)मात्मशब्दोक्तं स्वरूपमपि कुत्रचिदि’ति विवेके ॥ यथाऽग्नेर्हिमस्य च नैव दुःखं तापनिमित्तं जडत्वात् । एवं जडत्वाद्देहस्यापि कालादिसम्बन्धे विद्यमानेऽपि न दुःखं युक्तम् । ‘सदा कालादि-सम्बन्धाद्दुःखं देहस्य युज्यते । तथापि नैव दुःखी स जडत्वान्नियमेन तु । आत्मनः सुखरूपत्वान्न दुःखं युज्यते क्वचित् । तस्मान्मनोभ्रमेणैव दुःखी जीवो न चान्यथा । सर्वेषां मनसो नेता मनोरूपस्त्रिलोचनः । तद्वशाः सर्वदेवाश्च तेनैव सुखदुःखिनः । नियन्ता तस्य च प्राणस्ततोऽपि बलवत्तरः । तन्नियन्ता हरिः साक्षात्परमानन्दलक्षण’ इति तात्पर्ये ॥ ५६ ॥

पदरत्नावली

यदि दुःखादेर्हेतुः कालोऽस्तीति मतं तर्हि नित्यसुखरूपस्य विवेकिन आत्मनः किमनिष्टम् । तद्बलादात्मनो दुःखादिलक्षणमनिष्टं प्राप्तमत्राह तत्रेति । तत्र तथासति असौ दुःखादिस् तदात्मनः कालाधीनदेहस्येति प्राप्तम् । आत्मनो नित्यत्वेन कालानधीनत्वाद् देहस्य तद्दर्शनाच्च । तच्च न युक्तं देहस्य जडत्वात् । तत् सोदाहरणमाह– नाग्नेरिति । लुप्तोपममेतत् । यथाऽग्नेस्तापनिमित्तं दुःखं यथा च हिमस्य तद् हिमनिमित्तं दुःखं न जडत्वात्, एवं देहस्यापि कालादिसम्बन्धे विद्यमानेपि न दुःखं युक्तम् । ननु तर्हि तदन्तर्वर्तिनो हरेस्तद् दुःखं स्यादत्राह न परस्येति । परस्य प्रकृतिविलक्षणस्य बोद्धुः सर्वज्ञस्य हरेस्तद्दुःखं न युज्यते । तस्माज्जीवस्य मनोऽभिमानमात्रं दुःखकारणमतः कस्मै क्रुध्येतेति । ‘‘सदा कालादिसम्बन्धाद् दुःखं देहस्य युज्यते । तथापि नैव दुःखी स जडत्वान्नियमेन तु । आत्मनः सुखरूपत्वान्न दुःखं युज्यते क्वचित् । तस्मान्मनोभ्रमेणैव दुःखी जीवो न चान्यथा । सर्वेषां मनसो नेता मनोरूपस्त्रिलोचनः । तद्वशाः सर्वदेवाश्च तेनैव सुखदुःखिनः । नियन्ता तस्य च प्राणस्ततोपि बलवत्तरः । तन्नियन्ता हरिः साक्षात् परमानन्दलक्षणः’’ इति वाक्यमुक्तार्थे प्रमाणम् ॥ ५६ ॥

श्रीनिवासतीर्थीया

कालोऽस्त्विति श्लोके तदात्मन इत्येतद्व्याचष्टे ॥ तदात्मन इति । कालाधीनस्वरूपस्येत्यर्थः । आत्मशब्दस्य स्वरूपार्थत्वे प्रमाणमाह ॥ स्वातन्त्र्य-मिति । नन्वेवं तर्ह्यात्मनः कालाधीनस्वरूपत्वाभावेन दुःखादेरयोगेऽपि देहस्य तद्भावेन दुःखं स्यादेवेत्याशङ्कापरिहाराय नाग्नेर्हीति दृष्टान्तः प्रवृत्त इत्याशयेन विवृणोति ॥ यथेति । अग्नेस्तापनिमित्तं दुःखं न, हिमस्य हिमनिमित्तं दुःखं नेति ग्राह्यम् ॥ एवं जडस्य देहस्य जडान्तरसम्बन्धे सत्यपि तत्प्रयुक्तं दुःखं नेत्याशयः । अत्र प्रमाणमाह ॥ सदेति । यद्यपीति शेषः । युज्यते सम्भावितमित्यर्थः । न सुखं न दुःखमित्यत्र प्रमाणमाह ॥ आत्मन इति । किमेतादृशं मनसः सामर्थ्यमित्यतः प्रवृत्तस्य भीमो हि देव इत्यस्य तात्पर्यं सर्वेषामिति । अत एव मनोरूपो मनोऽभिमानी । मनोवशेऽन्ये हि भवन्ति देवा इत्यस्य तात्पर्यं तद्वशा इति । सहसः सहीयानित्यस्य तात्पर्यम् ॥ नियन्ता तस्य च प्राण इति ॥ ५६ ॥

दुर्घटभावदीपिका

अत्र विद्यमान इत्यादीनां शेषः । तत्र तेषां सुखदुःखहेतुत्वेन प्रसक्तानां जनादीनां मध्ये विद्यमानः कालः सुखदुःखयोर्हेतुरस्तु इति चेत् । तत्रोत्तरमुच्यते । असौ कालस्तदात्मनः स काल आत्मा स्वतन्त्रो यस्य तदात्मा तस्य तदात्मनः । कालाधीनस्येति यावत् । सुखदुःखहेतुः स्यात् । कालकृतविकाराभावेन कालानधीनस्यात्मनो जीवस्य सुखदुःखं वा किं कथं स्यात् । अत्र दृष्टान्तमाह ॥ न परस्येति । परस्य सर्वोत्तमस्य बोद्धुः सर्वज्ञस्य नारायणस्य यथा कालकृतविकाराभावेन कालाद्यनधीनत्वात्सुखं दुःखं वा नास्ति । तर्हि कालकृतविकारविशिष्टत्वेन कालाधीनस्य देहस्य सुखं दुःखं चास्त्वित्यत आह ॥ नाग्नेरिति । यथा जडत्वादग्नेर्हिमस्य च तापस्तापनिमित्तं दुःखं नास्ति तथा देहस्य जडत्वात्सुखं दुःखं वा वक्तुं न शक्यते । तस्मात्कस्मै किमर्थं क्रुध्येतेति । एतेन देहस्य जडत्वात्सुखं दुःखं च नास्तीत्यत्राग्नेर्हिमस्य च जडत्वाद्दृष्टान्तत्वाद्युज्यते । परमेश्वरस्य जडत्वाभावेन दृष्टान्तत्वोक्तिरनुपपन्नेति परास्तम् । जडत्वाद्देहस्य सुखं दुःखं च नास्तीत्यत्र परमेश्वरो दृष्टान्त इत्युच्यत इत्यनङ्गीकारात् ॥ ता.अर्थः ॥ तदात्मन इत्यनूद्य स काल आत्मा स्वतन्त्रो यस्येति विग्रहमभिप्रेत्य तात्पर्यार्थमाह ॥ तदात्मनः कालाधीनस्येति । आत्मशब्दस्य स्वातन्त्र्यार्थत्वे प्रमाणमाह ॥ स्वातन्त्र्यमिति । नाग्नेरित्येतद्व्याचष्टे ॥ यथाऽग्नेरिति । उक्तार्थे प्रमाणमाह ॥ सदा कालादिसम्बन्धादिति । परस्य बोद्धुरित्यस्य परस्येत्यनेन परमेश्वरस्य सर्वोत्तमत्वमुक्तम् । तत्प्रमाणशेषोदाहरणेन साधयति ॥ सर्वेषां मनसो नेतेति । एतेन सर्वेषां मनसो नेतेत्यादि प्रमाणशेषोदाहरणं व्यर्थमिति दूषणस्यानवकाशः

॥ ५६ ॥

॥ इति श्रीभागवतटिप्पण्यां त्रयोविंशोऽध्यायः ॥ ११–२३ ॥

प्रमेयचन्द्रिका

कालस्यापि दुःखहेतुत्वमाशङ्क्य निराकरोति ॥ काल इति ॥ कालः सुखदुःखयोर्हेतुश्चेदस्तु कालस्य सर्वत्र निमित्तत्वाभ्युपगमात् । तत्र तदाऽप्यात्मनो जीवस्य किमनिष्टम् । तावताऽप्यात्मनो दुःखप्राप्तिर्नास्तीति यावत् । तत्कुत इत्यत आह ॥ तदात्मन इति ॥ स काल आत्मा स्वामी यस्य स तथोक्तः । तस्य कालाधीनस्य देहस्यैवासौ कालः दुःखादिहेतुः सम्भवतीति । न परस्य, कालानधीनतया देहादिविलक्षणस्य बोद्धुश्चेतनस्य दुःखादिहेतुरित्यर्थः । सदा कालादिसम्बन्धाद्दुःखं देहस्य युज्यत इति तात्पर्यवचनमनुसृत्यैवं व्याख्यातम् ।

जीवस्य दुःखप्राप्त्यभावे कथमहं दुःखीत्यबाधितो भ्रम इत्यतोऽप्याह ॥ तदात्मन इति ॥ तदात्मनः कालाधीनस्य मनसः सत एवासौ कालो दुःखादिहेतुर्भवति । न तु कालसम्बन्धमात्रेण जीवस्य दुःखम् । सुप्त्यादावभावात् । एतच्च व्याख्यानं तदात्मनो मनसः सत एवेति वक्ष्यमाणाचार्यवचनानुसारेणेति ज्ञेयम् । यद्यपि जीवो नित्यत्वान्न स्वतः काला-धीनः । तथापि कालाधीनमनआद्यभिमानेन निमित्तेन किञ्चित्कालाधीनत्वस्य भावादभिमान-निमित्तकं दुःखित्वं युज्यत इति भावः । तर्हि देहस्योत्पत्तिविनाशवत्वेन स्वत एव काला-धीनत्वात्तस्यैव दुःखं भवत्वित्यतस्तस्य दुःखाभावं सहेतुकं दृष्टान्तेनोपपादयति ॥ नाग्ने-रिति ॥ हिशब्देन जडत्वादिति हेतुं विवक्षितं सूचयति । अग्नेरित्यादि लुप्तोपमा । यथा जडत्वादग्नेस्तापनिमित्तकं दुःखं नास्ति । तथा हिमस्य शीतनिमित्तकं तत्सुखं न स्या-न्नास्ति । उक्तादेव हेतोः । एवं जडत्वाद्देहस्य कालाधीनत्वे विद्यमानेऽपि न दुःखं युक्तमिति दार्ष्टान्तिकमध्याहार्यम् । तथा च कस्मै क्रुध्येत । कालस्य स्वानधीने जीवे अभिमानं विना दुःखजनकत्वाभावेन क्रोधायोग्यत्वादिति भावः ।

अत्र श्लोके कालसुखदुःखादीनां प्रस्तुतत्वात्तदात्मन इति तच्छब्देन किं परामृश्यत इति न ज्ञायते । आत्मशब्दश्च स्वरूपार्थ इति भाति । अतोऽनूद्य व्याचष्टे भगवानाचार्यः ॥ तदात्मनः कालाधीनस्येति ॥ स काल आत्मा स्वामी यस्य सः । कालाधीनस्येत्यर्थः । स्वामित्वस्यात्मशब्दार्थत्वे प्रमाणमाह ॥ स्वामित्वमिति ॥ स्वातन्त्र्यमित्यपि क्वचित्पाठः । नैतन्नियतमित्याह ॥ स्वरूपमपीति ॥ नाग्नेर्हि ताप इत्यादिकं प्रकृतानुपयुक्तमित्यतोऽस्ति दृष्टान्ततयोपयोग इत्याशयेन हिशब्दसूचितं हेतुं व्यञ्जयन् मूले दार्ष्टान्तिकानुक्तेस्तद्दर्शयन् तृतीयपादं योजयति ॥ यथेति ॥ तापादिनिमित्तमित्यत्रादिपदेन शीतनिमित्तमित्यस्य सङ्ग्रहः । अनेन एवं देहस्यापि न दुःखं युक्तं जडत्वादिति मूले अध्याहारः कार्य इति सूचयति । सम्बन्धप्रयोजकत्वतदधीनत्वरूपे । अत्रादिपदेनायं न्यायः कर्मास्तु हेतुरित्यत्रापि सम इति सूचयति । उक्तमर्थं प्रमाणेन द्रुढयति ॥ सदेति ॥ युज्यते सम्भाव्यते । तथापि सम्भावने सत्यपि दुःखाभावसाधकजडत्वहेतोर्व्यभिचारवारणाय नियमेन त्वित्युक्तम् । तुरव-धारणे । उत्तरार्धे वा सम्बन्धः ।

ननु जडत्वस्य दुःखाभावप्रयोजकत्वे दुःखप्रयोजकमजडत्वमित्यापन्नम् । तर्हि जीवस्याजडत्वात्तत्स्वरूपेऽपि दुःखं स्यादित्यत आह ॥ आत्मन इति ॥ अत्मनो जीवस्य तु दुःखं न युज्यते । क्वचित्सर्वथा । अत्रेश्वरवदिति दृष्टान्तो ग्राह्यः । एतेना-जडत्वहेतोरीश्वरे व्यभिचार इति सूचितं भवति । नन्वीशजीवजडानां त्रयाणामपि दुःखा-सम्भवाद्दुःखवार्तैव न स्यात् । तथात्वे चाहं दुःखीत्यनुभवविरोधश्चेत्यतो भवत्येव जीवस्य दुःखम् । परं तु प्रागाशङ्कितजननादिषट्करणमात्रजन्यं दुःखं नेत्युच्यते । मानसिकाभि-माननिमित्तकं त्वङ्गीक्रियत एव । तदपि न स्वरूपे दुःखासम्भवात् । किं त्वभिमान-रूपोपाधिनिमित्तक एव । अतो न विरोध इत्याशयेनोपसंहरति ॥ तस्मादिति ॥ यत एवं जीवस्वरूपे च दुःखं न युज्यते तस्मादित्यर्थः । अन्यथाभिमानरूपोपाधिं विना जीवो दुःखी नेत्यर्थः ।

ननु स्वतः प्रवृत्तावक्षमस्य जडस्याभिमानरूपमनसः कथं चैतन्ये स्वधर्मोपनायकत्वं देवानां च सुखादिमत्वेन तेषां मनोधीनदुःखादिमत्वं सुतरां न युज्यत इत्यत आह ॥ सर्वेषामिति ॥ सर्वेषां स्वाधमानां मनोरूपो मनोभिमानी । त्रिलोचनस्य तद्युज्यत इत्या-शयेनाह ॥ तद्वशा इति ॥ सर्वदेवा उमेन्द्राद्याः । एतेन मनोवशेऽन्ये हि भवन्ति देवा इति प्राचीनग्रन्थोऽपि व्याख्यातो भवति । न केवलं तद्वशाः किं तु तथैव सुखदुःखिनः । अत्र यथाशब्दस्तद्वशत्वसमुच्चये । तथा चाभिमानरूपमनसो जडत्वे तदभिमानिरुद्रदेवमहिम्ना शुद्ध-चैतन्येऽपि मनोधर्मोपनायकता युज्यत इति भावः । न च स एव सर्वेश्वर इत्याह ॥ नियन्तेति ॥ तस्य च तादृशस्यापि । प्राणश्चेति वा सम्बन्धः । तेन ब्रह्मवाणीभारतीनां ग्रहणम् । हरिरिति श्रियोऽप्युपलक्षणम् । साक्षान्मुख्यतः स्वातन्त्र्येणेति यावत् । परमो निरवधिक आनन्दो लक्षणं यस्य स तथोक्तः । लक्षणं परमानन्दो विष्णोरेव न संशय इत्युक्तम् ॥ ५६ ॥

न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य ।

यथाऽत्मनः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ॥ ५७ ॥

तात्पर्यम्

आत्मनः मनसः ॥ भौमयोर्विकारयोः पीड्यपीडकयोर् उभयमनसोः सतोर्दुःखं भवति । ग्रहस्य ग्रहणरूपस्य मनसः सत एव । जडे मनसि सत्येव । तदात्मनो मनसः सतः । संसृतिरूपिण आत्मनो जीवस्य यथा तथा न हि परस्य । अमनस्त्वात् (अमनस्कत्वात्) । अतो मनोऽन्वयव्यतिरेक इति भावः ॥ ५७ ॥

॥ इति एकादशतात्पर्ये त्रयोविंशोऽध्यायः ॥ २३ ॥

पदरत्नावली

न परस्येत्येतद् विवृणोति न केनचिदिति । यथा संसृतिरूपिणः संसारकारणस्वभाववत आत्मनो मनसः यथा द्वन्दोपरागः द्वन्द्वाख्यराहुग्रहणं तथा अस्य परतः परस्य हरेर् द्वन्द्वोपरागो न स्यात् । इदमेव श्रद्धेयमिति भावेनाह– एवमिति । एवं प्रबुद्ध एवं विधज्ञानी एवंविधैरज्ञानिभूतैः खलैः कृतादुपद्रवान्न बिभेति ॥ ५७ ॥

श्रीनिवासतीर्थीया

न केनचिदिति श्लोके यथाऽऽत्मन इत्यत्रत्यस्यात्मन इत्यस्यार्थमाह ॥ आत्मन इति । सत इति शेषः । अत्र जनश्च हेतुरित्यादि सर्वश्लोकेषु जनादीनां न सुखदुःखहेतुत्वं किन्तु मनोभिमानस्यैवेति मनस एव परमकारणत्वमुपपाद-नीयम् । सिंहावलोकनन्यायेन तावज्जन इति श्लोके मनस एव निमित्तमुक्तमस्तीत्याशयेनाह ॥ भौमयोरिति । भूविकारयोरित्यर्थः । अन्नमयं हि सौम्य मनः पृथिवी वा अन्नमिति श्रुतेः । पीड्येत्यादि भावप्रधानो निर्देशः । पीड्यत्वपीडकत्वापादकयोरुभयमनसोरित्यर्थः । पीड्यपुरुषे यदि मनः पीड्यत्वापादकतया वर्तते तदा तस्य दुःखं पीडके च पीडकत्वा-पादकतया वर्तते चेत्तस्य सुखं भवतीति प्रसिद्धम् । मयि स्थितं च मनो मम पीड्यत्वाभि-मानापादकं न भवतीति न मम दुःखहेतुभूतं तदित्याशयः ।

ग्रहा इति श्लोकेऽपि मनोऽन्वयव्यतिरेकावुक्तावित्याशयेनाह ॥ ग्रहस्येति । गृह्यतेऽ-नेनेति करणव्युत्पत्त्येत्याशयः । ग्रहणरूपस्य ग्रहजननस्वभावस्येत्यर्थः । कर्मास्त्विति श्लोकेऽपि तदन्वयव्यतिरेकादित्याशयेनाह ॥ जड इति । कालोऽस्त्विति श्लोकेऽपि तावुक्ता-वित्याशयेनाह ॥ तदात्मन इति । कालकृतविकारयुक्तस्येत्यर्थः । न केनचिदिति श्लोकेऽपि तावुक्तावित्याशयेन यथाऽत्मन इत्यादि योजयति ॥ संसृतिरूपिण इति । अत्रत्यात्म-शब्दस्य मनःपरतयाऽऽत्मनो मनस इति व्याख्यातत्वाज्जीवस्येति व्याख्यानान्तरमिति ध्येयम् । यथेत्यनन्तरमात्मनो मनसः सतो द्वन्द्वोपरागो भवतीति शेषः । परस्य भगवतः । तत्र मूलाभिप्रेतं हेतुमाह ॥ अमनस्त्वादिति । जीववत्प्राकृतमनोऽभिमानाभावादित्यर्थः । उपसंहरति ॥ अत इति । उक्तरीत्या जन इत्यादि सर्वश्लोकेष्वपि मनोऽन्वयव्यतिरेको दुःखादिजनने उक्त इत्यर्थः ॥

तथा च जन इत्यादिश्लोकानामियमक्षरयोजना ॥ तथा हि । नायं जन इत्यत्र मनस एव परमकारणत्वमुपपादयितुमादौ प्रतिज्ञातं जनस्य सुखदुःखाहेतुत्वमुपपाद्यते ॥ जनोऽ-स्येति । अस्य जीवस्य जनः परिदृश्यमानप्राणिदेहः सुखदुःखयोर्हेतुश्चेत्तर्हि तत्र देहे निर्मुक्ताभिमानतया विद्यमानस्यात्मनो मम तेन किं स्यान्न किमपि । कुतः । यतस्तद्दुःखं भौमयोर्भूविकारयोर्देहयोस्ताड्यत्वत्ताडकत्वतदापादकयोरुभयमनसः सतोर्भवति नान्यथा । मयि स्थितं च मनो मम ताड्यत्वाभिमानमुत्पाद्य दुःखहेतुर्न भवति । निर्मुक्ताभिमानत्वादतो मम किं स्यान्न किमपि दुःखादिकमित्यर्थः । अत्र दृष्टान्तो जिह्वामिति । स्वदद्भिः स्वकीय-दन्तैरेव क्वचित्स्वजिह्वां संदशति । तदा तद्वेदनायां तस्यां जिह्वायां वेदनायां सत्यां कतमाय कुप्येत्कोपं कुर्यात् । न हि दन्तान्प्रति क्रुद्ध्यति । तथा च जिह्वादन्तयोरुभयोरपि भौमत्वे-नैकस्य पार्थिवपदार्थस्यापरपार्थिवपदार्थेन सम्बन्धेन दुःखे जातेऽहं किं करिष्यामीति मत्वा न कुप्यति । यथा तथा पार्थिवपदार्थभूतमदीयदेहस्यापरपार्थिवपदार्थभूतपरकीयदेहेन दुःखे जाते निर्मुक्ताभिमानस्य किं भविष्यतीत्यतो न जनो दुःखहेतुरिति भावः ।

न देवतेति प्रतिज्ञातं देवताया दुःखहेतुत्वाभावमुपपादयति ॥ दुःखस्येति । यदि दुःखस्य हेतुः परदेहस्थिततत्त्वाभिमानिदेवतेत्युच्यते । तर्ह्यस्तु तथाऽत्र देहे निर्मुक्ताभि-मानतया स्थितस्यात्मनो मम किं स्यान्न किमपि । कुतः । यतस्तद्दुःखं विकारयोर्मनआदि-विकाराभिमानिदेवतयोर्मनसोर्विकारापादकतया सतोरेव भवति नान्यथा । मद्देहस्थिता देवताश्च मन्मनसो विकारापादनका न भवन्त्यतो न मम दुःखमित्यर्थः । तत्र दृष्टान्तो यदङ्गमिति । यद्यदा स्वदेहेऽङ्गे चक्षुराद्यङ्गेनेन्द्राद्यभिमन्यमानहस्तादिना विहन्यते चेत्तदा पुरुषः कस्मै क्रुध्येत् । न हि हस्ताभिमानीन्द्राय कुप्यतीत्यर्थः । कदाचित्कुप्यत्येवेति चेत्तत्क्रोधस्या-योग्येन्द्रादिविषयकत्वात् । अयोग्यक्रोधादेश्च मनोऽभिमानस्यैव कारणत्वात्तस्य च ममाभावा-दित्याशयः ।

नात्मेत्युक्तं मनसो दुःखाहेतुत्वमुपपादयति ॥ आत्मेति । आत्मा मनो सुखदुःख-हेतुश्चेत्तत्र देहे विद्यमानस्य निर्मुक्ताभिमानस्य मम किं नैव सुखापादकः । कुतः । निजःस्वभावः । अन्यतः कारणविशेषादन्यथा नैव भवति । तदेवोपपादयति ॥ न हीति । आत्मनो जीवस्य स्वभावादन्यन्न भवतीति हि प्रसिद्धम् । ननु सुखस्वभावस्याप्यात्मनो दुःखादिकं दृश्यत इति चेत्तत्राह ॥ यदीति । यदि स्वभावादन्यद्दृश्यते तर्हि तन्मृषा मिथ्यैव स्यात् । मिथ्यात्वमुपपादयति ॥ न सुखमिति । यत्सुखस्वरूपं तद्दुःखं दुःखस्वरूपं न भवति । यद्दुःखं दुःखस्वरूपं तत्सुखं सुखस्वरूपं न भवत्यतः स्वभावादन्यत्परिदृश्यमानं मृषैव शुक्तिरजतवदित्यर्थः ।

ननु मनस एव कारणत्वमुपपादयितुमयं ग्रन्थः प्रवृत्तः । अत्र श्लोके मनसः कारणत्वा-भावमुपपाद्यत इति विरोध इति चेत् । सत्यम् । तथाऽपि तात्पर्यानुसारेण मनस एव कारणत्वोपपादनमत्राप्यभिप्रेतं द्रष्टव्यम् । तथा हि । न सुखं न दुःखमतो मृषैव स्यादित्युक्तम् । तत्र भ्रमे किं कारणमिति चेदुच्यते । जपाकुसुमसन्निधानेन स्फटिके लौकित्यमिव मनःसन्निधानादेवैवं प्रतीयतेऽतो मन एवाभिमानयुक्तं सत्तथा दर्शयति । तादृशं च प्रदर्शकं मनो मम नास्तीति सुखस्वरूपे मयि कथं दुःखमित्याशयः ।

ग्रहाणामुक्तं दुःखहेतुत्वाभावमुपपादयति ॥ ग्रहा इति । आदित्यादिनवग्रहाः सुख-दुःखयोर्निमित्तमिति चेत्तथाऽप्यजस्योत्पत्तिशून्यस्यात्मनो मत्स्वरूपस्य किं कुर्युः । कुतः । यतो नवग्रहा जनस्य जनिमत एव पुंसः स्वकार्याणि कुर्युरिति वै ज्योतिःशास्त्रे प्रसिद्धम् । जनस्य त इत्युक्तमेव विशदयति ॥ ग्रहैरिति ग्रहैः पीडा ग्रहस्य गृह्यत इति व्युत्पत्त्या देहस्यैव जनिमतो भवन्त्यतो ततोऽन्यः पीडायुक्तदेहाद्भिन्नः पुरुषः कस्मै क्रुध्येत । देहभिन्नपुरुषस्यापि पीडा ग्रहस्य गृह्यतेऽनेनेति करणव्युत्पत्त्या ग्रहणरूपस्य मनसः सत एव मनोऽभिमाने सत्येव भवत्यहं तु निर्मुक्ताभिमान इति न मम ग्रहनिमित्तपीडेति भावः ।

कर्मण उक्तं दुःखाहेतुत्वमुपपाद्यते ॥ कर्मास्त्विति । कर्म सुखदुःखयोर्हेतुश्चेदस्तु तथाऽप्यात्मनो मम किम् । कुतः । तत्कर्माधीनं दुःखादि जडे कर्माधीने देहे युज्यते । आत्मनश्चाजडत्वे सिद्धे सति स्ववित्स्वस्वरूपज्ञानी सुपर्णः परमानन्दरूपः पुरुषः कस्मै क्रुध्येत । एतादृशोऽप्यात्मनि कर्माधीनं दुःखादिकं जडे जडमनसि अभिमानयुक्ते प्राकृते मनसि सत्येव प्रतीयते । मम तु न तादृशं मनोऽस्तीति कर्म मम दुःखादौ मूलं न भवतीत्यर्थः ।

कालस्योक्तं दुःखाहेतुत्वमुपपादयति ॥ कालोऽस्त्विति । कालः सुखदुःखयोर्हेतुश्चेदस्तु तथाऽपि तत्र देहे निर्मुक्ताभिमानस्य कालकृतविकारशून्यस्यात्मनो मे मम तेन किं स्यात् । कुतः । यतोऽसौ कालस्तदात्मनस्तत्कृतविकारयुक्ततया तदधीनस्यैव विकारापादक इत्यर्थः । मम च कालाधीनत्वाभावादिति ध्येयम् । तर्हि देहस्यापि कालकृतविकारयुक्ततया कालाधीन-त्वात्कालो देहस्य दुःखाद्यापादकोऽस्त्विति चेत् । सत्यम् । जडत्वाद्देहस्य न सम्भवतीत्याह ॥ नाग्नेर्हीति । यथाऽग्नेरग्निनिमित्ततापो न जडत्वाद्धिमस्य हिमनिमित्तं तद्दुःखं न जडत्वादेवं देहस्यापि जडत्वात्कालादिसम्बन्धे विद्यमानेऽपि न दुःखं युक्तमिति कस्मै क्रुध्येतेत्याशयः । यदाऽप्यात्मदुःखादिकं दृश्यते तत्तदात्मनः कालकृतविकारवतोऽभिमानयुक्तस्य मनसः सत एव भवति नान्यथा । मम तु तदभावान्न दुःखमित्यर्थः । जडत्वाद्दुःखं नेत्यत्रैव तौ दृष्टान्ताविति ध्येयम् ।

यदि जीवदेहयोर्न दुःखादिस्तर्हि हरेः स्यादित्यत आह ॥ नेति । बोद्धुः सर्वज्ञस्य दुःखं नेत्यर्थः । एतदेवोपपादयति ॥ न केनचिदिति । यथा संसृतिरूपिण आत्मनो जीवस्यात्मनो मनसः सत एव द्वन्द्वोपरागो भवति । तथा परतो ब्रह्मादेः परस्यास्य भगवतः क्वापि देशे काले च कथञ्चन केनचित्प्रकारेण वा द्वन्द्वोपरागो नेत्यर्थः । उपसंहरति ॥ एवमिति । एवंप्रबुद्ध एवंविधज्ञानी भूतैः खलैः कृतादुपद्रवान्न बिभेति ॥ ५७ ॥

प्रमेयचन्द्रिका

एवं जन इत्यादिभिः षड्भिः श्लोकैर्मानसाभिमाने सत्येव सुखादिकं भवतीत्यन्वय उपपादितः । अधुना व्यतिरेकमुखेन मनसो दुःखादिकारणत्वोपपादनपूर्वकमेवं ज्ञानिनः फलमुच्यते ॥ न केनचिदिति ॥ अत्र संसृतिरूपिण आत्मनो जीवस्य यथा तथा परतः परस्य हरेर्द्वन्द्वोपरागो नास्तीत्येवोच्यते । न तु मनसोऽभावात्सुखदुःखाभाव इति व्यतिरेकः । अत्र मनोवाचकस्य पदस्यैवाभावादित्याशङ्क्योत्तरार्धगतमात्मन इति पदावृत्या पूर्वार्धेऽपि सम्बध्यते । आवृत्तस्य पदस्य मनोवाचकत्वं तथा च व्यतिरेकोप-पादकत्वं श्लोकस्य युज्यत इत्याशयवानावृत्तमात्मपदमनूद्य व्याचष्टे भगवानाचार्यः ॥ आत्मनो मनस इति ॥ यथाश्रुतपदस्य जीवपरतया व्याख्यानं श्लोकतात्पर्यकथनं च करिष्यत्युत्तरत्र । उक्तशङ्काव्याकुलचेतसं विलम्बमसहमानं प्रत्यावृत्तपदमात्रमत्र व्याख्यात-मिति ज्ञेयम् ।

स्यादेतत् । यदि जनोऽस्येत्यादिभिरतीतैः षड्भिः श्लोकैः सुखदुःखयोर्मनोभिमानानु-विधायित्वमन्वयेनोक्तं भवेत्तदाऽत्र व्यतिरेकेण तदुपपादनं सङ्गतं स्यान्न चैतदस्ति । तत्र जनादीनां षण्णां सुखादिहेतुतामाशङ्क्य तन्निरासमात्रं क्रियते । न तु मनसः सुखादि-कारणत्वमन्वयमुखेनोच्यते । तत्र मनोवाचकपदाश्रवणादित्याशङ्कावारणाय तेषु श्लोकेषु मनो-ज्ञापकपदानामनुवादपूर्वकं सुखदुःखयोर्यथा मनोनुविधायित्वमन्वयतः सिध्येत्तथा व्याख्याति ॥ भौमयोरित्यादिना मनसः सत इत्यन्तेन ॥ अत्र भौमयोः पीड्यपीडकयोरुभयमनसोः सतोर्दुःखं भवतीत्येकं वाक्यम् । तेनाद्यश्लोके मनसः कारणत्वज्ञापकं पदमुदाहृत्य व्याख्यातं भवति । विकारयोः पीड्यपीडकयोरुभयमनसोः सतोर्दुःखं भवतीत्यपरं वाक्यम् । तेन द्वितीयश्लोकगतं मनसः कारणत्वज्ञापकं पदमुदाहृत्य व्याख्यातम् । लाघवाय संमिश्रत-योक्तिरिति ज्ञेयम् ।

अत्र भौमयोर्विकारयोरपि मूलस्थपदद्वयानुवादेनोभयोरर्थकथनं मनसोरिति । द्विवचन-घटनायोक्तमुभयेति । मनस एकत्वादुभयत्वं कथमित्यत उक्तम् ॥ पीड्यपीडकयोरिति ॥ पीड्यपीडकपुरुषद्वयसम्बन्धिनोरित्यर्थः । अन्वयोपपादनायोक्तं सतोर्दुःखं भवतीति । सुखरूपस्य जीवस्य न स्वतो दुःखम् । किं तु बाह्योपाधिलक्षणे मनसि सत्येवेत्यन्वयोपपादनं ज्ञेयम् । अत्रान्नमयं हि सौम्य मन इत्युक्तेर्मनसो भौमत्वमभिमानादिरूपेण परिणामाद्विकारित्वं च युज्यते । आत्मेति तृतीयश्लोके केवलस्य मनसो दुःखाद्यहेतुत्वमुपपाद्य न ह्यात्मनो जीवस्य स्वभावादन्य-द्भवतीत्युक्त्या आत्मेति प्रस्तुतमनोविकाररूपोपाध्यैव दुःखं भवतीति सूचनान्न तत्र मनोन्वय-प्रदर्शकपदान्तरं प्रयुक्तम् । अत एव तत्र भगवत्पादैर्मन एव तथा दर्शयतीति तदभिप्रायो वर्णितः । तस्मात्तृतीयश्लोकं त्यक्त्वा चतुर्थे मनोवाचकं पदमुदाहृत्य व्याकुर्वन् मनोन्वयमुपपादयति ॥ ग्रहस्येति ॥ पूर्वं ग्रहाग्रहैरिति पदद्वयं देहपरतया व्याख्यातम् । इह तु षष्ट्यैकवचनान्तं पदं मनःपरमित्युच्यत इत्यविरोधः । ग्रहणरूपस्यार्थविषयीकारिणः । पञ्चमश्लोके मनःपरपदं व्याकुर्वन्नन्वयं दर्शयति ॥ जडे मनसीति ॥

षष्ठश्लोकेऽपि मनःपरपदमनूद्य तस्य विशेष्यं दर्शयन् दुःखादेर्मनोन्वयानुविधायित्वमुपपादयति ॥ तदात्मनो मनसः सत इति ॥ मनसः सत एव मनसि सत्येवेति पूर्वत्रात्र च दुःखं भवतीत्यस्यानुवृत्या सम्बन्धो ज्ञेयः । तथा चात्र तदात्मनः कालाधीनस्य मनसः सत एव दुःखं भवतीत्यन्वयोपपादनमिति बोध्यम् । एवं पूर्वत्रापि । तथा च जन इत्यादिषु षट्स्वपि श्लोकेषु मनःपरपदस्य विद्यमानत्वादभिमानरूपमनःसद्भाव एव दुःखमित्यन्वयस्योक्तत्वेनेह न केनचिदिति श्लोके मनसोऽभावे दुःखस्याप्यभाव इति व्यतिरेकोपपादनं युक्तमिति भावः ।

यथाऽऽत्मन इत्युत्तरार्धे श्रुतात्मपदस्यापि मनःपरत्वे आत्मनो मनसो यथा सुख-दुःखादिद्वन्द्वोपरागोऽस्ति तथा परतः परस्य संसृतिरूपिणो जीवस्य द्वन्द्वो नेत्यर्थः स्यात् । तदयुक्तम् । मनसो जडत्वेन सुखदुःखादिभोक्तृत्वासम्भवात् । जीवस्यैव सुखादिभोग्यानुभव-विरोधाच्चेत्यतस्तृतीयपादयोजनां दर्शयति ॥ संसृतिरूपिण इत्यादिना अमनस्कत्वादित्य-न्तेन ॥ दुःखादिरूपां संसृतिं रूपयति प्रापयतीति संसृतिरूपं मनस्तदस्यास्तीति वा । संसृतिरूपमनःसाधारणधर्मोपलक्षणमिति यावत् । तदस्यास्तीति वा संसृतिरूपा । तस्य संसृतिरूपिण एतदनुवादश्चात्मन इत्यस्य जीवपरताज्ञापनाय चेति ज्ञेयम् । यथेत्यतःपरं द्वन्द्वोपराग इति शेषः । तथा न हि परस्येत्यनेन व्यत्यासदृष्टान्तोऽयमित्युक्तं भवति ।

एतेन यथाऽऽत्मन इत्यस्य पूर्वार्धेनान्वय इति सूचयति । परस्येति पदसूचितां युक्तिं सूचयति ॥ अमनस्कत्वादिति ॥ परस्य विलक्षणस्य जडमनोरहितस्य । हेतुगर्भमेतत् । अमनस्कत्वादिति तदभिप्राय इति भावः । तथा च मानसाभिमानाभावे दुःखस्याभाव इत्य-त्रेश्वरो दृष्टान्त इत्युक्तं भवति । किमेतेन ग्रन्थसन्दर्भेन लब्धमित्यत आह ॥ अत इति ॥ अत एवं मानसाभिमाने सत्येव दुःखं दृश्यते । यतश्चामनस्कत्वादीश्वरस्य दुःखाभावः । अतो दुःखस्योपाधित्वं च स्फटिके जपाकुसुमस्य रक्तिमाधायकत्ववत्स्वोपादानकदुःखादे-र्धर्मेण स्वसंसर्गिणि जीवे नीचतादिभिन्नाभिन्नधर्माधायकत्वमतो जनादिभिः षड्भिर्निर्मित्तै-र्दुःखाद्यात्मना मनसि विकृते सति सुखमात्रस्वभावेऽपि चैतन्ये उक्तरूपस्य मनसोऽङ्गार-वह्निवदिति मिश्रीभावबलेन नीचतादिरूपविकारो जायते । तस्मादनिगृहीतस्य मनसोऽनिष्टा-पादकत्वेन तस्यैव कोपविषयत्वं नान्येषामिति ॥

ततश्चैवं मूलयोजना । आत्मनो मनसः सम्बन्धी तद्विकाररूपो यो द्वन्द्वः सुखदुःखादिस् तस्यात्मन्युपरागः नीचोच्चतात्मना उपरक्तता या सा संसृतिरूपिण आत्मनो यथा स्यात्तथा परतो मुक्तवर्गादपि परस्य विलक्षणस्य मनोरहितस्येति यावत् । परमात्मनो हरेः केन-चित्कारणेन क्वापि देशे काले च कथं च केनापि प्रकारारेण द्वन्द्वोपरागो न स्यात् । नास्ति । यथा चाभिमानरूपमनोवतो जीवस्य यथा दुःखं तथा अनादितोऽपि विकारिमनो-रहितस्य हरेर्दुःखाभावदर्शनान्मन एव दुःखादिकारणमिति व्यतिरेकमुखेनोपपादितं भवतीति । ततश्चैवमन्वयव्यतिरेकाभ्यामभिमानरूपमनस एव दुःखादिहेतुत्वं विद्वान्भूतैर्भूताकारैर्मन-आदिभिर्भूतैर्दुजनैश्च न बिभेतीति ॥ ५७ ॥

एतां समास्थाय परात्मनिष्ठामध्यासितां पूर्वतनैर्महर्षिभिः ।

अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ ५८ ॥

पदरत्नावली

एवं विरक्तिर्भगवदङ्घ्रिभक्तिद्वारा संसारनिर्मोकहेतुरित्याह– एतामिति । मुकुन्दाङ्घ्रिनिषेवयैव एतां परात्मनिष्ठां मनःसंयमलक्षणव्यवस्थां समास्थाय स्थिरीकृत्य, परात्म-ज्ञानलक्षणां वा प्राप्य । अत्र प्रमाणमाह– अध्यासितामिति । सम्यगनुष्ठिताम् । तमो ऽज्ञाननिमित्तं संसाराम् ॥ ५८ ॥

श्रीनिवासतीर्थीया

परात्मनिष्ठां परमात्मनि मनोनिष्ठां हेतुभूतामेतां गाथामास्थाया-श्रित्य । कीदृशीं पूर्वतनैर्महर्षिभिरध्यासिताम् । अनेन महर्षिसंप्रदायागतेयं गाथेत्युक्तं भवति

॥ ५८ ॥

प्रमेयचन्द्रिका

मूले परात्मनिष्ठां परा उत्तमा च सा आत्मनो मनसो निष्ठा निग्रह-रूपा व्यवस्था तां समास्थाय स्थिरीकृत्य तथा परात्मनो हरेर्निष्ठामुत्कर्षं समास्थाय निश्चित्य तमो अज्ञानम् अज्ञाननिमित्तकं संसारमिति यावत् ॥ ५८ ॥

श्रीभगवानुवाच–

निर्विद्य नष्टद्रविणो गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम् ।

निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽसौ मुनिराह गाथाम् ॥ ५९ ॥

पदरत्नावली

श्रद्धेयेयं गाथेति भावेनाह– निर्विद्येति ॥ ५९ ॥

श्रीनिवासतीर्थीया

निर्विद्य विरक्तो भूत्वा । प्रव्रज्य यत्याश्रमं गृहीत्वाऽसद्भिः स्वधर्मान्निराकृतोऽपि स्वधर्माद्भगवति मनोयोगरूपात् । इत्थमुक्तरीत्या गाथामाहेत्यर्थः

॥ ५९ ॥

प्रमेयचन्द्रिका

निर्विद्य वैराग्यं लब्ध्वा । प्रव्रज्य सन्न्यस्य ॥ ५९ ॥

सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ।

मित्रोदासीनरिपवः संसारः स्वमनस्ततः ॥ ६० ॥

पदरत्नावली

गाथायास्तात्पर्याथमाह– सुखेति । आत्मनि मनसि रूढो विविधभ्रम एव सुखदुःखप्रदः, अन्यो नैव ततो मित्रोदासीनरिपुलक्षणश्च संसारः स्वमनः स्वमनोहेतुकः ॥ ६० ॥

श्रीनिवासतीर्थीया

गाथातात्पर्यार्थमाह ॥ सुखेति । आत्मनो मनसो विभ्रमोऽभि-मानेन नानाविषयेषु परिभ्रमणमहंममेति भ्रमो वा यः स एव सुखदुःखप्रदो नान्यो जनदेवताऽऽत्मग्रहादिरतो मित्रोदासीनरिपव इदं मित्रमयमुदासीनोऽयं रिपुरिति य आत्मनः संसारः स स्वमनः स्वमनोऽभिमानकृत इत्यर्थः ॥ ६० ॥

प्रमेयचन्द्रिका

एवं प्रकृतस्यावन्त्यद्विजप्रवृत्तिकथनस्य प्रकृते उपयोग उच्यते ॥ सुखदुःखेति ॥ आत्मनि मनसि रूढोऽहंममेत्यभिमानरूपो भ्रम एव सुखदुःखप्रदोऽन्यो नैव । ततः कारणान्मित्रोदासीनरिपव इदं मित्रमयमुदासीनोऽयं रिपुरिति कल्पनमिति यावत् । जनिमृतिदुःखादिरूपः संसारश्च स्वमनः स्वमनोनिमित्तक एवेत्यर्थः ॥ ६० ॥

तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।

मय्यावेशितया युक्त एतावान् योगसङ्ग्रहः ॥ ६१ ॥

पदरत्नावली

मनोनिग्रहयोगमाह– तस्मादिति । एतावान् मनःसंयमलक्षणः ॥ ६१ ॥

श्रीनिवासतीर्थीया

भगवानुपसंहरति ॥ तस्मादिति । सर्वात्मना सर्वप्रकारेण मय्यावेशितधिया युक्तो मनोनिग्रहे य उपायस्तद्युक्तः सन् मनो विषयेभ्यो निगृहाण । योगसङ्ग्रहो योगशास्त्रोक्तप्रमेयस्य सङ्ग्रह एतावान्मनःसंयमलक्षण इत्यर्थः ॥ ६१ ॥

प्रमेयचन्द्रिका

युक्तः ध्यानादियोगयुक्तस्त्वं मय्यावेशितया धिया निश्चयात्मकया बुध्या सर्वात्मना मनो निगृह्णीष्व मनोनिग्रह इत्येतावान्योगस्य मोक्षसाधनस्य भगवदाराधन-रूपोपायस्य संग्रह इत्यर्थः ॥ ६१ ॥

य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।

धारयन् श्रावयन् शृण्वन् द्वन्द्वैर्नैवाभिभूयते ॥ ६२ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे त्रयोविंशोऽध्यायः ॥

पदरत्नावली

फलमाह– य इति । ब्रह्मनिष्ठां ब्रह्मोत्कर्षज्ञानपूर्वकमनोनिग्रहलक्षणाम्

॥ ६२ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य त्रयोविंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

फलमाह ॥ य एतामिति । एतां गाथां ब्रह्मनिष्ठां ब्रह्मणि मनोनिष्ठां साधनभूताम् । द्वन्द्वैः शीतोष्णसुखदुःखादिभिर्नैवाभिभूयते । द्वन्द्वसहिष्णुर्भवतीति यावत् ॥ ६२ ॥

॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे त्रयोऽविंशोऽध्यायः ॥ ११-२३ ॥

प्रमेयचन्द्रिका

ब्रह्मनिष्ठां ब्रह्मोत्कर्षज्ञानपूर्वकमनोव्यवस्थालक्षणाम् ॥

॥ इति श्री श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीभागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां त्रयोविंशोऽध्यायः ॥