२२ द्वाविंशोऽध्यायः

कानि तत्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो

॥ अथ द्वाविंशोऽध्यायः ॥

उद्धव उवाच–

कानि तत्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो ।

नवैकादशपञ्चत्रीण्यात्थ त्वमिह शुश्रुम ॥ १ ॥

पदरत्नावली

भगवत्सृष्टानां तत्त्वानां सङ्ख्यानं जीवस्य हरेश्च भेदं (च) निरूपयत्यस्मिन्नध्याये । तत्रादौ भगवदुपदेशाज्ज्ञाततत्वस्वरूपोप्युद्धव ऋषिभिस्तत्वानां बहुधा सङ्ख्यायमानत्वाद् (तत्र) युक्तीर्ज्ञातुकामः पृच्छति कानीति । त्वं नवेत्यादीनि तत्वान्यात्थ वयं च शुश्रुम । तत्र ऋषिभिः सङ्ख्यातानि तान्येव उतेतराणि ॥ १ ॥

श्रीनिवासतीर्थीया

अत्र तत्त्वानां सङ्ख्यानं जीवपरभेदं निरूपयत्यस्मिन्नध्याये । तत्रादावुद्धवः पृच्छति ॥ कानीत्यादिना । ननु प्रश्नस्य सन्देहमूलकत्वात्कः संशय इत्यतः संशयमूलां विप्रतिपत्तिं दर्शयति ॥ नवेत्यादिना । नवैकादशपञ्चत्रीन् भावान् भूतेषु येन वै । ईक्षतेऽन्वेकमप्येषु तज्ज्ञानं मम निश्चितमिति एकोनविंशाध्याये । त्वमात्थ वयं च शुश्रुम इत्यर्थः । सङ्ख्यानामेतावत्वं यद्विवक्षया किं विवक्षया ॥ १,३ ॥

प्रमेयचन्द्रिका

कानीति मूले नव तत्वानीत्येकादशेति पञ्चेति त्रीणीति विवक्षा-भेदेनात्थेति वयं शुश्रुमः । तानि तत्वानि कानि ? किंविवक्षया नवादिभेदः ? ऋषिभिश्च तानि कियन्ति सङ्ख्यातानीत्यर्थः ॥ १ ॥

केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् ।

सप्तैके नव षट् केचिच्चत्वार्येकादशापरे ।

केचित् सप्तदश प्राहुः षोडशैके त्रयोदश ॥ २ ॥

पदरत्नावली

संशयनिमित्तमाह– केचिदिति ॥ २ ॥

प्रमेयचन्द्रिका

विप्रतिपत्तिश्च बहुशो दृश्यत इत्युच्यते केचिदित्यादिना ॥ २ ॥

एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया ।

गायन्ति पृथगायुष्मन्निदं नो वक्तुर्हसि ॥ ३ ॥

पदरत्नावली

ऋषयस्तत्वानां सङ्ख्यानामेतावत्त्वं यद्विवक्षया कया युक्त्या पृथग् गायन्ति नोऽस्माकमिदं सयुक्तिकं वक्तुमर्हसि ॥ ३ ॥

प्रमेयचन्द्रिका

ऋषिभिः कियन्ति सङ्ख्यातानीत्युक्तविवरणं क्रियते एतावत्वमिति ॥ ऋषयस्तत्वविषयकसङ्ख्यानां षड्विंशतिरित्याद्येतावत्त्वं तावन्मात्रत्वं किंविवक्षया पृथक् पृथग्गायन्ति । तदिदं नो वक्तमर्हसीत्यर्थः । आयुष्मन्निति सर्वकालेऽप्येकप्रकारत्वमेव मुख्यतो वक्तुमिति सूचनायोक्तम् ॥ ३ ॥

श्रीभगवानुवाच–

युक्तयः सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा ।

मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥

नैतदेवं यथाऽत्थ त्वं यदहं वच्मि तत् तथा ।

एवं विवदतां हेतुः शक्तयो मे दुरत्ययाः ॥ ५ ॥

यासां व्यतिकरादासीद् विकल्पो वदतां पदम् ।

प्राप्ते शमदमे व्येति वादस्तमनुशाम्यति ॥ ६ ॥

परस्परानुप्रवेशात् तत्वानां पुरुषर्षभ ।

पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥

तात्पर्यम्

मायां मदीयां मत्सामर्थ्यम् । ‘विष्णोः सामर्थ्यमालम्ब्य तत्त्वसङ्ख्यां मुनीश्वराः । चक्रुर्हि तदविज्ञाय विवदन्त्यल्पबुद्धयः । तत्रापि कारणं विष्णोः शक्तिर्यस्या विकारतः ॥ अव्यक्तादेर्विकल्पोऽयं मनसः सम्प्रजायते । विरुद्धकल्पनं तच्च वासुदेवैक-निष्ठया । निरहङ्कारया नश्येद्विवादैकाश्रयं हि तदि’ति तन्त्रभागवते ॥ यासां सकाशाद-व्यक्तादिव्यतिकराद्विकल्पो विरुद्धकल्पः । स हि विवादाश्रयः । तत्त्वसङ्ख्या विवक्षाभेदेन बहुधा भवति ॥ ४–६ ॥

पदरत्नावली

ऋषय इति त्वयोक्तत्वात् सर्वेषु पक्षेषु युक्तिशङ्का न कार्योत्याशयेन परिहरति– युक्तय इति । यथा ब्राह्मणा वेदविचारकुशला ऋषयो भाषन्ते सङ्क्षेपविस्तराभ्यां वदन्ति तथा सर्वेषु पक्षेषु युक्तयः सन्तीत्यन्वयः । स्वकपोलकल्पितत्वेन वदतां मतं प्रमाणं कथं स्यादिति तत्राह– मायामिति । मदीयां मायां मम सामर्थ्यमुद्गृह्य आलम्ब्य नानाविधां तत्तत्सङ्ख्यां वदताम् ऋषीणां मतं किं नु दुर्घटं किमनुपपन्नम् । सर्वं प्रामाणिकमेवेत्यर्थः । ‘‘विष्णोः सामर्थ्यमालम्ब्य तत्वसङ्ख्यां मुनीश्वराः । चक्रुर्हि तदविज्ञाय विवदन्त्यल्पबुद्धयः । तत्रापि कारणं विष्णोः शक्तिर्यस्या विकारतः । अव्यक्तादेर्विकल्पोऽयं मनसा सम्प्रजायते । विरुद्धकल्पनं तच्च वासुदेवैकनिष्ठया । निरहङ्कारया नश्येद् विवादैकाश्रयं हि तत्’’ इति वाक्यात् श्रीनारायणसामर्थ्यमेव मयोच्यते नानिर्वाच्याविद्येति ॥

ननु प्रामाणिकं चेद् किमिति विप्रतिपद्यन्त इत्याशङ्क्य तन्मततत्वापरिज्ञानादिति भावेनाह नैतदिति । त्वं यथाऽऽत्थ एतदेवं न भवति दुष्टत्वात् । अहं यद् वच्मि तत् तथा निर्दोषत्वादिति । तदविज्ञाय विवदन्त्यल्पबुद्धय इत्यत्रापि मच्छक्तिरेव हेतुरित्याह– एवमिति । तत्रापि कारणं विष्णोः शक्तिरिति ॥ सत्वादिभेदेन यासामिति बहुवचनम् । यासां मच्छक्तीनां सकाशाज्जातादव्यक्तादितत्वानां व्यतिकराद् विकारन्मनसो यो विकल्पो मिथ्याज्ञानलक्षणः स एव विवदतां विवदमानानां पदमाश्रय आसीत् । तत्वसङ्ख्या विवक्षाभेदेन बहुविधान्मनोविकाराद् भवतीत्यर्थः । ‘‘यस्या विकारतः । अव्यक्तादेर्विकल्पोऽयं मनसः सम्प्रजायते । विरुद्धकल्पनं तच्च’’ इति । कदा नु विकल्पोपशम इत्यत आह– प्राप्त इति । दम इन्द्रियनिग्रहस् तद्द्वारा शमे प्राप्ते मन्निष्ठायां प्रवृद्धायां स विकल्पो व्येति विनश्यति । तमनु विकल्पनाशानन्तरं विवादोपि शाम्यति । ‘‘तच्च वासुदेवैकनिष्ठया । निरहङ्कारया नश्येद् विवादैकाश्रयं हि तत्’’ इति ॥ तत्वानामनेकविधसंख्याने युक्तिमाह– परस्परानुप्रवेशादिति । कार्यकारणरूपाणां तत्वानां परस्परानुप्रवेशात् कारणेषु कार्यानुप्रवेशात् क्वचित् कार्येषु कारणानुप्रवेशाद् अन्तर्भावाच्च, तथाऽप्रवेशेन पृथगेवावस्थानाच्च । पौर्वापर्यप्रसङ्ख्यानं न्यूनाधिकत्वेन तत्वानां गणनं वक्तुर्विवक्षितं यथा तथा क्रियते । पूर्वा सङ्ख्या अल्पा अपरा बह्वी तत्सम्बन्धी पौर्वापर्यम् ॥ ४–७ ॥

श्रीनिवासतीर्थीया

ब्राह्मणा वेदविचारकुशला यथा भाषन्ते तथा सर्वत्र पक्षेषु युक्तयः सन्तीत्यर्थः । अत्र मायां मदीयामित्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे ॥ मायां मदीयामिति । मायामित्यादि श्लोकार्थे प्रमाणमाह ॥ विष्णोरिति । भगवदुक्तिसामर्थ्य-माश्रित्य । अनेन मायां मदीयामित्यर्धस्य तात्पर्यमुक्तम् । तदित्यारभ्य शक्तिरित्यन्तेनैव-मित्यर्धस्य । यासामित्यर्धस्य तात्पर्यम् ॥ यस्या इति । यस्या शक्तेर्जातादव्यक्तादेर्विकारतो मनसो विकल्प इत्यन्वयः । कोऽयं विकल्प इत्यत आह ॥ प्राप्त इति । प्राप्त इति पादस्य तात्पर्यम् । तच्चेति । शमशब्दार्थ उक्तः ॥ वासुदेवैकनिष्ठयेति । निरहङ्कारयेति दमशब्दतात्पर्यम् । इन्द्रियैरहं कर्तेति कर्तृत्वाभिमानत्यागस्यैवेन्द्रियनिग्रहार्थकदमशब्द-फलितार्थत्वादित्याहुः । विकल्प इति पादस्य तात्पर्यम् ॥ विवादेति । न तु विरुद्ध-कल्पनम् ।

यासामित्यर्धं विवृतमपि स्ववाक्येन विवृणोति ॥ यासामिति । शक्तीनामित्यर्थः । सकाशात् । जातादिति शेषः । अव्यक्तादिव्यतिकरादव्यक्तादेर्विकारादित्यर्थः । यथा वक्तु-र्विवक्षितमित्यत्रापेक्षितं पूरयति ॥ तत्त्वसङ्ख्येति ॥ तथा चायमर्थः ॥ ननु स्वकपोल-कल्पितत्वेन वदतां मतं कथं प्रमाणं स्यादित्यत उच्यते ॥ मायामिति । मदीयां मायां मत्सामर्थ्यमुद्गृह्यालंब्य नानाविधतत्त्वसङ्ख्यां कुर्वताम् ऋषीणां किं नु दुर्घटं किमनुपपन्नमस्ति सर्वं प्रामाणिकमेवेत्यर्थः । नवैकादशेति मदुक्त्या मदुक्ततत्त्वसङ्ख्यानं ज्ञात्वा तदविरोधेनैव कयाचिद्विवक्षया तत्त्वसङ्ख्यां मुनीश्वराश्चक्रुरिति मन्मताविरोधित्वात्सर्वमपि मतं प्रामाणिक-मेवेत्याशयः ॥

यथा त्वमात्थ तदेव न भवति । परस्परविरोधाभिप्रायेण त्वया क्रियमाणः प्रश्नोऽयुक्त इत्यर्थः । अहं यद्वच्मि तत्तथा । वक्ष्यमाणरीत्याऽविरोधमहं यथा वच्मि तथा ज्ञातव्य-मित्यर्थः । नन्वेवमप्यविरोधे तत्तदृषिशिष्या मद्गुरूक्तमेव तत्त्वं न त्वद्गुरूक्तमिति कस्मा-द्विवदन्त इत्यत आह ॥ एवमिति । षड्विंशत्यादिभेदेन विवादं कुर्वतां तेषां विवादे दुरत्यया मे शक्तय एव हेतुर्हेतुभूताः । कीदृशास्ता यासां शक्तीनां सकाशाज्जातादव्यक्तादे-र्व्यतिकराद्विकारान्मनसो विकल्पो विरुद्धकल्पनमासीत्तदेव वदतां विवादमानानां पदमाश्रय आसीत् । मन्मताविरोधेनैतैरुक्तमिति न जानन्ति । मन्मायामोहितधीत्वादतो मनसो विकल्पेनात्र भ्रमाद्विवदन्तीत्याशयः । कदा नु विकल्पोपशम इत्यत आह ॥ प्राप्त इति । इन्द्रियानुग्रहलक्षणे दमसहिते भगवन्निष्ठालक्षणशम इति बुद्ध्या विवेकेन योज्यम् । प्राप्ते सति विकल्पो व्येति नश्यति । एवं विकल्पनाशे सति मुनिविकल्पनाशमनु वादो विवादः शाम्यतीत्यर्थः । सम्यघ्घरावन्तःकरणं निधायाहङ्कारं त्यक्त्वा सम्यग्विचारे क्रियमाणे सति भगवन्मताविरोधज्ञानमेव तेषां भवतीति विकल्पमूलकविवादोपशमो युक्त इत्याशयः ॥

एवं तत्त्वानामनेकधा सङ्ख्याने युक्तिमाह ॥ परस्परेति । कार्याणां कारणे कारणानां च कार्ये प्रवेशादित्यर्थः । पौर्वापर्यप्रसङ्ख्यानं पूर्वसङ्ख्याऽल्पाऽपरा बह्वी तत्सम्बन्धित्वं पौर्वापर्यं न्यूनाधिकभावेन प्रसङ्ख्यानमिति यावत् । वक्तुर्यथा विवक्षितं तथा विवक्षाभेदेन तत्त्वसङ्ख्या बहुधा भवतीति न विरोध इत्याशयः ॥ ४–७ ॥

प्रमेयचन्द्रिका

प्रसञ्जितेष्वेषु पक्षेषु मध्ये मदनुग्रहवतां मुनीनां पक्षा एव प्रामाणिका नान्य इत्याशयेनोत्तरमुच्यते युक्तय इति ॥ ब्राह्मणा ज्ञानिनो मुनीश्वराः । यथा भाषन्ते तत्र सर्वत्र युज्यन्त अर्था एभिरिति युक्तयः प्रमाणानीति यावत् । सन्ति कुत इत्यत उक्तम् मायामिति ॥ मदीयां मायामुपगृह्य मत्सामर्थ्यमालम्ब्य मदनुग्रहेणेति यावत् । वदतां किं न दूषणं न किमपीत्यर्थः । अत्रान्यथाप्रतीतिवारणाय मायाशब्दार्थमाह मायामिति । तत्र प्रमाणमाह विष्णोरिति । मदीयां मायामित्यस्यार्थो विष्णोः सामर्थ्य-मिति । उद्ग्रह्येत्यस्यालम्ब्येति । वदतामित्यादेस्तात्पर्यं तत्वसङ्ख्यामित्यादि । ऋषय इति प्रकृतत्वान्नैतदेवमिति विवादविषयतयोच्यमानेऽपि प्रामाणिकमिति भ्रमं निवारयन् सङ्गति-सूचनपूर्वकं नैतदेवमिति मूलं प्रमाणेन व्याचष्टे तदविज्ञायेति ॥ एतेन त्वदाशङ्किताः सर्वेऽपि पक्षा न प्रामाणिकाः । किन्तु मदनुग्रहालम्बनवन्मुनिमतानामेव प्रामाणिकत्वं नतु भगवत्तत्वाविदुषामित्याशयवता नैतदेवमित्याद्युच्यते । सङ्गतिः सूचिता भवति । तदविज्ञाय विवदन्तीत्यनेनैतदेवमिति विवादप्रदर्शकमूलं व्याख्यातं भवति ।

अप्रामाणिकैवंविधविवादे किं कारणमित्यत आह– तत्रापीति ॥ एतेन एवं विवदता-मित्यर्धो व्याख्यातो भवति । हरिशक्तीनामसद्विवादहेतुतोपपादनपरे यासामित्यर्धे यासां विष्णोः शक्तीनां व्यतिकराद्विवेकादिति तत्स्वरूपशक्तीनां विकारिताभानादाह यस्या विकारत इति । एतदनुपदं स्पष्टयिष्यति । मानसो मनसि भवः । एवंविधासद्विवादः कथं नश्यतीति जिज्ञासानिवारके प्राप्ते शमदम इति मूले शमदमादिशब्दस्य क्रोधाभावाद्यर्थता-प्रतीतिनिवारणाय तदर्थमाह विरुद्धेति ॥ निरहङ्कारयेति दमपदलब्धार्थकथनम् । शमादिना विरुद्धकल्पाख्यं मिथ्याज्ञानवादोऽपि कथं विवादोपरम इत्यतः प्रवृत्तस्य वादस्तमन्वित्य-स्याभिप्रायमाह विवादैकाश्रयमिति । हि यस्मात्तस्माद्विरुद्धकल्पनं विवादस्य मुख्याश्रयभूतं तस्मान्नाशमनु स्वस्याश्रयाभावाद्विवादोऽपि शाम्यतीत्यर्थः । यासां व्यतिकरादित्यत्र भगव-च्छक्तीनामेव विकारादिति मूले भाति । यस्या विकारत इत्युदाहृतप्रमाणवचसोऽपि स्पष्ट-मविरुद्धोऽर्थः प्रतीयते । अतः स्ववचनेन व्याचष्टे यासामिति । सकाशादित्यनेन पञ्चम्यर्थे षष्टीत्युक्तं भवति । प्राप्तादिति शब्दोऽत्र ग्राह्यः । अव्यक्तादिव्यतिकरादित्यनेन मूले व्यति-करादित्यत्राव्यक्तादेरिति ग्राह्यमिति सूचयति । विकल्प इत्यस्य विविधकल्पनमिति वारणा-योक्तं विकल्पो विरुद्धकल्प इति । प्रमाणविरुद्धार्थकल्पनं मिथ्याज्ञानमित्यर्थः । उक्तं चोदाहृतप्रमाणेन विरुद्धकल्पनं चेति । विकल्पो विविधः कल्पः विकल्पो विवाद इत्येवं किं न स्यादित्यतो विकल्पो वदतां पदमिति विकल्पस्य विवादाश्रयत्वोक्तेर्विवादस्य स्वाश्रय-त्वादुक्त एवार्थोऽङ्गीकार्य इत्याशयेनाह स हीति ॥ हि यस्मात्स मिथ्याज्ञानरूपो विकल्प एव विवादाश्रयोऽतः स एवात्र वक्तव्य इति भावः । मूले मे स्वरूपभूता अन्यै-र्दुरत्ययास्ताः शक्तयो विवदतां हेतुः । ग्रामान्तरं गच्छतामयं हेतुरित्युक्ते गमने हेतुरिति-वद्विवादहेतुरित्यर्थः । मूले शक्तय इति बहुवचनसद्भावेऽपि तात्पर्ये एकवचनं तु बहुवचन-विशेषकृतबहुत्वाविवक्षया वस्तुनो निर्भेदैरिव शक्तिभिरिति सूचयितुमिति ज्ञेयम् । अप्ये-तीत्यत्र विकल्प इति शेषः ॥

एवं प्रागुक्तपक्षेषु केषाञ्चित्प्रामाणिकत्वं केषाञ्चिदप्रामाणिकत्वमित्येतत्सहेतुकमुपपाद्येदानीं नवैकादशेत्यादिना पृष्टस्योत्तरप्रतिपादकस्य परस्परानुप्रवेशादिति मूलस्यायमर्थः । कार्यकारण- भावमापन्नानां तत्वानामव्यक्तमहदादीनां परस्परानुप्रवेशादन्योन्यान्तर्भावाच्चेति शेषः । अन्त-र्भावानन्तर्भावविवक्षयेति यावत् । वक्तुर्यथा विवक्षितं तथा पौर्वापर्यप्रसङ्ख्यानं न्यूनाधिक-सङ्ख्यावत्वेन गणनं भवतीति । अत्र यथावक्तुर्विवक्षितमित्यस्य पौर्वापर्यप्रसङ्ख्यानं प्रत्युप-पादकत्वप्रतीतेस्तदभिप्रायमाह ॥ तत्वसङ्ख्येति ॥ अन्तर्भावविवक्षया न्यूनसङ्ख्याबहिर्भाव-विवक्षया अधिकसङ्ख्येत्येवं विवक्षाभेदेन तत्वसङ्ख्या बहुधा भवति । यथा बुद्धेर्मन-स्यन्तर्भावविवक्षया एकादशेन्द्रियाण्याहुरिति बहिर्भावविवक्षया द्वादशैन्द्रियाण्याहुर्मनोबुद्धी तु द्वादशेति । सहगतेर्विशेषितत्वाच्चेति च । तथा च यथा वक्तुरन्तर्भावादिकं विवक्षितं तथा पौर्वापर्यप्रसङ्ख्यानमिति वक्तुर्विवक्षया न्यूनाधिकसङ्ख्योक्तिरित्युक्तं भवति ॥ ४–७ ॥

एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।

पूर्वस्मिन् वाऽपरस्मिन् वा तत्वे तत्वानि सर्वशः ॥ ८ ॥

पौर्वापर्यमथोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।

यथा विविक्तं यद्युक्तं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥

पदरत्नावली

एतदेव विवृणोति एकस्मिन्निति । इतराणि तत्वानि एकस्मिन् पूर्वस्मिन् कारणे तत्वे अपरस्मिन् कार्ये तत्वे वा प्रविष्टानि दृश्यन्तेऽपि । यस्मात् तस्मादमीषां तत्वानां गणनमिच्छतां पौर्वापर्यं पूर्वापरसम्बन्धिप्रसङ्ख्यानमपि युज्यत इत्यर्थः । नन्विदमार्षमतं तव चित्तेऽङ्गीकार्यमुत नेति तत्राह– यथेति । ऋषिभिरुक्तमिदं यथावदेव विविक्तं पृथक्पृथक् स्पष्टमत एव युक्तं चेति यद् यस्मात् तस्माद् गृह्णीमः । हेतुं स्पष्टयति युक्तिसम्भवादिति । यद् युक्तं यथा विविक्तं तथा गृह्णीमः । कुतः । युक्तिसम्भवादिति वा ॥ ८–९ ॥

श्रीनिवासतीर्थीया

एतदेव विवृणोति ॥ एकस्मिन्निति । पूर्वस्मिन्पूर्वभाविनि कारण इत्यर्थः । तथा चैकस्मिन्नपि पूर्वस्मिन्कारणभूते तत्त्वे इतराणि सर्वशस्तत्त्वानि प्रविष्टानि दृश्यन्ते । तथाऽपरस्मिन्पश्चाद्भाविनि कार्यभूते तत्त्वे इतराणि कारणभूतानि तत्त्वानि प्रविष्टानि दृश्यन्ते । व्याप्तं कार्येषु कारणमित्युक्तेः । यस्मादतस्तस्मादमीषां तत्त्वानां प्रसङ्ख्यानं गणनं कर्तुमिच्छतामृषीणां पौर्वापर्यं न्यूनाधिकभावेन प्रसङ्ख्यानं युज्यत इत्यर्थः । तन्मम संमतं युक्तियुक्तत्वादित्याह ॥ यथेति । यदि उक्तमिति पदच्छेदः । यद्युक्तमिति पदकरणे युक्तीत्यनेन पुनरुक्तिः । तथा च ऋषिभिर्यदि यद्यथा विविक्तं स्पष्टमुक्तं तत्तथा वयं गृह्णीमः । कुतः । युक्तीनां सम्भवात् । अत्रार्थे युक्तीनां सद्भावादित्यर्थः

॥ ८,९ ॥

प्रमेयचन्द्रिका

उक्तार्थविवरणं क्रियते ॥ एकस्मिन्नित्यादिश्लोकद्वयेन ॥ इतराणि वक्ष्यमाणापेक्षया अन्यानि । कानिचित्तत्वानि एकस्मिन्पूर्वस्मिन् स्वप्रकरणे तत्वे प्रविष्टानि । तदितराणि तु तत्वानि परस्मिन् स्वकार्ये तत्वे प्रविष्टानीति सर्वशोऽपि तत्वानि शास्त्रे तत्र तत्र दृश्यन्ते । यथा विज्ञानतत्वस्य स्वप्रकरणे महत्तत्वे सत्त्वरजस्तमसां च स्वकारणेऽव्यक्ते प्रवेशविवक्षया पञ्चभूतानि पञ्चतन्मात्रा एकादशेन्द्रियाण्यहङ्कारमहदव्यक्तानीति चतुर्विंशति-तत्वगणनावसरे दृश्यन्ते । यथा चाव्यक्तमहदहङ्कारशब्दादितन्मात्राणामष्टानां स्वस्वकार्येषु एकादशेन्द्रियपञ्चभूतेषु यथायोगमन्तर्भावेन लिङ्गदेहस्य षोडशकलात्मकत्वोक्तिः । उक्तपक्ष-भेदमपेक्ष्य वाशब्दद्वयम् । अथेतराणीत्यस्य प्रविष्टादन्यानि अप्रविष्टानीत्यर्थः । कुत्रचिद-प्रविष्टानि दृश्यन्ते । यथाऽष्टाविंशतितत्वानीति निरूपणस्थले गुणत्रयविज्ञानानामन्तर्भावः । यत एवं विवक्षाभेदोऽतोऽमीषां तत्वानां प्रसङ्ख्यानमिच्छतां मुनीनां मते पौर्वापर्यमपि न्यूनत्वमधिकत्वमपि युज्यते । अतो युक्तिसम्भवाद्यथा विविक्तमनन्तर्भूतं यद् यथा युक्तम् । मिलितमन्तर्भूतं यत्तत्तथा गृह्णीम इत्यर्थः ॥ ८,९ ॥

अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् ।

स्वतो न सम्भवेद् यस्मात् ततोऽन्यः पुरुषो भवेत् ॥ १० ॥

तात्पर्यम्

सर्वथा जीवादन्यः परमेश्वरोऽङ्गीकर्तव्यः । जीवस्य स्वत एव ज्ञाना-योगात् ॥ १० ॥

पदरत्नावली

तैर्ऋषिभिरप्यनाद्यविद्याबद्धादस्वतन्त्राज्जीवात् सर्वथाऽन्यः परमेश्वरः स्वीकर्तव्य इति भावेनाह– अनादीति । अनादिकालमारभ्याविद्याकामकर्मयुक्तस्य पुरुषस्य पुराणि शरीराणि सरतो जीवस्य आत्मवेदनं स्वस्वरूपाविर्भावलक्षणं ज्ञानं तथा आत्मनः परमात्मनोऽपरोक्षलक्षणं ज्ञानं च स्वतः स्वशक्त्या न सम्भवेत्, उक्तहेतोरिति यस्मात् तस्मात् पुरुषः पूर्णषड्गुणो विष्णुस्ततो जीवादन्यो भवेदित्यङ्गीकर्तव्यम् ॥ १० ॥

श्रीनिवासतीर्थीया

एवमनेकधा तत्त्वसङ्ख्यानं कुर्वद्भिरपि ऋषिभिः सर्वैः स्वतन्त्र-तत्त्वभूतो भगवानङ्गीक्रियते इत्येतदनङ्गीकारे बाधकप्रदर्शनमुखेनोपपादयति ॥ अनादीति । एतच्छ्लोकतात्पर्यमाह ॥ सर्वथेति । कुत इत्यत आह ॥ जीवस्येति । स्वत ईश्वरानुग्रहमन्तरेण स्वशक्त्येत्यर्थः । अन्यथाऽनादिकाले सम्बन्धायोगादित्याशयः । तथा चानादिकाले भगवदज्ञानयुक्तस्य जीवस्यात्मसाक्षात्कार ईश्वरानुग्रहमन्तरेण स्वशक्त्या यस्मा-त्तन्न सम्भवेत्तत्तस्माज्जीवोऽन्यो जीवस्य ज्ञानप्रद ईश्वरः सर्वथाऽङ्गीकार्यः । अज्ञानां ज्ञानदो विष्णुरित्युक्तेरित्यर्थः । यदि स्वशक्त्यैव ज्ञानादि तर्हि किमित्यनादिसंसारमग्नो जीवः कस्माच्च स्वात्मानं न मोचयति । तेन ज्ञायतेऽन्य ईश्वरोऽस्तीति भावः ॥ १० ॥

प्रमेयचन्द्रिका

अनाद्यविद्येति श्लोकद्वये प्रकृतेन सङ्गतिं दर्शयन्नप्रतिपत्यन्यथा-प्रतिपत्तिनिवारणाय व्याचष्टे ॥ सर्वथेत्यादिना ॥ सर्वप्रकारेणानङ्गीकारे बाधकसद्भावादिति यावत् । जीवादिभिः प्राधान्याभिप्रायेणोक्तम् । जडादित्यपि ग्राह्यम् । सर्वथा अन्योऽ-त्यन्तभिन्न इत्याशयेनोच्यते अनादीति श्लोकद्वयेनेति शेषः । नवैकादशेत्युक्तार्थविवक्षाविशेषं दर्शयितुं परमेश्वरस्य स्वतन्त्रतत्वस्याङ्गीकार्यतोपपादनायानादीति ग्रन्थप्रवृत्तिरिति सङ्गति-रनेनेति सूचितम् । ततोऽन्यः पुरुषो भवेदिति प्रतिज्ञावाक्यार्थोऽप्यनेनोक्तो भवति । कुतो भवेदित्यतोऽनङ्गीकारे बाधकप्रदर्शनेन तदुपपादकस्य पूर्वपादत्रयस्यार्थमाह ॥ जीवस्येति ॥ पुरुषस्यात्मवेदनं स्वतो न सम्भवेद्यस्मादित्यस्याक्षरार्थोऽनेनोक्तः । तत्पूर्वार्धस्तु तदुपपादक इति सूचितं भवति । तात्पर्ये अयोगादित्यस्य पूर्ववाक्येनान्वयः ॥ १० ॥

पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि ।

तदन्यकल्पनाऽपार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११ ॥

तात्पर्यम्

स च पुरुषरूपेण तत्स्थितो ज्ञानमुत्पादयति । ईश्वररूपेण बहिःस्थितः फलं ददाति । न च तयोः स्वरूपयोः किञ्चिद्वैलक्षण्यम् । तयोश्चान्यत्वकल्पना तत्स्वरूपादपगमनप्रयोजनाऽनर्थकारिणीत्यर्थः । ज्ञानस्वरूपस्य जीवस्य कथं ज्ञानो-त्पादनमित्यतो वक्तिज्ञानं च प्रकृतेर्गुण इति । जन्यज्ञानं प्रकृतेर्गुणः । ‘स्वरूपभूतज्ञानं तु सदा जीवस्य विष्णुना । नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयत’ इति च ॥ ११ ॥

पदरत्नावली

अत्रेदमनुसन्धेयमित्याह– पुरुषेति । हृदि स्थित्वा जीवानां ज्ञानोत्पादनात् पुरुषनाम्नो वहिः स्थित्वा ज्ञानफलमुक्तिदानादीश्वरनाम्नश्चाण्वपि वैलक्षण्यं न द्रष्टव्यम् । भेददर्शनेऽनर्थमाह– तदन्येति । तयोः पुरुषेश्वरयोरन्यत्वकल्पना भेददृष्टिलक्षणा अपार्था तत्स्वरूपादपगमनप्रयोजना अनर्थकारिणी चेत्यर्थः । ज्ञानात्मनो जीवस्य ज्ञानोत्पादनं कथं घटत इति तत्राह– ज्ञानं चेति । प्रकृतेर्गुणः सत्वगुणजन्यम् । ‘‘स्वरूपभूतं ज्ञानं तु सदा जीवस्य विष्णुना । नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयते’’ इति वचनात् ॥ ११ ॥

श्रीनिवासतीर्थीया

नन्वेवं जीवादन्यमीश्वरं प्रसाध्य कथं पुरुषेश्वरयोरिति तद्विरुद्धं कथ्यत इत्यतस्तात्पर्यमाह ॥ स चेति । जीवान्यो हरिरित्यर्थः । तदन्येत्येतद्भावप्रधान-मित्याशयेन व्याचष्टे ॥ तयोश्चान्यत्वेति ॥ अपगमनेति । अपेत्युपसर्गार्थः । प्रयोजनेत्यर्थशब्दार्थः । ननु कथं स्वरूपादपगमनं स्वरूपस्यानपायादित्यतस्तद्विवृणोति ॥ अनर्थेति । तथा च पुरुषेश्वरयोर्जीवान्तर्यामितया पुरुषरूपेण ज्ञानदातृबहिष्ठतयेश्वररूपेण मोक्षादिफलदातृभगवद्रूपयोरण्वपि किञ्चिदपि वैलक्षण्यं भेदो नास्तीत्यतस्तयोरन्यत्वकल्पना भेदधीरपार्थाऽनर्थकारिणीत्यर्थः । ज्ञानं चेति पादमसङ्गतिपरिहारायावतारयति ॥ ज्ञानेति । ज्ञानोत्पादनम् । अन्तःस्थरूपेणेति शेषः । ननु कथमनेन शङ्कापरिहारः स्वरूपज्ञानस्य प्रकृतिगुणत्वायोगादित्यतो व्याख्याति ॥ जन्यं ज्ञानमिति । अत्रार्थे प्रमाणमाह ॥ स्वरूपेति । प्राकृतं ज्ञानमपरोक्षम् । भक्त्यादिसाधनमपेक्ष्य तेनैवान्तःस्थपुरुषरूपेण ॥११॥

प्रमेयचन्द्रिका

ईश्वरानङ्गीकारेऽपि कथं जीवस्यात्मवेदनमित्यतस्तदुपपादके पुरुषेश्वरयोरिति द्वितीयश्लोके जीवेश्वरर्योर्भेदो नास्ति । भेदकल्पना च मिथ्या । न च मिथ्याज्ञानरूपधर्मवत्वतदभावाभ्यां जीवब्रह्मणोर्भेद इति वाच्यम् । यतो ज्ञानं च प्रकृतेर्गुणो न जीवस्यातो जीवोऽपि निर्द्धर्मिक इत्यपव्याख्याननिरासाय व्याचष्टे ॥ स चेत्यादिना ॥ पुरुषेश्वरयोरित्यत्र न पुरुषशब्देन जीव उच्यते । किं तु पूर्षु शेत इति व्युत्पत्या पुरुष-नामकभगवद्रूपविशेष एवोच्यते । एतस्यावस्थानं कुत इति चेत् । स हरिः पुरुषाख्यरूपेण देहान्तस्थितः सन् जीवस्य ज्ञानमुत्पादयति । ईश्वरपदेन देहाद्बहिस्थितरूपविशेष उच्यते । ततश्चेश्वराख्येन रूपेण बहिः स्थितः सन् ज्ञानफलं ददाति । न चैवं स्थानादिभेदात्तयोः स्वरूपयोरण्वपि किञ्चिदपि वैलक्षण्यं मन्तव्यम् । कुतो न मन्तव्यमिति चेत् । यतस्तयोः रूपयोरन्यत्वकल्पना अपार्था अपगतोऽर्थः प्रयोजनं यस्याः सा तथोक्ता । अपगत शब्देन विरुद्धप्राप्तिर्विवक्षितेत्याशयेनोक्तम् ॥ अनर्थकारिणीति ॥ इत्यर्थ इति पादत्रयस्येति भावः ।

नन्वेवं वक्तव्यस्य सर्वस्योक्तत्वाच्चतुर्थपादवैय्यर्थ्यमित्यतस्तदवतारयति ॥ ज्ञानरूप-स्येति ॥ जीवस्यानाद्यविद्याबद्धत्वात्परात्मवेदनं स्वात्मज्ञानं च स्वतो यस्मान्न सम्भवे-त्ततोऽन्यः परमपुरुषज्ञानस्योत्पादकोऽङ्गीकार्यो भवेदिति यदुक्तं तदयुक्तम् । जीवस्य ज्ञानात्मकत्वेन तज्ज्ञानस्य नित्यत्वात् । न हि नित्यस्य ज्ञानस्योत्पादो युक्त इत्याशङ्का-वारणाय ज्ञानं चेत्येतत्प्रवृत्तमिति भावः । स्वरूपभूतस्य ज्ञानस्य प्रकृतिगुणत्वं कथमित्यत आह ॥ जन्येति ॥ द्विविधं हि जीवस्य ज्ञानं स्वरूपभूततया नित्यमन्तःकरणवृत्तिजन्यं चेति । तत्र जन्यज्ञानं प्रकृतेर्गुणः प्रकृतिकार्यसत्वादिगुणजन्यं, न तु स्वरूपभूतं ज्ञानम् । अतः ज्ञानोत्पादकः पुरुषोऽङ्गीकार्य इति युक्तमिति भावः ।

वृत्तिज्ञानस्येश्वरजन्यत्वेऽपि स्वरूपज्ञानस्य स्वतःसिद्धत्वादात्मवेदनं सतां न सम्भवे-दित्ययुक्तमित्याशङ्कावारणाय द्विविधज्ञानस्यापि विष्ण्वधीनत्वं प्रमाणेनाह ॥ स्वरूपेति ॥ नियतमिति ॥ स्वरूपभूतज्ञानसत्तायास्तद्व्यक्तेस्तस्यार्थविषयीकारितादेश्च भगवन्नियमना-धीनत्वमित्यर्थः । अत्रोपक्रमे अनाद्यविद्यायुक्तस्येत्युक्त्या अविद्याप्रतिबद्धपरतत्वादिज्ञानस्येह प्राप्तत्वात्तस्य भक्त्या ज्ञानं ततो भक्तिरित्युक्तेर्भक्तिसाध्यत्वाद्भक्त्या प्रसन्नेनैव तेन विष्णुना दीयत इत्युक्तं युक्तमिति भावः ॥ ११ ॥

प्रकृतेर्गुणसाम्ये तु प्रकृतेर्नात्मनो गुणाः ।

सत्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२ ॥

तात्पर्यम्

जन्यज्ञानस्य प्राकृतत्वं साधयति – प्रकृतेर्गुणसाम्ये त्वित्यादिना ॥ अन्तःस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् । बहिःस्थ ईश्वरो नाम ज्ञानादिफलदो हरि-रि’ति मात्स्ये ॥ ‘पुरुषाख्यो हृद्गतस्तु विष्णुर्जीवविबोधकः । फलदात्रा तु बाह्येन य ईशेन भिदां वदेत् । तथैवान्यस्वरूपेषु विष्णोर्यो भेददर्शकः । यश्च (ये च) जीवेश्वराभेदं पश्येत् तेऽ(पश्यन्तोऽ)नर्थभागिन’ इति ब्राह्मे ॥ १२ ॥

पदरत्नावली

जन्यज्ञानस्य प्राकृतत्वं साधयति प्रकृतेरिति । तुशब्दो विशेषद्योतकः । प्रकृतेर्गुणसाम्ये प्रलये वर्तमानस्य आत्मनो जीवस्य यथा सत्वं रजस्तम इति प्रकृतेर्गुणा आवरका न भवन्ति ईश्वरेच्छानियतप्रवृत्तिशून्यत्वात् । तदा स्वरूपज्ञानादिगुणा अपि भवन्ति । तथा सृष्टिकाले जीवस्वरूपं तैर्गुणैरावृतं भवति । गुणानां वीर्यमाह– स्थितीति ॥ १२ ॥

श्रीनिवासतीर्थीया

प्रकृतेरित्यादिश्लोकमसङ्गतिपरिहारायावतारयति ॥ जन्येति । पुरुषेश्वरयोरिति श्लोकार्थे सिंहावलोकनन्यायेन प्रमाणमाह ॥ अन्तस्थ इत्यादिना । मूल-मुपलक्षणमित्याशयेनाह ॥ तथैवेति । ते सर्वे अपार्थेत्यस्य तात्पर्यम् ॥ अनर्थभागिन इति । तथा च प्रकृतेरित्यादेरयमर्थः ॥ स्थित्युत्पत्त्यन्तहेतवः सत्त्वं रजःस्तम इति प्रकृते-र्गुणाः । प्रकृतेर्गुणसाम्ये प्रलये आत्मनो जीवजातस्य ज्ञानादिस्वकार्यापादका न भवन्ति

॥ १२ ॥

प्रमेयचन्द्रिका

प्रकृतेरित्युत्तरमूलस्य सङ्गत्यप्रतीतेस्तामाह ॥ जन्यज्ञानस्येति ॥ नन्वस्तु वृत्तिरूपज्ञानं जन्यं तस्योपादानकारणं मन एव प्रकृतिगुणो ऽत उक्तमयुक्तमित्या-शङ्कावारणाय जन्यज्ञानस्य प्रकृतिकार्यत्वं साधयति ॥ प्रकृतेर्गुणसाम्ये त्वित्यादिना सार्धश्लोकेनेत्यर्थः ।

मूलार्थस्तु प्रकृतेर्गुणानां सत्वादीनां साम्यावस्थायां प्रकृतेः सम्बन्धिनः सत्वंरजस्तम इत्येते गुणा आत्मनो जीवस्य न सन्ति । तदा गुणानामव्यक्तत्वेन अर्थक्रियाकारित्वा-भावात् । यदेते गुणा वैषम्यं प्राप्य स्थित्युत्पत्यन्तहेतवो भवन्ति । इह तस्मिन्काले सत्वं ज्ञानमिति रजः कर्मेति तमो ज्ञानमुच्यते । कार्यकारणयोरभेदात्सत्वेन ज्ञानं जायत इत्यादि-रर्थः । तथा च सत्वं साक्षान्मन एव ज्ञानोपादानमिति । तथापि प्रकृतसाम्यज्ञानं प्रति सत्वगुणोपचितमनस एव हेतुत्वाज्ज्ञानं प्रकृतेर्गुण इत्युक्तं युक्तमिति भावः ॥

स च पुरुषरूपेणेत्यारभ्य अनर्थकारिणीत्यन्तस्वचनेन मूलस्योक्तेऽर्थे प्रमाणद्वयं पठति ॥ अन्तस्थ इति ॥ ज्ञानादीति ॥ ज्ञानकर्मफलभूतमोक्षादिफलप्रद इत्यर्थः । विबोधकः ज्ञानप्रदः । तयोः स्वरूपयोरिति प्रकृतत्वाभिप्रायेणोक्तम् । वस्तुतस्तु उपलक्षणतयाऽन्येषु रूपेष्विति पुरुषेश्वरयोर्जीवेश्वरयोरित्यर्थोऽप्ययुक्त इत्याशयेनोक्तम् । ये च जीवेश्वराभेद-मिति ॥ अनर्थभागिन इत्यनेनानर्थकमित्येतदुक्तार्थं भवति ॥ १२ ॥

सत्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते ।

गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३ ॥

तात्पर्यम्

कालो भगवान् ॥ १३ ॥

पदरत्नावली

किमायातमनेन प्रकृत इत्यत्राह– सत्वमिति । इह सृष्टिकाले सत्वं ज्ञानं सत्वगुणजन्यं ज्ञानं रजोगुणजन्यं कर्म तमोगुणजन्यमज्ञानमित्युच्यते । प्रलयकालात् सृष्टिकालेऽयं विशेष इति बाह्यज्ञानं प्राकृतमिति सिद्धम् । यद्वा प्रलये सृष्टावपि प्रकृतेर्गुणा आत्मनः परमात्मनो न विशेषापादकाः किन्तु जीवस्यैव । कथमत्राह– सत्वमिति । सत्वादयो जीवस्य बाह्यादि-ज्ञानजनका इति । ‘‘अन्तस्थः पुरुषो नाम ज्ञानदः सर्वदेहिनाम् । बहिस्थ ईश्वरो नाम ज्ञानादिफलदो हरिः’’ इति वचनात्, ‘‘पुरुषाख्यो हृद्गतस्तु विष्णुर्जीवविबोधकः । फलदात्रा तु बाह्येन य ईशेन भिदां वदेत् । तथैवान्यस्वरूपेषु विष्णोर्यो भेददर्शकः । ये च जीवेश्वराभेदं पश्यन्तोऽनर्थभागिनः’’ इति वाक्याच्च पुरुषेश्वरशब्दावुक्तार्थाविति सिद्धम् । इदानी ऋषिभिरुक्ततत्वानां सङ्ख्याभेदं वक्ष्यन् तत्त्वकारणस्वरूपं तावदाह– गुणव्यतिकर इति । सत्वादिगुणानां महदाद्यात्मना व्यतिकरो यस्मात् स सत्वादिगुणव्यतिकरो भगवान् किन्नामधेय इत्यत उक्तं काल इति । कल कामधेनाविति धातोः सर्जनेन ब्रह्मादीनामभीष्टदोग्धृत्वात् कालनामेत्यर्थः । अनेन कारणत्वानुपपत्तिरपि परिहृतेति ज्ञायते । कारणस्य नामान्तरं चाह– स्वभाव इति । स्वतन्त्रो भावः स्वभावः, स्वरूपभूतो भावो भूतिरैश्वर्यं यस्य स तथेति वा, स्वाधीनो भावः सत्ता यस्येति वा, स्वनिमित्तो भावो जन्मादिलीला यस्य स तथेति वा । वायुना वै गौतम सूत्रेणेत्यादेर्वायोरेव सर्जनादिप्रतीतेः कथमयमेव सर्वकर्तेति तत्राह– सूत्रमिति । सूत्रं सर्वाधारः । अक्षरमम्बरान्तर्धृतेरिति सूत्रादेतल्लिङ्गं भगवदेकनिष्ठमित्यवधारयति । चशब्देन यो देवानामिति श्रुतेर् वायुशब्दः सावकाश इति दर्शयति ॥ १३ ॥

श्रीनिवासतीर्थीया

सृष्टिकाले भवन्तीत्याह ॥ सत्त्वं ज्ञानमिति । सृष्टिकाले ज्ञानं सत्त्वं सत्त्वगुणजन्यमित्यर्थः । एवं च जन्यज्ञानं प्राकृतं प्रकृतिकार्यसत्त्वगुणकार्यमित्युक्तं भवति । कर्म रजो रजोगुणकार्यम् । अज्ञानं तमस्तमोगुणकार्यमितीह श्रुत्योच्यन्त इत्यर्थः ॥

इदानीमृषिभिरुक्ततत्त्वानां सङ्ख्याभेदं विवरितुं सर्वैरपि जीवान्यो भगवानङ्गीकार्य इत्युक्तं तत्स्वरूपं वदन्नवैकादशपञ्चत्रीणीति स्वोक्ततत्त्वानि तावद्विविच्याह भगवान् ॥ गुणव्यतिकर इति । केचिद्भगवन्तं स्वतन्त्रतत्त्वमनङ्गीकृत्य गुणव्यतिकरः सृष्टिकाल एव स्वतन्त्रतत्त्वं स्वभावत एव स्वतन्त्रतत्त्वं सूत्रमेव तथेति वदन्ति । तदयुक्तम् । भगवत एव तच्छब्द-वाच्यत्वादित्याशयेनैतानि विशेषणानि । कालशब्दार्थमाह ॥ काल इति । सर्वगुण-पूर्णत्वादित्यर्थः । कल कामधेनुरिति हि पठन्ति । सत्त्वादिगुणानां महदाद्यात्मना व्यतिकरो विकारो यस्माद्भवति स भगवान्कालस्तच्छब्दवाच्यः । स्वतन्त्रो भावः स्वभावः । सर्वाधार-त्वात्सूत्रामित्यर्थः ॥ १३ ॥

प्रमेयचन्द्रिका

मूले नवैकादश पञ्च त्रीणीत्यादिषूक्तपक्षेषु विवक्षाभेदप्रदर्शनार्थमुत्तरो ग्रन्थसन्दर्भः । तत्र गुणव्यतिकर इति प्रथमार्धे पदचतुष्टये नवैकादश पञ्च त्रीणीत्युक्तानि परतन्त्रतत्वानि नोच्यन्ते । किंतु तानि स्वतन्त्रतत्वाधीनानीत्याशयेनानाद्यविद्येत्यादिना सर्व-भिन्नत्वेन साधितं स्वतन्त्रतत्वमेव । गुणानां व्यतिकरो वैषम्यं सृष्टिर्यस्मात्स गुणव्यतिकरः । सर्वस्रष्टा । कालः । स्वयमेव भवतीति स्वभावः स्वतन्त्रः । सूतमस्मिन् जगदिति सूत्रमिति हरिरेव पदचतुष्टयेनोच्यते । एवं स्वतन्त्रत्वं बहिरेव निरूप्य नवैकादशेति प्रथमत उप-क्रान्तानि नव तत्वानि तु पुरुषः प्रकृतिरित्यादिनोच्यन्ते । अन्यथा गुणव्यतिकर इत्यादि-त्रयोदशोत्क्वा नवेत्यन्तं कथनायोगादित्याशयेन कालशब्दस्य प्रसिद्धजडकालार्थताप्रतीति-वारणाय काल इति पदमनूद्य तदर्थकथनपूर्वकमाह ॥ कालो भगवानिति ॥ जगद्बन्धन-च्छेदनादिसर्वगुणपरिपूर्णत्वात्कालो भगवानित्यर्थः ॥ १३ ॥

पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः ।

ज्योतिरापः क्षितिरिति तत्वान्युक्तानि मे नव ॥ १४ ॥

श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः ।

वाक्पाण्युपस्थपाय्वङ्घ्रिकर्माण्यङ्गोभयं मनः ॥ १५ ॥

शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः ।

गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६ ॥

सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी ।

सत्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्तमीक्षते ॥ १७ ॥

व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया ।

लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८ ॥

तात्पर्यम्

नवैकादश पञ्च त्रीणीत्युक्तानि पुरुषः प्रकृतिरित्यादीनि ॥

उत्सर्गस्य द्विविधत्वात्पञ्चकद्वयम् ॥

त्रीनिति त्रिगुणानिति वक्तुं गुणप्रवृत्तिमाह सर्गादावित्यादिना ॥

कार्यकारणभावादन्योन्यानुप्रवेशो युक्त इति वक्तुं सृष्ट्युक्तिः । ‘सृज्यस्रष्टृस्वरूपत्वा-दन्योन्यानुप्रवेशिनः । तिष्ठन्ति तात्विका देवा विशेष(प्रीति)प्राप्तिकारणादि’ति नैसर्गे ॥

अन्वेकमप्येष्वित्युक्तत्वात्पुरुषो हिरण्यगर्भः । ‘यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता । परस्य पृथगुक्त्यैव व्यक्तस्तत्र तु शङ्करः । तदाऽहङ्कारशब्देन स्कन्दस्यैव वचो भवेदि’ति विवेके ॥ १४–१८ ॥

पदरत्नावली

नवैकादशपञ्चत्रीणीत्यत्र नव तत्वानि वक्ति पुरुष इत्यादिना । पुरुषो हिरण्यगर्भः, प्रकृतिर्गायत्री, व्यक्तो रुद्रः, अहङ्कारः स्कन्दः । ‘‘यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता । परस्य पृथगुक्त्यैव व्यक्तस्तत्र तु शङ्करः । तदाऽहङ्कारशब्देन स्कन्दस्यैव वचो भवेत्’’ इति वाक्यादयं नियमः प्रामाणिक इत्यर्थः ॥ एकादशतत्वान्याह– श्रोत्रमित्यादिना । ज्ञानशक्तयः ज्ञानेन्द्रियाणि । कर्माणि कर्मेन्द्रियाणि । उभयं सङ्कल्पविकल्पात्मकं मनः ॥ एषां विषयानाह– शब्देति । अर्थजातयः विषयसामान्यानि । अनेन पञ्चतत्वान्युक्तानि । कर्मायतनसिद्धयः कर्मेन्द्रियविषयाः । पायूपस्थयोर्विषयावुत्सर्गशब्देनोक्तौ । द्विविधत्वात् पञ्चकद्वयं पञ्चेत्यनेन द्विरावृत्तिर्ग्राह्या पञ्चपञ्चेति । तथा च शब्दादिशिल्पान्तानि दशतत्वानि ॥ त्रीनिति सत्वादिगुणास्त्रीणि तत्वानीति वक्तुं सत्वादिगुणप्रवृत्तिमाह– सर्गादाविति । अस्य जगतः सर्गादौ उपादानकारणात्मक-जडप्रकृत्यभिमानिनी चित्प्रकृतिर्हरिवन्निमित्तकारणरूपिणी, अन्तर्नियन्तृरूपेण प्रवेशात् कार्यरूपिणी च । सत्वादिभिः श्रीर्भूर्दुर्गेतिरूपभेदेन सत्वादिगुणाभिमानिनी धत्ते, जगदिति शेषः । एवं च पुरुषादितमोगुणान्तानि हरिणा सह चतुस्त्रिंशत्तत्वानीति भागवतं मतम् । परस्परानुप्रवेशादित्युक्तयुक्तिं विवृणोति पुरुष इत्यादिना । कालादिनाम्ना हरिणाऽनुगृहीतः पुरुषनामा हिरण्यगर्भः सृष्ट्यर्थमव्यक्तनाम्नी सरस्वतीमीक्षते सङ्क्षोभ्ये इति मत्वा अव्यक्तादितत्वानि सरस्वती निमित्तीकृत्य सृजतीत्यन्वयः ॥ अत एव कार्यकारणरूपेण सृष्टा व्यक्तादयो धारणशीलत्वाद् धातुनामानस् तत्वविशेषाः पुरुषेक्षया पुुरुषस्य हरेः कटाक्षगोचरत्वेन संहताः संश्लिष्टाः प्रकृतेर्बलाद् विकुर्वाणा लब्धवीर्याः कार्यकारणशक्त्यन्विता अण्डं ब्रह्माण्डं सृजन्तीत्यन्वयः । यद्वा जडप्रकृतिरस्य जगतः सर्गादौ सत्वादिगुणैर्जगद् धत्ते । पुरुषो विष्णुरव्यक्तं प्रकृतिमीक्षते तन्नियता धातवोऽण्डं सृजन्तीति कार्यकारणभावादन्योन्यानुप्रवेशो युक्त इति वक्तुं सृष्टिकथनम् । ‘‘सृज्यस्रष्टृस्वरूपत्वादन्योन्यानु-प्रवेशिनः । तिष्ठन्ति तात्विका देवा विशेषप्रीतिकारणात्’’ इति वचनात् । अतस्तत्वानामल्प-सङ्ख्यावत्त्वं युक्तम् ॥ १४–१८ ॥

श्रीनिवासतीर्थीया

पुरुष इत्यादिना किं गण्यत इत्यतस्तद्दर्शयति ॥ नवेति । तत्र नवतत्त्वानि प्रदर्शयति ॥ पुरुष इत्यादिना । मे मम ॥

एकादशतत्त्वानि दर्शयति ॥ श्रोत्रमिति । ज्ञानजनने शक्तिर्येषां ते ज्ञानशक्तयः । ज्ञानेन्द्रियाणीत्यर्थः । वाक्पाण्युपस्थपाय्वङ्घ्रिकर्माणि । एतदाख्यानि कर्मेन्द्रियाणि । उभय-मिदं करिष्ये इदमित्थं करिष्य इति सङ्कल्पविकल्पात्मकं मन इत्येकादशतत्त्वान्युक्तानि । मे नवेत्यन्वयः ॥

पञ्चतत्त्वान्याह ॥ शब्देत्यादिना । ज्ञानेन्द्रियविषयसमूहाः । कर्मेन्द्रियविषयानाह । गतीत्यादिना । ननु नवैकादशपञ्चेति पञ्चतत्त्वान्युक्तानि । तानि च शब्दस्पर्शेत्यादि-नोक्तानीति गत्युक्तीत्यादि व्यर्थम् । न च पञ्चेति पञ्चकद्वयं विवक्षितं तेन गत्यादीत्ये-तत्सार्थकमिति वाच्यम् । तथाऽपि तत्र गत्यादीनां चतुर्णामेवोक्तत्वेन पञ्चकद्वयाप्राप्तिरित्यतो व्याचष्टे ॥ उत्सर्गस्येति । एकस्यैवेत्यर्थः । द्विविधत्वात्पायूपस्थरूपद्विविधेन्द्रियविषयत्वेन द्विविधत्वादित्यर्थः । तथा च पायूपस्थविषययोरुत्सर्गयोर्द्विविधत्वमभिप्रेत्य मूले उत्सर्गेति सामान्येनोक्तम् । तथा च कर्मेन्द्रियविषया अपि पञ्चेत्युक्तं भवति । पञ्चकद्वयं नवैकादश-पञ्चत्रीनित्यत्र पञ्चशब्देन विवक्षितमित्यर्थः । पञ्चेत्यस्य पञ्चपञ्चेति आवृत्तौ पञ्चकद्वयलाभ इत्याशयः । शिल्पं पाणिविषयः । आयतनमाश्रयः । साधनमिति यावत् । कर्मायतनानां कर्मसाधनेन्द्रियाणां सिद्धयः कार्याणीत्यर्थः ॥

ननु सर्गादावित्यसङ्गतं किमुच्यत इत्यतस्तदवतारयति ॥ त्रीनिति ॥ गुणा इति ॥ वक्तुमिति । नवैकादशपञ्चत्रीनित्यत्र त्रीणि तत्त्वानि कानीत्याशङ्कायां त्रयो गुणास्त्रीनित्यनेन विवक्षिता इति वक्तुं गुणानां प्रवृत्तिप्रकारमाहेत्यर्थः । तथा चास्य जगतः सर्गादौ सृष्टिकाले कार्यकारणरूपिणी कार्यकारणात्मकजडप्रकृत्यभिमानिनी चित्प्रकृतिः सत्त्वादिभिर्गुणैस्तदभि-मानिश्रीभूदुर्गारूपैर्जगद्धत्त इत्यन्वयः ॥

ननु तथापि पुरुषोऽव्यक्तमित्यादिना सृष्ट्यादिकं किमसङ्गतमेवोच्यते भगवदभिप्रेत-तत्त्वगणनाया जातत्वादित्यतस्तात्पर्यमाह ॥ कार्येति । पूर्वत्र ऋष्यादिमतानां युक्तिमत्वा-त्प्रामाणिकत्वमुक्तम् । तत्प्रकारश्चोत्तरत्रोच्यते । तत्कथं युज्यते भगवन्मतविरोधित्वादित्या-शङ्कायां परस्परानुप्रवेशात्तत्त्वानामिति विवक्षाभेदेनाविरोधप्रकार उक्तः । तत्र परस्परानुप्रवेश एव कुत इत्याशङ्कायां कार्यकारणभावस्य सत्वादित्युक्तग्रन्थेन वक्तुं सृष्ट्युक्तिरुपपद्यते । कार्यकारणभावज्ञापनायेति भावः । कार्यकारणभावादन्योन्यानुप्रवेश इत्यत्र प्रमाणमाह ॥ सृज्येति । कार्यकारणेत्यर्थः । प्रवेशिनः प्रवेशवन्तः सन्तस्तिष्ठन्तीत्यर्थः । उत्तमेषु नीचा भृत्यतया सन्ति । कुतः । उत्तमेषु नीचानां विशेषप्रीतिरूपकारणसद्भावात् । कारणीभूतो-त्तमत्वोक्त्या कार्यभूतनीचत्वानामपि प्राप्तिः । तथा च नीचेष्वप्युत्तमाः सन्ति । कुतः । नीचेषूत्तमानां विशेषप्रीतिरूपकारणसद्भावात् । तथा च नीचानां ग्रहणे उत्तमानामपि प्राप्तेरिति भावः । तथा च हरिणाऽनुगृहीतः पुरुषो हिरण्यगर्भो व्यक्तं व्यक्तनाम्नीं सरस्वतीं सृष्ट्यर्थमीक्षते । तां निमित्तीकृत्य व्यक्तशब्दवाच्यरुद्रादिजगत्सृजतीत्यर्थः । व्यक्तादयो धारकत्वाद्धातृशब्दवाच्याः । तत्त्वानि विशकलिततया स्थिताः ।

स्तोत्रानन्तरं पुरुषस्य हरेरिच्छया संहता मिलिता अत एव लब्धवीर्याः प्रकृतेः प्रेरक-लक्ष्म्याश्च बलाद्विकुर्वाणा विकारं प्राप्नुवानाः सन्तोऽण्डं सृजन्तीत्यर्थः । नवैकादशपञ्चत्री-नित्यत्रोक्तनवतत्त्वकथनपरपुरुष इति श्लोके कः पुरुषशब्देनोच्यत इत्यतस्तं दर्शयति ॥ अन्वेकमिति । अयं भावः । नवैकादशेत्युक्तनवतत्त्वानि पुरुषमारभ्य क्षित्यन्तानीति पुरुषः प्रकृतिरिति श्लोकेन तावदुक्तम् ॥ अत्र यदि पुरुषशब्देन हिरण्यगर्भो विवक्ष्यते । तदैव नवैकादशपञ्चत्रीन् भावान् भूतेषु येन वै । ईक्षेतान्वेकमप्येषु तत्ज्ञानं मम निश्चितमिति श्लोकेऽन्वनन्तरमेषु नवादितत्त्वेषु नियामकतया स्थितमेकं हरिमीक्षेतेत्युच्यमानं नियामकतया हरिप्रवेशकथनं युक्तं स्यात् । नवतत्त्वेषु पुरुषशब्देन भगवद्ग्रहणे त्वन्वेकमप्येष्वित्युक्त-भगवत्प्रवेशोऽनुपपन्नः । न हि हरेः स्वस्य स्वस्मिन्नियामकतया प्रवेशोऽस्त्यत एतन्नवतत्त्व-प्रविष्टतया परमात्मनः पृथगुक्तत्वादत्र हिरण्यगर्भ एव पुरुषशब्दवाच्य इति ।

अत्र प्रमाणमाह ॥ यदेति । अत्रानुवादबलादित्थं योज्यम् । परस्यात्मनः । पृथगुक्तौ सत्यां पुरुषशब्देन विरिञ्चस्यैव वाच्यत्वम् । यदा पुरुषशब्देन विरिञ्चस्य वाच्यता तत्र तदा व्यक्तशब्दवाच्यः शङ्करस्तदाऽहङ्कारशब्देन स्कन्दस्य वचनमित्यर्थः । अत्र चान्वेकमिति परस्य पृथगुक्तेः पुरुषो हिरण्यगर्भ एवेति भावः । तथा च पुरुषशब्दवाच्यहिरण्यगर्भप्रकृति-शब्दवाच्यरमाव्यक्तशब्दवाच्यरुद्राहङ्कारशब्दवाच्यस्कंदाश्चत्वारः पञ्चभूतानीति नव । एकादशे-न्द्रियाणि शब्दादिपञ्चकद्वयं सत्त्वादयो गुणास्त्रयः स्वतन्त्रो भगवानेक इति चतुस्त्रिंशत्तत्त्वा-नीति भगवतो वासुदेवस्य मतमित्युक्तम् भवति ॥ १४–१८ ॥

प्रमेयचन्द्रिका

कर्माणि कर्मेन्द्रियाणि । उभयमित्यस्य ज्ञानकर्मोभयानुकूलमित्यर्थो वा । नन्वेकादशतत्वनिरूपणानन्तरं पञ्च तत्वानि निरूपणीयानि । तत्र शब्दादिनवतत्व-निरूपणमसङ्गतमित्यतो नात्र नवतत्वानि निरूप्यन्ते । किं तु रेतउत्सर्गो मलोत्सर्ग इत्यु-त्सर्गस्य द्विविधत्वाद्द्विविधमप्युत्सर्गत्वेनैक्यविवक्षया दशेन्द्रियविषयरूपाणि दश तत्वानि निरूप्यन्ते । न च दशतत्वनिरूपणमप्यसङ्गतमिति वाच्यम् । पञ्चतत्वानामेव द्वेधा निरूप्यमाणत्वादित्याशयेनाह ॥ उत्सर्गस्येति ॥

ननु सर्गादावित्युत्तरमूले सत्वादिगुणप्रवृत्तिरेवोच्यते । न तु त्रीणीत्युक्ततत्वानि अतोऽसङ्गतमित्यत आह ॥ त्रीणीति ॥ त्रीण्यात्थेत्यत्र त्रीणीति प्रस्तुतानि तत्वानि सत्वरजस्तमोगुणा इति सत्वादिभिर्गुणैरित्यनेन सूचयितुं गुणप्रवृत्तिं सर्गादावित्यादिना भगवानाह । अतो नासङ्गतिः । गुणानां प्रवृत्तिनिरूपणे सत्वादिगुणाख्यतत्वत्रयस्य सम्यग्भगवति सम्भवादिति भावः ॥

तथापि व्यक्तादयो विकुर्वाणा इत्युत्तरश्लोके ब्रह्माण्डसृष्ट्युक्तिर्व्यर्थेत्यत आह ॥ कार्येति ॥ ऋषिभिर्न्यूनाधिकभावेन तत्वानां परिसङ्ख्यानं क्रियते । तत्रैतावत्वं नो वक्तु-मर्हसीति उद्धवेन पृष्टे परस्परानुप्रवेशादित्युत्तरमभिधाय नवैकादशादितत्वस्वरूपनिरूपणं च भगवता कृतम् । पृथक् पृथक् स्थितानां तत्वानां कथमन्योन्यानुप्रवेश इत्यतस् तेषां कार्यकारणभावापन्नानामण्डसृष्ट्यर्थमीश्वरे प्रेरितानामन्योन्यानुप्रवेश इति ज्ञापयितुं सृष्ट्युक्तिः सार्थकेति भावः ।

अत्र प्रमाणमाह ॥ सृज्येति ॥ उक्ततत्वाभिमानिदेवानां जन्यजनकभावापन्नत्वेन ते तात्विकदेवा अन्योन्यानुप्रवेशयुक्तास्तिष्टन्तीत्यर्थः । अधश्चोर्ध्वं प्रसृतास्तस्य शाखा इत्यत्र गीताभाष्ये तत्वानां स्वकार्येषु स्वकारणेषु च प्रवेशः स्पष्टमभिहितः । अन्योन्यानुप्रवेशे हेतुमाह ॥ विशेषप्रीतीति ॥ अन्योन्यं विशेषप्रेमरूपात्कारणादित्यर्थः । विशेषप्राप्तीति पाठे अवराणामुत्तमेषु अनुप्रवेशेन स्वेषूत्तमानामनुप्रवेशेन विशेषज्ञानानन्दादिप्राप्तिरूपा-त्कारणादित्यर्थः ।

ततश्चायं मूलार्थः ॥ अस्य जगतः सर्गादौ मूलप्रकृतिमहदहङ्कारादिरूपकार्यकारणात्मक-तत्वानामभिमानिनी चित्प्रकृतिः । सर्वोपादानत्वात्सर्वात्मिका चित्प्रकृतिश्च सत्वादिभिः सत्वरजस्तमोनामकैरत्यल्पविकारवत्तया सर्गादौ सृष्टेरुपादानभूतैः सत्वादिभिर्गुणैस् तथा मुख्यतः सत्वादिशब्दवाच्यैः श्रीभूदुर्गाभिधैः स्वरूपैस्तथा सरस्वतीदेवी च गायत्री सावित्री सरस्वतीनामकैः रूपैर्यदा धत्ते जगदिति शेषः । महदाद्यशेषजगत्सृष्ट्युन्मुखप्रवृत्तिमती भवतीति यावत् । तदा पुरुषो हरिर्महदादिकं स्रष्टुमव्यक्तमीक्षते । यदा अव्यक्तं सरस्वती तदा पुरुषो विरिञ्चोऽव्यक्तं प्रकृतिनाम्नीं वाणीमीक्षत इति योज्यम् । महत्तत्वात्मको ब्रह्मा तज्जत्वादित्युक्तेः । तदा प्रकृतेर्महालक्ष्म्या बलात्तत्प्रेरणया विकुर्वाणा धातवोऽ(व्यक्तादयः) धारणशीलत्वाद्धातुनामनो महदादयस्तत्वविशेषाः पुरुषस्य हरेरिच्छया सृष्टास्तयैव लब्ध-सामर्थ्याः सन्तः संहता मिलिता भूत्वा ब्रह्माण्डं सृजन्तीति ॥

तदनेन सत्वरजस्तमांसि त्रीणि तत्वानीति ॥ एवं तत्वानां कार्यकारणभाववत्वा-त्कार्याणां कारणेषु कारणानां च कार्येषु अनुप्रवेशो युक्तः । अतः प्रवेशाप्रवेशविवक्षया न्यूनाधिकतया ऋषीणामुक्तिर्युज्यत इति ॥

एवं सङ्गतितात्पर्यं चोक्त्वा इदनीं पुरुषादिपदानामर्थानाह ॥ अन्वेकमपीत्यादिना ॥ पुरुषः प्रकृतिरित्यत्र पुरुषशब्देनोक्तो हिरण्यगर्भः । न तु ततोऽन्यः पुरुषो भवेदिति पुरुष-पदेन विष्णोरेव प्रकृतत्वात्स एवात्र पुरुषपदोक्त इति वक्तव्यमित्यत उक्तम् ॥ अन्वेक-मप्येष्वित्युक्तत्वादिति ॥ एकोनविंशाध्याये नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेतान्वेकमप्येषु तज्ज्ञानं मम निश्चितमित्यत्र नवैकादश पञ्च त्रीनित्युक्ततत्वव्यतिरेकेण अन्वेकमप्येष्विति येषु सर्वेषूक्ततत्वेषु स्वगतभेदराहित्येनैव विद्यमानं हरिमिति नवादि-तत्वेभ्यो हरेः पृथगुक्तत्वान्नवतत्वान्तर्गतः पुरुषो विष्णुरिति नोक्तं युक्तम् । अतोऽत्र नवतत्वान्तर्गतः पुरुषो हिरण्यगर्भ एवेत्यर्थः ॥

ननु पुरुषशब्देन हिरण्यगर्भोक्त्यैतद्वाचकव्यक्तमिति पदं पुनरुक्तं स्यादित्याशङ्कां प्रमाणेन परिहरति ॥ यदेति ॥ परस्य हरेः, अन्वेकमिति एकोनविंशोध्याये । अत्र च कालः स्वभाव इति पुरुषापेक्षया पृथगुक्तेरेव कारणात् । यदा पुरुषशब्देन विरिञ्चस्यैव वाच्यता । तत्र तदा तु व्यक्तशब्दवाच्यः शङ्करो ज्ञेयः । तर्ह्यहङ्कारपदेन पौनरुक्त्यमित्यत उक्तम् ॥ तदेति ॥ शङ्करपुत्रस्य षण्मुखस्याप्यहङ्कारावराभिमानित्वादिति भावः । उक्तं च तृतीय-तात्पर्ये । अवमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतस्त्रिय इति ॥ १४–१८ ॥

सप्तैव धातव इति यत्रार्थाः पञ्च खादयः ।

ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९ ॥

तात्पर्यम्

सत्वादीन् गत्यादींश्च विना परमात्मना सह षड्विंशतिः । महदहङ्कारौ ब्रह्मरुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः । ‘विषयेन्द्रियप्रकृतिदेवताः परमात्मना । पञ्चविंशतितत्त्वानि सङ्ख्यातानि विदो विदुरि’ति च । ‘ज्ञानशब्दोदितो ब्रह्मा तदाधारो हरिः स्मृत’ इति च ॥ ततो ज्ञानं विना परमात्मानमङ्गीकृत्यैव देहेन्द्रियाण्यसुश्च नव तत्त्वानि । ‘सर्वदेहाभिमानी तु देहिनां तु दिवाकरः । इन्द्रियात्मेन्द्र एवैकः प्राणो नाम प्रजापतिरि’ति च ॥ १९ ॥

पदरत्नावली

तत्र सत्वादीन् गत्यादीश्च विना हरिणा सहितानि षड्विंशतितत्वानि । महदहङ्कारौ ब्रह्मरुद्रावङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः, व्यक्तं विना चतुर्विंशतिरित्येतानि न्यूनसङ्ख्याकानि तत्वानि सिद्धवत्कृत्य सप्तैक इत्यादि न्यूनसङ्ख्यानि कथयति सप्तैवेति । यत्र यस्मिन् पक्षे सप्तैव धातवस्तदैवं गणनं कर्तव्यम् । शब्दाद्यर्थाः खादयश्चैकीकारं गताः पञ्च षष्ठो ज्ञाननामा ब्रह्मा सप्तम उभयाधारो ऽभिमन्यमानाभिमानिनामाधार आत्मा परमात्मा इति सप्तत्वम् । ततःशब्देन ज्ञानात्मनावनुकृष्येते । दशेन्द्रियाण्येकीकृत्यैकं तत्वं, असवः पञ्च प्राणाः, देह इति देहाभिमानी दिवाकरः, ज्ञानात्मानाविति नवतत्वानि । ‘‘ज्ञानशब्दोदितो ब्रह्मा तदाधारो हरिः स्मृतः’’ इति, ‘‘सर्वदेहाभिमानी तु देहिनां तु दिेवाकरः’’ इति च, इन्द्रियात्मेन्द्र एवैकः प्राणनामा प्रजापतिः’’ इति च (वचनम्) देहप्राणौ पञ्चेन्द्रियाणि ज्ञानात्माभ्यां नवेति वा । यद्वा वागादीनां मनोऽधीनत्वेन मनसैकत्वं पञ्च श्रोत्रादीन्द्रियाणि देहप्राणौ परमात्मना सहेति नव

॥ १९ ॥

श्रीनिवासतीर्थीया

ननु सप्तैव धातव इत्यादिना विवक्षाभेदेन सप्ततत्त्वानीत्युच्यते । तदयुक्तम् । भगवन्मतोक्त्यनन्तरं केचित् षड्विंशतिं प्राहुरपरे पञ्चविशतिमित्युक्तत्वेन तत्प्रकारस्यानुक्तत्वादित्यतस्तत्प्रकारद्वयं मूले भगवदभिप्रेतं स्वयं दर्शयति ॥ सत्त्वादी-निति । नवैकादशपञ्चत्रीनित्युक्तचतुस्त्रिंशत्तत्त्वानि पुरुषः प्रकृतिर्व्यक्तमित्यादिना दर्शितानि तन्मध्ये सत्त्वादित्रीणि तत्त्वानि कर्मेन्द्रियविषयभूतान् गत्यादीन्पञ्चेत्यष्टौ विना पुरुषादीन्येव परमात्मना सह षड्विंशति तत्त्वानि ज्ञेयानीत्यर्थः । अत्र गत्यादीनां कार्याणां कारणेषु कर्मेन्द्रियेषु प्रवेशो ज्ञातव्यः । सत्त्वादीनां कारणानां कार्येषु प्रवेशो ज्ञातव्यः । पञ्चविंशति-तत्त्वानि दर्शयति ॥ महदिति । महदिति व्यक्तशब्दार्थोक्तिः । परमात्मना पुरुषशब्दवाच्ये-नेत्यर्थः । तथा च नवैकादशेत्युक्तविवरणात्मके पुरुषः प्रकृतिरिति श्लोके पुरुषशब्देन भगवान् प्रकृतिर्व्यक्तशब्देन महत्तत्त्वाभिमानी ब्रह्माऽहङ्कारो रुद्र इति चत्वारः । अत्राहङ्कार-शब्देन स्कन्दो न ग्राह्यः । अत्र यदा पुरुषशब्देनेति न्यायायोगात्पञ्चविंशतितत्त्वपक्षे परस्य पृथगुक्त्यभावेन पुरुषशब्दस्य विरिञ्चपरत्वाभावेन व्यक्तो न शङ्करोऽहङ्कारश्च न स्कन्दः । तस्मात्पुरुषशब्देन परमात्मा प्रकृतिर्व्यक्तं ब्रह्माऽहङ्कारो रुद्रः स्कन्दस्त्याज्यः । एवमेते चत्वारः पञ्च भूतान्येकादशेन्द्रियाणि शब्दाद्याः पञ्चज्ञानेन्द्रियविषया इति पञ्चविंशतिः । अत्रापि गत्याद्याः पञ्च सत्त्वादयस्त्रयस्त्याज्या एवेति स्पष्टम् । एवं पञ्चविंशतितत्त्वसङ्ख्यां प्रमाणेनाह ॥ विषयेति । विषयशब्देन पञ्चभूतानि शब्दाद्या अपि चोच्यन्ते । इन्द्रिय-शब्देनैकादशेन्द्रियाणि । देवताशब्देन महदहङ्कारात्मकब्रह्मरुद्ररूपदेवताद्वयम् । परमात्मना सहेति शेषः ॥

सप्तैवेति पक्षं विवृणोति ॥ सप्तैवेति । यत्र पक्षे सप्तैव धातवस्तत्त्वानि तत्रैवं गणना कार्या । कथमित्यत आह ॥ अर्था इति । शब्दाद्या अर्था विषयाः खादय आकाशादि-भूतानि चेत्युभयेऽपि विवक्षाभेदेनैकाकारं गताः पञ्च । ज्ञानमुभयाधार आत्मा सप्तम इत्यर्थः । अत्र ज्ञानादिशब्दोक्तः क इत्यत आह ॥ ज्ञानेति । स्मृत आत्मशब्दतयेत्यर्थः । तथा चोभयाधारः पञ्चवर्गस्य ज्ञानशब्दोदित ब्रह्मणश्चेत्युभयाधार आत्मा हरिरित्यर्थ उक्तो भवति । एके नवेत्युक्तं तद्दर्शयति ॥ ततो देहेन्द्रियासव इति । तद्व्याचष्टे ॥ तत इति । तत्र प्रमाणमाह ॥ सर्वेति । तथा च ततो ज्ञानं विनेत्यर्थः । अर्थाः खादयः पञ्च । आत्मशब्दोक्तः परमात्मा ग्राह्य इत्यर्थः । तथा चार्थाः खादयश्चैकाकारं च गताः पञ्च । आत्मा परमात्मा देहमानी दिवाकरः । इन्द्रियमानीन्द्रः । असुः प्राण इति । नव तत्त्वानीत्यर्थः ॥ १९ ॥

दुर्घटभावदीपिका

यत्र यस्मिन्पक्षे पञ्च खादयो ज्ञानाभिमानी ब्रह्मोभयाधारः खादिपञ्चकस्य ज्ञानाभिमानिब्रह्मणश्चाधार आत्मा परमात्मा जनार्दन इत्येते विवक्षिताः । तस्मिन्पक्षे धातवो जगद्धारका अर्थास्तत्त्वरूपार्थाः सप्तैव भवन्ति । यस्मिन्पक्षे ततस्तमङ्गीकृत्य प्रकृतयो-र्ज्ञानपरमात्मनोर्मध्ये व्यवधानेन प्रकृतं ज्ञानं परित्यज्य । अव्यवधानेन प्रकृतं परमात्मानमङ्गीकृत्येति यावत् । उपलक्षणमेतत् । पञ्च खादय इत्युक्तखादिपञ्चकं चाङ्गीकृत्य देहेन्द्रियासवो देहेन्द्रियप्राणा इत्येते विवक्षितास्तस्मिन्पक्षे धातवोऽर्थास्तत्त्वानि नवैव । भवन्तीति शेष इति । एतेन सप्तैव तत्त्वानीति वक्तव्यम् । सप्तैव धातवोऽर्था इति कथनमनुपपन्नमिति दूषणं परास्तम् । धातवोऽर्था इत्यनेन तत्त्वव्यतिरिक्तार्थान्तरस्याग्रहणात् । एतेनैवमङ्गीकृत्येति वक्तव्यम् । तत इति कथनमनुपपन्नमिति चोद्यस्यानवकाशः । तत इति ल्यब्लोपा निमित्ता पञ्चमीत्यभ्युपगमात् ॥ ता.अर्थः ॥ तत इति ल्यब्लोपा निमित्ता पञ्चमीति भावेनानूद्य व्याचष्टे ॥ ततो ज्ञानं विनेति । प्रकृतयोर्ज्ञानपरमात्मनोर्मध्ये अव्यवधानेन प्रकृतस्य परमात्मनोऽङ्गीकार इत्युक्त्या व्यवधानेन प्रकृतस्याङ्गीकारो नास्तीति लभ्यत इति भावेन ज्ञानं विनेत्युक्तम् । पञ्चखादय इत्युक्तखादि-पञ्चकसमुच्चयार्थः परमात्मानं चेति चशब्दः । प्राणादिवाय्वाभिमानिनां प्राणादिमुख्यवायुपञ्चरूपाणा-मैक्यादसुश्चेत्येकवचनप्रयोग इति ॥ १९ ॥

प्रमेयचन्द्रिका

मूले नवैकादश पञ्च त्रीनिति भगवत्पक्षत्वेनोद्धवेन पृष्टान्यष्टाविंशति तत्वानि पुरुषः प्रकृतिरित्यादिनोक्त्वा केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् । सप्तैके नव षट् केचिदित्यादिपक्षभेदाः किंविवक्षया ऋषिभिरुच्यन्त इति पृष्टस्योत्तरं सप्तैव धातव इत्यादिनोच्यते । तत्र षड्विंशतिपञ्चविंशतिपक्षयोरनुक्तेर्न्यूनतेत्याशङ्क्य नवैकादशपञ्चपक्षो-क्त्यैव पक्षद्वयमुक्तप्रायमित्याशयेन तल्लाभप्रकारमाह ॥ सत्वादीनिति ॥ प्राक्पुरुषः प्रकृति-रित्यारभ्य सत्वादिभिरित्यंतेन द्वाविंशत्तत्वान्युदितानि । तत्र सत्वरजस्तमोरूपान् त्रीन्गुणान् गत्युत्सर्गद्वयशिल्पाख्यचत्वारीत्येव सप्ततत्वानि विना पुरुषादयो नव । एकादशेन्द्रियदेवाः शब्दादितन्मात्रा देवाः पञ्च परमात्मा चैक इति षड्विंशतिः । पञ्चविंशतितत्वपक्षे तु पुरुषः प्रकृतिर्व्यक्तमित्यत्र पुरुषपदेन परमात्मनो व्यक्ताहङ्कारपदाभ्यां महत्तत्वाहङ्कारतत्वाभिमानिनोर् ब्रह्मरुद्रयोः सङ्ग्रहः । एवं च सत्वादीन् गत्यादींश्च विना पुरुषादीन्नव इन्द्रियाण्येकादश शब्दादीनि पञ्चेत्येवं नवैकादश पञ्चेत्युक्तपञ्चविंशतिदेवानां विवक्षयेत्याशयेनाह ॥ महदहङ्काराविति ॥ उक्तविवक्षयैव पञ्चविंशतितत्वमित्यत्र प्रमाणमाह ॥ विषयेति ॥ विषयाः शब्दादयः पञ्च देवाः । पञ्चेन्द्रियाण्येकादशदेवाः । प्रकृतिर्महालक्ष्मीः । देवता महदहङ्कारभूतानामभिमानिन्यः सप्त । य एते विकृता भावाः सप्तेति दशमस्कन्धे एतासां सप्तदेवतानां पृथग्गणत्वोक्तेरिति ज्ञेयम् । परमात्मना सहितान्येतानि चतुर्विंशतितत्वानि आहत्य पञ्चविंशतितत्वानि । सङ्ख्यातानि ज्ञानिनो विदुरित्यर्थः ॥

सप्तैवेति मूलस्यायमर्थः । धातवो धारकाः । सप्तैव तत्वदेवता इति पक्षो यत्र खादयः पञ्च पदार्थाः । ज्ञानमेकम् । एवं च पञ्चभूतान्येको वर्गः । ज्ञानमित्येक इत्युभयोरात्मैक आधार इत्येकं सप्तेति अत्र खादिपदैराकाशादिपञ्चमहाभूताभिमानिन्यो विनायकप्रवहाग्निवरुण-धरादेव्य इति प्रसिद्धा देवता उच्यन्ते इति सिद्धत्वाज्ज्ञानात्मपदाभ्यां विवक्षितदेवते प्रमाणेन दर्शयति ॥ ज्ञानशब्दोदित इति ॥ ब्रह्मणो ज्ञानाभिमानित्वादिति भावः ॥ तदाधार इति ॥ उभयाधार इत्युक्त आत्मा हरिरित्यर्थः । असङ्गतिप्रतीतेस्ततो देहेन्द्रियासव इति मूले सप्तैते नव षट् केचिदित्यत्र नवेत्युक्तपक्षविवरणपरतया योजयति ॥ तत इति ॥ तत इति तृतीयार्थे तसिः । तैरित्यर्थः । तैः पूर्वोक्तैः सप्तभिः सह देहेन्द्रियाण्यसुश्चेति त्रीणि तत्वा-नीत्येवं नव तत्वानि ।

नन्वेवं चेत् खादयः ज्ञानमात्मेति द्वयम् । देहेन्द्रियाण्यसुश्चेति त्रितयमिति दश संपद्यन्ते इत्यत उक्तस्यापवादमाह ॥ ज्ञानं विनेति ॥ मूले तत इति ल्यब्लोपनिमित्ता पञ्चमी । ततः ज्ञानं परित्यज्य तस्यार्थो ज्ञानं विनेति । ज्ञानमात्मेत्युभयोः सहोक्तत्वाज्ज्ञान-वदात्मनोऽपि परित्याग इति मन्दाशङ्कानिरासायोक्तम् ॥ अङ्गीकृत्येति ॥ अत्रापि ल्यब्लोप-निमित्ता पञ्चमीति भावेन तं परमात्मानमङ्गीकृत्येत्युक्तम् । ततश्चैतत्पूर्वोक्तं ज्ञानं तं परमात्मानमङ्गीकृत्य ततस्तैराकाशादिभिः सहेन्द्रियाण्यसवो नव तत्वानीति मूलार्थः । खादयः पञ्च । परमात्मा षष्टः । देहः सप्तमः । दशेन्द्रियाणि मिलित्वा अष्टमः । असुः पञ्चप्राणसमुदायो नवमः । इति नवतत्वानीति भावः ॥

अत्र देहाभिमानिदेवताकथनपूर्वकमिन्द्रियाणामसूनामेकैकत्वविवक्षया समुदायाभिमानिन एकत्वनिमित्तकेत्याशयेन सर्वेन्द्रियसमुदायाभिमानिनं पञ्चप्राणाभिमानिनं च दर्शयति ॥ सर्वेति ॥ प्रजापतिर्मुख्यप्राण इत्येके । शिव इत्यन्ये । दक्ष इत्यपरे ॥ १९ ॥

षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान् ।

तैर्युक्त आत्मसम्भूतैः सृष्ट्वेदं समुपाविशत् ॥ २० ॥

पदरत्नावली

षडित्यत्रैवं सङ्खयानम् । महदादिकारणानां कार्यानुप्रवेशेन पञ्च आकाशादिभूतानि परमपुरुषः षष्ठ इति षट् । नवसप्तत्रयोदशत्वे केषाञ्चित् कार्याणां कारणानुप्रवेश इति ज्ञेयम् । आत्मनः सम्भूतैस्तैराकाशादिपञ्चभूतैर्युक्त आत्मा इदं सृष्ट्वा समुपाविशत् ॥२०॥

श्रीनिवासतीर्थीया

षट् केचिदित्युक्तं पक्षं विवृणोति ॥ षडित्यत्रापीति । षडेव धातव इति पञ्चभूतानि परः पुमान्हरिः षष्ठः षट्त्वसङ्ख्यापूरण इत्यर्थः । अत्र षट्त्व-सङ्ख्या कार्यकारणभावेनान्योन्यप्रवेशो युक्त इत्याशयेन तामुपपादयति ॥ तैरिति । आत्मनः सकाशात्सम्भूतैस्तैः पञ्चभूतैर्युक्त आत्मेदं जगत्सृष्ट्वा समुपाविशदित्यर्थः ॥२०॥

प्रमेयचन्द्रिका

मूले षडित्यत्रापीत्यस्य षट्तत्वानीति विवक्षायामपीत्यर्थः । अत्र सप्तनवषडादित्वविवक्षायां महदहङ्कारादितत्वानां स्वकार्येषु भूतादिष्वनुप्रवेशो द्रष्टव्यः । गङ्गावालुकपरिसङ्ख्यानवदिदं तत्वसङ्ख्यानमपार्थकमित्यतो भगवतः सर्वस्रष्टृत्वज्ञानार्थत्वेन सार्थक्यादित्याशयेनोच्यते ॥ तैरिति ॥ आत्मनः सकाशात्सम्भूतैस्तैस्तैः सत्वैरिदं जग-त्सृष्ट्वा समुपाविशत् सम्यक् देवान्प्राविशदित्यर्थः ॥ २० ॥

चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः ।

जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१ ॥

तात्पर्यम्

अवयविनो जन्म तैः खलु ॥ २१ ॥

पदरत्नावली

चत्वार्येवेति । तानि कानीत्यत्राह– तत्रापीति । तत्रापि पञ्चस्वपि आत्मनो जातानि तेज आपोऽन्नमिति त्रीणि आत्मैक इति चत्वारि । अन्नं पृथिवी । अवयविन इदं जन्म तैस् तेजआदिभिर्जातं व्यक्तं खलु । अवयवी देहः ॥ २१ ॥

श्रीनिवासतीर्थीया

चत्वारीति पक्षं विवृणोति ॥ चत्वारीति । यदा चत्वार्येव तत्त्वानीति पक्षस्तत्रापि । आत्मनो हरेः सकाशाज्जातानि तेज आपोऽन्नमिति त्रीण्यात्मैक इति गणना कार्येत्यर्थः । अन्नं पृथिवी । पृथिवी वा अन्नमिति श्रुतेः । अत्राप्यन्योन्यानु-प्रवेशहेतुं कार्यकारणभावमुपपादयति ॥ तैरिति । तैस्तेजोऽबन्नैरिदमवयविनो ब्रह्माण्डस्य जन्म जातमस्ति खल्वित्यर्थः । अत्र पदानां व्यवहितत्वादन्वयं दर्शयति ॥ अवयविन इति ॥ २१ ॥

दुर्घटभावदीपिका

यस्मिन्पक्षे आत्मनः परमात्मनो जातानि तेज आपोऽन्नमित्येतानि विवक्षितानि । तेज आपोऽन्नमात्मेत्येते विवक्षिता इति यावत् । तत्र तस्मिन्पक्षे जगद्धारकतत्त्वानि चत्वार्येव भवन्ति । अवयविन इति जातावेकवचनम् । अवयविनोऽवयविनां घटादीनामिदमनुभवसिद्धं जन्म तैस्तेजोऽबन्नैर्जातमपि जातमेवेत्येतत्खलु प्रमाणसिद्धम् । अतस्तेजोबन्नानां जगद्धारकत्वपमुपपन्नमिति शेष इति । एतेन तैरिदं जातमित्येतद्व्यर्थमिति दूषणं परिहृतम् । तेजोबन्नानां जगद्धारकत्वोपपादनार्थं तैरिदं जातमित्येतत्प्रवृत्तमित्यभ्युपगमात् । एतेनैव तत्रापीत्यपिशब्दो व्यर्थ इति दूषणस्यानवकाशः । अपिशब्दस्यावधारणार्थत्वमङ्गीकृत्य जातमित्यनेनान्वयस्योक्तत्वात् ॥ २१ ॥

प्रमेयचन्द्रिका

चत्वार्येवेति पक्षेऽपि तत्रापि पञ्चभूतेष्वपि आत्मनः परमात्मनो जातानि तेजआपोऽन्नं पृथिवीति त्रीणि तत्वानि जनकतयोक्तः परमात्मैक इति चत्वारि तत्वानि । तैः कर्त्रा परमात्मना उपादानभूतैस्तैस्तेजोबन्नैरिति चतुर्भिरिदं जगत्सर्वं जात-मित्यर्थः ॥

अत्र जन्मावयविनः खल्वित्यनन्वितं प्रतीयते । अतो योजयति ॥ अवयविन इति ॥ अवयविनः सर्वस्य जगतः देहस्य वा जन्म तैश्चतुर्भिः । खल्वित्यनेन सोऽयं देवदत्तेमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् । संज्ञामूर्त्तिक्लृप्तिस्तु त्रिवत्कुर्वत उपदेशादिति प्रमाणसिद्धं द्योतयति । एतेन तैरिदं जातमित्येतत्प्रमितमिति व्युत्पादनाय मूले जन्मावयविनः खल्वित्युक्तमित्युक्तं भवति । अथवा अवयविन इदं जन्म तैस्तेजआदिभिर्जातं स्वल्वित्येकवाक्यतया योज्यम् ॥ २१ ॥

सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च ।

पञ्चपञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२ ॥

तात्पर्यम्

‘भूतानि मात्राश्च परस्तत्त्वैकादशकं स्मृतमि’ति च । भूतमात्रे-त्यारम्भात्तत्सिद्धेरेकादशानां पृथगनुक्तिः ॥ २२ ॥

पदरत्नावली

सप्तदशसङ्ख्याने त्वेवं गणनम् । पञ्चभूतानि पञ्चमात्राः पञ्च श्रोत्रादीन्द्रियाणि इति पञ्चदश, एकेन मनसा सह आत्मा परमात्मा सप्तदश इति सप्तदशकम् । भूतमात्रे-त्यनेनैकादशतत्वसङ्ख्यानमपि ज्ञेयम् । पञ्चभूतानि पञ्चमात्राश्च, एकः परमात्मेति । ‘‘भूतानि मात्राश्च परस्तत्वैकादशकं स्मृतम्’’ इति वचनात् ॥ २२ ॥

श्रीनिवासतीर्थीया

एकादशापर इत्युक्तपक्षस्याविवृतत्वात्स्वयं प्रमाणेनैव दर्शयति ॥ भूतानीति । पञ्च भूतानि शब्दाद्याः पञ्च तन्मात्राः परश्चैक इति एकादशतत्त्वानीत्यर्थः । मूले एकादश तत्त्वान्येतानीति कण्ठतोऽनुक्तिः कुत इत्यत आह ॥ भूतमात्रेति । सप्तदश-तत्त्वकथनसमये भूतमात्रेत्युक्त्या दशतत्त्वानि लब्धान्येव । आत्मा तु वर्तत एवेत्येका-दशतत्त्वानामर्थतः सिद्धत्वादनुक्तिरिति भावः ॥

केचित्सप्तदश प्राहुरित्युक्तं विवृणोति ॥ सङ्ख्यान इति । सप्तदशतत्त्वानीति सङ्ख्याने गणनपक्षे एवं गणनीयम् । भूतमात्रेन्द्रियाणि त्रीणि प्रत्येकं पञ्च पञ्च । पञ्चभूतानि पञ्चमात्राः पञ्चज्ञानेन्द्रियाणीति । एवं सति पञ्चदश एकमनसैकेन मनसा सहात्मा हरिः सप्तदशः स्मृतः । मनः षोडशसङ्ख्यापूरकम् । आत्मा सप्तदशसङ्ख्यापूरक इत्यर्थः ॥२२॥

प्रमेयचन्द्रिका

एकादशापर इति प्रागुक्तैकादशतत्वानामुक्तिः किमर्थेत्याशङ्कां स्वयमेकादशतत्वानि प्रमाणोदाहरणेन निरूपयन्परिहरति ॥ भूतानीति ॥ भूतानि पञ्च शब्दतन्मात्राश्च पञ्च परः परमात्मैक इत्येकादशतत्वानीति प्रमाणान्तरसिद्धत्वादत्रापि सप्तदश-तत्वनिरूपकोत्तरग्रन्थे तन्निरूपणार्थं भूतमात्रेत्यारम्भात्तेनैव दश तत्वानामुपस्थितिसम्भवा-त्परमात्मनश्च सर्वत्रानुवृत्तेर्नियतत्वाच्चैकादशतत्वानां सूचितत्वेन तत्सिद्धेः । पृथगनुक्तिर्न दोषायेत्यर्थः ॥ मूले सङ्क्याने सप्तदशके सप्तदशसङ्ख्याविवक्षायां भूतानि पञ्च मात्राः पञ्च ज्ञानेन्द्रियाणि पञ्चेति प्रत्येकं पञ्च पञ्च । एवं च पञ्चदशतत्वानि एकेन मनसा सह षोडश । परमात्मा सप्तदशेति सप्तदशतत्वानीत्यर्थः ॥ २२ ॥

तद्वत् षोडशसङ्ख्यानि आत्मना मन उच्यते ।

भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥

तात्पर्यम्

आत्मना सहैव मन उच्यते । ‘आत्मनः सन्निधिस्थत्वान्मनसस्तु तदुक्तितः । उक्तो भवेत्परात्माऽपि तत्त्वषोडशकं यदे’ति च । आत्मशब्देन च ब्रह्मा परमात्मा चोभावुच्येते । ‘भूतेन्द्रियाणि च मनो ब्रह्मा विष्णुस्तथैव च । एवं त्रयोदशैवाहुस्तत्वानि मुनयो वरा’ इति च । ‘आत्मेति परमात्मा च विरिञ्चश्चापि कथ्यते । वायुर्मुनश्च देहश्च स्वयमित्यपि कुत्रचिदि’ति प्रत्यये ॥ २३ ॥

पदरत्नावली

षोडशसङ्ख्यानि तत्वानि तद्वद् भूतमात्रेन्द्रियाणि पञ्चपञ्चेत्युक्तवत् । तर्हि पूर्वस्मात् को विशेष इत्यत उक्तम् आत्मनेति । आत्मनः सन्निधिस्थत्वान्मनसस्तयोरेकत्वेन । ‘‘आत्मनः सन्निधिस्थत्वान्मनसस्तु तदुक्तितः । उक्तो भवेत् परात्मा तु तत्वं षोडशकं यदा’’ इत्युक्तेः । एवशब्दो वीप्साद्योतकः । भूतानि पञ्च इन्द्रियाणि पञ्च मन आत्मा ब्रह्मा परमात्मा चेति त्रयोदशतत्वानि ‘‘भूतेन्द्रियाणि च मनो ब्रह्मा विष्णुस्तथैव च । एवं त्रयोदशैवाहुस्तत्वानि मुनयो वराः’’ इति, ‘‘आत्मेति परमात्मा च विरिञ्चश्चापि कथ्यते । वायुर्मनश्च देहश्च स्वयमित्यपि कुत्रचित्’’ इति (वचनात्) ॥ २३ ॥

श्रीनिवासतीर्थीया

षौडशैक इत्युक्तं प्रकारं दर्शयति ॥ तद्वदिति । षोडश-तत्त्वानीति सङ्ख्यानपक्षे तद्वदेव पञ्चभूतानि पञ्चमात्राः पञ्चेन्द्रियाणीति पञ्चदशसंपन्नानि । षोडशमाह ॥ आत्मनेति । आत्मशब्देन मन उच्यते । तथ च मन एव षोडशमात्मेति स्वतन्त्राभाव एव प्राप्नोतीत्यतो व्याचष्टे ॥ आत्मनेति । परमात्मना सह विद्यमानं मनः । परमात्मसन्निधानयुक्तं मन इति यावत् । तथा च भगवत्सन्निधानपात्रस्य मनसः षोडशत्वेन तत्सन्निहितो भगवानपि षोडशेनोक्तप्राय एवेत्यर्थः । अत्र प्रमाणमाह ॥ आत्मन इति । मनसाऽऽत्मनः परमात्मनो यः सन्निधिः सामीप्यं तत्स्थत्वात्तेन संनिहितत्वात् । तत्सन्निधानपात्रत्वादिति यावत् । तदुक्तितस्तस्य मनस उक्तितः । एके त्रयोदशेत्युक्तप्रकारं दर्शयति ॥ भूतेति । भूतानि पञ्चेन्द्रियाणि पञ्चेति दश । मन आत्मेति द्वादशतत्त्वानि प्रतीयन्तेऽतस्त्रयोदशेत्ययुक्तमतस्तात्पर्यमाह ॥ आत्मशब्देनेति । तथा चात्मशब्देन ब्रह्म-परमात्मनोरुभयोर्विवक्षितत्वात्त्रयोदशत्वं युक्तमित्याशयः । अत्र प्रमाणमाह ॥ भूतेति । वरा उत्तमाः । नन्वस्त्वेवं यद्यात्मशब्दो विरिञ्चवाची च स्यात्तदेव कुतस्तस्य विरिञ्चवाचित्वे परमात्मवाचित्वे चाभिधानमाह ॥ आत्मेतीति ॥ २३ ॥

प्रमेयचन्द्रिका

तद्वदिति मूले सप्तदशवदित्यतिदेशात् षोडशत्वमयुक्तमित्याशङ्का-निरासायोक्तम् ॥ आत्मनेति ॥ अत्र आत्मना आत्मशब्देन मन उच्यत इति भाति । आत्मनेत्यस्य उच्यत इत्यस्य समभिव्याहारेणाभिधायकत्वप्रतीतेः । तथात्वे परमात्मनोऽ-त्रानुक्तिः प्रसज्येतेत्याशङ्क्य वा आत्मनेत्यस्यात्मशब्देनेत्यर्थः न । किंतु परमात्मनेत्येव सहयोगे चेयं तृतीया । सर्वं वाक्यं सावधारणमिति न्यायेन अत्रावधारणं ग्राह्यम् । तथा चात्मना परमात्मना सहैव तदन्तर्भावेनैव मन उच्यते । न तु मनसः पृथग्गणनमत्र कर्तव्यम् । एवं च मनसः पृथग्गणनाभावाद्भूतादिपञ्चकत्रयं परमात्मा चेति षोडश तत्वानीति मूलार्थः । अतो नानुपपत्तिरित्याशयेनाह ॥ आत्मनेति ॥

मनसः परमात्मन्यन्तर्भावे निमित्तं दर्शयदुक्तार्थसंवादिप्रमाणं पठति ॥ आत्मन इति ॥ यदा तत्वानां षोडशकं विवक्षितं तदा मनसः परमात्मनः सन्निधौ स्थितत्वात् । विशेष-सन्निधानपात्रत्वादिति यावत् । तुरवधारणे । तस्यात्मन उक्तित एव मनश्चोक्तं भवेदेव । मनो न पृथग्गणनीयम् । किं त्वात्मन्यंतर्भावेनैव तद्ग्रहणमिति भावः ॥

त्रयोदशतत्वनिरूपणपरे भूतेन्द्रियाणीति मूले द्वादशतत्वानामेवोक्तेस्त्रयोदशेति कथमुच्यत इत्यतः प्रमाणेन त्रयोदशत्वलाभप्रकारं दर्शयति ॥ आत्मशब्देनेति ॥ आत्मशब्दस्य चतुर्मुखपरत्वस्यापि सिद्धत्वाद्विष्णुविरिञ्चयोरुभयोरात्मशब्देनैव ग्रहणाद्द्वावेतौ, मनश्च तृतीयम्, भूतानि पञ्च ज्ञानेन्द्रिणाणि पञ्चेति त्रयोदशतत्वानीति भावः । आत्मशब्दस्य नानार्थ-कत्वाद्विष्णोर्विरिञ्चस्य च वाचकत्वं युक्तमित्याशयेन प्रमाणं पठति ॥ आत्मेतीति ॥२३॥

इति नानाप्रसङ्ख्यानं तत्वानामृषिभिः कृतम् ।

सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २४ ॥

पदरत्नावली

उपसंहरति इतीति ॥ २४ ॥

श्रीनिवासतीर्थीया

एवं नवविधत्वगणनाप्रकारं प्रदर्श्योपसंहरति ॥ इतीति । नानाप्रकारेण प्रसङ्ख्यानं न्याय्यं प्रामाणिकं विदुषां मतेऽशोभनमघटितं किमपि नास्ति । सर्वं विवक्षाभेदेन सुघटत्वाच्छोभनमेवेत्यर्थः ॥ २४ ॥

प्रमेयचन्द्रिका

मूले एवं तत्वानां प्रसङ्ख्यानस्य नानाविधत्वं विवक्ष्य विशेषैरुपपाद्य तदुपसंहारपूर्वकं सर्वेषां पक्षाणां प्रामाणिकतोच्यत– इतीति ॥ युक्तिमत्वात् । अन्त-र्भावादिरूपयुक्तिसहितत्वात् ॥ २४ ॥

उद्धव उवाच–

प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ ।

अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः ॥ २५ ॥

प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ।

एतन्मते पुण्डरीकाक्ष महान्तं संशयं हृदि ।

छेत्तुमर्हसि पद्मेश वचोभिस्तत्वनैपुणैः ॥ २६ ॥

त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तनुशक्तितः ।

त्वमेव ह्यात्ममायाया गतिं वेत्थ नचापरः ॥ २७ ॥

तात्पर्यम्

यद्यपि परमात्मा प्रकृतिश्च विलक्षणौ तथापि तयोर्वैलक्षण्यं न लक्ष्यते । ‘अन्तरं च भिदा चेति वैलक्षण्यं प्रकीर्तितमि’ति च । तद्वैलक्षण्यं कुतो न दृश्यत इति प्रश्नाभिप्रायः ॥ अन्योन्याधारत्वमेव दृश्यते । न तु परमेश्वरस्यानन्याधारत्वेन प्रकृत्या-धारत्वं मन्दमतीनामित्यर्थः ॥ ‘आधारः प्रकृतेर्विष्णुर्नाधारस्तु हरेः क्वचित् । तथाऽप्य-व्यक्तगो यद्वद्दृश्यते मन्दचेतसामि’ति पाद्मे ॥ २५–२७ ॥

पदरत्नावली

उद्धव एवं तत्वसङ्ख्याविषयानुपपत्तिशङ्कापरिहारश्रवणेन तद्विषये निःशङ्कोपी-दानी प्रकारान्तरेण शङ्कते प्रकृतिरिति । अत्र पुरुषो विष्णुः प्रकृतिर्जडसञ्ज्ञा तावुभौ यद्यप्यात्मविलक्षणौ स्वरूपत एव भिन्नौ । ‘‘अन्तरं च भिदा चेति वैलक्षण्यं प्रकीर्तितम्’’ इत्यतो वैलक्षण्यं भेदः । तथाप्यनयोरन्योन्यापाश्रयाद् भिदा न दृश्यते । तत् कुत इति चोद्याभिपायः ॥ अन्योन्यापाश्रयत्वं वर्णयति प्रकृताविति । हिशब्दो हेतौ । हरेः प्रकृतेराधारत्वेन तत उत्तमत्वं प्रकृतेस्तदधीनत्वेन तदवरत्वमन्तरेणानयोरन्योन्याधारत्वमेव दृश्यते हि यस्मात् तस्मान्मन्दमतेर्मे संशयं च्छेत्तुमर्हसीत्यन्वयः । नैपुणैः संशयपरिहारसमर्थैः । पद्मेशेत्यनेन हरेः प्रकृत्युत्तमत्वं किं वक्तव्यमिति जानन्नत्रप्युद्धवो लोकविषयमन्दमतित्वमात्मन्युपचरतीति ज्ञातव्यम् ॥ एतदेव प्रामाणिकमिति भावेनाह त्वत्त इति । तनुशक्तितोऽल्पबुद्धित्वात्, तामसादिशरीरबलाद्वा ज्ञानस्य प्रमोषोऽपि त्वत्तः । शक्तिः कासूर्बलं लक्ष्मीरिति, कासूर्बुद्धौ कुवाच्ये स्त्रीत्यभिधानाच्च शक्तिशब्देन बुद्धिरुच्यते । आत्ममायायाः स्वसामर्थ्यस्य त्वदधीनप्रकृतेर्वा गतिं स्थितिम् । ‘‘आधारः प्रकृतेर्विष्णुर्नाधारस्तु हरेः क्वचित् । तथाप्यव्यक्तगो यद्वद् दृश्यते मन्दचेतसाम्’’ इति पाद्मोक्तवचनान्मुख्याधारत्वं हरेरितरत्र मन्दमतिविवक्षयेति हिशब्दद्वयेन सूचयति ॥ २५–२७ ॥

श्रीनिवासतीर्थीया

प्रसङ्गादुद्धवः प्रमेयान्तरं पृच्छति ॥ प्रकृतिश्चेत्यादिना । अत्र पुरुषशब्दार्थं व्याचष्टे ॥ यद्यपीति । तथाऽपीत्यध्याहारेण दृश्यते न भिदा तयोरित्ये-तद्व्याचष्टे ॥ तथाऽपीति । वैलक्षण्यमिति भेदशब्दव्याख्यानम् । भेदशब्दो वैलक्षण्यार्थ इत्यत्र प्रमाणमाह ॥ अन्तरं चेति । प्रश्नाभिप्रायमाह ॥ तदिति । तथा च वैलक्षण्यार्थं ज्ञाने किं कारणमित्याशयः ॥

अन्योन्याश्रयादित्यनन्तरमध्याहार्यमाह ॥ अन्योन्येति । एवकारव्यवच्छेद्यं स्वयमेव दर्शयति ॥ न त्विति । तथा चान्योन्याधारत्वेन साम्यमेव प्रतीयतेऽत एतादृशभ्रान्तौ च किं कारणमित्याशयः । नन्वेवमज्ञानं भ्रान्तिर्वा स्वस्य न सम्भवत्येव स्वेनात्मविलक्षणा-वित्युक्तत्वेन तथा पद्मेशेति सम्बोधितत्वेन प्रकृत्यभिमानिरमोत्तमत्वज्ञापनसद्भावेनानन्या-धारत्वेन प्रकृत्याद्याधारत्वस्य निश्चितत्वादतो मे संशयमित्याद्ययुक्तमित्यत उक्तम् ॥ मन्दमतीनामिति । तथा च तदीयं संशयं स्वस्मिन्नाहृत्य लोकोपकाराय पृच्छतीति भावः ॥ मन्दमतीनां भगवतोऽनन्याधारतया प्रकृत्याधारत्वं न दृश्यते प्रत्युताव्यक्ताधार-कत्वेनैव दृश्यत इत्यत्र प्रमाणमाह ॥ आधार इति । यद्यपीति शेषः । नेत्यनन्तरमन्य इति शेषः । अव्यक्ते तत्कार्ये देहादौ तिष्ठतीत्यव्यक्तगो जीवो यथाऽव्यक्ताधारत्वेन दृश्यते । तद्वद्धरिरपि मन्दचेतसामव्यक्ताधारत्वेन प्रतीयत इत्यर्थः ॥

तथा चायं श्लोकार्थः । प्रकृतिर्जडप्रकृतिः पुरुषः परमात्मा चेत्युभौ यद्यप्यात्म-विलक्षणौ । आत्मशब्दः स्वरूपार्थः । स्वरूपत एव विलक्षणौ प्रकृतेर्जडत्वात्पुरुषस्य चा-तथात्वात् । तथाऽपि तयोः प्रकृतिपुरुषयोर्भिदा वैलक्षण्यं न दृश्यते । तत्कुतो न दृश्यते तद्वैलक्षण्यज्ञाने किं कारणमिति भावः । वैलक्षण्यं न दृश्यत इत्येव न प्रत्युतान्योन्याश्रयाद् देहादौ पुरुषस्य सत्वेन देहादिप्रकृतेः पुरुषाधारत्वात्पुरुषस्यापि प्रकृत्याधारताया आगम-सिद्धायाः सत्वेनान्योन्याश्रयस्य सत्वेनान्योन्याश्रयत्वमेव दृश्यते उभयोः साम्यमेव दृश्यते सा च भ्रान्तिरिति साम्यभ्रमे च किंकारणमित्याशयः ॥

अन्योन्यापाश्रयादित्युक्तं विवृणोति ॥ प्रकृताविति । देहादिरूपायां प्रकृतौ । तदाधारत्वेनेति यावत् । आत्मा हरिर्लक्ष्यते ज्ञायते । तथा च प्रकृतिश्चात्मनि । तदाधारत्वेनेति यावत् । लक्ष्यतेऽत उभयोः साम्यमेव भ्रान्त्या प्रतीयत इति भावः । पद्मेश लक्ष्मीपते । नैपुणैः कुशलैः । कथं मदीयवचसां संशयच्छेदद्वारा सम्यग्ज्ञानोत्पत्तिरित्यत आह ॥ त्वत्त इति । ज्ञानं समीचीनमुत्पद्यते । तनुशक्तितः । शक्तिरत्र बुद्धिः स्वल्प-ज्ञानत्वाद्विद्यमानस्यापि ज्ञानस्य प्रमोषो नाशस्तिरोधानं वा त्वत्त एव भवतीत्यर्थः । तनुशक्तितस्तामसदेहबलाद्वा मज्ज्ञानमन्यस्मात्त्वया संपाद्यतामिति न वाच्यमित्याशयेनाह ॥ त्वमेवेति । मायासामर्थ्यं गतिं स्वरूपम् ॥ २५–२७ ॥

प्रमेयचन्द्रिका

प्रकृतिवैलक्षण्यं ज्ञातुमुद्धवेन प्रश्नः क्रियते ॥ प्रकृतिरित्यादिना ॥ अत्र पुरुषशब्दस्य जीवपरत्वप्रतीतिं वारयन् विलक्षणावित्यनूद्य तद्वैलक्षण्यमनयोर्न दृश्यत इति वक्तव्ये भिदा न दृश्यत इति कथमुक्तमिति शङ्कां परिहरन् योजयति ॥ यद्यपीति ॥ भिदाशब्दस्य वैलक्षण्यार्थतामभिधानेन दर्शयति ॥ अन्तरं चेति ॥ ननु मूले यद्यप्यात्मना स्वभावेनैव विलक्षणाविति वैलक्षण्यसद्भावमभिधाय भिदा न दृश्यत इति अदर्शनेन तदभाव-प्रतिपादनपूर्वकं प्रश्नः क्रियत इति भाति । अतो व्याहतोऽयं प्रश्न इत्यतः प्रश्नाभिप्रायमाह– तद्वैलक्षण्यमिति ॥ तत्सदपि वैलक्ष्यण्यं केन निमित्तेन न दृश्यते इति वैलक्षण्यज्ञाने निमित्तस्यैवात्र पृच्छमानत्वान्न व्याहतिरिति भावः । आत्मा जीवे धृतौ यत्ने स्वभावे परमात्मनीत्युक्तेर्मूले आत्मशब्दः स्वभावपरः ।

ननु वैलक्षण्यादर्शने निमित्तप्रश्नोऽप्यनुपपन्नः । अन्योन्याश्रयादिति तत्रान्योन्यसञ्चलन-रूपनिमित्तस्योक्तत्वादिति चेन्न । प्रकृतौ लक्ष्यते ह्यात्मेति तद्विवरणपरोत्तरमूले भूभूधर-योरिवान्योन्याधारत्वस्यैव प्रकृतिपुरुषयोरुभयोरुक्तत्वेनाधाराधेयभावस्य च वैलक्षण्य एव हेतुत्वेन तददर्शने हेतुत्वाभावात् । ननु तथापि भूभूधरयोरिव वैलक्षण्यस्यैव स्पष्टं दृश्य-मानत्वात्तद्दर्शनस्यैवाभावाददर्शने निमित्तप्रश्नोऽनुपपन्न इत्यत आह ॥ अन्योन्येति ॥ नात्र भेदप्रयोजकं भूभूधरादिसाधारणं यत्किञ्चिद्वैलक्षण्यं प्रकृतम् । किं नाम परमेश्वरस्यैव सर्वथाऽ-न्यानाधारत्वेन प्रकृत्याधारत्वम् । प्रकृतेस्तु केवलं परमेश्वराश्रितत्वमित्येवंप्रकारकं स्वातन्त्र्य-पारतन्त्र्यगर्भं वैलक्षण्यमेव प्रस्तुतम् । तथा चान्योन्याधारत्वमेव प्रकृतिपुरुषयोर्दृश्यते । न त्वस्मदभिप्रेतं परमेश्वरस्यानन्याधारत्वेन प्रकृत्याधारत्वमल्पबुद्धीनां मनुष्यादीनां दृश्यते तत्र किन्निमित्तमित्यतोऽन्योन्यापाश्रयादित्यादेरर्थ इति भावः ।

भगवतः प्रकृत्याधारत्वे स्वस्यानन्याधारत्वे च प्रमाणमाह ॥ आधार इति ॥ तथाप्य-नन्याधारत्वेऽपि मन्दचेतसामव्यक्तगो ऽव्यक्ते आश्रित इतरः यथा यद्वत्तथा प्रतीयत इत्यर्थः प्रतीयते । एतेन स्ववाक्ये मन्दमतीनामित्यस्य प्रकृताववस्थामात्रेण तत्राश्रित इति भ्रान्ति-मतामित्यर्थो लभ्यत इति ज्ञेयम् । अयमेवार्थः प्रकृतौ लक्ष्यते ज्ञायते आत्मेति मूलेन सूचितः । मूले महान्तं संशयमित्यस्य मन्दमतीनां संशयमित्यर्थो न तूद्धवस्येति च सूचितम् । अन्यथा पद्मेशेत्युद्धवकर्तृकं भगवतः प्रकृतिस्वामित्वप्रकारकं सम्बोधनं न स्यादिति द्रष्टव्यम् ॥

भगवतः संशयच्छेदसामर्थ्यमस्तीत्याशयेनोच्यते ॥ त्वत्त इति ॥ प्रमोषो ज्ञानविलोपः । तनुशक्तित अत्यल्पज्ञानशक्तित्वात् । जीवानामिति सम्बध्यते ॥ २५–२७ ॥

श्रीभगवानुवाच–

प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ ।

एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २८ ॥

तात्पर्यम्

प्रकृतिःपुरुषश्चेत्येव अन्योन्यविलक्षणावेव । एष विकल्पः । वैलक्षण्या-दर्शनं विरुद्धकल्पनमेव । यस्माद्गुणव्यतिकरात्मकः सर्गो विकारनिमित्तः । स च गुण-व्यतिकरस्त्रिविधः सत्वरजस्तमसामेकैकप्राधान्येन । तत्र तमःप्रधानानामेव विरुद्धकल्पनं तस्मात्तम एवात्र कारणमित्यर्थः ॥ २८ ॥

पदरत्नावली

आत्मविलक्षणाविति यत् त्वयोक्तं तत् तथैवेति भावेन परिहरति प्रकृतिरिति । चशब्दो वैलक्षण्यानुकर्षार्थोऽवधारणार्थश्च । प्रकृतिपुरुषावन्योन्यविलक्षणावेवेत्यर्थः । वैलक्षण्याविवेकः किङ्कृत इति तत्राह– एष इति । एष विकल्पस् तमःकारणक इति प्रतिज्ञायते । तथाहि । गुणव्यतिकरात्मक एष सर्गो वैकारिको विकारनिमित्तः । स च गुणव्यतिकरस्त्रिविधः । सत्वरजस्तमसामेकैकप्राधान्येन त्रैविध्यम् । तत्र तमःप्रधानानामेव सत्वानां विरुद्धकल्पनं यस्मात् तस्मात् तम एव कारणम् ॥ २८ ॥

श्रीनिवासतीर्थीया

एवं पृष्टे प्रकृतिपुरुषयोर्विद्यमानवैलक्षण्यज्ञानेऽन्योन्यापाश्रयत्वेन साम्यज्ञाने च तमोगुण एव कारणमिति वक्तुमुपोद्घातमाह भगवान् ॥ प्रकृतिरित्यादिना । अत्र किमसङ्गतमेवोच्यत इत्यतः प्रकृतिः पुरुषश्चेतीति वाक्यं सर्वं वाक्यं सावधारणमिति न्यायेन योजयति ॥ प्रकृतिरिति । यद्यपीति शेषः । इत्येवेत्यस्यार्थमाह ॥ अन्योन्येति । व्यवहितत्वादन्वयं प्रदर्श्य व्याचष्टे ॥ एष विकल्प इति । तथाऽपीति शेषः । एष इत्यस्य व्याख्यानम् ॥ वैलक्षण्यादर्शनमिति । विकल्प इत्यस्य व्याख्यानम् ॥ विरुद्धकल्पन-मिति । विरुद्धकल्पनस्य कारणमित्यर्थः । सर्वं वाक्यं सावधारणमिति न्यायेनैवेत्युक्तं भवति । तथा च विद्यमानवैलक्षण्याज्ञानेऽन्योन्यापाश्रयत्वेन साम्यभ्रमे निमित्तमित्यर्थः । वैलक्षण्यज्ञानेऽपि निमित्तमुच्यते ॥ वैकारिकः सर्गो गुण व्यतिकरात्मक इति । किमनेन निमित्तमुक्तं स्यादित्यतोऽन्वयं दर्शयंस्तद्व्याख्याति ॥ यस्मादित्यादिना । गुण-व्यतिकरात्मकः सर्गो गुणवैषम्यरूपा सृष्टिरित्यर्थः । वैकारिक इत्यस्याहङ्कारप्रभेदवैकारि-काहङ्कारप्रतीतिं वारयितुमाह ॥ विकारेति । विकारोऽहङ्कारतत्त्वम् । महत्तत्त्वविकार-त्वात्तस्य । तथाऽपि हेतुत्वाप्रतीतेर्मूलाभिप्रेतं दर्शयति ॥ स चेति । यो विकारनिर्मितः स चेत्यर्थः । गुणव्यतिकरः सृष्टिरित्यर्थः । अहङ्कारेण जायमानः सर्गः सत्त्वप्रधानो रजः-प्रधानस्तमःप्रधानश्चेति । तत्राद्यो देवतादेहसर्गः । द्वितीय इन्द्रियसर्गः । तृतीयो भूतसर्गः । ततः किमित्यत आह ॥ तत्रेति । विरुद्धकल्पनं वैलक्ष्यण्याज्ञानद्वारा भवतीति योज्यम् । तथाऽपि प्रकृते किं कारणमुक्तं स्यादित्यत आह ॥ तस्मादिति । अत्र वैलक्षण्याज्ञाने । तमसोऽज्ञानमेव चेत्यज्ञानस्य तमःकार्यताप्रसिद्धेः ॥

तथा चायमर्थः ॥ यद्यपि प्रकृतिः पुरुषश्चेत्येवमन्योन्यविलक्षणावेव । तथाऽप्येष विकल्प एव । एष वैलक्षण्यदर्शनाभावोऽन्योन्यापाश्रयत्वादिना प्रकृतिपुरुषयोः साम्यादि-भ्रान्तिर्विरुद्धरूपकल्पने कारणम् । वैलक्षण्यदर्शनाभावोऽपि कुत इत्यतस्तत्रापि हेतुरुच्यते ॥ वैकारिक इति । गुणव्यतिकरात्मकः सर्गो गुणवैषम्यापरपर्यायः सर्गो वैकारिकोऽहङ्कार-कार्यः । तथा चाहंकारतत्त्वजन्यसर्गत्रयमध्ये यस्तमः प्रधानसर्गस्तद्वन्त एतेषामेव । वै-लक्षण्याज्ञानद्वारा विरुद्धकल्पनादिकं भवतीति तमोगुण एव मूलकारणमित्यर्थः ॥ २८ ॥

प्रमेयचन्द्रिका

प्रकृतिरिति परिहारश्लोकस्यायमर्थः ॥ प्रकृतिः पुरुषश्च इत्येव त्वदुक्तप्रकारावेव प्रकृतिपुरुषौ स्वभावत एवान्योन्यविलक्षणावेवेति यत्त्वयोक्तं तत्सत्यमेवेति यावत् । तात्पर्यानुसारेण एते विलक्षणाविति । यदि विलक्षणौ तर्हि तयोर्वैलक्षण्यं कुतो न दृश्यत इत्यतो वैलक्षण्याभावभ्रम एव तच्च निमित्तमित्याशयेनोक्तम् ॥ विकल्प एष इति ॥ एष प्रकृतिपुरुषयोरन्याधारत्वेन वैलक्षण्याभावदर्शनेत्येषो विकल्पः विरुद्धकल्पनमेव स्वातन्त्र्य- पारतन्त्र्यगर्भवैलक्षण्यादर्शने निमित्तमिति शेषः । अवैलक्षण्यदर्शनरूपमिथ्याज्ञानेऽपि किं कारणमित्यत उक्तम् ॥ वैकारिक इति ॥ य एष इति तत्र न्यायोऽत्राप्यन्वेति । यस्मा-त्तस्मादिति चोपस्कर्तव्यम् । तथा च यस्माद्गुणव्यतिकरात्मकः सत्वरजस्तमोगुणानां वैषम्य-रूपः सर्गो वैकारिको गुणत्रयविकारनिमित्तकः । तस्मादेष विकल्पो भवतीति ॥

अयं भावः ॥ गुणत्रयविकारेण गुणवैषम्यनामके सर्गे जाते सत्वादिगुणविकारभूत-देहेन्द्रियादिमत्सु पुरुषेषु तमःप्रधानानामेव प्रकृतिपुरुषयोरवैलक्षण्यज्ञानरूपं विरुद्धकल्पनं भवति । तदेव विरुद्धकल्पनं वैलक्षण्यादर्शनेन निमित्तमिति ।

अत्र केचिदेवं व्याचक्षते प्रकृतिः पुरुषश्चेति विकल्पो भेदोऽविद्याविकारकृतः सर्गोऽत एव मिथ्याभूतगुणत्रयव्यतिकरात्मक इति । तदिदमपव्याख्यानम् अक्षरार्थाननुगुणत्वात्सर्व-प्रमाणविरुद्धत्वाच्चेत्याशयेन दुर्गमार्थत्वाद्व्याचष्टे ॥ प्रकृतिरित्यादिना ॥ मूले प्रकृतिः पुरुषश्चेतीत्येतावदेकं वाक्यम् । अत्र सर्वं वाक्यं सावधारणमिति न्यायेन एवेत्युक्त-मित्याशयेनानुवादः कृतः ॥ प्रकृतिः पुरुषश्चेत्येवेति ॥ अत्रेत्यनेन उद्धवकृतप्रश्नाभ्युपगमः क्रियत इति भावेन तदर्थ उक्तः ॥

अन्योन्यविलक्षणावेवेति ॥ समभिव्याहारात्प्रकृतिपुरुषाविति तात्पर्ये सम्बध्यते । वैलक्षण्यादर्शने निमित्तकथनपरं ‘‘विकल्पः पुरुषर्षभ एष’’ इत्यंशं व्याचष्टे ॥ एष इति ॥ एष इत्यस्य वैलक्षण्यादर्शनमिति व्याख्यानम् । विकल्प इत्यस्य विरुद्धकल्पनमिति । भ्रम इत्यर्थः । एवं भ्रमेऽपि किं कारणमित्यतस्तत्प्रतिपादकस्य एष वैकारिक इति द्वितीयार्धस्य यत्तच्छब्दाध्याहरसूचनपूर्वकमर्थमाह ॥ यस्मादिति ॥ यस्मादित्यस्य तस्मादित्युत्तरेणा-न्वयः । वैकारिक इत्यस्यार्थो विकारनिमित्त इति । तथापि भ्रमः कुत इत्यत उक्तम् ॥ स चेति ॥ त्रैविध्यं च दर्शयति ॥ सत्वेति ॥ सर्वस्य गुणत्रयात्मकत्वेऽपि एकैक-प्राधान्येन सात्विको राजसस्तामस इति विकारस्त्रिविध इत्यर्थः । ततश्च प्रकृते किमायात-मित्यत उक्तम् ॥ तत्रेति ॥ तत्र त्रिविधेषु विकारिषु मध्ये तमःप्रधानानां तमोगुणप्रचुर-शरीरेन्द्रियादिमतां पुरुषाणामेव विरुद्धकल्पनं भ्रमो भवति । यस्मादेवं गुणव्यतिकरात्मक सृष्टावनुप्रविष्टो नामत एव गुणत्रयविकारात्मकदेहादिमतां मध्ये तमःप्रधानानामेव भ्रमस्तस्मा-दत्र प्रकृतिपुरुषयोर्वैलक्षण्यादर्शने तद्विपरीतनिश्चयस्तयोरवैलक्षण्यभ्रमः कारणमिति परिहार-ग्रन्थार्थ इत्यर्थः । एतत्तात्पर्यग्रन्थानुसारेण पूर्वमेव बुध्यारोहाय मूलार्थो दर्शित इति ॥२८॥

ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धिं च गुणैर्विधत्ते ।

वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् ॥ २९ ॥

तात्पर्यम्

तत्रापि प्रकृतिरेव कारणम् । ईश्वरेच्छा च । विकाराज्जातत्वाद्वैकारिक इत्युच्यते अहङ्कारस्त्रिविधोऽपि । ‘वैकारिको महांश्चैव तथाऽहङ्कार एव च । तथैव सात्विक(श्चासौ)श्चांशो वैकारिक इति त्रिधे’ति शब्दनिर्णये ॥ २९ ॥

पदरत्नावली

न केवलं तम एव प्रकृतिरीश्वरेच्छा च कारणमित्याह– ममेति । अङ्ग उद्धव । मम माया ममेच्छा गुणमयी ज्ञानादिगुणमयी, सत्वादिगुणमयी मम माया मदधीना प्रकृतिश्च, गुणैर् गुणभूतैर्महदहङ्कारस्त्रिविधः । ‘‘महत्तत्वाद् विकुर्वाणादहन्तत्वमजायत’’ इत्यादिना प्रसिद्धम् । ‘‘वैकारिको महांश्चैव तथाऽहङ्कार एव च । तथैव सात्विकश्चांशो वैकारिक इति त्रिधा’’ इति च । सोऽयं त्रिविधोपि त्रिविधो ऽध्यात्मादिभेदेन ॥ २९ ॥

श्रीनिवासतीर्थीया

ममाङ्गेत्युत्तरश्लोकस्य सङ्गत्यप्रतीतेस्तामाह ॥ तत्रापीति । एवं तमोगुण स्यैव कारणत्वे सिद्धेऽपि कारणान्तरमप्यस्तीत्युच्यत इत्यर्थः । अत्रैवकारोऽयोग-व्यवच्छेदार्थः । न त्वन्ययोगव्यवच्छेदार्थः । तथात्वे ईश्वरेच्छारूपकारणोक्त्ययोगात् । प्रकृतिर्लिङ्गदेहः । इच्छाचेत्यनन्तरमित्याह ममेतीति शेषः । अत्राहङ्कारकार्यविशेषस्य वैकारिकाहंकारस्य त्रैविध्यमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ विकारादिति । महत्तत्त्वस्य विकारादित्यर्थः । त्रिविधोऽपि तामसादिभेदेन त्रिविधोऽप्यहङ्कारो वैकारिक इत्युच्यत इत्यन्वयः । तत्र हेतुर्विकाराज्जातत्वादिति । अहङ्कारतत्त्वस्य वैकारिकशब्द-वाच्यत्वे प्रमाणमाह ॥ वैकारिक इति । महान्महत्तत्त्वम् । तथाऽहङ्कारश्च वैकारिको वैकारिकशब्दवाच्यः । तथाऽहङ्कारतत्त्वे यः सात्त्विकोंऽशो देवतादेहमनसोरुत्पत्तिहेतुः । साऽपि वैकारिक इत्युच्यत इति त्रिधा वैकारिकशब्दवाच्यास्त्रय इत्यर्थः ॥

तथा चायमर्थः ॥ हे अङ्ग । ओति प्रियसम्बोधनम् । न केवलं तमोगुणः किं नाम गुणमयी सत्त्वादिगुणात्मिका ममाधीना माया प्रकृतिर्लिङ्गदेहरूपा । तात्पर्ये ईश्वरेच्छेत्युक्त-त्वाच् चशब्दस्य मायेत्यनेनापि सम्बन्धः कार्यः । गुणमयी ज्ञानानन्दादिगुणात्मिका मम माया चेच्छा च गुणैः सत्त्वरजस्तमोगुणैरनेकधा विकल्पबुद्धिं निर्गुणत्वप्रकृतिसाम्यादि-भ्रमरूपां बुद्धिम् । चशब्दात्समीचीनां बुद्धिं च विधत्त जनयतीत्यर्थः । परंपरयैतादृश-मायाकार्यस्याहङ्कारस्य त्रैविध्यमाह ॥ वैकारिक इति । एकमहङ्कारतत्त्वमध्यात्ममथैक-मधिदैवमन्यदधिभूतमित्येवं वैकारिकोऽहङ्कारस्त्रिविध इत्यर्थः ॥ २९ ॥

प्रमेयचन्द्रिका

नन्वेवं प्रश्नोत्तरस्य ज्ञातत्वान्ममाङ्गेत्युत्तरग्रन्थो व्यर्थ इत्यतः सङ्गतिं सूचयन् मायाऽनिर्वाच्याविद्या भेदबुद्धिं विधत्त इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ तत्रापीति ॥ इच्छा चेत्यतःपरमित्याहेति शेषः । वैलक्षण्यादर्शने उक्तभ्रमः कारणम् । भ्रमेऽपि तमः कारणम् । भ्रमस्यापि१ मूलजडप्रकृतिरुपादानकारणम् । चित्प्रकृतिर्निमित्त-कारणम् । ईश्वरेच्छा प्रधानं कारणमित्याहेत्यर्थः । एतेन प्रधानमायाशब्दः परममुख्यवृत्या ईशेच्छावाची । मुख्यवृत्या चित्प्रकृतेर् अमुख्यवृत्या जडप्रकृतेरित्युक्तं भवति । गुण-मयीत्यस्य ज्ञानानन्दादिगुणरूपेतीश्वरेच्छायाश्चित्प्रकृतेश्च विशेषणम् । चित्प्रकृतेः सत्वादि-गुणाभिमानिनीति च । अचित्प्रकृतेः सत्वादिगुणात्मकेतीति ज्ञेयम् ॥ ततश्च हे अङ्ग उद्धव मम सम्बन्धिनी गुणमयीश्वरेच्छादिरूपा माया गुणैः सत्वादिभिः, अप्रधानैस्तत्कार्यै-र्महदादिभिर्वा विकल्पबुद्धिं भ्रम रूपं ज्ञानमनेकधा विधत्ते करोतीति मूलार्थः ॥ एतेन भ्रमजनकतमः प्रतीशेच्छादिः प्रधानं कारणमित्युक्तं भवति । अत्र प्रकृतेर्गुणत्रयमहदहङ्कारो-त्पादनद्वारोक्तभ्रमजनकत्वविवरणार्थमुत्तरो ग्रन्थः ॥

अत्र वैकारिकस्त्रिविध इत्यत्र ‘‘महत्तत्वाद्विकुर्वाणादहंतत्वमजायत । वैकारिकस्तैजसश्च तामसश्चेति यद्भवेत्’’ इत्युक्तमूलाहङ्कारप्रभेदवैकारिकाहङ्कारस्य त्रैविध्यमुच्यत इति भ्रम-निरासाय वैकारिक इत्यस्यार्थमाह ॥ विकारादिति ॥ अत्र वैकारिकतैजसतामसभेदेन त्रिविधो मूलाहङ्कारो वैकारिक इत्युच्यत इत्यर्थः ।

वैकारिकशब्दस्य मूलाहङ्कारपरत्वे विकाराज्जातत्वादिति योग उक्तः । रूढिरप्यस्तीति प्रमाणेनाह ॥ वैकारिक इति ॥ महांश्च महत्तत्वं च वैकारिक एव । वैकारिकशब्दवाच्य एव अहङ्कारतत्वं च तथैव महत्तत्ववदेव वैकारिकशब्दवाच्य एवेति यावत् । असौ वैकारि-कत्वेन प्रसिद्धः । सात्विकः सत्वप्रचुरः वैकारिकान्मनो जज्ञ इत्युक्तोऽहङ्कारप्रभेदेष्वा-द्योऽहङ्कारश्च तथैव वैकारिकशब्दवाच्य एव । इति प्रकारेण वैकारिकस्त्रिधेत्युपसंहारः । सात्विकांशश्चेति पाठेऽप्युक्त एवार्थः । ततश्चैवमुत्तरार्धार्थः । वैकारिको मूलाहङ्कारस्त्रिविधः । वैकारिकतैजसतामसभेदेनेति शेषः । त्रिविधाहङ्कारकार्याण्युच्यन्ते अध्यात्ममिति । तथाहि । विकल्पपदेन प्रकृते विपरीतज्ञाने जनयितव्ये इन्द्रियसहकारिविषयाणामपेक्षितत्वाज्जनकत्वेन त्रिविधोऽप्यहङ्कारः प्रवर्तते । तत्रैकं तैजसाहङ्काररूपं तत्वमध्यात्ममिन्द्रियाणि भवति । अथ वैकारिकाख्यं तत्वमधिदैवं सूर्यप्रकाशादिरूपं सहकारि भवति । अथान्यत्तामसाख्यं तु अधिभूतं रूपस्पर्शशब्दाद्यात्मकं विषयं भवतीति । तदेतत्त्रयमपि परस्परसापेक्षमेव विपरीतज्ञानं जनयति ॥ २९ ॥

दृग् रूपमर्कश्च परत्र रन्ध्रे परस्परं सिध्यति न स्वतोऽसौ ।

आत्मा यदेषामुपराम आद्यः स्वयाऽनुभूत्याऽखिलसिध्यसिद्धिः ॥ ३० ॥

एवं त्वगादि श्रवणादि चक्षुर्जिह्वादिना सादि च चित्तयुक्तम् ॥ ३१ ॥

योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलो जगतः प्रसूतिः ।

अहं त्रिवृन्मोह विकल्पहेतुर्वैकारिकस् तामस ऐन्दियश्च ॥ ३२ ॥

आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदाऽर्थनिष्ठः ।

व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ ३३ ॥

तात्पर्यम्

अध्यात्ममिन्द्रियाणि । तैरेव विपरीतं ज्ञानं जायते । ‘अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा । सम्यज्ज्ञानं हरेः शक्त्या तन्मुक्तस्य विशेषतः । देवतानुग्रहो नित्यो मुक्तस्यापि ह्यपेक्ष्यते । नित्यं तत्प्रतिबिम्बत्वाज्जीवानामेव कृत्स्नशः । बाह्यज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचिद् । किन्तु स्वरूपशक्त्यैव देवेभ्यश्चाभिजायत’ इति ब्रह्मतर्के ॥ ‘पश्यन्नपि जगत्सर्वं चिद्बलेनैव पश्यति । कुतो मुक्तस्य तु जडं चिद्रूपस्य व्यपेक्ष्यत’ इति च । एषामुपरमे मुक्तौ । चक्षुरिति पुनर्वचनमवधारणार्थम् ॥

योऽसौ भ्रमहेतुर्विकारः स गुणक्षोभकृतः । आत्मा तु परिज्ञानस्वरूपो न गुणक्षोभकृतः ॥

**भिदा (भिदया) विपर्ययेण विद्यमानं नास्ति अविद्यमानमस्तीति विवादः । ‘असदस्ति च सन्नास्तीत्येवं भेदाद्विवादनम् । सदैव हरिपादाब्जविमुखानां प्रवर्तत’ इति च **

॥ ३०–३३ ॥

पदरत्नावली

एतत् त्रैविध्यं शृङ्गग्राहिकयैव दर्शयति दृग् रूपमिति । रन्ध्रे गोलके दृक् चक्षुरिन्द्रियम्, तदध्यात्मम्, उपलक्षणमेतत् । अध्यात्ममिन्द्रियाणि तैजसाहङ्कारस्वरूपाणि । तैरेव विपरीतज्ञानं जायते । ‘‘अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा’’ इति वचनात् । परत्र देहाद् बहिर्यद् रूपं तदधिभूतं तामसम् । परत्र दिवि योऽर्कस्तदधिदैवतं वैकारिकम् । अनेन किं प्रयोजनमत्राह– परस्परमिति । अध्यात्मादिगतचक्षुरादि इतरेतरापेक्षया सिध्यति ज्ञानाख्यप्रयोजनं भवति । असौ सिद्धिः स्वतो न एकैकस्मान्न स्यात् । चक्षुराद्यन्यतमाभावे ज्ञानं नोदेतीत्यर्थः । नैतावता परस्परसिद्धिः पूर्यत इत्याह– आत्मेति । यदा आत्मा प्रयत्नो जडाहङ्कारो वा अस्ति तदा त्विदं वैकारिकं ज्ञानम् । प्रकृतिप्राकृतव्यतिरिक्तं जीवपरमात्मस्वरूपं कदा नु विशदं दृश्यत इत्यत्राह– एषामिति । आत्मेत्यनुवर्तते । यदैषां प्रकृतिप्राकृतानामुपरामो ऽत्यन्तोच्छेदनलक्षणा मुक्तिस्तदा स्वयाऽनुभूत्या स्वरूपज्ञानेन आत्मा जीव आद्य आत्मा परमात्मा च, ज्ञायत इति शेषः । कीदृशो हरिः । अखिलस्य सिध्यसिद्धी ज्ञानाज्ञाने यस्मात् स तथा । सर्वस्य ज्ञाना-ज्ञानहेतुरित्यर्थः । ‘‘सम्यग्ज्ञानं हरेः शक्त्या तन्मुक्तस्य विशेषतः । देवतानुग्रहो नित्यो मुक्तस्यापि ह्यपेक्ष्यते । नित्यं तत्प्रतिबिम्बत्वाज्जीवानामेव कृत्स्नशः । बाह्यज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचित् । किन्तु स्वरूपशक्त्यैव देवेभ्यश्चाभिजायते’’ इति वचनात् ॥ उक्तन्यायमतिदिशति एवमिति । चक्षुर्जिह्वादिना सह त्वगादि श्रवणादि चैवमध्यात्मादिभेदेन त्रिविधं सादि चानित्यं च, अन्योन्यापेक्षत्वात् । कीदृशं त्वगादि । चित्तयुक्तम् । अनेन चित्तं मनोपि त्रिविधमिति ज्ञायते । चक्षुरिति पुनर्वचनमवधारणार्थम् ॥

तामसाहङ्कारोऽपि विकल्पहेतुरिति सूचितं पुरस्तात् । तदिदानी स्पष्टयति योसाविति । योसौ मोहविकल्पहेतुर् अज्ञानान्यथाज्ञानहेतुर् विकारः सत्वादिगुणक्षोभो महत्तत्वं तेन कृतः । स अहम् अहङ्कारस् त्रिवृत् त्रिरूपत्वेन वर्तते । त्रिप्रकारमाह– वैकारिक इति । वैकारिकस्तामस ऐन्द्रिय इन्द्रियोत्पत्तिहेतुस्तैजसश्च । प्रयोजनमाह– जगत इति । जगतः प्रसूतिः सृष्टिर्यस्मात् स तथा, जगत्सृष्टिहेतुरित्यर्थः । अनेन प्रकृतेः कारणत्वं गतमत्राह– प्रधानेति । प्रधानं प्रकृतिर्मूलं महत्तत्वद्वारा कारणं यस्य स तथा ॥

महदादिकार्यानुगतस्य हरेरपि गुणक्षोभकृतो विकारः स्यादिति तत्राह– आत्मेति । आत्मा परमात्मा गुणक्षोभकृतविकारवान् न परिज्ञानमयत्वात् पूर्णज्ञानस्वरूपत्वात् । विकाराभिमानित्वमन्तरेण ज्ञानस्वरूपत्वेन आत्मा जीवोपि न गुणक्षोभकृतविकार इति । विकल्पस्वरूपमाह– विवाद इति । जीवेश्वराभेदजगन्मिथ्यात्वादिकमसदस्ति जीवेश्वरभेदप्रपञ्चादिकं सन्नास्तीति भिदया वस्तु-याथार्थ्यादिविपर्ययेण अर्थनिष्ठः पदार्थनिष्ठो विवादो विकल्पो भवति । केषामित्यत उक्तं व्यर्थ इति । स विकल्पो व्यर्थोऽप्यविद्यमानविषयोपि तथा निष्प्रयोजनोपि स्वलोकात् स्वाश्रयान्मत्तः परावृत्तधियामपगतबुद्धीनां नोपरमेत पुनः पुनर्वर्धत इत्यर्थः । ‘‘असदस्ति च सन्नास्तीत्येवं भेदाद् विवादनम् । सदैव हरिपादाब्जविमुखानां प्रवर्तते’’ इति मानं हिशब्दगृहीतम् ॥ ३०–३३ ॥

श्रीनिवासतीर्थीया

ननु दृग्रूपमित्यादिना किमसङ्गतमेवोच्यत इत्यतस्तात्पर्यमाह ॥ अध्यात्ममिति । अध्यात्मादिभेदेनाहङ्कारस्य त्रैविध्यमुक्तम् । तत्राध्यात्मसंज्ञकोऽहङ्कारः क इत्यतोऽध्यात्ममिन्द्रियाण्यहङ्कार इत्युच्यते । तैजसाहङ्कारकार्यत्वादित्याशयः । अतो नासङ्गतिः । इन्द्रियाणीत्युक्त्यैवं त्वगादीत्यादेरपि तात्पर्यमुक्तं ज्ञातव्यम् । अतो विकल्पः परस्परं सिद्ध्यतीत्यध्यात्मादित्रयाणां विकल्पहेतुत्वमुक्तम् । तत्तात्पर्यमाह ॥ तैरेवेति । अध्यात्मादिभिरित्यर्थः । श्लोकद्वयतात्पर्यं प्रमाणेनाह ॥ अहङ्कार इति । अनेन परस्परं सिद्ध्यतीत्यस्य तात्पर्यमुक्तं भवति । नन्वहङ्कारभेदानामध्यात्मादीनां परस्परं मिलितानामेव ज्ञानजनकत्वे मुक्तौ अध्यात्मादिभेदभिन्नाहङ्काराभावाज्ज्ञानं न स्यादित्यत आह ॥ सम्यगिति । अनेनात्मा स्वयानुभूत्याऽखिलसिद्ध्यसिद्धिरित्यंशस्य तात्पर्यमुक्तम् । यत्सम्य-ज्ज्ञानं तद्धरेः शक्त्या जायत इति सर्वं समम् । तत्सम्यग्ज्ञानं मुक्तस्य विशेषतो हरेः शक्त्या जायत इति योज्यम् ।

तर्हि मुक्तौ स्वोत्तमदेवानामकिञ्चित्करत्वमुक्तं स्यात्तत्राह ॥ देवतेति । कुत इत्यत उक्तम् ॥ नित्यमिति । तासां देवतानां प्रतिबिम्बत्वात् । तदधीनत्वे सति तत्सदृशत्वादित्यर्थः । ननु निजज्ञानं हरिशक्त्या भवत्वथापि बाह्यपदार्थविषयं यज्ज्ञानं तज्जडाहङ्कारार्थेन्द्रियादिना जायत इत्यवश्यं वाच्यत्वेन तत्राप्यध्यात्मादिभेदभिन्नाहङ्कारसिद्धिरित्यत आह ॥ बाह्येति । बाह्यपदार्थविषयं ज्ञानमित्यर्थः । जडाहंकृतेर्यदि न भवति तर्हि कस्माद्भवतीति पृच्छति ॥ किं त्विति । उत्तरयति ॥ स्वरूपेति । स्वरूपशक्त्यैव बाह्यज्ञानमित्यत्र प्रमाणान्तरं चाह ॥ पश्यन्नपीति । पश्यति मुक्तः । जडं जडाहङ्कारतत्त्वम् । एषामुपराम इत्यस्यार्थमाह ॥ एषामिति । अध्यात्मादीनाम् । ननु दृगित्युक्तत्वात्पुनश्चक्षुर्ग्रहणमतिरिच्यत इत्यत आह ॥ चक्षुरितीति । चित्तयुक्तत्वावधारणार्थमित्यर्थः ॥

योऽसाविति श्लोके उद्देश्यविधेयं च यथास्थितप्रतीतिनिवारणाय दर्शयति ॥ योऽसाविति । विकारोऽहङ्कारः । गुणक्षोभो महत्तत्त्वं तेन कृतस्तज्जन्यो मोहः । विकल्प इत्यस्यार्थः ॥ भ्रमहेतुरिति ॥

आत्मापरिज्ञानमय इत्यत्र साध्याप्रतीतेस्तद्दर्शयति ॥ आत्मात्विति । परिज्ञानं सम्यग्ज्ञानं तत्स्वरूपो यतः । अत इति शेषः । भिदेत्येतन्न प्रथमान्तं किं नाम भिच्छब्द-स्येयं तृतीयेत्याशयेन व्याचष्टे ॥ भिदेति । ज्ञानमिति शेषः । अस्तीत्यादेरर्थमाह ॥ विद्यमानमिति । वस्तुतो जीवेश्वरभेदादिकं विद्यमानं तन्नास्ति वस्तुतोऽविद्यमानं जीवेश्वरैक्यादिकमस्तीत्येवं कथनमेव विवाद इत्यर्थः । अयं विवाद इत्यत्र प्रमाणमाह ॥ असदिति । ऐक्यादि । सद् भेदादि । एवं भेदात् । एवं प्रकारेणेति यावत् । हरीत्यादि मत्तः परावृत्तेत्यादेस्तात्पर्यम् । सदैव प्रवर्तत इति व्यर्थोऽपि नैवोपरम इत्यस्य तात्पर्यम् ॥

तथा चायं सार्धश्लोकत्रयार्थः ॥ अध्यात्मादिकमुदाहरति ॥ दृगित्यादिना । रन्ध्रे गोलके दृक् चक्षुरिन्द्रियम् । अध्यात्मं तैजसाहङ्काररूपं परत्र देहाद्बहिर्यद्द्रूपं तदधिभूतं तामसाहङ्कारकार्यं परत्र दिवि योऽर्कस्तदधिदैवं वैकारिकाहङ्कारकार्यम् । किमनेन प्रयोजन-मित्यत आह ॥ परस्परमिति । असौ विकल्पः । समीचीना सिद्धिश्च । परस्परं देवता-तदभिमन्यमानेन्द्रियविषयैस्त्रिभिः सिद्ध्यति न स्वतः । एकैकस्मान्न । न हि चक्षुषोऽभावे देवताविषयाभ्यां विषयाभावे इतराभ्यां देवताभावे चेतराभ्यां ज्ञानमुत्पद्यत इत्यर्थः । ननु तर्हि मुक्तावेतेषां चक्षुराद्यध्यात्मादीनामभावाज्ज्ञानं न स्यादित्यत आह ॥ आत्मेति । एषां प्रकृतिप्राकृतेन्द्रियादीनामुपरमे मुक्तौ य आद्य आत्मा हरिः स एव स्वयानुभूत्या स्वशक्त्या । सम्यग्ज्ञानं हरेः शक्त्येत्युक्तेः । अखिलानां मुक्तानां सिद्ध्यसिद्धी । सम्यग्ज्ञानाज्ञानयोः प्रद इत्यर्थः । मुक्तानामपि हरिविषये ज्ञानमस्त्येव । तद्दाता हरिरिति द्रष्टव्यम् ।

दृग्रूपमित्युक्तन्यायमन्यत्राप्यतिदिशति ॥ एवं त्वगादीति । अत्रादिपदेन तद्विषयाः स्पर्शाद्या ग्राह्याः । चित्तयुक्तं त्वगादि । अध्यात्मादिभेदेन त्रिविधमित्यर्थः । तथा च चित्तापरपर्यायमनोयुक्तास्त्वगाद्या इन्द्रियाण्यध्यात्मं तैजसाहङ्कारकार्यं तद्विषयाः स्पर्शाद्या अधिभूतं तामसाहङ्कारकार्यं तद्देवताऽधिदैवं वैकारिकाहङ्कार्यमिति भावः । अध्यात्मादिभेद-भिन्नाहङ्कारस्वरूपं वदन्प्रकारान्तरेणापि त्रैविध्यमाह ॥ योऽसाविति । योऽसौ मोहाख्य-विकल्पहेतुर्विकारोऽहङ्कारः स गुणानां क्षोभः क्षोभजन्यं महत्तत्त्वं तत्कृतस्तज्जन्यः । पुनस्तत्स्वरूपमुच्यते । प्रधानं प्रकृतिर्मूलं महत्तत्त्वद्वारा कारणं यस्य तत्तथोक्तम् । जगतः प्रसूतिः सृष्टिर्यस्मात्तज्जगतः प्रसूतिर्वैकारिकस्तामस ऐन्द्रिय इन्द्रियजनकस्तैजसाहङ्कारश्चेति त्रिवृत् । त्रीन्प्रभेदान्वृणोतीति त्रिवृदेतादृशमहमहंतत्त्वम् । मकारान्ताव्ययमेतत् । नन्वहङ्कारादिवज्जीवस्वरूपमपि किं गुणक्षोभजन्यम् ? नेति प्रसङ्गादाह ॥ आत्मेति । यतोऽयमात्मा जीवः परिज्ञानमयोऽतो न गुणक्षोभकृत इत्यर्थः । अहंकारस्य विकल्पहेतुत्व-मुक्तम् । तत्र विकल्पापरपर्यायविवादस्वरूपमाह ॥ विवाद इति । अर्थनिष्ठः पदार्थनिष्ठो विवादो नामासदस्तीति सन्नास्तीति भिदा । अर्थविपर्ययेण ज्ञानमेवेत्यर्थः । नन्वेतद्विवादानु-परमः केषां केषां चोपराम इत्यत आह ॥ व्यर्थोऽपीति । स्वलोकात्स्वाश्रयान्मत्तः परावृत्तधियां मत्पादाब्जविमुखानां पुंसां व्यर्थोऽपि निष्प्रयोजनोऽपि विरुद्धप्रयोजनोऽपि वा नैवोपरमेत सदैव प्रवर्तत इत्यर्थः । हरिपादाब्जे धीमतामेव पुंसामुपरतो भवतीत्याशयः

॥ ३०–३३ ॥

दुर्घटभावदीपिका

यदा येषां चक्षुरादीनामुपरामो नाशस्तदा । मुक्ताविति यावत् । आद्य आत्मा हरिः स्वयानुभूत्या स्वरूपशक्त्याऽखिलसिद्धिरखिलानां पदार्थानां सिद्धिर्ज्ञानं यस्मात्सोऽखिलसिद्धिः । असिद्धिरस्य परमेश्वरस्य सिद्धिर् ज्ञानं यस्मात्सोऽसिद्धिः । अखिलसिद्धिश्चासावसिद्धिश्चाखिलसिद्ध्यसिद्धिः । अखिलपदार्थज्ञानप्रदः परमेश्वरज्ञानप्रदश्चेति यावदिति । तेन मुक्ताविन्द्रियाणामभावाज्ज्ञानं कथं स्यादित्याशङ्कापरिहारार्थं परमेश्वरस्य ज्ञानप्रदत्वमेव वक्तव्यमज्ञानप्रदत्वकथनमयुक्तमिति चोद्यं निरस्तम् । असिद्धिशब्देनाज्ञानमुच्यत इत्यनङ्गीकारात्

॥ ३० ॥

प्रमेयचन्द्रिका

संसारावस्थायामेवेति सोदाहरणमुपपाद्यते ॥ दृग्रूपमित्यादि सार्ध-श्लोकेन ॥ तत्राध्यात्मं रंध्रे गोलके चक्षुरिन्द्रियं तैजसाहङ्कारजम् । अधिभूतं चक्षुषो विषयभूतं रूपं तामसजातम् । परत्राधिदैवं चक्षुषः प्रकाशरूपेण सहकारिभूतोऽर्को वैकारिकाहङ्कारजातः । तदेतत्तत्रयं परस्परसापेक्षमेव सिध्यति । प्रकृतभ्रमरूपज्ञानजनकं भवति । एतेष्वन्यतमाभावेऽपि ज्ञानानुदयात्परस्परमित्युपपद्यते । असौ चोक्तरूपा सिद्धिः स्वत एव त्रितयमात्रतो न भवति । उपपादनं तात्पर्ये भविष्यति ।

नन्वेवं चाक्षुषरूपादिज्ञानस्य स्पर्शादिज्ञानस्य तथा शब्दादिज्ञानस्याहङ्कारकार्यदृगा-दित्वगादित्रितयसापेक्षत्वेन मुक्तौ ज्ञानादिकं न स्यात् । तदाऽहङ्कारकार्याणां दृगादीनाम-भावादित्याशङ्कावारणायोक्तम् ॥ आत्मेति ॥ एषां दृगादीनामुपरामो विनाशावस्था या मुक्तौ आद्य आत्मा परमात्मा स्वयाऽनुभूत्या स्वरूपेन्द्रियसामर्थ्येनाखिलस्य मुक्तवर्गस्य सिद्धिर्ज्ञाने वृद्धिरसिद्धिर्ज्ञानह्रासो यस्मात्स तथोक्तः । आत्मा मुक्तजीवः स्वयाऽनभूत्या स्वरूपेन्द्रिय-सामर्थ्येनैवाखिलसिध्यसिद्धियुक्त इति च योज्यम् । मुक्तौ भगवत्सामर्थ्येन केवल-स्वरूपेन्द्रियैर्मुक्तदेवैः प्रेरितैः सर्वज्ञानं भवतीति भावः । दृग्रूपमर्कश्चेत्युक्तमर्थं स्पर्शादि-विभ्रमेऽपि निर्दिश्यते ॥ एवमिति ॥ स्पार्शनज्ञाने जनयितव्ये अध्यात्मं त्वगिन्द्रियं तैजसम्, अधिभूतं स्पर्शगुणस्तामसजः, अधिदैवं त्वगिन्द्रियाभिमानी प्रवहो वैकारिकज इत्येतत्त्रयमन्योन्यसापेक्षमेव सिध्यति । न स्वत इति योज्यम् । एवमध्यात्मं श्रोत्रमिन्द्रियम् अधिभूतं शब्दो विषयः । अधिदैवं दिग्देवाः । तथा सहकारिणी जिह्वा रसो वरुण इति त्रितयम् । प्राणः गन्धोऽश्विनाविति ज्ञापनाय सर्वत्रादिपदप्रयोगः । अर्कादेरधिदैवमध्यात्मं चैकत्वेऽपि अध्यात्मरूपेण करणत्वम् । अधिदैवरूपेणानुग्राहकत्वमिति पृथगुक्तिः ।

अध्यात्ममेकमित्यत्रात्मानं जीवमधिकृत्य वर्तमानं शरीरमिति प्रतीतिवारणाय विवक्षितार्थमाह ॥ अध्यात्ममिन्द्रियाणीति ॥ इन्द्रियमात्रग्रहणे निमित्तमाह ॥ तैरेवेति ॥ अत्र विकल्पबुध्याख्यविपरीतज्ञानोत्पादनोपपादनायाहङ्कारनिरूपणम् । विपरीतज्ञानं चेन्द्रियै-रेव जायते । न देहेन । अत एव इन्द्रियमात्रग्रहणं युक्तमिति भावः । न स्वतोऽ-सावित्यस्यार्थकथनपूर्वकं प्रकृतोपयोगं दर्शयति ॥ अहङ्कार इति ॥ अहं कर्त्तेत्या-द्यभिमानरूपाहङ्कारे सत्येव भ्रमो भवति । अन्यदा तदभावदशायां करणसहकारिविषयाणां सत्वेऽपि न भ्रम इत्यर्थः । तदेतद्दर्शयितुं न स्वतोऽसाविति मूलस्योपयोग इति भावः । ततश्चासौ भ्रमः सिद्धः । स्वतोऽहङ्कारमन्तरा न सिध्यतीति मूलार्थ उक्तो भवति ।

आत्मा यदेषामुपराम इत्यस्य सङ्गतिं सूचयन्नात्मशब्दस्य परमात्मपरत्वमिति दर्शय-न्नुपलक्षणतया देवताप्रेरणमप्यपेक्षितमित्यादि प्रमाणेन दर्शयति ॥ सम्यग्ज्ञानमिति ॥ हरेः शक्त्येति ॥ अनुग्रहपूर्वकप्रेरणारूपसामर्थ्येन मुक्तस्य विशेषतस्तत्सम्यज्ज्ञानं हरेः शक्त्येति योजना । एतेनाहङ्कारिकेन्द्रियादिजन्यत्वे ज्ञानस्य मुक्तावहङ्काराभावाज् ज्ञानं न स्यादित्या-शङ्कावारणायात्मेत्यर्धः प्रवृत्त इति सङ्गतिः सूचिता भवति । मुक्तस्य विशेषत इत्यनेन संसारिणोऽपि सम्यज्ज्ञानं हरिशक्त्यैवामुक्तस्य तु सर्वथा भ्रमाभावाद्विशेषत इति सूचितम् । मूले आत्मेत्युपलक्षणम् । ब्रह्मादिदेवप्रेरणयाऽपि सम्यज्ज्ञानमित्याह ॥ देवतेति ॥ नित्यो नियतः । अनन्तकालीन इति वा । नित्यमिति वा । मुक्तस्वकीयावरयंतृताऽस्ति मुक्तावपि ब्रह्मपुरःसराणामिति ह्यनुव्याख्याने । हिशब्देन प्रसिद्धिमुक्त्वा युक्तिं चाह ॥ नित्यमिति ॥ कृत्स्नशोऽपि जीवानां नित्यं देवताप्रतिबिम्बत्वाद्देवेतानुग्रहोऽपेक्ष्यत इति योजना । प्रतिबिम्बस्वरूपसत्ताप्रवृत्यादेर्बिम्बाधीनत्वादिति भावः ॥

मुक्तस्यान्तरसुखादिविषयकज्ञानमात्रं परमात्माद्यधीनमिति न । किंतु बाह्यपदार्थ-ज्ञानमपीत्याशयेन सम्यज्ज्ञानं हरेः शक्त्यैतद्विवृणोति ॥ बाह्यज्ञानमिति ॥ विमुक्त-स्येत्यनेन संसारिणो वृत्तिरूपं सम्यग्ज्ञानं जडाहङ्कारगतसत्वभागेनापि भवतीति सूचयति । स्वशक्त्यैव स्वरूपेन्द्रियसामर्थ्येनैव । तत्रापि तन्नियामकमुक्तदेवताप्रेरणमपेक्षितमित्याह ॥ देवेभ्यश्चेति ॥ परमदेवाद्धेरेर्ब्रह्मादिदेवेभ्यश्चेत्यर्थः । जायते व्यज्यते । ननु अक्षण्वन्तः कर्णवन्त इत्यादौ मुक्तानामपि दर्शनश्रवणादेः प्रमितत्वाज्जडमप्यङ्गीकार्यमित्यतः स्वरूप-शक्त्यैवेत्युक्तं प्रमाणान्तरेण विवृणोति ॥ पश्यन्निति ॥ चिद्बलेनेति । चिद्रूपचक्षुरा-दीन्द्रियबलेनेत्यर्थः । चिद्रूपस्येत्यस्य केवलचिन्मात्रस्येत्यर्थः । चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् । चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामित्याद्युक्तेरिति तुशब्देन सूचयति । एषा-मुपराम इत्यत्रोपरामे सुप्ताविति भाति । तदयुक्तम् । तादृगादिभी रूपादिज्ञानायोगादित्यतो व्याचष्टे ॥ एषामुपरामे मुक्ताविति ॥ उपरामशब्दस्य मुक्तिपरताज्ञापनाय प्रमाणोदाहरणं कृत्वा पश्चात्स्ववचनेन व्याख्यातमिति द्रष्टव्यम् । दृग्रूपमिति चक्षुष उक्तत्वाच्छ्रवणादि चक्षुरिति पुनश्च ग्रहणं व्यर्थमित्याशङ्क्य प्रयोजनमाह ॥ चक्षुरिति ॥ सिद्धे सत्यारम्भो नियमार्थ इति न्यायादिति भावः ॥

योऽसावित्युत्तरमूलस्य सङ्गत्यभानात्तां सूचयति ॥ योऽसाविति ॥ वैकारिकः सर्गो गुणव्यतिकरात्मक इति पूर्वं भ्रमहेतोरहङ्कारस्य गुणक्षोभकृतत्वमुक्तम् । तर्हि मम माया विकल्पबुद्धिं विधत्त इति भगवदिच्छाया अपि भ्रमहेतुत्वस्योक्तत्वादविशेषात्परमात्मनोऽपि गुणक्षोभकृतत्वशङ्का मन्दानां स्यात् तां वारयितुं योऽसौ भ्रमहेतुरहङ्काराख्यो विकारः स एव गुणक्षोभकृतः गुणत्रयविकारेण जातः परमात्मा तु न गुणक्षोभकृतः परिपूर्णज्ञानस्वरूप-त्वादिति प्रतिपादनार्थमस्य मूलस्य प्रवृत्तत्वान्नासङ्गतिरिति भावः ॥

मूलार्थस्तु प्रधानं प्रकृतिरेव मूलं यस्य सः प्रधानमूलः । जगतः प्रसूतिरुत्पादकः । मोहाख्यो विकल्पो भ्रमस्तद्धेतुर्वैकारिकः । तामस ऐन्द्रियस्तैजसश्चेति त्रिवृत् । त्रिप्रकारो योऽसावहङ्काराख्यो विकारः स एव गुणक्षोभकृतः । आत्मा तु परिपूर्णज्ञानमय एव न गुणक्षोभकृत इति ॥

एवं च प्रकृतिकार्यगुणत्रयविकारकृतत्रिविधाहङ्कारजन्याध्यात्मादिप्रभेदभिन्नतामसदृगादिभि र्विपरीतज्ञानं जायत इत्युक्तम् । तस्य भ्रमस्य निवृत्तिरस्ति न वेत्याशङ्कायां भगवद्विमुखानां विपरीतज्ञानिनां न सर्वथा तन्निवृत्तिरिति विपरीतज्ञानस्वरूपनिरूपणपूर्वकं प्रदृश्यते ॥ विवाद इत्यादिना ॥ तत्र भिदा भेदो न युज्यत इत्यर्थो न युज्यते । अर्थनिष्ट इत्यादि-पुल्लिङ्गसामानाधिकरण्यायोगात् । भिदा अस्तीति नास्तीति विवादो नैवोपरमेतेति योजनाया-मर्थनिष्ट इत्यस्य वैय्यर्थ्यापातात् । अतो भिच्छब्दतृतीयाविभक्त्यन्तं भिदेति पदं वैपरीत्य-वाचीत्याशयेन व्याचष्टे ॥ भिदयेति ॥ भिदा भिदया वस्तुयाथात्म्यापेक्षया वैपरीत्ये-नेत्यर्थः । ननु तथात्वे भिदा विपर्ययेण प्राप्तोऽस्तीति नास्तीत्यर्थनिष्टो विवाद इत्यर्थो वक्तव्यः । स न युक्तः । ईश्वरादिकमस्ति शशशृृङ्गादिकं नास्तीत्यस्य यथार्थत्वेन विपर्ययेण प्राप्तत्वाभावादित्यतस्तद्विवृणोति ॥ विद्यमानमिति ॥ विद्यमानं सत्यं निरवद्यागणित-गुणपरिपूर्णं परं ब्रह्म तदधीनं जगच्च नास्ति । अविद्यमानं निर्विशेषं ब्रह्म तदविद्याकल्पितं विश्वमस्तीति विवादः स च विपरीतज्ञानप्राप्तिरिति युज्यत इति भावः । अत्रार्थे समाख्या-माह ॥ असदिति ॥ विवादनं विवादः । तदयं मूलार्थः । भिदा भिदया यथावस्तु तद्वैपरित्यनिश्चयेन स्वलोकात्स्वाश्रयान्मत्तः परावृत्तधियामयोग्यानां प्राप्तोऽसदस्ति सन्ना-स्तीत्येवंप्रकारकोऽर्थनिष्टो विरुद्धवादः व्यर्थोऽपि विगतप्रयोजनोऽपि नोपरमेत नोपरमेत् । न निवर्तते । प्रत्युत पुनः पुनर्वर्धत एवेति । मत्तः परावृत्तधियां भिदा विपरीतज्ञानेनार्थनिष्टो विवादो नोपरमत इत्युक्त्याऽसतामपि यावद्भगवद्वैमुख्यं तावत्पर्यन्तं किञ्चिद्विरुद्धवादेन जनन-मरणादिरूपः संसारोऽनुवर्तत इति सूचितम् ॥ ३३ ॥

उद्धव उवाच–

त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।

उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३४ ॥

तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः ।

न ह्येतत् प्रायशो लोके विद्वांसोऽञ्चन्ति१ वञ्चिताः ॥ ३५ ॥

पदरत्नावली

त्वद्विमुखानां स्वकृतकर्ममूढानामेषां पुनर्भवोऽस्तीति सिद्धम् । तत्र नित्यानां जीवानां जन्ममृती कीदृश्यौ कर्मेतरकारणं च किमिति पृच्छत्युद्धवस् त्वत्त इति । त्वत्तः परावृत्तधियः स्वतो नित्या जीवा अहं जातोऽहं मृत इत्यभिमानेन स्वकृतैः कर्मभिर्यथा उच्चावचान् देहान् गृह्णन्ति विसृजन्ति च ॥ तद् ग्रहणादिकं तथा ममाख्याहि । बुद्धिबलविधुरैर्दुर्ज्ञेयं चेदपि बुद्धिमद्भ्यः श्रोतुं शक्यत्वात् । किमिति ममाख्येयमिति निर्बन्ध इति तत्राह– नहीति । नाञ्चन्ति नावगच्छन्ति । अञ्चुगतिपूजनयोरिति धातुः, गतिर्ज्ञानम् । वञ्चिता मोहिताः, त्वयेति शेषः ॥ ३४,३५ ॥

श्रीनिवासतीर्थीया

मत्तः परावृत्तधियामिति श्रुत्वोद्धवश्चोदयति ॥ त्वत्त इति । त्वत्तः परावृत्तधियो जीवा उच्चावचैः स्वकृतैः कर्मभिरुच्चावचान्यथा कथं गृण्हन्ति विसृजन्ति विसर्जयन्ति च तत्प्रमेयं ममाख्याहीत्यर्थः । नित्यस्य जीवस्य देहसम्बन्धोत्पत्तिर्नाम कीदृशी वियोगापरपर्यायमरणं च नाम कीदृशं जीवस्य नित्यत्वं च केन प्रमाणेन ज्ञातव्यम् । देहान् गृण्हन्तीत्युक्त्या जीवस्य देहान्तःस्थत्वं देहस्य बहिष्ठस्थत्वं चार्थाल्लब्धं तत्रापि को हेतुरिति प्रश्नाशयो वर्णनीयः । एवं सत्युत्तरग्रन्थः सर्वोऽपि सङ्गच्छते । कीदृशं तत्प्रमेयम् । अनात्मभिरजितमनस्कैरात्मशब्दवाच्यवद्भिर्नैव दुर्विभाव्यं दुर्विचिन्त्यम् । नन्वेतत्प्रमेयं विद्वांसो जानीयुरिति चेत्तत्राह ॥ न हीति । अञ्चन्ति । अञ्चु गुतिपूजनयोरिति धातोर्नाव-गच्छन्तीत्यर्थः । तत्र हेतुर्वञ्चिताः । तव माययेति शेषः ॥ ३४,३५ ॥

प्रमेयचन्द्रिका

तेन चोत्थापिताकाङ्क्षेणोद्धवेन प्रश्नः क्रियते ॥ त्वत्त इत्यादिना ॥ त्वत्तः परावृत्तधियो जीवाः स्वकृतैः पूर्वकर्मभिरुत्तमानधमांश्च देहान् गृह्णन्ति । विसृजन्ति । तज्जननादिकं यथा जीवानां भवति तन्ममाचक्ष्वेति ।

अयं भावः । न जीवस्य जननादिकं युक्तम् । स्वरूपतो नित्यत्वात् । कर्मभिरपि नित्यस्य जन्माद्यसम्भवात् । न च देहद्वारेति वाच्यम् । जीवादत्यन्तभिन्नस्य जन्मादिप्राप्तौ तद्भिन्ने जीवे तदुपसङ्क्रान्त्ययोगात् । अतो जीवस्य जननादि यथा तद्ब्रूहीति । अनात्मभि-रित्यस्य भगवद्विमुखैरित्यर्थः । अमनस्विभिरिति वा । तर्हि ज्ञानिनो जानन्ति चेत्किमिति मयाऽऽख्येयमित्यत उच्यते ॥ न हीति ॥ अवन्ति जानन्ति । अयं जीवोऽनादिनित्य इति ॥ ३४,३५ ॥

श्री भगवानुवाच–

मनः कर्ममयं नॄणामिन्द्रियैः पञ्चभिर्युतम् ।

लोकाल्लोकं प्रयात्यन्यमात्मा तदनुवर्तते ॥ ३६ ॥

पदरत्नावली

नित्यानां जीवानां देहग्रहणादिकारणं कर्म, इतरन्मनोपीत्याशयवान् परिहरति मन इति । मरणकाले कर्ममयं कर्मसंस्कारोपचितं लिङ्गात्मकं सूक्ष्मैः पञ्चभिरिन्द्रियैर्युतं मनो लोकाद् देहादन्यं लोकं देहं प्रयाति । तदा आत्मा जीवस् तन्मनोऽनुवर्तते । कर्म ईश्वरः, तन्मयं तत्प्रेरितमिति वा । अनादितः प्रकृतिमयेन तेन बद्धत्वात् तदनुवर्तनं युक्तम् ॥ ३६ ॥

श्रीनिवासतीर्थीया

तत्र देहमरणप्रकारमादौ दर्शयति ॥ मन इति । अत्र लिङ्गदेह एव स्थूलदेहात्मना विक्रियते । सैव जनिस्तस्यैव मरणे स्थूलभागापगत्या सूक्ष्मतयाऽवस्थि-तस्य देहान्तरे पुनः स्थूलतया विकारो भवतीति वस्तुगतिः । एवं च नृणां विद्यमान-मिन्द्रियैर्दशभिः पञ्चभूतैश्च युतं मन एव षोडशकलात्मकम् । लिङ्गशरीरमिति यावत् । कर्ममयं कर्मप्रधानकम् । जीवकर्मसहकृतमिति यावत् । यद्वा । कर्तृत्वात्कर्म भगवान् तत्प्रधानकम् । तत्प्रेरितमिति यावत् । यदा लोकात् । ल्यब्लोपनिमित्तेयं पञ्चमी । पूर्वलोकं शरीरं परित्यज्यान्यं लोकं प्रयाति तदा तदन्वात्मा जीवोऽपि तत्र देहे वर्तते लिङ्गदेहबद्धः सन् देहान्तरं प्राप्नोतीत्यर्थः ॥ ३६ ॥

प्रमेयचन्द्रिका

तथापि भगवन्नियतज्ञानेन्द्रियोपोद्बलिते मनसि पूर्वदेहाभिमानस्यो-परतौ उत्तरदेहे च तस्योत्पत्तौ जपाकुसुमसन्निधाननिमित्तस्य भिन्नाभिन्नस्य स्फटिकलौहित्य-स्येव चैतन्येऽप्यभिमाननिमित्तकस्य भिन्नाभिन्नस्य विकारविशेषस्य हान्या लाभेन च स्वरूप-विकारलाभो जननं, तन्निवृर्त्तिर्मरणमित्यादिर्युज्यत इत्याशयेन परिह्रियते ॥ मन इति ॥ कर्ममयं कर्मप्रधानं कर्मवशान्नानाविधसंस्कारोपचितमिति यावत् । पञ्चभिरिन्द्रियैरुपोद्बलितं नृणां मनः मरणकाले लोकात्पूर्वदेहात्पूर्वदेहं परित्यज्यान्यं लोकं देहं प्रयाति । पूर्वदेह-मविषयीकृत्योत्तरदेहमेव विषयीकरोति । तदा आत्मा जीवस्तन्मनोऽनुवर्तते । एतदेव जननं मरणं चेत्यर्थः ॥ ३६ ॥

ध्यायन्मनो हि विषयान् दृष्टान् वाऽनुश्रुतानथ ।

उद्यत् सीदत् कर्मतन्त्रं स्मृतिस्तदनु शाम्यति ॥ ३७ ॥

पदरत्नावली

मनःप्रधानः पुरुषोऽनुवर्तत इत्यनेन मनसः प्रयोजकत्वं प्रतीयते, तत् कथमत्राह ध्यायदिति । मनो दृष्टान् अथ वा श्रुतान् विषयान् ध्यायत् स्यादिति हि यस्मात्, तस्मात् पुरुषप्रवृत्तौ मनः प्रयोजकमिति शेषः । इतोऽपि मनः प्रयोजकमित्याह– अथेति । अथ यदा कर्मतन्त्रं विषयसंस्कारसमुद्रमग्नं मनः सीदद् विपन्नमात्मनो देहादुद्यद् उद्गतं भवति तदा तदनु मनोऽनु जीवस्य स्मृतिरर्थस्मरणं शाम्यति नश्यति, देहान्तराभिमानपर्यन्तमिति शेषः ॥ ३७ ॥

श्रीनिवासतीर्थीया

एतदेव विशदयति ॥ ध्यायन्निति । षोडशकलासु मनसः प्राधान्यान्मनोग्रहणम् । दृष्टान् श्रुतान्वा विषयान् ध्यायन् अत एव सीदद्विपन्नं कर्मतन्त्रं कर्माधीनं मनो हि यस्मादुद्यद्देहाद्देहान्तरं प्रत्युद्गतं भवति । तदा तु तदनु जीवस्यार्थस्मृतिः पूर्वदेहेऽनुभूतपदार्थस्मृतिः शाम्यति नश्यति ॥ ३७ ॥

प्रमेयचन्द्रिका

मन एव जननमरणे प्रति प्रयोजकमित्येतद्विशदयति ॥ ध्याय-न्निति ॥ मनः प्राग्दृष्टानथवा श्रुतान्विषयान् ध्यायन् ध्यानं कुर्वन् तत्संस्कारवशात् हि यस्मादथ तस्मात्कर्मतन्त्रं कर्माधीनं मनो यदा सीदद्विपन्नं सदुद्यद् उद्गतं भवति । देहान्तरविषयीकरणोन्मुखी भवतीति यावत् । तत्संस्कारस्यापि सत्वात् । एतदुपपादनायैव प्राग्विषयान् ध्यायदित्युक्तम् । तदा तदनु प्राक्तनविदेहविषयकस्मृतिः । शाम्यति निवर्तते । एतदेव मरणमिति भावः ॥ ३७ ॥

विषयाभिनिवेशेन नात्मानं यत् स्मरेन्मनः ।

जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८ ॥

तात्पर्यम्

विषयाभिनिवेशेन उत्तरदेहाभिनिवेशेन पूर्वदेहास्मरणं यत्तन्मृत्युः ॥३८॥

पदरत्नावली

मरणमेव स्पष्टयति विषयेति । कस्यचित् कर्महेतोरुत्तरदेहं प्रवेक्ष्यन् विषयाभिनिवेशेन उत्तरदेहनिवेशेन जन्तोर्मन आत्मानं पूर्वदेहं न स्मरेत् स्मरणसमर्थं न स्यादिति यत् सा अत्यन्तविस्मृतिर् मृत्युरित्यन्वयः । वा इत्यनेन जातस्य हि ध्रुवो मृत्युरिति स्मृतिप्रसिद्धिं द्योतयति ॥ ३८ ॥

श्रीनिवासतीर्थीया

इदमेव मरणमित्याह ॥ विषयेति । अस्य दुर्योज्यतयाऽर्था-प्रतिपत्तेरन्यथाप्रतीतेश्च व्याख्याति ॥ विषयेति । नात्मानं यत्स्मरेदित्यस्य तात्पर्यम् ॥ पूर्वदेहास्मरणमिति । तथा चेत्थं योजना । जन्तोर्मनो विषये उत्तरदेहेऽभिनिवेशेन कस्य-चिद्धेतोः कस्मिंश्चिन्निमित्ताद्भगवन्मायालक्षणरूपादात्मानं पूर्वदेहं न स्मरेत् । उत्तरत्र यत्प्राप्यं तदेव स्मर्यते नान्यत् । यं यं वापीत्युक्तेः । विष्णुमाया तदा तेषां मनो बाह्यं करोति हीत्युक्तेश्चेति यावत् । साऽत्यन्तविस्मृतिरेव मृत्युरित्यर्थः ॥ ३८ ॥

प्रमेयचन्द्रिका

मरणमेव स्पष्टयति ॥ विषयेति ॥ कस्यचिदानन्दरूपाद्धरे-स्तदधीनात्कर्मरूपाच्च हेतोर्जन्तोर्मनः, विषयशब्दोऽत्र प्राप्यमानदेहपरः । उत्तरदेहाभिनिवेशे-नेत्यर्थः । आत्मानं पूर्वदेहं न स्मरेदिति यत् कायत्यागक्षणे मनसि भविष्यद्देहानुस्मरण-निमित्तेन पूर्वदेहे इदं मदीयशरीरमिति अभिमानरूपज्ञानविलोप इति यदिति यावत् । सा अत्यन्तविस्मृतिर्मृत्युः । पूर्वदेह अभिमाननिमित्तकस्य चैतन्यगतस्य विकारस्य नाशो मरण-मिति भावः ।

अत्र विषयाभिनिवेशेनेत्यत्र काम्यविषयेष्वभिनिवेशेनेति भाति । तदयुक्तम् । कायत्यागसमये विषयाणामप्रसक्तेः । आत्मानं न स्मरेदिति चायुक्तम् । आत्मनो जीवस्य साक्षिविषयत्वेन मनसस्तत्राप्रसक्तेश्चतुर्थपादश्चासङ्गतः प्रतीयत इत्यतः पूर्वार्धव्याख्यानपूर्वकं चतुर्थपादं सङ्गमयति ॥ विषयेति ॥ अत्र विषयशब्दः प्राप्यमानदेहपरः । आत्मशब्द-स्त्यज्यमानदेहपरः । यच्छब्दस्य सत्वात्तच्छब्दाध्याहारेण चतुर्थपादयोजनेति भावः ॥३८॥

जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद ।

विषयस्वीकृतिं प्राहुर्यथा १स्वप्नमनोरथः ॥ ३९ ॥

पदरत्नावली

इदानी जन्म स्पष्टयति जन्मेति । पुंसो देहादिष्वहं ममेदमित्याद्यात्मतया आत्मीयतया सर्वभावेन सर्वचेष्टया समस्ताभिप्रायेण विषयस्वीकृतिं देहाभिमानं जन्म प्राहुरित्यन्वयः । देहादि स्वयं स्वकीयञ्च न भवति परमात्माधीनत्वादिति । तुशब्देन विशेषितार्थावुदाहरति यथेति । जाग्रदिदमिति अयं स्वप्नो यथा अविद्यमानः, यथा च मनोरथविषयोऽप्यविद्यमानो नत्वनिर्वचनीयः, (एवं) परस्यापि जीवस्य (आत्मात्मीयत्वाभिमानेन) जन्ममृती युक्ते इति भावः ॥ ३९ ॥

श्रीनिवासतीर्थीया

एवं मरणं निरूप्य जन्म निरूपयति ॥ जन्म त्विति । हे भूरिद बहुदातरुद्धव । पुंसो देहादौ सर्वभावेनात्मतया सर्वप्रकारेण ममेदमित्यात्मीयत्वेन विषयस्वीकृतिं देहाभिमानं जन्म प्राहुः । अविद्यमानाभिमाननिवेश एव जन्मेत्युक्तम् । तत्राभिमानस्याविद्यमानत्वे दृष्टान्तः स्वप्नो मनोरथ इति । स्वप्नसम्बन्धी मनोरथसम्बन्धी चाभिमानो यथाऽविद्यमानस्तद्वदिति योज्यम् ॥ ३९ ॥

प्रमेयचन्द्रिका

अथ जन्मनिरूपकस्य जन्म त्विति श्लोकस्यायमर्थः ॥ भूरिदेत्युद्धवं प्रति सम्बोधनम् । पुंसो जीवस्यात्मतया आत्मीयतया सर्वभावेन सर्वत्र कारणगृहादिष्व-विद्यमानाभिमाना द्वैलक्षिण्येनेति यावत् । विषयस्वीकृतिमपूर्वदेहस्वीकारं तत्र विशेषाभिमानं जन्म प्राहुः । तुशब्दो विशेषार्थः । तद्दृष्टान्तेन दर्शयति ॥ यथेति ॥ स्वप्नमनोरथोऽपि जाग्रदिदं बाह्यमिति यथा अविद्यमानः प्रतीयते तथा स्वस्वातन्त्र्याविषयेऽपि देहादाविदं मे मदीयमिति स्वीकृतिर्जायत इत्यर्थः। स्वप्ने मनोरथे इति पाठे तु स्वप्ने मनोरथे वा जायमानो जाग्रत्प्रत्ययो यथा अविद्यमानः प्रतीयते तथेत्यर्थः ॥ ३९ ॥

स्वप्नं मनोरथं चार्थं प्राक्तनं न स्मरत्यसौ ।

तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति ॥ ४० ॥

पदरत्नावली

अत्यन्तविस्मृतिं सोदाहरणं स्पष्टयति स्वप्नमिति । यथा स्वप्नादेरुत्थितः स्वप्नं स्वप्नदृष्टं मनोरथं च प्राक्तनमर्थं तद्विषयं चासौ स्वप्नादिदृङ् न स्मरति तथा तत्र देहान्तराभिमाने सति पूर्वं पुरातनम् आत्मानं देहं न स्मरति । इवशब्दः केषाञ्चिन्महात्मनां स्मरणं सम्भवतीत्यर्थे । अस्मरणे कारणमाह– अपूर्वमिति । चशब्द एवार्थे । अपूर्वं पश्चात्तनं नूतनं देहमेवानुपश्यति यत् तत इति । यद्वा विषयाभिनिवेशमेव स्पष्टयति स्वप्नमिति । प्राक्तनं स्वप्नं मनोरथं च यथा न स्मरति असौ तथा प्राक्तनजन्मानुभूतमर्थं विषयं च न स्मरति । किं तत्र निमित्तमत्राह– तत्रेति । तत्र देहान्तरप्राप्तौ पूर्वमनादिमेवात्मानम् अपूर्वं सादिमिवानुपश्यति इति यस्मात् तस्माद् विषयाभिनिवेशे एव कारणमित्यर्थः ॥ ४० ॥

श्रीनिवासतीर्थीया

इमं दृष्टान्तं विशदयति ॥ स्वप्नमिति ॥ यथाऽसौ जाग्रदव-स्थापन्नो जीवः प्राक्तनं पूर्वदृष्टं स्वाप्नं स्वप्नसम्बन्धिनं मनोरथसम्बन्धिनं चार्थं न स्मरति । तदर्थयोरविद्यमानत्वादित्यर्थः । कुत इत्यतस्तदेवोपपादयति ॥ तत्रेति । तत्र स्वप्ने यतोऽ-पूर्वं चापूर्वमेव वस्तुतः पूर्वं जाग्रत्यविद्यमानमेव स्वस्य प्राप्तगजादिदेहं पूर्वमिव पूर्वानुभूत-मेवायं सर्वदा मम विद्यमान एवायं देह इति भ्रान्त्या पश्यति । अत एवं जीवस्वरूपे वस्तुतोऽविद्यमान एव देहसम्बन्धोऽभिमानप्रयुक्तभ्रान्त्या प्रतीयत इत्याशयः ॥ ४० ॥

प्रमेयचन्द्रिका

मरणे पूर्वदेहात्यन्तविस्मृतिरपि सदृष्टान्तमुच्यते ॥ स्वप्नमिति ॥ असौ स्वप्नादेरुत्थितः यथा प्राक्तनं स्वप्नं मनोरथं वाऽर्थं स्वप्ने मनोरथे वाऽनुभूतं पदार्थं मदीयमिति न स्मरति । तत्राभिमानं न करोतीति यावत् । तत्रेव पूर्वमात्मानं पूर्वदेहं न स्मरति । कुतः यतो पूर्वं चापूर्वमेष्यद्देहमेवानुपश्यतीत्यर्थः । आत्मेति परमात्मा च विरिञ्च- श्चाभिधीयते । वायुर्मनश्च देहश्चेति प्रागुदाहृताभिधानादत्रात्मशब्दो देहपर इति ज्ञायते ॥४०॥

ईदृशायास विज्ञाय त्रैविध्यं भाति वस्तुनि ।

बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४१ ॥

तात्पर्यम्

ईदृशं वर्तमानम् आय एष्यत्सो ऽतीत इति त्रैविध्यं भाति । विज्ञाय वस्तुनि विज्ञाते सति । दीर्घलोपो ऽत्रात (यत्रात) इतिवत् । ‘क्षैप्रे दीर्घलोप’ इति सूत्रात् । अयमेवात्मानात्मनोर्विशेषहेतुः । यथा प्रायोऽसज्जनोऽसज्जनमेव जनयतीति पितृज्ञानात्पुत्रदौरात्म्यं ज्ञायते । एवमनित्यत्वादनात्मत्वं देहादेरित्यर्थः ॥ ४१ ॥

पदरत्नावली

अत्र जीवस्यानादिनित्यत्वं देहस्य सादित्वेनानित्यत्वं तत्राभिमानानभिमानलक्षणे जन्ममृती इत्युक्तम् । तत्र जीवस्यानादिनित्यत्वे युक्तमुक्तम् । तदेव कथमत्राह– ईदृशायास इति । वस्तुनि जीवतत्त्वे विज्ञाय विचारेण ज्ञाते सति जीवस्यानादिनित्यत्वं ज्ञायते । तथा हि । ईदृश इदानीन्तनकालवर्त्येव, आयास्यतीत्याय एष्यत्कालवर्ती चायमेव, सो ऽतीतकालसम्बन्ध इति त्रैविध्यं जीवस्य त्रिकालवर्तित्वं भाति । तदेवानादिनित्यत्वं देहस्य तदभावादतो युक्तमुक्तम् । ईदृशायास इत्यत्र यास इत्यत्र दीर्घलोपो वक्तव्यः, क्षैप्रे दीर्घलोप इति (महाव्याकरणसूत्रात्) । यज्ज्ञानमन्तरेण पुरुषार्थो न स्यात् तत्र क्षिप्रं प्रवर्तनीयमिति ज्ञापनाय प्रयुक्तो दीर्घो लुप्यते इति सूत्रात् । अत्र ते इति प्रयोगाच्च ।

अनित्यशरीरसम्बन्धेन जीवस्याप्यनित्यत्वमापद्यत इति तथाह– बहिरिति । बहिर् नारिकेलक-पालवद् बहिष्ठो देहो जीवाद् भिन्नो नारिकेलवदन्तः स्वान्तर्वर्तिनो जीवस्य भिदाया अनित्यत्वादि-विशेषस्य आपादको न भवति । भेदो विशेषो दलनमित्यभिधानात् । जीवस्यानादिनित्यत्वे परमात्मना अभेदः प्राप्त इत्यतो वाह– बहिरिति । बहिरन्तर्वर्तिनो हरेर् भिदाया हेतवो दुःखादयो यस्य स बहिरन्तर्भिदाहेतुः । अस्तु हरेर्भेदो जीवस्य देहाद् भेदः कथमित्यतो वाह– बहिरिति । अयमेव बहिरन्तस्थत्वधर्म आत्मानात्मनोर्वैलक्षण्ये भिदाहेतुर्विशेषहेतुरित्यर्थः । देहस्यानात्मत्वं सोदाहरणमाह– जन इति । यथा असज्जनोऽसज्जनकृत् प्रायोऽसज्जनोऽसज्जनमेव पुत्रं जनयतीति पितृज्ञानात् पुत्रदौरात्म्यं ज्ञायते एवमनित्यो देहोऽनित्यं देहं जनयतीति । अतो देहस्यानित्यत्वाज् जीवस्य त्रैकालिकवृत्तित्वेन नित्यत्वाद् देहस्यानात्मत्वमत एव जीवाद् भिन्नत्वं च सिद्धम् । असाधुजन एव जीवपरयोरभेदं वक्तीति सोदाहरणमाह– जन इति । यथा असाधुजन एवासाधुजनं करोति न साधुः, एवमासुरो जनो सन्तं भेदमसन्तं करोति । अतोऽसाधुजनपरम्परादौरात्म्यं साधुजनवाक्या-ज्ज्ञायत इत्यर्थः ॥ ४१ ॥

श्रीनिवासतीर्थीया

नन्वेवं देहस्यैव जीवस्वरूपेऽपि जननादेः सद्भावे को विशेषो देहान्तरस्येति चेन्न । जीवस्वरूपस्य नित्यत्वात् । तत्कुतः सिद्धमिति चेत्पूर्वोत्तरकालेषु स्वसत्तावगाहिप्रत्यभिज्ञाबलादित्याह ॥ ईदृशेति । इमं श्लोकं दुर्गमार्थत्वाद्व्याचष्टे ॥ ईदृश इति । वर्तमानो वर्तमानकालवर्त्येष्यो भविष्यत्कालसम्बन्धीत्यर्थः । ईदृशायास इत्यनन्तरं मूले इतिशब्दोऽध्याहार्य इत्याशयेनान्वयं दर्शयति ॥ इतीति । त्रैविध्यं त्रिविधकाल-वर्तित्वम् । विज्ञाय वस्तुनीत्यस्यार्थमाह ॥ विज्ञायेति । नन्वीदृशश्चासावायश्चासौ स चेतीदृशायस इति भवेत् । ईदृशायास इति दीर्घः कथमत्राह ॥ दीर्घेति । संहिताकाले श्रूयमाणस्य दीर्घस्य पदकाले लोप इत्यर्थः । अत्र वैदिकं दृष्टान्तमाह ॥ यत्रात इति । यत्र ते आहुरिति पदकाले दीर्घस्याश्रवणेऽपि संहिताकाले यत्रात आहुः परमं जनित्रमिति दीर्घः श्रूयत इत्यर्थः । अत्रार्थे नियामकं महाव्याकरणसूत्रं पठति ॥ क्षैप्र इति । स्वर-विशेषस्य संज्ञा क्षैप्रे स्वरे संहिताकाले प्रयुज्यमानदीर्घस्य पदकाले लोप इत्यर्थः । अन्ये तु क्षैप्रेयज्ञानमन्तरेण पुरुषार्थो न स्यात्तत्र क्षिप्रं शीघ्रं प्रवर्तनीयमिति ज्ञापनार्थं प्रयुक्तो दीर्घः पदकाले लुप्यत इति सूत्रार्थः । तथा च जीवस्य त्रिकालवर्तित्वमवश्यं ज्ञातव्यम् । तमन्तरेण पुरुषार्थो नेति ज्ञापयितुं पदकाले दीर्घलोप इत्याशय इत्याहुः ।

बहिरन्तर्भिदाहेतुरित्यस्यार्थमाह ॥ अयमेवेति । जीवस्य त्रिकालावस्थायित्वेन नित्यत्वं देहस्य तदभावश्चेत्ययमेवार्थः । भिद्यत इति भिदा विशेष इत्याशयेन विशेषेत्युक्तम् । बहिष्ठ-त्वान्तस्थत्वरूपविशेषस्य हेतुरित्यर्थः । कयोरित्यतो मूले विशेषमभिप्रेत्याह ॥ आत्मा-नात्मनोरिति । जीवदेहयोरित्यर्थः । यथा मणिष्वन्तः सूत्रम् । एवं जीवोऽनेकदेहप्राप्तावपि सदा तदन्तरेवास्ति नित्यत्वात् । देहस्तु स्वरूपाद्बहिरेवास्ति । अनित्यत्वादित्याशयः । जनो सज्जनकृद्यथेति दृष्टान्तं विवृण्वन्दार्ष्टान्तिकं च दर्शयति ॥ यथेति । हिरण्यकशिपु-प्रल्हादादौ व्यभिचारवारणाय प्राय इत्युक्तम् । अनित्यत्वात् । उपलक्षणमेतत् । अनात्म-त्वाच्चेति ग्राह्यम् । जडत्वादित्यर्थः । लिङ्गदेहस्येति शेषः । अनात्मत्वमनित्यत्वं च ग्राह्यम् । देहादेस्तद्विकारिस्थूलदेहादेरित्यर्थः ॥

तथा चायं श्लोकार्थः ॥ ईदृशायासेत्यविभक्तिको निर्देशो विसर्गलोपो वा । वस्तुनि जीवितत्वे विज्ञाय सम्यग्विज्ञाते सति ईदृशायास इति त्रैविध्यं भाति । य ईदृशो वर्तमान-कालवर्ती स एवायासो भविष्यदतीतकालवर्ती चेति त्रिकालवर्तित्वरूपं नित्यत्वं प्रत्यभिज्ञया निश्चीयत इत्यर्थः । अनेनोद्धवकृततृतीयप्रश्नस्योत्तरमपि जातमित्याह ॥ बहिरिति । भाव-प्रधानोऽयम् अनात्मात्मनोर्नारिकेलकपालतदन्तर्गतफलवद्बहिष्ठत्वान्तस्थत्वाख्यभिदायां विशेष- हेतुरयमेव नित्यत्वादिरेव । अनेकदेहप्राप्तावप्यन्तरेवास्ति नित्यत्वात् । देहस्य च स्वरूपानु-बन्धित्वाभावेनानित्वाज्जीवाद्बहिरेवास्तीति बहिरंतस्थत्वरूपविशेषो युज्यत इत्याशयः । ननु देहस्यानात्मत्वं नाम जडत्वमनित्यत्वं च कुत इति चेदुच्यते । अस्य देहस्य लिङ्गशरीरविकारित्वेन तत्कार्यतया तद्यादृशं तादृशमेवेदं तच्च जडमनित्यत्वं चातोऽयं देहोऽपि तादृश एवेति ज्ञायते । तथा च प्रयोगः । अयं देहोऽनात्माऽनित्यश्च तादृशकारण-जन्यत्वाद्यद्यादृशकारणजन्यं तत्तादृशमिति । तत्र दृष्टान्त उच्यते ॥ जन इति । जनोऽ-सज्जनो यथा सज्जनकृत् । तथा च तद्दौरात्म्यात्पुत्रदौरात्म्यं ज्ञायते एवमित्यर्थः ॥ ४१ ॥

दुर्घटभावदीपिका

वस्तुनि वस्तु जीवलक्षणवस्तु विज्ञाय विचार्य स्थितस्य जीवलक्षण-वस्तुनि । विचारिते सतीति यावत् । अयं जीव ईदृशायास इदृशो वर्तमानकालसम्बन्धवान् । आय एष्यत्कालसम्बन्धवान् । सोऽतीतकालसम्बन्धवान् इत्येवं प्रकारेण वस्तु जीवलक्षणवस्तुनि त्रैविध्यं त्रिप्रकारोपेतत्वं भातीति । एतेन वस्तु विज्ञायेति वक्तव्यम् । वस्तुनि विज्ञायेति कथनमनुपपन्नमिति दूषणं परास्तम् । वस्तुनीत्यस्यावृत्तिमङ्गीकृत्य श्रूयमाणवस्तुनीत्यस्य त्रैविध्यं भातीत्यनेनान्वयः । आवृत्तिलब्धस्य वस्तुनीत्यर्थवशाद्वस्त्विति विपरिणाम इति चाङ्गीकृत्य वस्तु विज्ञायेत्यन्वयस्योक्त-त्वात् । एतेनैव विज्ञायेत्येतदनन्वितमिति दूषणं परिहृतम् । स्थितस्येत्यध्याहारेणान्वयस्योक्तत्वात् । एतेनैवेदृशायास इति विज्ञायेति वक्तव्यमीदृशायासो विज्ञायेति कथनमयुक्तमिति दूषणस्यानवकाशः । इतिशब्दस्याध्याहार इत्यभ्युपगमात् । नन्वायशब्दस्य स इत्यनेन समासे आयस इति स्यात् । आयास इति कथम् । न चाय इत्यत्र छान्दसे दीर्घे आयास इति जातमिति वाच्यम् । पदेऽपि दीर्घश्रवणप्रसङ्गादिति चेन्न । संहितायां दीर्घः पदे दीर्घलोपश्च छान्दस इत्यभ्युपगमात् ॥ ता.अर्थः ॥ ईदृशशब्दमनूद्य व्याचष्टे ॥ ईदृशमिति ॥ नपुंसकलिङ्गं छान्दसम् आयः स इति पुल्लिङ्गप्रयोगात् । वस्तुनीत्यस्यावृत्तिमङ्गीकृत्यावृत्तिलब्धस्य वस्तुनीत्यस्यार्थवशाद्वस्त्विति विपरिणामं स्थितस्येत्यस्य शेषं चाङ्गीकृत्य वस्तु विज्ञाय स्थितस्येत्यनूद्य व्याचष्टे ॥ विज्ञायेति । विज्ञायेत्यतः पूर्वं वस्त्वित्यस्य शेषो विज्ञायेत्यतः परं स्थितस्येति शेषः । तेन वस्तु विज्ञाय वस्तुस्थितस्येत्यनुवादो लब्धो भवति । विज्ञाय चेति चकारः प्रक्षिप्तः । मूले चकाराभावेनानुवादायोगात् । वस्तु विज्ञाते विचारिते सतीत्यनेन वस्तु विज्ञाय स्थितेत्यस्य तात्पर्यार्थ उक्तः । ईदृशायासेत्यत्र संहितायां दीर्घः पदे तल्लोपश् छान्दस इति शेषः । अत्र दृष्टान्तमाह ॥ अत्रात इतिवदिति । छन्दसि संहितायां दीर्घ पदे दीर्घलोपो भवतीत्यस्मिन्नर्थे सूत्रं पठति ॥ क्षैप्र इति । क्षिप्रशब्दः क्षिप्रसाध्यवाची । क्षैप्रशब्दस्य भावार्थकाण् प्रत्ययान्तत्वात्क्षैप्रशब्दः क्षिप्रशब्दत्ववाची । प्रतिपाद्यार्थज्ञानफलस्येत्यादीनां शेषः । ततश्च क्षैप्रे दीर्घलोप इति सूत्रेण प्रतिपाद्यार्थज्ञानफलस्य क्षिप्रसाध्यत्वे वक्तव्ये छन्दसि संहितायां दीर्घः पदे दीर्घलोपश्च भवतीत्यर्थो लभ्यत इति । एतेन वस्तुविज्ञाय स्थितस्येत्यनुवादः कर्तव्यः । विज्ञायेत्यनुवादोऽनुपपन्न इति दूषणं निरस्तम् । वस्त्वित्यादेरध्याहार इत्युक्तत्वात् । एतेनैव दीर्घस्तल्लोपश्चेति वक्तव्यं दीर्घलोप इति कथनमयुक्तमिति दूषणं परिहृतम् । दीर्घलोप इत्यस्य दीर्घस्य लोप इत्यर्थ इत्यनङ्गीकारात् ॥ ४१ ॥

प्रमेयचन्द्रिका

ननु जीवस्य देहे अभिमानोत्पत्तिविनाशनिमित्तकावेव जननमरण इति कुतः। जीवस्वरूपस्यैव तौ किं न स्यातामित्याशङ्कानिरासाय प्रवृत्तमीदृशायेत्यर्धं दुर्गमार्थत्वाद्व्याचष्टे ॥ ईदृश इति ॥ अत्रेदृश इत्यनुवादस्तस्यार्थो वर्तमान इति । एवमायः स इत्यनुवाद एष्यदतीत इति तयोरर्थकथनम् । एतेन ईदृशश्चासावायश्चासौ स चेति विग्रह उक्तो भवति । इतिशब्दो मूलेऽध्याहार्य इत्याशयेनान्वयो दर्शित इति त्रैविध्यं भातीति । विज्ञायेत्यस्यान्वयाभानादन्वयप्रदर्शनपूर्वकं तदर्थमाह ॥ विज्ञाय वस्तुनि ज्ञाते सतीति ॥ अत्र वस्तुनीति तन्त्रेण पूर्वोत्तरयोः सम्बध्यते । ततश्च विज्ञाय वस्तुनीति मूलानुवादः । वस्तुनि विज्ञाते सतीति तद्व्याख्या । अत्र मूले विज्ञायेत्यतः स्थित इत्याशयेन तदर्थकथनं वस्तुनि विज्ञाते सतीति । यद्वा विज्ञायेति ल्यबन्तस्य पूर्वकालवाचित्वात्किमपेक्षया पूर्वकालत्वमित्यतो विज्ञाय वस्तुनीति पदद्वयमनूद्य क्रमेण व्याख्यानम् ॥ विज्ञाते सतीति ॥ वस निवास इत्यतो वस्तुशब्दो निष्पन्नः । तथा च वस्तुनीत्यस्य सतीत्यर्थः । सत्ता च ज्ञानोत्तरकालीना विवक्षिता । अतो विज्ञाय विज्ञाते सतीत्यर्थो निष्पन्न इति भावः ॥

ननु ईदृश्चासावायश्चासौ स चेति कर्मधारये ईदृशायस इति भवेत् । आयास इति दीर्घः कथमित्यत आह ॥ दीर्घलोप इति ॥ संहिताकाले दीर्घः पदकाले दीर्घस्य लोप इत्यर्थः ।

अत्रोदाहरणमाह ॥ यत्रा त इतिवदिति ॥ उतेव मे वरुणश्छन्त्स्यर्वन्यत्रात आहुः परमं जनित्रमिति (ऋ.१.१६३.४) मन्त्रे यत्रा त इति दीर्घे सत्यपि यत्र ते आहुरिति पदकाले दीर्घस्य लोपो दृश्यते । तद्वदत्रापीत्यर्थः । अर्वन् अर्वणि अश्वे अधिकरणसप्तमी-बलात्स्थिते इति लभ्यते । अश्वारूढेति यावत् । इन्द्रियाणि हयानाहुरिति इन्द्रियसमुदाये स्थितेति वा । मा माम् उतेव पुनः पुनश् छंत्स्याच्छादयसि ॥ ज्ञानतिरोधानं करोषि ॥ तथा चेह अर्वन्नश्वे इन्द्रियगणेवा स्थितस् त्वं वरुण उतेव पुनः पुनः मामां छन्त्सि आच्छादयसि ॥ ज्ञानतिरोधानं करोषि ॥ तथापि ते पूर्वं प्रकृता ज्ञानिनः ॥ यत्र शरीरे परमं सर्वोत्तमं त्वां जनित्रं ज्ञानजनितारमाहुरिति मन्त्रार्थः ॥

दीर्घलोपप्रापकं महाव्याकरणसूत्रं पठति ॥ क्षैप्र इति ॥ क्षैप्रे क्षिप्रत्वे गम्यमाने दीर्घो भवतीति सूत्रार्थः । प्रकृते विज्ञायेत्युक्तं ज्ञानं क्षिप्रं संपाद्यमिति । पदकाले दीर्घलोपः । श्रुतौ तु क्षिप्रज्ञानजनकत्वज्ञापनायेति ज्ञेयम् ।

तदयं मूलार्थः ॥ वस्तुनि जीवस्वरूपे विज्ञाय स्थिते सति विज्ञाते सतीति यावत् । जीवस्वरूपे विज्ञाय वस्तुनि विज्ञाते सतीति वाऽर्थः । प्रत्युत्पन्नस्य शिशोस्तन्यादिप्रवृत्या पारत्रिकफलाय साधनाचरणप्रवृत्या च जीवस्वरूपं जननात्पूर्वं मृत्यनन्तरं सदिति तस्मि-न्विज्ञाते सति ईदृशो वर्तमान आय आयास्यत्येष्यत्कालवर्त्तीति सो ऽतीतकालवर्त्तीति च त्रैविध्यं त्रिकालवर्तित्वं भाति प्रतीयते । ततश्च त्रिकालवर्त्तित्वेन जीवस्वरूपस्य नित्यत्वा-द्देहोपाधिक एव जननमरण इति ॥

ननु देहस्यानित्यत्वाज्जीवस्यापि तदभिन्नत्वेनानित्यताया एव युक्तत्वान्नित्यत्वमयुक्त-मित्यतो देहात्मेनोर्वैलक्षण्यमुच्यते ॥ बहिरन्तरित्यर्धेन ॥ अत्र बहिरन्तःशब्दयोर् विवक्षितार्थाप्रतीतेर्हेतुरित्यस्य तात्पर्याभानाद्वाक्यस्य पर्यवसानादर्शनाच्च दृष्टान्तपरद्वितीयपादे कुत्र दृष्टान्त इत्यप्रतीतेश्च व्याचष्टे ॥ अयमेवेति ॥ मूले अयमेवेत्यध्याहारोऽनेन सूचितः । अन्तरिति देहान्तस्थ आत्मोच्यते । बहिरित्यनात्मा देहः । आत्मनः प्राधान्यात्क्रमो-ल्लङ्घनम् । मूले देहस्य प्रत्यक्षतः प्रतीतेस्तदादित्वेन ग्रहणम् । भिद्यतेऽनेनेति भिदा विशेष इति वैलक्षण्यमुच्यते । भिदायां हेतुरिति विग्रहमभिप्रेत्योक्तम् ॥ विशेषहेतुरिति ॥ स च हेतुः क इत्यतोऽयमेवेत्याध्याहारो दर्शितः । हेतुर्ज्ञापकः । जनपदेनासज्जन उच्यते । असज्जनकृदित्यस्यार्थो ऽसज्जनमेव जनयतीति । असज्जनस्य हिरण्यकस्य प्रह्लाद-जनकतादर्शनात्प्राय इत्युक्तम् ।

एतस्य प्रकृतार्थे यथा दृष्टान्तता भवति तथोपपादयति ॥ पितृदौरात्म्यादिति ॥ अत्र यथेत्युपस्कर्तव्यम् । तेन एवमित्यस्य सम्बन्धः । तथा चायं मूलार्थः । अयमेवेति शेषः । अयं पूर्वमुक्तो जीवस्य त्रिकालसम्बन्धित्वाख्यः नित्यदेत्यत्र वक्ष्यमाणदेहस्यानित्यत्वाख्य-श्चेति विशेष एव बहिरन्तस्थितयोर्देहजीवयोर्भिदायां वैलक्षण्यहेतुर्ज्ञापकः । तथा नित्यचिद्रूप-त्वादात्मत्वं जीवस्य अनित्यत्वादनात्मत्वं देहस्येत्येवं विलक्षणत्वमित्यर्थः । अत्रापि नित्यत्त्वे नात्मत्वमित्येव दृष्टान्तेनोपपादयितुमुक्तम् ॥ जन इति ॥ यथा प्रायो दुरात्मा असज्जनः पिता असज्जनमेव जनयतीति पितुर्दौरात्म्यात्पुत्रदौरात्म्यं ज्ञायते । एवमनित्य-त्वादनात्मा पितृदेहो नियमेनानात्मानं पुत्रदेहं जनयतीति देहादेरनात्मत्वं ज्ञायत इति

॥ ४१ ॥

नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च ।

कालेनालक्ष्यवेगेन सूक्षत्वात् तन्न दृश्यते ॥ ४२ ॥

पदरत्नावली

देहस्यानित्यत्वप्राकरमाह– नित्यदेति । नित्यदा प्रतिक्षणं भूतानि जीवाधिष्ठितदेहा अंशतो भवन्त्युपचितानि भवन्ति, न भवन्ति च अपचितानि भवन्ति च । (तर्हि) किमिति न दृश्यत इति तत्राह– कालेनेति । उपचयापचययोः सूक्षत्वाद् लिङ्गवेद्यात्वाच्चक्षुषा तन्न दृश्यते ॥ ४२ ॥

श्रीनिवासतीर्थीया

एवं देहस्यादावुत्पत्तिरायुःसमाप्त्यनन्तरं मरणमिति दीर्घकाला-वच्छेदेन जननमरणमुपपाद्य कैमुत्येनापि प्रतिक्षणमप्युत्पत्तिविनाशौ स्त इत्याह ॥ नित्य-देति । हे अङ्ग उद्धव । भूतानि तत्कार्याणि देहादिजडानि नित्यदा प्रतिक्षणं भवन्त्यु-त्पद्यन्ते । न भवन्ति च । केन कारणेनेत्यत आह ॥ अलक्ष्यवेगेनाज्ञातगतिमता क्षणादि-कालसम्बन्धरूपकारणेनेति । ननु प्रतिक्षणोत्पत्त्यादिकमनुपलम्भबाधितमित्यतोऽनुपलम्भो नाभावप्रत्युक्तोऽपि तु सूक्ष्मताप्रयुक्त इत्याह ॥ सूक्ष्मत्वादिति । तद्भवनादिकं न दृश्यते चक्षुषा ॥ ४२ ॥

प्रमेयचन्द्रिका

देहस्यानात्मत्वसाधकस्यानित्यत्वोपपादनं क्रियते ॥ नित्यदेत्यादि श्लोकद्वयेन ॥ नित्यदा प्रतिक्षणम् । भूतानि जीवाधिष्ठितशरीराणि अंशत उपचितानि भवन्ति न भवन्ति । तत्र निमित्तकारणमुच्यते ॥ कालेनेति ॥ हरिणा तत्प्रेरितेनापर्यवसितानन्तांशो-पेतत्वादलक्ष्यवेगेन क्षणादिरूपकालेन प्रतिक्षणं भवत उपचयादेः सूक्ष्मत्वाद् उपचयापचयरूप-विकारवत्वं न दृश्यते ॥ ४२ ॥

यथाऽर्चिषां स्रोतसां च फलानां वा वनस्पतेः ।

तथैव सर्वभूतानां वयोऽवस्था च तत्कृता ॥ ४३ ॥

पदरत्नावली

तदेव सोदाहरणं वक्ति यथेति । यथा अर्चिरादीनां सेयं ज्वालेत्यादिप्रतीतिः कालकृता तथा सर्वभूतानां सर्वप्राणिदेहानां वयोऽवस्था बाल्यकौमाराद्यवस्था तेन कालेन कृता

॥ ४३ ॥

श्रीनिवासतीर्थीया

तत्र दृष्टान्तमाह ॥ यथेति । अर्चिषां दीपज्वालानां स्रोतसां प्रवाहाणां वनस्पतेर्वृक्षस्य फलानां प्रतिक्षणमुत्पत्त्यादयः कालेन यथा कृतास्तथैव सर्वजड-भावानां पदार्थानां वयोऽवस्था वयोनिमित्तकबाल्यकौमाराद्यवस्थाः कालेन कृता इत्यर्थः

॥ ४३ ॥

प्रमेयचन्द्रिका

तदेव सोदाहरणमुच्यते ॥ यथेति ॥ यथार्चिरादीनां प्रतिक्षण-मुपचितत्वेन परिणामभेदाद्यवस्था कालकृता तथा सर्वप्राणिदेहानां वयोनिमित्तकबाल्य-कौमाराद्यवस्था तेन कालेन कृतेत्यर्थः ॥ ४३ ॥

सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तदिदं जलम् ।

सोऽयं पुमानिति नृणां मृषागीर्भिर्मृषायुषाम् ॥ ४४ ॥

तात्पर्यम्

सोऽयमेवेति मृषा । ‘स चायमिति तु ज्ञानं न मृषाऽयं स एव तु । इति ज्ञानं मृषैव स्याद्भेदाभेदौ यतस्तनोः । अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् । दीपदेहनदीवारिफलादीनां पृथक् स्वतः । भेदाभेदौ परिज्ञेयौ कार्यकारणयोरपि । गुणस्य गुणिनश्चैव जातिव्यक्त्योस्तथैव च । तथाऽवयव्यवयवयोः क्रियायास्तद्वतस्तथा । एवं जडेषु नियमश्चिद्रूपेष्वभिदैव त्वि’ति च ॥ ‘ये धर्मा नियमेनैव धर्मिणो न वियोगिनः । जडस्था अप्यभिन्नास्ते भिन्नाभिन्ना वियोगिन’ इति च ॥ ४४ ॥

पदरत्नावली

नन्वस्तु कालकृतत्वम् । अत्र विवेकः कथमित्यत उक्तमेव विवृणोति सोयमिति । यथा प्रतिक्षणमग्निज्वालादीनामागमविगमभावात् सोयं दीप इति प्रत्यभिज्ञा न मृषा, इति नञोऽध्याहारः, स एवायं दीप इत्यादिप्रत्यभिज्ञा मृषा तथा मृषागीर्भिर्मृषायुषां पुंसां केषाञ्चिद्विशेषाणामागमात् केषाञ्चिदपगमात् स एवायं पुमानिति देहविषयो व्यवहारो मृषा विवेकिनां स चायं देह इत्यादिको न मृषा । ‘‘स चायमिति तु ज्ञानं न मृषाऽयं स एव तु । इति ज्ञानं मृषैव स्याद् भेदाभेदौ यतस्तनोः’’ इत्यादेर्विशेषविवेको युज्यते ॥ ४४ ॥

श्रीनिवासतीर्थीया

उक्तमेव दृष्टान्तं विवृणोति ॥ सोयऽमिति । नन्वत्र सोऽय-मिति प्रत्यभिज्ञाया भ्रान्तित्वमुच्यते तदनुपपन्नम् । तथात्वे प्रतिक्षणमुत्पत्तिविनाशाङ्गीकारेण बौद्धमतापत्त्या तन्निरासकयुक्त्यभावादित्यतो मूलं योजयति ॥ सोऽयमेवेति । तथा च प्रत्यभिज्ञा द्विविधा । सावधारणा निरवधारणा चेति । तत्राद्या भ्रमरूपा । अत्यन्ताभेद-विषयत्वात् । जडे च भेदाभेदसद्भावात् । द्वितीया तु भेदाभेदविरोधित्वात्प्रमैवेति ॥ तथा चायमर्थः ॥ नञोऽध्याहारोऽत्र कार्यः । अर्चिषामनेकदीपज्वालानां समूहे सोऽयं दीप इति गीर्व्यवहारो धीः प्रत्यभिज्ञा च न मृषा प्रत्युत स एवायमिति प्रत्यभिज्ञैव मृषा यथा वा स्रोतसां प्रवाहाणां समूहे तदिदं जलमिति धीः प्रत्यभिज्ञा च न मृषा प्रत्युत तदेवेदं जलमिति सावधारणैव मृषा । एवं मृषाऽऽयुषां सोऽयमिति निरवधारणप्रत्यभिज्ञामङ्गीकृत्य व्यवहर्तृत्वाद्वृथाऽऽयुषां नृणां सोऽयमेव पुमान्देह इति गीर्भिः प्रत्यभिज्ञा च सा मृषा च सोऽयमिति निरवधारणा सा न मृषेत्यर्थः । सावधारणनिरवधारणप्रत्यभिज्ञयोर्भ्रमत्वाभ्रमत्वे कुत इत्यतः प्रमाणेनैव तद्विवृणोति ॥ स चायमिति । तत्र हेतुर्भेदाभेदाविति । तनोर्देहस्य निरवधारणप्रत्यभिज्ञा भेदाभेदविरोधिनी सावधारणा च तद्विरोधिनी यत इत्यर्थः । ननु तर्हि जीवोऽपि स एवायं जीव इति सावधारणप्रत्यभिज्ञा भ्रमः किं नेत्याह ॥ अभेद एवेति । न तु भेदो येन भ्रान्तत्वं स्यादिति भावः । प्रत्येकशोऽवयवैः पृथगेकस्मिन् जीवे पृथक् प्रत्येकं स्वतः स्वरूपतः । भेदाभेदस्थलान्याह ॥ कार्येति । निमित्तं कारणं विनेति द्रष्टव्यम् । चिद्रूपेषु जीवेषु । जडे भेदाभेदावित्यस्यापवादमाह ॥ य इति । तस्मिन्सत्यप्य-सत्वरूपखण्डितत्वशून्यादित्यर्थः । यथा गोः सास्नादयोऽवियोगिनस्तस्मिन्सत्यप्यसत्वरूप-खण्डितत्ववन्तो ये क्रियादयस्ते भिन्नाभिन्नाः ॥ ४४ ॥

दुर्घटभावदीपिका

मृषागीर्भिर्व्यवहारागमनादिभिः । भगवत्प्रीत्यनापादकव्यवहारादिभिरिति यावत् । मृषायुषां व्यर्थायुषां नृणां मनुष्याणां जायमाना सोऽयमेव पुमानिति बुद्धिर्मृषा भ्रम इति । एतेन मृषेत्येतत्किं गीर्भिरित्यनेन समस्तं किं वा व्यस्तम् । नाद्यः । सोऽयमेव पुमानिति बुद्धे-र्मृषात्वस्यालाभात् । न द्वितीयः । भगवद्विषयकव्यवहारादीनामपि मृषायुःसम्पादकत्वमित्यर्थस्य प्राप्तेरिति दूषणं परिहृतम् । मृषेत्यस्यावृत्तिमङ्गीकृत्यैकं समस्तमेकं व्यस्तमित्यभ्युपगमात् । एतेनैव मृषागीर्भिर्मृषायुषामित्येतद्व्यर्थमिति दूषणं पराकृतम् । भगवद्विमुखानामेव सोऽयमेव पुमानिति भ्रमो भगवत्सेवकानां सोऽयमेव पुमानिति भ्रमो भवतीति वक्तुं मृषागीर्भिर्मृषायुषामित्युक्तमित्यङ्गीकारात् । एतेनैव व्यर्थव्यवहाराणां यथा व्यर्थायुःसम्पादकत्वमेवं व्यर्थगमनादीनामपि व्यर्थायुःसम्पादकत्वात् । व्यर्थगमनादिकमपि ग्राह्यमिति चोद्यस्यानवकाशः । गीर्भिरित्यस्योपलक्षकत्वमङ्गीकृत्य व्यर्थगमनादीना-मपि ग्रहणात् ॥ ४४ ॥

प्रमेयचन्द्रिका

नन्वेवं प्रतिक्षणमुपचयापचयाङ्गीकारे उपचयादिमद्देहस्यान्योन्यत्वा-त्सोऽयं पुमानिति प्रत्यभिज्ञा कथमित्यत उच्यते ॥ सोऽयमिति ॥ अत्र दीपादिविषयक-प्रत्यभिज्ञावत्सोऽयं पुमानित्यस्यापि भ्रान्तित्वमुच्यत इति भाति । तदयुक्तम् । अनुस्मृतेश्चेति प्रत्यभिज्ञाप्रामाण्योक्तेः । अन्यथा क्षणिकवादनिरासासम्भवादित्यत आह ॥ सोऽयमेवेति ॥ द्विविधा हि प्रत्यभिज्ञा । तत्राद्या स एवाहं, स एवायं गकार इत्याद्यवधारणासहिता । द्वितीया त्ववधारणं विना सोऽयं दीप इत्यादिरूपा । तत्र देहादौ सावधारणा चेन्मृषा । तत्र शुद्धस्य देहस्य बाल्ययौवनाद्यवस्थापन्नस्यास्मदादिमतस्तद्रहितस्येत्येवमादिरूपस्य विशिष्टस्य च भेदाभेदसद्भावेन स एवायं पुमानिति प्रत्यभिज्ञाया अप्रामाण्यादिति भावः ।

उक्तार्थे प्रमाणमाह ॥ स चायमिति ॥ शुद्धविवक्षया स इति चशब्द उपचित-वैशिष्ट्यविवक्षयाऽन्योपीत्येवं स चायमिति ज्ञानं तु न मृषा । स एवायमित्यवधारणसहितं ज्ञानं तु मृषैव स्यात् । कुत इत्यत उक्तम् ॥ भेदाभेदाविति ॥ तयोरुपचितरूपविशिष्टस्य शुद्धस्येत्येतयोरित्यर्थः । स एवायं पुमानिति प्रत्यभिज्ञाया मृषात्ववत्स एवाहमिति जीव-विषयकसावधारणप्रत्यभिज्ञाया भ्रमत्वं न मन्तव्यम् । तत्र भेदाभेदयोरभावादित्याशयेनाह ॥ अभेद एवेति ॥ कालान्तरे इदं व्यावर्तयितुमुक्तम् ॥ नित्यमिति ॥ जीवस्य जीवान्तरेणा-भेदभ्रमव्युदासायोक्तम् ॥ प्रत्येकश इति ॥ स्वेन स्वेन स्वस्य स्वस्याभेद इति पृथक् पृथगभेद इत्यर्थः ।

निरवधारणप्रत्यभिज्ञास्थले भेदाभेदावुदाहरणनिष्टतया दर्शयति ॥ दीपेति ॥ दीपस्य दीपान्तरेण भेदाभेदाविति भ्रमं वारयितुं स्वत इत्युक्तम् । प्रसङ्गाद्भेदाभेदस्थलानि दर्शयति ॥ कार्यकारणयोरित्यादिना ॥ सप्तमाध्योक्तरीत्या निमित्तं कारणं विनेति ज्ञेयम् । चापितथा-शब्दा अन्योन्यसमुच्चये । एकस्तथाशब्दो गुणगुणिनोरिवेत्यर्थे । भेदाभेदाविति सर्वत्र सम्बन्धः । गुणगुण्यादिषु सर्वत्र किं भेदाभेदौ नेत्याह ॥ एवमिति ॥ चिद्रूपेषु गुणगुण्या-दिषु ईश्वरप्रकृतिजीवगतेष्वित्यर्थः । जडेष्वपि किं गुणादिधर्माणां भेदाभेदनियमो नेत्याह ॥ ये धर्मा इति ॥ अवयवावयविपदोक्तांशांशिव्यावृत्तये धर्मपदोपादानम् । ‘‘अंशिनो हि पटाद्याये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः’’ इत्यनुव्याख्याने । सुधायां च चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति । किन्तु परस्परमंशिना चात्यन्ताभिन्नैः । यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेष्वनंशिन इति श्रुतिर्वर्तते । न तु सर्वथांऽशराहित्याभिप्रायेण । अतो न विरोध इत्याद्युक्तम् ॥ जडानामंशतो भेद इति ऋग्भाष्ये ॥

खण्डिते भेद ऐक्यं चेति तत्वविवेकवचनमपि गुणक्रियाजातिपूर्वा धर्मा इति प्रस्तुतधर्म-धर्मिविषयमेवांशांशिविषयमिति ध्येयमिति संप्रदायविदः ॥ ४४ ॥

आद्यः स्वकर्मबीजेन जायते सोऽव्ययः पुमान् ।

म्रियते चामरो भ्रान्त्या यथाऽग्निर्दारुसंयुतः ॥ ४५ ॥

पदरत्नावली

ननु देहस्यैव विकारश्चेदहं जातोऽहं मृत इति प्रतीतिः कथमत्राह– आद्य इति । आद्य उत्पत्तिरहितः, अमरो मरणरहितः, आद्यन्तशून्य इत्यर्थः, अव्ययः शरीरसंयोग-वियोगयोरपि वृद्धिक्षयादिरहितः स जीवः स्वकृतकर्मबीजेन जायते म्रियते चेति व्यवहारो भ्रान्त्या विवेकज्ञानराहित्येन यथा दारुसंयुक्तोऽग्निरुत्पत्तिविनाशवानित्युच्यते । तस्मान्निस्य जीवस्य जननमरणप्रतीतिरविवेककृतेत्यर्थः । ‘‘स चायमिति तु ज्ञानं न मृषाऽयं स एव तु । इति ज्ञानं मृषैव स्याद् भेदाभेदौ यतस्तनोः । अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् । देहदीपनदीवारिफलादीनां पृथक् स्वतः । भेदाभेदौ परिज्ञेयौ कार्यकारणयोरपि । गुणस्य गुणिनश्चैव जातिव्यक्त्योस्तथैव च । तथाऽवयव्यवयवयोः क्रियायास्तद्वतस्तथा । एवं जडेषु नियमश्चिद्रूपेष्वभिदैव तु । ये धर्मा नियमेनैव धर्मिणो न वियोगिनः । जडस्था अप्यभिन्नास्ते भिन्नाभिन्ना वियोगिनः’’ इति वचनाद् यावद्द्रव्यभाविनामभेदोऽयावद्द्रव्यभाविनां भेदाभेदाविति निर्णय इति ॥ ४५ ॥

श्रीनिवासतीर्थीया

ननु देहस्यैव विकारश्चेज्जीवो जातो मृत इति प्रतीतिः स्व-व्यवहारो वा कथमत्राह ॥ आद्य इति । आद्योऽमर उत्पत्तिमरणशून्यः स पुमान् जीवः स्वकृतकर्मरूपबीजेन कारणेन जायते म्रियते चेति भ्रान्तिः । भ्रान्त्यैव च व्यवहार इत्यर्थः । वस्तुतो देहसम्बन्धेनैव जायते म्रियते चेति पूरणीयम् । तत्र दृष्टान्तः । दारुसंयुतो दारु-सम्बन्धश्चेदग्निर्जातस्तदभावे विनष्ट इति व्यवहारस्तद्वदित्यर्थः ॥ ४५ ॥

दुर्घटभावदीपिका

स पुमान् जीव आद्य आदौ विद्यमान उत्पत्तिरहित इति यावत् । अव्ययो ह्रासरहितोऽमरश्च मरणरहितोऽपि स्वकर्मबीजेन जायते । उत्पत्तिमान् । उपलक्षणमेतत् । ह्रासवान् म्रियते मरणवानिति भ्रान्त्या विषयीक्रियते । अत्र दृष्टान्तमाह ॥ यथेति । दारुसंयुतो दार्वन्तर्गतोऽग्निरुत्पत्तिरहितोऽपि मथनेन जात इति भ्रान्त्या विषयीक्रियत इति । एतेन दार्वन्तर्गताग्नेर्मथनेनाभिव्यक्त्यनन्तरं ह्रासस्य नाशस्य च दर्शनात् । दृष्टान्तोऽनुपपन्न इति दूषणं पराकृतम् । जीवस्य सर्वकर्मबीजेनोत्पत्तिर्नास्तीत्यस्मिन्नर्थ एवाग्निदृष्टान्तः । न तद्ध्रासाद्यभाव इति स्वीकरणात् ॥ ४५ ॥

प्रमेयचन्द्रिका

ननु देहस्यैव विकारित्वादनित्यत्वं न जीवस्येति चेज्जातोऽहं मृतोऽहमित्यादिप्रतीतिः कथमित्याशङ्का परिह्रियते ॥ आद्य इति ॥ आदौ भव आद्यो ऽनादिरिति यावत् । अमरो मृतिरहितः । अव्ययश् चैतन्ये स्वाभाविकवृद्धिह्रासरहितः । सः पुमान् जीवः । स्वपूर्वकर्माख्येन कारणेन भ्रान्त्या जायते म्रियते वर्धत इत्यादि ग्राह्यम् । देहात्मनोः स्फुटतरविवेकाभावेन देहगतं जन्मादिकमात्मनिष्टतया विभ्राम्यतीति यावत् । तत्र दृष्टान्तो ॥ यथेति ॥ यथा दारुसंयुतोऽग्निरुत्पत्तिविनाशवानिति भ्राम्यते तथा देहसम्बन्धा-द्युपाधिवशाज्जीवोऽपि जातादिभ्रान्तिविषयो भवतीति भावः ॥ ४५ ॥

निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।

वयो मध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥ ४६ ॥

पदरत्नावली

जन्मादिकं जीवस्य नैवेत्युक्त्या देहस्य सिद्धं दृढयति निषेकेति ॥४६॥

श्रीनिवासतीर्थीया

वयोऽवस्थादय इत्युक्तं कास्ता अवस्था इत्यत आह ॥ निषेकेति । योनौ रेतःसेक इत्यर्थः । जीवस्य रेतोऽन्तर्गतत्वात्तन्निषेको जीवस्यावस्थेति द्रष्टव्यं मध्यं वयः

॥ ४६ ॥

प्रमेयचन्द्रिका

वस्तुतो जन्मादिर्देहस्यैव ह्युपपाद्यते ॥ निषेकेति ॥ ४६ ॥

एता मनोरथमयीर्ह्यन्यस्योच्चावचास्तनूः ।

गुणसङ्गादुपादत्ते क्वचित् काश्चिज्जहाति च ॥ ४७ ॥

पदरत्नावली

चिद्रूपस्य जीवस्य जडशरीरसम्बन्धः कथं घटत इति तत्राह– एता इति । अन्यस्य हरेरधीना मनोरथमयीरेतास्तनूः सत्वादिगुणसङ्गादुपादत्ते अभिमनुते अभिमानं जहाति च । हरेरिच्छा गुणसङ्गश्च घटक इत्यर्थः ॥ ४७ ॥

श्रीनिवासतीर्थीया

अन्यस्य लोकविलक्षणस्य हरेर्यो मनोरथ इच्छा तन्मया-स्तन्निर्मिताः सत्त्वादिगुणसङ्गादुच्चावचाः सत्त्वसङ्गादुच्चास्तदितरगुणसम्बन्धादवचाः । क्वचिद्देशे काले च ॥ ४७ ॥

दुर्घटभावदीपिका

जीवोऽन्यस्य लोकविलक्षणस्य हरेर्मनोरथमयीरिच्छाधीनाः काश्चि-त्कश्चिदुच्चावचास्तनूर् गुणसङ्गात्सत्त्वादिगुणसङ्गात्क्वचिद्देशे काले चोपादत्ते क्वचिद्देशे काले जहाति चेत्येतद्धि प्रमाणप्रसिद्धमिति । एतेन कश्चिदिति वक्तव्यं काश्चिदिति कथनमयुक्तमिति दूषणस्या-नवकाशः । का इति द्वितीयाबहुवचनस्य क इति प्रथमैकवचनादेश इत्यभ्युपगमात् ॥ ४७ ॥

प्रमेयचन्द्रिका

देहस्य जन्मादिप्राप्तौ जीवस्य किमायातमित्यत उच्यते ॥ एता इति ॥ अन्यस्य सर्वभिन्नस्य हरेर् अधीना मनोरथमयीः कायत्यागलक्षणे मरणनिमित्तं प्राप्तत्वान्मनोरथप्रधानास् तनूः सत्वादिगुणसम्बन्धादुपादत्ते । भगवदधीनास्ता आत्मीयत्वेन स्वीकरोति । अभिमानत्यागेन जहाति च । अभिमानप्राप्तिरुत्पत्तिः । त्यागो मृतिरिति भावः ॥ ४७ ॥

आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ।

भवाप्ययौ हि भूतानामभिज्ञाद्वयलक्षणौ ॥ ४८ ॥

तात्पर्यम्

अभिज्ञाद्वयलक्षणौ अभिमानमात्रौ ॥ ४८ ॥

पदरत्नावली

अभिमानस्वीकारो जन्म तदत्यन्तविस्मृतिर्मरणमित्युक्तम् । तद् द्वयं निष्प्रमाणकत्वेन मायामयं किं न स्यादत्राह– आत्मन इति । आत्मनो देहस्य भवाप्ययौ जन्मनाशौ पितृपुत्राभ्यां लिङ्गाभ्यामनुमेयौ । तथा हि । स्वदेहात् पुत्रदेहो जातः, यत् तस्माज् जन्म सिद्धम् । तथा पितृशरीरं च विनष्टं पुत्रेण दृष्टं यत् तस्मात् तदपि प्रत्यक्षं सिद्धमेवं देहस्य जननमरणे सिद्धे इति भावः । ननु तर्हि देहे विद्यमाने जातो मृत इति चेतनविषयत्वेन कथं व्यपदिश्येत इति तत्राह– भवाप्ययाविति । वस्तूनां नित्यानां जीवानां जातोऽहं मृतोऽहमिति व्यपदिश्यमानौ भवाप्ययौ अभिज्ञाद्वयलक्षणौ, अभिज्ञाद्वयं जातो मृत इत्यभिमानद्वयमेव लक्षणं ययोस्तौ तथा, हि यस्मात् तस्माद् व्यपदेश इति भावः ॥ ४८ ॥

श्रीनिवासतीर्थीया

देहस्य भवाप्ययौ साधयति ॥ आत्मन इति । आत्मनो देहस्य भवाप्ययावात्मनः स्वस्यानुमेयौ । तथा हि । स्वदेहात्स्वपुत्रदेहो जायत इति स्वेन दृष्टमस्ति तद्वत् । अस्यापि पुत्रदेहत्वान्मदीयो देहोऽपि मत्पितृदेहेन जायते । मद्देहजनको मत्पितृदेहस्तावद्विनष्ट एवं ममापि पितृत्वान्मद्देहोऽपि विनष्टो भविष्यतीत्यनुमेयौ । तदयं प्रयोगः । मदीयो देह उत्पत्तिमान् पुत्रदेहत्वान्मत्पुत्रदेहवत् । मदीयो देहो विनाशवा-न्पितृदेहत्वात्पितृदेहवदिति । नन्वेवं देहस्यैवोत्पत्तिविनाशेऽहं जातोऽहं मृत इति चेतने तद्विषयकव्यवहारस्य का गतिरिति चेन्न । देहे जाते मृते च सति तत्रात्यन्तमभिमान-सद्भावादेवाहं जात इत्यादिव्यपदेशो न तु वास्तव इत्याह ॥ भवाप्ययाविति । अत्राभि-ज्ञाद्वयलक्षणावित्यस्यान्यथाप्रतीतिनिरासायानूद्यार्थमाह ॥ अभिज्ञेति । न वास्तवाविति मात्रशब्दार्थः । तथा च वस्तूनां जीवानां यौ भवाप्ययौ तावभिज्ञाद्वयलक्षणौ । अभिज्ञाऽभिमानः । अज्ञानमिति यावत् । अहं जातोऽहं मृत इति यदभिमानद्वयं भ्रमरूपम् । ज्ञानमिति यावत् । तन्निमित्तकावेव न जीवस्वरूपे वास्तवौ स्त इत्यर्थः ॥ ४८ ॥

प्रमेयचन्द्रिका

तथाप्यभिमानस्य मनोधर्मत्वेन जीवगतत्वाभावादन्यगतेन धर्मेण तदन्यस्य जीवस्य जननाद्युपपद्यत अतो न जीवस्य जननमरणे युक्ते इत्यतो जीवस्य जननादिकं प्रमाणेनोपपाद्यते ॥ आत्मन इति ॥ आत्मनो जीवस्य भवाप्ययौ जन्मनाशौ । आत्मनः स्वस्य पितृपुत्राभ्यामनुमेयौ । ममायं पुत्रो जात इत्यबाधितप्रतीत्यन्यथानुपपत्या पुत्रजीवजननस्य, स्वपितुः प्राणापगमे कुणपशरीरे सत्यपि मृत इति देहनाशातिरिक्तमरण-प्रतीत्या पितृजीवेन मरणस्य तदानुमितत्वान्न जीवे जननमरणयोरप्रामाणिकत्वमिति भावः ।

ननु सत्यमेवं जननमरणे अनुमीयेते । तथाऽप्यनादिनित्यस्य जीवस्य स्वतः प्रभवाप्ययौ कथंकारं युज्येते इत्यतस्तदुपपादनं क्रियते ॥ भवाप्ययावित्युत्तरार्धेन ॥ अत्राभिज्ञाद्वय-मित्यस्यार्थाप्रतीतेरनूद्यार्थमाह ॥ अभिज्ञेति ॥ अभिज्ञाशब्दोऽभिमानपरः । लक्षणशब्दः स्वरूपवचन इत्याशयेनोक्तम् ॥ अभिमानमात्राविति ॥ मूले द्वयशब्दप्रयोगो जननमरणो-भयसम्बन्ध्यभिमानभेदविवक्षयेति ज्ञेयम् । तथा च देहोत्पत्तौ तत्र मानसिकाभिमाने जाते तत्सन्निधिबलात्स्वच्छतमे चैतन्ये तन्निमित्तविकारविकारिविशेषो भिन्नाभिन्नतया जायते । स एव प्रभवः । तदपगमे तन्निमित्तकोऽपि कश्चिद्विकारो भवति । स एवाप्यय इत्युच्यते । तदुक्तं तृतीयतात्पर्ये । अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे । विकारवन्त इन्द्राद्या इति

॥ ४८ ॥

तरोर्बीजविकाराभ्यां यो विद्वान् जन्मसंयमौ ।

तरोर्विलक्षणो दृष्ट एवं द्रष्टा तनोः पृथक् ॥ ४९ ॥

तात्पर्यम्

तरोर्बीजविकारदृष्टान्तेन विद्वान्देहाभिमानं त्यक्त्वा संयमं याति । परमात्मनश्च भेदं जानाति प्रकृत्यादेः । ‘बीजाद्यवस्थासंयुक्ताद्वृक्षाद्द्रष्टा यथा पृथक् । एवं विकारिणो विष्णुर्जीवश्च पृथगेव त्वि’ति च ॥ ४९ ॥

पदरत्नावली

अभिमानमात्रमिति समर्थनेन किं प्रयोजनमित्याशङ्क्याभिमानत्यागेन संयमलक्षणोऽर्थ इति भावेनाह– तरोरिति । यस्तरोर्जन्मसंयमौ बीजविकाराभ्यां बीजाद् विकाराच्च विद्वान् जानाति, यथा तेन विदुषा तर्वन्तःस्थित आत्मा तन्नियामकः परमात्मा तरोर्विलक्षणो दृष्ट एवं देहस्य जन्मसंयमौ द्रष्टा जीवस् तन्नियामकः सर्वज्ञ परमात्मा च तनोः पृथग् भिन्न इत्यर्थः । अनेन तरोर्बीजविकारदृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति सर्वस्माद् हरेर्भेदं च जानातीत्युक्तम् । अत्र किं प्रमाणमित्यतो वाह– तरोरिति । विद्वद्दर्शनं मानमित्यर्थः । यो बीजविकाराभ्यां तरोर्जन्मसंयमौ विद्वान् तरोरवस्थां गतस् तेन तरोर्विलक्षणणो यथा दृष्ट एवं देहस्य जन्मादेर्द्रष्टा जीवस्तु शरीराद् भिन्न इति स्वानुभवसिद्धमुक्तमिति भावः । ‘‘बीजाद्यवस्थासंयुक्ताद् वृक्षाद् द्रष्टा यथा पृथक् । एवं विकारिणो विष्णुर्जीवश्च पृथगेव तु’’ इति वचनात् ॥ ४९ ॥

श्रीनिवासतीर्थीया

एतावता प्रबन्धेनात्मानात्मनोर्वैलक्षण्यमुपपाद्यैवं वेत्तुः फलमाह ॥ तरोरिति । एतत् श्लोकतात्पर्यमाह ॥ तरोरिति । उत्तरत्र प्रकृतेरेवमात्मानमित्युत्तरत्र प्रकृति-पुरुषाज्ञानेऽनर्थोक्तेः पूर्वं तद्विवेकज्ञानस्य मोक्षसाधनतयाऽवश्यं वाच्यत्वान्मूलेऽभिप्रेतं पूरयति ॥ परमात्मन इति । प्रकृत्यादेर्भेदम् । मूलयोजनां प्रमाणेन दर्शयति ॥ बीजेति । आदिपदेन विकारग्रहणम् । द्रष्टा वृक्षजीवः । विकारिणो देहात् ॥ ततश्चेत्थं मूलयोजना ॥ अत्र यथेति शेषः । तरोर्वृक्षस्य यौ बीजविकारौ ताभ्यां दृष्टान्तभूताभ्याम् । तद्दृष्टान्तेनेति यावत् । ततश्च तरोर्वृक्षाद्विलक्षणो वृक्षशरीराधिष्ठितो जीवस्तत्प्रेरको भगवांश्च दृष्टो ज्ञायते । कुतः । यथा तरोरादौ बीजत्वावस्था वर्तते । उत्पत्त्यन्तरं शाखादिना विकारित्वाद्यवस्था भवत्येवमव-स्थाद्वयानुभविता तद्वदधिष्ठातृतया तदन्तस्थोऽवस्थाद्वययुक्तवृक्षशरीरानुस्यूतो जीवस्तत्प्रेरको हरिश्चास्ति शरीरादिवैलक्षण्यम् । उपलक्षणमेतत् । प्रकृत्यादिवैलक्षण्यं च । यो विद्वान् जानाति स देहाभिमानं त्यक्त्वा संयमं मोक्षं याति प्राप्नोतीति ॥ ४९ ॥

दुर्घटभावदीपिका

यस्तरोर्बीजविकाराभ्यां दृष्टान्ताभ्यां तयोर्जन्मसंयमौ जन्मनाशौ विद्वान्यथा बहिः स्थित्वा तरोर्द्रष्टा तरोर्विलक्षण इति प्रत्यक्षेण द्रष्टा । एवम् । तनोरित्युपलक्षणम् । तनोः प्रकृत्यादेश्च द्रष्टा तन्वभिमानी जीवः । प्रकृत्याद्यभिमानिलक्ष्म्यादिः परमात्मा च तनोः प्रकृत्यादेश्च पृथगिति वेदादिप्रमाणेन दृष्ट इति च विद्वान्स देहाभिमानं त्यक्त्वा देहाप्रकृत्यादेश्च देहाभिमानिजीवस्य प्रकृत्याद्यभिमानिलक्ष्म्यादेः परमात्मनश्च भेदं निश्चित्य मोक्षं प्राप्नोतीति । एतेन तरोर्बीजविकारा-भ्यामित्येतद्व्यर्थमिति दूषणं परास्तम् । तरुनिष्ठबीजावस्थादृष्टान्तेन जन्मावस्था ज्ञातव्या । तरुनिष्ठविकारावस्थया देहस्य विनाशावस्था ज्ञातव्येति वक्तुं तरोर्बीजविकाराभ्यामित्युक्तमिति स्वीकरणात् । एतेन तरुजीवे तरोर्भेदस्यासिद्धत्वात् । तरोर्द्रष्टा यथा भिन्न इति तरुजीवस्य दृष्टान्तत्व-कथनमयुक्तमिति दूषणं निरस्तम् । तरोर्द्रष्टेत्यनेन तरोर्बहिः स्थित्वा यस्तरुं पश्यति स एव जीवो गृह्यते । न तु जीव इत्यङ्गीकारात् । एतेनैव भेदादिज्ञानस्य फलं नोक्तमिति न्यूनतेति शङ्काऽनव-काशः । शेषपूरणेन फलस्योक्तत्वात् ॥ ता.अर्थः ॥ तरोर्बीजविकाराभ्यामिति श्लोकेऽध्याहर्तव्यं दर्शयति ॥ देहाभिमानमित्यादिना । उक्तार्थे प्रमाणमाह ॥ बीजेति । वृक्षाद्बहिः स्थित्वा वृक्षस्य द्रष्टा बीजाद्यवस्था संयुक्ताद्वृक्षाद्यथा पृथक् एवं विकारिणो देहात्प्रकृत्यादेश्च दृष्टाऽन्तः स्थित्वा द्रष्टा विष्णुर्जीवश्च । तु शब्दो विशेषार्थः । तुविशेषतः पृथगत्यन्तभिन्न एवेति यो जानाति स मोक्षं प्राप्नोतीति । एतेन प्रमाणे विकारिणो विष्णुर्जीवश्च पृथगेवेत्येतदनन्वितमिति दूषणं पराकृतम् । शेषपूरणेनान्वयस्योक्तत्वात् ॥ ४९ ॥

प्रमेयचन्द्रिका

देहाज्जीवेश्वरयोर्वैलक्षण्यज्ञानमवश्यं सम्पाद्यं मोक्षसाधनत्वादित्या-शयेनोच्यते ॥ तरोरिति ॥ अत्र दार्ष्टान्तिकपरस्य तुरीयपादस्यार्थाप्रतीतेरपेक्षितं पूरयन् व्याचष्टे ॥ तरोर्बीजेति ॥ अत्र एवमित्यस्यार्थस्तरोर्बीजदृष्टान्तेनेति । द्रष्टेत्यस्यार्थो विद्वानिति । देहाभिमानं त्यक्त्वा संयमं यातीत्यपेक्षितपूरणम् । द्रष्टा तनोः पृथगित्य-स्यार्थान्तरमुच्यते ॥ परमात्मनश्च भेदं जानातीति । अत्र द्रष्टेत्यस्यार्थः परमात्मन इति । द्रष्टेत्येतत्तन्त्रन्यायेनात्राप्यन्वेतीति तदर्थ उक्तो जानातीति ।

ततश्चायं मूलार्थः ॥ यः पुरुषस्तरोर्बीजविकाराभ्यां जन्मसंयमाविति क्रमेण सम्बन्धः । बीजेन जन्म शोषादिविकारेण संयमं विनाशं च विद्वान् जानाति । तेन विदुषा तरुर्देहवान् जीवस्तरोः सकाशाद्विलक्षणो दृष्टः । अस्य यदेकां शाखां जीवो जहातीत्युक्तन्यायेन ज्ञातो भवति । एवं तरोर्बीजविकारदृष्टान्तेन द्रष्टा स्वदेहस्य रेतआदिबीजेन जन्म । शोषादि-विकारेण विनाशं च । यः द्रष्टा भवति जानाति सः स्वतनोः सकाशात्स्वयं पृथक् दृष्टो भवति । यश्च द्रष्टा सर्वज्ञो हरिः सोऽपि तनोः पृथग्दृष्टो भवति । ततश्च तुच्छे देहे अभिमानं त्यक्त्वा संयमं मनोनिग्रहं याति । तेन च संयमेन संसाराप्ययरूपं मोक्षं यातीति ॥ ४९ ॥

प्रकृतेरेवमात्मानमविविच्याबुधः पुमान् ।

तत्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥ ५० ॥

पदरत्नावली

विकारिणो देहाज्जीवपरमात्मनोर्भेदेन ज्ञानं मुक्तिसाधनं तदभेदज्ञानं संसारकारणमित्याह– प्रकृतेरिति । प्रकृतेर् देहादेर् आत्मानं जीवं परमात्मानं च तत्वेनाविविच्य सम्यग्भिन्नमज्ञात्वा अत एवाबुधः पुमान् संसारं प्रतिपद्यते । अज्ञाने निमित्तमाह– स्पर्शेति । स्पर्शा विषयाः, तत्रासक्तत्वान्मूढः ॥ ५० ॥

श्रीनिवासतीर्थीया

एवमज्ञानेऽनर्थमाह ॥ प्रकृतेरिति । आत्मानं जीवं हरिं च प्रकृते सकाशात्तत्त्वेन याथार्थ्येनाविविच्य विवेकज्ञानशून्यतया स्थितो योऽबुधः । स्पृश्यन्त इति स्पृशा विषयास्तैः संमूढः संसारं प्रतिपद्यते ॥ ५० ॥

प्रमेयचन्द्रिका

देहात्मविवेकज्ञानं मोक्षसाधनमित्युक्तम् । तद्दार्ढ्याय तदज्ज्ञानेऽनर्थः कथ्यते ॥ प्रकृतेरिति ॥ प्रकृतोपयोगाय प्रकृतपदमन्योपलक्षणमिति भावेनाह ॥ प्रकृत्यादे- रिति ॥१ प्रकृत्यादिदेहान्तादित्यर्थः । पूर्वश्लोकार्थसहितेऽर्थे प्रमाणमाह ॥ बीजादीति ॥ विकारिणो विकारवतः प्रकृत्यादेरित्यर्थः । तथा च प्रकृतेः प्रकृत्यादेः सकाशादेवमुक्तरीत्या आत्मानं जीवं परमात्मानं च तत्वेन यथार्थतो ऽविविच्य विवेकेन अत्यन्तभिन्नतया अज्ञात्वा स्पृश्यन्त इति स्पर्शेषु विषयेषु संमूढः सन् जननमरणनरकादिरूपं संसारं प्रतिपद्यत इति मूलार्थः ॥ ५० ॥

सत्वसङ्गाद् ऋषीन् देवान् रजसाऽऽसुरमानुषान् ।

तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ॥ ५१ ॥

पदरत्नावली

संसारतारतम्यमपि सत्वादिगुणनिमित्तमित्याह– सत्वसङ्गादिति । सत्वसङ्गात् सात्विकसङ्गलब्धपुण्यकर्मणा ऋष्यादीन् प्राप्नोति । रजसा राजसकर्मणा आसुरमानुषान् आसुरादिकं प्राप्नोति । तामसकर्मणा ब्रह्मराक्षसादिभूततिर्यग्योनित्वमाप्नोति ॥ ५१ ॥

श्रीनिवासतीर्थीया

संसारोऽपि न सर्वेषामेकप्रकार इत्याशयेनाह ॥ सत्त्वेति । सत्त्वगुणसम्बन्धादृषीन्देवानित्यादि । ऋष्यादित्वमित्यर्थः । कर्मभिर्भ्रामितो याति ॥ ५१ ॥

प्रमेयचन्द्रिका

ननु देहात्मभेदाज्ञानस्योक्तरीत्या संसारहेतुत्वे संसारतारतम्यं किंनिबन्धनम् । तुल्यत्वाद्भेदाज्ञानस्येत्यतो योग्यतायाः स्वरूपभूताया विविधत्वात्तरतमभावा-पन्नतदनुसारिसात्विकादिसङ्गनिमित्तकपुण्यापुण्यमिश्रकर्मभिर्भेदाज्ञानादावपि तारतम्यमतः संसार- तारतम्यमित्याशयेनोच्यते ॥ सत्वसङ्गादिति ॥ सत्वसङ्गात् सात्विकसङ्गलब्धपुण्यकर्मण ऋषीन् देवान् ऋषित्वं देवत्वम् । रजसा राजसकर्मणा असुरत्वादिकम् । तामसकर्मणा राक्षसपिशाचतिर्यागादित्वमाप्नोति । यद्यप्यसुरा अतितामसाः । तथाप्यसुराणां संपदादि-राजसकर्मणां भावादित्थमुक्तमिति ज्ञेयम् ॥ ५१ ॥

नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।

एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२ ॥

तात्पर्यम्

दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति । सुखज्ञाने तु जीवस्य भक्तिः स्नेहस्तथैव च । विपर्ययेणासुराणां जीवबुद्धिगुणा इती’ति च ॥ ‘आत्मनोऽपि गुणा बुद्धिकृतबुद्धिगुणा इति । उच्यन्ते सुखदुःखाद्याः परमात्मकृता यथे’ति त्रैकाल्ये

॥ ५२ ॥

पदरत्नावली

स्वतः सात्विकानां सुरादीनां दुःखित्वमितरेषां सुखित्वमित्यादिविपरीतानुभवः कथमत्राह–नृत्यत इति । यथा लोके नर्तनादि कुर्वतः पश्यन् स्वयं च तान् पुरुषाननुकरोति नृत्यादि करोति एवमनीहोपि दुःखाद्यनुभवायोग्योपि बुद्धिगुणान् दुःखादीन् पश्यन् अनुभवन् अहं दुःखीत्यादि ममत्वेन अनुकार्यते, हरिणेति शेषः । ‘‘दुःखशोकादयः सर्वे ज्ञेया बुद्धिगुणा इति । सुखज्ञाने तु जीवस्य शक्तिः स्नेहस्तथैव च । विपर्ययेणासुराणां जीवबुद्धिगुणा मताः । आत्मनोपि गुणा बुद्धिकृता बुद्धिगुणा इति । उच्यन्ते सुखदुःखाद्याः परमात्मकृता इति’’ इति वचनात्

॥ ५२ ॥

श्रीनिवासतीर्थीया

अयं संसारोऽभिमाननिमित्त एव न स्वाभाविक इत्याशयेनाह ॥ नृत्यत इति । नृत्यतो गायतः पुरुषाननुकरोति स्वयमपि तथा नर्तनादि करोति । एवमनीहोऽपि दुःखाद्यनुभवायोग्योऽपि सुखादिस्वरूपत्वाद्बुद्धिगुणान्दुःखादीन्पश्यन्स्वनिष्ठतया जानन् जीवोऽहं दुःखीत्यादिरूपेणानुकार्यते भगवतेत्यर्थः । अनीह इति दुःखाद्यनुभवा-योग्यत्वं सूचितं तत् प्रमाणेन विविच्य दर्शयति ॥ दुःखेति । जीवस्य सज्जीवस्य गुणाः ॥ जीवबुद्धीति । जीवबुद्ध्योरित्यर्थः । विपर्यर्येण दुःखाद्या जीवगुणाः सुखाद्या बुद्धिगुणा इत्यर्थः । तथा चानीहः सुखाद्यनुभवायोग्योऽपि बुद्धिगुणान् सुखादीन्स्वनिष्ठतया पश्यन्ननु-कार्यत इत्यपि योज्यम् । ननु मूले बुद्धिगुणानिति कथम् । अहं दुःखी सुखीत्यादि-प्रत्ययबलेन जीवनिष्ठताया एवावगतेरित्यत आह ॥ आत्मनोऽपीति । यद्यपि सुखाद्या आत्मस्वामिकत्वेनात्मनो गुणा बुद्धिकृतत्वेन बुध्द्युपादानकत्वेन बुद्धिगुणा इत्युच्यन्ते । मूले वस्तुतो बुद्धिगुणा न भवन्तीत्यर्थः । ननु बुद्धिकृतानां गुणानां बुद्धिनिष्ठताया एव योग्य-त्वेनात्मस्वामिकतया कथमात्मगुणत्वमित्यतो दृष्टान्तमाह ॥ परमात्मेति । सुखं दुःखं भवो भाव इत्यादिना परमात्मकृततयाऽवगता अपि सुखाद्या जीवगता इत्युच्यन्ते यथा तथा बुद्धिकृता अपि आत्मस्वामिकत्वादात्मगुणा इत्याशयः । तथा च बुद्धिकृतानित्यस्य बुद्धिकृततया बुद्धिगुणानित्युक्तं भवति ॥ ५२ ॥

प्रमेयचन्द्रिका

तथापि संसारे स्वरूपविपरीतानुभवः कथमित्यतः प्रवृत्ते नृत्यत इति श्लोके एवं बुद्धिगुणानित्यत्र के बुद्धिगुणा इत्यतः प्रमाणेनाह ॥ दुःखेति ॥ आदि-पदेनाज्ञानादिग्रहणम् । बुद्धिरिहांतःकरणम् । ननु सुखज्ञानादिका अपि बुद्धिगुणाः किं विशिष्योच्यन्ते दुःखाज्ञानादय इतीत्यत उक्तम् ॥ सुखज्ञाने त्विति ॥ सज्जीवस्यैवेति सम्बन्धः । स्वरूपभूतगुणा इति शेषः । तथाशब्देनानुक्ता वैराग्यादयो गृह्यन्ते । चशब्दः प्रागुक्तसुखादिसमुच्चयार्थः ॥ विपर्ययेणेति ॥ असुराणां तमोयोग्यानां दुःखशोकादयः सर्वे ज्ञेयाः । जीवगुणाः सुखज्ञानादयो ऽन्तःकरणगुणा इत्येवं विपर्यर्येण जीवबुद्धिगुणा मता इत्यर्थः ॥

अयं भावः ॥ संसारिणस्त्रिविधाः । तत्र मुक्तियोग्यानां सुखज्ञानादयो गुणा जीव-स्वरूपभूता एव । अव्यक्तत्वात्संसारे तदनुपलब्धिः । अन्तःकरणधर्मा अपि सुखादयस् तरतमभावापन्नजीवस्वरूपगुणानुसारेणैव संसारे भवन्तीति तदनुक्तिः । दुःखादयस्तु केवल-मन्तःकरणधर्मा एव । तमोयोग्यनां तु दुःखाज्ञानादयः स्वरूपभूताः । सुखादयस्तु केवलं बुद्धिगुणाः । मध्यमानां तु स्वरूपेऽपि द्विविधं सम्भवति । तथा च स्वरूपविपरीतान्तः-करणोपाधिवशाद्विपरीतानुभव इति ॥

ननु ‘‘स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयो’’रित्युत्तमजीवस्यापि दुःखादि-मत्वस्य प्रमितत्वाद् दुःखादीनां जीवगुणत्वमेव युक्तम् । एवं सुखादीनामप्यधमजीवगुण-त्वम् । तत्कथं दुःखादीनां बुद्धिगुणत्वमुच्यत इत्यतः प्रमाणान्तरेण समाधत्ते ॥ आत्म-नोऽपीति ॥ सुखदुःखाद्या आत्मनो गुणा अपि यस्माद्बुद्धिकृता अन्तःकरणोपादानकास् तस्माद्बुद्धिगुणा उच्यन्ते । तत्र दृष्टान्तः ॥ परमात्मेति ॥ यथा परमात्मना कृतास् तत्संपादितास्तदधीना अपि पदार्था ज्ञानसुखादयश्च भूतोपादानकत्वादन्तःकरणोपादान-कत्वाच्च भौतिका इति चोच्यन्ते । तथा जीवसम्बन्धिनोऽपि सुखदुःखाद्या बुद्धिगुणा उच्यन्त इति मूलार्थस्य यथा बालको नृत्तगानादिकं कुर्वाणानवलोक्य तान् स्वयमनुकरोति । एवमनीहोऽपि । ईहात्र दुःखादिव्यापारः । स्वरूपतस्तद्रहितोऽपि बुध्द्युपादानकान् दुःखादीन् पश्यति । तत्राभिमानात्स्वयमपि दुःखादीननुकार्यते । तदनुसारिनीचतादिविकारवान् भवतीति

॥ ५२ ॥

यथाऽम्भसा प्रचलता तरवोऽपि चला इव ।

चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ ५३ ॥

यथा मनोरथधियो विषयानुभवो मृषा ।

स्वप्नदृष्टश्च दाशार्ह तथा संसार आत्मनः ॥ ५४ ॥

तात्पर्यम्

मृषा वृथा । ‘अल्पप्रयोजनं यत्तन्मृषेत्येव तदुच्यत’ इति शब्दनिर्णये । आत्मनः स्वत एव दुःखाद्याः सुखादिवदिति मिथ्याबुद्धिरिति वा ॥ ५४ ॥

॥ इति एकादशतात्पर्ये द्वाविंशोऽध्यायः ॥ २२ ॥

पदरत्नावली

स्वतः सुखादिरूपाणां चेतनानां दुःखादिरूपत्वप्रत्ययो भ्रान्त इत्येतद् बहुदृष्टान्तैः समर्थयते यथेत्यादिना । यथा प्रचलताऽम्भसा तीरस्थास्तरवोपि चलाश्चलनधर्मवन्त इव दृश्यन्ते । यथा च भ्राम्यमाणेन चक्षुषा भूर्भ्राम्यतीव दृश्यते यथा च मनोरथधियो मनोरथविषया मृषा वृथा यथा च स्वप्नदृष्टो विषयानुभवोपि मृषा हे दाशार्ह उद्धव (तथा) आत्मनो जीवस्य संसारोपि वृथा अल्पप्रयोजनः । ‘‘अल्पप्रयोजनं यत्तन्मृषेत्येव तदुच्यते’’ इति वचनात्

॥ ५३–५४ ॥

श्रीनिवासतीर्थीया

पुनर्दुःखादिसंसारस्य मृषात्वमनेकदृष्टान्तैराह ॥ यथेत्यादिना । तरवोंऽभोरूपोपाध्युपादानका बाह्यतरुप्रतिबिम्बभूता जलान्तस्थास्तरवः प्रचलताऽम्भसोपाधि-भूतांभसः प्रचलने तदुपादेयतरोरपि चलनं दृश्यते ॥ मनोरथधियो मनोरथबाह्यपदार्थाभेद-बुद्धिमतः । स्वप्नदृष्टो जाग्रत्पदार्थाभेदेन प्रतीयमानविषयानुभवः । संसारो दुःखादिः । अत्र मृषेति चतुर्णामपि दृष्टान्तानां मिथ्यात्वमुच्यतेऽतः सिद्धान्तविरुद्धम् । दार्ष्टान्तिके दुःखादेः संसारस्य सत्वात् । तथा च त्रयाणां दृष्टान्तानां मिथ्यात्वेऽप्याद्यदृष्टान्ते बिम्बप्रतिबिम्ब-भावसद्भावेन प्रतिबिम्बे उपाधिकृतचलनादेः सत्वादित्यतः सर्वदृष्टान्तदार्ष्टान्तिके साधारण्याय मृषाशब्दार्थमाह ॥ मृषेति ।

ननु दृष्टान्तेषु मृषात्वं नाम वृथात्वं सम्भवति । निष्प्रयोजनत्वसद्भावात् । दार्ष्टान्तिके कथमीषत्सुखादिप्रयोजनसद्भावादित्यतो विद्यमानमपि प्रयोजनमल्पमिति कृत्वा निष्प्रयोजनत्व- मेवेत्याशयवान् प्रमाणमाह ॥ अल्पेति । यदल्पप्रयोजनं तन्मृषेत्येवोच्यत इत्यन्वयः । अस्तु मृषाशब्दो मिथ्यार्थक एव तर्ह्याद्यदृष्टान्तायोगः । प्रचलताऽम्भसा तरवोऽपि बहिस्थिता बिम्बभूताश्चला इव दृश्यन्त इति योज्यम् । इदं तु ज्ञानं भ्रमरूपमेव बिम्बे तद्दर्शनस्य मिथ्यात्वात् । तर्हि कथं प्रकृते योजनीयमित्यत आह ॥ आत्मन इति । तथा संसार आत्मन इत्यस्य सुखादिरूप आत्मा वस्तुतो भवति । तस्य सुखादिवद्दुःखाद्या अपि स्वतः स्वाभाविका इति बुद्धिर्मृषा मिथ्या भ्रमरूपेत्यर्थः ॥ ५३,५४ ॥

दुर्घटभावदीपिका

हे दाशार्ह । मनोरथधियो मनोरथविषयकबुद्धिमतः । मनोरथं कुर्वाणस्येति यावत् । विषयानुभवो यथा मृषा वृथा । अल्पसौख्यप्रयोजन इति यावत् । स्वप्नदृष्टः स्वप्नावस्स्थायां कृतो विषयानुभवश्च यथा मृषाऽल्पसौख्यप्रयोजनविषयस्तथाऽऽत्मनो जीवस्य संसारे जायमानो विषयानुभवो मृषाऽल्पसौख्यप्रयोजन इति । एतेन स्वप्नावस्थायां जायमानस्य विषयानुभवस्यैवाल्प-सौख्यहेतुत्वात् स्वप्नावस्थायां जायमानो विषयानुभवो मृषेति वक्तव्यम् । स्वप्नावस्थायां दृष्टो विषयानुभवो मृषेति स्वप्नावस्थायां जायमानस्य विषयानुभवस्याल्पसौख्यहेतुत्वकथनमयुक्तमिति दूषणं निरस्तम् । स्वप्नदृष्ट इत्यस्य स्वप्नेऽनुभूयमान इत्यर्थ इत्यनङ्गीकारात् ॥ ५४ ॥

प्रमेयचन्द्रिका

स्वतः सुखादिरूपाणां जीवानां दुःखादिरूपत्वप्रत्ययो भ्रम इत्येत-द्बहुभिर्दृष्टान्तैः समर्थ्यते ॥ यथेति श्लोकद्वयेन ॥ अत्र मनोरथविषयः स्वप्नदृष्टश्च यथा मृषा मिथ्या तथा संसारोऽपि मिथ्येति प्रतीतिः । तदयुक्तम् । सन्ध्ये सृष्टिराह हीत्यादौ स्वाप्ना-द्यर्थानां सत्यत्वस्य निर्णीतत्वादतो मृषेति पदमनूद्य व्याचष्टे ॥ मृषेति ॥ ननु स्वाप्नादि-पदार्थदर्शनादिना सुखाद्यनुभवात्संसारेऽपि तद्भावात्कथं दृष्टान्ते दार्ष्टान्तिके सुखाद्यनुभवा-सत्वमिति शङ्कां प्रमाणेन परिहरति ॥ अल्पेति ॥ अल्पस्वे निस्वशब्दप्रयोगवदुपपत्तिरिति भावः । ननु तरवोऽपि चला इव दृश्यन्ते, भ्रमतीव भूरिति मिथ्याभूततरुचलनादिदृष्टान्तो-पादानात्कथमेवं व्याख्येत्यतः स्वाप्नाद्यर्थानां सत्यत्वस्य दार्ष्टान्तिकसुखदुःखादिरूपसंसारे सत्यत्वस्य प्रमितत्वात्तदनुसारेणैवं व्याख्यानम् । तरुचलनभूभ्रमणदृष्टान्तानुसारेण दुःखा-ज्ञानादीनां जीवस्य स्वाभाविकधर्मत्वं मिथ्येत्येतन्मृषेत्यनेनोच्यत इत्याशयेन प्रकारान्तरेण व्याचष्टे ॥ आत्मन इति ॥ सुखज्ञानभक्त्यादयो धर्मा यथा स्वरूपभूतास्तद्वद्दुःख

शोकादयोऽपि सज्जीवस्य स्वत एव स्वाभाविका इति बुद्धिर्मृषा भ्रम इति मूलार्थ इत्यर्थः । तथा चात्मनो जीवस्य दुःखादिरूपः संसारः स्वाभाविक इति बुद्धिर्मृषा भ्रम इति मूलयोजना

॥ ५३,५४ ॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयान् पुंसः स्वप्नेऽप्यर्थागमो यथा ॥ ५५ ॥

पदरत्नावली

अस्वरूपत्वे किमिति न निवर्तत इति तत्राह– अर्थ इति । अर्थे दुःखित्वादिलक्षणे विषये अविद्यमानेपि संसृतिः संसृष्टदुःखित्वादिप्रत्ययो न निवर्तते किन्तु वर्तत एव । अनिवृत्तौ निमित्तमाह– ध्यायत इति । निरन्तरं शब्दादिविषयध्यानमनिवृत्तौ कारणमित्यर्थः । तत् कुत्र दृष्टमत्राह– स्वप्न इति । ध्यायत इत्यनुवर्तते । जाग्रद्दृष्टतुरगाद्यर्थध्यानात् स्वप्नेऽप्यर्थागमो तुरगाद्यर्थागमो न निवर्तते उपादानादिव्यवहारानुभवात् । अत्र यथाम्भसेत्यादिदृष्टान्तानां प्रपञ्चमिथ्यात्वे न तात्पर्यम् । किन्तु सुखरूपाणां जीवानां देहसम्बन्धाद् अहं दुःखीत्यादिप्रत्ययस्य । यथा स्वतः शुक्लोपि शङ्खो जपाकुसुमसन्निधानाल्लोहित इति शङ्खविषये लौहित्यप्रत्ययस्य मिथ्यात्वं तथाऽत्रापीति सन्तोष्टव्यम् ॥ ५५ ॥

श्रीनिवासतीर्थीया

नन्वेवं संसारस्यास्वाभाविकत्वे स्वत एव निवृत्तिसम्भवात् तदर्थं ज्ञानादिसंपादनवैयर्थ्यमित्यतः स्वत एव न निवर्तत इत्याह ॥ अर्थ इति । सर्वदा विषया-न्ध्यायतोऽस्य जीवस्य तैर्विषयैरर्थे प्रयोजनेऽविद्यमानेऽपि तत्प्रवाहस्यैवोत्पत्त्या संसृतिर्न निवर्तते । यथा जागृद्दृष्टपदार्थानुभवजनितसंस्कारेण स्वप्नेऽनर्थप्रवाहानामागमः प्राप्तिस्तद्व-दित्यर्थः ॥ ५५ ॥

दुर्घटभावदीपिका

विषयान्ध्यायतः पुंसोऽर्थे सुखलक्षणे प्रयोजनेऽविद्यमानेऽपि संसृतिर्न निवर्तते । पुमान्विषयध्यानेन स्त्रीपुत्रादिसंसारं प्राप्य सुखं नैव प्राप्नोतीति । किंतु दुःखमेव प्राप्नोतीति यावत् । इत्येत्यध्यागमादिप्रमाणप्रसिद्धम् । अत्र दृष्टान्तमाह ॥ स्वप्न इति । जाग्रद्दृष्टविषयान्ध्यायतः पुंसः स्वप्ने स्वप्नावस्थायां नार्थगमोऽनर्थागमो यथा न निवर्तत इति । एतेनार्थागम इत्यत्रार्थशब्दस्य नञ् समासेऽनर्थेति स्यात् । नार्थेति कथनमयुक्तमिति दूषणं परिहृतम् । नाभ्रस्रादिष्वस्योपसङ्ख्यानात् । नसमास एवायं न तु नञ्समास इत्यभ्युपगमात् ॥ ५५ ॥

प्रमेयचन्द्रिका

एवं दुःखित्वादिरूपसंसारित्वस्यास्वाभाविकत्वे कुतो न निवर्तते । औपाधिकस्य क्षिप्रनिवृत्युपपत्तेरित्यत उच्यते ॥ अर्थ इति ॥ दुःखित्वादिरूपेऽर्थे पुंसो जीवस्य स्वाभाविकतया अविद्यमानेऽपि संसृतिर्न निवर्तते । तत्र हेतुः ॥ ध्यायत इति ॥ निरन्तरविषयानुध्यानं निवृत्तौ कारणमित्यर्थः । तत्र दृष्टान्तः ॥ स्वप्न इति ॥ ध्यायत इत्यनुवर्तते । ध्यायतः जाग्रद्दृष्टकरितुरगाद्यर्थाननुस्मरतः पुंसः स्वप्नेऽनर्थस्य जाग्रद्वस्तु-स्वरूपार्थभिन्नस्य केवलं वासनामयस्य करितुरगादेर्जाग्रत्वेनागमो यथा न निवर्त्तते तथा विषयानुध्यानेन तदर्थं कुकर्माचरणादिना च मलिनमनसः पुंसो स्वरूपोऽपि संसारो न निवर्तत इत्यर्थः ॥ ५५ ॥

तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः ।

आत्माग्रहणनिष्पन्नं पश्यन् वैकल्पिकं भ्रमम् ॥ ५६ ॥

पदरत्नावली

फलितमाह– तस्मादिति । आत्मनोर्जीवपरमात्मनोः स्वरूपाग्रहेण निष्पन्नं वैकल्पिकं विरुद्धकल्पनाजनितं भ्रमं पश्यन् ॥ ५६ ॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ तस्मादिति । असदिन्द्रियैरमङ्गलैरिन्द्रियैर्वैकल्पि-कम् । स्वार्थे कप्रत्ययः । विकल्प एव वैकल्पिकम् । विरुद्धकल्पनाख्यं भ्रमम् । आत्मनो भगवतोऽनुग्रहेणैवाज्ञानेन निष्पन्नं जनितं पश्येदित्यर्थः ॥ ५६ ॥

प्रमेयचन्द्रिका

फलितमुच्यते ॥ तस्मादिति ॥ आत्मनोर्देहजीवयोः स्फुटतर-विवेकाग्रहणेन आत्मनः स्वस्य भगवदधीनत्वादिना परमात्मनः स्वस्वामित्वादिना चाग्रहणेन निष्पन्नं वैकल्पिकं विरुद्धकल्पनाजनितं भ्रमं विषयभोगासादितं जानन् त्वं विषयान् मा भुंक्ष्वेत्यर्थः ॥ ५६ ॥

क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धः शापितोपि वा ।

ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥ ५७ ॥

विष्ठितो मूत्रितो वाऽज्ञैर्बहुधैवं प्रकम्पितः ।

श्रेयस्कामः कृच्छ्रगत आत्मनाऽऽत्मानमुद्धरेत् ॥ ५८ ॥

पदरत्नावली

दुःसहविषयोपद्रवेपि तत्परिहारप्रयत्नो न कार्यः किन्तु विषयेभ्यः प्रत्याहृतमनसा स्वात्मानं संसारादुद्धर्तुं प्रयतेतेति शिक्षयति क्षिप्त इत्यादिना ॥ ५७,५८ ॥

श्रीनिवासतीर्थीया

उत्तरग्रन्थोपक्षेपायाह ॥ क्षिप्त इत्यादिना । क्षिप्तो निरसितः । वृत्त्या जीवनोपायेन । विष्टितो विष्टासम्बन्धं प्रापितः । प्रकंपितो भयम् । प्रापितोऽपीति शेषः । कृच्छ्रगतः कृच्छ्राणि प्राप्त आत्मना मनसाऽऽत्मानं जीवं संसारादुद्धरेत् ॥५७,५८॥

दुर्घटभावदीपिका

श्रेयःकामोऽज्ञैर्विष्टितो मृत्रितो बहुधा बहुप्रकारेणैव पूर्वोक्तरीत्या प्रकम्पितः प्रकर्षेण भयं प्रापितः कृच्छ्रगतो वा नानाक्लेशं प्राप्तश्चेदात्मना परमात्मविषयकतपोरूपत्वाभिधानेनात्मानं स्वात्मानमुद्धरेदिति ॥ ५८ ॥

॥ इति श्रीभागवतटिप्पण्यां द्वाविंशोऽध्यायः ॥ ११–२२ ॥

प्रमेयचन्द्रिका

दुःसहे विविधोपद्रवेऽपि न विषीदेत् । किं त्वात्मना मनसा धैर्येण च मनो विषयेभ्यः प्रत्याहृत्य हरिमेव भजेदित्युच्यते ॥ क्षिप्त इत्यादिना ॥ ५७ ॥

उद्धव उवाच–

यथैवमनुबुध्येयं वद नो वदतां वर ।

सुदुःसहमहं मन्ये आत्मन्यसदतिक्रमम् ॥ ५९ ॥

विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी ।

ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान् ॥ ६० ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे द्वाविंशोऽध्यायः ॥

पदरत्नावली

विषयाः सोढव्या इति यद् हरिणोक्तं तत्रोद्धवश्चोदयति यथेति । यथावत् स्पष्टीकुरु । ते तव चरणालयान् चरणैकशरणान् ऋते इतरेषां विदुषामपि असतामात्मन्यतिक्रमं सुदुःसहं मन्ये । तत्र हेतुगर्भविशेषणमाह– प्रकृतिरिति । प्रकृतिर्बलीयसी हि । अहं ममेति देहाभिमानस्वभावो बलिष्ठोऽपरिहार्यः हि यस्मात्, तस्मादिति शेषः ॥ ५९,६० ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य द्वाविंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

क्षिप्त इत्यादिकं श्रुत्वोद्धवश्चोदयति ॥ यथेति । कथमित्यर्थः । एवं त्वदुक्तप्रकारेण परोक्तं वदेत्यर्थः । विदुषामपि दुःसहं किमु । अज्ञानां दुःसहत्वहेतुः प्रकृतिर्हीति ॥ अहं ममेत्यभिमानस्वभावो बलिष्ठो यस्मात् । तस्मादिति शेषः । एतादृशैरेव सुदुःसह इत्याशयेनाह ॥ ऋत इति । त्वच्चरणालयांस्त्वच्चरणैकशरणानृतेऽन्येषां सुदुःसहं मन्य इत्यन्वयः ॥ ५९,६० ॥

॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासतीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे द्वाविंशोऽध्यायः ॥११–२२॥

प्रमेयचन्द्रिका

असदतिक्रमजन्यात्मोपद्रवसहनं कार्यमित्युक्तविषये उद्धवेन प्रश्नः क्रियते ॥ यथेत्यादिना ॥ तथा वद ॥ प्रकृतिः पूर्वसंस्कारः । तव चरणैकशरणानृते इतरेषां विदुषामपि दुःसहमहं मन्य इति ॥ ५९,६० ॥

इति श्रीमदानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवतैकादशतात्पर्य-

प्रमेयचन्द्रिकायां द्वाविंशोऽध्यायः ॥ ११–२२ ॥