य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान्
॥ अथ एकविंशोऽध्यायः ॥
श्रीभगवानुवाच–
य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामान् खलैः प्राणैर्जुषन्तः संसरन्ति ते ॥ १ ॥
पदरत्नावली
कर्मयोगिनां भगवत्प्रियत्वेन द्रव्यदेशादिशुद्धिकथनपूर्वकं कर्मकरणप्रकारं वक्त्यस्मिन्नध्याये । तत्र कथितानां त्रयाणां मध्ये एकमप्यननुतिष्ठतां गतिमाह– य एतामिति । भक्तिज्ञानक्रियात्मिकां भक्तिज्ञानकर्मयोगविषयाम् ॥ १ ॥
श्रीनिवासतीर्थीया
अत्र कर्मयोगिनां देशादिशुद्धिकथनपूर्वकं कर्मकरणप्रकारं निरूपयति । तत्र पूर्वाध्यायान्ते एवमेतानिति मोक्षमार्गानुष्ठानफलमुक्तं तदनुष्ठाने फलं ताव-दाह ॥ य एतानिति । मत्पथो मत्प्राप्तिमार्गान् । भक्तिज्ञानक्रियात्मकान् । भक्तियोग-ज्ञानयोगकर्मयोगाख्यान् । चलैर्नश्वरैः प्राणैरिन्द्रियैर्जुषन्तः सेवन्तः ॥ १ ॥
प्रमेयचन्द्रिका
उक्तत्रिविधयोगेष्वन्यतमस्याश्रयणमेव कार्यम् अन्यथाऽनर्थः स्यादित्यु-च्यते । य एतामिति । एतां प्रकृतिं मम मत्सम्बन्धीति कथ्यते प्रतिपाद्यते शास्त्रेष्विति । कथां शास्त्रोक्तमिति यावत् । भक्तिज्ञानक्रियात्मिकां हित्वा शास्त्रोक्तं भक्त्यादित्रिविधयोगं हित्वेति यावत् । कथाशब्दानुसारेण स्त्रीलिङ्गोपपत्तिः । खलैर्दुष्टैः । प्राणैरिन्द्रियैः । अतो भक्तियोगादिष्वन्यतमनिष्टा कार्येति भावः ॥ १ ॥
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ २ ॥
पदरत्नावली
यथा गुणदोषौ मत्प्रियाप्रियोपहतविहितकरणनिबन्धनौ एवं गुणदोषमूले पुण्यापुण्यनिबन्धने शुद्ध्यशुद्धी अपि मत्सन्निधानविशेषतदभावकृते न ब्राह्मणजात्यादिकृते इति पूर्वोक्तानुवादपूर्वं शुद्ध्यशुद्धिव्यवस्थामाह स्वे स्व इति । उक्तार्थोयम् ॥ २ ॥
श्रीनिवासतीर्थीया
कर्मकरणे द्रव्यादिशुद्ध्ययोरपेक्षितत्वेन तत्स्वरूपं ज्ञेयमित्यतो यथा भगवत्प्रीतिकर एव गुणस्तदप्रीतिकर एव दोष इति गुणदोषस्वरूपं भगवत्प्रीत्यप्रीति-बन्धनमेवं भगवत्संनिधानविशेषयुक्तमेव शुद्धं वस्त्वितरदशुद्धमिति वक्तुं पूर्वोक्तगुणदोषस्वरूपं स्मारयति ॥ स्वे स्व इति । अधिकारे हरिप्रीतिकरे । व्याख्यातं चैतत् । हरिप्रीतिकरो गुणस्तदप्रीतिकरो दोष इति फलितोऽर्थः ॥ २ ॥
प्रमेयचन्द्रिका
तत्र तत्कर्मयोगिनां कर्मकरणार्थद्रव्यदेशकालादिशुध्द्यशुद्धिज्ञानस्या-पेक्षितत्वाच्छुद्ध्यादेश्च भगवत्प्रियत्वाधीनत्वात्तं प्रियत्वाप्रियत्वाभ्यां गुणदोषप्रतिपादकपूर्वोक्त-स्ववाक्यानुवादपूर्वकं प्रियत्वादिनिमित्तकस्वसन्निधानादिना शुद्ध्यादिनिरूपणं क्रियते पञ्चभिः श्लोकैः । तत्र स्वे स्वेऽधिकार इति पूर्वोक्तानुवादः । निर्णय इत्यस्य निश्चय इति प्रतिपद-मुपात्तमित्यनुवादतोपपत्तिः । त्रिविधयोगिनां मध्ये स्वेस्वेऽधिकारे या निष्टा स्वप्रतिभा बलेनैव परिज्ञातभगवद्गुणानुसारेण वेदार्थविदामुत्तमानां प्राग्वद्विशेषसन्निधाननिमित्तक-तत्प्रियत्वाप्रियत्वनिश्चयरूपा । स्वयमेव ज्ञानाङ्गानुसारेण वेदार्थज्ञानवतामिदं वेदविहितत्वा-द्धरिप्रियम् इदं तु निषिद्धत्वादप्रियमिति निश्चयरूपा । कर्मयोगिनां तु वेदार्थं गुरुमुखेन श्रुत्वैव तदनुसारेण विहितनिषिद्धेषु प्रियत्वाप्रियत्वनिश्चयरूपा निष्टा स गुणः शुभहेतुः । परि-कीर्तितः । विपर्ययः भगवत्प्रियत्वाप्रियत्वे विना वेदे विहितत्वनिषिद्धत्वमात्रस्वभावतो गुणत्वदोषत्वज्ञानं दोषोऽनर्थहेतुः । इत्युभयोर्गुणदोषरूपशुद्धाशुद्धयोरेष निश्चय इत्यर्थः । विस्तरस्तु पूर्वाध्याये कृतो द्रष्टव्यः ॥ २ ॥
शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३ ॥
तात्पर्यम्
**विवेकेन पुण्याधिक्यं भवतीति विचिकित्सार्थं गुणदोषौ विधीयेते । ‘पञ्चभूतात्मकत्वेन समता सर्ववस्तुषु । हरिसन्निधिवैशेष्याद्विशेषश्च महान्सदे’ति वैशेष्ये **
॥ ३ ॥
पदरत्नावली
पञ्चभूतात्मकत्वेन समानेष्वपि वस्तुषु द्रव्यस्य शुद्ध्यशुद्धी गुणदोषौ शुभाशुभौ च मत्सन्निधानविशेषतदभावकृतत्वेन विधीयेते । किमर्थमत उक्तं विचिकित्सार्थमिति । शुद्ध्यशुद्धिविवेकज्ञानेन पुण्याधिक्येन सुखाधिक्यं भवतीति ज्ञापनार्थमिति । ‘‘पञ्चभूतात्मकत्वेन समता सर्ववस्तुषु । हरिसन्निधिवैशेष्याद् विशेषश्च महान् सदा’’ इति वचनात् ॥ ३ ॥
श्रीनिवासतीर्थीया
यदर्थं गुणदोषस्वरूपोक्तिस्तदाह ॥ शुद्धीति । अत्र विचिकि-त्सार्थं धर्मार्थमित्यनयोस्तात्पर्यमाह ॥ विवेकेनेति । गुणदोषावित्यस्यान्वयं दर्शयति । गुणेति । ननु समानेष्विति कथम् । वस्तुतारतम्यस्य प्रमाणसिद्धत्वादित्यत आह ॥ पञ्चेति । ननु समानत्वे कथं शुद्ध्यशुद्धीत्यत आह ॥ हरिसन्निधीति । विशेषः शुद्ध्यादिरूपः । सर्ववस्तुष्विति वर्तते । तथा च पञ्चभूतात्मकत्वेन समानेष्वपि वस्तुषु मध्ये द्रव्यस्य शुद्ध्यशुद्धी हरिसन्निधानविशेषतदभावाभ्यां विधीयेते । यथा गुणदोषौ भगव-त्प्रीत्यप्रीतिकरौ ज्ञातव्यौ । इदं कथं ज्ञेयमित्यतो विधीयेत इत्युक्तम् । वेदविहित एव प्रीतिकरत्वेन गुण इतरो दोष इत्यज्ञैर्ज्ञातव्यमिति भावः । एवं च शुद्ध्यशुद्धी तथा शुभाशुभे ग्रामगमनसमये पूर्णकुम्भाद्यागमनं शुभम् । एकब्राह्मणागमनमशुभमिति शुभाशुभे च विधीयेते । तदानीं हरिसन्निधानतदभावाभ्यां किमर्थं विधीयेत इत्यत उक्तम् ॥ विचिकित्सार्थमिति । सन्नन्तशब्दस्य विचारेऽपि जिज्ञासितं सुसंपन्नमित्यादौ प्रयोगदर्शनाद्विवेकार्थमिदं शुद्धमिदम-शुद्धमित्ययं गुणोऽयं दोष इतीदं शुभमिदमशुभमिति विचारार्थमित्यर्थः ॥ ३ ॥
प्रमेयचन्द्रिका
शुद्ध्यशुद्धी भगवत्सान्निध्यासान्निध्याधीन इति सूचयन् शुद्धत्वादे-र्हरिसन्निधानाद्यधीनत्वे वेदादाविदं शुद्धमिदमशुद्धमिति ज्ञापनाय विध्यादिर्न स्यादित्याशङ्का परिह्रीयते शुद्ध्यशुद्धी इति । अत्र विचिकित्सार्थमित्यस्य संशयार्थमित्यन्यथाभाना-त्तत्प्रयोजनं सूचयन् व्याचष्टे विवेकेनेति । अत्र चिकित्साशब्देन विवेकेन ज्ञापनेच्छोच्यते । ततश्च विचिकित्सार्थमित्यस्य विवेकेन ज्ञापनार्थमित्यर्थः । तत्प्रयोजनमुक्तं विवेकेन पुण्याधिक्यं भवतीति । हिशब्दो हेत्वर्थः । ततश्चेदं शुद्धमिदमशुद्धमिति विवेकेन ज्ञापनार्थ-मित्यर्थः ॥ गुणदोषावित्यस्यान्वयाप्रतीतेराह गुणदोषाविति ॥ विधीयेत इति पूर्वावृत्याऽ-न्वय इत्यर्थः ।
ननु यदीदं शुद्धमिदमशुद्धमिति वस्तुषु विशेषस्तर्हि समानेष्वित्युक्तं समानत्वं कथमुप-पन्नमित्यतः प्रमाणेन श्लोकं व्याचष्टे पञ्चभूतेति ॥ हरिसन्निधीत्युपलक्षणम् । तदभावेति च ग्राह्यम् । ततश्च पञ्चमहाभूतविकारत्वेन सर्ववस्तूनां समत्वेऽपि भगवत्सन्निधिभावाभावरूप-विशेषेण वैषम्यमिति न विरोध इति भावः । तदयं मूलार्थः । वस्तुषु पञ्चभूतात्मकत्वेन समानेष्वपि द्रव्यस्य देशकालादेर्विचिकित्सार्थम् इदं विशेषभगवत्सन्निधिपात्रत्वाच्छुद्धं तदभावादिदमशुद्धमिति विवेकेन ज्ञात्वाऽनुष्ठाने पुण्याधिक्यं भवतीति हेतोर्विवेकेन ज्ञापनार्थं भगवत्सन्निधिभावाभावाभ्यां शुद्ध्यशुद्धी गुणदोषौ शुभाशुभे च श्रुत्यादौ प्रत्येकं विधियेत इति । गुणदोषावित्यस्यार्थः शुभाशुभाविति ॥ शुद्ध्यशुद्धी पावित्र्यापावित्र्ये गुणदोषौ पुण्यसाधनत्वतदभावौ शुभशुभौ पुरुषार्थसाधकत्वतदभावाविति विवेकः । तथा च देश-कालादीनां वेदादौ शुद्धत्वाशुद्धत्वादिज्ञापकविधिनिषेधौ भगवत्सन्निधानपात्रत्वतदभाव-निमित्तकप्रियत्वाप्रियत्वज्ञापनार्थमेव । न ते स्वत एव शुद्धत्वादिनिरूपणार्थमिति भावः
॥ ३ ॥
धर्मार्थं व्यवहारार्थं यात्रार्थमिति वाऽनघ ।
दर्शितोऽयं मयाऽऽचारो धर्म्यमुद्वहता धुरम् ॥ ४ ॥
पदरत्नावली
एतदेव विवृणोति धर्मार्थमिति । सुकृतादिप्रयोजनमुद्दिश्य । धर्म्यं धर्मसाधनं धुरमुद्वहता मया । यात्रार्थं शरीरयापनार्थम् ॥ ४ ॥
श्रीनिवासतीर्थीया
विवेकज्ञानेनापि किमित्यत उक्तम् ॥ धर्मार्थमिति । विवेकेन पुण्याधिक्यं भवतीति तदर्थमित्यर्थः । इदं शुद्धमिदमशुद्धमित्यादिव्यवहारार्थम् । तज्ज्ञानाभावे तत्साध्यव्यवहारायोगात् । यात्रार्थं देहयात्रार्थम् । शुद्धगुणाः शुभान्येव सेव्यानि नाशुद्धा दोषा अशुभानीत्येवमर्थमित्यर्थः । यात्रार्थं प्राणयात्रार्थं शुभाशुभौ विधीयेते इत्यर्थ इत्यप्याहुः । न केवलमेवं वेदविहितं किं नामेत्यत आह ॥ दर्शितोऽयमिति । धर्म्यं धर्मसाधनम् । धुरं भारमुद्वहता धर्मप्रवर्तकेन मयेति यावत् । आचारो धर्मशास्त्राख्योऽपि दर्शितः । तथा चैवं स्मृत्याऽपि विहितमस्तीत्याशयः ॥ ४ ॥
प्रमेयचन्द्रिका
एतद्विवरणं क्रियते धर्मार्थमिति ॥ धर्मादपेतं धर्म्यम् । धर्मसाधनं धुरमुद्वहता मया धर्मार्थं पुण्यार्थं तदुपयुक्ततया प्रियत्वादिनिमित्तकप्रशस्तत्वाप्रशस्तत्वप्रकारक-व्यवहारार्थं, शरीरयात्रार्थं परस्परवित्तापहारादिनिरसनद्वारा मर्यादासिध्यर्थमिति यावत् । विधिनिषेध-रूपवेदेनाचारः प्रदर्शित इत्यर्थः ॥ ४ ॥
भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्च धातवः ।
आब्रह्मस्थावरादीनां शरीरा आत्मसंयुताः ॥ ५ ॥
भेदेन नामरूपाणि विषमाणि समेष्वपि ।
धातुशुद्ध्यै विकल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥
तात्पर्यम्
धातुः परमेश्वरः । ‘यद्यद्धरेः सन्निहितं तत्तच्छुद्धतरं मतम् । स्वतः शुचितमो विष्णुः सान्निध्यं च स्वभावत’ इति च ॥ एतेषां जीवानाम् ॥ ६ ॥
पदरत्नावली
शुद्ध्यशुद्धी इत्युक्तमेव विवृणोति भूमीति । स्थावरादीनामाब्रह्मपर्यन्तानां जीवानामात्मना संयुता शरीरा भूम्यादयः पञ्चधातवः महाभूतानि ॥ पञ्चभूतात्मकत्वेन समानेष्वपि ब्रह्मादिस्थावरान्तेषु धातुः परमेश्वरः, य उ त्रिधातु पृथिवीमिति श्रुतिः, तस्य सन्निधानविशेषात् शुद्ध्यै तदसन्निधानविशेषादशुद्ध्यै च भेदेन तारतम्यलक्षणेन विषमाणि नामरूपाणि विकल्प्यन्ते विविधत्वेन कल्प्यन्ते व्यवहारयोग्यायोग्यानि क्रियन्ते, विद्वद्भिर्मया चेति शेषः । किमर्थम् । एतेषां देहित्वेन प्रत्यक्षलक्षणानां स्वार्थसिद्धये स्वयोग्यपुरुषार्थसिद्धय इति । ब्रह्मस्थावरादीनाम् आ स्मृतिलक्षणज्ञानयोग्यानामित्यर्थः, वाक्यस्मरणयोरङिदिति वचनात् । ‘‘यद्यद् हरेः सन्निहितं तत्तच्छुद्धतरं मतम् । स्वतः शुचितमो विष्णुः सान्निध्यं च स्वभावतः’’ इति वचनात् ॥५,६॥
श्रीनिवासतीर्थीया
द्रव्यस्य शुद्ध्यशुद्धीत्युक्तं विशदयति ॥ भूमीत्यादिना । तत्र पूर्वश्लोके ब्रह्मादीनां शरीरस्य प्रकृतत्वाद् धातुशुद्ध्यै इत्यस्य शरीरधातुशुद्ध्येत्यर्थ इत्यन्यथा-प्रतीतिपरिहारायधातु शब्दार्थमाह ॥ धातुरिति । धारकत्वादिति भावः । य उ त्रिधात्विति श्रुतेः । ननु तर्हि तस्य शुद्धिर्नाम केति चेत् । शुचितमत्वमेवेति ब्रूमः । परमेश्वरस्य शुचि-तमत्वज्ञापनार्थमित्यर्थः । ननु कथमनेन शुचितमत्वं हरेर्ज्ञापितमित्यत आह ॥ यद्यदिति । हरेरिति कर्तरि षष्ठी । हरिणेत्यर्थः । तत्तच्छुद्धमिति ग्राह्यम् । यच्च हरिणा विशेषतः सन्निहितं तच्छुद्धतरमिति योज्यम् । यथेतरद्धरिणा सन्निहितत्वाच्छुद्धमित्युच्यते । एवं हरिरप्यनेन सन्निहितत्वाच्छुचितमो नेत्याशयेन स्वत इत्युक्तम् । ननु हरिसन्निधानेनेतरच्छुद्धं स्वतः शुद्धो हरिरेवेति चेत्तर्ह्यग्न्यादिः स्वतो हरिसन्निधानेन विना शुद्ध इत्यादि न स्यादित्याशङ्कां प्रमाणशेषेण परिहरति ॥ सान्निध्यं चेति । तथा चाग्न्यादौ स्वाभाविकं सान्निध्यमेवास्तीति युक्तं शुद्धत्वादीत्यर्थः । उत्तरत्रैतद्विवृतं भविष्यति । एतेषां भूम्यादीना-मित्यन्यथा प्रतीतिनिरासायार्थमाह ॥ एतेषामिति । तथा चाब्रह्मस्थावरादीनां भूतानां प्राणिनां शरीराः शरीरस्था भूम्यादयः पञ्चधातवः पञ्चभूतानि यद्यप्यात्मना हरिणा संयुताः सन्निहिताः सर्वेऽपि भवन्ति । भगवतः सर्वत्र व्याप्तत्वात् । तथाऽपि समेषु तेषु भेदेन नामरूपाणि । कदलीफलादिकं शुद्धम् । वृन्ताकादिकमशुद्धमिति नामभेदः । वर्तुलत्वादि-रूपभेदः । एवं भेदेन नामरूपाणि हरिसन्निधिवैशेष्येण शुद्धशुद्धतरत्वादितरतमभावोपेतानि विकल्प्यन्ते ज्ञायन्ते । कुत इत्यत उक्तम् ॥ धात्विति । धातुः परमेश्वरस्य शुद्ध्यै शुचितमत्वज्ञापनाय । इतरद्धरिसन्निधानेन शुद्धं शुद्धतरं च । परमेश्वरस्तु स्वतः शुद्ध इति ज्ञापनार्थमित्यर्थः । तेनापि किमित्यत उक्तम् ॥ एतेषामिति । जीवानां तज्ज्ञानेन स्वार्थस्य मोक्षादेः सिद्धये प्राप्तये इत्यर्थः ॥ ५,६ ॥
प्रमेयचन्द्रिका
आचारप्रदर्शनं विवृणोति भूमीति ॥ आब्रह्मपर्यन्तानां स्थावर-जङ्गमात्मकानां भूतानामात्मसंयुता मनोवाचकात्मशब्द इन्द्रियान्तरोपलक्षकः । मन-आदीन्द्रियसहिताः शरीराः शरीराणि । भूम्यादयः पञ्च धातवः । कार्यकारणयोरभेदाद्भूम्यादि-पञ्चधातूपपादका इति यावत् ॥
एवं सर्वजीवेषु पाञ्चभौतिकदेहवत्वेन समेष्वप्येतेषां स्वार्थसिद्धये स्वप्रयोजनलाभाय कर्मणो नियमार्थं द्रव्यदेशकालाधिकारिभेदव्यवस्थासिध्यर्थं धातुशुध्द्यै धातोरीश्वरस्य शुध्यै तत्सन्निधानात् । द्रव्यादिशुद्धिज्ञापनार्थम् । भेदेन भिद्यत इति भेदो विशेषस् तेन । भगव-त्सन्निधानप्राचुर्यरूपविशेषेणेति यावत् । विषमाणि तारतम्योपेतानि नामरूपाणि देवऋषयो मनुष्या इत्यादि नामानि । तत्तदाकारलक्षणरूपाणि विकल्प्यंते । विषमत्वेन विविधं कल्प्यन्त इत्यर्थः । विषमाणीत्येतदेव वीत्युपसर्गेण वीयत इति ज्ञातव्यम् । तथा द्रव्यदेश-कालादीनां गुणदोषौ च विधिनिषेधात्मकाद्वेदरूपान्मम वचनाद्विधीयेते । प्रतिपाद्येत इति । अत्र धातुपदेन भूम्यादिपञ्चभूतानां प्रस्तुतत्वाद्धातुशुध्द्यै इत्यत्रापि धातुपदस्य भूम्याद्यर्थत्वे शुध्द्यै इत्यस्यानुपयोगाद्धातुपदमनूद्यार्थमाह धातुरिति ॥ य उ त्रिधातु पथिवीमुत द्यामेको दाधारेति श्रुतेरिति भावः । ननु तथाऽप्यनुपपत्तिरेव । परमेश्वरस्य शुध्यर्थं नामादिकल्पना-योगादित्यतोऽत्र विवक्षितमभिप्रायं प्रमाणेनाह यद्यदिति ॥ एतेन धातोर्हरेः सन्निधाना-च्छुद्धिर् धातुशुद्धिः । तस्यै इति । मध्यमपदलोपिसमासे धातूनां शुद्धिर्धातुशुद्धिरिति मूले विवक्षितमित्युक्तं भवति । यद्वस्तु हरेर्हरिणा अतिशयक्रमेण सन्निहितं तत्तच्छुद्धितरं शुद्धतमं चेति ग्राह्यम् । न चैवं हरेरत्याधिक्येन शुद्धतत्वमन्यनिमित्तकमित्याह स्वत इति ॥
नन्वेवं हरेर्मनुष्यादिब्रह्मान्तचेतनेषु सान्निध्यस्य तरतमभावेनावस्थाने किं कारणमित्यत आह सान्निध्यं च स्वभावत इति ॥ मूलगतमेतेषामिति पदं शरीराणां च प्रस्तुतत्वा-त्तत्परामर्शकमिति भ्रान्तिवारणायानूद्य व्याचष्टे एतेषामिति ॥ अयमिहाशयः पाञ्चभौतिक-देवतानां सर्वचेतनानां मध्ये अशुद्धास्तमोयोग्याः । नित्यसंसारिणः शुद्ध्यशुद्ध्युभयात्मकाः । न च तत्र शुद्ध्यापादकभगवत्सन्निधानम् । मुक्तियोग्या एव शुद्धाः । तत्रापि निरपेक्षित-पितृदेवर्ष्यादय इति देवेष्वग्निसूर्येन्द्रवाणीहिरण्यगर्भा इति नामभेदेन रूपभेदेन स्थितास्ते उत्तरोत्तरमतिशयेन शुद्धाः स्वरूपोत्तमाश्चेति तावत्प्रमितम् । तत्कस्माद्धेतोः । न तावच्छरीरनिमित्तकम् । शरीराणां पाञ्चभौतिकत्वेन समत्वात् । नापि चैतन्यनिमित्तकम् । तस्यापि ज्ञानरूपत्वेन समत्वात् । न च कर्मभेदो निमित्तकम् । निर्निबन्धनं कर्मभेदा-योगात् । न च द्रव्यदेशकालद्रव्यादिशुद्ध्यशुद्धिभेदेन कर्मसु विशेष इति वाच्यम् । तेषामपि देशत्वादिना समत्वे तत्र शुद्ध्यादिभेदकल्पकाभावात् । नापि तत्तदधिकारिभेदाद्भेदः । चेतनत्वादिना साम्येनावान्तराधिकारिभेदकल्पकादर्शनात् । न च तस्य स्वभावत्वादुपपत्तिः । तर्हि स्वभाववादाभ्युपगमे निरीश्वरवादापत्तेः। अतः परमशुद्धेन हरिणा यद्यद्विशेषेण सन्निहितं तत्तच्छुद्धतरमतो महदित्यङ्गीकार्यम् । न च हरेः शुद्धत्वे किं निमित्तमिति शङ्कनीयम् । तस्य स्वतन्त्रत्वेन स्वत एव शुचितमत्वात् । तथाऽपि तस्य तमोयोग्यादिषु शुद्ध्यापादक-सन्निधानम् । मुक्तियोग्यजीवेषु च तरतमभावेन सन्निधानमित्यत्र किं कारणामिति चेन्न । स्वतन्त्रेच्छाया नियन्तुमशक्यत्वात् । तादृशेच्छायाश्च तत्स्वभावत्वात् । सर्वेश्वरस्य स्वातन्त्र्यादेश्च प्रमितत्वान्नात्र क्षुद्रोपद्रवः । तथा च भगवत्सन्निधिपात्रतया परिशुद्धै-रधिकारिभिस्तत्सन्निधानलब्धशुद्धिमुद्देशकालादौ तत्सन्निधिशुद्धद्रव्यादिना भगवत्प्रियतया प्रशस्तकर्मसु क्रियमाणेष्वन्तःकरणशुद्धिद्वारा भगवदनुग्रहेण ज्ञानभक्त्युपपादनेन मोक्षादि-पुरुषाथसंपादनार्थं भगवता वेदादिरूपस्ववाक्येन विधिनिषेधपरेण हरिसन्निध्यादिप्रयुक्त-शुद्ध्यादेस्तन्निमित्तकप्रियत्वादेश्च ज्ञापनायाचारो दर्शित इति ॥ ६ ॥
देशकालादिभावानां वचनान्मम सत्तम ।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७ ॥
पदरत्नावली
देशादीनां श्रुतिस्मृतिलक्षणं मम मुखोद्गतं वचनमेव गुणदोषयोर्विवेचकमित्याह– देशेति । अयं देशोऽयं काल एतद् द्रव्यमितीमानि कर्मयोग्यानि नेतराणीति मम वचनाद् देशादीनां गुणदोषौ विधीयेते । कर्मणां नियमार्थं फलसाधनार्थम् ॥ ७ ॥
श्रीनिवासतीर्थीया
तत्र देशादिशुद्धिः कथं ज्ञेयेत्यत आह ॥ देशेति । भावानां पदार्थानां श्रुतिस्मृतिरूपान्मम वचनाद्गुणदोषावेतादृशो देशादिर्भगवत्प्रीतिकर एतादृशो नेति गुणदोषौ कर्मणां नियमार्थमेतादृशे देशे एतादृशे काले कर्म कर्तव्यमिति नियमनं कर्तुं विधीयेत इत्यर्थः ॥ ७ ॥
कृष्णसारोऽथ देशानां ब्राह्मणानां शुचिर्भवेत् ।
कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणः ॥ ८ ॥
कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा ।
यतो निवर्तते कर्म सदोषोऽकर्मकः स्मृतः ॥ ९ ॥
तात्पर्यम्
‘नदीसमुद्रगिरय आश्रमाश्च वनानि च । नगराणि च दिव्यानि शाल-ग्रामादयस्तथा । तेषां समीपगाश्चैव देशा योजनमात्रतः । कर्मण्यास्तु समाख्य्तास्तदन्ये कीकटाः स्मृताः । तदन्येऽपि तु ये देशाः कृष्णसारोषिताः स्वतः । कर्मण्या एव ते ज्ञेया यदि नाध्युषिताः खलैः । खलैरध्युषिताश्चापि यदि सद्भिरधिष्ठिताः । कर्मण्या इति विज्ञेया विष्णुलिङ्गानि यत्र चे’ति स्कान्दे ॥ ‘आन्तरः सन्निधिर्विष्णोर्बाह्यसन्निधिरेव च । द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते । स्वाभाविकस्त्वान्तरः स्यात्प्रतिमाजीवगो यथे’ति च ॥
पदरत्नावली
कीदृशा देशाः शुचय इत्यतस्तानाह– कृष्णसार इति । ब्राह्मणानां कर्मकरणाय कृष्णसारो नाम मृगो देशानां शुचिः शुद्धिकरो भवेत् । कृष्णसारो यं देशमधिवसति स देशः शुचिरित्यर्थः । अथशब्देन कृष्णसारविधुरोपि देशः शुचिरिति सूचयति । ‘‘नदीसमुद्रगिरय आश्रमाश्च वनानि च । नगराणि च दिव्यानि शालग्रामादयस्तथा । तेषां समीपगाश्चैव देशा योजनमात्रतः । कर्मण्यास्तु समाख्यातास्तदन्ये कीकटाः स्मृताः । तदन्येपि तु ये देशाः कृष्णसारोषिताः स्वतः । कर्मण्या एव ते ज्ञेयाः’’ इति वचनात् । उक्तस्यापवादमाह– कृष्णसारोपीति । कृष्णसारोपि सौवीरकीकटासंस्कृतेरिणेभ्योऽन्यदेशस्य शुचिहेतुः । एषां स्ववासेनापि शुचिकरो नेत्यर्थः । खर्पराद्युषितो देशोऽऽसंस्कृत इत्युच्यते । तदुक्तम् ‘‘यदि नाध्युषिताः खलैः’’ इति । तत्रापि विशेषोऽस्तीत्युक्तम् ‘‘खलैरध्युषिताश्चापि यदि सद्भिरधिष्ठिताः । कर्मण्या इति विज्ञेया विष्णुलिङ्गानि यत्र च’’ इति । ईरिणदेशो लावाणिक उपद्वीपादिकः ॥
देशान् निरूप्य कर्मयोग्यं कालमाह– कर्मण्य इति । कर्मण्या इति विज्ञेया इत्यादि-प्रमाणसिद्धोऽयमर्थ इति प्रकटनाय कर्मण्य इति स्मृत्युक्तशब्दानुवादः । गुणवानावृत्तिमान् कालः कर्मण्यः यज्ञादिकर्मयोग्यः । स च द्विविधो द्रव्यतः स्वत इति । वाशब्देन द्वावपि योग्याविति वक्ति । एवशब्देन तृतीयो नास्तीति निश्चीयते । द्रव्यतः कर्मण्यो वसन्तादिलक्षणः । स्वतः कर्मण्यो सन्ध्यादिलक्षणः । कालस्य गुणवत्त्वं नाम किं येन कर्मावर्तते इति तं विविनक्ति यत इति । यतो यस्मिन् काले निषेधात् कर्म निवर्तते न क्रियते स कालः सदोषः निषिद्धो ऽकर्मकः कर्मानर्हः निशीथादिलक्षणः स्मृतः । निशीथो मध्यमा रात्री राक्षसानां तु गोचर इत्यादिना यतो दोषात् कर्म निवर्तते तेन दोषेण युक्तत्वात् कालः सदोषत्वादकर्मकः ॥ ८,९ ॥
श्रीनिवासतीर्थीया
कीदृशा देशाः शुचिकरा इत्यत आह ॥ कृष्णसार इति । ब्राह्मणानां कर्मकरणार्थं कृष्णसारमृगो देशानां शुचिकरो भवेदित्यर्थः । कृष्णसारो यं देश-मधिवसति स देशः शुचिरिति भावः । अस्यापवादमाह ॥ कृष्णसार इति । मतुपो लोपेन अर्शआद्यजंतत्वेन वा कृष्णसारः कृष्णसारमृगवान्देश इति व्याख्येयम् । असौवीरकीकटा-संस्कृतेरिणः । अत्र कीकटासंस्कृतशब्दार्थं प्रमाणेनाह ॥ नदीत्यादिना । आश्रमा ऋषीणाम् । कर्मण्याः कर्मकर्तुं योग्याः । तदन्येऽपि कीकटान्येऽपि ॥ स्वत इति । न तु बलादानीय तत्र स्थापिता इत्याशयः । खलैरित्युक्त्या खलाध्युषितो सदोषोऽसंस्कृत इत्युच्यत इत्युक्तं भवति । तथा च सौवीरकीकटासंस्कृतेरिणो भिन्नः कृष्णसारवान्देशः कर्मण्य इत्यर्थः । ईरिणो लवणोत्पत्तिस्थानमुपद्वीपादि । सान्निध्यं च स्वभावत इति प्रमाणशेषोक्तं सिंहावलोकनन्यायेन प्रमाणान्तरेण विवृणोति ॥ आन्तर इति । क्रमेणो-दाहरणमाह ॥ प्रतिमेति । प्रतिमागतः सन्निधिः कृत्रिमः । सर्वजीवान्तर्गतः सन्निधिः स्वाभाविक इत्यर्थः । कीदृशः कालः कर्मण्य इत्यत आह ॥ काल इति । द्रव्यतः पुष्प-फलादिद्रव्यतो गुणवान्समृद्धिमान्वसन्तादिकालः स्वतो गुणवान् । सन्ध्यावन्दनादिकाल इति द्विविधः कालः कर्मण्य इत्यर्थः । कः कालोऽकर्मण्य इत्यत आह ॥ यत इति । यस्मिन्काले च यतो दोषात्कर्म निवर्तते निशीथत्वादिदोषात्कर्म न क्रियत इत्यर्थः । सदोषस्तादृशदोषयुक्तः कालोऽकर्मकोऽकर्मण्य इत्यर्थः ॥ ८,९ ॥
प्रमेयचन्द्रिका
इतःपरं मूले हरिसन्निधिभावाभावविशेषेण शुद्धाशुद्धदेशादिनिरूपणं क्रियते कृष्णसारेत्यादिना ॥ अत्र कृष्णसारोऽपि तद्दैशस्यैव शुद्धत्वं नान्यस्येति भाति । तर्हि पुण्यनदीतीरपुण्यक्षेत्रादीनां कृष्णसारानध्युषितत्वे अशुद्धत्वापात इत्यतः प्रमाणेन विविच्याह नदीति ॥ दिव्यानि स्तुत्यानि पुण्यानीति यावत् । सालग्रामादय इत्यादिपदेन बदरीरङ्गादिक्षेत्रग्रहणम् । योजनेति ॥ परितो योजनमात्र एव समीपगा इति योजना ॥ कर्मण्याः कर्माचरणयोग्याः । तुरवधारणे । तद्व्यावर्त्यमाह तदन्य इति । अत्रापवादभूत-देशपरं मूलमित्याशयेनाह तदन्येऽपीति ॥ कर्मण्यत्वेऽपि नद्याद्यपेक्षया न्यूनतारूपविशेष-द्योतकस्तुशब्दः । स्वत इत्यनेन कृष्णमृगस्यान्येन आनीय स्थापितत्वे कर्मण्यत्वाभावं सूचयति । तेऽपीति सम्बन्धः । नदीसमुद्राद्या इत्यादावपि अपवादमाह यदीति । नदीतीरादयोऽप्यसद्भिरध्युषिता यदि न स्युस्तर्ह्येव कर्मण्या इत्युक्तेरिति भावः । खलै-रध्युषिताः कर्मण्या इत्यत्रापवादमाह खलैरिति ॥ विष्णुलिङ्गानि पुराणादिसिद्धभगव-त्प्रतिमाः । एवं नद्यादीनां कृष्णसारोषितानां कर्मण्यता कीकटकृष्णसारानध्युषितानाम-कर्मण्यताचोक्ता । नद्यादिषु हरिसन्निधानं कीकटादिषु तदभाव इति यद्यद्धरेः सन्निहितमिति न्यायेन लब्धम् । तत्र नित्यसन्निधानवतां सदा शुद्धत्वम् आगन्तुकसन्निधानवतां सन्निधिकाले शुद्धत्वं तदभावकाले तदभाव इतीमं विशेषं प्रमाणेनाह आन्तर इति । आन्तरो बाह्य इति द्विविध एव सन्निधिः प्रोक्तो वेदादौ । अनेन देशविशेषकृतः सन्निधिः कृत्रिमः स एव बाह्य इत्युच्यते । यस्तु स्वभावसिद्धो नद्यादौ स्वयंव्यक्तक्षेत्रेषु च सन्निधिः स आन्तरः । तत्रोभयत्र निदर्शनमुक्तम् प्रतिमेति ॥ प्रतिमायां प्रतिष्ठया कृतः सन्निधिः कृत्रिमः । सज्जीवेनानादितः सिद्धो अत एव स्वाभाविकः । आन्तरो यथा तथा आगन्तुक ऋष्या-श्रमादौ कृत्रिमः । नदीसमुद्रादिष्वौत्पत्तिकोऽत आन्तर इति । ततश्च ऋष्याद्यध्युषितत्व-दशायां हरिसन्निधानात्तद्देशस्य शुद्धत्वम् । तदभावकाले सान्निध्याभावादशुद्धत्वमित्युक्तं भवति । प्रतिमाजीवगाविति पाठेतु प्रतिमासु जीवेषु च विद्यमानो यथेत्यर्थः । उपपादनं पूर्ववत् । मूले कृष्णसारो ऽर्शआद्यजन्ततया कृष्णसाराध्युषितः । शुचिः पवित्रोऽत एव कर्मण्यः । उक्तस्यापवाद उच्यते कृष्णसारोऽपीति । सौवीरकीकटासंस्कृतदेशेभ्योऽन्य एव देशः शुचिर्भवेत् । न तु कृष्णसाराध्युषितोऽपि सौवीरादिः शुचिरित्यर्थः । सौवीरोनाम राष्ट्रविशेषः । ‘कीकटेषु गया पुण्या’ इत्यादावुक्तो गयाक्षेत्रस्य परितो विद्यमानो देशः कीकटो देशः । कर्पूरोत्पत्तिप्रदेशोऽसंस्कृत इत्याहुः । भार्गवशापादिना वैदिकसंस्कारानर्हः केरलादिरसंस्कृत इत्याहुः । ईरणम् ऊषरदेशः । ‘ईरणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यत’ इति हि षष्टस्कन्धे ॥
कालेऽप्युक्तरीत्या विशेष उच्यते कर्मण्य इति ॥ गुणवान् कालः कर्मण्यः । स च द्विविधः । द्रव्यतः होमद्रव्यतः । दोषोत्पत्यादिनिमित्तेन प्रशस्तत्वगुणवान् वसन्तादिः । स्वत एव प्रशस्तः सत्वादिगुणवान् सन्ध्याकालादिः । अकर्मण्यकालो निरूप्यते यत इति । यस्मात्कालात्कर्म निवर्तते । यस्मिन् काले कर्म कर्त्तुमनर्हः स कालः सदोषोऽप्रशस्तोऽत एवाकर्मकोऽकर्मण्यः निशीथादिरिति ॥ ८,९ ॥
द्रव्यस्य शद्ध्यशुद्धी च द्रव्येण वचनेन वा ।
संस्कारेणाथ कालेन महत्त्वाल्पतयाऽथ वा ॥ १० ॥
पदरत्नावली
द्रव्यस्य शुद्ध्यशुद्धिप्रकारोपि बहुविध इत्याह– द्रव्यस्येत्यादिना । ताम्रादेर्द्रव्यस्याम्लादिद्रव्यसंयोगेन शुद्धिः । भाण्डादिद्रव्यस्य तूच्छिष्ठामेध्यसुरादिसंयोगेनाशुद्धिः । महतां वचनेन शुद्ध्यशुद्धी स्तः । तद्यथा । अभक्ष्यत्वं यतिपात्रत्वं चालाम्बुनो दृष्टम् । केषाञ्चित् प्रक्षालनादिसंस्कारेण शुद्धिर् असंस्कारेणाशुद्धिः । गर्दभयानमसंस्कृतवाणीत्यादेः । केषाञ्चिद-योग्यापहृतगृहादिद्रव्यविशेषाणां कालतः शुद्धिर् अन्नादीनां कालेनाशुद्धिः । अन्नादीनां महत्त्वे श्वादिस्पर्शे स्पृष्टांशत्यागेन शिष्टस्य शुद्धिः । अथवा अन्नस्याल्पतयाऽल्पत्वेन शुना स्पृष्टस्य तस्याशुद्धिः । अल्पस्यापि पापस्य पिपीलिकाहननादेरशुचित्वं न, महतो द्रव्यस्य वधादशुद्धिः
॥ १० ॥
श्रीनिवासतीर्थीया
द्रव्यस्य शुद्ध्यशुद्धिप्रकारोऽपि बहुधेत्याह ॥ द्रव्यस्येति । ताम्रादिद्रव्यस्याम्लादिद्रव्येण शुद्धिर्भाण्डादिद्रव्यस्यामेध्यादिद्रव्यसम्बन्धेनाशुद्धिः । महतां वचनेन शुद्ध्यशुद्धी । यथाऽलाम्बुनो यतिपात्रत्वं भक्ष्यत्वं च प्रक्षालनादिसंस्कारेण शुद्धिः । असंस्कारेणाशुद्धिः । कालेन म्लेंछोषितगृहस्य म्लेंछापगमानन्तरं बहुना कालेन शुद्धिः । न तु तदपगमानन्तरमेव । अन्नादेर्यामादिकालान्तरितत्वेऽशुद्धिः । अन्नादेर्महत्वे शुनकादिस्पर्शे स्पृष्टांशस्य त्यागेन शिष्टस्य शुद्धिः । अन्नस्याल्पत्वे शुनकस्पर्शेऽशुद्धिः ॥ १० ॥
प्रमेयचन्द्रिका
द्रव्यशुद्धिरशुद्धिश्च द्रव्यान्तराद्भवति । तत्र द्रव्यान्तरेण शुद्धि-र्धान्यदावित्यत्रोपलक्षणत्वेन वक्ष्यति । द्रव्यान्तरेण द्रव्यस्य शुद्धिः । सुराबिन्दुना गङ्गा-म्भसोऽशुद्धिः । इदं शुद्धमिति महतां वचने सति अशुद्धमपि शुद्धं भवति । भगव-दर्पणमन्त्रप्रोक्षणवैश्वदेवादिसंस्कारेणान्नादेः शुद्धत्वम् । अन्यथा भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणादिति न्यायेनाशुद्धत्वम् । श्राद्धादिकाले माषादेः शुद्धत्वं तस्यैव कार्तिक-मासे अशुद्धत्वम् । महत्वेन श्वादिस्पृष्टांशत्यागेनावशिष्टांशस्य शुद्धिः । अन्नस्याल्पतया शुना स्पृष्टस्याशुद्धिः ॥ १० ॥
शक्त्याऽशक्त्या च वाग्बुद्ध्या समृद्ध्या च तथाऽऽत्मनः ।
अन्ये शुद्ध्यन्ति हि तथा देशावस्थानुसारतः ॥ ११ ॥
पदरत्नावली
शक्त्या शुद्धिः शक्तस्य पुंसस् तीर्थयात्रादिना १ब्राह्मणयाचनादिना वा शुद्धिः । अशक्तस्य ज्वरादिरोगपीडितस्य देवार्चनादिलक्षणनित्यकर्मानुष्ठानेन शुद्धिः । अशुद्धस्यापि महतां वाचा शुद्धिः । शुद्धस्यापि बहूनां वाचा त्वशुद्धिः । बुद्धिरपि शुद्ध्यशुद्धिहेतुः । तथा हि । सुरापानादिपापनिश्चये अशुद्धिः । हरिकथाश्रवणादिपुण्यनिश्चये शुद्धिः । तथा समृद्धिः सम्पद् आत्मनः शुद्ध्यशुद्ध्योः कारणम् । सत्पात्रदानादिसद्व्ययेन शुद्धिः । असत्पात्रप्रदानगणिकादिभोगविषया अशुद्धिकारणम् । अन्ये मांसविशेषाः सोमादिद्रव्यविशेषाश्च देशावस्थानुसारतः शुद्ध्यन्त्यशुद्ध्यन्ति हि । तथा हि । मांसविशेषा विन्ध्यादुत्तरदेशे शुद्धा दक्षिणदेशे त्वशुद्धाः । तथा सोमादिद्रव्यविशेषा यज्ञकर्माद्यवस्थायामेव शुद्धा नान्यदा ॥ ११ ॥
श्रीनिवासतीर्थीया
शक्तस्य तीर्थयात्रादिना शुद्धिः । क्षयरोगादिनाशक्तस्याशुद्धिः । हरिकथाश्रवणादौ यदि बुद्धिस्तर्हि तया शुद्धिः । सुरापानादिबुद्ध्याऽशुद्धिः । समृध्या सम्पदा । आत्मनः शुद्ध्यशुद्धी । सत्यां संपदि सत्पात्रदाने शुद्धिरसत्पात्रदानेऽशुद्धिः । अन्ये मांसाः सोमाश्च । विन्ध्यादुत्तरदेशे मांसाः शुद्धाः । दक्षिणदेशेऽशुद्धाः । आर्यावर्ते स्वसुः पुत्रस्य कन्यादाने तस्याः कन्याया अशुद्धिः । दक्षिणदेशे शुद्धिः । यौवनावस्थाया-मशुचिस्पर्शेऽशुद्धिर्बाल्ये तु शुद्धिः । यज्ञकरणावस्थायां सोमः शुद्धो नान्यदेत्यर्थः ॥११॥
दुर्घटभावदीपिका
अशक्तस्येत्यस्य रोगाद्युपद्रवनिमित्तकक्लेशो विष्णवे तप इति चिन्तनेन शुद्धिः । अनागतेऽपि क्लेशादीन् अतीतेष्यानपि यो विष्णवे तप इत्येव चिन्तयन्याति तत्पदमिति वचनात् । अत्र शक्तिनिमित्तकदुरन्नादिग्रहणेनाशुद्धिश्चेत्यर्थः ॥ ११ ॥
प्रमेयचन्द्रिका
दृढाङ्गस्य जीर्णतासंपादनक्त्या गोमूत्रामलकपिष्टादिमिलितान्नस्य शुद्धिः । रोगपीडितस्याशक्त्या तादृशान्नादेरशुद्धिः । आयुःसत्त्वबलारोगेति, दुःखशोकामय-प्रदा इति सात्विकत्वतामसत्वयोरुक्तेर्गीतायाम् । बुध्या ज्ञानेन ज्ञानिदेहादेः शुद्धिः । न हि ज्ञानेन सदृशं पवित्रमित्युक्तत्वात् । मिथ्याबुध्या अशुद्धिः । सद्व्ययोपयुक्तसंपत्समृध्या आत्मनः स्वस्य शुद्धिः । स्वैरिणीभोगाद्युपयुक्तसमृध्याऽशुद्धिः । अन्ये मातुलकन्या-परिणयनादय औत्तरदेशीयानां शुद्ध्यन्ति । न चोलदेशीयानाम् । सोमादिद्रव्यविशेषा यज्ञ-दीक्षावस्थायामेव शुद्धा नान्यदेति देशावस्थानुसारतोऽन्ये शुद्ध्यन्तीत्यर्थः ॥ ११ ॥
धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् ।
कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः ॥ १२ ॥
पदरत्नावली
पार्थिवानां पृथिवीविकाराणां धान्यादीनां युतायुतैः कालादिभिः शुद्धिः । धान्यानामयुतेन एकेन कालेन । दारुपात्राणामस्थ्नां शङ्खादीनां च युताभ्यां मृत्तोयाभ्याम् । तन्तूनामयुतेन केवलतोयेन । आज्यादिरसानां तैजसानां कांस्यादीनां चायुतेनाग्निना । चर्मणां युताभ्यां मृत्तोयाभ्यां शुद्धिरित्यर्थः ॥ १२ ॥
श्रीनिवासतीर्थीया
रसो घृतादिः । तैजसं कांस्यादि । पार्थिवानां पृथिवीविकाराणां धान्यादीनां युतायुतैः कालादिभिः शुद्धिः । धान्यानामयुतेन केवलैकेन कालेन शुद्धिः । दारुपात्राणामस्थ्नां शङ्खादीनां च युताभ्यां मृत्तोयाभ्यां शुद्धिः । तन्तूनामयुतेनैकेन तोयेन । आज्यादिरसानां तैजसां कांस्यादीनां चायुतेनाग्निना । चर्मणां युताभ्यां मृत्तोयाभ्यामिति विवेकः ॥ १२ ॥
प्रमेयचन्द्रिका
द्रव्यस्य द्रव्यान्तरेण शुद्धिमुपलक्षणतया दर्शयति धान्येति ॥ पार्थिवानां धान्यादीनां युतायुतैर् मिलितैरयुतैरेकैकतया स्थितैः कालादिभिः शुद्धिरित्यर्थः । अत्र धान्येत्यत्र कालेत्यत्र चोपलक्षणतया तेऽपि ग्राह्याः । तथा च श्वगर्दभादिस्पृष्टधान्यस्य द्वित्रिमासरूपकालतः शुद्धिः । शूद्रस्पृष्टशंखाद्यस्थीनां मृत्तोयाभ्यां शुद्धिः । तण्डुलानां तोयतः । क्षीरादिरसानां वाय्वग्निभ्याम् । तैजसादीनां सुवर्णानामग्नितः । चर्म तैलेन । पार्थिवानां घटादीनामग्निना । ताम्रस्याम्रेण । कांस्यं भस्मनेत्यादि द्रष्टव्यम् ॥ १२ ॥
अमेध्यलिप्तं यद् येन गन्धलेपं व्यपोहति ।
भजते प्रकृतिं तस्य तच्छौचमुपदिश्यते ॥ १३ ॥
पदरत्नावली
यदमेध्यलिप्तं येन गन्धं लेपं च व्यपोहति । येन तस्य (स्वस्य) प्रकृतिं भजते तस्य वस्तुनस् तच्छौचं शुद्धिरुपदिश्यते ॥ १३ ॥
श्रीनिवासतीर्थीया
अमेध्यलिप्तवस्तुनः शुद्धिप्रकारमाह ॥ अमेध्येति । यद्वस्तु येन यावता शौचेन प्रकृतिं शुद्धस्वभावं तत्तस्य शौचं शुद्धिकरम् ॥ १३ ॥
दुर्घटभावदीपिका
अमेध्यलिप्तं यद्येन मृत्तिकादिना गन्धलेपममेध्यसम्बन्धं व्यपोहति मुञ्चति । प्रकृतिं च भजते तस्य तन्मृत्तिकादिकं शौचं शुद्धसाधनमुपदिश्यत इति । एतेन गन्धं व्यपोहतीत्यनेनैव पूर्णत्वाल्लेपशब्दो व्यर्थ इति दूषणं पराकृतम् । गन्धलेपमित्यत्र गन्धशब्दस्य अर्शआद्यजन्तत्वमङ्गीकृत्य गन्धशब्देन दुष्टगन्धविशिष्टमेध्यपदार्थं गृहीत्वाऽमेध्यसम्बन्धं व्यपोहतीत्यर्थस्योक्तत्वात् ॥ १३ ॥
प्रमेयचन्द्रिका
तथाऽमेध्येनापवित्रेण लशुनसुराविष्टादिनाऽवलित्पं यद्वस्तु येन गोमयादिना गन्धलेपसम्बन्धं व्यपोहति । स्वस्य प्रकृतिं निजगन्धं च भजते । तत्तस्य शुद्धिकारणमुपदिश्यते । स्मृत्यादावित्यर्थः ॥ १३ ॥
स्नानदानतपोवस्थावीर्यसंस्कारकर्मभिः ।
मदभ्यासान्मनःशौचं कृत्वा कर्माचरेद् बुधः ॥ १४ ॥
पदरत्नावली
कर्माङ्गशुद्धिप्रकारमाह– स्नानेति । अवस्था यौवनादिलक्षणा । वीर्यं माहात्म्यं शक्तिर्वा । संस्कार ऊर्ध्वपुण्ड्रादिधारणम् । कर्म नित्यसन्ध्यावन्दनादि मत्पूजावसानम् । एभिर् मनःशौचं मनसः शुद्धिं कृत्वा अभीक्ष्णं कर्माचरेत् ॥ १४ ॥
श्रीनिवासतीर्थीया
कर्माङ्गशुद्धिप्रकारमाह ॥ स्नानेत्यादिना । अवस्था कौमार-रूपा । कौमार आचरेत्प्राज्ञ इत्युक्तेः । वीर्यं शक्तिः संस्कार ऊर्ध्वपुण्ड्रादिसंस्कारः । कर्म सन्ध्यावन्दनादि । एतैस्तथा मम स्मृत्या चात्मनो मनसः शौचं शुद्धिं संपाद्य शुद्धः सन् कर्म यज्ञव्याख्यानाद्यभीष्ठं कर्म आरभेतेत्यर्थः ॥ १४ ॥
दुर्घटभावदीपिका
द्विजः स्नानेन गङ्गादिस्नानेन दानेन सत्पात्रदानेन तपसा कृच्छ्रचान्द्रायणादितपसाऽवस्थया पुण्यक्षेत्राद्यवस्थानेन वीर्येणाविद्याजये पराक्रमेण संस्कारेणोर्ध्व-पुण्ड्रादिसंस्कारेण कर्मभिः सन्ध्यावन्दनादि कर्मभिर्मदभ्यासान्मनःशौचं मनःशुद्धिं कृत्वा कर्म ज्योतिष्टोमादिकर्माचरेदिति । एतेन यौवनाद्यवस्थाया देहबलस्य च मनःशुद्धिहेतुत्वाभावाद् अवस्थावीर्याभ्यां मनःशौचं कृत्वेत्यनुपपन्नमिति दूषणं निरस्तम् । अवस्थाशब्देन यौवनाद्यवस्थाया वीर्यशब्देन देहबलस्य ग्रहणमित्यनभ्युपगमात् ॥ १४ ॥
प्रमेयचन्द्रिका
मनःशुद्धिकारणान्युपदिश्यन्ते स्नानेति ॥ अवस्था ध्यानावस्था । वीर्यं विज्ञानलक्षणम् । इन्द्रियनिग्रहशक्तिर्वा । संस्कारस्तारः पुण्ड्र इत्यादि । कर्म व्रताचरणादिरूपम् । मदभ्यासात् कायिकाद्वाचिकाभ्यासो वाचिकान्मानसो भवेदित्युक्तान्म-द्विषयाभ्यासात् ॥ १४ ॥
मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् ।
धर्मः सम्पाद्यते सद्भिरधर्मस्तु विपर्ययैः ॥ १५ ॥
पदरत्नावली
ऋष्याद्युपेतस्य मन्त्रस्य परिज्ञानम्, आपादनीयमिति शेषः । कर्मणः शुद्धिः कथमित्यत उक्तं मदर्पणं ब्रह्मार्पणमस्त्विति (अनुसन्धानम्) । एतैः साध्यं किमत्राह– धर्म इति । धर्मो मद्भक्तिलक्षणः सम्पाद्यते । तत्राधिकारिण आह– सद्भिरिति । विपर्ययैर् मदर्पणम-कुर्वद्भिर् असद्भिर् एतैरधर्मः पापलक्षणः सम्पाद्यत इत्यन्वयः । ‘‘आन्तरः सन्निधिर्विष्णोर्बाह्यः सन्निधिरेव च । द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते । स्वाभाविकस्त्वान्तरः स्यात् प्रतिमाजीवगो यथा’’ इति वचनेन सन्निधानार्थं ब्रह्मार्पणं कर्तव्यमिति ज्ञायते ॥ १५ ॥
श्रीनिवासतीर्थीया
कर्मणः कथं शुद्धिरित्यत आह ॥ मन्त्रस्येति । कर्माङ्ग-मन्त्रस्य ऋष्याद्युपेतत्वपरिज्ञानं संपाद्य मय्यर्पणं च कर्तव्यम् । तथात्वे कर्मणः शुद्धि-रित्यर्थः । एवं मदर्पणादिकरणे सद्भिर्धर्मः संपाद्यते । विपर्ययैरसद्भिर्मदर्पणाद्यकरणेऽधर्म एव संपाद्यत इत्यर्थः ॥ १५ ॥
प्रमेयचन्द्रिका
मन्त्रकर्मणोः शुद्धिरुच्यते मन्त्रस्येति ॥ ऋषिच्छन्दोदेवतामन्त्रार्थ-परिज्ञानं मन्त्रस्य शुद्धिः शुद्धिप्रदम् । मय्यर्पणं कर्मणां शुद्धिः । क्षेमं न विन्दन्ति विना यदर्पणमिति वचनात् किमेतैरित्यतोऽधिकारिकथनपूर्वकमुच्यते धर्म इति । धर्मो भक्त्यादि-रूपः । विपर्ययैरसद्भिः ॥ १५ ॥
क्वचिद् गुणोपि दोषः स्याद् दोषोऽपि विधिना गुणः ।
गुणदोषार्थनियमस्तद्विदामेव बाधते ॥ १६ ॥
तात्पर्यम्
तद्विदामेव । न तिर्यगादीनाम् । ‘वर्षाच्चतुर्दशादूर्ध्वं ये न विद्युः शुभाशुभम् । तेषामज्ञानजो दोषः सुमहान्कर्मजादपि । तिरश्चामिन्द्रियास(श)क्तेर्न दोषोऽज्ञानजो भवेत् । गुणोऽपि नैव कश्चित्स्याद्यतो ज्ञानबहिष्कृता’ इति च । अतो मूर्खाणामदोष इति न ॥ १६ ॥
पदरत्नावली
इतोपि भगवदर्पणं कर्तव्यमन्यथा कृतहानाकृताभ्यागमौ स्यातामिति भावेनाह– क्वचिदिति । क्वचित् कर्मणि विहितत्वेन गुणोपि दोषः स्यात्, मद्भक्तेनानर्पितत्वेनानुष्ठितत्वाद्, अन्तत इति शेषः । अपि विधिना ब्राह्मणो न हन्तव्य इति निषेधविधिना दोषोपि गुणः स्यात् । यथेन्द्रस्य वृत्रहत्या ऋषिनारायणप्रीतिजनकत्वात् । ननु गुणदोषविधाननियमः कथमत्राह– गुणेति । गुणदोषाभ्यामर्थनियमः स्वर्गनरकादिफलनियमस् तौ गुणदाषौ विदन्ति जानन्तीति तद्विदो मनुष्यादयः, तेषामेव बाधते क्लेशकरो भवति । प्रयत्नसाध्यत्वात् । एवशब्देन तिर्यगादयो व्यवर्त्यन्ते । श्रुतेर्ग्रहण-शक्त्यभावात् तेषाम् । अतो मनुष्यादीन् प्रति विधीयमानौ गुणदोषौ भगवदर्पणाभावे स्वर्गनरकादिफलं दत्त इत्युक्तम् । तद्विधानं तद्विदामित्यनेन मनुष्यादिष्वपि शुभाशुभज्ञानयोग्यवयसां तदजानतां महानज्ञानजो दोषो मूर्खाणां तिर्यगादीनां तदभावश्चेति सूच्यते । ‘‘वर्षाच्चतुर्दशादूर्ध्वं ये न विद्युः शुभाशुभम् । तेषामज्ञानजो दोषो सुमहान् कर्मजादपि’’ इति ‘‘तिरश्चामिन्द्रियाशक्तेर्न दोषोऽज्ञानजो भवेत् । गुणोपि नैव कश्चित् स्याद् यतो ज्ञानबहिष्कृताः’’ इति वचनात् ॥ १६ ॥
श्रीनिवासतीर्थीया
हरिप्रीतेरेव प्रधानत्वाद्भगवदर्पणादेश्च तत्साधनत्वादवश्यं कर्तव्य-तेत्याशयेन तस्याः प्राधान्यमुपपादयति ॥ क्वचिदिति । गुणोऽपि वेदविहितोऽपि भगवद-प्रीतिसाधनत्वे दोषः स्यात् । यथा सत्यवचनादिविधिना ब्राह्मणो न हन्तव्य इति निषेध-विधायकवाक्येन दोषतया प्रतीयमानो ब्राह्मणहननादिर् भगवत्प्रीतिसाधनत्वे गुण एव यथा वृत्रहत्या । गुणदोषाभ्यामर्थस्य स्वर्गनरकादिफलस्य नियमो यः स तद्विदां तौ गुणदोषौ विदन्ति जानन्तीति तद्विदस्तेषामेव बाधते क्लेशकारी भवति । गुणदोषौ तत्फलं च ज्ञात्वाऽपि ये नानुतिष्ठन्ति तानेव बाधत इत्याशयः । अत्र तद्विदामेवेत्यवधारणेन मूर्खाणां गुणदोषाज्ञाने बाधो नास्तीति प्रतीयतेऽतो व्यावर्त्यं दर्शयति ॥ तद्विदामेवेति । ननु कुत एवम् । ये मूर्खा गुणदोषाज्ञानिनस्तेषामदोष इति कस्मान्न स्यादित्यतो ज्ञान्यपेक्षया गुणदोषाज्ञानिन एव महाननर्थ इति स्मृत्या दर्शयति ॥ वर्षादिति । कर्मजाद्ब्रह्महत्याद्य-शुभकरणेन यावान्दोषस्तस्माद्दोषाद्ब्रह्महत्यादिकं निषिद्धमित्यज्ञानजो दोषो महानित्यर्थः । न तिर्यगादीनामिति तेषामदोष इत्युक्तं तत्कुत इत्यत आह ॥ तिरश्चामिति । तिर्यगादीना-मिन्द्रियाणां कर्मकरणेऽशक्तेरपटुत्वात् सत्यपीन्द्रियपाटवे गुणदोषाद्यज्ञाने दोष इत्युच्यते । अस्तीदं मनुष्याणां न तिरश्चामित्यर्थः । स्यात्तिरश्चामिति वर्तते इति च प्रमाणमस्ति यतोऽत इत्यर्थः ॥ १६ ॥
प्रमेयचन्द्रिका
ननु यज्ञदानादिकर्मणां धर्मसाधनत्वमेव सर्वेषां युक्तम् । श्रुति-विहितत्वात् । तत्कथमसद्भिरधर्मः संपाद्यत इत्यत उच्यते क्वचिदिति ॥ गुणागुण-शब्दितधर्मसाधनोऽपि यज्ञादिः क्वचिद्दुरधिकारिभिः कृतो दोषसाधनः स्यात् । यथा दुर्योधनादिकृतः पौण्ड्रकयागादिः । क्वचिद्ब्राह्महननदोषादिर्दोषोऽपि विधिना लोकावनार्थमवश्यं कर्तव्यमिति विष्णोः प्रत्यक्षविधिना गुण एव स्यात् । ‘‘वृत्रहत्या यथेन्द्रस्य जाता धर्माभिवृद्धये । न हि लोकावनं पापं त्रैलोक्येशस्य वज्रिणः ।’’ इत्युक्तेरिति भावः । एवं विधिगुणदोषविधानान्नियमः किं सर्वजीवसाधारण इत्यतो नेत्युच्यते गुणेति । गुण-दोषाभ्यामर्थनियमः । शुद्धत्वाशुद्धरूपदेशकालाद्यर्थव्यवस्था । स्वर्गनरकादिरूपस्यार्थस्य फलव्यवस्थितिर्वा । तद्विदामेव बाधत इत्यर्थः । अत्र तद्विदामेवेत्यवधारणेन मूर्खाणां न दोष इति भाति तदयुक्तं ज्ञानशून्यताया एव श्लाघ्यतापातादित्यतोऽवधारणव्यावर्त्यमाह तद्विदामेवेति । तौ गुणदौषौ विदन्ति मान्तीति तद्विदो मनुष्यादयो ज्ञानप्रसक्तिमन्तस् तेषामेव दोषो नत्वसम्भावितज्ञानानाम् । तिर्यसुमनुष्येवपि शिशूनांचेत्यादिशब्दार्थः । ननु तद्विदामेवेत्यवधारणेन मूर्खाणां न दोष इत्येव प्रतीतेः कथं तिर्यगादीनामत्र व्यावृत्तिरुच्यत इत्यतोऽज्ञानिनामेव बहुदोषस्य प्रमितत्वात्तिर्यगादिव्यावृत्तिरेव युक्तेत्याशयेनात्र प्रमाणमाह वर्षादिति । हरिसन्निधिमत्वादिदं शुभम् । तदभावादिदमशुभमिति शुभाशुभं द्रव्यादिकम् । येऽत्र न विद्युस्तेषां मूर्खाणां ब्रह्महत्यादिकर्मजादपि विशेषात्परमेश्वराद्यज्ञानजो दोषः सुमहान् । तर्हि तिरश्चां सुतरां ज्ञानाभावादभ्यधिको दोषः प्रसज्यत इत्यत आह तिरश्चामिति । इन्द्रियाणाशक्तेरिति । मनआदीन्द्रियाणां विशिष्ठबुध्यादिजनने अशक्तत्वेन सम्यज्ञानोदयस्यैवाप्रसक्तत्वात्प्रसक्तपरित्यागेनैवानर्थसम्भवाज्ज्ञानप्रसक्तिमतां तदभावादिति भावः । एतेन चतुर्दशवर्षादर्वाग्विशिष्टज्ञानस्याप्रसक्तत्वाद्बालानां ज्ञानाज्ञानजदोषो नेति सूचितं भवति । अत एवोक्तं वर्षाच्चतुर्दशादूर्ध्वमिति । इन्द्रियासक्तेरिति पाठेतु इन्द्रिय-तद्भोग्येष्वेवासक्तेर्ज्ञानप्रसक्त्यभावादिति भावः । तर्ह्यज्ञानकर्मजदोषस्याभावात्तिर्यक्त्वं गुण एव भवेदित्यत आह गुणोऽपीति ॥ नहि विशिष्टबुध्यादिरहितानां गुणलेशावकाश इति भावः । यदर्थं प्रमाणमुदाहृतं तदाह अत इति ॥ यत एवं मूर्खाणामज्ञानजदोषः प्रमितमतस्तद्विदा-मेवेत्येवशब्दव्यावर्त्यतया मूर्खाणामदोष इत्यर्थो न किन्तु तिरश्चामदोष एवेति भावः ॥१६॥
समानकर्माचरणेऽपतितानां न पातकम् ।
औत्पत्तिको गुणैः सङ्गो न शयानः पतत्यधः ॥ १७ ॥
यतो यतो निवर्तेत विमुच्येत ततस्ततः ।
एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८ ॥
तात्पर्यम्
समानकर्माचरणे आत्मयोग्यकर्माचरणे । पूर्वमपतितो येन पतति । प्रायश्चित्तत्वेन तत्समानकर्माचरणेऽपि न दोषः । तप्तसुरापानवद्देहत्यागिनः । तथा शयानः शूद्रोऽपि न पतति लशुनभक्षणादिभिर् ब्राह्मणादिपातकैः । औत्पत्तिको यतस्तस्य तादृशगुणसङ्गः । अतः स्वायोग्य एव कर्मणि पतति । ‘त्रैवर्णिकाः सञ्चरन्तो वेद-कर्मप्रवर्तनात् । शयानः शूद्र उद्दिष्टो वेदकर्माप्रवर्तनात् । न तस्याभक्ष्यजो दोषः शुश्रूषायां प्रवर्ततः । यथा सुवर्णस्य मलं शुक्रं ताम्रस्य नैव तत् । एवं विप्रादिदोषैस्तु न शूद्रो दोषितामियात् । मलं तु तस्यापि मलं यथैवं शूद्रजन्मनः । स्वधर्मप्रतिरूपस्य चरणं दोषदं मतमि’ति च समाचारे ॥ ‘शूद्रस्यापि हरेर्दीक्षां प्रविष्टस्य तु विप्रवत् । अभक्ष्यादिकृतो दोषः स हि शूद्रो हि मुख्यत’ इति विष्णुतन्त्रे ॥ सर्वतोऽप्यभि-मानविमोकेन परमात्मसमर्पणमेव दोषहानिदमित्याह यतोयत इत्यादिना । ‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसे’त्यादेश्च ॥ १७,१८ ॥
पदरत्नावली
गुणदोषनिमित्तबाधा यथा न स्यात् तं प्रकारं वक्ति समानेति । अपतितानां विप्रादीनां समानकर्माचरणे मदर्पणेनात्मयोग्यकर्मकरणे पातकं न स्यात् । तथा पूर्वमपतिता विप्रादयो येन कर्मणा पतन्ति तत्समानकर्माचरणे तप्तसुरापानतप्तस्त्रीमूर्त्याद्यालिङ्गनादिके देहत्यागिवद् दोषलक्षणं तत् कर्म पातकं च न भवति । तथ शयानः शूद्रश्च ब्राह्मणादिपातित्यहेतुभिर्लशुनभक्षणादिभिरधो न पतति । अध इति विशेषणात् सुरापानादिभिरेव पतति । कुतो न पततीत्यत उक्तम् औत्पत्तिक इति । तस्य शूद्रस्य लशुनभक्षणादिलक्षणैर् गुणैरमुख्यैः कर्मभिः सङ्ग औत्पत्तिकः स्वाभाविको यतस्तस्मात् स्वायोग्य एव कर्मणि पततीत्यर्थः । ‘‘त्रैवर्गिकाः सञ्चरन्तो वेदकर्मप्रवर्तनात् । शयानः शूद्र उद्धिष्टो वेदकर्माप्रवर्तनात् । न तस्याभक्ष्यजो दोषः शुश्रूषायां प्रवर्ततः । यथा सुवर्णस्य मलं शुक्लं ताम्रस्य नैव तत् । एवं विप्रादिदोषैस्तु न शूद्रो दोषितामियात् । मलं तु तस्यापि मलं यथैवं शूद्रजन्मनः । स्वधर्मप्रतिरूपस्य चरणं दोषदं मतम्’’ इति वचनात् ॥ किं बहुनोक्तेन । सर्वतोऽप्यभिमानत्यागेन श्रीनारायणसमर्पणभेव समस्तदोषनाशकरमित्याह– यतो यत इति । यतो यतः कर्मणो नाहं कर्तेति निवर्तेत अहङ्कारराहित्येन यद्यत् कर्म परमेश्वरार्पणबुद्ध्या करोति ततस्ततः कर्मणो विमुच्येत तत्तत् कर्म बन्धकं न स्यादित्यर्थः । तत्कर्तव्यताया बुद्ध्यवतारार्थं स्तौति एष इति । एषः परमेश्वरसमर्पणलक्षणो धर्मः क्षेमः संसारमुक्तिहेतुः । मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसेत्यादेः ॥ १७,१८ ॥
श्रीनिवासतीर्थीया
बाधाभावप्रकारं वक्ति ॥ समानेति । तदनूद्य व्याचष्टे ॥ समानेति । तथा चापतितानामिति पदच्छेदः । अपतितानां समीचीनानां ब्राह्मणादीनां समानकर्माचरणे स्वविहितकर्माचरणे पातकं पापं नास्तीत्यर्थः । पतितानामित्यपि पदच्छेद-मभ्युपेत्य योजनान्तरमाह ॥ पूर्वमिति । पूर्वमपतित इत्युक्त्या पूर्वयोजनां सूचयति । येन सुरापानादिना दोषेण प्रायश्चित्तत्वेन । प्रायः पापं विजानीयाच्चित्तं तस्य विशोधकमिति वचनात् । तत्पापपरिहारार्थत्वेनेत्यर्थः ॥ तत्समानेति । सुरापानसमानेत्यर्थः । किं तत्समानं प्रायश्चित्तरूपं कर्मेत्यत आह ॥ तप्तेति । सीसमयीं तप्तां सुरां कृत्वा तत्पानेन देहत्यागे सुरापानप्रायश्चित्तम् । ज्वलितायोमयस्त्र्यालिङ्गने परस्त्रीगमनप्रायश्चित्तमित्यादि । तथा च पतितानां सुरापानादिकर्मणा पतितानां तत्प्रायश्चित्तत्वेन तत्समानकर्माचरणे तप्त-सुरापानेन पातकं सुरापानजन्यपातकं न भवतीत्यर्थः । न शयानः पतत्यध इत्येतदन्यथा प्रतीतिपरिहारायापेक्षिताध्याहारेण व्याचष्टे ॥ तथेति । न पतत्यधो ब्राह्मणादीनां पातकैः पातित्यजनकैः । कुत इत्यत उक्तम् ॥ गुणैः सङ्ग औत्पत्तिक इति । तत्तात्पर्यमाह ॥ औत्पत्तिक इति । तस्य शयानस्य तादृशगुणसंङ्गो लशुनभक्षणादिविषयसङ्ग औत्पत्तिकः स्वाभाविकस्तज्जातिस्वभाव एवेत्यर्थः । तर्हि शयानः कथं पततीत्यत आह ॥ अत इति । स्वायोग्ये त्रिवर्णशुश्रूषादिस्वयोग्यकर्मभिन्ने कर्मण्याचरिते सति अधः पततीत्यर्थः । शयान-शब्दवाच्यत्वं शूद्रस्योपपादयन्नुक्तार्थे प्रमाणमाह ॥ त्रैवर्णिका इति । सञ्चरन्तः । इत्युच्यन्त इति शेषः । वेदकर्मण्यप्रवर्तनात् शयनकर्तृनिष्ठप्रवृत्त्यभावरूपगुणयोगेन शूद्रे शयानशब्दो गौण इत्याशयः । अभक्ष्यजो दोषः ब्राह्मणादिभिर्यदभक्ष्यं लशुनादि तद्भक्षणजो दोष इत्यर्थः । शुशूषायामिति हेतुगर्भविशेषणम् । अभक्ष्यभक्षणं कृत्वाऽपि त्रैवर्णिकशुश्रूषा कर्तव्याऽन्यथा सा न सिद्ध्येदित्याशयः ।
नन्वेकस्य लशुनादेर्ब्राह्मणादीनां पातित्यहेतुत्वं शयानानां तदहेतुत्वं चेति द्वयं विरुद्ध-मित्यत एकस्योभयस्वभावत्त्वमविरुद्धमित्यत्र दृष्टान्तमाह ॥ यथेति । शुक्रं सीसं सुवर्णस्य मलं दोषकारि । सीससम्बन्धे सुवर्णं नश्यति । ताम्रस्य न मलम् । तस्य तत्सम्बन्धे वर्णाधिक्यमेव भवतीत्येवमेकस्य शुक्रस्योभयरूपत्वमविरुद्धमित्यर्थः । तद्वत्प्रकृतेऽयमप्यविरोध इत्याह ॥ एवमिति । विप्रादीनां दोषैर्दोषकरैर्लशुनादिभिर्दोषितां दोषवत्ताम् । एकस्य लशुनस्याप्युभयरूपत्वमविरुद्धमिति भावः । स्वधर्मप्रतिकूलाचरणस्य शूद्रं प्रति दोषत्वे त्रैवर्णिकसाम्यापत्तिरित्यतः सत्यमिति तत्र दृष्टान्तमाह ॥ मलमिति । अमेध्यभक्षणं ब्राह्मणपातित्यहेतुभूतमिति शूद्रेण तद्भक्ष्यमिति न किन्तु यन्मलमशुद्धादि तद्ब्राह्मणस्य । तस्यापि शूद्रस्यापीत्युभयोरपि मलं पातित्यहेतुत्वे वेति यथा साम्यमित्यर्थः । स्वधर्मः शुश्रूषणम् । ननु लशुनादिभक्षणेऽपि दोषो नास्तीत्युक्तं तत्र सच्छूद्रस्यापि लशुनभक्षणेऽपि दोषो नास्तीति प्राप्तमत आह ॥ शूद्रस्यापीति । न शयानः पतत्यध इत्येतद्धरि-दीक्षारहितशूद्रविषयमिति भावेन प्रमाणमाह ॥ शूद्रस्यापीति । कुत इत्यत उक्तम् ॥ स हीति । सच्छूद्र इत्यर्थः ॥
उत्तरश्लोकस्यासङ्गतिपरिहारायावतारयति ॥ सर्वतोऽपीति । पूर्वमपतितानां स्वयोग्य-कर्माचरणे पातकाभावः पतितानां प्रायश्चित्तत्त्वेन तत्समानकर्माचरणे पातकाभाव उक्तः । इदानीं किं बहुना सर्वत्राप्यभिमानं त्यक्त्वा सर्वस्यापि भगवदर्पणे क्रियमाणे समस्तपाप-विनिर्मुक्तिर्मोक्षश्च भवतीत्याहेत्यर्थः । तथा च यतो यतो यत्र कर्मण्यहं कर्तेति कर्तृत्वाभि-मानान्निवर्तेत । स्वस्य कर्तृत्वाभिमानं परित्यज्य हर्यर्पणबुद्ध्या कर्म कुर्यादिति यावत् । तर्हि ततस्ततो हर्यर्पणबुद्ध्या कृतात्कर्मणः सकाशाद्विमुच्येत मुक्तिं प्राप्नुयात् । तदेवाह ॥ एष इति । निवृत्तधर्म इत्यर्थः । अत्र गीतासंमतिं चाह ॥ मयि सर्वाणीति । आदिपदेन मुच्यन्ते तेऽपि कर्मभिरित्यन्तं वाक्यं ग्राह्यम् । तथा च सर्वतोऽपीत्याद्यर्थे इदं मानमिति बोध्यम् । नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलमिति तात्पर्योदाहृतप्रमाणादेतदर्थो मन्तव्यः ॥ १७,१८ ॥
प्रमेयचन्द्रिका
प्रमादान्महापातकप्राप्तौ तत्प्रायश्चित्तनिरूपणपरे समानकर्माचरण इति श्लोके प्रमादाद्ब्रह्महत्यादिमहापातकप्राप्तौ तत्समानमहापातकान्तरं न पातकमित्यन्यथा-भावादनूद्य व्याचष्टे समानेति ॥ यस्य यत्प्रसक्तपातकनिरासक्षमं कर्म तदात्मयोग्यं कर्म तदाचरण इत्यर्थः । एतेन समानकर्मेत्यस्यात्मयोग्यकर्मेत्यर्थ उक्तो भवति । प्रकारान्तरेण समानकर्माचरण इत्यस्यार्थमाह पूर्वमिति ॥ पूर्वमपतितः पुरुषोऽतस्तदनन्तरं येन यादृशेन कर्मणा स्वयं पतितो भवति । प्रायश्चित्ततया तत्समानं तदत्यन्तसदृशं यत्कर्म तदाचरणेऽपि न दोषः । स्वकृतकर्माचरणदोषो न भवति । तत्समानकर्मोदाहृत्य दर्शयति तप्तेति ॥ सप्तम्यर्थे वतिः ।
मोहात्सुरापानं कृतवतस्तत्प्रायश्चित्ततया सुरापाने कृते तेन च देहत्यागिनः प्राक्कृत-सुरापानेन कृते दोषहानिर् इति सूचयितुं प्रायश्चित्तत्वेनेत्युक्तम् । अत एवोदाहरणे तप्ते-त्युक्तिरिति मन्तव्यम् । यथा ब्रह्महत्याद्याचरणे तत्प्रायश्चित्तरूपशिरःकपालभिक्षाचरणेन द्वादशाब्दव्रतादिरूपात्मयोग्यकर्माचरणेन ब्रह्मत्यादिदोषस्तथा सदृशकर्माचरणेऽपि न दोष इत्यपिशब्दः । सुखोष्णतया तप्तसुरापानं पुनः क्रियमाणं न प्रायश्चित्तरूपं किं तु स्वदेहत्यागोपयोगितया सन्तप्तसुरापानमेवेति सूचयितुं देहत्यागिन इत्युक्तम् । अत्र शूद्रविषये विशेषप्रतिपादके औत्पत्तिकेति श्लोके शयानः सुप्तः स्वस्यौत्पत्तिकगुणैः सम्बन्धेन पततीति भाति । तदयुक्तम् । गुणानां स्वाभाविकत्वे सङ्गे सतीति कादाचित्कतयोक्त्ययोगात् । सुप्तस्य बाह्यप्रज्ञाभावेन लशुनभक्षणादिगुणप्रसङ्गस्याप्रसक्तत्वादित्यतो व्याचष्टे तथा शयान इति ॥ तथेत्यस्य तप्तसुरापानवदित्यर्थः । तथा च नात्र शयानः सुप्तोऽपि तु लक्षणया शूद्र एव, स च पातित्यप्रसक्तिमानिति नोक्तदोष इति भावः । न केवलं समानकर्मकर्ता न पतति । किंतु शूद्रोऽपीत्यपेरर्थः । मूले पातकाचरणस्य स्फुटमभानादौत्पत्तिकगुणैः सङ्ग इत्यनेन सूचितम् । पातकाचरणं दर्शयति लशुनेति ॥ आदिपदेन शुभमूलकादिग्रहणम् ।
लशुनभक्षणादीनां पापहेतुत्वमस्ति न वा । नेति पक्षे पातकैरित्युक्तिरयुक्ता । आद्ये न पततीत्यनुपपन्नमित्यत उक्तम् ब्राह्मणादीति ॥ सत्यमस्ति लशुनभक्षणादीनां पातकहेतु-त्वम् । किन्तु त्रैवर्णिकानामेव न तु शूद्रस्य । अतो न पततीति पातकैरित्युक्तिश्च युज्यत इति भावः । लशुनभक्षणादिकं ब्राह्मणादीनामेव पातकं न शूद्रस्येत्ययं विशेषः कुतः । तथात्वेच किमपि कर्म पापहेतुर्न स्यादिति शङ्कामौत्पत्तिकगुणैः सङ्ग इत्येतद्व्याख्यानपूर्वकं परिहरति औत्पत्तिकेति । यतस्तस्य शूद्रस्य तादृशगुणसङ्गः लशुनभक्षणादिनिषिद्धधर्मसङ्ग औत्पत्तिको जातिः स्वभावभूत अतस्तेनासौ न पतति ॥ न हि स्वभावसिद्धिः पापहेतुरिति युक्तम् । किंत्वस्वाभाविकतया स्वायोग्ये ब्रह्महत्यादिकर्मणि कृते सत्येव पततीत्यङ्गीकार्य-मित्येवं तेनासौ नेत्यंशस्य कृते वेत्यस्य चाध्याहारेण पततीत्यस्यावृत्याच योजना । एतेन शयानः शूद्र औत्पत्तिकैः स्वाभाविकगुणैर्निषिद्धभक्षणादिभिर्धर्मैः सङ्गेऽपि नाधः पततीति मूलार्थः । अयमाशयः । ब्राह्मणादयः स्वभावतो वैदिककर्मनिरताः । निषिद्धान्निवृत्ताः । क्वचित्स्वधर्मतः स्खलने सति भूमौ सञ्चरतां क्वचित्स्खलने सति यथा भूमौ पातस्तथा तेन नरकाद्यधःपातो न भवेत् । शूद्रस्तु स्वभावत एव वैदिककर्मबहिष्कृतोऽत एव तस्य लशुन-भक्षणादिकं नाधर्मः । स यदा भूमौ शयानो यथा न स्खलति न पतति च । तथा जातिस्वभावतः प्राप्ताभक्ष्यभक्षणेन स्वधर्मतः स्खलनाभावाल्लशुनभक्षणादिना न पततीति तमिममर्थं सदृष्टान्तं दर्शयितुं मूले शूद्र इति वक्तव्ये शयान इत्यौपचारिकोक्तिरिति ज्ञेयम् ।
उक्तार्थे प्रमाणमाह त्रैवर्णिका इति ॥ सञ्चरन्त इत्यतःपरम् इत्युच्यन्त इति शेषः । तत्र हेतुर्वेदेति । चरतिर्गतिः । गतिश्च सन्मार्गे प्रवर्तनम् । प्रकृतेच वेदोक्तसत्कर्मरूपसन्मार्गे प्रवर्तनात्सञ्चरन्त इत्युच्यन्त इति भावः । एतच्च शूद्रस्य शयानत्वोपपादनायोक्तमिति ज्ञेयम् । वेदकर्माप्रवर्तनादिति ॥ वेदोक्तकर्मप्रवर्तनरूपगतिरहितत्वादित्यर्थः । न तस्येत्यत्रात इति ग्राह्यम् । वैदिककर्मरहितत्वादित्यर्थः । शुश्रूषायामिति हेत्वन्तरम् । त्रैवर्णिकशुश्रूषास्वरूप-धर्मप्रवृत्यर्थकदेहधारणोपयुक्तलशुनभक्षणादेर्न दोषत्वमिति भावः । एकमेव कर्म कस्यचि-त्पातहेतुर्नान्यस्येति कथमित्यत आह यथेति । सुवर्णस्य मलं शुक्लमिति संज्ञाचपाठो दृश्यते । तत्ताम्रस्य दोषो न भवति । किन्तु तस्य स्वाभाविकमिति भावः । तर्हि ब्राह्मण-दोषो ब्रह्महत्यादिरपि शूद्रस्य न दोषः किमित्यत आह मलंत्विति ॥ तुशब्दोऽतिशयार्थे । अवधारणार्थे च । तस्यातिशयितमयोमिश्रत्वादिरूपं मलं तस्य ताम्रस्यापि मलमेव यथा, एवं शूद्रजन्मनः स्वधर्मप्रतिरूपस्य ब्रह्महत्यादेश्चरणं दोषदमिति मतमित्यर्थः । ब्राह्मणादि-त्रैवर्णिकशुश्रूषाहि शूद्राणां स्वधर्मः । तद्विरुद्धत्वाद्ब्रह्महत्यादिकं दोषदमेवेति सूचयितुं ब्रह्म-हत्यादेरिति वक्तव्ये स्वधर्मप्रतिरूपस्येत्युक्तमिति ज्ञेयम् । न शूद्रस्याभक्ष्यजो दोष इत्य-स्यापवादमाह शूद्रस्यापीति ॥ वैष्णवदीक्षाच विष्णुरहस्यादिग्रन्थेषूक्ता द्रष्टव्या । ननु शूद्रत्वादितरशूद्रवद्विष्णुदीक्षां प्रविष्टस्यापि शूद्रस्याभक्ष्यादिकृतदोषाभाव एव वक्तुं युक्तमिति चेन्न । अमुख्यशूद्रत्वस्यैव दोषाभावप्रयोजकत्वाद्दीक्षापन्ने चामुख्यशूद्रत्वस्याभावादित्या-शयेनाह सहीति ॥
ननूत्तरश्लोकः प्रकृतासङ्गतः । दोषहेतुतदहेतुकर्मनिरूपणप्रस्तावे यतः कर्मणो निवतेर्-तेत्यस्यानुपयुक्तत्वात् । किं च यतो यतः कर्मणो निवर्तेत ततस्ततो विमुच्यते इत्ययुक्तम् । कर्मकरणान्निवृत्तत्वे कर्मण एवाभावेन बन्धाप्रसक्त्या विमुच्येतेति प्रतिषेधायोगादित्याशङ्कां परिहरन्नवतारयति सर्वत इति ॥ पञ्चम्यर्थे तसिः । सर्वतः सर्वत्र कर्मकारणभूतदेहिन्द्रियादौ क्रियमाणेच कर्मणि तत्फले चाभिमानविवेकेन नैतन्ममाधीनं नाहं स्वतन्त्रः कर्ता फलं मे हरिप्रीत्यतिरिक्तं नापेक्षितमित्यादिप्रकारकाभिमानस्य विवेकेन त्यागेन विविच्यज्ञानेन वा परमेश्वरार्पणमेव स्वतनुभवनादेर्भगवदधीनत्वज्ञानपूर्वकं हरिरेव स्वतन्त्रः कर्त्ता इदं कर्म तत्पूजारूपं स एव मुख्यतः फलभोक्ता फलं मे न किञ्चित्स्याद्धरिप्रीतिं विनेत्यादि-रूपसमर्पणमेव दोषहानिदमिति यतो इत्यादिना मूलेनाहेत्यर्थः ।
तदनेन स्वरूपतो बन्धकमपि कर्म येनेतिकर्तव्येन तदहेतुताऽस्येतीतिकर्तव्यस्यात्र निरूपणादस्ति प्रकृतसङ्गतिः । यतोयतो निवर्तेतेत्युक्तनिवृत्तिर्नाम न स्वरूपतः कर्मत्यागः किन्तु सर्वतोऽभिमानत्यागो भगवति समर्पणं च । एवं सति ततस्ततः कर्मणो विमुच्येत विमुक्तो भवति । कृतमपि कर्म बन्धकं स्यादित्यर्थस्याभिप्रेतत्वेनाप्रसक्तप्रतिषेध इति भावः । उक्तार्थे गीतावाक्यं पठति मयीति ॥ अत्र सन्यस्येत्यन्तेन परेश्वरे समर्पणमुक्त्वा, निराशी-र्निममो भूत्वा युध्यस्वेति फलविषयकाशात्यागस्यास्वातन्त्र्यरूपाभिमानत्यागपुरःसरं कर्म कुर्विति विधाय, ये मे मतमिदं नित्यमनुतिष्टन्ति मानवाः । मुच्यन्ते तेऽपि कर्मभिरिति गीतोक्तेरुक्त एवार्थ इति भावः । अध्यात्मचेतसेत्यस्याधिकश्चासावात्माच परमेश्वरः । तद्विषयचेतसेत्यर्थः । उक्तेतिकर्तव्यस्यावश्यकताज्ञापनाय मूले स्तुतिः क्रियते एष इति
॥ १८ ॥
विषयेषु गुणध्यानात् पुंसः सङ्गस्ततो भवेत् ।
सङ्गादेव भवेत् कामः कामादेव कलिर्नृणाम् ॥ १९ ॥
कलेर्दुविषहः क्रोधस्तमस्तदनुवर्तते ।
तमसा ग्रस्यते पुंसश्चेतना व्यापिनी ततः ॥ २० ॥
तया च रहितः साधो जन्तुः शून्याय कल्पते ।
ततोऽस्य स्वार्थविभ्रंशो(ऽ)मूर्च्छितस्य मृतस्य च ॥ २१ ॥
विषयाभिनिवेशेन नात्मानं वेद नापरम् ।
वृक्षजीविकया जीवन् व्यर्थं ग्रस्तवयाः श्वसन् ॥ २२ ॥
तात्पर्यम्
‘दोषिणो गुणवत्त्वेन श्रूयन्ते विषयाः सदा । असतां सङ्गतेस्तेषु दोषाः श्रोतुं सुदुर्लभाः । अतो नित्यगुणध्यानात्तद्गुणे प्रीतिमान्भवेत् । अतस्तत्र भवेत्कामः कामिनं कलिराविशेत् । अधर्माज्ञानरूपेण कलिनाऽऽविष्टदेहिनः । सत्सु क्रोधो दुर्विषहस्ततस्तमसि पात्यते । अन्धे तमसि मग्नस्य चेतनेन्द्रियसन्तता । सुखानु-भवशक्तिर्या सा विनश्यति सर्वदा । तदा शमूनभावेन शून्य इत्युच्यते नरः । सर्वात्मना तु शम्भ्रशस्तस्य दुःखविवर्धनः । अमूर्च्छितस्यैव भवेन्मृत्यनन्तरमेव च । दुःखाख्य-विषयावेशान्नात्मानं परमेव च । यथावद्वेत्ति पतितस्तमस्यन्धे कदाचन । वृक्षवद्वृश्चयते नित्यं निष्प्रयोजनजीवनः । नित्यदुःखपरीतायुर्दृतिवत्प्रश्वसित्यपी’ति तन्त्रभागवते । स्वार्थस्य सुखस्य भ्रंशो विपरीतमतिशयेन जनयतीति स्वार्थविभ्रंशः ॥ तस्मात्स्वर्गादि-विषयेष्वपि नेच्छेत ॥ २२ ॥
पदरत्नावली
विपक्षे बाधकमनर्थलक्षणमाह– विषयेष्विति । अयमर्थः । भगवदर्पण-बुद्धिराहित्येन क्रियमाणं कर्म शब्दादिविषयेषु गुणबुद्धिं जनयति तृष्णिका पयः पूरमतिमिव । तदनु निरङ्कुशस्य पुंसो विषयेषु गुणध्यानानत् सुखसाधनत्वध्यानात् तेषु स्नेहलक्षणः सङ्गः स्यात् । ततस्तेषु काम इच्छा स्यात् । इच्छातः कलिः, कल द्रावण इति धातोः, चेतनधर्मज्ञान-द्रावणहेतुरधर्माज्ञानात्मा विशति ॥ कलेरावेशात् स्वाभीष्टपरिपन्थिषु सत्सु दुर्विषहः क्रोधः स्यात् । तदनु द्वेषानन्तरं तमो वर्तते । ततस्तमसि मग्नस्य पुंसः व्यापिनी इन्द्रियसन्तता चेतना सुखानुभवशक्तिस् तमसा दुःखोद्रेकेण ग्रस्यते नष्टा भवति ॥ तयाऽनुभवशक्त्या रहितो जन्तुरासुरो जीवः शून्याय सुखनाशाय कल्पते । नित्यत्वाच्चेतनस्य न स्वरूपेण नाशः किन्तु सर्वात्मना सुखनाश एवेत्याह– तत इति । चशब्द एवार्थे । ततो मृतस्य अन्धन्तमःपतानानन्तरमस्य मूर्च्छितस्य दुःखसमुद्राभिभूतत्वेन निःसञ्ज्ञस्य स्वार्थस्य सुखस्य विभ्रंशः स्वरूपतो हानिर्भवति ॥ न केवलं सर्वात्मना सुखनाशः, तस्य निरतिशयं दुःखमपि भवतीत्याह– विषयेति । विषसाम्यं यातीति विषयो दुःखं तस्याभिनिवेशेन उद्रेकेण आत्मानं न वेद अपरं प्रतियोगिनं च न वेत्ति । स्वानुवभवमन्तरेण न किञ्चिद् वेत्तीत्यर्थः । स्वपरविषयज्ञानं नास्ति चेच्छून्यवादप्रवेश आपन्न इति तत्राह वृक्षेति । भगवद्भागवतप्रद्वेषातिशयेन नित्यं तमःपतितो निरन्तरं दुःखमेवानुभवन् यमकिङ्करैरविरतं वृश्च्यमानत्वेन वृक्षजीविकया वृक्षजीवनवद् व्यर्थं जीवन् निष्प्रयोजनो ग्रस्तवया दुःखपरीतायुर् दृतिवच्छ्वसन्नास्त इत्यन्वयः । ‘‘दोषिणो गुणवत्त्वेन श्रूयन्ते विषया सदा । असतां सङ्गतेस्तेषु दोषाः श्रोतुं सुदुर्लभाः । अतो नित्यगुणध्यानात् तद्गुणे प्रीतिमान् भवेत् । अतस्तत्र भवेत् कामः कामिनं कलिराविशेत् । अधर्माज्ञानरूपेण कलिनाऽऽविष्टदेहिनः । सत्सु क्रोधो दुर्विषहस्ततस्तमसि पात्यते । अन्धे तमसि मग्नस्य चेतनेन्द्रियसङ्गता । सुखानुभवशक्तिर्या सा विनश्यति सर्वदा । तदा शमूनभावेन शून्य इत्युच्यते नरः । सर्वात्मना तु शम्भ्रंशस्तस्य दुःखविवर्धनः । अमूर्च्छितस्य च भवेन्मृत्यनन्तरमेव च । दुःखाख्यविषयावेशान्नात्मानं परमेव च । यथावद् वेत्ति पतितस्तमस्यन्धे कदाचन । वृक्षवद् वृश्च्यते नित्यं निष्प्रयोजनजीवनः । नित्य-दुःखपरीतायुर्दृतिवत् प्रश्वसित्यपि’’ इति वचनादसुरजनविषयोऽयमिति ज्ञायते ॥ १९–२२ ॥
श्रीनिवासतीर्थीया
अधिकारिणा स्वर्गादिविषयेष्वपीच्छा न कार्येत्याशयेन प्रवृत्तं विषयेष्वित्यादिश्लोकचतुष्टयं प्रमाणेनान्यथाप्रतीत्यादिपरिहाराय व्याचष्टे ॥ दोषिण इत्यादिना । दोषिणो विषया इति सामानाधिकरण्यम् । दोषिणः पुरुषस्येति वा । तेषु विषयेषु गुणध्यानाद्गुणवत्त्वध्यानात् । नित्यमिति मूले शेष उक्तो भवति । तथा च विषयेषु दोषवत्सु असतां सङ्गतेर्नित्यं गुणवत्त्वेन ध्यानात् । सुदुर्लभा इति कुत इत्यतो नित्यं तेऽसन्तो विषयं शुभमित्येवाहुः । तत्तद्गतदोषाद् अतः श्रोतुं सुदुर्लभा इति भावः । पुंसः सङ्गः प्रीतिर्विषयेषु भवेदित्यर्थ उक्तो भवति । सङ्गात्तत्र भवेत्काम इत्येतद्व्याचष्टे ॥ अत इति । सङ्गादित्यर्थः । तत्र विषयेषु । कामादेव । कलिर्नृणामित्यस्यार्थमाह ॥ कामिन-मिति । अधर्मेत्यादि मूले शेषपूरणम् । कलेर्दुर्विषहः क्रोध इत्यस्यार्थमाह ॥ कलिनेति । तमस्तदनुवर्तत इत्यस्यार्थः ॥ तत इति । तमसेत्यादेरर्थमाह ॥ अन्ध इति । व्यापि-नीत्यस्यार्थः ॥ इन्द्रियेति । चेतनाशब्दार्थः सुखेति । तथा च तमसाऽन्धन्तमसा व्यापिनीन्द्रियेषु व्याप्ता सती । स्थिता या चेतना सुखानुभवशक्तिः सा द्रुतं शीघ्रं ग्रस्यते विनश्यतीत्यर्थ उक्तो भवति । तया चेत्यादेरर्थमाह ॥ तदेति ॥ सुखानुभवशक्तिनाशे सतीत्यर्थः । शमिति मकारान्तमव्ययम् । शस्य ऊनं शूनं तस्य भावः शून्यम् । तथा च तया चेतनया रहितः पुमान् शून्याय सुखराहित्याय कल्पते सुखरहितो भवतीत्यर्थः ।
किञ्चिद्वा सुखं तस्य भवति किमित्यपेक्षायामुक्तम् ॥ ततोऽस्य स्वार्थविभ्रंश इति । तदर्थमाह ॥ सर्वात्मनेति । तथा च ततः शून्यत्वानन्तरमस्यामूर्छितस्य जाग्रदवस्थायुक्तस्य मृतस्य । मृत्यनन्तरमेवेति यावत् । स्वार्थस्य सुखस्य विशेषेण सर्वात्मना भ्रंशो नाशो भवतीत्यर्थ उक्तो भवति । स्वार्थविभ्रंश इत्यस्यार्थान्तरमाह ॥ दुःखविवर्धन इति । अनेनायमर्थः कथं लब्धस्तं प्रकारमाचार्यो दर्शयिष्यति । तमोगतस्यावस्थानप्रकारं वक्तुं प्रवृत्तं विषयाभिनिवेशेनेत्यादि तद्व्याचष्टे ॥ दुःखाख्येति । कदाचन कदाऽपि यथावन्न वेत्तीति सम्बन्धः । वृक्षजीविकया जीवन्नित्यस्यार्थः वृक्षवदिति । व्रश्चू छेदन इति धातोः । यथा वृक्षश् छिद्यते एवं यमकिङ्करैरयं छिद्यत इति भावः । व्यर्थं जीवन्नित्यस्यार्थः निष्प्रयोजनजीवन इति । ग्रस्तवया इत्यस्यार्थः नित्येति । मूले शेषः पूरितोऽनेनेति ज्ञेयम् । तथा च नित्यदुःखेन ग्रस्तवया इत्यर्थः । श्वसन्नित्यस्यार्थः दृतिवत्प्रश्वसितीति । दृतिर्भस्रा । दुःखविवर्धन इति व्याख्यानमक्षरैर्दर्शयति ॥ स्वार्थस्येति । विभ्रंश इत्यत्रत्यस्य भ्रंशशब्दस्य बुद्ध्या विवेकेन स्वार्थशब्देन सम्बन्धः । ततो वीत्यस्य सम्बन्धः । भ्रंशः सर्वात्मना नाशः । वीत्यस्यार्थः ॥ विपरीतमिति । दुःखमित्यर्थः । अतिशयेनेति वीत्य-स्यार्थान्तरम् । एतच्छ्लोकचतुष्टयसाध्यमाह ॥ तस्मादिति । यतो विषयध्यानस्यैव-मनर्थहेतुत्वं तस्मादित्यर्थः । नेच्छेत इच्छां न कुर्यात् । विषयेष्वित्येव वक्तव्ये स्वर्गादीति विशिष्य ग्रहणमुत्तरग्रन्थोपक्षेपाय कृतमिति मन्तव्यम् ॥ १९–२२ ॥
प्रमेयचन्द्रिका
रागादिदोषत्यागोऽप्यावश्यक इत्याशयेन तत्त्यागाय रागादिदोष-कारणान्युच्यन्ते विषयेष्वित्यादिश्लोकचतुष्टयेन । पुंसो जीवस्य स्त्रक्चन्दनवनितादिविषयेषु दुर्जनसङ्गेन शुभमेवेदमिति गुणध्यानं भवतीति ग्राह्यम् । ततस् तस्माद्गुणध्यानात्तेषु सङ्गः स्नेहो भवेत् । सङ्गः स्नेह इति गीताभाष्ये । सङ्गात्कामो भवेदेवेति । तस्माच्च कलिरधर्मा-ज्ञानरूपेणाविष्टो भवेत् । कलेः कल्यावेशाद्धर्मबाधकेषु सत्सु सहनायोग्यक्रोधो भवेत् । तदनु सत्सु क्रोधानन्तरं तमः प्रतिवर्तते । अन्धेतमसि पतितो भवेदिति यावत् । तदनन्तरं व्यापिनी सर्वेन्द्रियेषु सन्तता पुंसश्चेतना सुखानुभवशक्तिर्ग्रस्थत । शक्यं भवति । विनश्यतीति यावत् । तयाच चेतनया रहितोऽयं जन्तुः शुभाय सुखस्य उन्याय ऊनत्वाय कलप्यते । आत्यन्तिकसुखहानिं प्राप्नोतीति यावत् । एतेन सुखानुभवशक्तिर्ग्रस्येत इत्युक्त्या सुखं स्वरूपतो वर्तते । परं तु तदनुभवशक्तिमात्रनाश इति ज्ञातव्यमित्युक्तं भवति । न भेतव्यं त्वदुपलक्षितसज्जनैः साधुत्वेन तमः प्राप्तेरसम्भवादिति सूचयितुं साधो इत्युद्धवं प्रति सम्बोधनं कृतमिति बोध्यम् । पूर्वार्धेक्तस्यैव विवरणं तत इति ॥ ततस्तदनन्तरमस्य पुरुषस्य स्वार्थस्य सुखस्य विपरीतदुःखं तस्यातिशयेन जनको भ्रंशो भवति । तत्किं मूर्च्छावस्थायामित्यत उक्तम् अमूर्छितस्येति ॥ एतदुपपादनं मृतस्येति ॥ चोऽवधारणे । अमूर्छितस्यानन्तरं मृतस्यैव स्वार्थविभ्रंश इत्यन्वयः । मूर्च्छाद्यवस्थानां देहधर्मत्वेन चरम-देहत्यागरूपमृतिं प्राप्तस्य मूर्छासम्भवात् । मूर्छाङ्गीकारे च मूर्छाप्रबोधस्याप्यङ्गीकार्यत्वात् । तथात्वे तत्र निमित्तसौख्यप्राप्तेस्तमसि तदयोगादिति भावः ॥
ततश्च विषयाभिनिवेशेन विषवद्विषयं तद् यापयतीति विषयोऽसुखम् । तत्राभिनिवेशो गाढसम्बन्धः । तेनात्मानं परमन्यं च परमात्मानं वा न यथावद्वेति । तमोवस्थाविवरणं क्रियते । वृक्षवच्छेदभेदादिमज्जीविकया व्यर्थं जीवन् ग्रस्तवया नित्यदुःखेन परीतायु-र्दुःखातिशयेन मृतवच्छ्वसन् वर्तत इति ।
तदेतच्छ्लोेकचतुष्टयं दुर्गमार्थत्वाच्छून्यशब्दस्य प्रसिद्धार्थत्वप्रतीतेर्मूर्छितस्येति पदच्छेद-प्रतीतेस्तस्यानुपपन्नत्वात्तमःप्राप्तस्य विषयाभिनिवेशस्याप्रसक्तत्वाद्वृक्षजीविकयेत्युक्तदृष्टान्तस्य प्रकृतोपयोगाप्रतीतेश्च प्रमाणेन व्याचष्टे दोषिण इति । नरकाद्यनर्थहेतुतया दोषवन्तोऽपि विषयाः केवलसुखसाधनत्वाख्यगुणवत्वेनासतां सङ्गतेर्निमित्ताच्छ्रूयन्ते । तेषु विषयेषु विद्यमाना अपि दोषाः श्रोतुं सुदुर्लभा दोषनिरूपकसज्जनसङ्गत्यभावादिति भावः । ततः स किमित्यत उक्तम् अत इति । यत एवं विषयेषु गुणवत्वमेवासत्सङ्गत्या ज्ञातमतो नित्यं विषयेषु गुणवत्वमेव ध्यायति । यस्मात्तद्गुणस्मरणात्तस्मिन् गुणे प्रीतिमान् स्नेहवान् भवेत् । अतो विषयस्नेहात्तत्र तेषु विषयेषु । अधर्माज्ञानरूपेणेति पूर्वोत्तरत्र च सम्बध्यते । सत्सु स्वाभीष्टपरिपंथिधर्मोपदेशकेषु भगवद्भक्तेषु । ततः सत्सु क्रोधात् । अत्र सर्वत्र व्याख्यान-व्याख्येयभावः सुस्पष्टः । मूलार्थस्योक्तत्वात्तदनुरोधेन ज्ञातुं शक्यत इति नेहोच्यते । मूलार्थस्तु सुबोधत्वाय प्रथमं प्रदर्शितमिति ज्ञेयम् । तमःपातानंतरभाविकार्यमाह अन्ध इति । चेतनेत्यनूद्य सुखानुभवशक्तिरिति व्याख्यानम् । व्यापिनीत्यस्येन्द्रियसन्ततेति । स्वरूपमनोरूपेन्द्रिये व्याप्तेत्यर्थः । स्वरूपमनसाहि सुखानुभवः । तमोयोग्यानां स्वरूप-मनसि किञ्चित्किञ्चित्सत्कर्माद्युपाधिवशादुत्तमजीवे नीचतारूपदुःखानुभवशक्तिवत्संसारदशायां सुखानुभवशक्तिरस्ति । सा विनश्यतीति भावः । ग्रस्यत इत्यस्यार्थो विनश्यतीति । द्रुतं शीघ्रमित्यस्य तात्पर्यं सर्वदेति । यदा सुखानुभवशक्तिनाशस्तदा । शमूनभावेन शमिति द्वितीया षष्ठ्यर्थे । शमित्यव्ययं वा । शस्य सुखस्योनभावेन ऊनत्वेन विनाशेनेति यावत् । तेन भगवत्कार्यमाह सर्वात्मनेति ॥ तुरतिशये । सर्वात्मना सुखभ्रंशस्तस्य तमसि पतितस्य दुःखस्य विशेषतो विवर्धनो वृद्धिसंपादको भवेत् । विभ्रंश इति मूलगतविरुद्धार्थक-विशब्दस्यार्थो दुःखविवर्धन इति । वक्ष्यत्येतत् । तत्किं मूर्च्छावस्थायामित्यत उक्तम् अमूर्च्छितस्येति ॥ तदुपपादनं मृत्यनन्तरमेवेति ॥ उपपादनं मूलार्थकथनपरं ग्रन्थे स्पष्टम् । दुःखविवर्धनश्चेति सम्बन्धः । ततश्च किमित्यत उक्तं दुःखस्येति ॥ विषवद्धानिं यापयतीति विषयो दुःखम् । सर्वथा ज्ञानाभावे जडत्वं स्यादित्यतो यथावदित्युक्तम् । तमसि भाविनीं पीडां सदृष्टान्तमाह वृक्षवदिति ॥ वृक्षवत् कुठारादिभिश्च्छिद्यमानस्य च ते हानिं प्राप्नोति । व्यर्थवया इत्यस्यार्थो निष्प्रयोजनजीवन इति ॥ तस्य जीवनं सुखलक्षण- प्रयोजनजनकं न भवति । किंतु स्वरूपसत्तामात्रमेव जीवनम् । न केवलं प्रयोजनरहितं तज्जीवनं किन्तु नित्यदुःखेन परीतं ग्रस्तमायुर्यस्य स एतद्ग्रस्तवया इत्यस्य व्याख्यानम् । दुःखाधिक्यज्ञापकं दर्शयति दृतिवदिति ॥ ननु मूले स्वार्थविभ्रंश इत्येवोच्यते । अतो दुःखविवर्धन इत्येतदुन्मूलमित्यतः स्वार्थविभ्रंशपदेनैव लभ्यत इत्याशयावान् स्ववचनेन तत्पदं व्याचष्टे स्वार्थस्येति ॥ भ्रंशो नाशः । वीत्युपसर्गो विपरीतवादीत्यभिप्रेत्योक्तं विपरीत-मिति ॥ वीत्यस्यावृत्तिः । तस्य विशेषेणेत्यर्थ इत्याशयवतोक्तम् अतिशयेनेति ॥ उपसर्गस्य ससाधनक्रियावाचित्वमत्रोक्तं जनयतीति ॥ ततश्च स्वार्थस्य विशेषत अतिशयेन विपरीतस्य दुःखस्य जनकश्चासौ भ्रंशश्च विभ्रंशः, स्वार्थस्य विभ्रंशः स्वार्थविभ्रंश इत्यक्षरार्थ इति भावेन व्याख्येयपदमुक्तव्याख्यापरामर्शपूर्वकमनुवदति इति स्वार्थविभ्रंश इति ॥ विषयेषु गुणध्यानादिति मूले विषयशब्दस्यैहिकविषयमात्रार्थत्वप्रतीतिं वारयन् श्लोकचतुष्टय-लब्धार्थं दर्शयति तस्मादिति ॥ आदिपदेन स्रक्चन्दनवनिताद्यैहिकविषयग्रहणम् ॥ विषय-कामस्योक्तरीत्या तमःप्रापकत्वादित्यर्थः । अथवा फलश्रुतिरित्युत्तरग्रन्थस्य प्रकृतेन सङ्गति-सूचनाय तत्तात्पर्यमाह तस्मादिति ॥ न केवलमैहिकेषु किंतु ‘‘स्वर्गकामो यजेत’’ ‘‘पुत्रकामः पुत्र्येष्ट्या यजेत’’ इत्यादिश्रुतिप्रतीतेषु स्वर्गपुत्रादिषु नेच्छेदित्युच्यते उत्तर-ग्रन्थेनेत्यर्थः ॥ १९–२२ ॥
फलश्रुतिरियं नॄणां नः श्रेयोरोचनं परम् ।
श्रोतुर्विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३ ॥
उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४ ॥
न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५ ॥
तात्पर्यम्
‘फल(स्य) श्रुतिरेवेयं न कामकुसुमश्रुतिः । स्वर्गादिकामनायुक्त-स्त्वैहिकेष्वपि सज्जते । तत्रापि देवकामेभ्यो विशेषं चाभिवाञ्छति । ततस्तमसि पातः स्यादतो वेदः कथं हि तान् । काम्यत्वेनाभिचक्षीत सर्वं जानन्स्वयं सदे’ति ॥ नः श्रेयोरोचनम् अस्मत्सकाशाच्छ्रेयो मोक्षाख्यं तदेव रोचयति फलश्रुतिः । कुसुमस्या-नित्यतादिदोषज्ञानान्मोक्षस्यादोषत्वज्ञानाच्च । ईषदुत्तमस्य श्रोतुर्विवक्षया । बुधो वेदः कथं युञ्ज्यात् । अन्तरालागतोऽपि स्वर्ग एवंविधः किमु साक्षात्फलरूपो मोक्ष इति रोचकः । अनेकब्रह्मकालप्राप्यत्वान्मोक्षस्य तावन्तं कालं तप एव कर्तुं न शक्यत इति मन्दाधि-कारिणां स्वर्गादिष्वप्यभिरुचिर्भवति तान्प्रत्यन्ते मोक्ष एव भवति । अन्तरालेऽप्येवं-विधस्वर्गादिकं सुखं भवति । तस्माद्विहितं कर्म कर्तव्यमिति रोचयति । उत्तमानां तु यस्मादेतादृशमप्यनित्यत्वादि दोषवत्स्वर्गादिकं तस्मान्मोक्षफल एव वेद इति दर्शयति । न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसितः । ‘मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम् । मोक्षो न शक्यतेऽधैर्यात्ततः स्वर्गादिकं वदेत् । स्वर्गादिष्वल्पफलतां ज्ञापयित्वा विमोक्षदम् । एवं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते । इक्षुदण्डं ददानीति यथा भैषज्यरोचनम् । एवं मन्देषूत्तमेषु मोक्षमाहात्म्यमुच्यते । नह्यल्पफलभाग्वेदो वासुदेवैकसंश्रय’ इति विचारे ॥
‘अयोग्यभार्यापुत्रादिकामिताऽनर्थसाधिनी । योग्यकामाद्धरेः प्रीतिरतो ब्रह्मादयोऽ-मलाः । भार्यापुत्रादिसंयुक्ता वासुदेवमुपासत’ इति च ॥ २३–२५ ॥
पदरत्नावली
श्रुतिविहितत्वात् स्वर्गादिविषयेच्छा सतां स्यादित्याशङ्क्य एतद्विषयदृष्टान्तेन स्वर्गादिविषयस्यानित्यसुखहेतुत्वेन न तत्रेच्छा कार्या, श्रुतिर्भैषज्यरोचनार्थमिक्षुदण्डदानवत् स्वर्गादिवादिनी मुख्यतो मुक्तिपरेत्याह– फलश्रुतिरिति । इयं फलश्रुतिर् मोक्षफलश्रवणेन चरितार्थत्वान् न स्वर्गादिकुसुमश्रुतिः । तथात्वे वेदस्यानर्थहेतुत्वं स्यात्। न तद् युक्तम् । ‘‘स्वर्गादिकामनायुक्तस्त्वैहिकेष्वपि सज्जते । तत्रापि देवकामेभ्यो विशेषं चाभिवाञ्छति । ततस्तमसि पातः स्यादतो वेदः कथं हि तान् । काम्यत्वेनाभिचक्षीत सर्वं जानन् स्वयं सदा’’ इति वचनात् । तदुपपादयति न इति । नो ऽस्माकं सकाशात् श्रेयो मोक्षाख्यं तदेव रोचयति कामयति, स्वर्गादेरनित्यतादिदोषज्ञानान्मोक्षस्यादोषताज्ञानाच्चेति । भैषज्यरोचनं प्रति इक्षुदण्डं ददातीति यथा तथा ईषदुत्तमस्य मन्दाधिकारिणः श्रोतुर्विवक्षया अभिमुखीकरणाय प्रोक्तं न तु तत्र तात्पर्यविवक्षया । ‘‘मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम् । मोक्षो न शक्यतेऽधैर्यात् ततः स्वर्गादिकं वदेत् । स्वर्गादिष्वल्पफलतां ज्ञापयित्वा विमोक्षदम् । वेदं वक्तुं तूत्तमानां नित्यो वेदः प्रवर्तते । इक्षुदण्डं ददातीति यथा भैषज्यरोचनम् । एवं मन्देषूत्तमेषु मोक्षमाहात्म्यमुच्यते । न ह्यल्पफलभाग् वेदो वासुदेवैकसंश्रयः’’ इति वचनात् ॥
फलश्रुतेर्मोक्षैकार्थत्वे युक्तिमाह– उत्पत्त्यैवेति । उत्पत्त्या स्वभावत एव आत्मनोऽनर्थहेतुषु कामादिष्वासक्तमनसो ये मर्त्यास्तान् वृजिनाध्वनि संसारे भ्राम्यतो ऽत एव स्वार्थमविदुषो जनान् तेषां स्वार्थोपायं बुधो जानन् वेदस्तेषु न नियुञ्ज्यात् । नियुञ्जानश्चेदुन्मत्तवाक्यवदप्रमाणं स्यादित्याशयेनाह– कथमिति । विषयाभिनिवेशेन तमो विशतस्तान् पुनस्तेषु विषयेषु वेदः कथं युञ्ज्यात् । न कथमपि युनक्ति । उन्मत्तवाक्यसाम्यप्राप्तिभयादिति शेषः । कामादिषु नतान् मग्नानिति वा पदच्छेदः । तथा चैकवाक्यं प्राप्नोति ॥ स्वमतं प्रदर्श्यासुरमतं प्रदर्शयति एवमिति । केचिदसुरपक्षीया वेदस्यैव मुख्यं व्यवसितमविज्ञाय फलश्रुतिं फलं मोक्षस्तद्विषयां श्रुतिं कुसुमितां स्वर्गविषयां वदन्ति । अत एवावेदज्ञा इति ॥ २४–२६ ॥
श्रीनिवासतीर्थीया
ननु यदि स्वर्गादिविषयेच्छा न कर्तव्या तर्हि ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ स्वर्गकामनाया विधानमयुक्तमित्यत उच्यते ॥ फलश्रुतिरित्यादि । तत्प्रमाणेन व्याचष्टे ॥ फलेति । मोक्षाख्येत्यर्थः । अनेन फलश्रुतिरित्येतत्सावधारण-मित्युक्तं भवति । तद्व्यावर्त्यं दर्शयति ॥ नेति । न वैकेनाक्षरेणेति साधु । फलस्येति वा पाठः । काम्यत इति कामः स्वर्गादि । तल्लक्षणकुसुमश्रुतिर्न भवति । कुतो नेत्यत आह ॥ स्वर्गादीति । तत्रापि स्वर्गादावपि कथं युञ्ज्यादित्यादेस्तात्पर्यम् ॥ ततस्तमसीत्यादि । तत्स्वर्गादिकम् । अभिचक्षीत । ईषदुत्तमान्प्रतीति शेषः । असङ्गतिपरिहाराय न इत्यादिकमनूद्यार्थमाह ॥ न इत्यादि । सकाशात् । प्राप्यमिति शेषः । रोचयति तत्राभि-रुचिं जनयति । फलश्रुतिर्ज्योतिष्टोमेन यजेतेत्यादिका । कथमनेन तद्रोचनमित्यत आह ॥ कुसुमस्येति । कुसुमभूतस्वर्गस्येत्यर्थः । ननु श्रोतुरनेकविधत्वात्कः श्रोता तत्र विवक्षित इत्यत आह ॥ ईषदिति । मन्दाधिकारीत्यर्थः ॥
बुधशब्दार्थमाह बुध इति । सर्वं जानन्नित्यर्थः । अत एव प्रमाणे सर्वं जानन्निति बुधशब्दार्थ उक्तः ॥ अभिमान्यपेक्षयैतत् । श्रेयोरोचकत्वप्रकारं दर्शयति ॥ अन्तरालेति । एवंविधो दुःखासम्भिन्नोऽनन्तरमग्रस्तोऽभिलाषोपनीतश्चेत्यर्थः । मन्दाधिकारिणः प्रति कथं रोचक इत्यतस्तदेव विवृणोति ॥ अनेकेति । अतस्तान्प्रति स्वर्गादिकं विधायान्तेऽपि मोक्षं विधाय पश्चान्मोक्षो भवतीत्यर्थः । तथा च तं प्रति मोक्षो विहितुं न शक्यत इति भावः ॥ तप इति । क्लेशरूपत्वादिति भावः । स्वर्गादिषु सुखेष्वन्त इति । अयं भावः । मोक्षमार्ग-स्यातिकठिणत्वादादावेव तत्र प्रवेशायोगाद्वेदस्य मार्गे तान्प्रवेशयितुं ज्योतिष्टोमादिकं कर्तव्यम् । तेनान्तरालेऽपि मोक्षात्पूर्वमपि स्वर्गादिकं सुखं भवतीति विधाने तस्मिन्विहिते कर्मणि तेषां प्रवृत्तौ पश्चादमृतो वाव सोमपो भवति यावदिन्द्र इत्यनित्यत्वज्ञापनेन स्वर्गा-दीच्छां विनाश्य मोक्षमार्गे प्रवेशयति । यथा भिषगिक्षुदण्डदानेनेति ।
मन्दाधिकारिणामित्युक्तम् । उत्तमानां तु कथमित्यतः कुसुमस्यानित्यतादिदोषज्ञाना-च्चेत्याद्युक्तं विवृणोति ॥ उत्तमानां त्विति । एतादृशं सांसारिकसुखविलक्षणमपि स्वर्गादिकमनित्यत्वादिदोषवदिति कस्मिंश्चिद्वेदविभागे वदेद्यस्मात्तस्माद्वेदो ज्योतिष्टोमेनेत्यादि-मोक्षफलको ऽनित्यस्वर्गादिकं विहायानेककल्पसाध्यं मोक्षमेव स्वर्गशब्देनोक्त्वा मोक्षार्थं ज्योतिष्टोमादि कर्तव्यमिति विधत्ते । तथा चोत्तमानां स्वर्गशब्दो मोक्षपरो मन्दानां तु प्रसिद्धस्वर्गपर इति भावः । ननूत्तमान्प्रत्यपि स्वर्गशब्दः प्रसिद्धस्वर्गपर एव कुतो नेति चेत्तत्राह ॥ न हीति । अल्पफले स्वर्गाख्ये । तत्र प्रमाणमुक्तार्थे दर्शयति ॥ मन्देति । प्रतीक्षितुं संपादयितुम् । कुत इत्यत उक्तम् ॥ अधैर्यादिति । एवं तपःकरणे मोक्षो नियमेनास्माकं भविष्यत्येवेति धैर्याभावादित्यर्थः । वदेज्ज्योतिष्टोमेनेत्यादिवेदः प्रसिद्धं स्वर्गं स्वर्गपदेन वदेदित्यर्थः । धैर्यात्प्रतीक्षितंु न शक्यत इति वा । उत्तमानां प्रति वेद-प्रवृत्तिप्रकारमाह ॥ स्वर्गादिष्विति । ज्योतिष्टोमादिवेदं विमोक्षदं वक्तुं समग्रो वेदराशिः प्रवर्तते । स्वर्गशब्दो मोक्षपर इति भावेन मोक्षमेव विधत्त इत्याशयः । मन्दान्प्रत्याह ॥ इक्ष्विति ॥ एवमिति । स्वर्गशब्देन प्रसिद्धस्वर्गं प्रतिपाद्य रोचयतीत्यर्थः । उत्तमेषु रोचकत्वं मूले फलश्रुतिरित्यादिनोक्तं तं प्रकारं दर्शयति ॥ मोक्षेति । अन्तरालागतोऽपि स्वर्ग एवंविधः किमु साक्षात्फलरूपो मोक्ष इति कैमुत्येनेत्यर्थः । कुत एवमित्यत आह ॥ न हीति । तथा च नृणामधिकारिणां मध्ये ईषदुत्तमस्य श्रोतुर्विवक्षया तान्प्रति फलश्रुतिः स्वर्गकाम इति श्रुतिर्नोऽस्माकं सकाशाद्यच्छ्रेयो मोक्षाख्यं तदेव परं केवलं रोचयति । तत्प्रकारस्त्वन्तरालागत इत्यादिना तात्पर्ये कथितः । न प्रसिद्धस्वर्गं स्वर्गपदेन प्रतिपाद-यतीत्यर्थः ।
तर्हि किमर्थं रोचयतीत्यत उक्तम् ॥ यथेति । यथेक्षुदण्डं ददामीति भिषक्सम्बन्धि-रोचनमेव श्रेयोरोचनं प्रोक्तं गुडजिह्विकान्यायेन मोक्षरुच्युत्पादनायाप्यन्तरालेऽप्येवंविधं स्वर्गादिसुखं भवति । किमु मोक्ष इति भावेन स्वर्गपदेन प्रसिद्धं स्वर्गं प्रतिपादयतीति मूलं योज्यम् । अथवा । नृणां मध्ये उत्तमश्रोतुर्विवक्षयोत्तमान्प्रतीयं फलश्रुतिर्नोऽस्माकं सकाशाद्यच्छ्रेयो मोक्षाख्यं तदेव रोचयति । इयांस्तु विशेषः । परं तान्प्रति कैमुत्येन गुडजिह्विकयोत्तमान्प्रति त्वेतादृशसुखोपेतः स्वर्गोऽप्यतितुच्छो मोक्षापेक्षयेति बोधयितुं तान्प्रति फलश्रुतिः स्वर्गं विधत्त इति ध्येयम् ॥
ननु मन्दाधिकारिणां मोक्षे रुच्युत्पादनाय स्वर्गादावान्तरालिकं फलं प्रतिपादयन्तीयं श्रुतिरिति कुतः । तेषां स्वर्गादिकमेव मुख्यफलतया काम्यं किं न स्यादित्यत उच्यते ॥ उत्पत्त्यैवेत्यादिना । स्वजनानां भार्याणामनर्थहेतुष्वित्यनर्थहेतुत्वमुक्तम् । तदयुक्तम् । सभार्याणामेव देवादीनां मोक्षश्रवणेनानर्थहेतुत्वायोगादित्यतस्तात्पर्यमाह ॥ अयोग्येति । कामिता कामनावत्ता । तथा च कामेषु विषयेषु प्राणेष्विन्द्रियेष्वात्मनोऽनर्थहेतुष्वयोग्य-पुत्रभार्यादिस्वजनेषु आ सम्यक् सक्तमनसो वृजिनाध्वनि संसारे भ्राम्यतोऽत एव स्वार्थं मोक्षमविदुषो वृजिनाध्वन्येव नतान्मग्नांस्तमोऽन्धन्तमो विशत एव स्वार्थोपायमजानतः । बुधस्तेषामुपायं जानन् वेदस्तेषु स्वर्गादिविषयेष्वेव पुनः कथं युंज्यात् । स्वर्गादि न मुख्यकाम्यतया कथमभिचक्षीतातो मोक्षरुच्युत्पादनयैव वक्तीत्याशयः । न तानिति भिन्न-पदत्वेऽविदुषस्तांस्तेषु न युञ्ज्यात् । तदेव विवृणोति ॥ कथं युञ्ज्यादितीति भिन्नवाक्यतया योज्यम् ॥ २४,२५ ॥
दुर्घटभावदीपिका
हे मर्त्याः । उत्पत्त्यैव स्वभावत एवात्मनोऽनर्थहेतुषु कामेषु स्वर्गादिषु प्राणेष्विन्द्रियेषु स्वजनेषु । चशब्दोऽवधारणे । आसक्तमनसो ह्यासक्तमनस एव तान् व्रजिनाध्वनि भ्राम्यतोऽत एव स्वार्थमविदुषस्तमो मिथ्याज्ञानं विशतो जानन् बुधो वेदपुरुषः स्वर्गादिषु पुनर्न नियुञ्ज्यात् । यदि वेदपुरुषस्तानजानन् स्वर्गादिषु नियुञ्ज्यात्तर्हि त्वयं बुधः स्यादिति । एतेन नियुञ्ज्यादित्यनेन पूर्णत्वात्कथमित्येतद्व्यर्थमिति दूषणं परास्तम् । कथमित्यस्य नियुञ्ज्यादित्यनेनान्वय इत्यनभ्युपगमात् ॥ २४,२५ ॥
प्रमेयचन्द्रिका
ननु स्वर्गकामः पुत्रकाम इति कामस्य श्रुतिप्राप्तत्वात्कथमनर्थ-साधनत्वमुच्यत इत्यतो न स्वर्गादिकामोऽत्र श्रुत्यादावुच्यते । किं त्वन्यदेवेति प्रातिपादके फलश्रुतिरिति श्लोके उक्तार्थस्फोरणाय प्रथमापादं व्याचष्टे फलश्रुतिरेवेयमिति ॥ सर्वं वाक्यं सावधारणमिति न्यायेन एवेत्युक्तम् । अवधारणव्यावर्त्यं दर्शयति न कामेति ॥ मोक्षरूप-फलकामनाभिधायिकैवेयं श्रुतिः । न तु विमश•सहतया कुसुमदृशा अनित्यस्वर्गादिकामरूप-कुसुमश्रुतिरित्यर्थः । स्वर्गादिविषयेष्विति स्ववचने विशिष्य स्वर्गग्रहणस्याभिप्रायः स्वर्गादि-कामनामात्रेण तमःपातोऽनुपपन्न इति शङ्कापरिहारं च कामकुसुमपरा श्रुतिर्नेत्यर्थं च प्रमाणेनाह स्वर्गादीति ॥ तु विशेषेणैहिकेष्विति । आमुष्मिकेष्विवैहिकेष्वपि सुख-साधनत्वज्ञानसद्भावादिति भावः । तत्रापि आमुष्मिकविषयेष्वपि विशेषमतिशयं कामस्य निरंकुशत्वादिति भावः । ततो योग्यदेवकामेभ्योऽप्यतिशयितकामनारूपाद्देवताद्रोहादैहिकेष्वपि स्वोत्तमवनितादिकामनारूपदोषाच्च । तान् स्वर्गादिविषयान् । सर्वं प्रागुक्तं सर्वं वेदद्रष्टृविवक्षया जानन्नित्युक्तिः ।
एवं स्वर्गकामश्रुतिर् नृणामेकान्तभक्तव्यतिरिक्तानां स्वरूपभूतरमणज्ञानरूपमोक्षलक्षण-फलश्रुतिरित्याद्यपादेनोक्ता । अस्तुवा कुसुमतुल्यस्वर्गादिकामपरा श्रुतिस् तथापि न केवल-कामनिन्दोपपाद्यते । स्वर्गकामश्रुतेरज्ञानां यज्ञादिकरणबुद्धिप्रसक्तिसंपादनमात्रार्थत्वेन काम-निन्दाविरोधित्वाभावादित्यात्याशयेन प्रवृत्तं नः श्रेयोरोचनमिति पादत्रयेनेति पदच्छेद-भ्रममपनुदन् व्याचष्टे न इति ॥ अनूदितस्य न इत्यस्यार्थोऽस्माकं सकाशादिति । मूले श्रेयःशब्द उत्तमश्रेयोरूपमोक्षपरः । तदेव रोचयति तस्मिन्नेव रुचिमभिजनयतीति श्रेयोरोचनं फलं श्रुतिरित्यनुवर्तत इत्याशयेनोक्तं यच्छ्रेय इत्यादि ॥ एतेन स्वर्गकामश्रुतिः श्रोतुरधमाधिकारिणो विवक्षया परं न केवलं नः कृष्णवाक्यमेतत् । अस्माकं सकाशाद्यच्छ्रेयो मोक्षाख्यं तद्रोचनं प्रोक्तम् । मोक्षे रुचिजननार्थमेव स्वर्गः फलत्वेनोच्यते । न तु तत्र तात्पर्यमिति यावत् । तत्र दृष्टान्तो यथा भेषजमिति । औषधभक्षणस्य तात्कालिकक्लेश-जनकतया ततो निवृत्तं बालम् औषधं स्वीकुरु इक्षुदण्डं ते ददामीति रोचनं क्रियते तथेति मूलार्थ उक्तो भवति । नन्वेवं स्वर्गस्ते भवेदिति रुच्युक्तावपि कथं मोक्षे प्रवृत्तिर्भवति । तात्कालिकसाधनानुष्टाननिमित्तकसमभिया निवृत्तेर्युक्तत्वादित्यत आह कुसुमस्येति ॥ इमं लोकं हीनतरं वा विशन्तीति, क्षीणे पुण्ये मर्त्यलोकं विशन्ति ततः शेषेणेमं लोकमाया-न्तीत्यादिना कुसुमस्य स्वर्गादेरनित्यत्वमानुष्यापादकत्वादिदोषज्ञानात्, मोक्षस्य न पुनरा-वर्तते, जक्षन् क्रीडन्निति निर्दोषफलरूपताज्ञानाच्च स्वर्गादिष्वरुच्या पश्चान्मोक्ष एव रुच्युपपत्तेरिति भावः ।
ननु मूले श्रोतुर्विवक्षयेति व्यर्थं सर्वस्यापि वेदस्य श्रोतुरधिकारिणो विवक्षया प्रवृत्तत्वस्य सिद्धत्वादित्याशङ्कायां नात्र श्रोतुरित्यधिकारिसामान्योक्तिर्येन वैय्यर्थ्यं स्यात् । किं नाम स्वर्गपदेन मोक्षस्य विक्षितत्वात्तत्परैवेयं श्रुतिरित्याद्यपादेनोक्ता । उत्तरत्र प्रसिद्धस्वर्गपरे-त्युच्यते । एतदर्थद्वयं विरुद्धमित्यतः पूर्वं नृणामिति स्वत एव मोक्षसाधने प्रवृत्तिमता-मेकान्तभक्तव्यतिरिक्तानामुत्तमानां विवक्षयोक्तम् । इह तु ईषदुत्तमस्य मनुष्योत्तमरूपस्य श्रोतुर्विवक्षयेति न विरोध इत्याशयेन श्रोतुर्विवक्षयेत्यस्यार्थमाह ईषदुत्तमस्येति ॥ मूले एवं स्वर्गकामश्रुतेरभिप्रायं द्वेधाऽभिधाय प्रतीतार्थाङ्गीकारे बाधकमुच्यते उत्पत्येति । उत्पत्या सांसारिकस्वभावेनैवात्मनो नरकाद्यनर्थहेतुषु विषयेषु प्राणेषु इन्द्रियेषु । कलत्रापत्यादि-स्वजनेषु चासक्तमनसो ये मर्त्यास्तान् स्वपरमपुरुषार्थमविदुषो पापमार्गे परिचरतो मर्त्यान् बुधो वेदस्तेषु कामादिषु न युञ्ज्यात् । तदुपपादनायोक्तं कथमिति ॥ कामादिसक्त्या तमो नरकादिमन्धन्तमो वा विशतो जनान् बुधस्तेषु कथं युञ्ज्यात् । न हि जीवानां दुःख-प्रहाणाय प्रवृत्तस्य दुःखसाधनकर्मादिषु प्रवृत्तिबोधनं युज्यते । उन्मत्तवाक्यवदप्रामाण्य-प्रसङ्गात् । अतो न प्रसिद्धस्वर्गादिकामबोधने श्रुतेस्तात्पर्यं युज्यत इति भावः ।
अत्र बुधशब्दस्य ज्ञानीत्यर्थकत्वे प्रकृतासङ्गतेस्तदर्थकथनपूर्वकं व्यवहितत्वादन्वयं दर्शयति बुध इति ॥ बुध्यते तत्वमनेनेति व्युत्पत्या बुधो वेदः । नन्वल्पाधिकारिणं प्रति मोक्षे रुच्युत्पादनाय स्वर्गकामश्रुतौ स्वर्गः फलतयोच्यते । कुसुमस्यानित्यतादिदोषज्ञाना-दित्याद्युक्तरीत्या मोक्षे रुचिसम्भवादित्ययुक्तम् । स्वर्गपदस्य प्रसिद्धस्वर्गार्थत्वेन मोक्षस्यात्रा-नुक्त्या तदुपस्थितेरेवासम्भवादित्यत आह अन्तरालेति । अत्र स्वर्गशब्दः स्वरूपभूतरमण-ज्ञानरूपत्वयोगेन मोक्षार्थकोऽपि भवति । तत्र ज्योतिष्टोमादेर्मोक्ष एव परमपुरुषार्थः । स्वर्गस्तु तच्छेषतया नान्तरीयकः । स च नान्तरीयकतया आगतोऽपि स्वर्ग एवंविधः श्रुत्यादिषूक्तरीत्या बहुसुखापादकः किमु साक्षात्फलरूपो मोक्षोऽनन्तसुखावह इत्येवं मुख्यतया नान्तरीयकतया च मोक्षस्वर्गोभयविवक्षया स्वर्गपदस्य प्रवृत्तेर्मोक्षस्योपस्थिति-सम्भवेन रोचकत्वमुपपद्यत इति भावः ।
ननु प्रधानफल एव साक्षाद्रुच्युत्पादनसम्भवात्किमल्पफलस्यापि कथनेनेत्यत आह अनेकेति ॥ बहूनां जन्मनामन्त इत्युक्तेरिति भावः । तप एवेति ॥ तात्कालिकसुखार्थं निषिद्धाचरणेऽनर्थप्राप्तेः सुखत्यागेन तप एव कार्यम् । न च सदा तत्कर्तुं शक्यते । अतो मोक्षसाधने न धैर्येणाल्पाधिकारिणामल्पकालापाद्यकाम्यकर्मसाधनस्वर्गादिष्वभिरुचिर्भवति । अतस्तान् प्रति निष्ठामनया ज्योतिष्टोमाद्याचरणे ज्ञानद्वाराऽन्ते प्रधानफलभूतो मोक्ष एव भवति । मध्ये मध्ये च बहुशो नान्तरीयकतया स्वर्गादिसुखं भवति । तस्मात्स्वविहितवृत्या भक्त्या भगवदाराधनरूपं ज्योतिष्टोमादिद्वाराऽन्ते प्रधानफलभूतमोक्षकामनया कार्यमिति विधत्ते श्रुतिः । अतोऽप्रधानफलरोचनमपि उपपन्नमिति भावः ।
भवत्वेवं मन्दाधिकारिणां श्रुतिप्रवृतिः । उत्तमाधिकारिणां प्रति तु कथमित्यतः फलश्रुतिरिति मूलाभिप्रायमाह उत्तमानां त्विति ॥ यस्मादेतादृशं बहुसुखवत्वेन प्रमितमपि स्वर्गादिकमनित्यासारत्वाद् भाविपातनिमित्तकक्लेशवत्वादिदोषयुक्तम् । तस्मात्स्वर्गकाम इत्यादिना मोक्षफलाभिधायक एव । नाल्पफलाय प्रवृत्त इत्येवं फलश्रुतिनियतमर्थं मूलवाक्य-मुत्तमानां दर्शयतीत्यर्थः । कुत एवं स्वर्गकामपदस्य द्वेधा मोक्षे पर्यवसानं कल्प्यते । प्रातीतिक एवार्थः किं न स्यादित्याशङ्कावारणायोत्पत्यैवेति श्लोकद्वयतात्पर्यमाह नहीति ॥ वेदस्तावत्सर्वप्रमाणोत्तम इति वेदशास्त्रात्परं नास्तीति प्रमितसर्वोत्तमत्वं चात्युत्तमविषय-प्रयोजनवत्व एव भवेत् । स कथमल्पफलपर्यवसायी स्यादिति भावः । उक्तार्थे प्रमाणमाह मन्देति ॥ उक्ताभिप्रायमेतत् । ततः कारणात्स्वर्गकामश्रुतिर्नान्तरीयकतया प्रसिद्धस्वर्गादिकं वदेदित्यर्थः । स्यादेवं मन्दधिकारिणामुत्तमानां प्रतितु कथमित्यत आह स्वर्गादिष्विति ॥ उत्तमानां प्रति क्षीणे पुण्ये मर्त्यलोकं विशन्तीत्यादिना स्वर्गादिष्वल्पफलतां ज्ञापयित्वा वैराग्यमुत्पाद्य तमेवं विद्वानित्यादिना ज्ञानमेव मोक्षदमिति वक्तुं तच्च ज्ञानमग्निहोत्रादि-कर्मभिर्भवतीति कर्मणा ज्ञानमातनोतीत्यादिना वक्तुं मोक्ष एव फलमिति विवक्षया स्वर्गकाम इत्यादिवेदः प्रवर्तत इत्यर्थः ।
मन्दाधिकारिणां रुचिजननाय प्रसिद्धस्वर्गादिकं वदेदित्युक्तम् । तत्र दृष्टान्तमुपपादयति इक्ष्विति ॥ कटुकादनदुःखादौषधान्निवृत्तं बालं प्रति औषधस्वीकारे तुभ्यमिक्षुदण्डं ददामि पश्चान्नीरोगश्च भविष्यसीति यथा भैषज्यमौषधरोचनं क्रियते । एवं मन्देषु कर्मानुष्ठाने सद्यः स्वर्गादिकं भवति । पश्चादपवर्गो भविष्यतीति रोचनं स्वर्गकामश्रुत्या क्रियते । उत्तमानां प्रतितु स्वर्गपदेन मोक्षमाहात्म्यमुच्यते । यन्न दुःखेन सम्भिन्नं न च स्पृष्ट(ग्रस्त)मनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदमित्युक्तरीत्या स्वरूपभूतरमणज्ञानरूपत्वनिरुक्त्याच मोक्षमाहात्म्यस्यैव प्रतीतेरिति भावः । कुत एवं कल्प्यते प्रतीत एवार्थः किं न स्यादित्यत आह नहीति ॥ सर्वोत्तमोत्तमवासुदेवविषयको वेदः कथमल्पफलाय प्रवृत्तो भवेत् । वासुदेवज्ञानस्य मोक्षैकफलतया निर्णीतत्वादिति भावः ।
ननूत्पत्यैव हीत्यत्र कलत्रादिकामनिन्दा क्रियते । देवादीनां भार्यापुत्रादिकामितायाः श्रुत्यादिषु दर्शनादित्यत आह अयोग्येति । यत्यादीनां सर्वथा भार्यादिकामनाया अयोग्यत्वाद्देवदीनामपि स्वस्वयोग्यस्त्र्यादिव्यतिरेकेण तदितरर्भार्यादेरयोग्यत्वादयोग्याच सा भार्या च पुत्रादिकामिता चेति, अयोग्याच सा भार्यापुत्रादिकमिताचेति द्वेधा विग्रहः । स्वाधिकाराभिकामनं भवति प्रीतये विष्णोरित्युक्तेर्योग्यभार्यापुत्रादिकामाद्धरेः प्रीतिर्भवेत् । तत्र ज्ञापकमाह अत इति ॥ योग्यकामस्य हरिप्रीतिसंपादकत्वादेव ब्रह्माद्या याज्ञ्यवल्क्याद्याः केचिन्मानुषाश्च ‘‘रागो दोषस्य कारणम्’’ इत्युक्तेः रागादिमलरहितभार्यापुत्रपौत्रादिसंयुक्ता एव वासुदेवमुपासते । अयोग्यभार्यादिकामस्यापि निन्दितत्वेन तन्न स्यात् । यदा त्व-योग्यकामः स्यात्तदा चन्द्रसुग्रीवयोः प्राप्तव्यहानिवदनर्थो भवेद् अतोऽयोग्यकामननिन्दोपपद्यत इति भावः ॥ २५ ॥
एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः ।
फलश्रुतिं कुसुमितामवेदज्ञा वदन्ति हि ॥ २६ ॥
तात्पर्यम्
एवं वेद(स्य)व्यवसितम् । फलश्रुतिं कुसुमिताम् । फलं मोक्षः । तद्विषयां श्रुतिं स्वर्गादिकुसुमविषयां वदन्ति ॥
‘नित्यानन्द(न्दो)हरेर्भक्तिज्ञानाद्याः स्वर्गशब्दिताः । पुत्रभार्याप्तवित्ताद्यं सर्वं मोक्षगतं फलम् । उद्दिश्य स्वर्गकामस्य यजनं श्रुतिचोदितम् । तदविज्ञाय पुष्पाख्यमनित्यं स्वर्ग-मिच्छवः । यजन्ति मन्दमतयो वेदवादपरायणा’ इति च ॥ ‘स्त्रीभिर्वा यानैर्वे’त्यादि च ॥
‘मोक्षाख्यं फलमेवात्र स्वर्गादिवचनं तु यत् । पुष्पस्वर्गादिवत्तस्य वचनं मन्द-रोचनमि’ति च ॥ ‘असुराणामयं स्वर्गशब्दः पुष्पात्मकं वदेत् । देवानां हरिसम्प्राप्तिं वेदो विष्णुपरो यत’ इति च ॥ २६ ॥
श्रीनिवासतीर्थीया
एवं स्वमतं प्रदर्श्यासुरमतं प्रदर्शयितुमेवमित्यादिको ग्रन्थः । तत्र व्यवसितमित्यत्र पुरुषेणेत्याद्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ एवं वेदेति । वेदस्य व्यवसितम् । भावे क्तः । दार्ढ्येन निश्चयमविज्ञाय स्थिताः कुबुद्धयोऽत एवावेदज्ञा वेद-तात्पर्यमजानानाः फलश्रुतिं कुसुमितां वदन्ति । अप्रतीतेरिमं पादमनूद्य व्याचष्टे ॥ फलेति । श्रुतिं स्वर्गकाम इति श्रुतिम् । कथमस्याः श्रुतेर्मोक्षविषयत्वमित्यतस्तद्योजनाप्रकारं प्रमाणेन दर्शयति ॥ नित्यानन्देति । हरेरिति षष्ठ्या अलुक् । हरिभक्तीत्यर्थः । नित्यानन्दस्य हरेर्भक्तिज्ञानाद्या इति वा । पुत्रेत्यादिना पुत्रकामः पुत्रकामेष्ट्या यजेतेत्यादिश्रुत्यर्थकथनम् । स्वर्गशब्दोक्तनित्यानन्दादिकमुद्दिश्य स्वर्गकामस्य ज्योतिष्टोमेन यजनं ज्योतिष्टोमेनेत्यादिश्रुति-चोदितं नित्यानन्दादिकामो यजेतेति यथा तथा मौक्तपुत्रादिकमुद्दिश्य पुत्रादिकामस्य यजनं पुत्रकाम इत्यादि श्रुतिचोदितमिति योज्यम् । अनेनैवं वेदव्यवसितमित्यस्य तात्पर्यमुक्तं भवति ।
अविज्ञाय कुबुद्धय इत्यादेस्तात्पर्यमाह ॥ तदविज्ञायेत्यादिना । भार्यादिकं मौक्तं फलमित्युक्तम् । तदयुक्तम् । मुक्तौ तत्सद्भावस्याप्रमितत्वादित्यत आह ॥ स्त्रीभिरित्या-दिना । ज्ञातयः सहमुक्ताः कल्पान्तरे मुक्ता अज्ञातयः । देवानारभ्य ऋष्यन्तानां सभार्य-पुत्राणामेव मुक्तिसद्भावात्पुत्रादयोऽपि सन्ति मुक्तौ । ज्ञातय एवाप्ताः । तत्र भोगसाधनं द्रव्यमेव वित्तमित्यादि ज्ञेयम् । स्वर्गकामश्रुतेर्मोक्षार्थत्वे प्रमाणान्तरं चाह ॥ मोक्षाख्य-मिति । तस्य फलस्य पुष्पस्वर्गादिवद्वचनम् । स्वार्थे वतिः । पुष्पभूतस्वर्गत्वेन वचनम् । यद्वा । सादृश्य एव वतिः । पुष्पस्थानीयस्वर्गतुल्यतया वचनम् । तत्फलं पुष्पस्थानीय-प्रसिद्धस्वर्ग एवेति वचनम् । मन्दानां मोक्षरोचकमित्यर्थः । प्रमाणान्तरं चाह ॥ असुराणामिति । तथा च । स्वर्गकामः सुष्टुरमणज्ञानरूपहरिप्राप्तिकामो यजेतेत्यर्थान्तरमुक्तं भवति । देवान्प्रत्येवं कुत इत्यत आह ॥ वेद इति । न हि सर्वप्रमाणोत्तमो वेदोऽल्पफले पर्यवसित इति भावः ॥ २६ ॥
प्रमेयचन्द्रिका
मूले एवं स्वर्गकामश्रुतेरभिप्रायं स्वमतेनोक्त्वा त्यागायासुरमतं प्रदर्शयन्निन्दनं क्रियते । एवमित्यादिना । अत्र एवमुक्तरीत्या स्वेन व्यवसितमिति प्रतीयत । तर्हि वेदानभिप्रेतोऽपि स्वेन व्यवसित इति मन्दानां प्रतीतिः स्यात्तद्वारणायाह एवं वेदस्येति ॥ व्यवसितमित्यतीतार्थत्वप्रतीत्या न वर्त्तमानादिकाल इति स्यादतो निष्ठा सार्वकालिकीति भावेनोक्तं नित्येति ॥ अप्रतीतेः फलश्रुतिं कुसुमितामित्येतदनूद्यार्थमाह फलेति ॥ मोक्ष एव परमानन्द इत्युक्तेर्मुख्यं फलं मोक्षः । फलस्य श्रुतिं फलश्रुतिमिति षष्ठ्यर्थः सम्बन्धो दर्शितः । तद्विषयामिति । तत्प्रतिपादिकामित्यर्थः । कुसुमितां पुष्पवतीम् । अनित्यत्वाद्विमर्शासहत्वसाहित्येन कुसुमः स्वर्गादिः । तद्वत्वं तद्विषयत्व-मित्यभिप्रेत्य स्वर्गादिकुसुमविषयामित्युक्तम् । अन्वयं दर्शयति वदन्तीति ॥ वस्तुतो मोक्ष-रूपमहाफलवादिनीं श्रुतिमनित्यासारस्वर्गरूपफलवादिनीं वदंत्यासुरा इत्यर्थ इति भावः ।
स्वर्गकामश्रुतौ स्वर्गपदम् उत्तमानां साक्षात्फलतया स्वरससुन्दरत्वेनानन्दरूपं हरिविषय-भक्त्यादिपरम् इतरेषां मोक्षगतपुत्रादिरूपफलपरम् । न तु प्रसिद्धस्वर्गपरमिति स्वोक्तार्थे प्रमाणमाह नित्यानन्द इति ॥ स्वरूपभूतमत एव नित्यं परमानन्दः स्वरित्युच्यते । गम्यते मुक्तिरनयेति गः भक्तिर्गः । गत्यर्थानामवगत्यर्थकत्वाद्ज्ञानं गः । आदिपदेन वैराग्यादिग्रहणम् । तदपि गम्यतेऽनेनेति ग इत्युच्यते । फलमित्यतः स्वर्गशब्दितमिति ग्राह्यम् । स्वः सुखं गम्यतेऽनेनेति व्युत्पत्तिसम्भवात् । स्वर्गकामो यजेतेति श्रुतिचोदितं स्वर्गकामस्य यजनं नाम स्वर्गशब्दितमेतत्सर्वमुद्दिश्य यजनमेवेति योज्यम् । तदेतच्छ्रुत्यभि-प्रेतमविज्ञाय पुष्पाख्यत्वे निमित्तमनित्यमिति । अवेदज्ञा इति मूलगतस्य पदस्यार्थो मन्द-मतय इति । तदुपपादनं वेदवादपरायणा इति ॥ ‘‘वादो विषयकत्वं च मुखतो वचनं स्मृतम्’’ इत्युक्तेर्वेदापातार्थ एव निष्ठा इत्यर्थः । पुत्रभार्यादेर्मोक्षगतत्वमुक्तम् । तत्सगुण-मुक्ताविति भ्रान्तिनिवारणाय श्रुतिं पठति स्त्रीभिरिति ॥ परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिरित्यादिश्रुतौ परममुक्तावेव भार्यादिसद्भावोक्तेः सगुणमुक्तौ परञ्ज्योतिःप्राप्तेः स्वेन रूपेणावस्थानस्यायोगादिति भावः । तस्मान्मोक्षफल एव वेदः । ततः स्वर्गादिकं वदेत् । यथा भैषज्यरोचनमित्युक्तार्थे स्पष्टं प्रमाणमाह मोक्षाख्यमिति ॥ एक एव स्वर्गशब्दोऽसुराणां पुष्पं नित्यानित्यस्वर्गमेव वदति । उत्तमानां तु मोक्षमेव वदतीति उक्तार्थे पुनः स्पष्टं प्रमाह असुराणामिति ॥ हरिसंप्राप्तिमेव वदतीत्यत्र नियामकं दर्शयति वेद इति ॥ सर्वे वेदा यत्पदमामनन्तीत्यादिना वेदस्य विष्णुपरताऽवगम्यते । स च केवलं विष्ण्वेकनिष्टो वेदो अन्यदेवताप्राप्तिं फलत्वेन न वदतीति भावः ॥ २६ ॥
कामिनः कृपणा लुब्धाः पुष्पेषु पलबुद्धयः ।
अग्निमुग्धा धूमतान्ताः स्वलोकं न विदन्ति ते ॥ २७ ॥
न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः ।
उक्थशासो ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८ ॥
ते मे मतमविज्ञाय परोक्षविषयात्मकाः ।
हिंसायां यदि कामः स्याद् यज्ञ एव न चोदना ॥ २९ ॥
तात्पर्यम्
स्वलोकं स्वाश्रयम् ॥
कोऽसावाश्रयः? माम् । ते ये उक्थेन प्राणेन शास्याः । ‘विष्ण्वभक्तान् सदा वायुः शासयेत्तमसि क्षिपन् । विष्णुभक्तान्विमोक्षाय प्रापयित्वा सुखं नयेदि’ति च ॥ ‘पथ एकः पीपाय तस्करो यथा एष वेद निधीनामि’ति च । मे मताविज्ञानात्परोक्ष-विषयात्मकाः । परोक्षमन्धन्तमः । तद्विषयस्वरूपाः । तद्गमनार्थ(तद्भ्रमणार्थ)स्वरूपाः । ‘अन्धन्तमः परोक्षं च पञ्चकष्टं तथोच्यत’ इति सुव्यक्ते ॥ तेषा(म)मासुराणां यदा हिंसायां कामस् तदा यज्ञ एव न चोदना । यद्यदात्मनो हिंसितुमिष्टं तत्तद्विहितमिति प्रापयन्ति कुतर्कैः । ‘आसुरोऽविहितां हिंसां विहितत्वेन वर्णयेत् । आसुरा याज्ञिकाः सर्वे नारायणपराङ्मुखा’ इति च ॥ २७–२९ ॥
पदरत्नावली
एतदेवोपपादयति कामिन इति । कामिनो निषिद्धकामिनो नतु योग्यकामवन्तः (ते) निषेध्याः । ‘‘अयोग्यभार्यापुत्रादिकामिताऽनर्थसाधनी । योग्यकामाद् हरेः प्रीतिरतो ब्रह्मादयोऽ-मला भार्यापुत्रादिसंयुक्ता वासुदेवमुपासते’’ इति प्रमाणात् । एवंविधा असुरा इत्यभिप्रेत्य कृपणादिशब्दाः प्रयुक्ताः । ननु स्वर्गकाम इति श्रुतेः स्वर्गादिष्वेव स्पष्टार्थत्वात् कथं पुष्पेषु फलबुद्धय इति निन्दा क्रियत इति तत्राह अग्निमुग्धा इति । मामविज्ञायाग्निरेवेज्यत इति मुग्धाः । मिथ्याज्ञानिनः प्रत्यक्षफलमाह धूमेति । मिथ्याज्ञानित्वं कथमत्राह स्वं लोकमिति । स्वलोकं स्वाश्रयं परमात्मानं न विदन्ति । अनेन स्वर्गकामाः स्वर्गकामशब्दार्थमपि न विदन्तीति ज्ञापितम् । ‘‘नित्यानन्दो हरेर्भक्तिज्ञानाद्याः स्वर्गशब्दिताः । पुत्रभार्याप्तवित्ताद्याः सर्वं मोक्षगतं फलम् । उद्दिश्य स्वर्गकाम्ययजनं श्रुतिचोदितम् । तदविज्ञाय पुष्पाख्यमनित्यं स्वर्गमिच्छवः । यजन्ति मन्दमतयो वेदवादपरायणाः’’ इति मानेन स्वर्गशब्दविवरणात् । स्त्रीभिर्वा यानैर्वेत्यादि चात्र मानम् ॥ कोऽसावाश्रय इति तत्राह– न त इति । ये उक्थेन प्राणेन शाः शासनं येषां ते उक्थशासः, अन्धे तमसि पातयित्वा प्राणेन दण्ड्याः । असुतृपः केवलेन्द्रियारामास्ते य इदं व्याप्तौ यतश्चेदं जातं (तं) हृदि स्थितं मां न जानन्तीत्यन्वयः । ‘‘विष्ण्वभक्तान् सदा वायुः शासयेत् तमसि क्षिपन् । विष्णुभक्तान् विमोक्षाय प्रापयित्वा सुखं नयेत्’’ इति च । अज्ञानं निदर्शयति यथेति । यथा नीहारचक्षुषः नीहारावृतदृष्टयः पदार्थान् यथावन्न विदन्ति ॥ तथा ते मे मतमविज्ञाय ‘‘मोक्षाख्यं फलमेवाह स्वर्गादिवचनं तु यत् । असुराणामयं स्वर्गशब्दः पुष्पात्मकं वदेत् । देवानां हरिसम्प्राप्तिं वेदो विष्णुपरो यतः’’ इत्येतत्सिद्धमविदित्वा । ततः किमत्राह– परोक्षेति । परोक्षमन्धन्तमस् तद्विषयस् तत्प्राप्तियोग्य आत्मा स्वरूपं येषां ते तथा । ‘‘अन्धन्तमः परोक्षं च पञ्चकष्टं तथोच्यते’’ इति वाक्यसिद्धम् (एतत्) । कामिनः कृपणा इत्यादिनैवंविधा असुरा इत्यर्थत उक्ताः । इदानी स्पष्टयति हिंसायामिति । अयं भावः । ये कामिनस्तेषामसुराणां यदि यदा हिंसायां कामस्तदा यज्ञ एव न चोदना । यद्यदात्मनो हिंसनमिष्टं तत्तद् विहितमिति कुतर्कैः प्रतिपाद्य यज्ञं प्रापयन्ति । ‘‘आसुरोऽविहितां हिंसां विहितत्वेन वर्णयेत् । आसुरा याज्ञिकाः सर्वे नारायणपराङ्मुखाः’’ इति वचनात् ॥ २७–२९ ॥
श्रीनिवासतीर्थीया
पूर्वोक्त एव मूले विव्रीयते ॥ कामिन इति । कृपणा अत्यागिनो लोभयुक्ता लुब्धाः पुष्पेषु स्वर्गादिष्वग्निमुग्धा वै धूमतान्ताः स्वलोकं प्रति न जानन्तीति श्रुतिं मनसि कृत्वोच्यते ॥ अग्नीति । अग्निरेव मुख्येज्य इति मुग्धा मिथ्या-ज्ञानिनः । धूमेन यज्ञशालास्थेनातीव तान्ताः श्रान्ताः । ननु स्वलोकं न विदन्तीत्ययुक्तम् । स्वर्गादिलोकज्ञानस्य सत्वात् । तदुद्देशेन हि क्रियते । अन्यथा तन्न कुर्युरित्यतोऽनूद्य व्याचष्टे ॥ स्वलोकमिति । नन्विदमप्यनुपपन्नम् । गृहाद्याश्रयज्ञानस्य सत्वादित्याशङ्का-परिहाराय न ते मामित्त्युत्तरार्धः प्रवृत्त इत्याशयेनावतारयति ॥ कोऽसाविति । यं न विदन्तीति शेषः । हे अङ्ग उद्धव । इदं जगद्यो यदधीनं यतश्चोत्पन्नमेतादृशं जगज्जन्मादि-कर्तारं हृदिस्थं स्वसमीप एव हृदये विद्यमानं, न दूरे, एतादृशं स्वलोकभूतं मां ते न जानन्तीत्यर्थः । नन्वेवं यज्ञादिकं कुर्वतामसुराणां किं फलमित्यतो नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्तीति श्रुत्युक्तफलमेवाह ॥ ते ये उक्थेनेति । उच्चत्वादुक्थनामा प्राण इत्यर्थः । उक्थमुक्थमिति वै प्रजा वदन्तीति श्रुतिप्रसिद्धिं प्राणस्योक्थनामेति मन्तव्यम् । तथा च नीहारेणावृताश्चक्षुषा सम्यक् न जानन्ति एवं सम्यघ्घरिमजानाना असुतृपः स्वेन्द्रियप्रीणन एव रता एतादृशा ये असुरा एते उक्थशासो मुख्यप्राणेन शास्या भवन्तीत्यर्थः । असुराणामुक्थशास्यत्वे प्रमाणमाह ॥ विष्ण्विति । विमोक्षाय विमोक्षम् । नन्वेतेऽभक्तास्तमोमार्गं गन्तुं योग्या इति च कथं जानाति । येन मोक्षाय प्रापयित्वेति युज्यत इत्यतस् तत्सर्वाभिज्ञतायां प्रमाणमाह ॥ पथ एक इति । एतत्पूर्वार्धस्तिग्ममेको बिभर्ति हस्त
आयुधं शुचिरुग्रो जला भेषज इति । अत्र शुचिः प्राणः । यथोक्तं निरुक्ते । शुचिर्हि प्राण इति ॥
तथा चायमर्थः ॥ यथैकस्तस्करो निधीनां पथो मार्गान्पीपाय जानाति । यथोक्तं निरुक्ते । जानातीति यदाह पीपायेत्येव तदाहेति । एवमेको मुख्य एषः शुचिशब्दोक्तः प्राणः पथो मोक्षमार्गांस्तमोमार्गांश्च वेद जानातीति । तेषां तमःप्राप्तिरपि फलमुच्यतेऽत इति । अत्राविज्ञायेत्येतद्धेतुगर्भमित्याशयेन व्याचष्टे ॥ म इति । आत्मका इत्यस्य व्याख्यानम् ॥ स्वरूपा इति । विषयशब्दार्थं वदन्नुक्तं विवृणोति ॥ तदिति ॥ गमनार्थेति । गमन-योग्येत्यर्थः । परोक्षशब्दस्यान्धन्तमोवाचित्वे प्रमाणमाह ॥ अन्धन्तम इति ॥ तथा चा-विज्ञायाहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव चेति सर्वयज्ञभोक्तृत्वादिरूपं मम मतमविज्ञाय परोक्षविषयात्मकाः । अन्धन्तमोगमनयोग्यस्वरूपा भवन्ति । तमः प्राप्नुवन्तीति यावदित्यर्थः ॥
ते मताविज्ञानात्कथं वदन्तीत्यतो मन्मताविज्ञानादित्थं वदन्तीत्याह ॥ हिंसाया-मित्यादिना । इदमर्धं व्याचष्टे ॥ तेषामिति । हिंसायां कामः । हिंसां कृत्वा मांसं भक्षयाम इतीच्छेति यावत् । वृथा हिंसा कस्मात्क्रियत इति पृष्टे एतद्धननं यज्ञ एवेति वदन्ति । वस्तुतो न चोदनाविधिः । विहितयज्ञे वधमकृत्वा स्वेच्छानुसारेण वधो न विहित इत्यर्थः । स्वपदानि वर्णयति ॥ यद्यदिति । प्रापयन्ति । जनानिति शेषः ॥ जना-न्प्रत्युपपादयन्तीति यावत् । अत्र प्रमाणमाह ॥ आसुर इति । कुत इत्यत आह ॥ आसुरा इति । यत इति शेषः ॥ २७–२९ ॥
दुर्घटभावदीपिका
कामिनः कृपणा लुब्धा इत्यस्य कामिनः स्वर्गादिकामिनः कृपणाः सम्पादितद्रव्यादेरत्यागिनो लुब्धा अधिकद्रव्याद्याकाङ्क्षावन्त इत्यर्थः । एतेन लुब्धा इत्यस्य द्रव्यादेरत्यागिन इत्यर्थ इत्यङ्गीकारे कृपणा इत्यनेन पुनरुक्तिः । द्रव्याद्याकाङ्क्षावन्त इत्यर्थ इत्यङ्गीकारे कामिन इत्यनेन पुनरुक्तिरिति दूषणं परास्तम् । कामिन इत्यस्य द्रव्याकाङ्क्षावन्त इत्यर्थ इत्यनङ्गीकारात् ॥ २७ ॥
प्रमेयचन्द्रिका
मूले अवेदज्ञा इत्यादौ हेतुः कामिन इत्यादि ॥ अत एव सर्वत्र कार्पण्योपेताः । लुब्धाः स्वात्मादेरीश्वरार्पणे लोभयुक्ताः । अग्निरेवेज्य इति मुग्धाः । अत एव स्वलोकं न विदन्ति न जानन्ति । न प्राप्नुवन्ति च । किंत्विह जन्मनि धूमेन तांताः । धूमता धूमत्वं, धूमादिमार्गप्राप्तिरिति यावत् । अन्तः पर्यवसानं येषां ते धूमतान्ताः । वस्तुत आमुष्मिकं न किञ्चिदाप्यते । आचार्याणां तु तेजसा कथं ते स्वर्गं यान्ति । अतः क्षीणे प्रक्षीणे पुण्ये हीनतरमधन्तम एवाविशन्तीति भावः । उक्तं च गीतातात्पर्ये अयोग्येशत्वकामाच्च लोभाच्चात्मसमर्पणे । तत्ववेदिषु कोपाच्च तमस्तेषां न दुर्लभमिति । स्वप्राप्यलोकमित्यन्यथाभानादनूद्य व्याचष्टे स्वलोकमिति । नते मामित्याद्युत्तरमूलस्य सङ्गत्यप्रतीतेराह कोऽसाविति । स्वस्याश्रयं न विदन्तीत्युक्तम् । कोऽसावाश्रयो यन्न जानन्तीत्युच्यत इति शङ्कावारणाय न ते मामिति मूलं प्रवृत्तमिति भावः । अत्राश्रय इत्यतःपरमितीति शेषः । न ते मामभिजानन्तीति मूले प्रतीकतया नत इति वक्तव्ये मामिति प्रतीकग्रहणं कोऽसावाश्रय इति प्रश्नस्योत्तरतया मामित्युक्तिरिति सूचनायेति बोध्यम् ।
उक्थशास इत्युत्तरार्धस्यान्वयाप्रतीतेर्ये ते उक्थशासनादिमन्तस्तेषां न जानन्तीति यच्छब्दाध्याहारेणान्वय इति ज्ञापयितुं य उक्थेनेत्युक्तशास इत्यत्र उक्थस्य बृहतीसहस्रस्य शंसितार इत्यन्यथाप्रतीतेरुक्तेनेत्यनूद्य प्राणेनेत्युक्तम् । उक्थ उत्थापकत्वादित्युक्तरीत्या उक्थो वायुरित्यर्थः । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्तीति श्रुत्यर्थानुवादरूपत्वा-दस्य वाक्यस्य श्रुतेश्च नीहारेण ज्ञानप्रतिबन्धकतया हिमसदृशेन भावरूपाज्ञानेन प्रावृता । अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तितेति द्वितीयतात्पर्योक्तेर्जल्प्या मिथ्याज्ञान-हेतुभूतया वाचा च प्रावृता मोहिता असुतृप इन्द्रियसंतर्पणे रता असुरास्तमसि चरन्ति । भक्षयन्ति । दुःखमनुभवन्तीत्यर्थकत्वादेवमेवार्थो वक्तव्यमिति ज्ञेयम् ।
उक्थशास इत्युक्तार्थे प्रमाणमाह विष्णुभक्तानिति ॥ न ते मां जानन्तीत्यसुराणां भगवज्ज्ञानं नास्तीति यदुक्तं तदयुक्तम् । तेषामपि शब्दशक्तिज्ञानसद्भावेन सम्प्रदाया-गतिसद्भावेन च ज्ञानोदयसम्भवादित्याशङ्कां श्रुत्युदाहरणेन परिहरति पथ इति ॥ एकः प्रधान इत्युक्तेरेकः सर्वोत्तमः । उरुगायो विचक्रम इत्युत्तरवाक्योक्तो हरिः पथः सन्मार्गो-पायान् पीपाय । पिबतेर्लिटि रूपमेतत् । जिगायेति यथा । छान्दसो वाऽयं प्रयोगः । अपिबद् अयोग्यानां सन्मार्गनिरोधनं कृतवानिति यावत् । तत्र दृष्टान्तस्तस्करो यथेति । यथा चोरो मार्गे गन्तॄणां धनापहारार्थमसन्मार्गे प्रवृत्तये सन्मार्गतिरोधनं करोति तथेत्यर्थः । नाज्ञानान्मार्गनिरोधनं किं स्वयं जानातीत्याह एष वेद निधीनामिति ॥ षष्टी द्वितीयार्थे । निधीन् विद्यास्थानानि एष हरिर्वेदेत्यर्थः । निधिशब्दप्रयोगो द्रव्यनिक्षेपस्थानवद्धरिमहिमा-स्थानत्वं विद्यानामिति ज्ञेयम् । मूले यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्युक्तेरिदं सर्वं जगद्यधीनसत्ताकम् । यत इदं जन्माद्याप्नोति तं हृदिस्थं मां ते आसुरा न जानन्तीति मूलार्थः ।
तेषां तमःप्राप्तौ भगवदज्ञानमेव कारणमिति प्रतिपादके ते मे मतमिति श्लोके अविज्ञा-येति ल्यपो हेत्वर्थत्वमभिप्रेत्य हेतुत्वं तस्य स्फोरयन् परोक्षविषयात्मका इत्यस्य परोक्ष-ज्ञानविधस्वरूपा इत्यर्थप्रतीतेस् तथात्वेच हेतुहेतुमद्भावायोगात् । प्रकृते सङ्गत्यभावाच्च व्याचष्टे मे मताविज्ञानादिति ॥ ननु तमसः सविषयत्वाभावात्कथं तद्विषयस्वरूपा इत्युक्तिरित्यत आह तद्भ्रमणेति ॥ नात्र ज्ञानविषयो घटो मम गमनविषयो ग्राम इतिवद्विषयशब्दः कर्मकारकपरः । किन्तु कन्यादानस्यायं विषय इत्यादाविव विषयशब्दः पात्रमित्यर्थकः । ततश्च तत्तत्र तमसि परिभ्रम इति परिभ्रमणार्थं स्वरूपं येषां ते तद्भ्रमणार्थस्वरूपाः । तमसि परिभ्रमणे पात्रभूता इत्यर्थ इति भावः । दुःखार्थोऽयं पुरुष इत्यादौ दुःखपात्र इति प्रतीतेरर्थशब्दः पात्रमित्यर्थक इत्यप्याहुः ।
परोक्षशब्दस्यान्धन्तमपरत्वे प्रमाणमाह अन्धन्तम इति ॥ पुनरासुरस्वभावनिरूपणपरे हिंसायामित्यर्धे यदि कामः स्यादिति सामान्यत उक्ते सर्वजीवसाधारणमिति मन्दानां भ्रमं निवारयन् यदीत्युक्तेरापादनमत्र क्रियत इति च प्रतीतिं वारयन् व्याचष्टे तेषामिति ॥ एवं व्यवसितं केचिदित्युपक्रम्य कुबुद्धयः कामिनः कृपणा इत्यसुराणामेवात्रोक्तेस्तद्विषयमेवेदं वाक्यमिति सूचयितुमसुराणां प्रस्तुतत्वज्ञापनाय तेषामित्यध्याहृत्यासुराणामिति तदर्थ उक्तः । यदीत्यस्यार्थो यदेति । अतस्तदेत्युक्तम् । चोदनाभावे कथमस्य यज्ञत्वम् । अविहितस्य यज्ञत्वायोगादित्यतः स्वोक्तिं विवृणोति यद्यदिति ॥ स्वापेक्षितप्राणिहिंसायामभिनिवेशेना-विहितमेव विहितमिति मत्वा वा परवञ्चनाय वा विहितमिति दुस्तर्कैः स्थापयन्ति वैय्यात्यात् । अतो मूले आसुराभिमानविवक्षया यज्ञ एवेत्युक्तमिति भावः । तस्मात्तेषा-मेवाप्रामाणिकत्ववर्णनेन भगवद्वैमुख्यं कारणमित्याह आसुर इति ॥ एतेन पूर्वमासुर इत्येकवचनं बहुवचनाभिप्रायकमित्युक्तं भवति ॥ २७–२९ ॥
हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया ।
यजन्ते देवता यज्ञैः पितॄन् भूतपतीन् खलाः ॥ ३० ॥
तात्पर्यम्
‘विष्णुं विहाय ये देवान्पितॄन् भूतेशमेव वा । साम्येन वा पूजयन्ति ते ज्ञेया आसुरा गणा’ इति च ॥ ३० ॥
पदरत्नावली
एषां प्रवृत्त्यन्यथानुपपत्त्या आसुरत्वं स्पष्टमित्याह– हिंसाविहारा इति । आलब्धैर् हिंसितैः ॥ ३० ॥
श्रीनिवासतीर्थीया
पुनः कीदृशा इत्यत उच्यते ॥ हिंसेति । हिंसाविहारास्ते खलाः स्वसुखेच्छयाऽऽलब्धैर्हिंसितैः पशुभिः । पशशुहिंसां कृत्वेति यावत् ॥ यज्ञैर्देवतादीन्यजन्ते । भूतपतीन् रुद्रादीन् । अत्र देवतादीन्यजतां यदाऽसुरत्वमभिप्रेतं तदयुक्तम् । विष्णुं यजतां शुद्धसात्त्विकानामपि कामनया देवतादिपूजासद्भावादित्यतस्त्पर्यमाह ॥ विष्णुमिति । देवादी-न्प्राधान्येन पूजयन्तीत्यध्याहारेण योज्यम् । विष्णुसाम्येन वा ॥ ३० ॥
प्रमेयचन्द्रिका
ननु वैदिकमन्त्रैर्देवतायाजिनां कथमासुरत्वमित्यतः हिंसाविहारा इति ॥ आलब्धैर्हिंसितैः पशुभिः स्वहिंसार्थमेव यजन्त इति सम्बन्धः । फलकामनया यागान्न तेषां यजनं फलवदित्युच्यते ॥ ३० ॥
स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् ।
आशिषो हृदि संकल्प्य त्यजन्त्यर्थान् यथा वणिक् ॥ ३१ ॥
पदरत्नावली
अमुं लोकमुद्दिश्य । असन्तमनित्यम् । अर्थहानिरेवैषां न स्वाभीष्टप्राप्तिरित्याह– आशिष इति । हृदि स्वर्गाशिषः सङ्कल्प्य यास्याम इति निरूप्य वणिग् यथा तथा अर्थान् त्यजन्ति ॥ ३१ ॥
श्रीनिवासतीर्थीया
पुनः कीदृशा इत्यत उच्यते ॥ स्वप्नेति । अनित्यत्वादिना स्वप्नतुल्यम् । अमुं लोकं स्वर्लोकं हृदि सङ्कल्प्येत्यन्वयः । आशिषश्चैश्वर्याद्याशिषश्च हृदि संकल्प्य । दृष्टादृष्टफलोद्देशेनेति यावत् । अर्थान्द्रव्यादींस्त्यजन्ति । द्रव्यादिकं व्ययीकृत्य यज्ञादिकं कुर्वत इत्याशयः । यथाऽऽपणे धान्यादिदृष्टफलंसङ्ग्रहाय तदर्थत्वेन वणिक् द्रव्याणि त्यजति ददाति यथा तथेत्यर्थः ॥ ३१ ॥
प्रमेयचन्द्रिका
स्वाप्नपदार्थवदस्थिरम् । असंतमभद्रम् । बन्धादिहेतुत्वात् । श्रवण-प्रियं श्रवणकाले रमणीयतया प्रतिभासमानम् । अमुं स्वर्गमुद्दिश्य इतरान् वाऽशिष आशास्यन् हृदि मनसि कल्पितानर्थान् धनानि त्यजन्ति वणिगिवेत्यर्थः । तेन खलत्वं तेषामिति भावः ॥ ३१ ॥
रजःसत्वतमोनिष्ठा रजःसत्वतमोजुषः ।
उपासते इन्द्रमुख्यान् देवादीन्१ न यथैव माम् ॥ ३२ ॥
तात्पर्यम्
तामसेष्वेव रजःसत्वतमोनिष्ठाः । ‘तामसेषु तु ये सत्वा निरय-प्रचुरास्तु ते । ईषत्स्वर्गादिसंयुक्ता एवं निष्ठाश्च ते स्मृताः । केवलं निरये निष्ठा ये ते तामसराजसाः । अन्धे तमसि ये निष्ठास्ते वै तामसतामसाः । एवं त्रिभेदयुक्तास्तु याज्ञिका विष्णुवर्जिता’ इति हरिवंशेषु ॥ ३२ ॥
पदरत्नावली
सन्तु वा पितृभूतपतीनां यष्टारोऽसुराः, इन्द्रादिदेवतार्चकाः कथमित्याशङ्क्य यथावत् तदर्चनाभावादित्याह– रज इति । एवंविधा याज्ञिकास्तामसाः । कुतः । ‘‘विष्णुं विहाय ये देवान् पितॄन् भूतेशमेव च । साम्येन वा पूजयन्ति ते ज्ञेया आसुरा गणाः’’ इति स्मृतेः । तेष्वपि विशेषोऽस्ति तामससात्विकास्तामसराजसास्तामसतामसा इति । तत्र ते सर्वे इन्द्रमुख्यान् देवादीन् मां च यथोपासते रजःसत्वतमोनिष्ठा रजःसत्वतमोजुषो भवन्ति । कथम् । तामससात्विकव्रताः किञ्चित्स्वर्गादिसुखोपेता निरयदुःखोद्रिक्तान् लोकान् जुषन्ते, तामसराजसव्रताः केवलं निरयदुःखाकुललोकान्, तामसतामसव्रता अन्धन्तमोदुःखाविलान् लोकान् सेवन्त इति । ‘‘तामसेषु च ये सत्वा निरयप्रचुरास्तु ते । ईषत्स्वर्गादिसंयुक्तास्तमोनिष्ठास्तु ते स्मृताः । केवलं निरये निष्ठा ये ते तामसराजसाः । अन्धेतमसि ये निष्ठास्ते वै तामसतामसाः । एवं त्रिभेदयुक्तास्तु याज्ञिका विष्णुवर्जिताः’’ इत्यनेन त्रैविध्यं प्रामाणिकम् । निष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयाञ्चयोरिति वचनात् । रजआदिव्रतयुक्ता रजआदिलोकांश्च प्रार्थयन्त इत्यर्थः ॥ ३२ ॥
श्रीनिवासतीर्थीया
तेष्वपि विशेषोऽस्तीत्याह ॥ रजःसत्त्वेति । अत्र सत्त्वनिष्ठा-नामप्यासुरत्वमुच्यतेऽतः कथमेतदित्यतस्तात्पर्यमाह ॥ तामसेष्वेवेति । रजःसत्त्वतमो-विशेषरूपाः । प्रभेदा विवक्षिता इति शेषः । एतदेव विवृण्वंस्तेषां फले तारतम्यं प्रमाणेन दर्शयति ॥ तामसेष्विति । ते तामससात्त्विकास्तमोनिष्ठाः । एवं तमोनिष्ठास्तामसेष्वेते प्रसिद्धाः सत्त्वाः सात्त्विकाः । ते एवंनिष्ठा एवं तामससात्त्विकव्रतनिष्ठास्ते निरयप्रचुराः । ईषत्स्वर्गयुक्ताश्च स्मृता इति योज्यम् । तामसराजसास्तामसराजसव्रतनिष्ठाश्चेत्केवलं निरये निष्ठाः । केवलशब्दादीषत्स्वर्गादिसंयुक्तताव्यावृत्तिः । ये तामसतामसास्तामसतामसव्रत-निष्ठाश्चेदन्धे तमसि निष्ठा भवन्तीति योज्यम् ॥ तथा चायमर्थः ॥ तामसा एव त्रिविधाः । तामससात्त्विकास्तामसराजसास्तामसतामसाश्चेति । रजःसत्त्वतमोजुषः । तामसराजसतामस-सात्त्विकतामसतामसपदार्थसेवनावन्तः सन्तः । रजःसत्त्वतमोनिष्ठास्तामसराजसतामस-सात्त्विकतामसतामसव्रतनिष्ठास्तामसराजसतामससात्त्विकतामसतामसाः पुरुषास्ते केवलनिरय-स्वर्गयुक्तनिरयान्धन्तमःफलका भवन्तीति योज्यम् । अन्ते सर्वेषामप्येषां यद्यप्यन्धन्तम एव फलम् । तथाऽप्यनित्यनिरयादिस्तात्कालिकस्तादृशव्रतनिष्ठफलतयोक्त इति मन्तव्यम् । अत्र मनुष्याधमास्तामससात्त्विकाः । प्रधानदैत्यानुगास्तामसराजसाः । कल्याद्याः प्रधानदैत्या-स्तामसतामसा इति विवेको गीतातात्पर्यानुसारेण मन्तव्यः ॥ ३२ ॥
प्रमेयचन्द्रिका
पितृभूतपत्यादीनां यष्टारो भवन्तु खलाः । इन्द्रादिदेवार्चकाः कथं खला इत्यत उच्यते रजःसत्वेति ॥ अत्र अयथैवेत्यस्याभिप्रेतमर्थं पितृभूतपतीनिति पूर्वश्लोके अभिप्रेतमर्थं च प्रमाणेन व्याचष्टे विष्णुमिति ॥ भूतेशं विश्वम् । विष्णुं विहायेतरदेवता पूजनसाम्येन ज्ञानं च यथोपासनमिति भावः । तदुक्तम् । यद्भागवतबुध्यैव दत्तं ब्रह्मादयः सुराः । वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरदिति । ननु तमोयोग्यानां सर्वेषां तामसत्वस्यैव निर्णीतत्वात्कथं तेषां रजःसत्वतमोनिष्ठा इति राजसादित्रिस्वभावत्वमुक्त्वा रजःसत्वतमोजुष इति राजसादियज्ञकर्त्रत्वाद्युच्यत इत्यत आह तामसेष्विति ॥ तामसेषु मध्ये केचित्तामसरजोनिष्टा अपरे तामसतमोनिष्टा इत्युच्यते । न तु स्वभावे रजःसत्वनिष्टत्वं तेषामतो न विरोध इति भावः । अत्र प्रमाणमाह तामसेष्विति ॥ अत्र नराधमास्तामसास्तेषु सात्विकास्तत्र राजसा दैत्यभृत्या महादैत्या मुख्यास्तामसतामसा इति गीतातात्पर्योक्तरीत्या विवेको ज्ञातव्यः । आद्यस्तुशब्दो राजसादिव्यावृत्यर्थः । द्वितीय-स्तुरवधारणे । तामिस्राख्यनित्यनिरयैकभागिनः प्रचुरप्रकाशो रविरितिवत्प्रचुरशब्दः पूर्णता-वाची । यद्वा संसारेऽपि प्रायो रौरवादिनिरयभाज इत्यर्थः । ईषत्स्वर्गः सांकल्पिकः स्वर्गः । सृतिकाले यज्ञादिना तत्संयुक्ता इत्येके । अन्येतु मुख्यस्वर्गोऽप्यल्पफलं कदाचिद्भवतीति ईषदित्युक्तिरित्याहुः । य एवंविधास्तामसेषु सत्वास्तामससात्विकास्तेच तेऽपि तमोनिष्टा एव । तमःप्रभेदे सत्वे एव स्थितिमत्वादिति भावः । तामसरजोनिष्टदैत्यभृत्यानां स्थितिं दर्शयति केवलमिति ॥ तमोनिष्टेषु ये केवलमाधिक्येन तामिस्राख्यनिरये स्थितिमन्तः संसारदशायामपि केवलं स्वर्गप्राप्तिमन्तरा रौरवादिनिरये प्रायः स्थितास्ते राजसतामसा इत्यर्थः । महादैत्यानाह अन्ध इति । ये अन्धंतमसि स्थितियोग्यास्ते तामसा इत्यर्थः । तामसतामसानां क्वचित्स्वर्गोक्तिस्तु वैष्णवाचार्यतेजोबललब्धत्वविवक्षयेति ज्ञेयम् । उपसंहरति एवमिति । त्रैविद्यव्यावृत्तये विष्णुवर्जिता इत्युक्तम् ॥ ३२ ॥
इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि ।
तस्यान्त इह भूयास्म महाशाला महाकुलाः ॥ ३३ ॥
पदरत्नावली
तत्प्रार्थनाप्रकारमाह– इष्ट्वेति । रंस्यामहे रन्तुमिच्छामः । इह भूमौ । अनेनायथोपासनं च दर्शितं नित्यानन्दलक्षणमोक्षाकाङ्क्षानुगुणगुणोपसंहाराभावात् ॥ ३३ ॥
श्रीनिवासतीर्थीया
तेषामाशासनप्रकारमाह ॥ इष्ट्वेति । इह भूमौ रंस्यामहे रन्तु-मिच्छामः । तस्यान्ते दिवि रमणस्य समाप्यान्ते । इह भूमौ पुनर्महाकुलाः कुलीना महाशालाः । प्रत्यब्दयज्ञकृच्छ्रोत्रियो महाशाल इतीरित इत्युक्तेः । प्रत्यब्दयज्ञकारिणः सन्तो भूयास्म इत्युपासते आशसत इत्यर्थः ॥ ३३ ॥
प्रमेयचन्द्रिका
आसुराणां मनोरथप्रकारोऽभिधीयते इष्ट्वेहेति ॥ तस्य स्वर्गस्यांते पातानन्तरम् इह मनुष्येषु महाशालाः प्रत्यब्दयज्ञकृत्सम्यङ्महाशालः प्रकीर्तित इत्युक्तेः, प्रतिवर्षं यज्ञकत•रः ॥ ३३ ॥
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् ।
मानिनां चातिस्तब्धानां मद्वार्ताऽपि न रोचते ॥ ३४ ॥
पदरत्नावली
अयथोपासने निमित्तमाह– एवमिति । पुष्पितया स्वर्गादिपुष्पविषयया वाचा व्याक्षिप्तं मनो येषां ते तथा तेषाम् । मानिनामतिस्तब्धानामिति विशेषणद्वयेन मनःसमीचीनत्व-जनकगुर्वादिसेवापि दूरीभूतेति ध्वनयति ॥ ३४ ॥
श्रीनिवासतीर्थीया
अत्र निमित्तमाह ॥ एवमिति । स्वर्गादिपुष्पप्रतिपादनपरत्वेन प्रतीयमानया वेदवाचा विशेषेणाक्षिप्तमनसाम् । न तु वेदार्थो महात्मसेवया सम्यक् तैर्ज्ञायत इत्याह ॥ मानिनामिति । वयमेव सम्यग्वेदार्थज्ञानिनः किमस्माकं महात्मभिः श्रोतव्य-मस्तीत्यहङ्कारवन्तो मम वार्ताप्रसङ्ग एव न रोचते दूरे मद्विचार इत्याशयः ॥ ३४ ॥
प्रमेयचन्द्रिका
एवमयथाचिन्तने निमित्तमुच्यते एवमिति ॥ पुष्पितया स्वर्गादिषु विषयत्वेन प्रतीयमानया । गुरुशुश्रूषादौ मानवताम् अत्यन्तमविनीतानाम् । अत एव सत्सम्प्रदायविकलानां मद्वार्ताऽपि न रोचते । किमु यथावज्ज्ञानमुपासनं चेति भावः ॥३४॥
वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया अपि ।
परोक्षवादो वेदोऽयं परोक्षं मम च प्रियम् ॥ ३५ ॥
तात्पर्यम्
‘ब्रह्मत्वं पूर्णता प्रोक्ता तद्यस्य स्वत एव तु । स ब्रह्मात्मा समुद्दिष्टो वासुदेवः सनातन’ इति च ॥ ३५ ॥
पदरत्नावली
स्वर्गादिपरस्य वेदस्य मुक्तिपरत्वं कथं घटत इत्यत्राह– वेदा इति । स्वत एव पूर्णस्वरूपत्वाद् ब्रह्मात्मा विष्णुः, स एव विषयो येषां ते ब्रह्मात्मविषया वेदाः । नारायणपरा वेदा इत्यादेः । ‘‘ब्रह्मत्वं पूर्णता प्रोक्ता तद् यस्य स्वयमेव तु । स ब्रह्मात्मा समुद्दिष्टो वासुदेवः सनातनः’’ इति च । अनेन ब्रह्मात्मप्राप्तिलक्षणमोक्षपरत्वं वेदस्याविनाभूतमिति ज्ञायते । उक्तशङ्कायाः परिहारः कथमायात इत्यत उक्तं त्रिकाण्डविषया अपीति । यद्यपि ब्रह्मदेवकर्मकाण्डविषया अधिकारिभेदेन प्रतीयन्ते तथाप्युत्तमाधिकारिणां काण्डद्वयपरत्वं विहाय ब्रह्मगुणप्रतिपादनद्वारा मोक्षपरत्वं स्पष्टमिति भावः । सर्ववेदानां ब्रह्मात्मपरत्वं सत्यं चेन्मुखतः किमिति प्रतीत्यभाव इति तत्राह– परोक्षेति । किमनेन प्रयोजनमत्राह– परोक्षेति । परोक्षप्रिया इव हि देवा इति हि श्रुतिः । चशब्दान्मद्भक्तानां देवादीनां प्रियमित्यर्थोऽवगम्यते ॥ ३५ ॥
श्रीनिवासतीर्थीया
ननु पुष्पितया वाचा व्याक्षिप्तमनसामित्ययुक्तम् । वेदानां स्वर्गादिप्रतिपादकतया प्रतीयमाननां भगवत्परत्वायोगात् । तथा च फलश्रुतिं कुसुमिता-मित्युक्तमसदित्यत आह ॥ वेदा इति । अपि यद्यपि वेदा ब्रह्मदेवताकर्मस्वरूपविषयाः प्रतिपादकास्तथाऽपि ब्रह्मात्मविषया एव मुख्यतः प्रतिपत्तव्याः । देवादीनाममुख्यवाच्यत्वा-दित्यर्थः । अत्र ब्रह्मात्मशब्दमन्यथाप्रतीतिपरिहाराय प्रमाणेनैव व्याचष्टे ॥ ब्रह्मत्वमिति । तत्पूर्णत्वम् । स्वतोऽनुपचारेण । तथा च ब्रह्मात्मविषयाः पूर्णत्वोपेतहरिस्वरूपप्रतिपादका इत्यर्थ उक्तो भवति । ननु वेदानां मुख्यतो ब्रह्मात्मपरत्वे सर्वेषां तत्प्रतीत्यभावः कुत इत्यत आह ॥ परोक्ष इति गूढार्थवादीत्यर्थः । अतो न ब्रह्मात्मविषयत्वं प्रतीयते सर्वेषा-मित्याशयः । परोक्षतयाऽत्र प्रतिपादनेन किं कृतमित्यत आह ॥ परोक्षमिति । गूढार्थ-प्रतिपादनं मम प्रियं यतोऽतः परोक्षवाद इत्यर्थः । चशब्दाद्देवानां प्रियम् । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुतेः ॥ ३५ ॥
दुर्घटभावदीपिका
अपि यद्यपि वेदास्त्रिकाण्डविषयाः केचन वेदा ब्रह्मकाण्डविषयाः केचन देवताकाण्डविषयाः केचन कर्मकाण्डविषया इति प्रतीयते । तथाऽपि ब्रह्मकाण्ड-विषयवेदवद्देवताकाण्डकर्मकाण्डविषया वेदा अपि परममुख्यतो ब्रह्मात्मविषयाः स्वतो गुणपूर्णत्वेन ब्रह्मात्मशब्दवाच्यनारायणरूपसमुदायविषया अमुख्यतो देवतासमुदायकर्मसमुदायविषया इत्यङ्गी-कर्तव्यम् । सर्वे वेदा यत्पदमामनन्तीत्यादेरिति । यद्यपि ब्रह्मण एकत्वाद्ब्रह्मकाण्डेत्यनुपपन्नं तथाऽपि ब्रह्मरूपाणां बहुत्वाद्ब्रह्मकाण्डेत्युक्तम् । एतेन देवताकाण्डकर्मकाण्डविषयवेदानां ब्रह्मकाण्डविषयत्वं वक्तव्यम् । ब्रह्मकाण्डविषयवेदानां ब्रह्मकाण्डविषयत्वकथनमयुक्तमिति दूषणं परास्तम् । ब्रह्मकाण्डविषयवेदानां दृष्टान्तत्वेन ग्रहणमित्यभ्युपगमात् ॥ ३५ ॥
॥ इति श्रीभागवतटिप्पण्यामेकविंशोऽध्यायः ॥ ११–२१ ॥
प्रमेयचन्द्रिका
स्वर्गदेवतादेर् वेदामुख्यार्थत्वं चेत्कस्तर्हि मुख्योऽर्थ इत्यत उच्यते वेदेति ॥ ब्राह्मणोपनिषन्मन्त्रभेदेन कर्मब्रह्मदेवतालक्षणत्रिकाण्डविषया अपि वेदाः परम-मुख्यवृत्या ब्रह्मात्मविषयाः । तर्हि कुतस्तथा स्फुटं न प्रतीयत इत्यत उक्तम् परोक्षेति ॥ परोक्षं यथा भवति तथा वदतीति परोक्षवादः । मुख्यार्थाच्छादनेन किमर्थं वक्तीत्यत उक्तम् परोक्षमिति ॥ परोक्षप्रिया इवहि देवा इति हि श्रुतिः । वेदा इति पूर्वं वचनमवान्तर-भेदाभिप्रायेण । अत्र ब्रह्मात्मविषया इत्येतद्ब्रह्मैक्यविषया इति अन्यथा भानात्प्रमाणेन तदर्थ-माह ब्रह्मत्वमिति ॥ तुखधारणे । पूर्णतैव ब्रह्मत्वमिति । स एवेति सम्बध्यते । तथा च मूले ब्रह्म ब्रह्मत्वमात्मा स्वरूपं यस्य स ब्रह्मात्मा । तद्विषया इत्यर्थः ॥ ३५ ॥
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् ।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥
मयोपबृंहितं भूम्ना ब्रह्मणाऽनन्तशक्तिना ।
भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥
तात्पर्यम्
प्राणेन्द्रियमनोभिर्मीयते । ‘मेयत्वान्मय उद्दिष्टो वेदः प्राणादिभिः सदे’ति वाराहे ॥ ‘अन्तो विनाश उद्दिष्टः पारः परिमितिस्तथा । अनन्तपारो वेदोऽयं ताभ्यां स रहितो यत’ इति व्यासस्मृतौ । भूम्ना ब्रह्मणा अतिमहापूर्णेन ॥ ३६ ॥
पदरत्नावली
परोक्षत्वान्मम प्रसादं विना वेदार्थो दुरवबोध इत्याह– शब्दब्रह्मेति । तर्हि निरधिकारित्वाड् डिवित्थडित्थादिशब्दवद् हेयो वेद इत्यत आह– प्राणेति । अत्र प्राणादि-शब्दैर्ब्रह्मादयो विवक्ष्यन्ते । प्राणेन्द्रियमनोभिर् मीयते ज्ञायत इति प्राणेन्द्रियमनोमयम् । ‘‘मेयत्वान्मय उद्दिष्टो वेदः प्राणादिभिः सदा’’ इति वाक्यात् । वाक्यत्वे पौरुषेयत्वेन लौकिकवाक्यवत् परिमितमनित्यं च नेत्याह– अनन्तपारमिति । ‘‘अन्तो विनाश उद्दिष्टः पारः परिमितिस्तथा । अनन्तपारो वेदोऽयं ताभ्यां स रहितो यतः’’ इति वचनमत्रोदाहृत्यार्थो वक्तव्यः । समुद्र-वदित्यल्पाधिकारिणोऽपेक्ष्योक्तं न तूत्तमाधिकारिण इति ॥ वेदस्य प्रतीयमानोऽर्थो न चेद् वाच्यार्थाभावेन वैयर्थ्यमापन्नमत्राह– मयेति । अनन्तगुणपूर्णत्वाद् भूम्ना ब्रह्मादिशब्दवाच्येन मया उपबृंहितं मत्प्रतिपादकत्वेन पूर्णार्थोपेतम् । किमत्र प्रमाणमत्राह– भूतेष्विति । भूतेषु घोषरूपेण लक्ष्यते । कथमिव । बिसेषूर्णेव, शब्दब्रह्मेति शेषः ॥ ३६,३७ ॥
श्रीनिवासतीर्थीया
आदौ समग्रवेदस्वरूपमेव सर्वैर्ज्ञातुं न शक्यतेऽपरिच्छिन्नत्वा-त्किमुतानन्तवेदवाच्योऽतिपरिपूर्णो भगवानित्याशयेनाह ॥ शब्दब्रह्मेति । वेदराशिः । तर्हि निरधिकारित्वाद्धेयतापत्तिरित्यत उक्तम् ॥ प्राणेति । कथमनेनोक्तशङ्कापरिहारः कथं च वेदस्य प्रामाण्याद्यात्मकत्वमित्यतो व्याचष्टे ॥ प्राणेति । मुख्यप्राणादिदेवैरित्यर्थः । मीयते ज्ञायते । तत्र प्रमाणमाह ॥ मेयत्वादिति । ज्ञेयत्वादित्यर्थः । वेदेऽनन्तपारत्वं घटयति ॥ अन्त इति । ताभ्यां विनाशपरिमितिभ्याम् । स वेद उभयोरप्येकार्थकत्वाद्वैय्यर्थ्यमाशङ्क्य तत्परिहारायानूद्यार्थमाह ॥ भूम्नेति । नन्वेतादृशवेदवाच्येन परिपूर्णेन भवितव्यम् । तादृश-वाच्याभावान्निरर्थकत्वापत्तिरित्यत उक्तम् ॥ मयोपबृंहितमिति । प्रतिपाद्येन युक्तमित्यर्थः । समुद्रवदनन्तपारम् । गम्भीरं गम्भीरार्थकमज्ञेयार्थकं दुर्विगाह्यं विशेषेण गाहनं कर्तुम् । व्याख्यातुमिति यावत् । अशक्यमित्यर्थः । अत्र समुद्रवेदयोः शब्दसाम्यं द्रष्टव्यम् । तथा च प्रतिपाद्यस्य ममानन्तत्वात्प्रतिपादकं शब्दब्रह्म सर्वेषां सुदुर्बोधं प्राणादिदेवैरेव सुबोधमिति भावः । ननु कथं वेदस्यापारशब्दोक्तपरिमित्यभावः । सर्वैरप्यध्यापकैः पठ्यमानस्याष्टाष्ट-कोपेततया परिमितेरेव दर्शनात्तावत्वमेव वक्तव्यमिति चेत् । सत्यम् । सर्वैरप्यध्यापकैः पठ्यमानो वेदैकदेश एव पठ्यते न सर्वोऽपि । तथा चानन्तत्वमेव मन्तव्यमित्याशयवानाह ॥ भूतेष्विति । यथा बिसेषु पद्मनालेषूर्णा तन्त्वायितातिसूक्ष्मा प्रदृश्यन्ते । एवम्भूते-ष्वध्यापकजनेषु घोषरूपेण तत्तद्ध्वन्यभिव्यक्तवर्णरूपेण स्वल्प एव वेदो लक्ष्यते प्राणिभि-र्ज्ञायते तावता तावत्वमेव न मन्तव्यमित्याशयः ॥ ३६,३७ ॥
प्रमेयचन्द्रिका
अपरोक्षस्त्वात्मप्रसादं विना वेदार्थो दुरवबोधः । अतो नासुरादीनां तज्ज्ञानाभाव इत्याशयेनोच्यते शब्दब्रह्मेति ॥ तर्हि निरधिकारित्वाद्धेयो वेद इत्यत उक्तम् प्राणेति । मुख्यप्राणादयोऽधिकारिण इति भावः । नित्यत्वं शब्दतोऽर्थतश्च । परिमितत्वं किमित्यतो नेत्याशयेनोक्तम् अनन्तपारमिति ॥ गम्भीरमगाधम् । अत एव दुर्विगाह्यम् । उभयत्रापि दृष्टान्तः समुद्रवदिति ॥ उपपन्नं शब्दतोऽर्थतश्चानन्तत्वम् ।
निःसीमगुणरूपक्रियाकर्मप्रतिपादकत्वादिति भावेनोच्यते मयेति ॥ उपबृंहितं पूर्णम् । प्रत्यक्षरं प्रतिपदं प्रतिस्वरं ममैव प्रतिपादकमिति भावः । तदुपपादनं भूम्नेति ॥ सङ्गतिग्रन्थे स्पष्टमेतत् । सर्वजनप्रत्यक्षसिद्धश्चायं वेद इत्याशयेनोक्तम् भूतेष्विति ॥ हृद्गतमुख्यप्राणेन पद्मकन्दलतन्तुवदविच्छिन्नतयोदीर्यमाणोऽयं वेदः सर्वप्राणिषु श्रूयत इत्यर्थः । अतः प्राणेन्द्रियमनोमयमित्येतत्प्राणाद्यात्मकमित्यन्यथा भानाद्व्याचष्टे प्राणेति । अत्र प्राणादि-शब्दास्तदभिमानिवाय्वादिदेवतापराः । तैर्मीयन्ते ज्ञायन्त इति प्राणेन्द्रियमयमिति मूलार्थ इत्यर्थः । अत्र प्रमाणमाह मेयत्वादिति ॥ प्राणादिदेवैर्मेयत्वादिति सम्बन्धः । अनन्तपार-पदमपौनरुक्त्याय प्रमाणेन व्याचष्टे अन्त इति ॥ भूम्ना ब्रह्मणेत्यनयोरेकार्थत्ववारणायाह भूम्नेति ॥ अत्र भूम्नेत्युक्तं भूमत्वं ब्रह्मणेति ब्रह्मशब्दप्रवृत्तिनिमित्तभूतस्य विशेषणं पूर्णत्वं पूर्णमिति पर्यवस्यति । तदभिप्रायोभितः पूर्णतेति ॥ ३६,३७ ॥
यथोर्णनाभिर्हृदयादूर्णामुद्वहते मुखात् ।
आकाशाद् घोषवान् प्राणो मनसाऽऽस्पर्शरूपिणा ॥ ३८ ॥
छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः ।
ओङ्कारेष्वञ्जितां स्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९ ॥
विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः ।
अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४० ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।
त्रिष्टुप् जगत्यतिच्छन्दो ह्यष्ट्यत्यष्टी जगद् विराट् ॥ ४१ ॥
तात्पर्यम्
आस्पर्शरूपिणा । आस्पर्शो विष्णुस्तं रूपयति प्रकाशयतीत्यास्पर्शरूपि प्राणस्य मनः । आसमन्तात्स्पर्शा भोगा अस्यैवेत्यास्पर्शः । ‘भुङ्क्ते यदखिलान्स्पर्शाना-स्पर्शो विष्णुरुच्यते । तस्य प्रकाशकं नित्यं नमस्ये प्राणमेकलम् ॥ प्राणस्यैव मनो नित्यं वासुदेवं प्रकाशयेदि’ति वायुप्रोक्ते ॥ ‘मीयन्तेऽनेन छन्दांसि प्राणश्छन्दोमयस्तत’ इति च । ‘त्रिमात्रमादितः कृत्वा यावच्चानन्तमात्रकाः ॥ प्रणवास्ते विभेदेन ह्यनन्ताः परिकीर्तिताः । एकमात्रोत्तराः सर्वे वासुदेवाभिधायकाः । तेषां व्याख्यानरूपा हि सर्वे वेदाः प्रकीर्तिताः । ओङ्कारेणान्विता (ओङ्कारव्यञ्जिता)स्तस्मात्सदोच्चार्या हरेः प्रियैरि’ति प्रणवमाहात्म्ये ॥ ‘गुह्यदर्शनभाषे च भाषा चैव समाधिका । तिस्रस्तु मूलभाषाः स्युरेकैका च त्रिधा पुनः । गुह्यदर्शनसंज्ञा च गुह्यगुह्या तथाऽपरा । एवमादिक्रमेणैव त्वेकाशीति विभेदिताः । भाषास्तत्र च गुह्या च प्रसिद्धार्थेष्वनन्विता । गुह्यार्थ-तत्परैवान्धो मणिमित्यादिका च सा । दर्शनान्यवलम्ब्यैव पशुपत्यादिनां तु या । बहुश्रुतिविरुद्धं तु वदेत्सा दर्शनात्मिका । अन्ते निषेधसंयुक्ता भस्मस्नानादिका च सा । यथा प्रदृश्यमानार्था समाधिः सा प्रकीर्तिता । विष्णुः परम इत्याद्या सा च विद्व-द्भिरीरिते’ति भाषाविवेके । ‘भस्मस्नानविधानं तु श्रुत्युक्तं दर्शनानुगम् । भस्मस्नानं ततोऽग्राह्यं विधानं तु नृसिंहगमि’ति स्कान्दे । गायत्र्या उष्णिक् चतुर्वर्णाधिकेत्यादि चतुरुत्तरैर् जगत्यन्तानामेव चतुरुत्तरत्वनियमः ॥ ‘छन्दस्तु नवपादं यज्जगदित्युच्यते बुधैरि’ति छन्दोविधाने ॥ ३८–४१ ॥
पदरत्नावली
प्राणादिभिर्मीयत इत्युक्तम् । तत्प्रकारमाह– यथेति । यथोर्णनाभि-र्हृयादूर्णामुद्धृत्य मुखादुद्वहते निष्कासयति पुनर्ग्रसति च एवं घोषवान् आकाशगुणशब्दव्यक्तिमान् (अस्योत्तरेणान्वयः) ॥ छन्दांसि मीयन्तेऽनेनेति छन्दोमयः, अमृतमयः मत्प्रसादेन मोक्षदः प्राणः । आस्पर्शो विष्णुः, तं रूपयतीत्यास्पर्शरूपि प्राणस्य मनः । तेन स्वमनसा सहस्रपदवी मदनन्त-रूपविषयाम् ओङ्कारेषु त्रिमात्राद्यनन्तमात्रावसानप्रणवेषु अञ्जितां स्पष्टव्यक्तां तद्व्याख्यानरूपां स्पर्शादिवर्णैरलङ्कृताम् (अस्याप्युत्तरेणान्वयः) ॥ गुह्यदर्शनादिभेदेन विचित्राभिर्नानाविधाभिरेकाशीति-सङ्ख्याताभिर्भाषाभिर्विततां चतुरुत्तरैश् चतुर्वर्णाधिकोष्णिग्युक्तैर् गायत्र्यादिच्छन्दोभिश्च वितताम् अनन्तपारां विनाशपरिमाणरहितां बृहती श्रुतिं हृदयाकाशादुद्धृत्य सृजति उच्चारयति, रुद्रादिभ्य उपदिशति । पुनः कल्पान्ते स्वस्मिन्नेवाक्षिपते विदधातीत्यन्वयः । चतुरुत्तरत्वनियमो जगत्यन्ता-नामेव । गायत्र्या उष्णिक् चतुर्वर्णाधिकेत्यादिचतुरुत्तरैः । ‘‘भुङ्क्ते यदखिलान् स्पर्शानास्पर्शो विष्णु-रुच्यते । तस्य प्रकाशकं नित्यं नमस्ये प्राणमेकलम् । प्राणस्यैव मनो नित्यं वासुदेवं प्रकाशयेत्’’ इति च, ‘‘मीयन्तेऽनेन च्छन्दांसि प्राणश्छन्दोमयस्ततः’’ इति च, ‘‘त्रिमात्रमादितः कृत्वा यावच्चानन्तमात्रकाः । प्रणवास्तेऽपि भेदेन ह्यनन्ताः परिकीर्तिताः । एकमात्रोत्तराः सर्वे वासुदेवाभि-धायकाः । तेषां व्याख्यानरूपा हि सर्वे वेदाः प्रकीर्तिताः । ओङ्कारेणाञ्चितास्तस्मात् सदोच्चार्या हरेः प्रियैः’’ इति चोक्तार्थे प्रमाणम् । ‘‘गुह्यदर्शनसञ्ज्ञा च भाषा चैव समाधिका । तिस्रस्तु मूलभाषाः स्युरेकैका च त्रिधा पुनः । गुह्यदर्शनसञ्ज्ञा च गुह्यगुह्या तथाऽपरा । एवमादिक्रमेणैव त्वेकाशीतिविभेदिताः । भाषास्तत्र च गुह्या च प्रसिद्धार्थेष्वनन्विता । गुह्यार्थतत्परैवान्धो मणिमित्यादिका च सा । दर्शनान्यवलम्ब्यैव पशुपत्यादिनां तु या । बहुश्रुतिविरुद्धं तु वदेत् सा दर्शनात्मिका । अन्तेनिषेधसंयुक्ता भस्मस्नानादिका च सा । यथा प्रदृश्यमानार्था समाधिः सा प्रकीर्तिता । विष्णुः परम इत्याद्या सा च विद्वद्भिरीरिता’’ इति वचनात् सम्प्रदायज्ञैर्गूरुचरणशरणैरेव पुरुषैर्ज्ञेयोयमर्थ इति । ‘‘भस्मस्नानविधानं तु श्रुत्युक्तं दर्शनानुगम् । भस्मस्नानं ततोऽग्राह्यं विधानं तु नृसिंहगम्’’ इति वाक्यादन्ते निषेधयुक्तत्वाद् भस्मस्नानानादरोपि कर्तव्य इति ॥ गायत्र्यादिच्छन्दसां क्रमोऽपि छन्दोवैचित्र्याद्युक्तविध इत्याशयवानाह– गायत्रीति । ‘‘छन्दस्तु नवपादं यज्जगदित्युच्यते बुधैः’’ इति वचनाज्जगन्नाम छन्दो नवपादात्कमित्यर्थः ॥ ३८–४१ ॥
श्रीनिवासतीर्थीया
प्राणेन्द्रियमनोमयमित्युक्तम् । तत्र प्राणेन मेयत्वप्रकारं स्पष्टयति ॥ यथेति । ऊर्णनाभिर्हृदयाद्धृदयमारभ्योर्णामुद्धृत्य मुखादुद्वहते निष्कासयति । तथैवं कोष्टो वायुस्तत्तत्स्थान्यभिहत्येत्यादिक्रमेण हृदयाकाशादुत्पन्नघोषवान्ध्वनिमान् ॥
छन्दोमयोऽमृतमयोऽतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृत इति प्रमाणात् । प्रलयेऽप्यति-रोहितज्ञानस्वरूपस्तत्प्रधानो विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञयेत्युक्तेः प्राणिनां मोक्ष-प्रदानाय तत्ज्ञाता वा । प्रभुः समर्थः प्राणः सहस्रपदवीमनन्तशाखोपेताम् ओङ्कारेष्वंजितां स्पर्शस्वरोष्मान्तस्थभूषिताम् । कादयो मावसानाः स्पर्शाः । स्वरा अ आ इ ई इत्याद्या अम् अः इत्यन्ता अचः । शषसहा ऊष्माणः । यरलवा अन्तस्थाः । एतैर्वर्णैर्भूषिताम् । एतदात्मकामिति यावत् ॥
विचित्रभाषाविततां चतुरुत्तरैश्छन्दोभिर्वितताम् । पूर्वछन्दोपेक्षयोत्तरछन्दांसि चतुरक्षरा-ण्येवोत्तराणि येषां तानि तैश्चतुरक्षरैश्छन्दोभिर्वितताम् । अनन्तपारां विनाशपरिमितिशून्याम् । बृहतीं देशतः कालतश्च व्याप्तां श्रुतिम् । आस्पर्शरूपिणा मनसा मनःपूर्वं तद्धितबुद्ध्या रुद्रादिदेवेभ्यः सृजत्युपदिशति सृष्टिकाले पुनः कल्पान्ते स्वस्मिन्नेवाक्षिपते निदधातीत्यर्थः । छन्दोभिरित्युक्तं कानि तानि छन्दांसीत्यत उक्तम् ॥ गायत्रीति श्लोकेन । तत्र मनसा स्पर्शरूपिणेति मनसः स्पर्शरूपवत्त्वं प्रतीयते तद्विरुद्धमतः पदच्छेदं दर्शयन्व्याचष्टे ॥ आस्पर्शेति । प्रकाशयति ध्यायतीति यावत् । करणे कर्तृत्वोपचारः । विष्णोः कथमा-स्पर्शशब्दवाच्यत्वमित्यतस्तन्निर्वक्ति ॥ आस्पर्श इति । स्पर्शभोगा आ समन्तादस्यैव सन्तीत्यास्पर्शो विष्णुरित्यर्थः । तत्र प्रमाणमप्याह ॥ भुङ्क्त इति । एकलं प्राणं मुख्य-प्राणम् । प्राणस्यैवेत्यादिनाऽऽस्पर्शरूपिणेत्येतदुक्ततात्पर्यकम् । कथं प्राणस्य छन्दः-स्वरूपत्वमनुपपन्नमेव छन्दोमय इत्यनेनोच्यत इत्यतः प्रमाणेनैव तत्पदं व्याख्याति ॥ मीयन्त इति । ज्ञायन्त इत्यर्थः । तथा च छन्दोमयश् छन्दोज्ञातेत्यर्थ उक्तो भवति । ओङ्कारेष्वंजितामिति कथमुच्यते । ओङ्कारेष्वेकत्वेनोङ्कारेष्विति बहुवचनायोगादित्यत ओङ्काराणां बहुत्वाद्युक्तं तत्र बहुवचनमित्याशयेन प्रणवबाहुल्यं प्रमाणेनैवोपपादयति ॥ त्रिमात्रमिति । अत्र मात्राशब्देनाकारः प्रथमा मात्रा उकारो द्वितीया मात्रा मकारस्तृतीया मात्रेति माण्डूकोपनिषदुक्तरीत्यांऽशा ग्राह्याः । न तु ह्रस्वदीर्घप्लुताः । तथा चाकारोकार-मकाररूपमात्रात्रयं मात्रात्रयोपेतोऽयं तावदेकः प्रणवस्तमादितः कृत्वा तमारभ्य यावच्चानन्त-मात्रक अनन्तमात्रकं यावत् । अनन्तमात्रात्मक ओङ्कारपर्यन्तं मध्ये विद्यमानास्ते सर्वेऽपि प्रणवा इत्यर्थः । मध्यस्थाः प्रणवाः कीदृशा इत्यत आह ॥ एकमात्रेति । त्रिमात्रक-प्रथममोङ्कारापेक्षया द्वितीयाद्योङ्कारा एकैकवर्णोत्तरा इत्यर्थः । तथा च प्रथम ओङ्कार-स्त्रिमात्रकः । द्वितीयस्तदपेक्षयैकमात्रोत्तरः । कोऽर्थश्चतुर्वर्णकः । तृतीयोङ्कारस्तदपेक्षया पञ्चवर्णकस्तदपेक्षया चतुर्थकः षष्ठमातृकः । एवमुत्तरत्र गत्वाऽन्त्योऽनन्तमात्रक इति भावः । यावत्योऽनन्तमात्राः सन्ति ते सर्वेऽपि प्रत्येकं प्रत्येकं प्रणवास्तथाऽनन्ताः प्रणवाः प्रकीर्तिताः । कुतः । विभेदेन प्रणवेऽवान्तरभेदानां सत्वादिति भावः । अत एव त्रिमात्र-मादितः कृत्वेति प्रमाणमेव मूलीकृत्य नारायणपण्डिताचार्यैर्मध्वविजये चतुर्थसर्गे अनन्त-मात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधा इत्युक्तम् । प्रणवोच्चयमिति प्रणव-बाहुल्यमुक्तम् । अनन्तमात्राभिरनन्तवर्णात्मकैर्वेदैरन्तो निर्णयो यस्योङ्कारस्य तदनन्तमात्र-मिति व्याख्यानं तु यावच्चानन्तमात्रका इति प्रमाणानालोचनकृतमित्यवसेयम् ।
ननु त्रिमात्रस्योङ्कारत्वं युक्तम् । ओङ्कारो हि भगवद्वाचकतया प्रसिद्धः । वर्णत्रयात्मकोङ्कारस्य च भगवद्वाचकत्वं प्रसिद्धं तदितराणामनन्तमात्रान्तानां प्रणवानां भगवत्प्रतिपादकत्वाभावात्कथमेतदित्यत आह ॥ एकमात्रोत्तरा इति । अत्रैकशब्दः प्रथमवाची । प्रथममात्रादिमात्रादित्वेन कृतवर्णत्रयात्मकोङ्कारेत्यर्थः । तदपेक्षया ये उत्तराः प्रणवा अनन्तमात्रान्तास्ते सर्वेऽपि वासुदेवप्रतिपादका इत्यर्थः । एवं प्रणवानामनन्तत्वं कस्माद्वाच्यमित्यत आह ॥ तेषामिति । अनन्तप्रणवानामित्यर्थः । सर्वेऽनन्ता वेदास्ता-वदनन्ता इति । अनन्ता वै वेदा इति प्रमाणसिद्धम् । तेषामोङ्कारव्याख्यानरूपत्वं च प्रसिद्धम् । तत्रानन्तवेदव्याख्येयोङ्कारस्यैकत्वेऽनन्तवेदानामेकोङ्कारव्याख्यानरूपत्वायोगा-दोङ्काराणामप्यनन्तत्वमवश्यं वाच्यमेवेत्याशयः । तस्मादनन्तवेदव्याख्येयोङ्काराणामप्यनन्त-त्वात् । ओङ्कारेष्वंजितामित्यस्य तात्पर्यम् ॥ ओङ्कारेणान्विता । इति चोङ्कारेष्वंजितां तद्व्याख्यानरूपतया सम्बद्धामित्यर्थ उक्तो भवति ।
विचित्रभाषाविततामित्युच्यते । कास्ता विचित्रभाषा याभिरियं विततेत्यतस्ताः प्रमाणे-नैव दर्शयति ॥ गुह्येत्यादिना । त्रैविध्यमेव दर्शयति ॥ गुह्येति ॥ एवमादीति । आदिपदेन गुह्यसमाधिभाषा ग्राह्या । तथा दर्शनगुह्यभाषा दर्शनदर्शनभाषा दर्शनसमाधिभाषा तथा समाधिगुह्यभाषा समाधिसमाधिभाषा समाधिदर्शनभाषेत्यादि क्रमेणेत्यर्थः । एवं सति नव भाषाः सम्पन्नाः । पुनरित्युक्तत्वात् । नवभाषाणामपि पुनः प्रत्येकं प्रत्येकं त्रैविध्ये सप्तविंशतिभाषाः सम्पन्नाः । एकैका च त्रिधा पुनरिति वचनेन सप्तविंशतिभाषायामपि पुनः प्रत्येकं प्रत्येकं त्रैविध्ये तिस्रः सप्तविंशत्यो जाताः । तेनैकाधिकाशीतिसङ्ख्या संपन्नेत्येव-मेवेकाशीति विभेदिता विभेदयुक्ता इत्यर्थः । प्रसिद्धार्थे प्रतीयमानार्थे गुह्यार्थे तत्परा तात्पर्योपेता । तामुदाहरति ॥ अन्ध इति । अन्धस्य मणिप्राप्तिरूपप्रतीतार्थेऽन्वये योग्यताया अभावाद्भगवदज्ञानेनान्धो गुरूपदेशादिना मणिं मणिर्मुखं प्रधानं चोत्तमस्य वचो भवेदित्यभिधानाज् ज्ञानेनोत्तमं भगवत्ज्ञानं लब्धवानिति गौप्यार्थपरेत्यर्थः । दर्शनभाषां लक्षयति ॥ दर्शनानीति । या भाषा पशुपत्त्यादीनां दर्शनानि पाशुपतशास्त्रादीन्यवलम्ब्य बहुश्रुतिविरुद्धं वदेत् । ननु बहुश्रुतिविरोधमात्रेण कथं दर्शनात्मकत्वं वेदानुसारिष्वपि तथात्वदर्शनात् । वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पनेत्युक्तेरित्यतो विशेषणान्तरमाह ॥ अन्त इति । या चान्ते निषेधसंयुक्ता सा भाषा दर्शनात्मिका । तामुदाहरति ॥ भस्मेति । समाधिभाषां लक्षयित्वोदाहरति ॥ यथेति । या भाषा यथा प्रतीयमानार्था सा विद्वद्भिः समाधिरिति प्रकीर्तिता । सा च विष्णुः परम इत्याद्येरितेति योज्यम् । समाधिभाषयोक्तं यत्तत्सर्वं ग्राह्यमेव हि । विष्णोः परमत्वप्रतिपादकं भागवतं समाधिभाषया प्रवृत्तमिति मन्तव्यम् । समाधिनाऽनुस्मर तद्विचेष्टितमित्युक्तेः ।
ननु भस्मस्नानविधानस्य श्रुत्युक्तत्वान्नृसिंहपुराणोक्तत्वाच्च कथं तस्य निषेधसंयुक्त-त्वेनाग्राह्यत्वमभिप्रेतमित्यत आह ॥ भस्मेति । श्रुत्युक्तं तु श्रुत्युक्तमपि भस्मस्नानविधानं दर्शनानुगं दर्शनभाषानुसारेणोक्तम् । दर्शनभाषयोक्तमिति यावत् । अतोऽग्राह्यं भस्मस्नान-मित्यर्थः । तथा नृसिंहगं तु विधानं तामसनृसिंहपुराणोक्तमपि भस्मस्नानविधानमग्राह्यमेव तस्याप्रमाणत्वादित्यर्थ इति योज्यम् ।
छन्दोभिश्चतुरुत्तरैरित्युक्तम् । तत्कथं चतुरुत्तरत्वमित्यतस्तदुपपादयति ॥ गायत्र्या इति । चतुर्विंशत्यक्षराया इत्यर्थः ॥ इत्यादीति । उष्णिहोऽनुष्टुप् चतुर्वर्णाधिकेत्यादि-क्रमेणेत्यर्थः । नन्वेवं तर्हि जगत्यपेक्षयाऽतिछन्दसश्चतुर्वर्णोत्तरत्वं तदपेक्षयाऽत्यष्टेस्तदपेक्षया जगत्या इति प्राप्नोतीत्यतो नेत्याह ॥ जगत्यन्तानामेवेति । न तदुत्तराणामपीत्येव-कारार्थः । तथा चैवं जगतीपर्यन्तं चतुर्वर्णाधिक्ये जगत्या अष्टचत्वारिंशद्वर्णत्वं संपद्यते । तथा च द्वादशाक्षरा जगतीति श्रुतिरनुकूला भवति । द्वादशाक्षरा द्वादशाक्षरोपेतपादचतुष्टय-वतीत्यर्थः । कुतो जगत्यन्तानामेव चतुरुत्तरत्वनियमो न तदुत्तराणामतिछन्दआदीनामित्यतो बाधादित्याह ॥ छन्दस्त्विति । अयं भावः । जगत्युत्तराणामपि चतुरुत्तरत्वनियमे त्रिकद्रुकेष्वित्याद्यतिछन्दसां द्विपञ्चाशदक्षरत्वप्राप्त्याऽष्टाक्षराष्टपादा अतिछन्दस इति चतुः-षष्ठ्यक्षरोपेतता प्रसिद्धिबाधः । तथा च जगतीछन्दसश्चतुःषष्ठ्यक्षरोपेतत्वप्राप्त्या छन्दस्तु नवपादमिति अष्टाक्षरोपेतनवपादत्वकथनेन द्वासप्तत्यक्षरोपेतताप्रसिद्धिबाधः स्यादतो जगत्यन्तानामेव चतुरुत्तरत्वनियमो न तदुत्तराणां बाधादिति ॥ ३८–४१ ॥
प्रमेयचन्द्रिका
मुख्यप्राणादिभिर्वेदस्य मेयत्वमुक्तम् । तत्र सर्वाधिकार्युत्तमस्य मुख्यप्राणस्य भूतहृदयादिषु स्थित्वोच्चारणप्रकारः प्रपञ्च्यते यथोर्णनाभिरित्यादि श्लोकचतुष्टयेन ॥ अत्र मनसास्पर्शरूपिणेत्यत्र स्पर्शरूपिणेति पदच्छेदे मनसः स्पर्शरूपत्वाभावेन तद्विशेषणत्वायोगात्पद-विभागं दर्शयन् व्याचष्टे आस्पर्शरूपिणेति ॥ रूपयतीत्यस्यार्थः प्रकाशयतीति । सर्वमनः-साधारणत्वनिवारणायोक्तम् प्राणस्य मन इति ॥ विष्णावास्पर्शशब्दं निर्वक्ति आ समन्तादिति ॥ आ इत्यनुवादेन समंतादिति व्याख्यातम् । स्पृश्यन्तेऽनुभूयंत इति स्पर्शा विषयाः ।
अत्र प्रमाणमाह भुङ्क्त इति ॥ नित्यं प्रकाशकमित्यन्वयः । एकलमित्यस्य विवरणं कुर्वन् मूलगतस्य मनसेत्यस्य तात्पर्यमाह प्राणस्यैवेति । न तु रुद्रादेरित्येवार्थः । एतेन रुद्रादिव्यावृत्तये एकलमित्युक्तमिति भावः । प्राणस्य छन्दोमयत्वं कथमित्यत आह मीयन्त इति ॥ छन्दांस्यनेन मीयन्त इति छन्दोमय इत्यर्थः । रुद्रादिभिरपि वेदा ज्ञायंते को विशेषोऽत्रेत्यत उक्तं स्वत इति ॥ उपदेशं विनेत्यर्थः । वेद ऊहामनुसरेद्यस्य स त्यक्त-वैदिक इति चतुर्थतात्पर्ये स्पष्टमेतत् । बुध्यारोहाय मूलार्थः प्रथमं कथ्यते । यथोर्ण-नाभिरूर्णां हृदयादुधृत्य मुखादुद्वमते निःसारयति तथा छन्दोमयः सर्ववेदपरिज्ञानी । ‘‘वायुश्च तदनुज्ञया’’ इति निर्णयोक्तेश्च सर्वेषां मुक्तिप्रदातृत्वादमृतमयः ‘अतिरोहितविज्ञाना-द्वायुरप्यमृतः’ इति ईशावास्यभाष्योक्तेरतिरोहितज्ञानस्वरूप इति वा । प्रभुरिति समर्थो घोषवान् समुद्रमेघवृषभध्वनित इति गम्भीरनादवान् वायुनाऽऽस्पर्शरूपिणा विष्णुस्पर्शकेन मनसा सहस्रपदवीं हरिमाहात्म्यनिरूपणपरानन्तमार्गाम् । ॐकारेष्वध्ययनोपक्रमविरति-वैचित्र्येणाङ्कारेष्वञ्चिताम् । अञ्चु गतिपूजनयोरित्युक्तेराद्यंतयोरुच्चारणेन व्याख्यानरूपतया वा ॐकारसम्बद्धामिति यावत् ।
कादयो मावसनाः स्पर्शाः । अचः स्वराः । शषसहा ऊष्माणः । यरलवा अन्तस्थाः । एतैर्वर्णैर्भूषिताम् । गुह्यदर्शनसमाध्याद्येकाशीतिप्रभेदेन विचित्राभिर्भाषाभिर्वितताम् । चतुरुत्तरै-रुत्तरोत्तरं चतुर्वर्णाधिकैर्गायत्र्युष्णिगनुष्टुप् बृहतीसंज्ञितैः सप्तञ्छन्दोभिर्वितताम् । अनन्तपारां विनाशपरिमितिभ्यां रहितां बृहतीम् । निरवधिकानन्तहरिमाहात्म्यप्रतिपादकतया पूर्णां श्रुति-माकाशाद्धृदयाकाशाद्वर्णव्यञ्जकध्वनिमुद्धृत्येति शेषः सृजत्युच्चरति । रुद्रादिभ्य उपदिशति । स्वयमाक्षिपते प्राप्तकाले । अत्र चतुरुत्तरत्वं प्रधानसप्तछन्दसामेव । पुनरन्यान्यपि छन्दांसि सन्ति तेभ्योऽपि विततामित्याशयेन सप्तछन्दोनिरूपणपूर्वकमुक्तं गायत्रीति । अतिछन्दः-संज्ञिकास्तु अष्टत्यष्ठी । जगद्विराट् । उपलक्षणमेतत् । जगत्यतिजगतीशक्वर्•दीनिच ग्राह्याणीति ।
ननु प्राणवेश्यत्वादोङ्कारेष्विति बहुवचनं कथमित्यतः प्रमाणेन वचनोपपत्तिं दर्शयति त्रिमात्रमिति ॥ ह्रस्ववर्णस्य ‘कालमात्रेति शब्दितः’ इति तन्त्रसारवचनात्काले उच्चार्यमाणो ह्रस्वस्वरो मात्रेत्युच्यते । उक्तं च वैय्याकरणैः । ‘एकमात्रो भवेद्धृस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयः’ इति । ततश्च त्रिमात्रं प्लुतमादितः प्रणवे कृत्वा चतुःपञ्च-षड्दशशतसहस्रात्रादिक्रमाधिक्येनोच्चारणे यावादनन्तमात्रकास्तावन्तः सर्वेऽपि विशिष्टभेदाद्भेद इति न्यायेन तत्तन्मात्रासाहित्यप्राप्तेन विभेदेनानन्ताः प्रणवाः प्रकीर्तिताः । ‘त्रिमात्रमादितः कृत्वेत्युक्तं’ । द्विमात्रया दीर्घ उक्तत्वं वा भाति । पक्षान्तरं सूचयद्विमात्रादिविशिष्टाः सर्वेऽपि स्वराः पृथक् हरिवाचका अतः प्रणुवन्तीति प्रणवनामान इत्याशयेनाह एकेति । एकमात्रत्वे प्राप्ते हृस्वप्रायात्प्रणवोच्चारणस्यायुक्तत्वादेकमात्रोच्चारणं परित्यज्य तदपेक्षया उत्तरा द्विचतुःपञ्चादिमात्रायुक्ताः प्रणवाः सर्वेऽपि वासुदेवाभिधायका इत्यर्थः । एवमोङ्कारेष्विति बहुवचनस्योपपत्तिं मात्रासाहित्येनोपपाद्य तेष्वञ्चितत्वमुपपादयति तेषामिति ॥ प्रकीर्तिताः, ‘प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः’ इत्यादौ । यस्मादेवं व्याख्यानभूतास्तस्मा-दोङ्कारेणाञ्चिता युक्ता एव सदा नियमेनाध्ययनोपक्रमविरामेच उच्चार्यन्ते इत्यर्थः । अत्रैक-वचनं वस्तुत एक एवोङ्कारः । मात्रासाहित्येनैव तत्तद्बहुत्वमिति ज्ञापयितुम् । अत्र मात्रा-नन्त्यसद्भावेऽपि एतदतिरिक्तप्रमाणादर्शनादरुच्या अर्थान्तरमुच्यते प्रथमा मात्रा अकार उकारो मकार इति माण्डूकोपनिषदि अउम इति वर्णत्रयेण क्रियमाणानां रूपाणां मात्रशब्द-वाच्यत्वमुक्तम् । उक्तं च तद्भाष्ये । मात्रा अंशी उदाहृत इति । तेन विश्वादिरूपतयाऽभि-धायाकाकारादि वर्णत्रयस्यापि प्रतिपाद्यप्रतिपाकदयोरैक्यविवक्षया अकारादीनां प्रणवांशत्वा-न्मात्राशब्दस्यांशवाचकत्वान्मात्राशब्दवाच्यत्वं लभ्यते । तथाच तिस्रोऽकाराद्या मात्रा यस्य स त्रिमात्रः । तं त्रिमात्रं प्रणवमादितः कृत्वा उच्चार्यमाणा अनन्तमात्रकाः । अनन्तमात्रो वर्णलक्षणांशा येषां ते वेदा यावत् । यावन्तस् तावद्विभेदेन अध्ययनोपक्रमे विरामे चोच्चार्य-माणाः प्रणवाश्चानन्ताः प्रकीर्तिता इति । इदमुक्तं भवति । स्रवत्यनोकृतं ब्रह्म परस्ताच्च विशीर्यते । अनोंकृतमासुरं भवतीत्यादि श्रौतार्थापत्तिबलेनाध्ययनोपक्रमयोरोङ्कारोच्चारण मावश्यकमिति तावत्सिद्धम् । तत्र चाध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागे-नान्यस्थानेषूच्चार्यमाणस्येत्यादि सुधोक्तरीत्याऽनन्तवेदवर्णादिष्वध्ययनविरामादिभेदेनोच्चार्य-माणोङ्काराणामानत्यमिति । न च वाच्यमध्यायवर्गर्ऋगाद्यवसान एवाध्ययनविरामदर्शनात्कथं वर्णादिष्वप्योङ्कारप्रसक्तिरिति । ‘वेदादिवर्णपर्यन्तं मूर्तयः केशवस्य याः । समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक्’ इति ऋग्भाष्ये । समस्तवेदानैकान्त्यात्प्रभेदैस्तावत्यस्तदवान्तर-भेदैरपि तावत्य इत्येवं वाच्या इत्यर्थ इति तट्टीकोक्तरीत्या एकैकस्य वर्णस्य वर्णद्वयस्य वर्णत्रयस्येत्यादिक्रमेण पृथग्भगवद्रूपवाचित्वमुक्तम् । तथा चैकवर्णद्वयाद्यारभ्य पादार्ध-ऋग्वर्गाध्यायादिप्रतिपाद्यरूपविशेषज्ञानाधिकारिणा वर्णादिष्वपि विरामस्य युक्तत्वादिति । तेषां चैकद्वित्रिवर्णपदादिषूच्चार्यमाणानां प्रणवानां पृथक्पृथक् भगवद्वाचकत्वमित्याह एकेति ॥ एकमात्रावेदगतो वर्णः । स एवोत्तरो येषां प्रणवानां ते एकमात्रोत्तराः । उपासनाधिकारि-विवक्षयाम् अध्ययनोपक्रमभेदेन प्रतिवर्णमोंकारस्यापूर्वत्वप्राप्तेः प्रणवानामेकमात्रोत्तरत्वमित्युक्तं भवति । ते च सर्वे प्रणवाः प्रत्येकं वासुदेवादेवाभिधायका इत्यर्थः । तेषामित्यादिकं पूर्व-वद्व्याख्येयम् । प्रकीर्तिता इति ॥ तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सव• वाक् सन्तृण्णेत्यादि श्रुतौ प्रकीर्तिता इत्यर्थः । अत्रानन्तमात्रक इत्यादौ वेदगतवर्णानां मात्राशब्दार्थतया कल्पनीयत्वमिति भिया पुनरर्थान्तरमुच्यते । त्रिमात्रं, त्रिमात्रस्तु प्लुतो ज्ञेय इत्युक्तेः प्लुततयोच्चार्यमाणत्वाद्वा तिस्रोऽकाराद्या मात्रा अंशा यस्येति वा त्रिमात्रं प्रणवं विभेदेनाध्ययनोपक्रमे आदितः कृत्वा यावद्यस्मादनन्तमात्रका वेदा उच्चार्यन्त इति शेषः । तस्मात्प्रणवानुबद्धतयोच्चार्यमाणत्वात्तेष्वनन्ता अपि वेदाः प्रणवाः प्रकीर्तिता इत्यर्थः । अत्र मात्राशब्देन ह्रस्ववर्णस्येति प्रागुक्तरीत्या ह्रस्वस्वरोऽभिधीयते । दीर्घप्लुतयोरपि मात्राद्वयत्रय-समाहारात्मकत्वात्तावपि मात्राशब्देनोच्येते । ततश्च तत्र तत्र वर्णपदादिष्वनन्ताः स्वरदीर्घ-प्लुतरूपानां मात्रा येषां ते अनन्तमात्रका इत्युच्यन्ते वेदा इति ज्ञातव्यम् । ॐकारस्य त्रिमात्रतानियमवत्तदनुबद्धवेदवर्णेषु न तन्नियम इत्याह एकमात्रेति ॥ एकामात्रा उत्तरा प्रधाना एषां ते एकमात्रोत्तराः । केचिद्वर्णा एकमात्राः, अन्ये द्विमात्राः, अपरे त्रिमात्रा इत्येवं सर्वे वेदा एकमात्रोत्तरा इत्यर्थः । प्रकारान्तरेण प्रणववत्वं वेदानां घटयति वासुदेवाभिधायका इति । तथा प्रणुवन्ति सम्यक् प्रतिपादयन्ति वासुदेवमिति वेदाः प्रणवा इति भावः । प्रणवानुबद्धत्वमुपपादयति ओंकारेणेति ॥ अत्रापि वेदानां प्रणवशब्द-वाच्यत्वस्याप्रसिद्धत्वादेकमात्रोत्तरा इत्यादेः क्लिष्टार्थत्वादस्वारस्येन प्राचीनपक्षद्वयमिति ध्येयम् ।
विचित्रभाषाविततामित्यत्र लौकिकभाषाप्रतीतिवारणायाह गुह्येति ॥ मूलभाषास्तिस्र इतीति शब्दाध्याहारेण योजना । तथाऽपरेति गुह्यसमाधिरन्येत्यर्थः । एवमादिक्रमेणेत्यत्रोक्त-नवभाषाणां प्रत्येकमेवं त्रेधा विभागे सप्तविंशति भाषा भवन्ति । तासां पुनरेवं विभागे भाषा एकाशीतिविभेदिताः स्युरित्युक्तं भवति । मूलभाषात्रयलक्षणमाह तत्रेति ॥ आद्यश्चशब्दस्तु-शब्दार्थे । द्वितीयोऽवधारणार्थोऽनन्वितेत्यनेनान्वेति । तद्व्यावर्त्यमाह गुह्यार्थतत्परैवेति । तामुदाहरति अन्ध इति । अत्रान्धः प्राकृतचक्षूरहितः हरिर्मणिमपश्यत् । अन्धोऽल्पज्ञो जीवो मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेदित्युक्तेः सर्वोत्तमत्वहरिमणिं गुर्वनुग्रहादविन्द-दिति वा गुह्योऽर्थः । दर्शनभाषालक्षणमाह दर्शनानीति । येनेति । न तु मूलभूत-प्रमाणमपेक्ष्येत्यर्थः । अत एव बहुश्रुतिविरुद्धं या वदेत् । अन्ते प्रागुक्तार्थनिषेधयुक्ता सा दर्शनात्मिका भाषेत्यर्थः । तामुदाहरति भस्मेति ॥ भस्मस्नानादेः कर्तव्यतादिपरेत्यर्थः । समाधिभाषामाह यथेति ॥ प्रदर्श्यमानमर्थमनतिक्रम्य विद्यमाना या भाषा सा समाधिरिति प्रकीर्तितेत्यर्थः । तामुदाहरति विष्णुरिति । अग्निर्वै देवानामवमो विष्णुः परम इति श्रुत्यादिगतेत्यर्थः । ननु श्रुतिष्वपि भस्मस्नानादेः कर्तव्यतोक्तेः कथं भस्मस्नानं बहुश्रुति-विरुद्धमित्युच्यत इत्यत आह भस्मेति ॥ तुरप्यर्थे । यस्मादित्यर्थे वा । श्रुत्युक्तमपि भस्मस्नानविधानं यस्मात्पाशुपतदर्शनानुगतं ततो दर्शनभाषया प्रवृत्तत्वादग्राह्यमेव । नृसिंहगं विधानं तु नरसिंहपुराणोक्तविधानमप्यग्राह्यमित्यनुवर्तते । तस्य तामसपुराणत्वादिति भावः । अथवा दर्शनभाषामनवलम्ब्य वस्तुतो भस्मस्नानविधानं तु नृसिंहगं नृसिंहापोसनविषयम् । अत एव शिवेन तदनुगैश्च भस्मस्नानं क्रियत इति भावः । छन्दोभिश्चतुरुत्तरैरित्यत्र चतुरुत्तरत्वं किमपेक्षया केषाञ्चेत्यत आह गायत्र्या इति । इत्यादीत्यादिपदेन उष्णिहोऽ-नुष्टुप्चतुरधिकेत्यादि द्रष्टव्यम् । चतुरुत्तरत्वं न सर्वच्छन्दसामित्याह । जगत्यन्तानामेवेति । अष्ठ्यत्यष्टिजगद्विराडतिजगतीशक्वर्यतिशक्रीधृत्यभिधृतिकृत्यकृतिविकृतिसंकृत्यभिकृत्यादीनां छन्दसां चतुरुत्तरत्वनियमो नेत्येवशब्दार्थः । ननु मूले चतुरुत्तरैरिति सामान्योक्तेः कुतो जगत्यन्तानामेवेति विधार्यत इत्यत आह छन्दस्त्विति । नव पादा यस्मिंस्तन्नवपादम् । यच्छन्दस्तस्तज्जगदित्युच्यत इत्यर्थः । अयं भावः । अष्टाक्षरोपेते पाद इति संज्ञा प्रमिता । अत एव गायत्री चतुर्विंशत्यक्षरा त्रिपदेत्युच्यते । अष्टपादत्वं चाष्टिच्छन्दसो दृश्यते । ‘आपः पुनन्तु पृथिवीम्’ इत्यष्टिछन्दस्त्वेन प्रसिद्धमन्त्रे अष्टानां पादानां दृश्यमानत्वात् । तत्र यद्यपि पञ्चषष्टाक्षराणि वर्तन्ते तथापि नवा एकेनाक्षरेण छन्दांसि वियन्तीत्युक्ते-रेकाक्षराधिक्यं न दोषः । एवं सत्यष्ट्यत्यष्टिजगद्विराडिति मूले उक्तेः । साक्षादष्टिछन्दस उपरितनस्य जगतीछन्दसो नवपादत्वमत्र प्रमाणेनाभिहितम् । ततश्चाष्टिच्छन्दोऽपेक्षयाऽष्ट-वर्णाधिक्यमेव सिध्यति । चतुरुत्तरत्वनियमो भग्नः । तथा च जगत्यन्तानामेवेत्युक्तं युक्तमिति ॥ ३८–४१ ॥
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके१ नान्यो मद् वेद कश्चन ॥ ४२ ॥
मां विधत्तेऽभिधत्ते मां विकल्पापोह्य इत्यहम् ॥ ४३ ॥
तात्पर्यम्
**विविधरूपत्वेन कल्पनं विकल्पश् चत्वारि वागित्यादि । तत्र वागित्यनुवादः । ‘विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः । विकल्पे तद्वहुत्वं चाप्यपोहे तु तदप्रियम् । उच्यते सर्ववेदेषु तच्च वेद स एव ही’ति आगमतात्पर्ये । ‘सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् । सुरापानमिति प्रोक्तं तन्न कुर्यात्कथञ्चन ॥ ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम् । ब्रह्महत्या समुद्दिष्टा तां न कुर्यात्कथञ्चन । इत्याद्यपोहवाक्यार्थश्चिन्त्यो विष्णुर्बुधैर्जनैरि’त्यादि च । मदन्यः कश्चन कोऽपि न वेद **
॥ ४२–४३ ॥
पदरत्नावली
मुख्यप्राणोऽपि मत्प्रसादादेव वेदार्थं जानाति मुख्यतः सर्ववेदार्थतत्वमहमेव जानामीत्याशयवानाह– किं विधत्त इति । विकल्पयेद् विविधरूपत्वेन कल्पयेत् । लोके विद्वज्जनमध्ये मदन्यः कः पुरुष इति अस्याः श्रुतेर् हृदयं तात्पर्यार्थं वेद । कोऽपि न वेद । वेद चेत् को वायुर्मत्प्रसादाद् वेत्तीत्यर्थः । सन्ध्यामुपासीतेत्यादेः सन्ध्योपासनादिविधिलक्षणमर्थ-मन्तरेणान्यमर्थं भगवान् कथं वेत्तीति तत्राह– मामिति । सन्ध्यामुपासीतेत्यादिविधिलक्षणो वेदो मामुद्दिश्य विधत्ते सन्ध्यावन्दनादेर्मद्विषयत्वात् । ध्येयः सदा सवितृमण्डलमध्यवर्तीत्यादेः । यदादित्यगतं तेजो जगद् भासयतेऽखिलमित्यादेश्च । सत्यं ज्ञानमनन्तं ब्रह्मेति सत्यत्वादिगुणवाचको वेदः सत्यत्वादिगुणविशिष्टं मामभिधत्ते । चत्वारि वागित्यादिषु वेदादिवाच्यत्वाद् वागाख्यं मां वागित्यनूद्य चत्वारीति मां विविधं कल्पयित्वा वासुदेवसङ्कर्षणादिरूपविशिष्टत्वेन ध्येय इति । न सुरां पिबेद् ब्राह्मणो न हन्तव्य इत्याद्यपोह्यभागः सुर ऐश्वर्य इति धातोः सुराणामैश्वर्यादिमद्गुणानां पानं मम स्यादिति चिन्तनं (तथा) वेदैकवेद्यत्वेन ब्राह्मणो विष्णुः (स) नास्तीत्यादिचिन्तनं मदप्रियमपोह्य निषिध्य आत्मनमेव लोकमुपासीतेत्यादि मद्विषयोपासनं वेदतात्पर्यार्थ इति अस्याः श्रुतेर्हृदयमहमेव वेदेति गतेनान्वयः । ‘‘विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः । विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् । उच्यते सर्ववेदेषु तच्च वेद स एव हि’’ इति वचनात् । ‘‘सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् । सुरापानमिति प्रोक्तं तन्न कुर्यात् कथञ्चन । ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्याभिचिन्तनम् । ब्रह्महत्या समुद्दिष्टां तां न कुर्यात् कथञ्चन । इत्याद्यपोह्यवाक्यार्थश्चिन्त्यो विष्णुर्बुधैर्जनैः’’ इति वचनाच्च ॥ ४२ ॥
श्रीनिवासतीर्थीया
एतादृशानन्तवेदरहस्यमहमेक एव साकल्येन जानामीति भावेनाह ॥ किमित्यादिना । वेदः किं विधत्ते किं व्याचष्टे किमनूद्य विकल्पयेद् विविधरूपत्वेन कल्पयेत् । उपलक्षणमेतत् । किमपोहेदित्यपि ग्राह्यम् । इत्येवंप्रकारेणास्याः श्रुतेर्हृदयमभिप्रायं लोके मदन्यः कश्चन न वदेदित्यर्थः ।
ननु सन्ध्यामुपासीतेत्यादिकर्मविधिवाक्ये स्पष्टं विधिलक्षणार्थप्रतीतेरेतदर्थातिरिक्तमर्थं भगवान्कथं वेत्तीत्यत आह ॥ मामिति । किं विधत्त इत्यादेरुत्तरम् ॥ मां विधत्त इत्यादि । विकल्प इत्युक्तम् । तत्र को विकल्पशब्दार्थ इत्यत आह ॥ विविधेति । विविधरूपत्वेन कल्पनम् । कुत्र क्रियत इत्यत आह ॥ चत्वारीति । ननु तत्र चत्वा-रीत्यनूद्य वाक्त्वं विधीयते तत्र विविधरूपत्वेन कल्पनं कथं प्राप्नोतीत्यत आह ॥ तत्रेति । चत्वारीति श्रुतावित्यर्थः । तथा चोच्यत इति वाक् भगवांश्चत्वारि चतूरूपयुक्त इति वागित्यनूद्य विविधरूपत्वेन कल्पनमेव विधीयत इत्यर्थः । तत्र प्रमाणमाह ॥ विधीति । पूजैवोच्यत इत्यन्वयः । अभिधाने इन्द्रचन्द्रादिदेवताप्रतिपादनपरे भागे । तस्य हरेर्बहुत्वं बहुरूपत्वम् । अपोहे न सुरां पिबेदिति निषेधप्रतिपादनपरे भागे तद्गुणा हरिगुणा उच्यन्ते । तस्य हरेः । इत्यस्या हृदयमित्यादेस्तात्पर्यम् ॥ तच्चेति । एवं समस्तवेदतात्पर्यमित्यर्थः ॥ तथा चायमर्थः ॥ किं विधत्त इत्यस्योत्तरम् ॥ मां विधत्त इति । कर्माद्यभिधात्री श्रुतिर्मां प्रत्येव मत्पूजार्थमेव विधत्ते । किमाचष्ट इत्यस्योत्तरम् ॥ अभिधत्ते मामिति । इन्द्रचन्द्राद्यभिधात्री श्रुतिर्मामेव मद्गुणानेवाभिधत्ते । किमनूद्य विकल्पयेत् किमपोहे-दित्यनयोरुत्तरम् ॥ विकल्पापोह्य इत्यहमिति । विकल्पश्चत्वारि वागित्यादौ विविध-रूपत्वेन कल्पनाविषयोऽहमेवेत्यर्थः । न सुरां पिबेदिति वाक्यादहमेवापोह्यो निराकार्यः । मदप्रीतिसाधनत्वादित्यर्थः । विकल्पश्चासावपोह्यश्च विकल्पापोह्य इति विग्रहः । इत्येव-मस्याः श्रुतेर्हृदयं नान्यो मद्वेद कश्चन किं त्वहमेव जानामीति श्लोकार्थः ।
ननु न सुरां पिबेदित्याद्यपोह्यवाक्येषु मदप्रीतिसाधनत्वादहमेवापोह्य इत्युक्तम् । तदयुक्तम् । व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यत इति प्रमाणेन तत्पानस्य विहितत्वेन हरिप्रियत्वात् । तथा ब्राह्मणो न हन्तव्य इत्यपोहोऽयुक्तः । वृत्रासुरवधस्य हरिप्रीतिसाधन-त्वात् । तस्मात्कथमेतदित्यतो न सुरां पिबेद् ब्राह्मणो न हन्तव्य इति निषेधवाक्ये निषिध्यमानं भगवदप्रियं प्रमाणविशेषेणैव दर्शयति ॥ सुरा इति । सुष्टुरमणरूपत्वादित्यर्थः । पिबेदित्यत्रत्यपानशब्दतात्पर्यकथनम् ॥ ते म इति । निषेधवाक्यार्थमाह ॥ तदिति । चिन्तनमित्यर्थः । तथा च न सुरां पिबेत् । भगवद्गुणा मे स्युरिति न चिन्तयेत् । तदप्रीतिसाधनत्वादित्यर्थ उक्तो भवति । हत्याशब्दतात्पर्यकथनम् ॥ स नेति । निषेध-वाक्यार्थमाह ॥ तां नेति । तथा च ब्राह्मणो न हन्तव्य इत्यस्य विष्णुर्नास्तीति न चिन्तितव्यस्तदप्रीतिसाधनत्वादित्यर्थ उक्तो भवति । नान्यो मद्वेद क्वश्चनेत्यत्र मदन्यः कश्चन न वेद किन्तु सर्वोऽपि जनो जानातीत्यन्यथाप्रतीतेरन्वयं दर्शयन्कश्चनेति पदं व्याख्याति ॥ मदन्य इति । चनेत्यव्ययस्यार्थः । अपीति ॥ ४२,४३ ॥
प्रमेयचन्द्रिका
एवं सर्ववेदपरिज्ञानं मुख्यप्राणस्यैव मुख्यमित्युक्तम् । इदानीं सोऽपि मत्प्रसादादेव जानाति । स्वातन्त्र्येण सर्वपरिज्ञान्यहमेवेत्याशयवता भगवतोच्यते किं विधत्त इति ॥ विधिपरो वेदभागः सन्ध्यामुपासीतेत्यादि किमुद्दिश्य नित्यनैमित्तिकं कर्म विधत्ते । ‘सत्यं ज्ञानमनन्तम्’ इत्यादिसिद्धपरो वेदः किं प्रमेयमाचष्टे । चत्वारिवागित्यादिर्विकल्पपरो वेदः किं वस्त्वनूद्य विकल्पयेद्विकल्पयति । इत्यस्या एवंप्रकारिकायाः श्रुतेर्हृदयमभिप्रायं मदन्यः कश्चनापि साक्षात्स्वातन्त्र्येण साकल्येन च न वेद । कश्चन ‘को वायुरिति शब्दितः’ इत्युक्तेश्च नेत्यस्याव्ययानामनेकार्थत्वेन तुशब्दार्थत्वाद् वायुस्तु मत्प्रसादादिति शेषः । साक्षान्मुख्यतः साकल्येन वेदेत्यर्थः । भवान्कथं जानातीत्यत उच्यते मां विधत्त इति ॥ अत्र विकल्प इत्यस्य विरुद्धतया कल्प इत्यन्यथाभानात्तद्व्याचष्टे विविधेति ॥ मत्स्य-कूर्मादिविविधरूपत्वेन कल्पनं प्रतिपादनं ज्ञानं वां विकल्पः । तद्विषयो विकल्प इति भावः ।
विकल्पपरां श्रुतिमुदाहरति चत्वारीति ॥ किमनूद्य विकल्पयेदित्युक्तम् । चत्वारि-वागित्यस्याः श्रुतेरनूद्य विविधकल्पनपरत्वेन अनुवादांशः कुत इत्यत आह तत्रेति ॥ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्रह्मणा ये मनीषिण इति श्रुतौ वागित्ययमंशोऽनु-वादरूपः । चत्वारीत्यादिर्विकल्परूप इत्यर्थः । तथा च वागित्यनूद्य विकल्पयतीत्यर्थः ॥ वाक्त्वाद्वाङ्नामकं ब्रह्म चत्व•रि पदानि पद्यन्त इति व्युत्पत्या रूपाणि वासुदेवादीनि धत्ते । तानि व्याप्तान्यपि परिमिता परिमितानि युगपदेवाणुत्वमहत्वादिसर्वपरिमाणवज्जनप्रत्यक्ष-विवक्षया परिच्छिन्नपरिमाणानि परि स्वयोग्यतानुसारेणाधिकारिभिर्मितानि ज्ञातानीति वा । तानि च ये मनीषिणो ब्राह्मणा ब्रह्माणनयोग्याः । महान्तश्च ते विदुरिति श्रुत्यर्थः । एवं विकल्प इत्यस्यार्थमुक्त्वा समग्रार्थं प्रमाणेनाह विधिभाग इति ॥ सन्ध्यामुपासी-तेत्यादिविधिभागे तत्तत्कर्मभिर्हरेः पूजैव कर्तव्यतयोच्यते । एतेन मां प्रत्येव मत्पूजारूप-त्वेनैव सन्ध्योपास्त्यादि कार्यमिति कर्म विधत्त इत्यर्थो मूलस्य भवति । अभिधाने सिद्धार्थाभिधानपरे सत्यं ज्ञानमित्यादौ तस्य हरेर्गुणा उच्यन्त इत्यनेन जगत्सद्भावयापकत्व-
ज्ञानादिगुणात्मकं मामेवाभिधत्त इत्यर्थ उक्तो भवति । तत्वप्रकाशिकायामिन्द्राद्यभिधात्री श्रुतिर्मामेवाभिधत्त इति व्याख्यानं तु सोऽप्यर्थाे मूलस्याभिप्रेतः । तस्यैव तत्र सङ्गतत्वादिति भावेनेति ज्ञेयम् । विकल्पे चत्वारि वाक् एकधा भवति, द्विधा भवति, त्रिधा भवति, पञ्चधा भवतीत्यादि विविधकल्पनपरे वेदे तस्य हरेर्बहुरूपत्वमुच्यत इत्यनेन विकल्प इत्येतदुक्तार्थं भवति । अपोहे ‘न सुरां पिबेत्’ इत्यादिनिषेधपरवेदभागे तस्याप्रियं सुरापानादिकमित्युच्यत इत्यनेन अहमपोह्य इत्यत्राप्रियादित्यध्याहारेण योज्यमिति सूचितं भवति ।
विकल्प्यापोह्य इत्येकं पदम् । विकल्प्यश्चासावपोह्यश्चेत्येकपदतयैव तत्वप्रदीपे व्याख्या-तत्वात् । तत्वप्रकाशिकायां तु सम्मुग्धः शब्दद्वयस्यार्थ एवोक्तः । साक्षादित्येव मूलपाठो न तु लोक इति समन्वयाधिकरणभाष्ये तथोक्तेः । भाष्ये मां विधत्त इत्यर्धः पूर्वं पठितः । अनन्तरमित्यस्या इत्यर्धस् तत्वप्रकाशिकायामपि । इत्यस्या एवंविधायाः श्रुतेर्हृदयमहं वेद मत्तोऽन्य इत्यर्थतया पश्चादेवायमर्धो व्याख्यातः । अत्र भागवतकोशेषु प्रामादिकपाठो वा भाष्यकारैरर्थसङ्गत्या व्यत्यासेन तथापादनं कृतमिति वा समाधेयमित्याहुः । इत्यस्या हृदयमिति मूलस्याभिप्रायकथनपरेण ‘तच्च वेद हरिः स्वयम्’ इत्यनेनापि भाष्योक्तपाठ एव सूचितमिति गम्यते । तत्वप्रदीपे भागवतार्थं दर्शयतीत्युक्तेर्भागवतवाक्यं पठतीत्यनुक्तेर्भागवत-कोशस्थपाठ एव प्रामाणिकः । भाष्येतूक्तार्थसङ्गत्या पठनमिति चाहुः ।
न सुरां पिबेदित्यादि निषेधपरवेदस्य भगवदप्रियं न कार्यमित्येवं पर्यवसानेन भगव-त्परत्वमुक्तम् । संप्रति साक्षाद्भगवत्परत्वं च प्रमाणेन दर्शयति सुरेति ॥ सुष्टु रमणमनयेति सुरा भगवद्गुणाः, हरिगुणानां तत्सुखे प्रतिनित्यं प्रयोजकत्वविवक्षयैवमुक्तिः । सुष्टु रमणतया ज्ञातयाऽधिकारिणामिति वा । त एव मे स्युः । स्वतस्तदैक्यादित्यद्वैतानुसारेण वा तदत्यन्तसदृशा मे स्युरिति रामानुजमतानुसारेण वा चिन्तनम् । सुरां पिबत्यात्म-साक्षात्कारं करोतीति व्युत्पत्या सुरापानमिति प्रोक्तम् । कथंचनेत्यनेन प्रसिद्धसुरापानस्य तत्रत्यसुरापाने नास्ति निवृत्तिः । प्रायश्चित्तकरणेऽपि नरकानुभवानन्तरमस्ति पुनरावृत्तिः । प्रकृतेतु न प्रायश्चित्तम् । नापि पुनरावृत्तिरिति सूचयति । ब्राह्मणो न हन्तव्य इत्यत्र ब्राह्मणावहेलनं ग गम्यत इति ‘ब्राह्मणो विष्णुरुद्दिष्टः, तस्य हननं स्वव्यतिरेकेणाभाव-सम्पादनं तथा ज्ञानप्रतिपादनं च । यत्सा ब्रह्महत्या समुद्दिष्टा इत्यादीति । सुष्टु रमणमानंदो यस्येति सुष्टुरमणीय इति वा । सुवर्णस्य हरेः स्तेयो न कार्यः । ब्रह्मस्तेना निरानन्दा इत्यैक्यज्ञाने ब्रह्मस्तेनत्वेनोक्तेः ॥ एवं हरिगुर्वाद्यैक्यमात्मनश्चिन्तनं तद्भार्यागमनरूपगुरुतल्पे पर्यवसन्नमित्याद्यपोहवाक्यार्थो निषेधवाक्यार्थतयेति यावत् ॥ विष्णुर्बुधैर्जनैश्चिन्त्य इत्यर्थः । नान्यो मद्वेद कश्चनेति मूले कश्चन यः कश्चिन्न वेद किं तु तदन्ये सर्वेऽपि जानन्तीति प्रतीतिनिवारणायार्थमाह मदन्य इति ॥ मत्तोऽन्यः कश्चिदपि स्वातन्त्र्येण न वेदेत्यर्थ इति भावः ॥ ४२,४३ ॥
एतावान् सर्ववेदार्थः शब्द आस्थाय माऽभिदाम् ।
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रशाम्यति ॥ ४४ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे एकविंशोऽध्यायः ॥
तात्पर्यम्
अभिदश्च स एव अश्च अभिदास् तम् अभिदां मामास्थाय, मायामात्रं मदिच्छानिर्मितं शरीरादिकम् अनूद्योपासनादिकं विधाय मोक्षरूपेण तच्छरीरादिकं प्रतिषिध्य प्रशाम्यति । ‘सर्वावताररूपेषु निर्भेदत्वाददोषतः । अभिदा विष्णुरुद्दिष्टस्तमेवोक्त्वा तदिच्छया । निर्मितं दैहिकं बन्धं तस्योपासन एव तु । प्रतिषिध्य विमोक्षे तु स्वभावोपास्तिरूपतः । प्रतिशाम्यति वेदोऽयं वासुदेवैकसंश्रय’ इति च । अभिदामास्थ्याय कोऽपि शब्दो मे(ने)ति वा ॥ ४४ ॥
॥ इति एकादशतात्पर्ये एकविंशोऽध्यायः ॥ २१ ॥
पदरत्नावली
न केवलं कतिपयवाक्यार्थः, सर्ववेदार्थोऽप्येवमेवेति भावेनोपसंहरति एतावानिति । कदा नु वेदस्य विश्रम इति तत्राह– शब्द इति । निर्दोषः शब्दो वेदो ऽभिदां मा मामास्थाय सर्वावतारेषु भेदरहितो विष्णुरिति प्रतिष्ठाप्य मायामत्रं मदिच्छोद्बुद्धादृष्टनिर्मितं शरीरादिकं बन्धमनूद्य निरूप्य तस्य प्रतिषेधार्थमुपासनादिकं विधाय अन्ते मोक्षे ज्ञानोदयेन जीवस्य शरीरादिकं प्रतिषिध्य प्रशाम्यति स्तिमितसमुद्रवत् स्वभावोपास्तिरूपेण तिष्ठतीत्यन्वयः । न भिदा यस्य सोऽभिदः, अभिदश्चासौ अश्चेत्याभिदाः, तम् अभिदाम् । अः इति ब्रह्मेति । अनिषेधे पुमान् विष्णाविति यादवः । प्रपञ्चनिषेधो वेदस्यार्थोऽनेनोच्यत इति मतं ‘‘सर्वावताररूपेषु निर्भेदत्वाददोषतः । अभिदा विष्णुरुद्दिष्टस्तमेवोक्त्वा तदिच्छया । निर्मितं दैहिकं बन्धं तस्योपासनयैव तु । प्रतिषिध्य विमोक्षे तु स्वभावोपास्तिरूपतः । प्रतिशाम्यति वेदोऽयं वासुदेवैकसंश्रयः’’ इति समाख्यया निरस्तमिति ज्ञातव्यम् । विद्यात्मनि भिदाबोध इति भेदज्ञानस्य विद्यात्वोक्तेश्च ॥ ४४ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य एकविंशोऽध्यायः ॥
श्रीनिवासतीर्थीया
न केवलमेवं कतिपयवाक्यार्थः किं नाम सर्ववेदार्थोऽप्येता-वानेवेत्याह ॥ एतावानिति । नन्वेतादृशो वेदः कदा विश्राम्यति विधानादिरूपं स्वव्यापारं विहाय केवलभगवत्स्वरूपपरं कदा भवतीति शङ्कायां तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्युक्तेर्जीवानां मोक्षं परब्रह्मस्वरूपं प्रतिपादनेन संपादयित्वा प्रशाम्यति । मुक्तान्प्रति स्व-व्यापारशून्या भवतीत्याशयेनाह ॥ शब्द इति । अत्रान्यथाप्रतीतिपरिहारायाभिदामित्येतन्मा-मित्यस्य विशेषणम् । न च स्त्रीलिङ्गत्वादनुपपत्तिः । तत्त्वानङ्गीकारात् । सोमपाशब्द-वदाकारान्तः पुलिङ्गोऽयं शब्द इत्याशयेन विग्रहं दर्शयन्नन्वयं दर्शयति ॥ अभिदश्चेति ॥ अश्चेति । अकारवाच्यश्चेत्यर्थः । तथा सवर्णदीर्घे अभिदा इति भवति । आस्थाय विषय-तयेत्यर्थः । प्रतिपाद्येति यावत् । मायामात्रमनूद्येत्यादेः स्पष्टं मायावाद्यनुकूलत्वात्तत्परिहाराय व्याचष्टे ॥ मायेति ॥
अनुवादस्य किं कृत्यमित्यत उक्तम् ॥ उपासनेति । भगवदिच्छया स्थूलशरीरेऽधि-कारिणः प्राप्ते सति तं प्रति निदिध्यासितव्य इत्यादिविधिः सम्भवति । सूक्ष्मदेहिनं प्रत्युपासनादिविधानायोगादित्याशयः । अन्ते प्रतिषिध्येत्यस्यार्थमाह ॥ मोक्षेति । यद्देहा-वशिष्टस्योपासनादिकं विहितं तादृशदेहत्याग एव मोक्षो मोक्षे सति देहादिकं निवर्तत इति प्रतिषिध्य मोक्षरूपेण देहादेर्निवृत्तिं ज्ञापयित्वा प्रशाम्यति । मोक्षे प्रलये च मुक्तान्प्रति निर्व्यापारा भवतीत्यर्थः । उक्तार्थे प्रमाणमाह ॥ सर्वेति । अ इत्यस्य व्याख्यानम् ॥ अदोषत इति । तस्य विष्णोरुपासने उपासनार्थं बन्धं चोक्त्वेत्यन्वयः । ननु मुक्तानामपि विष्णूपास्तेः सद्भावादुपासनस्य स्थूलदेहं विनाऽयोगान्मोक्षेऽप्युपासनार्थं मुक्तान्प्रति वेदविधिः प्रवर्तत एवेत्याशङ्कापरिहारायोक्तम् ॥ स्वभावेति । स्वरूपदेहेनैवोपासनाकर्तृत्वस्वरूप-वत्त्वात् । तथा च न बाह्यस्थूलदेहापेक्षयेति भावः । प्रशान्त्यवस्थायां तर्हि वेदस्य निर्विषयत्वापत्तिरित्यत उक्तम् ॥ वासुदेवेति । केवलभगवत्प्रतिपादक इत्यर्थः ॥
तथा चायमर्थः ॥ शब्दो वेदोऽधिकारिजीवान्प्रति अभिदां सर्वावतारेष्वभिन्नं निर्दोषं च मां विषयत्वेनास्थाय प्रतिपाद्यैतादृशस्य ममोपासनाविधानार्थं मायामात्रं भगवदिच्छानिर्मितं स्थूलदेहादिकमनूद्यान्ते उपासनादिद्वारा भगवदपरोक्षज्ञानोत्पत्त्यनन्तरं प्रतिषिध्य देहत्याग एव मोक्ष इत्येवं देहादेर्निवृत्तिं ज्ञापयित्वा मुक्तौ तान्प्रति स्वयं प्रशाम्यति । विधानादिरूपं स्वव्यापारं न करोति । केवलहरिप्रतिपादकतयैव तिष्ठत इति । शब्द आस्थाय माऽभिदा-मित्येतावत एवांशस्य प्रकारान्तरेण योजनां दर्शयति ॥ अभिदामिति । अभेदमित्यर्थः । आस्थाय । तत्प्रतिपादकतयेति यावत् ॥ मेतीति । अमानो नाः प्रतिषेध इति प्रतिषेधा-द्यर्थकोऽयं माशब्दः । नास्तीत्यर्थः ॥ तथा चायमर्थः॥ नन्वेतावान्सर्ववेदार्थ इति सर्वोत्तमो हरिरेव सर्ववेदार्थ इत्युक्तम् । तदयुक्तम् । तत्त्वमसीत्यादावभेदस्यैवोक्तेरित्याशङ्कायामुच्यते ॥ शब्द इति । जीवेश्वरयोरभिधामभेदमास्थाय तत्प्रतिपादकतया विद्यमानः कोऽपि शब्दो मा नास्तीत्यर्थः ॥ तथा चोक्तं युक्तमित्याशयः । मायामात्रमित्यादेस्तूक्तैव योजनेति ॥४४॥
॥ इति श्रीमद्भागवतमूलतात्पर्यविवरणरूपायां श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवास-तीर्थेन रचितायां प्रकाशिकायां टिप्पण्याम् एकादशस्कन्धे एकोनविंशोऽध्यायः ॥ ११–२१ ॥
प्रमेयचन्द्रिका
एवं विध्यादिपरसर्ववेदार्थं प्रदर्श्योपसंहारपरे एतावानिति श्लोके शब्दो वेदः भिदां मा आस्थाय भेदमनङ्गीकृत्यानिर्वचनीयमायामात्रं भेदप्रपञ्चमनूद्यान्ते नेह नानास्तीति प्रतिषिध्य स्वयमपि प्रशाम्यति । बाधितो भवतीत्येतावान् सर्ववेदार्थ इत्यन्यथाभानाद्व्याचष्टे अभिदश्चेत्यादिना ॥ न विद्यते अवतारादिषु भेदो यस्य सोऽभिदः । सर्वदोषविरुद्धोरुगुणपूर्ण-स्वरूपकत्वादिना अकारवाच्यः । अभिधश्चासावश्चेत्यभिदाः । विश्वपा इतिवद्रूपम् । तम् अभिदामित्यर्थ इति भावः ॥ एतच्चास्मच्छब्दस्य मा इत्यस्य विशेषणमिति भावेन तस्याप्यन्वयं दर्शयति मामास्थायेति ॥ मायामात्रमित्येतदनूद्य व्याचष्टे मायेति ॥ मायाशब्द इच्छापरः । महामायेत्यविद्येति इत्युक्तेः । मा निर्माण इति धातोर्मात्रं निर्मितमित्यर्थः । तद्विशेष्यं दर्शयति शरीरादिकमिति ॥ आदिपदेनेन्द्रियादिकं कलत्रापत्यादिकं च गृह्यते । अनूद्येति निगद-व्याख्यानम् (?)। शरीरादिबन्धस्थितिमनूद्येति यावत् । प्रतिषिध्येत्यस्य तात्पर्यमुपासनादिकं विधायेति । मोक्षरूपतत्प्रतिषेधोपायभूतोपासनादेरपि प्रतिषेधपदेन सूचनात् । उपासनादिकं विधायेति मूले शेषोक्तिर्वा । प्रतिषिध्येत्यत्रापि मायामात्रपदमनुवर्तनीयमित्याशयेनोक्तं तच्छरीरादिकमिति ॥ तदिति मायामात्रपदोदितमित्यर्थः । प्रतिषेधश्च न मिथ्यात्व-मित्याशयेनोक्तम् मोक्षरूपेण प्रतिषिध्येति ॥ बन्धनिवृत्याख्यप्रतिषेधरूपमोक्षो भवतीत्युक्तेरिति यावत् । प्रशाम्यतीति निगदव्याख्यानं स्वयं तदधिकारिणं प्रति पुनः प्रयोजनजननाय भवतीत्यर्थः । उक्तार्थस्थापनाय प्रमाणमाह सर्वेति ॥ निर्भेदत्वादित्यभि-धाशब्दार्थः । अकारार्थो अदोषत इति । अशब्दस्य प्रतिषेधार्थकत्वादिहाभावार्थत्वविवक्षया योग्यतया दोषाणां प्रतियोगित्वमभिप्रेत्यादोषत इत्युक्तम् । उपलक्षणमेतत् । दोषविरुद्ध-गुणपूर्णत्वादेश्चाकारवाच्य इति ग्राह्यम् । मामास्थायेत्यस्यार्थस्तमेवोक्त्वेति । मायामात्र-मित्यस्यार्थस्तदिच्छयेत्यादि । दैहिकमिति देहादिकृतमित्यर्थः । प्रतिषिध्येत्यस्य तात्पर्यं तस्येत्यादि । बन्धनिवृत्तये उपासनं विधाय कृतयोपासनया बन्धं प्रतिषिध्य प्रतिषेधो भवती-त्युपपाद्येति यावत् । प्रशाम्यति तमधिकारिणं प्रत्युपरमत इत्यर्थः । ‘यज्ञस्य मात्रां विमिमीत उत्वः’ इत्यादौ मुक्तस्याप्युपासनोच्यते । तत्कथं विमुक्त्यनन्तरं प्रशाम्यतीत्युच्यत इत्यत उक्तं विमोक्षेतु स्वभावोपास्तिरूपतो निमित्तात् प्रशाम्यतीत्युपपन्नमिति । हानौ तूपायन-शब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तिमिति फलितमाह विष्णुपादैकसंश्रय इति । शब्द आस्थाय माऽभिशाम्यतीत्यस्यार्थान्तरमाह अभिदामास्थायेति । जीवेश्वराद्यभेदमवलम्ब्येति यावत् । शब्दो मा इत्यस्यार्थः कोऽपि शब्दो नेति ॥ तत्रैकवचनार्थः कोऽपीति । माशब्दो निषेधार्थ इत्याशयेनोक्तं नेति । वेदे अभेदप्रतिपादकशब्दः कोऽपि नास्तीत्यर्थः ॥ ४४ ॥
**॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां **
श्रीमद्भागवतैकादशतात्पर्यप्रमेयचन्द्रिकायाम् एकविंशोऽध्यायः ॥ २१ ॥