२० विंशोऽध्यायः

विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते

॥ अथ विंशोऽध्यायः ॥

उद्धव उवाच—

विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते ।

अपेक्षतेऽरविन्दाक्ष गुणदोषं च कर्मणाम् ॥ १ ॥

पदरत्नावली

अधिकारिणामनेकविधत्वेन साधनानामपि तथात्वात् केषाञ्चिदन्तर्भावविवक्षया (साधनं) कर्मयोगादिभेदेन त्रिधा विभज्य तत्स्वरूपं कथयत्यस्मिन्नध्याये । तत्र भगवत्प्रिय एव गुणस्तदप्रियो दोष इति भगवदभिप्रायज्ञोऽप्युद्धवो विविच्य ज्ञापनाय पृच्छति विधिश्चेत्यादिना । हे अरविन्दाक्ष ईश्वरस्य ते तव विधिश्च प्रतिषेधश्च विधिनिषेधलक्षणः निगमो वेदः कर्मणां गुणं दोषं वाऽपेक्षते विहितकरणाद् गुणो निषिद्धकरणाद् दोष इति वक्तीत्यर्थः ॥ १ ॥

श्रीनिवासतीर्थीया

भगवद्वाक्याशयमविद्वानुद्धवस्तर्कयति ॥ विधिश्चेत्यादिना ॥ अयं भावः । गुणदोषस्वरूपज्ञानस्य दोषावहत्वं यद्यभिप्रेतं तर्हि वेदस्तावद्विधिनिषेधात्मकतया द्विविधः । तत्र विधिः कर्मणो गुणं सामीचीन्यमपेक्षते । एतादृशाश्रमवताऽस्मिन्देशेऽस्मिन्काले एतदर्थं समीचीनं कर्म कर्तव्यमिति । आश्रमद्रव्यदेशकालादींश्च । निषेधश्च कर्मणो दोषमसामीचीन्यमपेक्षतेऽसमीचीनं कर्म न कर्तव्यमिति । तत्र गुणदोषस्वरूपज्ञानस्य वर्जनीयत्वे प्रतिपाद्याभावप्राप्तेर्विधिनिषेधात्मक-शास्त्रवैयर्थ्यं स्यान्न चैवमतो गुणदोषज्ञानमपेक्षितमिति त्वदुक्तमसदिति तर्कार्थः ॥ अक्षरयोजना त्वित्थम् ॥ विधिश्च प्रतिषेधश्चेत्येवंरूपस्ते त्वत्सम्प्रदायप्राप्तो निगमो वेदो वर्णाश्रमयोर्विकल्पं प्रभेदम् । अपेक्षत इति सर्वत्र सम्बध्यते ॥ १ ॥

प्रमेयचन्द्रिका

अतीताध्यायान्ते अयं गुणोऽयं दोष इति गुणदोषयोर् दर्शनं दोषः, तदुभयवर्जनं गुण इति सामान्यतो भगवता निरूपिते तत्रोद्धवेन प्रश्नः क्रियते ॥ विधिश्च प्रतिषेध-श्चेत्यादिना ॥ विधिश्च प्रतिषेधश्चेति निगमः । विधिनिषेधात्मको वेद ईश्वरस्य तवाज्ञारूपः प्रसिद्धः । स च विधिनिषेधरूपो वेदः गुणत्वादिदं कार्यम् । सदोषत्वादिदमकार्यमिति कर्मणां गुणदोषं चापेक्षते ॥ १ ॥

वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।

द्रव्यदेशवयःकालान् स्वर्गं नरकमेव च ॥ २ ॥

गुणदोषभिदादृष्टिमन्तरेण वचस्तव ।

नैःश्रेयसं कथं नु स्यान्निषेधविधिलक्षणम् ॥ ३ ॥

पदरत्नावली

तदधिकारापादकवर्णाश्रमाणां विकल्पं भेदं च । प्रतिलोमजोऽनधिकारी अनुलोमजोऽधिकारीति प्रतिलोमानुलोमजं च । अत्रापि विशिष्टमातापितृजो विशिष्टाधिकारीति च । धर्मार्जितं द्रव्यं कुरुक्षेत्रादिदेशः जातः पुत्रः कृष्णकेश इत्यादिलक्षणं वयश्च वसन्तादिकालश्चेति द्रव्यदेशवयःकालाः, तान् । तथा पुण्यफलं स्वर्गं पापफलं नरकं च । अपेक्षत इति सर्वत्र योज्यम् ॥ संशयबीजमुत्थापयति गुणेति । तव वचस्तु गुणदोषभिदादृष्टिमन्तरेण वर्तते विहितप्रतिषिद्धकर्मणां गुणदोषभेददर्शनं विहाय गुणदोषयोर्भेदो नास्तीत्येवंविधम् । तच्च निषेधविधिलक्षणं विहित-निषिद्धकरणहेतुकगुणदोषभेददर्शिवेदवचनं कथं नु निःश्रेयसं पुरुषार्थपर्यवसायि स्यात् । तदर्थमेव प्रवृत्तस्य तदनुचितम् ॥ २,३ ॥

श्रीनिवासतीर्थीया

प्रतिलोमानुलोमजमधिकारिणां ब्राह्मण्यां शूद्राज्जातः प्रतिलोमजः स चाण्डालः सोऽनधिकारी । ब्राह्मणाद्ब्राह्मण्यां क्षत्रियस्त्रियां वाऽनुलोमजः सोऽधिकारी । इदं जाति-विवेकग्रन्थे स्पष्टम् । धर्मार्जितं द्रव्यम् । कृष्णमृगसञ्चारयुक्तं देशम् । यत्र देशे मृगः कृष्णस्तत्र धर्मान्निबोधतेति स्मृतेः । कालो वसन्तादिः । पुण्यफलभूतं स्वर्गम् । पापफलभूतं नरकम् ॥

संशयबीजं दर्शयति ॥ गुणेति ॥ एवमुक्तरीत्या वेदो गुणादिकमपेक्षते । त्वदीयं वचनं तु गुणदोषभेदज्ञानमन्तरेणास्ति । अयं गुणोऽयं दोष इति भेदेन तत्स्वरूपज्ञानं दोषावहत्वमित्युच्यते । अतः संशय इत्यर्थः । गुणाद्यनपेक्ष एवास्तु वेद इत्यत आह ॥ गुणेति ॥ गुणदोषभिदादृष्टिमन्तरेण विद्यमानम् । तदनपेक्षमिति यावत् । ते निषेधविधिलक्षणं वचस्त्वत्संप्रदायप्राप्तं विध्याद्यात्मकं वेदवचनं कथं नृणां नैःश्रेयसं मोक्षसाधनं स्यात् ॥ २,३ ॥

प्रमेयचन्द्रिका

तथा तदुपयुक्ततया गुरूपसत्तिब्राह्मणत्वब्रह्मचर्यादिवर्णाश्रमविकल्पं दोषरूपं शूद्रत्वादिविकल्पं च प्रभेदं कीदृशं ब्राह्मणादिकमनुलोमजं गुणरूपम् । तथा किरातहूणांध्रत्वादिकं दोषरूपं प्रतिलोमजधर्मार्जिताधर्मार्जितत्वेन गुणदोषरूपं द्रव्यभेदं पुण्यदेशकालभेदं बाल्ययौवनादि-वयोविशेषं स्वर्गादिफलभेदं चेत्यादिगुणदोषं चापेक्ष्यते । ततो गुणदोषदर्शनमावश्यकमिति प्राप्तम् । तव वाक्यं तु गुणदोषदृशिर्दोष इति गुणदोषप्रभेददृष्टिं विनैव प्रवृत्तम् । तथा च त्वादज्ञारूपविधिनिषेधात्मकं वेदवाक्यम् इदानींतनत्वदीयोक्तिविरुद्धम् अतः कथं निःश्रेयससाधनं प्रमाणं च स्यात् ॥ २,३ ॥

पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर ।

श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥

पदरत्नावली

कुतोऽत्राह– पितृदेवेति । हे ईश्वर तव वेदो ऽनुपलब्धेऽर्थे अप्रत्यक्षेश्वर-धर्मादिविषये साध्ये सुखादौ साधने कर्मादावपि पित्रादीनां श्रेयश् चक्षुर् दिव्यमेव चक्षुरित्यन्वयः

॥ ४ ॥

श्रीनिवासतीर्थीया

कुतो निःश्रेयःसाधनत्वं वेदस्येत्यत आह ॥ पित्रिति ॥ हे ईश्वर । तव वेदोऽनुपलब्धेऽर्थेऽप्रत्यक्षेश्वरधर्मादिविषये साध्यसाधनविषययोः साध्ये सुखादौ विषये, साधने कर्मादौ विषये श्रेयो दिव्यं चक्षुर्ज्ञानसाधनमतो वेदस्य तद्वारा युक्तं नैःश्रेयसत्वमिति भावः ॥ ४ ॥

दुर्घटभावदीपिका

हे ईश्वर । पितृदेवमनुष्याणां तु विशेषतोऽनुपलब्धेः । प्रत्यक्षायोग्य इति यावत् । अर्थे ईश्वरादिरूपेऽर्थे साध्यसाधनयोरप्यनुपलब्धानामीश्वरादीनां मध्ये मोक्षादीनां साध्यत्वे ईश्वरादीनां साधनत्वे च तव वेदः श्रेयः श्रेष्ठम् । निर्दुष्टमिति चक्षुरिति यावत् । एतेनानुपलब्धेऽर्थ इत्यनेनैव मोक्षादिरूपसाध्यानामीश्वरादिरूपसाधनानां च प्राप्तत्वात्साध्यसाधनयोरपीत्येतद्व्यर्थमिति दूषणस्यानवकाशः । साध्यसाधनयोरित्यस्य भावप्रधानत्वमङ्गीकृत्य मोक्षादीनां साध्यत्वे ईश्वरादीनां साधनत्व इत्यर्थस्योक्तत्वात् ॥ ४ ॥

प्रमेयचन्द्रिका

ननु साक्षादस्मदुक्तिविरुद्धं वेदवाक्यं भवतु अनिःश्रेयःसाधनमप्रमाणं चेत्यत उक्तम् ॥ पितृदेवेति ॥ देवर्षिपितृपनरा इति प्रभेदभिन्नाशेषमोक्षयोग्यानां प्रत्यक्षानुपलब्धेर्निखिल-गुणपरिपूर्णे स्वतन्त्रतत्वे चित्प्रकृत्याद्यस्वरूपस्वतन्त्ररूपेऽर्थे च मोक्षस्वर्गादिरूपसाध्ये ज्ञानकर्मादि-रूपसाधने च तवाधीनो वेदः श्रेय उत्तमं चक्षुश्चक्षुरिव चक्षुर्ज्ञानकारणम् । अतः प्रमाणतममिति शेषः । तस्याप्रामाण्ये सर्वविप्लवापत्तिः स्यादित्यर्थः ॥ ४ ॥

गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः ।

नियमेनापवादश्च भिदाया इति हि भ्रमः ॥ ५ ॥

पदरत्नावली

लौकिकं पूर्वपक्षमुपसंहरति गुणेति । यतो वेद उत्तमं चक्षुस्तेन कारणेन नियमाद् गुणदोषभेददृष्टिः स्वतो हि स्वाभाविक्येव । ननु तर्हीत्थं निश्चितवतस्तव किमिति भ्रम इति तत्राह– नियमेनेति । चशब्द एवार्थे । भवता भिदाया गुणदोषयोर्भेदस्य नियमेनैवापवादो ऽभाव उच्यते इति यस्मात् तस्माद् भ्रमः सञ्जात इत्यतो निश्चयं भवन्तं पृच्छामीति भावः । ‘‘स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः । अन्यत् सर्वं तत्प्रियत्वाद् गुणो दोषस्तथाऽप्रियम् । एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति । कालदेशविशेषेषु प्रीतिभेदमपेक्ष्य तु । अविज्ञानवतस्तस्य मर्यादा वेदतः कृता । गुणदोषभिदा नास्ति भगवत्प्रियमन्तरा । गुणदोषदृशेर्दोषो ह्यन्यत्र भगव-त्प्रियात् । गुणाश्च दोषतामीयुर्दोषाश्च गुणतां क्वचित् । अतो दोषो न दोषः स्यान्न गुणोपि गुणो भवेत् । भगवत्प्रीतिविज्ञानाद् गुणदोषभिदां यदि । पश्येत् तत्तु गुणायैव विपर्यासं न कारयेत् । गुणदोषभिदा क्वापि स्वातन्त्र्येण न तु क्वचित्’’ इत्यनेनास्य तात्पर्यार्थो विज्ञायते । यद्वा गुणदोषभिदादृष्टिर् नियमात् ते तव मते स्वतो न हि प्रत्युत गुणदोषभिदाया अपवादोपि, अतो भ्रम इति ॥ ५ ॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ गुणेति ॥ यतो वेद उत्तमं चक्षुस्तेन कारणेनाधिकारिणो बोधयितुं गुणदोषभिदा दृष्टिर्नियमान्नियमेन स्वतः स्वभावत एव वेदेनापेक्ष्यते । तर्हि वः संशयः कुत इत्यतो विप्रतिपत्तेरित्याह ॥ नियमेनेति ॥ त्वया च भिदाया गुणदोषभिदाज्ञानस्य नियमेनैवापवादो निराकरणं गुणस्तूभयवर्जनमित्यनेन कृतमिति हेतोर्विप्रतिपत्त्या मे भ्रमो मम मनसो भ्रामणं संशयो भवतीत्यर्थः ॥ ५ ॥

प्रमेयचन्द्रिका

अस्तु गुणदोषप्रभेददृष्टेरावश्यकत्वं ततः किमित्यत आह ॥ गुणदोषेति ॥ सा च गुणदोषभिदादृष्टिस्ते आज्ञारूपान्नियमादेव स्वतो न हि । इदानीं गुणदोषस्य भिदाया नियमेनापवादश्च त्वयाऽऽकृष्यते इति त्वदीयप्रमाणतमवाक्यद्वयस्य विरोधाद्धेतोर् मे भ्रमः संशयो जायते । तमेतं संशयं परिहरेति शेषः ॥ ५ ॥

श्रीभगवानुवाच—

योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।

ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥

तात्पर्यम्

‘स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः । अन्यत्सर्वं तत्प्रिय-त्वाद्गुणो दोषस्तथाऽप्रियम् । एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति । कालदेशविशेषेषु प्रीतिभेदमवेक्ष्य तु । अविज्ञानवतस्तस्य मर्यादा वेदतः कृता । गुणदोषभिदा नास्ति भगवत्प्रियमन्तरा । गुणदोषदृशेर्दोषो ह्यन्यत्र भगवत्प्रियात् । गुणाश्च दो(यद्दो)षतामीयु-र्दोषाश्च गुणतां क्वचित् । अतो दोषो न दोषः स्यान्न । गुणोऽपि गुणो भवेत् । भगव-त्प्रीतिविज्ञानाद्गुणदोषभिदां यदि । पश्येत्तत्तु गुणायैव विपर्यासं न कारयेत् । गुणदोषभिदा क्वापि स्वातन्त्र्येण न हि क्वचिदि’ति ब्रह्मनये ॥ स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तूनाम् । दोषोऽथ गुण एव स्याद्भगवत्प्रीतितो गुणः । दोषस्तु तद्वैपरीत्यादिति दृष्ट्या भवेद्गुणः । कालदेशविशेषेण प्रीत्यज्ञानाज्जगत्स्थितेः । मर्यादा गुणदोषाणां कृता वेदेषु सर्वशः परायणे ॥ एतदेवोच्यते । ‘स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निर्णय’ इति च ॥ ६ ॥

पदरत्नावली

गुणदोषयोर्विहिताविहितकर्मानुष्ठानपरिनिष्ठितत्वं वेदो वक्तीति यदवादि स तात्पर्यार्थो न किन्तु मत्प्रियाप्रियविवेकाज्ञानपरिनिष्ठाविषयः । ‘‘स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तुतः । दोषोपि गुण एव स्याद् भगवत्प्रीतितो गुणः । दोषस्तु तद्वैपरीत्यादिति दृष्ट्या भवेद् गुणः । कालदेशविशेषेण प्रीत्यज्ञानाज्जगत्स्थितेः । मर्यादा गुणदोषाणां कृता वेदेषु सर्वशः’’ इत्येतदेव ‘‘स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः’’ इत्यादिना वक्ष्यते । अतो विहिताद्यनुष्ठापरिनिष्ठितत्वेन गुणदोषभेदनियमोक्तिर्मत्प्रियादिविवेकाज्ञान-विषयेति भावेन भगवानुद्धवप्रश्नं परिहरिष्यन् त्रित्वेन क्रोडीकृत्य मुक्त्युपायानाह– योगास्त्रय इति । योगा उपायाः । नृणाम् अर्थी समर्थो विद्वानिति गुणविशिष्टानाम्, नृ नय इति धातोः । तान् निर्दिशति ज्ञानमिति । अन्ययोगं व्यवच्छिनत्ति नेति ॥ ६ ॥

श्रीनिवासतीर्थीया

एवमुद्धवेन तर्किते योगास्त्रय इत्यादिना कथमसम्बद्धं कथ्यत इति चेदुच्यते ॥ योगास्त्रय इत्यादिना आशयोद्घाटनेन परिहारः क्रियते । हे उद्धव । गुणदृशिर्दोष इति मदुक्तस्याभिप्रायमज्ञात्वा त्वया तर्कितमिति । भगवदुक्तस्य कोऽभिप्राय इत्यतः प्रमाणेन तदभिप्रायं भगवानाचार्यो दर्शयति ॥ स्वत इत्यादिना ॥ अयमभिप्रायः । अधिकारिण उत्तमास्तदतिरिक्ताश्चेति द्विविधाः । तत्र गुणदोषदृशिर्दोष इत्यस्य वेदविहित एव गुण इति ज्ञात्वा तत्कर्तव्यम् । वेदनिषिद्ध एव दोष इति ज्ञात्वा तत्परित्याज्यमित्येवं गुणदोषस्वरूपदृशिर्दोषावह एव । कुत इति चेत् । वेदविहितस्यापि भगवदप्रीतिसाधनत्वे दोषवत्त्वदर्शनात् । यथा सत्यपूतं वदेद्वाक्यमिति वेदविहितत्वेऽपि तस्मिन्सत्यवचन एव रतः कौशिकाख्यो ब्राह्मणो हि लीनं ग्रामजनं क्वचित्तस्करेष्वभिधायैव निरयं प्रत्यपद्यत । तथा सत्यभाषणपरायणो धर्मराजोऽश्वत्थामा हत इति वक्तव्यमिति कृष्णेनोक्तस्तथोक्त-वाऽप्युपांशु कुञ्जर इत्याह । ततः कृष्णवाक्येऽविश्वासेन किञ्चिद्दुःखमनुभूतम् । तथा वेदनिषिद्धं दोषत्वेन ज्ञात्वा तत्परित्यागो न कर्तव्यः । वेदनिषिद्धस्यापि भगवत्प्रीतिसाधनत्वे गुणत्वदर्शनात् । यथा ब्राह्मणो न हन्तव्य इति ब्राह्मणहननस्य निषिद्धत्वेऽपि वृत्रासुरवधस्य भगवत्प्रीतिसाधनत्वे गुणत्वदर्शनात् । यथोक्तं गीताभाष्ये ॥ वृत्रहत्याद्यपि तस्य गुण एव तस्य न लोम च मीयत इति श्रुतेरिति ॥ इन्द्रौ वै वृत्रं हत्वा महानभवदिति च श्रुतेः । यथा वाऽग्रजविवाहात्पूर्वमनुज-विवाहस्य निषिद्धत्वेन हिडिम्बया प्रयुक्ते भीमो व्यासवाक्यात्तां परिजग्राह । तस्माद्देशकालवयोऽ-वस्थादिकमनपेक्ष्य भगवत्प्रीतिकर एव गुणस्तदप्रीतिकर एव दोष इत्युत्तमज्ञानिनो गुणदोषस्वरूपं जानन्ति । अज्ञस्य त्वेवमविजानतो देशादिकमपेक्ष्य वेदविहितो गुणस्तन्निषिद्धो दोष इति वेदतो मर्यादा कृता । अतो वेदविहितमात्रं गुणस्तन्निषिद्धमात्रं दोष इत्येव गुणदोषस्वरूपज्ञानमुत्तमज्ञानिनां दोषावहं न त्वज्ञानामिति ममाभिप्रायः । त्वं त्विममभिप्रायमज्ञात्वा गुणदोषवर्जनमात्रमभिहितमिति मत्वा तत्सापेक्षविधिनिषेधात्मकशास्त्रवैयर्थ्यं तर्कितमिति छलेन निग्रहस्तवेति । ज्ञानिनं प्रत्येवमापादने इष्टापत्तिरिति हृदयम् ॥

प्रमाणाक्षरार्थस्तु ॥ स्वत इत्यादि स्वरूपकथनम् । अन्यत्सर्वं विष्णुव्यतिरिक्तं देशादि भगवत्प्रियत्वाद्गुण इत्यर्थः । तथा विष्णोरप्रियं दोष इत्यर्थः । ज्ञानवतामुत्तमज्ञानिनामेवं दृष्टिर्दर्शनमुत्तमज्ञानिन इत्थं जानन्तीत्यर्थः । देशादिकं विहाय वेदविहितमस्त्वविहितं वाऽस्तु परं विष्णुप्रीत्यप्रीतिकरावेव गुणदोषाविति तन्मतमिति भावः । अविज्ञानवतोऽज्ञानिनः कालदेशविशेषेषु विष्णोः प्रीतिभेदं प्रीतिविशेषम् । उपलक्षणम् । अप्रीतिविशेषं चावेक्ष्य वेदतो मर्यादा कृता । अस्मिन्देशे काले च विष्णोः प्रीत्यर्थं वेदविहितो गुणस्तन्निषिद्धो दोष इति तदेव कार्यम् । नान्यदित्यज्ञानिना वेदविहितं हरिप्रीत्यर्थमेव देशादिविशेषे कर्तव्यम् । ज्ञानिना तु भगवत्प्रियमेव कर्तव्यम् । तदप्रियं त्याज्यं तद्वेदविहितं वाऽस्तु निषिद्धं वास्तु वेदापेक्षयैव नास्तीत्याशयः । अतो ज्ञानवतो भगवत्प्रियं भगवदप्रियं चान्तरा विहाय गुणदोषभिदा तत्स्वरूपभेदज्ञानं नास्ति तत्स्वरूपं न जानन्तीत्यर्थः । गुणदोषदृशिर्दोष इत्यस्य भावमाह ॥ गुणेति ॥ ज्ञानिनो भगवत्प्रियादप्रियाच्च प्रियत्वाप्रियत्वाभ्यामन्यत्र वेदविहितो गुणस्तद्विरुद्धो दोष इति गुणदोषस्वरूपदृशेर्ज्ञानात्तद्दोषः प्रत्यवायः । कुत एवमित्यत आह ॥ गुणाश्चेति ॥ गुणाः सत्यवचनाद्या वेदविहिता दोषताम् ईयुर् भगवदप्रीतिहेतुत्वे, दोषा वेदनिषिद्धा वृत्रहत्याद्या गुणतामीयुर् भगवत्प्रियत्व इत्यर्थः । दोषो वृत्रहत्यादिर्भगवत्प्रियत्वे न दोषः स्यात् । गुणः सत्यवचनादिर्गुणो न भवेद् भगवदप्रियत्वे प्रीतिविज्ञानादप्रीतिज्ञानाच्च गुणदोषभिदां यदि पश्येत्तर्हि तद्दर्शनं गुणाय शुभाय भवति । विपर्यासं भगवदप्रीतिकरो गुणः प्रीतिकरो दोष इति । उपसंहरति ॥ गुणेति ॥ स्वातन्त्र्येण भगवत्प्रीत्यप्रीतिमन्तरा वेदविहितमात्रं गुणस्तन्निषेधो दोष इत्येवंरूपेणेत्यर्थः । न हि ज्ञेया दोषावहत्वादित्याशयः । प्रमाणान्तरमाह ॥ स्वतस्त्विति ॥ वस्तूनां सत्यवचनवृत्रवधादीनां स्वतः स्वातन्त्र्येण भगवत्प्रीतिमन्तरा भेदेन वेदविहितत्वादिमात्रेण गुणदोषत्वदृशेर्ज्ञानाद्दोषो भवति । अथ भगवत्प्रीतितो दोषो गुण एव स्यात् । तद्वैपरीत्यात् । तदप्रीतितो गुणोऽपि दोष एव स्यादिति योज्यम् । इति दृष्ट्या एवं ज्ञानेन गुणः शुभः पुरुषार्थो भवतीत्यर्थः । तर्हि वेदविहितो गुणस्तन्निषिद्धो दोष इति कथमित्यत आह ॥ कालेति ॥ देशकालविशेषेषु प्रीत्यज्ञानादस्मिन्देशे काले इदं भगवत्प्रियमिदमप्रियमिति ज्ञानस्याज्ञानिनोऽभावाज्जगत्स्थितेर्हेतोर्जगतः प्रवृत्याद्यर्थं सर्वशः सर्वत्र वेदेषु गुणदोषाणां वेदविहितो गुणस्तन्निषिद्धो दोष इति मर्यादा कृतेत्यर्थः ।

एवं भगवद्वाक्याभिप्रायत्वे एतदाशयप्रकटनं मूले न दृश्यते । अतो योगास्त्रय इत्याद्यसङ्गतमेवेत्यत आह ॥ एतदेवेति ॥ अस्माभिः प्रमाणेनोपपादितमित्यर्थः । इति मूले उच्यत इत्यन्वयः । अयमधिकारस्तुभ्यं दत्तोऽयं तवानधिकार इति भगवता दत्तत्वेन तदाज्ञारूपतया तत्प्रीतिहेतुभूते स्वे स्वे स्वकीये स्वकीयेऽधिकारे भगवदाज्ञया निष्ठा स्थितिः स गुणो भगवत्प्रीतिकरत्वात् । विपर्ययोऽनधिकारे स्थितिर्दोषः स्याद्भगवदप्रीतिसाधनत्वादित्येवं गुणदोषस्वरूपयोर्निर्णयः । न तु वेदविहितो गुणस्तद्विरुद्धो दोष इति । तत्र कस्य कोऽधिकारः कश्चानधिकारो ययोर्निष्ठौ गुणदोषावित्यतो योगास्त्रय इत्यादिना तत्पूर्वग्रन्थेनाधिकारादिकं निरूप्यत इति नासङ्गतिस्तस्येति भावः । योगा मोक्षसाधनोपाया नृणां मोक्षयोग्यानाम् । तानि दर्शयति ॥ ज्ञानमिति ॥ अन्यो ज्ञानादन्यः ॥ ६ ॥

प्रमेयचन्द्रिका

परिहरति ॥ योगा इति ॥ ननु गुणदोषभिदादृष्टेरावश्यकप्रतिपादकस्य त्वदाज्ञारूपवेदवचनस्य गुणदोषदृशिर्दोष इतीदानींतनवचनस्य परस्परं विरोध इति आशङ्किते, तत्रोत्तरमनुक्त्वा योगास्त्रय इति अधिकारित्रैविध्यकथनमसङ्गतमित्यतः स्वे स्वेऽधिकारे या निष्टेत्यादिना परिहारं वक्ष्यन्नुपोद्घातरूपेणात्राधिकारत्रैविध्योक्तिरित्याशयवानस्य वक्ष्यमाणपरिहारोपयोगित्वप्रदर्शनाय पूर्वाध्यायान्तोक्तस्य गुणदोषदृशिर्दोष इति भगवद्वाक्यस्याभिप्रायं व्यञ्जयन् स्वे स्वेऽधिकार इति ग्रन्थतात्पर्यं च प्रामाणेनाह ॥ स्वतः सर्वगुणात्मेत्यादिना ॥ तुरवधारणे । एक एवेति सम्बन्धः । सनातनः शश्वदेकप्रकारः । न तु पराधीनविशेषावाप्त्यादिमानिति स्वतः सर्वगुणात्मेत्यत्र हेतुसूचकं विशेषणम् । भगवतोऽन्यत्सर्वं तत्र भगवत्प्रियत्वमेव गुणस् तदप्रियत्वमेव विशेषः । तथाशब्दोऽ-वधारणे । गुणविशेषयोः समुच्चये वा । अत्र सर्वगुणदोषशब्दौ शुभवचनौ ॥ ननु भगवत्प्रियत्वा-प्रियत्वाभ्यामेव गुणदोषव्यवस्था चेद्देशकालवर्णाश्रमादिभेदेन गुणदोषव्यवस्थापनं वेदे क्रियमाणमयुक्तं स्यादित्यत आह ॥ एवमिति ॥ विशिष्टज्ञानवत उत्तमाधिकारिण एवं भगवत्प्रियत्वादयं गुणस्तद-प्रियत्वादयं दोषदृष्टिर्भवति । अतो महाज्ञानरहितस्तु तत्प्रियत्वाप्रियत्वनिमित्तकं गुणदोषादिविशेषणं नावगच्छति । यस्मात्तस्मादविज्ञानवतः स्वतो भगवत्प्रियत्वादिज्ञानरहितस्य पुरुषस्यार्थविशेषेषु । उपलक्षणमेतत् । वर्णाश्रमादिविशेषेषु च भगवत्प्रीत्यप्रीति भावाभावरूपं भेदमपेक्ष्यायं महानदी-तीरादिदेशो गुणः कीकटादिदेश इति शुभाशुभदेशकालादिमर्यादा विधिनिषेधात्मकवेदतः कृतेत्यर्थः । वस्तुतो भगवत्प्रियत्वाप्रियत्वाभ्यामेव गुणदोषव्यवस्था । तथाऽपीदं भगवत्प्रियमिदमप्रियमिति विशेषापरिज्ञातॄणां स्थूलमतीनां तत्प्रतिपत्तये विध्यादिपरशास्त्रेण गुणदोषनिरूपणं कृतमिति भावः ॥

अस्त्वेवं ततः किमित्यत आह ॥ गुणेति ॥ यत एवं भगवत्प्रियत्वमप्रियत्वं चान्तरा विना गुणदोषभिदा नास्ति । अतो भगवत्प्रियादप्रियाच्चेति ग्राह्यम् । अन्यत्र भगवत्प्रियत्वाप्रियत्वे विनेति यावत् । वर्णाश्रमादिस्वाभाव्यादेव गुणदोषदृशेर्दोषः । वेत्तुः प्रत्यवायकरमित्यर्थः । एतेन गुणदोषदृशिर्दोष इति प्राचीनमूलमुक्तार्थं ज्ञेयम् ॥ ननु कुतो भगवत्प्रियत्वाद्यधीनं गुणादेः । श्रुतौ विहितो गुणः निषिद्धो दोष इत्येव किं नोच्यत इत्यत आह ॥ गुणा यदिति ॥ यस्मात्क्वचिदिति विहिततया गुणा गुणत्वेनाभिमता अपि दोषतामीयुः । यथाऽश्वत्थामो हत इत्युक्त्वा उपांशु कुंजर इति सत्यभाषणादयः । प्रत्यक्षभगवदाज्ञाविरुद्धत्वेन तदप्रियत्वात् । क्वचिद्दोषाश्च गुणतामीयुः । यथा ब्रह्महत्यारूपा अपि वृत्रहत्यादयो यथेन्द्रस्य जाता धर्माभिवृद्धये । यथा च पितामहादि-रूपभीष्मादिवधो नारायणद्विट्तदनुबन्धिनिग्रहरूपतया भगवत्प्रियत्वाद् गुणः । अतस्तस्माद्वेदे दोषत्वेनोक्तोऽपि नियमेन न दोषः स्यात् । गुणत्वेनोक्तोऽपि गुणो न भवेदित्यर्थः ॥

अथेदानीं गुणस्तूभयवर्जनमित्यस्याभिप्रेतमर्थं दर्शयति ॥ भगवदिति ॥ प्रीतिविज्ञाना-दित्युपलक्षणम् । अप्रीतिविज्ञानाच्चेति ग्राह्यम् । तत्तर्हि तत्तु भगवतः प्रियत्वादयं गुणो ऽप्रियत्वादयं दोष इति वेदनं गुणायैव वेत्तुः शुभायैव भवेत् । विपर्यासमेतद्व्यत्यासं वेदविहितत्वादिमात्रेण गुणत्वादिबुद्धिमिति यावत् । न कारयेन्न कुर्यादित्यर्थः । तदुपपादयति ॥ गुणदोषेति ॥ हि यस्मात्कारणात्क्वापि वर्णाश्रमद्रव्यदेशकालादौ स्वातन्त्र्येण भगवत्प्रीत्यप्रीती विहाय केवलं विहितत्वादिरूपस्वातन्त्र्येण गुणदोषभिदा क्वचिदपि नास्ति । तस्माद्व्यत्यासं न कारयेदित्यन्वयः । एतेन उभयवर्जनं भगवत्प्रीत्यप्रीती विना स्वत एव अयं गुणोऽयं दोष इत्येवंविधोभयविधबुद्धिवर्जनं गुण इति मूलाभिप्राय उक्तो भवति ॥ उक्ते एवार्थे दार्ढ्याय प्रमाणान्तरमाह ॥ स्वतस्त्विति ॥ वस्तूनां स्वतो भगवत्प्रीतिमनपेक्ष्य स्वभावत एव प्राप्तभेदेनैव गुणदोषत्वप्रकारिका दृशिर् दोषः । ज्ञातुर्दोषापादिका । दोषः दोषरूपेति वा । अथ किन्तु यो गुणः स भगवत्प्रीतित एव गुणः स्यान्न तु स्वतः यो यो दोषस्तत्तद्वैपरीत्यादेव दोषः न स्वत इति दृष्ट्या एवं ज्ञानेन गुणो भवेत् । एवंज्ञातुः शुभं भवेदित्यर्थः । अथवा अथेत्यत्र दोष इत्यनुवर्तते । दोषोऽपि क्वचिद्भगवत्प्रीतितो गुण एव स्यात् । गुणोऽपि भगवत्प्रीतिवैपरीत्याद् दोषः । न स्वत एव स्यादिति दृष्ट्या भवेद्गुण इति पूर्ववत् । तर्हि विध्यादिपरवेदभागस्य का गतिरित्यत उक्तम् ॥ कालेति ॥ प्रीत्यज्ञाना-दित्युपलक्षणम् । अप्रीत्यज्ञानादिति ग्राह्यम् । स्थूलमतीनामिदं भगवत्प्रियमिदमप्रियमित्यादि विशेषेण सर्वशः सर्वेषु विधिनिषेधपरेषु वेदेषु कृतेत्यर्थः । एवं प्रमाणद्वयेन गुणदोषदृशिरिति भगवद्-(भागवत)वचनस्याभिप्रायमुपोद्घातस्योपयोगं च दर्शयति । भगवतोक्तपरिहाराभिप्रायो विवृतः । तमेतं मूलारूढं करोति ॥ एतदेवेति ॥ यदस्माभिः प्रमाणोदाहरणेन निरूपितमेतदेव स्वे स्वेऽधिकार इति मूलेनोच्यत इत्यर्थः ।

अयमाशयः ॥ भक्तिज्ञानकर्मभेदेन योगा उपायास्त्रिविधाः । तत्तत्प्राचुर्यानुरोधेनाधिकारिणोऽप्युत्तम-मध्यमाधमभेदेन त्रिविधाः । तत्र तावदुत्तमानां देवानां न विध्यादिना ज्ञापितकालदेशादिस्वाभाव्येन गुणदोषदृशिः किन्तु स्वप्रतिभाधिक्येन व्युत्क्रमेणावगतभगवद्गतगुणानुसारेण वेदार्थवेतॄणां तेषामिदं भगवतः प्रीतिविषयमिदमप्रीतिविषयमिति प्रतिभाबलेनैवाकलय्य तदनुसारेण गुणदोषदृशिस् ततश्च तत एव गुणदोषयोः प्रवृत्तिनिवृत्योरुपपत्तेः । न तावत्प्रतिविध्यादिपरा वेदप्रवृत्तिः । यद्यपि तदुपरीति सूत्रोक्तरीत्याऽधिकारो विद्यते । तथापि साक्षाद्भगवत्प्रीतिविषयत्वादिज्ञानेनैव चरन्ति यदेवाविहितं समस्तं त्यजन्ति निषिद्धम् । न तु विधिविनिषेधचकिततया अत उत्तमाधिकार्यपैक्षया विध्यादिपरवेदस्य गुणदोषदृशिर्दोष इत्युद्धवं प्रत्युक्ते भगवद्वचनस्य विरोधः । विध्यादिपरवेदस्य तान्प्रत्यप्रवृत्तेः । ये च मध्यमाधिकारिणः प्रतिभया प्रायेण वस्तुषु भगवत्प्रियत्वादिकं न जानन्ति । तदपेक्षया तथा अत्यल्पप्रतिभायुक्ताधमाधिकार्यपेक्षया च गुणदोषयोः प्रवृत्तिनिवृत्तिसिद्धये यद्यद्भगवत्प्रियं तत्तद्गुणः यद्यदप्रियं तत्तद्दोष इत्याशयेन प्रियत्वज्ञापनाय सन्ध्यामुपासीत सत्यं वदेत्यादिविधिपरस्याप्रियत्व-ज्ञापनाय न सुरां पिबेदित्यादिनिषेधपरस्य वेदजातस्य भगवद्ज्ञानरूपस्य प्रवृत्तिः । उद्धवं प्रति तु भगवत्प्रियत्वादिकमंतरा वेदोक्तत्वमात्रेण वस्तुस्वाभाव्याद्गुणदोषदृशिर्दोष इत्याद्युच्यते । तथा चार्थत एकरूपत्वान्न विरोध इत्येवमधिकारित्रैविध्यरूपोपोद्घातपूर्वपरिहार उच्यत इति ॥

स्वे स्वेऽधिकार इति मूलस्यायमर्थः ॥ त्रिविधानामेषामधिकारिणां स्वे स्वे स्वसम्बन्धिनि भक्त्यादिप्राचुर्यरूपे अधिकार इदं भगवतः प्रियतमम् इदं मया कार्यमिदमप्रियमतो न कार्यमित्येवं केवलस्वप्रतिभयैव निष्ठा निश्चयः । तथा इदं भगवतः प्रियं वेदविहितत्वात् । न हि दुःखप्रहाणाय परमाप्तो बन्धुरिव प्रवृत्तो वेदो भगवदप्रियं विधत्ते, इदं च तस्याप्रियम् । निषिद्धत्वात् । न हि भगवतः प्रियं निषेधति वेद इत्येवं या निष्ठा स गुणः शुभ इति सम्प्रकीर्तितो वेदादौ । उक्तार्थ-दार्ढ्यायोपसर्गद्वयम् । विपर्ययस्तु भगवत्प्रियत्वादिकमन्तरा वेदविहितत्वादिमात्रस्वभावतो गुणदोषज्ञानरूपो विपर्ययस्तु दोषानर्थहेतुरित्युभयोर्गुणदोषयोर्निर्णय इति ॥ ६ ॥

निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।

तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥ ७ ॥

पदरत्नावली

तत्र ज्ञानयोगाधिकारिण आह– निर्विण्णानामिति । इह कर्मसु निर्विण्णानां न्यासिनाम्, सनकादीनामिति शेषः । ‘‘सनकाद्या ज्ञानभोगा भक्तियोगास्तु देवताः । मानुषाः कर्मयोगाश्च त्रिधैते योगिनः स्मृताः । सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः । तथापि तु विशेषेण स तेषामभिधीयते’’ इति वचनमत्र मानम् । ज्ञानादिगुणानां त्रिषु सत्वेऽपि सामान्यविशेषविवक्षया विभागो युज्यते प्रमाणानां सत्वात् । कर्मयोगाधिकारिण आह– तेष्विति । ज्ञानभक्तियोगिनोऽपेक्ष्य ज्ञानभक्त्योरल्पत्वात् कर्मयोगिन इति ॥ ७ ॥

श्रीनिवासतीर्थीया

ज्ञानयोगाधिकारिणमाह ॥ निर्विण्णानामिति ॥ इह जगति कर्मसु कर्मकरणविषये निर्विण्णानां न्यासिनां ज्ञानयोगो ज्ञानयोगाधिकारः । कर्माधिकारिणमाह ॥ तेष्विति ॥ कर्मस्वित्यर्थः । अवैराग्यचित्तयुक्तानां कर्मिणां कर्मयोगाधिकारः ॥ ७ ॥

प्रमेयचन्द्रिका

प्रकृतमूले नृणामित्यधमाधिकारिण उच्यन्ते ॥ तेष्विति ॥ ७ ॥

यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।

न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य मुक्तिदः ॥ ८ ॥

तात्पर्यम्

‘सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः । मानुषाः कर्मयोगास्तु त्रिधैते योगिनः स्मृताः । सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः । तथापि तु विशेषेण स स (स । सर्वेषां) (सदा) तेषां विधीयते ॥ ‘भगवद्गुणानुसारेण वेदार्थो नीयते हि यैः । भक्तियोगास्तु ते प्रोक्तास्तादृशा हि सुराः सदा । अङ्गानुसारि वेदार्थं ज्ञात्वा तदनु-सारतः । भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः । कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः । विज्ञाता यैर्गुणा विष्णोर्ज्ञेयास्ते कर्मयोगिनः । भक्तिर्ज्ञानं च किञ्चित्तु पश्चात्तेष्वपि जायते । तथापि ते कर्मयोगाः कर्मपूर्वत्वकारणात् । भगवद्गुणानु-रागित्वमधिकं भक्तियोगिनाम् । तस्मात्तेऽभ्यधिका ह्येषु देवा एव विशेषतः । ईषद्वैराग्य-मल्पं तु पूर्वं देवेषु जायते । पश्चाद्विरागोऽभ्यधिको देवानां नात्र संशयः । ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च । विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम् । ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः । न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन । देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम् । तथापि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः । त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः । महायोगेश्वरेशेशस्तस्माद्ब्रह्मा चतुर्मुख’ इति त्रियोगे ॥ ८ ॥

पदरत्नावली

भक्तियोगाधिकारिण आह– यदृच्छयेति । तुशब्दो विशेषं सूचयति । यः पुमानिति जातावेकवचनम् । यदृच्छया स्वादृष्टोद्बोधितभगवदिच्छया जातश्रद्धा मत्कथादौ विशिष्ट-श्रद्धावन्तः । न निर्विण्णा नित्योत्पन्नसंसारासारज्ञानत्वान्न कादाचित्कनिर्वेदाः । नातिसक्ता नित्य-सम्पूर्णभोगत्वान्न कादाचित्कविषयाः । नातिसक्ता ये पुरुषा अस्य एषां भक्तियोगो मुख्यभक्तित्वा-न्मुख्यसिद्धिद इत्यन्वयः । उक्तमेतल्लक्षणं देवानामेवेति देवा एव भक्तियोगिन इत्यर्थः । ‘‘भगव-द्गुणानुसारेण वेदार्थो नीयते हि यैः । भक्तियोगास्तु ते प्रोक्तास्तादृशा हि सुराः सदा । अङ्गानुसारिवेदार्थं ज्ञात्वा तदनुसारतः । भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः । कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः । विज्ञाता यैर्गुणा विष्णोर्ज्ञेयास्ते कर्मयोगिनः । भक्तिर्ज्ञानं च किञ्चित्तु पश्चात् तेष्वपि जायते । तथापि कर्मयोगास्ते कर्मपूर्वत्वकारणात् । भगवद्गुणानु-रागित्वमधिकं भक्तियोगिनाम् । तस्मात् तेऽभ्यधिका ह्येषु देवा एव विशेषतः । ईषद् वैराग्यमल्पं तु पूर्वं देवेषु जायते । पश्चाद् विरागोऽभ्यधिको देवानां नात्र संशयः । ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च । विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम् । ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः । न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन । देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम् । तथापि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः । त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः । महायोगेश्वरेशेशस्तस्माद् ब्रह्मा चतुर्मुखः’’ इति वचनात् समस्तं युक्तम् ॥ ८ ॥

श्रीनिवासतीर्थीया

भक्तियोगाधिकारिणमाह ॥ यदृच्छयेति ॥ न निर्विण्णः कादाचित्क-वैराग्यशून्यः । सर्वदा विरक्त इति यावत् । नातिसक्तः कादाचित्कविषयासक्तिमान्न भवति । नित्यसंपूर्णभोगत्वादिति भाव इत्याहुः ॥ ८ ॥

प्रमेयचन्द्रिका

भक्तियोगाधिकारिण उच्यन्ते ॥ यदृच्छयेति ॥ उत्तमाः । अत्रातिवैराग्या-सक्तिरहितानां भक्तियोग इत्युच्यते । तदयुक्तम् । केवलनिर्वेदयुक्तज्ञानयोग्यपेक्षया भक्तियोगिनामीषन्निर्वेदत्वेन नीचताप्राप्तेः । किं चात्र कर्मयोगिनां कर्मभक्ती । भक्तियोगिनां भक्तिज्ञाने इति प्रतीयते । तदप्ययुक्तम् । ज्ञानभक्ती तत्साधनं कर्मापि विना मोक्षानुपपत्तेरित्याशङ्का-मधिकारिस्वरूपप्रदर्शनपूर्वकं परिहरति ॥ सनकाद्या इत्यादिना ॥ ज्ञानं योगो येषां ते ज्ञानयोगा इत्यादिरर्थः। पुमानिति मूले एकवचनं जातिपरम् । उत्तमपुरुषा देवा इत्यर्थः ।

ननु यदि त्रिविधयोगिनामपि प्रत्येकं ज्ञानादित्रिविधयोगापेक्षा तर्हि विशेष्यकथनं कुत इत्यत आह ॥ तथापीति ॥ विशेषेण एकैकप्राधान्यरूपेण । तुशब्दस्त्रिष्वित्यवान्तरविशेषद्योतकः । स त्रिविधोऽपि योगः सर्वेषां शास्त्रेषु विधीयत इत्यर्थः । ज्ञानाद्येकप्राचुर्यविवक्षया ज्ञानयोगिन इत्यादि-विशेषोक्तिरिति भावः । सदा तेषामिति पाठे तु तेषां त्रिविधानां विशेषेण एकैकातिशयेन ज्ञानयोगम् इत्यादि विधीयत इत्यर्थः । भक्तियोग इत्यादिविशेषोक्तेरभिप्रायं रीत्यन्तरेण दर्शयति ॥ भगव-द्गुणानुसारेति ॥ प्रमाणश्लोकत्रयेण भक्तयुद्रेकलब्धप्रतिभगवत्षड्गुणानुसारेण यैर्वेदार्थो नीयते भक्तियोगा इत्यनेन । भक्तिर्वेदार्थभूतभगवद्गुणनिर्णयोपायो येषां ते भक्तियोगा इत्युक्तं भवति । एतेन यदृच्छयेत्यस्य भगवदिच्छया लब्धभक्त्यादिकयेत्यर्थ इति सूचितं ज्ञेयम् । तदिच्छा हि यदृच्छा स्यादिति वचनात् । शिक्षादिषडङ्गानुसारेणापादितया । उपलक्षणमेतत् । वेदोपबृंहकेतिहासपुराणानुसारेण च वेदानामर्थं ज्ञात्वा स्वज्ञातवेदानुसारतो यैर्गुणा नीयन्ते निश्चीयन्ते ते ज्ञानयोगिन इत्यनेनाङ्गादिसहकृतवेदज्ञानरूपो योगो भगवद्गुणनिर्णयोपायो येषां ते ज्ञानयोगा इत्युक्तं भवति । भगवदाराधनरूपाणि कर्माणि शास्त्रतो ज्ञात्वा तेषु च कर्मसु तस्य विष्णोर्यत्प्राधान्यं सर्वकर्मस्वातन्त्र्यकर्तृत्वभोक्तृत्वपूज्यत्वादिरूपं तदनुसारतो निःसीमशक्तित्वशुभमात्रभोक्तृत्वपूर्णानन्दत्वादयस्तदनुषङ्गलब्धसार्वज्ञादयो गुणा यैर्विज्ञातास्ते कर्मयोगिन इत्यनेन कर्मैव योगो भगवद्गुणनिर्णयोपायो येषां ते कर्मयोगिन इत्युक्तं भवति ।

तर्हि तेषां कर्म विना सर्वथा भक्त्यादियोगाभावः किमित्यत आह ॥ भक्तिरिति ॥ पश्चान् निवृत्तकर्मभिरन्तःकरणशुध्द्यनन्तरं स्वरूपभक्त्यादिकं तु व्यज्यत इति तुशब्दः । तर्हि भक्त्यादि-त्रयस्यापि भावाद्विशिष्य कर्मयोगित्वोक्तिः किंनिमित्तेत्यत आह ॥ तथापीति ॥ कर्मणो भक्त्यादिसाधनतया पूर्वभावित्वरूपात्कारणादित्यर्थः । ननु देवानां सनकादीनां च भक्तिज्ञानवत्वे साम्यं स्यात् । प्रत्युत ज्ञानयोगिनां निर्वेदाधिक्याद्भक्तियोगिनां न निर्विण्णो नातिसक्त इति वैराग्यस्याल्पतोक्तेर्नीचत्वमेव भवेदित्यतस्तथाऽपि तुर् विशेषेणेत्युक्तं विवृणोति ॥ भगवद्गुणेति ॥ अनुरागित्वं सर्वाधिकत्वज्ञानपूर्वकस्नेहवत्वम् । अत्र स्नेहांशाधिक्यज्ञापनाय भक्तिरागित्वमित्यनुक्त्वा अनुरागित्वमित्युक्तमिति ज्ञेयम् । तस्माज् ज्ञानपूर्वपरस्नेहात् । स्वरूपभक्त्याधिक्यवत्वात् । एषु त्रिविधेष्वधिकारिषु यथा कर्मयोग्यपेक्षया ज्ञानयोगिनामाधिक्यम् । न तावन्मात्रं तदपेक्षया देवानामाधिक्यं किन्तु सुमहत्तरं तदाधिक्यमिति ज्ञापनायाभीति विशेषत इति चोक्तमिति ज्ञेयम् ।

ननु देवानां विशेषत आधिक्ये वैराग्याल्पतोक्तेः का गतिः । आब्रह्मस्तम्बपर्यन्तमसारं चाप्य-नित्यकम् । विज्ञाय जातवैराग्य इति वैराग्यस्याधिक्योक्तिविरोध इत्यत आह ॥ ईषदिति ॥ अल्पं त्वित्यतःपरं सक्तत्वमिति शेषः । पश्चाद् भगवद्गुणानुरागित्वपरिपूर्त्तिप्राप्त्यनन्तरम् । तथापि विशेषतो देवा एवाभ्यधिका इत्यनुपपन्नम् । सनकादीनां ज्ञानयोगित्वेनाधिकत्वादित्यतो ज्ञानस्य भक्तिभागत्वाद्भक्त्याधिक्योक्तयैव ज्ञानाधिक्यं च लब्धमिति मत्वा त्रितयाधिक्योपपादनमुपसंहरति ॥ ज्ञानाधिक्यमिति ॥ तुशब्दः सनकादिभ्यो विशेषद्योतकः । तथाशब्दावन्योन्यसमुच्चये । आधिक्यमित्यत्र सनकाद्यपेक्षयेति ग्राह्यम् । सदैवानाद्यनन्तकालेऽपि आधिक्यमित्यन्वयः । प्रागीषद्वैराग्यमिति वैराग्याद्यल्पतोक्तिर्भगवद्गुणानुसारेण रागित्वपरिपाकानन्तरभाविवैराग्योत्कर्षमपेक्ष्यैव न तु सनकादिनिष्ठवैराग्यापेक्षया । अतो न सदेत्यस्यानुपपत्तिरिति ज्ञेयम् । अत्रेतरज्ञानयोग्यपेक्षया सर्वेषामपि देवानामाधिक्यम् । सनकादिमहाज्ञानयोग्यपेक्षया आधिक्यकथनं तु वह्न्याद्युत्तमदेवानपक्ष्येति न तारतम्यग्रन्थविरोधः ॥

ननु यदि देवापेक्षया सनकादीनामल्पज्ञानवत्वं कथं तर्हि तेषां ज्ञानयोगित्वमित्यत आह ॥ ज्ञानाधिक्यादिति ॥ मनुष्येभ्य एवेत्यर्थः । अनेन प्राग्विशेषेणेत्युक्तमुपपादितं भवति । अध्याहृतावधारणव्यावर्त्यं दर्शयति ॥ न त्विति ॥ तुशब्दाववधारणे । मनुष्याणां कर्मयोगित्वोक्त्या न तेषां देवाद्यपेक्षया कर्माधिक्यं मन्तव्यमित्याह ॥ देवानामिति ॥ स्फुटं सर्वाधिक्येन । अपिपदेन सनकादीनामपि किञ्चिद्धर्मित्वमस्तीति समुच्चिनोति । तर्हि मनुष्याणां विशिष्य कर्मयोगित्वोक्तिः किंनिमित्तेत्यत आह ॥ तथाऽपीति ॥ प्रत्यवायित्वात्स्वविहितकर्माकरण इति शेषः । यथाऽह श्रुतिः । विधिनियता मनुष्या अनियता देवा इति । एतेन प्राग्विशेषेणेत्युक्तं विवृतं भवति । भक्तियोगास्तु देवता इत्यत्र देवताशब्दप्रयोगाच्चतुर्मुखस्यापि न शिवादिदेवतासाधारण्ये-नाप्युत्तमभक्तियोगित्वमिति मन्तव्यम् । किन्तु त्रियोगवत्वं सर्ववैलक्षण्येनेत्याह ॥ त्रियोगेति ॥ सर्वेभ्यः स्वेतराधिकारिभ्यस्त्रिभिर्योगैरभि अत्यन्तम् अतिशयेनाधिक इत्यत्र हेतुः ॥ परमो विभुरिति ॥ तस्यैव विवरणम् ॥ महायोगेति ॥ महायोगादेव तदीश्वरा इन्द्रादयः । तेषामपीश इत्यर्थः ।

यदृच्छयेति मूलस्यायमर्थः ॥ यदृच्छया केवलेशेच्छया । मत्कथायां मत्संस्मरणादौ । महालक्ष्म्यादीनां कथादाविति आदिशब्दार्थः । पुमानिति जातावेकवचनम् । भगवद्ज्ञानित्व-परिपाकात्पूर्वं नातिनिर्विण्णः विषयेष्वतिसक्तिरहितः । तद्भोगोऽप्यतीवहरितोषणमिति असक्ततयैव भोगोक्तेः । वैराग्यपरिपूर्त्तिदशायामीषत् सक्तिमपेक्ष्यतीत्युक्तम् । अस्य देवजातस्य भक्तियोगः भगवद्गुणानुरागलक्षणो योगः सर्वश्रुतिविहितसमस्तकर्मकरणमहाज्ञानातिवैराग्यातिशयितभक्त्यापादनद्वारा मुक्तिप्रद इत्यर्थः ॥ ८ ॥

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥

पदरत्नावली

ज्ञानभक्तियोगिनामपि ज्ञानभक्त्युदयात् पूर्वं ज्ञानभक्तिसाधनत्वादन्तः-करणशुद्धिद्वारा कर्मयोगः कर्तव्यतामर्हतीत्याह– तावदिति । देवादित्वयोग्यानां मनुष्याणामिदं ज्ञातव्यम् । यद्वा कर्मयोगमेव विशिनष्टि तावदिति ॥ ९ ॥

श्रीनिवासतीर्थीया

भक्तियोगिभिरपि भक्त्याद्युत्पत्तेः पूर्वमन्तःकरणशुद्धिद्वारा भक्त्यादि-साधनत्वेन कर्मयोगः कर्तव्य इत्याहुः ॥ तावदिति ॥ देवादित्वयोग्यानां मनुष्याणामिदं ज्ञातव्यम् । यद्वा । कर्मयोगिनमेव विशिनष्टि ॥ तावदिति ॥ अत्र ज्ञानादियोगिन उक्तास्ते के इत्यतः प्रमाणेनैव तद्विविच्य दर्शयति ॥ सनकाद्या इत्यादिना ॥१ ज्ञानयोगा ज्ञानयोगवन्तः । एवं भक्तियोगाः कर्मयोगा इत्यपि व्याख्येयम् । ननु सनकादीनां ज्ञानयोगित्वे भक्तिकर्मणोरभावः प्राप्नोति । कर्मिणां ज्ञानभक्त्यभावः । भक्तियोगिनां ज्ञानकर्माभावः प्राप्नोतीत्यत आह ॥ सर्वेषामिति ॥ नन्वेवं साङ्कर्यमित्यत आह ॥ तथाऽपीति ॥ स स योगः । तथा च स्वसमानाधिकरणगुणानां मध्ये ज्ञानानामाधिक्यविवक्षया ज्ञानयोगित्वाद्युक्तिरित्याशयः ॥ भगवदिति ॥ स्वयं प्रत्यक्षेण भगवद्गुणान् दृष्ट्वा स्वस्वदृष्टभगवद्गुणानुसारेण यैर्वेदार्थो नीयते मयाऽयं गुणो दृष्ट एतद्गुणस्य प्रतिपादकोऽयं वेदभागस्तस्माद्वेदभागात्तद्गुणस्य सम्यक् प्रतिपाद्यताया अलाभे यथा तत्प्रतिपादकः स्यात्तथा व्याख्यानेन तन्नियमनं व्याकुर्वन्तीत्याशयः । के ते इत्यत आह ॥ तादृशा इति ॥ अङ्गं शिक्षाकल्पादिषडङ्गम् । तदनुसारतोऽङ्गानुकूल्येनाङ्गाद्यनुसारेण वेदार्थं परोक्षतो ज्ञात्वा तत्तद्भगव-द्गुणप्रतिपादकत्वेन वेदो यैर्नीयत इत्याशयः । सुराणां त्वङ्गाद्यानुकूल्येन वेदयोजनेन तात्पर्यमिति भावः ॥ कर्माणीति ॥ प्राधान्येन प्रतिपाद्यतयेति शेषः । अनेन वेदेन तादृशं कर्म प्रतिपाद्यत इति कर्मणः प्राधान्येन प्रतिपाद्यत्वं ज्ञात्वा एतादृशकर्मणेज्यो हरिर्यज्ञभोक्तृत्वाद्येतादृशगुणयुक्त इति वेदः प्रतिपादयतीति वेदार्थो नीयत इत्यर्थः । प्रतिपाद्यतयाऽदौ ज्ञातत्वमेवात्र कर्मणां प्राधान्यमिति मन्तव्यम् । अपि यद्यपि तेषु कर्मयोगिषु पश्चात्कर्मणाऽन्तःकरणशुद्ध्यनन्तरम् । तथा च तेऽपि भक्तियोगा ज्ञानयोगाश्चेति शेषः ॥ कर्मपूर्वत्वेति ॥ कर्मज्ञानस्य पूर्वसंपादितत्वरूपात्कारणादित्यर्थः । वेदेन प्रतिपाद्यतया पूर्वं कर्म तैर्ज्ञातमिति कर्मयोगिनस्त इत्यर्थः । भगवद्गुणेष्वनुरागः स्नेहस्तद्वत्वम् । भक्तिरिति यावत् । अधिकं ज्ञानकर्मयोग्यपेक्षया । स्वसमानाधिकरणगुणानां मध्य इति शेषः । ते देवा एषु त्रिविधयोगिषु ।

ननु न निर्विण्ण इति वैराग्याभाव उक्तः । नातिसक्त इति वैराग्यमुच्यत इति विरोध इत्यतस्तं परिहरति ॥ ईषदिति ॥ ईषद्वस्तुविषयकम् । अत एवाल्पं स्वसमानाधिकरणगुणेष्वपरोक्ष-ज्ञानात्पूर्वमल्पमेव वैराग्यं जायते पश्चादपरोक्षज्ञानोत्पत्तिसमयेऽनन्तरं वा देवानां विरागो वैराग्यमप्यधिकं जायते । उपसंहरति ॥ ज्ञानेति ॥ यदा भक्त्याधिक्यं तदा ज्ञानाधिक्यमपि प्राप्तमेव ज्ञानस्य भक्तिभागत्वादित्याशयः । सदोत्पत्तिमारभ्य । सनकादीनाम् । ननु तर्हि ज्ञानयोगित्वं भग्नमित्यत आह ॥ ज्ञानेति ॥ मनुष्येभ्यः कर्मयोगिभ्यो ज्ञानाधिक्यात् । मनुष्यग्रहणकृत्यमाह ॥ न त्विति ॥ मनुष्याणां प्रत्यवायित्वात् । विधिचकिततया प्रवर्तनादित्यर्थः । सर्वेभ्यः सकाशात्त्रियोगैर्ज्ञान-कर्मभक्त्याख्यैरधिको ब्रह्मेत्यर्थः । मूलार्थस्तु । (अत्र किमपि त्रुटितमिति भाति ।) ॥ ९ ॥

प्रमेयचन्द्रिका

अथ कर्मयोगिनां स्थितिरुच्यते ॥ तावत्कर्माणीत्यादिना ॥ ननु कर्मस्वनिर्विण्णचित्तानां कर्मयोगः सिद्धिद इत्युक्तम् । पुनः पुनः कर्मकरणे श्रवणाद्यनुष्टानाया-वसराभावेन ज्ञानानुदयान्मुक्त्यप्राप्तेरित्यत उच्यते ॥ तावदिति ॥ यावता यावत्पर्यन्तम् ऐहिकामुष्मिक-विषयेषु न निर्विष्णो भवति । तयावच्च मत्कथाश्रवणमननादौ श्रद्धा न जायते । तावत्पर्यन्त-मन्तःकरणशुद्धये सत्कर्म कुर्वीतेत्यर्थः ॥ ९ ॥

स्वधर्मस्थो यजन् यज्ञैरनाशीःकाम उद्धव ।

न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १० ॥

पदरत्नावली

कर्मणां बन्धकत्वेन ज्ञानभक्तिद्वारा श्रेयःसाधनत्वं कथमित्याशङ्कां परिहरन् तत्करणप्रकारमाह स्वधर्मस्थ इति । ज्ञानयोगी निराशीर् निष्कामो ऽन्यन् निषिद्धं कर्म न करोति चेत् स्वर्गनरकौ न याति ॥ १० ॥

श्रीनिवासतीर्थीया

ननु कर्मणां बन्धकत्वेन कथं भक्तिज्ञानकरणत्वमित्याशङ्कां परिहरति ॥ स्वधर्मस्थ इति ॥ स्वविहितकर्माचरणवान् । अनाशीःकामः स्वर्गाद्याशीःकामो न भवतीत्यनाशीः । अन्यत्काम्यं निषिद्धं च कर्म तर्हि न याति ॥ १० ॥

प्रमेयचन्द्रिका

ननु कर्मकरणे तत्फलतया स्वर्गः कर्मणि वैगुण्ये च नरक इत्येवं बद्ध एव स्यादित्यत उच्यते ॥ स्वधर्मस्थ इति ॥ अनाशीर्निष्कामः । निष्कामनया कर्मकरणे न स्वर्गो भवति । नापि नरकः । विष्णुधर्मस्य वैगुण्येऽपि प्रत्यवायानापादकत्वात् । यथोक्तम् । प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला । न चान्यधर्मकरणाद्दोषवान्विष्णुधर्मकृदिति । तर्हि तस्य सर्वथा स्वर्गाद्यभावः किमित्यत उक्तम् ॥ यदीति ॥ अन्यत्काम्यपुण्यं पापं वा न समाचरेत्तर्हीति पूर्वेणान्वयः । काम्यनिषिद्धाचरणे स्वर्गनरकौ तस्यापि भवत इति भावः ॥१ ॥

अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।

ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ ११ ॥

पदरत्नावली

विहितकर्मणा स्वर्गादिकमप्राप्यं चेत् किं तर्हि लभ्यमत्राह– अस्मिन्निति । वाशब्द उपमाने समुच्चये वा । यथा ज्ञानमाप्नोति तथा मद्भक्तिं च (एवं) कर्मयोगी च शुद्धज्ञानभक्ती

॥ ११ ॥

श्रीनिवासतीर्थीया

एवं स्वधर्मस्थः स्वविहितधर्मवान् । लोके शरीरे ॥ ११ ॥

प्रमेयचन्द्रिका

तर्हि निष्कामकर्मणः किं फलमित्यतो मोसाधनज्ञानभक्ती एवेत्युच्यते ॥ अस्मिन्निति ॥ अस्मिन्लोके कर्मभूमौ । स्वधर्मस्थः निष्कामकर्मवान् । अनघः पापकर्मरहितः । शुचिः शुद्धान्तकरणः । यदृच्छया स्वधर्माराधितप्रसन्नेशेच्छया । वा समुच्चये । अथवा ज्ञान-योगिभक्तियोगिनोर् ज्ञानभक्तिभ्यामेव सिध्द्युपपत्तेर्न कर्म तेषामपेक्षितमिति मन्तव्यम् । ज्ञानभक्ति-साधनत्वेन कर्मणोऽप्यावश्यकत्वादित्याशयेनोच्यते ॥ अस्मिन्निति ॥ अर्थः पूर्ववत् । अत्र यदृच्छयेत्येतद्भक्तियोगविवक्षया मुख्यं भवति ॥ ११ ॥

स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।

साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम् ॥ १२ ॥

पदरत्नावली

ज्ञानभक्तिसाधनत्वान्मनुष्यशरीरमुत्तममित्याह– स्वर्गिण इति । लोकं देहम् । निरयिणः नारकाः । ज्ञानभक्तिभ्यां पुरुषार्थसाधकम् । तदुभयं स्वर्गनरकस्थशरीरं ज्ञानभक्त्योरसाधकं फलरूपत्वात् तस्य । तस्मान्मानुषमुत्तममित्यर्थः ॥ १२ ॥

श्रीनिवासतीर्थीया

एतं भूमौ विद्यमानं लोकं मानुषं देहम् । कीदृशमित्यत आह ॥ साधकमिति ॥ निरयिणो नरकस्था नरकशेषं भुञ्जाना वा । भूमौ कुयोनिं प्राप्य, ज्ञानभक्तिभ्याम् । तज्जननद्वारेति यावत् । पुरुषार्थसाधकमित्यर्थः । कुत इत्यत आह ॥ उभयमिति ॥ स्वर्गनरक-लोकद्वयं तदसाधकं ज्ञानभक्तिद्वारा पुरुषार्थासाधकम् । यत इति शेषः ॥ १२ ॥

प्रमेयचन्द्रिका

अस्मिन्लोक इति विशिष्योक्तेरभिप्राय उच्यते ॥ स्वर्गिण इति ॥ लोकं मानुषदेहम् । स्वर्गस्था मानुषोद्भवं वाञ्छन्ति आत्मविमोक्षायेत्युक्तेः । साधकं पुरुषार्थस्येति शेषः । स्वर्गो नरकश्चेत्युभयं तदसाधकम् । तयोर्ज्ञानभक्त्योस्तस्य तत्साध्यपुरुषार्थस्य चासाधकमित्यर्थः

॥ १२ ॥

न नरः स्वर्गतिं काङ्क्षेन्नारकीं च विचक्षणः ।

नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥

पदरत्नावली

मुमुक्षुणा नरकस्वर्गमनुष्यगतयः सदुःखत्वात् प्रमादहेतुत्वाच्च नाकाङ्क्ष्या इत्याह– न नर इति । इमं मनुष्यलोकम् । देहप्रवेशात् प्रमाद्यति प्रमादवान् भवति ॥१३॥

श्रीनिवासतीर्थीया

विचक्षणो बुभूषुर्नरः । नारकीं च गतिम् । इमं लोकं मनुष्यलोकम् । कुतः । देहवशाद्देहप्रवेशाद्देहेऽभिमानादिप्रवेशात् । प्रमाद्यति भगवद्विषयकप्रमादयुक्तो भवतीत्यर्थः

॥ १३ ॥

प्रमेयचन्द्रिका

एवं स्वर्गादेरनित्यत्वात्सुखदुःखत्वात्प्रमादहेतुत्वाच्च बुभूषुणा न तत्साधनकर्म कार्यमित्युच्यते ॥ न नर इति ॥ न कांक्षेत् । तत्साधनानुष्टानं न कुर्यादित्यर्थः । नरकाकांक्षाया अप्राप्तत्वेन निषेधायोगात् । इमं लोकं मनुष्यदेहं च स्वदेहाय न कांक्षेत यतो देहे अहं ममेत्यभिनिवेशाद्धर्याराधने प्रमादयुक्तो भवति । प्रत्युतविषयासक्त्या विकर्मकरणान्नरकाद्याप्नोति । अतो नेमं लोकमिति सम्बन्धः ॥ १३ ॥

एवं विद्वान् पुरा मृत्योरभावाय घटेत सः ।

अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥

पदरत्नावली

नन्वस्तु निराकाङ्क्षा तदुत्तरं कार्यं किमत्राह– एवमिति । पुरा उक्तप्रकारेण स्वर्गादीनां दुःखादिमत्त्वाद् विद्वान् इदं मनुष्यशरीरं मर्त्यमप्यर्थसिद्धिदं ज्ञात्वा मृत्योरभावाय संसारस्योन्मूलनाय घटेतेत्यन्वयः ॥ १४ ॥

श्रीनिवासतीर्थीया

मृत्योर्मरणात् पूर्वं मृत्योरभावाय मोक्षाय घटेत यतेत । मर्त्यं मरण-शीलमपीदं शरीरं पुरुषार्थसिद्धिदं ज्ञात्वा यतेत ॥ १४ ॥

प्रमेयचन्द्रिका

अस्तु निराकाङ्क्षा ततः किं कार्यमित्यत उच्यते ॥ एवं विद्वानिति ॥ पूर्वोक्तप्रकारेण स्वर्गादेरनित्यासारतां विद्वान् मृत्योरभावाय मृत्युरूपसंसारपरिहाराय मृत्योः पुरा मरणात्पूर्वं त्वरयेति यावत् । इति च योज्यम् ॥ १४ ॥

छिद्यमानं कालावयवैः कृतनीडं वनस्पतिम् ।

खगः स्वदेहमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५ ॥

अहोरात्रैश्छिद्यमानं बुद्ध्वाऽयुर्भयवेपथुः ।

मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥

पदरत्नावली

किञ्चात इत्यत्राह– छिद्यमानमिति । खैरिन्द्रियैर्गच्छति जानाति विषयानिति खगो जीवः कालावयवैस् त्रुटिलवादिलक्षणैश् छिद्यमानं स्वदेहमुत्सृज्य क्षेमं मोक्षं याति । अलम्पटो विरक्तो ज्ञानसामग्रीमान् । कथमिव । खे गच्छतीति खगः पक्षी । कल च्छेदन इति धातोः कालावयवैः परश्वधादिनिशिताग्रैश् छिद्यमानमात्मना कृतनीडं वनस्पतिं विहाय क्षेमं प्राप्तरक्षामिव । अलम्पट उत्पतनसमर्थः, पट गताविति धातुः ॥ उक्तमेव विशदयति अहोरात्रैरिति । परं परमात्मानम् । संसारादुपशाम्यति शान्तदुःखो भवति । निरीहः निर्णीतहरिचेष्टः ॥ १५,१६ ॥

श्रीनिवासतीर्थीया

ततः किमित्यत आह ॥ छिद्यमानमिति ॥ यथा खं गच्छतीति खगः पक्षी स्वकेतनं स्वाश्रयं वृक्षं परेण छिद्यमानं ज्ञात्वा स्वनीडे आसक्तिं त्यक्त्वा गतश्चेत्क्षेमं याति । अन्यथा न । एवं खैरिन्द्रियैर्गच्छतीति खगो जीवोऽहोरात्रादिकालावयवैः कृतं नीडं यस्मिंस्तत्कृतनीडमत एव स्वस्य केतं निकेतं वनस्पतिं तत्स्थानीयं देहमुत्सृज्य क्षेमं मोक्षमलंपटो लंपटो विषयाकाङ्क्षावान्न भवतीत्यलंपटः । प्रसिद्धपक्षी त्वलं सम्यक् पटः प्लवनसमर्थः । पट गताविति धातुः ॥ इदमेव विशदयति ॥ अहोरात्रैरिति ॥ आयुरायुष्यम् । मुक्तसंसारसङ्गः परं हरिं निरीहो निषिद्धचेष्टाशून्यो व्यर्थचेष्टाशून्यो वा । उपशाम्यति शान्तदुःखो भवति । प्रसिद्धोऽपि पक्षी स्वाश्रयं वृक्षं छिद्यमानं ज्ञात्वा भयेनान्यं वृक्षं स्वगन्तव्यत्वेन बुध्वा पूर्ववृक्षे सङ्गं त्यक्त्वाऽन्यं वृक्षमाश्रित्य सुखी भवतीति ॥ १५,१६ ॥

प्रमेयचन्द्रिका

देहनश्वरतानुसन्धानपूर्वं सर्वत्रासङ्ग आवश्यक इति सदृष्टान्तमुच्यते ॥ छिद्यमानमिति श्लोकद्वयेन ॥ कालावयवैः काल च्छेदन इति धातोः कुठाराद्यवयवैर् धारालक्षणैश् छिद्यमानं कृतनीडं स्वेन कृतवसतिं वनस्पतिं दृष्ट्वा खगः पक्षी स्वदेहमित्युत्तरश्लोकेनेति देहव-त्प्रेमास्पदमिति वा उत्सृज्य तत्रालंपटो नासक्तः क्षेममनश्वरवृक्षान्तरमुपयाति यथा तथा ॥ अहोरात्रैः कालावयवैश् छिद्यमानमायुर्देहं च बुध्वा भयेन जातो वेपथुः कंपो यस्य सः। देहतदनुबन्धिषु मुक्तस्नेहः निरीहो बन्धककर्माचरणरहितः परं हरिं बुध्वा उपश्याम्यति । मुक्तो भवतीत्यर्थः ॥१५,१६॥

नृदेहमासाद्य सुदुर्लभं यः प्लवं १सुकल्पं गुरुकर्णधारम् ।

मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥

तात्पर्यम्

मार्गणवच्छरीरान्ते पतति ॥ १७ ॥

पदरत्नावली

मानुषत्वमवाप्य संसारसमुद्रतरी स्वभक्तिमकुर्वतः पुंसोऽधःपात एवेत्याह– नृदेहमिति । सुष्ठु कल्पवृक्षवदभीष्टसाधनं प्लवं संसारनदीतरणतरी गुरुरेव कर्णधारो यस्य स तथा तं मया अनुकूलेन नभस्वता वायुनेरितं नृदेहं प्राप्य यः पुमान् भवाब्धेर्मध्यं न तरेत् स मार्गण इति लुप्तोपमा । वेगाख्यसंस्कारनाशे शश्वत् शरीरनाशे अधःपततीत्यर्थः । मद्भक्तिगुरुत्वभावान् नरकं भूमिं वा प्राप्नोतीत्यर्थः ॥ १७ ॥

श्रीनिवासतीर्थीया

पुमान्मानुषदेहमासाद्य न प्रमादी स्यादित्याह ॥ नृदेहमिति ॥ सुकल्पं सुष्टुकल्पं कल्पवृक्षवदभीष्ठसाधनं प्लवं नावम् । गुरुरेव कर्णधारो नाविको यस्य तथा तम् । कर्णधारस्तु नाविक इत्यभिधानात् । मया मल्लक्षणेनानुकूल्येन । तृतीयाया अलुक् । अनुकूलवायुनेरितं प्रेरितम् । अत्र मार्गण इति लुप्तोपमेत्याशयेन तात्पर्यमाह ॥ मार्गणवदिति ॥ अयोमयतीक्ष्णाग्रभागशून्यः क्रीडार्थं कृतवर्तुलाग्रभागः शिरोमार्गणोऽत्र विवक्षितः । स यथा परस्मिन्मुक्तस्तच्छेदनादिकमकृत्वा वृथैव भूमौ पतति । एवमयमपि शरीरान्ते तत्पतनानन्तरं वृथा नरके पतति । वृथैव तस्य जन्मेत्याशयः ॥ १७ ॥

प्रमेयचन्द्रिका

त्वरया हर्याराधनाकरणेऽनर्थोऽभिधीयते ॥ नृदेहमिति ॥ प्लवं संसार-समुद्रतरणोपायं सुकल्यं सुदृढम् । गुरुरेव कर्णधारो नाविको यस्य तम् । अनुकूलवायुः प्रसिद्ध-प्लवेऽपेक्षितः । तद्वदत्राप्यनुकूलेन मया नभस्वता मदाख्यवायुना ईरितं प्रेरितं नृदेहमासाद्यापि भवाब्धिं न तरेत् स मार्गण इत्यर्थः । अत्र मार्गणो बाण इति भानात्तथात्वे सङ्गत्यभावाद्गौणोऽयं प्रयोग इत्याशयेनाह ॥ मार्गण इति ॥ विमुक्तस्य बाणस्यान्ते अधःपातवद्धर्याराधनहीनस्य देहान्ते नरकतमआद्यधःपातो भवतीति भावः ॥ १७ ॥

यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः ।

अभ्यासेनात्मनो योगी धारयेदचलं मनः ॥ १८ ॥

पदरत्नावली

उपास्तिप्रकारमाह– यदेति । वौ परमात्मनि रक्तोऽनुरक्तोऽतिस्निग्धो ऽत एव संयतेन्द्रियो योगी यदा आरम्भेषु कर्मोपक्रमेषु निर्विण्ण आत्मनोऽभ्यासेन पुनःपुनः प्रयत्नेन मनोऽचलं धारयेत् ॥ १८ ॥

श्रीनिवासतीर्थीया

भगवज्ज्ञाने इदमपरपर्यायो मनोनिग्रहः कारणमिति भावेन मनोनिग्रह-प्रकारमाह ॥ यदेति ॥ आरम्भेषु कार्योपक्रमेषु विघ्ने जाते निर्विण्णः । वौ । विः पक्षिपरमात्मनोः । परमात्मनि रक्तोऽनुरक्तः स्नेहवान् । आत्मनः स्वस्य मनः । अचलमिति क्रियाविशेषणम्

॥ १८ ॥

प्रमेयचन्द्रिका

निर्विण्णानां ज्ञानयोग इत्येतद्विवरणपूर्वकमुपास्तिप्रकारोऽभिधीयते ॥ यदेति ॥ आत्मनः परमात्मनो विषये । आत्मनो मनसोऽभ्यासेन आत्मनः स्वस्य मनोऽचलं यथा भवति तथा धारयेदित्यर्थः ॥ १८ ॥

धार्यमाणं मनो यर्हि भ्राम्यदाश्वनवस्थितम् ।

अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥

पदरत्नावली

शश्वद्विषयोपरक्तमनसश्चञ्चलत्वादचलत्वेन धारणं दुष्करमपि प्रयत्नेन भाव्यमिति भावेनाह धार्यमाणमिति । यर्हि यदा धार्यमाणमपि आशु विषयेषु भ्राम्यद् लक्ष्येऽनवस्थितं तदाप्यतन्द्रितो निरालस्यो भूत्वा अनुरोधेन अनुकूलेन मार्गेण मन आत्मवशं नयेदित्यन्वयः

॥ १९ ॥

श्रीनिवासतीर्थीया

धार्यमाणं भ्राम्यत् । तस्यैव विवरणम् । आश्वेकत्रानवस्थितं चेत्तर्ह्यनु-रोधेनानुकूल्येन मार्गेण प्रत्याहारप्राणायामादिना ॥ १९ ॥

प्रमेयचन्द्रिका

धारयेदित्युक्तधारणाविच्छेदे प्रसक्ते कर्तव्यमुच्यते ॥ धार्यमाणमिति ॥ यर्हि यदा तदेत्यध्याहारेण पूर्वोत्तरार्धयोजना द्रष्टव्या । आशु विषयेषु भ्राम्यत् । पर्यावर्तयत् । ध्येयहरावनवस्थितम् अनुरोधेनानुकूलेन ऋजुना मार्गेण मन आत्मवशं नयेदित्यन्वयः ॥ १९ ॥

मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रियः ।

सत्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥

पदरत्नावली

दार्ढ्यार्थं पुनरुक्तमाह– मन इति । अगतिं विरुद्धगतिं विषयगतिं प्रति । नाभावान्यविरोधिष्विति यादवः । सत्वगुणसम्पन्नया ॥ २० ॥

श्रीनिवासतीर्थीया

मनोगतिं मनोवेगं भगवतोऽन्यत्र न विसृजेत् । सत्त्वसंपन्नया सत्त्वगुणोद्रिक्तया ॥ २० ॥

प्रमेयचन्द्रिका

एतदेव विव्रियते ॥ मनोगतिमिति ॥ विषयगतिं प्रति मनो न विसृजेत् । सत्वसंपन्नया धैर्ययुक्तया ॥ २० ॥

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।

हृदयज्ञत्वमन्विच्छन् दमश्चैवेच्छतो मुहुः ॥ २१ ॥

पदरत्नावली

सर्वस्मान्मनसः संयमनं प्रधानमित्युपसंहरति एष इति । अभ्यासेन च कौन्तेय वैराग्येण च गृह्यत इत्येतस्य संवादमाह– वा इत्यनेन । योग उपायः । सङ्ग्रहः संयमः । मनःसङ्ग्रहेण किं स्यादत्राह– हृदयेति । हृदयज्ञत्वं मम प्रियत्वम् । हृद्ययनाद् हृदयं विष्णुस्तं जानातीति हृदयज्ञः, तत्वं हृदयज्ञत्वम् । स एव मम प्रिय इति भावः । हृदयज्ञत्वमन्विच्छन्, मनो नियच्छेदिति शेषः । ततः किमत्राह– दमश्चेति । मत्प्रियत्वमिच्छतः पुंसो मत्प्रसादेनेतरेन्द्रिय-निग्रहोपि, भवतीति शेषः । मुहुरित्यनेन क्षणमपि विषयानुगतं न स्यादिति ध्वनयति

॥ २१ ॥

श्रीनिवासतीर्थीया

एष मनसः सङ्ग्रहो निग्रहः परमो योगो मोक्षसाधनोपायः । भगवज्ज्ञाने इदमपि साधनमित्याह ॥ हृदयेति ॥ हृदयं ब्रह्मेत्यारुणय इति श्रुतेः । हृदयज्ञत्वं ब्रह्मज्ञानवत्त्वमन्विच्छन्यस्तस्येच्छतः पुंसो दमो मनोव्यतिरिक्तेन्द्रियनिग्रहश्च मुहुर्मुहुः कर्तव्य इत्यर्थः

॥ २१ ॥

प्रमेयचन्द्रिका

मनोनिग्रह एव प्रधानयोग इत्युपसंह्रियते ॥ एष इति ॥ योगो मोक्षोपायः । यः हृद्ययनादृदयं ब्रह्म तद्ज्ञत्वं तदपरोक्षज्ञानवत्वमिच्छन् भवति । तस्यैव मनसो निग्रहरूपः परमो योगः स्मृत इति योजना । हृदयज्ञत्वमिच्छतो मुहुः सर्वत्र दम इन्द्रियनिग्रहलक्षणश्च योगो भवतीत्युच्यते ॥ दमश्चेति ॥ २१ ॥

साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः ।

भवाप्ययावनुध्यायेन्मनो यावत् प्रसीदति ॥ २२ ॥

पदरत्नावली

अस्तु मनो वशं नयेदिति, तत् केन प्रकारेण स्यादिति तत्राह– साङ्ख्येनेति । यावन्मनः प्रसीदति भगवति संस्थितं भवति तावत् सर्वभावानां ब्रह्मादिसर्वपदार्थानां प्रतिलोमानुलोमतः व्युत्क्रमानुक्रमतः भवाप्ययौ उत्पत्तिविनाशौ, अनुक्रमत उत्पत्तिर्व्युत्क्रमतो विनाश इति क्रमेण, साङ्ख्येन ज्ञानेन अनुध्यायेत्, हरेरिति शेषः । अनेन प्रकारेण मन आत्मवशं नयेदिति भावः

॥ २२ ॥

श्रीनिवासतीर्थीया

मनो वशं नयेदित्युक्तम् । यावद्वशं न भवति तावत्पर्यन्तं किं कार्यमित्यत आह ॥ साङ्ख्येनेति ॥ ज्ञानेन सर्वभावानां सर्वतत्त्वानां प्रतिलोमानुलोमतो व्युत्क्रमक्रमाभ्यां भवाप्ययौ हरेः सकाशादनुध्यायेत् । यथायोग्यं सम्बन्धो न यथाक्रमम् । अनुलोमतोऽनुक्रमेण । भव उत्पत्तिः । प्रतिलोमतो व्युत्क्रमेण नाशो भवतीति चिन्तनं कुर्यादिति भावः । कियत्पर्यन्तमित्यत आह ॥ मन इति ॥ २२ ॥

प्रमेयचन्द्रिका

मनोनिग्रहे उपायान्तरमुच्यते ॥ साङ्ख्येनेति ॥ यावन्मनः प्रसीदति निर्मलं भवति । निगृहीतं भवतीति यावत् । तावत्पर्यन्तं भावानां जीवानां महदादीनामानुलोम्येन भवत्सृष्टिं प्रातिलोम्येनाप्ययं च साङ्ख्येन सम्यक् ख्यातिरनेनेति साङ्ख्यं ज्ञानशास्त्रं तेन तूक्तप्रकारेणेति यावत् । अनुध्यायेत् । मनोनिग्रहानन्तरमचलं यथा भवति तथा भगवन्तमनु सम्यक् ध्यायेदिति भावः । सृष्टिसंहारानुध्यानेन भगवतः सृष्ट्युपयुक्तस्य सर्वज्ञत्वादिगुणपूर्णत्वस्य देहकर्तृत्वादिज्ञानं तत्रैव निष्टया कर्मसु निर्वेदो विषयेषु विरक्तश्च भवतीत्युपस्कर्तव्यम् ॥ २२ ॥

निर्विण्णस्य विरक्तस्य पुरुषस्यात्मवेदिनः ।

मनस्त्यजति दौरात्म्यं१ चिन्तितस्यानुचिन्तया ॥ २३ ॥

पदरत्नावली

अनेन योगेन मनः प्रसन्नं स्यात् किम्, अत्राह– निर्विण्णस्येति । निर्विण्णस्य स्वर्गादिविषयभोगोऽनित्य इति ज्ञानवतो ऽत एव तस्मिन् विरक्तस्य शोभनाध्यास-बुद्धिरहितस्य । आत्मवेदिन आत्मानात्मविवेकज्ञस्य । दौरात्म्यं कामकश्मलादि । चिन्तितस्य ध्यानविषयस्य हरेरनुचिन्तया पुनःपुनर्निरन्तरस्मरणेन । मनस्त्यजतीत्यन्वयः ॥ २३ ॥

श्रीनिवासतीर्थीया

एवं ध्यानेन किं भवतीत्यत आह ॥ निर्विण्णस्येति ॥ विरक्तस्य परमात्मनि रक्तस्य । आत्मवेदिनः क्रमव्युत्क्रमाभ्यां भवाप्ययकृतत्वेनात्मज्ञानिनः । दौरात्म्यं कामादि-कश्मलम् । महात्मभिश्चिन्तितस्य हरेरनुचिन्तया ॥ २३ ॥

प्रमेयचन्द्रिका

निर्विण्णस्य विरक्तस्यात्मवेदिनः पुरुषस्य चिन्तितस्य काम्यस्य पुनःपुन-रनुचिन्तया प्राप्तं कामक्रोधादिकल्मशरूपदुर्भगत्वं मनस्त्यजति । चिन्तितस्य ध्यातस्य हरेः पुनःपुनरनुचिन्तया निमित्तेनेति वा ॥ २३ ॥

यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ।

ममार्चोपासनाभिर्वा नान्यैर्योगं स्मरेन्मनः ॥ २४ ॥

पदरत्नावली

स्मरणात् पूर्वभाविनो यमादयोप्यवश्यका इति भावेनाह– यमादिभिरिति । प्रयत्नसाध्ययमादिभ्यः सुखसाध्योपायान्तरमाह– ममार्चेति । अर्चा प्रतिमा । हरिसन्निधानस्य मुख्याधिष्ठानत्वात् सन्तोप्यत्र प्रतिमेति विवक्षिता इति ज्ञातव्यम् । तत्राप्यशक्तानां स्थावरं च ग्राह्यम् । पुनरपि विकल्पोऽस्ति किम् । नेत्याह– नेति । एतैरुक्तैरपायैर्विना अन्यैरुपायैश्चित्त-वृत्तिनिरोधलक्षणं योगं मनो न स्मरेदित्यर्थः ॥ २४ ॥

श्रीनिवासतीर्थीया

एतैरुपायैः शुद्धं मनो हरिं स्मरतीत्याह ॥ यमादिभिरिति ॥ योगपथैर्योगमार्गैरान्वीक्षिक्या विद्यया तत्त्वविद्यया । ममार्चेत्यत्र बुद्ध्या विवेकः । अर्चायां ममोपासनादिभिः पूजादिभिः शुद्धं मनः । योगं युज्यतेऽनेनेति योगो हरिस्तं स्मरेत् । अन्यैर्यमादिव्यतिरिक्तैर्न स्मरेदित्यर्थः ॥ २४ ॥

प्रमेयचन्द्रिका

योगस्य साधनान्तराण्युच्यन्ते ॥ यमादिभिरिति ॥ आन्वीक्षिक्या वेदान्तसूत्रादिरूपयाऽर्थपरया विद्यया । अर्चा चलाचलप्रतिमा । यमादिभिरित्यादेर्मनो दौर्भाग्यं त्यजतीति पूर्वेणान्वयः । यमादीनामावश्यकत्वमुच्यते ॥ नान्यैरिति ॥ नान्यैरेतदतिरिक्तैरुपायैर्मनो भगवति नितरां सक्तिरूपं योगं न स्मरेदित्यर्थः । यद्वा यमादिभिः शुद्धं मनोऽन्यैर्विषयैर्योगं न स्मरेदित्येकान्वयः ॥ २४ ॥

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।

योगेनैव दहेदंहो नान्यं यत्नं१ कदाचन ॥ २५ ॥

पदरत्नावली

योगिनः प्रामादिकपापपरिहारोपायमाह– यदीति । योगेन ध्यानेन । अन्यं यत्नं, न कुर्यादिति शेषः । यन्त्रमिति पाठे अन्यत् साधनं नास्तीत्यर्थः ॥ २५ ॥

श्रीनिवासतीर्थीया

योगाभ्यासिनः प्रामादिकपापपरिहारायोपायमाह ॥ यदीति ॥ अंहो विगर्ह्यकरणनिमित्तकं पापम् । तत्र पापपरिहारेऽन्यत्प्रायश्चित्तादिसाधनं योगाभ्यासवता कञ्चन न कार्यमित्यर्थः ॥ २५ ॥

प्रमेयचन्द्रिका

एवंविधयोगिनः प्रमादतः पापे प्रसक्ते परिहारोपाय उच्यते ॥ यदीति ॥ योगेन ध्यानेन । अन्यं प्रायश्चित्तकर्माचरणादिरूपं यत्नम् । यंत्रमिति पाठे साधनमित्यर्थः ॥२५॥

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः ॥ २६ ॥

पदरत्नावली

विहिताविहितकरणयोर्गुणदोषत्वाभावे कयोर्भगवत्प्रियाप्रियनिबन्धनगुणदोषत्वे इत्युद्धवप्रश्नं परिहरति स्वेस्व इति । उभयोर्गुणदोषयोरेष निर्णय इत्यन्वयः । विधिनिषेधबद्धं देवादिजनं प्रति मयाऽयमधिकारस्तुभ्यं दत्तोऽयमधिकारस्तवेति यथायथोपदिष्टं तथातथा स्वेऽधिकारे विहितकर्मणि या निष्ठा व्रतनियमः स गुणः मत्प्रीतिजनकत्वात् । परिकीर्तितः, मयेति शेषः । विपर्ययोऽनधिकारे अविहितकर्मणि या निष्ठा स दोषः परिकीर्तितः । मदप्रीतिहेतुत्वात् । तुशब्देन निषिद्धस्य वृत्रहत्यादेर्गुणत्वं विहितस्याप्यसुरादिकृतस्य दोषत्वं च वक्ति । इन्द्रो वै वृत्रं हत्वा महानास, य र्इं शृणोत्यलकं शृणोतीत्यादिवचनात् ॥ २६ ॥

श्रीनिवासतीर्थीया

एवमुपयुक्तमभिधायेदानीं भगवानाशयोद्घाटनेनोद्धवप्रश्नं परिहरति ॥ स्वे स्व इति ॥ एवं ज्ञानभक्तिकर्मरूपे स्वे स्वे स्वकीये भगवता प्रीतिपूर्वकं दत्तेऽत एव तत्प्रीतिकरे या निष्ठा भगवदाज्ञारूपत्वेन भगवत्प्रीतिकरोऽयमिति वा स्थितिः स गुणः । विपर्ययो हर्यप्रीतिकरे स्वानधिकारे या निष्ठा स दोषः । उभयोर्गुणदोषस्वरूपयोः । एवं यदि भगवत्प्रीतिकर एव धर्मस्तदप्रीतिकर एव दोषः स वेदविहितोऽस्तु मा वा । तर्हि वेदविधानस्य वैय्यर्थ्यमेव स्यादित्यतो ज्ञानवतामेव तथा । अज्ञानां तु वेदविधिरपेक्षित एवेति न वैयर्थ्यम् ॥ २६ ॥

प्रमेयचन्द्रिका

इदानीं भक्तियोगं विस्तरेण निरूपयितुकामो भगवानुद्धवकृतप्रश्नपरिहारस्य त्रिविधयोगिस्वरूपज्ञानाधीनत्वद्योतनाय मध्ये प्रश्नपरिहारः क्रियते ॥ स्वे स्वे इति ॥ प्रागेवैतदर्थो विवृतः ॥ २६ ॥

कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।

गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥

तात्पर्यम्

स्वतोऽशुद्धानां कर्मणाम् । अनेन गुणदोषविधानेन नियमःकृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः ॥ २७ ॥

पदरत्नावली

विहिताविहितकरणाद् गुणदोषोक्तिर्भगवत्प्रियाप्रियविषयेत्याशयेनाह– कर्मणामिति । विधिनिषेधात्मको वेदो जात्यशुद्धानां स्वतोऽशुद्धानां कर्मणां नियमेन गुणदोषभेदमपेक्षत इति यो नियमस्त्वयोक्तः स नियमो मदिष्टो गुणो मदनिष्टो दोष इति विवेकमजानतां पुंसां न तु विदुषां पक्ष इति विहितकरणेन गुणो निषिद्धकरणेन दोष इत्यनेन गुणदोषविधानेन अंहसां त्याजनेच्छया नियमो मया कृतः । स्वतोऽशुद्धानां गुणत्वं कथं स्यादित्यत उक्तं त्विति । विध्यनुसारेणानुष्ठाने गुणत्वमेव स्यादित्यर्थः । विध्यनुसारित्वं च मत्प्रियोपहितत्वमित्यपि विशेषं तुशब्द एव वक्ति ।

भगवत्प्रियाप्रियत्वे गुणदोषयोः कारणं चेद् वेदे तद्विधानं किमर्थं क्रियत इत्यतोवाह कर्मणामिति । गुडजिह्विकान्यायेन अंहसां त्याजनेच्छया स्वतोऽशुद्धानां कर्मणाम् अनेन गुणदोषविधानेन नियमः कृतो न तु प्रियाप्रियत्वनिषेधेन । कर्मबहिर्मुखानां कर्मणि बुद्ध्यवतारार्थं शाखाचन्द्रन्यायवत् । अन्यथा जात्यशुद्धानां शुद्धत्वं न स्यात्, अतो मत्प्रियाप्रियत्वे गुणदोषयोः कारणम्, अनेवंविन् महत् पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवेति श्रुतेरित्यर्थः ।

गुणदोषयोः कारणं भगवत्प्रियाप्रियत्वनियमः कस्मादित्यतो वाह– कर्मणामिति । अंहसां त्यागेच्छया जात्यशुद्धानां कर्मणामनेन गुणदोषविधानेन मत्प्रियत्वाप्रियत्वनियमः कषायोपरिचूर्णवत् । अन्यथा जात्यशुद्धानां पापहरणसामर्थ्यानुदयादचिकित्सितौषधवद् यथा पङ्केन पङ्काम्भ इतिवत् स्यादतो मत्प्रियत्वेन मदर्पणेन कर्म कर्तव्यमिति भावः ॥ २७ ॥

श्रीनिवासतीर्थीया

तत्कथमित्यत आह ॥ कर्मणामिति ॥ अत्र जात्यशुद्धानामित्ये तद्व्याकुर्वंस्तस्यांहसामित्यनेनान्वयभ्रान्तिं च निवारयति ॥ स्वत इति ॥ पदानां व्यवहितत्वादन्वयं दर्शयति ॥ अनेनेति ॥ कोऽर्थ इत्यत आह ॥ स्वत इति ॥ कर्मणामित्यस्य पूर्वोत्तराभ्यां सम्बन्धः । गुणत्वं हरिप्रीतिसाधनत्वम् । विध्यनुसारेणानुष्ठाने भगवत्प्रीतिरूपो गुणो न च दोष इति विधानेन नियमो वेदेन कृतः । एवं कर्माणि विध्युक्तरीत्या हरिप्रीत्यर्थं कर्तव्यानीत्यज्ञान्प्रति वेदो नियामयतीत्यर्थः । किमर्थमित्यतोंऽहसामित्युक्तम् । मनोदोषाणामित्यर्थः । एवमनुष्ठितकर्मणा हि मनोदोषनिवृत्तिः । कर्मणा शुद्धसत्त्वस्येत्युक्तेः । एतत् श्लोकद्वयतात्पर्यं स्वतः सर्वेत्यादिना प्रागेव भगवत्पादैरभिहितमिति द्रष्टव्यम् ॥ २७ ॥

प्रमेयचन्द्रिका

भगवत्प्रियत्वे गुणस्तदप्रियत्वे दोष इत्युभयोर्निर्णय इत्युक्तस्योपपादनं क्रियते ॥ कर्मणामिति ॥ अत्र कर्मजात्युक्त्रान्तस्याशुद्धत्वं भाति । तदयुक्तम् । कर्मणां वेदविहितत्वेना-शुद्धत्वासम्भवादित्यत आह ॥ स्वत इति ॥ अत्र जातिशब्दः स्वभावपरः । भगवदर्पितत्वरूप-संस्कारं विना स्वभावतोऽशुद्धानामित्यर्थः। तथा च भगवदर्पितत्वेन तत्प्रियाणामेव कर्मणां वेदे विधानम् । नानर्पितानां स्वभावतोऽशुद्धानामिति न दोष इति भावः । अनेनेत्यस्य प्रकृतेनोभयोरेष निर्णय इति वाक्ये नियमः कृत इत्यन्यथाप्रतीतेराह ॥ अनेनेति ॥ तथा च नानेनेत्यव्यवहित-प्रस्तुतपरामर्शः किन्तु अनेन प्रस्तुतेन भगवत्प्रियत्वाप्रियत्वनिबन्धनेन गुणदोषविधानेनेत्युत्तरार्धगत-पदान्विततया योजनेति भावः । दुर्गमार्थत्वादेतच्छ्लोकार्थं वदन्नियमः कृत इत्युक्तं नियमं दर्शयति ॥ स्वत इति ॥ यद्यप्यज्ञानिकृतकर्मणां स्वतोऽशुद्धत्वम् । तथापि विध्यनुसारेण भगवत्प्रियत्वादिदं कर्तव्यं तदप्रियत्वादिदमकार्यमिति विधानानुसारेणानुष्टाने प्रियस्य करणरूपानुष्टाने अप्रियत्याग-रूपानुष्टानमिति मूलस्यार्थः ॥

ततश्चायं मूलार्थः ॥ अंहसां भगवत्प्रियत्वाप्रियत्वे अज्ञात्वा कर्मकरणनिमित्तकपापानां त्याजनेच्छया जात्या स्वभावेनाशुद्धानामपि कर्मणामनेन वेदादिगतेन विधिनिषेधरूपेण गुणदोषविधानेन नियमः कृतः । विधिनिषेधाभ्यां भगवत्प्रियत्वाप्रियत्वरूपगुणव्यवस्था कृतेति यावत् ॥ २७ ॥

जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु ।

वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २८ ॥

पदरत्नावली

मत्प्रियाप्रियविवेकज्ञानेन गुणदोषविदो भक्तियोगिनो देवा इत्याशयेन भक्तियोगिनां स्थितिं विदधानो निगमयति जातश्रद्ध इति । यतो मत्प्रियाप्रियनिबन्धनौ गुणदोषौ ततो मां भजेतेत्यन्वयः । कीदृशो भक्तियोगी । प्रारब्धादृष्टाद् विषयपरित्यागेऽनीश्वरोपि शास्त्रज्ञानेन मत्कथासु जातश्रद्धत्वेन सर्वकर्मसु निर्विण्णो यः कामान् विषयान् दुःखानां प्रापकान् वेद ॥ २८ ॥

श्रीनिवासतीर्थीया

ननु मनोदोषाणां रागादीनां त्यागः कथं भवतीत्यतस्तत्प्रकारमाह ॥ जातेत्यादिना ॥ मत्कथासु जातश्रद्धः कामान्विषयान्दुःखात्मकान्दुःखापादकान्यद्यपि वेद तथाऽप्य-नीश्वरोऽसमर्थः । यदेति शेषः ॥ २८ ॥

प्रमेयचन्द्रिका

इदानीं मद्भक्तिं वा यदृच्छया इत्युक्तानुवादपूर्वकं भक्तियोगो विव्रियते ॥ जातश्रद्ध इति ॥ कामान् विषयान् दुःखात्मकान् दुःखसाधनान् । साध्यसाधनयोरभेदोपचारः । यद्यपि वेद तथापि तत्परित्यागे मनःपरिपाकाभावादनीश्वरः पूर्वं ततस्तदनन्तरं तु तत इति केवलेश्वरेच्छयेति बुद्धिस्थस्यापि परामर्शः । मत्कथासु जातश्रद्धः । भगवदनुग्रहासादितोद्रिक्त-प्रतिभाबलेनैतद्गुणानुरागवानिति यावत् । अत एव काम्यसर्वकर्मसु विषयभोगोपयुक्तकर्मसु च निर्विण्णोऽधिकवैराग्यवान् ॥ २८ ॥

ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः ।

जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन् ॥ २९ ॥

पदरत्नावली

यश्च प्रीतः श्रद्धालुः, प्रेत्यापि भगवदुपास्तिं न मुञ्चतीत्यर्थः, अत एव दृढनिश्चयो भजन्, विरोधिनः कामान् जुषमाणश्च दुःखोदर्कान् निषिद्धान् कामान् गर्हयंश्च, स इत्यर्थः ॥२९॥

श्रीनिवासतीर्थीया

ततस्तदा जुषमाणः सेवमानः । जुषी प्रीतिसेवनयोः । जोषणसमये गर्हयन् ॥ २९ ॥

प्रमेयचन्द्रिका

प्रतिभावगतभगवद्गुणादौ श्रद्धालुर्दृढनिश्चयश्च वस्तुतोऽन्येषां दुःखोदर्कान् कामान् स्वयं गर्हयन्नपि स्वयमरागतो हरितोषणार्थमेव जुषमाण एव मां भजेतेत्यर्थः । अरागतः प्रवृत्तिः स्याद्रागो दोषस्य कारणम् । तद्भोगोऽप्यतीवहरितोषणमित्युक्तं भगवद्गुणानुरागित्वमधिकं भक्तियोगिनां पश्चाद्विरागोऽभ्यधिक इति तात्पर्यमनुसृत्येत्थं व्याख्यातम् ॥ २९ ॥

प्रोक्तेन भक्तियोगेन भजतो माऽसकृन्मुनेः ।

कामा हृदिस्था नश्यन्ति सर्वे मयि हृदि स्थिते ॥ ३० ॥

पदरत्नावली

विषयसेविनो योगिनः कर्दमगर्ते पतत् पर्णवत् ततः कदाप्युत्थानं न स्यादित्यतस् तद्भजनफलमाह– प्रोक्तेनेति । उक्तलक्षणेन भक्तियोगेन असकृत् सदा निरन्तरं मां भजतो मुनेरपरोक्षज्ञानिनो भक्तियोगिनो हृदि स्थिता अनभीष्टाः कामाः सर्वे निर्मूलतया नश्यन्ति । कदा । मयि हृदि स्थिते प्रकाशमाने सति ॥ ३० ॥

श्रीनिवासतीर्थीया

मा मामसकृद्वारं वारं भजतो मुनेर्हृद्यन्तःकरणे । कदेत्यत उक्तम् ॥ मयि हृदि स्थिते सतीति ॥ ध्यानविषये सतीत्यर्थः । प्रायो ध्यानसंपत्त्यनन्तरं नश्यन्तीत्यर्थः

॥ ३० ॥

प्रमेयचन्द्रिका

भक्तियोगोऽस्य सिद्धिद इत्युक्तस्य विवरणं क्रियते ॥ प्रोक्तेनेत्यादिना ॥ स्वरूपकामनाशस्यापुरुषार्थत्वाद्धृदिस्था इत्युक्तम् । तदुक्तमनुव्याख्याने । कामा येऽस्य हृदि स्थिता इत्यन्तःकरणस्थानां कामनां विनिवर्तनमाह ॥ स्थित इति ॥ ३० ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥

तात्पर्यम्

हृदयग्रन्थिर् अन्तःकरणाख्यो बन्धः ॥ ३१ ॥

पदरत्नावली

एतदेव विवृणोति भिद्यत इति । हृदयग्रन्थिः प्राकृतान्तःकरणाख्यो बन्धः लिङ्गशरीरलक्षणः । अखिलात्मनि सर्वगते मयि दृष्टे अपरोक्षिते, सतीति शेषः ॥ ३१ ॥

श्रीनिवासतीर्थीया

समूलनाशः कदेत्यतोऽपरोक्षज्ञानोत्तरमित्याह ॥ भिद्यत इति ॥ अत्र हृदयस्य ग्रन्थिरित्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे ॥ हृदयेति ॥ अन्तःकरणं प्राकृतं भिद्यते विदीर्यते । भिद्लृ विदारणे । कर्माण्यारब्धान्यनभीष्टानि च । अखिलस्यात्मन्यन्तर्यामिणि ॥३१॥

प्रमेयचन्द्रिका

हृदयग्रन्थिरित्यत्र वक्षस्थलार्थत्वे ग्रन्थिनाशायोगादन्तःकरणपरत्वेऽपि तत्पुरुषसमास इति भ्रमं वारयति ॥ हृदयेति ॥ कर्मधारयेण हृदयस्यैव संसारबन्धकतया ग्रन्थित्वमिहोच्यत इति भावः ॥ ३१ ॥

तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।

न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥

यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत् ।

योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३३ ॥

सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।

स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३४ ॥

तात्पर्यम्

मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत् । ‘रागिणोऽपि विमुच्यन्ते देवा नास्त्यत्र संशयः । रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैरि’ति च ॥ ‘स्मर्तव्या विषये दोषा यतिभिर्न तु दैवतैः । हरिरेव सदा पूज्य इत्यर्थं दैवतैरपी’ति च ॥ वैराग्यार्थमपि विषयदोषादिज्ञानं सनकादीनां भाव्यं देवानां तदपि भगवद्भजनस्यैव सारतापरिज्ञानार्थमेवेत्यर्थः ॥ ३२ ॥

पदरत्नावली

यस्मात् पूर्वकर्मणां विनाशेन किञ्चिद्भुक्तस्योपमर्देनोत्तरस्याश्लेषेण भक्तियोगिनः सर्वपुरुषार्थोत्तमस् तस्मादिह जीवराशौ मदात्मनो मदेकचित्तस्य मद्भक्तियुक्तस्य योगिनो देवजातेर् ज्ञानाच्छ्रेयो न भवेद् वैराग्याच्च तस्मादित्यन्वयः । नन्वेवं ज्ञानवैराग्याभ्यां श्रेयउक्तिः कथमित्यत उक्तम् प्राय इति । भक्त्यनुसारिज्ञानवैराग्ये विना अन्यस्माज् ज्ञानाद् वैराग्याच्च श्रेयो निषिध्यते । देवानां रागित्वेपि मुक्तिसम्भवात् । ‘‘रागिणोपि विमुच्यन्ते देवा नास्त्यत्र संशयः । रागापनोदनार्थं च ज्ञानं साध्यं व्रतीश्वरैः’’ इति वचनात् । किञ्च ‘‘स्मर्तव्या विषये दोषा यतिभिर्नतु दैवतैः । हरिरेव सदा पूज्य इत्यर्थं दैवतैरपि’’ इति च ॥ कर्मादिना प्राप्यं यच्छ्रेयो न तत् त्वद्भक्त्या स्यादित्याशङ्का माभूदित्याह यत् कर्मभिरिति । यदि वाञ्छति तर्हि लभते, न तत्रेतरापेक्षा-स्तीत्यर्थः । योगेन प्राणायामलक्षणेन ध्यानेन वा ॥ ३२,३३ ॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ तस्मादिति ॥ मय्यात्मा मनो यस्य स मदात्मा तस्य । अत्र न ज्ञानादित्यादिना ज्ञानादेः श्रेयःशब्दोक्तमोक्षसाधनत्वाभावप्रतीतेर्योजयति ॥ मद्भक्तीति ॥ यावत्या भक्तेर्यावज्ज्ञानं वैराग्यं वा योग्यं तावत्संपाद्याल्पज्ञानाद्वैराग्याच्च स्वयोग्याच्छ्रेयो न भवतीत्याशयः ॥ भक्त्यनुसारीति ॥ यावत्या भक्तेर्यावद्योगं तावदित्यर्थः । ज्ञानं च वैराग्यं च ज्ञानवैराग्ये । अन्यस्माद्भक्त्यननुसारिणः ॥ भक्तियोगं स्तौति ॥ यत्कर्मभिरिति ॥ योगेन प्राणायामादिलक्षणेन ध्यानेन वा यत्फलं तत्सर्वं फलं स्वर्गसहितमपवर्गं मद्धाम मत्सन्निधानस्थलं यदि वाञ्छति तर्हि मद्भक्तियोगेन तदपि लभन्त इत्यन्वयः । अत्र स्वर्गवांछायां भक्तियोगेन तदपि लभन्त इत्युक्ते भक्तियोगवन्तो देवा एव तेषां स्वर्गादिरागवत्त्वे वैराग्याभावेन मोक्षप्रतिबन्धः स्यादित्यत आह ॥ रागिणोऽपीति ॥ स्वर्गादिस्वस्वपदादिकामनावन्तोऽपीत्यर्थः । वैराग्यशून्या अपीति यावत् । यथोक्तम् । देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः । विष्णोश्चलति तद्भोगो ह्यतीव हरितोषणमिति ।

एवं तर्हि देववद्रागिणामपि सनकादीनां ज्ञानयोगिनामस्तु मुक्तिस्तथा च रागोऽभ्यधिकस्तेषां सदैव सनकादीनामित्युक्तमयुक्तमित्यत आह ॥ रागेति ॥ विषयरागेत्यर्थः । वैराग्यार्थमिति यावत् । ज्ञानमाब्रह्मस्तंबपर्यन्तमसारं चाप्यनित्यकमिति सारासारविवेकज्ञानमित्यर्थः । एवं तर्हि विषयेषु दोषस्मरणमपि सनकादिभिरेव वैराग्यार्थं कर्तव्यं न तु देवैरिति तत्राह ॥ स्मर्तव्या इति ॥ न त्विति ॥ स्वर्गादिविषयेष्वनित्यत्वादिदोषस्मरणेन तत्त्यागो यतिवन्न कार्य इत्यर्थः । न त्वित्युक्तस्यापवादमाह ॥ हरिरिति ॥ इतरे सर्वेऽपि विषया असारा एको हरिरेव सारोऽतः स एव पूज्य इत्येवमर्थमेव देवतैरपि दोषा विषयेषु स्मर्तव्या न तु परित्यागायेति । इदं प्रमाणं स्ववाक्येन व्याचष्टे ॥ वैराग्यार्थमिति ॥ अपिशब्दाद्धरिः सारतया पूज्य इत्येवमर्थं चेति लभ्यते । अनेन स्मर्तव्या इति प्रमाणे वैराग्यार्थमपीति शेषः पूरित इत्यवगन्तव्यम् । द्वितीयार्धतात्पर्यमाह ॥ देवानां तदपीति ॥ अपिशब्दस्तुशब्दार्थे । देवानां तु तद्विषयदोषादिज्ञानम् । सारता श्रेष्ठता । एवशब्दान्नवैराग्यार्थमिति सूचयति । रागित्वेऽपि तेषां मोक्षप्रतिबन्धाभावस्य देवादीनामादिराज्ञामिति मानसिद्धत्वादित्याशयः ॥ ३२–३४ ॥

दुर्घटभावदीपिका

मद्भक्तो यदि यद्यत्कथंचिद्वाञ्च्छति तत्सर्वं स्वर्गापवर्गं स्वर्गं चापवर्गं च मद्धाम मद्देहलक्षणं स्थानम् । सायुज्यमोक्षमिति यावत् । यदि भगवद्भक्तानां प्रायः फलेच्छा न भवतीति ज्ञापनाय कथञ्चिदित्युक्तम् । एतेन फलेच्छारहितानामपि भक्तियोगेन फलप्राप्तेः सत्वाद् यदि फलं वाञ्छति तर्हि योगेन फलं लभत इति कथनमयुक्तमिति दूषणं पराकृतम् । यदीत्यस्य यदित्यर्थकत्वमावृत्तिं चाभ्युपेत्य यद्यद्वाञ्छति तत्सर्वं मद्भक्तियोगेन लभत इत्यर्थस्योक्तत्वात् । एतेनैवापवर्गमित्यनेन मद्धामेत्यर्थस्य प्राप्तत्वान् मद्धामेत्येतदपवर्गमित्यनेन पुनरुक्तमिति चोद्यं प्रत्युक्तम् । मद्धामेत्यनेन मोक्षमात्रस्याग्रहणात् ॥ ३४ ॥

प्रमेयचन्द्रिका

प्रोक्तेन भक्तियोगेनेति भक्तेः प्राधान्योक्तेर्ज्ञानवैराग्ययोः सर्वथाऽनपेक्षितत्वं किमित्यत उच्यते ॥ तस्मादिति ॥ अत्र ज्ञानवैराग्ययोः श्रेयःसाधनतानिषेधः क्रियत इति भाति । सूत्रेषु वैराग्यज्ञानपादयोस् तदावश्यकत्वावगमात्कथमेतदित्यत आह ॥ भक्तियुक्तस्येति ॥ अत्युद्रिक्तभक्तियुक्तस्याधिकारो यादृशमाहात्म्यज्ञानगर्हिताया यदि यत्प्रकारेण सर्वासारताज्ञानजनित-वैराग्योद्बलिता भक्तिस्तदनुसारिज्ञानवैराग्ये विनाऽन्यस्मात्तदनुसारिणो ज्ञानाद्वैराग्याच्च श्रेयो न भवेदित्यर्थः । तथा च मूले स्वभक्त्यनुसारिज्ञानवैराग्ययोरेव श्रेयःसाधनता निषिध्यते । न तूत्तमयोरतो न सूत्रादिविरोध इति भावः । मूलार्थस्तु यस्माद्भक्तियोग्युत्तमाधिकारी तस्मान्महदात्मनः मयि आत्मा मनो यस्य मज्ज्ञानिनः । भक्त्यनुसारिवैराग्यरूपोपायवत इहाधिकारिषु मद्भक्तियुक्तस्य भक्तियोगिन इति यावत् । प्रायो ज्ञानाच्छ्रेयो न भवेत् । वैराग्यादपि न भवेदिति भक्त्यनुसारिणो ज्ञानस्य वैराग्यस्य चासाधकतामभिप्रेत्य प्राय इत्युक्तम् ॥

नन्वत्र भक्त्युपयोगिज्ञानवैराग्यमात्रस्यावश्यकत्वमुक्तम् । तदयुक्तम् । रागमात्रस्य भक्तिप्रतिबन्ध-कत्वात् । तादृशवैराग्यं प्रति वस्तुसामान्यसारासारज्ञानस्यापि हेतुत्वेन भक्त्यनुकूलमाहात्म्यज्ञानमेव देवानामित्यप्ययुक्तमित्याशङ्कां प्रमाणेन परिहरति ॥ रागिणोऽपीति ॥ स्वाधिकाभिकामनं भवति । प्रीतये विष्णोरिति । तद्भोगोऽप्यतीवहरितोषणमिति चोक्तेर्विहितरागभोगयोर्हरिप्रीतिहेतुत्वादहल्यादि-रागस्यापि न लोमच मीयत इत्यकिञ्चित्करत्वोक्तेश्च रागिणो देवा मुच्यन्त इत्यत्र न संशयः । चोऽवधारणे । यतीश्वरैश्चेति सम्बन्धः । तथा च रागापनोदनार्थं वस्तुषु सारासारज्ञानं यतीश्वरैश्च सनकादिभिर्ज्ञानयोगिभिरेव साध्यं च संपादनीयम् । न तु देवैः । तेषां रागस्य भगवध्द्यानाविरोधित्वेन तादृशवैराग्यस्यैवानपेक्षितत्वात् । देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः । विष्णोश्चलतीत्युक्तेः । अतो भक्तयुपयोगिज्ञानवैराग्यमात्रमेव देवानामपेक्षितमिति भावः । भोग्येषु विषयेषु सारासारत्वादिज्ञानं यतीनामेवावश्यकं न तु देवानाम् । तेषां हरौ भक्त्यर्थमेव सारज्ञ(न)त्वमित्युक्तेऽर्थे स्पष्टं प्रमाणमाह ॥ स्मर्तव्या इति ॥ पूज्यो भजनीयः ।

अस्मिन्प्रमाणे विषयशेषस्मरणस्य साध्याप्रतीतेर् यतिशब्दस्य तुर्याश्रमिमात्रार्थताप्रतीतेर्विषयदोष-ज्ञानस्य हरिभक्तयुपयोगित्वाप्रतीतेश्चोदाहृतं प्रमाणं यथावद्व्याचष्टे ॥ वैराग्यार्थमपीति ॥ अपीत्य-नुक्तस्य भक्त्यर्थमित्यस्य समुच्चयार्थः । विषयदोषज्ञानेन हरिज्ञानस्य सारताज्ञापकतया भक्त्यर्थ-त्वस्यानुपदमेव वक्ष्यमाणत्वात् । तदपि विषयदोषादिज्ञानमपि विषयादिज्ञानं तद्भोगरूपा-नित्यासारफलकम् । भगवद्ज्ञानं तु तस्यैव परमेष्टतमज्ञानरूपत्वात्सारतममिति ज्ञापनार्थम् । अतो हरेरेव भजनं कार्यमिति सूचनार्थं चेत्यर्थः । इत्यर्थ इत्यत्रोदाहृतप्रामाणस्येति शेषः । इत्यर्थ इत्यभिप्रेतोऽर्थ इत्यर्थः । एतेन विषयदोषस्मरणस्य फलं वैराग्यमिति । यतिशब्दो ज्ञानयोगिसनकादिपर इति चोक्तं भवति । दोषज्ञानस्य भक्तयुपयोगित्वं स्पष्टम् । आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् । विज्ञाय जातवैराग्य इत्येतदपि भगवद्भजनस्य आवश्यकताज्ञानोपयोगितया योज्यम् ॥ कर्मादि-साध्यस्यापि भक्तयैव भाव्या सैवोत्तमेत्युच्यते ॥ यत्कर्मभिरिति ॥ दानधर्मेण श्रेयोभिः श्रेयःसाधनैः श्रवणादिभिः ॥ स्वर्गं चापवर्गं च द्वन्द्वैकवद्भावः । मद्धाम मत्स्वरूपम् । तत्र सायुज्यस्येष्टपदत्वेऽपि वस्तुतो न वाञ्छत्येव उत्तमभक्तः । स्वस्याधिकारित्वेन स्वर्गं परमपुरुषाराधनार्थमपवर्गं च कथञ्चिद्वाञ्च्छति चेत्सर्वं मद्भक्तियोगेन लभत इति भावः । कथञ्चिद्यदीतिपदाभ्यां वाञ्छाभावः सूचितः

॥ ३२–३४ ॥

न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम ।

वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३५ ॥

नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमकल्मषम् ।

तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३६ ॥

तात्पर्यम्

**रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते ॥ ‘यदि दद्याद्भक्तियोगफलं मोक्षमपीश्वरः । भक्तियोगफलत्वेन न तद्गृह्णीयुरेव ते । कामिनोऽपि स्वयं कामान्भुञ्जते न फलात्मना । तस्माद्विरागेऽप्यधिका देवा एव हि तादृशा’ इति च **

॥ ३५ ॥

पदरत्नावली

ननु यदीति व्यर्थं, रागिणां तेषां सर्वाभिलाषसम्भवादिति तत्राह– न किञ्चिदिति । रागिणोपि ते भक्तिफलबुद्ध्या न किञ्चिद् वाञ्छन्ति ॥ सुखं न वाञ्छन्ति चेत् ते दुःखयोग्याः किम् । नेत्याह नैरपेक्ष्यमिति । नैरपेक्ष्यमकल्मषं निष्पापं परं पूर्णं निःश्रेयसं प्राहुरिति यस्मात् तस्मात् । त्वदेकपरायणानां तेषां सुखलक्षणं फलम्, अन्यथा पाषाणत्वमपि श्रेयः स्यादित्याशङ्कां परिहरन्नुपसंहरति तस्मादिति । निराशिषः संसारविषयनिर्मुक्तस्य मे सकाशात् तस्य भक्तिरानन्दरूपिणी भवेदित्यन्वयः । यतो भक्तिविषयेण भक्ताय फलं देयमत इति । ‘‘यदि दद्याद् भक्तियोगफलं मोक्षमपीश्वरः । भक्तियोगफलत्वेन न तद् गृह्णीयुरेव ते’’ इत्यस्माद् वाक्यान्मुक्तिफलाद् भक्तिलक्षणसाधनस्याधिकानन्दबुद्ध्येत्यर्थः ॥ ३५,३६ ॥

श्रीनिवासतीर्थीया

भक्तियोगार्थे एकान्तभक्तस्थितिं कथयति ॥ न किञ्चिदिति ॥ मम भक्ता दत्तं दीयमानमपुनर्भवं पुनर्भवशून्यं कैवल्यं मोक्षं न वाञ्च्छन्ति चेत्किं प्राहुरित्यत आह ॥ नैरपेक्ष्यमिति ॥ कुत्रापि स्वर्गेऽपवर्गे वा यन्निरपेक्षं तदेव परं मुख्यमकल्मषं निष्पापं निःश्रेयसं प्राहुः । निरपेक्षत्वमेव निःश्रेयसस्थानीयं तेषामित्याशयः । उपसंहरति ॥ तस्मादिति ॥ निराशिषो विषयकामनाशून्यस्य सकाशात् । नैरपेक्षस्य विरोधं परिहरति ॥ विरागेऽपीति ॥ नैरपेक्ष्यरूपगुणयुक्तस्य भक्तस्य भक्तिरेवानन्दरूपिणी फलरूपा भवेदित्यर्थः ॥ ३५,३६ ॥

दुर्घटभावदीपिका

ज्ञानिनो नैरपेक्ष्यमकल्मषं न विद्यते कल्मषं यस्मात्तदकल्मषं कल्मषपरिहारकं परमुत्कृष्टं निःश्रेयसं भक्त्यादि निःश्रेयससाधनं च प्राहुः । तस्मान्नैरपेक्ष्यस्य स्वर्गादिकामनारहितस्य मे सकाशात् । मदनुग्रहादिति यावत् । भक्तिर्मोक्षादिकं च भवेदिति । एतेन निरपेक्षस्येत्येतन्निराशिष इत्यनेन पुनरुक्तमिति दूषणं परिहृतम् । उभयोरेकार्थत्वमित्यनङ्गीकारात् । एतेनैव निःश्रेयसमित्यनेन भक्त्यादिसर्वनिःश्रेयससाधनस्योक्तत्वाद् भक्त्यादिकं भवेदिति वक्तव्यम् । भक्तिर्भवेदिति कथनमनुपपन्नमिति दूषणं पराकृतम् । भक्तिशब्दस्य मोक्षाद्युपलक्षकत्वमित्यभ्युपगमात्

॥ ३६ ॥

॥ इति श्रीभागवतटिप्पण्यां विंशोऽध्यायः ॥ ११–२० ॥

प्रमेयचन्द्रिका

तद्विवरणपरे न किञ्चिदिति मूले कैवल्यमपि न वाञ्छन्तीत्ययुक्तम् । सर्वथा वांच्छाभावे यदिदद्यादित्युक्त्ययोगात् । गीताभाष्ये ब्रह्मादिभिरपि मोक्षस्य काङ्क्षितत्वादित्यत्रा-तद्गुणसंविज्ञानेन रुद्रादीनां काङ्क्षोक्तिविरोधाच्चेत्यत आह ॥ रागिणोऽपीति ॥ अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति । कदाचित् । अतो निरन्तरं निर्बाधं हरिभजनार्थमपवर्गादिरागिणोऽपि भक्तियोग-फलत्वेन किमपि नापेक्षन्ते । परमपुरुषाराधनार्थं मुक्तेर्भक्तियोगफलत्वेन विना केवलं काङ्क्षन्त इति नोक्तविरोध इति भावः ।

उक्तार्थे प्रमाणमाह ॥ यदीति ॥ फलं फलरूपम् । ते देवाः । किन्तु ज्ञात्वा ज्ञानेनैव गृह्णत इत्यपि ग्राह्यम् । परमेष्टतमपरमात्मप्रसादेनैव भक्तियोगफलम् । अतो न मदन्यत्र नियोजयन्ति । तादृशेष्टस्यान्यस्यादर्शनात् । भक्तियोगफलं मोक्ष इत्युक्तिस्तु तदितराधिकारिविवक्षयेति ज्ञेयम् ॥ ननु देवानामितरविषयकामस्तद्भोगश्च पुराणेषु दृश्यते । तत्साधनं च न कर्मादिकम् । सर्वस्यापि भक्तानुपयोगस्योक्तेः । भक्तियोगोऽपि न चेत्तत्साधनं कथं तर्हि तल्लाभ इत्यत आह ॥ कामिनोऽ-पीति ॥ स्वयमित्यस्य व्यावर्त्यं दर्शयति ॥ न फलात्मनेति ॥

इदमुक्तं भवति ॥ अस्त्येवोक्तरूपकामो भोगश्च देवानां तथापि न भक्तियोगफलत्वेन तद्ब्रहणम् । किं त्वस्मदादीनां सुखमिव स्वरससुन्दरतया परमेष्टरूपः प्रसन्नः परमेश्वरभक्तियोगफलभूतः सन्नान्तरीयकतया सर्वकामान् दर्शयति । तांश्च केवलभगवदनुग्रहप्राप्तान् भुञ्जत इति । ननु कामित्वे भक्तियोगिनां वैराग्ये न्यूनताऽपन्नेत्यत आह ॥ तस्मादिति ॥ यस्मात्स्वनिष्ठं भक्तियोगरूपं महदपि साधनं स्वभोगाय सर्वथा न विनियोजयति । तस्माद्विरागेऽप्यधिकास्तादृशा भक्तियोगिनो देवा एव नान्य इत्यर्थः ॥

मूले देवाः कैवल्यं कुतो न वाञ्च्छन्तीत्यत उच्यते ॥ नैरपेक्ष्यमिति ॥ यस्मादकल्मषं चलनादिकल्मष रहितम् । नैरपेक्ष्यं परं निःश्रेयसं भगवदनुग्रहरूपात्युत्तमश्रेयःप्रदं तस्मान्निराशिषो भगवत्प्रीतिहेतुत्वं विना विषयकामनारहितस्य निरपेक्षस्य भक्तियोगफलतया मोक्षेऽपि आकांक्षाविकलस्य मे मद्विषयणी भक्तिरेवानुकूलवेदनीया भवेत् । अतः कैवल्यस्य भक्तिवदिष्टत्वाभावान्न तद्वाञ्छतीति भावः ॥ ३६ ॥

न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः ।

साधूनां समचित्तानां बुद्धेः १पारमुपेयुषाम् ॥ ३७ ॥

तात्पर्यम्

**‘उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः । अधमः कर्मयोगश्च ब्रह्मैको मुख्यभक्तिभाक् । ज्ञानमप्यधिकं तेषां नियतं भक्तियोगिनाम् । उदेति भगव-द्भक्त्या तद्वन्न ज्ञानयोगिनः । भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा । तथापि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम् । भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसे’ति च **

॥ ३७ ॥

पदरत्नावली

भक्तियोगिनो रागिणश्चेद् तेषां विषया गुणदोषोद्भावकाः स्युरिति तत्राह– नेति । कामित्वेपि तेषां भक्तिफलत्वेन विषयभोगाभावाद् गुणा विषया गुणदोषोद्भावका न भवन्ति । कुतः । समचित्तानां समत्वेन मत्प्रियविहितकरणान्मदप्रियनिषिद्धवर्जनाच्च । एतदपि कुत इत्यत उक्तम् बुद्धेरिति । बुद्धेः प्रकृतेः पारमाप्तुकामानां मदेकहितकरणस्य युक्तत्वादित्यर्थः । अनेनैषां वैराग्यमप्यधिकमित्युक्तं भवति । तदुक्तम् ‘‘कामिनोपि स्वयं कामान् भुञ्जते न फलात्मना । तस्माद् विरागेऽप्यधिका देवा एव हि तादृशाः’’ इति ॥ ३७ ॥

श्रीनिवासतीर्थीया

गुणदोषोद्भवा गुणा वेदविहितकरणरूपगुणतन्निषिद्धकरणरूपदोषजन्या गुणदोषाश्चेति ग्राह्यम् । शुभाशुभफलानीति यावत् । न सन्तीत्यर्थः । विधिचकिताः सन्तो नाचरन्तीत्यत्र तात्पर्यं बुद्धेः प्रकृतेः परमुत्तमं हरिमुपेयुषां प्राप्तुकामानामित्यर्थः ॥

अत्रैकान्तिनो यदि स्वर्गादि वाञ्छन्ति तर्हि लभन्त इति वाञ्छामुक्त्वा न किञ्चिद्वाञ्छन्तीति तदभावश्च कथ्यते । अतो विरोधं परिहरति ॥ रागिणोऽपीति ॥१ स्वर्गापवर्गादिवाञ्छावत्त्वेनोक्ता अपि ते भक्तियोगिन एकान्तिनः किमपि स्वर्गादि नापेक्षन्त इति विरोधपरिहाराय भक्तिफलत्वेने-त्युक्तम् । अस्मत्कृतभक्तेरिदं फलं हरिणा दीयत इति बुद्ध्या तन्न स्वीकुर्वन्ति । अस्मदनुष्ठित-भक्त्यादिसाधनजातस्य भगवद्भक्तेरेवोद्देश्याद्दीयमानमपवर्गादिकं तु भगवदाज्ञारूपत्वेनैव तूष्णीं स्वीकुर्वन्ति । तदाज्ञाकरणस्यापि तत्प्रीतिसाधनत्वात् । न तु भक्तिफलत्वेन सर्वमन्यत्तदर्थक-मित्युक्तेरित्याशयः । अत्र प्रमाणं चाह ॥ यदीति ॥ न गृण्हीयुः । किं तु भगवदाज्ञारूपतया तत्प्रीतिसाधनत्वेनैव गृण्हीयुरित्यर्थः । तेषां विषयभोगोऽप्येवमेवेत्याह ॥ कामिनोऽपीति ॥ स्वस्वपदकामनावन्तोऽपीत्यर्थः । विरागेऽपि विशेषेण रागे सत्यपि कामान् स्वर्गादिविषयान् ॥ फलेति ॥ अस्मदनुष्ठितभक्त्यादेरिदं फलं स्वर्गादिकमिति स्वकृतभक्त्यादिसाधनफलं न भुञ्जते । किं तु भगवत्प्रीतिकरत्वेनैवेत्याशयः ॥ विराग इति ॥ सत्यपि कामे सत्यपि विषयभोगे आसक्त्यभावादित्यर्थः । एतादृशा एकान्तिनः ।

पूर्वं ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योस्ति कुत्रचिदित्युक्तम् । तत्रोद्देशक्रमानुसारेण भक्तियोगस्य नीचत्वं प्रतीयते । तस्यैव च सर्वोत्तमत्वं प्रतिपादितमतो विरोध इत्याशङ्क्योद्देश्यक्रमानुसारेण तारतम्यमत्र विवक्षितमित्याशयेन तत्त्रयाणां तारतम्यज्ञापकप्रमाणमाह ॥ उत्तम इति ॥ तेषां भक्तियोगिनां यन्नियतं मोक्षसाधनं तया क्लृप्तमधिकं यज्ज्ञानं तद्भगवद्भक्त्योदेति प्रकटं भवति । भक्तिप्राकट्यानुसारेण ज्ञानमपि प्रकटं भवतीत्याशयः । तद्वद्भक्तियोगवत् । नाज्ञानं भक्त्यादिनोदे-तीत्यर्थः । ननु भक्तियोगिनां कुत उदेति ज्ञानयोगिनः कुतो न । तेषामपि भक्तेः सत्वादित्यत आह ॥ भक्तीति ॥ भक्तेरंश एवांशकम् । ततोऽपि किमित्यत आह ॥ ज्ञानेति ॥ सा भक्तिर्माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्त इत्युक्तेः । एवं च यदा देवानां भक्त्याधिक्यं सिद्धं तदा ज्ञानाधिक्यं प्राप्तमेव । न हि तथा भक्त्याधिक्यं ज्ञानयोगिनामस्ति । येन ज्ञानाधिक्यमपि भवेदित्याशयः । ननु यदि न ज्ञानाधिक्यं कथं तर्हि ते ज्ञानयोगिन इत्यत आह ॥ तथाऽपीति ॥ यद्यपि न देवापेक्षया । ज्ञानमधिकमिति शेषः । तत एवं भक्तियोगस्येतरयोगद्वयापेक्षयोत्तमत्वादित्यर्थः ॥ ३७ ॥

प्रमेयचन्द्रिका

एवं निराशिषां निरपेक्षाणामपि भक्तियोगिनामिन्द्रादीनामिन्द्रादिपदेषु महाभोगभोक्तृत्वात्तेषां विषया गुणदोषोद्भावकाः स्युरित्यत उच्यते ॥ नेति ॥ साधूनां निर्दोष-स्वभावानां समचित्तानां समं हरौ चित्तं येषां तेषाम् । अत एव स्वोपाध्या वस्तुषु प्रियत्वाप्रियत्वाभ्यां गुणदोषबुद्धिरूपवैषम्यरहितानाम् । यो बुद्धेः परस्तु स इत्युक्तेः श्रुतेर्बुद्धेः परं भगवन्तं प्राप्तुमिच्छताम् एकान्तभक्तानां गुणा विषया गुणदोषोद्भावका न भवन्तीत्यर्थः ॥ ननु ज्ञानयोगिनामपि उत्तमत्वस्य ज्ञानी प्रियतमोऽतो म इत्यादिषु प्रसिद्धत्वाद्विशिष्यैकान्तभक्तानामेव विषया गुणदोषोद्भावका न भवन्ति कुत इत्यतो भक्तियोगिन एव सर्वाधिकत्वादित्याशयेनाधिकारितारतम्यं योगतारतम्येन ज्ञायत इत्याशयेन प्रमाणेनाह ॥ उत्तम इति ॥ तुशब्दयोश्चशब्दस्य चावधारणार्थः । भक्तियोगिनामपि सर्वेषां न साम्यमित्याशयेनाह ॥ ब्रह्मेति ॥ तदन्ये रुद्राद्या अपि क्रमान् न्यूनभक्तियुक्ता इति च ग्राह्यम् । त्रियोगाभ्यधिको ब्रह्मेत्युक्तत्वेऽपि तत्रैव प्रमाणान्तरत्वान्न पुनरुक्तिः । भक्तियोगिना-मुत्तमत्वोपपादनाय ज्ञानयोगिभ्यो ज्ञानाधिक्यमुपपादयति ॥ ज्ञानमिति ॥ तेषां भक्तियोगिना-मुद्रिक्तभगवद्भक्त्या निमित्तभूतया अभ्यधिकं ज्ञानित्वं नियमेनोच्यते । ज्ञानयोगिनो भक्तियोग-वदधिकज्ञानानुत्पत्तौ हेतुमाह ॥ भक्तयंशकमिति ॥ यतस्तस्मादिति पूर्वेण सम्बन्धः । ज्ञानस्य भक्तयंशत्वमुपपादयति ॥ ज्ञानेति ॥ हिशब्दः प्रमाणद्योतकः ।

एतदुक्तं भवति ॥ ज्ञानस्नेहसमाहारो भक्तिरित्यभिधीयते । ज्ञानपूर्वपरः स्नेहः माहात्म्य-ज्ञानपूर्ववदित्यादिभक्तेर्ज्ञानस्नेहात्मकत्वं प्रमितम् । ततश्च यत्र भक्त्याधिक्यं तत्र ज्ञानाधिक्यमिति सिध्द्यति । देवानां भक्त्याधिक्यं चोदाहृतप्रमाणैः प्रमितम् । तस्माद्भक्तियोगिनामेव ज्ञानाधिक्यम् । न ज्ञानयोगिनामिति ।

भक्तियोग्यपेक्षया ज्ञानयोगिनामल्पज्ञानत्वे ज्ञानयोगित्वमयुक्तम् । ज्ञानप्रचुरा योगिनो ज्ञानयोगिन इति वक्तव्यत्वादित्यत आह ॥ तथाऽपीति ॥ भक्तियोग्यपेक्षया ज्ञानस्य न्यूनत्वेऽपि कर्मयोगिनो ये जनकादयो मानुषास्तेषां ज्ञानापेक्षया अधिकं ज्ञानयोगिनां ज्ञानं यतोऽतस्तेषां ज्ञानयोगित्वमुपपद्यत इत्यर्थः । प्रमाणं स्वप्रकृतमुपसंहरति ॥ भक्तीति ॥ विद्वद्भिरुत्तमज्ञानिभिः ॥ ३७ ॥

एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः ।

क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे विंशोऽध्यायः ॥

पदरत्नावली

त्रयाणामपि योगिनां फलमाह– एवमेतानिति । कर्मयोगिनः क्षेमं विन्दन्ति ज्ञानयोगिनो वैकुण्ठादिस्थानं भक्तियोगिनो ब्रह्म तत्रापि मुख्यभक्तिभाग् ब्रह्मा परमं ब्रह्म विन्दतीति । ‘‘उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः । अधमः कर्मयोगश्च ब्रह्मैको मुख्यभक्तिभाक् । ज्ञान-मप्यधिकं तेषां नियतं भक्तियोगिनाम् । उदेति भगवद्भक्त्या तद्वन्न ज्ञानयोगिनः । भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा । तथापि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम् । भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसा’’ इत्यत फलतारतम्यमवगन्तव्यम् ॥ ३८ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य विंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

भगवान् योगत्रयफलकथनेनोपसंहरति ॥ एवमिति ॥ आदिष्टा-नुपदिष्टान्पथो मोक्षमार्गान् ये । त इति शेषः । येऽनुतिष्ठन्ति यत्परमं ब्रह्म ज्ञानिनो विदुस्तस्य मन्मम क्षेमं क्षेमकरं मत्स्थानं वैकुण्ठादि तद्विन्दन्ति प्राप्नुवन्तीत्यर्थः ॥ ३८ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे विंशोऽध्यायः ॥

प्रमेयचन्द्रिका

मूले त्रिविधयोगिनां फलमुच्यते ॥ एवमिति ॥ यत्परमं ब्रह्मेति विदुः । तदकुतोभयं मम स्थानं स्वरूपम् । तस्याद्यं स्थानं वैकुण्ठादिकमिति वा । सायुज्यं वैकुण्ठादिसालोक्यं स्वयोग्यं स्थानमनन्तरं वा प्राप्नुवन्तीत्यर्थः ॥ ३८ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां विंशोऽध्यायः ॥