१९ एकोनविंशोऽध्यायः

यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः

॥ अथ एकोनविंशोऽध्यायः ॥

श्रीभगवानुवाच—

यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः ।

मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥

तात्पर्यम्

‘त्रिगुणा प्रकृतिर्माया पश्येत्तन्मात्रकं जगत् । निर्मिमीते जगत्सर्वमतो मायेति सा स्मृते’ति प्रभवे ॥ ‘इदं ज्ञानं हरेः पूजा हरेरेवोदितं सदा । हर्यधीनं च सर्वत्रेत्येवं न्यासो हरौ स्मृत’ इति च ॥ १ ॥

पदरत्नावली

हरेः प्रसादजनकं ज्ञानमेव, तस्य भक्तिः, तस्या यमादयः, कृष्णो ब्रह्मेति यच्च ज्ञानम्, तत् सर्वमस्मिन्नध्याये निरूप्यते । तत्र प्रथमत उत्पद्यमानं तद् एवंविधप्रसाद-सम्पादकमिति भावेन वक्ति यो विद्येति । यो विद्याया वेदान्तादिलक्षणायाः श्रुतेन श्रवणेन सम्पन्न उत्पन्नज्ञान आनुमानिक उपक्रमादियुक्त्या निर्धूतसंशयविपर्ययश्च आत्मवान् ममात्मा स्वामी हरिरिति निश्चितहरितत्वो मामपरोक्षीकृत्य मद्भिन्नमिदं जगन् मायामात्रं मदिच्छोद्बोधितोपादानप्रकृतिनिर्मितत्वात् तन्मात्रं ज्ञात्वा तज्ज्ञानं च ममेदं ज्ञानं हरिपूजालक्षणं तत्प्रसादेनोत्पन्नं तदधीनं चेति मयि सन्न्यसेदित्यन्वयः । ‘‘त्रिगुणा प्रकृतिर्माया पश्येत् तन्मात्रकं जगत् । निर्मिमीते जगत् सर्वमतो मायेति सा स्मृता’’ इति वचनात्, ‘‘इदं ज्ञानं हरेः पूजा हरेरेवोदितं सदा । हर्यधीनं च सर्वत्रेत्येवं न्यासो हरौ स्मृतः’’ इति वचनादुक्तप्रकार एव हरौ ज्ञानन्यासो न प्रकारान्तरः ॥ १ ॥

श्रीनिवासतीर्थीया

हरिप्रसादजनकं ज्ञानमेवेति स्तौति ॥ य इति ॥ वेदान्तविद्याया यच्छतं श्रवणं तेन सम्पन्न आत्मवान्निगृहीतेन्द्रियः । आनुमानिको मीमांसानुमानशब्दोक्तमीमांसाशास्त्र-निष्णातः । मायामात्रमित्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ त्रिगुणेति ॥ तन्मात्रकं तदुपादानकम् । प्रकृतिः कथं मायेत्यत आह ॥ निर्मिमीत इति ॥ सा प्रकृतिः । मा निर्माणे अस्मात्कर्तरि यप्रत्यये मायेति भवतीत्याशयः । ज्ञानं च मयि संन्यस्येदित्यत्र ज्ञानस्य भगवति संन्यासो नाम क इत्यत आह ॥ इदमिति ॥ हरेः सकाशादुदितमुत्पन्नम् । सर्वत्र पुरुषेषु स्थितं ज्ञानं सदा हर्यधीनं न्यासो ज्ञानस्य । तथा चेदं जगन्मायामात्रं प्रकृतिनिर्मितमतोऽस्वतन्त्रमित्यादि जानीयात् । ज्ञात्वा च तत्ज्ञानं मयि संन्यसेदित्यर्थः ॥ १ ॥

प्रमेयचन्द्रिका

पूर्वाध्यायद्वये वर्णाश्रमधर्मानुक्त्वा तदिदानीं तदनुष्टानेन लब्धं ज्ञानादिकं मय्येवार्पयेदित्यर्थप्रतिपादके यो विद्येति श्लोके मायामात्रपदमन्यथाप्रतीतिवारणाय व्याचष्टे ॥ त्रिगुणेति ॥ तन्मात्रकं तया निमित्तम् । तदुपादानकमिति यावत् । जीवानां बाह्यदेहादेरपि तज्जन्यत्वाज्जगदिति सामान्यत उक्तिः । त्रिगुणप्रकृतौ मायाशब्दं निर्वक्ति ॥ निर्मिमीत इति ॥ मा निर्माण इत्यतो भावे सम्पदादिभ्यश्चेति क्विपि माशब्दो निर्माणवाची । ततश्च मां निर्माणं यापयतीति प्रकृतिर्मायेति उच्यत इति भावः ।

स्वनिष्ठस्य ज्ञानस्य कथं हरौ सन्न्यास इत्यत आह ॥ इदमिति ॥ प्रीतिसाधनक्रिया हि पूजा । ज्ञानरूपान्तरक्रिया च विशेषतो हरिप्रीतिसाधनम् । न तादृशी प्रीतिरीड्यस्येत्याद्युक्तेः । अत इदं ज्ञानं हरेः पूजेति युक्तमिति ज्ञेयम् । सदा नियमेन हरेः सकाशादेवोत्पन्नं, सर्वत्र संसारे मुक्तौ चेत्येवं समर्पणमेव हरौ न्यासः स्मृत इत्यर्थः ॥ १ ॥

ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः ।

स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥ २ ॥

पदरत्नावली

कस्मात् त्वयि ज्ञानसन्न्यास इत्यतस्तन्निमित्तमाह– ज्ञानिन इति । तुशब्दस्तारतम्यद्योतकः । स्वस्यार्थ आनन्दलक्षणो यस्मात् स तथा । हेतुर्ज्ञानोत्पादकः । सम्मतो ज्ञातः । इतोपीत्याह– स्वर्गश्चेति ॥ २ ॥

श्रीनिवासतीर्थीया

एतादृशो ज्ञानी मम प्रिय इति वक्तुं तत्र हेतुमाह ॥ ज्ञानिनस्त्विति ॥ इष्टो निरुपाधिकप्रियः । स्वस्यार्थ आनन्दलक्षणो यस्मात्स स्वार्थः । हेतुर्ज्ञानोत्पादकः । सम्मतस्तेन ज्ञात इष्टत्वादिना सम्मत इति वा । मदृतेऽन्यः स्वर्गोऽपवर्गश्चेत्यर्थः । पुरुषार्थो ज्ञानिनः प्रियो न किं त्वहमेव प्रिय इत्यर्थः ॥ २ ॥

दुर्घटभावदीपिका

ज्ञानिनोऽहमेव तु विशेषत इष्टः । तत्र हेतुमाह ॥ स्वार्थ इति । यतोऽहमेव स्वार्थः स्वार्थरूपो हेतुः स्वरूपानन्दलक्षणस्वार्थाभिव्यक्तिहेतुश्चेति ज्ञानिनः सम्मतः । हेत्वन्तरमाह । यतश्च स्वर्गोऽपवर्गश्च मदृते मामृतेऽन्योऽर्थः स्वर्गापवर्गेभ्योऽन्योऽर्थश्च प्रियो नैवेति । एतेन भगवतोऽन्योऽर्थः प्रियो नेत्यनेनैव मामृत इत्यर्थत्वस्य प्राप्तत्वात् । मदृत इत्येतद्व्यर्थमिति दूषणस्यानवकाशः । अन्योऽर्थ इत्यस्य भगवतोऽन्यार्थ इत्यर्थ इत्यनङ्गीकारात् ॥ २ ॥

प्रमेयचन्द्रिका

मूले कस्मात्त्वयि ज्ञानसन्यास इत्यतो ममैव परमेश्वरत्वात्सर्वपुरुषार्थ-दातृत्वादेश्चेत्युच्यते ॥ ज्ञानिन इति ॥ स्वार्थः स्वयमेवार्थः । पुरुषार्थरूपः । हेतुर् ज्ञानोत्पादकः, सम्मत आत्मीयतयाऽभिमतः । भक्तानां हरिरेव प्रेष्टोऽर्थ इत्येतदुपपाद्यते ॥ स्वर्ग इति ॥ मदृते मां विना स्वर्गादिरन्योऽर्थः । स्वर्गश्चापवर्गश्च तदन्यः । सम्पदादिरूपोऽर्थश्चेति वा नैव प्रियः । स्वर्गापवर्गादिस्वीकारस्यापि मत्प्रीतिहेतुत्व एव तस्य प्रियत्वं नान्यथेति भावः । यथोक्तम् । एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थकमिति ॥ २ ॥

ज्ञानविज्ञानसम्बद्धाः१ पदं श्रेष्ठं विदुर्मम ।

ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ ३ ॥

पदरत्नावली

स्वार्थप्राप्तिप्रकारमाह– ज्ञानेति । विदुर्लभन्ते । निगमयति ज्ञानीति । प्रियतमत्वे निमित्तमाह– ज्ञानेनेति ॥ ३ ॥

श्रीनिवासतीर्थीया

एवं ज्ञानविज्ञानाभ्यां सम्बद्धा युक्तास्ते मम श्रेष्ठं पदं विदुर्लभन्ते यस्मादतस्तस्मान्मे मम ज्ञानी प्रियतम इत्युपसंहारः । प्रियतमत्वे हेतुमाह । असौ ज्ञानी मां ज्ञानेन बिभर्ति सदा मद्विषयकज्ञानयुक्त इत्यर्थः ॥ ३ ॥

प्रमेयचन्द्रिका

यत एवमहमेव नान्योऽर्थः । अतो ज्ञानविज्ञानसम्बन्धाज् ज्ञानं साधारणं स्मृतम् । देवादीनां तु यद्ज्ञानं तद्विज्ञानं सतां मतमिति द्वितीयस्कन्धतात्पर्योक्तेर्विज्ञानवत्वादिति यावत् । देवादयो मम पदमेव परमपुरुषार्थश्रेष्ठं विदुर्जानन्ति । तदन्ये तु विज्ञानमात्मयोग्यं स्याज् ज्ञानं साधारणं स्मृतमित्युक्तेर्ज्ञानादिमत्वात्प्रेष्टं महत्पदं विदुर्लभन्ते । अस्मिन्पक्षे स्वस्यार्थो मुक्तिरूपो येन सः स्वार्थो ऽत एवेष्टसाधनत्वादिष्ट इति मदृत इत्येतदप्यात्मनस्तु कामायेत्युक्तरीत्या योज्यम् । ज्ञानिनोऽहं प्रिय इत्युक्तं ज्ञानी च मम प्रिय इत्युच्यते । ज्ञानीति प्रियतमत्वे निमित्तमुच्यते ॥ ज्ञानेनेति ॥ मां बिभर्त्तीत्यस्य मद्विषयकज्ञानवानेव सन् सर्वदा मां ध्यायतीति भावः ॥ ३ ॥

तपस्तीर्थं जपो दानं पवित्राणीतराणि च ।

नालं कुर्वन्ति तां शुद्धिं या ज्ञानकलया कृता ॥ ४ ॥

पदरत्नावली

तपआदिना उभयशुद्धिमतस्तव प्रियत्वेन ज्ञानं विशिष्य किं स्तौषीति तत्राह– तप इति । या शुद्धिर्ज्ञानलेशेन कृता तां शुद्धिं तपआदीनि अलं सम्यङ् न कुर्वन्तीत्यन्वयः

॥ ४ ॥

श्रीनिवासतीर्थीया

ज्ञानं पुनः स्तूयते ॥ तप इति ॥ पवित्राणि पवित्रकराणि । स्नानादीन्यलं सम्यक् या शुद्धिर्ज्ञानकलया ज्ञानैकदेशेन कृता तां शुद्धिं न कुर्वन्तीत्यर्थः ॥४॥

प्रमेयचन्द्रिका

ननु ज्ञानस्येव तपआदेरपि पावित्र्यहेतुत्वाद्विशिष्य ज्ञानिनः प्रियत्वोक्तिः किमर्थेत्यत उच्यते ॥ तप इति ॥ अलं सम्यक् ज्ञानकलया ज्ञानलेशेन ॥ ४ ॥

ज्ञानविज्ञानसहितं ज्ञात्वा स्वात्मानमुद्धव ।

ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावितः ॥ ५ ॥

पदरत्नावली

यतः सर्वश्रेयःप्राप्तौ ज्ञानस्योत्तमसाधनत्वमतस्त्वयापीदमेव सम्पादनीयमित्याह– ज्ञानेति । स्वात्मानं परमात्मानम् । तं वा एतमभिवदन्ति स्वात्मेति श्रुतेः ॥ ५ ॥

श्रीनिवासतीर्थीया

उत्तरग्रन्थोपक्षेपायोपसंहारः क्रियते ॥ तस्मादिति ॥ सहितं युक्तं स्वात्मानं हर्यधीनत्वादिना ज्ञात्वा । भक्त्या भावितो वासितः ॥ ५ ॥

प्रमेयचन्द्रिका

यत्वतादृशं ज्ञानं कथं भवतीत्यतो ज्ञानादिसम्पन्नत्वेन प्रकारेण मदुपासनया भवतीति सूचयन् ज्ञानस्योत्तमत्वात्त्वयाऽपीदमापादनीयमित्युच्यते ॥ ज्ञानेति ॥ स्वात्मानं स्वस्याशनादिकर्त्तारम् । स्वामिनमिति वा ॥ ५ ॥

ज्ञानविज्ञानयज्ञेन मामिष्ट्वाऽऽत्मानमात्मनि ।

सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽन्वगुः ॥ ६ ॥

पदरत्नावली

कस्येदं दृष्टफलं येन विश्रभ्य भजनीयं स्यादत्राह– ज्ञानेति । आत्मनि हृदये । समीचीना सिद्धिर्मुक्तिर्यस्मात् स तथा तम् ॥ ६ ॥

श्रीनिवासतीर्थीया

ज्ञानविज्ञानरूपयज्ञेन । आत्मानं गुणपरिपूर्णं माम् । आत्मनि मनसि मानसयज्ञेन । मामिष्ट्वेति यावत् । संसिद्धिमपरोक्षज्ञानं मोक्षं च ॥ ६ ॥

त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो

मायाऽन्तराऽपतति नाद्यपवर्गयोर्यत् (यः) ।

जन्मादयोऽस्य वद मां तव तस्य किं स्यु-

राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥

तात्पर्यम्

‘अन्यस्थं निर्मितं जीवे जन्मादि हरिणा यतः । तस्मान्मायेति तत्प्राहुर्माया निर्माणमुच्यते । न हि जीवस्य जन्मादि स्वतो नित्यस्य सम्भवेत् । सृष्टेः प्राक् प्रलये चैव यतो जन्मादि नास्य हि । तस्मान्मध्येऽपि नास्यास्ति देहादिस्थं तु विष्णुना । कर्मभिर्निर्मितं जीवे प्रलये यन्न जीवगम् । यन्न विद्येत हि लये यन्न विद्येत मुक्तिगे । जीवस्य न स्वभावोऽसौ प्रायेणेति विनिश्चित’ इति प्राकाशिकायाम् । ‘माये-त्युक्तं निर्मितं तु यतो जन्मादि निर्मितम् । देहादिगं परेशेन माया जन्मादि तेन त्वि’ति प्रकृते ॥

मां प्रति वद । तस्य देहादेर्जन्मादयोऽस्य चिदानन्दरूपस्य तव स्युः किम् । अस्वतन्त्रत्वादवस्तुनो जगत आद्यन्तयोर् यज्जीवस्यास्ति तदेव तस्य स्वाभाविकम् । संसारेऽपि । अन्यदभिमाननिमित्तम् । प्रलये विद्यमानस्य कथं जन्मादि स्यादिति भावः ॥ तदा नाशाद्देहादेस्तु युज्यते । मुक्तिगमेव जीवस्य स्वाभाविकम् । किमु लयेऽप्यविद्यमानं स्वतः स्यादित्यर्थः ।

‘आद्यन्तयोरनुगमादाद्यन्तरहितस्य तु । आद्यन्ते भाविनो मध्ये कथमन्यादृशं वपुरि’ति ब्रह्मतर्के ॥ ‘अनित्यत्वात्तु देहस्य तस्य जन्मादिकं भवेत् । मुक्तिप्रलयसम्बन्धे कथं जीवे तदिष्यत’ इति च ॥ ‘अनित्यस्य गुणा मध्ये भवेयुः स्वत एव तु । न तु स्वतस्तु नित्यस्य कादाचित्कगुणैर्युति’रिति च ॥ ७ ॥

पदरत्नावली

ननु तवापि देहित्वेन दुःखादिसम्भवात् कथं त्वत्प्राप्तिर्मुक्तिः स्यादित्याशङ्क्य स्वतश्चिदानन्दरूपस्य तव जन्मादिर्नास्ति स देहस्यैव, मम तु तादृशदेह एव नास्ति निर्गुणत्वात्, कुतो जन्मादिरतो नित्यनिर्दुःखानन्दानुभवस्य मम प्राप्तिरेव मुक्तिरिति भावेनाह–त्वयीति । हे उद्धव यस्त्रिविधो जन्मस्थितिसंहारलक्षणो विकारस्त्वय्याश्रयति सम्प्रति वर्तते स मायानिमित्तो न तु स्वाभाविकः । ‘‘अन्यस्थं निर्मितं जीवे जन्मादि हरिणा यतः । तस्मान्मायेति तत् प्राहुर्माया निर्माणमुच्यते । नहि जीवस्य जन्मादि स्वतो नित्यस्य सम्भवेत् । सृष्टेः प्राक् प्रलये चैव यतो जन्मादि नास्य हि । तस्मान्मध्येपि नास्यास्ति देहादिस्थं तु विष्णुना । कर्मभिर्निर्मितं जीवे प्रलये यन्न जीवगम् । यन्न विद्येत हि लये यन्न विद्येत मुक्तिगे । जीवस्य न स्वभावोऽसौ प्रायेणेति विनिश्चितम्’’ इति प्रकाशिकायाम् । किञ्च ‘‘मायेत्युक्तं निर्मितं तु यतो जन्मादि निर्मितम् । देहादिगं परेशेन माया जन्मादि तेन तु’’ इत्यस्माच्च । अतर्कितोपपन्नवदागतत्वान्न स्वाभाविक इत्याह– अन्तरेति । यो जन्मादिरन्तरा सृष्टिकाल आपतति कर्मवशादागच्छति आद्यपवर्गयोः प्रलयमुक्त्योर्न विद्यते । ‘‘यन्न विद्येत हि लये यन्न विद्येत मुक्तिगे । जीवस्य न स्वभावोऽसौ’’ इत्युक्तत्वाच्च । उक्तार्थोऽयं तवाप्यनुभवसिद्ध इत्याशयेनाह जन्मादय इति । तस्य परिणामरूपस्य देहस्य दृश्यमानजन्मादयोऽस्य चिदानन्दरूपस्य तव स्युः किम् । मां प्रति वद । ‘‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्’’ इत्यादेः । उपसंहरति आद्यन्तयोरिति । असत इति हेतुगर्भ-विशेषणम् । अस्वतन्त्रत्वादवस्तुनो जगत आद्यन्तयोर्यज्जीवस्यास्ति चिदानन्दस्वरूपं तदेव मध्ये सृष्टिकालेऽपि स्वरूपम् । तस्मादाभिमानिकः संसारो मदपरोक्षज्ञानेन निवर्तत इति भावः । ज्ञानिनो मनुष्याऽहमित्यनुभवतः सुखैकरूपा मुक्तिः कथं सेत्स्यति अन्यस्यान्यादृशत्वानुपपत्तेरित्याशङ्क्य कालत्रयेपि जीवस्यैकरूपत्वेनाभिमानिक आगन्तुकः संसारो मत्प्रसादेन निवर्तत इति वाऽऽह त्वयीति । ‘‘आद्यन्तयोरननुगमादाद्यन्तरहितस्य तु । आद्यन्तभाविनो मध्ये कथमन्यादृशं वपुः’’ इत्यतः सिद्धम् । किञ्च ‘‘अनित्यत्वात् तु देहस्य तस्य जन्मादिकं भवेत् । मुक्तिप्रलयसम्बन्धे कथं जीवे तदिष्यते’’ इति, ‘अनित्यस्य गुणा मध्ये भवेयुः स्वत एव तु । न तु स्वतस्तु नित्यस्य कादाचित्कगुणैर्युतिः’’ इति ॥ ७ ॥

श्रीनिवासतीर्थीया

ननु स्वरूपेणोत्पत्त्यादिमतो जीवस्य जन्माद्यभावरूपा मुक्तिः कथं सङ्गच्छत इत्यतः स्वतश्चिदानन्दाद्यात्मकस्य न स्वरूपेणोत्पत्त्यादीति युक्ता तस्य मुक्तिरित्याशयेन स्वरूपे तदभावं वक्तुं त्वयीति श्लोकस्तं दुर्गमार्थत्वादन्यथाप्रतीतिनिरासाय च प्रमाणेनैव व्याख्याति ॥ अन्यस्थमित्यादिना ॥ अन्यस्थं देहादिजन्मादिस्थं जीवे जीवस्वरूपे निर्मितमभिमानतो जीवे प्रतीयत इति यावत् । तज्जन्माद्युच्यते । मा निर्माण इति धातोः कर्तरि यप्रत्यये मायेति भवति । तथा च माया निर्मितमित्यर्थः । अन्यस्थमिति योग्यतया सम्बध्यते । अन्यस्थं निर्मितमिति कुत इत्यतो जन्मादयोऽस्येत्यादेस्तात्पर्यमाह ॥ न हीति ॥ स्वत इत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । स्वतो नित्यस्य स्वरूपतश्चिदानन्दाद्यात्मकत्वेन नित्यस्य जीवस्य स्वतः स्वरूपेण जन्मादिर्न हि सम्भवेदित्यर्थः । नाद्यपवर्गयोर्यदित्येतस्यार्थमाह ॥ सृष्टेरिति ॥ आदीत्यस्य व्याख्यानम् ॥ सृष्टेः प्रागिति ॥ प्रलय इत्यर्थः। अपवर्ग इत्यस्यार्थः प्रलय इति । प्रकर्षेण लयः प्रलयो मुक्तिस्तस्या-मित्यर्थः । यदित्यस्य यत इत्यर्थः । सप्तसु प्रथमेति सूत्रात् । अस्य जीवस्वरूपस्य । अन्तराऽपततीत्यस्य तात्पर्यम् ॥ देहादिस्थं त्विति ॥ कर्मभिः कर्मानुसारतो देहादिस्थं जन्मादि विष्णुना जीवे निर्मितम् । अभिमानं दत्वेति यावत् । अभिमानादिकं जीवे प्रतीयत इत्यत्र तात्पर्यम् । प्रलयमुक्त्योर्मध्यावस्थायाम् । संसार इति शेषः । तस्माज्जन्मादि जीवस्वभावो न भवतीत्यर्थः । तत्र हेतुमाह ॥ प्रलय इति ॥ मुक्तिरप्यत्र प्रलयशब्देन ग्राह्या । तस्या अपि लयविशेषत्वात् । तथा च जन्मादिरूपो विकारो न जीवस्वभावः । प्रलयेऽविद्यमानत्वात् । मुक्तावप्यविद्यमानत्वात् । देहादिवदित्यनुमानद्वयं बोद्धव्यम् । अनुमानद्वये व्याप्तिमुपपादयति ॥ यन्न विद्येत हीति ॥ यल्लये न विद्येतासौ जीवस्य स्वभावो न । यन्मुक्तिगे जीवे न विद्येतासौ जीवस्य स्वभावो नेति योज्यम् । नन्वाद्यानुमाने स्वरूपानन्दाद्यनुभवे व्यभिचारः । न हि सज्जीवानामुक्तानां प्रलये स्थितानां मौक्ता-नन्दानुभवसदृशानन्दानुभवोऽस्ति । तथा च प्रलये विद्यमानत्वरूपहेतोः सत्वाज्जीवस्वभावत्वाभावरूप-साध्याभावादित्यत उक्तम् ॥ प्रायेणेति ॥ तथा च यल्लये न विद्यतेऽसौ जीवस्वभावो नेति व्याप्तेः प्रायिकत्वान्न दोष इत्याशयः । विनिश्चित इति भावे क्तः । विनिश्चय इत्यर्थः । एवमव्याख्याय यल्लये मुक्तौ च न विद्यतेऽसौ जीवस्य न स्वभाव इति एकमेव व्याप्तिमभिधाय चिन्तादिभिन्नाभिन्न-धर्मव्यावृत्तये प्रायेणेति व्याख्यानं महत्कौशलमित्यास्ताम् । एकानुमानत्वे मुक्तावविद्यमानत्वहेतोः कुत्रापि व्यभिचाराभावाल्लयेऽविद्यमानत्वविशेषणवैय्यर्थ्यापत्तेरिति दूषणं द्रष्टव्यम् ।

त्रिविधो विकारो मायेत्येतत्प्रमाणान्तरेणापि व्याख्याति ॥ मायेतीति ॥ यन्निर्मितं वस्तु तन्मायेत्युक्तम् । तुशब्दश्चशब्दार्थः । यतश्च देहादिगं जन्मादि परेशेन जीवे निर्मितं तेन कारणेन मायाशब्दवाच्यं तदिति योज्यम् । मां शिष्येषु वदेत्यन्यथाप्रतीतेः प्रतिशब्दाध्याहारेण योजयति ॥ मां प्रतीति ॥ जन्मादयोऽस्य तव तस्य किं स्युरित्यसङ्गतं प्रतीयतेऽतः प्रमाणेन तात्पर्यतो व्याख्यातमपि स्ववाक्येन स्पष्टं व्याकरोति ॥ तस्येति ॥

आद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये इत्येतद्योजयति ॥ अस्वतन्त्रत्वादिति ॥ सद्वस्तुशब्दयोः पर्यायत्वादसदित्येतदवस्तुन इति व्याख्यातम् । अवस्तुत्वं मिथ्यात्वेन न भवतीत्युक्तम् ॥ अस्वतन्त्रत्वादिति ॥ सद्वस्तुशब्दयोः पर्यायत्वेन सत्वं स्वातन्त्र्यमुद्दिष्टमित्युक्तत्वादस्वतन्त्र-त्वादवस्तुन इति व्याख्या युक्ता । जगत आद्यन्तयोः सृष्ट्यपेक्षयाऽऽदिः प्रलयोऽन्तो मुक्तिस्तत्रे-त्यर्थः । यच्चिदानन्दाद्यात्मकं जीवस्येति मूले शेषोक्तिः । तदेवेत्यनूद्य तस्य स्वाभाविकमिति मूले शेषोक्तिः । मध्य इत्यनन्तरमपिशब्दमध्याहृत्य तस्यार्थ उक्तः ॥ संसारेऽपीति ॥ ननु संसारेऽ-प्यानन्दादिरूपत्वस्य स्वाभाविकत्वे कथं तर्हि दुःखादिप्रतीतिरित्यत आह ॥ अन्यदिति ॥ मुक्तिप्रलययोर्यन्नास्ति दुःखादि तदन्यदित्युच्यते । अभिप्रायमाह ॥ प्रलय इति ॥ मुक्तौ चेत्यपि ग्राह्यम् । विद्यमानस्य जीवस्वरूपस्य ।

ननु जीवदेहादेरप्यानन्दादिवत्स्वाभाविकत्वात्कथं तस्यापि जन्माद्युपपत्तिरित्यत आह ॥ तदेति ॥ मुक्तिप्रलययोरित्यर्थः । देहादेर्नाशाद्युज्यते देहस्य जन्मादीत्यर्थः । पिण्डितार्थमाह ॥ मुक्तिगमेवेति ॥ आनन्दादीत्यर्थः । उपलक्षणमेतत् । प्रलये च विद्यमानमेव प्रायो लिङ्गदेह-कर्मादिव्यतिरिक्तं स्वाभाविकम् । प्रलयेऽपिशब्दान्मुक्तौ चाविद्यमानं जन्मादिकं स्वतः स्वाभाविकं न स्यान्न स्यादेवेत्यर्थः । मुक्तिगमेवेत्युक्तार्थे प्रमाणमाह ॥ आद्यन्तयोरिति ॥ आद्यन्तरहितस्य । नित्यस्येति यावत् । जीवस्य यदन्यादृशं वपुर्ज्ञानान्दाद्यात्मकं वपुस्तस्याद्यन्तयोः प्रलय-मुक्त्योरनुगमात्सत्वात्तत् । स्वाभाविकमिति शेषः । अनेन मुक्तिगमेवास्य स्वाभाविकमित्युक्तं दृढीकृतं भवति । यदन्यादृशं जन्माद्युपेतं वपुराद्यन्ते प्रलयमुक्त्योर्नभावि तत्रापि विद्यमानं तन्मध्ये प्रलयमुक्त्योर्मध्ये कथमन्यादृशं स्वाभाविकं स्यात् स्वाभाविकं न भवतीत्यर्थः । अनेन किम्वित्या-द्युक्तार्थो दृढीकृतो भवति । तदनाशाद्देहादेर्युज्यत इत्यत्र प्रमाणमाह ॥ अनित्यत्वादिति ॥ तस्य देहस्य मुक्तिप्रलयसम्बद्धे जीवे तज्जन्मादिकं कथमिष्यते न कथमपीति योज्यम् । ननु कुत एवमित्यतस्तत्र नियमं वाक्यान्तरेणाह ॥ अनित्यस्येति ॥ स्वत एव स्वरूपत एवानित्यस्येति सम्बन्धः । गुणा जन्माद्या मध्ये भवेयुः । कादाचित्काः । न स्वाभाविका इति यावत् । अतो देहादेर्जन्मादि युज्यत इत्यर्थः । स्वतः सुखरूपत एव नित्यस्य कादाचित्कगुणैर्जन्मादिभिर्युतिर्युक्तता न तु नैवेत्यर्थः । अतो न जीवस्वरूपेऽसतः सत्तासम्बन्धरूपं जन्मादि नेष्यत इति भावः ॥

तथा चेयं श्लोकोजना ॥ हे उद्धव । यस्त्रिविधो जन्मादिस्थितिसंहारलक्षणो विकारस्त्वयि त्वदुपलक्षितजीवजाते । स माया । अन्यस्थं निर्मितं देहादिस्थमेवासतः सत्तासम्बन्धरूपं जन्मादिकमभिमानतो जीवे प्रतीयत इत्यर्थः । कुत इत्यतोऽस्वाभाविकत्वादित्याशयेन तदुपपादयति । यद्यतः स्याज्जन्मादिर्जीवस्याद्यपवर्गयोः सृष्टेरादिः प्रलयोऽपवर्गो मोक्षः प्रलयापवर्गयोर्न विद्यते किं त्वन्तरा प्रलयमुक्त्योर्मध्ये कर्मवशादागच्छति । अतो न स्वाभाविक इत्याशयः । अयमर्थस्तवाप्यनु-भवसिद्ध इत्याह ॥ जन्मादय इति ॥ तस्य देहादेर्ये जन्मादयो दृश्यमानास्तेऽस्य चिदानन्द-स्वरूपस्य तव त्वत्स्वरूपस्य स्युः सन्ति । किं सन्तीति त्वया ज्ञातं चेन्मां प्रति वदोपपादय । त्वत्सामर्थ्यं पश्याम इत्याशयः । तस्मादानन्दादेरेव स्वाभाविकत्वं न जन्मादेरतो जन्माद्यभावरूपा मुक्तिर्युक्तेत्याशयेनोपसंहरति ॥ आद्यन्तयोरिति ॥ असतोऽस्वतन्त्रस्य जगत आद्यन्तयोः सृष्टेरादिः प्रलयोऽन्तो मुक्तिः प्रलयमुक्त्योर्यज्जीवस्यास्ति चिदानन्दादि तदेव मध्ये संसारेऽप्यस्तीति तस्यैव स्वरूपत्वं न जन्मादेरतोऽहं जात इति जीवे प्रतीयमानं तु जन्मादि देहाद्यभिमाननिमित्तं मदपरोक्षज्ञानेन निवर्ततेऽनन्तरं मुक्तो भवतीत्याशयः ॥ ७ ॥

प्रमेयचन्द्रिका

नन्वनादित्वेन स्वाभाविकस्य संसारस्य निवृत्ययोगात्कथं सम्यक्सिद्धिरूपा मुक्तिर्यस्मात्तं मामन्वगुरित्युच्यत इत्याशङ्कावारणायोच्यते ॥ त्वयीति ॥ अयमर्थः ॥ हे उद्धव त्वयि त्वदुपलेक्षिते जीवे यस्त्रिविधः सृष्टिस्थित्यप्ययलक्षणोऽत्र विधेयमायाशब्दस्य नियतस्त्रीलिङ्गत्वा-दुपपत्तिः । स्वतो देहादिस्थं जन्मादिकं देहादावभिमाननिमित्तं कृत्यपूर्वकर्मभिर्जीवे हरिणा निर्मितमेव न तु स्वाभाविकमिति यावत् । कुत औपाधिकत्वमित्यत उक्तम् ॥ अन्तरेति ॥ यत इति शेषः । यदित्येव क्वचित्पाठः । यो विकार आदौ सृष्टः पूर्वप्रलये अपवर्गे मुक्तौ न विद्यते । यस्मात्तस्मा-दन्तरा मध्येऽपि जीवस्य स्वाभाविकतया नापतति । एतेन जन्मादिकं जीवस्य न स्वाभाविकम् । मुक्तिप्रलययोरभावात् । क्षुत्पिपासादिवदित्यनुमानमुक्तं भवति । अत्र प्रलये अविद्यमानत्वमेवा-स्वाभाविकत्वसाधकम् । मुक्तावविद्यमानत्वोक्तिः कैमुत्यद्योतनार्थमिति ज्ञेयम् ।

उक्तोऽयमर्थः सर्वोऽप्यनुभवसिद्ध एवेत्याशयेनोच्यते ॥ जन्मादय इति ॥ तस्य परिणामिनो देहादेः स्वभावभूता जन्मादयोऽस्य चिदानन्दरूपस्य न स्वाभाविका स्युः किं न स्युरेव । स्युश्चेन्मां प्रति वद । जीवजन्मादेः स्वाभाविकत्वं न जीवो जन्मादिस्वभावः । नित्यचिदानन्दस्वरूपत्वादीश्वर-वदिति युक्त्यनुगृहीतेन विरुद्धत्वात्त्वया तथा न वक्तुं शक्यत इति भावः ॥ किञ्च यदि जन्मादिकं जीवस्य स्वभाविकम् । तर्हि प्रलयेऽपि भवेत् । स्वभावस्यानपायात् । न च तत्प्रलयेऽस्ति । अतो न स्वाभाविकमिति तर्कं मनसि निधाय व्याप्तिं दर्शयति ॥ आद्यन्तयोरिति ॥ असतोऽ-स्वतन्त्रस्य जगत आदौ सृष्टेः पूर्वम् अन्ते विनाशानन्तरं च प्रलय इति यावत् । यदस्ति यत्स्वाभाविकं तदेव मध्ये संसारानुभवकालेऽपि स्वाभाविकमिति शेष इति । तथावादानुकूलतर्क-सहितानुमानेन अनुभवेन च जन्मादिरूपसंसारस्यास्वाभाविकत्वसिद्धेर्युक्तैव संसारात्संसिद्धिरूपा मुक्तिरिति भावः ॥

अत्र यस्त्वय्याश्रयति विकारः । सा माया अनिर्वाच्या अविद्या प्राप्ता । अत एवान्तरा आरोपिततया पततीत्यन्यथाभानाद्विकार इत्यस्यार्थाप्रतीतेश्च प्रमाणेन व्याचष्टे ॥ अन्यस्थमिति ॥ अन्यस्मिन्देहादौ स्थितं जन्मादि । तस्मादौपाधिकतया निर्मितत्वात् । न जन्मादिर्जीवस्य स्वाभाविकं निमित्तत्वं कथं मायाशब्दार्थ इत्यत उक्तम् ॥ मायेति ॥ मा निर्माण इति धातोर्भावे क्यप्रत्यये निर्माणं मायेत्युच्यत इत्यर्थः । औपाधिकतया निर्मितत्वं कुतोऽङ्गीकार्यमित्यत आह ॥ न हीति ॥ अनादिनित्यतया जीवस्य प्रमितत्वादिति हिशब्दाभिप्रायः । एतेन मूले त्रिविधो विकार इत्यस्य जन्मस्थितिलयरूपो विकार इत्यर्थ उक्तो भवति । स्वाभाविक एव जन्मादिः किं न स्यादित्यत आह ॥ सृष्टेरिति ॥ सृष्टेः पूर्वं प्रलये च अपवर्ग इत्यनुक्तस्य समुच्चयार्थो वा । हीत्यनेन प्रलयादौ जन्माद्यभावे प्रमाणं सूचयति । तस्मादाद्यन्तयोरभावात् । एतेनान्तराऽपततीत्यादिकं व्याख्यातं भवति ।

ननु जन्मादेर्जीवसम्बन्धितयाऽनुभवसिद्धत्वात्कथं मध्येऽपि नेत्युच्यत इत्यतोऽन्यस्थमित्युक्तं विवृणोति ॥ देहादिस्थमिति ॥ प्रलये यन्न जीवे स्थितं देहादि किं तु देहादेरेव स्वाभाविकतया स्थितं जन्मादिकं विष्णुना तत्तज्जीवपूर्वकर्मभिर्निर्मित्तभूते देहादावभिमानं दत्वा जीवे तात्कालिक-भिन्नाभिन्नविकारसम्पादनरूपेण निर्मित इत्यर्थः । अस्वाभाविकस्याप्युपाधिवशाज्जीवे निर्मितत्वा-त्तत्तत्काले आत्मतयाऽनुभवो युज्यत इति भावः । अत्र जन्मादिकं न जीवस्य स्वाभाविकम् । मुक्तिप्रलययोरविद्यमानत्वादित्यभिप्रेतानुमानस्य व्याप्तिं दर्शयति ॥ यदिति ॥ ननु चिन्तनादिक्रियाणां तु मुक्तावुच्छेदतस्तथा । किं मया कार्यमित्यादीनां भेदाभेद उदीरित इति बृहद्भाष्ये चिन्तनादिक्रियाणां नीचोच्चतादिधर्माणां च जीवाभेद एव स्वभावत्वेनाङ्गीकारात्तासां च मुक्तिप्रलययोरसत्वाद्व्यभिचार इत्यत उक्तम् ॥ प्रायेणेति ॥ भेदाभेदयोः सत्वेऽप्यभेदमात्रविवक्षया स्वभावत्त्वमिह विवक्षितम् । न तु नित्यत्वमित्याहुः । यद्वा स पात्रं बन्धमोक्षयोरित्युक्तेर्बन्धपात्रता जीवस्य स्वाभाविकी । न च सा मुक्तावस्ति अतस्तत्र व्यभिचारवारणाय प्रायेणेत्युक्तम् ।

ननु बन्धपात्रता जीवस्य स्वाभाविकी चेत्कथं मुक्तौ तदभावः । स्वभावस्यानपायादिति चेन्न । स्वभावाख्ययोग्यता त्रिविधा । क्वचिन्नित्यव्यक्ता । यथा ज्ञानस्वरूपत्वादिरूपा । अन्या संसार-दशायामेव व्यक्ता । मुक्तौ सर्वथा अव्यक्ता । यथा प्रकृता । अपरा तु संसारे सर्वथा अव्यक्ता । मुक्तावेव व्यक्ता । यथा सुव्यक्तानन्दानुभवादिका । तथा च बन्धादिपात्रताया जीवस्वभावत्वेऽपि मुक्तौ चा विद्यमानत्वान्नेत्युक्तिर्युज्यत इति । उक्तं च कादाचित्कञ्च योग्यता त्वित्यादौ । जन्मादि-रूपविकारो मायेत्युक्तार्थे मानान्तरमाह ॥ मायेत्युक्तमिति ॥ यतो निर्मितमेव मायेत्युक्तम् । यतो देहादिगञ्च जन्मादि परेशेन जीवे निर्मितम् । तेनैव कारणेन जन्मादि मायेत्युच्यत इति योजना ।

अङ्गीकार्यं चावश्यं जीवस्य जन्मादिकमस्वाभाविकमिति । तथा च त्वदनुभवसिद्धत्वादित्याशयेन प्रवृत्तं तृतीयपादं दुर्गमार्थत्वाद्योजयितुं मां प्रति प्रति योगे द्वितीयान्तं मां वदेति पदेनान्वितमित्याह ॥ मां प्रतीति ॥ योजयति ॥ तस्येति ॥ विकारत्वेन पूर्वार्धप्रकृतदेहादिस्तस्येति परामृश्यते । अस्येति पदं तु तवेति प्रस्तुतपरम् । तवेत्यनेन त्वदुपलक्षितजीवस्येति लाभेऽपि पुनरस्येत्युक्तिः प्रयोजनप्रदर्शनार्थमुक्तम् ॥ चिदानन्दरूपस्येति ॥ चिदानन्दाद्यात्मकस्वरूपभूतनित्यदेहवतो जन्मादि युक्तमिति हेतुसूचनार्थमस्येत्युक्तमिति भावः । एतेन तृतीयपादो व्याख्यातो भवति ।

किञ्च जीवस्य यदि स्वतो जन्मादिकं स्वाभाविकं तर्हि प्रलयेऽपि स्यादिति तर्कविरुद्धं चैतदित्या-शयेन तस्य व्याप्त्युपपादकं चतुर्थं पादमसत इत्यस्याविद्यमानस्येति प्रतीतिवारणाय तदर्थं वदन्व्याचष्टे ॥ अस्वतन्त्रत्वादित्यादिना निमित्तमित्यन्तेन ॥ असत इत्यस्य प्रतिपदमवस्तुन इति ॥ अस्वतन्त्रमवस्तु चेति प्रागुक्तत्वेनास्वतन्त्रत्वादित्युक्तं विशेष्यं दर्शयति ॥ जगत इति ॥ अस्वतन्त्रस्य जगत आद्यन्तयोरुत्पत्तेरप्यादौ विनाशानन्तरं च प्रलय इति यावत् । प्रलये यदस्तीत्युक्ते सति जगत्समभिव्याहाराज्जगत्सम्बन्धि यदस्ति तज्जीवस्य स्वाभाविकमिति भयादतो जीवस्येत्य-ध्याहृतम् । आद्यन्तयोर्जीवस्य यदस्ति तदेव मध्येऽपीत्युक्तसद्भावमात्रस्य प्रलये सत्वं प्रत्यनापादकत्वेन तर्कानुपयोगित्वादस्यापदकत्वसिद्धये स्वाभाविकमित्युक्तम् । स्वाभाविकमित्युक्ते मुक्तगतमिति भ्रमवारणाय प्राप्तस्य मध्ये इत्यस्यार्थमाह ॥ संसारेऽपीति ॥ मध्ये उत्पत्तिलययोर्मध्ये संसारानुभव-दर्शनमिति लभ्यत इति भावः । न केवलं मुक्तावपीत्यपेरर्थः । तदेवेत्येवकारव्यावर्त्यमुक्तम् ॥ अन्यदिति ॥ अन्यज् जन्मादिकं स्वाभाविकमिति शेषः । तर्ह्यहं जातो मृत इत्याद्यनुभवः कथमित्यत उक्तम् ॥ अभिमाननिमित्तमिति ॥ अन्यदित्यत्राप्यन्वेति । देहस्य जननादौ सति जन्यावस्थावद्देहे जीवचित्तस्य प्रकाशादिद्वारा संवलितत्वात्तत्र दृष्टतराभिमानेन पूर्वकर्मभिश्चैतन्यभिन्ना-भिन्नविकारविशेषो भवति । स एव जीवस्यौपाधिकं जन्मनेति भावः । अविकारौ ब्रह्मरुद्रौ देहाभेदादिसम्भवे । विकारवन्त इन्द्राद्या इति देहस्य जननादिना चैतन्येऽपि विकारस्य तृतीयस्कन्ध-तात्पर्ये प्रमितत्वादिति ज्ञेयम् ॥

ननु आद्यन्तयोर्यदसतोऽस्तीति प्रलये सत एव स्वाभाविकत्वम् । न तु तदा अविद्यमानस्य जन्मादिरित्युक्तम् । तर्हि प्रलयकाले देहादिजननाद्यभावात्तस्यापि जन्मादि स्वाभाविकं न स्यात् । भवति च देहादेः स्वाभाविकम् । अतः प्रागुक्ततर्के व्यभिचारः । जन्मादिकं जीवस्य न स्वाभाविकम् । प्रलये असत्वादिति प्रागभिप्रेतानुमानेऽपि व्यभिचार इत्यत आह ॥ प्रलय इति ॥ विद्यमानस्येत्यतःपरं जीवस्येति शेषः । जन्मादीत्यतःपरं स्वाभाविकमित्यपि ग्राह्यम् । तथा च प्रलये विद्यमानस्य तदानीमविद्यमानं कथं स्वाभाविकं स्यादित्यभिप्रायो मूलस्येत्यर्थः । प्रलये विद्यमानत्वस्य देहेऽप्यविशेषात्तत्रापि स्वाभाविकत्वाभाव एव युक्त इत्यत आह ॥ इदानीमिति ॥ देहोदेरिति तन्त्रेण पूर्वोत्तरमन्वेति । युज्यते स्वाभाविकत्वमिति शेषः ॥

इदमुक्तं भवति ॥ प्रलये जन्मादिधर्मिणो देहस्यासत्वादेव तदा जन्माद्यभावः । देहादिसत्तासमये जन्मादिमत्वस्य नियतमिति युज्यते तस्य स्वाभाविकत्वम् । न तु जीवस्य प्रलये नित्यत्वेन सत्वात्तदानीमसतो जन्मादेर्न स्वाभाविकता । सति धर्मिणि धर्माभावे तस्य स्वाभाविकत्वासम्भवात् । तथा च प्रलयेऽपि सतो जीवस्येत्यादि (अत्र ग्रन्थपातः स्यादिति भाति) ॥ ७ ॥

उद्धव उवाच—

ज्ञानं विशुद्धं विपुलं यथैतद्१ वैराग्यविज्ञानयुतं पुराणम् ।

आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् ॥ ८ ॥

पदरत्नावली

एतज् ज्ञानं यथा स्थितं तथा आख्याहि ॥ ८ ॥

श्रीनिवासतीर्थीया

उद्धवो ज्ञानं विज्ञानं वैराग्यं मुक्तियोगं तत्साधनं च ब्रूहीत्याशयेन पृच्छति ॥ ज्ञानमिति ॥ विपुलं पुष्कलम् । पुराणमनादि । यथा कथमुत्पद्यते तथाऽऽख्याहि । महद्विमृग्यं महात्मभिर्विचार्यम् ॥ ८ ॥

प्रमेयचन्द्रिका

भक्तियोगं भक्त्याख्यमुपायं भक्तेरुपायमिति वा । कीदृशं महद्भिर्विमृग्य-मन्वेषणीयम् । यथा यथावत् । मह्यमाख्याहीत्यर्थः ॥ ८ ॥

तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश ।

पश्यामि नान्यच्छरणं तवाङ्घ्रिद्वन्द्वातपत्रादमृताभिवर्षात् ॥ ९ ॥

श्रीनिवासतीर्थीया

घोरे भवाध्वनि । अमृताभिवर्षादमृतस्राविणः ॥ ९ ॥

दष्टं जनं सम्पतितं बिलेऽस्मिन् कालाहिना क्षुद्रसुखोरुतर्षम् ।

समुद्धरैनं कृपयाऽपवर्ग्यैर्वचोभिरासिञ्च महानुभाव ॥ १० ॥

श्रीनिवासतीर्थीया

अस्मिन्संसाराख्ये बिले । कालाख्याहिना दष्टम् । क्षुद्रसुखविषये उरुस्तर्षो यस्य तम् । आपवर्ग्यैर्मोक्षसाधनैः ॥ १० ॥

श्रीभगवानुवाच—

इत्थमेतत् पुरा राजा भीष्मं धर्मभृतां वरम् ।

अजातशत्रुः पप्रच्छ सर्वेषामनुशृण्वताम् ॥ ११ ॥

निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः ।

श्रुत्वा धर्मान् बहून् भीष्मं मोक्षधर्मानपृच्छत ॥ १२ ॥

श्रीनिवासतीर्थीया

अजातोऽनुत्पन्नः शत्रुर्यस्य स तथा । यद्वा आद्व्यासाज्जाता दुर्योधनाद्यास्त एव शत्रवो यस्य स तथा युधिष्ठिरः ॥ बहून्धर्मान् आपद्धर्मराजधर्मादीन्मोक्षधर्मानुद्दिश्य

॥ ११,१२ ॥

प्रमेयचन्द्रिका

पप्रच्छेत्यस्य विवरणं मोक्षधर्मानपृच्छतेति ॥ ११,१२ ॥

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छतान् ।

ज्ञानविज्ञानवैराग्यश्रद्धाभक्त्युपबृंहितान् ॥ १३ ॥

पदरत्नावली

ज्ञानं पृष्टं तस्योत्तरत्वेन धर्माणां कथनं कथं सङ्गच्छत इत्यत उक्तं ज्ञानेति

॥ १३ ॥

श्रीनिवासतीर्थीया

देवव्रतो भीष्मः । ज्ञानादिके पृष्टे तदुत्तरत्वेन धर्माणां कथनमसङ्गत-मित्यत उक्तम् ॥ ज्ञानेति ॥ ज्ञानरूपफलैरुपबृंहितान्पूर्णान् । तत्साधनभूतानिति यावत् ॥१३॥

नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।

ईक्षेतान्वेकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥

पदरत्नावली

येन ज्ञानेन भूतेषु जीवेषु स्थितान् नवैकादश पञ्च त्रीन् भावान् अष्टाविंश-त्तत्वानि अन्वीक्षेत तत्तल्लक्षणं तत्तच्छक्तिस्वरूपपूर्वकं पश्यति, एषु तत्वेषु तन्नियामकतया स्थितम् एकं तत्वेभ्यः प्रधानं तत्र तत्वपतिं हरिमपि पश्यति तन् मम निश्चितं ज्ञानमिति । पृथिव्यादिपञ्चभूत-बुद्ध्यहङ्कारचित्तमूलप्रकृतयो नव, मनसा सह श्रोत्रादीन्द्रियाण्येकादश, त्रयः सत्वादयो गुणाः, शब्दादयः पञ्च । ‘‘ज्ञात्वा तत्वानि तेष्वीशं सर्वतत्वेश्वरं प्रभुम् । जानन् ज्ञानी भवेत्’’ इत्यादि-वचनमत्र मानम् ॥ १४ ॥

श्रीनिवासतीर्थीया

ज्ञानस्वरूपमाह ॥ नवेति ॥ येन ज्ञानेन भूतेषु जीवेषु नवैकादश पञ्च त्रीन् भावान् ब्रह्मा प्रकृती रुद्रः स्कन्दः पञ्चभूतानि नव । एकादशेन्द्रियाणि । पञ्चेति पञ्चकद्वयम् । दशेन्द्रियविषया दशेत्यर्थः । सत्त्वाद्या गुणास्त्रय इति त्रयस्त्रिंशत्सङ्ख्याकान् भावां-स्तत्त्वानि य ईक्षेत विचार्येत । एवं तत्त्वगणना द्वाविंशाध्याये पुरुषः प्रकृतिरव्यक्तमहदहङ्कारो नभोऽनिल इत्यादिना स्पष्टं कृतमस्तीति मन्तव्यम् । अन्वनन्तरमेषु हिरण्यगर्भादिषु प्रेरकत्वेन विद्यमानमेवैकं भगवन्तं स्वतन्त्रत्त्वमीक्षेत तन्मम ज्ञानमिति निश्चितमित्यर्थः ॥ १४ ॥

प्रमेयचन्द्रिका

प्रातिज्ञातं ज्ञानमुच्यते ॥ नवैकादशेति ॥ पञ्चभूतानि प्रकृतिमहदहङ्कार-बुद्धयश्चत्वार इति नव । एकादशेन्द्रियाणि । पञ्च शब्दस्पर्शरूपरसगन्धादीन् । सत्वादिगुणान् इत्येतान् भावान् पदार्थान् । भूतेषु जीवानां जडदेहेषु । एषु अष्टाविंशतितत्वेऽपि जीवेषु च एकं स्वगतभेदवर्जितं हरिमपि येन ज्ञानेन अन्वीक्षेत । विषयीकुर्यात् । तज्ज्ञानमिति मम निश्चितमित्यर्थः

॥ १४ ॥

एतदेव हि विज्ञानं न तथैकेन येन यत् ।

स्थित्युत्पत्त्यप्यया नः स्युर्भावानां त्रिगुणात्मनाम् ॥ १५ ॥

आदावन्ते च मध्ये च यज्ज्ञं सृज्यं यदन्वयात् ।

पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥

तात्पर्यम्

एतदेव हि विज्ञानम् । तथापि न तथैव ॥ ‘ज्ञात्वा तत्त्वानि तेष्वीशं सर्वतत्त्वेश्वरं प्रभुम् । जानञ्ज्ञानी भवेत्स्वस्य योग्यं ज्ञानं विशेषतः । पूर्वोक्त एव यो जानन्स विज्ञानी भवत्युते’ति प्रभासे ॥ नस् तत्त्वानां मध्ये येन यद्यत्र स्थित्वा च स्युः । तदेव सत् । ‘सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे । अस्वातन्त्र्यान्न चान्येषामसत्वं विद्धि भारते’ति भारते ॥ १५ ॥

पदरत्नावली

नन्विदं ज्ञानं चेद् विज्ञानं तर्हि किं तत्राह– एतदेवेति । हिशब्दो विशेषद्योतकः । स्वस्य यद् विशेषतो योग्यं ज्ञानं तद्विषयस्य बिम्बस्य ज्ञानेन सहितमेतदेव ज्ञानं विज्ञानम्, विद्धीति शेषः । ‘‘स्वस्य योग्यं ध्यानं विशेषतः । पूर्वोक्तमेव यो जानन् स विज्ञानी भवत्युत’’ इति वचनमत्र मानम् । तस्यापि तत्वेशविषयत्वात् कथं विज्ञानं नेति तत्राह– न तथेति । यद्यपि तत्तत्तत्वतदीश्वरविषयं तथापि तथैव पूर्वोक्तप्रकारेण तत्वानि ज्ञात्वा सर्वतत्वेश्वरं विषयीकुर्वज् ज्ञानं विज्ञानं न भवति स्वयोग्यपुरुषार्थासाधनत्वात् । तस्मात् स्वबिम्बज्ञानविशिष्टमेव विज्ञानमित्यर्थः । हरेस्तत्वेष्वेकत्वात् प्राधान्यं कुत इत्यत आह– एकेनेति । नो ऽस्माकं तत्वानां मध्ये एकेन अन्यनिरपेक्षेण तत्वेन यद् यत्र स्थित्वा यदाधारत्वेन त्रिगुणात्मनां सत्वादि-गुणनिर्मितदेहानां भावानां स्थित्युत्पत्त्यप्ययाः स्युः ॥ यच्च तत्वमादावन्ते सृष्टेः प्राक् प्रलयादूर्ध्वं मध्ये स्थितिकाले च सर्वज्ञं पुनस्तत्प्रतिसङ्क्रमे तस्य सृष्टस्य संहारे च सृज्यं जगद् अन्वयात् प्रविशति । यच्च शिष्येत अवशिष्टमविनाशि तदेव सत् स्वतन्त्रम् । ‘‘सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे । अस्वतन्त्रत्वात् तदन्येषामसत्वं विद्धि भारत’’ इति वचनाद् हरिरेव तत्वेषु प्रधानं तत्वमिति भावः ॥ १५,१६ ॥

श्रीनिवासतीर्थीया

एतदेव ज्ञानमेव हि विज्ञानम् । ननु ज्ञानस्यैव विज्ञानत्वे विशब्दो व्यर्थ इत्यत आह ॥ न तथेति ॥ इदमन्यथाप्रतीतिनिरासाय सर्वं वाक्यं सावधारणमिति न्यायेन योजयति ॥ एतदेवेति ॥ ज्ञानमेवेत्यर्थः । तथैव तत्त्वनियामकतया भगवत्ज्ञानमेव विज्ञानं न भवति किन्तु सर्वज्ञगुरूपदिष्टस्वयोग्यमूर्तिज्ञानसहितमेव ज्ञानं विज्ञानम् । इत्युच्यत इति शेषः । तत्र प्रमाणमाह ॥ ज्ञात्वेति ॥ पूर्वोक्त एव ज्ञान्येव स्वस्वयोग्यज्ञानं ज्ञायत इति व्युत्पत्त्या ज्ञेयं विशेषतो जानन्यः स विज्ञान्युत विज्ञान्यपि भवतीति योज्यम् । नः स्युरित्यन्यथाप्रतीतिनिरासाय योजयन्नन्वयं दर्शयति ॥ नस्तत्त्वानामिति ॥ यदित्येतद्योजयति ॥ यद्यत्रेति ॥ यच्छब्दस्य तच्छब्देनान्वयं दर्शयति ॥ तदेवेति ॥ सच्छब्दार्थं प्रमाणेनाह ॥ सत्त्वमिति ॥ अपरेऽपरस्मिन् । तथा चैतदेव ज्ञानं विज्ञानम् । तथाऽपि तथैव न किन्तु स्वयोग्यज्ञानसहितमेव विज्ञानमित्युच्यत इत्यर्थः । ननु भगवतोऽपि तत्त्वेष्वेकत्वात्कुतस्तस्य स्वातन्त्र्यमित्यत आह ॥ एकेनेति ॥ अस्मदुपलक्षिततत्त्वानां मध्य इति यावत् । येनैकेन तत्त्वेन यद्यत्र यदाधारत्वेन त्रिगुणात्मनां भावानां पदार्थानां स्थित्युत्पत्त्यप्ययाः स्युस्तदेव सत्स्वतन्त्रम् । तादृशश्चाहमेव नापर इत्याशयः ॥ यत्तत्त्वमादावन्ते मध्ये सृष्ट्यादिकाले ज्ञं सर्वज्ञं यच्च सृज्यं जगत्सृष्ट्वा तत्प्रेरकत्वेनान्वयात्प्रविशति । यच्च पुनस्तस्य प्रतिसंक्रामे प्रलये शिष्येतावशिष्येत तदेव सदिति योज्यम् ॥ १५,१६ ॥

प्रमेयचन्द्रिका

विज्ञानमुच्यते ॥ एतदेवेति ॥ एतत्पूर्वोक्ताष्टाविंशतितत्वविषयम् । सर्वतत्वेगतस्वगतभेदवर्जितभगवद्विषयं च ज्ञानमेव विज्ञानमिति कथम् । ज्ञानविज्ञानयोर्भेदानुपपत्तेरित्यत उक्तम् ॥ न तथेति ॥ अत्र एतदेव विज्ञानमित्युक्त्वा न तथेति प्रतिषेधे व्याहतिर्भातीत्यतो व्याचष्टे ॥ एतदेवेति ॥ तथापीति मूले दोषोक्तिः । न तथैव न तावन्मात्रमेव । किं तु ततो विशेषोऽप्यस्तीति भावः । एतेन एतदेव विज्ञानं तथापि न तथैव । तावन्मात्रमेव किं तु विशेषोऽ-प्यस्तीति मूलार्थः । ततश्चातिशयसहितमेतदेव विज्ञानमित्युच्यत । अतो न व्याहतिरित्युक्तं भवति ।

कोऽसौ विशेष इत्यतः प्रमाणेन तं दर्शयति ॥ ज्ञात्वेति ॥ अत्र पादत्रयेण मूलगतस्य न वैकादशेति श्लोकस्यार्थो न तूदितः । न तथेत्युक्तविशेषप्रदर्शनं स्वस्येत्यादिना क्रियते । यः पुरुषः स्वस्य विशेषतो योग्यं स्वमुक्तिसाधनतया नियतं बिम्बोपासनरूपं ध्यानं तद्विषयभूतबिम्बरूप-निष्टतया पूर्वोक्तमेव तत्वानि तेष्वीशं सर्वतत्वेश्वरं हरिमित्युक्तमेव सञ्जानन् जानाति स पुरुषो विज्ञानी भवति । उतेत्यवधारणे । ज्ञानविषयस्यैव बिम्बरूपनिष्टतया विज्ञानत्वं किलेति विशेषद्योतक उतशब्द इति वा । मूले न केवलमेतावता किन्तु बिम्बरूपनिष्ठतया स्वातन्त्र्यादिज्ञानमपि विज्ञानमित्युच्यते ॥ एकेनेत्यादिपादत्रयेण ॥ अत्र न स्यादित्यत्र नेति पदच्छेदे निषेधार्थताभानात्तस्य च प्रकृत-विरुद्धत्वात्पदच्छेदप्रदर्शनपूर्वकं तद्व्याचष्टे ॥ नस् तत्वानामिति ॥ न इत्यस्मच्छब्दषष्टीबहुवचनान्तं पदमिति भावः । भावानामित्यस्यार्थस्तत्वानामिति । निर्धारणे चेयं षष्टीत्याशयेनोक्तं मध्ये इति ॥ तदनेन देवानां नस्तत्वानां चेत्येतेषां मध्य इति वा । त्रिगुणात्मिकानि तत्वानि चाहं चेत्येतेषां नोऽस्माकं मध्ये इति वा मूलयोजनेति सूचितं भवति । एकेन येन यदित्यस्यार्थप्रतीतेराह ॥ येनेति ॥ येनेत्यनुवादेन एकेन येनेत्यनयोः पदयोः सामानाधिकरण्यमित्युक्तं भवति । यदित्यनूद्य यत्रेति व्याख्यातम् । तत्र च सप्तम्यधिकरणे विवक्षितेत्याशयेनोक्तम् ॥ यत्र स्थित्वा इति ॥ स्थित्यादय इति शेषः । तेन च स्युरित्यस्य सम्बन्धः । येन यदित्यनयोः सदेव तदित्यनेनान्वय इत्याह ॥ तदेव सदिति ॥ तदेव सदित्युक्ते अन्यस्य मिथ्यात्वमिति भ्रान्तिः स्यादतोऽत्र विवक्षितार्थ-मवधारणव्यावर्त्यं सच्छब्दार्थं प्रमाणेनाह ॥ सत्वमिति ॥ तदेवेत्यस्यार्थः ॥ तच्च कृष्णे न चापर इति ॥ चशब्द एवार्थे । तदन्येषामसत्वं नामास्वातन्त्र्यमिति योजना ।

मूलार्थस्तु त्रिगुणात्मनां तत्वनियामकानां नोऽस्माकं मध्ये एकेन स्वगतभेदरहितेन पुरुषेण यद् यत्र यदाधारतया स्थित्वाः स्थित्युत्पत्यप्ययाः स्युर्भगवतो जगत्सर्जने कुलालादेरिव नाधिष्ठानाद्यपेक्षा । किं तु स्वस्मिन्नेव स्वयं स्थितः स्वाधारतयैव सृष्टिस्थित्यादिकं करोतीति ज्ञापयितुं यत्र स्थिता इत्युक्तमिति ज्ञेयम् । तदनन्यत्वमारम्भणशब्दादिभ्य इत्यादौ स्पष्टम् । एतच्चादावन्ते मध्ये चेति सर्वदेति यावत् । ज्ञं सर्वज्ञं यच्च सृज्यं सर्वं सृष्ट्वा अन्वयादनुविशति । यच्च प्रतिसंक्रामे पुनः प्रतिसंहारे सति शिष्येत । स्वयमविनष्टमेव वर्तेत । तदेव ब्रह्माख्यं वस्त्वेव सत् स्वतन्त्रम् अन्यत्सर्वमस्वतन्त्रमिति यद्ज्ञानं तद्विज्ञानमिति ॥ अत्र चित्प्रकृतेस्त्रिगुणाभिमानित्वात् त्रिगुणत्वम् । तस्या उत्पत्यादिस्तु भूतिकृदेव भूत्या इत्याद्युक्तप्रकारकपराधीनविशेषावाप्त्यादिना चित्प्रकृते-स्त्रिगुणरूपत्वात् त्रिगुणात्मकत्वम् । विकारित्वतदभावौ जन्माप्ययाविति ज्ञेयम् ॥ १५,१६ ॥

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।

प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥

**तात्पर्यम् **

विकल्पाद्विरुद्धकल्पनात् ॥ १७ ॥

पदरत्नावली

अत्र किं प्रमाणमिति तत्राह– श्रुतिरिति । नैकमेवोक्तार्थे सर्वोत्तमत्वे हरेः प्रमाणमपि तु श्रुत्यादिचतुष्टमपि । ऐतिह्यमागमभेदः । प्रयोजनमाह प्रमाणेष्विति । एवं वेदादि-प्रमाणैर्विदिताशेषतत्वतदीशविशेषतया ज्ञानविज्ञानसम्पन्नः पुरुषो विकल्पाद् विरुद्धकल्पनाज्जीव-स्वातन्त्र्यज्ञानादिलक्षणाद् विरक्तो भवति, मिथ्याज्ञानरहितो भवतीत्यर्थः । सोऽपि प्रामाणिकश्चेत् कथमित्यत उक्तं प्रमाणेष्विति । श्रुत्यादिप्रमाणेषु अन्यप्राधान्यस्यानवस्थानात् तात्पर्यार्थज्ञाने स्थित्यभावात्, चोरवत् पलायमानत्वादित्यर्थः । प्रमाणानां नानेव प्रतियमानानां तात्पर्यार्थापरिज्ञानत उत्पन्नाद्वा ॥ १७ ॥

श्रीनिवासतीर्थीया

एवं सर्वनियामकस्य हरेः स्वातन्त्र्यं ज्ञेयमित्यत्र किं प्रमाणमित्यत आह ॥ श्रुतिरिति ॥ ऐतिह्यमागमभेदः । इति चतुष्टयं भगवत एव स्वातन्त्र्यमित्यर्थे प्रमाणमस्तीति शेषः । एवं श्रुत्यादिप्रमाणेन भगवत्स्वातन्त्र्यज्ञाने फलमाह ॥ प्रमाणोष्विति ॥ अत्र विकल्पा-दित्येतद्व्याख्याति ॥ विकल्पादिति ॥ सः सकलतत्त्वप्रेरकतया श्रुत्यादिप्रमाणकं भगवत्स्वातन्त्र्यं जानन्विकल्पादहं कर्तेत्यादिजीवस्वातन्त्र्यज्ञानरूपविरुद्धज्ञानाद्विरज्यते विरक्तो भवति । मिथ्याज्ञान-रहितो भवतीत्यर्थः । ननु जीवे स्वातन्त्र्यमपि श्रुत्यादिप्रमाणकं चेत्कथं तत्ज्ञानस्य विरुद्धज्ञानत्व-मित्यत उक्तम् ॥ प्रमाणेष्विति ॥ जीवस्वातन्त्र्यादेः श्रुत्यादिप्रमाणेष्वनवस्थानात्प्रतिपाद्यतयाऽ-वस्थानसद्भावस्याभावात्तत्ज्ञानस्य विरुद्धज्ञानत्वाख्यं विकल्पत्वं युक्तमित्यर्थः ॥ १७ ॥

प्रमेयचन्द्रिका

मूले उक्तार्थे प्रमाणान्युच्यन्ते ॥ श्रुतिरिति ॥ ऐतिह्यमिति ॥ पौरुषेयागमः। इत्येवं चतुर्विधं प्रमाणमेव तमेवार्थं प्रकाशयतीति ग्राह्यम् । ज्ञानविज्ञानयोः फलमुच्यते ॥ प्रमाणेष्विति ॥ विकल्पाद्भेदादित्यन्यथाप्रतीतेर्व्याचष्टे ॥ विकल्पादिति ॥ वीत्यस्य विरुद्ध-त्वमर्थः कल्पः कल्पनम् । मूलार्थस्तु ज्ञानविज्ञानवान् पुरुषः विकल्पात्स्वस्य स्वातन्त्र्या-द्विरुद्धार्थकल्पनाद्विरज्यते विरक्तो भवति तद्रहितो भवतीति यावत् । कुतः प्रमाणेषु श्रुत्यादिषु चतुर्विधेषु अनवस्थानाद्विरोधस्येति शेषः । वस्तुतः प्रमाणेषु विरोधाभावादुक्तचतुर्विधप्रमाणपरिचयेन ज्ञानविज्ञानपरिपाकवतः प्रमाणविरुद्धार्थे बुद्धिर्न प्रवर्तत इति भावः ॥ १७ ॥

कर्मणां फलरूपत्वादाविरिञ्चादमङ्गलम् ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ १८ ॥

पदरत्नावली

वैराग्यं विशिनष्टि कर्मणामिति । आविरिञ्चान् मनुष्यमारभ्य विरिञ्चपर्यन्तं जगद् अमङ्गलमसारमत एव नश्वरं पश्येत् । कर्मणां फलरूपत्वात् ॥ १८ ॥

श्रीनिवासतीर्थीया

वैराग्यसाधनमाह ॥ कर्मणामिति ॥ आविरिञ्चाद्ब्रह्मलोकपर्यन्तं विद्यमानानां लोकानां कर्मणां फलरूपत्वात् । षष्ठ्या अलुक् । कर्मसाध्यतया कर्मफलरूपत्वात् । अमङ्गलं पश्येत् । तथाऽदृष्टमपि स्वर्गादिसुखं दृष्टवन्नश्वरं पश्येत् । आब्रह्मस्तंभपर्यन्तमसारं चाप्यनित्यकम् । विज्ञाय जातवैराग्यो भवेदित्याशयः ॥ १८ ॥

प्रमेयचन्द्रिका

उद्धवेन पृष्टवैराग्यप्राप्त्युपायोऽभिधीयते ॥ कर्मणामिति ॥ कर्मफलत्वाद-नित्यत्वादिति च ग्राह्यम् । आविरिञ्चाद्विरिञ्चपर्यन्तम् । विद्यमानं सर्वमदृष्टमित्यर्थः । यद्यपि विद्यागम्यमेव विरिञ्चादिपदं, विद्यागम्यपदं यस्मादित्युक्तेः । तथापि स्वाधिकारातिकामनया लब्धत्वेन तत्प्रापकविद्यायाः कर्मतुल्यत्वादित्थमुक्तिः । स्वधर्मनियमः शतजन्मभिः । पुमान्विरिञ्चतामेतीति धर्मसाध्यताया अपि भावाच्च अमङ्गलम् । विनाशित्वात् । अत्र विरिञ्चादिपदस्य परममङ्गलत्वेऽपि लोके काम्यार्थस्य निन्दितत्वेऽपि ज्ञापनायैवमुक्तमिति ज्ञातव्यम् ॥ १८ ॥

भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ ।

पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९ ॥

पदरत्नावली

विरक्तो मयि भक्तिं कुर्यादिति भावेनाह– भक्तियोग इति ॥ १९ ॥

श्रीनिवासतीर्थीया

त्वद्भक्तियोग इत्यस्योत्तरमाह ॥ भक्तियोग इति ॥ प्रीयमाणाय श्रुत्वा सन्तोषं प्राप्नुवते । भक्तिकारणमाह ॥ पुनरिति ॥ १९ ॥

प्रमेयचन्द्रिका

मद्भक्तियोगं चेति पृष्टस्योत्तरमुच्यते ॥ भक्तियोग इति ॥ प्रायः प्रत्यध्यायेषु भक्तियोगस्य कथनात्पुरेति साधु ॥ १९ ॥

श्रद्धाऽमृतकथायां मे शश्वन्मदनुकीर्तनम् ।

परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २० ॥

पदरत्नावली

निरतिशयभक्त्युत्पत्तौ कारणं वक्ति श्रद्धेति । अमृतवज्जरामरणहारिण्यां हरिकथायां परिनिष्ठा आस्था अत्यापद्यपि नेमं नियमं मुञ्चामीति निश्चयः ॥ २० ॥

श्रीनिवासतीर्थीया

मेऽमृतकथायाममृतवज्जरामरणहारिण्यां कथायां परिनिष्ठा अत्यापद्यपि नेमं नियमं मुञ्चामीति निश्चयः ॥ २० ॥

आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् ।

मद्भक्तपूजाऽभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१ ॥

मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् ।

मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२ ॥

पदरत्नावली

अभिवन्दनं प्रणामः । मन्मतिः सन्निहित इति मत्स्मरणम् ॥ मदर्थेषु अहमेवार्थो येषां ते तेषु परमभागवतेषु अङ्गचेष्टा शरीरावयवैर् नृत्यलक्षणचेष्टा ॥ २१,२२ ॥

श्रीनिवासतीर्थीया

मदर्थेष्वहमेवार्थो येषां तानि तेषु । सर्वभूतेष्वित्यस्येदं विशेषणम् । परमभागवतेष्वित्यर्थः । मन्मतिर्मत्सन्निहितत्वज्ञानम् । औः शरीरावयवैः पादादिभिर्नृत्यलक्षणा चेष्टा । ईरणमुच्चारणम् । कामेति निषिद्धकामेत्यर्थः ॥ २१,२२ ॥

प्रमेयचन्द्रिका

मद्भक्तपूजेति ॥ मम भक्तानां स्वोत्तममारभ्य ब्रह्मान्तानामभि सम्यक् तत्तद्योग्यताधिक्यक्रमेणाधिका कार्या । तेष्वप्यन्तर्यामितया अहमेव पूज्य इत्याशयेनोक्तम् ॥ सर्वभूतेष्विति ॥ भोगस्यैव प्रसक्तस्य विषयभोगस्य परित्यागः । इष्टादिकं सर्वं मदर्थमिति सम्बन्धः

॥ २१–२३ ॥

मदर्थे च परित्यागो भोगस्य च सुखस्य च ।

इष्टं दत्तं हुतं भुक्तं मदर्थं यद् व्रतं तपः ॥ २३ ॥

पदरत्नावली

मदर्थे मत्प्रीत्यर्थम् ॥ २३ ॥

श्रीनिवासतीर्थीया

मदर्थे मत्प्रीत्यर्थे निषिद्धभोगस्य निषिद्धसुखस्य च । इष्टमित्यादौ भावे क्तः । यद्व्रतं तपस्तत्सर्वं मदर्थं मत्प्रीत्यर्थे । कुर्यादिति शेषः ॥ २३ ॥

एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।

मयि संजायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ २४ ॥

पदरत्नावली

निधौ हस्तप्राप्ते वराटकेन किमित्याह– कोऽन्य इति । अस्य पुरुषस्य

॥ २४ ॥

श्रीनिवासतीर्थीया

आत्मनिवेदिनां स्वात्मानं समर्पयितॄणाम् । अस्य पुंसः ॥ २४ ॥

दुर्घटभावदीपिका

हे उद्धव । आत्मनिवेदिनामात्मसमर्पणं कुर्वाणानां मनुष्याणा-मेवमनुष्ठितैर्धर्मैर्मयि भक्तिः सञ्जायते । धर्मानुष्ठानेन भक्तिलक्षणपुरुषार्थसिद्धावपि भक्तिव्यतिरिक्ताः पुरुषार्थाः कथं स्युरित्यत आह ॥ कोऽन्य इति । अस्य भक्तमनुष्यस्यान्यो भक्तेरन्यः कः पुरुषार्थोऽवशिष्यत इति । भक्त्यैव सर्वपुरुषार्था भवन्तीति भावः । एतेन मनुष्याणामित्युक्तत्वाद् एषामिति वक्तव्यम् । अस्येत्येकवचनप्रयोगोऽनुपपन्न इति दूषणं परास्तम् । भक्तमनुष्याणां दौर्लभ्यज्ञापनार्थमस्येत्येकवचनप्रयोग इति स्वीकरणात् । एतेनैव कोऽर्थोऽवशिष्यत इत्यनेन पूर्णत्वाद् अन्य इत्येतद्व्यर्थमिति दूषणं पराकृतम् । कोऽर्थोऽवशिष्यत इत्येवोक्तेऽर्थशब्देन भक्तिलक्षणपुरुषार्थ-स्यापि प्राप्तिः स्यात् । भक्तिलक्षणपुरुषार्थस्य भक्तिः सञ्जायत इत्यनेनोक्तत्वात्कोऽर्थोऽवशिष्यत इत्यनेन भक्त्यादिलक्षणपुरुषार्थविधानेंऽशे पुनरुक्तिः स्यात्तन्निरासार्थमन्य इत्युक्त इत्यभ्युपगमात्

॥ २५ ॥

प्रमेयचन्द्रिका

एवं धर्मैरिति ॥ आत्मनिवेदनम् आत्मनि भगवति निवेदनं धर्मादेरिति शेषः । आत्मनो मनसः स्वस्वरूपस्येति वा । समर्पणम् । यथा मनुष्याणां ज्ञानवताम् । मनु अवबोधन इति धातोः । एवंविधानां नृणाम् एवंविधैर्धर्मैर्मयि संजायते भक्तिरित्यर्थः । भवतु भक्तिः किं तस्याः फलमित्यत उच्यते ॥ कोऽन्य इति ॥ अस्य भक्तिमतः पुरुषस्य प्राप्तादन्योऽर्थः को विशिष्यते । सर्वेऽपि पुरुषार्थाः प्राप्ता एव भवन्तीति भावः । स्वमनसो भगवदेकनिष्टत्वादिकं प्रतिपद्यते । तेन च भक्तिर्जायत इति ग्राह्यम् ॥ २४ ॥

यदा मय्यर्पितं चित्तं शान्तं सत्वोपबृंहितम् ।

धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥ २५ ॥

पदरत्नावली

यदा सत्वगुणेनोपबृंहितं सम्बन्धितमत एव शान्तं चित्तं मय्यर्पितं भवति तदा धर्मादिकमाप्नोतीति । अनेन धर्माद्यर्थो विशिष्टोऽस्तीत्येतत्परिहृतम् ॥ २५ ॥

श्रीनिवासतीर्थीया

यदा मयि हरौ सत्त्वगुणोपबृंहितं तदभिवृद्धियुक्तं शान्तं चित्तमर्पितं भवति तदा धर्मादिकमभिपद्यते प्राप्नोति ॥ २५ ॥

यद्यर्पितं तद्विकल्प इन्द्रियैः परिधावति ।

रजस्वलमसन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६ ॥

पदरत्नावली

विपक्षे बाधकमाह– यदीति । यदि तच्चित्तं विकल्पेऽर्पितम्, इन्द्रियैरपि निन्दितेषु विषयेषु धावति तर्हि तच्चित्तं रजस्वलं रजोदूषितं राजसमसन्निष्ठं तामसं च विपर्ययं दुःखकारणं विद्धि ॥ २६ ॥

श्रीनिवासतीर्थीया

यदि तच्चित्तमिन्द्रियैरिन्द्रियद्वारा विकल्पे हरिविरुद्धे विषये परिधावति तदा रजस्वलं रजोदूषितमसन्निष्ठं तामसं विपर्ययमधर्माज्ञानावैराग्यानैश्वर्यसाधनं विद्धीत्यर्थः ॥२६॥

प्रमेयचन्द्रिका

इन्द्रियजयोऽप्यवश्यमपेक्षित इति सूचयन् सर्वासाधारण्येन भक्तिर्भवतीत्युच्यते ॥ यदीति ॥ विकल्पे विविधतया परमपुरुषार्थविरुद्धत्वेन वा विकल्पिते । विषयजात इति यावत् । चित्तं यदीन्द्रियैः सहकारिभिर्विकल्पे परिधावति । तदसत्स्वभद्रेषु स्थितं रजस्वलं रागकलुषितं भवति । ततश्च विपर्ययं स्वरूपविपरीतदुःखादिप्रापकं विद्धि । नित्यसंसारित्वे सदा रजस्वलं विपर्ययं विशेषेण त्रिदिवनिरयभूषु पर्ययः परिवृत्तिस्तदापादकं भवति । तमोयोग्यत्वे हेतुःरजस्वलं रजस्तमःप्रचुरम् । असति अविद्यमानार्थे निष्टा स्थितिर्यस्य तन्मिथ्यार्थग्रहणस्वभावमिति यावत् । चित्तं विकल्पे जीवैक्यादिविरुद्धकल्पने परिधावति तदा विपर्ययं सौख्यविपरीततमःप्रापकं विद्धीति योज्यम्

॥ २६ ॥

धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।

गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७ ॥

तात्पर्यम्

‘एकः प्रधानमुद्दिष्टो विष्णोः प्राधान्यदर्शनम् । ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तदि’ति त्रैकाल्ये ॥ २७ ॥

पदरत्नावली

धर्मादिकमभिपद्यत इत्युक्तम् । तद् विशिनष्टि धर्म इति । ऐकात्म्य-दर्शनमित्येतत् ‘‘एकः प्रधान उद्दिष्टो विष्णोः प्राधान्यदर्शनम् । ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तत्’’ इत्यनेन व्याख्यातम् ॥ २७ ॥

श्रीनिवासतीर्थीया

धर्मादिकमभिपद्यत इत्युक्तम् । को धर्मादिरित्यत आह ॥ धर्म इति ॥ मद्भक्तिकृद्यमनियमशमदमादिः । उद्धवशङ्काप्रापकमिदम् । एवमव्याख्याने यमः कतिविध इत्याद्युद्धव-प्रश्नोत्थापकाभावापत्तेरिति ध्येयम् । गुणेषु विषयेषु । ऐकात्म्यदर्शनं जीवब्रह्मैक्यज्ञानमित्यन्यथाप्रतीतेः प्रमाणेनैव व्याकरोति ॥ एक इति ॥ तथा चैकश्चासावात्मा चैकात्मा तस्य भाव ऐकात्म्यं तद्दर्शनम् । आत्मनो विष्णोरेकत्वदर्शनमिति यावत् ॥ २७ ॥

प्रमेयचन्द्रिका

मय्यर्पितचित्तो धर्मादिचतुष्टयमभिपद्यत इत्युक्तम् । सर्वसाधारणधर्मादे-र्भगवदेकनिष्टचित्तत्वेन प्राप्यत्वं कथमुच्यत इत्यत उच्यते ॥ धर्म इति ॥ अत्र न स्वर्गादिसाधनं धर्मो यत्किञ्चिद्ज्ञानादिकं वा विवक्षितम् । किन्तु भक्तिद्वारा मोक्षसाधनविज्ञानरूपमहाधर्मादिकमेव विवक्षितम् । तच्च भगवदेकचित्तसाध्यमिति भावः । अत्र जीवेश्वरैक्यज्ञानमित्यन्यथाभानादैकात्म्य-दर्शनपदं व्याचष्टे ॥ एक इति ॥ एकः प्रधानश्चासावात्मा च एकात्मा । तस्य भावः प्राधान्यम् । तद्दर्शनं विष्णोः प्राधान्यदर्शनमित्येकोऽर्थः । मूले गुणेषु विषयेषु असङ्गः स्नेहाभावः । आनन्दातिशयेन स्वरससुन्दरभगवद्दर्शने तत्रैव स्नेहप्रसरणे तदन्यत्र तादृशस्नेहानुदयादिति ज्ञेयम् । ऐश्वर्यं चाणिमादिकं विवक्षितम् । यद्येवं धर्मादिशब्दा न प्रसिद्धार्थास्तर्हि शमादिशब्दार्था अप्यन्ये भवेयुः । अतस्तत्स्वरूपं मया सम्यक् ज्ञातव्यम् ॥ २७ ॥

उद्धव उवाच—

यमः कतिविधः प्रोक्तो नियमो वाऽरिकर्शन ।

कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८ ॥

किं दानं किं तपः शौर्यं किं सत्यं कमलेक्षण ।

किमन्नं तृप्तिजननं किञ्च शौचं जनार्दन ॥ २९ ॥

पदरत्नावली

तत्र तत्र भक्तिसाधनानि यमादयः कथ्यन्ते । तत्स्वरूपविवित्सया तत्रोद्धवः पृच्छति यम इत्यादिना ॥ २८ ॥

श्रीनिवासतीर्थीया

हे अरिकर्शन कामक्रोधाद्यरिषड्वर्गनाशक । तथा चारिषड्वर्गनाशकतया मद्भक्तिकृतत्वेनोक्तो यमनियमादिः कतिविध इति प्रश्नार्थः ॥ २८,२९ ॥

प्रमेयचन्द्रिका

किञ्च सनियमान् यमाननुसेवेत शमोदमस्तपः शौचमित्यादौ शमादिकमनुष्टेयमिति सप्तदशाध्यायेऽभिहितम् । तत्र यमादिस्वरूपं ज्ञातुकामेनोद्धवेन प्रश्नः क्रियते ॥ यमः कतिविध इत्यादिना ॥ २८,२९ ॥

कस्त्यागः किं धनं श्रेष्ठं को यज्ञः का च दक्षिणा ।

पुंसः किंस्विद् बलं श्रीमद् भगो लाभश्च केशव ॥ ३० ॥

का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च ।

कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः ॥ ३१ ॥

कः स्वर्गो नरकः कः स्वित् को बन्धुरुत किं गृहम् ।

क आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ॥ ३२ ॥

पदरत्नावली

श्रीमद् बलं किं स्वित् ॥ ३० ॥

श्रीनिवासतीर्थीया

यज्ञो यज्ञेन पूज्यः । श्रीमद्बलं किम् ॥ ३०–३२ ॥

प्रमेयचन्द्रिका

श्रीमद्बलम् उत्तमबलम् । परा ह्रीर्निषिद्धाचरणे लज्जा ॥ ३२ ॥

एतान् प्रश्नान् मम ब्रूहि विपरीतं च सत्पते ॥ ३३ ॥

पदरत्नावली

विपरीतमुक्तेभ्योऽन्यं दोषम् ॥ ३३ ॥

श्रीनिवासतीर्थीया

प्रश्नान्प्रष्टव्यार्थान् । को विपरीतस्तं च ब्रूहि परिहारेण स्पष्टीकुरु

॥ ३३ ॥

श्रीभगवानुवाच—

अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः१ ।

आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाऽभयम्२ ॥ ३४ ॥

शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम् ।

तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥ ३५ ॥

एते यमाः सनियमा उभयोर्द्वादश स्मृताः ।

पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥ ३६ ॥

पदरत्नावली

दुहन्ति, फलानीति शेषः ॥ ३६ ॥

श्रीनिवासतीर्थीया

अभयमित्यस्य पूर्वोत्तराभ्यां सम्बन्धे यमत्वं नियमत्वं च द्रष्टव्यम् । अन्यथा नियमानामेकादशत्वप्राप्त्या द्वादशत्वोक्त्ययोगात् । उभयोर्यमनियमयोर्द्वादशप्रभेदाः पुंसां पुंभिः । उपासिताः सेविता दुहन्ति । फलानीति शेषः ॥ ३४–३६ ॥

दुर्घटभावदीपिका

एतेऽहिंसेत्यादिनोक्ताः सनियमा नियमैः सहिता यमाः। यमाः कति नियमाः कतीत्यत आह ॥ उभयोरिति । उभयोर्यमनियमयोर्मध्ये यमा द्वादश स्मृताः । नियमा एकादश स्मृता इति ॥ ३६ ॥

प्रमेयचन्द्रिका

अहिंसादि अभयान्ता द्वादश यमाः । शौचादयो नियमाः । उभयोर्यमनियमे चेति उभयत्रापि प्रत्येकं द्वादशेत्यर्थः । नियमे स्वाध्यायो द्वादशसङ्ख्यापूरणाय ग्राह्यः । उक्तं तन्त्रसारे ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहौ । यमः शौचं तपस्तुष्टिः स्वाध्यायो हरिकीर्तनम् । नियमा इति । अत्रासञ्चयः परिग्रहाभावो गृह्यते । अचापलमिति पाठे असङ्गपदेन तद्ग्रहणम् । मदर्चनमित्यनेन हरिकीर्तनं चेति तदेकवाक्यता ज्ञेया । अत्राधिकोक्तिर्धर्मशेषाय । अस्य विस्तर-ग्रन्थत्वात् । भगवद्धर्मे मनोदार्ढ्यम् । अभयमन्येषामभयप्रदानम् । स्वस्येशाधीनत्वं ज्ञात्वा कुतोऽपि भयाभावो वा । भयमिति पाठे पापभीरुता ॥ परार्थेहा सज्जनकार्यार्थं व्यापारः ॥ यथाकामं स्वकामानुसारेण ॥ ३४–३६ ॥

**पाङ्घरी श्रीनिवासाचार्यकृतः **

विरोधोद्धारः

अहिंसेति । अत्रोभयोः श्लोकयोर्यमानां नियमानां च प्रत्येकं द्वादशत्वं भासते । तथापि द्वितीयश्लोके यमानामेकादशत्वकथनेन द्वादशत्वानुपपत्त्या विरोधापत्तिरित्यत्र केचित् । शौचस्य बाह्यान्तरभेदेन द्वैविध्यं परिकल्प्य सङ्ख्यापूरणमिच्छन्ति । तच्चिन्त्यम् । जपादेरपि सगर्भागर्भभेदसद्भावान्निर्धारणासिद्धेः । अपरे च । पूर्वश्लोकोक्तद्वादशरूपमेकं नियमं परिकल्प्य तेन नियमानां साहित्यं परिकल्प्य सङ्ख्यां पूरयन्ति । तदप्यसमञ्जसम् । एते यमाः सनियमा इत्यनेन यमानां नियमसाहित्यापत्त्या नियमानां यमसाहित्यायोगात् । तर्ह्यस्य वाक्यस्य का गतिरिति चेत् । उच्यते । एतेऽहिंसाद्याचार्यसेवनान्ता यमाः सनियमाः स्मृताः । नात्रान्वये द्वादशपदान्वयः । उभयोर्यमनियमयोर्मध्ये ये द्वादश तत्सङ्ख्यावन्तो यमा यथा यथावदुपासिताः सन्तः पुंसां कामं दुहन्ति निश्चितम् । यद्वा । सनियमा इत्यावर्त्य द्वादशयमानां विशेषणतया योज्यम् । अथवा । उभयोः स्त्रीपुरुषयोर्मध्ये पुंसामेते द्वादशयमाः सनियमाः स्मृताः । पुंसामित्यनेन स्त्रीणां नियमेषु योग्यता नास्तीति ध्वन्यते । तथाहि । शौचविषये रजोदोषात् । जपे वैदिकमन्त्रानधिकारात् । तपसि भर्तृसेवात्यागप्रसङ्गात् । होमे श्रोत्रादावविधानात् । श्रद्धायां भर्तृमतविरोधिगुर्वाद्युपदेशानङ्गी-कारात् । आतिथ्ये स्वातन्त्र्याभावात् । मदर्चने प्रतिमादिपूजनेऽनधिकारात् । तीर्थाटने भर्तृरहितगमनस्य निषिद्धत्वात् । परार्थेहायां पातिव्रत्यभङ्गप्रसङ्गात् । तुष्टौ स्त्रीणां पुमपेक्षया चतुर्गुणकामत्वात् । आचार्यसेवने उपनयनाभावादिति । तस्माद्यमेष्वेव स्त्रीणां योग्यता । तत्र । असङ्गो ऽदुष्टकर्म-सङ्गतिः । असञ्चयः भर्तृप्रतारणया पदार्थसञ्चयाकरणम् । ब्रह्मचर्यं भर्तुरन्यत्र कामाभावः । मौनं भर्तृप्रीतिसाधनमात्रभाषणम् । अन्यत्समानम् । अथवा । उत्तरश्लोकोक्ताः शौचादय एकादश सनियमाः । नियमशब्दगृहीतद्वादशसङ्ख्यापूरकनियमाङ्गभूतनियमान्तरेण सहिता इति योजना । तदर्थस्तु । धृतव्रतादेरत्यागः । तत्पक्षे एतच्छब्देन संन्निकृष्टस्यैव योग्यत्वान्नियमा ग्राह्याः । ते च सनियमा यमाश्चोभयोः श्लोकयोर्द्वादश स्मृता इत्यन्वयः । एतदर्थकनियमशब्दस्य सम्बुद्धिर्द्वादशेति । तारतम्यस्तोत्रे विष्णुविधिप्राणगरुडशेषरुद्रेन्द्रकामप्राणानिरुद्धगुर्वित्युक्तकोटिषु गुरोर्द्वादशकोटिगतत्वेनाभि-धानाद्वा । तस्मादयं श्लोकार्थः सन्मनस्तुष्टिकारकत्वेन श्रीभगवत्तुष्टिकारकोऽस्तु ॥ ३३,३४ ॥

॥ इति श्रीभागवतटिप्पण्याम् एकोनविंशोऽध्यायः ॥ ११–१९ ॥

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः ।

तितिक्षा दुःखसम्मर्दो१ जिह्वोपस्थजयो धृतिः ॥ ३७ ॥

प्रमेयचन्द्रिका

सम्मर्षः सहनम् ॥ ३७ ॥

दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम् ।

स्वभावविजयः शौर्यं सत्वं च समदर्शनम् ॥ ३८ ॥

पदरत्नावली

दण्डन्यासो ऽशास्त्रविहितदण्डत्यागः । दण्डत्याग इति वा पाठः । स्वभावविजयः स्वमनोजयः । समदर्शनं यथावस्तुदर्शनम् ॥ ३८ ॥

श्रीनिवासतीर्थीया

दण्डन्यासो विहितदण्डत्यागः । सर्वेषामभयदानमिति यावत् । स्वभावविजयः स्वमनोजयः समदर्शनं यथावस्तुदर्शनम् ॥ ३८ ॥

प्रमेयचन्द्रिका

दण्डन्यासः शारीरदण्डसन्त्यागः । पुत्रभार्यादिकानृत इति ज्ञेयम् । स्वभावविजयः बहुकालानुबद्धस्वभावनिग्रहः । समदर्शनं यथावस्तु तथा ज्ञानम् ॥ ३८ ॥

ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।

कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥ ३९ ॥

पदरत्नावली

कर्मस्वसङ्गमः नाहं कर्तेति ॥ ३९ ॥

श्रीनिवासतीर्थीया

सूनृता सत्या वाण्येव सर्वतृप्तिकरान्नमित्यर्थः । असङ्गमो नाहं कर्तेति बुद्धिः । संन्यासो निषिद्धत्यागः ॥ ३९ ॥

प्रमेयचन्द्रिका

सूनृता सत्यहितरूपा । कर्मस्वसङ्गमः । क्रियास्वातन्त्र्यधीफलकामनयो-स्त्यागः । सन्न्यासो मिथ्याभिमानपरित्यागः । मिथ्याभिमानविरतिस् त्याग इत्यभिधीयत इति प्रथमतात्पर्ये ॥ ३९ ॥

धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः ।

दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ ४० ॥

पदरत्नावली

इष्टं धनं धर्मः । भगवत्तमोऽहं यज्ञो यज्ञेनेज्य इत्यर्थः । ज्ञानसन्देशः ज्ञानोप-देशः दक्षिणा ॥ ४० ॥

श्रीनिवासतीर्थीया

भगवत्तमो ज्ञानिप्रधानोऽहमेव । यज्ञो यज्ञेनेज्य इत्यर्थः । ज्ञानसन्देशो ज्ञानोपदेशः ॥ ४० ॥

प्रमेयचन्द्रिका

भगवत्तम ऐश्वर्यादिषड्गुणवतामतिशयेन श्रेष्टोऽहम् । यज्ञो याज्यत्वात् । यज्ञो विष्णुरिति हि श्रुतिः । सन्देश उपदेशः । परं बलम् ॥ कामाद्यरिनिग्रहेण हरौ मनसः सन्नतिहेतुत्वात् प्राणायामः परं बलम् ॥ ४० ॥

भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः ।

विद्याऽऽत्मनि भिदाबोधो जुगुप्सा ह्रीर्विकर्मसु ॥ ४१ ॥

पदरत्नावली

ऐश्वरो भावः ममेश्वरत्वभावनं भगः । आत्मनि भिदाबोधः सर्वतो विलक्षणो हरिरिति ज्ञानं विद्या ॥ ४१ ॥

श्रीनिवासतीर्थीया

मे ममैश्वरो भाव ईश्वरत्वभावनं भग इत्यर्थः । आत्मनि हरौ भिदाबोधो जीवादिभेदज्ञानम् । विकर्मसु विरुद्धकर्मसु । जुगुप्सा ह्रीः ॥ ४१ ॥

दुर्घटभावदीपिका

भगो मे ऐश्वरो भाव इत्यस्य मे ऐश्वर ऐश्वरस्य भावो भवनं ध्यानं भग इत्यर्थः । एतेनैश्वरस्येति वक्तव्ये मे ऐश्वर इति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । ऐश्वरस्येति षष्ठ्या ऐश्वर इति प्रथमादेश इति स्वीकरणात् ॥ ४१ ॥

प्रमेयचन्द्रिका

मम सम्बन्धी ईश्वरः । भावप्रधानो निर्देशः । ईश्वरत्वादिरूपो भाव ऐश्वर्यादि धर्मः भग इत्युच्यते । आत्मनि परमात्मनि चित्प्रकृतिजीवजडेभ्योऽतिशयभेदस्य ज्ञानं विद्या

॥ ४१ ॥

श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखात्ययात् सुखम् ।

दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥ ४२ ॥

पदरत्नावली

दुःखात्ययात् सुखं मोक्षलक्षणं सुखम् । कामानां विषयाणां सुखापेक्षा दुःखम्

॥ ४२ ॥

श्रीनिवासतीर्थीया

दुःखात्ययादात्यन्तिकदुःखनाशाज्जायमानं यत्सुखं मौक्तं सुखं तदेव सुखमित्यर्थः । काम्यन्त इति कामा विषयास्तेषां सकाशाज्जायमानं यत्सुखं तदपेक्षया दुःखमित्यर्थः

॥ ४२ ॥

दुर्घटभावदीपिका

सुखं दुःखात्ययात्सुखमित्यस्य दुःखात्ययाद्दुःखात्ययेन दुःखाभावेन विशिष्टं यत्सुखं तदेव सुखमित्यर्थः । एतेन दुःखासम्भिन्नं सुखं सुखमिति वक्तव्ये दुःखात्ययात्सुखं सुखमिति कथनमनुपपन्नमिति दूषणं परास्तम् । विशिष्टमित्यस्य शेषेण दुःखासंभिन्नं सुखं सुखमित्यर्थ उच्यत इत्यभ्युपगमात् ॥ ४२ ॥

॥ इति श्रीभागवतटिप्पण्यामेकोनविंशोऽध्यायः ॥ ११–१९ ॥

प्रमेयचन्द्रिका

दुखाप्ययात् । वृत्तिरूपसुखदुःखस्याप्ययादभिव्यक्तं स्वरूपभूतं सुखमित्युच्यते

॥ ४२ ॥

मूर्खो देहाद्यहंबुद्धिः पन्था मन्निगमः स्मृतः ।

उत्पथश्चित्तविक्षेपः स्वर्गः सत्वगुणोदयः ॥ ४३ ॥

नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखा ।

गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥ ४४ ॥

पदरत्नावली

देहादावहम्बुद्धिर्यस्य स तथा । मन्निगमः मद्विषयो वेदः । सत्वगुणोदयः सत्वगुणाभिवृद्धिः स्वर्गः ॥ तमउन्नाहो ऽज्ञानोन्नतिर् नरकः । भक्त्यादिगुणाढ्यः ॥४३,४४॥

श्रीनिवासतीर्थीया

देहादावहम्बुद्धिमान् । मन्निगमो मद्विषयो वेदादिः । एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिरित्युक्तेः । तमोगुणस्योन्नाहोऽभिवृद्धिः । सखा गुरुः सखिभूतो गुरुभूतोऽहमेव बन्धुरित्यर्थः ॥ ४३,४४ ॥

दरिद्रो यस्त्वसंतुष्टः कृपणो योऽजितेन्द्रियः ।

गुणेष्व सक्तधीरीशो गुणसङ्गी विपर्ययः ॥ ४५ ॥

तात्पर्यम्

‘विषये दोषबुद्धिः सन्निन्द्रियाणां वशे स्थितः ॥ कृपणः स तु सम्प्रोक्तो गुणबुद्धिर्विपर्यय’ इति विवेके ॥ ‘पुरुषार्थमतिर्यस्य विषयेष्वेव देहिनः । विपरीतः स विज्ञेयः स्वात्मनो विपरीतत’ इति निवृत्ते ॥ वित्तासन्तोषमात्राद्दरिद्रः । सर्वविषयसङ्गी विपरीतः ॥ ४५ ॥

पदरत्नावली

असन्तुष्टो विवषयासन्तोषवान् दरिद्रः । ‘‘विषये दोषबुद्धिः सन्निन्द्रियाणां वशे स्थितः । कृपणः स तु सम्प्रोक्तो गुणबुद्धिर्विपर्ययः’’ इति वचनात् । गुणेषु विषयेषु असक्तधीः स्ववश ईश्वरः । गुणसङ्गी सर्वविषयसङ्गी विपर्ययो विपरीतो ज्ञेयः । ‘‘पुरुषार्थमतिर्यस्य विषयेष्वेव देहिनः । विपरीतः स तु ज्ञेयः स्वात्मनो विपरीततः’’ इति वचनात् । चित्तासन्तोषमात्राद् दरिद्रः सर्वविषयसङ्गी विपरीतः ॥ ४५ ॥

श्रीनिवासतीर्थीया

ईश ईश्वरो योऽजितेन्द्रियो विषयासक्तबुद्धिः स कृपणः । गुणसङ्गी विषयासक्तबुद्धिर्विपर्ययो विपरीत इति कृपणविपरीतयोर्भेदाभावः प्रतीयतेऽतः प्रमाणेनैव तयोर्भेदं दर्शयति ॥ विषय इति ॥ यथाऽऽस्तिककामुकादिर् गुणबुद्धिर्गुणेषु दोषबुद्धिं विहाय पुरुषार्थत्वबुद्धिमान्विपर्ययो विपरीत इत्यर्थः । विपरीतस्वरूपं प्रमाणान्तरेण दर्शयति ॥ पुरुषार्थेति ॥ यस्य देहिनो विषयेष्वेव पुरुषार्थमतिः पुरुषार्थत्वज्ञानम् ॥ स्वात्मन इति ॥ स्वस्य विपरीततो मोक्षादिविपरीत-फलसंपादनादित्यर्थः । ननु तर्हि दरिद्रविपरीतयोर्भेदो न स्यात् । असन्तुष्टो दरिद्रः विषयेभ्यो न सन्तुष्टो भवति किन्तु विषयेषु पुरुषार्थमत्याऽसक्त इति दरिद्रस्वरूपमुक्तम् । तस्य विपरीतस्वरूपेण सांकर्यं प्राप्नोतीत्यतस्तर्योर्भेदं दर्शयति ॥ वित्तेति ॥ वित्तप्राप्तावपि तत्रासन्तोषमात्रः सन्तोषमात्र-शून्यः । तथा च वित्तविषय एवासन्तुष्टो यः स दरिद्र इत्यर्थः ॥ सर्वविषयेति ॥ शुभाशुभ-विषयेत्यर्थः ॥ ४५ ॥

प्रमेयचन्द्रिका

असन्तुष्टो अलम्बुद्धिरहितः । क ईश्वर इति प्रश्नस्य उत्तरम् ॥ गुणेष्विति ॥ तथा च तयोरेकार्थत्वप्रतीतेस्तां वारयति ॥ विषय इति ॥ विषयेष्वसक्तः । स्ववश इति । गुणेषु विषयेषु । इश्वर इत्यस्य प्रतिपदं स्ववश इति । योऽजितेन्द्रिय इन्द्रियासक्तः सः कृपणः । गुणसङ्गी गुणेषु विषयेषु सङ्गी विपर्यय इत्युच्यते । निषेधपरशास्त्रपरिज्ञानेन विषये दोषबुद्धिः सन्नपि रागौत्कंट्यादिन्द्रियाणां वशे स्थितो आस्तिककामुकः । स एव कृपणः संप्रोक्तः । यः विषयेषु गुणबुद्धिः । स विपर्यय इत्युच्यत इत्यर्थः ॥

अत्र गुणबुद्धिरित्युक्तत्वेऽपि स्पष्टमप्रतीतेर्मानान्तरेण विवृणोति ॥ पुरुषार्थेति ॥ पुरुषार्थ-मतिरेवेति सम्बन्धः । न दोषमतिरित्येवार्थः । एवं मतिमतो विपरीतत्वं कुत इत्यत उक्तम् ॥ स्वात्मन इति ॥ सुखज्ञानादिस्वरूपस्यात्मनो दुःखादिवैपरीत्यापादकत्वादिति भावः ॥

तथापि विषयेषु असन्तुष्ट इत्युक्तदरिद्रस्योक्तविपरीतस्य च भेदाभाव इत्यत आह ॥ वित्तासन्तोषेति ॥ विशेषणलाभप्रयुक्तालम्बुध्यभावाद्दरिद्रः । ननु विषयसङ्गित्वं तत्र विवक्षितम् । सर्वदुर्विषयसङ्गेन स्वरूपवैपरीत्यसम्पादको विपरीत इति महान्भेद इत्यर्थः ॥ ४५ ॥

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।

किं वर्णितेन बहुना लक्षणं गुणदोषयोः ॥ ४६ ॥

गुणदोषदृशिर्दोषो गुणस्तूभयवर्जनम् ॥ ४७ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे एकोनविंशोऽध्यायः ॥

पदरत्नावली

निरूपिताः परिहृताः । शास्त्रतात्पर्यार्थं कथयति किं वर्णितेनेति । गुणदोष-योर्लक्षणमुद्दिश्य बहुना वर्णितेन किम् । विहितकरणाद् गुणः निषिद्धकरणाद् दोष इति दृष्टिर्दोषः, भगवत्प्रियत्वाप्रियत्वमन्तरेणेति शेषः । उभयवर्जनं गुण उभयोर्गुणदोषयोर्भेददर्शनत्यागो गुण इत्यर्थः । अत्र हरेर्यत् प्रियं स गुणः, यदप्रियं स दोष इति सतां मतमिति तात्पर्यम् । यद्वा बहुना वर्णितेन किम् । गुणदोषयोर्लक्षणम्, दुर्ज्ञानमिति शेषः । कथमत्राह– गुणेति । गुणदोषयोरन्योन्यदृष्टिर्दोषः, उभयवर्जनं गुणः, अत्रापि हरिप्रियत्वादिकं प्रयोजकमिति ॥ ४६–४७ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य एकोनविंशोऽध्यायः ॥

श्रीनिवासतीर्थीया

भगवानुत्तरग्रन्थोपक्षेपाय गूढाभिसन्धिराह ॥ किमिति ॥ गुणदोषयो-र्लक्षणं स्वरूपम् । दुर्ज्ञानमिति शेषः । ननु कथं दुर्ज्ञानत्वम् । वेदविहितो गुणस्तन्निषिद्धो दोष इति सुज्ञानत्वादित्यत आह ॥ गुणेति ॥ गुणदोषदृशिर्वेदविहितो गुणस्तन्निषिद्धो दोष इति गुणदोषस्वरूपज्ञानं दोषो महाप्रत्यवायसाधनम् । उभयोर्गुणदोषयोर्ज्ञानस्य वर्जनं गुणदोषपरित्याग एव गुणः शुभसाधनमित्यर्थः । तस्मात्त्वमयं गुणोऽयं दोष इति गुणदोषपरित्यागं कुर्वित्याशयः

॥ ४६–४७ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्यामेकोनविंशोऽध्यायः ॥

प्रमेयचन्द्रिका

उपसंह्रियते ॥ एत इति ॥ एते त्वयोक्ताः पृष्टास् ते तुभ्यं साधु निरूपिता यमादयो गुणा उत्पत्यादयो दोषा इति निरूपितम् । तत्र विशेषोऽभिधीयते ॥ किं वर्णितेनेति ॥ बहुनाऽनेन यमादिना उत्पत्यादिना च वर्णितेन किम् । किन्तु विहितकरणाद्गुणः निषिद्धगुणाद्दोष इति भगवत्प्रियत्वाप्रियत्वे अपहाय गुणदोषदृशिर्दोष उभयवर्जितं विहितनिषिद्धयोः स्वतो गुणात्मकादोषत्वबुद्धिवर्जनं गुणा इत्यर्थः । यथोक्तं दोषबुध्योभयातीतो निषेधान्न निवर्तत इत्यादिना ॥ ४६–४७ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायाम् एकोनविंशोऽध्यायः ॥