वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा
॥ अथ अष्टादशोऽध्यायः ॥
श्रीभगवानुवाच—
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।
वनमेव वसेच्छान्तस्तृतीयं भागमायुषः ॥ १ ॥
पदरत्नावली
वने चोपविशेदित्युक्तवानप्रस्थप्रवृत्तिप्रकारमाह– वनमित्यादिना । तृतीयभागमायुषश् चतुर्मासाधिकं त्रयस्त्रिंशद्वर्षपरिमितम् ॥ १ ॥
श्रीनिवासतीर्थीया
वनं चोपविशेदित्युक्तवानप्रस्थस्य प्रवृत्तिप्रकारमाह ॥ वनमित्यादिना ॥ विविक्षुः प्रवेष्टुमिच्छुः । पुत्राभावे सहैव वा । आयुषस्तृतीयं भागम् । चतुर्मासाधिकत्रयस्त्रिंशद्वर्षपरिमितं भागं वसेदिति । कालाध्वनोरन्यन्तसंयोगे इति सूत्रेण मासमधीयीतेतिवद्द्वितीया ॥ १ ॥
प्रमेयचन्द्रिका
वानप्रस्थवृत्तिरुच्यते ॥ वनमित्यादिना ॥ १ ॥
कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासस्तृणपर्णाजिनानि च ॥ २ ॥
पदरत्नावली
वन्यैर् वनभवैः ॥ २ ॥
श्रीनिवासतीर्थीया
कन्दमर्शघ्नादि । मूलं रक्तमूलं (गड्डीगेणसु) । फलं चूतादीनाम् । तैर्वन्यैर्वनभवैः । मेध्यैः पवित्रैर्न त्वपवित्रैः पलाण्ड्वादिकं तदादिभिः । वृत्तिं जीवनोपायम्
॥ २ ॥
केशलोमनखश्मश्रुमलानि बिभृयाद् व्रती ।
न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३ ॥
पदरत्नावली
व्रती वानप्रस्थव्रतवान् । धावनं पलायनं तेवनं वा ॥ ३ ॥
श्रीनिवासतीर्थीया
शिरस्थाः केशाः कक्षशिश्नगतानि लोमानि । श्मश्रूणि मुखगतानि । तेष्वेव छेदप्रसक्तिसद्भावाद्बिभृयादित्युक्तम् । मलं बिभृयाद्देहस्थमलस्योद्वर्तनं न कुर्यान्न धावेत् । त्रिकालमप्सु मज्जेत ॥ ३ ॥
प्रमेयचन्द्रिका
शिरोगताः केशाः, कण्ठादधोगतानि लोमानि, मुखस्थानि श्मश्रूणीति विवेकः । मलपदेन देहलग्नमेवोच्यते । न तु मूत्रपुरीषादि । वानप्रस्थस्य त्रिगुणमिति शौचोक्तेः ॥ ३ ॥
ग्रीष्मे तप्येत पञ्चाग्निर्वर्षास्वासारषाड् जले ।
आकण्ठमग्नः शिशिर एवंवृत्तस्तपश्चरेत् ॥ ४ ॥
पदरत्नावली
वर्षासु वर्षर्तौ आसारषाट् वेगवर्षमपि सहत इति ॥ ४ ॥
श्रीनिवासतीर्थीया
दिक्चतुष्टये चत्वारोऽग्नय उपरि सूर्य एक इति पञ्चाग्नयः । पञ्चाग्निमध्ये तपः कुर्वीतेति यावत् । आसारषाट् आसारो वृष्टिस्तां सहत इति आसारषाट् । शिशिरे हेमन्त-शिशिरयोरैक्यात्तत्र जले कण्ठपर्यन्तं मग्नः । एवंवृत्त एवंस्थितिमान् ॥ ४ ॥
अग्निपक्वं समश्नीयात् कालपक्वमथापि वा ।
उलूखल्यश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥
पदरत्नावली
कालपक्वं कदलीफलादि । उलूखली उलूखलावहतनीवारादिना वर्तमानः । अश्मकुट्टो ऽश्मना चूर्णितपिष्टादिवृत्तिः । दन्ता एवोलूखलो यस्य स तथा, दन्तचूर्णितभोज्य इत्यर्थः । गजदन्तनिर्मितोलूखलो वा ॥ ५ ॥
श्रीनिवासतीर्थीया
कालपक्वं कदलीफलादि । उलूखलकुट्ट उलूखलकुट्टितकण्डितपिष्ठीकृत-धान्यादिभक्षः । अश्मकुट्टोऽश्मना चूर्णितधान्यादिभक्षणः । दन्त एवोलूखलो यस्य ॥ ५ ॥
प्रमेयचन्द्रिका
उलूखली उलूखलवान् । उलूखलेन नीवाराद्यवहननं कृत्वा तेन वृत्तिमानिति यावत् । अश्मकुट्टो ऽश्मना कुट्टनं चूर्णीकरणं यस्य स तथा । दन्तोलूखलः दन्ता एवोलूखलायिता यस्य स तथा । दन्तचूर्णितभोज्य इति यावत् ॥ ५ ॥
स्वयं सञ्चिनुयात् सर्वमात्मनो वृत्तिकारणम् ।
देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ ६ ॥
पदरत्नावली
सञ्चिनुयात् सङ्ग्रहं कुर्यात् । अन्यदाहृतम् अन्येनानीतम् ॥ ६ ॥
श्रीनिवासतीर्थीया
सञ्चिनुयात्सङ्ग्रहं कुर्यात् । वृत्तिकारणं जीवनोपायभूतं धान्यादि । अन्यदित्यव्ययम् । अन्येनाहृतं नाददीतेत्यर्थः ॥ ६ ॥
दुर्घटभावदीपिका
देशकालबलाभिज्ञो देशकालानूकूल्यं कालानुकूल्यमस्ति चेदिति यावत् । आत्मनो वृत्तिकारणं यद्यत्तत्सर्वं स्वयं सद्यः सञ्चिनुयात्सम्पादयेत् । अन्यदा कालान्तरे सम्पादितं नाददीतेति ॥ अयं भावः ॥ देशःकालश्चानुकूलो भवति चेत्सद्यः सम्पादितमेव भुञ्जीत न तु कालान्तरे सम्पादितम् । देशकालानुकूल्याभावे कालान्तरे सम्पादितमपि भुञ्जीतेति ॥ ६ ॥
प्रमेयचन्द्रिका
अन्यदाहृतम् अन्येन आहृतं नीवारादि ॥ ६ ॥
वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥
पदरत्नावली
कालचोदितान् अस्मिन् काल इदमिति विहितान् ॥ ७ ॥
श्रीनिवासतीर्थीया
वन्यैर्धान्यैः । कालचोदितांस्तत्तत्काले विहितांश्चर्वादीन् ॥ ७ ॥
प्रमेयचन्द्रिका
कालचोदितान् तत्कालेषु विहितान् ॥ ७ ॥
अग्निहोत्रं च दर्शं च पूर्णमासं च पूर्ववत् ।
चातुर्मास्यानि च मुनेराम्नातानि च नैगमैः ॥ ८ ॥
पदरत्नावली
पूर्ववद् गृहस्थाश्रमे यथा, तथा वनेऽग्निहोत्रादिकं कुर्यादिति शेषः नैगमैः कल्पशास्त्रज्ञैः ॥ ८ ॥
श्रीनिवासतीर्थीया
पूर्ववद्गृहस्थाश्रमे यथा तथा । नैगमैः कल्पशास्त्रज्ञैराम्नातानि चातुर्मास्यानि तन्नामकयागान्कुर्यात् ॥ ८ ॥
प्रमेयचन्द्रिका
पूर्ववद् गृहस्थाश्रम इव ॥ ८ ॥
एवं चीर्णेन तपसा मुनिर्धमनिसन्ततः ।
मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥
पदरत्नावली
तपोमयं ज्ञानमयम् । ऋषीणां लोकान्मामुपैति ॥ ९ ॥
श्रीनिवासतीर्थीया
धमनिभिः शिरैः सन्ततो व्याप्तः । तपोमयं ज्ञानरूपम् । ऋषिलोकात् । ल्यब्लोपनिमित्ता पञ्चमी । आदौ ऋषिलोकं प्राप्य पश्चान्मामुपैति ॥ ९ ॥
प्रमेयचन्द्रिका
तपोमयं ज्ञानमयम् ॥ ऋषिलोकाद् ऋषिलोकं प्राप्यं मामुपैति ॥९॥
यस्त्वेवं कृच्छ्रतश्चीर्णं तपो नैःश्रेयसं महत् ।
कामायाऽल्पीयसे युञ्ज्याद् बालिशः कोऽपरस्ततः ॥ १० ॥
पदरत्नावली
एवं कृच्छ्रेण चीर्णं तपो मदपरोक्षाय नियोक्तव्यम्, अन्यथा युञ्जानः सर्वहास्य इत्याह यस्त्विति । निःश्रेयसं मदपरोक्षलक्षणं पुरुषार्थसाधनम् ॥ १० ॥
श्रीनिवासतीर्थीया
नैश्रेयसं मोक्षसाधनम् ॥ १० ॥
यदाऽसौ नियमेऽकल्पो जरया जातवेपथुः ।
आत्मन्यग्निं समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥
पदरत्नावली
स्वाश्रमविहितकर्मकरणासमर्थश्चेत् किं कुर्यादत्राह– यदेति ॥ ११ ॥
श्रीनिवासतीर्थीया
नियमे स्वाश्रमविहिताचरणे ॥ ११ ॥
यदा धर्मविपाकेषु लोकेषु निरयात्मसु ।
विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः ॥ १२ ॥
पदरत्नावली
क्रमप्राप्तं प्रव्रजनपूर्वकं यतिधर्ममाह– यदेति । धर्मविपाकेषु धर्मफलेषु दुःखहेतुत्वान्निरयात्मसु नरकसमानरूपेषु ॥ १२ ॥
श्रीनिवासतीर्थीया
क्रमप्राप्तं सन्न्यासाश्रमस्वीकारप्रकारं तद्धर्मांश्चाह ॥ यदेति ॥ कर्मविपाकेषु कर्मफलेषु । निरयात्मसु दुःखप्रचुरात्मकत्वान्नरकतुल्येषु । जायते यदा ततस्तदा । यदहरेव विरजेत्तदहरेव प्रव्रजेदित्युक्तेः ॥ १२ ॥
प्रमेयचन्द्रिका
यतिधर्मा उच्यन्ते ॥ यदेत्यादिना ॥ निरयात्मसु दुःखसहितत्वान्निरयप्रायेषु
॥ १२ ॥
इष्ट्वा यथोपदेशं मां दत्वा सर्वस्वमृत्विजे ।
अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ १३ ॥
पदरत्नावली
प्रव्रजने इत्थम्भावमाह– इष्ट्वेति । प्राणे अन्तर्यामिणि ॥ १३ ॥
श्रीनिवासतीर्थीया
प्रव्रजने इत्थम्भावमाह ॥ इष्ट्वेति ॥ यथोपदेशं विध्युक्तप्रकारेण । प्राणेऽन्तर्यामिणि हरौ । आत्मारोपणं कृत्वेति यावत् ॥ १३ ॥
प्रमेयचन्द्रिका
न्यस्ताग्निरित्यस्य विवरणम् ॥ अग्नीन् स्वप्राण आवेश्येति ॥ अहितानग्नीन् देहगते प्राणाग्नावावेश्येत्यर्थः ॥ १३ ॥
विप्रस्य वै संन्यसतो देवा दारादिरूपिणः ।
विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥
तात्पर्यम्
‘असम्पूज्य न्यसिष्णूंस्तु देवा वै पातयन्त्यधः । सुसम्पूज्य न्यसिष्णूं-स्तु देवा एवानुजानते । अथवा तद्यशोवृध्द्यै विघ्नन्तीव पुनःपुनः । तात्पर्याद्विघि्नतो देवैर्नोत्थातुं शक्नुयात्क्वचिदि’ति देवहार्दे ॥ १४ ॥
पदरत्नावली
देवान् सम्यक् सम्पूज्य तेभ्योऽनुज्ञामादायैव संन्यासः कार्योऽन्यथा ते दारादिषु सन्निधाय विघ्नं विधायाधः पातयन्तीत्याशयेनाह– विप्रस्येति । वा इत्यनेन ‘‘असम्पूज्य न्यसिष्णुं तु देवा वै पातयन्त्यधः । सुसम्पूज्य न्यसिष्णोस्तान् देवा एवानुजानते । अथवा तद्यशोवृद्ध्यै विघ्नन्तीव पुनःपुनः । तात्पर्याद् विघि्नतो देवैर्नोत्थातुं शक्नुयात् क्वचित्’’ इति मानं सूचयति ॥ १४ ॥
श्रीनिवासतीर्थीया
देवान्सम्पूज्य तेभ्योऽनुज्ञामादायैव न्यासः कार्योऽन्यथा ते दारादिषु स्थित्वा विघ्नं कुर्वन्तीत्याह ॥ विप्रस्येति ॥ दारादिरूपिणः दारादिषु स्थित्वेति यावत् । अयं न्यास्यस्मानाक्रम्यातिक्रम्य परं समियात्प्राप्नुयादिति । गृहस्थाद्याश्रम एव स्थितश्चेद्यज्ञादिनाऽस्मा-निष्ट्वाऽस्मान्प्राप्नुयात् । न्यासी चेत्तस्य यज्ञादेरभावान्निष्कामकर्मणा हरिं संपूज्यास्मानप्राप्य परमेव समियादिति बुद्ध्या विघ्नं कुर्वन्तीत्यर्थः । ननु सन्मार्गे प्रवर्तमानस्यानुकूला एव देवा भवन्तीति वक्तव्यम् । कथं विघ्नं कुर्वन्तीत्युच्यत इत्यतस्तात्पर्यमाह ॥ असम्पूज्येति ॥ न्यसिष्णून्सन्न्यासं गृहीतुमिच्छून् । गृहस्थाश्रमं स्वीकृत्यापि पञ्चमहायज्ञादिना देवानसम्पूज्य न्यसिष्णून्देवा अधः पातयन्तीत्यर्थः । ननु क्वचित्सम्पूज्य न्यसिष्णूनामपि देवा विघ्नं कुर्वन्तीत्युच्यते । तत्र का गतिरित्यत आह ॥ अथवेति ॥ तदिति ॥ न्यसिष्णोरित्यर्थः । एवं किल देवैर्विघि्नतोऽप्ययं सन्न्यासं गृहीत-वानिति तद्यशोऽभिवृद्ध्यै इत्यर्थः । ननु विघ्नन्तीवेति कस्मादुच्यते । वस्तुतो विघ्नं कुर्वन्त्येवेति कस्मान्न स्यादित्यत आह ॥ तात्पर्यादिति ॥ वस्तुतोऽस्य विघ्नं करिष्याम इति बुद्धिपूर्वं देवैर्विघि्नतो विघ्नं प्रापितोऽयमुत्थापितुमेव न शक्नुयादित्यर्थः ॥ १४ ॥
दुर्घटभावदीपिका
हि यस्माद्देवानाक्रम्यानाक्रम्य । असम्पूज्येति यावत् । संन्यसतः संन्यासं गृह्णतो विप्रस्य देवा दारादिरूपिणो दारादिषु संनिहिताः सन्तो विघ्नं कुर्वन्तीत्येतद्वै प्रमाणप्रसिद्धम् । अस्मात्कारणादयं विप्रो देवान् सम्पूज्य परं परमेश्वरप्रापकं संन्यासाश्रमं समियात्सम्प्राप्नुयादिति । एतेनानाक्रम्येति वक्तव्यम् आक्रम्येति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । नसमास इत्यभ्युपगमात् । एतेनैव परप्रापकमिति वक्तव्यम् । परमिति कथनमयुक्तमिति दूषणं पराकृतम् । परशब्दस्य अर्शआद्यजन्तत्वमिति स्वीकरणात् ॥ १४ ॥
प्रमेयचन्द्रिका
देवानादौ सुसम्पूज्य तदनुज्ञया सन्यासं स्वीकुर्याद् अन्यथा विघ्नो भवेदित्या-शयेनोच्यते ॥ विप्रस्येति ॥ अत्र देवा अयमस्मानतिकम्य परम्ब्रह्म समियादित्यसूयया विघ्नं कुर्वन्तीति भानाद्देवातिक्रमस्य तेषामसूयायाश्चायोगाद्यथावत्प्रमाणेन तदभिप्रायमाह ॥ सुसम्पूज्येति ॥ तुशब्द उत्तरार्धोक्तेभ्योऽत्रोक्तविशेषद्योतकः । सम्पूज्य देवतातारतम्यज्ञानतद्भक्तिभगवदधिष्ठानत्वादिधी-पूर्वकं सम्यक् सम्पूज्य देवाः प्रसन्नाः स्वयमेवापरोक्षतोऽनुजानते । ननु भक्तेष्वपि केचिद्देवा विघ्नं कुर्वन्तीति तत्र श्रूयत इत्यत आह ॥ अथवेति ॥ असम्पूज्येत्ययोग्येषु विघ्नोक्तेरत्राथवेत्युक्तम् । विघ्नकरणे तेषां तात्पर्याभावद्योतनार्थ इवशब्दः । विघ्न एव तात्पर्यं किं न स्यादित्यत आह ॥ तात्पर्यादिति ॥ तात्पर्यपूर्वकं देवैर्विघ्नः कृतश्चेद्विघ्नादुत्थातुं विघ्नं परिहर्त्तुं नैव शक्नुयात् । अतः स्वत एव विघ्नपरिहारे सामर्थ्यं पृथ्वादीनामिति यशोवृध्यर्थमेव विघ्नुं कुर्वन्त इव देवा भवंतीति भावः ॥
मूलार्थस्तु सन्यसतो विप्रस्य दारादिरूपं येषां ते देवा अयमयोग्योऽस्मानतिक्रम्य न पूजयित्वा परं समियात्प्राप्तुमिच्छतीति मत्वा विघ्नं कुर्वन्ति । ततश्चाधः पातयन्तीति ॥ १४ ॥
बिभृयाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम् ।
त्यक्तं न दण्डपात्राभ्यामन्यत् किञ्चिदनापदि ॥ १५ ॥
पदरत्नावली
मौनेन वाग्दण्डः, अनीहया निषिद्धाचरणत्यागेन देहदण्डः, अनिलायामेन चेतोदण्डः ॥ १५ ॥
श्रीनिवासतीर्थीया
बिभृयादित्यतः पूर्वं मुनिः सन्न्यासी वास एव न बिभृयाद्दिगम्बर एव स्यादिति वाक्यशेषः । परं केवलं कौपीनरूपमेकमेवाच्छादनं बिभृयादित्यर्थः । अनापदि दण्डकाष्टक-मण्डलुरूपपात्राभ्यामन्यत्किञ्चिद्वस्तु न बिभृयात् । कुत इत्यत उक्तम् ॥ त्यक्तमिति ॥ यतः पूर्वं तत्सर्वं त्यक्तमस्त्यतस्तन्न बिभृयादित्यर्थः । आपदि तु तं बिभृयादिति लभ्यते ॥ १५ ॥
प्रमेयचन्द्रिका
यतिधर्मा उच्यन्ते ॥ बिभृयादित्यादिना ॥ त्यक्तं प्रैषोच्चारणात्पूर्वं त्यक्तं वस्त्रादिकं पुनः न बिभृयात् । लोकार्थं बिभृयाच्चेत्कौपीनरूपमाच्छादनं परमन्यत्कंथारूपं नववस्त्रमपि बिभृयात् । तथा दण्डं जलपात्रं च बिभृयात् । ताभ्यामन्यत्किञ्चिदपि रोगाद्यापदभावे न बिभृयादित्यर्थः
॥ १५ ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतं वदेद् वाक्यं मनःपूतं समाचरेत् ॥ १६ ॥
श्रीनिवासतीर्थीया
दृष्टिपूतत्वस्य पादविशेषेणत्वेऽसङ्गत्यापत्तेर्दृष्टिपूतं स्थलमुद्दिश्य पादं न्यसेदिति योज्यम् ॥ १६ ॥
प्रमेयचन्द्रिका
दृष्टिपूतमिति कृमिकेशाद्यभावमवलोक्य पादं न्यसेद् दृष्टिपूतमिति क्रियाविशेषणं वा ॥ १६ ॥
मौनानीहानिलायामदण्डो वाग्देहचेतसाम् ।
न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यतिः ॥ १७ ॥
श्रीनिवासतीर्थीया
वाग्देहचेतसां मौनानीहानिलायामा एतद्रूपा दण्डाः कर्तव्याः । मौनेन वाचोदण्डः । अनीहया निषिद्धाचरणत्यागेन देहदण्डः । अनिलायामेन प्राणायामेन चेतोदण्ड इति विवेकः । एते दण्डाः । वेणुभिर् वेणुधारणमात्रेणेति यावत् । बहुवचनं त्रिदण्डिविवक्षयेति ज्ञेयम्
॥ १७ ॥
प्रमेयचन्द्रिका
एते वागादिदण्डरूपमौनकर्मत्यागप्राणायामा यस्य न सन्ति सः वेणुभि-र्बहुवचनमाद्यर्थे, वेणुदण्डादिमात्रेण यतिर् न भवेदित्यर्थः ॥ १७ ॥
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत् ।
सप्तागारानसंक्लृप्तांस्तुष्येल्लब्धेन तावता ॥ १८ ॥
श्रीनिवासतीर्थीया
चतुर्षु चरेत् । चतुर्ष्वपि वर्णेषु गर्ह्यान्पतितान्वर्जयन्नित्यर्थः । मया भिक्षार्थमागम्यत इत्यसंक्लृप्तान् । ननु सप्तागारलब्धभिक्षान्नस्याल्पत्वात्तावता कथं तोष इत्यत आह ॥ तुष्येदिति ॥ १८ ॥
दुर्घटभावदीपिका
यतिश्चतुर्षु वर्णेषु विगर्ह्यान् शूद्रान् ब्राह्मणादिष्वपि पतितांश्च वर्जयेद् भिक्षामुद्दीश्यासंक्लृप्तांश्चरेत् तावता तावद्भिः सप्तागारैर्लब्धेन भिक्षान्नेन तुष्येदिति । एतेन संन्यासिनां शूद्रभिक्षाया निषिद्धत्वात् । चतुवर्णेषु भिक्षा ग्राह्येत्यनुपपन्नमिति दूषणं परिहृतम् । विगर्ह्यानित्यनेन ब्राह्मणादिषु पतितानामिव सर्वशूद्राणामपि ग्रहणात् ॥ १८ ॥
बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः ।
विभज्य याचितं१ शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥
श्रीनिवासतीर्थीया
उपस्पृश्य जलेनाचम्य । याचितमन्नं विभज्य गोग्रासाद्यर्थं निष्कास्य शेषं शिष्टमाहृतमन्नमशेषं यथा स्यात्तथा भुञ्जीत ॥ १९ ॥
प्रमेयचन्द्रिका
उपस्पृश्य संप्रोक्ष्य । विभज्य विभागेन दत्वा । याचतो ऽशेषम् असमग्रम्
॥ १९ ॥
एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः ।
आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ २० ॥
पदरत्नावली
आत्मना परमात्मना क्रीडा यस्य स तथा । आत्मनो रतं सुखं यस्य स तथा । आत्मवान् वशीकृतमनाः ॥ २० ॥
श्रीनिवासतीर्थीया
नन्वेकाकितया चरणे कथं तस्य रमणं प्रत्युत दुःखमेव सम्भाव्यते तस्मादेकाकी न रमत इति श्रुतेरित्यत आह ॥ आत्मेति ॥ परमात्मना क्रीडा यस्य स तथोक्तः । आत्मरतः परमात्मदर्शननिमित्तसन्तोषं प्राप्तः । आत्मवान्वशीकृतमनाः ॥ २० ॥
प्रमेयचन्द्रिका
आत्मक्रीड आत्मनि हरौ ध्यानादिव्यवहारवान् । परमात्मना रतिः सुखं यस्य स भगवद्भजनादिजनितसुखवानात्मरतिः । आत्मवान् हरिः स्वामीत्यनुसन्धानवान् । वशीकृतमना इति वा । विद्याविनयसंपन्न इत्युक्तरीत्या भगवद्रूपेषु समदर्शनः । यथावस्तु तथा ज्ञानी वा ॥ २० ॥
विविक्तक्षेमशरणो मद्भावविमलाशयः ।
आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ २१ ॥
पदरत्नावली
विविक्तं क्षेमं क्षेत्रं शरणं यस्य स तथा । यद्वा पुरुषार्थोत्तममोक्षशरणः । मद्भावेन मद्भक्त्या विमलाशयो विशुद्धबुद्धिः ॥ तस्योपास्तिप्रकारमाह– आत्मानमिति । मुनिर्यतिर् आत्मानं परमात्मानम् एकं प्रधानं सर्वोत्तमं चिन्तयेत् । किञ्च मया अभेदेन, उपलक्षणमेतत्, मत्स्याद्यवताराभिन्नत्वेन, स्वगतभेदराहित्येन, मया लक्ष्म्या सहेति वा । अत्र किं मानम् । अत्राप्युत्तरं मयेति । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यत इति श्रुतिप्रमाणेन । क्षेत्रज्ञः पुरुषो ह्यात्मेति मया सिद्धमात्मानं स्वाभेदेन न चिन्तयेत् किन्तु एकमन्यं चिन्तयेत् । एके मुख्यान्यकेवला इति (अभिधानम्) । अन्यमीशमस्य महिमानमिति वीतशोक इति मया हेतुना । यद्वा आत्मा वा इदमेक अग्र आसीदिति श्रुत्या मया सिद्धमात्मानम् एकं मुख्यं चिन्तयेत् । अभेदे अभेदविषये जीवेनैक्यं न चिन्तयेदित्यर्थः । सत्यं भिदा सत्यं भिदेति श्रुत्याख्यमया सिद्धत्वात् । ‘‘लक्ष्मीप्रमाणयोर्मा स्यान्निषेधे चापि कीर्त्यते’’ इत्यभिधानम् ॥ २१ ॥
श्रीनिवासतीर्थीया
विविक्तमेकान्तस्थलमेव क्षेमकरं शरणं गृहं यस्य स तथोक्तः । मद्भावो मद्भक्तिः । मयाऽभेदेन । उपलक्षणमेतत् । मदुपलक्षितसर्वावताराभिन्नतया । एकमात्मानं परमात्मानं चिन्तयेत् ॥ २१ ॥
प्रमेयचन्द्रिका
विविक्तेति चातुर्मास्यव्रते विविक्तं क्षेमं दुःसङ्गवर्जितं क्षेमं निर्भयं मठादिरूपं शरणं यस्य स तथा ॥ आत्मानमिति ॥ आत्मानमन्तर्यामिणम् । बिम्बरूपं तथा सर्वान्त-र्यामिणम् । बहिष्टेन मया अभेदेनेत्यस्य विवरणम् । एकं स्वगतभेदवर्जितं चिन्तयेदिति । एकं प्रधानमिति वा ॥ २१ ॥
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ २२ ॥
पदरत्नावली
भगवदुपास्ताविदमन्तरङ्गमित्याह– अन्वीक्षेतेति । ज्ञाननिष्ठया आत्मनः स्वस्य बन्धं मोक्षं च आत्मनो हरेः सकाशादन्वीक्षेत । नन्वयं हरिरस्य बन्धमोक्षौ कथमापादयतीति तत्राह– बन्ध इति । इन्द्रियाणां विषयेषु विक्षेपः प्रसारणं बन्धः स्यात् । एषामिन्द्रियाणां संयमो निग्रहः, विषयेभ्य आहृत्य मयि स्थापनलक्षणः, मोक्ष इति ॥ २२ ॥
श्रीनिवासतीर्थीया
आत्मनः स्वस्य बन्धमात्मनो हरेरज्ञानेनेक्षेत । आत्मनो मोक्षं चात्मनो ज्ञाननिष्ठतया भगवतो हरेर्ज्ञानेन भवतीतीक्षेत जानीयात् । को बन्धः कश्च मोक्ष इत्यत आह ॥ बन्ध इति ॥ इन्द्रियाणां विषयेषु निक्षेपः प्रसरणमित्यर्थः । एषामिन्द्रियाणां संयमो नियमनम्
॥ २२ ॥
प्रमेयचन्द्रिका
बन्धं संसारबन्धम् । आत्मनः परमात्मनः सकाशादित्यन्वीक्षेत । बन्धको भवपाशेनेत्युक्तेः । बन्धमोक्षयोः साधनमुच्यते ॥ बन्ध इति ॥ बन्धो बन्धसाधनम् । मोक्षो मोक्षसाधनम् । एषामिन्द्रियाणाम् । चोऽवधारणे ॥ २२ ॥
तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनिः ।
विरक्तः क्षुल्लकामेभ्यो लब्ध्वाऽत्मनि सुखं महत् ॥ २३ ॥
पदरत्नावली
यत एवं तस्मादित्थं विधेयमित्याह– तस्मादिति । कर्मेन्द्रियाणामैक्येन मनसा सह षड्ज्ञानेन्द्रियाणि । आत्मनि भावि महत् सुखं लब्ध्वा तुच्छकामेभ्यो विरक्तो भूत्वा, विषये निरपेक्षत्वेनात्मनि सुखं लब्ध्वेति वा ॥ २३ ॥
श्रीनिवासतीर्थीया
आत्मनि स्वस्मिन्परमात्मदर्शननिमित्तं महत्सुखं लब्ध्वा ॥ २३ ॥
प्रमेयचन्द्रिका
षड्वर्गं ज्ञानेन्द्रियवर्गम् अरिषड्वर्गं वा । क्षुल्ला क्षुद्रा आत्मनि हरौ निष्ट एवेति शेषः ॥ २३ ॥
पुरग्रामव्रजान् सार्थान्१ भिक्षार्थं प्रविशंश्चरेत् ।
पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ २४ ॥
पदरत्नावली
पुण्यशब्दो देशादिभिः पृथक् सम्बद्ध्यते ॥ २४ ॥
श्रीनिवासतीर्थीया
पुण्यशब्दस्य देशादिभिः प्रत्येकं सम्बन्धः ॥ २४ ॥
प्रमेयचन्द्रिका
ग्रामो बहुजनाकीर्णो राजाश्रयं पुरम् । व्रजं गोजीविनां स्थानम् ॥२४॥
वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् ।
संसिद्ध्यत्याश्वसंमोहः शुद्धसत्वः शिलान्धसा ॥ २५ ॥
पदरत्नावली
पदं स्थानम् । अभीक्ष्णमित्यनेन पुरादिषु विकल्प इति ज्ञायते । वानप्रस्थाश्रमस्थानेषु नित्यं भैक्ष्याचरणस्य किं क्षिप्रफलमित्यत आह– संसिध्य्यतीति । शिलान्धसा शिलाविहितान्नेन शुद्धं सत्वमन्तःकरणं यस्य स तथा । असंमोहः मिथ्याज्ञानरहितः । आशु संसिद्ध्यति अपरोक्षज्ञानं प्राप्नोति ॥ २५ ॥
श्रीनिवासतीर्थीया
पदं स्थानम् । अभीक्ष्णं निरन्तरम् । अत्राभीक्ष्णमित्युक्त्या पुरग्रामव्रजेषु भिक्षाकरणं विकल्पेनेति सूचयति । ननु वानप्रस्थाश्रमस्थानेषु नित्यं भिक्षाकरणेन किं क्षिप्रं फलमत्राह ॥ संसिद्ध्यतीति ॥ शिलान्धसा शिलोंछवृत्त्या । वानप्रस्थसंपादितान्नभोजनेन शुद्धसत्त्वः शुद्धान्तःकरणोऽत एवासंमोहो मिथ्याज्ञानशून्यः । अयं संन्यास्याशु संशुद्ध्यत्यपरोक्षज्ञानी भूत्वा मुक्तो भवतीत्यर्थः ॥ २५ ॥
दुर्घटभावदीपिका
यतिश्च वानप्रस्थाश्रमपदेषु वानप्रस्थाश्रमस्थानेषु भैक्ष्यं भिक्षालब्धान्नभीक्ष्णं सर्वदाऽऽचरेद्भक्षयेत् । वानप्रस्थाश्रमभिक्षास्वीकारस्य किं फलमित्यत आह ॥ संसिध्यतीति । शिलान्धसा । शिलाशब्द आरण्योपलक्षकः । वानप्रस्थाश्रमसम्पादितारण्यान्नभिक्षया शुद्धः सन् शुद्धान्तःकरणो यतिराश्वसंमोहो मिथ्याज्ञानरहितः सन् संसिध्यतीत्यपरोक्षज्ञानी भवतीति । एतेनारण्यान्धसेति वक्तव्यम् । शिलान्धसेति कथनमयुक्तमिति दूषणं प्रत्युक्तम् । शिलाशब्देन शिलामात्रस्याग्रहणात् ॥ २५ ॥
॥ इति श्रीभागवतटिप्पण्यामष्टादशोऽध्यायः ॥ ११–१८ ॥
प्रमेयचन्द्रिका
अभीक्ष्णं बहुशः । शिलांधसा शिलावृत्तिलब्धेनान्नेन । शुद्धसत्वः शुद्धान्तःकरणोऽत एवासंमोह आशु शुध्द्यति । यतस्तस्माद्वानप्रस्थाश्रमपदेष्विति पूर्वेण योजना
॥ २५ ॥
नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्वरम् ।
असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥ २६ ॥
पदरत्नावली
संसिद्धस्य दर्शनप्रकारं विधत्ते नेति । एतद् जगत् । वस्तुतया परब्रह्मत्वेन । अत्र हेतुर् विनश्वरं दृश्यमानमिति । एवं पश्यतो वैराग्यानुसन्धानं कर्तव्यमित्याह– असक्तचित्त इति । इहामुत्र असक्तचित्तः स्यात् । ततः किम् । अत्राह– विरमेदिति । चिकीर्षितात् कर्तुमिष्टात् कर्मादेर्विरमेत्, कृतकृत्यो भवेदित्यन्वयः ॥ २६ ॥
श्रीनिवासतीर्थीया
इत्थम्भावान्तराण्याह ॥ नेति ॥ एतद्दृश्यमानं जगद्वस्तुतया, ‘‘शक्तं वस्त्विति चोच्यत’’ इति परमात्मैव शक्तत्वाद्वस्तुशब्दवाच्यः । तथा च तदभिन्नतया न पश्येत् । यत इदं विनश्यति । इहामुत्र फलेष्वसक्तचित्तः सन् चिकीर्षितादैहिकपारत्रिकस्वर्गादिसाधनतया कर्तुमिष्टात्कर्मादेर्विरमेत् । न कुर्यादिति यावत् ॥ २६ ॥
प्रमेयचन्द्रिका
एवं सर्वत्र विरक्त्यादिमान् भगवन्तं भजेदित्युक्तम् । तत्कुत इत्यतो हरेरेव इष्टप्रदानसमर्थत्वादित्युच्यते ॥ नैतदिति ॥ एतदीशातिरिक्तं वस्तुतया शक्ततया च न पश्येत् । सुखदत्वेन दृश्यमानमैहिकामुष्मिकविषयजातं च नश्वरम् । अत इहामुत्रासक्तचित्तस्तत्साधनतया चिकीर्षितात्कर्मणो विरमेदित्यर्थः ॥ २६ ॥
यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम् ।
सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥
तात्पर्यम्
‘त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् । अनाद्यनन्तकालेषु माये-त्याहुर्विपश्चितः । अचेतनत्वान्नैवैतत्प्रयोजकतया स्मरेत् । चेतनत्वं स्वतन्त्रत्वं स चैको विष्णुरेव तु । आयस्तु फलमुद्दिष्टं प्रोक्तं मायेति निष्फलम् । फलाल्पत्वात्तु मायैषा सम्प्रोक्ता त्रिगुणादिका । महाफलप्रदत्वात्तु विष्णुराय इतीरित’ इति निवृत्ते ॥ २७ ॥
पदरत्नावली
एतदेव स्पष्टयति यदेतदिति । मनोवाक्प्राणैः सम्भृतं सम्पन्नम् आत्मनि हरौ स्थितम् । ऋचो अक्षरे परमे व्योमन्नित्यादिश्रुतेः । यदेतत् प्रत्यक्षगं जगत् सर्वं मायेति तर्केण अचेतनप्रकृतिकृतत्वेन । अनुष्ठितानुगुणमायातीत्यायः फलम्, तन्मा नेति, माशब्दो निषेधार्थः । तथा च मायेति निष्फलमुच्यते । मायमिति वक्तव्ये मायेति स्त्रीलिङ्गत्वेन वचनमत्यन्ता-स्वातन्त्र्यप्रकटनायेत्यतोऽस्य ज्ञानेन प्रयोजनाभावान् नैतत् सुखाय स्यादिति त्यक्त्वा स्वतन्त्रत्वात् स्वो विष्णुः, अन्यसंवादराहित्येन मुक्तिफलदातृत्वात्, तत्स्थस् तदेकशरणो भूत्वा तज् जगन् न स्मरेद् विष्णुमेव प्रयोजकं स्मरेदित्यन्वयः । यदि विष्णुः स्वतन्त्रो न स्यात् तर्ह्येतज्जगत् तन्नियतं न स्यात्, तच्चेन्नित्यसुखं स्यात्, न चैवं तस्मात् स एव तथैवेत्यादितर्केण । विश्वं मिथ्या दृश्यत्वादित्यादितर्केण विश्वस्य मायामयत्वमुच्यत इत्येतत् पूर्वोत्तरग्रन्थविरोधात्, विश्वं सत्यमित्यादिश्रुतिप्रामाण्यात्, अस्मदुक्तार्थे ‘‘त्रिगुणा प्रकृतिर्माया तज्जत्वाद् विश्वमीदृशम् । अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः । अचेतनत्वान्नैवैतत् प्रयोजकतया स्मरेत् । चेतनत्वं स्वतन्त्रत्वं स चैको विष्णुरेव तु । आयस्तु फलमादिष्टं प्रोक्तं मायेति निष्फलम् । फलाल्पत्वात् तु मायैषा सम्प्रोक्ता त्रिगुणात्मिका । महाफलप्रदत्वात् तु विष्णुराय इतीरतः’’ इति प्रमाणसद्भावाच्चोपेक्षणीयमिति
॥ २७ ॥
श्रीनिवासतीर्थीया
आत्मनि भगवदाधारत्वेन विद्यमानम् । मनो रुद्रो, वाग्भारती, प्राणो वायुः । एतैः सम्भृतं पूर्णं पूरितं यदेतज्जगत्सर्वमित्यर्थः । मायेत्यनिर्वचनीयाविद्याकल्पित-मित्यन्यथाप्रतीतिनिरासाय प्रमाणेनैव व्याकरोति ॥ त्रिगुणेति ॥ अनाद्यनन्तकालेष्वीदृशं प्रवाहत एकप्रकारं जगत्तज्जन्यत्वान्मायेत्याहुरित्यन्वयः । मूलं योजयति ॥ अचेतनत्वादिति ॥ प्रयोजकतया । अनेन मम किञ्चित्प्रयोजनमस्तीति प्रयोजनहेतुत्वेन । स्वातन्त्र्येणेति यावत् । माया-शब्दार्थं प्रकारान्तरेणाह ॥ आयस्त्विति ॥ निष्फलमिति ॥ अमानोनाः प्रतिषेध इति माशब्दस्य निषेधार्थकत्वात् । तथा च सर्वं जगद्धीरो मायेत्यचेतनप्रकृतिनिर्मितत्वेनाचेतनतयाऽस्वतन्त्रमिति निष्फलमिति च तर्केण । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेदित्यादियुक्त्या विज्ञाय त्यक्त्वा जगन्न संस्मरेत्प्रयोजकतया स्वातन्त्र्येण महाफलहेतुत्वेन च तत्स्मरणं न कुर्यात् । किन्तु तथा भगवत्स्मरणमेव कुर्यादित्यर्थः ॥ २७ ॥
प्रमेयचन्द्रिका
एतदेव स्पष्टमुच्यते ॥ यदेतदिति ॥ अत्र यदा आत्मन्यारोपितं सर्वं जगदेतन्मायाविद्याकल्पितं मिथ्येति दृश्यत्वादितर्केण निश्चित्य ततस्तत्त्यत्क्वा न संस्मरेदित्यन्यथा भाति । मिथ्यात्वं च प्रत्यक्षादिविरुद्धमित्याशयेन प्रमाणेन व्याचष्टे ॥ त्रिगुणेति ॥ सत्वादि-त्रिगुणात्मिका प्रकृतिर्मुख्यतो मायेत्युच्यते । अतो विपश्चितो विश्वं चेतनाचेतनात्मकमिदमनाद्यनन्त-कालेष्वीदृशतया स्थितमपि मायेत्याहुः । अत्र जडं मायोपादानकं मायेत्युच्यते कार्यकारणयोरेकनाम-दर्शनात् । चेतनं तु तद्बद्धत्वात्तन्नामेत्युपचारेणेति । एतेन मूले सर्वं मायेति व्याख्यातं भवति । तर्केणेत्यादेरर्थो अचेतनत्वादिति ॥ मूले न तत्स्मरेदित्यत्र वस्तुत एवेत्यस्यानुवृत्तिः । तस्यार्थः ॥ प्रयोजकतयेति ॥ इष्टप्रदाने शक्ततयेत्यर्थः । अचेतनत्वादित्यनेन तर्कणेत्युक्ततर्को निरूपितः ।
नन्वचेतनत्वहेतुर्भागासिद्धः । चेतनेष्वचेतनत्वायोगादित्यत आह ॥ चेतनत्वमिति ॥ चिति संविज्ञान इति हि पठन्ति । संविज्ञानं स्वातन्त्र्येण विज्ञानम् अतो स्वतन्त्रत्वमचेतनत्वं न भागासिद्धमिति भावः ॥ प्रकृतमायाशब्दं निर्वक्ति ॥ आयस्त्विति ॥ माशब्दः प्रतिषेधे । मा अपगत आयो यस्याः सा मायेति निष्फलमुच्यते । न च सर्वात्मना निष्फलत्वम् । राजाधीनामात्यादीनां फलप्रदत्ववदीश्वराधीनप्रकृतिस्थानां देवादीनामपि फलदत्वस्योपपन्नत्वात् । परं त्वल्पफलदत्वमेव, अत एव स्वल्पस्वे निस्व इति प्रयोगवदेषा त्रिगुणात्मिकप्रकृतिरल्पफलदत्वान्मायेति सम्प्रोक्ता यतस्तत्कार्यदेहादियुता जीवाः सर्वं जडं च मायेत्युक्तमिति भावः ॥ विष्णुस्तु महाफलप्रदत्वान्न मायेत्युच्यते । किं त्वाय इत्येवोच्यत इत्याह ॥ महाफलेति ॥ एतेन स्वस्थ इत्येतत्स्वे स्वतन्त्रे हरौ स एव फलप्रद इति स्थित इत्युक्तार्थं भवति ॥
तदयं मूलार्थः ॥ आत्मनि हरौ स्थितं मनोवाक्प्राणैः रुद्रब्रह्माणीमुख्यप्राणैः सम्यग्धृतं यज्जगद् एतत्सर्वमल्पफलत्वान्मायाशब्दवाच्यत्रिगुणात्मकप्रकृतिकार्यत्वात्तदात्मकदेहादियुतत्वादल्पफलत्वाच्च मायेत्येवम् । विमतं नाभीष्टप्रदानसमर्थम् अस्वतन्त्रत्वाद् राजाधीनपुरुषवद् इति तर्केण निश्चित्य त्यक्त्वा स्वस्थः स्वे स्वतन्त्रे हरौ स्वयोग्याभीष्टप्रदानसमर्थ इति बुद्धिं प्राप्तः सन् यदिष्टदाने शक्ततया न स्मरेदिति ॥ २७ ॥
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वाऽनपेक्षकः ।
सलिङ्गानाश्रमान् मुक्त्वा चरेदविधिगोचरः ॥ २८ ॥
पदरत्नावली
ज्ञानपरिपाकं प्राप्तस्य यतेर्वृत्तिप्रकारं दर्शयति ज्ञाननिष्ठ इति । ज्ञानस्य निष्ठा उत्कर्षो यस्य स तथा । वाशब्दौ समुच्चयार्थौ न विकल्पार्थौ । अन्योन्यनियमार्थौ वा । अनपेक्षकः शिष्यसङ्ग्रहाद्यनिच्छुः । सलिङ्गान् दण्डादिलक्षणविधिसहितान् आश्रमान् मुक्त्वा विधेरगोचरो ऽयं यतिरयं व्रतीत्यादिरूपव्यवहारागोचरश् चरेद् विविक्ते अरण्ये वर्तेतैवेत्यर्थः । यद्वा वेदोक्तविधिचकितत्वेन सन्ध्योपसनादि न करोति किन्तु जलस्रोतोवद् एव करोतीति ॥ २८ ॥
श्रीनिवासतीर्थीया
वाशब्दौ न विकल्पार्थौ किं नाम समुच्चयार्थौ । सलिङ्गान्दण्डादि-चिन्हयुक्तान् ॥ २८ ॥
प्रमेयचन्द्रिका
यतेः प्रवृत्तिप्रकार उच्यते ॥ ज्ञाननिष्ट इत्यादिना ॥ ज्ञानस्य निष्टा उत्कर्षो यस्मिन्सः ज्ञाननिष्टः । वाशब्दौ चशब्दार्थौ । विरक्तो विषयरागवर्जितः । अनपेक्षकः स्वधर्मफलतयान्यापेक्षारहित इति भेदः । सलिङ्गान् बहूदकुटीचादीनि बहुतरयत्याश्रमधर्मांस्त्यत्क्वा परमहंसाश्रममेव स्वीकृत्येति यावत् । अविधिगोचर इतरयत्याश्रमविध्यगोचरः । अपरपे्रष्य इति वा ॥ २८ ॥
बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् ।
वदेदुन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥
पदरत्नावली
तं प्रकारं वक्ति बुध इति । गोचर्यां गोवच्चर्याम्, अज्ञवच्चरणमित्यर्थः । नैगमः वेदोक्तविधिना वर्तमान इत्यनेन अविधिगोचर इत्यत्र विध्यतिक्रमो नार्थ इति निरणायि ॥ २९ ॥
श्रीनिवासतीर्थीया
गोचर्यां गोवच्चरणम् । अज्ञवच्चरणमित्यर्थः । नैगमो वेदोक्तविधिना वर्तमानः ॥ २९ ॥
प्रमेयचन्द्रिका
नैगमः निगमोक्तानुष्टानशीलोऽपि गोवत्स्वेछाचर्यां कुर्यात् । गोवत्स्वाद्वस्वादु विचार्यैव चरेद्भक्षयेदिति वा ॥ २९ ॥
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।
शुष्कवादविवादेन कञ्चित्पक्षं न संश्रयेत् ॥ ३० ॥
तात्पर्यम्
‘वेदेन सह वादो यो वेदवाद इतीरितः । तर्केण वेदस्यान्यार्थकल्पनं तं विदो विदुः । तन्न कुर्यात्कदाचिच्च तत्कुर्वन्वेदहा भवेदि’ति च । ‘योगसाङ्ख्यकणादाक्ष-पादा वै हेतुवादिनः । पश्वीशशाक्तबुद्धाद्या पाषण्डा इति कीर्तिता’ इति च ॥ ३० ॥
पदरत्नावली
नैगम इत्युक्तं विशयदति वेदेति । वेदेन सह वादो विवादः विप्रतिपत्तिः, तत्र रतो न स्यात् । कुतर्केण वेदस्य जीवब्रह्मणोरेकत्वार्थकथनपरो न स्यादित्यर्थः । ‘‘वेदेन सह वादो यो वेदवाद इतीरितः । तर्केण वेदस्यान्यार्थकल्पनं तद् विदो विदुः । तन्न कुर्यात् कदाचिच्च तत् कुर्वन् वेदहा भवेत्’’ इति वचनादुक्त एवार्थः । वेदविचारविधुर इत्यर्थो नैव । किञ्च पाखण्डी पाशुपतादिदर्शनाभिमानी च न स्यात् । हैतुकी अक्षपादादिदर्शनाभिमानी च न स्यात् । शुष्कवादविवादेन प्रसङ्गतः प्राप्तनिरर्थकवादकलहेन । ‘‘योगसाङ्ख्यकणादाक्षपादा वै हेतुवादिनः । पश्वीशशाक्तबुद्धाद्याः पाखण्डा इति कीर्तिताः’’ इति वचनाच्च ॥ ३० ॥
श्रीनिवासतीर्थीया
वेदवादरतो न स्यादिति वेदाप्रामाण्यवादिबौद्धादिपक्षावलम्बी न स्यादित्यन्यथाप्रतीतिनिरासाय वेदवादशब्दार्थं प्रमाणेनैवाह ॥ वेदेनेति ॥ वादो विवादो वेदेन सह कथाकरणमित्यर्थः । कोऽयं विवाद इत्यत आह ॥ तर्केणेति ॥ वादो विषयकृत्वं च मुखतो वचनं स्मृतमित्युक्तापातप्रतीतार्थरूपो वेदवादशब्दार्थो न ग्राह्यः । किं नाम तर्केण, भेदो मिथ्या भेदत्वादित्यादितर्कमाश्रित्य । स आत्माऽतत्त्वमसीत्यादिवेदस्याकारप्रश्लेषेण व्याख्यानमविधाय तत्त्वमसीत्येवं पदं विच्छिद्य भगवदधीनत्वरूपार्थादन्यो योऽर्थोऽभेदरूपस्तत्कल्पनमेव । तद्विदो वेदवादशब्दार्थविदो जना विदुरिति योज्यम् । तत्कल्पनम् । पाषण्डान् हैतुकांश्च प्रमाणेनैव दर्शयति ॥ योगेति ॥ पश्वीशः पशुपतिः । तथा च प्रमाणविरुद्धतया वेदेन प्रतीतार्थस्य कुतर्कमाश्रित्य तद्विरुद्धार्थान्तरपरो न स्यान्मायिमतावलम्बी न स्यात् । पाषण्डी पशुपत्यादिमतावलम्बी । हैतुकी चार्वाकादिमतावलम्बी च न स्यात् । शुष्को निरर्थको यो वादो वेदेन सह या कथा तद्विवादेन तत्कलहेन वेदोक्तं परित्यज्य कमपि पक्षं पशुपत्यादीनां न संश्रयेदित्युपसंहारः ॥ ३० ॥
प्रमेयचन्द्रिका
वेदवादरतो न स्यादित्यत्र वेदव्याख्यानादिकं न कुर्यादिति भानात्प्रमाणेन व्याचष्टे ॥ वेदेनेति ॥ वादशब्दो नाम क इत्यत आह ॥ तर्केणेति ॥ विमता आत्मानस्तत्वतो न भिद्यन्ते आत्मत्वादित्यादिकुतर्केण स आत्मा तत्वमसीत्यादिवेदस्य तदेव त्वमसीत्यन्यार्थकल्पनं वाद इति तद्विदः वादो विवादः शब्दतत्वविदो विदुः । तदन्यार्थकल्पनं कदाचिदपि न कुर्यात् । करणे बाधकमाह ॥ तत्कुर्वन्निति ॥
हेतुकपाषण्डप्रभेदमाह ॥ योगेति ॥ योगसांख्यपदाभ्यां तत्प्रणेतारावुच्येते । पश्वीशः पशुपतिः, शाक्तः शाक्तेयः । आदिपदेन जिनार्हतादिग्रहणम् । पाषण्डाः पापानां षण्डः समूहो येभ्यस्ते पाषण्डाः । पाषण्डमतप्रवर्तका इति यावत् । मूले पाषण्डमतानुवर्ती न भवेदित्यर्थः । शुष्कवादविवादेन शुष्कः प्रयोजनरहितो वादो येषान्ते तैः सह विवादेन वृथाकलहवान्न भवेदिति यावत् ॥३०॥
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन्न तु ।
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ॥ ३१ ॥
देहमुद्दिश्य पशुवद् वैरं कुर्यान्न केनचित् ॥ ३२ ॥
पदरत्नावली
नोद्विजेत दुर्जनान्नोद्विग्नः स्यात् ॥ ३१ ॥
श्रीनिवासतीर्थीया
नोद्विजेत स्वयं न चकितः स्यात् । नोद्वेजयेत्स्वप्रयुक्तभयोपेतान्न कुर्यात् । देहमुद्दिश्यातिवादान् अतियुक्तीः । देहमुद्दिश्य कञ्चन नावमन्येत ॥ पशुवदिति ॥ यथा शृृङ्गेणैकेन पशुना हतोऽपरः पशुः स्वयमपि शृृङ्गेणापरं तद्वैराद्धन्ति । तथा वैरं केनचिन्न कुर्यादित्यर्थः
॥ ३१,३२ ॥
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥
तात्पर्यम्
‘भूतानामेक एवात्ताऽथैको भूतेषु सन्ततः । एको भूतानि चादत्ते तस्मादेकात्मकानि त्वि’ति भद्रमाने ॥ ‘घटादिषु महाकाशो निर्विशेषश्च सन्ततः । घटावयवरूपस्तु तथैवान्यो घटानुगः । घटनाशेऽप्यनाशः सन्मध्यमाकाश इष्यते । एक-देशाभिमानित्वादित्याकाशास्त्रयः स्मृताः । महाकाशो विघ्नराजो विघ्नास्तत्र तु मध्यमाः । क्षुद्रविघ्नास्तदितर एवमात्मा त्रिधा स्मृतः । महाखवत्परस्त्वात्मा जीवा मध्यख-वत्स्मृताः । घटानुगखवत्प्रोक्ता असुरा नित्यदुःखिनः । महाकाशवशाः सर्वे आकाशा इतरे स्मृताः । परमात्मवशे तद्वज्जीवाः सर्वेऽपि संस्थिताः । एवं विष्ण्वात्मकमिदं जगत्पश्येद्यतिः सदे’ति विनिर्णये ॥ ३३ ॥
पदरत्नावली
वैराकरणे किं निमित्तमत्राह– एक इति । परः सर्वोत्तम आत्मा परमात्मा एक एव । भूतेषु चराचरसंज्ञेषु आत्मनि स्वस्मिंश्चावस्थितः । हि यस्मात् तस्मात् तदधिष्ठानत्वाद् वैरं न कुर्यात्, तदप्रियत्वादित्यर्थः । एको देवः सर्वभूतेषु गूढ इति श्रुतेः । अत्र दृष्टान्तमाह– खं यद्वदिति । यद्वद् यथा आकाश उदपात्रेषु घटादिषु एक एव स्थितस्तथेति । अत्र विशेषस्तु ‘‘घटादिषु महाकाशो निर्विशेषश्च सन्ततः । घटावयवरूपस्तु तथैवान्यो घटानुगः । घटनाशेऽप्यनाशः सन् मध्यमाकाश इष्यते । एकदेशाभिमानित्वादित्याकाशास्त्रयः स्मृताः । महाकाशो विघ्नराजो विघ्नास्तत्र तु मध्यगाः । क्षुद्रविघ्नास्तदितर एवमात्मा त्रिधा स्मृतः । महाखवत् परस्त्वात्मा जीवा मध्यखवत् स्मृताः । घटानुगखवत् प्रोक्ता असुरा नित्यदुःखिनः । महाकाशवशाः सर्वे आकाशा इतरे स्मृताः । परमात्मवशे तद्वज्जीवाः सर्वेपि संस्थिताः । एवं विष्ण्वात्मकमिदं जगत् पश्येद् यतिः सदा’’ इत्यस्मान्मानादवगन्तव्यः । केवलं नाकाशवद् भूतानां परमात्मनश्च व्याप्य-व्यापकभावसम्बन्धः, अपि तु तस्माद् विशेषोऽप्यस्तीत्याह– भूतानीति । एकः परमात्मा एव आत्मा व्यापकश्चादाता च येषां तानीमान्येकात्मकानि । कप्रत्ययः स्वार्थं विशिनष्टि । ‘‘भूतानामेक एवात्ताथैको भूतेषु सन्ततः । एको भूतानि चादत्ते तस्मादेकात्मकानि तु’’ इति वचनात् ॥३३॥
श्रीनिवासतीर्थीया
वैराकरणे किं निमित्तमित्यतः सर्वत्रापि हर्यनुसन्धानमेव निमित्त-मित्याशयेनाह ॥ एक एवेति ॥ यद्वद्यथैकमेव खमाकाशमुदपात्रेषु घटोदंचनादिष्वस्ति । एवं परः सर्वोत्तम आत्मैक एव भूतेषु प्राणिष्वात्मनि च स्वस्मिंश्चावस्थितो हि यस्मात्तस्मान्न केनचिद्वैरं कुर्यादिति सम्बन्धः । भूतान्येकात्मकानीत्यत्र भूतान्येको भगवांस्तदात्मकानीत्यन्यथाप्रतीति-वारणायार्थमाह ॥ भूतानामिति । यस्मादिति शेषः । भूतान्येकात्मकानीत्युच्यन्त इति शेषः । तथा च भूतानि प्राणिजातान्येको भगवानेवात्मा अत्ता व्यापक आदत्ता चैषां तान्यैकभूतात्मका-नीत्यतश्च वैरं न कुर्यादिति सम्बन्ध इति योज्यम् । एवमेकात्मकानीत्यत्रात्मशब्दो यदाऽत्तृत्वाद्यर्थक-स्तदा खं यद्वदिति दृष्टान्तः पूर्वेणैव सम्बध्यते । उत्तरत्र सम्बन्धेऽर्थबाधादित्याशयेनैवैकात्मका-नीत्येतदादौ व्याख्यातम् । इदानीं खं यद्वदिति दृष्टान्तः । एकभूतात्मकानीत्युत्तरेणैव सम्बध्यते । तत्र चात्मशब्दो नात्तृत्वाद्यर्थः किन्तु परमात्मार्थकः स्वामित्वार्थकश्च । तथा चोदपात्रेषु विद्यमानं खमाकाशद्वयं यथा महाकाशाधीनमेवं भूतानि आकाशद्वयस्थानीयाः सज्जीवा असुराश्चैकात्मकान्येक एव महाकाशस्थानीय आत्मा परमात्मा स्वामी येषां तानि तथोक्तानि । महाकाशस्थानीय-भगवत्स्वामिका इत्यर्थ इति मूलयोजनामभिप्रेत्य किं तदाऽऽकाशत्रयम्? कथं चैकाधीनत्वमितरद्वयस्य? प्रकृते च कथं तत्साम्यमित्यतः प्रमाणेनैव तद्विविच्य दर्शयति ॥ घटादिष्वित्यादिना ॥
उदपात्रेष्वित्यस्यार्थः ॥ घटादिष्विति ॥ आदिपदेनोदंचनादीनां सङ्ग्रहः । निर्विशेषोंऽ-शैरत्यन्ताभिन्नोऽव्याकृताकाश इत्यर्थः ॥ घटावयवेति ॥ घटस्य पृथिव्युपादानकत्वात्तस्यां च पञ्चीकरणपक्षे आकाशस्यापि सद्भावादाकाशस्य घटावयवत्वं मन्तव्यम् । तृतीयोऽप्याकाशोऽस्तीत्याह ॥ घटनाश इति ॥ अयं घटावच्छिन्नो भूताकाश इति मन्तव्यम् । ननु घटावयवरूपमाकाशं भूताकाशमेव । तदवच्छिन्नं मध्यमाकाशमपि तदेवातः कथं भूताकाशद्वैविध्यमङ्गीकृत्याकाश-त्रैविध्याभिधानमित्यत आह ॥ एकेति ॥ एकदेशाभिमानिकत्वादिति बहुव्रीहिः । एकदेशे भिन्नाभिमानिनौ यस्य तदेकदेशाभिमानिकं तस्य भावस्तत्वं तस्मादित्यर्थः । तथा च भूताकाश-स्यांशद्वयम् । तत्र घटावयवरूपैकदेशस्य तदवच्छिन्नस्य च वक्ष्यमाणरीत्याऽभिमानिनोर्भिन्नत्वा-त्तदभिमन्यमानानामपि द्वैविध्यं विवक्षितमित्याशय इत्याहुः । यद्वा । एकदेशाभिमानित्वादित्यस्य विघ्नराज इत्यनन्तरमेव सम्बन्धो मन्तव्यः । इदानीमभिमानिनौ दर्शयति ॥ महाकाश इति ॥ विघ्नराजो गणपतिः । नन्वव्याकृताकाशाभिमानिनी लक्ष्मीरेव सिद्धाऽतस्तस्य कथं विघ्नराडधिपति-स्तस्यापरिच्छिन्नत्वेन गणपतेर्भूताकाशमात्रव्यापिनः परिच्छिन्नस्य तद्व्याप्त्ययोगादित्यत उक्तम् ॥ एकदेशाभिमानित्वादिति ॥ विघ्नराजस्य घटाद्यवच्छिन्नाव्याकृताकाशैकदेशाभिमानित्वस्यापि प्रमाणसिद्धत्वात्तदभिप्रायेण महाकाशो विघ्नराज इत्युक्तमित्यदोषः । विघ्ना गणपतिभृत्या मध्यमा मध्यमाकाशाभिमानिनः । क्षुद्रविघ्नास्तेऽपि गणपतिभृत्याः। तदितरे तदितरस्मिन् घटावयवरूपा-काशेऽभिमानितया सन्तीत्यर्थः । क्षुद्रविघ्नास्तदितर इति सामानाधिकरण्यं वा । तदितरे घटावयव-रूपाकाशा इत्यर्थः । अभिमानित्वलब्धोऽर्थः । आत्मा आत्मशब्दवाच्यास्त्रय इत्यर्थः । तत्साम्यं दार्ष्टान्तिके दर्शयति ॥ महाखवदिति ॥ जीवाः सज्जीवाः । घटानुगखवदिति । घटावयवभूतख-वत् । इदानीं खं यद्वदिति मूलं योजयति ॥ महाकाशेति ॥ गणपतीत्यर्थः । सर्वे इतरे आकाशाः । विघ्नाः क्षुद्रविघ्नाश्च । तथा चोदपात्रेषु खमाकाशद्वयाभिमानिनौ यथा महाकाशाभिमानिन्यधीनावित्यर्थ उक्तो भवति । परमात्मवशे इत्यनेन भूतानि मध्यघटानुगखवद्विद्यमानाः प्राणिन एकात्मकान्येक-परमात्मस्वामिकानि तद्वशा इत्यर्थ उक्तो भवति । एवमित्युपसंहारः ॥ ३३ ॥
प्रमेयचन्द्रिका
वैराकरणे निमित्तमुच्यते ॥ एक एवेति ॥ अत्रात्मनि स्वस्मिन्नितरभूतेषु चैक एवात्मा उदपात्रेषु घटेष्वेकमेव खं यद्वद्यथाव्यवस्थितस् तथा भूतान्येकात्मकान्येकस्वरूपा-णीत्यन्यथाभानात्तस्यानेकप्रमाणविरुद्धत्वाद्भूतेष्वित्याद्यधिकरणत्वोक्त्या भेदावगमेन व्याहतत्वाच्च यथावद्व्याख्यातुमत्यन्तविरुद्धतया प्रतीयमानं चतुर्थपादं तावत्प्रमाणेन व्याचष्टे ॥ भूतानामिति ॥ आङ्पूर्वकेभ्योऽदभक्षणे, तनु विस्तारे, माङ्माने इत्येतेभ्यो धातुभ्यः प्रत्येकं डप्रत्यये निष्पन्न आत्मशब्दः । ततश्च एक एवात्ता येषां तानि, एक एव सन्ततो येषु तानि, एक एव माता येषां तान्येकात्मकानीति मूलार्थ इति भावः । तात्पर्ये तुशब्दोऽवधारणे । तस्मादेवेति सम्बध्यते ।
इदानीं खं यद्वदित्यादि व्याचष्टे ॥ घटादिष्विति ॥ घटादिषु स्थितो भूताकाशस्त्रिविधः । उत्तममध्यमाधमभेदात् । तत्र योऽयं तामसाहङ्कारजातो ब्रह्माण्डावरणभूतः स्वकार्येषु स्वकारणेषु निर्विशेषो वक्ष्यमाणाकाशवद्विकारादिविशेषरहितत्वेनैव सन्ततः सः महाकाश उत्तमः । तस्य कार्येषु कारणेषु च सन्ततत्वं चाधश्चोर्ध्वं प्रसृतास्तस्य शाखा इति गीतावाक्यव्याख्यानपरे तात्पर्यनिर्णये ‘‘कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणम्’’ इति शाखाशब्दोक्तभूतानामुक्तम् । शाखाभूतानीति हि गीताभाष्ये । घटावयवरूप इत्यनेनाधमाकाश उच्यते । घटस्य पाञ्चभौतिकत्वाद्घटावयवभूतो घटमनुगच्छतीति घटानुगः । स्वस्य घटोपादानतया च विकृतत्वाद्घटनाशे स्वस्यापि विकृतत्वनाशेन नाशवानिति यावत् । अयमन्योऽधम इत्यर्थः ।
मध्यमाकाशस्वरूपमाह ॥ घटनाशेऽपीति ॥ तथैवान्यो घटानुग इत्यनुवर्तते । विध्यन्तर-निरूपणात्तथैवेत्युक्तम् । तथैवान्यो घटान्तर्गतो विवरभूतः । घटस्यान्यत्र गमने तद्विवरस्यापि सह गमनाद्घटानुगः, घटनाशेऽपि विवररूपाकाशविनाशेन निमित्तेन नाशः स्यात् । तन्न । नष्टतया वर्तमानाकाशो मध्यम इत्यर्थः ॥
ननु महाकाशसंज्ञं भूताकाशाख्यं तमेवैकदेशेनाण्डान्तर्गतभूतमेकदेशेन पृथिव्यादिभिःसह षडात्मना विक्रियते । पुनरेकदेशान्तरेण घटावच्छिन्नविवररूपो भवति । तत्कथमुत्तमाधममध्यमभेदेन त्रित्वमित्यत आह ॥ एकदेशाभिमानित्वादिति ॥ मध्यमाधमयोर्विवरघटावयवरूपैकदेशयोः स्वाभिमान्यन्तर-त्वादिति महाकाशमध्यमाकाशाधमाकाश इत्येवमाकाशत्रयः स्मृता इत्यर्थः । एकैकदेशयोरभिमानिनौ यस्य स एकदेशाभिमानी तस्य भावस्तत्वमिति विग्रहः । इतरयोरेकदेशाभिमानित्वमपेक्ष्य इत्युक्तरीत्या आकाशास्त्रय इति । ल्यब्लोपनिमित्ता पंचमी व्याख्येया । एतदेव विवृणोति ॥ महाकाश इति ॥ महाकाशो महाकाशाभिमानी विघ्नेशस्तत्पुत्राः क्षुद्रविघ्नास्तद्भृत्याः । सर्वाकाशाभिमानी विनायकः । घटादिस्वविवरमात्राभिमानिनस्तत्पुत्रा घटाद्यात्मना विकृतिमदाकाशमात्राभिमानिनस्तद्भृत्या इति भेदेनाकाशस्य त्रिविधत्वमुक्तमिति भावः । दार्ष्टान्तिकांशं व्याख्याति ॥ एवमिति ॥ आत्मशब्दवाच्यश्चेतनोऽप्येवमुत्तममध्यमाधमभेदेन त्रिविध इत्यर्थः । त्रैविध्यं च परमात्मा देवर्ष्यादयो असुराश्चेत्याशयवान्दृष्टान्तानुसारेणाह ॥ महाखवदिति ॥ महाखवत्सर्वप्रधानः । मध्यमखवद् घटस्थविरवन्मध्यमा घटानुगवत् । घटावयवरूपतयोत्पत्तिनाशयुक्तघटानुगाकाश इवावरत्वमसुराणामिति ज्ञेयम् ॥
त्रिविधचेतनानां त्रिविधाकाशा दृष्टान्ततयोक्तास्तत्प्रयोजनमाह ॥ महाकाशेति ॥ यथेति ग्राह्यम् । महाकाशवशा विघ्नेशवशाः । वैरं न कुर्यादित्यत्र हेतुकथनार्थमयं मूलश्लोकः प्रवृत्तः । अनेन तस्यात्रोपयोगः न प्रतीयते । अतस्तत्रोपयोगदर्शनाद्याह ॥ एवमिति ॥ विष्णुरत्ता आतत आददाति यस्य यत्र च तद्विष्ण्वात्मकम् । तथा च सर्वस्यादानादिकर्त्ता हरिरेव तत्तत्कर्मानुसारेण नानाभूतेषु स्थितोऽनिष्टप्रदाता नान्यो जीवः । तस्यास्वतन्त्रत्वेन परबाधनाक्षमत्वात् । अतः स्वस्वकर्मानुसारेण दुःखादिकमन्यजीवेषु स्थित्वा हरिणैव दत्तमित्यनुसन्धाय हरेः सर्वस्वामित्वादन्यस्य स्वतो बाधकाभावाच्च कोपविषयत्वाभावेन कुत्रापि वैरं न कुर्यादित्येवमुपपादनाभिप्रायेण एक एवेति श्लोकः प्रवृत्त इति भावः ॥ श्लोकार्थस्तु उदपात्रेषु घटादिषु अन्तर्विवरसद्भावज्ञापनाय वोदपात्रेष्वित्युक्तम् । तदसद्भावस्योप-योगोऽत्र । तथा च घटविकाररूपतन्मध्यगतविवररूपाकाशतदभिमानिविघ्नेश्वरपुत्र क्षुद्रविघ्नाख्य-मध्यमावराकाशनियामकतया महाकाशाभिमानिविघ्नराज एक एव घटादिषूदपात्रेषु व्यवस्थितः, तद्वदेक एव परः सर्वोत्तम आत्मा स्वामी भगवान् सर्वभूतेषु स्वामिनि च व्यवस्थितः । अत एवम्भूतान्ये-कात्मकानि । एक एवात्ता सर्वभोक्ता । आसम्यक् सन्तत आदानादिकर्त्ता च येषां तानि । सर्व-प्रकारेण तदधीनानीति यावत् । अत उक्तप्रकारेण कोपविषयाभावात्केनचित्क्वचिदपि वैरं न कुर्यादिति
॥ ३३ ॥
अलब्ध्वा न विषीदेत कालेकालेऽशनं क्वचित् ।
लब्ध्वा न हृष्येद् धृतिमानुभयं देवतन्त्रितम् ॥ ३४ ॥
पदरत्नावली
अशनसिद्ध्यसिद्ध्योरपि मद्भक्तिह्रासो न कर्तव्य इति भावेनाह– अलब्ध्वेति । देवस्य मम तन्त्रितमधीनम् ॥ ३४ ॥
श्रीनिवासतीर्थीया
उभयं लाभालाभद्वयम् । देवस्य मम तन्त्रितमधीनम् । मन्वान इति शेषः ॥ ३४ ॥
प्रमेयचन्द्रिका
मूले पुनर्यतिधर्मा उच्यन्ते ॥ अलब्ध्वेत्यादिना ॥ विषादहर्षाभावे निमित्त-मुक्तम् ॥ उभयमिति ॥ अदनाभावलक्षणमुभयं हर्यधीनं, न हि भगवदधीनेऽर्थे स्वस्य विषादादि युक्तमिति भावः ॥ ३४ ॥
आहारार्थं समीहेत युक्तं तत्प्राणधारणम् ।
तत्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३५ ॥
पदरत्नावली
ननु तर्हि प्रयत्नोपि तदर्थं न कर्तव्य इति तत्राह– आहारार्थमिति । ननु नाहारं चिन्तयेत् प्राज्ञ इति निषेधः कथमत्राह– युक्तमिति । यावत् प्राणधारणमपि चिन्तनं विहितत्वाद् युक्तम् । न वा अजीविष्यमिमानखादन्निति श्रुतेः । अशनालाभे देहस्य प्राणवियोगस्तेन देहस्य पञ्चत्वं वागादीनां स्वस्वकारणसम्पत्तिः, तत्र पुरुषार्थोपयोगितत्वविमर्शो न सम्भाव्यते, अतः पुरुषार्थानुदयः, अतो देहयात्रार्थमशनचिन्तनमावश्यकमिति भावेनाह– तत्वमिति । तेन देहेन तत्वं विमृश्यते । तत् तत्वम् ॥ ३५ ॥
श्रीनिवासतीर्थीया
तर्ह्यशनार्थं प्रयत्नोऽपि न कार्य इत्यत आह ॥ आहारार्थमिति ॥ ननु नाहारं चिन्तयेत्प्राज्ञ इति निषेधविरोध इत्यत आह ॥ युक्तं तदिति ॥ प्राणधारणमुद्दिश्य तत्समीहनं युक्तम् ॥ कुत इत्यत आह ॥ तत्त्वमिति ॥ तेन प्राणधारणेन । तत्त्वविमर्शनेनापि किमित्यत आह ॥ तद्विज्ञायेति ॥ तत्त्वं ज्ञात्वेत्यर्थः ॥ ३५ ॥
प्रमेयचन्द्रिका
तर्हि तदर्थे प्रयत्नोऽपि न कार्यः किमित्यत उच्यते ॥ आहारार्थमिति ॥ प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुम इत्युक्तरीत्या अभिप्रायो बोध्यः । तत् तेनाहारेणप्राणधारणं युक्तम् । तदपि कुत इत्यत उक्तम् । तेन प्राणधारणेन । तेन भगवत्तत्वविमर्शनेन तत्तत्वं विज्ञाय विमुच्यते । अतो ज्ञानद्वारा मोक्षसाधनत्वात्प्राणधारणस्य तदर्थमाहारार्थं यत्नः कार्य इति भावः ॥ ३५ ॥
यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् ।
तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ॥ ३६ ॥
पदरत्नावली
फलितमाह– यदृच्छयेति ॥ ३६ ॥
श्रीनिवासतीर्थीया
श्रेष्ठमुत्तमाशनमपरं कदन्नं वा । यदृच्छयेत्यस्योत्तरत्रापि सम्बन्धः ॥ यदृच्छया प्राप्तं वासो यदृच्छया प्राप्तां शय्याम् ॥ ३६ ॥
प्रमेयचन्द्रिका
श्रेष्ठं स्वादु, अपरमस्वादु प्राप्तं प्राप्तमिति । समीचीनमसमीचीनं वा यल्लब्धं तत्तदित्यर्थः ॥ ३६ ॥
शौचमाचमनं स्नानं न तु चोदनया चरेत् ।
अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ ३७ ॥
नहि तस्य विकल्पाख्या क्रिया मद्वीक्षया हता ।
आदेहान्तात्१ क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥ ३८ ॥
तात्पर्यम्
‘स्वभावतो धर्मपरो न विधेश्चकितश्चरेत् । अल्पं फलं च चकिते स्वभावे फलमुत्तममि’ति च ॥ (विधि)विरुद्धत्वेन कल्पनं विकल्पः । ‘निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत् । अज्ञो ज्ञस्य तु सङ्कल्पः स्वभावाद्विहितानुगः । शरीर-धर्मिणः क्वापि निषिद्धेऽपि मनो व्रजेत् । तथापि तस्य नानर्थो मोक्षे चैवान्यथा व्रजेदि’ति धर्मतत्त्वे ॥ ३७,३८ ॥
पदरत्नावली
शौचादिकर्माणि स्वभावत एव कुर्यात्, न तु विधिचकितत्वेनेत्याशयेनाह– शौचमिति । ज्ञानी यतिः । ‘‘स्वभावतो धर्मपरो न विधेश्चकितश्चरेत् । अल्पं फलं हि चकिते स्वभावे फलमुत्तमम्’’ इति वचनात् ॥ अत्र हेतुमाह– न हीति । तस्य ज्ञानिनो विकल्पाख्या श्रौतस्मार्तविरुद्धकल्पनाख्या क्रिया न हि यस्मादतो ज्ञानी विधिं विहाय स्वत एव श्रौतादिक्रियां कुर्यादित्यन्वयः । ज्ञानिनोपि यावद्देहं निषिद्धेऽपि मनोगमनात् कथं नास्तीत्यत्राह मद्वीक्षयेति । आदेहान्तं प्रारब्धकर्मनिबद्धदेहपर्यन्तम् । ज्ञानिनोपि क्वचिन्निषिद्धे ख्यातिर्मनोगतिलक्षणप्रतीतिः स्यात् । सापि मद्वीक्षया ज्ञानप्रपन्नमत्कटाक्षनिरीक्षणेन हता, स्वशक्तिमुद्बोधयितुमसमर्था स्यादिति शेषः । ततः प्रारब्धकर्ममूलदेहपातादनन्तरं मया सम्पद्यते मत्प्रसादेनाविर्भूतस्वारूपानन्दो भवतीत्यर्थः । ‘‘निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत् । अज्ञो ज्ञस्य तु सङ्कल्पः स्वभावाद् विहितानुगः । शरीरधर्मिणः क्वापि निषिद्धेऽपि मनो व्रजेत् । तथापि तस्य नानर्थो मोक्षे नैवान्यथा व्रजेत्’’ इति स्मृतेः ॥ ३७,३८ ॥
श्रीनिवासतीर्थीया
शौचमित्यत्र चोदनया नाचरेदिति विधिपरित्यागेन चरणं कथ्यत इत्यतस्तात्पर्यमाह ॥ स्वभावत इति ॥ स्रोतोवेगवदित्याशयः । धर्मपरो भवेत् ॥ इदं चतुर्मुखविषयम् । भावशब्दाच्चेति सूत्रे विधिर्भावे प्रजापतिरिति तस्यैव स्वेच्छाविध्युक्तेः । तदिच्छानु-सारेणैव हि वेदानां प्रवृत्तिः । चकिते विधिभयेन चरणे । मध्यमाधमविषयमिदम् । तथा च यथेश्वरोऽहं लीलया विध्यचकिततया । स्वभावेनेति यावत् । शौचादिनाचरामि तद्वच्छौचादीन्स्वभावत एव चरेन्न तु चोदनया विधिचकितत्वेनेत्यर्थः । तत्र हेतुमाह ॥ न हीति ॥ अत्रविकल्पपदं व्याख्याय तत्र प्रमाणमाह ॥ विरुद्धत्वेनेति ॥ वेदविरुद्धत्वेनेत्यर्थः । आदौ मनसेदं निषिद्धमिति मनसा सङ्कल्प्य तस्मान्निषिद्धाचरणाद्भीतः सन् त्यक्त्वाऽज्ञो विहितमाचरेदिति योज्यम् । ज्ञस्य त्वित्यपि ब्रह्मविषयम् । आदेहान्तादित्यादेस्तात्पर्यम् ॥ शरीरेति ॥ तथाऽपीत्यादि मद्वीक्षयेत्यस्य तात्पर्यम् । अपि यद्यपि । नानर्थो भवतीति शेषः । मोक्षे तु तस्य मनोऽन्यथा निषिद्धे नैव सर्वथा व्रजेत् । तथा च तस्य ज्ञानिनः श्रौतस्मार्तविधिविरुद्धरूपा कल्पना । विरुद्धचरणरूपेति यावत् । क्रिया नास्ति । ननु ज्ञानिनोऽपि देहसद्भावान्निषिद्धेऽपि कदाचिन्मनो गमिष्यत्येवेत्यत आह ॥ मद्वीक्ष-येति ॥ आदेहान्तात्प्रारब्धकर्मनिमित्तदेहपातपर्यन्तं ज्ञानिनोऽपि क्वचिन्निषिद्धविषये ख्यातिर्मनोगति-लक्षणा प्रतीतिः स्याद्यद्यपि तथाऽपि सा ख्यातिर्मद्वीक्षया मम वीक्षयाऽपरोक्षज्ञानरूपविशेषज्ञानेन हता उत्तराघस्याश्लेष इत्याशयः । ततोऽनन्तरं मया मदनुग्रहेण स्वस्वरूपाविर्भावं सम्पद्यते प्राप्नोति
॥ ३७,३८ ॥
प्रमेयचन्द्रिका
सर्वाश्रमादिसाधारणस्य तत्तद्धर्मेष्वितिकर्तव्यस्य प्रतिपादके शौचमिति श्लोके शौचादिकमन्यांश्चाश्रमादिविहितान्नियमांश्चोदनया विधिबद्धतया न कुर्यात् । किं तु यथेश्वरोऽहं लीलया करोमि तथैवेत्युच्यते । तदयुक्तम् । विहितत्वाच्चासमकर्मापीत्यादिविरोधादित्यत आह ॥ स्वभावत इति ॥ केवलभगवत्प्रीत्यर्थकधर्माचरणस्वभावत एव धर्मपरो भवेत् । न तु विध्यतिक्रमे नरकादि-र्भवतीत्येवं विधेर् भीतो वा चरेत् । कुत इत्यत उक्तम् ॥ अल्पमिति ॥
ननु न तु चोदनया चरेदिति कथम् । एकादश्युपवासादेर्विधिभयादेव कृतिदर्शनादित्यतोऽज्ञस्यैव विधिभयेनाचरणम् । न तु ज्ञानिनस्तस्यैकादशीभोजनादौ निषिद्धे मनःप्रवृतेरभावेन भयाभावादित्याशयेनोच्यते ॥ न हि तस्येति ॥
श्लोके तस्य ज्ञानिनो विकल्पाख्या क्रिया न हि यतो मदैक्यवीक्षया सा हता । तथा देहपात-पर्यन्तं भेदख्यातिर्भवति ततस्तदवसाने मदैक्यं सम्पद्यत इति व्याख्यानमचारु । भेदस्य क्रियात्वा-भावात् । तत्ख्यातिर्लभ्यत इति च । तल्लक्षणाया जघन्यत्वात् । ऐक्यमित्यश्रुतकल्पनापातात् । सर्वप्रमाणविरुद्धत्वाच्च । अतो यथावद्व्याख्यातुं विकल्पशब्दार्थं तावदाह ॥ विरुद्धत्वेनेति ॥ चोदनापरपर्यायविधेरेवात्र प्रकृतत्वाद्विरुद्धत्वेन निषिद्धत्वेनेति यावत् । ततश्च विकल्पेत्यस्य विरुद्धत्वेन निषिद्धत्वेन कल्पनमित्येवार्थो न भेद इति ।
समाख्याविरुद्धं च परकीयव्याख्यानमित्याशयेन श्लोकं प्रमाणेन व्याचष्टे ॥ निषिद्धमिति ॥ एकादश्यशनादिकं निषिद्धमिति शास्त्रपर्यालोचनानुगृहीतेन मनसा कल्प्य ज्ञात्वा प्रत्यवायभयाद्भीतः सन्नज्ञो विहितमाचरेत् । तस्य ज्ञानिनस्तु विहितविषये सङ्कल्पो भगवत्प्रीत्यर्थकसद्धर्मानुष्ठानस्वभावा-त्स्वत एव विहितानुगः न तु प्रत्यवायभीततयेत्यर्थः । तथा च विहितानुष्ठानस्य ज्ञान्य-ज्ञानिसाधारणत्वेऽपि अज्ञानिनो निषिद्धेऽपि मनःप्रवृत्तेः प्रत्यवायाद्भीत एव विहितमाचरेत् । ज्ञानिनो निषिद्धे सर्वथा मनसः प्रवृत्यभावात्प्रत्यवायभयासम्भवेन भगवदाराधनौत्सुक्यस्वभावादेव हिताचरणमिति भावः । एतेन प्रथमार्धो व्याख्यातो भवति । ननु ज्ञानिनामपि निषिद्धे मनःप्रवृत्तेः पुराणादिषु दृश्यमानत्वात्तेषामप्यनर्थशङ्कया भीतिरवश्यम्भाविनीत्याशङ्कावारणाय प्रवृत्तस्य द्वितीयार्धस्य तात्पर्यमाह ॥ शरीरधर्मिण इति ॥ प्रारब्धावसानपर्यन्तं शरीरनिमित्तकेषत्कामादिधर्मवतो निषिद्धेऽपि क्वचिदेव मनो व्रजेत् । तथापि निषिद्धे मनःप्रवृत्तावपि तस्य ज्ञानिनो निषिद्धकरणं कथञ्चित्करणेऽपि नानर्थो भवति । एतेनादेहान्तं क्वचित्ख्यातिः साऽपि मद्वीक्षया हतेत्येतद्व्याख्यातं भवति । चरमदेहपातानन्तरं कथमित्यतः प्राप्तस्य चतुर्थपादस्यार्थः ॥ मोक्षे मनोऽन्यथानिषिद्धे विषये न व्रजेदिति ॥
तदयं मूलार्थः ॥ तस्य ज्ञानिनो विकल्पाख्या क्रिया विरुद्धस्य कल्पनाख्या निषिद्धकरणे प्रत्यवायो भविष्यतीति भयपूर्वका विहितक्रियेति यावत् । नैव निषिद्धे मनसः सर्वथा प्रवृत्यभावात् । यद्यपि आदेहान्तं चरमदेहपर्यन्तं क्वचिन्निषिद्धविषयेऽपि ख्यातिर्बुद्धिरिच्छेति यावत् । अनुष्ठानं चास्ति । तथापि सा ख्यातिर् मद्वीक्षया मदपरोक्षज्ञानेन हता भवति । तन्निष्टासम्पादिका भवतीति यावत् । ततश्चरमदेहनाशानन्तरं मया सम्पद्यते । मत्प्राप्तिलक्षणमोक्षं प्राप्नोति मुक्त्यनन्तरमीश्वरवल्लीलयैव हर्याराधनकर्मेति भावः ॥ ३७,३८ ॥
दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् ।
अजिज्ञासितमद्धर्मो गुरुं मुनिमुपाव्रजेत् ॥ ३९ ॥
तावत् परिचरेद् भक्तः श्रद्धावाननसूयकः ।
यावद् ब्रह्म विजानीयान्मामेव गुरुमादृतः ॥ ४० ॥
तात्पर्यम्
‘शुश्रूषेत्सहितस्तावद्यावज्ज्ञानोदयो गुरुम् । ततः परं च शुश्रूषेद्यथा तस्य प्रियं भवेदि’ति च ॥ ४० ॥
पदरत्नावली
एवंविधज्ञानप्राप्तावुपायमाह– दुःखोदर्केष्विति । उपाव्रजेदित्युपसर्गेण मुक्तिपर्यन्तं गुरुनिकटे निवासः कर्तव्य इति ज्ञायते ॥ ‘‘शुश्रूषेत् सहितस्तावद् यावज्ज्ञानोदयो गुरुम् । ततःपरं च शुश्रूषेद् यथा तस्य प्रियं भवेत्’’ इति स्मृत्यर्थं स्पष्टमाह– तावदिति । यावद् ब्रह्म मां विजानीयात् तावद् गुरुमेव परिचरेदित्यन्वयः । आदृत इत्यनेन ज्ञानोदयानन्तरमपि गुरुशुश्रूषा कर्तव्येति ज्ञायते ॥ ३९,४० ॥
श्रीनिवासतीर्थीया
काम्येषु काम्यन्त इति कामा विषयास्तेषु । तत्र हेतुर्दुःखोदर्केष्विति ॥ विविधसांसारिकदुःखदर्शनेन हि वैराग्यं भवतीत्याशयः । अजिज्ञासितमद्धर्मोऽविचारितजगज्जन्मादि-कर्तृत्वादिमद्धर्मोऽविचारितभागवतधर्मो वा ॥ यावदिति ॥ ब्रह्मज्ञानानन्तरं गुरुपरिचरणाभाव उच्यत इत्यन्यथाप्रतीतिनिरासायार्थमाह ॥ शुश्रूषेदिति । सहितः । मूले श्रद्धावाननसूयक इत्युक्त-त्वाच्छ्रद्धादिगुणैरिति शेषः कर्तव्यः । तस्य गुरोर्ज्ञानोपदेशानन्तरं त्वया मत्समीप एव स्थातव्यमिति प्रीत्या गुरुर्वक्ति चेत्तस्य प्रीतये तदा तत्परिचरणं कुर्वता स्थेयम् । तत्समीपे प्रीत्याऽनुज्ञां ददाति चेत्तत्प्रीत्यनुसारेण गन्तव्यमित्याशयः । परं तत्प्रीत्यनुसारेण तत्सेवा कर्तव्येति हृदयम् । मां गुरुं मत्सन्निधानपात्रं गुरुम् ॥ ३९,४० ॥
प्रमेयचन्द्रिका
एवं सिद्धज्ञानस्य यतेः स्थितिमभिधाय जिज्ञासोर्ज्ञानस्थितिरभिधीयते ॥ दुःखोदर्केष्विति श्लोकद्वयेन ॥ आत्मवान् परमात्मानुग्रहवान् । धैर्यवानिति वा । अजिज्ञासि-तेत्यविचारितेत्यर्थः । मुनिर् ज्ञानिनं मौनिनं वा । अनसूयकः बहुपरिचरणेऽपि नोपदिशतीति गुरौ वा सब्रह्मचारिषु वा असूयारहितः । गुर्वन्तर्गतो हरिरेवोपदेष्टेत्याशयेन मामेव गुरुमित्युक्तम् । अत्र यावद्ब्रह्म विजानीयात्तावत्परिचरेदित्युक्त्या ततः परं न परिचरेदिति प्रतीयते । अत आह ॥ शुश्रूषे-दिति ॥ सहितः गुरुणा तत्समीप एव वसन्निति यावत् । यथा तस्य प्रियमिति तत्समीपे दूरे वा यथा तस्य प्रियं भवति तदनुसारेण शुश्रूषेत् । ज्ञानिनो मुक्तेरपि गुरुप्रसादाधीनत्वादिति भावः
॥ ३९,४० ॥
यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः ।
ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥ ४१ ॥
पदरत्नावली
वेषमात्रधारिणो यतयः पूज्या इत्यस्मिन् पक्षे बाधकमित्याह– यस्त्विति । प्रचण्डेन्द्रियाणां सारथिर्मनो यस्य स तथा । त्रिदण्डं त्रिवेणुलक्षणम् ॥ ४१ ॥
श्रीनिवासतीर्थीया
असंयतेति ॥ अनियमितेत्यर्थः । इन्द्रियाणामश्वभूतानां सारथिर्मनः प्रचण्डो विषयेष्ववस्थितत्वात्स चासाविन्द्रियसारथिश्च । त्रिदण्डमुपजीवति संन्यासी भवति । यत इति शेषः ॥ ४१ ॥
प्रमेयचन्द्रिका
इन्द्रियनिग्रहस्तारतम्यान्तर्गतत्वेन सर्वोत्तमत्वज्ञानं च सर्वथाऽपेक्षितमित्याशयेन तदकरणेऽनर्थोऽभिधीयते ॥ यस्त्विति श्लोकद्वयेन ॥ षड्ज्ञानेन्द्रियवर्गः । कामाद्यरिषड्वर्गो वा । प्रचण्डेत्युन्मार्गवतीत्यर्थः । त्रिदण्डमित्युपलक्षणम् ॥ ४१ ॥
सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा ।
अविपक्वकषायोऽस्मादमुष्माच्च विहीयते ॥ ४२ ॥
पदरत्नावली
सुरान् आत्मस्थमन्तर्यामिणम् आत्मानं प्रेष्ठं मां च निह्नुते निराकरोति । सोऽस्माल्लोकाद् अमुष्मात् स्वर्गादेश्च विहीयते अधःपततीत्यर्थः ॥ ४२ ॥
श्रीनिवासतीर्थीया
सः सुरानात्मस्थमात्मानं गुणपूर्णं मां च निन्हुतेऽपलपतीत्यर्थः । यदि देवादीन् भगवन्तं च जानीयात् तर्हि तस्यासंयतषड्वर्गत्वादि न स्यादसंयतषड्वर्गे चासुरादीनां निन्हुवत्कर्तेत्याशयः । अविपक्वकषायोऽविपक्वान्तःकरणः । अस्मादमुष्माच्च लोकात् ॥ ४२ ॥
प्रमेयचन्द्रिका
सुरांस्तारतम्यस्थान्, आत्मानं तारतम्यान्तर्गतत्वेन सर्वोत्तमं मां च । निह्नुते अपलपति । अत एव वैष्णवभक्त्यादिधर्महा । कषणेन गच्छतीति कषायम् । पापम् । अविपक्वमनष्टं कषायं यस्य स तथोक्तः । कषायपदमन्तःकरणपरं मतम् । मनःपरिपाक-रहितमित्यप्याहुः ॥ ४२ ॥
भिक्षोर्धर्मः शमोऽहिंसा तप ईक्षा वनौकसः ।
गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४३ ॥
पदरत्नावली
यत्यादीनां विशेषकर्तव्यधर्मानाह– भिक्षोरिति । यतेः शमाहिंसे धर्मौ । वानप्रस्थानां तप ईक्षा आलोचनं च धर्मः । गृहस्थानामन्नादिना प्राणिरक्षा इज्या यागश्च । द्विजस्य ब्रह्मचारिण आचार्यसेवनं गुरुकुलवासः ॥ ४३ ॥
श्रीनिवासतीर्थीया
यत्यादीनां विशेषधर्मान्पुनराह ॥ भिक्षोरिति ॥ ईक्षा हरिविचारः । भूतरक्षा प्राणिनामन्नदानादिना संरक्षणम् । इज्या यागः । द्विजस्य ब्रह्मचारिणः ॥ ४३ ॥
प्रमेयचन्द्रिका
यत्यादिभिर्विशेषतः कर्तव्यो धर्म उच्यते ॥ भिक्षोरिति ॥ ईक्षा अग्निहोत्रादिक्रिया । द्विजस्य ब्रह्मचारिणः ॥ ४३ ॥
ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम् ।
गृहस्थस्याग्रतो गन्तुः सर्वेषां मदुपासनम् ॥ ४४ ॥
पदरत्नावली
गृहस्थस्याग्रतो गन्तुरवगन्तुः, तत्वादेरिति शेषः ॥ ४४ ॥
श्रीनिवासतीर्थीया
गृहस्थस्य विशेषधर्मानाह । वानप्रस्थाद्याश्रममगृहीत्वैतेनैवाश्रमेणाहं शीघ्रं गमिष्यामीत्यपेक्षयाऽग्रतो वानप्रस्थाद्याश्रममगृहीत्वा मोक्षं गन्तुर्गृहस्थस्य ब्रह्मचर्यादिकं धर्मः । ऋतुकाले स्त्रीगमनं स्वस्त्रिय एव गमनं वा गृहस्थस्य ब्रह्मचर्यम् । सर्वेषां मदुपासनं धर्मः ॥ ४४ ॥
प्रमेयचन्द्रिका
विशिष्य गृहस्थधर्म उच्यते ॥ ब्रह्मचर्यमिति ॥ स्वस्त्रीनैय्यत्यमित्यर्थः । अग्रतो गन्तुर् यत्यादिपोषकत्वेन त्वरया मुक्तिगन्तुः । भगवत्तत्वमवगन्तुरिति वा । सर्वेषां वर्णाश्रमिणाम् । मदुपासनं परमो धर्म इति शेषः ॥ ४४ ॥
इति मां यः स्वधर्मेण भजेन्नित्यमनन्यभाक् ।
सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते चिरात् ॥ ४५ ॥
पदरत्नावली
एतैर्धर्मैः साध्यमाह– इतीति ॥ ४५ ॥
श्रीनिवासतीर्थीया
एतैर्धर्मैः साध्यमाह ॥ इतीति ॥ मद्भावो मत्सत्ताज्ञानी ॥४५॥
प्रमेयचन्द्रिका
सर्वभूतेषु मद्भावो मद्भावना ध्यानं यस्य स तथोक्तः ॥ ४५ ॥
भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।
सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ ४६ ॥
पदरत्नावली
मत्प्राप्तौ भक्तिरेव प्रयोजिकेत्याह– भक्त्येति ॥ ४६ ॥
श्रीनिवासतीर्थीया
मत्प्राप्तौ भक्तिरेव प्रयोजिकेत्याह ॥ भक्त्येति ॥ ४६ ॥
इति स्वधर्मनिर्णिक्तसत्वो निर्ज्ञातमद्गतिः ।
ज्ञानविज्ञानसम्पन्नो विरक्तो समुपैति माम् ॥ ४७ ॥
पदरत्नावली
स्वविहितधर्मेण निर्णिक्तं धौतं सत्वमन्तःकरणं यस्य स तथा । निर्णीतत्वेन ज्ञातमद्गतिः ॥ भक्तिरेव मम परमप्रीतिसाधनम् । वर्णादिविहितधर्मोपि भक्तिसंवलित एवेति भावेनाह वर्णेति ॥ ४७,४८ ॥
श्रीनिवासतीर्थीया
स्वविहितधर्मेण निर्णिक्तं धौतमन्तःकरणं यस्य स तथा । मद्गतिर्मत्स्वरूपः ॥ ४७ ॥
प्रमेयचन्द्रिका
इति उक्तप्रकारेण स्वधर्मेण निर्णिक्तं परिशुद्धं सत्वमन्तःकरणं यस्य स तथोक्तः । नितरां ज्ञाता मम गतिर्येन सः । विज्ञानमात्मयोग्यं स्याज् ज्ञानं साधारणं स्मृतमित्युक्तम्
॥ ४७ ॥
वर्णाश्रमवतां धर्म एष आचारलक्षणः ।
स एव मद्भक्तियुतो निःश्रेयसकरः परः ॥ ४८ ॥
एतत् तेऽभिहितं साधो भवान् पृच्छति यच्च माम् ।
यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४९ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे अष्टादशोऽध्यायः ॥
पदरत्नावली
उपसंहरति एतदिति । चशब्द एवार्थे । यथा मां समियात् तथैवाभिहितम्
॥ ४९ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य अष्टादशोऽध्यायः ॥
श्रीनिवासतीर्थीया
यो वर्णाश्रमवतां धर्म एष एवाचाररूपः, आचार इति संप्रोक्तः कर्माङ्गत्वेन शुद्धिद इत्यादावुक्ताचारोऽयमेवेत्यर्थः स धर्म एव । स्वधर्मसंयुक्तः पुमान्यथाकथं मां समियादिति यद्भवान्परिपृच्छति तदेतत्तेऽभिहितमित्यर्थः ॥ ४८,४९ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे अष्टादशोऽध्यायः ॥
प्रमेयचन्द्रिका
सः मद्भक्तियुत एव निःश्रेयसकर इत्यन्वयः ॥ यथेति ॥ यथा यत्प्रकारकधर्मयुक्तो मां समियात्तथा तेऽभिहितम् इत्यर्थः ॥ ४८,४९ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायाम् अष्टादशोऽध्यायः ॥