यस्त्वयाऽभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः
श्री भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
एकादशस्कन्धे
॥ अथ सप्तदशोऽध्यायः ॥
उद्धव उवाच—
यस्त्वयाऽभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः ।
वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥
यथाऽनुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् ।
स्वधर्मेणारविन्दाक्ष तन्ममाख्यातुमर्हसि ॥ २ ॥
श्रीमद्विजयध्वजतीर्थविरचिता पदरत्नावली
पदरत्नावली
तत्तद्वर्णादिभिरनुष्ठीयमानेन स्वधर्मेण भगवद्भक्तिर्भवतीत्यतस्तद्वर्णविभागं तत्तत्स्वधर्मं च निरूपयत्यस्मिन्नध्यायद्वये । तत्रोद्धव उक्तार्थमनूद्य ज्ञातव्यांशं पृच्छति यस्त्वयेति । पूर्वं त्वया यस्त्वद्भक्तिलक्षणः, त्वद्भक्तिरेव लक्षणं सम्पद् यस्य स तथा, अभिहितः ॥ तेन स्वधर्मेणानुष्ठीय-मानेन वर्णाश्रमाचारवतां नृणां यथा त्वयि भक्तिर्भवेत् तथा आख्यातुमर्हसीत्यन्वयः ॥ १,२ ॥
श्री वंशपल्ली श्रीनिवासतीर्थविरचिता टिप्पणी
उद्धव उक्तार्थमनूद्य ज्ञातव्यार्थं पृच्छति ॥ यस्त्वयेति ॥ त्वद्भक्तिरेव लक्षणं चिह्नं फलं यस्य स तथा यो धर्मस्त्वयाऽभिहितस्तेनानुष्ठीयमानेन स्वधर्मेण स्वधर्मानुष्ठानेन । वर्णाश्रमाचारवतां सर्वेषां द्विपदां वर्णबाह्यानामपि यथा त्वयि भक्तिर्भवेत् तथाऽऽख्यातुमर्हसीत्यन्वयः ॥ १,२ ॥
श्रीसत्याभिनवतीर्थविरचिता व्याख्या दुर्घटभावदीपिका
तदित्यस्य तं प्रकारमित्यर्थः । एतेन यथा येन प्रकारेणानुष्टीयमानेन स्वधर्मेण नृणां भक्तिर्भवेत् । तं प्रकारमाख्यातुमर्हसीत्यर्थलाभार्थं तं प्रकारमिति वक्तव्यम् । तदिति कथनमयुक्तमिति दूषणं निराकृतम् । तदिति नपुंसकलिङ्गं छान्दसं प्रकारमित्यस्य शेष इति चाङ्गीकृत्य तदित्यस्य तं प्रकारमित्यस्यार्थस्योक्तत्वात् ॥ २ ॥
ताम्रपर्णी आनन्दतीर्थाचार्यविरचिता तात्पर्य प्रमेयचन्द्रिका
प्रमेयचन्द्रिका
यस्त्वयेत्युद्धवप्रश्नपरे मूले पूर्वमित्यस्य चतुर्थाध्याय इत्यर्थः । वर्णावरसङ्ग्रहाय द्विपदामित्युक्तम् ॥ यो भक्तिरूपो धर्मस्त्वयाऽभिहितः सः भक्तिलक्षणो धर्मो नृणां यथाऽनुष्ठीयमानेन स्वधर्मेण भवेत् । तथा भक्तिहेतुस्वविहितधर्मानुष्ठानप्रकारमाख्यातुमर्हसीति योजना ॥ १,२ ॥
पुरा किल महाबाहो धर्मं परमकं भवान् ।
यमाह त्वयिभक्तेभ्यो ब्राह्मणेभ्यश्च माधव ॥ ३ ॥
पदरत्नावली
ननु मयोक्तो धर्मस्त्वया ज्ञातश्चेत् पुनः किमिति वक्तव्य इति तत्राह– पुरेति
॥ ३ ॥
श्रीनिवासतीर्थीया
मयोक्तो धर्म इदानीं प्राणिभिरनुष्ठीयतेऽतः किं मया वाच्यमित्यत आह ॥ पुरेति ॥ यं धर्ममित्यन्वयः । परम एव परमकः । त्वयिभक्तेभ्य इत्येकं पदम् । सप्तम्या अलुक् । त्वद्भक्तेभ्य इत्यर्थः ॥ ३ ॥
प्रमेयचन्द्रिका
ननु धर्मः कल्पादावेवोक्तः पुनः किमिति वक्तव्यमित्यत उच्यते ॥ पुरेति ॥ भक्तेभ्य इति सर्ववर्णसाधारणरूपधर्मोक्तिः । ब्राह्मणेभ्य इति विशेषधर्मः ॥ ३ ॥
स इदानीं सुमहता कालेनामित्रकर्शन ।
प्रायोऽन्तर्भविता मर्त्यलोके प्रागनुशासितः ॥ ४ ॥
पदरत्नावली
स धर्म इदानी प्रायोऽन्तर्भविता तिरोभूतः ॥ ४ ॥
श्रीनिवासतीर्थीया
अन्तर्भविता तिरोभूतः प्राक् । त्वयेति शेषः ॥ ४ ॥
प्रमेयचन्द्रिका
अन्तर्भाविता भर्तृभिः ॥ ४ ॥
वक्ता कर्ताऽविता नान्यो १धर्मस्याच्युत ते भुवि ।
सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः
तात्पर्यम्
‘विना प्रसादं विष्णोर्न धर्मं ब्रह्माऽभिवक्ष्यति । तत्प्रसादेन वक्तुं तु ब्रह्मा शक्ष्यति नापर’ इति प्राधान्ये । कलाः प्राणाद्याः । ‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योति-रापःपृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोकेषु नाम च ता इमाः षोडशकलाः पुरुषायणा’ इति श्रुतेः ॥ ५ ॥
पदरत्नावली
अस्य धर्मस्य वक्ता त्वदन्यो नास्तीत्याह– वक्तेति । ते तव धर्मस्य । विरिञ्चोऽस्तीत्यत्राह– सभायामिति । त्वत्प्रसादं विना विरिञ्चोपि न वक्ष्यतीत्यपिपदार्थः । ‘‘विना प्रसादं विष्णोर्न धर्मं ब्रह्माभिवक्ष्यति । तत्प्रसादेन वक्तुं तु ब्रह्मा शक्ष्यति नापरः’’ इति वचनात् । यत्र सभायां कलाः प्राणाद्या मूर्तिधरा अङ्गोपाङ्गाद्यवयववन्तः । ‘‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च । ता इमाः षोडशकलाः पुरुषायणाः’’ इति श्रुतेः ॥ ५ ॥
श्रीनिवासतीर्थीया
ते सकाशादन्योऽस्य धर्मस्य वक्ता कर्ताऽविता रक्षकश्च न । ननु सत्यलोके ब्रह्मा वदिष्यतीत्यत आह ॥ सभायामपीति ॥ अत्र ब्रह्मणो धर्मप्रवचनेऽसामर्थ्यं प्रतीयतेऽतस्तात्पर्यमाह ॥ विनेति ॥ ननु विष्णुप्रसादे सति सर्वोऽपि जनो वक्ष्यत्येवेत्यत आह ॥ तत्प्रसादेनेति ॥ तथा च यत्र सभायां कला मूर्तिधराः प्रत्यक्षतो देहधारिण्यः सत्यः सेवन्ते तस्यां वैरिंच्यां विरिञ्चसम्बन्धिन्यां सभायामपि विष्णुप्रसादमृते धर्मस्य न वक्तेति योज्यम् । कलाः कलाविद्या इत्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे ॥ कला इति ॥ प्राणादिषोडशकलाभिमानिन्यो देवता इत्यर्थः । आदिपदसङ्ग्राह्यकलादेवताः षट्प्रश्नोपनिषदा दर्शयति ॥ स प्राणमिति ॥ एषा श्रुतिः, कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी । लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता । तपोऽभिमानी वह्निश्च वरुणो वीर्यदेवता । अन्नस्य देवता सोमो मनोनामाऽनिरुद्धकः । इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः । रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः । श्रद्धेति वायोः पत्नी स्यात्सर्वेषां प्रभवाप्ययौ । तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः । तस्यापीशः कारणं च वासुदेवः परोऽव्ययः । न तस्य सदृशः कश्चित्कुत एवोत्तमो भवेत् । तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैव परात्परमिति प्रमाणेन व्याख्याता । नाम चेत्यनन्तरं यथेमाः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे तत्समुद्र इत्येव प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशेत्यादि । पुरुषायणा इत्यनन्तरं पुरुषं प्राप्यास्तं गच्छन्तीति पूर्वोत्तरवाक्यशेषः । अस्तमदर्शनं मुक्तौ गच्छन्ति
॥ ५ ॥
दुर्घटभावदीपिका
हे अच्युत । यत्र यस्याः कलाः प्राणाद्याः कला मूर्तिधरास्तस्यां वैरिञ्च्यां विरिञ्चसम्बन्धिन्यां सभायामपि धर्मस्य वक्ता कर्ताऽविता ते सकाशादन्यो नास्ति । भुवि नास्तीति किमु वक्तव्यमिति । एतेन ते सकाशादन्यो धर्मस्य वक्ता कर्ताऽविता भुवि नास्तीत्यर्थोप-पादकत्वाभावात्सभायामपीत्युत्तरार्धोऽसङ्गत इति दूषणं प्रत्युक्तम् । किम्वित्यस्य शेषेण सङ्गतेरुक्तत्वात्
॥ ५ ॥
प्रमेयचन्द्रिका
ननु वक्ता कर्ताऽविता नान्यः सभायामपि वैरिंच्यामित्ययुक्तम् । विरिञ्चस्यैतादृशस्य सत्वादित्यत आह ॥ विना प्रसादमिति ॥ स्वतन्त्रवक्त्रादिनेति मूले निषेधः क्रियत इति भावः । यत्र मूर्त्तिधराः कला इत्यत्र गान्धर्ववात्स्यायनादिकलाविद्या इति प्रतीति-निरासायानूद्यार्थमाह ॥ कला इति ॥ कलास्वरूपनिरूपणपरां श्रुतिं पठति ॥ स प्राणमिति ॥ अत्र विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोऽभिधः । तस्मादिन्द्रस्त्विन्द्रियात्मा ततः सोमोऽन्नदेवता । ततश्च वरुणः सृष्टस्तस्मादग्निस्ततोऽवरः । आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् । तस्मादग्निः पावकाख्यः प्रधानाग्नेः सुतोऽवरः । ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता । उदात्मको बुधस्तस्मादुषानामात्मिका ततः । ततः शनिः पृथिव्यात्मा कामात्मा पुष्करस्ततः । क्रमात्प्रत्यवरा ह्येते मुक्तास्सर्वगुणैरित्यादिषट्प्रश्नोदाहृतप्रमाणेनैतदर्थोऽवगन्तव्यः ॥
अत्र प्राणो जीवकलाभिमानी । श्रद्धा आस्तिकानिष्ठा । वीर्यं शरीरबीजभूतम् । तदभिमानी वरुणस् तपः जीवस्य ज्ञानादिहेतुतया सुखसाधनं तदभिमानी वह्निः । मन्त्रा वेदाः । लोका गोलकाः । तदभिमानी पर्जन्यः । प्राणादीनां कलात्वं षट्प्रश्नटीकायां स्फुटं प्रतिपादितम् । श्रुत्युक्तप्राणादीनां कलात्वोपपादनाय त इमाः षोडशकला इत्युत्तरवाक्योदाहरणाम् । पुरुषायणाः पुरुषो भगवान् तद्गमनस्वभावाः । तथा च कलाशब्दस्य मुख्यार्थतया श्रुतिप्रसिद्धा मुख्यप्राणादयो जीवादिकलाभिमानिन एवात्र मूर्तिधरा ग्राह्याः । न तु गान्धर्ववात्स्यायनाद्याः । तासामनतिशयितत्वेन विरिञ्चिसभोपपादनप्रसङ्गे वक्तुमयोग्यत्वादिति भावः ॥ ५ ॥
कर्त्राऽवित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६ ॥
त्वमतः सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मेऽच्युत ॥ ७ ॥
पदरत्नावली
यदा ब्रह्मसभायामपि त्वदृतेऽन्यो नास्ति किमुत भूतल इति भावेनाह कर्त्रेति । भवता त्यक्ते महीतले विनष्टं धर्मं कः पुरुषः प्रवक्ष्यतीत्यन्वयः । कर्तेति पाठे यो भवान् धर्मस्य कर्ता तेन भवता (इत्यर्थः) ॥ ततः किमत्राह त्वमिति । यतोऽन्यो नास्ति अतस्त्वद्भक्तिलक्षणो धर्मो यस्य यथा विधीयेत तत् तथा मे वर्णयेत्यन्वयः ॥ ६,७ ॥
श्रीनिवासतीर्थीया
कर्तेत्यादि पाठे यो भवान्धर्मस्य कर्ताऽविता प्रवक्ता च तेन भवता ॥
प्रमेयचन्द्रिका
यथा यस्येति मूले यादृशवर्णाश्रमधर्माचरणेनेत्यर्थः ॥ ७ ॥
बादरायणिरुवाच—
इत्थं तु भृत्यमुख्येन पृष्टः स भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥
श्रीभगवानुवाच—
धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।
वर्णाश्रमाचारवतां २तमुद्धव निबोध मे ॥ ९ ॥
पदरत्नावली
धर्म्यः धर्मविषयः ॥ ९ ॥
श्रीनिवासतीर्थीया
धर्म्यो धर्मादनपेतः । तं प्रश्नपरिहारम् । मे सकाशान्निबोध विजानीहि
॥ ९ ॥
प्रमेयचन्द्रिका
धर्म्यो धर्मादनपेतः । लोकधर्मप्रवृत्तिहेतुरिति यावत् । अत एव नैःश्रेयसकरः । तत्तस्मात्प्रश्नोत्तरं मे मत्तो निबोध विजानीहि ॥ ९ ॥
आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः ।
कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥
पदरत्नावली
नृणां वर्णो हंस इति हंसाभिधानः कृतयुगं पर्याप्तयुगम् ॥ १० ॥
श्रीनिवासतीर्थीया
यथेदानीं वर्णस्य ब्राह्मणादिनाम तथा कृतयुगे हंस इत्येव नाम जात्योत्पत्तिमारभ्य ॥ १० ॥
प्रमेयचन्द्रिका
आदौ कृतयुगे दिनकल्पस्यादिकृतयुगे हंस इत्येकविध एव वर्णः । आदाविति स्वरूपकथनमित्यङ्गीकृत्य प्रतिचतुर्युगसम्बन्धिकृतयुग इति पक्षे तदा वर्णचतुष्टयसद्भावेऽपि हंस इत्येकत्वं दोषहीनत्वादेकप्रकारकत्वेन विवक्षितम् । अन्यथा अशीत्युत्तरकृतयुगे सुमन्तो नाम वै द्विजः । कृते युगे राजा भविष्यतीत्याद्यनुपपत्तेरित्याह ॥ तस्मादिति ॥ कृत्यस्य सर्वस्य कृतत्वात् कृतं पूर्णं पर्याप्तम् । कृतं कृत्यमत्रयुग इति वा विवक्षितम् । सर्वं कृतमत्रेति वा कृतयुगमिति भावः
॥ १० ॥
वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।
उपासते तपोनिष्ठा हंसा मां मुक्तकिल्बिषाः ॥ ११ ॥
पदरत्नावली
अग्रे कृते प्रकृष्टो नवो भगवद्गुणानां येन स प्रणव ओङ्कारस्तद्रूपः, तद्व्याख्यानरूपो वेद एक एव न ऋगादिभेदेन विभक्तः । ‘‘ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव’’ इति श्रुतिः । तस्य विषयः क इत्यत उक्तं धर्म इति । स क इत्यतो ऽहमिति । किं विशिष्टः । वृषरूपधृक् । ‘‘चत्वारि शृङ्का त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य’’ इत्यादिश्रुतिः । एवंविधे त्वयि किं प्रमाणमत्राह– उपासत इति । हंसा इत्यस्य विवरणं मुक्तकिल्बिषा इति ॥ ११ ॥
श्रीनिवासतीर्थीया
प्रणवस्तत्प्रतिपाद्यो हरिरेक एव वेदो वेदप्रतिपाद्यः । इन्द्रादिनामान्यपि हरेरेवातो देवतात्वेना स एव पूज्यः । ब्रह्माद्यास्तदा मनुनामका हरिभक्तत्वादिनैव पूज्याः । न तु देवतात्वेन । तदा नैव ऋगादिभेदेन वेद आसीदित्याद्याथर्वणोपनिषद्भाष्ये स्पष्टम् ॥ वृषरूपेति ॥ समग्रचतुष्पादित्यर्थः । हंसा हंसनामकवर्णवत्यः प्रजाः ॥ ११ ॥
प्रमेयचन्द्रिका
॥ वेद इति ॥ वेद एकविध एव प्रमाणमित्यर्थः । एको वेदः कृते ह्यासीदिति ह्यथर्वणभाष्ये । धर्मोऽहमिति पादचतुष्टययुक्तः । संपूर्णधर्माभिमानिवृषभाकारयमान्तर्गतो धर्मनामाऽहमित्यर्थः ॥ ११ ॥
त्रेतामुखे महाभाग प्राणान्मे हृदयात् त्रयी ।
विद्या प्रादुरभूत् तस्या अहमासं त्रिवृन्मुखः ॥ १२ ॥
पदरत्नावली
अधुना त्रेतायुगे वेदादिप्रवर्तनप्रकारमाह– त्रेतामुख इति । त्रेतामुखे त्रेताप्रारम्भे । मे मम हृदयात् प्रेष्ठात् । अना सरस्वती तस्याः प्रकृष्टो विरिञ्चः (प्राणः), तस्मात् प्राणात् त्रयी त्रित्वसङ्ख्याविशिष्टत्वेन विद्या वेदविद्या प्रादुरभूत् । त्रीन् वेदान् वृण्वत इति त्रिवृतो ब्राह्मणाः, त एव मुखं द्वारं यस्य स तथा । अहं तस्या विद्याया आसम् । विप्रद्वारा त्रय्या अभिव्यक्तोऽहमित्यर्थः । विप्राणां तत्वोपदेष्टृत्वात् ॥ १२ ॥
श्रीनिवासतीर्थीया
त्रेतामुखे त्रेताप्रारम्भे मे मम हृदयात्प्रियात्प्राणाद्विरिञ्चात्त्रयी विद्या ऋगादिभेदेन त्रित्वसङ्ख्योपेततया वेदविद्या प्रादुरभूत् । तस्या विद्यायाः सकाशात् त्रीन् वेदान्वृणोतीति त्रिवृद्ब्राह्मणः स एव मुखं द्वारं यस्य स तथोक्तः । ब्राह्मणद्वारा वेदविद्यया प्रादुर्भूत इत्यर्थः ॥ १२ ॥
प्रमेयचन्द्रिका
त्रेतामुखे त्रेतोपक्रमे । हृदयं प्रियमित्युक्तमित्युक्तेर्हृदयात्प्रियात् प्राणान्मुख्यप्राणाद्ब्रह्मणः सकाशात् त्रयी ऋग्यजुःसामरूपेण त्रिविधा विद्या प्रादुरभूत् । यद्वा हृदयेति पदविभागः । ततश्च हयग्रीवरूपस्य मे प्राणाद्घ्राणाद्धृदया प्रिया त्रयी विद्या प्रादुरभूदित्यर्थः । वाचो बभूवरुशतीः श्वसतोऽस्य नस्त इति द्वितीयस्कन्धे त्रिवृन्मुखस् त्रीन्वेदान्वृण्वन्ति इति त्रिवृतो ब्राह्मणाः, त एव मुखं व्यञ्जकं द्वारं यस्य स तथा । अथवा होत्रुद्गात्रध्वर्युभिस्त्रिभिर्यज्ञाभिमानियुक्तैः। प्रवर्त्यत इति त्रिवृद्यज्ञः । स मुखे यस्य सः । त्रेतायुगे यज्ञप्रवर्तनाद्यज्ञभोक्तेत्यर्थः ॥ १२ ॥
विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः ।
वैराजात् पुरुषाज्जाता य आत्माचारलक्षणाः ॥ १३ ॥
पदरत्नावली
तव विप्रमुखत्वं किं विशिष्योच्यते क्षत्रादिमुखत्वं किं न स्यादित्याशङ्क्य मम सर्वावयवतोऽपि मुखस्य मुख्यत्वाद् वागधिकरणत्वात् तत्वज्ञापनस्य वागधिकारत्वाच्चेति भावेनाह– विप्रेति । तव कस्माद् रूपाद् विप्राद्युत्पत्तिरिति तत्राह– वैराजादिति । वैराजाद् ब्रह्मान्तर्यामिणः । ये आत्माचालक्षणाः स्वस्वविहिताचार एव लक्षणं येषां ते तथा ॥ १३ ॥
श्रीनिवासतीर्थीया
ये आत्माचारलक्षणाः स्वस्वविहिताचाररूपा ये धर्मास्तेऽपि वैराजाद्ब्रह्मान्तर्यामिणः पुरुषाद्विराट्ब्रह्मणो जाता इत्यर्थः । तस्मादाश्रमादन्ये जाता इत्यपि ग्राह्यम्
॥ १३ ॥
प्रमेयचन्द्रिका
एको वर्णः कृते आदित्रेतायुगे वर्णविभागो जात इत्युच्यते ॥ विप्रेति ॥ वर्णजनकरूपविशेषोक्तिर्वैराजादिति । ये आत्माचारलक्षणाः स्वस्वविहिताचार एव लक्षणं ज्ञापकं येषान्ते तथोक्ताः । ये इत्यस्य ते विप्रक्षत्रविट्शूद्रा इति सम्बन्धः ॥ १३ ॥
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
वक्षःस्थलाद् वने वासो न्यासः शीर्षण्यवस्थितः ॥ १४ ॥
पदरत्नावली
इदानीमाश्रमोत्पत्तिस्थानमाह– गृहाश्रम इति । वनेवासः वानप्रस्थः
॥ १४ ॥
श्रीनिवासतीर्थीया
इदानीमाश्रमोत्पत्तिस्थानमाह ॥ गृहेति ॥ तत्तदाश्रमाभिमानीदेव-स्तज्जस्तदाश्रित इति द्रष्टव्यम् ॥ १४ ॥
वर्णानामाश्रमाणां च जन्मभूम्यनुसारतः ।
आसन् प्रकृतयो नॄणां नीचैर्नीचोत्तमोत्तमाः ॥ १५ ॥
पदरत्नावली
ममावयवानां विशेषाभावेपि मन्दमतिमनुसृत्य जन्मस्थानमनुसृत्य वर्णादीनां स्वभावविशेषोऽस्तीत्याह– वर्णानामिति । प्रकृतयः स्वभावाः । स्वभावभेदा नीचादिशब्द-वाच्याश्चेत्याह– नीचैरिति । नीचप्रकृतिः शूद्रः, नीचोत्तमो वैश्यः, उत्तमः क्षत्रियः, उत्तमोत्तमः विप्रः, नीचनीचो ऽन्तेऽवसायी ॥ १५ ॥
श्रीनिवासतीर्थीया
नृणां वर्णादीनां, प्रकृतयः स्वभावाः । जन्मभूमिर्या शीर्षहृदादिरूपा तदनुसारतो नीचोत्तमोत्तमा आसन् । तत्र नीचः शूद्रः । तज्जनकपादस्य नीचत्वात् । नीचोत्तमो वैश्यस्तज्जनकोर्वोस्तथात्वात् । उत्तमः क्षत्रियस्तज्जनकबाह्वोस्तथात्वात् । विप्र उत्तमोत्तमस्तज्जनक-मुखस्य तथात्वात् । एवं जघनहृद्वक्षशीर्ष्णां नीचनीचोत्तमोत्तमोत्तमोत्तमत्वरूपत्वाद्गृहस्थाद्याश्रमा अपि तथेति मन्तव्यम् ॥ १५ ॥
प्रमेयचन्द्रिका
जन्मभूम्यनुसारत इति ॥ जन्मभूमिरूपभगवदवताराणां विशेषाभावेऽपि मन्दमत्यपेक्षयैवमुक्तमिति ज्ञेयम् । नीचैरित्यव्ययपूर्वकमेकं पदं नीचा इत्यर्थः । नीचोत्तमोत्तमा इत्यपरम् । तथा च नीचः नीचोत्तम उत्तम उत्तमोत्तम इति चतुर्धा विभागेन शूद्रादिवर्णक्रमः गृहस्थब्रह्मचारिवानप्रस्थयतिरित्याश्रमक्रमश्चेति ज्ञेयम् ॥ १५ ॥
शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।
मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥
तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः ।
स्थैर्यं ब्रह्मण्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमाः ॥ १७ ॥
पदरत्नावली
नीचैरित्यादि विप्रादिक्रमविषयं निवारयितुं विप्रादिस्वभावलक्षणमाह– शम इत्यादिना ॥ तेजः प्रभावः । बलं शक्तिः । ‘‘अर्थहानौ च बन्धूनां वियोगेष्वपि सम्पदि । तयोः प्राप्तौ च सर्वस्य चित्तस्य स्थापनं धृतिः’’ ॥ १६,१७ ॥
श्रीनिवासतीर्थीया
विप्रादिस्वभावलक्षणमाह ॥ शम इत्यादिना ॥ आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् । यद्यप्येषां सांकर्यं तथाऽपि तथा स्वसमानाधिकरणगुणानां मध्ये एतेषां प्राचुर्यं द्रष्टव्यम् ॥ १६,१७ ॥
दुर्घटभावदीपिका
ब्रह्मण्यमित्यस्य ब्रह्मण्यत्वमित्यर्थः । एतेन ब्रह्मण्यत्वमिति वक्तव्यम् । ब्रह्मण्यमिति कथनमयुक्तमिति दूषणं निरस्तम् । ब्रह्मण्यशब्दान्मत्वर्थेऽच्प्रत्ययो भवतीत्यङ्गीकृत्य ब्रह्मण्यशब्दस्य ब्रह्मण्यत्वमर्थ इत्युक्तत्वात् ॥ १७ ॥
प्रमेयचन्द्रिका
विप्रादिस्वभावलक्षणमुच्यते ॥ शमोदम इत्यादिना शूद्रप्रकृतय इत्यन्तेन ॥ सन्तोषोऽलम्बुद्धिः । क्षान्तिः क्रोधात्समुत्थितिः । उद्यमः शत्रुनिग्रहः । ऐश्वर्यमीश्वरभावः ॥१६,१७॥
आस्तिक्यं दाननिष्ठा च अदम्भो विप्रसेवनम् ।
अतुष्टिरर्थोपचये वैश्यप्रकृतयस्त्विमाः ॥ १८ ॥
पदरत्नावली
‘‘धर्माधर्मेषु विश्वासो यस्तदास्तिक्यमुच्यते । न्यायार्जितं धनं धान्यमन्यद् वा यत् प्रदीयते । अर्थिभ्यः श्रद्धया युक्तं दानमेतदुदाहृतम्’’ । अर्थोपचये अर्थार्जने । अतुष्टिर् अलम्बुद्ध्यभावः ॥ १८ ॥
श्रीनिवासतीर्थीया
अर्थोपचये द्रव्याभिवृद्धौ सत्यामतुष्टिरलम्बुद्ध्यभावः । इदमस्तीदमपि मे भविष्यति पुनर्धनमिति बुद्ध्या भाव्यमित्यर्थः ॥ १८ ॥
शुश्रूषणं द्विजगवां देवानां चाप्यमायया ।
तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ॥ १९ ॥
श्रीनिवासतीर्थीया
अमाययाऽकापट्येन । तत्र शुश्रूषणादिके कृते सति तस्मा-ल्लब्धेनान्नादिनेत्यर्थः ॥ १९ ॥
प्रमेयचन्द्रिका
अमायया निष्कापट्येन ।
अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।
कामः क्रोधश्च तर्षश्च स्वभावोऽन्तेऽवसायिनाम् ॥ २० ॥
पदरत्नावली
‘‘शौचं तु द्विविध प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां तथा बाह्यं मनःशुद्धिरथापरम्’’ इत्येतद्विपरीतमशौचम् । अनृतमयथार्थभाषणम्, जीवब्रह्मैक्यभाषणमित्यर्थः । ‘‘कर्मणा मनसा वाचा परद्रव्येषु निःस्पृहः । अस्तेयमिति सम्प्रोक्तमृषिभिस्तत्वदर्शिभिः’’ इत्येतदन्यत् स्तेयम्, परकीयब्रह्मत्वमात्मीयत्वेन वचनमित्यर्थः । शुष्कविग्रहः निष्फलः कलहः, शुक्तिरजतं निदर्शनीकृत्य जगन्मिथ्येति कथालक्षणः । कामः निषिद्धविषयाभिलाषः, लक्ष्मीपतिरहमित्याद्यभिलाष-लक्षण इत्यर्थः । क्रोधस् तत्वोक्तावसहिष्णुता । तर्षो ऽनलम्बुद्धिः, ब्रह्मगुणदूषणोक्तावित्यर्थः
॥ २० ॥
श्रीनिवासतीर्थीया
शुष्कविग्रहो व्यर्थकलहः । अन्तेवसायिनां वर्णबाह्यानाम् ॥२०,२१॥
दुर्घटभावदीपिका
भगवद्भक्तानामत एवाशौचादिदोषरहितानां वर्णबाह्यानामिति दौर्लभ्यमुच्यते न तु सर्वे वर्णा बाह्या अशौचादिदोषयुक्ता इति । अन्यथाऽन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिण इत्यादि प्रमाणविरोधः स्यादिति द्रष्टव्यम् ॥ २० ॥
प्रमेयचन्द्रिका
वर्णावरस्वभाव उच्यते ॥ अशौचमिति ॥ अन्तेऽवसायिनां बाह्यानाम् । तमोयोग्यता चैतत् । अन्ते सर्वापकर्षे स्थितानाम् । अस्मिन्पक्षे अशौचं मनःशुध्यभावः । अनृतं जीवेश्वरैक्यादिभाषणम् । स्तेयम् अन्यस्य धनाद्यपहरणम् । हरेस्तु तद्गूणानां स्वातन्त्र्यादीनामात्मीयत्वेन चिन्तनं स्तेयस् तम् । शुष्कविग्रहो ऽप्रामाणिकवादरूपः कलहः ॥ २० ॥
अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥
पदरत्नावली
साधारणधर्ममाह– अहिंसेति । ‘‘कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । ओशजननं प्रोक्तमहिंसा त्विति योगिभिः’’ । सत्यं भूतहितं प्रोक्तं न यथार्थाभिभाषणम् । असत्यमपि तत् सत्यमुत्तमानां हि यद् वचः’’ । विष्णुवैष्णवविषये द्रव्यत्यागे लोभाभावः । अन्यत्र लोभो गुणः ॥ २१ ॥
प्रमेयचन्द्रिका
सर्वसाधारणवैष्णवधर्मा उच्यन्ते ॥ अहिंसेति ॥ भूतेति ॥ भूतानां प्राणिनां प्रिये हिते पश्चादिष्टसाधने ईहा व्यापार इत्यर्थः ॥ २१ ॥
द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।
वसन् गुरुकुले दान्तो ब्रह्माधीयीत वाग्यतः ॥ २२ ॥
पदरत्नावली
आनुपूर्व्याद् अष्टवर्षं ब्राह्मणमुपनयीतेत्यादिश्रुत्या विहितप्रकारेणेत्यर्थः । उपनयनलक्षणं द्वितीयं जन्म प्राप्य । ब्रह्म त्रयीसञ्ज्ञम् । दान्त उपरतो विष्णुभक्त इत्यर्थः । वाग्यतो मितभाषणः ॥ २२ ॥
श्रीनिवासतीर्थीया
द्वितीयं जन्म । आनुपूर्व्यात्, आनुपूर्वी श्रुतिर्वेदस्त्रय्याम्नाय उच्यत इत्यभिधानाद्वेदोक्तप्रकारेणेत्यर्थः । अत एव द्विर्जायत इति द्विजः । ब्रह्म वेदम् ॥ २२ ॥
प्रमेयचन्द्रिका
ब्रह्मचर्यधर्मा उच्यन्ते ॥ द्वितीयमित्यादिना ॥ आनुपूर्व्या श्रुत्या तदुक्तप्रकारेणेति यावत् ॥ २२ ॥
मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् ।
जटिलोऽधौतदन्तश्च वासः पीठकुशान् दधत् ॥ २३ ॥
पदरत्नावली
मेखलादीन् वासआदीश्च दधत् ॥ २३ ॥
श्रीनिवासतीर्थीया
मेखला मौञ्जी । ब्रह्मसूत्रं यज्ञोपवीतम् । कमण्डलून्दधदित्यन्वयः । अधौतदन्त इति पदच्छेदः । वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोरिति वटोर्दन्तधावनाभावोक्तेः
॥ २३ ॥
दुर्घटभावदीपिका
जटिल इत्यस्य जटारूपशिखावानित्यर्थः । एतेन ब्रह्मचारिणो मुण्डनस्य विहितत्वात् । जटिल इत्यनुपपन्नमिति दूषणं परास्तम् । जटिल इत्यनेन मुण्डनं न कार्यमित्युच्यते इत्यनभ्युपगमात् ॥ २३ ॥
प्रमेयचन्द्रिका
जटिलो ऽभ्यंजनाभावेन शिखाकेशबन्धवान् । अधौतदंतः । पीठमासनम्
॥ २३ ॥
स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः ।
न छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥ २४ ॥
पदरत्नावली
स्नानादिषु वाग्यतः काष्ठमौनवान् । जपे उच्चारे मूत्रोत्सर्गे पुरीषोत्सर्जने च । ‘‘गुरुणा चोपदिष्टोऽपि वेदो ब्राह्मणवर्जितः । विधिनोक्तेन मार्गेण मन्त्राभ्यासो जपः स्मृतः । अधीत्य वेदसूत्रे वा पुराणे सेतिहासके । यज्ञेष्वध्ययनं तच्च तदभ्यासो जपः स्मृतः’’ इति
॥ २४ ॥
श्रीनिवासतीर्थीया
स्नानादिषु वासःपीठकुशान् दधदित्यन्वयः ॥ जपे उच्चारे ॥२४॥
दुर्घटभावदीपिका
नखरोमाणीत्यत्र रोमशब्देन सर्वाङ्गगतरोमाणि गृह्यन्ते । सर्वाङ्गं वापयेद्गृहीत्यादिना यथा गृहस्थस्य सर्वाङ्गगतरोमच्छेदो विहितः । एवं वाक्यान्तरेण ब्रह्मचारिणोऽपि सर्वाङ्गरोमच्छेदो विहित इति भ्रान्तिःस्यात् । तन्निरासार्थं सर्वाङ्गरोमच्छेदननिषेधः कृत इति द्रष्टव्यम् । एतेन सर्वाङ्गरोमच्छेदप्रसक्तेरेवाभावान्निषेधो व्यर्थ इति दूषणस्यानवकाशः ॥ २४ ॥
प्रमेयचन्द्रिका
उच्चारो मूत्राद्युत्सर्गः । जपश्च उच्चारश्च जपोचारं तस्मिन्जपकाले । वाग्यतो मौनी ॥ २४ ॥
रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम् ।
अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदीं जपेत् ॥ २५ ॥
पदरत्नावली
नावकिरेन् नोत्सृजेत् । ‘‘प्रसन्नगुरुणा पूर्वमुपदिष्टोप्यनुज्ञया । धर्मार्थमात्म-सिद्ध्यर्थमुपायग्रहणं व्रतम् । प्राणापानसमायोगः प्राणायम उदीरितः’’ । ब्रह्मव्रतधधरः ब्रह्मचर्य-व्रतधरः । ‘‘कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते’’ । स्वप्ने सुन्दर्यादिर्शनेन यदृच्छयारेतोऽवकीर्य अप्स्ववगाह्य निमज्य यतासुः प्राणायामोपेतस् त्रिपदी गायत्री जपेदित्यन्वयः । ‘‘स्वप्नेपि रेतःस्खलने प्रायश्चित्तं विधीयते’’ इति स्मृतेः ॥ २५ ॥
श्रीनिवासतीर्थीया
मलविसर्जनसमये नावकिरेद्बुद्धिपूर्वकं नोत्सृजेत् । अवकीर्णे स्वाप्नस्त्रीसंदर्शनेन प्रमादादवकीर्णे सति त्रिपदीं गायत्रीं शुचिर्भूत्वा ॥ २५ ॥
प्रमेयचन्द्रिका
ब्रह्मव्रतधरो ब्रह्मचर्यव्रतधरः । अवकीर्णः स्वाप्नकामिनीदर्शनादिना रेतो यदृच्छयाऽवकीर्यावगाह्य प्राणायामं कृत्वा गायत्रीं तत्प्रायश्चित्तार्थं जपेत् ॥ २५ ॥
अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुरान् नमेत् ।
समाहित उपासीत सन्ध्ये च यतवाग् जपेत् ॥ २६ ॥
पदरत्नावली
अतो देवा अवन्तु न इत्यादेरग्न्यर्कव्यतितिरक्तसुरा अपि नन्तव्या इत्यर्थः
॥ २६ ॥
प्रमेयचन्द्रिका
आचार्यो ज्ञानोपदेष्टा । गुरुरुपाध्यायः । वृद्धा बन्धुज्येष्टाः । गुरूणामपि वृद्धाः परमगुर्वादय इति वा ॥ २६ ॥
आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्याऽसूयेत सर्वदेवमयो गुरुः ॥ २७ ॥
श्रीनिवासतीर्थीया
नन्वाचार्योपासनं कस्मात्कार्यमित्यत आह ॥ आचार्यमिति ॥ मां मत्सन्निधानपात्रम् । सर्वदेवमयः सर्वसन्निधानपात्रम् ॥ २७ ॥
सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यच्चान्यदप्यनुज्ञात उपभुञ्जीत संयतः ॥ २८ ॥
श्रीनिवासतीर्थीया
तस्य गुरोर्गुरुणानुज्ञातः ॥ २८ ॥
शुश्रूषमाण आचार्यं सदोपासीत नीचवत् ।
यानशय्यासनस्थाने नातिदूरः कृताञ्जलिः ॥ २९ ॥
श्रीनिवासतीर्थीया
गुरोर्याने गमने, शय्यायामासने उपवेशने, स्थानेऽवस्थाने च सति स्वयं नातिदूरे समीपे कृताञ्जलिर्भूयात् ॥ २९ ॥
दुर्घटभावदीपिका
आचार्यं नीचवद्यानशय्यासनस्थाने । अनेनाचार्यो येन मार्गेण गच्छति तन्मार्गशोधनेन शय्यायाः शयनार्थं शय्यास्थापनेनासनेनोपवेशनार्थमासनस्थापनेनाचार्यस्थलं संमार्जनादिना शुश्रूषमाणो भवेत् । सेवासमाप्त्यनन्तरं नातिदूरे किञ्चित्समीपे कृताञ्जलिः सन् सदोपासीत तिष्ठेदिति । एतेन मार्गशोधनेनेति वक्तव्यम् । यानेनेति कथनमयुक्तमिति दूषणं निरस्तम् । गमनार्थकाद् याधातोः करणे ल्युट्प्रत्यये यानशब्दो निष्पन्नस्ततश्च यानशब्दो मार्गवाची तेन तच्छोधनं लक्ष्यत इत्यभ्युपगमात्
॥ २९ ॥
एवं वृतो गुरुकुले वसेद् भोगविवर्जितः ।
विद्या समाप्यते यावद् बिभ्रद् व्रतमखण्डितम् ॥ ३० ॥
पदरत्नावली
स्रक्चन्दनादिभोगवर्जितः । एवंवृत्त इत्येकं पदम्, उक्तसदाचारनिरत इत्यर्थः । कियन्तं कालमेवं वास इति तत्राह विद्येति ॥ ३० ॥
श्रीनिवासतीर्थीया
एवंव्रतः सदाचारयुक्तः । स्रक्चन्दनादिभोगविवर्जितः ॥ ३० ॥
यद्यसौ च्छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम् ।
गुरवे विन्यसेद् देहं स्वाध्यायार्थे बृहद्व्रतः ॥ ३१ ॥
पदरत्नावली
असौ बृहद्व्रतः ब्रह्मचारी यदि छन्दसां वेदानां लोकमारोक्ष्यन् आरोढुकामो भवति स्वाध्यायैकप्रयोजनं देहं गुरवे विन्यसेद् गुरुशुश्रूषां कुर्यादित्यर्थः । कीदृशं (लोकम्) । ब्रह्मणाऽधिकृतं विष्टं प्रविष्टं पाति रक्षतीति ब्रह्मविष्टपं सत्यलोकमित्यर्थः ॥ ३१ ॥
श्रीनिवासतीर्थीया
छन्दसां लोकं वेदाध्ययनसाध्यं लोकमारोक्ष्यन्नारोढुकामः । कोऽसौ छन्दसां लोक इत्यत उक्तम् ॥ ब्रह्मविष्टपमिति ॥ सत्यलोकमित्यर्थः । बृहद्व्रतो नैष्ठिकब्रह्मचर्यवान्
॥ ३१ ॥
दुर्घटभावदीपिका
यद्यथा वा छन्दसां वेदानां लोकमाश्रयम् । वेदप्रतिपाद्यमिति यावत् । विष्टपं सर्वेषामाश्रयं ब्रह्म नारायणाख्यं परं ब्रह्मारोक्ष्यन् प्राप्तुकामोऽसावाधिकारी बृहद्ब्रतो यावज्जीवं ब्रह्मचर्यव्रतं संकरिष्य इति सङ्कल्पवान् भूत्वा स्वाध्यायार्थं वेदाध्ययनार्थं गुरवे देहं विन्यसेद्दधाति । एतेन विद्यासमाप्त्यनन्तरं ये गृहस्थाश्रमं स्वीकुर्वन्ति तेषामपि ब्रह्मप्राप्तिकामनाया विद्यमानत्वात् । यदि ब्रह्मप्राप्तिकामस्तर्हि यावज्जीवं ब्रह्मचर्यव्रतं कुर्यात् । यदि ब्रह्मप्राप्तिकामो न भवति तर्हि विद्याप्राप्त्यनन्तरं गृहस्थाश्रमं स्वीकुर्यादिति कथनमयुक्तमिति दूषणं निरस्तम् । यदीत्यस्याथवेत्यर्थ-कत्वमङ्गीकृत्य ब्रह्मप्राप्तिकामैर्विद्यासमाप्त्यनन्तरं गृहस्थाश्रमो वा स्वीकर्तव्यः । यावज्जीवं ब्रह्मचर्यव्रतं वा स्वीकर्तव्यमिति पक्षद्वयमुच्यत इत्यभ्युपगमात् ॥ ३१ ॥
प्रमेयचन्द्रिका
छन्दसां लोकम् ॥ सर्ववेदाभिमानिसरस्वत्यधिष्टितं लोकम् । कीदृशं ब्रह्मविष्टपम् । ब्रह्मणः स्थानं सत्याख्यमिति यावत् । यदि आरोक्ष्यन् आरोढुकामो भवति । तर्हि स्वाध्यायैकप्रयोजनकं देहं गुरवे विन्यसेत् । गुरुशुश्रूषैकरतं कुर्यात् । ब्रहद्व्रतो ब्रह्मचारी ॥३१॥
अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् ।
अपृथग्धीरुपासीत ब्रह्मवर्चस्व्यकल्मषः ॥ ३२ ॥
पदरत्नावली
कस्मिन्नधिष्टानविशेषे त्वदुपासनम् । अत्राह– अग्नाविति । आत्मनि सूर्ये हृदये वा । अग्नावित्यादिसप्तम्या भेदे निर्धारितेपि सर्वथैक्येनोपास्तिर्न कर्तव्येति निश्चयार्थमाह अपृथग्-धीरिति । अयथावस्तुज्ञानं पृथग्धीर् यस्य नास्ति सोऽपृथग्धीः, अग्न्याद्यैक्यविषयमिथ्याज्ञानरहित इत्यर्थः । दृष्टफलमाह– ब्रह्मवर्चस्वीति ॥ ३२ ॥
श्रीनिवासतीर्थीया
अपृथग्धीर्भगवत्सकाशात्पृथक् विषयेषु धीशून्यः ॥ ३२ ॥
प्रमेयचन्द्रिका
आत्मनि देहे । यथावस्तु तथाऽवाह्य स पृथग्धीरुदाहृतः ॥ ३२ ॥
स्त्रीणां निरीक्षणस्पर्शसल्लापक्ष्वेलनादिकम् ।
प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् ॥ ३३ ॥
पदरत्नावली
अप्रतिपक्षस्यानुमानस्येव विहितोपासनस्याभीष्टसाध्यसिद्धौ सामर्थ्यं स्यादित्यतः प्रतिपक्षं प्रतिक्षिपति स्त्रीणामिति । क्ष्वेलनं जिह्वास्फोटो नर्मवचनं वा । स्मरणादिकमादिशब्दगृहीतम् । अगृहस्थो ब्रह्मचारी । अग्रतः प्रथमतः ॥ ३३ ॥
श्रीनिवासतीर्थीया
क्ष्वेलनं नर्मवचनम् । अगृहस्थो ब्रह्मचारी स्वस्याग्रतः पुरुषपश्वाद्याः प्राणिनो मिथुनीभूता मैथुनकरणावस्थायुक्ता दृष्टाश्चेत्तर्हि तांस्त्यजेन्नावलोकनं कुर्यात् । वर्जनं कुर्यादिति शेषः ॥ ३३ ॥
दुर्घटभावदीपिका
अग्रत इत्यस्य मुख्यत इत्यर्थः । एतेनागृहस्थः स्त्रीनिरीक्षणादिकं मुख्यतस्त्यजेदिति वक्तव्यम् । अग्रतः प्रथमतस्त्यजेदिति कथनमयुक्तमिति चोद्यं पराकृतम् । अग्रत इत्यस्य प्रथमत इत्यर्थ इत्यनङ्गीकारात् ॥ ३३ ॥
प्रमेयचन्द्रिका
क्ष्वेलनं नर्मवचनम् । आदिपदेन चेष्टाविशेषदिकम् ॥ ३३ ॥
शौचमाचमनं स्नानं सन्ध्योपासनमार्जवम् ।
तीर्थसेवा जपोऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम् ॥ ३४ ॥
सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनन्दन ।
मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः ॥ ३५ ॥
पदरत्नावली
सर्वाश्रमसाधारणधर्ममाह शौचमित्यादिना ॥ सर्वभूतेषु मद्भावः मम व्याप्तिलक्षणसत्ता ॥ ३४,३५ ॥
श्रीनिवासतीर्थीया
तीर्थसेवा, कार्येत्यादि यथायोग्यं शेषः ॥ मद्भावो मत्सत्ताज्ञानम्
॥ ३४,३५ ॥
दुर्घटभावदीपिका
अस्पृश्याभक्ष्यासम्भाष्यवर्जनमित्यस्यास्पृश्यादीनां मद्यादिसम्बन्धघटादि-पदार्थानां त्वगादिदोषयुक्तानां पुरुषाणां च । अभक्ष्याणां वृन्ताकादीनामभक्ष्यभक्षकाणां पुरुषाणां च । असम्भाष्याणां म्लेञ्च्छादीनां वर्जनमित्यर्थः । एतेन यथाऽभक्ष्यपदार्था वर्जनीयास्तथाऽभक्ष्य-भक्षकाः पुरुषा अपि वर्जनीयास्ते नोक्ता इति न्यूनतेति शङ्काऽनवकाशः । अभक्ष्यशब्दस्य अर्श आद्यजन्तत्वमङ्गीकृत्याभक्ष्यशब्देनाभक्ष्यभक्षकाणां पुरुषाणामपि ग्रहणात् ॥ ३४ ॥
प्रमेयचन्द्रिका
प्रसङ्गात्सर्वाश्रमसाधारणधर्म उच्यते ॥ शौचमित्यादिश्लोकद्वयेन ॥ सर्वभूतेषु मद्भावो मम भावना ॥ ३४,३५ ॥
एवं ब्रह्मव्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् ।
मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६ ॥
पदरत्नावली
ब्रह्मचर्यानुष्ठानफलमाह– एवमिति । तीव्रतपसा दग्धः कर्माशयः बाह्यान्तः-करणं यस्य स तथा । अत एवामलः संसारमलमुक्तो भवति ॥ ३६ ॥
प्रमेयचन्द्रिका
ब्रह्मचर्यफलमुच्यते ॥ एवमिति ॥ ३६ ॥
अथानन्तरमावेक्ष्यन् यथाजिज्ञासितागमः ।
गुरवे दक्षिणां दत्वा स्नायाद् गुर्वनुमोदितः ॥ ३७ ॥
गृहं वनं चोपविशेत् प्रव्रजेद् वा द्विजोत्तमः ।
आश्रमादाश्रमं गच्छेन्नान्यथा मत्परश्चरेत् ॥ ३८ ॥
पदरत्नावली
अथेति प्रमेयान्तरारम्भविषयः । ब्रह्मचर्याश्रमानन्तरम् आवेक्ष्यन् गृहस्थाश्रमं प्रवेष्टुकामः स्नायात् स्नातको भवेत् ॥ द्विजोत्तमेन अनाश्रमतया न स्थेयमित्याह– गृहमिति
॥ ३७,३८ ॥
श्रीनिवासतीर्थीया
अनन्तरं गृहस्थाश्रमम् आवेक्ष्यन्प्रवेष्टुकामो यथा यथावज्जिज्ञासितागमो विचारितवेदादिः । जिज्ञासितं सुसम्पन्नमिति विचारेऽपि तत्प्रयोगात् । स्नायात्स्नातकवेषं धारयेत् । तीर्थयात्रां कुर्यादित्यर्थः । तदनन्तरं गृहस्थाश्रमस्वीकारं कुर्यात् । प्रव्रजेत्संन्यासं वा गृण्हीयात् । एवमेकस्मादाश्रमादाश्रमान्तरं गच्छेत् । नान्यथाऽऽश्रमरहितो भूत्वा न चरेत् ॥ ३७,३८ ॥
दुर्घटभावदीपिका
यथा यथावज्जिज्ञासितागमोऽथ ब्रह्मचारिव्रतसमाप्त्यनन्तरमनन्तरमाश्रमं द्वितीयाश्रम् । गृहस्थाश्रममिति यावत् । अवेक्ष्यन् स्वीकर्तुकामश्चेद्गुरवे दक्षिणां दत्वा गुर्वनुमोदितः सन् स्नायादिति । एतेनाथेत्यनेनानन्तर्यस्योक्तत्वात् । अनन्तरमित्येतद्व्यर्थमिति चोद्यं निरस्तम् । गृहस्थाश्रमलाभार्थमनन्तरमित्युक्तमिति स्वीकारात् । एतेनैव ब्रह्मचर्याश्रमानन्तरं गृहस्थाश्रम-स्वीकरणनियमाभावाद् गृहस्थाश्रमं स्वीकर्तुकामश्चेदिति वक्तव्यम् । गृहस्थाश्रमं स्वीकर्तुकामः सन्निति कथनमयुक्तमिति दूषणं परास्तम् । चेदित्यस्याध्याहार इत्यभ्युपगमात् ॥ ३७ ॥
प्रमेयचन्द्रिका
अथेत्यादिनारम्भे अत्यादरतोच्यत इति योज्यम् । ब्रह्मचर्यानन्तरं गृहाश्रम-मावेक्ष्यन् प्रवेष्टुकामः स्नायात् स्नातको भवेत् । स्नातकव्रतसमाप्त्यनन्तरं गृहस्थाश्रमं वा न्यसेद्वेत्यर्थः ॥ आश्रमात्पूर्वपूर्वाश्रमान् त्यक्त्वा आश्रमान्तरं गच्छेदेव । अन्यथा आश्रमान्तराग्रहणे पूर्वाश्रमं न त्यजेदित्यर्थः ॥ ३७,३८ ॥
गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम् ।
यवीयसीं तु वयसा यां सवर्णामनुक्रमात् ॥ ३९ ॥
पदरत्नावली
गृहार्थी चेत् कीदृशीमुद्वहेदत्राह गृहार्थीति । यां सवर्णामनुक्रमादिति पाठः
॥ ३९ ॥
श्रीनिवासतीर्थीया
गृहार्थी गृहस्थाश्रमस्वीकारार्थी । यवीयसीं स्वापेक्षया वयसा नीचां यामुद्वहेत्तां सवर्णां ब्राह्मणो ब्राह्मणस्त्रियमित्यादि । अनुक्रमादिति पक्षान्तरम् । ब्राह्मणः क्षत्रियस्त्रियं क्षत्रियो वैश्यस्त्रियं वैश्यो शूद्रस्त्रियं शूद्रः शूद्रस्त्रियमेवेति ॥ ३९ ॥
प्रमेयचन्द्रिका
यां सवर्णामनुक्रमादिति ॥ या सवर्णा कन्या तामुद्वहेदित्यादौ ग्राह्यम् । असवर्णक्षत्रियादिकन्यामुद्वहेदित्यादौ ग्राह्यम् । असवर्णक्षत्रियादिकन्यामुद्वहेच्चेत्तदा सवर्णामनुसवर्णस्त्री-विवाहानन्तरमेव क्रमात्क्षत्रियवैश्यादिक्रमादुद्वहेदित्यर्थः ॥ ३९ ॥
इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् ।
प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥
प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् ।
अन्याभ्यां चैव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥
पदरत्नावली
द्विजन्मनां ब्राह्मणक्षत्रियवैश्यानाम् । इज्या यजनम् ॥ प्रतिग्रहं तपस्तेजो-यशोनुदं मन्यमानः पुरुषो ऽन्याभ्यां याजनाध्यापनाभ्यां जीवेतेत्यन्वयः । तयोर्याजनाध्यापनयोर्दोषदृक् शिलैः शिलोञ्छवृत्त्या वा जीवेत् ॥ ४०, ४१ ॥
श्रीनिवासतीर्थीया
दानानि विहितानि । सर्वेषां ब्राह्मणक्षत्रियवैश्यानाम् । याजनं चेति । सम्बन्धः । विहितमिति शेषः ॥ प्रतिग्रहं तपआदीनां नाशकरं मन्यमानोऽन्याभ्यामध्यापनयाजनाभ्यां जीवेत । तयोरध्यापनयाजनयोरपि दोषदृक् शिलोंछवृत्त्या जीवेत् ॥ ४०,४१ ॥
प्रमेयचन्द्रिका
प्रतिग्रह इति ॥ प्रतिग्रहोऽध्यापनं याजनं चेति त्रयं ब्राह्मणस्यैवेति योजना । एतत्त्रयस्य जीविकार्थस्यापि भावात् । तत्र प्रतिग्रहं तपआदिक्षयकरं मन्यमानश्चेदन्याभ्यां याजनाध्यापनाभ्यामेव जीवेत । तयोरपि दोषदृक् चेत् शिलैः क्षेत्रोलूखलादिषु निसृष्टव्रीह्यादिभि-र्जीवेतेत्यस्यार्थः ॥ ४०,४१ ॥
ब्राह्मणस्य च देहोऽयं क्षुद्रकामाय नेष्यते ।
कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥
पदरत्नावली
शिलोञ्छवृत्तेः क्लेशरूपत्वात् किमिति सा प्रशस्तेति विधीयत इति तत्राह– ब्राह्मणस्येति । क्षुद्रकामाय अल्पभोगाय ॥ ४२ ॥
श्रीनिवासतीर्थीया
ननु शिलोंच्छवृत्त्या कामपूर्तिः कथं स्यादित्यत आह ॥ ब्राह्मणस्य चेति ॥ ४२ ॥
दुर्घटभावदीपिका
हि यस्माज्ज्ञानिभिर्ब्राह्मणस्य सकाशादुत्पन्नोऽयं देहः क्षुद्रकामाय क्षुद्रविषयभोगार्थं नेष्यते । किन्तु इह कर्मभूमौ कृच्छ्राय । उपलक्षणमेतत् । कृच्छ्रचान्द्रायणादि-व्रतानुष्ठानार्थं तपसे श्रवणाद्यनुष्ठानार्थं चेष्यते । मरणानन्तरमनन्तसुखाय च मोक्षसुखायैवेष्यते । अतो ब्राह्मणदेहे प्राप्ते विषयभोगं परित्यज्य कृच्छ्रचान्द्रायणादिव्रतानुष्ठानं भगवच्छ्रवणाद्यनुष्ठानं च कृत्वा मोक्षसुखं सम्पादनीयमिति शेष इति ॥ अयं भावः ॥ ज्ञानिभिर्ब्राह्मणदेहे प्राप्ते तथैव कर्तव्यमिति । एतेन ब्राह्मणदेहे प्राप्त इत्यर्थ लाभार्थं ब्राह्मणस्य सकाशादुत्पन्नो देह इति वक्तव्यम् । ब्रह्मणस्य देह इति कथनमनुपपन्नमिति दूषणं पराकृतम् । सकाशादुत्पन्न इति पदयोः शेष इत्यभ्युपगमात् ॥ ४२ ॥
प्रमेयचन्द्रिका
शिलोंछवृत्तेः क्लेशावहत्वात्कुतोऽसौ विधीयत इत्यत उच्यते ॥ ब्राह्मणस्येति
॥ ४२ ॥
शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः ।
मय्यर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शान्तिम् ॥ ४३ ॥
पदरत्नावली
शिलोञ्छवृत्तेः सुखसाधनत्वात् सैव निषेव्येति भावेनाह– शिलोञ्छेति । शान्तिं मोक्षम् ॥ ४३ ॥
श्रीनिवासतीर्थीया
विरजं शुद्धम् । नातिप्रसक्तो गृहे ॥ ४३ ॥
प्रमेयचन्द्रिका
प्रेत्यानन्तसुखायेत्युक्तविवरणं क्रियते ॥ शिलोंछेति ॥ धर्मं भक्तिलक्षणम् । शान्तिं मोक्षं, मोक्षः शान्तिश्च शरणमित्युक्तेः ॥ ४३ ॥
समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।
तानुद्धरिष्ये नचिरादापदो नौरिवार्णवात् ॥ ४४ ॥
पदरत्नावली
अपदः पदहीनान् । आपद इति वा (पाठः) ॥ ४४ ॥
श्रीनिवासतीर्थीया
ये जनाः ॥ ४४ ॥
दुर्घटभावदीपिका
शिलोञ्छवृत्तिविशिष्टानां मोक्षो भवतीतीममर्थमत्र कैमुत्यन्यायेन साधयति । ये सीदन्तं शिलोञ्च्छवृत्त्या सीदन्तं मत्परायणं विप्रं समुद्धरन्ति । शिलोञ्छवृत्तिव्रतं यथा सम्यक् सिद्धं स्यात्तथा कुर्वन्तीति यावत् । तानहमर्णवान्नौरिवापदः संसारलक्षणापदो न चिराच्छीघ्रमुद्धरिष्ये । मोक्षं ददामीति यावत् । शिलोञ्छवृत्तिव्रतं कुर्वाणं मत्परायणं विप्रमुद्धरिष्य इति किमु वक्तव्यमिति । एतेन समुद्धरन्ति ये विप्रमिति श्लोकोऽसङ्गत इति दूषणं निरस्तम् । शिलोञ्छवृत्तिव्रतमित्यादेः शेषेण शिलोञ्छवृत्तिव्रतविशिष्टस्य विप्रस्य भक्तानामपि मोक्षो भवति । शिलोञ्छवृत्तिव्रतविशिष्टस्य विप्रस्य मोक्षो भवतीति किमु वक्तव्यमित्यर्थोऽत्रोच्यत इत्यभ्युपगमात् ॥ ४३,४४ ॥
प्रमेयचन्द्रिका
साधारणधर्मा उच्यन्ते ॥ समुद्धरन्तीति ॥ आपदः सकाशात् ॥४४॥
सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः ।
आत्मानमात्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥
एवंविधो नरपतिर्विमानेनार्कवर्चसा ।
विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते ॥ ४६ ॥
श्रीनिवासतीर्थीया
आत्मानं स्वात्मानम् । आत्मना मनसा ॥ ४५,४६ ॥
दुर्घटभावदीपिका
गजपतिः पुरुषः गजान् यथा समुद्धरति तथा धीरः पुरुष आत्मनाऽन्तः-करणेन चक्षुरादीन्द्रियैश्च सहितमात्मानं स्वदेहं समुद्धरेत् । भगवत्सेवोपयुक्तं कुर्यादिति । एतेन दृष्टान्ते समुद्धर्तव्यानां गजानां समुद्धर्तुर्भिन्नत्वाद्बहुत्वाच्च दार्ष्टान्तिकेऽपि समुद्धर्तुर्भिन्ना बहवः समुद्धर्तव्या वक्तव्याः । आत्मानमिति स्वस्यैकस्यैव समुद्धर्तव्यत्वकथनमयुक्तमिति दूषणं परिहृतम् । आत्मनेत्यस्य चक्षुरादीन्द्रियत्वोपलक्षकत्वं सहितमित्यस्य शेषमात्मानमित्यस्य स्वदेहवाचकत्वं चाङ्गीकृत्य दार्ष्टान्तिकेऽपि समुद्धर्तुर्भिन्नानां बहूनां समुद्धर्तव्यस्योक्तत्वात् ॥ ४५ ॥
प्रमेयचन्द्रिका
क्षत्रियस्यायमावश्यको धर्म इत्युच्यते ॥ सर्वा इति ॥ आत्मानम् आत्मना बुध्या । गजद्धातुस्वेच ॥ ४५ ॥
सीदन् विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत् ।
खड्गेन वा १पराक्रन्तो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
पदरत्नावली
आपद्धर्ममाह– सीदन्निति । दारिद्य्रेण सीदन् नश्यन् । वणिजां वृत्त्या कथमापत्तरणमत्राह– पण्यैरिति । आपदाक्रान्तः खड्गेन वा क्षत्रधर्मेणेत्यर्थः । श्ववृत्त्या नीचसेवया
॥ ४७ ॥
श्रीनिवासतीर्थीया
ब्राह्मणादेरापद्धर्मानाह ॥ सीदन्निति ॥ वणिजां वृत्तिं दर्शयति । पण्यैरापणं कृत्वा तत्र क्रयार्थं धान्यादिकं प्रसार्य विक्रीणनैरित्यर्थः । महापदि विशां धर्मैरित्युक्तेः । पराक्रान्तः पराक्रमयुक्तश्चेत् खड्गेन क्षत्रधर्मेण । श्ववृत्तिर्नीचसेवनम् ॥ ४७ ॥
प्रमेयचन्द्रिका
आपद्धर्मोऽभिधीयते ॥ सीदन्निति ॥ वणिग्वृत्येत्यस्य विवरणं पण्यैरिति ॥ बहुवचनमाद्यर्थे । कृषिवाणिज्यगोरक्षकुसीदैरित्यर्थः । श्ववृत्तिर्नीचसेवनम् ॥ ४७ ॥
वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययाऽऽपदि ।
चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
पदरत्नावली
वैश्यवृत्त्या गोरक्षणादिलक्षणया ॥ ४८ ॥
श्रीनिवासतीर्थीया
तथा श्राद्धादिपर्वकाल एव मृगयात्रां कृत्वा तन्मांसभक्षणं क्षत्रियैः कार्यं न सर्वदेति धर्मः । आपदि च सर्वदा मृगया जीवेत् ॥ ४८ ॥
प्रमेयचन्द्रिका
विप्ररूपेण विप्राकारेण । तद्धर्मेणेति यावत् । विप्रधर्मेण वाऽऽपदि । महापदि । विशां धर्म इत्युक्तेः ॥ ४८ ॥
शूद्रवृत्तिं भजेद् वैश्यः शूद्रो वै कारुकक्रियाम् ।
कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥
पदरत्नावली
कारुकक्रियां कटादिक्रियाम् । सम्पदि नैवेत्याह– कृच्छ्रादिति ॥ ४९ ॥
श्रीनिवासतीर्थीया
कारुकक्रियां कारुको रजकस्तत्क्रियां कटक्रियां कटादिकर्तॄणाम् । कृच्छ्रादापदः सकाशाद्गर्ह्येण निन्दनेन । पूर्वमापदि स्वीकृतेन कर्मणा ॥ ४९ ॥
वेदाध्यायी स्वधास्वाहाबल्यन्नाद्यैर्यथोदयम् ।
देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥ ५० ॥
तात्पर्यम्
‘प्रतिमावद्धरेरूपं तिर्यङ्नरसुरादयः । साक्षाद्रूपाणि मत्स्यादीन्यभिन्ना-न्येव सर्वदे’ति च ॥ ५० ॥
पदरत्नावली
गृहस्थधर्ममाह– वेदेत्यादिना । यथोदयम्, सम्पदामिति शेषः । मद्रूपाणि मत्प्रतिमास्थानीयानि । ‘‘प्रतिमावद् हरे रूपं तिर्यङ्नरसुरादयः । साक्षाद्रूपाणि मत्स्यादीन्यभिन्नान्येव सर्वदा’’ इति वचनात् ॥ ५० ॥
श्रीनिवासतीर्थीया
यथोदयं भाग्यानुसारेण । अत्र मद्रूपाणीति भूतानां मत्स्यादि-वत्साक्षाद्भगवद्रूपत्वं प्रतीयतेऽतस्तात्पर्यं प्रमाणेनाह ॥ प्रतिमावदिति ॥ तथा च मम रूपाणि प्रतिमाभूतानीत्यर्थः ॥ ५०,५१ ॥
प्रमेयचन्द्रिका
पञ्चयज्ञविधानमुच्यते ॥ वेदेति ॥ वेदाध्ययनं ब्रह्मयज्ञः । स्वधाकारेण पितृयज्ञः । स्वाहाकारेण देवयज्ञः । बलिभिर्भूतयज्ञः । अन्नादिभिर्मनुष्ययज्ञ इत्याशयेनोच्यते ॥ नृदेवेति ॥ यथायोगं सम्बन्धः । अत्र मद्रूपाणि मम स्वरूपाणीति निवारणायाह ॥ प्रतिमावदिति
॥ ५० ॥
यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा ।
धनेनापीडयन् भृत्यान् मां यजेतान्वहं विभुम् ॥ ५१ ॥
पदरत्नावली
शुक्लेन शुद्धेन ॥ ५१ ॥
प्रमेयचन्द्रिका
मूले वृत्यन्तराण्युच्यन्ते ॥ यदृच्छयेति ॥ याञ्चया विनेति यावत् । शुक्लेन शुद्धेनोपार्जितेन यायवारवृत्येत्यर्थः ॥ ५१ ॥
कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्यपि ।
विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ ५२ ॥
पदरत्नावली
मद्यजनतात्पर्ये इदमेव प्रथमं साधनमित्याह– कुटुम्बेष्विति । अदृष्टं स्वर्गादिकं दृष्टवद् गृहादिवन् नश्वरं पश्येत् ॥ ५२ ॥
श्रीनिवासतीर्थीया
अदृष्टं स्वर्गादि ॥ ५२ ॥
प्रमेयचन्द्रिका
न प्रमाद्येद् भगवद्विस्मरणरूपप्रमादं न प्राप्नुयात् । आमुष्मिकेष्वपि न सज्जेतेत्युच्यते ॥ विपश्चिदिति ॥ अदृष्टं स्वर्गादिकम् ॥ ५२ ॥
पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।
अनुदेहं भवन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥
पदरत्नावली
कुटुम्बेष्वसङ्गतया प्रवर्तनोपायमाह– पुत्रेत्यादिना । पान्थसङ्गम इति लुप्तोपमा । पान्थानां सङ्गमवत् पुत्रादीनां सङ्गम इति । एते पुत्रादयो देहमनु भवन्त्येव । अरुच्या दृष्टान्तान्तरमाह– स्वप्न इति । पान्थसङ्गमः क्वचिद् भवति क्वचिन्न, न तथा स्वप्नो ऽपि तु निद्रामनुगत एव ॥ ५३ ॥
श्रीनिवासतीर्थीया
पान्थसङ्गम इवेति लुप्तोपमा । अनुदेहं देहमनु । प्रतिदेहमित्यर्थः । निद्रानुगो निद्रानन्तरभाविस्वप्न इव ॥ ५३ ॥
प्रमेयचन्द्रिका
गृहेषु न सज्येतेत्येतद्विवरणं सयुक्तिकं क्रियते ॥ पुत्रेति ॥ पान्थसङ्गम इति लुप्तोपमा । अत्यल्पकालीन इति भावः । किञ्चित्कालमपि सुखावहत्वात्पुत्रादिसङ्ग आवश्यक इत्यतस्तत्र स्नेहरूपसङ्गाभावेऽपि स्वतस्तत्प्रयोजनलाभः स्यादिति सदृष्टान्तमुच्यते ॥ अनुदेहमिति ॥ निद्रामनुगच्छतीति निद्रानुगः । निद्रास्वप्नयोरवर्जनीयसन्निधित्वं यथेति भावः ॥ ५३ ॥
इत्थं परिमृशन् युक्तो गृहेष्वतिथिवद् वसेत् ।
न गृहैरनुबध्येत निर्ममो निरहंकृतिः ॥ ५४ ॥
पदरत्नावली
मयि मनसा युक्तः ॥ ५४ ॥
श्रीनिवासतीर्थीया
परिमृशन् विचारं कुर्वन् ॥ ५४ ॥
कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान् ।
तिष्ठेद् वनं वोपविशेत् प्रज्ञावान् वा परिव्रजेत् ॥ ५५ ॥
पदरत्नावली
आश्रमादाश्रमं गच्छेदित्येवं विधिः काल्पनिक इत्याह– कर्मभिरिति
॥ ५५ ॥
श्रीनिवासतीर्थीया
आश्रमादाश्रमं गच्छेदिति विकल्प इत्याह ॥ कर्मभिरिति ॥ प्रजावांश्चेद्भार्यां पुत्रेषु न्यस्य परिव्रजेत् ॥ ५५ ॥
प्रमेयचन्द्रिका
तिष्टेद् गृह एवेति शेषः ॥ ५५ ॥
यस्त्वासक्तमतिर्गेहे पुत्रवित्तेषणातुरः ।
स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते ॥ ५६ ॥
पदरत्नावली
एवं मुक्तिसाधनमुक्त्वेदानी संसारप्राप्तिं ततोऽनर्थं च वक्ति यस्त्विति । ममाहमित्यन्यथाज्ञानेन ॥ ५६ ॥
श्रीनिवासतीर्थीया
पुत्रवित्तेषणातुरः पुत्रवित्तविषयेच्छातुरः ॥ ५६ ॥
अहो मे पितरौ वृद्धौ भार्या बालात्मजा सती ।
अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७ ॥
पदरत्नावली
गृहाशया गृहेष्वतितृष्णया । आशा दिगतितृष्णयोरिति (अभिधानम्)
॥ ५७–५८ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य सप्तदशोऽध्यायः ॥
श्रीनिवासतीर्थीया
आतुरतामेव दर्शयति ॥ अहो इति ॥ यद्यपि वृद्धौ च मातापितरावित्याद्यस्ति तथाऽपि सज्जनपित्रादिपरं तत् । इदं तु स्वभावदुष्टपित्रादिपरं मन्तव्यम् । बालात्मजा बाला आत्मजा यस्याः सा बालात्मजा । आत्मजा अनाथाः । तदेव दर्शयति ॥ मामृत इति ॥ ५७ ॥
दुर्घटभावदीपिका
दीना इत्यस्य दीनयन्ति दुःखयन्तीति दीना इत्यर्थः । एतेन दीना इत्येतद्दुःखिता इत्यनेन पुनरुक्तमिति दूषणस्यानवकाशः । दुःखिता इत्यनेनोक्तदुःखस्यात्याधिक्य-ज्ञापनार्थं स्वनिष्ठदर्शिनामन्येषां दुःखोत्पादका इत्यर्थो दीना इत्यनेनोच्यत इत्यभ्युपगमात् ॥५७॥
॥ इति श्रीभागवतटिप्पण्यां सप्तदशोऽध्यायः ॥ ११–१७ ॥
एवं गृहाशयाऽऽक्षिप्तहृदयो मूढधीरयम् ।
अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे सप्तदशोऽध्यायः ॥
श्रीनिवासतीर्थीया
गृहाशया गृहेष्वतितृष्णया । तान् गृहादीन् ॥ ५८ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे सप्तदशोऽध्यायः ॥
प्रमेयचन्द्रिका
गृहाशया गृहेषु तृष्णया, आक्षिप्तमतिराकृष्टमनाः ॥ ५८ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां सप्तदशोऽध्यायः ॥