१६ षोडशोऽध्यायः

त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम्

॥ अथ षोडशोऽध्यायः ॥

उद्धव उवाच—

त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् ।

सर्वेषामपि भावानां प्राणः स्थित्यप्ययोद्भवः ॥ १ ॥

पदरत्नावली

अधिकारिणामनेकविधत्वेन योग्यताया उपास्तेः फलस्य च तथाविधत्वात् तदानुकूल्येन तत्तदुपासनार्थं तत्तद्गुणोपसंहाराय स्वविभूतीरुपदिशत्यस्मिन्नध्याये । तत्रोद्धवः स्वप्रश्न-प्रतिवचने तात्पर्यजननाय प्रवक्तारं कृष्णं वेदान्तवेद्यं ब्रह्म त्वदनुग्रहेण मया ज्ञातमिति वक्ति त्वं ब्रह्मेत्यादिना । साक्षात् परमं ब्रह्मत्वं तवैव, अन्येषाममुख्यमिति भावेनोक्तम् अनाद्यन्तमिति । प्रकृतेः कथञ्चिदुक्तविशेषणसम्भवेपि विकारित्वादमुख्यमिति भावेनोक्तम् अपावृतमिति । एवंविधस्य व्यावर्तकं लक्षणमाह– सर्वेषामिति । अपिरेवार्थे । त्वमेव सर्वेषां भावानां प्राणश्चेष्टकः स्थित्यप्य-योद्भवश्च सृष्टिस्थितिसंहारकर्ता । सत्ताया अपि त्वदेकाधीनत्वात् तत्त्वोक्तिः ॥ १ ॥

श्रीनिवासतीर्थीया

पूर्वमपराजितसिद्ध्युपायकथनसमये मद्विभूतीरभिध्यायन्नित्युक्तं भगवता । ता विभूतीरत्राध्याये विस्तरेण श्रोतुमुपक्रमते उद्धवस्त्वं ब्रह्मेत्यादिना ॥ रथ्यापुरुषे राजशब्द-वदिदमुपचरितं न भवतीत्याह ॥ साक्षादनुपचारेणेति ॥ अनाद्यन्तमाद्यन्तशून्यम् । अपावृतं, गतं तिरश्चीनमनूरुसारथेरित्यादाविवात्र भावे क्तः । तथा चापगतमावृतमावरणं यस्मात्तत्तथोक्तम् । प्राणः प्रकर्षेणाननं चेष्टा यस्मात्स तथा स्थितिसहितावप्ययोद्भवौ यस्मादिति बहुव्रीहिः । स्थित्यप्ययोद्भवा यस्मादिति बहुव्रीहिस्त्वनुपपन्नः । असमानाधिकरणत्वात् ॥ १ ॥

प्रमेयचन्द्रिका

अवश्यं वक्तव्यं प्रष्टुमभिमुखीकरणयोजनेन श्रीकृष्णस्तुतिः क्रियते ॥ त्वं ब्रह्मेत्यादिना ॥ साक्षान्मुख्यतो ब्रह्म निरवधिकपूर्णम् । साक्षात्स्वातन्त्र्येणापगतावरणम् । नित्यमुक्तमित्यर्थः । सर्वेषामपीत्यपिरभिव्याप्तौ । अवधारण्येव । प्राणश्चेष्टकः । स्थित्यप्ययोद्भवः । यदधीना यस्य सत्तेति न्यायेन अर्शआद्यजन्तत्वेन वा स्थित्यादिकर्तेत्यर्थः ॥ १ ॥

उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ।

उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २ ॥

पदरत्नावली

जन्मादिकर्तृत्वविशिष्टत्वेनोपास्योपि त्वमेवेत्याह– उच्चावचेष्विति । ब्राह्मणा मुनयः याथातथ्येन निर्दुःखानन्दानुभवरूपत्वेन स्थितत्वात् ॥ २ ॥

श्रीनिवासतीर्थीया

ब्राह्मणा ब्रह्माणनयोग्याः । अकृतात्मभिरशुद्धबुद्धिभिः । केशान्करो-तीत्यादौ शोधनेऽपि करोतेः प्रयोगात् । दुर्ज्ञेयम् उच्चावचेषूच्चनीचेषु भूतेषूपासते । न मिथ्योपासन-मेतदित्याह ॥ याथातथ्येनेति ॥ २ ॥

प्रमेयचन्द्रिका

प्रष्टुमुपोद्घातमाह ॥ उच्चावचेष्विति ॥ अकृतात्मभिर् अशुद्धबुद्धिभिः । ब्राह्मणा ब्रह्माण नयोग्या मुनयः ॥ २ ॥

येषु येषु च भावेषु यथा त्वां परमर्षयः ।

उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ ३ ॥

पदरत्नावली

नन्वेवमुक्तानुवादोऽस्तु, तवापेक्षितांशः क इति तत्राह– येष्विति । येषु येषु केषु केषु । यथा कथम् । तद् उपासनम् । भासनोपसम्भाषज्ञानयत्नविमत्युपमन्त्रणेषु वद इत्यतो वदस्वेत्यात्मनेपदम् ॥ ३ ॥

श्रीनिवासतीर्थीया

येषु येषु भावेषु केषु केषु पदार्थेषु । केषु केषु च भावेषु चिन्त्योऽसीत्यन्यत्रोक्तेः । संसिद्धिमपरोक्षज्ञानम् । अनन्तरं संसिद्धिं मोक्षं च ॥ ३ ॥

प्रमेयचन्द्रिका

उपासनां कुर्वाणाः ॥ ३ ॥

गूढश्चरसि भूतेषु भूतात्मा भूतभावनः ।

न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४ ॥

पदरत्नावली

बहुशृण्वतोपि मम त्वत्स्वरूपज्ञानं दुःसाधनमिति भावेनाह– गूढ इति । ते त्वया ॥ ४ ॥

श्रीनिवासतीर्थीया

भूतात्मा भूतान्तर्यामी । भूतभावनो भूतोत्पादकः । पश्यन्तं त्वाम् । ते त्वया मोहितानि भूतानि न पश्यन्ति ॥ ४ ॥

प्रमेयचन्द्रिका

ब्रह्मेत्यादि कथमुच्यते । मनुष्यधीवद्दृश्यमानत्वादित्यत उक्तम् ॥ गूढ इति

॥ ४ ॥

याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूतेः ।

ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ ५ ॥

पदरत्नावली

स्वप्रश्नं विशिनष्टि याः काश्चेति । महाविभूतेर् ब्रह्मादिदेवाद्यचिन्त्यैश्वर्यस्य । त्वत्सन्निधानविशेषात् स्वजात्युत्तमा यास्ता विभूतीराख्याहीत्यन्वयः । तेत्वया अनुभाविता निश्चिताः । यद्वा ते तव विभूतीर् अनुभाविता उपासिताः, महद्भिरिति शेषः । हे तीर्थपद ॥ ५ ॥

श्रीनिवासतीर्थीया

एवं तं प्रशस्याभिप्रेतं पृच्छति ॥ या इति ॥ हे तीर्थपद तीर्थेषु शास्त्रेषु प्रतिपाद्यं पदं स्वरूपं यस्य स तथा तस्येयं सम्बुद्धिः । यद्वा भागीरथ्यादितीर्थपदं यस्येति । महाविभूतेस्ते तावकाः काश्चन भूम्यादौ विद्यमाना विभूतयो याश्चानुभाविता उपासिताः । महद्भिरिति शेषः । ता आख्याहीत्यर्थः । आख्याने सति कस्त्वदुपकार इत्यत उक्तम् ॥ तेऽङ्घ्रिपद्मं नमा-मीति । न तु प्रतिकर्तुं शक्नोमीत्याशयः ॥ ५ ॥

दुर्घटभावदीपिका

ते त्वयाऽनुभाविता अनुभवेन विषयीकृता महाविभूतेस्तव भूमौ दिवि रसायां दिक्षु या विभूतयो वर्तन्ते तास्तासां मध्ये वै ज्ञानिप्रसिद्धाः काश्च काश्चन विभूतिर्मह्यमाख्याहि । तेऽङ्घ्रिपद्मं नमामीति । एतेन काश्चेति व्यर्थमिति दूषणं परास्तम् । भूम्यादौ विद्यमानानां सर्वविभूतीनां श्रोतुमशक्यत्वात्काश्चेत्युक्तमित्यभ्युपगमात् ॥ ५ ॥

प्रमेयचन्द्रिका

स्वकृतप्रश्नविवरणं क्रियते ॥ याः काश्चेति ॥ अनुभाविता अनु स्वस्वयोग्यानुसारेण ध्याताः । ते तव विभूतीः, हे तीर्थपद ते अङ्घ्रिपद्ममिति सम्बन्धः ॥५॥

श्रीभगवानुवाच—

एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर ।

युयुत्सुना विशसने सपत्नैरर्जुनेन वै ॥ ६ ॥

पदरत्नावली

परिहरति एवमिति । युयुत्सुना योद्धुकामेन । विशसने युद्धे ॥ ६ ॥

श्रीनिवासतीर्थीया

गिरीणामप्यहं मेरुरित्यादिना भूमिष्ठा विभूतय उच्यन्ते । तपतां द्युमतां सूर्यमित्यादिना दिविष्ठा विभूतय उच्यन्ते । सर्पाणामस्मि वासुकिरित्यादिना रसादिस्था विभूतय उच्यन्ते । ऐरावतं गजेन्द्राणामिति दिग्गजस्थेत्युक्त्या दिक्षु स्थिता विभूतय उच्यन्ते । इति युक्तमेव प्रश्नकरणमिति मन्तव्यम् । एतत्प्रश्नं पृच्छत इति प्रश्नं प्रष्टव्यं प्रमेयमुद्दिश्य । प्रश्नविदां पृष्टव्यार्थविदां वरोद्धव । विशसने युद्धे सपत्नैर्वैरिभिर्युयुत्सुना युद्धमिच्छताऽर्जुनेन पृष्टोऽभवमित्यर्थः ॥ ६ ॥

प्रमेयचन्द्रिका

परिहरति ॥ एतदिति ॥ एतद् एतं प्रश्नं प्रष्टव्यमर्थं प्रति पृष्टः युयुत्सुना योद्धमिच्छुना वीरासने युद्धे सपत्नैः शत्रुभिः ॥ ६ ॥

ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्म्यं राज्यहैतुकम् ।

ततो निवृत्तो हन्ताऽहं हतोऽयमिति लौकिकः ॥ ७ ॥

पदरत्नावली

किमभिप्रायेण पृच्छतीति तत्राह– ज्ञात्वेति । ततो युद्धात् । कीदृशः । अहं हन्ता अयं हत इति निरूप्य । लौकिकः बहिर्जनस्वभावोऽज्ञ इत्यर्थः ॥ ७ ॥

श्रीनिवासतीर्थीया

राज्यहैतुकं राज्यनिमित्तकं ज्ञातिवधं गर्ह्यं निन्दितम् । अधर्म्यमधर्महेतुभूतं ज्ञात्वा । ततो युद्धात् । कथम्भूतः । मम स्वातन्त्र्यमज्ञात्वाऽहं हन्ताऽयं मया हतः पापभागी स्यामिति लौकिको बहिर्जनस्वभावोऽर्जुनः ॥ ७ ॥

दुर्घटभावदीपिका

अर्जुनोऽहं हन्ताऽयं मया हत इति ज्ञानेन लौकिको लोकसदृशः । लोकवन्मिथ्याज्ञानविशिष्टः सन्निति यावत् । राज्यहेतुकं राज्यस्य हेतू राज्यहेतुरेव राज्यहेतुकस्तं राज्यहेतुकं राज्यकारणमपि ज्ञातिवधं गर्ह्यं शास्त्रनिषिद्धमधर्ममधर्मसाधनं ज्ञात्वा ततो ज्ञातिवधान्निवृत्त इति । एतेनाहं हन्ता मया हतोऽयमिति ज्ञानेन लौकिक इति वक्तव्यम् । हन्ता हतोऽयमिति लौकिक इति कथनमयुक्तमिति शङ्का परास्ता । ज्ञानेनेत्यस्याध्याहार इत्यङ्गीकारात् । एतेनैव लोकसदृश इति वक्तव्यम् । लौकिक इति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । लोकशब्दात्तस्येदमित्यर्थे ठक्प्रत्यये लौकिकेति रूपं निष्पन्नमित्यङ्गीकृत्य लौकिक इत्यस्य लोकसम्बन्धीत्यर्थः । लोकसदृश इति तु तात्पर्यार्थ इत्यभ्युपगमाच्च । एतेनैव ज्ञातिवधो राज्यकारणमिति ज्ञानस्य ज्ञातिवधप्रकृतिकारण-त्वेन निवृत्तिकारणत्वाभावाज् ज्ञातिवधं राज्यहेतुकं ज्ञात्वा ज्ञातिवधान्निवृत्त इति प्रतिपादनमयुक्तमिति दूषणस्यानवकाशः । अपिशब्दस्याध्याहारेण यद्यपि ज्ञातिवधो राज्यकारणमतः प्रवृत्तिः कर्तव्या । तथाऽपि ज्ञातिवधः शास्त्रविहितो भवतीति हेतोरधर्मसाधनमिति ज्ञानान्निवृत्त इत्युच्यत इत्यभ्युपगमात्

॥ ७ ॥

प्रमेयचन्द्रिका

नारायणद्विट्तदनुबन्धिनिग्रहः परमो धर्मः । तत्कथं तथाभूताद्युद्धान्निवर्त्तत इत्यत उक्तम् ॥ हन्ताऽहमिति ॥ लौकिकोऽज्ञः । नायं हन्ति न हन्यत इत्यादिना हरेरेव स्वातन्त्र्यस्य प्रमितत्वाद्धन्ताऽहमिति मन्यमानोऽज्ञ इति भावः ॥ ७ ॥

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः ।

अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८ ॥

श्रीनिवासतीर्थीया

मे मया रणमूर्धनि प्रतिबोधितो गीतायामध्यायनवकेन प्रतिबोधितः सन् यथा त्वं भाषसे । त्वं ब्रह्मेत्यादि एवं मामभि प्रत्यभाषत । परं ब्रह्म परं धाम पवित्रं परमं भवान् । वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय इत्याद्यभाषत । तं प्रत्यहं यदवदं तत्ते वदामीति वाक्यशेषः ॥ ८ ॥

अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।

अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९ ॥

तात्पर्यम्

‘सृष्टिस्थित्यादिहेतुत्वाद्भूतानि हरिरुच्यते । न तु भूतस्वरूपत्वात्स हि सर्वेश्वरेश्वर’ इति वस्तुतत्त्वे ॥ ९ ॥

पदरत्नावली

आत्मा सर्वगुण ईश्वरोहममीषां भूतानां सुहृद् अनुपकृतबुन्धुः । कुत इति तत्राह– अहमिति । नन्वियमुक्तिरैक्यात् किम् । तत्राह– तेषामिति । ‘‘सृष्टिस्थित्यदिहेतुत्वाद् भूतानि हरिरुच्यते । न तु भूतस्वरूपत्वात् स हि सर्वेश्वरेश्वरः’’ इति वस्तुतत्वे । एतस्मात् प्रमाणात् सृष्ट्यादिहेतुत्वात् तदधीनत्वादैक्योक्तिर्न तु स्वरूपैक्यादिति भावः ॥ ९ ॥

श्रीनिवासतीर्थीया

तदेवाह ॥ अहमात्मेत्यादिना ॥ आत्माऽन्तर्यामी । सुहृद-निमित्तबन्धुः । नन्वत्राहं सर्वाणि भूतानीत्यभेदमुक्त्वा तेषां स्थित्यादि विरुद्धं कथमुच्यते । न हि स्वस्य स्वयमुद्भवादिकर्तेत्यतोऽहं सर्वाणि भूतानीत्यत्र स्थित्यादीत्येतद्धेतुकथनपरमित्यतो न दोष इत्यत आह ॥ सृष्टीति ॥ आदिपदादप्ययः । भूतानि हरिरुच्यतेऽहं सर्वाणि भूतानीति मूल इत्यर्थः । भूतस्वरूपत्वं कुतो नेत्यतस्तत्र हेतुतयेश्वरमित्युक्तमित्याशयेनाह ॥ स हीति ॥ तथा च यतोऽहं तेषां भूतानां स्थितिसहितोद्भवाप्ययकर्ताऽतोऽहं सर्वाणि भूतानीति व्यपदेशः । ननु भूताभेदात्कुतो नेत्यतो विरुद्धधर्माधिकरणत्वादभेदो न युक्त इत्याशयेनोक्तमीश्वर इतीति श्लोकयोजना द्रष्टव्या ॥ ९ ॥

प्रमेयचन्द्रिका

अहं गतिरित्यादिना विभूतीर्वक्तुं सर्वत्राहमिति सामानाधिकरण्येन प्रसक्तैक्यभ्रमव्युदासाय सर्वस्वामित्वसुहृत्वसत्ताप्रदत्वादिना निमित्तेन सामानाधिकरण्यव्यपदेशो न तु तादात्म्येनेत्याशयेनोच्यते ॥ अहमात्मा स्वामीति ॥ अत्रोक्ताभिप्रायं विवृण्वन् अहं सर्वाणि भूतानि अहमेव स्थित्यादिरिति प्रातीतिकार्थनिवारणाय प्रमाणेन तदर्थमाह ॥ सृष्टीति ॥ एतेन मूले स्थित्युद्भवाप्यय इति हेतुगर्भविशेषणमिति सूचयति । भूतैक्यमेव किं न स्यादित्यत उक्तम् ॥ स हीति ॥ ९ ॥

अहं गतिर्गतिमतां कालः कलयतामहम् ।

गुणानामप्यहं सौम्यं गुणिन्यौत्पत्तिको गुणः ॥ १० ॥

गुणिनामप्यहं सूत्रं महतां च महानहम् ।

सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११ ॥

तात्पर्यम्

स्वस्वजात्युत्तमत्वं तु भवेद्यद्रूपसन्निधेः । विभूतिरूपं तत्प्रोक्त-मिन्दिरादिषु संस्थितम् । तथा बहिः स्थितं रूपं विभूतीत्येव शब्दितम् । सर्वसाधारणं रूपमन्तर्यामीति चोच्यते । यथा कृष्णात्मना दुष्टहन्ता व्यासात्मना समः । असमोऽप्येकरूपोऽपि सामर्थ्यात्पुरुषोत्तम’ इति च ॥

ब्रह्मरुद्रेन्द्रजीवेभ्यः पृथगेव व्यवस्थितम् । विभूतिरूपं विष्णोस्तु तद्गश्रेष्ठ्यैककारणम् । तदेव ब्रह्मरुद्रादिनामभिर्वाच्यमञ्जसा । तदेव देवेष्विन्द्रोऽस्मि तथा रुद्रेषु शङ्करः । इत्यादिनोक्तं कृष्णेन नेन्द्राद्या जीवसञ्चया’ इति गीताकल्पे ॥ गतिर्ज्ञानम् । ‘प्रधानो ज्ञानिनां ब्रह्मा ज्ञानमानी हृदि स्थितः । स एव कालमानी तु संहर्तॄणां प्रभुः स्मृत’ इति विभूतौ ॥ ‘आनन्दानुभवस्तूम उत्कृष्टानुभवात्स्मृतः । तद्युक्तत्वं यथा सौम्यं गुणा-नामधिकं हि तत् । भक्त्यादिगुणपूगोऽपि दुःखहेतुत्वभावनात् । निष्फलो भवति ह्यद्धा प्रीतस्य सफलो भवेत् । तस्मादानन्दमानं तु गुणेषूत्कृष्टमुच्यते । तस्याभिमानी ब्रह्मैको भक्तिज्ञानादिकस्य च । श्रद्धाभिमानिनी देवी तथैव तु सरस्वती । तदन्येषां गुणानां तु तदन्ये विबुधाः स्मृताः । गुणानां तु प्रभुर्ब्रह्मा तस्मादेकश्चतुर्मुखः । औत्पत्तिकगुणो नाम शुभप्राप्त्यैकयोग्यता । तस्याभिमानी प्राणस्तु स हि सर्वगुणाधिक’ इति च । गुणिनां मध्ये गुणिनि स्थितमौत्पत्तिकगुणरूपं सूत्रमित्यर्थः । ‘गुणिनां गुणयोग्यत्वं यत्सर्वगुणिषु स्थितम् । वायुस्तदभिमान्येकः सर्वगुण्यधिकस्तत’ इति प्रभञ्जने । रूपान्तरत्वादेकस्यापि बहुस्थानेषु प्राधान्योक्तिर्नो विरुध्यते । गुणान्तरोक्तेश्च ‘रामः शस्त्रभृतां वृष्णीनां वासुदेव’ इत्यादिवत् ॥ १०,११ ॥

पदरत्नावली

विभूतीराह– अहं गतिरिति । गतिमतां ज्ञानवतां गतिर्ज्ञानमहम् । ज्ञानं ज्ञानवतामहमिति । तद्वत्सु नित्यसन्निहित इत्यर्थः । कलयतां संहरतां कालः कालाभिमानी ब्रह्मा । ‘‘स्वस्वजात्युत्तमत्वं तु भवेद् यद्रूपसन्निधेः । विभूतिरूपं तत् प्रोक्तमिन्दिरादिषु संस्थितम् । तथा बहिः स्थितं रूपं विभूतीत्येव शब्दितम् । सर्वसाधारणं रूपमन्तर्यामीति चोच्यते । यथा कृष्णात्मना दुष्टहन्ता व्यासात्मना समः । असमोऽप्येकरूपोपि सामर्थ्यात् पुरुषोत्तमः’’ । इत्यनेन विभूतीनां भगवद्रूपसन्निधानात् स्वजात्युत्तमत्वादिकं निर्णीतम् । ‘‘ब्रह्मरूद्रेन्द्रजीवेभ्यः पृथगेव व्यवस्थितम् । विभूतिरूपं विष्णोस्तु तद्गश्रैष्ठ्यैककारणम् । तदेव ब्रह्मरुद्रादिनामभिर्वाच्यमञ्जसा । तदेव देवेष्विन्द्रोऽस्मि तथा रुद्रेषु शङ्करः । इत्यादिनोक्तं कृष्णेन नेन्द्राद्या जीवसञ्चयाः’’ इत्यनेन ब्रह्मादिभ्यो भिन्नं तन्नामकत्वेनोच्यत इति विभूतिरिति ज्ञातव्यम् । ‘‘प्रधानो ज्ञानिनां ब्रह्मा ज्ञानरूपी हृदि स्थितः । स एव कालमानी तु संहर्तॄणां प्रभुः स्मृतः’’ इति वचनाद् युक्तम् ।

गुणानां मध्ये सौम्यमहम् । उमेनानन्दानुभवेन सहितः सोमः, तस्य भावः सौम्यम् । ‘‘आनन्दानुभवस्तूम उत्कृष्टानुभवात् स्मृतः । तद्युक्तत्वं तथा सौभ्यं गुणानामधिकं हि तत् । भक्त्यादिगुणपूगोपि दुःखहेतुत्वभावनात् । निष्फलो भवति ह्यद्धा प्रीतस्य सफलो भवेत् । तस्मादानन्दमानं तु गुणेषूत्कृष्टमुच्यते । यस्याभिमानी ब्रह्मैको भक्तिज्ञानाधिकस्य च । श्रद्धाभिमानिनी देवी तथैव तु सरस्वती । तदन्येषां गुणानां तु तदन्ये विबुधाः स्मृताः । गुणानां तु प्रभुर्ब्रह्मा तस्मादेकश्चतुर्मुखः’’ इत्युक्तेः । आनन्दमानं हरिरानन्द इति ज्ञानमित्यर्थः । गुणिनां मध्ये गुणिनि स्थितो य औत्पत्तिको गुणः सूत्रं वायुः, सोऽहमित्यर्थः । अपिशब्दः सूत्रस्यौत्पत्तिकगुणाभिमानित्वं समुच्चिनोति । तदुक्तम् ‘‘ओैत्पत्तिकगुणो नाम शुभप्राप्त्यैकयोग्यता । तस्याभिमानी प्राणस्तु स हि सर्वगुणाधिकः’’ इति । ‘‘गुणिनां गुणयोग्यत्वं यत् सर्वगुणिषु स्थितम् । वायुस्तदभिमान्येकः सर्वगुण्यधिकस्ततः’’ इति च । महतां स्थूलानां महान् महत्तत्वम् ॥ १०–११ ॥

श्रीनिवासतीर्थीया

विभूतीराह ॥ अहं गतिरित्यादिना । नन्विदं कथं विभूतिरूपम् । आदित्यादीनामहं विष्णुरित्यादौ विष्ण्वादीनामपि विभूतिरूपत्वमुच्यते । उभयत्रापि विभूतित्वं किमेकप्रकारमित्याशङ्कायामादौ विभूतिरूपस्वरूपं तावदाह ॥ स्वस्वेति ॥ तदेतादृशं विभूति-रूपमिन्दिरादिषु संस्थितं बहिःस्थितं कृष्णादि । सर्वजीवनियामकं भगवद्रूपमस्ति । तदपि किं विभूतिरूपमित्याशङ्कायां नेत्याह ॥ सर्वेति ॥ चशब्द एवार्थे । सर्वसाधारणं यद्रूपं तदन्त-र्यामीत्येवोच्यते । न तु विभूतिरूपमित्येव योज्यम् । न तु सर्वसाधारणान्तर्यामिरूपस्यापि विभूति-रूपत्वोक्तिपरतया व्याख्येयम् । तथात्वे श्वपचादीनां सर्वेषामपि विभूतिरूपत्वप्राप्त्या वन्द्यतापत्तेः । नन्वेकं रूपं स्वसन्निधानेन सजातीयश्रैष्ठ्यसम्पादकमपरं बहिष्ठमित्युक्ते बहिष्ठस्य स्वसन्निधानेन सजातीयश्रैष्ठ्यसम्पादकत्वाभावप्राप्त्या भगवद्रूपयोर्भेदापत्तिरित्याशङ्कां स्पष्टदृष्टान्तोक्त्या परिहरति ॥ यथेति ॥ दुष्टानां दुर्योधनादीनां हन्तेत्युच्यते । वस्तुतः कृष्णेनैकरूपोऽप्यत एवासमोऽपि । पाण्डवेष्वेव स्नेहसद्भावात् । कौरवपाण्डवपक्षयोरसमोऽपि व्यासात्मनोभयोरपि सम इत्युच्यते । लोकदृष्ट्येत्यर्थः । अभिन्ने कथमेवं भाव इत्यत उक्तम् ॥ सामर्थ्यादिति ॥ अघटितघटक-शक्त्येत्यर्थः । तथा च तथा व्यासे दुष्टहन्तृत्वसद्भावेऽपि कृष्णेऽपि समत्वसद्भावे यथा भेदेन व्यवहारस्तथा विभूतिरूपयोरपीति भावः ।

ननु स्वस्वजात्युत्तमत्वमित्यादिनोक्तं भगवद्रूपस्यैव विभूतिरूपत्वमयुक्तम् । देवानामस्मि वासवः । रुद्राणां शङ्कर इत्यादाविन्द्ररुद्रादिजीवानामेव कृष्णेन विभूतिरूपताया एवोक्तत्वादित्यतस्तत्तात्पर्यमाह ॥ ब्रह्मेति ॥ व्यवस्थितं ब्रह्मादिजीवेषु । तद्गतं ब्रह्मादिगतं यच्छै्रष्ठ्यं तस्य मुख्यतः कारणम् । अञ्जसा मुख्यया वृत्त्या । तदेव विभूतिरूपं तदेव ब्रह्मादिस्थितं यच्छब्दवाच्यं रूपं तदेव । गतिर्गति-मतामित्येतत्क्रियावतां क्रियेत्यसङ्गतिपरिहाराय व्याचष्टे ॥ गतिरिति । तथा च गतिमतां ज्ञानवतां पुंसां विद्यमाना ये गुणा भक्त्याद्यास्तेषां मध्ये गतिर्ज्ञानं ज्ञानाख्यो गुणः श्रेष्ठस्तच्च ज्ञानमहं ज्ञानस्थं ज्ञाननामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपमन्तर्यामिरूपातिरिक्तं तस्मिन्नस्तीत्यर्थः । तथा कलयतां संहारकारणानां कालकर्मादृष्टानां मध्ये कालः श्रेष्ठः स च कालोऽहं कालस्थं कालनामकं संहर्तृत्वेन स्वस्वजातीयकर्माद्यपेक्षया श्रैष्ठ्यापादकं मम विभूतिरूपमस्तीति योज्यमित्येवं जडेष्वपि स्वरूपोत्तमत्वपरतया व्याख्येयम् । जडेष्वपि स्वरूपोत्तमत्वस्य स्पष्टं भाष्यादावुक्तत्वात् । तथा हि । भाष्ये ॐकाराथशब्दप्रयोगनियत्या किं प्रयोजनमिति शङ्कापरिहाराय स्वरूपाधिक्यं चास्तीत्युच्यते । सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ । ओङ्कारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमादिति । व्याख्यातं च तत्वप्रकाशिकायाम् । प्रथमं निःसृतावतः स्वरूपोत्तमौ । यत्स्वजातौ प्रथमं हरेर्निःसरति तत्तत्रोत्तममिति न्यायोऽत्रानुसन्धेय इति । तथा चैवं स्पष्टं जडेषु स्वरूपोत्तमत्वस्य प्रतिपादनादिमं प्रकारं विहाय जडेषूत्तमत्वादेरभावाच्चेतनेष्वेव तस्य भावादभिमानिविवक्षाऽऽवश्यकीति ज्ञानाद्यभिमानिनं दर्शयति । प्रधान इतीत्यवतार्य व्याख्यानमसांप्रदायिकमित्युपेक्ष्यम् । तस्मा-दित्थमवतार्यम् । न केवलं जडेष्वेव स्वरूपोत्तमत्वापादकं विभूतिरूपमस्तीति गतिरित्यादेर्व्याख्यानम् । किं नामाभिमानिविवक्षया प्रकारान्तरेणापि योजना कार्येति प्रमाणेनाह ॥ प्रधान इति ॥ ज्ञानिनां हृदिस्थितः । ज्ञानिनां यत्ज्ञानं तदभिमानी यो ब्रह्मा स प्रधानो ज्ञान्युत्तमः । ज्ञानिनामिति गतिमतामित्यस्यार्थः । ज्ञानमानीत्युक्त्याऽभिमान्यधिकरणन्यायेन ज्ञानशब्दो ब्रह्मणि मुख्य इति सूचितम् । स एव ब्रह्मैव कालमानीति कालशब्दस्य ब्रह्मणि प्रवृत्तौ निमित्तम् ।

कलयतामित्यस्यार्थः ॥ संहर्तॄणामिति ॥ तथा च गतिमतां ज्ञानिनां मध्ये गतिर्ज्ञानं ब्रह्मा श्रेष्ठः। सा च गतिः । अहं ब्रह्मस्थं ब्रह्मनामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपमस्ती-त्यर्थः । तथा कलयतां संहर्तॄणां यमादीनां मध्ये कालो ब्रह्मा श्रेष्ठः । स च कालोऽहम् । कालनामके ब्रह्मणि स्थितं तन्नामकं तद्गतश्रैष्ठ्यापादकं मम विभूतिरूपमत्रास्तीत्यर्थो द्रष्टव्यः । गुणानामप्यहं सौम्यमित्युक्तसौम्यशब्देन को गुणः कथ्यत इति न प्रतीयत इत्यत आह ॥ आनन्देति ॥ उम इत्युच्यते । कथमित्यत आह ॥ उत्कृष्टेति ॥ उत्कृष्टस्यानुभवत्वादित्यर्थः । उशब्द उत्कृष्टवाची । सर्वपदार्थानां मध्ये आनन्दस्यैवोत्कृष्टत्वेन योग्यतयाऽऽनन्दस्येति सम्बन्धः । मशब्दो माङ् मान इत्यनुभववाची । तथा चोत्कृष्टस्यानन्दस्यानुभव उमस्तद्युक्तः पुमान् सोमस्तद्युक्तत्वं तस्य भाव इत्यर्थः । तस्यानन्दानुभवयुक्तस्य भावो धर्मः । आनन्दानुभव एव सौम्यं तद्गुणानां भक्त्यादीनां मध्येऽधिकमित्यर्थः। नन्वत्र सर्वगुणापेक्षयाऽधिकतयोच्यमान आनन्दानुभवः को विवक्षितः । न तावद्वैषयिकः । तस्य भक्त्यादिगुणोत्तमत्वस्य बाधितत्वात् । नापि मौक्तः । वक्ष्माणान्वय-व्यतिरेकयोस्तत्र बाधितत्वादिति चेत् । उच्यते । अस्त्यत्र सम्प्रदायविशेषः । स्वस्य सद्गुरूपसम्पत्त्या तदुपदेशेन भगवद्भक्तिसदाचारादिसद्गुणसंपत्तौ सत्यां मम सद्गुरुसंपत्त्यादिना भक्त्यादिकं मया प्राप्तमतः परं मम मोक्षो भविष्यत्येव । मदीयं जन्म जन्मान्तरीयं पुण्यमद्य फलितमित्येवं सन्तोषविशेषवान् भवति । स आनन्दानुभवोऽत्र गुणोत्तमतया सौम्यशब्देन विवक्षितः । एतादृशानन्दानुभवस्योत्तमत्व-मन्वयव्यतिरेकाभ्यामुच्यते ॥ भक्त्यादीति ॥ भक्त्यादिगुणानां पूगः समूहो निष्फलोऽमोक्षफलकः । प्रत्युतान्धन्तमःफलकश्च भवति । कदा दुःखहेतुत्वभावनान्मम सद्गुरुसम्पत्त्या भक्त्यादिकं मया लब्धमित्येवं सन्तोषं विहाय कुत्रत्योऽयं गुरुर्मया प्राप्तस्तदुपदेशेन प्राप्तं स्नानादिसदाचारभक्त्यादिकमतीव दुःखहेतुभूतं कुत्रत्यो मोक्ष इत्येवं भक्त्यादिगुणपूगस्य दुःखहेतुत्वभावनात् । निष्फलो भवति । प्रीतस्योक्तसन्तोषविशेषयुक्तस्य सफलो भक्त्यादिगुणपूग इति वर्तते । उपसंहरति ॥ तस्मादिति ॥ एवं भक्त्यादिगुणपूगस्य सन्तोषापरपर्यायानन्दानुभवराहित्ये निष्फलत्वदर्शनात् । तत्साहित्ये सफलत्व-दर्शनादित्यर्थः । आनन्दमानम् आनन्दस्य मानमनुभवः । मानं ज्ञानं लयश्चेति मर्यादा चापि कथ्यत इत्यभिधानात् । तथा च गुणानां भक्त्यादिगुणानां मध्ये सौम्यमानन्दानुभवरूपो गुणश्रैष्ठ्यस्तच्चाहं तस्मिन् गुणे स्थितं तन्नामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपं तत्रास्तीति योज्यम् ।

एवं जडेषूत्तमत्वाभिधायकतापरतया मूलं योजयित्वाऽभिमानिपरतयाऽपि योजनां प्रमाणशेषेणाह ॥ तस्येति ॥ आनन्दानुभवरूपगुणस्य श्रद्धाभिमानिनी सरस्वती देवी तथैव श्रद्धाया इव भक्तिज्ञानादिकस्य चाभिमानिनीति योज्यम् । तदन्येषां भक्त्यादिव्यतिरिक्तशमदमादिगुणानाम् । तदन्ये सरस्वत्यन्ये । उपसंहरति ॥ गुणानामिति ॥ तस्मादित्यादौ योज्यम् । गुणानामभिमानिनी । एवशब्दस्य मुख्यत्वात्सरस्वतीविबुधानामित्यर्थः । तथा च गुणानां तदभिमानिसरस्वतीविबुधानां सकाशात्सौम्यं तद्गुणाभिमानी ब्रह्मोत्तमः । तच्चाहं ब्रह्मणिस्थं ब्रह्मनामकं तस्य सजातीयश्रैष्ठ्यापादकं मम विभूतिरूपं तस्यास्तीत्यर्थः ।

गुणिन्यौत्पत्तिको गुण इत्यत्रौत्पत्तिकगुणशब्दार्थमाह ॥ औत्पात्तिको गुणो योग्यतारूपो गुणः श्रेष्ठः । स चाहं तस्मिन् गुणे स्थितं तन्नामकं तस्य श्रैष्ठ्यापादकं मम विभूतिरूपं तत्रास्तीत्यर्थ उक्तो भवति । अभिमानिविवक्षया योजनानन्तरं सूचयति ॥ तस्येति ॥ योग्यतारूपगुणस्य । स हि प्राणः सर्वैर्गुणैरधिकः सर्वापेक्षया गुणैरधिक इति वा । विवक्षापक्षे प्रामाणेन योजनां सूचयित्वा स्ववाक्येन स्पष्टं दर्शयति ॥ गुणिनामिति ॥ तथा च गुणानामित्येतदत्राप्यन्वेतीति सूचितम् । सूत्रं प्राणः । तथा च गुणानां तदभिमानिविबुधानां मध्ये गुणिनि स्थित औत्पत्तिको नाम यो गुणस्तदभिमानी सूत्रनामको वायुः स श्रेष्ठः स चाहं तत्र स्थितं तन्नामकं तद्गतश्रेष्ठ्यैककारणं मम विभूतिरूपं तत्रास्तीति योज्यम् । अस्यां योजनायां प्रमाणमाह ॥ गुणिनामिति ॥ गुणिनां मध्ये सर्वगुणिषु स्थितं यद्गुणयोग्यत्वं गुणः शुभधर्मस्तद्योग्यत्वं तत्प्रतियोग्यत्वम् । शुभप्राप्त्यैकयोग्यतारूपो गुण इति यावत् । तदभिमानी वायुरित्यर्थः ॥

गुणिनामप्यहं सूत्रमित्यस्य तात्पर्यमाह ॥ सर्वगुणीति ॥ सर्वे ये गुणिनस्तेष्वधिक इत्यर्थः । तथा च गुणीति पदमध्याहार्यम् । गुणिनां गुणवतां मध्ये यो गुणी स सूत्रं वायुरूपो गुण्येव । श्रेष्ठ इति यावत् । तच्च सूत्रमहं तन्नामकं तस्य सजातीयगुण्यपेक्षया श्रैष्ठ्यापादकं मम विभूतिरूपं तत्रास्तीत्यर्थः । पूर्वं गुणाभिमानित्वेन श्रैष्ठ्यमुक्तमिदानीं गुणित्वेनेत्यपौनरुक्त्यम् । ननु ब्रह्मण एकत्वेन रूपान्तराभावात्कथं बहुस्थानेषु प्रधानोक्तिरित्यत आह ॥ रूपान्तरत्वादिति ॥ अनेक-रूपत्वादित्यर्थः । एकस्यापि ब्रह्मणो बहुस्थानेषु गतिकालादिषु रूपान्तरत्वमनङ्गीकृत्यापि समाधानान्तरमाह ॥ गुणान्तरेति ॥ एकस्यापीत्यादिकमनुवर्तते । पूर्वोक्तगतिमानित्वरूपगुणापेक्षया यद्गुणान्तरं कालादिमानित्वरूपं तस्योत्तरत्रोक्तेरविरोध इत्यर्थः । दृष्टान्तमाह ॥ राम इति ॥ यथा रामस्य प्राधान्यमुक्त्वा वासुदेवादिप्राधान्योक्तौ विरोधो नास्ति । रूपान्तरत्वात् । शस्त्रभृच्छ्रेष्ठत्ववृष्णिपतित्वादिगुणान्तरोक्तस्तद्वदित्यर्थः । इत्यादीत्यादिपदेन, सिद्धेश्वराणां कपिलः, द्वैपायनोऽस्मि व्यासानामित्यादिग्रहणम् । महतां स्थूलानां मध्ये महान्महत्तत्त्वं श्रेष्ठम् । तच्चाहं तन्नामकं मद्रूपं श्रैष्ठ्यापादकमस्तीत्यर्थः । सूक्ष्माणां पदार्थानां मध्ये जीवोऽतिसूक्ष्मः श्रेष्ठः स चाहमित्यादेरुक्तरीत्याऽर्थो मन्तव्यः । दुर्जयानां मनः श्रेष्ठं तच्चाहम् ॥ ११ ॥

दुर्घटभावदीपिका

गुणानां भक्त्यादिगुणानां मध्ये सोम्यम् । अत्र उशब्देन सर्वोत्कृष्ट-त्वादानन्दो गृह्यते । माधातोरनुभववाचित्वेन मा शब्देनानुभवो गृह्यते । एवं सत्युमशब्देनानन्दानुभवो लभ्यते । उमेन सहितः सोमस्तस्य भावः सौम्यमानन्दानुभवरूपगुणोऽहमप्यहमेव । गुणिनीति जातावेकवचनम् । गुणिषु विद्यमान औत्पत्तिको गुणः शुभप्राप्त्यैकयोग्यतारूपो गुणोऽहमेव । गुणिनां मध्ये सूत्रनामकः । गुणिन्यौत्पत्तिको गुण इत्यस्यात्रापि सम्बन्धः । अन्यगुणिस्थितौत्पत्तिक-गुणाभिमानी वायुः सोऽहमप्यहमेव । महतां स्थूलानां मध्ये यदतिस्थूलं महत्तत्त्वं तदहं चाहमेवेति

॥ १०,११ ॥

प्रमेयचन्द्रिका

ननु विभूतिरूपाण्याख्याहीति पृष्टे भगद्रूपाण्येव वक्तव्यानि । तद्विहाय अहं गतिरहं हिरण्यगर्भ इत्यादिना गतिर्हिरण्यगर्भाद्यभेद एवोच्यते । अतोऽसङ्गतमित्यत आह ॥ स्वस्व-जातीति ॥ तुशब्दोऽतिशयार्थः । तत्र स्थित्वाऽतिशयेन सामर्थ्यव्यञ्जनात् । सन्निधानं तु तत्प्रोक्तं सामर्थ्यं व्यञ्जनं हरेरित्युक्तत्वात् । न तु इन्दिरादीनां स्वजातीयांगनाद्यपेक्षयोत्तमत्वप्रदमिन्दिरादिषु संस्थितं विभूतिरूपमिति प्रोक्तम् । तथा चाहं हिरण्यगर्भ इत्यादिना गत्यादिनामकानि भगद्रूपाण्ये-वोच्यन्त इति नासङ्गतिरिति भावः ॥

नन्विदिराद्यन्तर्यामिरूपाणामेव विभूतित्वे आदित्यानामहं विष्णुः, सिद्धेश्वराणां कपिल इत्यादिषु प्रत्यक्षरूपोक्तिरयुक्ता स्यादित्यत आह ॥ यथेति ॥ यथा इन्दिराद्यन्तर्गतं रूपं विभूतिरूपम् । तथा बहिःस्थितं विष्ण्वादिरूपमपीत्यर्थः । शब्दितमेवेति सम्बन्धः । द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितमिति भावः । अन्तर्यामित्वेन तिरोहितरूपाणां न सर्वेषां विभूतित्वम् । किं तु तेष्वपि स्वजात्युत्तमत्वप्रदत्वम् । केषाञ्चिन्नेत्युच्यत इत्यतो बहिष्टभगवद्रूपविशेषदृष्टान्तेनोपपादयति ॥ यथेति ॥ सर्वत्राखण्डैकरसतया सर्वत्रैकरूपोऽपि सर्वत्र सम्बन्धिमत्वेन सत्सु दुष्टेषु च समोऽपि कृष्णरूपेण दुर्योधनादिदुष्टहन्ता । व्यासरूपेण पाण्डवेषु धार्तराष्ट्रेषु च सम इत्येतदचिन्त्यशक्त्यो-पपन्नम् । तथाऽन्तर्यामिरूपेण धारणाविभूतिरूपेणोत्तमत्वप्रद इति युज्यत इति भावः ॥

ननु यदि हिरण्यगर्भादिषु स्थितं रूपं विभूतिशब्दितम् । तर्हि हिरण्यगर्भेऽहमिति वक्तव्यम् । अहं हिरण्यगर्भ इत्यभेदोक्तिरयुक्तेत्यत आह ॥ ब्रह्मेति ॥ ब्रह्माहं रुद्रोऽहमित्याद्युक्त्या न विरिञ्चशिवाद्यभेदो मन्तव्यः । अत्र ब्रह्मादिशब्दैर्भगवद्रूपाणामेव वाच्यत्वात् । न चैवं सति प्रत्यक्षरूपत्वापत्तिः । ब्रह्मादिजीवेभ्यो अत्यन्तभिन्नस्य तेषु स्थितस्य ब्रह्मादिगतस्य स्वजातिश्रैष्ठ्यैक-कारणस्य भगवद्रूपजातस्यैव ब्रह्मादिनामवाच्यत्वाङ्गीकारात् । तथा च देवानां मध्ये हिरण्यगर्भश्रैष्ठ्यप्रदो हिरण्यगर्भनामाऽहमिति परममुख्यया वृत्या हिरण्यगर्भादिशब्दवाच्यं तदन्तर्गतं भगवद्रूपमेवोक्तम् । न विरञ्चादिजीवाभेद इति भावः । गतिर्गतिमतामित्यत्र गतिशब्दस्य गमनक्रियावाचकत्वं प्रतीयते । अत आह ॥ गतिर्ज्ञानमिति ॥ ज्ञानाधिक्यहेतुत्वस्यैव मुख्यतयोपास्यत्वादिति भावः ॥

ननु सजातीयश्रैष्ठ्यकारणत्वं खल्वत्रोच्यते । साजात्यं च तत्तच्छब्दप्रवृत्तिधर्मावच्छेदेनैव । अन्यथाऽतिप्रसङ्गात् । सति चैवं गतिमतां गतिरित्ययुक्तम् । ज्ञानस्य ज्ञानवत्साजात्याभावादित्यतोऽत्र गतिपदेन ज्ञानाभिमानी ब्रह्माऽभिमान्यधिकरणन्यायेनोच्यते । तस्य ज्ञानवत्वेन सजातीयानां मध्ये श्रैष्ट्यं प्रति कारणत्वस्य भगद्रूपस्योच्यते । तस्मान्ना(?)नुपपत्तिरित्याशयेन तत्र प्रमाणमाह ॥ प्रधान इति । ज्ञानिनां प्रधान इति ज्ञानिनां हृदीति च सम्बन्धः । कालः कलयतामित्यत्र काल-शब्दस्य कल बन्धने कल संहार इत्युक्तेर् बन्धज्ञानसंहाराद्यनेकार्थत्वदार्ढ्यात् कल्पवत्सरादिकालार्थ-कत्वादत्र विवक्षितमर्थं सूचयन् उक्तानुपपत्तिवारणाय प्रमाणशेषं पठति ॥ स एवेति ॥ कालमानी-त्यनेन महतश्चतुर्मुखादिवत्कालशब्देन कालाभिमानी ब्रह्मोच्यत इत्युक्तं भवति । कलयतामित्यस्यार्थः ॥ संहर्तृणामिति ॥ ततश्च कलयतां संहर्तॄणां मध्ये कालाभिमानित्वात्संहर्तृत्वाच्च कालनामकस्य ब्रह्मणः संहर्तृत्वेन सजातीयेषु उत्तमत्वप्रदस् तदन्तर्गतः कालनामाऽहमित्यर्थो मूलस्य सम्पन्नः ॥

गुणानामित्यत्र सर्वगुणापेक्षया सौम्याख्यगुणस्योत्कर्षो भाति । सौम्यं नामार्जवम् । तत्कथमस्य ज्ञानादिगुणेभ्य आधिक्यमित्यतोऽत्र विवक्षितसौम्यशब्दार्थमाह ॥ आनन्देति ॥ माङ्मान इत्यतो कविधानमिति प्रत्यये मा ज्ञानमनुभवः । उक्तृष्टत्वाद्दुनामक इति उशब्द उत्कृष्टवाची । आनन्दो ह्युच्चताहेतुतयोत्कृष्टो भवति । तथा चोत्कृष्टस्यानन्दस्यानुभव उम उच्यते । तेन युक्तः सोमस्तस्य भावः सौम्यम् । आनन्दानुभव इत्युक्तं सौम्यं सर्वगुणानां मध्ये उत्तमं हि अनुभवसिद्धमित्यर्थः ॥

ननु भक्त्यादीनां मोक्षसाधनभगवत्प्रसादहेतुभूतगुणानामुत्तमत्वात्कथं सौम्यस्योत्तमत्वमित्यत आह ॥ भक्त्यादीति ॥ भक्तिवैराग्यादेः समसाध्यत्वाद्देहालस्यादिना भक्त्यादि दुःखहेतुरिति भावनायां वस्तुतो मोक्षादिमहापुरुषार्थहेतुरपि भक्त्यदिगुणपूगो निष्फलो भवति । अद्धा सम्यक् प्रीतस्य सर्वप्रेयस्तमे भगवति भक्तिनिमित्तानंदानुभवरूपप्रीतियुक्तस्य तु सफलो भवेत् । यस्मादेवं भक्त्यादि-गुणपूगस्याप्यानन्दानुभव एव सफलत्वापादकस्तस्मादानंदस्य आनन्दज्ञानमनुभव एव गुणेषु मध्ये उक्तृष्टमुच्यते भृत्यादावित्यर्थः ।

नन्विन्दिरादिषु संस्थितमिति रमाब्रह्मादिषु स्थितस्य तेषां सजातीयैश्वर्यप्रदस्यैव रूपस्य विभूतिरूपत्वमुक्तम् । मूले च पूर्वोत्तरवाक्ये च तथैवोच्यते । मध्ये श्रैष्ट्यप्रदरूपोक्तिरयुक्तेत्यतो नात्र श्रेष्टगुणाभिधानम् अभिमान्यधिकरणन्यायेन सौम्यपदोक्तस्य गुणाभिमानिब्रह्मणः श्रद्धादिगुणाभिमानि-देवेभ्यः श्रैष्ट्यप्रदं सौम्यनामकविरिञ्चे संस्थितमेवेह सौम्यशब्देन विवक्षितमित्याशयेन सौम्याभिमानि-निरूपणपूर्वकं श्रद्धादिगुणाभिमानिनोऽपि दर्शयति ॥ तस्येति ॥ ज्ञानभक्त्यादिकस्य ब्रह्मैकोऽभि-मानीति प्रसङ्गाद्वस्तुस्थितिकथनम् । तदन्येषां वैराग्यैश्वर्यादीनां शिवेन्द्रादयोऽभिमानिनः । स्पष्टमेत-त्तन्त्रसारे पीठपूजाविधाविति । उपसंहारव्याजेन मूलार्थमाह ॥ गुणानामिति ॥ गुणानां श्रद्धादि-गुणाभिमानिनां सौम्यगुणाभिमानी ब्रह्मैक एव प्रभुरधिपतिरित्यर्थः । ब्रह्मशब्दस्य अनेकार्थत्वाच्चतुर्मुख इत्युक्तम् । एतावताऽभिमानिनां मध्ये सौम्यलक्षणगुणाभिमानिनः सौम्यनामकस्य चतुर्मुखस्योत्तमत्व-प्रदस्तदन्तर्गतः सौम्यनामा इत्यर्थो मूलस्येति ज्ञेयते ॥

गुणिन्यौत्पत्तिको गुण इत्यत्र एकोऽयमौत्पत्तिको गुणः सौम्यस्येव तस्याभिमानी वक्तव्यः । स क इत्यत आह ॥ औत्पत्तिकेति ॥ प्राणस्तु प्राण एव तस्याभिमानीति । कुत इत्यत आह ॥ स हि सर्वगुणाधिक इति ॥ हि यस्मात्स औत्पत्तिकगुणः सौम्यगुण इव सर्वगुणेष्वधिकः । यस्माच्च वायुरेव सर्वगुणैरधिको अतः प्राण एव तदभिमनीत्यर्थः ॥

मूले गुणिन्यौत्पत्तिको गुणः । गुणिनामप्यहं सूत्रमित्येकमेव वाक्यम् । अन्यथा गुणिनीत्यत्राहं-शब्दाभावान्न्यूनतापात इत्याशयेन योजयति ॥ गुणिनां मध्य इति ॥ गुणिनि गुणवज्जनसमुदाये स्थितं सर्वगुणिषु स्थितं सूत्रमिति यावत् । औत्पत्तिकगुणरूपम् औत्पत्तिकगुण एव रूपं प्रतिमा यस्य तत्, औत्पत्तिकगुण औत्पत्तिकगुणाभिमानीति यावत् । स्वयमौत्पत्तिकगुणात्मकमिति वा । सूत्रं वायुः । गुणिनां मध्ये गुणिषु अहं सर्वगुण्यपेक्षया औत्पत्तिकगुणात्मकवायोरुत्तमत्वप्रदस्तदन्तर्गत औत्पत्तिकगुणसूत्रनामाऽहमिति यावत् । इति मूलार्थ इत्यर्थः । अत्र मुक्त्यनन्तरं शुभप्राप्तेरेवाभावा-त्तद्योग्यता सर्वमुक्तियोग्येष्वस्ति तदभिमानित्वमत्र विवक्षितम् । अत एव सर्वगुणिषु स्थितमित्युक्त-मित्याहुः । अनाद्यनन्तकालेऽपि शुभप्राप्त्यैकयोग्यत्वं ब्रह्मपदयोग्यमात्रनिष्टम् । तदभिमानित्वमत्रोच्यते । सर्वगुणशब्देन त एवोच्यन्त इत्यप्याहुः ।

उक्तार्थे प्रमाणमाह ॥ गुणिनामिति ॥ गुणयोग्यत्वमित्यत्र गुणशब्दः शुभवचनः । शुभ-प्राप्त्यैकयोग्यत्वमिति । सर्वगुणिषु स्थितं यत्तदभिमानी सर्वगुणिनां मध्ये वायुरेक एव । यत्ततः स एक एव सर्वगुणाधिक इति योजना ॥

नन्वेकस्यैव ब्रह्मणो गतिः कालः सौम्यम् इति बहुषु स्थानेषु प्राधान्यमुक्तम् । तथा औत्पत्तिकगुण इति सर्वगुणाधिक्यं वायोरुक्तम् । तत्र ब्रह्मस्थानेऽपि वायोराधिपत्यम् । वायुस्थानेऽपि ब्रह्मण आधिपत्यमिति राजयुवराजवदुभयोरपि सर्वत्र प्राधान्यात् । तथा चैकैकस्याप्यनेकस्थानेषु प्राधान्यं प्राप्तम् । तदेकस्थानगततया प्राधान्यं विरुद्धम् । अतः कथं तदुक्तिरित्यत आह ॥ रूपान्तर-त्वादिति ॥ रूपभेदेन स्थानभेदोक्तिर्न विरुध्यत इति भावः । निमित्तान्तरमाह ॥ गुणान्तरेति ॥ नकेवलं रूपभेदेन बहुस्थानेषु प्राधान्योक्तिर्न विरुध्यते । किं तु तत्तस्थानेष्वेकैकस्यैव ज्ञान-सत्यर्तसौम्यादिगुणान्तरैः प्राधान्योक्तेश्च न विरोध इति भावः ॥

अत्र दृष्टान्तमाह ॥ राम इति ॥ आदिपदेन मुनीनामप्यहं व्यासः सिद्धानां कपिल इत्यादिग्रहणम् । अत्र रूपान्तरत्वाच्छस्त्रभृत्वादिगुणान्तरोक्तेश्च यथा न विरोधस्तथेति भावः । मूले महतां स्थानानाम् अहं महान् महत्तत्वाभिमानिनो विरिञ्चस्य सर्वमहतां मध्ये श्रैष्ट्यप्रदस्तदन्तर्गतो महन्नामकोऽहमित्यर्थः । एवमुपर्यपि योज्यम् । जीवो जीवाभिमानिब्रह्मा । जीवमान्युत्तमो ब्रह्मा इति ह्युक्तम् ॥ १०,११ ॥

हिरण्यगर्भो देवानां मन्त्राणां प्रणवस्त्रिवृत् ।

अक्षराणामकारोऽस्मि पदानि च्छन्दसामहम् ॥ १२ ॥

तात्पर्यम्

पदानि वाच्यानि छन्दसाम् । ‘स्वयूथानामथाधिक्ये स्वजातीनामथापि वा । यत्कारणं विभूत्याख्यं विष्णोस्तद्रूपमुच्यत’ इति प्राधान्ये ॥ वर्णेशानि पदान्याहुः पादाश्चापि तदीश्वराः । पादानामीश्वरार्धर्चा तदीशा ऋच एव च । ऋचामधीशा वर्गाश्च तेषां सूक्तमधीश्वरम् । सूक्ताधीशास्तथाध्यायास्तदधीशास्तथाष्टकाः । तदधीशास्तथा शाखा वेदाश्चापि तदीश्वराः । वेदानामीश्वरा वाच्या वाच्यानामीश्वरो हरिः । न हरेरीश्वरः कश्चि-त्कदाचित्क्वापि विद्यत’ इति च ॥ पद्यन्त इति पदानि वाच्यानि । ‘पदं पदसहस्रेण यश्चरन्नापराध्यत’ इतिवत् । ‘पदं तु वाचकं प्रोक्तं क्वचिद्वाच्यमपीष्यत’ इति शब्दनिर्णये ॥ ‘सर्ववेदाभिमानिन्यो देव्यो लक्ष्मीस्ततोऽधिका । वेदाभिमानिनी साक्षात्सा विष्णोर्दूरतः स्थिता । यज्ञाख्या सैव विष्णोस्तु या तूरःस्थलमाश्रिता । हरिणा रतियोगस्था दक्षिणाख्यापि सैव तु । उत्तरोत्तरतः साऽपि विशिष्टा दक्षिणा सुखे । एवं वेदाभिमानिभ्यो देवीभ्यः सर्व एव तु । तदर्थरूपाः पतयस्तस्यास्तस्यास्तथोत्तमाः । शच्या इन्द्रस्ततश्चोमा तस्या रुद्रस्ततस्तथा । भारती प्राण एवास्यास्ततः श्रीस्तद्वरो हरिरि’ति वैशेष्ये ॥ १२ ॥

पदरत्नावली

त्रिवृद् अकारोकारमकारात्मकः । च्छन्दसां वेदानां पदानि, पद्यन्त इति पदानि, वेदानां मुख्यार्थः । उक्तं च ‘‘स्वयूथानामथाऽऽधिक्ये स्वजातीनामथापि वा । यत् कारणं विभूत्याख्यं विष्णोस्तद् रूपमुच्यते’’ इति । ‘‘वर्णेशानि पदान्याहुः पादाश्चापि तदीश्वराः । पादानामीश्वरार्धर्चास्तदीशा ऋच एव तु । ऋचामधीशा वर्गाश्च तेषां सूक्तमधीश्वरम् । सूक्ताधीशा-स्तथाऽध्यायास्तेषामीशास्तथाऽष्टकाः । तदधीशास्तथा शाखा वेदाश्चापि तदीश्वराः । वेदानामीश्वरा वाच्या वाच्यानामीश्वरो हरिः । न हरेरीश्वरः कश्चित् कदाचित् क्वापि विद्यते’’ इति । ‘‘पदं पदसहस्रेण यश्चरन् नापराध्यते’’ इतिवत् । ‘‘पदं तु वाचकं प्रोक्तं क्वचिद् वाच्यमपीष्यते’’ इति । अत्रेदं तात्पर्यमवगन्तव्यम् । ‘‘सर्ववेदाभिमानिन्यो देव्यो लक्ष्मीस्ततोऽधिका । वेदाभिमानिनी साक्षात् सा विष्णोर्दूरवत् स्थिता । यज्ञाख्या सैव विष्णोस्तु या तूरःस्थलमाश्रिता । हरिणा रतियोगस्था दक्षिणाख्यापि सैव तु । उत्तरोत्तरतः सापि विशिष्टा दक्षिणा सुखे । एवं वेदाभिमानाभ्यो देवीभ्यः सर्व एव तु । तदर्थरूपाः पतयस्तस्यास्तस्यास्तथोत्तमाः । शच्या इन्द्रस्ततश्चोमा तस्या रुद्रस्ततो वरः । भारती प्राण एवास्यास्तत श्रीस्तद्वरो हरिः’’ इति ॥ १२ ॥

श्रीनिवासतीर्थीया

हिरण्यगर्भः श्रेष्ठः स चाहमित्युत्तरत्र सर्वत्रानुवर्तते । मन्त्राणा-मित्यादावुक्तरीत्या योजना कार्या । त्रिवृत् त्रीन् अकारोकारमकारान् वृणोतीति त्रिवृत् । पदानि छन्दसामहमित्यत्र वेदानां सकाशाद्विभक्त्यन्तवर्णात्मकप्रसिद्धपदानामुत्तमत्वं प्रतीयते तत्प्रमाणविरुद्धमतो व्याचष्टे ॥ पदानीति ॥ छन्दसां वेदानाम् । सकाशादिति शेषः । ननु वाच्यवाचकयोः सजातीयत्वाभावात्कथं त्स्वस्वजात्युत्तममित्युक्तम् । सजातीयोत्तमत्वसम्पादकं विभूतिरूपमत्र न सम्भवतीत्यतोऽत्र विभूतिरूपस्थितिमाह ॥ स्वयूथ्यानामिति । यद्विष्णो रूपं कारणं तद्रूपं विभूत्याख्यमुच्यते इति योज्यम् । तथा च वाच्यवाचकयोरेकयूथत्वात्स्वयूथे आधिक्यापादकं विभूतिरूपं वाच्येऽस्तीति भावः। सर्ववेदापेक्षया पदानामेवोत्तमत्वं कस्मान्न स्यादित्यतस्तारतम्यज्ञापकं प्रमाणमाह ॥ वर्णेशानीत्यादिना ॥ ननु पदानि वाच्यानीति व्याख्यातम् । तत्कया व्युत्पत्त्येत्यतः कर्मव्युत्पत्त्येत्याह ॥ पद्यन्त इति ॥

ननु पदस्य विभक्त्यन्तवर्णेष्वेव रूढत्वात्कथमिदं व्याख्यानमित्यतो रूढ्यैतदर्थपरित्यागे-नार्थान्तरग्रहणस्यापि क्वचिद्दर्शनात्तद्वत्प्रकृतेऽपि रूढ्यैतदर्थपरित्यागेनार्थान्तरग्रहणं युक्तमित्याशयेनाह ॥ पदं पदसहस्रेणेति ॥ युद्धप्रसङ्गे शरवर्णनं भारते क्रियते ॥ पदमिति ॥ अत्र पदशब्दो लक्ष्य-वाची । एकमपीति शेषः । तथा पदसहस्रेण लक्ष्यसहस्रेण चरन् सहस्रसङ्ख्याकं लक्ष्यं विद्ध्यन् । शूर इति यावत् । एकमपि पदं तन्मध्ये । एकमपि लक्ष्यं नापराध्यति नाविद्ध्यदिति न किं त्वविद्ध्यदेवेत्याशयः । एवं चात्रप्रयोगे पदशब्दस्य प्रसिद्धार्थपरित्यागेन यथा लक्ष्यार्थकत्वं तद्वत्प्रकृतेऽपि रूढ्यार्थपरित्यागेन वाच्यार्थकत्वम् । रूढार्थनैय्यत्याभावादित्याशयः । यच्छब्द-स्योत्तरेणान्वयः । पदसहस्रेण वाचकसहस्रेण पदं वाच्यं चरन् उच्चारयन्निति व्याख्याने इतिवदिति वैयर्थ्यं द्रष्टव्यम् । एवं प्रयोगेण पदशब्दो वाच्यपर इत्युक्त्या रूढ्याऽपि वाच्यवाचक इत्याह ॥ पदं त्विति ॥ तथा च छन्दसां सकाशात्पदानि वाच्यानि उत्तमानि तत्र तन्नामकं तेषां स्वयूथ्याधिक्यापादकं मम विभूतिरूपमस्तीत्यर्थः ।

किं तद्वाच्यं वाचकं चेत्यतस्तद्दर्शयति ॥ सर्वेति ॥ वर्णादिकमारभ्य शाखावेदपर्यन्तमिति सर्वेत्यर्थः । देव्यो देवतास्त्रियो भारताद्याः । किं तल्लक्ष्मीरूपमित्यत आह ॥ वेदेति ॥ विष्णोः सकाशाद्दूरवदिति । भगवत्समीपे स्थित्वा जय जय जह्यजामित्यादिना बन्दीभूता सती स्तोत्रकर्त्री यतोऽतो दूरवदित्यर्थः । युक्ता यदाऽहं ज्ञेन नारायणेनेत्युक्तयज्ञशब्दनिर्वचनं सूचयति ॥ विष्णो-रिति ॥ जहल्लक्षणयोरुशब्देनांकस्थलक्ष्मीग्रहणम् । तात्पर्यनिर्णयेऽङ्कस्थितेति स्पष्टमंकस्थितत्वोक्तेः । भगवत्सम्बन्धेत्यत्र वा तात्पर्यम् । दक्षे इनो यस्याः सा दक्षिणेति । दक्षिणाशब्दतात्पर्यमाह ॥ हरिणेति ॥ अर्धं नारायणरूपं भगवदालिङ्गितमर्धं नारीरूपमुक्तं भवति । भगवदालिङ्गनमपि रतिहेतुत्वाद्रतियोग एवेति भावः । सा लक्ष्मी उत्तरोत्तरतः सुखविषये विशिष्टा विशेषयुक्ता । बन्दीभूतवेदाभिमानिलक्ष्मीरूपापेक्षया यज्ञनाम्नी सुखेऽधिका । तदपेक्षया दक्षिणा सुखेऽधिकेत्यर्थः । अत्रैतत्प्रमाणानुसारेण लक्ष्मीरूपेषु सुखविषय एव तारतम्यमस्तीति ज्ञायत इति संप्रदायविदः प्राहुः समाधानम् । अतःपरं मूलं योजयति ॥ एवमिति ॥ एवं सन्तीत्यर्थः । तदर्थरूपा वेदार्थरूपा पतयस्तद्भर्तार उत्तमा इत्यन्वयः । तस्यास्तस्या देव्याः सकाशात्स पतिरुत्तम इत्युक्तस्य विवरणम् । एवं साम्येनाभिधाय विविच्यापि लेशतो दर्शयति ॥ शच्या इन्द्र इति ॥ तथा पदानि छन्दसामह-मित्यत्र यदा वर्णरूपवेदाभिमानिदेवीविवक्षा तदा तदपेक्षया वर्णवाच्यो देव उत्तमस्ततः पदानि पदाभिमानिनी देव्युत्तमा ततः पदवाच्यो देवदेव इत्यादिप्रकारेणोत्तमत्वं द्रष्टव्यमिति शच्या इन्द्र इत्यादेस्तात्पर्यमाहुः । अन्ये तु त्रिचतुर्वर्गविवक्षां कृत्वा योज्यम् । तथाहि । वर्णपदपदाभिमानिशच्य-पेक्षया तद्वाच्य इन्द्र उत्तमः । तदपेक्षयाऽर्धर्चर्ग्वर्गाभिमानिन्युमोत्तमा । तदपेक्षया तद्वाच्यो रुद्र उत्तमः । तदपेक्षया सूक्ताध्यायाष्टकशाखाभिमानिनी भारत्युत्तमा । तदपेक्षया तद्वाच्यः प्राण उत्तमः । तदपेक्षया श्रीः । विष्णोः सकाशाद्दूरस्थिता सर्ववेदाभिमानिनी या सोत्तमा । तदपेक्षया तद्वाच्यो यज्ञदक्षिणाख्यलक्ष्मीरूपसहितो हरिरुत्तमः । अत्र यज्ञदक्षिणयोर्वेदवाच्यत्वमेव न वेदाभिमानित्वम् । वेदाभिमानिरूपापेक्षया तद्वाच्या यज्ञाख्योत्तमा । तदपेक्षया दक्षिणोत्तमा । तदपेक्षया हरिरुत्तम इति वाच्येऽपि तारतम्यं ध्येयम् । एवं लक्ष्मीरूपसहितस्यैव हरेर्वाच्यत्वमित्याशयेनैव यज्ञदक्षिणाख्यं लक्ष्मीरूपद्वयं कथितम् । अन्यथा तत्कथनमसम्बद्धं स्यादिति मन्तव्यमित्याहुः ॥ १२ ॥

प्रमेयचन्द्रिका

त्रिवृद् अकारोकारमकारात्मकः । सर्वत्राहमित्यनुवर्तनीयम् । तद्वाच्यस्य हरेर्विश्वतैजसप्राज्ञात्मना त्रिवृत्वं माण्डूकभाष्ये स्पष्टम् ॥ ननु पदानि च्छन्दसामित्यत्र जडानां जीवत्वोत्तमत्वयोः स्वतोऽसम्भवादभिमानिविवक्षायामपि च्छन्दःपदोक्तसर्ववेदाभिमानिन्यपेक्षया तदेकदेशपदमात्राभिमानिनामुत्तमत्वायोगात्कथमेतदित्यत आह ॥ पदानीति ॥ छन्दसां वेदानां वाच्यानि ब्रह्मादिवस्तूनि पदानीत्युच्यन्त इत्यर्थः ।

ननु स्वस्वजात्युत्तमत्वमिति सजातीयश्रैष्ट्यप्रदरूपाणां विभूतित्वमित्युक्तम् । न हि वाच्यानां देवानां वाचकानां वेदानां च साजात्यमस्ति । अतस्तद्विरोध इत्यत आह ॥ स्वयूथानामिति ॥ यूथशब्देन विजातीयमुच्यते । स्वयूथपदेन तदुक्तिस्तु यत्किञ्चित्सम्बन्धं सूचयति । वाच्यवाचक-भावरूपसम्बन्धोऽत्र विवक्षित इति ज्ञेयम् । अत एव गीतायां ज्योतिष्ट्वादिस्वयूथत्वमपेक्ष्यज्योति र्ज्योतिष्मतामित्यादौ विजातीयश्रैष्ट्योक्तिरिति तद्भाष्यादावुक्तम् । वेदाभिमानिदेवतापेक्षया पदाभिमानिनामुत्तमत्वमेवात्र किं न स्यादिति शङ्कावारणाय वाचकपदाद्यभिमानिदेवतातारतम्यकथनपूर्वकं तदपेक्षया वाच्यानामुत्तमत्वप्रतिपादकप्रमाणं पठति ॥ वर्णेशानीति ॥ अत्र वर्णादिशब्दै-स्तत्तदभिमानिदेवा उच्यन्ते । वेदानां सकाशात् । तद्वाच्या देवा ईश्वरा श्रेष्टाः। हरिर्वाच्यः परम-मुख्यतयेति शेषः।

पदशब्दस्य वाच्यपरत्वं लक्षणयेति भ्रमनिरासायाह ॥ पद्यन्त इति ॥ प्रतिपाद्यन्ते ज्ञायन्त इति वा । अत्र प्रयोगं दर्शयति ॥ पदमिति ॥ पदसहस्रेण विश्वं विष्णुरित्यादिना । पदं वाच्यं विष्णुं यश्चरन् जानन् पुरुषः स अपराधे न लिप्यत इत्यर्थः । तदुक्तं कार्तिकमाहात्म्ये अपराधास्तु ये प्रोक्ताः पुराणैः केशवार्चने । प्रोक्ते नामसहस्रे तु विलयं यान्ति जागर इति ॥ न चायं प्रयोगो लक्षणयेत्याशयेनाह ॥ पदं त्विति ॥ यद्वाचकं तत्पदमिति प्रोक्तं क्वचिद्वाच्यमपि पदमित्यङ्गीक्रियत इत्यर्थः । वेदाभिमानिदेवतास्तद्वाच्यान् देवांश्च प्रमाणेन दर्शयति ॥ सर्व इति ॥ वर्णपदार्थ-ऋगादिवैदिकदेशमारभ्य समस्तदेवसमुदायपर्यन्तमुत्तमोत्तमदेवानामभिमानित्वम् । तत्र भावाद्वेद-समुदायाभिमानिन्यौ वाणीभारत्यौ । ते च सर्वाधिक्ये साक्षान्मुख्यतः सर्ववेदाभिमानिनी लक्ष्मीस्ततः सरस्वत्यादिसर्वदेवाभ्योऽधिका । रमाया वेदाभिमानिरूपविशेषस्थितिमाह ॥ सेति ॥ प्रसङ्गादन्यमपि विशेषमाह ॥ यज्ञाख्येति ॥ या हरेरुरस्थलमाश्रिता लक्ष्मीः सैव यज्ञाख्या, ज्ञेन नारायणेन युक्तत्वाद्यज्ञनामकभगवद्रूपावेशयुक्तत्वाच्च यज्ञनाम्नीति ज्ञेयम् ॥

एतेन भगवदङ्काश्रितत्वदशामापन्नरूपस्य वेदाभिमानित्वम् । एतदेव दूरवत्स्थितत्वमभिप्रेतम् । अंकस्था तु यज्ञाभिमानिनीति सूचितं भवति । सैव लक्ष्मी तु विशेषेण हरिणा रतियोगस्था यदा तदा अर्धनारीरूपेण दक्षिणभागस्थितत्वेन निमित्तेन यज्ञे दीयमानदक्षिणाभिमानित्वाच्च दक्षिणाख्येति भावः । स्पष्टं चैतद्भारततात्पर्यनिर्णये । वेदात्मिकां प्रकृतिं विष्णुपत्नीं युक्तायदाहं ज्ञेन नारायणेन । यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात्तदाख्या । यदा तु सा मे वामार्धरूपा दक्षिणानामधेया । यस्मादस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्नादक्षिणेत्येव सास्यात् ॥ सा दक्षिणाभिमानिनी देवता च सा च स्थिता बहुरूपा मदर्धा । वामार्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्धनारायणाख्य इति ।

एतेषु रूपेष्वपि कञ्चन विशेषमाह ॥ उत्तरोत्तरत इति ॥ सा स्त्रीरूपा महालक्ष्मीरुत्तरोत्तरतः सुखविशिष्टा अत एव दक्षिणा सर्वतः सुखविशिष्टेति योज्यम् । उत्तरोत्तरतो विशिष्टा इत्यनेनैव दक्षिणायाः सुखाधिक्यलाभे सत्यपि सिद्धे सत्यारम्भो नियमार्थ इति न्यायेन दक्षिणाया एव सुखाधिक्यं निर्धारयितुं विशिष्टा दक्षिणेत्युक्तमिति बोध्यम् । अत्र भगवत्सान्निध्यातिशयवशाद्दक्षिणारूप एवातिशयसुखव्यक्तिरनुभवश्च । तमेवं विना साधारणसुखस्य गुणान्तराणां च रूपान्तरेष्वनुसन्धान-सद्भावाच्चैतदैक्यानुसन्धानप्रयोजकमित्यन्यथोक्तिविरोधि नेति सङ्गिरन्ते । अन्ये तु हस्तपादाद्यङ्गगत-सुखभोक्तुरेकत्वेऽपि कर्पूरलेपादिनिमित्तविशेषेण हस्ते मे सुखमित्यादिविशेषस्तथा रमाया अनेकरूपायाः सर्वभोक्तृत्वेऽपि दक्षिणारूपस्य भगवत्सान्निध्यातिशयेन विशिष्टसुखव्यक्तिस्थानत्वाद्विशिष्टा दक्षिणा सुख इत्युक्तिं मन्यन्ते ।

एवं वेदाभिमानिदेवता उक्त्वा प्रासङ्गिकं च समाप्य प्रकृतमाह ॥ एवमिति ॥ वर्णपदार्ध-ऋग्वर्गाध्यायाष्टकोपशाखोपवेदऋग्यजुःसामादिवेदमहावेदानां क्रमेणाभिमानिनीभ्यः सर्वदेवीभ्यस्तेषां वेदानामर्थरूपा वाच्याः । तासां पतय उत्तमाः । अत्र वेदाभिमानिसर्वदेविसमुदायापेक्षया सर्वेषां देवानाम् उत्तमत्वमुच्यत इति भ्रमनिवारणायोक्तम् ॥ तस्यास्तस्यास्तथोत्तमा इति ॥ या या देवी यावद्यावद्वेदभागस्याभिमानिनी तस्यास्तस्याः सकाशात्तत्तद्भागवाच्यास्तत्तद्भर्तारो देवा उत्तमा इत्यर्थः । एकवर्णाभिमानिदेवीभ्यः सकाशात्तत्तद्वाच्यास्तत्तद्भर्तार उत्तमाः । तथाऽध्यायाष्टकादिभागाभि-मानिनीभ्यस्तत्तद्भर्तार उत्तमाः । एवं च स्वस्वभर्तृवाचकवेदभागस्यैव तत्तद्भर्तारो वाच्याः स स एव तस्यास्तस्या उत्तमा इति भावः । तदेतद्व्यक्तिविशेषनिष्ठतया दर्शयति ॥ शच्या इति ॥ शची यावद्वेदाभिमानिनी तस्याः सकाशात्पूर्वप्रसिद्धिवर्जम् । तद्वाच्यस्तत्पतिरिन्द्र उत्तमः, ततोऽधिकस्य यावद्वेदभागस्याभिमानिनी उमा तस्यास्तद्वाच्यो रुद्र उत्तमः, तदुत्तमसर्ववेदाभिमानिनी भारती सरस्वत्यपेक्षया सर्ववेदवाच्यो वायुर्ब्रह्मा चोत्तमः । तदुत्तमसमस्तवेदपरममुख्याभिमानिरमापेक्षया परममुख्यतया वाच्यो हरिरुत्तम इत्यर्थः । तथा च छन्दसां तत्तद्वेदाभिमानिदेवीनां सकाशात्पदानि तत्तद्वेदवाच्यदेवतानि अहम् । तेषामुत्तमत्वप्रदस्तदन्तर्गतोऽहमिति मूलार्थः ॥ १२ ॥

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।

आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३ ॥

तात्पर्यम्

‘ऋते रुद्रादिकानिन्द्रः सर्वदेवाधिकः स्मृतः । ऋते भीमं फाल्गुनश्च पाण्डवेभ्यो वरस्तथा । तथा शुक्रः कवीशस्तु बृहस्पत्यादिकानृते । यमः संयमतामीशः शङ्करादीन्विनैव त्वि’ति गीताकल्पे ॥ १३ ॥

श्रीनिवासतीर्थीया

इन्द्रोऽहं सर्वदेवानां वीराणामहमर्जुनः (श्लो.३५) कवीनां काव्य आत्मवान् (श्लो.२८)। यमः संयमतां चाहमित्येतत्संकोचेन व्याख्येयम् । अन्यथा प्रमाण-विरोधादित्याशयेनाह ॥ ऋत इति ॥ उमाया अपि रुद्रशब्देन सङ्ग्रहः । आदिपदेन गरुडशेष-तत्स्त्रीवायुब्रह्महरितत्स्त्रीणां ग्रहणम् । भीममृत इत्युक्त्या पाण्डवानां धनंजय इति गीताया अपि तात्पर्यमुक्तमिति द्रष्टव्यम् । हव्यवाडग्निः ॥ १३ ॥

प्रमेयचन्द्रिका

इन्द्रोऽहं सर्वदेवानामित्ययुक्तम् । ब्रह्मादीनां तदुत्तमत्वेन प्रमितत्वात् । हिरण्यगर्भो देवानामिति स्वोक्तिविरोधाच्चेत्याशङ्कां प्रमाणेन परिहरति ॥ ऋत इति ॥ रुद्रादिकानित्यादिपदेन सुपर्णवायुशेषविरिञ्चतद्भार्याणां ग्रहणाम् । इदमुक्तं भवति । सजातीयश्रैष्ट्यं द्वेधा विवक्षितम् । यावत्सजातीयश्रैष्ट्यं सजातीयैकदेशश्रैष्ट्यं चेति । तत्र गतिर्गतिमतामित्यादिषु सकलसजातीयोत्तमत्वं विवक्षितम् । इन्द्रोऽहं सर्वदेवानामिति प्रकृते वीराणामर्जुनः, कवीनां काव्य आत्मवान्, यमः संयमताहमिति वक्ष्यमाणेषु सजातीयैकदेशश्रैष्टं विवक्षितम् । तथा प्रमितत्वादिति । वीराणामित्यत्र वीरशब्देन पाण्डवा विवक्षिता इत्याशयेन ऋते भीमं फलगुनश्च पाण्डवेभ्य इत्युक्तम् । पाण्डवानां धनंजय इति गीताभिप्रायेण वा तदुक्तिः । संयमतां संहर्तृणाम् । मूले हव्यवाट् प्रधानाग्निः। विष्णुरुरुक्रमः । प्रत्यक्षविभूतिः । नीललोहितः शिवः ॥ १३ ॥

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः ।

देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४ ॥

सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् ।

प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा ॥ १५ ॥

श्रीनिवासतीर्थीया

मनुः स्वायम्भुवः । हविर्धानी कामधेनुः ॥ १४,१५ ॥

प्रमेयचन्द्रिका

मनुः स्वायम्भुवः । हविर्धानी कामधेनुः ॥ कपिलः प्रत्यक्षविभूतिः । अर्यमा यमः । रूपान्तरविवक्षयैतत् । अबिभ्रदर्यमा दण्डं यथाघमघकारिषु इति प्रथमस्कन्धवाक्ये योऽर्यमादण्डमबिभ्रदिति तत्तात्पर्ये च विदुरमूलरूपतयाऽर्यम्णोऽवगमादिति ज्ञेयम् ॥ १४,१५ ॥

मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् ।

सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६ ॥

श्रीनिवासतीर्थीया

दैत्यानां मध्ये । नक्षत्रविवक्षया सोमश्चन्द्रः । औषधिविवक्षया सोमलता । धनेशं कुबेरम् ॥ १६ ॥

प्रमेयचन्द्रिका

विद्धीत्यत्र मामिति ग्राह्यम् । सोमं नक्षत्रौषधीनामिति विजातीयैकदेश-श्रैष्ट्यम् । अत्र सर्वत्र मां विद्धीत्यनुवर्तनीयम् । कुबेरस्य यक्षजातित्वात्सजातीयोत्तमत्वमेव

॥ १६ ॥

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।

तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७ ॥

पदरत्नावली

द्युमतां प्रकाशवताम् ॥ १७ ॥

श्रीनिवासतीर्थीया

यादसां जलचराणाम् । तपतां सन्तापं कुर्वतां द्युमतां प्रकाशवतामिति सामानाधिकरण्यम् ॥ १७ ॥

प्रमेयचन्द्रिका

यादसां जलजन्तूनामिति विजातीयोत्तमत्वम् । तपतां दाहकानां, द्युमतां मनुष्यकप्रकाशवताम् ॥ १७ ॥

उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।

यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८ ॥

पदरत्नावली

धातूनां गैरिकाणाम् ॥ १८ ॥

श्रीनिवासतीर्थीया

ताम्रादीनां धातूनाम् ॥ १८ ॥

प्रमेयचन्द्रिका

धातूनां लोहानां, सर्पजातीयो वासुकिः । नागजातीयः शेष इत्युरगेष्ववान्तरजात्याधिपत्यम् ॥ १८ ॥

नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।

आश्रमाणां तुरीयोऽहं वर्णानां प्रथमोऽनघ ॥ १९ ॥

तात्पर्यम्

‘गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतम् । प्राधान्योक्तिर्यतित्वस्य गार्हस्थ्यस्य क्वचित्क्वचिदि’त्याश्रमविवेके ॥ १९ ॥

पदरत्नावली

‘‘गार्हस्थ्यं च यतित्वं च देवेष्वेकत्वमागतम् । प्राधान्योक्तिर्यतित्वस्य गार्हस्थ्यस्य क्वचित् क्वचित्’’ इति च । तुर्यश्चतुर्थो यत्याश्रमः ॥ १९ ॥

श्रीनिवासतीर्थीया

नागेन्द्राणां सर्पश्रेष्ठवासुक्यादीनाम् । तुरीयः सन्न्यासः । अत्र गार्हस्थ्यापेक्षया सन्न्यासाश्रमस्याधिक्ये ब्रह्माद्यपेक्षया सनकादेरुत्तमत्वं स्यादतः कृत्स्नाश्रमधर्मवतो देवानामपेक्ष्यैवैतत् । यथोक्तम् । कृत्स्नभावात्तु गृहीणोपसंहार इतीत्याशयेन तात्पर्यमाह ॥ गार्हस्थ्य-मिति ॥ एकत्वमेकाधिकरणत्वम् । आगतं प्राप्तम् । उक्तिर्युज्यत इति शेषः । प्रथमो ब्राह्मणः

॥ १९ ॥

प्रमेयचन्द्रिका

शृृङ्गिदंष्ट्रिणामिति विषाणवन्तो हरिणाद्याः शृङ्गिणः । दंष्ट्रिणो वराहादय इति द्विविधमृगाणामित्यर्थः । तुर्यश्चतुर्थाश्रमी । ननु यत्याश्रमस्येतरापेक्षयोत्तमत्वे इन्द्रादिगृहस्थापेक्षया सनकादिसन्यासिनामुत्तमत्वं स्यादित्यत आह ॥ गार्हस्थ्यञ्चेति ॥ एकत्वमेकस्थानगतत्वम् । देवा एव गृहस्था देवा एव यतय इति श्रुतेः । तथापि देवेषु क्वचिद्यतित्वस्य क्वचिद्गार्हस्थ्यस्य प्राधान्येनोक्तिस्तत्तद्ग्रन्थेषु विवक्षाविशेषेणोपपद्यते । यथा तथा यतयो देवा इति । यथा वा कुटुम्बी शुचौ देशे इत्यादौ । अत एव कृत्स्नाभावात्तु गृहिणोपसंहार इति सूत्रे इयं श्रुतिः पूर्णगृहस्थदेवविषया व्यवस्थापिता । अतो देवगततुर्याश्रमस्यात्र विवक्षितत्वान्न विरोध इति भावः । मूले प्रथम इति ब्राह्मणवर्ण इत्यर्थः । अत्रापि सर्वे वर्णाः सर्वाश्रमा इति देवेष्ववस्थितस्य ब्राह्मण्यस्यात्र विवक्षितेति ज्ञेयम् ॥ १९ ॥

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् ।

आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २० ॥

पदरत्नावली

स्रोतसां नदीनां तीर्थानां शुद्धजलानाम् । रूपान्तरविवक्षया त्रिपुरघ्न इत्यादि

॥ २० ॥

श्रीनिवासतीर्थीया

स्रोतसां नदीनाम् । धनुर्वज्रं विनेति ध्येयम् ॥ आयुधानामहं वज्रमित्यन्यत्रोक्तेः । त्रिपुरघ्नो रुद्रः । रुद्राणां नीललोहित इत्युक्तत्वेऽपि त्रिपुरघ्न इति पुनर्वचनं रूपान्तरविवक्षयेति ध्येयम् ॥ २० ॥

प्रमेयचन्द्रिका

तीर्थानां पुण्यजलानां स्रोतसां नदीनाम् । अत्र द्वेधापि गङ्गायाः सजातीयोत्तमत्वं विवक्षितमिति ज्ञेयम् । स्रोतसां तीर्थानां प्रवाहरूपतीर्थानामिति वा । सरसाम-प्रवाहोदकानाम् । धनुः शार्ङः । वज्रमिति गीतोक्तिस्तु सजातीयैकदेशश्रैष्ट्यमपेक्ष्येति न तद्विरोधः । त्रिपुरघ्न इति रूपान्तरविवक्षया सजातीयैकदेशविवक्षयैतत् । शार्ङगाण्डीवादिधनुष्कानां हरिविरिञ्च-वायूनामुत्तमानां भावात् ॥ २० ॥

गिरीणामस्म्यहं मेरुर्गहनानां हिमालयः ।

वनस्पतीनामश्वत्थ ओषधीनामहं यवः ॥ २१ ॥

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः ।

स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥ २२ ॥

तात्पर्यम्

‘वसिष्ठोऽभ्यधिकस्तेषु मानुषाणां पुरोधसामि’ति त्रैकाल्ये ॥

पदरत्नावली

गहनानां गभीराणाम् ॥ ‘‘वसिष्टोऽभ्यधिकस्तेषां मनुष्याणां पुरोधसाम्’’ इत्युक्तेर् मनुष्याणां पुरोधसामधिको वसिष्ठः । ब्रह्मिष्ठानां वैदिकानाम् । सेनान्यां सेनापतीनाम् । अग्रण्यां श्रेष्ठानाम् । अजो ब्रह्मा ॥ २१,२२ ॥

श्रीनिवासतीर्थीया

पुरोधसां वसिष्ठ इत्यत्र देवपुरोहितबृहस्पत्यपेक्षयाऽऽधिक्यप्राप्तेस्तात्पर्यमाह ॥ वसिष्ठ इति ॥ सेनान्यां सेनापतीनाम् । सेनानीः सेनान्यौ इतीकारान्तस्य षष्ठीबहुवचनम् । सेनानी आम् इति स्थिते यणादेशे सेनान्यामिति भवति । गीतायां सेनानीनामित्येतद्विचार्यम् । एवमग्रण्यामपि षष्ठीबहुवचनं श्रेष्ठानामित्यर्थः ॥ २१,२२ ॥

प्रमेयचन्द्रिका

गहनानां काननाधिक्येन दुर्गमानामिति यावत् ॥ ननु देवेषु पुरोहितस्य बृहस्पतेः श्रेष्टत्वात्कथमत्र वसिष्ट इत्युक्तिरित्यत आह ॥ वसिष्ठ इति ॥ सेनान्यां सेनापतीनाम् । अग्रण्यामग्रणीनाम् ॥ २१,२२ ॥

यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् ।

वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः ॥ २३ ॥

पदरत्नावली

ब्रह्मयज्ञः स्वाध्याययज्ञः । वाय्वग्न्यर्काम्बुवाचामात्मा नियामकः । शुचीनां शुद्धिकराणां शुचिः शुचिकरः ॥ २३ ॥

श्रीनिवासतीर्थीया

शुचीनां शुद्धिकरवस्तूनां मध्ये वाय्वाद्यात्मा वाय्वादिरूपः शुचिः शुचिकरोऽहमित्यर्थः । वाय्वग्न्यर्काम्बुभिः शुचिः प्रसिद्धा । पूतो भवेदिति वाचा शुद्धः । विष्णुवैष्णव-वाक्येन हानिः स्यात्पापकर्मण इत्युक्तेः ॥ २३ ॥

प्रमेयचन्द्रिका

ब्रह्मयज्ञः स्वाध्याययज्ञः। शुचीनां मध्ये वाय्वाद्यात्माऽहं शुचिरिति योजना । वाय्वग्न्यर्काणां तीर्थोदकस्य वेदवाचश्च शुचितमत्वं प्रसिद्धमेवेति ॥ २३ ॥

योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।

आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४ ॥

तात्पर्यम्

जीवेशादिभेदवादी विकल्पः । ख्यातिवादिनां ज्ञानवादिनाम् । ‘जीवेशादिविशेषं यो याथार्थ्येन प्रकल्पयेत् । कलिमारभ्य चाविष्णोराधिक्यादुत्तरोत्तरम् । नियमेनैव केनापि न हेयः(हेयं) स विकल्पकः । सर्वज्ञानिविशेषेभ्यः स ज्ञानी सर्वथाऽधिक’ इति विज्ञाने ॥ ‘भेददृष्ट्याभिमानेने’त्युक्तम् । ‘विद्यात्मनि भिदा बोध’ इति च वक्ष्यति ॥ २४ ॥

पदरत्नावली

योगानामात्मसंरोधः मनोरोधः । मन्त्रो गुह्योक्तिः । मन्त्रर्गादिषु गुह्योक्तिरिति यादवः । कौशलानां शुभहेतूनाम् आन्वीक्षिकी तत्वविद्या । ख्यातिवादिनां ज्ञानवादिनां मध्ये विकल्पो विशिष्टकल्पो जीवेशादिभेदवादी । ‘‘जीवेशादिविशेषं यो यथार्थेन प्रकल्पयेत् । कलिमारभ्य चाविष्णोराधिक्यादुत्तरोत्तरम् । नियमेनैव केनापि न हेयः स विकल्पकः । सर्वज्ञानिविशेषेभ्यः स ज्ञानी सर्वथाऽधिकः’’ इति वचनादुक्त एवार्थः । अत्रापि भेददृष्ट्याऽभिमानेन चेत्युक्तम् । विद्याऽऽत्मनि भिदाबोध इति च वक्ष्यति ॥ २४ ॥

श्रीनिवासतीर्थीया

आत्मसंरोधो मनोनियमनम् । विजिगीषतां जेतुमिच्छतां राजादीनां मन्त्रो गुह्योक्तिः । गुह्यविचारेणैव ते सर्वं जयन्तीति शेषः । मन्त्रः प्रधानम् । आन्वीक्षिकी ब्रह्म-तर्कादितर्कविद्या । कौशलानां शुभहेतूनाम् । विकल्पपदमनूद्य व्याख्याति ॥ जीवेति ॥ ख्यातिरन्यथाख्यातिरित्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे ॥ ख्यातीति ॥ षोडशपदार्थतत्त्वज्ञानं मोक्षसाधनम् । सप्तपदार्थज्ञानमैक्यज्ञानं, भेदज्ञानं मोक्षसाधनमित्येवं ज्ञानमेव मोक्षसाधनमिति वादिनां मध्य इत्यर्थः। अत्र प्रमाणमाह ॥ जीवेति ॥ विशेषं भेदम् । प्रकल्पयेज्जानीयात् । जीवेशादीत्युक्तं विशदयति ॥ कलिमिति ॥ आविष्णोर् विष्णुपर्यन्तम् । जीवेशादिविशेषभेदं कल्पयति जानातीति विकल्पको ज्ञानीत्यर्थः । न हेयो नोपेक्ष्यः स ज्ञानी भेदज्ञानी । मोक्षहेतुत्वेन भेदज्ञानमेव सर्वज्ञानाधिकमिति भागवत एव पूर्वोत्तरग्रन्थपर्यालोचनया सिद्धमित्याह ॥ भेदेति ॥ उक्तं तृतीये । का विद्येत्युद्धवेन पृष्टे सत्यात्मनि भगवति जीवादिभ्यो भिदाबोध एव विद्येति अत्रैव स्कन्धे एकोनविंशतिमेऽध्याये भगवान्वक्ष्यतीत्यर्थः । न च भिदाया अबोध इति व्याख्येयम् । विरोधेनाज्ञानस्य विद्यात्वायोगादिति भावः ॥ २४ ॥

दुर्घटभावदीपिका

विकल्पः ख्यातिवादिनामित्यस्य ख्यातिवादिनां जीवेशाद्यैक्यादिज्ञानं मोक्षसाधनमिति वादिनां संकरादीनां मध्ये विकल्पो जीवेशादिभेदज्ञानं मोक्षसाधनमिति वाद्यानन्द-तीर्थादिरहमेवेत्यर्थः । एतेन ख्यातिवादिनां विकल्पज्ञानवाद्यहमेवेति वक्तव्यम् । ख्यातिवादिनां विकल्पोऽहमेवेति कथनमयुक्तमिति दूषणं परिहृतम् । भेदवाचकेन विकल्पशब्देन भेदज्ञानवादिनो लक्षणया गृहीतत्वात् ॥ ता.अर्थः ॥ विकल्पशब्दवाच्यार्थमाह ॥ जीवेशादि भेदवादीति । जीवेशादिभेदवाचकेन विकल्पशब्देन जीवेशादिभेदज्ञानवादी लक्षणीय इति शेषः । ख्यातिवादि-नामित्यनूद्य व्याचष्टे ॥ ख्यातिवादिनामिति । ज्ञानवादिनामैक्यादिज्ञानं मोक्षसाधनमिति वादिनामिति

॥ २४ ॥

प्रमेयचन्द्रिका

योगानां भगवदाराधनोपायानाम् आत्मसंरोधो मनोनिग्रहः । मन्त्रः मन्त्रिभिः सहालोचना । गुह्योक्तिः । सत्वं सत्ववतामहमित्यादिवत्सारप्रदविभूतिरूपमिदं तत्तन्निष्टाति-शयितधर्मविशेषः सार इति ज्ञेयम् । कौशलानां शुभहेतुविद्यानां मध्ये आन्वीक्षिकी तत्वविद्या । विकल्पः ख्यातिवादिनामित्यस्यार्थमाह ॥ जीवेशादीति ॥ ख्यातिज्ञानं मोक्षसाधनमिति वादिनां मध्ये विविधं जीवेशादिभेदं कल्पयतीति विकल्पभेदवादी अहमिति मूलार्थ इति भावः । अत्र प्रमाण-माह ॥ जीवेशादीति ॥ विशिष्यते अनेनेति विशेषो भेदः । तं यथा पुरुषः याथार्थ्येन पारमार्थि-कत्वेन प्रकर्षेण समर्थयेत् । क्लृपु सामर्थ्य इति धातोः । तत्र विशेषमाह ॥ कलिमिति ॥ कलि-र्निरवधिकदुःखवत्वात्सर्वाधमस् तदपेक्षया क्रमेण दुःखप्राचुर्यान्मर्त्याधमान्ता नित्यदुःखस्वरूपा अपि क्रमेणाधिकाः । नित्यसंसारिणस्तु सुखमिश्रस्वरूपत्वात्तेभ्यो अधिका । मोक्षयोग्यास्तु क्रमेण सुखज्ञानादिगुणाधिक्याद्विरिञ्चपर्यन्तं क्रमेणाधिकास् तेभ्यः श्रीस्ततो विष्णुरुत्तमोत्तम इत्येवं कलिमारभ्याविष्णोर् विष्णुपर्यन्तम् उत्तरोत्तरमाधिक्यात्तदाधिक्यपूर्वकं नियमेनैव विशेषं कल्पयेदिति प्रपूजयेदिति पूर्वेणान्वयः। स विकल्पः स्वार्थे कप्रत्ययः स च भेदः केनापि रूपेण केनापि निमित्तेन वा न हेयो हातुं शक्यः । सर्वप्रमाणसिद्धत्वादिति शेषः ॥

भेदपारमार्थिकत्वस्थापनाय तद्ज्ञानिनं स्तौति ॥ सर्वेति ॥ स एवं भेदज्ञानी सर्वेभ्यो ज्ञानिविशेषेभ्यस्तदितरविषयज्ञानिभ्यः सर्वथाऽधिक इत्यर्थः । न हेयमिति पाठे न हेयं विशेषमिति पूर्वेणान्वयः । स एवं ज्ञानी विकल्प इत्युच्यत इति शेषः । स च ज्ञानी सर्वज्ञानिविशेषेभ्यः सर्वथाऽधिक इति योजनीयम् । अनेन ख्यातिवादिनां विकल्पोऽहमिति मूलस्यार्थ उक्तो भवति । इतश्च भेदज्ञानिन इतरज्ञान्यपेक्षयोत्तमत्वमेवात्रार्थो वक्तव्यः । भेदज्ञानस्यैव मोक्षसाधनत्वेनात्रोक्त-त्वादित्याशयेनाह ॥ भेददृष्ट्येति ॥ उक्तं तृतीयस्कन्ध इति शेषः । वक्ष्यत्यत्रैव न चाबोध इति पदच्छेदः । अज्ञानस्य विद्यात्वाभावादिति तत्वप्रकाशिकायाम् ॥ २४ ॥

स्त्रीणां तु शतरूपाऽहं पुंसां स्वायम्भुवो मनुः ।

नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५ ॥

तात्पर्यम्

‘शतरूपा वरा स्त्रीणां पुंसामभ्यधिको मनुः । तयोरप्यधिकौ नित्यमिन्द्राणीन्द्रौ शुभैर्गुणैरि’ति वैशेष्ये ॥ २५ ॥

पदरत्नावली

‘‘शतरूपा वरा स्त्रीणां पुंसामभ्यधिको मनुः । तयोरभ्यधिकौ नित्यमिन्द्राणीन्द्रौ शुभैर्गुणैः’’ इति । नारायण ऋष्यवतारः ॥ २५ ॥

श्रीनिवासतीर्थीया

स्त्रीणां त्वित्यत्र शतरूपायाः शच्याद्युत्तमत्वं प्राप्नोतीत्यतः सङ्कोचेन व्याख्येयमिति प्रमाणेनाह ॥ शतरूपेति ॥ नारायणो नरनारायणः । कुमारः सनत्कुमारः

॥ २५ ॥

प्रमेयचन्द्रिका

स्त्रीणां शतरूपा, पुंसां मनुरित्यत्र सजातीयैकदेशश्रैष्ट्यं विवक्षितमित्याशयेनाह ॥ शतरूपेति ॥ इन्द्राणीन्द्रावित्यत्र रतिकामौ च ग्राह्यौ । उमारुद्रादीनामुत्तमत्वं कैमुत्येनैव सिद्धत्वादनुक्तम् । नारायणो धर्मपुत्रत्वेनावतीर्णः । कुमारः सनत्कुमारनामा तु ब्रह्मचर्यवपुर्हरिरित्युक्तेः प्रत्यक्षविभूतिरूपद्वयमिदम् । ब्रह्मपुत्रसनत्कुमारस्य यतित्वात् । सोऽपि ब्रह्मचारीति पक्षे नारायण एव प्रत्यक्षविभूतिः ॥ २५ ॥

धर्माणामस्मि सन्त्यागः क्षेमाणामबहिर्मतिः ।

गुह्यानां सततं मौनं मिथुनानां पुमानहम् ॥ २६ ॥

पदरत्नावली

धर्माणां सुकृतानाम् । क्षेमाणां प्राप्तरक्षाणाम् अबहिर्मतिः प्रत्यगात्मज्ञानम् । गुह्यानां गोप्यानां मौनं वाचंयमत्वमसम्प्रज्ञातसमाधिस्थत्वं वा ॥ २६ ॥

श्रीनिवासतीर्थीया

सन्त्यागः काम्यनिषिद्धत्यागः । मोक्षाणां मोक्षसाधनानामबहिर्मति-र्बहिर्मत्यभावः । भगवज्ज्ञानमिति यावत् । मिथुनानां सामान्येन स्त्रीपुरुषाणां मध्ये ॥ २६ ॥

प्रमेयचन्द्रिका

सन्यासः कृतस्य कर्मणो भगवत्यर्पणम् । सर्वधर्माणां समर्पणेनैव फललाभा-त्सारप्रदविभूतित्वमस्येति ज्ञेयम् । सन्यासो यतिधर्म इति पक्षे सजातीयश्रैष्ट्यं ज्ञेयम् । क्षेमाणां क्षेमसाधनानां मध्ये अबहिर्मतिर्बहिर्मत्यभावः । प्रत्यगात्मनि हरौ रतिरिति यावत् । गुह्यानां गोप्यानां विषये मौनं यत्तदहमित्यर्थः । अत्रापि सारविभूतिः । मिथुनानां स्त्रीपुंद्वन्द्वानां मध्ये पुमानहम्

॥ २६ ॥

संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ ।

मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाऽभिजित् ॥ २७ ॥

पदरत्नावली

अनिमिषां कालावयवानाम् ॥ २७ ॥

श्रीनिवासतीर्थीया

अनिमिषां क्षणादिकालानाम् । मधुमाधवौ चैत्रवैशाखौ वसन्तर्तुरित्यर्थः । उत्तराषाढान्त्यचरणः श्रवणस्य पूर्वचरणश्चाभिजिदित्युच्यत इत्याहुः ॥ २७ ॥

दुर्घटभावदीपिका

संवत्सरोऽस्म्यनिमिषामित्यस्यानिमिषां निमिषापेक्षया स्थूलानां क्षणादि-कालानां मध्ये संवत्सरः संवत्सराख्यः स्थूलकालोऽस्मीत्यर्थः । तेन क्षणादिस्थूलानां संवत्सरोऽस्मीति वक्तव्यम् । अनिमिषां संवत्सरोऽस्मीति कथनमनुपपन्नमिति दूषणं निरस्तम् । अनिमिषामित्यनेन निमेषभिन्नक्षणादि स्थूलकाला गृह्यन्त इत्यूरीकरणात् ॥ २७ ॥

प्रमेयचन्द्रिका

अनिमिषां कालावयवानाम् । मधुमाधवौ चैत्रवैशाखौ । तदात्मको वसन्त इति यावत् । अभिजित् । कृत्तिकादिकमेकैकमनेकनक्षत्रात्मकं दृश्यते । तत्रोत्तराषाढान्तिम-श्रवणादिमभागभूतं नक्षत्रजातमभिजिदित्युच्यते ॥ २७ ॥

अहं युगानां च कृतं धीराणां देवलोऽसितः ।

द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८ ॥

पदरत्नावली

धीराणां गम्भीराणाम् । व्यासानां वेदविभागं कुर्वाणानाम् । कवीनां वाग्मिनाम्

॥ २८ ॥

श्रीनिवासतीर्थीया

व्यासानां वेदविभागकर्तॄणां द्रौणिव्यासादीनाम् । आत्मवान् । कविर्ज्ञानी । काव्यः शुक्रः ॥ २८ ॥

प्रमेयचन्द्रिका

धीराणां गम्भीराणाम् । व्यासानां वेदविभागकर्तृणाम् । कवीनाम् आत्मवान् । परमात्मवान् ज्ञानीति यावत् । धैर्यवानिति वा ॥ २८ ॥

वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।

किम्पुरुषाणां च हनूमान् विद्याध्राणां सुदर्शनः ॥ २९ ॥

तात्पर्यम्

‘ऐश्वर्यादिगुणैः षड्भिः सामग््य्रात्सर्वदेवताः । भगवच्छब्दवाच्याश्च साक्षात्तु भगवान्हरिः । निरपेक्षं तु सामग्य्रं तस्य सर्वाधिकं यत’ इति च । अतो भगवतां देवानाम् । ‘सर्वभागवताधीश उद्धवो भगवत्प्रियः । तस्मादभ्यधिको जिष्णुः प्रियत्वे भक्तितो हरेः । तस्मादभ्यधिको रामः कृष्णा त्वभ्यधिका ततः । तस्या अभ्यधिको भीमो न तु तत्सदृशः क्वचिदि’ति च । ‘यत्किञ्चात्मनि कल्याणं सम्भावयसि पाण्डव । सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् । धर्मो ज्ञानं तथा मोक्षो यशः कीर्तिस्तथैव च । त्वय्यायत्तमिदं सर्वं लोकस्यापि न संशय’ इति भारते ॥ २९ ॥

पदरत्नावली

भगवताम् ऐश्वर्यादिषड्गुणवतां देवानाम् । ‘‘ऐश्वर्यादिगुणैः षडि्भः सामग््रयात् सर्वदेवताः । भगवच्छब्दवाच्याश्च साक्षात्तु भगवान् हरिः । निरपेक्षं तु सामग््रयं तस्य सर्वाधिकं यतः’’ इति वचनात् । त्वं तु भागवतेष्वहमित्यत्र तात्पर्यार्थोऽयम् । ‘‘सर्वभागवताधीश उद्धवो भगवत्प्रियः । तस्मादभ्यधिको जिष्णुः प्रियत्वे भक्तितो हरेः । तस्मादभ्यधिको रामः कृष्णा त्वभ्यधिका ततः । तस्या अभ्यधिको भीमो न तु तत्सदृशः क्वचित्’’ इत्यादिस्मृतिप्रमाणकः । ‘‘तु स्याद् वेदेऽवधारणे’’ इति च ॥ २९ ॥

श्रीनिवासतीर्थीया

भगवतां मत्स्यादीनां मध्ये वासुदेव इति कृष्णस्य श्रैष्ठ्यमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ ऐश्वर्यादीति ॥ सामग्य्रात्समग्रत्वात्पूर्णत्वादित्यर्थः । साक्षादनुपचारेण । कुत इत्यत आह ॥ निरपेक्षमिति ॥ इति प्रमाणमस्ति यतोऽतो भगवतां देवादीनामिति व्याख्येयमित्यर्थः । भागवतेषु त्वमधिकस्त्वं चाहमित्यत्रोद्धवस्यैव ब्रह्मा-द्यपेक्षयाऽऽधिक्यप्रतीतिनिरासाय सङ्कोचेन व्याख्येयमित्याशयेन तारतम्यज्ञापकं प्रमाणमाह ॥ सर्वेति ॥ जिष्णुरर्जुनः । भीमस्य सर्वाधिक्यमुद्योगपर्वगतवाक्यसंमत्याऽपि द्रढयति ॥ यत्किञ्चिदिति ॥ पाण्डवानामज्ञातवासानन्तरं कृष्णेनागत्य युद्धं कार्यं सन्धिः कार्यो वेति पृष्टे धर्मराजादिभिः सन्धिरेव कार्य इत्युक्ते भीमेनापि तथैवोक्ते पृष्टतो युद्धादिकं कार्यमित्युक्त्वेदानीं युद्धे उपस्थिते सन्धिः कार्य इत्युच्यते । तस्माद्भीतोऽसीति कृष्णेनोक्ते स्वामिंस्तव प्रसादादिदं ब्रह्माण्डमपि करद्वयेन धृत्वा नारिकेलवद्द्विधा कर्तुं समर्थोऽस्म्येतेषां हननं चातितुच्छमिति भीमसेनेनोक्ते भगवतोच्यते । कल्याणं मङ्गलं रूपं बलादिकं त्वय्यायत्तं त्वदधीनम् ॥ २९ ॥

प्रमेयचन्द्रिका

ननु वासुदेवो भगवतामित्यत्र कथं भगवतामिति बहुवचनम् । अन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थ इत्येकस्यैव भगवच्छब्दार्थतया निर्धारितत्वादित्यत आह ॥ ऐश्वर्यादीति ॥ सामग्य्रात्समग्रत्वात्पूर्णत्वादिति यावत् । सर्वदेवताश्चेति सम्बन्धः । हरिस्तु साक्षात्परममुख्यया वृत्या भगवान्भगवच्छब्दवाच्यः । कुतः यतस्तस्यैश्वर्यादिगुणैरन्यानपेक्षं सर्वाधिकं च सामग्य्रं पूर्णत्वमत इत्यर्थः । यत एवमैश्वर्यस्य समग्रस्येत्यैश्वर्यादिषड्गुणसामग्य्रस्य भगव-च्छब्दार्थत्वात्तस्य ब्रह्मादिदेवेषु भगवदनुग्रहस्य सापेक्षत्वस्य यथायोग्यतया भावात्तेऽपि भगवन्त इति । तेषां सकाशादत्यधिकानन्त्यापेक्ष्यषड्गुणसामग्य्रस्य हरावेव सत्वात्स एव मुख्यतो भगवानिति यतः प्रमाणेन निश्चीयते । अतो भगवतामित्यस्य देवानामित्यर्थः । उत्तमत्वेन वासुदेवस्य प्रत्यक्ष-विभूतित्वमत्रोच्यत इत्याशयेनाह ॥ अत इति ॥ त्वन्तु भागवतेष्विति सजातीयैकदेशश्रैष्ट्यं विवक्षितमित्याशयेन प्रमाणं पठति ॥ सर्वेति ॥ हरेर्भक्तितो निमित्तेन प्रियत्व इत्यर्थः । उद्धवस्य सर्वश्रैष्ठ्याङ्गीकारे भारतविरोधः । तत्र भीमस्यैव सर्वगुणैराधिक्योक्तिरित्याशयेन तद्वाक्यमुदाहरति ॥ यत्किञ्चेत्यादिना ॥ कल्याणं बलज्ञानभक्त्यादिशुभधर्मजातं सम्भावयसि अस्तीति मन्यसे । एतद्बलाधिकमेतस्मात्त्वयोक्तात्सत्वगुणेनातोऽधिकम् । किञ्च सर्वलोकस्य जनस्य सम्बन्धि धर्मादिकमिदं सर्वं त्वय्यायत्तं त्वदधीनमित्यर्थः । मूले किंपुरुषाणां किंपुरुषखण्डवासिनाम् । सुदर्शनो नाम कश्चिद्विद्याधरः ॥ २९ ॥

रत्नानां पद्मरागोऽस्मि पद्मकोशस्तु पेशसाम् ।

कुशोऽस्मि दर्भजातीनां गव्यमाज्यं१ हविष्वहम् ॥ ३० ॥

पदरत्नावली

पेशसां मुकुलानां मध्ये ॥ ३० ॥

श्रीनिवासतीर्थीया

पेशसां कुड्मलानाम् । गव्यमाज्यं गोघृतम् ॥ ३० ॥

प्रमेयचन्द्रिका

पेशसां मृदूनां मृदुपिण्डस्तु पेशः स्यादित्युक्तेः । हविषु होमद्रव्येषु गवामाज्यं गोसम्बन्ध्याज्यम् ॥ ३० ॥

व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः ।

तितिक्षाऽस्मि तितिक्षूणां सत्वं सत्ववतामहम् ॥ ३१ ॥

पदरत्नावली

कितवानां दीव्यताम् । छलग्रहो द्यूतम् ॥ ३१ ॥

श्रीनिवासतीर्थीया

व्यवसायिनामुद्योगवताम् । लक्ष्मीप्रद उद्योगः । कितवानां कपटिनां दीव्यताम् । छलेन कापट्येन गृह्यतेऽनेनेति प्रतिवादीति छलग्रहो द्यूतम् । सत्त्वं बलम् ॥३१॥

प्रमेयचन्द्रिका

व्यवसायिनां शुभार्थनिश्चयवतां लक्ष्मीः सम्पत् । अत्र विद्धि सात्वतामित्यन्तं सारप्रदविभूतिः । कितवानां श्रुतशालिनां छलग्रहः । छलेन वंचनारूपव्याजेन गृहो यस्य स तथोक्तः

॥ ३१ ॥

ओजः सहोबलवतां कर्माहं विद्धि सात्वताम् ।

सात्वतां नवमूर्तीनामादिमूर्तिरहं पुरा ॥ ३२ ॥

विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।

भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३ ॥

अपां रसश्च परमस्तेजिष्ठानां विभावसुः ।

प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४ ॥

तात्पर्यम्

‘विष्णोः श्रियो ब्रह्मणश्च वायोः सङ्कर्षणस्य च । सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नवमूर्तयः । पूज्याः सात्वततन्त्रेषु तत्राद्या मूर्तयो हरेः । प्रधानास्ता हि सर्वासां मूर्तीनां हरिमूर्तयः । अभेदादेव मूर्तीनामेकमूर्तिश्च सा स्मृते’ति सहस्रावरणे । श्रियादिनवमूर्तीनां मध्ये स्वकीयनवमूर्तिरहमित्यर्थः । ‘स्वरूपतश्च गुणतो न विशेषः कथञ्चन । विष्णोस्तु नवमूर्तीनां पूजा च नवधेष्यत’ इति च । अतो न स्वनव-मूर्तीनाम् । अन्येभ्योऽन्यनवमूर्तीनामपि प्राधान्यकारणं सन्निधानमात्मनस्तास्वप्यस्तीति पुरेतिविशेषणम् । प्रथमपूज्यास्ता इत्यर्थः । ‘नारायणः परं ब्रह्म वासुदेवादिकास्तथा । नरसिंहवराहौ च परञ्ज््योतिर्हरेर्नव । इन्दिरा च रमा लक्ष्मीर्हिरण्या गगना तथा । रक्ता रक्ततरा भूतिर्विभूतिश्च श्रियो नव । ब्रह्मा चतुर्मुखो धाता विधाता विधिरेव च । कर्ता विरिञ्चो भूतेशः शतानन्दश्च ता नव । धनञ्जयमृते चैव वायोस्तु नवमूर्तयः । शेषोऽनन्तो नरश्चैव लक्ष्मणो बल एव च । सङ्कर्षणो नीलवासा जगद्रक्षो जलेशयः । सुपर्णो गरुडश्चैव वैनतेयो महाशनः। नववर्णः पञ्चवर्णः पन्नगाशोऽमृताकरः। तथैव सर्ववेदात्मा सुपर्णो नवधा स्मृत’ इति च ॥

‘यस्य यस्य स्वभावो यस्तत्तन्नामा हरिः परः । नियामकः स्वभावस्य तत्तच्छब्दादि-नामवान् । वैशेष्याख्या विभूतिश्च विभूतिश्च स्वभावजा । द्विधा विभूतिर्विज्ञेया विष्णोस्तु परमात्मन’ इति च ॥ ३३ ॥

पदरत्नावली

सहोबलवताम् ओजोऽस्मि । ओजोऽवष्टम्भबलयोरिति प्रमाणम् । सात्वतां भागवतानां कर्माहमिति विद्धि । सात्वतां पाञ्चरात्रिकाणां श्रियादिनवमूर्तीनां मध्ये आदिः स्वकीय-मूर्तिरहम् । कीदृश्यस्ताः । पुरा पूर्वकाले, प्रथमतः पूज्या इत्यर्थः । ‘‘विष्णोः श्रियो ब्रह्मणश्च वायोः सङ्कर्षणस्य च । सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नवमूर्तयः । पूज्याः सात्वततन्त्रेषु तत्राद्या मूर्तयो हरेः । प्रधानास्ता हि सर्वेषां मूर्तीनां हरिमूर्तयः । अभेदादेव मूर्तीनामेकमूर्तिश्च सा स्मृता’’ इति मानम् । किञ्च ‘‘स्वरूपतश्च गुणतो न विशेषः कथञ्चन । विष्णोस्तु नवमूर्तीनां पूजा च नवधेष्यते’’ इति वचनादासां स्वरूपत्वं सिद्धम् । ‘‘नारायणः परब्रह्म वासुदेवादिकास्तथा । नरसिंहवराहौ च परञ्ज्योतिर्हरेर्नव । इन्दिरा च रमा लक्ष्मीर्हिरण्या गगना तथा । रक्ता रक्ततरा मूर्तिर्विभूतिश्च श्रियो नव । ब्रह्मा चतुर्मुखो धाता विधाता विधिरेव च । कर्ता विरिञ्चो भूतेशः शतानन्दश्च ता नव । धनञ्जयमृते चैव वायोस्तु नवमूर्तयः । शेषोऽनन्तो नरश्चैव लक्ष्मणो बल एव च । सङ्कर्षणो नीलवासा जगद्भक्षो जलेशयः । सुपर्णो गरुडश्चैव वैनतेयो महाशनः । नववर्णः पञ्चवर्णः पन्नगाशोऽमृताकरः । तथैव सर्ववेदात्मा सुपर्णो नवधा स्मृतः’’ इति वचनान्मूर्तिभेदो ज्ञातव्यः ॥ गन्धर्वाणां विश्वावसुर् अप्सरसां पूर्वचित्तिर् अहमस्मि । गन्धमात्रं गन्धाख्यविषयः ॥ तेजिष्ठानामर्चिष्मताम् ॥ ३२–३४ ॥

श्रीनिवासतीर्थीया

सहोबलवतामोजोऽवष्टंभशक्तिः । सात्त्वताम् । सात्त्वत् सात्त्वतौ सात्त्वत इति सात्त्वच्छब्दस्येदं षष्ठीबहुवचनम् । पञ्चरात्रोक्तप्रकारेणानुष्ठातॄणाम् । कर्म तेषां कर्मानुष्ठानमेव प्रधानं तदहमित्यर्थः । यद्वा । सात्त्वतां पञ्चरात्रोक्तधर्माणां मध्ये कर्म प्रधानं तदहमित्यर्थः । सात्त्वतां नवमूर्तीनामित्येतदप्रतीतेर्व्याख्यातुमाह ॥ विष्णोरिति ॥ सात्त्वततन्त्रेषु पञ्चरात्रागमेषु हरेराद्या नवमूर्तयः । ननु हरेर्नवमूर्तित्वे आदिमूर्तिरित्येकवचनं कथमित्यत आह ॥ अभेदादेवेति ॥ स हरिः । एवं प्रमाणमभिधाय स्ववाक्येन व्याचष्टे ॥ श्रियादीति ॥ आदिपदेन भगवन्नवमूर्तेरपि ग्रहणम् । तेन मध्य इति युक्तम् । सात्त्वतां पञ्चरात्रोक्तानां श्रियादिनवमूर्तीनां मध्य इत्यर्थः । आदिमूर्तिरित्यस्यार्थः ॥ स्वकीयेति ॥ ननु कुत एव व्याख्येयं सात्त्वतां नव मूर्तीनां स्वकीय-नवमूर्तीनां मध्ये या आदिमूर्तिर्नारायणसंज्ञा सोऽहमित्यर्थः कस्मान्न स्यादित्यतः प्रमाणविरोधान्नैवं व्याख्येयमित्याह ॥ स्वरूपत इति ॥ विष्णोर्नवमूर्तीनां स्वरूपत इत्यादिसम्बन्धः । विष्णोर्नवमूर्तीनां पूजा नवधा । एकैकस्या मूर्तेरेकैका पूजेति नवधा । इति च प्रमाणं यतोऽतो न स्वनवमूर्तीनामिति व्याख्येयमित्यर्थः । पुरेत्यस्यानिवर्त्याशङ्कां प्रदर्शयन्व्याचष्टे ॥ अन्येभ्य इति ॥ सुपर्णादिनव-मूर्तिभ्योऽन्यनवमूर्तीनां श्रियादिनवमूर्तीनामात्मनः स्वस्य सन्निधानमित्यन्वयो ऽस्तीति हेतोस्तेषामेवात्र ग्रहणमिति शङ्कापरिहारायेत्यर्थः । अयं भावः । अत्र नवमूर्तीनां सङ्कर्षणादिनवमूर्त्यपेक्षया याऽऽदिनवमूर्तिर्ब्रह्मणो नवमूर्तिस्तदपेक्षया याऽऽदिमूर्तिः श्रियो नवमूर्तिरिति योजयितुं शक्यते आदिमूर्तिरहमित्येतदपि योजयितुं शक्यते । सङ्कर्षणादिनवमूर्त्यपेक्षया ब्रह्मादिनवमूर्तिष्वधिक-सन्निधानसद्भावात् । सत्यम् । एषाऽपि योजनाऽभिप्रेतेति । तथाऽप्येवमेव न योज्यमित्याशयेन पुरेत्युक्तमिति । कस्तस्यार्थ इत्यत आह ॥ प्रथममिति ॥ ननूक्तयोजनायामपि श्रियादिनवमूर्तेरपि ब्रह्मादिनवमूर्त्यपेक्षया प्रथमं पूज्यत्वमस्तीति चेत् । सत्यम् । तथाऽपि श्रीनवमूर्त्यपेक्षयाऽपि प्रथमपूज्यताया अत्राभिप्रेतत्वात् । तथा च सात्त्वतां नवमूर्तीनां श्रियादिनवमूर्तीनां मध्ये याः पुरा श्रियो नवमूर्त्यपेक्षयाऽपि प्रथमपूज्याऽऽदिमूर्तिः स्वकीयनवमूर्तयस्ता अहमिति मूलं योज्यम् ।

नवमूर्तीर्विविच्याह ॥ नारायण इत्यादिना ॥ धनञ्जयेति ॥ प्राणापानव्यानोदानसमानाः पञ्च नागकूर्मकृकलदेवदत्तधनञ्जयरूपपञ्चकमूर्तीनां मध्ये धनञ्जयमृते चतस्रो मूर्तयो ग्राह्याः । एवं सति नवेत्यर्थः ॥ गन्धर्वाणां विश्वावसुरप्सरसां पूर्वचित्तिः । ननु भूधराणामहं स्थैर्यं, शब्दोऽहं नभसः परः । गन्धमात्रमित्यादौ सजातीयश्रैष्ठ्यापादकविभूतिरूपासम्भवात्कथमेतदित्यतस्तात्पर्यमाह ॥ यस्येत्यादिना ॥ यस्य यस्य वस्तुनो यः स्वभावस्तस्य स्वभावस्य नियामको हरिस्तत्तन्नामा शब्दादिनामवानित्यर्थः । धर्मिनियमनानुबद्धमेव धर्मनियमनमतो धर्मिनियामकं रूपमेव तन्निष्ठा-साधारणधर्मनियामकं न तु तस्य वस्तुनो यः स्वभावभूतोऽसाधारणधर्मस्तन्नियामकं रूपं पृथगस्तीति शङ्क्येत । तन्निरासाय शब्दादेराकाशादिस्वभावत्त्वरूपासाधारणधर्मत्वप्रदं तत्रात्यन्तनियामक-रूपान्तरमप्यस्तीत्याशयेनायं ग्रन्थः प्रवृत्त इत्याशयः । ननु सजातीयश्रैष्ठ्यापादकविभूति-रूपव्यतिरिक्तमिदं क्वत्यं विभूतिरूपमित्यत आह ॥ वैशेष्याख्येति ॥ सजातीयश्रैष्ठ्यं वैशेष्यं तदापादकेत्यर्थः । स्वभावजा जनी प्रादुर्भावे स्वभावे नियामकतया प्रादुर्भूता सती विद्यमानेत्यर्थः । स्थैर्यं स्थैर्यरूपासाधारणस्वभावप्रदः । गन्धमात्रं गन्धाख्यविषयः । तेजिष्ठानामर्चिष्मतां विभावसुरग्निः । सूर्यादीनां प्रभारूपस्वभावोऽहम् । नभसः शब्दस्तद्रूपः स्वभावः पर उत्तमोऽहमेव ॥३२–३४॥

दुर्घटभावदीपिका

गन्धमात्रमहं भुव इत्यस्य भुवो गन्धमात्रं सर्वोऽपि गन्धोऽहमित्यर्थः । एतेन मात्रशब्दो व्यर्थ इति दूषणं परिहृतम् । गन्धोऽहमित्युक्ते कश्चन गन्धोऽहमिति भ्रान्तिः स्यात् । तन्निरासार्थं सर्वस्यापि गन्धस्येश्वराधीनत्वं वक्तुं मात्रशब्दप्रयोग इति स्वीकरणात् ॥ ३३ ॥

प्रमेयचन्द्रिका

ओजोऽवष्टम्भकशक्तिः । ओजआदिमताम् । सात्वतानां सत्वं तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मता इत्युक्तेः । सज्जनानां सत्कर्माहमित्यर्थः । सात्वतां नवमूर्तीनामित्यत्रोक्ता नवमूर्तयः । केषां ताश्च काः कथं च तवादिमूर्त्तित्वम् । पुरेति विशेषणं च कुत इत्यत आह ॥ विष्णोरिति ॥ सङ्कर्षणस्य शेषस्य । सात्वततन्त्रेषु सात्वताः सज्जनास् तेषां तंत्रेषु तत्कर्तृक-देवपूजाकर्मसु क्रियमाणेषु प्रत्येकं नवमूर्तयः पूज्याः प्रोक्ताः । यद्वा सात्वततन्त्रेषु पञ्चरात्रगत-सात्वततन्त्राख्यग्रन्थविशेषेषु प्रोक्ता इत्यर्थः ।

तत्रेति ॥ तत्र षण्णां प्रत्येकं नवमूर्तिषु हरेर्नव मूर्तय आद्या आदौ पूज्याः । आदिपूज्यत्वं कुत इत्यत उक्तम् ॥ प्रधाना इति ॥ एकमूर्तिरादौ पूज्येति क्वचिदुच्यते । अतस्तद्विरोधपरिहारायाह ॥ अभेदादिति ॥ नवानां मूर्तीनामेव प्रथमं पूज्यत्वेऽपि तासामत्यन्ताभेदादेव सा आदौ पूज्या एकमूर्तिश्चेत्युच्यते । न त्वेकसङ्ख्याकत्वादित्यर्थः । उपयुक्तं प्रमाणेनोक्त्वा मूलं योजयति ॥ श्रियादीति ॥ सात्वतां नवमूर्तीनामित्यस्यार्थः ॥ श्रियादिनवमूर्तीनामिति ॥ निर्धारणषष्ट्यर्थो मध्य इति । आद्या इति प्रमाणवचने आदिमूर्तिरित्यादिशब्दार्थस्य आदौ पूज्यत्वस्य लाभादनुक्तिः । तत्र मूर्तिपदस्य श्रियादिनवपरत्वप्रतीतिवारणाय कपिलादिवत्प्रत्यक्षविभूतित्वज्ञापनाय च स्वकीये-त्युक्तम् ॥

तदयं मूलार्थः ॥ ननु सात्वतां नवमूर्तीनामित्यत्र श्रियादिनवमूर्तीनां मध्य इति कुतोऽर्थः कल्प्यते । स्वनवमूर्तीनां मध्ये कृष्णोऽहमादिमूर्तिरिति योजनायाः पुरः स्फूर्तिकत्वात्कल्पनालाघ-वाच्चेत्याशङ्कां प्रमाणमुदाहरन्नुपसंहरति ॥ स्वरूपत इति ॥ भगवन्नवमूर्तीनां मध्ये इति व्याख्याने इतरवदप्राधान्यं स्यात् । ततश्च स्वरूपतो गुणतश्च न्यूनाधिक्यलक्षणत्वोक्त्या विशेषो भवेत् । न चैतद्युक्तम् । प्रमाणबाधितत्वादतो नवमूर्तीनामपि मध्ये आदिमूर्तिरहमिति योजनोपपत्तेरिति भावः ॥ ननु स्वरूपतो गुणतश्च विष्णोस्तत्तन्नवमूर्तीनां पूजा कथं युज्यत इत्यत उक्तम् ॥ पूजा च नवधेष्यत इति ॥ विष्णोर्मूर्तीनां विशेषाभावेऽप्यचिन्त्यशक्तिघटितविशेषेणानेकत्वोपपत्तेः । प्राधान्यत आवरणतया पूजा चाङ्गीक्रियत इत्यर्थः । नन्वादिमूर्तिरित्यनेनैव स्वनवमूर्तीनां श्रियादिनवमूर्तिभ्य आदौ पूज्यत्वलाभात्पुरेति विशेषणं व्यर्थमित्यत आह ॥ अन्येभ्य इति ॥ अन्येभ्य इन्द्राद्यावरण-देवेभ्यो ऽन्यनवमूर्तीनां यथाक्रमेण प्राधान्ये कारणभूतमात्मनः स्वस्य सन्निधानं तासु सुपर्णादिनव-मूर्तिष्वप्यस्तीति ज्ञापयितुं पुरेत्येतन्नवमूर्त्तीनामित्यस्य विशेषणम् । न तु स्वनवमूर्तीनां विशेषणम् । अतो न वैय्यर्थ्यमिति भावः । पुरेत्यस्य नवमूर्तीविशेषणत्वस्फोरणाय तदर्थमाह ॥ प्रथममिति ॥ तथा चेन्द्रादिभ्यः पुरा पूज्यानां सात्वतां शोभनत्वयुतानां श्रियादिनवमूर्तीनामपि मध्ये आदौ पूज्यनवमूर्तिरहमिति मूलार्थ उक्तो भवति ॥

षड्विधनवमूर्तीराह ॥ नारायण इत्यादिना ॥ वासुदेवादिका वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्याः । ता नव ब्रह्मणस्तव मूर्तयो नव । धनञ्जयमृत इति ॥ प्राणोऽपानस्तथा व्यानस् तथोदानसमानकौ । नागश्च कृकलः कूर्मो देवदत्तो धनंजय इत्युक्तदशमूर्तिषु धनंजयमृते नव मूर्तय इत्यर्थः ॥

ननु स्वयूथानामाधिक्ये स्वजातीनामथापि वा यत्कारणं विभूत्याख्यमिति सजातीयविजातीयभेदे तिरोहितमतिर्द्विविधेत्युक्तम् । अत्र व्यवसायिनामहं लक्ष्मीरित्यादौ पूर्वत्र भूधराणां स्थैर्यं, भुवो गन्धमात्रमित्यादिवदुत्तरत्र च न सजातीयश्रैष्ट्यादिप्रदरूपमुच्यते । अतः कथमत्रोक्तरूपाणां विभूतित्वमित्यत आह ॥ यस्य यस्येति ॥ यस्य यस्य वस्तुनो यो यो स्वभावः साधारणो नागन्तुक धर्मः । तद्धर्मनामा परः सर्वभिन्नोऽपि हरिरित्यर्थः । हरेर्वस्तुस्वभावभूतधर्मपरशब्दवाच्यत्वं कथमित्यत आह ॥ नियामक इति ॥ यस्मादाकाशपृथिव्यादिस्वभावस्य शब्दगन्धादेर्नियामक-स्तस्मादाकाशपृथिव्यादिस्वभावानां यानि शब्दगन्धादिनामानि तद्वानिति । तत्तच्छब्दोपस्कारेणेति योज्यम् ।

अस्त्वेवं शब्दादिनामवत्वाच्छब्दोऽहं नभसः, गन्धमात्रमहं भुव इत्यादिव्यपदेशस्तथापि शब्दगन्धादिनामकरूपाणां विभूतित्वं कथमित्यतस्तद्घटयति ॥ वैशेष्याख्येति ॥ तिरोहितविभूति-र्द्विविधा । विशिष्यते अभिधीयते इति विशेषः । सजातीयविजातीयापेक्षया श्रैष्ट्यम् । तत्प्रदविभूतिरूपम् । वैशेष्यं विभूतिरित्येका । स्वभावः शब्दगन्धादिरूपः । अतो भ्रम्यादिधर्मो जायते । यया सा स्वभावजा विभूतिरित्यपरा । एवं द्विविधाऽपि विष्णोर्मूर्तिर्विभूतिरिति विज्ञेया । तथा च सारप्रदरूपस्यापि विभूतित्वं युज्यत इति भावः । अत्र वैशेष्यविभूतिरित्युक्तम् । गीताभाष्यादौ नियमेन सारप्रदविभूतिरित्युच्यत इति ज्ञेयम् ॥ मूले भूधराणामहं धैर्यमिति क्वचित्पाठः । स्थैर्यमिति च क्वचित् । तेजिष्ठानां तेजस्विनाम् ॥ ३२–३४ ॥

ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः ।

भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ॥ ३५ ॥

पदरत्नावली

प्रतिसङ्क्रमः संहारः ॥ ३५ ॥

श्रीनिवासतीर्थीया

ब्रह्मण्यानां ब्राह्मणेषु साधूनाम् । स्थित्यादिस्वभावस्तद्रूपासाधारणधर्मः । प्रतिसङ्क्रमः प्रलयः ॥ ३५ ॥

प्रमेयचन्द्रिका

भूतानां प्राणिनां स्थितिरुत्पत्तिः । प्रतिसङ्क्रमः संहारश्चाहम् । तत्प्रदस्तन्नामा चाहमित्यर्थः ॥ ३५ ॥

गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् ।

आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥ ३६ ॥

पदरत्नावली

गतिः पादविषयः । उक्तिर्वागिन्द्रियविषयः । उत्सर्गोऽपानस्य । उपादानं हस्तयोः । आनन्द उपस्थस्य । स्पर्शस्त्वगिन्द्रियस्य । अहमिति शेषः । आस्वादो जिह्वाकर्म । श्रुतिः कर्णयोः । अवघ्राणं घ्राणेन्द्रियस्य । सर्वेन्द्रियाणामिन्द्रियमिन्द्रियशक्तिप्रदः ॥ ३६ ॥

श्रीनिवासतीर्थीया

इन्द्रियाणां गत्यादिसाधनत्वरूपस्वभावप्रदोऽहमित्याशयेनाह ॥ गतीत्यादिना ॥ पादवागपानहस्तोपस्थत्वक्रसनश्रोत्रघ्राणनामेते विषयाः । लक्षणमेतद्रूपं विद्धीत्यर्थः । एवं सर्वेन्द्रियाणामिन्द्रियं गत्यादिसाधनत्वशक्तिप्रदोऽहम् ॥ ३६ ॥

पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।

विकारः पुरुषोऽव्यक्तं रजः सत्वं तमः परः ।

अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्वविनिश्चयः ॥ ३७ ॥

मयेश्वरेण जीवेन गुणेन गुणिना विना ।

सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८ ॥

तात्पर्यम्

‘सत्वादिनाम विष्णोस्तु सत्वादिस्थस्य केवलम् । जीवस्थस्य च तन्नाम जीवादेरुपचारत’ इति च ॥ ३७ ॥

पदरत्नावली

विकारो ब्रह्माण्डम् । पुरुषो ब्रह्माण्डान्तःस्थितः । अव्यक्तमचेतनप्रकृतिः । रजआदिकमप्यहम् । रजआदिस्थत्वाद् रजआदिनामा । ‘‘सत्वादिनाम विष्णोस्तु सत्वादिस्थस्य केवलम् । जीवस्थस्य च तन्नाम जीवादेरुपचारतः’’ इत्यादिवचनात् । गत्यादितमःपर्यन्ताः पदार्थास् तत्स्वरूपं किम् । नेत्याह– पर इति । परो विलक्षणो भिन्नः । तन्नियन्तृत्वात् तत्त्वेपदेशः । ‘‘यस्य यस्य स्वभावो यस्तत्तन्नामा हरिः परः । नियामकः स्वभावस्य तत्तच्छब्दादिनामवान् । वैशेषाख्या विभूतिश्च विभूतिश्च स्वभावजा । द्विधा विभूतिर्विज्ञेया विष्णोस्तु परमात्मनः’’ इति वचनात् । एतत्प्रसङ्ख्यानम् एतेषामव्यक्तादीनां तत्वानां प्रकृष्टसङ्ख्यानं यस्मात् तत् तथा ज्ञानं वा अहम् । भगवदविषयत्वादिदं न श्रद्धेयमिति नेत्याह– तत्त्वेति । हरेरनारोपितं स्वरूपं निश्चाययतीति तत्वनिश्चयम् ॥

ननु गतिर्गतिमतामित्याद्युक्तषष्ट्यर्थेन पृथक्कृताः पदार्थास्तेषु तव व्याप्तिर्नास्तीत्यायातम् । तथा च पुरुषेणेदं व्याप्तमित्यादिश्रुतिविरोधः प्राप्त इति तत्राह मयेति । मया विना क्वचिदपि भावः पदार्थो न विद्यत इत्यन्वयः । षण्णवत्यङ्गुलादिलक्षणपरिच्छिन्नपुरुषाकारेण त्वया विना कथं नास्तीत्युच्यत इति तत्राह सर्वेणेति । सर्वं समाप्नोति ततोऽसि सर्व इति स्मृतेः सर्वं व्याप्य तिष्ठता । ननु बहिरेव व्याप्तो न त्वन्तरिति मन्दाशङ्कां परिहरति सर्वात्मनेति । सर्वेषामन्तश्च व्याप्तत्वेन । ननु सर्वव्याप्तस्यापि व्योम्नः को विशेष इत्यतो वाऽऽह सर्वात्मनेति । सर्वनियामकेन । ननु ज्ञानादिगुणरहितस्य नियन्तृत्वं कथं युज्यते निर्गुणश्चेति श्रुतेरत्राह गुणिनेति । यः सर्वज्ञ इति श्रुतेः । ननु कदाचिद् दण्डिनो यथा दण्डाभावेनादण्डित्वं तथाऽस्यापि सम्भाव्यत इत्यत्राह गुणेनेति । विज्ञानमानन्दं ब्रह्मेति श्रुतेः । न केवलं गुणानामेव तदभिन्नत्वं (किन्तु) प्राणधारकत्वादि-क्रियाणामपीति भावेनाह जीवेनेति । ननु गुणी चेन्न गुणः स चेन्न गुणीति युक्तिविरोध इति तत्राह ईश्वरेणेति । अघटितघटकेन । अनेन वैशेष्याख्या स्वभावजेति द्विधा विभूतिरुक्तेति ज्ञातव्यम् । ‘‘वैशेष्याख्या विभूतिस्तु विभूतिश्च स्वभावजा । द्विधा विभूतिर्विज्ञेया विष्णोस्तु परमात्मनः’’ इति वचनात् ॥ ३७,३८ ॥

श्रीनिवासतीर्थीया

अहमहङ्कारतत्त्वम् । अस्मच्छब्दरूपं वा । विकारो ब्रह्माण्डम् । अव्यक्तमचेतनप्रकृतिः । परोऽहमिति सम्बन्धः । अत्र पृथिवीसत्त्वाद्यभेदप्रतीतेस्तात्पर्यमाह ॥ सत्वादीति ॥ तन्नाम जीव इत्यादिनाम । अनेन सूक्ष्माणामप्यहं जीवः । मयेश्वरेण जीवेनेत्यत्र हरौ जीवशब्दप्रवृत्तौ निमित्तमन्तर्यामित्वमुक्तं भवति ॥ एतेषामव्यक्तादितत्त्वानां प्रकर्षेण सङ्ख्यानं यस्माज्ज्ञानाद्भवति तदेतत्प्रसङ्ख्यानं, तत्त्वनिश्चयो ज्ञानं तत्त्वनिश्चयरूपं यज्ज्ञानं तदहम् । तत्त्वसङ्ख्यानसाधनं ज्ञानं ज्ञानानां मध्ये प्रधानमित्यर्थः ॥ न तदस्ति विना यत्स्यान्मया भूतं चराचरमित्युक्तं गीतायां तदाह ॥ मयेति ॥ ईश्वरेण जीवान्तर्यामित्वाज्जीवशब्दवाच्येन गुणेन गन्धादिगुणनियामकरूपेण गुणिना पृथिव्यादिनियामकरूपेण । सर्वात्मना सर्वान्तर्यामिणा । सर्वत्र व्याप्तत्वात्सर्वशब्दवाच्येन मया विना क्वचिद्देशे काले वा भावः पदार्थो न विद्यते सर्वत्राहमेव स्थित इत्यर्थः ॥ ३७,३८ ॥

प्रमेयचन्द्रिका

न केवलं गन्धादिस्वभावजविभूतिरहम् । पृथिव्यादिगतपृथक्त्वादि-स्वभावजविभूतिरप्यहमिति आशयेनोच्यते ॥ पृथिवीति ॥ विकारो महदादिः । विकारांश्च गुणांश्चेति गीतायामुक्तत्वात् । पुरुषो जीवाभिमानी विरिञ्चः । अव्यक्तं मूलप्रकृतिः । अत्र सत्वं तमोऽप्यहमिति सत्वादेर्भगवत्स्वरूपत्वमुच्यत इति भ्रान्तिं प्रमाणेन परिहरति ॥ सत्वादिनामेति ॥ आदिपदेन पृथिवीत्यारभ्य तमइत्यन्तमुक्तानां प्रकृष्टं सङ्ख्यानं चतुर्विंशतितत्वादिग्रहणम् । यस्मात्तदहं तत्वानां निश्चयरूपं ज्ञानं चाहमिति ॥ एवं विभूतीः सङ्क्षेपत उक्त्वा विस्तरेणोच्यते ॥ मयेति ॥ सर्वार्थ-विषयत्वादस्य विस्तरत्वं गीताभाष्योक्तरीत्या ज्ञेयम् । उक्तं च गीताभाष्ये यद्यद्विभूतिमदिति विस्तर इति । स्पष्टं चैतत्प्रमेयदीपिकायाम् । ईश्वरेणाचिन्त्यैश्वर्यवता । जीवेन जीवनहेतुना । जीवनगतेन गुणेन । ज्ञानानन्दगुणात्मकेन सत्वादिगुणगतेनेति वा । गुणिना ज्ञानादिगुणपूर्णेन, गुणिषु रमाब्रह्मादिषु स्थितेनेति वा । सर्वात्मना सर्वस्वामिना । सर्वान्तर्यामिणा वा । सर्वेण देशतः कालतो गुणत इन्द्रियतः क्रियाभिरेकैकगुणादिष्वनन्तगुणादिभिश्च पूर्णेन मया विना क्वचित्कश्चिदपि भावः पदार्थो न विद्यत इत्यर्थः ॥ ३७,३८ ॥

सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।

न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९ ॥

तात्पर्यम्

कालेन सर्वगुणात्मकेन मया । असङ्ख्यत्वात्तथा न क्रियते । नाविज्ञानात् । ‘अनन्तमिति वेत्तीशस्त्वनन्तं त्वन्तवत्तथा । अनन्तस्य हि सङ्ख्याने न तु सर्वज्ञता भवेत् । अनन्तमपि वेत्तीशः प्रत्येकं च विशेषतः । सर्वज्ञत्वान्न सङ्ख्यान-मसङ्ख्यस्य कुतो हि से’ति च ॥ ३९ ॥

पदरत्नावली

एवं विभूतीनामनन्तत्वमुक्तं स्पष्टयति सङ्ख्यानमिति । कालेन सर्वगुणात्मकेन मया । असङ्ख्यत्वात् तथा न क्रियते नाविज्ञानात् । ‘‘अनन्तमिति वेत्तीशस्त्वनन्तं त्वन्तवत्तया । अनन्तस्य हि सङ्ख्याने न तु सर्वज्ञता भवेत् । अनन्तमपि वेत्तीशः प्रत्येकं च विशेषतः । सर्वज्ञत्वान्न सङ्ख्यानमनन्तस्य कुतो हि सा’’ इति वचनात् ॥ ३९ ॥

श्रीनिवासतीर्थीया

नान्तोऽस्ति मम दिव्यानां विभूतीनामिति गीतोक्तमेवाह ॥ सङ्ख्यान-मिति ॥ अत्र परमाणूनां महता कालेन यद्यपि क्रियते तथाऽपि विभूतीनां सङ्ख्यां कर्तुं न शक्यत इति प्रतीयते । तदयुक्तम् । परमाणूनामनन्तत्वेन तत्सङ्ख्याकरणे ईश्वरस्य भ्रान्तत्वापत्तेरतो योजयति ॥ कालेनेति । कल कामधेनुरिति हि धातुः । अनन्तानामित्येतदेव योज्यम् । अत्र यथेत्य-ध्याहारः । यथाऽनन्तानां परमाणूनां कालेन न मया सङ्ख्यानं क्रियते । सङ्ख्याया असत्वादेव न तु विद्यमानसङ्ख्याया एवाविज्ञानात् तथा कोटिशोऽण्डानि सृजतो मे विभूतीनामनन्तानां सङ्ख्यानं न मया क्रियते । सङ्ख्याया असत्वादेव न तु विद्यमानसङ्ख्याया अविज्ञानादित्यर्थः । अत्र प्रमाणमाह ॥ अनन्तमिति ॥ अनन्तं वस्तु अनन्तमिति वेत्ति । अन्तवद्वस्तु तथाऽन्तवत्त्वेनैव वेत्ति । अनन्तमनन्तमिति कुतो वेत्तीत्यत आह ॥ अनन्तस्य त्विति ॥ सर्वज्ञता न भवेत् । विपरीतज्ञानित्वं भवेदिति यावत् । उपसंहरति ॥ अनन्तमपीति ॥ वस्त्विति शेषः । विशेषतोऽवान्तरविशेषसाहित्येन । तत्र सर्वज्ञत्वादिति हेतुः । न सङ्ख्यानमनन्तेषु वेत्ति । कुत इत्यत उक्तम् ॥ असङ्ख्यस्य सङ्ख्या कुतो हीति ॥ ३९ ॥

प्रमेयचन्द्रिका

अतीतानागतवर्तमानाशेषजगतस्तस्य तस्य श्रैष्ट्यादिप्रदत्वेनान्तर्नियामकानि पृथक्विद्यमानान्यनन्तानि विभूतिरूपाणि मे सन्तीति विशदमुच्यते ॥ सङ्ख्यानमिति ॥ कालेन मया परमाणूनां सङ्ख्यानं परिगणनं क्रियते । अबग्निरित्यादिना परिमितदेशवर्तित्वावगमात्कार्य-परमाणूनामपि तत्वात् । कोटिशोऽण्डान्यनंतानि ब्रह्माण्डानि सृजतो मम विभूतिनां सङ्ख्यानं तु न क्रियते । एकैकब्रह्माण्डेऽप्यनंतविविधवस्तूनां भावात्तेषु च वैशेष्यस्वभावजविभूतयः प्रत्यक्ष-विभूतयश्चानन्ताः सन्ति । न तासां तथा परमाणूनामिव संख्यानं क्रियत इत्यर्थः ।

अत्र परमाणूनां सङ्ख्यानस्याल्पकालेन कर्तुमशक्यत्वाद्बहुकालेन क्रियत इति भानात्काले-नेत्येतद्भगवद्विशेषणमित्याशयेन तदर्थमनूद्याह ॥ कालेनेति ॥ कल कामधेनुरित्युक्तेरिति भावः । सङ्ख्यानं न क्रियत इत्युक्ते अज्ञत्वभानादाह ॥ असङ्ख्यत्वादिति ॥ तथा न क्रियते ॥ परमाणूनामिव सङ्ख्यानं न क्रियत इत्यर्थः। एतेन मूले न तथेत्यतःपरं सङ्ख्यानं क्रियत इत्यस्यानु-वृत्तिः कार्येति सूचितं भवति । असङ्ख्यत्वादित्येतत्सावधारणं ज्ञेयमिति भावेनावधारणव्यावर्त्यं दर्शयति ॥ नाविज्ञानादिति ॥

नन्वज्ञानाभावेन सङ्ख्यानं क्रियत एव । न च क्रियत इत्युक्तम् । अतस्तस्य सार्वज्ञायोग इत्याशङ्कां प्रमाणेन परिहरति ॥ अनन्तमिति ॥ यद्वस्तुजातमनन्तं तदनन्तमिति वेत्ति । यच्चान्त-वत्तत्तथेति । अतो यथावस्तु तथा ज्ञानवत्वात्सार्वज्ञं युक्तमिति शेषः । तर्हि सर्वज्ञत्वादेवानन्तस्यापि सङ्ख्यानं कुर्यादित्यत आह ॥ अनन्तस्येति ॥ सर्वज्ञतेत्यतःपरं प्रयोजिकेति शेषः । तत्त-द्वस्तुगतसङ्ख्यां न जानाति चेत्कथं तस्य सार्वज्ञमित्यतो विद्यमानाशेषपदार्थानां प्रत्येकं सूक्ष्माशेष-विशेषाकारेण दर्शनं हि सार्वज्ञम् । तच्चास्तीश्वरस्य अनन्ते सङ्ख्यात्वविद्यमानैवातो न तद्ज्ञानं सार्वज्ञविरोधीत्याह ॥ अनन्तमपीति ॥ सङ्ख्यानमित्यतःपरं वेत्तीत्यनुवर्तते । सा सङ्ख्या कुतः । असङ्ख्ये सङ्ख्येत्यस्य व्याहतत्वादिति भावः ॥ ३९ ॥

तेजः श्रीः कान्ति१ रैश्वर्यं ह्रीस्त्यागः सौभगं भगः ।

वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ॥ ४० ॥

पदरत्नावली

स्वभावजविभूतेर्वैशेष्याख्या कीदृशीत्यत्राह– तेज इति । यत्र यत्र यस्मिन् यस्मिन् पुरुषे तेजआदयो गुणा विशिष्टाः सन्ति स मे अंशकः वैशिष्ट्यापादकमदंशयोगी । सौभगं शुभैकभागित्वम् । भग ऐश्वर्यादिकः । त्यागो निषिद्धत्यागः ॥ ४० ॥

श्रीनिवासतीर्थीया

तथात्वे भ्रान्तत्वं स्यादित्यनिष्टं सूचयति । यद्यद्विभूतिमत्सत्त्वं श्रीमदित्यादिगीतोक्तमेवाह ॥ तेज इत्यादि ॥ सौभगं शुभैकभागित्वम् । शुभैकभागी सुभग इत्युक्तेः। भोग ऐश्वर्यादिकः । यत्र यत्र पदार्थेषु स मेंऽशको मम विभूत्यंशयुक्तः ॥ ४० ॥

दुर्घटभावदीपिका

तेजः पराभवशक्तिः श्रीः कान्तिर्यश ऐश्वर्यं भाग्यं ह्रीर्लज्जा त्यागो दानं सौभगं शुभैकभागित्वं भगो ज्ञानं वीर्यं पराक्रमस्तितिक्षा सहनं विज्ञानं विशेषज्ञानं यत्र यत्र स मेंऽशक इति । एतेन भग इत्यनेन श्रियादीनां प्राप्तत्वात् श्रीरित्यादि पुनरुक्तमिति दूषणस्यानवकाशः । भगशब्दे श्रियादीनां परित्यागेन ज्ञानमात्रस्य ग्रहणात् ॥ ४० ॥

प्रमेयचन्द्रिका

मूले वैशेष्यादिविभूतीः क्रोडीकारेणोच्यन्ते ॥ तेज इति ॥ तेजः पराभि-भवशक्तिः । प्रकाशो वा । श्रीः सम्पत्कान्तिर्वा । ऐश्वर्यमीश्वरभावः । ह्रीर्निषिद्धकरणे लज्जा । मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते । द्रव्यदानं वा । शुभैकभागी तासु भगस्तस्य भावः सौभगः । शुभैकभाक्तमिति यावत् । भग ऐश्वर्यादिषट्कम् । वीर्यमारब्धान्तगामित्वम् । तितिक्षा द्वंद्वसहिष्णुता । विशेषज्ञानं विज्ञानम् । एते गुणा यस्मिन्पुरुषे अतिशयेन सन्ति स मेंऽशकः । वैशेष्योप-पादकमदंशयोगीत्यर्थः ॥ ४० ॥

एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।

मनोविकारा एवैते तथा वाचाऽभिधीयते ॥ ४१ ॥

वाचं यच्छ मनो यच्छ प्राणं यच्छेन्द्रियाणि च ।

आत्मानमात्मना यच्छ न भूयः कल्प्यसेऽध्वने ॥ ४२ ॥

तात्पर्यम्

यथा वाचाऽभिधीयते । नामादिकं जीवादीनां ते सर्वे शब्दा मनो-विकाराः ॥ स्वतो मय्येव सर्वशब्दास्तस्मान्मय्येव वाचं यच्छ । आत्मानं परमात्मानं मय्येव लक्ष्यत्वेन यच्छ ॥ ४१,४२ ॥

पदरत्नावली

उपसंहरति एता इति । यथाऽन्यैर्वाचा जीवादीनां नामादिकम् अग्निमित्र इति अस्य नाम देवदत्त इति अस्याभिधानमित्यादिप्रकारेण सङ्केतितत्वेन क्रियते तथाऽन्यपदार्थेष्वेते सर्वे इन्द्रादिशब्दा मनोविकाराः, मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरतीति श्रुतेः, मनः-सङ्कल्पविषया न तु मुख्यवाचका इत्यर्थः ॥

विभूतिज्ञानस्य फलितार्थमाह– वाचमिति । यतः सर्वशब्दो मय्येव स्वतो मुख्यस्तस्मा-दितरविषयत्वं विहाय वागादिकं मय्येव कुर्वित्यर्थः । प्राणं सर्वचेष्टां मद्विषयां तद्द्वारेण इन्द्रियाणि मद्विषयाणि कृत्वा आत्मना प्रयत्नेन आत्मानं परमात्मानं लक्ष्यत्वेन (कृत्वा) आत्मानं जीवमपि सर्वात्मना यच्छ । नियम्यनियामकलक्षणसम्बन्ध(ज्ञान)शरस्त्वं पुनः संसारध्वने न कल्प्यस इत्यन्वयः

॥ ४१,४२ ॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ एता इति ॥ मनोविकारा इत्यादिकमन्यथाप्रतीति-परिहाराय व्याचष्टे ॥ यथेति ॥ जीवादीनां नामादिकम् । यथाऽस्येदं नामेति येन प्रकारेण वाचाऽभिधीयते तथा त एते सर्वे शब्दाः । तेषु मनोविकारा मनसो विकारा मुख्यतस्तेषां वाचका इति भ्रमात्प्रतीयन्ते न वस्तुतो यतोऽतः स्वतो मय्येव सर्वशब्दा मुख्यया वृत्त्या वाचकत्वेन वर्तन्ते ॥ तस्माद्वाचं मय्येव यच्छ वाचा सर्वशब्दवाच्यतया मद्विषयव्यवहारमेव कुर्वित्यर्थः । मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दन इति व्यवहरेति यावत् । मनो मय्येव यच्छ मनसा मद्ध्यानं कुर्वित्यर्थः । प्राणं चेष्टामिन्द्रियाणि मय्येव यच्छ मदधीनतया चिन्तय मद्विषयान्वा कुर्वित्यर्थः ॥ आत्मानमित्यत्र स्वात्मानमित्यन्यथाप्रतीतेर्व्याचष्टे ॥ आत्मानमिति ॥ मय्येवेति प्रकरणप्राप्तत्वादुक्तम् । परमात्मानं मयि यच्छेत्यसङ्गतमित्यतो विवृणोति ॥ लक्ष्यत्वेन यच्छेति ॥ मदुपलक्षितसर्वावताराभिन्नमात्मानं परमात्मानमात्मना मनसा प्रयत्नेन वा जीवाख्यशरस्य लक्ष्यत्वेन जानीहि । मनोद्वारा जीवं परमात्म-लग्नं कुर्वित्यर्थः । एवं सति भूयोऽध्वने संसारमार्गाय न कल्पसे मुक्तो भविष्यसीत्यर्थः ॥४१,४२॥

दुर्घटभावदीपिका

मुख्यतस्तच्छब्दवाच्यो भगवान् सजातीयाद्याधिक्यप्रदः सन् तत्र तत्र वर्तत इत्युक्तम् । तदनुपपन्नम् । जीवादीनामेव मुख्यतस्तच्छब्दवाच्यत्वमित्यस्य लोकव्यवहार-सिद्धत्वादित्याशङ्काऽत्र परिह्रियते । अत्राज्ञैरित्यादि शेषः । अज्ञैर्यथा याभिः । वाचेत्येकवचनं छान्दसम् । वाग्भिर्जीवादिकमभिधीयते व्यवह्रीयते ता एता । लिङ्गव्यत्ययश्छांदसः । एता वाचस्त एते सर्वशब्दा मनोविकारा मनोजन्यभ्रमविषया एवेति ॥ अयं भावः ॥ तत्तच्छब्दैर्जीवादयो मुख्यतो वाच्या इति ये वदन्ति तेऽज्ञा एव । तच्छब्दा मुख्यतो न जीवानां वाचकाः किन्तु भगवत एव वाचका इति ॥ ता.अर्थः ॥ यथा वाचाऽभिधीयत इति प्रतीकोपादानम् । अभिधीयत इति कर्तॄन् दर्शयति ॥ अन्यैरिति । अन्यैरज्ञैः । तात्पर्यार्थमाह ॥ नामादिकमिति । जीवादीनां ये नामादिकं नामात्मकादिशब्दास्ते सर्वे शब्दा मनोविकारा मनोजन्यभ्रमविषयाः । अतः सर्वशब्दाः स्वतो मुख्यतो मय्येव वर्तन्त इति । एतेन ते सर्वे शब्दा इति वक्ष्यमाणत्वाद् ये नामादिकाः शब्दा इति वक्तव्यम् । नामादिकमिति कथनमनुपपन्नमिति दूषणं परिहृतम् । य इत्यस्य शेषं लिङ्गव्यत्ययं वचनव्यत्ययं चाङ्गीकृत्य ये नामादिकाः शब्दा इत्यर्थस्योक्तत्वात् ॥ आत्मानमात्मना यच्छेत्यस्यात्मनाऽन्तः-करणेनात्मानं परमात्मलक्षणं मय्येव यच्छेदिति वक्तव्यम् । परमात्मानं मय्येव यच्छेति कथनमनुपपन्नमिति दूषणं पराकृतम् । आत्मानमित्यात्मशब्देन परमात्मनो ग्रहणमित्यनङ्गीकारात् ॥ ता.अर्थः ॥ आत्मानं जीवमित्यन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे ॥ आत्मानमिति । परमात्मानं गुणपूर्णत्वादि परमात्मलक्षणं मय्येव यच्छ चिन्तय । न तु तव लक्ष्यत्वाभावात् । गुणपूर्णत्वादिलक्षणं त्वयि कथं चिन्तनीयमित्यत आह ॥ लक्ष्यत्वेनेति । परमात्माभेदेन ममापि लक्ष्यत्वात् । मयि परमात्मलक्षणं चिन्तनं युक्तमिति यावदिति ॥ ४१,४२ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां षोडशोऽध्यायः ॥ ११–१६ ॥

प्रमेयचन्द्रिका

अध्यायार्थोपसंहारः क्रियते ॥ एता इति ॥ नन्वेवमहं सूत्रं हिरण्य-गर्भोऽहमित्यादिषूच्यमानसूत्रहिरण्यगर्भादिनाम्नां भगवद्विभूतिपरत्वे वायुविरिञ्चादिषु तद्व्यवहारो न स्यादित्युद्धवहार्दशङ्कावारणायोच्यते ॥ मनोविकारा इति ॥ इयं सङ्गतिरुत्तरत्र तात्पर्ये स्पष्टी-भविष्यति । अत्र घटशरावाञ्चनादिर्यथा केवलं वाचैवाभिधीयते । न तु मृद्व्यतिरेकेण घटादिरस्ति । तथा एता विभूतयो मनोविकाराः केवलं मनसा कल्पिताः । मिथ्याभूता इति परकीयव्याख्यानं सर्वप्रमाणविरुद्धमुपक्रमादिविरुद्धं चेत्याशयेन यथावद्व्याचष्टे ॥ यथेति ॥ प्रथमादिपदेन गुणादिसङ्ग्रहः । वाक्यादिग्रहणं वा । द्वितीयेन पृथिव्यादिग्रहणम् । तथा च यथाऽन्यैर्वैदिकमर्यादानभिज्ञैः पुत्रादिजीवेषु पित्रादिभिः संकेतितं नारायणादिकं वा देवदत्तादिकं वा नाम पृथिव्यादीनां च लोकतः सिद्धः । भूम्यादिकं नाम ज्ञानी बलवान् पाचक इत्यादि कर्मनाम चेत्यादीनि सर्वनामानि च तत्र तत्र सङ्केतिताल्पगुणत्वास्वतन्त्रत्वाद्यपरिज्ञानेन जीवादय एव तत्तच्छब्दमुख्यवाच्याः । स्वतः सम्यज्ज्ञानादिमन्तश्चेति भ्रान्त्या वाचाऽभिधीयन्ते । व्यवह्रियन्ते । वस्तुतस्तु हरेरेव नामाधिकं मुख्यम् । तथा ते सर्वे सूत्रहिरण्यगर्भादयः शब्दा यो देवानां नामधा एक एव गुणाः सर्वे हरे-रेवेत्यादिवैदिकमर्यादानभिज्ञानां मुख्यतया वाय्वादिषु मनोविकारा मनसो विरुद्धाकारो भ्रमः । अर्शाद्यजन्तोऽयं, भ्रमं प्राप्ता भ्रान्त्या वाय्वादिषु व्यवहृता इति यावत् ॥

वस्तुतस्तु परममुख्यतः सर्वे शब्दा गुणाश्च मय्येव वर्तन्ते । अन्येषु तु भगवद्दत्ताल्प-प्रवृत्तिनिमित्तादिना व्यवह्रियन्त इति भावः । एतेन मूले यथा वाचाऽभिधीयत इत्यत्रान्यैर्नामादिकं यतश्चान्येषु मुख्यतो व्यवहारो भ्रान्तिकृतस् तस्मात्सूत्रं हिरण्यगर्भ इत्यादिवाचं मय्येव ममैव मुख्यवाचका इति ज्ञात्वा व्यवहारं कुरु । अन्यत्र मुख्यतया व्यवहारं जानन्तीति भावः ॥

एतेन वाय्वादिषु स्थिताः सूत्रादिशब्दाः कथं भगवत्परा वाय्वादिपरतया दृश्यमानत्वादिति शङ्कायां मनोविकारा इत्यत्रोपष्टंभकमुक्त्वा वाचं यच्छेत्यत्र समाधानस्य करणात्सार्थक्यं पूर्वोत्तरार्धयोः सङ्गतिश्च सूचिता भवति ॥ मूले वाचोऽन्यपरत्वनिरासाय सर्वशब्दप्रवृत्तिनिमित्तगुणवत्वादिनामानो मयि यच्छ तदर्थं प्राणं सर्वचेष्टाः सर्वाणि बाह्येन्द्रियाणि च मय्येव यच्छेति बोद्धव्यम् । ननु मय्येव वाचं यच्छेति अयुक्तं, मूले मयीति पदाभावादित्यत आत्मानमित्युत्तरपदेन मयीति लभ्यते इत्याशय-वानात्मानं जीवमिति भ्रान्तिं वारयन् व्याचष्टे ॥ आत्मानमिति ॥ द्वितीयाविभक्त्यर्थं दर्शयति ॥ मय्येवेति ॥ सर्वं वाक्यं सावधारणमिति न्यायेन एवेत्युक्तम् । द्वितीयाविभक्तिश्रवणात्कथं मयीति प्रतिपदमित्यत उक्तम् ॥ लक्ष्यत्वेनेति ॥ प्रतियोगे द्वितीया ततश्चात्मानं प्रति यच्छेत्युक्ते आत्मानं लक्ष्यत्वेन विधायेत्यर्थो लभ्यते । सति चैवं यथा देवदत्तं लक्ष्यत्वेन विधाय बाणं यच्छेत्यस्य देवदत्ते बाणं प्रयोजेत्यर्थपर्यवसानं तथापीति भावः ॥

तदयं मूलार्थः ॥ आत्मानं प्रति यच्छेत्युक्ते परमात्मानं लक्ष्यत्वेन विधाय परमात्मनि मयीति यावत् । आत्मना बुध्या भावं यच्छेत्यादि । इन्द्रियाणि चेत्यस्य यच्छेत्युत्तरार्धगतेनान्वयः । वाङ्मनः-प्राणेन्द्रियाणां मदेकदेशनिष्टताकरणे पुनः संसाराध्वने न कल्प्यस इति ॥ ४२ ॥

यो वै वाङ्मनसी सम्यङ् न संयच्छेद् धिया यतिः ।

तस्य व्रतं तपो ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥

तस्माद् वचोमनःप्राणान् नियच्छेन्मत्परायणः ।

मद्भक्तियुक्त्या बुद्ध्या ततः परिसमाप्यते ॥ ४४ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे षोडशोऽध्यायः ॥

तात्पर्यम्

यो मयि न संयच्छति । तस्य ज्ञानं स्रवति ॥ वाङ्मनः प्राणबुध्द्यादी-न्नियच्छेत्केशवे परे । सर्वशब्दाभिधेयत्वं तस्य ज्ञात्वा विशेषतः । मुख्यवृत्त्याऽभिधेयत्व-मन्येषां मनसो भ्रमात् । तस्मात्तथा चिन्तयतः स्रवेज्ज्ञानं यथातथम् । तस्मान्मनो-वचःप्राणान्माधवैकपरायणान् । कुर्यात्तद्धि तपो ग्राह्यं महाधर्मोत्तमश्च स’ इति धर्मविवेके ॥ ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनी’ति च ॥ ४३,४४ ॥

पदरत्नावली

वागादीनां स्वविषयाकरणे बाधकमाह– य इति । यतिः प्रयत्नवान् । स्रवति निष्फलं भवति ॥ मत्सर्वोत्तमत्वज्ञानमेव मुक्तिसाधनमित्युपसंहरति तस्मादिति । ततः ज्ञानसामग््रय-नन्तरं समाप्यते, संसार इति शेषः । ‘‘वाङ्मनःप्राणबुद्ध्यादि नियच्छेत् केशवे परे । सर्वशब्दाभि-धेयत्वं तस्य ज्ञात्वा विशेषतः । मुख्यवृत्त्याऽभिधेयत्वमन्येषां मनसो भ्रमात् । तस्मात् तथा चिन्तयतः स्रवेज्ज्ञानं यथातथम् । तस्मान्मनोवचःप्राणान् माधवैकपरायणान् । कुर्यात् तद्धि तपो ह्यग््रयं महाधर्मोत्तमश्च सः’’ इति, ‘‘यच्छेद् वाङ्मनसी प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति तद् यच्छेच्छान्त आत्मनि’’ इति वाक्यद्वयं तूक्तार्थे प्रमाणम् ॥ ४३,४४ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां पदरत्नावल्याम्

एकादशस्कन्धस्य षोडशोऽध्यायः ॥

श्रीनिवासतीर्थीया

यो वा इति श्लोकतात्पर्यमाह ॥ यो मयीति ॥ वागादीनिति शेषः । तथा च यो यतिः प्रयत्नवान् । धिया बुद्धिपूर्वं वाङ्मनसी । समासान्तविधिरनित्यः । वाङ्मनसी भगवति न संयच्छेत् । तस्यामघटस्थिताम्बुवत्ज्ञानव्रतादिकं स्रवतीत्यर्थः । मनोविकारा इत्यादि-सार्धश्लोकद्वयस्य प्रमाणेनापि तात्पर्यमाह ॥ वाङ्मन इत्यादिना ॥ अन्येषां यन्मुख्यवृत्त्याऽभिधेयत्वं तन्मनसो भ्रमादित्यन्वयः । तथाऽन्येषां मुख्यवाच्यतया तथा यो वाङ्मनसी मयि न सन्नियच्छेन् मनसा मुख्यशब्दवाच्यत्वं मम न जानीयात् किं त्वन्येषां जानीयादिति मूलयोजना सूचिता भवति । यथातथं ज्ञानं यथार्थज्ञानम् ॥ तस्मादिति श्लोकतात्पर्यमाह ॥ तस्मादिति ॥ तद्धि करणम् । सः कृतिविशेषः । अत्र वागादीनां भगवति नियच्छनं नाम तदधीनत्वेन चिन्तनमेव । तत्किं साक्षाद्भगवदधीनत्वं वागादीनां चिन्तनीयमिति शङ्कायां न, किन्तु परंपरयेति भावेन श्रुतिमेव पठति ॥ यच्छेदिति ॥ वाक् वागभिमानिनीमुमां मनसि तदभिमानिरुद्रे नियच्छेत्तदधीनत्वेन चिन्तयेत् । तन्मनोऽभिमानिरुद्रं ज्ञानात्मनि विज्ञानतत्त्वात्मिक्यां सरस्वत्याम् । महत्यात्मनि महत्तत्त्वाभिमानिनि ब्रह्मणि । शान्ते सुखपूर्णे वासुदेवे । लक्ष्मीद्वारेति ग्राह्यम् । तथा च मत्परायणोऽधिकारी मद्भक्तियुक्तया श्रुत्युक्तक्रमेण वागादीन्मयि नियच्छेत् । ततोऽनन्तरं परिसमाप्यते । संसार इति शेषः । मुक्तो भवतीति यावत् ॥ ४३,४४ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे षोडशोऽध्यायः ॥

प्रमेयचन्द्रिका

वागादीनां स्वविषयाकरणे दोषोऽभिधीयते ॥ यो वा इति ॥ अत्र वाङ्मनसोः संयमनमेवोच्यते । न तु भगवदर्पणमित्यतः पूर्वश्लोके आत्मानमित्युत्तरत्र च मत्परायण इत्युक्तत्वात्तदनुसारेणात्रापि मयीति लभ्यत इत्यपि भावेन व्याचष्टे ॥ यो मयीति ॥ स्वोक्तार्थे समाख्यामाह ॥ वाङ्मन इति ॥ विशेषतो मुख्यवृत्या सर्वशब्दाभिधेयत्वं तस्य केशवस्य ज्ञात्वेति सम्बन्धः । अन्येषामपि मुख्यवृत्याऽभिधेयत्वं दृश्यत इत्यत उक्तम् ॥ मुख्यवृत्येति ॥ वैदिक-मर्यादानभिज्ञतानिमित्तकान्मनसो भ्रमादज्ञानां प्रतीयत इति शेषः । तस्मात्तथा प्रतीतेर्भ्रमरूपत्वात्तथा चिन्तयतः पुरुषस्य ज्ञानं यथा तथा आमघटांबुवत् स्रवेत् । अप्रतिष्टितं भवतीत्यर्थः । उपसंहरति ॥ तस्मादिति ॥ अत्र च कुर्यादित्यनेन उपसंहारः । परमूले बाह्येत्यन्तं व्याख्यातम् । तपो हीत्यादिना ततः परिसमाप्यत इति चतुर्थपादो व्याख्यातो भवति । हि यस्मान्माधवैक-परायणत्वमेवाग्य्रमुत्तमं तपो महान् धर्मश्च तस्मात्तथा कुर्यादित्यनेन ततः मनआदिनियमनतः यथा सर्वं तत्साधनजातं पूर्यते । ततश्च मुक्तो भवतीति अर्थ उक्तो भवति ।

अथेदानीं वाचं यच्छेत्यादेरर्थान्तरं श्रुतिसमाख्यया दर्शयति ॥ यच्छेदिति ॥ वाक् वाचं मनसि तन्मनः शान्ते सुखोत्कर्षसीमाभूमिरूपे हरौ । एतेनेन्द्रियाणीन्द्रियाभिमानिदेवान्निन्द्रादीन् वाचं प्रति वाचि वागभिमान्युमादिदेवीषु यच्छेत्तां च वाचं मनः प्रति मनसि मनोभिमनिशिवादिषु यच्छेत्तच्च मनः प्राणं प्रति प्राणे महत्वाभिमानिब्रह्मणि वायौ च यच्छेत् । तं च प्राणमात्मानं परमात्मनि मयि रमाद्वारा यच्छेदिति मूलार्थ उक्तो भवति । तच्चोक्तं काठकभाष्ये ‘‘तस्माद्वागात्मिका देवी उमाद्याश्च शिवादिषु । शिवादीन्ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः ॥ तौ रमायां परानन्दे तां च विष्णौ परात्मनि । तद्वशत्वेन तद्ध्यानं नियमोनाम नापर’’ इति । तथा च मूले यच्छेदित्यस्य तद्वशत्वेन चिन्तनमित्यर्थ इत्युक्तं भवति ।

महाभारत(श्रीमद्भागवत)तात्पर्यनिर्णयामृतसागरे ।

स्खलन्प्रतिपदं चाहं नापहास्यः कृपावताम् ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां षोडशोऽध्यायः ॥