जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः
॥ अथ पञ्चदशोऽध्यायः ॥
श्रीभगवानुवाच—
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः ।
मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः ॥ १ ॥
पदरत्नावली
परं ज्ञानफलममृतमेव न किन्त्वणिमादिसिद्धिरप्यैहीकीत्येतदस्मिन्नध्याये निरूपयति । तत्रादौ नापृष्टः कस्यचिद् ब्रूयादित्यतः प्रश्नबीजमुत्थापयति जितेन्द्रियस्येति
॥ १ ॥
श्रीनिवासतीर्थीया
अत्रापरोक्षज्ञानफलं मुख्यतो मोक्ष एव । अणिमादियोगसिद्धिरप्यैहिकीति निरूपयितुं नापृष्टः कस्यचिद्ब्रूयादित्यतः प्रश्नबीजमुत्थापयति ॥ जितेन्द्रियस्येति ॥ युक्तस्य मयि मनोनियुक्तस्य । तस्यैव विवरणम् ॥ मयि धारयतश्चेत इति ॥ जितश्वासस्य प्राप्तमुख्य-प्राणप्रसादस्य । असुरादीनां मायिका इति ध्येयम् ॥ १ ॥
प्रमेयचन्द्रिका
समाधिजनितापरोक्षज्ञानफलं न केवलं मोक्षः । किंतु अणिमादियोग-सिद्धिरप्यैहिकी भवतीति भगवतोच्यते ॥ जितेन्द्रियस्येति ॥ युक्तस्य ध्यानानुकूलाहार-विहारादियुक्तस्य मयि चेतो धारयतश् चित्तं भगवदेकनिष्टं कुर्वतः । समाधिपरिपाकवत इति यावत्
॥ १ ॥
उद्धव उवाच—
कया धारणया का स्वित् कथं वा सिद्धिरच्युत ।
कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥ २ ॥
पदरत्नावली
सिद्धय इति शुश्रुवानुद्धवः कीदृश्या धारणया का का सिद्धिस् ताश्च कति-सङ्ख्याताः सन्तीति पृच्छति कयेति ॥ २ ॥
श्रीनिवासतीर्थीया
सिद्धय उपतिष्ठन्तीति श्रुत्वा चोदयत्युद्धवः ॥ कयेति ॥ कीदृशेत्यर्थः । कति सङ्ख्याकाः । किमहं जाने? अतो मां प्रति प्रश्नो व्यर्थ इत्यत उक्तम् ॥ योगिनामिति
॥ २ ॥
प्रमेयचन्द्रिका
कया कीदृश्या धारणया साधनभूतया का स्वित् । सिद्धिर्भवति, सा च सिद्धिः कथम्भूता, वस्तुतः सिद्धयः कियत्सङ्ख्याकाः, योगिनां सिद्धिद इत्येत्सम्यक् सिद्धिपरिज्ञानं तवैव तत्स्वयमेवोत्तरदाने समर्थ इति ज्ञापयितुमिति बोध्यम् ॥ २ ॥
श्रीभगवानुवाच—
सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः ।
तासामष्टौ मत्प्रधाना ता एव१ गुणहेतवः ॥ ३ ॥
तात्पर्यम्
मय्येव प्राधान्येन सन्ति अन्येषूपचारत इति मत्प्रधानाः । ‘सर्वाधिका अणीमाद्या विष्णोर्नान्यस्य कस्यचित् । स्वाभाविका विरिञ्चस्य तत्प्रसादात्पराधिका’ इति स्वाभाव्ये ॥ गुणभूतानामन्यासामपि सिद्धीनां ता एव हेतवः । स्व(अ)तस्तास्वेवाष्ट-स्वन्यासामन्तर्भावात् । ‘निःसीमाष्टगुणाभावात्सिद्धयोऽष्टादश स्मृताः । देवेभ्योऽन्यत्र देवानां सिद्धयोऽष्टैव सम्मता’ इति प्राकाश्ये ॥ ३ ॥
पदरत्नावली
कति वेति प्रश्नं परिहरति सिद्धय इति । धारणयोगपारगैर् धारणाख्ययोगपारं गतैः । अत्रोत्पन्नज्ञानस्यापि तत्तद्योगसिद्धये तत्तदधिष्ठानगततत्तद्भगवद्रूपविशेषानुस्मरणं धारणेत्युच्यते । तस्मात् सिद्धीनां मुख्यतो ज्ञानफलत्वेऽपि धारणफलत्वमुपचारः । अन्यथाऽनुत्पन्नज्ञानस्यापि धारणमात्रेण तत्सिद्धिप्रसङ्ग इति । असुराणां तु भगवत्क्लृप्तमायाहेतव इति च । तासामष्टादशसिद्धीनां मूलभूता अष्टौ सिद्धयो मय्येव प्रधाना मुख्या अन्येषु देवेषूपचरिता इति मत्प्रधानाः । ‘‘सर्वाधिका अणीमाद्या विष्णोर्नान्यस्य कस्यचित् । स्वाभाविका विरिञ्चस्य तत्प्रसादात् पराधिकाः’’ इति स्वाभाव्यवचनात् । ता एव अष्टैव गुणभूतानामनूर्मिमत्त्वादीनामपि हेतवः । ‘‘निःसीमाष्टगुणाभावात् सिद्धयोऽष्टादश स्मृताः । देवेभ्योऽन्यत्र देवानां सिद्धयोऽष्टैव सम्मताः’’ इति ॥ ३ ॥
श्रीनिवासतीर्थीया
कति वेति प्रश्नं परिहरति ॥ सिद्धय इति ॥ धारणायोगपारगैरपरोक्ष-ज्ञानिनो तत्तदधिष्ठानगतभगवद्रूपविशेषानुस्मरणं धारणेत्युच्यते ॥ योगोऽणिमादिसिध्द्युपायः । धारणाऽणिमादिसिद्ध्युपायपारंगतैरित्यर्थः । यद्वा । हरौ मनोयोगेन या धारणा ध्यानं तत्साध्याः सिद्धय इत्यर्थः । तत्र मत्प्रधाना इत्येतदेव मत्तः प्रधाना इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ मय्येवेति ॥ सर्वं वाक्यं सावधारणमिति न्यायादित्याशयः । तद्व्यावर्त्यं दर्शयति ॥ अन्येष्विति ॥ मदन्येषु तत्त्वाभिमानिदेवेष्वित्यर्थः । मत्प्रधाना इत्यत्र प्रमाणमाह ॥ सर्वेति ॥ विष्णोरणिमाद्याः सर्वाधिका रमाद्यधिकाः स्वाभाविका धारणासाध्याः सन्तीत्यर्थः । औत्पत्तिका इत्यस्यार्थोऽयम् । अन्यस्य कस्यचिद्देवताजातस्य विद्यमाना अणिमाद्याः सर्वाधिकाः स्वाभाविकाश्च न सन्तीत्यर्थः । किं सर्वदेवेष्वप्यणिमाद्याः सिद्धयः समा इत्यतो नेत्याह ॥ विरिञ्चस्येति ॥ तस्य विष्णोः प्रसादात्पराधिकाः परेषां रुद्रादीनामपेक्षयाऽधिकाः सन्तीत्यर्थः ।
गुणहेतव इत्यत्र गुणाः सत्त्वाद्या हेतवो येषां ते तथेत्यन्यथाप्रतीतिं वारयन्व्याचष्टे ॥ गुणभूता-नामिति ॥ अप्रधानभूतानामित्यर्थः । अन्यासामष्टादशसिद्धीनाम् । ता एव प्रधानभूताणिमाद्यष्टसिद्धय एव । अणिमादिसिद्धीनां प्रधानत्वमष्टादशसिद्धीनां तु गुणत्वं कुत इत्यत आह ॥ स्वत इति ॥ तास्वेवाणिमाद्याष्टस्वेव । अन्यासामष्टादशसिद्धीनां स्वत एवान्तर्भावाद्गुणप्रधानभावो ज्ञायते । अत इति पाठः स्वरसः । तत्रायमर्थः । अत एवेत्यन्वयः । अन्तर्भावात्प्रमाणेऽन्तर्भावोक्तेरुपपन्नत्वा-दित्यर्थः । तथा च गुणप्रधानभावस्य सत्वादेवान्यासामत्रान्तर्भावोक्तिर्युक्ता । अन्यथा तन्न स्यादिति । सिद्धयोऽष्टादशेत्यत्र प्रमाणेनैवापेक्षितं पूरयति ॥ निःसीमेति ॥ परिपूर्णेत्यर्थः । देवेभ्योऽन्यत्र तत्त्वाभिमानिदेवव्यतिरिक्तेषु । ऋषिगन्धर्वादिष्वित्यर्थः । तथा च देवेभ्योऽन्यत्राणिमादिसिद्धीनां निःसीमानामभावादष्टादशसिद्धय एव प्रोक्ताः स्मृताः । तासां सकाशादष्टौ सिद्धयो मत्प्रधाना मय्यैव प्रधाना निःसीमा देवेषु मदपेक्षया ससीमा इतरापेक्षया निःसीमा इत्यर्थः । ता एवाष्टौ गुणभूतानामन्यासां हेतवोऽतस्तास्वन्यासामन्तर्भाव इति श्लोकार्थः ॥ ३ ॥
प्रमेयचन्द्रिका
कति वेति प्रश्नस्तावत् परिह्रियते ॥ सिद्धय इति ॥ धारणायोगपारगैर् धारणाख्यो योऽयं योगस् तत्पारगतैः । तासामष्टादशसिद्धीनां मूलभूता इति शेषः । अष्टौ सिद्धयो मत्प्रधानाः । अत्र मत्प्रधाना अहमेव प्रधानो येषां त इति भाति । तदसङ्गतमित्यतो व्याचष्टे ॥ मय्येवेति ॥ मय्येव प्राधान्येन सन्तीति । मत्प्रधाना इत्यस्य अभिप्रायं विवृणोति ॥ अन्येषूप-चारत इति ॥ तथा च नात्र बहुव्रीहिः किं तु मयि प्रधाना मत्प्रधाना इति तत्पुरुषोऽभिप्रेतः । मयि प्राधान्यं नाम सर्वापेक्षया आधिक्येन स्वभावसिद्धतया सद्भाव इति भावः । अत्र प्रमाणमाह ॥ सर्वाधिका इति ॥ अणीमाद्या इति दीर्घ उत्तराधिक्यद्योतकः । आधिक्ये अधिकमित्येव हरिणा सूत्रमीरितमित्युक्तेः सर्वाधिकाः स्वाभाविकाः । उपासनां विना स्वभावत एवानादिसिद्धा इति यावत् । अणिमाद्या विष्णोरेकस्यैव नान्यस्य कस्यचिदित्यर्थः । नान्यस्येत्यत्र विशेषणमाह ॥ विरिञ्च-स्येति ॥ विरिञ्चस्य तत्प्रसादादिना अत एव लब्धा अत एव स्वाभाविकाः । परेभ्यो रुद्रादिभ्यो अधिकाः । सन्तीति योज्यम् ।
मूले तासां मूलभूता इत्युक्तस्य विवरणम् औव गुणहेतव इति । अत्राष्टसिद्धय एव सुखज्ञानादि-गुणहेतव इति भानाद्व्याचष्टे ॥ गुणभूतानामिति ॥ स्वप्रधानतया स्थितानां तासामष्टादशद्धीनाम् । ता अष्टसिद्धय एव हेतवः कारणभूता इत्यर्थः । नन्वष्टैव सिद्धयो मयि सन्तीत्युक्तम् । अनूर्मिमत्वा-दष्टादशसिद्ध्यभावे हरेर्निर्विकारत्वादिगुणालाभादित्यत आह ॥ अत इति ॥ गुणभूतानामिति पूर्ववाक्यमत्रापि संयोज्यम् । यत इति ग्राह्यम् । तथा च यतो गुणभूतानामष्टादशसिद्धीनामष्टसिद्धय एव हेतवः । अष्टसिद्धिलाभे स्वत एवानुषङ्गसिद्धतया भवन्त्यतोऽष्टस्वेवान्यासामन्तर्भावः । ततश्च निर्विकारत्वादिगुणलाभ इति भावः ॥ ननु यदाऽष्टादृशसिद्धीनामष्टसिद्धिष्वन्तर्भावस्तर्ह्यष्टसिद्ध्युक्तयैव तासां लाभान्मूले पृथग्वर्णनं न स्यादित्याशङ्कामधिकारिविशेषनिष्ठत्वेन व्यवस्थां परिहरत्प्रमाणं पठति ॥ निःसीमेति ॥ देवेभ्योऽन्यत्र देवावरेषु निःसीमाष्टगुणाभावान्निर्मर्यादतया परिपूर्णानामणिमाद्यष्ट-गुणानामभावात्तदेकदेशतयाऽत्यल्पकाष्टादशैव स्मृताः । देवानां त्वष्टैव सिद्धयः संमताः । तदीयाष्टमहासिद्धीनामन्तर्भावादिति भावः ॥ ३ ॥
अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः ।
प्राकाश्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ॥ ४ ॥
गुणेष्वसङ्गो वशिता यत्कामस्तदवाप्स्यति ।
एता मे सिद्धयः सौम्याष्टावौत्पत्तिका मताः ॥ ५ ॥
**तात्पर्यम् **
शक्तिप्रेरणमेवेशितृत्वम् । असङ्ग एव वशित्वम् । ‘यादृशानन्दकामः स्यात्तादृशानन्दसम्भवः । भोगान्विनैव प्राकाम्यमणिमादेः पृथक् तत’ इति ॥ ४,५ ॥
पदरत्नावली
कास्ता अष्टेति तत्राह– अणिमेत्यादिना । मूर्तेः स्वरूपस्याणिमादिसिद्धिः । इन्द्रियैर् अन्येन्द्रियैर् विषयप्राप्तिः । श्रुतेषु दृष्टेषु प्राकाश्यम् । शक्तिप्रेरणमेवेशितृत्वम् । गुणेष्वसङ्ग एव वशित्वम् । यस्मिन् कामो यस्य स यत्कामस्तत्काममवाप्स्यतीति यत् (तत्) प्राकाम्यम् । ‘‘यादृशानन्दकामः स्यात् तादृशानन्दसम्भवः । भोगान् विनैव प्राकाम्यमणिमादेः पृथग् यतः’’ इति वचनात् ॥ ४–५ ॥
श्रीनिवासतीर्थीया
अष्टौ मत्प्रधाना इत्युक्तम् ॥ कास्ता अष्टसिद्धय इत्यतस्ता उदाहरति ॥ अणिमेति ॥ अत्र शक्तिप्रेरणमीशिता गुणेष्वसङ्गो वशितेति सिद्धिचतुष्टयं प्रतीयते । तथात्वे सिद्धिदशकमुक्तं स्यादित्यतस्तत्र व्याख्यानव्याख्येयभावेन सिद्धिद्वयमेवोक्तमिति न दोष इत्याह ॥ शक्तीत्यादिना ॥ नन्वणिमादिसप्तसिद्ध्यपेक्षया न प्राकाम्यस्यापार्थक्यम् । प्रकृष्टकामनया प्रकृष्ट-काम्यवत्त्वं हि प्राकाम्यं यत्कामस्तदवाप्स्यतीत्युक्तेः । यदाऽणिमादिकामनयाऽणुत्वादिप्राप्तिस्तदा प्रकृष्टकामनया प्रकृष्टकाम्यवत्त्वमपि तस्मिन्प्राप्तमेव । तद्विशेषवति तत्सामान्यावश्यम्भावादिति चेन्न । स्यादिदं यदि सामान्यतः कामनावत्त्वमेव प्राकाम्यं स्यान्न चैवम् । किं नामानन्दकामनयाऽऽनन्द-प्राप्तिरेव । न ह्यणिमादिकामनयाऽणुत्वादिप्राप्तावानन्दकामनयाऽऽनन्दत्वरूपप्राकाम्यप्राप्तिरतो नोक्तदोष इति वदन् आनन्दकामनयाऽऽनन्दप्राप्तौ विशेषमाह ॥ यादृशेति ॥ तत्तदानन्दविशेषजननाय ये चूतफलभक्षणाद्या भोगा विनियुक्तास्तान्विनैव चूतफलभक्षणादिजन्यानन्दस्य सम्भवः प्राकाम्यमित्यर्थः । चूतफलभक्षणजन्यानन्दो मे स्यादिति यदा कामयते तदा चूतफलभक्षणाभावेऽपि स आनन्दो भवतीत्यादि द्रष्टव्यम् ॥ ४,५ ॥
प्रमेयचन्द्रिका
मूले कास्ता अष्टमहासिद्धय इत्यत उच्यन्ते ॥ अणिमेति ॥ मूर्तेः स्वरूपस्य वा देहस्य वा गुणत्वं महत्वं लघुत्वं चेति त्रितयं च चतस्रः सिद्धयः । इन्द्रियैर् द्रव्य-विषयप्राप्तिश्चतुर्थी । श्रुतेषु दृष्टेषु वस्तुषु वेदादिषु तदर्थादिषु च प्राकाश्यम् । प्रकाशो ज्ञानम् । तद्वत्वं पञ्चमी । शक्तिप्रेरणमीशितेत्यत्र परकीयशक्तिप्रेरणमीशिता चेति सिद्धिद्वयमिति भाति । तथात्वेऽष्टभ्यश्चाधिक्यं स्यादित्यत आह ॥ शक्तिप्रेरणमेवेशितृत्वमिति ॥ शक्तिप्रेरणमित्य-नेनेशितृत्वस्य विवरणं क्रियते । अतो नाधिक्यं भवतीति भावः । एवं गुणेष्वसङ्गो वशितेत्यत्रापि सिद्धिद्वित्वप्रतीतेराह ॥ असङ्ग एव वशित्वमिति ॥ सर्ववस्तुसम्बन्धकृतलेपाभावेन सर्ववशीकरणं वशित्वमित्यर्थः ॥
ननु प्रकर्षेण कामितार्थप्राप्तिर्हि प्राकाम्यं ततश्चाणिमादिसिद्धेरपि कामितार्थप्राप्तिरूपत्वादणिमादेः पृथक्प्राकाम्याभावेन सिद्धीनामष्टत्वायोग इत्याशङ्कां मानेन परिहरति ॥ यादृशानन्देति ॥ यस्य यद्विषयभोगजन्यानन्दस्य कामस्य यादृशानन्दस्य भोगान्विनाऽपि प्राप्तिः प्राकाम्यमित्युच्यते । अतो ऽणिमादिसप्तसिद्धिभ्यः पृथगेव प्राकाम्याख्याष्टमी सिद्धिरिति भावः । एतेन पुरुषो यत्कामः यद्द्विषयजन्यानन्दकामस्तमानन्दं तद्विषयभोगं विनाऽप्यवाप्स्यतीत्यष्टमसिद्धिरूपप्रकाम्यस्यैवात्रोक्तेर्न न्यूनतेति मूलाभिप्राय उक्तो भवति । अष्टसिद्धीरुक्तवोपसंहारः क्रियते ॥ एता मे सिद्धय इति ॥ एता अणिमाद्या अष्टौ सिद्धय औत्पत्तिकाः स्वाभाविका न तूपासनारभ्याः । तथा मे सम्बन्धिनो विरिञ्चस्य मे प्रसादात्स्वाभाविका इत्यर्थः ॥ ४,५ ॥
अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।
मनोजवः कामरूपं परकायप्रवेशनम् ॥ ६ ॥
स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।
यथासङ्कल्पसंसिद्धिराज्ञाऽप्रतिहतागतिः ॥ ७ ॥
त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।
अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भोऽपराजयः ॥ ८ ॥
तात्पर्यम्
अनूर्मिमत्त्वं प्राकाम्येऽन्तर्भूतम् । दूरश्रवणदर्शनं त्रिकालज्ञत्वम् । परचित्ताद्यभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्यादिषट्कं प्राप्त्यन्तर्भूतम् । अन्य-त्सर्वमीशित्वान्तर्भूतमपि परमेशत्वाभावे प्रथगित्यष्टादश । अग्न्यर्काम्बुविषादीनामित्यादि-शब्दोक्ता । शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशी (सप्त-दशमी) । अप्रतिहता आ समन्ताद्गतिर्यस्या आज्ञायाः साऽप्रतिहतागतिः । अद्वन्द्वम-प्रतिहतं त्रिकालज्ञत्वम् । अग्न्यर्काम्बुविषाणां प्रतिस्तम्भाश्चतस्रः सिद्धयः । दूरश्रवणदर्शने द्वे सिद्धी । ‘गरिम्णः सैव हेतुः स्यान्महिमा हेतुधारणा । प्रायोऽष्टसिद्धिकथनेष्वथो न पृथगुच्यत’ इति च ॥ ‘प्राप्तिप्राकाश्ययोश्चापि धारणैकापि सम्भवेत् । अत ऐक्येन तामुक्तवा गरिमाणं पृथक् क्वचिदि’ति च ॥ ‘मूलभूतास्तु सिद्धीनां देवानामष्टसिद्धयः । सर्वसिद्धिप्रधानास्तास्तज्जा अष्टादश स्मृताः । अष्टस्वन्तर्गतास्तास्तु तदपेक्षतयाऽल्पका’ इति च ॥
कामरूपत्वस्याणिमादित्रयेऽप्यन्तर्भावः । अष्टसिद्धिपक्षे अग्न्यर्कस्तम्भ एकैव सिद्धिर् अदाहत्वात् । अग्न्यादिप्रतिस्तम्भस्य वशित्वेऽपि । अनूर्मिमत्त्वाद्यष्टादशपृथक्सिद्धि-पक्षेऽग्न्यर्कस्तम्भयोः पृथक्तवम् । तस्मिन्पक्षे तासां सकाशात्प्रधानाष्टौ मत्प्रधाना इति व्याख्या । ‘अनूर्मिमत्त्वसिद्धिस्तु प्राकाम्यान्तर्गता मता । दूरश्रुतिर्दूरदृष्टिस्त्रिकालज्ञत्वमेव च । परचित्ताद्यभिज्ञानं प्राकाश्यान्तर्गतानि च । अणिमादित्रयान्तश्च कामरूपत्वमिष्यते । अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भो वशित्वगः । मनोजवः कामरूपं परकायप्रवेशनम् । स्वच्छन्दमृत्युता देवैः सह क्रीडेष्टसाधनम् । प्राप्तावन्तर्गतान्याहुराज्ञाऽप्रतिहतिस्तथा । अग्निस्तम्भो रविस्तम्भ उदकस्तम्भ एव च । विषस्तम्भस्तथा शस्त्रशापादिस्तम्भ एव च । ईशित्वान्तर्गतान्याहुरपराजय एव च । एवमष्टादशाष्टभ्यो जायन्ते सिद्धयः क्रमात् । अष्टादशभ्यश्चान्यास्तु जायन्ते सिद्धयोऽमिताः । अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम् । यथेष्टानन्दसम्प्राप्तिः प्राकाम्यमिति कीर्त्यते । दुःखाभावोऽपि प्राकाम्ये नेतरे सुखि-तेष्यते । प्राकाश्यं सर्ववेदादिज्ञानमेव विदो विदुः । सहस्रयोजनान्तं तु दूरदर्शनमिष्यते । दूरश्रवणमप्येवं तस्मिन्नेव युगे स्थिते । वेदादिकं विना प्रोक्ता त्रिकालज्ञानिता बुधैः । शरीरस्थं विना देहे परचित्ताद्यभिज्ञता । अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पवेगिता । प्राप्ति-रित्युच्यते सद्भिः स्वमनः समवेगिता । मनोजव इति प्रोक्तः पश्वाद्याकारता तथा । कामरूपत्वमुद्दिष्टं स्वदेहत्यागतः परे । परकायप्रवेशः स्याद्युगादर्वाक्तना स्मृता । स्वच्छन्दमृत्युता देवैः क्रीडा चेन्द्रादिभिर्विना । यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुतादिषु ।
चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता । महिमा चापि सम्प्रोक्ता त्रिलोकान्तर-पूरणात् (णं) । चक्षुर्दृश्यैर्विवाह्यत्वं लघिमा चापि कीर्तिता । त्रिलोकसमभारस्तु गरिमा चापि कीर्तिता । पूर्वशक्तेः कोटिगुणशक्तयुद्रेकस्तथेशिता । भुविस्थैः प्राणिभिश्चोक्तकरणं चापि कीर्त्यते । आज्ञाऽप्रतिहतिर्ब्राह्मादर्वागस्त्रविघातनम् । विना महातपस्वींश्च शाप-प्रतिहतिः स्मृता । अपराजयो मनुष्येभ्यो वशित्वं चाप्यलोलता । दाहादिसहनं चापि प्रतिस्तम्भ इतीर्यते । इति षड्विंशतिः प्रोक्ता गरिम्णा सह सप्त वा । विंशतिश्च सुरेभ्योऽन्यद्देवेष्वष्टैव सिद्धयः । यतो निःसीमकास्तेषां देवानामष्टसिद्धयः । अतोऽष्टादश-सिद्धीनां तदन्तर्भाव इष्यते । देवेष्विन्द्रेशवायुश्रीविष्णूनामुत्तरोत्तरम् । सिद्धयः परिपूर्णास्तु विष्णोरेकस्य नान्यगा’ इत्यैश्वर्ये ॥ ‘श्रुतेषु तु यथायोगं क्षिप्रग्रहणमेव तु । उक्तं प्राकाश्यमन्येषां देवानामश्रुतेष्वपि । ऋषीणां मिश्रभावेन भासते किञ्चिदश्रुतम् । विषयेभ्योऽधिकसुखव्यक्तिः प्राकाम्यमेव तु । इतरेषां सुराणां तु निःसीमानन्दभोजनम् । एवमेव तु निःसीमा देवानामष्टसिद्धयः । उत्तरोत्तरमत्रापि यावद्विष्णुः सुपूर्णभुगि’ति हरिवंशेषु ॥ ‘अग्न्यादिशक्तिसंस्तम्भ अग्न्यादिस्तम्भ इष्यत’ इति कौर्मे ॥ ६–८ ॥
पदरत्नावली
इदानीमष्टादशसिद्धीरुद्दिशति अनूर्मिमत्त्वमित्यादिना । अणिमा महिमा लघिमा प्राप्तिः प्राकाश्यमीशिता वशिता प्राकाम्यमित्यष्टमहासिद्धयः । अनूर्मिमत्त्वं दूरश्रवणं दूरदर्शनं मनोजवः कामरूपं परकायप्रवेशनं स्वच्छन्दमृत्युर् देवानां सहक्रीडानुदर्शनं यथासङ्कल्पसंसिद्धिर् आज्ञा अप्रतिहतागतिर् अद्वन्द्वं त्रिकालज्ञत्वं परचित्ताद्यभिज्ञता अग्निस्तम्भो ऽर्कस्तम्भः जलस्तम्भः विषादिस्तम्भः, अत्रादिशब्देन शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहतिर्गृहीता । इयं सम्भूय सप्तदशी सिद्धिः, अपराजय इत्यष्टादशसिद्धयो ऽणिमाद्यष्टसिद्धिभ्यो जाताः । एवमुभये सम्भूय षड्विंशाः, गरिम्णा सहाष्टविंशाः । अथान्तर्भावभेदेनाष्टदशसिद्धयोऽष्टसिद्धय इति केषां चित् पक्षः । तथाहि अनूर्मिमत्त्वस्य प्राकाम्यान्तर्गतत्वेन ते उभे एका । दूरश्रवणदूरदर्शनत्रिकालज्ञत्वपरिचित्ताद्यभिज्ञतानां प्राकाश्यान्तर्भावेन चतस्र एका । कामरूपत्वस्याणिमामहिमालघिमान्तर्भावेनैका । अग्निस्तम्भार्क-स्तम्भजलस्तम्भविषस्तम्भशस्त्रास्त्रशापादिस्तम्भानाम् ईशित्ववशित्वान्तर्भावेन पञ्च अपराजयोपी-शित्वान्तर्गत इति षट् मनोजवकामरूपपरकायप्रवेशस्वच्छन्दमृत्युता देवैः सहितक्रीडानुदर्शनाज्ञा-प्रतिहतागतीनां प्राप्त्यन्तर्भावेन षट् । अत्र कामरूपत्वस्य द्विवारोक्तिः रूपभेदेन न विरुध्यते । ‘‘गरिम्णः सैव हेतुः स्यान्महिमाहेतुधारणा । प्रायोऽष्टसिद्धिकथनेष्वतो न पृथगुच्यते’’ इति, ‘‘प्राप्तिप्राकाश्ययोश्चापि धारणैकापि सम्भवेत् । अत ऐक्येन तावुक्त्वा गरिमाणं पृथक् क्वचित्’’ इति, ‘‘मूलभूतास्तु सिद्धीनां देवानामष्टसिद्धयः । सर्वसिद्धिप्रधानास्तास्तज्जा अष्टादश स्मृताः । अष्टस्वन्तर्गतास्तास्तु तदपेक्षतयाऽल्पकाः’’ इति, ‘‘अनूर्मिमत्त्वसिद्धिस्तु प्राकाश्यान्तर्गता स्मृता । दूरश्रुतिर्दूरदृष्टिस्त्रिकालज्ञत्वमेव च । परचित्ताद्यभिज्ञानं प्राकाश्यन्तर्गतानि च । अणिमादित्रयान्तश्च कामरूपत्वमिष्यते । अग्न्यर्काम्बुविषादीनां प्रतिस्तम्भो वशित्वगः । मनोजवः कामरूपं परकाय-प्रवेशनम् । स्वच्छन्दमृत्युता देवैः सहक्रीडेष्टसाधनम् । प्राप्तावन्तर्गतान्याहुराज्ञाऽप्रतिहतिस्तथा । अग्निस्तम्भो रविस्तम्भ उदकस्तम्भ एव च । विषस्तम्भस्तथा शस्त्रशापादिस्तम्भ एव च । ईशित्वान्तर्गतान्याहुरपराजयमेव च । एवमष्टादशाष्टभ्यो जायन्ते सिद्धयः क्रमात् । अष्टादशाभ्यश्चा-न्यास्तु जायन्ते सिद्धयोऽमिताः । अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम् । यथेष्टानन्दसम्प्राप्तिः प्राकाम्यमिति कीर्त्यते । दुःखाभावोऽपि प्राकाम्ये नेतरे सुखितेष्यते । प्राकाश्यं सर्ववेदादिज्ञानेमव विदो विदुः । सहस्रयोजनान्तं तु दूरदर्शनमिष्यते । दूरश्रवणप्येवं तस्मिन्नेव युगे स्थिते । वेदादिकं विना प्रोक्ता त्रिकालज्ञानिता बुधैः । शरीरस्थं विना देहे परचित्ताद्यभिज्ञता । अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पयोगिता । प्राप्तिरित्युच्यते सद्भिः स्वमनःसमवेगिता । मनोजव इति प्रोक्तः पश्वाद्याकारता तथा । कामरूपत्वमुद्दिष्टं स्वदेहत्यागतः परे । परकायप्रवेशः स्याद् युगादर्वाक्तनः स्मृतः । स्वच्छन्दमृत्युता देवैः क्रीडा चेन्द्रादिभिर्विना । यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुखादिषु । चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता । महिमा चापि सम्प्रोक्ता त्रिलोकान्तरपूरणात् । चक्षुर्दृश्यै-र्विबाह्यत्वं लघिमा चापि कीर्तिता । त्रिलोकसमभारस्तु गरिमा चापि कीर्तिता । पूर्वशक्तेः कोटिगुण-शक्त्युद्रेकस्तथेशिता । भुविस्थैः प्राणिभिः प्रोक्तकरणं चापि कीर्त्यते । आज्ञाऽप्रतिहतिर्ब्राह्मादर्वागस्त्र-विघातनम् । विना महातपस्वीश्च शापाप्रतिहतिः स्मृता । अपराजयो मनुष्येभ्यो वशित्वं चाप्यलोलता । दाहादिसहनं चापि प्रतिष्टम्भ इतीर्यते । इति षड्विंशतिः प्रोक्ता गरिम्णा सह सप्त वा । विंशतिश्च सुरेभ्योऽन्यद् देवेष्वष्टैव सिद्धयः । यतो निःसीमकस्तेषां देवानामष्टसिद्धयः । अतोऽष्टादशसिद्धीनां तदन्तर्भाव इष्यते । देवेष्विन्द्रेशवायुश्रीविष्णूनामुत्तरोत्तरम् । सिद्धयः परिपूर्णास्तु विष्णोरेकस्य नन्यगाः’’ इति, ‘‘श्रुतेषु तु यथायोगं क्षिप्रग्रहणमेव तु । उक्तं प्राकाश्यमन्येषां देवानामश्रुतेष्वपि । ऋषीणां मिश्रभावेन भासते किञ्चिदश्रुतम् । विषयेभ्योऽधिकसुखव्यक्तिः प्राकाम्यमेव तु । इतरेषां सुराणां तु निस्सीमानन्दभोजनम् । एवमेव तु निस्सीमा देवानामष्टसिद्धयः । उत्तरोत्तरमत्रापि यावद् विष्णुः सुपूर्णभुक्’’ इति, ‘‘अग्न्यादिशक्तिसंस्तम्भश्चाग्निसंस्तम्भ इष्यते’’ इति, ‘‘एकस्मात् सिद्धयो विष्णोः स्थानभेदात् पृथग्विधाः । एकस्थानगताद्वा स्युः सुस्थिरोपासना यदि’’ इति नानाकोशगतवाक्यबलादुक्ता एवान्तर्भावाः सङ्ख्याश्च नान्याः शुकतीर्थाद्युक्तविधा इति । अप्रतिहता आ समन्ताद् गतिर्यस्या आज्ञायाः सा तथा आज्ञा अप्रतिहतागतिः ॥ ६–८ ॥
श्रीनिवासतीर्थीया
अष्टादशसिद्धय उच्यन्ते ॥ अनूर्मिमत्वमित्यादिना ॥ एतासा-मष्टादशसिद्धीनामष्टसिद्धिष्वन्तर्भाव उक्तस्तं प्रकारं दर्शयति ॥ अनूर्मिमत्वमित्यादिना ॥ अत्रान्तर्भावोक्तिरेकधारणासाध्यत्वाभिप्रायेण । अत एव प्राप्तिप्राकाश्ययोरिति प्रमाणे तथैवोक्तेरिति ध्येयम् । अत्रेशित्वान्तर्भूतमपि परमेशत्वाभावे पृथगित्यत्र विद्यमानमपिशब्दपृथक्शब्दयोरन्तर्भूतानि । अन्तर्भूतमित्यनन्तरमपिसम्बन्धः । परमेशत्वाभावे परमेशत्वाभावादित्यर्थः । इदमुपलक्षणम् । परमप्राकाम्यत्वाभावात्परमप्राकाश्याभावात्परमप्राप्त्यभावादिति द्रष्टव्यम् । अत्र देवेषु स्थिता मूलसिद्धयोऽणिमाद्या औव । तत्रान्यासामन्तर्भाव इत्यष्टसिद्धिपक्षः । देवेभ्योऽन्यत्राष्टादशसिद्धिपक्षे तु अणिमादिष्वनूर्मिमत्वादीनामन्तर्भावेऽपि तु पृथक् सिद्धित्वमेवेति द्रष्टव्यम् । ननु कुत एतासां पृथक् सिद्धित्वम् । अष्टसिद्धय एव देवेभ्योऽन्यत्र किं न स्युरिति चेत् । निःसीमत्वापरपर्यायपरमाणि-मत्वादीनामेवाष्टसिद्धितया विवक्षितत्वेन देवेभ्योऽन्यत्र तादृशानामभावात् । देवेष्वपि कथमिति चेत् । सत्यम् । भगवदपेक्षया निःसीमत्वाभावेऽपि इतरापेक्षया सद्भावादित्याशयात् ॥
तथा चायमर्थः ॥ देवेष्वष्टसिद्धिपक्षेऽविनाभूतत्वादनूर्मिमत्वं प्राकाम्येऽन्तर्भूतमपि अन्यत्राष्टादश-सिद्धिपक्षे पृथग्गणनीयम् । कुतः पृथग्गणना । प्राकाम्यरूपसिद्धिरेवान्यत्रापि कस्मान्न स्यादित्यतः परमप्राकाम्याभावात्तादृशस्यैव च मूलसिद्धितया विवक्षित्वादिति हेतुर्द्रष्टव्यः । इति च चत्वारि । दूरश्रवणादीनि चत्वार्यष्टसिद्धिपक्षे प्राकाश्यान्तर्भूतान्यप्यष्टादशसिद्धिपक्षेऽपि पृथग्गणनीयानि । ननु प्राकाश्यलक्षणमूलसिद्धिरेवान्यत्र कस्मान्न स्यादित्याशङ्कापरिहाराय परमप्राकाश्याभावात्तादृशस्यैव मूलसिद्धितयाऽभिमतत्वादिति ध्येयम् । अत्र श्रुतदृष्टार्थज्ञानस्यैव प्राकाश्यत्वेन दूरश्रवणादीनां तद्विशेषत्वात्तदन्तर्भावो मन्तव्यः । मनोजवः कामरूपं परकायप्रवेशनम् । स्वच्छन्दमृत्युता देवैः सह क्रीडानुदर्शनम् । यथासङ्कल्पं संसिद्धिरिति मनोजवादिषट्कम् अष्टसिद्धिपक्षे प्राप्त्यन्तर्भूत-मप्यष्टादशसिद्धिपक्षे पृथग्गणनीयम् ।
ननु प्राप्तिरूपमूलसिद्धिरेवान्यत्र कस्मान्न स्यादित्याशङ्कापरिहाराय परमप्राप्त्यभावात्तादृशस्यैव मूलसिद्धितयाऽभिमतत्वादिति मन्तव्यम् । अन्येन्द्रियैर्दर्शनं यथासङ्कल्पवेगित्वरूपप्राप्त्यन्तर्भावो मनोजवादिषट्कस्य स्पष्टः । अन्यत्सर्वम् ॥ आज्ञाप्रतिहतागतिः, अग्न्यर्काम्बुविषादीनां प्रति-स्तम्भोऽपराजय इत्यवशिष्टं सर्वमष्टसिद्धिपक्षे ईशित्वान्तर्भूतमप्यष्टादशपृथक्सिद्धिपक्षे पृथग्गणनीयम् । नन्वीशत्वरूपमूलसिद्धिरेवान्यत्र कस्मान्न स्यादित्याशङ्कापरिहाराय परमेशत्वाभावे इत्युक्तम् । परमेशत्वस्यान्यत्राभावादित्यर्थः । तादृशस्यैव मूलसिद्धित्वेनाभिप्रेतत्वादिति भावः । पूर्वशक्तेः कोटिगुणशक्त्युद्रेकरूपेशत्वसिद्धावग्न्यादिस्तम्भादेरन्तर्भावो यथासम्भवं द्रष्टव्यः । इत्यष्टादश । देवेभ्योऽन्यत्र सिद्धय इति शेषः ।
नन्वग्न्यर्काम्बुविषादीनां प्रतिस्तम्भ एकैव सिद्धिरुच्यत इति भाति । तथा च चतुर्दशसिद्धीनामेव प्रतीतेः कथमष्टादशसिद्धित्वमित्यत आह ॥ अग्नीत्यादिना ॥ सप्तदशीत्युक्त्या पूर्वोक्ताः षोडशसिद्धय इत्युक्तं भवति । शस्त्रादिभिरप्रतिहतिः सम्भूय पृथगेका सिद्धिरित्यर्थः । आज्ञाप्रतिहतागतिरित्यत्रैक-पदत्वे आज्ञानिष्ठगतेरेव सिद्धित्वप्राप्त्या पुरुषनिष्ठसिद्धित्वं न स्यात् । भिन्नपदत्वे आज्ञाप्रतिहता गतिरिति पदच्छेदे आज्ञाया गतिरिति पृथक् पदत्वस्यैवापेक्षितत्वेनाज्ञाप्रतिहतेति समासोऽनुपपन्नः । आज्ञाप्रतिहता गतिरिति भिन्नपदकरणे प्रतिहतगत्याज्ञायाः कथं सिद्धित्वम् । अप्रतिहता गतिरिति पदच्छेदे त्वत्प्रतिहतगतिरित्येव स्यान्न त्वप्रतिहता गतिरिति । तस्मादनुपपन्नमिव प्रतीयमानं वाक्यमाज्ञाप्रतिहतागतिरित्यत्राकारप्रश्लेषेण विभागमङ्गीकृत्वाऽऽज्ञाया इदं विशेषणम् । तथा चेयं सिद्धिः पुरुषनिष्ठा भवति । आङो वैयर्थ्यं च नेत्याशयेनाप्रतिहतागतिरित्यत्र विग्रहं दर्शयति ॥ अप्रतिहतेति ॥ आ इत्यनुवादेन समन्तादिति व्याख्यानम् । यस्या आज्ञायाः साऽऽज्ञा । ननु कथमष्टादशसिद्धित्वम् । त्रिकालज्ञत्वमद्वन्द्वत्वमिति सिद्धिद्वयप्रतीत्यैकोनविंशसिद्धिप्रतीतेरित्यतोऽद्वन्द्व-मित्येतद्व्याकुर्वन् त्रिकालज्ञत्वस्येदं विशेषणमतो नोक्तदोष इत्याह ॥ अद्वन्द्वमिति ॥ प्रतिद्वन्दशून्यं ह्यद्वन्दमप्रतिहतमित्यर्थतयाऽऽयातीति ध्येयम् ।
आदिशब्दोक्तसप्तदशसिद्धिरित्युक्त्या पूर्वोक्तानां षोडशसिद्धित्वे लब्धे कथमित्यतोऽग्न्यर्काम्बु-विषादीनां प्रतिस्तम्भ इत्यनेन चतस्रः सिद्धय उच्यन्ते । दूरश्रवणदर्शनमित्यनेन सिद्धिद्वयमुच्यत इति दर्शयति ॥ अग्नीत्यादिना ॥ तथा चाणिमा । महिमा । मूर्तेर्देहस्य लघिमा । अन्येन्द्रियै-र्दर्शनादिरूपा प्राप्तिः । श्रुतदृष्टार्थेषु विषयेषु ज्ञानवत्त्वं प्राकाश्यम् । शक्तिप्रेरणरूपमीशितृत्वम् । गुणेष्वसङ्गो विषयेषु लोलुपत्वाभावरूपा वशिता । यत्कामो यादृशानन्दकामः पुमान् भवति तादृशानन्दं विषयभोगान्विनैवाप्स्यति । अनेन प्राकाम्यसिद्धिरुक्ता । एवमेता अष्टौ सिद्धयः । विरिञ्चस्य तत्प्रसादात्पराधिकाः । एवमष्टमहासिद्धयस्तत्त्वाभिमानिदेवेषु द्रष्टव्याः । यदाऽष्टसिद्धयः सन्ति तदा तदविनाभूता अष्टादशसिद्धयोऽपि स्वत एव देवेषु सन्तीति द्रष्टव्यम् ।
देवेभ्योऽन्यत्र त्वष्टादशसिद्धयस्ताश्चास्मिन्देहेऽनूर्मिमत्वम् । दूरश्रवणम् । दूरदर्शनम् । मनोजवः। कामरूपम् । परकायप्रवेशनम् । स्वच्छन्दमृत्युता । देवानाम् । करणे षष्ठी । देवैः सह क्रीडाया अनुदर्शनमनुभावः । देवैः सह क्रीडाकरणमिति यावत् । यथासङ्कल्पसिद्धिः । अप्रतिहतागतिराज्ञा । अद्वन्द्वं त्रिकालज्ञत्वम् । परचित्ताद्यभिज्ञता । अग्निस्तम्भः । अर्कस्तम्भः । अम्बुशब्दोक्तजलस्तम्भः। विषस्तम्भः । आदिशब्देन शस्त्रादिप्रतिस्तम्भः । अपराजय इत्येता धारणारूपयोगसाध्याः । मनो-योगेन यद्ध्यानं तेन जायमाना अष्टादशसिद्धय उद्देशतो नाम्ना प्रोक्ताः सङ्कीर्तिता इति योज्यम् ।
ननु महासिद्धयोऽष्टावित्ययुक्तम् । गरिम्णोऽपि महासिद्धेः सत्वादित्यतो महिमगरिम्णो-रेकधारणासाध्यत्वेनैकस्य विवक्षितत्वान्न पृथगुक्तिरित्याह ॥ गरिम्ण इति ॥ स्यात् । यत इति शेषः । अष्टसिद्धिकथनेष्वष्टैव सिद्धय इति कथनप्रसङ्गेषु । पृथङ्महिम्नः सकाशात् । ननु तर्ह्यणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतय इत्यमरकोशादिग्रन्थे कथं गरिम्णः पृथगुक्तिरित्यतः प्राप्तिप्राकाश्ययोरेकधारणासाध्यत्वेनैक्यं विवक्षित्वेत्याह ॥ प्राप्तीति ॥ प्राप्तिप्राकाश्ययोरपि सम्भवे उत्पत्तावेकाऽप्येकैव धारणाऽस्ति । यत इति शेषः । तौ ते प्राप्तिप्राकाश्ये । क्वचिद्ग्रन्थे पृथक्, वदन्तीति शेषः । तासामष्टौ प्रधानास्ता एव गुणहेतव इत्यत्र प्रमाणमाह ॥ मूलेति ॥ सिद्धीनामष्टादशसिद्धीनां ता अष्टादशसिद्धयः । अत्र हेतुस्तदपेक्षयेति ॥ उत्पत्तावष्टसिद्ध्यपेक्षितत्वादित्यर्थः । अल्पका इत्यनेन गुणपदतात्पर्यकथनम् ।
मनोजवादिषट्कस्य प्राप्त्यन्तर्भावोक्त्या कामरूपत्वस्यापि प्राप्त्यन्तर्भावस्योक्तत्वेऽपि सिद्ध्यन्तरेऽप्यन्तर्भावमाह ॥ कामरूपत्वस्येति ॥ न केवलं प्राप्तावित्यर्थः । अष्टादशपृथक्-सिद्धिपक्षेऽन्तर्भावो न युक्तः । तथात्वे सप्तदशत्वप्राप्त्या न्यूनतापत्तेरित्यत उक्तम् ॥ अष्टसिद्धिपक्ष इति ॥ अष्टसिद्धिपक्षे विशेषान्तरमाह ॥ अग्नीति ॥ अत्राप्यष्टसिद्धिपक्ष इत्यनुवर्तते । कुत इत्यत उक्तम् ॥ अदाहत्वादिति ॥ दाहाभावरूपैकफलकत्वादित्यर्थः । औव महासिद्धय इति पक्षेऽष्टादशत्वसङ्ख्याया अविवक्षितत्वाद् अग्न्यर्कस्तम्भयोरेकसिद्धित्वं विवक्षितम् । अन्यत्सर्व-मीशित्वान्तर्भूतमितीशित्वेऽन्तर्भाव उक्त इत्याशयः ॥
अन्यत्सर्वमिति अग्न्यर्काम्बुविषशस्त्रादिप्रतिस्तंभस्येशित्वान्तर्भाव उक्तः । अधुना सिध्द्यन्तरेऽप्यन्तर्भावमाह ॥ अग्न्यादीति ॥ न केवलमीशित्व इत्यपिशब्दार्थः । ननु यद्यग्न्यर्कस्तम्भयोरेकत्वं तथात्वेऽष्टादशपृथक्सिद्धिपक्षे सप्तदशसिद्धय एवोक्ताः स्युरिति न्यूनतेत्यत आह ॥ अनूर्मिमत्वादीति ॥ ननु भवद्भिरष्टसिद्धिव्यतिरिक्ता अष्टादशसिद्धय उक्ताः । इदं तु मूलविरुद्धम् । तासामष्टौ मत्प्रधाना इति मूले तासामष्टादशसिद्धीनां मध्येऽष्टौ सिद्धयः प्रधाना एवं गुणभूताष्टादशसिद्धीनां हेतव इति प्रतीतेरित्यतस्तासामष्टावित्यस्य पूर्वमव्याख्यातत्वाद्योजयति ॥ तस्मिन्पक्ष इति ॥ अष्टादशपृथक्सिद्धिपक्ष इत्यर्थः । मत्प्रधाना इत्यत्र बुद्ध्या विवेकेन प्रधाना इति पदं विच्छिद्य तासामष्टादशसिद्धीनां सकाशात्प्रधाना अष्टौ सिद्धयः सन्ति । ताश्चाष्टौ सिद्धयो मत्प्रधाना मय्येव प्राधान्येन सन्त्यन्येषूपचारत इति योज्यम् । इति व्याख्या व्याख्यानं कर्तव्यमित्यर्थः ।
स्वोक्ते सर्वस्मिन्नप्यर्थे प्रमाणमाह ॥ अनूर्मिमत्वसिद्धिस्त्वित्यादिना ॥ अनूर्मिमत्वं प्राकाम्यान्तर्भूतमित्येतदनेन प्रमापितं भवति । दूरश्रवणेत्यादीनि प्राकाश्यान्तर्भूतानीत्येतत्प्रमापयति ॥ दूरश्रुतिरित्यादिना ॥ कामरूपत्वस्याप्यणिमादित्रयेऽप्यन्तर्भाव इत्यत्र प्रमाणम् ॥ अणिमादि-त्रयान्तरिति ॥ अग्न्यादिप्रतिस्तम्भस्य वशित्वेऽपीत्यत्र मानम् ॥ अग्न्यर्केति ॥ वशित्व-गस्तदन्तर्भूतः । मनोजव इत्यादिषट्कमित्युक्तार्थे प्रमाणम् ॥ मनोजव इत्यादि ॥ देवानां सह क्रीडानुदर्शनमित्यस्यार्थः ॥ देवैः सह क्रीडेति ॥ इष्टसाधनं यथासङ्कल्पसंसिद्धिरित्यर्थः । अन्यत्सर्वमित्युक्तार्थे प्रमाणम् । आज्ञाऽऽप्रतिहतिरित्यत्र पुरुषगतिसिद्धिप्राप्तये आज्ञानिष्ठगतेः सिद्धित्वपरिहारायाज्ञा आ अप्रतिहता गतिरिति पदं विच्छेद्यम् । अत्र आ अप्रतिहता गतिः सवर्णदीर्घे आप्रतिहतेति भवति । आसमन्तादित्यर्थः । आज्ञाप्रतिहतिर्ब्राह्मेत्युत्तरत्राप्येवमेव योज्यम् । अष्टादशसिद्धयोऽमिताः । अन्याः सिद्धयो योगशास्त्रे प्रसिद्धाः । अन्तर्भावसौकर्यायानूर्मिमत्वादे-र्लक्षणमाह ॥ अनूर्मिमत्वमिति ॥ अन्तर्भावमुक्त्वा तमुपपादयति ॥ दुःखेति ॥ दुःखा-भावोऽनूर्मिमत्वं प्राकाम्येऽन्तर्भूतः । तमुपपादयति ॥ नेति ॥ इतरे इतरस्मिन्दुःखानि सुखिता नेष्यत इत्यर्थः । किं नाम दुःखाभाववत्येव सुखित्वमिष्यत इति । अनूर्मिमत्वस्य प्राकाम्याविना-भूतत्वात्तदन्तर्भाव इत्याशयः ॥ सर्ववेदादिज्ञानमेवेति ॥ सर्वो यो वेदो ऋगादिरितिहासपुराणान्तः स एवादिर्ज्ञप्तिकारणं येषां श्रुतदृष्टार्थानां ते सर्वे वेदादयः । सर्वे वेदप्रतिपाद्या येऽर्था इति यावत् । स्वरूपकथनमिदम् । तेषु श्रुतदृष्टार्थेषु विषये यज्ज्ञानमिति योज्यम् । अत एव मूले प्राकाश्यं श्रुतदृष्टेष्वित्युक्तम् । एवमपि व्याख्याय सर्ववेदादीनां ज्ञानमिति व्याख्याने दूरश्रवणादेः कथमन्तर्भावसिद्धिः । सर्ववेदादिभिर्ज्ञानमिति व्याख्यातुर्वेदादिकं विना ज्ञानित्वरूपत्रिकालज्ञत्वस्य तत्रान्तर्भावानुपपत्तिरिति ध्येयम् । अतः सर्ववेदादिषु प्रतिपाद्यश्रुतदृष्टार्थेषु यद्योगसामर्थ्याज्ज्ञानं तत्सर्ववेदादिज्ञानमित्येव योज्यम् । तथा च श्रुतदृष्टार्थेषु विषये योगसामर्थ्याज्ज्ञानं प्राकाश्यमिति मूलं योज्यम् ।
दूरदर्शनं दूरश्रवणं च ब्रह्माण्डाद्बहिरपि विद्यमानस्य दर्शनं श्रवणं चेति प्रतीतिनिरासायार्थमाह ॥ सहस्रेति ॥ सहस्रयोजनव्यवहितार्थपर्यन्तं दर्शनं दूरदर्शनम् । दूरश्रवणमप्येवं सहस्रयोजन-व्यवहितार्थश्रवणमिति । दूरदर्शनवत्सहस्रयोजनान्तमित्येव योज्यमित्यर्थः । त्रिकालज्ञमित्यत्रातीता-नागतसर्वयुगस्थपदार्थज्ञानमित्यन्यथाप्रतीतिनिरासायार्थमाह ॥ तस्मिन्नेवेति ॥ स्वयं यस्मिन्युगे उत्पन्नस्तस्मिन्नेव युगे स्थिते वस्तुनि विषये वेदादिकं करणं विना योगसामर्थ्यात्कालत्रयेऽपि ज्ञानिता त्रिकालज्ञानिता । बुधैः प्रोक्ता । तस्मिन्नेव युगे स्थितपदार्थपरोक्षज्ञानस्य वेदादिभिरस्माकमपि सद्भावाद्वेदादिकं विनेत्युक्तम् । तदीयदेह एवावस्थाने तच्चित्ताद्यभिज्ञता सम्भावितैवात उक्तम् ॥ शरीरस्थं विनेति ॥ भावप्रधानो निर्देशः ।
प्राप्तिं लक्षयति ॥ अन्येन्द्रियैरिति ॥ शरीरस्थं विनेति वर्तते । तदीयशरीरस्थं विनाऽन्येन्द्रियै-र्दर्शनादिरित्यर्थः । यथा दक्षाध्वरे होत्रादीनां हस्तादिच्छेदनानन्तरमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिति श्रुतावन्यहस्तादीन्द्रियैः स्वकार्यकरणमुच्यते । एवमाद्युदाहरणं द्रष्टव्यम् । परकीयैरिन्द्रियैरादानादि-करणमित्यर्थः । तथा च प्राप्तिरिन्द्रियैरिति मूले इन्द्रियैरित्यस्यान्येन्द्रियैरित्यर्थः । दर्शनादिरिति शेषो द्रष्टव्यः । सङ्कल्पानुसारेण वेगवत्ता यथासङ्कल्पवेगिता । मनो हि वेगवत्तरं प्रसिद्धम् । तत्समवेगवत्त्वं मनोजवः । स्वदेहत्यागतः । ल्यब्लोपनिमित्ता पञ्चमी । स्वदेहत्यागं विधाय स्वदेह-मेकत्र स्थाप्य परे परस्मिन्काये प्रवेशः प्रवेशनसिद्धिः स्यात् । कल्पपर्यन्तं मरणं मे न स्यादि-तीच्छायामपि तावत्पर्यन्तं जीवनं भवतीति स्वच्छन्दमृत्युत्वमिति प्रतीयतेऽत आह ॥ युगादर्वाक्त-नेति ॥ युगमात्रं स्थित्वा तद्युगसमाप्त्यनन्तरं देहं त्यक्ष्यामीतीच्छायामपि तथा न भवति । युगादर्वाक्तना । युगान्तरे वेति यावत् । स्वच्छन्दमृत्युत्वं युगमध्य एवेत्याशयः । ननु बिभीषणहनु-मदादौ कल्पान्तं स्वच्छन्दमृत्युताऽस्ति । न तत्रायं प्रकारोऽस्तीति चेत् । सत्यम् । तत्र वरादिबलेनास्ति । यत्र क्लृप्तवरादिकारणाभावस्तत्रैवमित्याशयात् ।
देवानां सह क्रीडानुदर्शनं देवैः सह क्रीडानुभाव इत्युक्ते इन्द्रादिभिरपि क्रीडाकरणप्राप्तावाह । इन्द्रादिभिर्देवैस्तत्त्वाभिमानिभिर्विनाऽन्यैर् देवैः सह क्रीडारूपा सिद्धिरित्यर्थः । यथासंकल्पानुसारेण ब्रह्मादिपदानामपि सिद्धिरिति प्रतीतिनिरासायार्थमाह ॥ यथेति ॥ अणिमादिमहासिद्धिलक्षणम् ॥ चक्षुर्दृश्येष्विति ॥ निरुपचरिताणुत्वस्याणोरणीयानिति भगवन्मात्रनिष्ठत्वाच्चक्षुर्दृश्येषु पदार्थेषु सर्षपश्यामाकादिष्वित्युक्तम् । महिमा महिमारूपा सिद्धिर्महापरिमाणवत्त्वं ब्रह्माण्डादिव्याप्तरूप-निरुपचरितमहिम्नो देवेष्वसम्भवमाह ॥ त्रिलोकान्तरेति ॥ लोकत्रयान्तो वपुषा पूरणादित्यर्थः । वपुषा लोकत्रयान्तर्व्यापित्वमेवाभिप्रेतमित्याशयः । मुख्यलघिम्नो भगवन्निष्ठत्वाच्चक्षुर्दृश्यैः प्राणिभिर्विशेषेण विवाह्यत्वं वाहनीयत्वमित्युक्तम् ।
अप्रतिहतागतिराज्ञेत्युक्ते स्वर्गादिस्था अप्येतदाज्ञाकर्तार इति प्रतीतिं निवारयितुं भुविस्थै-रित्युक्तम् । अप्रतिहतिराज्ञेति पदविभागः । अष्टादशसिद्धिपक्षेऽग्न्यर्काम्बुविषादीनामित्यत्रादिपदेन शस्त्रास्त्रनखदन्तताडन शापादिभिरप्रतिहतिः सप्तदशी सिद्धिरुक्ता । तत्र ब्रह्मास्त्रेणापि स्वस्याप्रतिहति-रिति प्रतीयते । तथा स्वोत्तममहातपस्विशापेनाप्रतिहतिरुच्यते इति भातीत्यतस्तात्पर्यमाह ॥ ब्राह्मादीति ॥ ब्रह्मास्त्रादर्वाक् यान्यस्त्राणि तद्व्यतिरिक्तानि । यान्यस्त्राणीति यावत् । तेषां विघातनम् । निबाधनमिति पाठे नितरां बाधनमेव । अस्त्रप्रतिहतिरस्त्रप्रतिस्तम्भ इत्यर्थः । महा-तपस्वीन्महातपस्विनः । महातपस्विशापं विना ये शापास्तेषां प्रतिहतिः प्रतिस्तम्भ एव शापप्रतिस्तम्भ इत्यर्थः । शापाप्रतिहतिरिति पाठे महातपस्विशापव्यतिरिक्तशापेन स्वस्य प्रतिहत्यभावः शापप्रतिस्तम्भसिद्धिरिति योज्यम् । देवादिभ्योऽपराजय इति प्रतीतेराह ॥ अपराजयो मनुष्येभ्य इति ॥
अष्टसिद्ध्यन्तर्गतं वशित्वं लक्षयति ॥ वशित्वं चेति ॥ अलोलता । रागो लौल्यं तथाऽऽ-रक्तिरित्यभिधानात् । गुणेष्वसङ्गो गुणेषु रागाभाव इत्यर्थः । अग्न्यादिप्रतिस्तम्भशब्दार्थमाह ॥ दाहादीति ॥ अग्न्यादिकार्यभूते दाहादौ जातेऽपि तद्दाहादिसहनं तत्कृतविकाराभाव एवाग्न्यादि-प्रतिस्तम्भशब्दार्थ इत्यर्थः । सप्तविंशतिर्वा । चशब्द एवार्थे । सुरेभ्योऽन्यत् । अन्यत्रैव ऋषि-गन्धर्वादिष्वेता अष्टादशसिद्धय इत्यर्थः । देवेष्वष्टैव सिद्धयः सन्ति । अष्टसिद्ध्यपेक्षयाऽष्टादशसिद्धी-नामल्पत्वाद्देवानामष्टैव सिद्धय इत्यर्थः । अतस्तदपेक्षयाऽल्पत्वात्तज्जत्वाच्चेत्यर्थः । देवेष्वष्टैव सिद्धय इत्युक्तं तत्रापि विशेषमाह ॥ देवेष्विति । उत्तरोत्तरमिन्द्रापेक्षयेशस्य तदपेक्षया वायोस्तदपेक्षया श्रियस्तदपेक्षया विष्णोरित्युत्तरोत्तरं सिद्धयः परिपूर्णा इत्यर्थः । तुशब्दो विशेषार्थः । विशेषेण निरुपचरितपरिपूर्णाः सिद्धयो विष्णोरेकस्यैव नान्यगा इत्यर्थः । देवेष्वेवाष्टसिद्धीनां निःसीमत्वं वक्तुं प्राकाश्यं श्रुतदृष्टेष्विति प्राकाश्यलक्षणसिद्धेर्देवेष्वितरत्र च वृत्तिप्रकारमाह ॥ श्रुतेष्विति ॥ देवेभ्योऽन्येषामृषिगन्धर्वादीनां श्रुतेषु श्रुतेष्वेवार्थेषु यथायोगं योग्यतानुसारेण क्षिप्रग्रहणरूपं प्राकाश्यं तिष्ठति । देवानां त्वश्रुतेष्वर्थेष्वपि क्षिप्रग्रहणलक्षणं प्राकाश्यमस्तीति देवेषु प्राकाश्यं सम्पूर्णमस्तीत्यर्थः। अन्येषु श्रुतेष्वित्याद्युक्तम् । तत्रर्षिषु विशेषमाह ॥ ऋषीणामिति ॥ मिश्रभावेनेत्युक्ते श्रुताश्रुतपदार्थेषु साम्येन ग्रहणमिति प्रतीयतेऽत आह ॥ अश्रुतं किञ्चिदिति ॥ यथेतरेषां गन्धर्वादीनां केवलं श्रुतेष्वेव क्षिप्रग्रहणमस्ति न तथा । किं नामाश्रुतेऽपि किञ्चिदेव क्षिप्रग्रहणमस्तीति भावः । प्राकाश्ये उक्तं न्यायं प्राकाम्यसिद्धावतिदिशति ॥ विषयेभ्य इति ॥ चूतफलादिविषयभोगेन यावत्सुखव्यक्त्या भवितव्यं विषयभोगं विनाऽपि तदपेक्षयाऽधिकसुखव्यक्तिरूपं प्राकाम्यं सुरेतरेषाम् ऋष्यादीनामस्ति । सुराणां तु विषयभोगाभावेऽपि निःसीमानन्दभोजनं भवतीत्यर्थः । एवमेवानेन न्यायेनेत्यर्थः । अत्रापि देवेष्वप्युत्तरोत्तरमिन्द्रापेक्षयेशस्य तदपेक्षया ब्रह्मण इति । एवमुत्तरोत्तरं निःसीमत्वं कुतः । साम्येनैव निःसीमत्वं कुतो नेत्यत आह ॥ यावदिति ॥ यस्माद्विष्णुरेव सुपूर्णभुक् निरुपचरितपूर्णाष्टसिद्धिभागत इतरत्रोत्तरोत्तरमेव निःसीमाः सन्तीत्यर्थः । अग्न्यादिकार्ये दाहादौ जातेऽपि तत्सहनमग्न्यादिस्तम्भ इति प्रमाणेन व्याख्यातम् । प्रमाणान्तरेणाप्यग्न्यादिस्तम्भशब्दार्थमाह ॥ अग्न्यादीति ॥ अग्न्यादीनां या दाहादिशक्तिस्तत्स्तंभनमप्यग्न्यादिस्तम्भ इत्यर्थः ॥ ६–९ ॥
प्रमेयचन्द्रिका
एतेनैतदन्यदेवानाम् अष्टसिद्धयो नानादिसिद्धाः किं तूपासनालभ्या इति सूचितं भवति । तर्हि देवेभ्योऽन्येषां का सिद्धय इत्यत उच्यते ॥ अनूर्मिमत्वमित्यादिश्लोकत्रयेण ॥ अनूर्मिमत्वाद्या अष्टादश योगधारणाहेतुकाः सिद्धयो देवेभ्योऽन्यत्रेति शेषः । प्रोक्ता इत्यर्थः । ननु विष्ण्वादिदेवानामष्टैवं सिद्धयस् तदन्येषामष्टादशेत्यधिकसिद्धिमत्वं तेषां प्राप्तमित्याशंक्य न देवेभ्यो गुणाधिक्यमन्येषाम् अनूर्मिमत्वादीनामष्टस्वन्तर्भूतत्वेन सङ्ख्यया बहुत्वेऽपि तदेकदेशतयाऽल्पत्वा-दित्याशयेनान्तर्भावं दर्शयति ॥ अनूर्मिमत्वादित्यादिना ॥ अनूर्मिमत्वं नामास्ति जायते वर्धते परिणमते अपक्षीयते नश्यतीति याः षडूर्मयस् तन्निमत्तकदुःखाभावः । वक्ष्यति चानूर्मिमत्वं दुःखाभाव इति । तथा च चेतनेषु दुःखाभावस्य सुखसाधनत्वेन दुःखाभावरूपम् अनूर्मिमत्वं विषयभोगं विना आनन्दावाप्तिरूपप्राकाम्यान्तर्भूतमिति भावः । एतेनास्मिन्देहे षडूर्मिनिमित्तकदुःखाभावोऽनूर्मिमत्वमिति मूलार्थ इति सूचितं भवति ।
प्राकाश्यं नाम सार्वज्ञ्यम् । अतस्तत्र दूरश्रवणादयश्चत्वारोऽपि ज्ञानैकदेशभूतास् ततस्तेषां तत्रान्तर्भाव इत्याशयेनाह ॥ दूरेति ॥ यथा कामितार्थावाप्तिर्हि प्राप्तिः । तत्र मनसो वेगेन निर्विषय-प्राप्तिर्मनोजवः । कामितरूपप्राप्तिः कामरूपत्वम् । स्वस्य परकायप्राप्तिः परकायप्रवेशः । स्वेच्छया मृत्युप्राप्तिः स्वच्छन्दमृत्युता, देवानां देवैः सह क्रीडा देवानां दर्शनं सम्प्राप्तिः, सङ्कल्पितार्थ-प्राप्तिर्यथासंकल्पसिद्धिः, तथा चैतेषां षण्णां प्राप्तावन्तर्भाव इत्याह ॥ मनोजवादीति ॥
॥ अन्यत्सर्वमिति ॥ आज्ञाऽप्रतिहतिरेका, अग्न्यर्कम्बुविषस्तम्भाश्चत्वारः । आदिशब्दोक्तः शस्त्रनखदन्तताडनशापादिस्तंभो मिलित एको ऽपराजयो पराहतिसप्तकमीशत्वान्तर्भूतम् । ईशत्वं नाम सामर्थ्यरूपैश्वर्यविशेषः । अत आज्ञाऽप्रतिहत्यादिसप्तकस्यान्तर्भावो युक्त इति भावः ।
ननु स्वामित्वादीनामपि ईशत्वप्रभेदानां भावात्तेऽपि कुतः । पृथक्कुतो न परिगणिताः । न च वाच्यम् आनुषङ्गसिद्धाः स्वामित्वादयो न पृथग्गणितुं योग्या इति । तथा आज्ञाऽप्रतिहत्यादि-सप्तप्रकाराणामपि पृथग्गणनाभावप्रसङ्गेनानूर्मिमत्वाद्या एकादश, ईशितृत्वमुक्तरूपमेकमिति द्वादशैव सिद्धयः संपन्ना इत्यष्टादशत्वायोग इत्यत उक्तम् ॥ अपीति ॥ अपि यद्यप्याज्ञाऽप्रतिहत्यादय ईशितृत्वैकदेशभूताः । तथाऽप्यन्यगतानामाज्ञाऽप्रतिहत्यादीनामेकैकदेशविषयत्वादिना अत्यल्पतया सकलजगन्नियन्तृत्वादिप्रकारकपरमेशत्वाभावेन तादृशेशत्वस्य देवेभ्योऽन्येष्वभावात्तेषु विद्यमाना आज्ञाऽप्रतिहत्यादयः सप्त पृथग्गणनीयाः । तथा चैते सप्त अनूर्मिमत्वं दूरश्रवणादिचतुष्कं मनोजवादिषड्गुणभूताः सिद्धयोऽष्टादशेत्युपपन्नम् । स्वामित्वादिकं तु आज्ञाऽप्रतिहत्याद्यतिरिक्तं नेति न पृथग्गणनीयमिति भावः ॥
नन्वनूर्मिमत्वादयो विषादिस्तम्भान्ताः षोडश सिद्धयः, अपराजयश्चरम एका सिद्धिरिति सप्तदशैव सिद्धयः प्रतीयन्ते । तत्कथमष्टादशत्वमित्यत आह ॥ अग्न्यर्केति ॥ इतीत्यत्र समस्तपदे आदिशब्दोक्ता सिद्धिरग्न्यर्काम्बुविषस्तम्भेभ्यः पृथग्भूतैव सप्तदशमीति ज्ञेया । ननु विषादिस्तम्भ इत्येका सिद्धिः । सा चादिशब्दोक्ता च केत्यत उक्तम् ॥ शस्त्रास्त्रनखदन्तताडनशापादिभिरप्रतिहति-रिति ॥ आदिशब्देनाभिचारादिग्रहणम् । प्रतिहतिः प्रतिस्तम्भः । तथा चादिशब्दोक्तसिद्धेः सप्तदशमत्वादपराजये अष्टादशत्वं युक्तमिति भावः ।
ननु तथापि गतिरिति अद्वन्द्वमिति द्वयोरधिकत्वाद्विंशतित्वं प्राप्तमिति चेन्न । आज्ञाप्रतिहता गतिरित्येकैव सिद्धिः । तथा अद्वन्द्वमिति त्रिकालज्ञत्वस्य विशेषणम् । तथा चाष्टादशत्वं युक्त-मित्याशयेनाह ॥ अप्रतिहतेति ॥ अद्वन्द्वमिति अप्रतिहतेत्यतः परम् आ इत्येतदनूद्य समन्तादिति व्याख्यानम् । अद्वन्द्वमित्यनूद्याप्रतिहतमिति तात्पर्यतो व्याख्या । आदिशब्दोक्ताग्न्यर्कादिस्तम्भ-स्याप्येकत्वमिति भाति । तथात्वे चाष्टादशत्वायोगादाह ॥ अग्नीति ॥ चतुष्ट्वमग्न्यादीनां पृथग्ग्रहणत्प्रतिस्तम्भरूपाः सिद्धयश्चतस्रः । अतोऽष्टादशत्वं युज्यत इत्याशयः ॥
नन्वष्टमहासिद्धिषु गरिमाख्यसिद्धेर्ग्रन्थान्तरेषु परिगणितत्वात्साऽत्र कुतो नोक्तेत्याशङ्कां प्रमाणेन परिहरति ॥ गरिम्ण इति ॥ यतो या महिमाख्यसिद्धेर्हेतुभूतधारणा सैव गरिमाख्यसिद्धेरपि हेतुः स्यादत एकसाधनजन्यत्वादेकत्वविवक्षयाऽष्टसिद्धिकथनेषु प्रसक्तेषु गरिमा पृथक् प्रायो बहुग्रन्थेषु नोच्यते । अत उभयोरैक्यविवक्षया अष्टत्वोपपत्तिरिति भावः । ननु यत्राष्टसिद्धिकथनपरे ग्रन्थे गरिम्णो महिमापेक्षया पृथत्क्वोक्तिस् तत्राष्टसिद्धित्वं कथमित्यतः प्रमाणान्तरेणाष्टत्वं घटयति ॥ प्राप्तीति ॥ चापीति निपातसमुदायः समुच्चयद्योतकः । महिमागरिम्णोरिव प्राप्तिप्राकाश्ययोरप्येकाऽपि धारणा सम्भवेत् । अतो तयोरप्येकधारणाहेतुकत्वविवक्षया तामुभयविधां सिद्धिमैक्येनोक्तवा क्वचिद्ग्रन्थविशेषे गरिम्णः सकाशान्महिमानं पृथगाह । अतस्त्वेकत्वोक्तिर्युक्तेत्यर्थः ।
अयं भावः ॥ महिमागरिमसिद्ध्योरेकधारणाहेतुकत्वं नियतम् । फलभेदस्त्वभिसन्धिभेदहेतुकः । प्राप्तिप्राकाश्ययोस्तु भिन्नाऽपि धारणा भवति अतो बहुग्रन्थेषु प्राप्तिप्राकाश्ये पृथग्गण्येते । गरिमा महिमोक्तयैव लब्धेति न पृथगुक्ता तदनुसारेण मूलेऽपि गणनमिति ॥
ननु महिमगरिम्णोरिव प्राप्तिप्राकाश्ययोश्चैकधारणाहेतुकत्वात्तयोरपि पृथगुक्तिर्न कार्येत्याशङ्कां परिहरन् गरिमानुक्तेर्निमित्तमाह ॥ प्राप्तीति ॥ अपि यद्यपि प्राप्तिप्राकाश्ययोश्चैकाधिकरणो भवेत् । तथापि तामुभयविधसिद्धिमैक्येनोक्तवा क्वचिद्गरिमाणं पृथगाहेति योजना । द्वितीयापिशब्दाभिप्रायं पूर्ववद्द्रष्टव्यम् । दूरश्रवणदर्शनमित्येकवचनादेकैव सिद्धिरिति भाति । तथात्वे चाष्टादशत्वायोग इत्यत आह ॥ दूरेति ॥ औव गुणहेतव इत्यस्य गुणभूतानामन्यासामिति स्वोक्तार्थे प्रमाणमाह ॥ मूलभूता इति ॥ तुशब्दो निःसीमत्वरूपातिशयद्योतकः । याः सर्वसिद्धिमूलभूता निःसीमा देवानामेव सम्बन्धिन्योऽष्टसिद्धयस् ताः सर्वसिद्धिप्रधानाः, अनूर्मिमत्वाद्यष्ठादशसिद्धयस्तु तज्जा अष्टसिद्धिभ्यो जाता अत एवाष्टस्वन्तर्भूता एव ताः । तुरवधारणे । तदन्तर्गतत्वेऽपि न तादृशाधिक्यं मन्तव्य-मित्याशयेनोक्तमल्पका इति ॥ अल्पत्वे निमित्तमाह ॥ तदपेक्षतयेति ॥ अष्ठसिद्धिसा-पेक्षत्वादित्यर्थः । अनूर्मिमत्वादयो ह्यणिममहिमादिवन्न पृथकसिद्धयः । किं तु प्राकाम्याद्येकदेशसंपादने सति भवन्ति । अतः प्राकाम्यादिमत्वादल्पका इति भावः ॥
नन्वष्टादशसिद्धीनां प्राकाम्यप्राकाश्यप्राप्तीशितृत्वेषु चतृष्वेवान्तर्भावो अनेनोक्तः । तत्कथमष्ट-स्वन्तर्गता इत्युच्यत इत्यत आह ॥ कामरूपत्वस्येति ॥ कामरूपत्वं देहधर्मविशेषः । अणिमादि-त्रयमपि देहधर्म एव । मूर्तेरित्युक्तत्वात् । अतो अणिमादित्रये कामरूपत्वस्यान्तर्भावः । अयमन्तर्भावश्च देवतागताष्टमहासिद्धिपक्षे निःसीमकामरूपत्वस्यान्तर्भावः । अणुत्वमहत्वलघुत्वादि-रूपत्वात् । देवावरेषु स्थितकामरूपत्वस्य तु न निःसीमत्वम् । तस्य पश्वाद्याकारतामात्रत्वेन पारम्याभावादुक्तरीत्या प्राप्तित्वमेवेति भावः । न केवलं प्राप्तावित्यपिशब्दार्थः । अग्न्यादिप्रतिबन्धरूप-सिद्धिपञ्चकस्यान्तर्भावं वक्तुमग्न्यर्कस्तंभयोरेकसिद्धित्वोक्तेरभिप्रायं तावदाह ॥ अग्नीति ॥ उभयोरपि दाहाभावरूपैकावच्छेदकावच्छिन्नत्वादित्यर्थः । अग्न्यादिप्रतिस्तम्भपञ्चकस्य प्रागीशितृत्वेऽन्तर्भाव उक्तः । इदानीं वशित्वेऽप्यन्तर्भाव इत्याह ॥ अग्न्यादीति ॥ नन्वग्न्यर्कस्तम्भयोरेकसिद्धित्वाङ्गीकारे अग्न्यादिस्तम्भपञ्चकायोग अनूर्मिमत्वाद्यष्टादशसिद्धय इति च भग्नः पक्ष इत्यत आह ॥ अनूर्मीति ॥ अष्टमहासिद्ध्यपेक्षया अनूर्मिमत्वादीनामष्टादशानां पृथक् सिद्धित्वपक्षे अग्न्यर्कस्तम्भयोः पृथक्त्वम् । अतो नोक्तानुपपत्तिरिति भावः । ईशितृत्ववशित्वान्तर्भावेनाष्टसिद्ध्यन्तर्भावे अग्न्यर्कस्तम्भयोरेकत्वमभि-संहितमिति ज्ञेयम् ॥
ननु अष्टादशसिद्धीनामष्टभ्यः पृथक् सत्वपक्षे तासामष्टाविति मूले तासां मध्ये अष्टौ मत्प्रधाना इत्युक्तिरयुक्ता । एकव्यूहत्वाभावादित्यत आह ॥ तस्मिन् पक्ष इति ॥ अयमाशयः ॥ देवतासु निःसीममहासिद्धिसद्भावादनूर्मिमत्वादीनां तज्जन्यतया तत्रैवान्तर्भावो न पार्थक्यम् । तदा तासां सर्वासां मध्ये अष्टौ सिद्धयः प्रधानाद्वेति व्याख्येयम् । यदा तु देवावरगतास्तद्भिन्नानूर्मिमत्वादयो विवक्षितास् तदा तासां सकाशात्प्रधाना इति व्याख्या कार्येति । तदेतत्सूचयितुं प्रागन्तर्भावो निरूपित इति ज्ञेयम् । उक्तसमस्तार्थे प्रमाणमाह ॥ अनूर्मिमत्वेति ॥ दूरश्रुत्यादीनि चत्वारि प्राकाश्या-न्तर्गतान्येवेति योजना । चशब्दौ समुच्चयौ । कामरूपत्वस्य प्राप्तावप्यन्तर्भावस्य वक्ष्यमाणत्वात् । अणिमादित्रयान्तश्चेति चशब्दः ॥ वशित्वगः वशित्वेऽन्तर्भूतः ।
देवैः सह क्रीडेत्यनेन सह क्रीडानुदर्शनमित्युक्ता सिद्धिरित्युच्यते । नामैकदेशन्यायात् । इष्टसाधनमित्यनेन इष्टस्य इदमहं संपादय इति सङ्कल्प्य तस्य साधनसिद्धिरिति । यथा सङ्कल्पसिद्धि-रित्युत्यते । अत एव मनोजवादिषट्कमित्युक्तम् । आज्ञाऽप्रतिहतिरित्यनेन आज्ञाऽप्रतिहता-गतिरित्युक्ता सिद्धिरुच्यते । तथाशब्दोऽग्न्यादिस्तम्भसमुच्चयार्थः । अत्राद्यस्यैवेशितृत्वाद्येवेति सम्बन्धः । शस्त्रशापनखदन्तादिस्तम्भ एकैव सिद्धिरिति द्योतनाय शस्त्रशापादिस्तम्भ एवेत्येवशब्दः । आज्ञाप्रतिहतिः । अग्न्यादिस्तम्भपञ्चकमित्येतानीशितृत्वान्तर्गतानीति योज्यम् ।
अपराजयश्चेशितृत्वान्तर्गतश्चेत्यन्वयः । अनूर्मिमत्वाद्यष्टादशसिद्धीनां देवतागतानां महासिद्ध्यन्त-र्भावमुपसंहरन्नष्टसिद्धिमतामेताः स्वत एव जायन्ते न तदर्थं धारणान्तरापेक्षेत्याह ॥ एवमिति ॥ एवं क्रमादिति सम्बन्धः । अन्तर्भावो यथोक्तस्तेन क्रमेणेत्यर्थः । अष्टभ्यो न केवलमष्टादशैव सिद्धयो जायन्ते किन्तु तदन्या अप्यमिता जायन्त इत्याह ॥ अष्टादशभ्य इति ॥ यद्वा उक्तेभ्योऽन्या अमिताः सिद्धयोऽनूर्मिमत्वाद्यष्टादशसिद्धिभ्यो जायन्त इत्याह ॥ अष्टादशभ्य इति ॥ नन्वनूर्मिमत्वं नामास्ति जायते वर्धते परिणमतेऽपक्षीयते नश्यतीति षडि्वकाराः । स कथं देवतातिरिक्तेषु भवे-दित्याशङ्क्य तन्निमित्तदुःखाभावमात्रमत्र सिद्धित्वेन विवक्षितम् । तत्र ऋषिगन्धर्वचक्रवर्त्यादिषु युज्यत इत्याशयेनाह ॥ अनूर्मिमत्वमिति ॥ उक्तरूपानूर्मिमत्वस्य प्राकाम्यान्तर्भावं वक्तुं प्राकाम्यस्वरूपमाह ॥ यथेष्टेति ॥ अन्तर्भावं दर्शयति ॥ दुःखाभाव इति ॥ तदुपपादयितुमुक्तम् ॥ नेतर इति ॥ इतरस्मिन् दुःखवति सुखितैव नेष्यते किमु यथेष्टानन्दसंप्राप्तिः । तथा च दुःखाभाव इत्येव प्राकाम्याभावाद्युक्तस्तस्य तत्रान्तर्भाव इति भावः । दूरश्रवणादिचतुष्टयस्य प्राकाश्यान्तर्भावं वक्तुं प्राकाश्यस्य निःसीमतया महाधिक्यं दूरश्रवणादेस्तदेकदेशत्वं चोपपादयति ॥ प्राकाश्यमित्यादिना परचित्ताद्यभिज्ञतेत्यन्तेन ॥ वेदपदेन पौरुषेयस्यापि सङ्ग्रहः । आदिपदेन दृष्टादृष्टवस्तुग्रहणम् । एवशब्देन दूरश्रवणाद्येकदेशं देवान्येषु स्थितिं व्यावर्तयति । देवावरेषु विद्यमानं दूरदर्शनादिकं दर्शयति ॥ सहस्रेति ॥ एवमिति ॥ सहस्रस्य योजनान्तर्गतशब्दश्रवण एव दूरश्रवणमित्यर्थः ॥ तस्मि-न्निति ॥ वेदतद्वेद्येश्वरदेवतादिकं विना तस्मिन्नेव युगे स्थिते तदन्यवस्तुजाते परिज्ञानं त्रिकाल-परिज्ञानितेति प्रोक्तेत्यर्थः । शरीरस्थमिति परचित्ताद्यभिज्ञाता च प्रत्यक्षावगतपरकीयदेह एव न तु सर्वत्र परदेहगतचित्ताद्यभिज्ञतेत्येतावता परशरीरस्थस्य भगवतस्तत्वाभिमानिजातस्य च परिज्ञानमस्तीति न भ्रमितव्यमित्याशयेनोक्तम् ॥ शरीरस्थं विनेति ॥ यद्वा शरीरस्थितं मुखप्रसादादिरूपमनुमापकं विना केवलं योगप्रभावेनैव परचित्तादिपरिज्ञानं परचित्ताद्यभिज्ञतेत्याह ॥ शरीरस्थं विनेति ॥ अथ यथासङ्कल्पसंसिद्धेर्मनोजवादिपञ्चकस्याज्ञाऽप्रतिहतेश्चेति सिद्धिसप्तकस्य प्राप्तावन्तर्भावं ज्ञापयितुं तत्स्वरूपं निरूपयति ॥ अन्येन्द्रियैरित्यादिना सुतादिष्वित्यन्तेन ॥ अन्यपुरुषगतैश्चक्षुश्रोत्रादिभिरिन्द्रियैर्दर्शनश्रवणादिकं यत्तदेव यथासङ्कल्पवेगिता । यथासङ्कल्पं स्वसङ्कल्पानुसारेण । अन्येन्द्रिद्रियाणि करणानि कृत्वा वेगिता वेगेन विषयप्राप्तिः । यथासङ्कल्प-सिद्धिरिति यावत् । या सिद्धिः सद्भिः प्राप्तिरुच्यत इत्यर्थात् प्राप्तावन्तर्गतेति यावत् । अन्येन्द्रियै-र्विषयप्राप्तिरूपत्वादिति ज्ञेयम् ॥
स्वमन इति ॥ स्वस्य मनसो यावद्वेगेन विषयमभिधावति तावद्वेगवत्वं स्वस्यान्यत्र गमनेन प्राप्तावपीत्यर्थः । अस्याः प्राप्तावन्तर्भावः स्फुटः । कामरूपत्वमपि स्वस्य पश्वाद्याकारता-प्राप्तिरूपत्वात्प्राप्तावन्तर्भूतः ॥ स्वदेहेति ॥ स्वदेहमत्यक्त्वैव परे परकीये देहे प्रवेशः प्राप्तिः परकायप्रवेशः स्यादित्यर्थः । स्वच्छन्देन स्वेच्छयैव मरणवत्ता स्वच्छन्दमृत्युता । सा च कृतादि-युगादर्वाक्तनैव स्मृता । न तु कृतयुगे जातस्य त्रेतायुगे मरणेच्छायां तत्प्राप्तिरेवशब्दार्थः । स्वेच्छया मृतिप्राप्तिरूपत्वादन्तर्भावो ज्ञेयः । देवैः सह क्रीडा चेन्द्रादिभिरुत्तमैर्देवैर्विना तदवरदेवैः सह क्रीडेत्यर्थः । देवताप्राप्तिरूपत्वं स्पष्टमत्र । एवमाज्ञाऽप्रतिहतिरपि स्वाज्ञाया अप्रतिहतितया सर्वत्र प्राप्तिरूपत्वात्प्राप्तावन्तर्भूता ज्ञेया । आज्ञाऽप्रतिहतेः प्राप्तावन्तर्भावस्यानुक्तत्वात्किमित्यत्रासौ संयोज्यत इति चेत् । पूर्वं ‘‘प्राप्तावन्तर्गतान्याहुराज्ञाऽप्रतिहतिस्तथे’’त्युक्तत्वात् ।
ननु तत्र मनोजवादीनि प्राप्तावन्तर्गतानीति पूर्वमन्वयं कृत्वा आज्ञाऽप्रतिहतिस्तथा । अग्निस्तम्भ इत्यादीनीशित्वान्तर्गतान्याहुरित्युत्तरवाक्येनान्वये आज्ञाऽप्रतिहतेर्न प्राप्त्यन्तर्भावो ज्ञायत इति चेत् । टीकाकारैर्विजयध्वजीये— मनोजवकामरूपपरकायप्रवेशनस्वच्छन्दमृत्युतादेव सहितक्रीडानुदर्शनाज्ञा-प्रतिहतागतीनां प्राप्त्यन्तर्भावेनेत्युक्तत्वेन तथा योजनाया अयुक्तत्वादित्येके मन्यन्ते । अन्ये तु आज्ञाऽप्रतिहतेर्वशित्व एवान्तर्भावमुक्त्वा नात्र संयोजयन्ति । अन्येन्द्रियैर्दर्शनादिर्यथा संकल्प-सिद्धिरित्युक्तम् । अथ प्रकारान्तरेणापि तत्स्वरूपं दर्शयति ॥ यथासङ्कल्पेति ॥ अन्नादिष्वैहिकेष्वेव यथासङ्कल्पं स्वसंकल्पानुसारेण प्राप्तिर्यथासङ्कल्पसंसिद्धिरित्यर्थः ।
कामरूपत्वस्याणिमादित्रयेऽन्तर्भाव इत्युक्तम् । तदुपपादनाय देवेतरेषु विद्यमानाणिमादित्रयस्वरूपं दर्शयति ॥ चक्षुर्दृश्येष्विति ॥ तुशब्दो देवेतरगताल्पाणुत्वरूपविशेषद्योतकः । त्रिलोकान्तरे त्रिलोकमध्ये । चोऽवधारणे । त्रिलोकमध्य एव पूरणं न तु ततोऽधिकमित्यर्थः । चक्षुर्दृश्यैर्मशकादि-भिर्विशेषेण बाह्यत्वमेव लघिमा । न तु निःसीमलघिमा । एतासु त्रिषु कामरूपत्वस्यान्तर्भाव इत्याशयः । गरिम्णोऽष्टसिद्ध्यन्तर्भावपक्षोऽप्युक्तः । तदा देवेतरनिष्ठगरिमास्वरूपं दर्शयति ॥ त्रिलोकेति ॥ तुरेवार्थे । सिद्धिविशेषणत्वात्संप्रकीर्तितेति स्त्रीलिङ्गप्रयोगः । ईशिर्तृत्वे आज्ञा-प्रतिहतिरेका । अग्न्यर्काम्बुविषस्थम्भाश्चत्वारः । आदिशब्देन शस्त्रादिस्तम्भोऽपरः । अपराजयोऽन्य इति सप्तानामन्तर्भाव उक्तः । तदुपपादनाय देवेतरगतेशितृत्वस्वरूपं तासां सप्तानां स्वरूपं च दर्शयति ॥ पूर्वेत्यादिना इतीर्यत इत्यन्तेन ॥ तथाशब्दः सिद्ध्यन्तरसमुच्चये । करणं चापीत्यत्र चोऽवधारणे । भुविस्थैरेव प्राणिभिः प्रोक्तकरणमाज्ञाऽप्रतिहतिरिति कीर्त्यत इति योजना । अपिः सिद्ध्यन्तरसमुच्चये ।
अत्र प्रागग्न्यर्काम्बुविषादीनामित्यादिशब्दोक्तशस्त्रनखदन्तताडनशापादिभिरप्रतिहतिः पृथगेव सिद्धिः सप्तदशमीत्युक्तम् । तत्रादिशब्देनास्त्रस्तम्भो विवक्षितः । तत्राभिप्रेतं विशेषं दर्शयति ॥ ब्राह्मा-दर्वागिति ॥ ब्राह्मादवरास्त्रविघटनमेवास्त्रस्तम्भो विवक्षितः । न तु ब्राह्मस्य ततोऽप्युत्तमस्य नारायणास्त्रादेर्वाविघातनमिति नार्थः ॥ विनेति ॥ महातपस्विनो विना तदीयशापान्विना तदन्यसाधारणतपस्विशापप्रतिहतिः शापस्तम्भ इत्यर्थः ॥ अपराजय इति ॥ वक्ष्यमाणच शब्दो अवधारणार्थकोऽत्र सम्बध्यते । मनुष्येभ्य एवापराजय इत्यर्थः । प्रागन्यत्सर्वमीशित्वान्तर्भूत-मित्यग्न्यादिस्तम्भस्येशितृत्वेऽन्तर्भावमुक्त्वा पुनरग्न्यादिस्तम्भस्य वशित्वेऽपीत्युक्तत्वेनाग्न्यादिप्रतिस्तम्भस्य वशित्वेऽन्तर्भावाद्वशित्वविवरणपूर्वकमग्न्यादिस्तम्भनिरूपणं क्रियत इति नासङ्गतिरिति ज्ञेयम् । अलोलुता अतिशक्त्यभावः ।
॥ दाहादीति ॥ अत्र दाहपदनेनाग्न्यर्कनिमित्तकदाह उच्यते । आदिपदेनाम्बुविषयोर्ग्रहणम् । अत्रापि चोऽवधारणे । अपिशब्दस्य न केवलं शस्त्रादिप्रतिहतिः प्रतिस्तम्भः किन्तु दाहादिसहनमपि प्रतिस्तम्भ इति योज्यम् । प्राप्तदाहादिसहनमेव देवेभ्योऽन्यत्र दाहादिप्रतिस्तम्भः । अत अग्न्यादीनां दाहजनकशक्तिस्तम्भ इत्यवधारणार्थः । उक्तार्थमुपसंहरति ॥ इतीति ॥ इति अष्टसिद्धयोऽष्टादश-सिद्धय इत्येवं प्रकारेण सिद्धिः षडि्वंशतिः प्रोक्ता । पक्षान्तरमाह ॥ गरिम्णा सहैताः सप्त विंशतिश्चेति वेति ॥ एताः षडि्वंशत्यादिप्रभेदभिन्नाः सिद्धयो देवादिषु सर्वेषु वर्त्तन्ते किमित्यत उक्तम् ॥ सुरेभ्यो नवकोटिदेवेभ्योऽन्यत्र ऋषिगन्धर्वादिष्वेताः सिद्धयः, देवेषु तु औव महासिद्धय इति ॥ ननु देवेष्वष्टैव सिद्धयस्तदवरेषु बह्व्य इत्ययुक्तम् । देवानामुत्तमत्वेन तेष्वष्टादशसिद्धीनामवश्यं वक्तव्यत्वादित्यत आह ॥ यत इति ॥ यतस्तेषां देवानामष्टसिद्धयो निःसीमाः सर्वशोऽणुत्व-महत्वान्तर्बहिश्च व्याप्तिर्निरवधिकलघुत्वं महाशक्तयुद्रेक इत्यादिरूपाः । न तु चक्षुर्दृश्येष्वित्यासूक्त-प्रकारेणाल्पाः। अतोऽनूर्मिमत्वाद्यष्टादशसिद्धीनां तास्वन्तर्भावोऽङ्गीक्रियते । तथा च देवावरेषु विद्यमानाष्टादशसिद्धीनां सङ्ख्याबाहुल्येऽप्यत्यल्पत्वान्मुख्यानूर्मिमत्वादिसिद्धीनामष्टसिद्ध्यन्तर्भावादष्ट-सिद्धिलाभे सति पृथक्वारणमन्तरेण स्वत एव तासां लाभाच्च देवेष्वष्टैवेत्युक्तमुपपन्नमिति भावः ।
देवेष्वपि नैकप्रकाराः सिद्धय इत्याह ॥ देवेष्विति ॥ सिद्धय इत्यतःपरमधिका इति शेषः । निरवधिकमाधिक्यं विष्णोरेवेत्याह ॥ परिपूर्णा इति ॥ सर्वतः प्रकृतिसूक्ष्मप्रकृतेः परमेश्वरो ऽणोरणीयान्महतो महीयानित्याद्युक्तप्रकारेण मनोवाचामगोचरा इत्याधिक्येन परिपूर्णतमा इति विशेषद्योतनाय तुशब्दः । अवधारणे वा तुशब्दः । तद्व्यावर्त्यप्रदर्शनम् ॥ नान्यगा इति ॥ प्राक्प्राकाश्यं सर्ववेदादिकज्ञानमेवेत्युक्तम् । एतच्च तदन्येषु नैकप्रकारमित्याह ॥ श्रुतेष्विति ॥ अधीतेष्वित्यर्थः । तत्रापवादमाह ॥ ऋषीणामिति ॥ अश्रुतमपि किञ्चिद्भासते । ऋषीन् राज्ञस्तथारभ्य प्रतिभाभ्यधिकाः क्रमादित्युक्तेः किञ्चिदित्युक्तम् । भासमानं तदपि मिश्रभावेन अविविक्ततया बलवत्प्रमाणसंवादेनैव तन्निर्धारणम् । संवादात्पूर्वं न स्फुटं तत्वनिधारणमिति भावः । एवं प्राकाम्येऽपि देवेतरदेवेषु च वैलक्षण्यं दर्शयति ॥ विषयेभ्य इति ॥ स्रक्चन्दनवनितादिविषयेभ्यो यावत्सुखेन भाव्यं तदपेक्षया तेभ्य एवाधिकसुखव्यक्तिरेव तेषां तु प्राकाम्यम् । सुराणां तु विषयान्विनाऽपि वैषयिकजातीयनिरवधिकानन्दानुभवः प्राकाम्यमित्यर्थः । उक्तं च पुरस्तात् । यादृशानन्दकामः स्यात्तादृशानन्दसम्भवः । भोगान्विनैव प्राकाम्यमिति । अनेनैव न्यायेन अन्या अप्यणिमादिसिद्धयो निःसीमा देवेष्वेवान्येष्वल्पा इत्याह ॥ एवमिति ॥ देवेष्वपि विशेषमाह ॥ उत्तरोत्तरमिति ॥ अत्रापि देवेष्वपि सुपूर्णभूक् महासुपूर्णसिद्धिभोक्ता । प्राग्दाहादिसहन-मित्यग्न्यादिनिमित्तपीडासहनमग्न्यादिस्तम्भ इति देवेतरगतप्रतिस्तम्भस्वरूपमुक्तम् । इदानीं देवगताग्न्यादि-प्रतिस्तम्भादि दर्शयति ॥ अग्न्यादिस्तम्भेति ॥ अग्न्यादीनां दाहकत्वादि शक्तिस्तम्भ इत्यर्थः
॥ ६–८ ॥
एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः ।
यया धारणया या स्याद् यथा वा स्यान्निबोध मे ॥ ९ ॥
पदरत्नावली
मनोयोगेन यद् धारणं ध्यानं तेन जायमानाः सिद्धयो योगधारणसिद्धयः । सङ्ख्याविषयं प्रश्नं परिहृत्येदानी कया धारणया इत्यादिप्रश्नं परिहरति यथेति ॥ ९ ॥
प्रमेयचन्द्रिका
मूल एवं कति वा सिद्धय इति प्रश्नोत्तरत्वेन सिद्धीर्निरूप्य कया धारणया कास्वित्कथं वा सिद्धिरिति प्रश्नस्योत्तरं प्रतिज्ञापूर्वकमुच्यते ॥ यया धारणयेत्यादिना ॥ ९ ॥
भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयन् मनः ।
अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥
तात्पर्यम्
एकस्मात्सिद्धयो विष्णोः स्थानभेदात्पृथग्विधाः । एकस्थानगताद्वा स्युः सुस्थिरोपासना यदी’ति भारते ॥ भूतसूक्ष्माणामात्मनि परमाणुस्थितेऽणुरूपे । ‘तन्मा-त्रावयवे सूक्ष्मे परमाण्वभिधानके । प्रत्येकमणुरूपं तु विष्णुं ध्यायन्नणुर्भवेदि’ति कापिलेये ॥ ‘आकाशवत्सूक्ष्मतां यो व्यापित्वेनैव मन्यते । तन्मात्रव्यापिनं विष्णुं चिन्तयन्स तथा भवेदि’ति च ॥ १० ॥
पदरत्नावली
तत्र तावत् प्रथमोद्दिष्टाणिमासिद्धिप्रापकं ध्यानप्रकारमाह– भूतसूक्ष्मेति । भूतसूक्ष्माणां पार्थिवादिपरमाणूनामात्मनि नियामके परमाणुषु स्थिते मयि तन्मात्रपरिमितत्वेन मनो धारयन् ध्यायन्नणिमानमवाप्नोति । अनेन यद्यद्वस्तूपमितं रूपं स्वयमपि तत्तत्परिमितो भवतीत्युक्तं भवति । ‘‘तन्मात्रावयवे सूक्ष्मे परमाण्वभिधानके । प्रत्येकमणुरूपं तु विष्णुं ध्यायन्नणुर्भवेत्’’ इति वचनात् । प्रकारान्तरेणाणुत्वप्राप्तिप्रतिपत्तिमाह– तन्मात्रेति । मम तन्मात्रोपासकस् तस्याकाशगुणस्य शब्दादेर्यत् सूक्ष्ममात्रं परिमाणं तत्परिमाणस्य मम स्वरूपस्योपासकोपि तत्परिमितरूपो भवतीत्यर्थः । ‘‘आकाशवत् सूक्ष्मतां यो व्यापित्वेनैव मन्यते । तन्मात्रव्यापिनं विष्णुं चिन्तयन् स तथा भवेत्’’ इति वचनात् । अणुत्वं च ‘‘चक्षुर्दृश्येष्वणुत्वं तु अणिमा सम्प्रकीर्तिता’’ इत्युक्तविधम् ॥ १० ॥
श्रीनिवासतीर्थीया
प्रथमोद्दिष्टाणिमाख्यसिद्धिप्रापकं ध्यानमाह ॥ भूतसूक्ष्मात्मनीति ॥ ननु धारणाविषयस्य भगवत एकत्वात्तद्धारणायाः कथं सिद्धिभेद इत्यतस्तात्पर्यमाह ॥ एकस्मा-दिति ॥ स्थानभेदाद्भूतसूक्ष्मादिस्थानभेदात्स्युः सर्वा अपि सिद्धयः । कदेत्यत उक्तम् ॥ सुस्थिरेति ॥ भूतसूक्ष्मात्मनीत्येतदन्यथाप्रतीतिपरिहाराय व्याचष्टे ॥ भूतेति ॥ भावमाह ॥ परमाणुष्विति ॥ पार्थिवादित्र्यणुकषष्ठभागरूपेष्वित्यर्थः । प्रमाणं चाह ॥ तन्मात्रेति ॥ अत्र मात्रशब्दः कार्त्स्न्यार्थः । तन्मात्राणां सर्वभूतानामवयव इत्यर्थः । तन्मात्रोपासक इत्यस्यार्थमाह ॥ आकाश-वदिति ॥ यथा व्याप्तमव्याकृताकाशमंशैरिति सूक्ष्मं भवति । एवमाकाशादिसर्वभूतव्यापिहरिरेव परमाण्वादिसूक्ष्मावयवव्यापीति व्याप्तत्वेन सह सूक्ष्मतां यो मन्यते स तन्मात्रव्यापिनं विष्णुं तदवयवेषु सूक्ष्मतया चिन्तयन् तथा सूक्ष्मोऽणुर्भवेदित्यर्थः ॥ तथा चायमर्थः ॥ भूतसूक्ष्माणामात्मनि नियामकतया स्थितेऽणुरूपे मयि तन्मात्रं तद्रूपव्यापिमनो धारयन्नमणिमानमवाप्नोति । मनोधारणे प्रकारमाह तन्मात्रोपासक इति ॥ तन्मात्रस्य पञ्चभूतव्यापिनो हरेस्तन्मात्रत्वेन पञ्चभूतसूक्ष्म-व्यापित्वेनोपासकोऽणिमानमवाप्नोतीत्यर्थः ॥ १० ॥
दुर्घटभावदीपिका
भूतानि पञ्च तन्मात्राणि तासां ये सूक्ष्मपरमाणवस्तेषामात्मनि नियामके पञ्च तन्मात्रापरमाणुषु नियमनार्थम् प्रत्येकमणुरूपेण स्थित इति यावत् । मयि तन्मात्रं तेषां पञ्च तन्मात्रापरमाणूनां मात्रं मितिर्यस्य विषयत्वेन वर्तते तत्तन्मात्रं मनो धारयन् अणिमानमणुत्वमवाप्नोति । अप्रतिपाद्यत्वरूपाणुत्वप्राप्तौ यथायोग्यव्याप्तिप्राप्तौ च कारणमाह ॥ तन्मात्रोपासको ममेति । मम तन्मात्रोपासकः पञ्च तन्मात्रारूपोपासकश्चाणिमानं प्रतिपाद्यत्वरुपाणुत्वम् । उपलक्षणमेतत् । यथायोग्यव्याप्तिं चाप्नोतीति । एतेन तन्मात्रमित्येतद्व्यर्थमिति दूषणं परास्तम् । तन्मात्रा-परमाणुगतभगवद्रूपेषु तन्मात्रापरमाणुपरिमाणवदणुपरिमाणमस्तीत्येतद्विषयकत्वं मनस आवश्यकमिति सूचयितुं तन्मात्रमित्युक्तमित्यभ्युपगमात् ॥ ता.अर्थः ॥ भूतसूक्ष्मात्मनीत्यस्य विग्रहं दर्शयति ॥ भूतसूक्ष्माणामिति । भूतशब्देन तन्मात्रा गृह्यन्ते । भूतसूक्ष्माणां तन्मात्रापरमाणूनामन्तःस्थित्वा नियामके । भूतसूक्ष्मात्मनीत्यस्य तात्पर्यार्थमाह ॥ परमाणुष्विति । तन्मात्रापरमाणुषु प्रत्येकं स्थितेऽणुरूपे । अत्र प्रमाणमाह ॥ तन्मात्रावयव इति । तन्मात्रोपासको ममेत्यस्यार्थं प्रमाणेनैवाह ॥ अकाशवदिति । यस्तन्मात्राव्यापिनं विष्णुं चिन्तयन् आकाशवद्व्यापित्वेन सह सूक्ष्मताम-प्रतिपाद्यतां मन्यते । अकाशो यथा व्याप्तोऽप्रतिपाद्यश्च तथा तन्मात्राव्यापीति विष्णुर्व्याप्तोऽ-प्रतिपाद्यश्चेति मन्यत इति यावत् । स तथाऽऽकाशवद्यथायोग्यव्याप्तिमान्सूक्ष्मश्च भवेदिति ॥१०॥
प्रमेयचन्द्रिका
एवं प्रतिज्ञाय तत्तत्सिद्धिप्रापकधारणाभेदा उच्यन्ते ॥ भूतसूक्ष्मात्म-नीत्यादिनाऽध्यायशेषेण ॥ तत्र धारणाभेदेन सिद्धिविशेषप्राप्तिरित्युक्तम् । धारणाविषयभूतस्य हरेरेकत्वेन धारणाभूतस्यैवानुपपन्नत्वादित्यत आह ॥ एकस्मादिति ॥ यद्यपि एकस्मादेव विष्णोः सिद्धयो भवन्ति । तथाऽप्युपास्यभगवद्रूपाणामधिष्ठानभेदात्सिद्धयः पृथग्भवन्तीत्यर्थः । क्वचित्स्थान-भेदाभावेऽपि गुणविशेषोपासनया सुदृढया च सिद्धिभेदो भवतीत्याह ॥ एकस्थानेति ॥ प्रथमोद्दिष्टाणिमाख्यसिद्धिप्रापकध्यानप्रकारकनिरूपणपरे भूतसूक्ष्मात्मनीति मूले भूतसूक्ष्मशब्दवाच्य-पञ्चतन्मात्रास्वरूपे मयीत्यन्यथाभानाद्व्याचष्टे ॥ भूतसूक्ष्माणामिति ॥ एतदेव विवृणोति ॥ परमाणुस्थितेऽणुरूप इति ॥ तथा च भूतानां पृथिव्यादीनां सूक्ष्माणि परमाणुरूपावयवानि तेषामात्मनि अन्तर्यामिणि । परमाणुस्थिते भगवद्रूपे इत्युक्तं भवति । यद्वा भूतसूक्ष्मपदेन शब्दा-द्यास्तन्मात्रा एवोच्यन्ते । तेषामात्मनि अन्तर्नियामके । तद्विवरणं परमाणुस्थित इति ॥ तन्मात्रावयवभूतपरमाणुस्थित इत्यर्थः । पृथिव्यादिभूतपरमाण्वपेक्षया उपादानत्वेन प्रमिततन्मात्र-परमाणूनामिति सूक्ष्मत्वात्तद्ग्रहणम् । अत्र प्रमाणमाह ॥ तन्मात्रावयव इति ॥ तेषां भूतानां मात्रावयवे । तस्यैव विवरणम् ॥ सूक्ष्मे परमाण्वभिधानक इति ॥ अथवा शब्दादिपञ्चक-तन्मात्राणामवयवे । अवयवे इत्यत्र स्थूलोनाभिप्रेत इत्याशयेनोक्तम् ॥ सूक्ष्मे परमाण्वभिधानक इति ॥ प्रत्येकमेकपरमाणावेवैकं रूपमिति प्रत्येकं, तदभिप्रायेणैव स्ववचनेऽप्येकवचनप्रयोगः ॥
तदयं मूलार्थः ॥ भूतसूक्ष्मात्मनि प्रत्येकं परमाणुषु स्थिते परमाणुरूपे मयि तन्मात्रं यथा भवति तथा तत्रैव रूपे सर्वपरिमाणेषु सत्स्वपि अणुमात्रं चिन्तयन्निति यावत् । अणिमानमणिमा-संज्ञकसिद्धिमाप्नोतीति । प्रकारान्तरेणाणुत्वप्राप्तिप्रतिपत्तिरुच्यते ॥ तन्मात्रेति ॥ मम तन्मात्रो-पासकः । तस्याकाशादिगुणशब्दादेर्यत्सूक्ष्ममात्रं तत्परिमाणस्य मम रूपस्योपासकोऽपि तत्परिमितिरूपो भवतीत्यर्थ इति टीकायाम् ॥
अथवा । महिमासिद्धिहेतुधारणोच्यते ॥ तन्मात्रोपासक इति सपादश्लोकेन ॥ अत्राण्डान्तःस्थितपृथिव्यादिवन्न विष्णोः सप्रतिघतया व्याप्तत्वं किंत्वाकाशवदेवाप्रतिघतयेति वदन् तन्मात्रोपासको ममेत्येतदधिष्ठानरूपतयाऽन्वितमिति दर्शयन् प्रमाणेन व्याचष्टे ॥ आकाशवदिति ॥ सूक्ष्मतामप्रतिघताम् । अप्रतिघत्वमात्रे नाकाशदृष्टान्तः किन्तु व्याप्तत्वेऽपीत्याशयेनोक्तम् ॥ व्याप्तत्वेनेति ॥ तन्मात्राव्यापिनं तन्मात्रासु व्याप्य स्थितम् । लिङ्गं न विवक्षितम् । एतादृशं विष्णुं यश्चिन्तयन् पुरुषः स तथा भवेत् । व्यापको भवेदित्यर्थः ॥ अत्र पूर्वश्लोकचतुर्थपादं मूले असंयोज्य तन्मात्राव्यापिनमित्यस्य तत्तद्भूताद्यधिष्ठानमात्रव्यापिनमित्यर्थ इत्यप्याहुः ॥ अस्मिन्पक्षे मूले अधिष्ठानानुक्तेर्बहिरेव तद्ग्राह्यम् ॥ १० ॥
महत्यात्मन् मयि परे यथासंस्थं मनो दधत् ।
महिमानमवाप्नोति भूतानां च पृथक्पृथक् ॥ ११ ॥
**तात्पर्यम् **
महति व्याप्ते । महत्तत्त्वस्य पृथगुक्तेः । अस्मात्स्थूलतां प्राप्नुवानीत्य-पेक्षायां तस्मात्प्राप्नोति । ततोऽन्यस्मादित्यपेक्षायां तस्मादिति पृथक्पृथक् ॥ ११ ॥
पदरत्नावली
व्याप्तस्य हरेरेकैकावयवध्यानं परिच्छिन्नवस्तुमहत्त्वकारणमाह– महतीति । महति व्याप्ते आत्मन् आत्मनि स्वामिनि मयि यथासंस्थं यथा वस्तुपरिमाणं तथा स्थिते मनो दधत् पुरुषो महिमानं महत्त्वमवाप्नोति । तदेव विशिनष्टि भूतानामिति । अस्मात् स्थूलतां प्राप्नवानीत्यपेक्षायां तस्मात् स्थूलतां प्राप्नोति । ततोऽन्यस्मान्महत्त्वमाप्नवानीत्यपेक्षायां तस्मादिति पृथक्पृथक् भूतानां सकाशान्महत्त्वमाप्नोतीत्यर्थः । परे परमात्मनि । सर्वनामसञ्ज्ञाविकल्पान् नास्त्यस्य ॥ ११ ॥
श्रीनिवासतीर्थीया
महिमासिद्ध्युपायमाह ॥ महतीति । अत्र महत्तत्त्व इत्यन्यथा-प्रतीतेर्व्याकरोति ॥ महतीति ॥ महत्तत्त्वार्थकमेव किं न स्यादित्यत आह ॥ महत्तत्त्वस्येति ॥ महत्तत्त्वान्तर्यामिभगवदुपासनस्य प्राकाश्यसिद्धिसाधनत्वेन महत्यात्मनीत्युत्तरत्र पृथग्वक्ष्यमाणत्वादत्रापि तदुक्तौ पौनरुक्त्यमिति भावः । पृथक् पृथगित्येतदर्थमाह ॥ अस्मादित्यादि ॥ गजादेरित्यर्थः ॥ प्राप्नोति स्थूलतां ततोऽन्यस्मात्पर्वतादेरित्यर्थः । स्थूलतां प्राप्नुवानीत्यपेक्षायामिति वर्तते । तस्मात्स्थूलतां प्राप्नोतीति च वर्तते । तस्यैव देहस्य तथा विकारो भवतीत्यर्थः । तथा च महति व्याप्ते आत्मन् आत्मनि स्वामिनि परे सर्वोत्तमे मयि यथासंस्थं वस्तुपरिमाणमनतिक्रम्य मनो दधत्पुमान् पृथक् पृथग्भूतानां सकाशान्महिमानं महत्तत्त्वं लोकान्तर्व्याप्तत्वं प्राप्नोतीत्यर्थः । यथोक्तम् । महिमा चापि सम्प्रोक्ता त्रिलोकान्तरपूरणादिति ॥ ११ ॥
दुर्घटभावदीपिका
अत्र सकाशादित्यादेः शेषः । महति व्याप्ते । सर्वापेक्षयाऽधिकस्थूल इति यावत् । परे आत्मन् आत्मनि परमात्मनि मयि भूतानामश्वादिभूतानां सकाशात्पृथक् पृथगधिक-स्थूलताऽपेक्षया मनो यथा संस्थं सम्यक् स्थितं स्यात्तथा दधत् । ज्ञानी महिमानमश्वाद्यपेक्षयाऽधिक-स्थौल्यमवाप्नोति च प्राप्नोत्येवेति ॥ अयं भावः ॥ अश्वापेक्षयाऽधिकस्थौल्यं भवत्वित्यपेक्षया सर्वा-पेक्षयाऽधिकस्थूले भगवत्यन्तःकरणं सम्यक् स्थापयित्वा ध्यानं कृतं चेदश्वापेक्षया सर्वाधिकस्थूलत्वेन भगवदुपासनं कृतं चेद्गजाद्यपेक्षयाऽधिकस्थूलो भवतीति ॥ ११ ॥
प्रमेयचन्द्रिका
नन्वत्र तन्मात्राणामधिष्ठानत्वे महतीति महत्तत्वस्याधिष्ठानत्वोक्तिरयुक्तेत्यत आह ॥ महतीति ॥ महतीत्येतदधिष्ठाननिरूपणपरमेव किं न स्यादित्यत आह ॥ महत्तत्व-स्येति ॥ महत्यात्मनि यः सूत्र इत्युत्तरत्रेति शेषः । भूतानां च पृथक्पृथगित्यस्याप्रतीतेः प्रकृतोपयोगितयाऽर्थमाह ॥ अस्मादिति ॥ भूतस्थूलता नाम अजगोअश्वहस्त्यादिप्राणिनां मध्ये तस्मादजात्तु तस्माद्गोरित्यादिप्रकारेणेत्यर्थः । उत्तमाधिकारिपरत्वे तु तस्मात्पृथिवीभूतात् तस्मा-ज्जलादिति योज्यम् । इति प्रकारेण ।
ततश्चायं मूलार्थः ॥ महति व्याप्ते आत्मन् स्वामिनि परे सर्वोत्तमे विलक्षणे वा मयि यथासङ्कल्पं स्वस्य यथा स्थूलताऽपेक्षिता तथा स्थितं यथा भवति तथा मनो दधन् मम तन्मात्रोपासकः शब्दादि तन्मात्राधिष्ठाने ममोपासकः भूतानां सकाशात्पृथक पृथक् स्वापेक्षितेमहिमानमवाप्नोतीति ॥११॥
परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मात्मके योगी लघिमानमवाप्नुयात् ॥ १२ ॥
तात्पर्यम्
**परमाणुमये भूतानां सकाशादतिशयेनाणुरूपे । कालसूक्ष्माणामात्मनि **
॥ १२ ॥
पदरत्नावली
लघिमासिद्धिप्रापिणी प्रतिपत्तिमाह– परमाणुमय इति । कालसूक्ष्माणां कालपरमाणूनामात्मके आत्मनि व्यापके । तत्स्वरूपं विशिनष्टि परमाणुमय इति । परमाणुमये भूतानां सकशादतिशयिताणुस्वरूपे मयि चित्तं रञ्जयन् अनुरक्तं कुर्वन् तदेकनिष्ठत्वेन कुर्वन् लघिमान-माप्नोति ॥ १२ ॥
श्रीनिवासतीर्थीया
लघिमासिद्धिप्रापकधारणमाह ॥ परमाण्विति ॥ इदं विवृणोति ॥ परमाण्विति ॥ तथा च भूतानां पञ्चभूतपरमाणूनामात्मके आत्मनि व्यापके मयि मनो रञ्जयन् अनुरक्तं कुर्वन् चक्षुर्दृश्यैर्विवाह्यत्वरूपं लघिमानमवाप्नुयादित्यर्थः । यथोक्तम् । चक्षुर्दृश्यैर्विवाह्यत्वं लघिमेति ॥ १२ ॥
दुर्घटभावदीपिका
योगी भूतानामणुपदार्थानां सकाशात्परमाणुमयेऽतिशयेनाणुस्वरूपे रूपविशेषे कालसूक्ष्मात्मके कालपरमाणुषु स्थित्वा तन्नियामके रूपेऽपि चित्तं रञ्जयन् लघिमानमवाप्नुयादिति
॥ १२ ॥
प्रमेयचन्द्रिका
लघिमाहेतुधारणानिरूपणपरे परमाणुमय इति मूले पृथिव्यादिपरमाण्वात्मक इत्यन्यथाभानादनूद्य भूतानामित्यस्य शब्दादितन्मात्राधिष्ठाने ममोपासक इत्यत्रान्वय इति दर्शयन् षष्ठ्याः पञ्चम्यर्थतां सूचयन् व्याचष्टे ॥ परमाणुमय इति ॥ परमशब्दाभिप्रायोऽतिशयेनेति । कालसूक्ष्मात्मक इत्येतत्क्षणलवादिकालाभिन्न इत्यन्यथाप्रतीतेर्व्याचष्टे ॥ कालेति ॥ तथा च भूतानां पृथिव्यादिभूतानां परमाणूनां जीवानां वा सकाशादतिशयेनाणुस्वरूपकालसूक्ष्माणामात्मनि संस्थिते मयि चित्तं रञ्जयन्ननुरक्तं कुर्वन् योगी लघिमानमवाप्नुयादिति मूलार्थः ॥ १२ ॥
धारयन् मय्यहन्तत्वे मनो वैकारिकेऽखिलम् ।
सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ १३ ॥
तात्पर्यम्
अहंतत्वे स्थिते मयि ॥ १३ ॥
पदरत्नावली
प्राप्तिसिद्ध्यापादकधारणामाह– धारयन्निति । वैकारिके अहन्तत्वे व्याप्ते मयि मनो धारयन्नखिलं निवृत्तबहिर्वृत्ति यथा तथा धारयन् सर्वेन्द्रियाणामात्मत्वं स्वामित्वेन स्वेच्छानियतत्वमाप्नोति । ततः किमत्राह– प्राप्तिरिति । अन्येन्द्रियैर्विषयदर्शनादिलक्षणप्राप्तिं प्राप्नोति । ‘‘अन्येन्द्रियैर्दर्शनादि यथासङ्कल्पवेगिता । प्राप्तिरित्युच्यते सद्भिः’’ इति । मन्मना इत्यनेनान्तरालेऽ-न्यमनस्कत्वं निवारयति ॥ १३ ॥
श्रीनिवासतीर्थीया
प्राप्तिसिद्ध्यापादिका धारणोच्यते ॥ धारयन्निति ॥ अभेदप्रतीतिं वारयितुं व्याचष्टे ॥ अहंतत्त्व इति ॥ तथा च त्रिविधाहङ्कारमध्ये यद्वैकारिकमहंतत्त्वं तत्र स्थिते मय्यखिलम् । निवृत्तबहिर्व्यापारमिति यावत् । मनो धारयन्सर्वेन्द्रियाणामपि स्वयमेव स्वामीति प्राप्नोतीति ज्ञेयम् । अखिलमित्युक्तत्वेऽपि पुनर्मन्मना इत्यन्तरालेऽन्यमनस्कत्वं वारयति । यथोक्तम् । अन्येन्द्रियैर्दर्शनादीति ॥ १३ ॥
प्रमेयचन्द्रिका
प्राप्तिहेतुनिरूपणपरे धारयन्निति मूले अहंतत्वे मयीत्यभेदभानाद्व्याचष्टे ॥ अहंतत्वे स्थित इति ॥ मूलार्थस्तु मय्येव मनो यस्मान् मन्मनाः पुरुषः वैकारिके अहंतत्वे वैकारिकाहङ्कारस्थिते मय्यखिलं समग्रं मनो धारयन् अनुरक्तं कुर्वन् योगी स्वावरसर्वपुरुषेन्द्रियाणा-मात्मनो मतं स्थितिम् अन्येन्द्रियैर्दर्शनादि तत्तन्नियामकत्वरूपां च प्राप्त्याख्यां सिद्धिं प्राप्नोतीति
॥ १३ ॥
महत्यात्मनि यः सूत्रे धारयन् मयि मानसम् ।
प्राकाश्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः ॥ १४ ॥
तात्पर्यम्
सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्तजन्मनो ऽव्यक्तस्यापि किञ्चित्स्थूलत्वकर्तुः । ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमे’ति मोक्षधर्मेषु ॥ ‘अजरा-दमरादमूर्तितः शाश्वततमस’ इति च । ‘अव्यक्तस्याजन्मवतो विकारो जनिरुच्यत’ इति हरिवंशेषु ॥ मे सकाशाद्विन्दते । परमेष्ठिप्रसादादन्येषां भवतीति पारमेष्ठ्यम् । सर्वगुणानां ज्ञानमूलत्वादुपलक्षणत्वेन प्राकाश्यं पारमेष्ठ्यमित्युक्तम् । ‘सर्वे गुणास्तु प्राणस्य परमात्मप्रसादतः । प्राणविष्ण्वोः प्रसादेन भारत्याः सम्प्रकीर्तिताः । प्रसादात्तु त्रयाणां चाप्यनन्तादेः सदा गुणा’ इति माहात्म्ये ॥ १४ ॥
पदरत्नावली
प्राकाश्यप्राप्तिप्रकारं कथयति महतीति । महति महत्त्वत्वे सूत्रे मुख्यप्राणे आत्मनि व्याप्ते मयि मानसं धारयन् अव्यक्तजन्मनो ऽव्यक्तस्यापि विकारलक्षणस्थूलत्वापादकस्य मे प्रसादात् पारमेष्ठ्यं परमेष्ठिनो ब्रह्मणः प्रसादलभ्यं प्राणभारत्योः प्रसादाच्च सर्ववेदादिज्ञानश्रैष्ठ्यापादकं प्राकाश्यं विन्दत इत्यन्वयः । ‘‘प्राकाश्यं सर्ववेदादिज्ञानमेव विदो विदुः,’’ ‘‘सर्वे गुणास्तु प्राणस्य परमात्मप्रसादतः । प्राणविष्ण्वोः प्रसादेन भारत्याः सम्प्रकीर्तिताः । प्रसादात्तु त्रयाणां चाप्यनन्तादेः सदा गुणाः’’ इति च ॥ १४ ॥
श्रीनिवासतीर्थीया
प्राकाश्यसिद्धिप्रापकधारणमाह ॥ महतीति ॥ अभेदप्रतीतिं वारयन् व्याकरोति ॥ सूत्र इति ॥ ननु कथमेवमर्थो लभ्यत इत्यतस्तत्र दृष्टान्तमाह ॥ गृह इति ॥ यथा गृहेऽपि देवदत्तस्तिष्ठतीत्युक्ते गृहस्थिते पीठे इत्यर्थो लभ्यते न तु गृहाभेदस्तद्वत्प्रकृतेऽपीत्यर्थः । नन्वव्यक्तस्य नित्यत्वात्कथमव्यक्तजन्मन इत्युक्तिरित्यतोऽनूद्य व्याचष्टे ॥ अव्यक्तेति ॥ स्यादिदं यदि भगवतोऽव्यक्तस्य जन्म प्रामाणिकं स्यात् । न चैवमस्ति । अत्रत्याव्यक्तशब्दस्य सूक्ष्म-परमाण्वादिपरतया सावकाशताया अपि सम्भवादित्यत आह ॥ तस्मादिति ॥ हरेरित्यर्थः । पूर्वं तस्यैव प्रकृतत्वादिति ध्येयम् । तथा चात्र त्रिगुणत्वरूपासाधारणधर्मोक्तेरव्यक्तं प्रधानमेव । एतत्समाख्यया भागवतेऽप्यव्यक्तं प्रधानमेवेत्युक्तरीत्यैव व्याख्येयमित्याशयः । ननु किञ्चित्स्थूलत्वेति कुतो व्याख्यायते । किं नाम घटादेरेवासतः सत्तासम्बन्धरूपमेव जन्म कस्मान्न स्यादित्यतस्तत्र बाधकमाह ॥ अजरादिति ॥ अमूर्तित इयत्तावच्छिन्नपरिमाणशून्यादिति देशानन्त्यमाचष्टे ॥ शाश्वतं च तत्तमश्चेति । शाश्वतशब्दात्कालानन्त्यमाचष्टे । पुरुषोऽभूदित्यन्वयः । तथा चात्र नित्य-त्वोक्तेर्घटादिवदुत्पत्त्यसम्भवादुक्तरीत्यैव व्याख्येयमित्याशयः । उक्तरूपमेव जन्मेत्यत्र प्रमाणमाह ॥ अव्यक्तस्येति ॥ मे पारमेष्ठ्यमित्यन्यथाप्रतीतिं वारयति ॥ म इति ॥ पारमेष्ठ्यमित्येतदभेद-प्रतीतिवारणाय व्याचष्टे ॥ परमेष्ठीति ॥
ननु सर्वसिद्धीनामपि परमेष्ठिप्रसादलभ्यत्वात्किं विशिष्योच्यते प्राकाश्यं पारमेष्ठ्यमितीत्यत आह ॥ सर्वेति ॥ परमेष्ठिप्रसादलभ्यत्वरूपपारमेष्ठ्यत्वरूपं विशेषणम् । अत्रैकत्रोक्तमुपलक्षणत्वेन सर्वत्र द्रष्टव्यमित्याशयेनात्रोक्तमित्यर्थः । नन्वेवं चेदुपलक्षणतयाऽत्रैवोक्तिः कुतः । सिद्ध्यन्तरे उक्तावप्युपलक्षणतया ज्ञातुं शक्यत्वादित्यत उक्तम् ॥ सर्वेति ॥ ज्ञानेति ॥ प्राकाश्यापरपर्याय-ज्ञानेत्यर्थः । अणुत्वादिसिद्धिरूपगुणानां प्राकाश्यसिद्धिमूलकत्वेन सर्वसिद्धिषु प्राकाश्यसिद्धेः प्रधानत्वादत्रैवोपलक्षणतयोक्तिर्युक्तेत्याशयः । परमेष्ठिप्रसादादित्युक्तार्थे प्रमाणमाह ॥ सर्वे गुणा इति ॥ अत्र लक्ष्म्या विष्णुकोटौ प्रवेशो मन्तव्यः । प्राणभारतीग्रहणेन ब्रह्मसरस्वत्योरपि सङ्ग्रहः । तथा च महति महत्तत्त्वे स्थिते सूत्रे प्राणे आत्मनि व्याप्ततया स्थिते मयि मानसं मनो धारय-न्नव्यक्तस्य जन्म किञ्चित्स्थूलत्वरूपो विकारो यस्मादसावव्यक्तजन्मा तस्मान्मे मत्तः सकाशा-त्पारमेष्ठ्यं परमेष्ठिप्रसादलभ्यम् । परमेष्ठिप्रसादादिति यावत् । प्राकाश्यं प्राप्नोति रुद्रानन्तादिः । ब्रह्मा तु विष्णुप्रसादादेवाप्नोतीति श्लोकार्थः ॥ १४ ॥
प्रमेयचन्द्रिका
प्राकाश्यसिद्धिहेतुनिरूपके महति सूत्रे मयीत्येतदप्रतीतेर्व्याचष्टे ॥ सूत्रे स्थित इति ॥ तत्किं पूर्वश्लोकेऽत्र च स्थित इत्यध्याहार्यमित्यत आह ॥ गृहे पीठ इति ॥ यथा गृहपीठे गुरुरास्त इत्यत्र न गृहपीठयोरभेदोऽभिधीयते । किं त्वधिकरणसप्तमीबलाद्विनाऽध्याहार्येण स्थित इति लभ्यते । तथाऽत्रापीति भावः । अव्यक्तजन्मन इत्यत्र अव्यक्ताज्जन्म यस्येति विग्रह-प्रतीतिं वारयन्ननूद्यार्थमाह ॥ अव्यक्तेति ॥ अव्यक्तस्य जन्म यस्मादिति विग्रह इति भावः । ननु प्रकृतेर्नित्यत्वात्कथं जन्मेत्यत उक्तम् ॥ किञ्चित्स्थूलत्वेति ॥ महत्तत्वाद्युपादानत्वोप-योगिविकार एव स्थूलत्वमिति ज्ञेयम् । हरेरव्यक्तजन्मकत्वे प्रमाणमाह ॥ तस्मादिति ॥ चित्प्रकृति-व्यावर्तये त्रिगुणमित्युक्तम् । चेतनाव्यक्तस्य विकारः किन्न स्यादित्यतः श्रियो निर्विकारत्वे प्रमाणमाह ॥ अजरादिति ॥ जरामरणाभावे हेतुरमूर्तित इति । प्राकृतदेहस्यैव जरामरणव्याप्तत्वादिति भावः । शाश्वतमेकप्रकारं निर्विकारमिति यावत् । तच्च तत्तमश्च तस्य श्रीतत्वस्येत्यर्थः । श्रुतिगीताताप्तर्ये तम आसीदित्यस्य तमो हि दुर्गेति व्याख्यानादिति ज्ञेयम् । जडाव्यक्तस्य किञ्चित्स्थूलत्व-रूपजन्मसद्भावेऽपि प्रमाणमाह ॥ अव्यक्तस्येति ॥ मे मम धर्मभूतं पारमेष्ट्यं प्राकाश्यमित्यन्यथा-भानाद्व्याचष्टे ॥ मे सकाशादिति ॥ प्राकाश्यस्य पारमेष्ठ्यत्वं कथमित्यत आह ॥ परमेष्ठीति ॥ परमेष्ठी विरिञ्चः । तस्य सम्बन्धीत्यर्थे तद्धितप्रत्ययः, तत्सम्बन्धित्वं च तत्प्रसादलभ्यत्वम् । अतो विरिञ्चेतरेषां प्राकाश्यं पारमेष्ट्यमित्युच्यत इति भावः ।
ननु परमेष्टिप्रसादं विना भारत्यादीनां किमपि न लभ्यते तत्किं प्राकाश्यमात्रस्य परमेष्टिप्रसाद-लभ्यत्वमुच्यत इत्यत आह ॥ सर्वेति ॥ अस्ति सर्वगुणानामपि परमेष्टिप्रसादलभ्यत्वं तथापि सर्वत्रोक्तौ गौरवादुपलक्षणतयाऽत्रोक्तम् । तर्हि प्रथमातिक्रमणे कारणाभावादणुत्व एव किमर्थं नोक्तमिति चेत् । प्राकाश्यशब्दोदितज्ञानस्यैव सर्वगुणजन्यत्वेन प्राधान्यादत्र साक्षादुक्तिरन्यत्रोपलक्षणतया ग्रहणमिति न दोषः । लक्षणाबीजशक्यसम्बन्धोपपादनार्थं वा सर्वगुणानां ज्ञानमूलत्वादित्युक्तम् । सर्वगुणानां परमेष्टिप्रसादलभ्यत्वे तस्यैव स्वातन्त्र्यं स्यादित्याशङ्कापरिहारपूर्वकमुक्तार्थप्रतिपादकं प्रमाणं पठति ॥ सर्वे गुणा इति ॥ अत्र प्राणपदेन परमेष्टी विवक्षितः प्राणस्यैव परमेष्टीपदप्राप्तेः । अत एव मूले महति महत्तत्वे आत्मनि व्याप्तमहत्तत्वाभिमानिनीति यावत् । सूत्रे वायौ स्थिते मयि मन आधारयन् सूत्रप्रसादलभ्यप्राकाश्यं मे सकाशाद्विन्दत इति वक्तव्ये परमेष्टिप्रसादलभ्यमित्युक्तम्
॥ १४ ॥
विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे ।
स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनम् ॥ १५ ॥
तात्पर्यम्
सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्र तत्रोक्ताधीश्वरत्वादिगुणविशिष्टत्वेन तत्र तत्रोपासनमिति विशेषः । ‘तं यथा यथोपासते तदेव भवती’ति च श्रुतेः । ‘उपासतः सत्य इति सत्यसङ्कल्पता भवेत् । ईशत्वमीश्वर इति गुणं तं तं यथा हरिमि’ति विशेषे ॥ १५ ॥
पदरत्नावली
ईशित्वप्राप्तिप्रकारमाह– विष्णाविति । परमाण्वादिरूपः कालो विग्रहः प्रतिमा यस्य स कालविग्रहः, तस्मिन्नधीश्वरे अधीश्वरत्वगुणविशिष्टे । अनेन यो यो गुण उपासकस्याभि-लषितस् तं तं गुणं तस्मिन्नुपसंहृत्योपासनं कर्तव्यमित्युक्तं भवति । सर्वत्राधीश्वरत्वादौ विद्य-मानेऽपीत्यादि । विष्णौ व्याप्ते मयि चित्तं धारयन् ईशित्वमवाप्नोति । कीदृशम् । क्षेत्रं शरीरं स्थावरादिपदार्थसमूहो वा, क्षेत्रज्ञा जीवा एषां चोदनं नियमनं यस्मात् तत् क्षेत्रक्षेत्रज्ञचोदनम् । भुविस्थितैः प्राणिभिरुक्तकारकत्वं पूर्वशक्तेः कोटिगुणशक्त्युद्रेकश्चेत्युक्तमनेन ॥ १५ ॥
श्रीनिवासतीर्थीया
ईशित्वसिद्ध्युपाय उच्यते ॥ विष्णाविति ॥ नन्वत्र तत्तद्धारणाविषय-स्यैवाधीश्वरस्योक्त्याऽणिमादिसिद्धिधारणाविषयभूते तदभावं प्राप्नोतीत्यत आह ॥ सर्वत्रेति ॥ सर्वसिद्धिहेतुभूतधारणाविषयभगवद्रूपेष्वित्यर्थः । आदिपदेन निर्गुणत्वादिग्रहणम् । तत्र तत्र तत्तत्सिद्धिहेतुभूतधारणायाम् । तत्र तत्राधिष्ठानेषूपासनं कार्यम् । तत्र श्रुतिमाह ॥ तमिति ॥ यथा यथा यद्यद्गुणविशिष्टत्वेन । तदेव तमेव भवति प्राप्नोति । स्मृतिमपि तत्राह ॥ उपासत इति ॥ अनेन पूर्वार्धेन यथासङ्कल्पसंसिद्धिधारणाकथनपरस्य मयि सत्ये मनो युञ्जन्नित्यस्य (श्लो.२६) तात्पर्यमुक्तं वेदितव्यम् । ईश्वर इत्युपासतः । यथा यद्गुणविशिष्टत्वेन हरिमुपास्ते तं तं गुणं प्राप्नोतीति योज्यम् । तथा च कालविग्रहे परमाण्वादिरूपः कालो विग्रहः प्रतिमा यस्य तस्मिन्नधीश्वरे विष्णौ व्याप्ते मयि चित्तं धारयन् क्षेत्रं शरीरं क्षेत्रज्ञा जीवास्तेषां चोदनं नियमनम् । स्वोक्तकारकत्वरूपं पूर्वशक्तेः कोटिगुणशक्त्युद्रेकरूपं वा यस्माद्भवति तादृशं सर्वेशित्वमवाप्नोतीत्यर्थः ॥ १५ ॥
प्रमेयचन्द्रिका
ईशित्वहेतुधारणपरस्य विष्णाविति श्लोकस्यायमर्थः । अधीश्वरे कालविग्रहे परमाणुद्व्यणुकत्र्यणुकलक्षणघटिकादिनपक्षमाससंवत्सरकल्पद्विपरार्धपरममहत्कालो विग्रहो यस्य तस्मिन्विष्णौ चित्तं धारयन्पुरुषः क्षेत्राणां शरीराणां क्षेत्रज्ञानां जीवानां च चोदना यस्माद्भवति तादृशमीशित्वमवाप्नोतीति ॥
अत्राधीश्वर इति उत्तरत्रापि तत्र भगवच्छब्दिते निर्गुणे ब्रह्मणि शुद्ध इत्यादीनि विशेषणान्युच्यन्ते तानि चाधीश्वरत्वादीनि तत्तदधिष्ठानगतरूपेष्वेव । न रूपान्तरेष्विति भ्रमं वारयन्नेकैकत्रैकविशेषण-त्वोक्तेर्निमित्तं चाह ॥ सर्वत्रेति ॥ सर्वत्र सर्वरूपेष्वधीश्वरत्वादौ गुणसमूहे विद्यमानेऽपि तत्र तत्र तत्सिद्धिहेतुधारणासूक्ताधीश्वरत्वादिगुणैर्विशिष्टत्वेन तत्र तत्र तत्तत्सिद्धिप्रदभगवद्रूपेषूपासनार्थं फलविशेषार्थं कार्यमिति एकैकत्रैकविशेषणोक्तौ निमित्तविशेषोऽस्ति । अत एव तत्र विशेषणा-न्युच्यन्ते । न तु विशेषरूपान्तरेष्विति गुणाभावाभिप्रायेणेति भावः ॥
उपासनानुसारेणैव फलं भवतीत्यत्र प्रमाणमाह ॥ तमिति ॥ तदेव भवति तथैव भवति । तत्रैव स्पष्टं प्रमाणं पठति ॥ उपासत इति ॥ सत्यसङ्कल्पेन । सत्यसङ्कल्प इत्युपासत इति यावत् । ईश्वर इत्युपासत इतीशत्वं भवेत् । एवं यथा हरिमुपास्ते तं गुणमाप्नोतीत्यर्थः ॥१५॥
नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।
मनो मय्यादधद्योगी मद्धर्मो वशितामियात् ॥ १६ ॥
पदरत्नावली
वशितावाप्त्युपायमाह– नारायण इति । नारायणे तुर्याख्ये भगवच्छब्दशब्दित ऐश्वर्यादिषड्गुणानुपसंहृत्य मयि मन आदधद् योगी वशितामियादवाप्नोति । असङ्गत्वादिलक्षणो मम धर्मो यस्य स मद्धर्मः ॥ १६ ॥
श्रीनिवासतीर्थीया
वशिताप्राप्त्युपायमाह ॥ नारायण इति ॥ भगवच्छब्दशब्दित इत्यनेनैश्वर्यादिषड्गुणोपसंहारस्तत्र कार्य इति सूचितम् । मद्धर्मा विषयासंगत्वादिमद्धर्मवान् । वशितामलोलत्वापरपर्यायाम् ॥ १६ ॥
प्रमेयचन्द्रिका
वशित्वे हेतुनिरूपकस्य नारायण इति मूलस्यायमर्थः ॥ तुरीयस्य विश्वादि-चतूरूपस्य व्यूहगततुरीयनामके ऐश्वर्यादिषड्गुणपूर्णत्वाद्भगवच्छब्देन शब्दिते प्रतिपादिते मयि मनो दधद्योगी अलोलुत्वादिमद्धर्मसदृशधर्मः सन् वशिताख्यसिद्धिमियादिति । वशित्वं चाप्यलोलुतेत्युक्तेः । विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थित इति माण्डूकभाष्योक्तेस्तुरीयनामोक्तयैव शिरोमध्यमत्रा-धिष्ठानमित्युक्तं भवति ॥ १६ ॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ १७ ॥
पदरत्नावली
प्राकाम्यसिद्धिकारणमाह– निर्गुण इति । यत्र यस्मिन्नानन्दे प्राप्ते कामो ऽन्येच्छा अवसीयते समाप्तो भवति । कामः काम्यः कमनीयो विषयो नास्तीति वा । ‘‘यथेष्टानन्द-सम्प्राप्तिः प्राकाम्यमिति कीर्त्यते’’ इति च । प्रगतमा समन्तात् काम्यं यस्मात् तत् तथा । अत्र निर्गुणत्वब्रह्मत्वगुणावुपसंहार्यौ ॥ १७ ॥
श्रीनिवासतीर्थीया
प्राकाम्यसिद्ध्युपायमाह ॥ निर्गुण इति ॥ विशदं निर्मलम् । यत्र यस्मिन्नानन्दे प्राप्ते सति कामोऽन्येच्छाऽवसीयते समाप्ता भवति । परमानन्दं तद्रूपप्राकाम्यम् । यथोक्तम् । यथेष्ठानन्दसंप्राप्तिः प्राकाम्यमिति ॥ १७ ॥
प्रमेयचन्द्रिका
प्राकाम्यधारणोच्यते ॥ निर्गुण इति ॥ सत्वादिगुणवर्जिते ब्रह्मणि पूर्णे व्याप्त इति यावत् । एतेन भाष्योक्तं तत्तद्दर्शनयोग्यं व्याप्तिस्थानमधिष्ठानमिति सूचितम् । विशदं निर्मलम् । यत्र यस्मिन् आनन्दे लब्धे सति कामो विषयेच्छा अवसीयते पर्यवसीयते । यथेष्टानन्दसंप्राप्तिर्यादृशानन्दकामः स्यादित्युक्तप्राकाम्यसिद्धिर्भवतीति भावः ॥ १७ ॥
श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयन् श्वेततां याति षडूर्मिरहितोऽमरः ॥ १८ ॥
तात्पर्यम्
‘शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद्भवेदि’ति शब्दनिर्णये ॥ १८ ॥
पदरत्नावली
अनूर्मिमत्वसमाधिमाह– श्वेतद्वीपपताविति । शुद्धे निर्दुःखे धर्ममये धर्मफलदातरि श्वेतद्वीपपतौ मयि मनो धारयन् श्वेततां याति निर्दुःखत्वमवाप्नोति । ‘‘शुद्धः श्वेतः सुखी श्वेतः श्वेतवर्णः क्वचिद् भवेत्’’ इति । कथं निर्दुःखत्वमाप्तं स्यादत्राह षडिति । षडूर्मिराहित्यं विवृतममर इत्यनेन । ‘‘अनूर्मिमत्त्वं दुःखस्याभावमात्रमुदाहृतम्’’ इति ॥ १८ ॥
श्रीनिवासतीर्थीया
एवमष्टमहासिद्ध्युपायमभिधायानूर्मिमत्वाद्यष्टादशसिद्ध्युपायमभिधास्य-न्नादावनूर्मिमत्वसिध्द्युपायमाह ॥ श्वेतद्वीपेति ॥ धर्ममये धर्मफलदातरि । अस्ति जायते ह्रसति वर्धते क्षीयतेऽपक्षीयत इति षडूर्मयः । एतद्राहित्यमेवामर इत्यनेन विवृतम् । अत्र श्वेततामिति श्वेतवर्णतामित्यन्यथाप्रतीतिं पराकरोति ॥ शुद्ध इति ॥ श्वेतशब्दवाच्यः । तथा च श्वेततां सुखितां याति । दुःखमात्रशून्यत्वादित्यर्थ उक्तो भवति ॥ १८ ॥
प्रमेयचन्द्रिका
एवमष्टमहासिद्धिहेतुधारणा उक्त्वा अष्टादशसिद्धिधारणा उत्तरग्रन्थेनोच्यते । तत्र अनूर्मिमत्वे हेतुधारणाभिधायके श्वेतद्वीपेति श्लोके शुद्ध इत्यस्य निर्दुष्ट इत्यर्थः । धर्ममये फलदातरि । श्वेतद्वीपपतावित्यधिष्टानोक्तिः । अत्र श्वेततामित्यस्य प्रकृतोपयुक्तमर्थं प्रमाणेनाह ॥ शुद्ध इति ॥ अनूर्मिमत्वनिरूपणं मूले ॥ षडिति ॥ तस्य लेशतो विवरणममर इति । मरणादिदुःखाभाववानित्यर्थः ॥ १८ ॥
मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।
तत्रोपलब्धाभूतानां हंसो वाचः शृणोत्यसौ ॥ १९ ॥
तात्पर्यम्
आकाशस्यात्मनि । तत्राकाश उपलब्धानाम् आसमन्तात्स्थितानां भूतानां वाचः । हंसो जीवः । ‘त्यागात्पूर्वशरीराणां नवानां सञ्चयेन च । जीवं हंस इति प्राहुस्तद्धेतुत्वाद्धरिं परमि’ति भारते ॥ १९ ॥
पदरत्नावली
दूरश्रवणसिद्ध्युपायमाह– मयीति । आकाशात्मनि आकाशव्यापिनि प्राणे स्थिते मयि मनसा घोषं शब्दमुद्वहन् आकाशस्थप्राणस्थो हरिः शब्दप्रवर्तकस्तस्याधारश्चेति ध्यायन् हंसः शरीराभिमानविधुरजीवोऽसौ तत्राकाशे उपलब्धानामा समन्तात् स्थितानां भूतानां वाचः शृणोतीत्यन्वयः । ‘‘त्यागात् पूर्वशरीराणां नवानां सञ्चयेन च । जीवं हंस इति प्राहुस्तद्धेतुत्वात् हरिं परम्’’ इत्यतो वा हंसो जीवः ॥ १९ ॥
श्रीनिवासतीर्थीया
दूरश्रवणसिद्ध्युपाय उच्यते ॥ मयीति ॥ अन्यथाप्रतीतिवारणाया-काशात्मनीत्येतद्व्याचष्टे ॥ आकाशस्येति ॥ तत्र तत्रेत्यादिकमन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ तत्रेति ॥ उपलब्धाभूतानामित्युक्त्या स्वेन पूर्वं ये दृष्टचरास्त एव चेत्सहस्रयोजनान्ते स्थिताः सन्तो वाचमुदीरयन्ति तर्हि तेषामेव वाचंशृृणोति नानुपलब्धानामित्याशयः । प्रसिद्धपक्षिपरत्वनिरासाय हंसपदमनूद्य व्याख्याय प्रमाणं चाह ॥ हंसो जीव इति ॥ ओहाक् त्याग इत्यस्य हमिति भवति । अप्यक्षरसाम्येन निर्ब्रूयादिति वचनात्स इत्यस्य सञ्चयार्थकत्वमभिप्रेत्य सञ्चयेनेत्युक्तम् । यद्वा । ओहाक् त्याग इत्यस्माद् अप्रत्यये सति हः, सृगतावित्यस्माद् अप्रत्यये सति स इति पृषोदरादित्वा-न्नुमागमे हंस इति । ननु तर्हि तस्याहं हंसरूपेण सकाशमगममिति भगवतोऽपि हंसत्वोक्तेस्तत्र चैतन्निर्वचनस्य बाधितत्वात्कथमिति चेत्तत्राह ॥ तद्धेतुत्वादिति ॥ परं जीवविलक्षणं हरिम् ॥ तद्धेतुत्वात् ॥ जीवस्य पूर्वशरीरत्यागे नवशरीरसञ्चये च स्वातन्त्र्येण तस्यैव हेतुत्वाद्धंसं प्राहुरित्यर्थः । यथोक्तम् । स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यादिति । तथा चाकाशात्मनि प्राणे आकाशव्यापिनि श्रीमुख्यप्राणे स्थिते मयि मनसा घोषं शब्दमुद्वहन् आकाशान्तर्गतमुख्यप्राणस्थो हरिः शब्दप्रवर्तक इत्येवं ध्यायन् हंसो जीवस्तत्राकाशे आकाशसम्बन्धितया स्थितानां भूतानां वाचःशृृणोति । कीदृशानां स्वरूपकीर्तनभूतानामित्यत उपलब्धेत्युक्तम् । स्वेन पूर्वमुपस्वरूपकीर्तनं लब्धानाम् आ संमतात् सहस्रयोजनपर्यन्तं स्थितानां भूतानामित्यर्थः ॥ १९ ॥
दुर्घटभावदीपिका
आकाशात्मन्याकाशनियामके प्राणे मुख्यप्राणे स्थिते मयि मनसा घोषं शब्दमुद्वहंश्चिन्तयन् आकाशनियामकमुख्यप्राणस्थितः परमेश्वरः शब्दनियामक इति ध्यानं कुर्वन्निति यावत् । असौ हंसो जीवस्तत्राकाशे । संमर्दरहितः स्थूल इति यावत् । उपलब्धाभूतानाम् उपलब्धानां पूर्वं स्वेन दृष्टानामा समन्तात्स्थितानां भूतानां वाचः शृृणोतीति । एतेनाकाशे उपलब्धानामित्ये-तद्व्यर्थमिति दूषणं परास्तम् । सम्यक् परिचितानामेव भूतानां वाचः शृृणोति न त्वपरिचितानामिति वक्तुमाकाशे उपलब्धानामित्युक्तमित्यभ्युपगमात् ॥ १९ ॥
प्रमेयचन्द्रिका
दूरश्रवणधारणोच्यते ॥ मयीति ॥ अत्राकाशात्मनि आकाशस्वरूप इति भानादाह ॥ आकाशस्येति ॥ उत्तरार्धे तत्रेत्यस्य मयीत्युक्तपरमात्मनीत्यर्थो भाति । आकाशस्य समासे उपसर्जनत्वेन तत्परामर्शायोगादित्यतो अनूद्यार्थमाह ॥ तत्राकाश इति ॥ उपसर्जनस्यापि योग्यतयाऽत्र परामर्श इति भावः । तत्राकाशे उपलब्धा वाचः शृृणोतीत्ययुक्तम् । श्रवणात्पूर्वं शब्दोपलम्भायोगादित्यतः, उपलब्धाभूतानामित्येकं पदम्, तत्रोपलब्धत्वं भूतानां विशेषणमिति भावेन तर्हि दीर्घवैय्यर्थ्यमित्याशङ्कां परिहरति ॥ उपलब्धानामिति ॥ प्रमितानामित्यर्थः । तत्राविद्यमान-पुरुषाणां शब्दं भ्रान्त्या श्रुणोतीति निवारणायैतदुक्तिरिति ध्येयम् । अत्र आ इत्यनुवादः समंतादिति व्याख्यानम् । उपसर्गस्य ससाधनक्रियावाचित्वात् स्थितानामित्युक्तम् । पक्षिविशेषार्थकत्वभ्रम-वारणाय ॥ हंसो जीव इति ॥ जीवे हंसशब्दं प्रमाणेन निर्वक्ति ॥ त्यागादिति ॥ हं सरतीति हंसः । हा त्यागे सृ गतावित्यतो अप्रत्यये पृषोदरान्नुमागमे च सति हंस इति सिद्ध्यतीति भावः । पूर्वशरीराणां नवानामिति च योग्यतया सम्बध्यते इति च ज्ञेयम् । तर्हि कथं भगवति शब्दप्रवृत्तिरित्यत उक्तम् ॥ तद्धेतुत्वादिति ॥ जीवकर्तृकदेहत्यागसञ्चयौ प्रति हेतुत्वादित्यर्थः । जीवदेहं हापयति सारयतीति हरिं परं हंसमाहुरिति योजना ।
तदयं मूलार्थः ॥ आकाशस्यान्तर्यामिणि स्थिते मयि मनसा घोषं शब्दमुद्वहन् । वर्णव्यञ्जको ध्वन्यात्मकः शब्द आकाशव्यापिनि प्राणे स्थिते मयि वर्तत इति ध्यायन्नसौ हंसो जीवस् तत्राकाशे उपलब्धानां प्रतीतानामासमंतात्सहस्रयोजनान्तस्थितानां भूतानां प्राणिनां वाचः श्रुणोतीति ॥ १९ ॥
चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक् ॥ २० ॥
पदरत्नावली
दूरदर्शनोपायमाह– चक्षुरिति । त्वष्टा सूर्यश्चक्षुर्नियामक आश्रयश्च । तत्र चक्षुषि सूर्ये च स्थितं माम् । ‘‘सहस्रयोजनान्तं तु दूरदर्शनमिष्यते । दूरश्रवणमप्येवं तस्मिन्नेव युगे स्थिते’’ इति विशेषः ॥ २० ॥
श्रीनिवासतीर्थीया
दूरदर्शनोपायमाह ॥ चक्षुरिति ॥ चक्षुरिन्द्रियं त्वष्टरि सूर्ये संयोज्य तत्प्रेरिततया तदधीनमिति ध्यात्वा त्वष्टारं सूर्यं चक्षुषि संयोज्य प्रेरकतयाऽस्तीति ध्यात्वा तत्र चक्षुषि च मुख्यतः प्रेरकतया विद्यमानं मां ध्यायन् पुमान् सूक्ष्मदृक् सूक्ष्मदर्शनसामर्थ्योपेतो भूत्वा विश्वं सहस्रयोजनान्तरितं पश्यतीत्यर्थः ॥ २० ॥
दुर्घटभावदीपिका
चक्षुस्त्वष्टरि सूर्ये मनः संयोज्य । चक्षुः सूर्यनियम्यमिति चिन्तयित्वेति यावत् । त्वष्टारं सूर्यमपि चक्षुषि मनसा संयोज्य । सूर्यश्चक्षुर्नियामक इति च चिन्तयित्वेति यावत् । तत्र चक्षुषि सूर्ये च मां ध्यायन् जीवः सूक्ष्मदृक् सन् दूरस्थितं विश्वं पश्यतीति ॥ २० ॥
प्रमेयचन्द्रिका
दूरदर्शना सिद्धिरुच्यते ॥ चक्षुरिति ॥ चक्षुरभिमानिनं चक्षुर्नामकं सूर्यं त्वष्टर्यधिदैवे सूर्ये चक्षुषि संयोज्य अध्यात्माधिदैवसूर्यरूपयोरभेदं चिन्तयित्वेति यावत् । तत्रोभयत्र मां मनसैकरूपं ध्यायन् सूक्ष्मदृक् दूरस्थं विश्वं पश्यतीत्यर्थः ॥ २० ॥
मनो मनसि संयोज्य देहं तदनु वायुना ।
मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ २१ ॥
तात्पर्यम्
**मनसि मनस्तत्त्वे । वायुना संयोज्य । मनोऽनुदेहं मनस्तत्त्वे मद्धारणा **
॥ २१ ॥
पदरत्नावली
मनोजवप्रापकधारणप्रकारमाह– मन इति । यदा योगिनो मनोवेगेन गन्तुमिच्छा तदा मनो मनसि मनस्तत्वे वायुना संयोज्य तदनु मनोऽनुदेहमपि वायुना संयोज्य मद्धारणानुभावेन मनस्तत्वान्तर्यामिणो मम ध्यानसामर्थ्येन यत्र मनस्तत्रात्मा शरीरमनुगच्छतीत्यन्वयः । ‘‘स्वमनः-समवेगिता मनोजव इति प्रोक्तः’’ इति च ॥ २१ ॥
श्रीनिवासतीर्थीया
मनोजवसिद्ध्युपायमाह ॥ मन इति ॥ अत्र मनसि मनसः संयोजनमात्माश्रयापत्तेरतः सप्तम्यन्तमनःशब्दार्थमाह ॥ मनसीति ॥ वायुनेत्यस्यान्वयं दर्शयति ॥ वायुनेति ॥ तदन्वित्यस्यार्थमाह ॥ मनोऽन्विति ॥ मद्धारणानुभावेनेत्यत्राधिष्ठानानुक्तेस्तद्दर्शयति ॥ मनस्तत्त्वे मद्धारणेति ॥ तथा चायमर्थः ॥ यदा योगिनो मनोवेगेन गन्तुमिच्छा भवति तदा मनो मनसि मनस्तत्त्वे तदन्तर्गतहरौ वायुना संयोज्य । मनसा तं ध्यात्वेति यावत् । तदनु मनोऽनु । स्वकीयं देहमपि संयोज्य स्थितस्य पुंसो मनो यत्र देशादौ गच्छति तत्र तस्यात्मा देहोऽपि मनस्तत्त्वे स्थितस्य मम धारणासामर्थ्येन गच्छतीति मनोजवरूपा सिद्धिरुक्ता भवतीति ॥ २१ ॥
प्रमेयचन्द्रिका
मनोजवधारणापरे मन इति श्लोके मनसस्तस्मिन्नेव संयोजनं भाति । देहं तदन्वित्यसङ्गतम् । वायुनेत्यनन्वितमित्यतो व्याचष्टे ॥ मनसीति ॥ प्रथमं मनो जैवं सप्तम्यन्तपदोक्तं तु अहङ्काररूपबहिरावरणान्तर्भूतमनस्तत्वमित्यनेनोक्तं भवति । वायुनेत्येतत्संयोज्येत्य-नेनान्वितम् । तदन्वित्यत्र तच्छब्देन मनः परामृश्यते । मनसा मनस्तत्वे संयोजनान्वेव देहमपि देहनियामकेन वायुना मनस्तत्वे मद्धारणे क्रियमाणे मनो यत्र गच्छति । तत्र तत्र मनोजवेन देहोऽपि गच्छतीति ॥ मनसो मनस्तत्वकार्यत्वं तद्विलयाधिष्ठानत्वं तद्देवतानियम्यत्वं स्वदेहस्यापि मनोभिमानिप्रेर्यत्वं तदाश्रितत्वं सर्वस्यापि मुख्यवायुवशत्वं तदाश्रितत्वमित्याद्यनुसन्धाय सर्वनियामकस्य हरेर्मनस्तत्वे साधारे सति मनोजवसिद्धिर्भवतीति भावः ॥ २१ ॥
यदा मन उपादाय यद्यद् रूपं बुभूषति ।
तत्तद् भजेन्मनोरूपं मद्योगबलमाश्रितः ॥ २२ ॥
परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ २३ ॥
पार्ष्ण्याऽऽपीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु ।
आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥ २४ ॥
तात्पर्यम्
‘गजादिरूपमाकाङ्क्षन्गजादिस्थितमीश्वरम् । ध्यायन् गजादिरूपः स्यात्परकायस्थितं हरिम् । ध्यायन्विशेत्परे काये वायावन्तर्गतः पुमान् । प्राणनामा हरिः प्रोक्तस्तस्मिन्वायुः समाश्रितः। वायावन्तर्गतो जीवो देहाद्देहं प्रयास्यति ॥ ‘षडाधारस्थितं विष्णुं ध्यायन्नायुःक्षयं विना । यदि मृत्युमभीप्सेत तथा प्राप्नोत्यसंशयम् ॥ त्रिकालप्रेरकं विष्णुं ध्यातुः कालत्रयज्ञता । अग्न्यादिषु हरिं ध्यायं स्तत्प्रतिस्तंभको भवेद् इति हरिवंश संहितायाम् ॥ आत्मानं परमात्मानं तत्र परकाये भावयेत् । तदा वायौ स्थितः प्राणः परमात्मा तत्र गच्छति । तमनु जीवोऽपि गच्छति । वायौ भूतो वायुभूतः ॥
प्राणं परे ब्रह्मणि नीत्वा । ‘प्राणस्थं प्राणनामानं बहिष्ठे ब्रह्मनामके । विष्णुं विष्णावनुस्मृत्य विसृजेद्देहमञ्जसे’ति प्रभञ्जने ॥ ‘अनेयस्य हरेर्नीतिस्तद्गतस्य हरेः स्मृतिः । न हि नेयः क्वचित्क्वापि केनचित्स्ववशत्वत’ इति च ॥ मम भावना मद्भावः । ‘भावो मनश्च भक्तिश्च क्वचिदभ्यास इष्यते’ इति शब्दनिर्णये ॥ २२–२७ ॥
पदरत्नावली
कामरूपावाप्त्युपायमाह– यदेति । यदा मन उपादाय स्थिरीकृत्य यद्यद्रूपं गजादिरूपं बुभूषति भवितुमिच्छति गजादिरूपः स्यामिति तदा गजाद्याकारस्य गजाद्यन्तर्यामिणो मम योगबलं ध्यानबलम् आश्रितो योगी तत्तन्मनोगतगजादिरूपं भजेदित्यन्वयः । ‘‘गजादिरूप-माकाङ्क्षन् गजादिस्थितमीश्वरम् । ध्यायन् गजादिरूपः स्यात् पश्वाद्याकारता तथा । कामरूपत्व-मुद्दिष्टम्’’ इति च ॥ परकायप्रवेशोपायमाह– परकायमिति । अस्यायमर्थः । परकायं विशन् सिद्ध आत्मानं स्वान्तःस्थं हरिं तत्र परकाये भावयेत् । एवंभावितः प्रकृष्टानन्दरूपत्वात् प्रणयन-कर्तृत्वाच्च प्राणः परमात्मा वायुभूतो वायौ भूतो वाय्वन्तर्गतः पिण्डं हित्वा इतरदृष्ट्या स्वदृष्ट्या न त्यक्त्वा योगिनं समादाय परकाये प्रविशेदित्यन्वयः । ‘‘स्वदेहत्यागतः परे । परकायप्रवेशः स्यात्’’ इति । ‘‘परकायस्थितं हरिम् । ध्यायन् विशेत् परे काये वाय्वन्तरगतः पुमान् । प्राणनामा हरिः प्रोक्तस्तस्मिन् वायुः समाश्रितः । वायावन्तर्गतो जीवो देहाद् देहं प्रयास्यति’’ इति च ॥ स्वच्छन्दमृत्युताप्रकारमाह– पार्ष्ण्येति । प्राणं हृदुरःकण्ठमूर्धस्वारोप्य षडाधारस्थितं विष्णुं ध्यायन् ब्रह्मरन्ध्रेण तनुमुत्सृजेत् । प्राणं ब्रह्मणि नीत्वा प्राणनामानं बहिःस्थे ब्रह्मनामि्न स्मृत्वेत्यर्थः । ‘‘युगादर्वाक्तना स्मृता । स्वच्छन्दमृत्युता’’ इति । ‘‘षडाधारस्थितं विष्णुं ध्यायन्नायुःक्षयं विना । यदि मृत्युमभीप्सेत तथा प्राप्नोत्यसंशयम्’’, ‘‘प्राणस्थं प्राणनामानं बहिःस्थे ब्रह्मनामके । विष्णुं विष्णावनुस्मृत्य विसृजेद् देहमञ्जसा’’ इति । ‘‘अनेयस्य हरेर्नीतिस्तद्गतस्य हरेः स्मृतिः । न हि नेयः क्वचित् क्वापि केनचित् स्ववशत्वतः’’ इति च ॥ २२–२४ ॥
श्रीनिवासतीर्थीया
कामरूपप्राप्त्युपायः कथ्यते ॥ यदेति ॥ तत्र ध्येयोक्त्यप्रतीतेः प्रमाणेन तं दर्शयति ॥ गजादीति ॥ गजादिस्थितमित्युक्त्या मद्योगेत्यस्य तात्पर्यमुक्तम् ॥ आत्मानं तत्र भावयेदित्यस्य स्वात्मानं जीवमिति प्रतीतिपरिहाराय तात्पर्यमुक्तम् ॥ परेति ॥ वायुभूत इत्यस्यार्थः ॥ वायाविति ॥ प्राणशब्दार्थमाह ॥ प्राणेति ॥ प्रकृष्टचेष्टकत्वादिनेति भावः ॥ हृदुरः कण्ठमूर्ध-स्विति स्थानचतुष्टयमेवोक्तम् । तदुपलक्षणमित्याशयेनाह ॥ षडिति ॥ नाभिहृदुरःकण्ठ-भ्रूमध्यशिरोभेदेन षट् सङ्ख्याका ये आधाराः स्थानानि तत्र तत्र स्थितमित्यर्थः । आयुःक्षयं विना स्वस्य क्लृप्तायुःपरिसमाप्त्यभावेऽपि प्राप्नोति मृत्युम् ॥
त्रिकालज्ञताप्राप्त्युपायकथनपरे मद्भक्तेति श्लोके (२८) ध्येयोक्त्यप्रतीतेस्तं दर्शयति ॥ त्रिकालेति ॥ धारणाविद इत्यस्येदं तात्पर्यम् अग्न्यादिभिरित्यत्रापि (२९) ध्येयोक्त्यदर्शनात्तामाह ॥ अग्न्यादिष्विति ॥ ध्यायन् दाहकत्वादग्निस्तंभकत्वेनाह्लादकत्वेन चेत्यर्थः । तत्प्रतिस्तम्भकोऽग्न्यादि प्रतिस्तम्भकः । एवं प्रमाणेन व्याख्याय स्ववाक्येनापि व्याचष्टे ॥ आत्मानमित्यादिना ॥ वायुभूत इत्यस्यार्थः ॥ वायौ स्थित इति ॥ कथमयमर्थो लभ्यत इत्यतस्तद्दर्शयति ॥ वायाविति ॥ ब्रह्म नीत्वेत्यस्यार्थः ॥ प्राणं पर इति ॥ तत्र प्रमाणमाह ॥ प्राणस्थमिति ॥ प्राणनामानं विष्णुमिति सम्बन्धः। ब्रह्मनामके विष्णावित्यन्वयः । ननु नीत्वेति कथं विष्णोरनेयत्वेन नयनायोगादित्यत आह ॥ अनेयस्येति ॥ तद्गतस्य प्राणान्तर्गतस्य हरेः स्मृतिः । बहिष्ठहर्यभेदेन स्मरणमेव नीतिरित्यर्थः । कुत एवमित्यत आह ॥ न हीति ॥ कुत इत्यतः स्वतन्त्रत्वादित्याह ॥ स्ववशत्वत इति ॥ यो वै मद्भावमापन्न इत्यत्र मद्भावं मदभेदमित्यन्यथाप्रतीतेर्व्याचष्टे ॥ ममेति ॥ स्नेहेनेशितृत्वादि माहात्म्योपसंहाररूपा भक्त्यपरपर्याया सेवा भावनोपासनाग्रहणे वक्ष्यमाणप्रमाणासङ्गतिरतः प्रमाणं चाह ॥ भाव इति ॥
तथा चेयं यदेत्यादि मूलश्लोकानामक्षरयोजना ॥ यदा मन उपादायान्तः स्थिरीकृत्य यद्यद्गजादिरूपं बुभूषति भवितुमिच्छति । अहं गजादिरूपी स्यामिति । तदा तत्तन्मनोरूपं स्वमनः स्थितं गजादिस्थितं गजाद्याकारभगवद्रूपं भजेत्प्राप्नोतीत्यर्थः ॥
परकायप्रवेशसिद्ध्युपायमाह ॥ परेति ॥ परकायं प्रविशन् प्रवेष्टुकामः सिद्धो योगी आत्मानं स्वान्तर्यामिणं परमात्मानं तत्र परकाये भावयेच्चिन्तयेत् । एवं भावितो वायौ भूतस्तदन्तर्गतः प्राणो हरिः पिण्डं देहं हित्वा परकायं प्रविशेत् । तत्र दृष्टान्तः । यथा षडङ्घ्रिर्भ्रमर एकस्मिन्पुष्पपिण्डे स्थितोऽपरपुष्पस्थितरसपानेच्छायां तद्धित्वाऽन्यं पुष्पं विशेत्तद्वदित्यर्थः । भगवान् स्वान्तर्गत-वाय्वान्तर्गतजीवं गृहीत्वा देहान्तरं गच्छतीति हरेरेव स्वातन्त्र्यादित्थमुक्तम् । वस्तुतः स्वभावितपरमात्मप्रसादात्स्वदेहं हित्वा परकायं विशेद्योगीति ज्ञेयम् ॥
स्वच्छन्दमृत्युतासिद्ध्युपाय उच्यते ॥ पार्ष्ण्येति ॥ यदा योगी आयुःक्षयं विना मृत्युमभीप्सते तदा गुदं पार्ष्ण्या पार्ष्णिनाऽऽपीडयन्नधोद्वारं निरुद्ध्य प्राणं वायुं हृदुरःकण्ठमूर्धसु । नाभिभ्रूमध्ययोरप्युपलक्षणम् । एं षट्स्वाधारेष्वारोप्य प्राणं प्राणस्थं प्राणनामानं देहान्तर्गतं हरिं ब्रह्म नीत्वा ब्रह्मणि देहाद्बहिष्टौ हरौ नीत्वा तदभेदेन स्मृत्वा ब्रह्मरन्ध्रेण तनुमुत्सृजेदित्यर्थः
॥ २२–२४ ॥
प्रमेयचन्द्रिका
कामरूपः सिद्धिरुच्युते ॥ यदेति ॥ यदा यद्गजादिरूपं बुभूषति । प्राप्तावित्युक्तेः प्राप्तुमिच्छति । तदा मनोरूपं मनोगतं गजादिलक्षणं रूपं प्रतिमा यस्य गजाद्यन्तर्गतं हरिं प्रति मन उपादाय आनीय निवेश्येति यावत् । मद्योगबलं मद्ध्यानबलमाश्रितस् तत्तद्गजादिरूपं भजेत प्राप्नुयादित्यर्थः । अत्र यद्यद्देवर्ष्यादिरूपमिति प्रतीतिवारणाय प्रमाणेन व्याचष्टे ॥ गजादीति ॥
परकायमिति श्लोके आत्मानं स्वात्मानमिति भाति । तदयुक्तम् । स्वभावनायाः फलासाधनत्वा-दित्यतः प्रमाणशेषेण व्याचष्टे ॥ परकायेति ॥ वायुभूत इति वाय्वात्मक इत्यन्यथाभानादाह ॥ वायाविति ॥ वायावन्तर्गतः पुमान् परकायस्थितं हरिं ध्यायन् परे लक्षणया परकीये काये विशेदित्यन्वयः ॥ प्राणो विशेदिति प्राणस्य परकायप्रवेश उच्यते । न तु योगिनः । अतोऽ-सङ्गतमिदम् । किञ्च प्राणस्यैव वायुत्वे वायौ भूत इति वाय्वन्तर्गतत्वं चायुक्तमित्यतः पूर्वोक्तं विवृण्वन्व्याचष्टे ॥ प्राणनामेति ॥ तस्मिन्प्राणनामके हरौ । पिण्डं हित्वेत्यस्यार्थो ॥ देहादिति ॥ ल्यब्लोपपञ्चमी, देहं हित्वेत्यर्थः । तदयं मूलार्थः ॥ परकायं विशन्प्रवेष्टुमिच्छुर्योगसिद्धस्तत्र परकाये आत्मानं स्वान्तस्थं हरिं भावयेत् । एवंभाविनः प्रकृष्टानन्दरूपत्वात्प्रणयनकर्तृत्वाच्च प्राणः परमात्मा वायुभूतः वायाववस्थितः । पिण्डं योगिनो देहं हित्वा परकायं विशेत् । तदा जीवोऽपि वायुभूतः वायुनामकहर्यन्तर्गतवायौ भूतः वाय्वन्तर्गतः सन् षडङ्घ्रिवद् यथा भ्रमरः पुष्पात्पुष्पान्तरम् अनायासेन प्रविशति तथा पिण्डं स्वदेहं हित्वा तत्र परकाये विशेदिति । अत्र जीवस्य परकायप्रवेशसमये वाय्वादिस्थितं तमेव वायुं रूपान्तरेण स्वान्तर्न्निवेश्य तस्याप्यन्तर्जीवं स्थापयित्वा परकायं प्रविशेदिति भावः । एतच्चोत्तरत्र स्पष्टयिष्यति ॥
पार्ष्ण्याऽपीड्येति श्लोके स्वापार्ष्णिनाऽऽपीड्यगुदं ततो निलमिति द्वितीयस्कन्धोक्तरीत्या चरमदेहोत्क्रमणप्रकारोऽभिधीयत इति भातीत्यतः स्वच्छन्दमृत्युतासिद्धिहेतुधारणैवात्रोच्यत इति प्रमाणशेषेणाह ॥ षडाधारेति ॥ मूलाधारनाभिहृदुरःकण्ठमूर्धाख्यषट्स्थानस्थितं विष्णुं ध्यायन्नित्यर्थः । आयुःक्षयं विना यदि मृत्युमभीप्सेतेति सिद्धीच्छापरं ग्राह्यमिति सूचितं भवति । उत्सृजेत्तनुमित्यस्याभिप्रायस् तथा प्राप्नोतीति । यथेप्सितं तथा प्राप्नोतीत्यर्थः । मूलार्थस्तु देहस्थ-जडवायोरूर्ध्वगमनसिद्धये स्वपार्ष्ण्यागुदमापीड्य प्राणं मुख्यं तदन्तर्गतं हरिं च मूलाधारं समारभ्य नाभिहृदुरःकण्ठमूर्धस्वारोप्य तत्रास्तीति षडाधारस्थिततया ध्यायन्निति यावत् । तथा प्राणं जीवसहितं तदुरआदिषूर्ध्वं नीत्वा देहगतं प्राणाख्यं हरिं च ब्रह्मणि नीत्वा बहिर्गतब्रह्माख्येन रूपेणैकीभूतं स्मृत्वेति यावत् । ब्रह्मरन्ध्रेण तनुमुत्सृजेदिति ॥ २२–२४ ॥
विहरिष्यन् सुराक्रीडे मत्स्थं सत्वं विभावयेत् ।
विमानेनोपतिष्ठन्ति सत्ववृत्तिं सुरस्त्रियः ॥ २५ ॥
पदरत्नावली
देवसहितक्रीडानुदर्शनसिद्धिधारणामाह– विहरिष्यन्निति । सुराणामाक्रीडे विहरिष्यन् विहर्तुकामो योगी सत्वगुणं मत्स्थं विभावयेत् । सुरस्त्रियो विमानेन सत्ववृत्तिमुपतिष्ठन्ति समीपमाप्नुवन्तीत्यन्वयः । ‘‘देवैः क्रीडा चेन्द्रादिभिर्विना’’ इति ॥ २५ ॥
श्रीनिवासतीर्थीया
देवैः सह क्रीडासिद्ध्युपायमाह ॥ विहरिष्यन्निति ॥ सुराणामाक्रीडे क्रीडास्थाने विहरिष्यन् विहारं कर्तुमिच्छन् योगी सत्त्वं सत्त्वगुणं मत्स्थं मदाधारत्वेन स्थितं विभावयेत् । सत्त्वगुणाधारं मां चिन्तयेदिति यावत् । अनन्तरं सुरस्त्रियो विमानेन सत्त्ववृत्तिं सत्त्वगुणाधारे हरौ चित्तवृत्तियुक्तं योगिनमुपतिष्ठन्ति समीपं प्राप्नुवन्ति । ताभिः क्रीडन्त इति भावः ॥ २५ ॥
प्रमेयचन्द्रिका
मूले देवैः सहक्रीडानुदर्शनाख्यसिद्धिहेतुधारणोच्यते ॥ विहरिष्यन्निति ॥ सुराणामाक्रीडे क्रीडास्थाने विहर्तुमिच्छुः सत्वगुणं मयि संध्यायेत् । सत्वगुणाश्रयस्तन्नियामक इति ध्यायेत् । एवं ध्याने सति सत्वे गुणे वृत्तिर्वर्तनम् । यस्य तं योगिनं देवाः सहक्रीडितुमुपगच्छन्ति । देवैः क्रीडा चेन्द्रादिभिरित्युक्तेः । तथा सुरस्त्रियोऽप्सरसः स्वस्वाधिकारानुसारेण उपतिष्टन्तीत्यर्थः
॥ २५ ॥
यथा सङ्कल्पयेद् बुद्ध्या यथा वा मत्परः पुमान् ।
मयि सत्ये मनो युञ्जन् तथा तत् समुपाश्नुते१ ॥ २६ ॥
पदरत्नावली
यथासङ्कल्पसिद्धिध्यानमाह– यथेति । सत्ये सत्यसङ्कल्पे मयि मनो युञ्जानो यथायथा मत्परः पुमान् बुद्ध्या सङ्कल्पयेद् यं यं गुणमुपसंहृत्य मामुपास्ते तथा तथा तत् काम्यमाप्नोतीत्यन्वयः । ‘‘यथासङ्कल्पसिद्धिश्चाप्यन्नपानसुतादिषु’’ इति ॥ २६ ॥
श्रीनिवासतीर्थीया
यथासङ्कल्पसिद्ध्युपायमाह ॥ यथेति ॥ योगी बुद्ध्या मनसा यथा यथा सङ्कल्पयेत्सङ्कल्प्य च सत्ये सत्यसङ्कल्पे मयि मनो युञ्जानो योगी यथा वा मत्परो यं यं गुणमुपसंहृत्योपासनातात्पर्यवांस्तथा तथा तत्सङ्कल्पितं समुपाश्नुते प्राप्नोतीत्यर्थः ॥ २६ ॥
प्रमेयचन्द्रिका
तथा सङ्कल्पसंसिद्धिहेतुधारणोच्यते ॥ यथेति ॥ सत्ये सत्यसङ्कल्पे मयि मनो युञ्जन् सत्यसङ्कल्पं मां ध्यायन् योगी यथा वा मत्परो ऽथ यथा मम ध्यानवान् भवति । तदनुसारेण यथा स्वेष्टं सङ्कल्पयेत्तथा तत्समवाप्नुत इत्यर्थः ॥ २६ ॥
यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् ।
न कुतश्चन हन्येत तस्य चाज्ञा यथा मम ॥ २७ ॥
पदरत्नावली
आज्ञाऽप्रतिहतिसिद्धिधारणाप्रकारं दर्शयति– य इति । यः पुमान् ईशितुर्वशितुर्मदिति पञ्चमी षष्ठ्यर्थे । मम भावं भावनाम् ईशितृत्ववशितृत्वगुणोपसंहारलक्षणां भक्तिं सेवामापन्नस् तस्य पुंस आज्ञा कुतश्चन हेतोर्न विहन्येत । चशब्द एवार्थे । यथा ममाज्ञा । वै प्रसिद्धम् । ‘‘आज्ञाऽप्रतिहतिर्बाह्मादर्वागस्त्रविघातनम् । विना महातपस्वीश्च शापप्रतिहतिः स्मृता’’ इत्येतच्चशब्दतो वा गृहीतम् । ‘‘भावो मनश्च भक्तिश्च क्वचिदभ्यास इष्यते’’ इति च ॥ २७ ॥
श्रीनिवासतीर्थीया
अप्रतिहतगत्याज्ञासिद्ध्युपायमाह ॥ य इति ॥ यो योगी मद्भावं मयीशितृत्वादिगुणोपसंहाररूपभक्तिमापन्नस्तस्येशितुः प्रेरयितुर्वशितुः स्वतन्त्रस्य मम सकाशात् । भक्तिविषयमदनुग्रहेणेति यावत् । न च विहन्येत नैव विहन्येतेत्यर्थः ॥ २७ ॥
प्रमेयचन्द्रिका
आज्ञाप्रतिहतिहेतुधारणोच्यते ॥ यत इति ॥ सर्वेशितुः सर्ववशीकर्तुर्मम भावमध्यात्म्यम् ईशितृत्वादिध्यानं कुर्वन् यस्तस्येति योज्यम् ॥ २७ ॥
मद्भक्त्या शुद्धसत्वस्य योगिनो धारणाविदः ।
तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता ॥ २८ ॥
पदरत्नावली
त्रिकालज्ञत्वसिद्धिसाधनमाह मद्भक्त्येति । धारणाविदस् त्रिकालान्तर्यामि-हरिस्मरणप्रकारज्ञस्य जन्ममृत्यूपबृंहिता सृष्टिसंहारविषयिणी बुद्धिर्ज्ञानं, स्यादिति शेषः । ‘‘वेदादिकं विना प्रोक्ता त्रिकालज्ञानिता बुधैः’’ इति, ‘‘त्रिकालप्रेरकं विष्णुं ध्यातुः कालत्रयज्ञता’’ इति च
॥ २८ ॥
श्रीनिवासतीर्थीया
त्रिकालज्ञत्वसिद्ध्युपायमाह ॥ मद्भक्तयेति ॥ मद्भक्त्या शुद्धान्तःकरणस्य धारणाविदस्त्रिकालान्तर्यामितया त्रिकालप्रेरकस्यहरेर्धारणाप्रकारविदस्तस्य योगिनः । त्रिकालप्रेरकहरिस्मरणप्रभावादिति यावत् । जन्ममृत्युपबृंहिता सृष्टिसंहारविषयिणी बुद्धिः स्यात् । एते पदार्थाः पूर्वसृष्टाः संहृताश्च । इदानीमप्येते पदार्थाः सृज्यन्ते संह्रीयन्ते च । उत्तरत्रापि सृष्टाः संहृताश्च भविष्यन्तीति त्रिकालजन्मादिविषयज्ञानं भवतीति भावः ॥ २८ ॥
दुर्घटभावदीपिका
मद्भक्त्या शुद्धान्तःकरणस्य योगिनो भगवत्ज्ञानयोगिनो धारणविदो भगवत्ध्यानप्रकारविदो यस्य त्रैकालिकी बुद्धिरस्ति । त्रिकालप्रेरकभगवद्ध्यानमस्तीति यावत् । तस्य जन्ममृत्यूपबृंहिता जन्ममृतिविषयिणी यावती बुद्धिर्भवतीति । एतेन त्रैकालिकी बुद्धिरित्यस्य किं त्रिकालप्रेरकभगवत्ध्यानमित्यर्थः । किंवा त्रिकालस्थप्राणिविषयिणीत्यर्थः । नाद्यः । त्रिकालस्य प्राणिविषयिणी बुद्धिरित्यर्थस्यानुक्तिप्रसङ्गात् । न द्वितीयः । त्रिकालप्रेरकभगवद्ध्यानमित्यर्थस्यानुक्ति-प्रसङ्गादिति दूषणं परास्तम् । त्रैकालिकी बुद्धिरित्यस्यावृत्तिमङ्गीकृत्यार्थद्वयं विवक्षितमित्यभ्युपगमात्
॥ २८ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां पञ्चदशोऽध्यायः ॥ ११–१५ ॥
प्रमेयचन्द्रिका
त्रिकालज्ञत्वधारणोच्यते ॥ मद्भक्त्येति ॥ अत्र धारणाविद इत्येवोच्यते । न तु ध्येयगुणविशेषमत आह ॥ त्रिकालेति ॥ मद्भक्त्या निमित्तेन शुद्धं सत्वमन्तःकरणं यस्य तस्य धारणाविदस्त्रिकालप्रेरकविष्णुध्यानविदः ज्ञात्वा ध्यातुरिति यावत् । योगिनः जन्ममृत्यूपबृंहिता सृष्टिसंहारविषयिणी बुद्धिर्ज्ञानं स्यादिति मूलार्थः ॥ २८ ॥
अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः ।
मद्योगश्रान्तचित्तस्य यादसामुदकैर्यथा ॥ २९ ॥
पदरत्नावली
अग्न्यादिस्तम्भोपास्तिप्रकारमाह– अग्न्यादिभिरिति । योगमयं ध्यानमयम् । एतदेव विशिनष्टि मद्योगश्रान्तचित्तस्येति । अग्न्यादीनामौष्ण्यादिशक्तिस्तम्भकाह्लादकत्वादि- कत्वादिगुणार्णवस्य मम ध्यानं मद्योगस् तेन श्रान्तं तदेकनिष्ठं चित्तं यस्य स तथा तस्य । ‘‘अग्न्यादि-शक्तिसंस्तम्भ अग्निसंस्तम्भ इष्यते’’ इति । यादसां वपुः । ‘‘अग्न्यादिषु हरिं ध्यायन् तत्प्रतिस्तम्भको भवेत्’’ इति च ॥ २९ ॥
श्रीनिवासतीर्थीया
अग्न््याद्यप्रतिहतिसिद्ध्युपायमाह ॥ अग्न्यादिभिरिति ॥ मद्योगश्रान्त-चित्तस्याग्न्यादिस्थितस्य । मम योगो दाहकत्वादिशक्तिस्तम्भकत्वेनाह्लादकत्वेन च ध्यानं तेन श्रान्तं मदेकनिष्ठं चित्तं यस्य स तथा । तस्य मुनेर्वपुर्योगमयं ध्यानमयम् । पूतं भवतीति यावत् । तच्च योगमयं वपुरग्न्यादिभिर्न हन्येतेत्यर्थः । प्रतिहत्यभावमात्रे दृष्टान्तमाह ॥ यादसामिति ॥ जलचराणां मत्स्यादीनां वपुर्यथोदकैर्न हन्यते तत्प्रतिहतं न भवत्येवमित्यर्थः ॥ २९ ॥
प्रमेयचन्द्रिका
अग्न्यादिभिरित्यत्रापि ध्येयानुक्तेराह ॥ अग्न्यादिप्रतिस्तम्भधारणापरे-ष्विति ॥ आदिपदेनाम्बुविषादिग्रहणम् । मूले योगमयं ध्यानप्रधानम् । तस्यैव विवरणम् ॥ मद्योगेति ॥ मम ध्यानेन विश्रान्तचित्तस्य तदेकनिष्टमनस्कस्येत्यर्थः ॥ एवं परकायमित्यादिश्लोकान् दुर्गमार्थान् सङ्क्षेपतः प्रमाणेन व्याख्याय तत्र दुर्गमार्थानि कानिचित्पदान्यनूद्य स्ववचनेन व्याचष्टे ॥ आत्मानमित्या दिना ॥ आत्मानं तत्र भावयेदित्येतत्परकायस्थितं हरिमिति सामान्यतो व्याख्यातम् । इदानीं स्पष्टमनूद्यार्थमाह ॥ आत्मानमिति ॥ आत्मशब्दस्य हरावेव मुख्यत्वात्तत्पर-कायस्य प्रकृतत्वाच्चेति भावः । वायावन्तर्गतः पुमान् वाय्वन्तर्गतो जीव इति च वायुभूत इति पदं व्याख्यातुं तत्तद्भगवत्परतया पूर्वोत्तरार्धयोरन्वयसिद्धये तदेत्यध्याहारं दर्शयन् व्याचष्टे ॥ तदा वायाविति ॥ मूले विशेदित्यस्याधिकरणानुक्तेः पूर्वार्धगतस्य तत्रेत्यस्यानुवृत्याऽत्र सम्बन्ध इत्याशयेनाह ॥ तत्रेति ॥ परकाये विशेदित्यस्यार्थो गच्छतीति । ननु तर्हि यदा जीवः परमात्मानं तत्र वायौ भावयेत्तदा वायौ भूतः प्राणो हरिस् तत्र परकाये विशेदित्यर्थो लब्धः । तर्ह्यसङ्गतिर् योगिनः परकायप्रवेशे वक्तव्ये हरेस्तत्प्रवेशकथनायोगादित्यतोऽध्याहारेण व्याचष्टे ॥ तमन्विति ॥ तमन्वित्यस्याध्याहारः । विशेदित्यस्यावृत्तिः । तदर्थो गच्छतीति । गच्छन्तं भगवन्तमनुसृत्येर्थः । जीववाचकपदं नेत्यतो वायुभूतपदेन वाऽनुवृत्तेर् जीवो विवक्षित इत्याशयेनाह ॥ वायौ भूत इति ॥ वायावास्थित इति प्रमाणपदोक्तभगवद्विषये विग्रहस्य लब्धत्वाज्जीवपरत्वव्याख्यानमेव युक्तम् । वायावन्तर्गतो जीव इति प्रामाणप्राप्तत्वाद्वेति । तथा च प्राणः परमात्मा वायावास्थितः सन् तत्र परकाये विशेत् । तं परमात्मानमनु तदन्तर्गतवायौ भूतोऽन्तर्गतो जीवोऽपि तत्र विशेदिति योजना सूचिता भवति ॥
ब्रह्म नीत्वेत्यत्र ब्रह्मेति द्वितीयान्तं पदम् । ततश्चोपासको ब्रह्मान्यत्र नीत्वेति, ब्रह्म विरिञ्च इति भाति तदनुपपन्नमित्यतो ब्रह्मेति प्रथमा सप्तम्यर्थे । सप्तसु प्रथमेत्युक्तेः । ब्रह्मशब्दः परब्रह्मपरः । तत्रैव मुख्यत्वात् । ततश्च प्राणं हृदादिष्वारोप्य ब्रह्मणि नीत्वेत्येकवाक्यतयाऽन्वय इत्याशयेनाह ॥ प्राणमिति ॥ ननु परमात्मेत्युक्तं तर्हि तस्यैव तत्र नयनं कथमित्यतो रूपभेदेनेति दर्शयन् उक्तार्थे समाख्यामाह ॥ प्राणस्थमिति ॥ नीत्वेत्यस्यार्थोऽनुस्मृत्येति । प्रतीतार्थ एव किं न स्यादित्यतस्तत्रानुपपत्तिं प्रमाणेन दर्शयति ॥ अनेयस्येति ॥ नेतुमशक्यस्य तद्गतस्य मुख्यप्राणान्त-र्गतस्य हरेर्बहिष्टे ब्रह्मनामके एकत्वेन स्मृतिर्नेति शब्दार्थ इत्यर्थः ॥
अनेयत्वमुपपादयति ॥ न हीति ॥ क्वचिद्देशे क्वापि काले । स्ववशत्वतः स्वतन्त्रत्वात् । यो वै मद्भावमिति श्लोकं मदात्मकत्वमिति भ्रान्तिनिरासायाह ॥ ममेति ॥ भावना ध्यानाभ्यासः । मद्भावमिति व्याख्येयानुवादः । भावशब्दस्याभ्यासार्थत्वेऽभिधानं पठति ॥ भाव इति ॥ अभ्यासे भावशब्दप्रयोगो न सार्वत्रिक इत्याशयेन क्वचिदित्युक्तम् ॥ २३–२९ ॥
मद्विभूतीरभिध्यायन् श्रीवत्सास्त्रविभूषिताः ।
ध्वजातपत्रव्यजनैः स भवेदपराजितः ॥ ३० ॥
पदरत्नावली
अपराजयसिद्ध्युपायमाह– मद्विभूतीरिति । मद्विभूतीर् मम विविधभूतीः । अपराजितः, मनुष्यैरिति शेषः ॥ ३० ॥
श्रीनिवासतीर्थीया
अपराजयसिद्ध्युपायमाह ॥ मदिति ॥ श्रिया श्रीवत्सेन च चक्रायुध-रूपास्त्रैर्विभूषिताः । ध्वजातपत्रव्यजनैर्बुध्द्या विवेकेन विभूषिता इति वर्तते । एतादृशीर्मम विभूतीः रामकृष्णादिविभूतिरूपाण्यभिध्यायन्यः सोऽपराजितो भवेन्मनुष्यैरित्यर्थः ॥ ३० ॥
प्रमेयचन्द्रिका
मूले अपराजयसिध्युपायोऽभिधीयते ॥ मद्विभूतीरिति ॥ विभूतीर्मूर्तीः
॥ ३० ॥
उपासकस्य मामेवं योगधारणया पुनः ।
सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ॥ ३१ ॥
जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः ।
मद्धारणां धारयतः का नु सिद्धिः सुदुर्लभा ॥ ३२ ॥
अन्तरायान् वदन्त्येतान् युञ्जतो योगमुत्तमम् ।
मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ ३३ ॥
तात्पर्यम्
उपासनयाऽऽपरोक्ष्यं कृतवतः, पुनरुपासनं कार्यकाले कुर्वतः कार्य-सिद्धिरित्यतो योगधारणया पुनरित्युक्तम् ॥ ‘उपास्य वायुं प्रथमं वायौ सुष्ट्वपरोक्षिते । अनुज्ञातस्ततस्तद्गं तत्र तत्र हरिं स्मरेत् । कृत्वाऽपरोक्षं तं चापि कालेकाले स्मरेत्पुनः । अभीष्टकार्यसिद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥ अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा । न किञ्चित्कामयेत्पश्चात्स क्षिप्रं मुक्तिमेष्यति ॥ ‘यदि योगैः फलं भुङ्क्ते पुनः काम-मपास्य तु । तेनैव क्रमयोगेन वायुं दृष्ट्वा हरिं तथा । एष्टव्या मुक्तिपदवी नान्यथा तु कथञ्चन । पूर्वदृष्टिर्हि कामार्थे पश्चान्मोक्षार्थमिष्यते । येषां तु जन्मतः सिद्धिस्तेषां दोषो (न तु क्वचित्) न विद्यत’ इति निवृत्ते ॥ ३३ ॥
पदरत्नावली
उक्तानामनुक्तानां च सिद्धीनामवरोधोऽपरोक्षीकृतत्वस्य तत्सिद्धीराकाङ्क्षमाणस्य ममोपासकस्योक्तविधया तत्तत्सिद्धिप्राप्तियोग्यगुणोपास्तिं कुर्वत एवेत्याह– उपासकस्येति । उपासनयाऽपरोक्षीकृततत्वस्य पुनरुपासनं कार्यकाले कुर्वतः कार्यसिद्धिः स्यादित्यतो योगधारणया पुनरित्युक्तम् । योगधारणया सिद्ध्युपायध्यायेन ॥ निरन्तरध्यानरतस्य पुंसः सिद्धिर्निरूपणमात्रेण भवति न चिरध्यानापेक्षाऽस्तीत्याशयेनाह– जितेन्द्रियस्येति । दान्तस्य उपरतस्य । जितश्वासस्य प्राप्तवायुप्रसादस्य । जितात्मनः प्राप्तमनोजयस्य । ‘‘उपास्य वायुं प्रथमं वायौ सुष्ट्वपरोक्षिते । अनुज्ञातस्ततस्तद्गं तत्र तत्र हरिं स्मरेत् । कृत्वाऽपरोक्षं तं चापि काले काले स्मरेत् पुनः । अभीष्टकार्यसिद्धिः स्यात् तस्य नास्त्यत्र संशयः । अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा । न किञ्चित् कामयेत् पश्चात् स क्षिप्रं मुक्तिमेष्यति’’ इति ॥ भगवद्ध्यानेनाणिमादिसिद्धीनां सौलभ्येपि तदर्थोपास्तिर्न प्रशस्तेत्याह– अन्तरयानिति । एतान् सिद्धिविशेषान् । उत्तमं योगं मुक्तियोग्यध्यानं युञ्जतः कुर्वतः । सम्पद्यमानस्य मत्प्रसादमाप्तुकामस्य । कुतोऽन्तराया इति तत्राह कालेति । ‘‘यदि योगफलं भुङ्क्ते पुनः काममपास्य तु । तेनैव क्रमयोगेन वायुं दृष्ट्वा हरिं तथा । एष्टव्या मुक्तिपदवी नान्यथा तु कथञ्चन । पूर्वदृष्टिर्हि कामार्थे पश्चान्मोक्षार्थमिष्यते । येषां तु जन्मतः सिद्धिस्तेषां दोषो न तु क्वचित्’’ इति ॥ ३१–३३ ॥
श्रीनिवासतीर्थीया
एताश्च सिद्ध्यस्तत्तत्सिद्धिकामनयाऽऽदौ वायुमुपास्य तदापरोक्ष्यं संपाद्य तेनानुज्ञां प्राप्य पुनस्तत्सिद्धिकामनयैव भगवन्तमुपास्य तदापरोक्ष्यं संपादितवतस्तस्य योगिनस्तत्सिद्धि-प्राप्त्यपेक्षाकाले पुनस्तत्सिद्धिप्राप्तियोग्यगुणोपसंहारपूर्वकं तात्कालिकीं किञ्चिदुपास्तिं कुर्वत एव भवन्ति । नान्यथा । मोक्षेतरकामनयाऽपि वायुप्रसादं सम्पाद्य भगवदुपास्तिं सम्यक् कुर्वतोऽपि तदापरोक्ष्यं भवत्येवेति ‘‘न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्ति’’रिति सूत्रे, सामान्यादर्शनाल्लोकान्मुक्ति-र्योग्यात्मदर्शनादिति भाष्ये च स्पष्टमुक्तत्वात् । सामान्यदर्शनात्कामनयाऽऽपरोक्ष्यात् । एतादृशस्य योगिन एता योगसिद्धयो मोक्षमार्गविलम्बकारित्वेनान्तरायभूताः । एवं काम्यापरोक्षवतोऽपि योगिनः पुनः कामं त्यक्त्वा निष्कामनया वायुमुपास्य तदापरोक्ष्यं सम्पाद्य तदनुज्ञया निष्कामनया हरिमुपास्य तदापरोक्ष्ये सति मुक्तिर्भवति नान्यथा । अत आदावेव कामनां त्यक्त्वा भगवदुपासनेन तदापरोक्ष्ये सम्पादिते सति पश्चात्सिद्ध्याद्यकामनायां क्षिप्रं मुक्तिर्भवति । अन्यथा तस्यापि मुक्तिविलम्ब-रूपोऽन्तराय एव । अधिकारिणां तु केषाञ्चिदपरोक्षज्ञानिनां यस्मिन् जन्मन्यपरोक्षज्ञानमुत्पन्नं तज्जन्मारभ्यैव सिद्धतया तेषां कदाचिदेतत्सिद्धिकामनायां ज्ञानमहिम्नैव सिद्धयो भवन्ति । कर्दमादेर्दर्शनात् । तादृशानां कामनया मोक्षे विलम्बरूपदोषाभावात्तेषां नियतकालवत्त्वादित्यतो निष्कामनयैव भगवद्ध्यानं कार्यम् उपासकेनेत्यध्यायशेषेणोच्यते । तत्र योगधारणया पुनरित्यस्याभि-प्रायमाह ॥ उपासनयेति ॥ कामनापूर्वं कृतोपासनया । कार्यकाले तत्तत्सिद्धिप्राप्त्यपेक्षाकाले । कार्यसिद्धिर् अष्टाणिमादिकार्यसिद्धिः । इत्यत इत्याशयेन पुनःशब्दाभिप्रायं प्रमाणेनाह ॥ उपास्येति ॥ कामनयेति शेषः । तत्र तत्राधिष्ठाने । तद्गं वाय्वन्तर्गतं हरिम् । तदपरोक्षज्ञानं सम्पाद्येति यावत् । काम्यरूपापरोक्षज्ञानानन्तरं कालेकाले कार्यकाले । तस्य स्मरतः ॥ जितेन्द्रिय-स्येति श्लोकाभिप्रायमाह ॥ अकाम इति ॥ पश्चाद्धरिदर्शनानन्तरं किञ्चित्सिद्ध्यादिकं कामये-त्तर्हीत्यर्थः ॥
अन्तरायान्वदन्तीत्यत्र कथमेतेषामन्तरायहेतुत्वमित्यतो मोक्षविलम्बहेतुत्वादित्याशयेनाह ॥ यदीत्यादिना ॥ अपास्य विहाय । काम्यरूपापेक्षानन्तरमिति शेषः । तर्हीति शेषः । पुनस्तद्भोगा-नन्तरम् । तेनैव क्रमयोगेनेति । प्राणमुपास्यापरोक्षीकृत्य तदनुज्ञातो हरिमुपास्य हरिं दृष्ट्वेत्येवं क्रमेणेत्यर्थः । ननु पुनः काममपास्येत्यादि कस्मादुच्यते । पूर्वजातकाम्यापरोक्षज्ञानेनैव मुक्तिः किं न स्यादित्यत आह ॥ पूर्वमिति ॥ कामार्थे । काम्यत इति कामः । कामनाविषयप्राप्त्यर्थम् । येषामपरोक्षज्ञानिनामधिकारिणां जन्मतः सिद्धिः । यज्जन्मन्यपरोक्षज्ञानोत्पत्तिस्तज्जन्मारभ्यैवाणिमादि-सिद्धिरस्ति । तेषां तत्कामनायां ज्ञानमहिम्नैव लभ्यमानत्वेन दोषो मोक्षविलम्बरूपो नैव तेषां क्लृप्तकालत्वादित्याशयः ॥
ततश्चायं श्लोकत्रयार्थः ॥ उपासकस्य काम्योपासनयाऽपरोक्षीकृतभगवद्रूपस्य योगिनः । योग-धारणयाऽणिमादिसिद्धिप्राप्त्युपायभूतधारणया । कार्यकालेषु पुनः किञ्चिदुपासनं कुर्वतः पूर्वकथिताः सिद्धयोऽशेषत उपतिष्ठन्ति । काममपहाय निरन्तरं मद्ध्यानरतस्यापरोक्षज्ञानिनः सिद्धिमात्रेणैव भवतीत्याह ॥ जितेन्द्रियस्येति ॥ मनोव्यतिरिक्तेन्द्रियजयवतः । दान्तस्येत्यस्य विवरणमेतत् । जितौ श्वासात्मानौ येन स तथा । श्वासशब्दोक्तो वायुजयो नाम तदुपासनया तत्प्रसादप्राप्तिः । आत्मशब्दोक्तमनसो जयो मुख्य एव । मद्धारणां धारयतः सदा मम ध्यानरतस्यानन्तरमपरोक्षज्ञानिनः सुदुर्लभा सिद्धिः का नु । स्मरणमात्रेण सर्वाऽपि सिद्धिर्भवति । ज्ञानसामर्थ्यादित्याशयः । कर्दमादिरेवोदाहरणम् । एवमकामनया भगवद्ध्यानेनैवाणिमादिसिद्धिसौलभ्ये सति कामनया तदर्थोपास्तिर्न प्रशस्तेत्याह ॥ अन्तरायानिति ॥ उत्तमं योगमकामनया मोक्षसाधनीभूतं ध्यानं युञ्जतः कुर्वतो मया संपाद्यमानस्य मत्प्रसादमाप्तुकामस्य योगिन एतान् सिद्धिविशेषान् अन्तराया-न्वदन्ति । कुतोऽन्तराया इत्यतो मोक्षविलम्बहेतुत्वादित्याह ॥ कालक्षपणहेतव इति ॥ कालक्रमेण हेतव इत्यर्थः ॥ ३१–३३ ॥
प्रमेयचन्द्रिका
एवं तत्तत्सिद्धिप्रापकधारणा अभिधाय तत्र विशेष उच्यते ॥ उपास-कस्येति ॥ अत्रोपासकस्येति प्रथमं धारणावत्वमुक्त्वा योगधारणया पुनरित्युक्त्या विना भगवदपरोक्षं धारणासिद्धिमात्रेण सिद्धिर्भवतीति भातीत्यतो व्याचष्टे ॥ उपासनयेति ॥ उपासकस्येत्यत्र उपासनमपरोक्षपर्यवसायीत्याशयेनोक्तम् ॥ आपरोक्ष्यं कृतवत इति ॥ नोपासनामात्रेण सिद्धिः किं तु तद्रूपापरोक्षे सत्येवेति भावः । तर्हि योगधारणया पुनरिति व्यर्थमित्यत आह ॥ पुनरिति ॥ प्रथममुपासनया तद्रूपापरोक्षस्य लब्धत्वेऽपि सिद्धिसंपादनकाले प्रसक्ते पुनरुपासनं कुर्वतः कार्य-सिद्धिर्भवति यत अत एव तद्ज्ञापनार्थं योगधारणया पुनरित्युक्तमिति न तद्वैय्यर्थ्यमिति भावः । पुनरुपासनमित्यतःपरं कार्यमिति क्वचित्पाठः । तदभिन्नवाक्यतया योज्यम् ।
अत्र प्रथमोपासनायामितिकर्तव्यविशेषं वदन्नुक्तार्थे प्रमाणमाह ॥ उपास्येति ॥ ततः वायुतः, तद्गं वाय्वन्तर्यामिणं हरिं तत्र परमाण्वाद्यधिष्ठानेषु स्मरेत् । तं परमाण्वधिष्ठानगतं मुख्यवाय्वन्तर्गतं च हरिमपरोक्षं कृत्वा काले तत्तत्सिद्धिप्राप्तिकाले प्रत्यासन्ने पुनस्तत्तदधिष्ठानगतवाय्वंतर्यामिणं ध्यायेत् । एवं सत्यभीष्टाणिमादिसिद्धिः स्यादित्यर्थः । एतेन सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषत इत्युक्तार्थं भवति ॥
उक्तधारणासु जितेन्द्रियत्वादीतिकर्तव्यं वदन्नुपसंहारव्याजेन निष्कामस्य मोक्षो भवतीति सूच्यते ॥ जितेन्द्रियस्येति ॥ दान्तस्य क्रोधादिरहितस्य, जितश्वासात्मनः जितौ श्वासात्मानौ येन स तथोक्तः । जितेन्द्रियस्य बहिरिन्द्रियजय उच्यते । अथवा श्वासः प्राण आत्मा हरिर् जयो विष्णोश्च वायोश्च भक्त्या तत्प्रीतिसाधनमिति हि श्रुतिगीतातात्पर्ये । का नु सिद्धिः सुदुर्लभा किं वा फलं सुदुर्लभम् । मोक्षाख्यफलमप्यकामस्यैवंविधधारणाभिर्भवतीति भावः ॥
निष्कामनयैवावश्यं ध्यानादिकं कार्यमन्यथा मोक्षविलम्बो भवतीत्युच्यते ॥ अन्तरायानिति ॥ उत्तमं तत्तदधिष्टानेषु वाय्वन्तर्गतभगवध्द्यानरूपं योगं युञ्जतः । पुरुषस्यैतान् सिद्धिविशेषानन्तराया-न्विघ्नरूपान्वदन्तीत्यर्थः । तद्विवरणम् ॥ मयेति ॥ मया संपाद्यमानस्य ध्यानापरोक्षफलतया मत्संपत्तिं प्राप्नुवानस्य ते सिद्धिविशेषा विमोक्षविलम्बभूतकालक्षेपणहेतव इति योजना ॥
अत्रान्तरायानित्यस्य प्रकृतोपयोगाप्रतीतेः पूर्वश्लोकसूचितार्थविवरणपूर्वकमुपयोगं सूचयन् प्रमाण-शेषमुदाहरति ॥ अकाम इति ॥ ज्ञात्वेत्यपरोक्षत इति ग्राह्यम् । क्षिप्रं मुक्तिमेष्यतीत्यनेन सिद्धिकामनायां मुक्तिविलम्बो भवतीति सूचितम् । योगफलतया सिद्धिस्वीकारे सर्वथा मोक्षाभावः स्यात्किमित्यत आह ॥ यदीति ॥ फलं सिद्धिफलरूपम् । काममपास्य त्यत्क्वा पूर्वं येन क्रमेण सिद्धिप्राप्तये उपासनं क्रियते तेनैव क्रमेणोपास्य वायुं प्रथममित्युक्तेनैव क्रमयोगेन मुक्तिपदवी एष्टव्या । अन्यथा सिद्धिभोगानन्तरमुक्तयोगेन पुनः प्राणहरिसाक्षात्काराभावे केनापि प्रकारेण मुक्तिपदवी नेत्यर्थः ॥
ननु यस्य ज्ञानं समुत्पन्नं तस्य मोक्षो विनिश्चितमित्युक्तेः पूर्वं ज्ञानस्य सत्वात्कथं तस्मादेव मोक्षाभाव इत्यत आह ॥ पूर्वेति ॥ पूर्वदर्शनस्य मोक्षार्थमसंपादितत्वेन योगसाक्षात्कारत्वाभावादिति हिशब्दः । तर्ह्युक्तसिद्धिमतां देवानामप्यपरोक्षस्य सिद्धिषु पर्यवसानान्मोक्षविलम्बरूपः स्यादित्यत आह ॥ येषामिति ॥ जन्मतो जन्मारभ्यैव । न त्वितरवन्मध्ये सिद्धिलाभ इति भावः । इदमुक्तं भवति ॥ देवा ह्येकान्तभाक्ता मुक्त्यादिकाममप्यपहाय केवलं केशवप्रीतिमेवोद्दिश्यानुष्टितसकलसाधन-समूहा नानाधिष्टानेषु प्राणान्तर्गतहर्यनेकरूपापरोक्षवन्तः । हरिप्रीत्यर्थमेव तदनुज्ञयाऽष्टमहासिद्ध्या-द्यनेकसम्पत्समेतदेवपदापादकसाधनसन्दर्भसंपन्ना अत एव तेषां भगवत्प्रसादातिशयवतां नान्तराकतया सिद्धयः स्वभावसिद्धाः स्युर् अतो ध्यानयोगयोः सिध्यर्थमिति योजना । तेषां सिध्यनुभवेऽपि दोषो न तु क्वचिदिति ॥ ३३ ॥
जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः ।
योगेनाप्नोति ताः सर्वा यैर्यैर्योगगतिं व्रजेत् ॥ ३४ ॥
तात्पर्यम्
यैर्यैः कैश्चित्कैश्चिदेव जन्मादिभिर् योगगतिं व्रजेत् । ‘जन्मादिभिः कैश्चिदेव प्राप्यते योगजं फलम् । योगेन सर्वैः प्राप्येत योगे यत्नं ततः कुर्वि’ति च ॥ ‘कश्चिदर्थे च यच्छब्दः प्रश्नार्थे च क्वचिद्भवेत् । क्वचित्परामर्शवाची क्वचिदाक्षेपवाचक’ इति तन्त्रनिरुक्ते ॥ ३४ ॥
पदरत्नावली
जन्मादिभ्यो योग एव साधनोत्तम इत्याह– जन्मौषधीति । यावतीर्यावन्त्यः । योगेन ध्यानेन । एतादृशो योगो विशिष्टदेवताभिरेव सुलभ्यो न सर्वैरित्याह– यैर्यैरिति । यैर्यैः कैश्चिज् जन्मादिभिर्योगगतिं व्रजेत् ॥ ३४ ॥
श्रीनिवासतीर्थीया
नन्वेतावता प्रबन्धेनाणिमादिसिद्धौ तत्र धारणारूपयोगः साधनतयोक्तः स किमिति वक्तव्यः । अधिकारिकाणां केषाञ्चिज्जन्मनैव सिद्धिदर्शनात् । औषधविशेषेणापि सिद्धि-दर्शनात् । तपसा मन्त्रैश्च सिद्धिदर्शनादिति चेत् । सत्यम् । न हि सर्वेषामपि पुंसां जन्मतः सिद्धिरस्ति किं तु केषाञ्चिदेवाधिकारिणाम् । तेषामपि सर्वैर्जन्मभिर्न सिद्धिरस्ति । किं त्वपरोक्ष-जन्मारभ्यैवेति कैश्चिज्जन्मविशेषैर्योगफलं प्राप्यते । न सर्वौषधीभिः सर्वतपोभिः सर्वैश्च मन्त्रैः सर्वैः पुंभिर्योगफलं प्राप्यते किन्तु कैश्चिदेवौषध्यादिभिः कैश्चिदेव पुरुषैरुक्तधारणारूपयोगेन न तु सर्वैः प्राणिभिः प्राप्यते । यदि सर्वेऽप्युक्तविधधारणां कुर्वन्ति तर्हि तेषां सिद्धिर्भवत्येवेति धारणारूपयोग एव तत्साधनतयोक्त इत्याशयेनाह ॥ जन्मेति श्लोकेन । इह लोके योगेनोक्तधारणारूपोपायेनाप्नोति । सर्वोऽपि जन इति शेषः । योगस्य सर्वसाधारण्यमुपपादयति ॥ यैर्यैरिति ॥ आदिपदेनौषध्यादि-ग्रहणम् । योगगतिं वस्तुतो योगसाध्यत्वेनोच्यमानं फलं व्रजेत् । कश्चिदेव जन इति शेषः । यैर्यैर्योगगतिं व्रजेदित्युक्तम् । ततः किमित्यतः प्रमाणेनैव दर्शयन् यैर्यैरित्येतत्स्ववाक्येन व्याख्याय प्रमाणेनापि व्याचष्टे ॥ जन्मादिभिरिति ॥ वस्तुतो योगजं कैश्चिदेव जन्मादिभिः कैश्चिदेव पुरुषैः सर्वैः प्राणिभिर्धारणारूपयोगेनाणिमादिसिद्धिरूपं फलं प्राप्येतेत्यर्थः । यैर्यैरित्यत्रत्यो यच्छब्दः किंशब्दार्थतया व्याख्यातस्तत्रानुशासनमाह ॥ कश्चिदर्थेऽपीति ॥ प्रकृतमेवोपास्योदाहरणम् । क्वचिद् यतश्चोदेति सूर्यः, श्रोतव्यादिषु यः पर इत्यादौ क्वचिद्यदुक्तं तन्नेत्यादौ क्वचिदाक्षेपवाचक इति ॥३४॥
प्रमेयचन्द्रिका
ननु स्वर्गादिषु जन्मना अनूर्मिमत्वं पिशाचगृध्रमत्स्यादिजन्मसु परकाय-प्रवेशदूरदर्शनजलअग्निस्तम्भादयस्तपोमन्त्रैश्च काश्चित्सिद्धयो दृश्यन्ते । तत्किं योगेनेत्यत उच्यते ॥ जन्मेति ॥ तत्र यैर्यैरिति यच्छब्दस्य तच्छब्दसापेक्षत्वादध्याहारेऽप्यन्वयादर्शनादनुपपन्नमिदं वाक्यमित्यतो योजयति ॥ यैर्यैरिति ॥ यच्छब्दः किंशब्दार्थक इति नानुपपत्तिः । कैश्चिदित्यर्थः । यैरित्यस्य जन्मादिभिरित्यध्याहृतेनान्वय इति भावः ॥
उक्तार्थे मूलाभिप्रायं सूचयन्प्रमाणमाह ॥ जन्मादिभिरिति ॥ यच्छब्दस्य किंशब्दार्थकत्वेऽपि मानमाह ॥ क्वचिदर्थ इति ॥ मूलार्थस्तु इह प्राणिषु जन्मौषध्यादिभिर्यावत्यः सिद्धयो भवन्ति । ताः सर्वाः सिद्धीर्योगेनाप्नोति । कैश्चित्कैश्चिदेव जन्मादिभिर्हि कञ्चिचित्कञ्चिदेव योगगतिं योगजन्यां गतिं सिद्धिं व्रजेदिति ॥ इदमुक्तं भवति ॥ न सर्वैर्जन्मादिभिः सर्वाः सिद्धयः सिद्धिप्रेप्सूनां भवंति । सर्वजन्मना परकायप्रवेशाभावात् । पिशाचादिजन्मनामनूर्मिमत्वाद्यभावात् । औषध्यादिभिरपि परकायप्रवेशाद्यसम्भवात् । किं त्वेकैकेनैकैकमात्रम् । योगेन तद्वतां सर्वेषां सर्वाः सिद्धयो भवन्ति । तस्माद्युक्त एव योगोपदेश इति ॥ ३४ ॥
सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः ।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ ३५ ॥
पदरत्नावली
कुत इति तत्राह– सर्वासामिति । मृदो घटकारणत्वेपि न तत्स्वामित्वं किन्तु कुलालस्यैवेत्यत उक्तं पतिरिति । कुलालादिस्वामित्वं च न यावद्द्रव्यगतमित्यतः प्रभुरिति । समर्थेन मया विशिष्टा एवास्मिन् योगेऽधिकृताः स्युरिति सङ्कल्पितत्वाद् युक्तमित्यर्थः । ‘‘जन्मादिभिः कैश्चिदेव प्राप्यते योगजं फलम् । योगेन सर्वैः प्राप्येत योगे यत्नं ततः कुरु’’, ‘‘कश्चिदर्थेऽपि यच्छब्द प्रश्नार्थे च क्वचिद् भवेत् । क्वचित् परामर्शवाची क्वचिदाक्षेपवाचकः’’ इति वचनाद् यैरिति यच्छब्देन कश्चित् (इति) अर्थ उच्यते ॥ न केवलं सिद्धीनामेव हेतुः किन्तु योगादीनामपीति भावेनाह– अहमिति ॥ ब्रह्मवादिनां वेदवादिनां वेदान्तिनामित्यर्थः ॥ ३५ ॥
श्रीनिवासतीर्थीया
ननु योगेनाप्नोतीति फलसिद्धिप्रदाने योगस्यैव स्वातन्त्र्यं प्रतीयते तन्निवारयति ॥ सर्वासामिति ॥ हेतुर्योगं निमित्तीकृत्य दाता । न केवलं सिद्धीनामेव हेतुः पतिः प्रभुश्च । किं नामेत्यत आह ॥ अहमिति ॥ योगस्याणिमादिसिद्धिसाधनधारणारूपस्य ब्रह्मवादिनां वेदविचारं कुर्वतां च पुंसामहमेव पत्यादिरित्यर्थः ॥ ३५ ॥
प्रमेयचन्द्रिका
मूले सर्वाः सिद्धयो भगवद्धारणायैवेत्येतत्कुतः देवतान्तरध्यानेनापि किं न स्यादित्यत उच्यते ॥ सर्वासामिति ॥ न केवलं कारणत्वमात्रं किं तु पतिः पालकः स्वामी वा । तदुपपादनम् ॥ प्रभुः समर्थ इति ॥ न केवलं सिद्धीनामपि तु योगादीनामपीत्युच्यते ॥ अहं योगस्येति ॥ साङ्ख्यस्य ज्ञानस्य धर्मस्य भक्तिलक्षणस्य निवृत्तकर्मरूपस्य वा । ब्रह्मवादिनां वेदवेद्यहरिवादिनाम् । हेतुः पतिः प्रभुरिति सर्वत्रान्वेति ॥ ३५ ॥
अहमात्माऽन्तरो बाह्योऽनावृतः सर्वदेहिनाम् ।
यथा भूतानि भूतेषु बहिरन्तस्त्वहं तथा ॥ ३६ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे पञ्चदशोऽध्यायः ॥
पदरत्नावली
कीदृशस्त्वमिति तत्राह– अहमिति । अहं सर्वदेहिनामात्मा प्रेष्ठः स्वामी । अन्तर्यामिरूपेणान्तरो ऽन्तः स्थित्वा रतिकृत् । अनेन प्रेष्ठत्वं विवृतम् । ब्रह्मरूपेण बाह्यो बहिष्ष्ठः । बहिष्ष्ठस्यापि ब्रह्माण्डस्येवान्येनावृतत्वमस्तीत्यतो ऽनावृत इति । अज्ञजनं विश्रम्भयितुं दृष्टान्तयति यथेति । पञ्चमहाभूतानि भूतेषु जीवादिवस्तुषु अन्तर्बहिश्च व्याप्नुवन्ति यथा तथेति
॥ ३६ ॥
॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य पञ्चदशोऽध्यायः ॥
श्रीनिवासतीर्थीया
कीदृशस्त्वमित्यत आह ॥ अहमिति ॥ बाह्यो बहिष्ठः । बहिष्ठस्यापि ब्रह्माण्डवदन्येनावृतत्वं नास्तीत्याह ॥ अनावृत इति । अत एव सर्वापेक्षया स्वयमेव बाह्य इत्यर्थः । सर्वदेहिनमात्मा स्वामीत्यन्वयः । आन्तरस्य बाह्यत्वं विरुद्धमित्याशङ्कापरिहाराय दृष्टान्तमाह ॥ यथेति । यथा भूतान्याकाशादिपञ्चमहाभूतानि । भूतेषु प्राणिष्वन्तर्देहान्तर्हृदयादौ देहाद्बहिरपि सन्ति तथा स्वयमहमप्यन्तर्बहिश्चेत्यर्थ इत्यशेषमतिमङ्गलम् ॥ ३६ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे पञ्चदशोऽध्यायः ॥
प्रमेयचन्द्रिका
हेत्वादिसमर्थनाय स्वमाहात्म्यं हरिणोच्यते ॥ अहमात्मेति ॥ आत्मा स्वामी अनादिकर्ता । सर्वदेहिनामन्तरोऽतः स्थित्वा रमणकर्ता । बाह्यो बहिर्गतः । जीववल्लिङ्ग-देहादिभिरनावृतः । यद्वा स्वस्यैव सर्वे बाह्यतया सर्वैरनावृतः । एकस्यैव बाह्यत्वेनान्तः स्थितत्वं विरुद्धमित्यत उक्तम् ॥ यथेति ॥ यथा भूतान्याकाशादीनि भूतेषु सर्वप्राणिषु बहिरन्तश्च सन्ति । तथा अहमपीत्यर्थः । इयांस्तु विशेषः । भूतानि यदंशेनान्तः सन्ति तेनांशेन न बहिः । येन च बहिर्न तेनान्तः । अहं तु न तथा किं तु सामस्तेनान्तर्बहिः । सर्वत्र चाचित्यशक्त्या स्थितः । बुध्यारोहाय दृष्टान्तोपपादनमिति इमं विशेषं सूचयितुं तुशब्दः ॥ ३६ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां पञ्चदशोऽध्यायः ॥