१४ चतुर्दशोऽध्यायः

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः

॥ अथ चतुर्दशोऽध्यायः ॥

उद्धव उवाच—

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।

तेषां विकल्पः प्राधान्यमुताहो एकमुख्यता ॥ १ ॥

भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।

निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २ ॥

पदरत्नावली

भगवत्साक्षात्काराय सर्वस्मादुत्तमं साधनं भक्तिरेव, तद्वता चेत्थं ध्येयो हरिरिति द्वयमस्मिन्नध्याये विधत्ते । तत्रोद्धवप्रश्नपूर्वकं विद्याम्नायं कथयति वदन्तीति । श्रेयांसि प्रशस्तानि साधनानि । तेषां साधनानां यवाग्वा पयसा वेतिवदिदं भवतीदं वेति विकल्पो वा, सम्भूय सर्वेषां प्राधान्यम्, उतैकस्य मुख्यता अन्येषां च तदुपसर्जनत्वं चेति ॥ भवता अनपेक्षितो ऽन्या-पेक्षारहितोऽखिलसाधनोत्तमो भक्तियोग उदाहृतः । तथापि ब्रह्मवादिमतानां का गतिरिति शेषः । येन भक्तियोगेन ॥ १,२ ॥

श्रीनिवासतीर्थीया

साधनोत्तमा हरिभक्तिरेव । तद्वता चेत्थं ध्येयो हरिरिति प्रतिपाद्य-तेऽस्मिन्नध्याये । तत्र भक्तेरुत्तमत्वं निर्धारयितुं पृच्छत्युद्धवः ॥ वदन्तीत्यादिना ॥ श्रेयांसि श्रेयःसाधनानि । ब्रह्मवादिनो वेदवादिनो ऋषयस्तदनुसारेण बहूनि धर्मादीनि वदन्ति । हे स्वामिन् । भगवता चानपेक्षित इतरसाधननिरपेक्षः । ननु वैराग्यादिसापेक्षत्वात्कथमेतत् । सत्यम् । ज्ञानोत्तरं चातिपक्वभक्तेरेव मोक्षे स्वोत्तरभाविकारणानपेक्षत्वरूपचरमसाधनात्तदभिप्रायेणेदम् । ननु तस्यापि स्वोत्तरभाव्यर्थभगवत्प्रसादसापेक्षत्वात्कथमेतत् । सत्यम् । जीवसम्बन्धिसाधनान्तरापेक्षा नास्तीत्यभि-प्रायात् । इच्छारूपमोचकप्रसादस्य चेश्वरसम्बन्धित्वादिति द्रष्टव्यम् । मनोयोगेन भक्तियोगेन सर्वतः सर्वत्र विषयेषु सङ्गं निरस्य त्वय्याविशेत्स भक्तियोगो मोक्षसाधनत्वेनोदाहृतः । अतस्तवाप्तत्वेन त्वदुक्तस्य सत्यत्वात् । तेषां च ऋषीणां ब्रह्मवादित्वेन तदुक्तस्यापि सत्यत्वाद्विप्रतिपत्त्या सन्देहेन पृच्छामीत्याशयेनाह ॥ तेषामिति ॥ भक्तेर्धर्मादीनां च मोक्षसाधनानां विकल्पः । व्रीहिय-ववत्कदाचित्तत्कदाचिदन्यदिति । यद्वा । प्राधान्यं यथा घटे दण्डचक्रादीनां सर्वेषां समुचितानामेव प्राधान्येन साधनत्वमुतैकस्यैव मुख्यतेतरेषां तु तत्सहकारित्वमिति पृच्छामीत्यर्थः ॥ १,२ ॥

प्रमेयचन्द्रिका

अथवा वेनवेदसंप्रदायप्रवृत्तिं दुर्मतोत्थितिं च दुर्मतानां हेयत्वप्रकारं परमश्रेयःसाधनतत्साधनानि च ज्ञातुकामेन शङ्का क्रियते ॥ वदन्तीति ॥ श्रेयांसि मोक्षस्वर्गादीनि । तत्साधनानि बहुविधानि । ब्रह्मवादिनः परब्रह्मवादिनो वा वदन्ति । ब्रह्मवादित्वाभिमानवतामप्यत्र ग्रहणम् । तेषां बहुविधानां पक्षाणां विकल्पो विरुद्धकल्पः । विरोध इति यावत् । इदमपि युक्त-मिदमपीत्यविरोधो वा । इति च ग्राह्यम् । तत्रापि सर्वेषां प्राधान्यमुतैकस्य मुख्यता अन्येषाम-प्राधान्यमिति वेत्यर्थः ॥ भवतेति ॥ यद्यनपेक्षितो ऽन्यापेक्षारहितो भक्तियोग एवेतरसाधना-पेक्षयोत्तमतयेति शेषः । भवतोदाहृतः । तथापि ब्रह्मवादिमतानां का गतिरिति शेषः । येन भक्तियोगेन सर्वतो विषयेत्यतः सङ्गं निरस्य त्वयि मन आवेश्यते । स भक्तियोग इत्यन्वयः । तत्र वेदमूलत्वात्सर्वनिर्णयस्य वेदे च मत्प्रीतिसाधनभक्तियोगस्यैवोत्तमत्वोक्तेः । स एवोत्तमः ॥१,२॥

श्रीभगवानुवाच—

कालेन नष्टा प्रलये वाणीयं वेदसञ्ज्ञिता ।

मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३ ॥

पदरत्नावली

वेदमूलान्येव श्रेयांसि तत्र मत्प्रीतिसाधनं भक्तिलक्षणो धर्मः श्रेयसामुत्तम इति दर्शयितुं श्रद्धाजननाय वेदोक्तपरम्परामाह– कालेनेत्यादिना । कालेन कालशक्त्या । मदात्मको मद्विषयः ॥ ३ ॥

श्रीनिवासतीर्थीया

तत्रैकमुख्यतेत्ययमेव पक्षस्तत्रापि भक्तेरेव मुख्यत्वम् । इतरेषां तत्सहकारित्वमित्यङ्गीक्रियते । तर्हि तेषां ब्रह्मवादित्वात्तदुक्तानां का गतिरिति चेन्न । तेषां वेदतात्पर्यार्थापरिज्ञानित्वेन ब्रह्मवादित्वस्यैवाभावात् । वेदतात्पर्यापरिज्ञानमेव तेषां कुत इति चेन्न । पुंसां हि मतयो गुणभेदतः । पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः । रजसा मिश्रबुद्धित्वं सत्वेनैव यथामतिरतो युक्तं तात्पर्यापरिज्ञानम् । तदज्ञानाच्च स्वाभिप्रेतार्थेषु प्रमाणत्वेन वेदवाचं स्वमत्यनुसारेण योजयन्ति । अतस्तेषां ब्रह्मवादित्वादुक्तार्थो न ग्राह्यः । केषाञ्चिदेव सात्त्विकानां देवानां मदुपदेशपरम्परया वेदार्थः समीचीन एव भासतेऽतस्तदुक्त एव ग्राह्यः । तथा च भक्तेरेव प्राधान्यस्येतरेषां च तत्सहकारिताया एव वेदतात्पर्यतया निश्चितत्वस्य देवादिसम्मतत्वादिति वक्तुं परंपरया वेदागतिप्रकारमाह ॥ कालेनेत्यादिना ॥ प्रलयकालेनेत्यर्थः । नष्टा लोके प्रवृत्तिशून्या । आदावादिसृष्टौ । यस्यां वाण्याम् । मदात्मको मद्विषयः ॥ ३ ॥

प्रमेयचन्द्रिका

धर्मादीनामनुत्तमत्वाभिधायकमतान्तराणां वेदविरुद्धत्वाद्दुर्मतत्वमिति वक्तुं श्रद्धाजननाय वेदागतिपरम्परोच्यते ॥ कालेनेत्यादिना ॥ मदात्मको मद्विषयः ॥ ३ ॥

तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।

ततो भृग्वादयोऽगृह्णन् शब्दब्रह्म महर्षयः ॥ ४ ॥

तेभ्यः पितृभ्यस्तत्पुत्रा देवदानवगुह्यकाः ।

मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५ ॥

तात्पर्यम्

‘रुद्रमिन्द्रं कुमारं च विनैवान्याग्रजो मनुः । ब्रह्मपुत्रेष्वादिसृष्टा-वन्यथात्वं पुनर्जनेरि’ति स्कान्दे ॥ ‘पूर्वसृष्टौ पूर्वजा ये तेऽधिकाः सर्वतो गुणैः । अनाद्यनन्तकालेषु मुक्तावपि यथाक्रममि’ति निबन्धे ॥ ४ ॥

पदरत्नावली

मनवे स्वायम्भुवाय । कीदृशोऽयं तद्धितप्रत्यय इत्येतत् स्पष्टयति पुत्रायेति । स्वयम्भुवः पुत्रत्वात् स्वायम्भुव इत्यर्थः । अत्र मनोः पूर्वजत्वं रुद्रेन्द्रकुमारान् विनेति ग्राह्यम् । ‘‘रुद्रमिन्द्रं कुमारं च विनैवान्याग्रजो मनुः । ब्रह्मपुत्रेष्वादिसृष्टावन्यथात्वं पुनर्जनैः’’ इति वचनात् । ‘‘आदिसृष्टौ पूर्वजा ये तेऽधिका सर्वतो गुणैः । अनाद्यनन्तकालेषु मुक्तावपि यथाक्रमम्’’ इति च ॥ ४ ॥

श्रीनिवासतीर्थीया

मनवे स्वायम्भुवाय । मन्वादिसृष्टौ पुन्नाम्नो ब्रह्मणः सकशाद्रुदादेरेव प्रथमोत्पन्नत्वान्मनोः कथं पूर्वजत्वमुच्यत इत्यतस्तात्पर्यमाह ॥ रुद्रमिति ॥ कुमारं सनत्कुमारं काममित्यर्थः । ब्रह्मपुत्रेषु रुद्रेषु मध्ये रुद्रादीन्विनाऽन्यापेक्षया प्रवहाद्यपेक्षयाऽग्रज इति पूर्वजायेति युक्तमित्यर्थः । ननु कुत एवं व्याख्यायते । एतदनुसारेण मनोरेव पूर्वजत्वं किं न स्यादित्यत आह ॥ आदिसृष्टाविति ॥ यत आदिसृष्टौ जनेरुत्पत्तेरन्यथात्वं भागवतोक्त्यपेक्षयाऽन्यथात्वमस्ति । रुद्रादेरेव पूर्वोत्पत्तिरस्त्यतो मनोः पूर्वजत्वे रुद्राद्यपेक्षयोत्तमत्वं स्यात् । कुतः । आदिसृष्टौ यदपेक्षया पूर्वोत्पन्नः स तदपेक्षया सदा सर्वगुणाधिक इति व्याप्तेरेषा चादिसृष्टिकाले न नष्टा मुक्ता-वपीत्युक्तत्वात् । अतो न मनोः पूर्वजत्वं युक्तमित्याशयः । ननु मनो रुद्राद्यपेक्षया पूर्वजत्वे कथं तदपेक्षया गुणाधिक्यप्राप्तिरित्यतो व्याप्तिग्राहकं प्रमाणमेवाह ॥ पूर्वसृष्टाविति ॥ ४,५ ॥

दुर्घटभावदीपिका

पूर्वजायेत्यस्य रुद्रादिस्वोत्तमव्यतिरिक्तेभ्यः पूर्वजायेत्यर्थः । एतेनादिसृष्टौ पूर्वमुत्पन्नानामाधिक्यनियमात् । रुद्राद्यपेक्षया पूर्वमुत्पन्नत्वेन स्वायम्भुवमनो रुद्राधिक्यं स्यादिति दूषणस्यानवकाशः । रुद्रादेः स्वोत्तमव्यतिरिक्तेभ्य इत्यस्य शेष इत्यभ्युपगमात् ॥ ता.अर्थः ॥ अत्र चशब्दोऽनुक्तस्वोत्तममात्रसमुच्चायकः । मनुः स्वायम्भुवमनुरादिसृष्टौ ब्रह्मपुत्रेषु रुद्रमिन्द्रकुमरं शेषादींश्च विनाऽन्याग्रजः । अतो न स्वायम्भुवमनो रुद्राद्यपेक्षयाऽऽधिक्यप्रसङ्गः । ननु सृष्टावित्यनेन पूर्णत्वादादीत्येतद्व्यर्थमित्यत आह ॥ अन्यथात्वमिति । या पुनर्जनिस्तस्या अन्यथात्व-माधिक्यापादकत्वम् । अदिसृष्टौ पूर्वमुत्पत्तेरेवाधिक्यापादकत्वं न तु पुनः सृष्टौ । पूर्व-मुत्पत्तेराधिक्यापादकत्वमित्येतमर्थं स्पष्टप्रमाणान्तरेण दृढयति ॥ आदिसृष्टावितीति । एतेन स्वायम्भुवमनू रुद्रादीन्विनाऽन्याग्रजस्य फलं नोक्तमिति चोद्यस्यानवकाशः । अतो न स्वायंभुवमनो रुद्राधिक्यप्रसङ्ग इत्यस्य शेष इत्यभ्युपगमात् ॥ तेभ्यः पितृभ्य इति भृग्वादीनां पितृत्वोक्तिः परमादरेण विधोक्तेति ज्ञापनार्था । तेन तत्पुत्रा इति देवादीनां भृग्वादिपुत्रत्वोक्त्या भृग्वादीनां देवादिपितृत्वस्य लब्धत्वात् । तेभ्यः पितृभ्य इति भृग्वादीनां देवादिपितृत्वाभिधानं व्यर्थमिति दूषणस्यानवकाशः । तेभ्यः पितृभ्य इत्यस्य भृग्वादीनां देवादिपितृत्वाभिधान एव तात्पर्यमित्यनङ्गीकारात् ॥ ४,५ ॥

प्रमेयचन्द्रिका

ननु मनवे पूर्वजायेत्ययुक्तम् । अग्रे शिवोऽहं भव इत्यादिविरोधादित्यत आह ॥ रुद्रमिति ॥ ननु सनकादीनां प्रथमजत्वं कुत्रचिदुच्यते । तथाऽथर्वणोऽपि कुत्रचिदतो विरोध इत्यत उक्तम् ॥ आदिसृष्टाविति ॥ पुनर्जनौ पश्चात्यकल्पादिष्वन्यथात्वमस्तीति न विरोध इतीत्यर्थः । तदुक्तम् ॥ सनकाद्यास्तु वाराह इति । मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनीत्यादि च । तर्ह्यनेकेषां पूर्वजत्वाद्ब्रह्मपुत्रेष्वयमुत्तम इति निर्णयायोग इत्यत आह ॥ आदिसृष्टाविति ॥ गुणाधिकत्वं न तस्मिन्नेव जन्मनीति मन्तव्यमित्याह ॥ अनादीति ॥ मूले ततो मनोः ॥ तत्पुत्रा मनुभृग्वादिपुत्राः ॥ ४,५ ॥

किन्देवाः किन्नरा नागा रक्षःकिम्पुरुषादयः ।

बह्व्यस्तेषां प्रकृतयो रजःसत्वतमोभवाः१ ॥ ६ ॥

पदरत्नावली

रजःसत्वतमोभुव इति पाठः ॥ ६ ॥

श्रीनिवासतीर्थीया

किं देवाः केचन ज्ञातव्याः किन्नराः किंपुरुषा इत्यनयोरवान्तरभेदमाश्रित्य पुनरुक्तिः परिहार्या । प्रकृतयः स्वभावाः । स्वभावस्य नित्यत्वेन रजआदिभावत्त्वायोगात् । रजोगुणादिभिर्भवास्तद्व्यंग्या इति व्याख्येयम् ॥ ६ ॥

दुर्घटभावदीपिका

किं देवा इत्यस्य देवगन्धर्वा इत्यर्थः । एतेन किं देवा इत्येतद्व्यर्थमिति दूषणं परास्तम् । मनुष्याः सिद्धगन्धर्वा इत्यत्र गन्धर्वशब्देन मनुष्यगन्धर्वान् गृहीत्वा किं देवा इत्यत्र किंशब्दस्य कुत्सितार्थत्वमङ्गीकृत्य किं देवा इत्यस्य कुत्सितदेवा इत्यर्थः । साक्षाद्देवप्रेष्या इति तात्पर्यार्थः । देवगन्धर्वा इति तु माहतात्पर्यार्थ इति चाभ्युपेत्य देवगन्धर्वा इत्यर्थस्योक्तत्वात्

॥ ६ ॥

प्रमेयचन्द्रिका

किंदेवा ओवा अपि देवकुले जाता आजानदेवा इत्यर्थः । तेषां प्रकृतयः स्वभावा बह्व्यः बहुविधाः ॥ रजःसत्वतमोभवा इति पाठः ॥ ६ ॥

याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा ।

यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७ ॥

पदरत्नावली

याभिः प्रकृतिभिः । भूतानां मतिभेदेऽपि वेदस्यैकत्वेन तदर्थोऽप्येकविषय एवेति तत्राह– यथाप्रकृतीति । वेदवाचश् चित्राः स्रवन्ति धर्माद्यशेषार्थप्रतिपादकाः । वाचः स्वमनीषितार्थे प्रमाणवद् भान्तीत्यर्थः ॥ ७ ॥

श्रीनिवासतीर्थीया

याभिः प्रकृतिभिर्भूतानि प्राणिनः स्वभावानुसारेण भिद्यन्त इत्यर्थः । मतयो बुद्धयः । एवं च प्रकृते किमायातमित्यत आह ॥ यथेति ॥ स्वभावानुसारेण सर्वेषां ब्रह्मवादित्वेन सम्मतानाम् । कर्मणि षष्ठी । तान्प्रति विचित्रा वेदवाचः । तत्तदभीष्ठार्थं स्रवन्ति प्रतिपादयन्ति । तदभिप्रेतार्थे प्रमाणत्वेन प्रतिभान्तीत्यर्थः ॥ ७ ॥

प्रमेयचन्द्रिका

याभिः प्रकृतिभिर्भूतानि देवदानवमानवानां जातिभेदेन भिद्यन्ते । ननु प्रकृतिभेदेऽपि देवस्यैकत्वेन तज्जन्यमिति भेदः कथमित्यत आह ॥ यथाप्रकृतीति ॥ वेदस्यैकविधत्वेऽपि वेदवाचश्चित्राः स्रवन्ति । स्वस्वमनीषितधर्मयशआद्यर्थपरतया प्रतिभान्तीत्यर्थः

॥ ७ ॥

एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।

पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥

तात्पर्यम्

अनेन पारम्पर्येण केषाञ्चिदेव देवादीनाम् ॥ ८ ॥

पदरत्नावली

ततः किं तत्राह– एवमिति । यथा प्रकृतिवैचित्र्याद् वेदवागर्थप्रतीतिवैचित्र्यम् एवं मतयोऽपि विचित्राः । ननु श्रुतिमूलत्वेन गुरुपरम्परागतत्वेन सर्वेषामपि मतानां प्रामाण्यमवगतं स्यादत्राह– पारम्पर्येणेति । अनेन मदुक्तपारम्पर्येणागतानि केषाञ्चिद् देवादीनामेव, तानि प्रामाणान्यन्यानि राजसादीनीत्यर्थः । विरलत्वापेक्षया केषाञ्चिदित्युक्तम् । वामशैवादीनि तामसत्वेन पाखण्डानीत्याह– पाखण्डेति ॥ ८ ॥

श्रीनिवासतीर्थीया

ततोऽपि किमित्यत आह ॥ एवमिति ॥ एवं प्रकृतिवैचित्र्येण वेदवागर्थप्रतिभानवैचित्र्यात्तदनुसारेण जाता मतयोऽपि भिद्यन्ते विचित्रा इत्यर्थः । ननु तर्हि सर्वेषामपि मतानां यथाकथञ्चिच्छ्रुतिमूलत्वेन प्रामाण्यमेव प्राप्तमित्यत आह ॥ पारम्पर्येणेति ॥ इदं व्याचष्टे ॥ अनेनेति ॥ तदुक्तेनेत्यर्थः । पारंपर्येणागतानीति शेषः । देवादीनामेवेत्यन्वयः । मतानि प्रमाणतया गृहीतानीति शेषः । तथा च मदुक्तपारंपर्येणागतानि केषाञ्चित्सात्त्विकानां देवादीनामेव मतानि प्रमाणतया ग्राह्याणि । अपरे पाषण्डमतयोऽपरे च राजसमतयस्तन्मतं न ग्राह्यमित्यर्थः

॥ ८ ॥

दुर्घटभावदीपिका

नृणां सर्वमनुष्याणाम् । देवादीनामिति शेषः । केषाञ्चिद्देवादीनां च प्रकृतिवैचित्र्यात् । मदादिव्याख्यातॄणामिति शेषः । मदादिव्याख्यातॄणामेवं मयाऽऽदौ ब्रह्मणे प्रोक्तेत्यादिपूर्वोक्तप्रकारेण पारंपर्येण व्यवधानेन च मतयो भिद्यन्ते । अपरे प्रकृतिवैचित्र्यात्पाखण्डमतयो भवन्ति । ब्रह्मादिव्यावृत्त्यर्थं केषाञ्चिदित्युक्तमिति । एतेन प्रकृतिवैचित्र्यान्मतयो भिद्यन्त इत्येतद्याभिर्भूतानि भिद्यन्ते भूतानां मतय इत्यनेन पुनरुक्तमिति दूषणं परिहृतम् । याभिर्भूतानीत्यत्र सर्वभूतानां मतिवैचित्र्ये निमित्तमित्युक्तम् । एवं प्रकृतिवैचित्र्यादित्यत्र सर्वमनुष्याणां ब्रह्मादि-व्यतिरिक्तदेवादीनां च मतिभेदे प्रकृतिवैचित्र्यरूपनिमित्तानुवादेन पारंपर्यरूपनिमित्तान्तरमुच्यत इत्यभ्युपगमात् ॥ ८ ॥

प्रमेयचन्द्रिका

उपसंह्रियते ॥ एवमिति ॥ ननु वेदार्थस्य ब्रह्मादिपारंपर्येणागतत्वा-त्तन्मूलकत्वात्सर्वमतानां प्रामाण्यमेव युक्तमित्यत उच्यते ॥ पारम्पर्येणेति ॥ अत्र केषाञ्चिदित्ये-तद्धर्मकामैश्वर्याद्युत्तमवादिनां केषाञ्चिदिति भानात्तदभिप्रेतमाह ॥ अनेनेति ॥ आदिपदेनाशेषमुक्ति-योग्यग्रहणम् । मूले येऽपरे तमोयोग्याः पाषण्डमतयः सत्संप्रदायेनैव वेदव्याख्यानप्रवृत्तावपि

तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।

विद्वेषात्परमे तत्वे तत्ववेदिषु चानिशम् ॥

अनादिवासनायोगादसुराणां कुबुद्धितः ।

दुराग्रहगृहीतत्वात् ….. ….. ॥

संप्रदायमपहाय पाषण्डमतयो भवन्तीति भावः ॥ ८ ॥

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।

श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥

पदरत्नावली

अत्र नानामतत्वे मुख्यकारणं किमिति तत्राह मन्मायेति । अनेकान्तं नानाविधम् । यथारुचि यथेच्छम् ॥ ९ ॥

श्रीनिवासतीर्थीया

नानामतत्वे मुख्यकारणमाह ॥ मन्मायेति ॥ ममेच्छा तयेत्यर्थः । मदधीना माया दुर्गा तयेति भावार्थः । श्रेयो मोक्षसाधनम् । अनेकान्तमनियतम् । यथाकर्म स्वपूर्वा-दृष्टानुसारेण । यथारुचि यथेच्छम् ॥ ९ ॥

दुर्घटभावदीपिका

यथाकर्म पूर्वादृष्टं यथा वर्तते तथा रुचिर्भवति । तथा रुचिर्यथेच्छ-मनेकान्तमनियतं श्रेयः श्रेयःसाधनं वदन्तीति । एतेन कर्मणो रुच्युत्पादनद्वारा कारणत्वेन साक्षा-त्कारणत्वाभावाद् रुचिवत्कर्मणः साक्षात्कारणत्वाभिधानमनुपपन्नमिति चोद्यस्यानवकाशः । तथेत्यादि शेषेण कर्मरुच्युत्पादनद्वारा कारणमित्यर्थस्योक्तत्वात् ॥ ९ ॥

प्रमेयचन्द्रिका

अनेकान्तमिति ॥ अन्तो निर्णयः । अनेकप्रकारेणान्यान्यतया निश्चितं यथा भवति तथा वदन्तीत्यर्थः ॥ ९ ॥

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।

अन्ये वदन्ति चार्थं वा ऐश्वर्यं त्यागभोजने ।

केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥

पदरत्नावली

एतदेव विशदयति धर्ममिति । त्यागोऽभिमानत्यागः । भोजनं वाय्वादेः

॥ १० ॥

श्रीनिवासतीर्थीया

अनेकान्तमित्युक्तं विशदयति ॥ धर्ममित्यादिना ॥ त्यागोऽभि-मानत्यागो भोजनं वाय्वाद्याहारः ॥ १० ॥

दुर्घटभावदीपिका

एके धर्मं वक्ष्यमाणातिरिक्तधर्मं श्रेयो वदन्ति । अन्ये शमं तितिक्षां श्रेयो वदन्तीति ॥ १० ॥

प्रमेयचन्द्रिका

तद्विवरणं क्रियते ॥ धर्ममिति ॥ त्यागोऽभिमानत्यागः । पात्रापात्रविवेकेन द्रव्यत्यागो वा । भोजनं भोगः । वाय्वाद्याहारो वा ॥ १० ॥

आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।

दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥

तात्पर्यम्

‘मद्भक्तिवर्जितं श्रेयो ये मन्यन्ते दुराशयाः । तेषामन्ते तमो घोर-मनन्तं प्राप्यते ध्रुवमि’ति मान्यसंहितायाम् ॥ ११ ॥

पदरत्नावली

एतत्साधनसाध्यान् लोकानाह– आद्यन्तवन्त इति । एषां कर्मनिर्मिता लोकाः । तेषेमाद्यन्तवत्त्वेऽपि यावल्लोकं सुखमस्ति किम् । नेत्याह– दुःखोदर्का इति । तमोनिष्ठा अन्धकारप्रचुराः । ‘‘मद्भक्तिवर्जितं श्रेयो ये मन्यन्ते दुराशयाः । तेषामन्ते तमो घोरमनन्तं प्राप्यते ध्रुवम्’’ इति वचनादसन्मतनिष्ठानां तम एव । बृहस्पत्युक्तत्वेऽपि हरिभक्तिराहित्यात् । अल्पानन्दत्वे शुचार्पितत्वं हेतुः ॥ ११ ॥

श्रीनिवासतीर्थीया

एतत्साधनसाध्यलोकस्वरूपमाह ॥ आदीति ॥ एषां पुंसां कर्मविनिर्मितास्तत्तददृष्टानुसारेण धर्मादिसाधनैर्विनिर्मिता लोका आद्यन्तवन्त इत्यर्थः । आद्यन्तवन्तो भवन्तीति यावत् ॥ पुनस्तल्लोकनिष्ठाः पुरुषाः कीदृशा इत्यत आह ॥ दुःखोदर्का इति ॥ तमोऽन्धन्तमः। ननु कथमेतत् । धर्माद्यनुष्ठातॄणामेतादृशफलायोगादित्यतस्तात्पर्यमाह ॥ मद्भक्तीति ॥ भगवद्भक्तिशून्यं धर्मादिकं श्रेयःसाधनतया ये मन्यन्त इति योज्यम् ॥ अन्त इति ॥ आदौ तद्धर्म-फलं किञ्चिदनुभूय पश्चात्तमः प्राप्यत इत्यर्थः । एवं च भक्तिशून्यधर्मादिभिराद्यन्तवल्लोके क्षुद्रानन्द-मनुभूय तच्छेषेण भूमौ म्लेंछादिराजानो भूत्वा तत्र पुनर्ब्रह्मगोहत्यादिप्रबलपापं सम्पाद्य दुःखो-दर्कास्तमोनिष्ठाः शुचार्पिताश्च भवन्तीति भक्तिरहितकेवलधर्माद्यनुष्ठातृपुरुषविशेषपरतया दुःखोदर्का इत्यर्धो योज्यः ॥ ११ ॥

प्रमेयचन्द्रिका

भगवति फलतद्धर्मादिफलमुच्यते ॥ आद्यन्तवन्त इति ॥ कर्मविनिर्मिता इत्युपलक्षणम् । यशआदिलभ्याश्चेति ग्राह्यम् ॥ ननु धर्मादीनां श्रेयःसाधनत्वस्य वस्तुतो वेदोक्तत्वात्कथं दुःखोदर्कत्वादिकं तत्फलत्वेनोच्यत इत्यत आह ॥ मद्भक्तीति ॥ मद्भक्तिवर्जितेन धर्मादिना श्रेयो भवतीति ये मन्यन्त इत्यर्थः । वर्जितैरिति पाठे धर्मादिभिरिति ग्राह्यम् । मद्भक्तिवर्जितं श्रेय इति पाठे तु मद्भक्तिवर्जितं धर्मादिकं श्रेयःसाधनमिति ये मन्यन्त इत्यर्थः । अन्ते द्वेषदार्ढ्य-परिपाके । तथा च वेदोक्तधर्मादीनां श्रेयःसाधनत्वेऽपि आत्यन्तिकभक्तिवर्जनाद्वेषाच्च तमःप्राप्तिर्युक्तैवेति भावः ॥ मूले क्षुद्रानन्दा इत्येतद्द्वेषदार्ढ्याभावदशायां फलम् । क्षुद्रानन्दत्वे हेतुः ॥ शुचाऽर्पिता इति ॥ ११ ॥

मय्यर्पितात्मनः सत्ये निरपेक्षस्य सर्वतः ।

मदात्मकं सुखं यत् तत् कुतः स्याद् विषयात्मनाम् ॥ १२ ॥

पदरत्नावली

भगवद्धर्मसाध्यलोकसुखवत् तल्लोकसुखमपि निर्दुष्टं किं न स्यादविशेषादत्राह– मयीति । अहमात्मा प्रापको यस्य तन्मदात्मकम् । मय्यर्पित आत्मा मनो यस्य । सत्ये साधुगुण-पूर्णे । ममात्मा स्वभावो यस्य स तथेति वा । यथाहं निर्दोषस्वभावस् तथेद(सुख)मपीत्यनयोक्त्या विशेषो दर्शितः । इतरानुमानस्य तर्काभावेन दौर्बल्यान्नोत्थातुमलमित्यर्थः ॥ १२ ॥

श्रीनिवासतीर्थीया

ननु मोक्षसुखं तेषां कुतो नेत्यत आह ॥ मयीति ॥ साधुगुण-रूपत्वात्सत्ये मयीत्यर्थः । सर्वतः सर्वत्र । निरपेक्षकं मदात्मकं मत्स्वामिकं मदधीनं यत्सुखं मौक्तं तद्विषयात्मनां कुतः स्यान्न कुतोऽपीत्यर्थः ॥ १२ ॥

प्रमेयचन्द्रिका

अस्तु तमोयोग्यानां दुःखोद्रेकादिफलं तदितरेषां काम्यकर्मणां धर्मादिभि-र्निर्दुष्टफलं भवति किमित्यतो भक्तिमतां फलकथनपूर्वकं नेत्युच्यते ॥ मयीति ॥ सत्ये साधुगुणपूर्णे मयि । मदात्मकम् अहमात्मा आ सम्यक् यस्य सुखस्य तत् प्रसन्नेन मया दीयमानं मोक्षसुखमिति यावत् ॥ १२ ॥

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।

मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥

पदरत्नावली

एवंविधस्य मदर्पितात्मनो न केवलममुत्र सुखित्वं किन्त्विहापि सुखित्वं स्यादित्याह अकिञ्चनस्येति । अकिञ्चनस्येत्यत्रैकैकोपि सुखहेतुः किमुत समुदिता इति भावेनोक्तं सर्वाः सुखमया इति ॥ १३ ॥

श्रीनिवासतीर्थीया

न केवलं मय्यर्पितात्मनः पारत्रिकमेव सुखं किं त्वित्यत आह ॥ अकिञ्चनस्येति ॥ सज्जनान्सज्जनत्वेन दुर्जनान्दुर्जनत्वेनेति तत्तद्योग्यतानुसारेण ज्ञानं ज्ञानिनः समचेतस्त्वम् । सज्जनानां दुर्जनत्वेन ज्ञाने हि वैषम्यमिति भावः । नन्वेतादृशस्य दुःखमेव सम्भावितम् । सन्तोषे हेत्वभावादित्यत आह ॥ सर्वा इति ॥ सुखमयाः सुखप्रचुराः ॥१३॥

प्रमेयचन्द्रिका

ऐहिकसुखप्राप्तिरहितस्येत्युच्यते ॥ अकिञ्चनस्येति ॥ सुखमयाः सुखप्रचुराः । देशाः कुरुपाञ्चालाद्याः । दिशः पूर्वदक्षिणाद्याः ॥ १३ ॥

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद् विनाऽन्यत् ॥ १४ ॥

पदरत्नावली

त्वय्यर्पितात्मनोपि पारमेष्ठ्याद्याकाङ्क्षायां तत्पदानां दुःखमिश्रितसुखरूपत्वात् सर्वत्र सुखित्वं कथमित्याशङ्क्याह– न पारमेष्ठ्यमिति । मय्यर्पितात्मा मामेव सुखमिच्छति मदन्यत् किमपि नेच्छतीत्यतस्तस्मात् तस्य निराकाङ्क्षत्वेन सर्वत्र सुखमेवेति भावः ॥ १४ ॥

श्रीनिवासतीर्थीया

ननु तस्य पारमेष्ठ्यादिपदाकांक्षायां तदलाभे दुःखमेव स्यादिति सर्वा दिशः सुखमया इत्ययुक्तमित्यत आह ॥ नेति ॥ मय्यर्पितात्मैकान्तिकभक्तोऽपुनर्भवं मोक्षं मद्विनाऽन्यन्नेच्छति ॥ १४ ॥

प्रमेयचन्द्रिका

मय्यर्पितात्मनो मदात्मकं शुभं भवतीति सर्वं सुखमयादिनोक्तम् । यद्भक्तिमतः फलं तदुत्तमभक्तो मय्यर्पितात्मा न वाञ्छति । किं पुनः पारमेष्ट्यादिकमुच्यते ॥ न पारमेष्ठ्यमिति ॥ रसाधिपत्यं पातालाधिपत्यम् । योगसिद्धीरणिमाद्याः ॥ १४ ॥

न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

न च सङ्कर्षणो न श्रीर्नवाऽऽत्मा च यथा भवान् ॥ १५ ॥

तात्पर्यम्

‘कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका । आन्तरैवतु या प्रीतिः सा तूच्चेषु यथाक्रमम् । यथा कश्चित्स्वमात्मानं प्रियां पुत्रमथापि वा । अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि । कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् । योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम् । एवमेव परेशस्य भक्तेषु श्रियजादिष्वि’ति प्रियविवेके ॥ ‘यादवेभ्यश्च सर्वेभ्य उद्धवो भगवत्प्रियः । उद्धवाच्च प्रियतमः प्रद्युम्नस्तु महारथः । तस्मादपि प्रियतमो रामः कृष्णस्य सर्वदा । नैव तस्मात्प्रियतमो विनैकं तु चतुर्मुखम् । सर्वेऽभ्योऽपि प्रियतमा हरेः श्रीरेव वल्लभा । नैव तस्याः प्रियतमो विना स्वात्मानमेव त्वि’ति यादवाध्यात्मे ॥ १५ ॥

पदरत्नावली

अत्र भक्तेषु प्रीतिविशेषोऽस्तीति दर्शयितुं भक्तेः कर्तव्यत्वं च निदर्शयन्निव उद्धवमतिस्तौति न तथेति । अनेन मनुष्यादिभक्तेषु भिक्षान्नप्रदानवत् कृपानिमित्तप्रीतिर्लक्ष्म्यादिषु प्रियापुत्रादिप्रीतिवत् सार्वकालिकी आन्तरप्रीतिरस्तीति सूचितम् । ‘‘कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका । आन्तरैव तु या प्रीतिः सा तूच्चेषु यथाक्रमम् । यथा कश्चित् स्वमात्मानं प्रियां पुत्रमथापि वा । अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि । कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् । योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम् । एवमेव परेशस्य भक्तेषु श्रियजादिषु’’ इति वचनात् । ‘‘यादवेभ्यस्तु सर्वेभ्य उद्धवो भगवत्प्रियः । उद्धवाच्च प्रियतमः प्रद्युम्नस्तु महारथः । तस्मादपि प्रियतमो रामः कृष्णस्य सर्वदा । नैव तस्मात् प्रियतमो विनैवैकं चतुर्मुखम् । सर्वेभ्योऽपि प्रियतमा हरेः श्रीरेव वल्लभा । नैव तस्याः प्रियतमो विना स्वात्मानमेव तु’’ इत्यतोऽपि सर्वयादवेभ्यो विशिष्टभक्त उद्धव इति प्रकटनाय विशिष्य स्तुत उद्धव इति भावः ॥ १५ ॥

श्रीनिवासतीर्थीया

अत्र भक्तेषु प्रीतिविशेषं दर्शयितुं ब्रह्माद्यपेक्षया नीचभक्तमुद्धवमतिशयेन स्तौति ॥ न तथेति ॥ आत्मा योनिः कारणं यस्यासौ ब्रह्मा तथोक्तः । आत्मा मदीयो देहः । अत्रोद्धवस्य श्याद्युत्तमत्वप्रतीतेस्तात्पर्यं प्रमाणेनाह ॥ कृपेति ॥ निरुपाधिकपरदुःखप्रहाणेच्छा-निमित्तकेत्यर्थः । या प्रीतिस्तात्कालिकी । आन्तरा स्वाभाविकी । तत्तत्स्वरूपानुसारेण या प्रीतिरित्यर्थः । उच्चेषूत्तमभक्तेषु । कदाचिदेवान्नं ददातीति । पुनस्तस्मा आगताय भिक्षवेऽन्नं न ददातीत्यर्थः । स्वात्मादेः सार्वकालिकं सर्वदाऽन्नं ददातीति पूर्वेण सम्बन्धः । कुत इत्यत आह ॥ योगेति ॥ स्वात्मादिषु यतो योगक्षेमवहत्वं नित्यं स्फुटमस्तीत्यर्थः । एवं चाप्राप्तस्य प्राप्तिर्योगः । प्राप्तस्य परिरक्षणं क्षेमस्तद्वहत्वं तत्कर्तृत्वम् । श्याजादिषु । एवमेव परमेशस्य नित्यं योगक्षेमवहत्व-मस्तीत्यर्थः । एवं च प्रियापुत्रादिवल्लक्ष्म्यादिषु सार्वकालिकप्रीतिसद्भावेऽपि भिक्षौ कृपानिमित्त-प्रीतिरिवोद्धवे तात्कालिकीं प्रीतिमपेक्ष्य यथा भवानित्युक्तमिति भावः । त्रियम्बकमिति दर्शनात् । यणागमोऽपि कैश्चिद्व्याख्यात इति यणागमे अचिश्नुधातुभ्रुवां य्वोरियङुवङाविति धातोरिवर्णस्येयङादेशे वा श्रियजेति युक्तम् । ननु कुत एवमुद्धवस्य, श्याद्युत्तमत्वमेव किं न स्यादित्यतः प्रमाणेनैव स्पष्टं तारतम्यं दर्शयति ॥ यादवेभ्य इति ॥ हरेर्वल्लभा स्त्री श्रीहरेः सर्वेभ्यः प्रियतमेत्यर्थः । स्वात्मनं विना तस्याः श्रियः सकाशादन्यः प्रियतमो नास्तीत्यर्थः । श्रीभिन्नः स्वात्मैव स्वस्य प्रिय इति भावः ॥ १५ ॥

दुर्घटभावदीपिका

यथा कश्चन पुरुषः कालविशेषे भार्यादेः पूर्वं भिक्षवे प्रीतिकार्यमन्नदानं करोति । तथा भगवान्कालविशेषे लक्ष्म्यादेः पूर्वमुद्धवे किञ्चित्प्रीतिकार्यं करोतीत्युच्यत इति द्रष्टव्यम् । एतेन भगवतो लक्ष्म्यादिष्वेव प्रीत्याधिक्यस्य वक्तव्यत्वात् । लक्ष्म्याद्यपेक्षयोद्धवे प्रीतिरधिकेति कथनमयुक्तमिति दूषणस्यानवकाशः ॥ ता.अर्थः ॥ कृपानिमित्ता तात्कालिककृपानिमित्ता या बाह्या प्रीतिः सा च नीचभक्तेष्वधिका किञ्चिद्व्याप्तम् । प्रीतिकार्यमादौ भवतीति यावत् । अन्तरा प्रीतिः सा तु । तुशब्दश्चशब्दार्थे । यदान्तरप्रीतिकार्यं सन्तोषादिकं यच्च बाह्यं प्रीतिकार्यं तच्चोच्चेषु यथाक्रमं तु विशेषतोऽधिका । अत्र दृष्टान्तमाह ॥ यथेति कश्चित्स्वमात्मानं स्वात्मानं प्रियां पुत्रम् । अथापि वेति निपातसमुदायोऽनुक्तसमुच्चये । पित्रादिकं चातिहाय कृपायुक्तस्तात्कालिककृपायुक्तः सन् भिक्षवे कदाचिदेव यथावदन्नमप्यन्नमेव ददाति सार्वकालिकं सर्वकालेषु भोग्यं वस्त्रालङ्कारादिकं न पुनर्नैव ददाति । किन्तु स्वात्मादेः स्वात्मादिभ्यो ददाति । अन्तरा प्रीतिस्तत्कार्यं च भिक्ष्वपेक्षया स्वात्मादिषु नित्यमधिकमित्यत्र प्रमाणमाह ॥ योगेति । स्वात्मादिषु नित्यं योगक्षेमवहत्वं स्फुटं च सर्वानुभवसिद्धमेव । एवमेव परेशस्य नारायणस्य श्रियजादिषु लक्ष्मीब्रह्मादिषु भक्तेषूत्तमभक्तेषु नीचभक्तापेक्षयाऽऽन्तरा प्रीतिस्तत्कार्यं चाधिकमेवेति ॥ १५ ॥

प्रमेयचन्द्रिका

उक्तस्य भक्तियोगस्योत्तमत्वज्ञापनायोद्धवस्तुतिपरे न तथेति श्लोके उद्धवस्य ब्रह्मादिभ्यः स्वस्माद्रमायाः सकाशाच्चातिप्रियत्वमुच्यते । तदनेकप्रमाणविरुद्धमित्यत आह ॥ कृपेति ॥ प्रीतिर्द्विविधा । किञ्चिद्दीनं जनं दृष्ट्वा तस्मिन्कृपामात्रेण तद्दुःखपरिजिहीर्षया प्राप्ता तात्कालिकी प्रीतिः । योग्यतानुसारिणी स्वभावतः प्राप्तप्रीतिश्चेति । तत्राद्या नीचभक्तेष्वधिका । दीनजनक्लेशपरिजिहीर्षया तात्कालिकाधिकप्रीतेस्तेषु युक्तत्वात् । उत्तमेषु तु यथाक्रमं तत्तद्गुणानुसारिणी आन्तरा नियमसिद्धा स्वाभाविकी प्रीतिः । तथा चोद्धवः प्रियतमभगवद्वियोगनिमित्तक्लेशवानिति कृपावान् भगवान् तच्छोकनिवृत्तये तात्कालिकीं प्रीतिमधिकां चकारेति न विरोध इति भावः ॥

तदेतदुभयं दृष्टान्ताभ्यामुपपादयति ॥ यथेति ॥ अथवेत्यपि वेति चोक्तसमुच्चये । अविहायापीत्यनौचित्यद्योतकोऽपिशब्दः । कदाचिदेवेत्युक्तं विवृणोति ॥ न पुनरिति ॥ ददातीत्यनुवर्तते । स्वात्मादेस्तु सार्वकालिकमन्नं संपादयतीति विशेषः । न केवलमेतावत् किं तु स्वात्मादेर्नित्यं योगक्षेमवहत्वं च स्फुठमधिकमस्ति । दार्ष्टान्तिके दर्शयति ॥ एवमेवेति ॥ श्रियजादिष्विति ॥ यणादेशाभावस्त्रियम्बकमित्यादिवत् । नित्यं स्फुटं योगक्षेमवहत्वमित्यावृत्या योज्यम् । एवमुद्धवे तात्कालिकीं प्रीतिं करोतीति ग्राह्यम् । स्यादेतत् । यदि श्रीचतुर्मुखादिभ्य उद्धवस्य नीचत्वं भवेत् । तदेतत्कुत इत्यतस्तत्रापि प्रमाणमाह ॥ यादवेभ्यश्चेति ॥ सर्वेभ्य इत्यतःपरमातिशयेनेति ग्राह्यम् । हरेर्वल्लभा महिषी श्रीरिति योज्यम् । तस्या इति पञ्चमी ॥ १५ ॥

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

अनुव्रजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥

तात्पर्यम्

स्वाङ्घ्रिरेणुभिस्तं शोधयामीत्यनुव्रजामि । ‘अनुगच्छति विष्णुस्तु स्वभक्तं तस्य शुद्धये । तस्याङ्घ्रिरेणुभिर्वातनीतैरग्रेसरः शुचिः । अग्रतो गमने विष्णोः पादस्पृष्टं रजो भवेत् । अतः स्वभक्तं पूयेयेत्यनुव्रजति केशव’ इति सङ्ख्याने ॥ १६ ॥

पदरत्नावली

ननु प्रतीतार्थं परित्यज्यान्यार्थविशेषकल्पने को हेतुरित्याशङ्क्यातिदेशो हेतुरिति भावेनाह– निरपेक्षमिति । स्वाङ्घ्रिरेणुभिस्तं पूयेयं शोधयामीत्यनुव्रजामि । अनुगच्छतो मम पादधूलयो वायुना पुरतो गच्छति भक्ते निपतन्त्योऽतितरां शोधयन्तीदं सजलभूमिपादविक्रमे सिद्धं भवतीति । ततः पूयेय शुद्धो भवानीत्ययमर्थो न युक्तः । यत्सेवया (स्वभक्तः) माहात्म्यमाप स हरिस्तदनुगमनेन तत्पादरेणुसम्पर्केण शुद्धो भवतीति न युज्यते । सदोषस्य शुद्धिप्रार्थनं दृष्टं निर्दोषस्य न घटत इत्युक्त एवार्थः । ‘‘अनुगच्छति विष्णुस्तु स्वभक्तं तस्य शुद्धये । तस्याङ्घ्रिरेणुभिर्वातनीतैरग्रेसरः शुचिः । अग्रतो गमने विष्णोः पादस्पृष्टं रजो भवेत् । अतः स्वभक्तं पूयेयेत्यनुगच्छति केशवः’’ इति वचनात् । अनेन निष्कामत्वादिगुणसम्पन्नत्वेन सेवमानेषु भक्तेषु त्वय्यतिशयिता प्रीतिरस्तीत्युक्तं भवति ॥ १६ ॥

श्रीनिवासतीर्थीया

पुनर्भक्तं स्तौति ॥ निरपेक्षमिति ॥ भक्तस्याङ्घ्रिरेणुभिरहं शुद्धो भवामीत्याशयेनानुव्रजामीत्यन्यथाप्रतीतिनिरासाय योजयति ॥ स्वेति ॥ तं भक्तं शोधयामि शुद्धं पूतं करवाणीति भावेन । अनु तत्पृष्ठतः । तत्र प्रमाणमाह ॥ अन्विति ॥ कथमनुगमनेन तस्य भक्तस्य शुद्धिर्भवतीत्यत आह ॥ तस्येति ॥ पृष्ठभागे गन्तुर्विष्णोरित्यर्थः । वातेन पुरतो नीतैरग्रेसरोऽग्रे पुरतः सरति गच्छतीत्यग्रेसरो भक्तोऽङ्घ्रिरेणुभिः स्पृष्टः सन् शुचिर्भवतीत्यर्थः । ननु भगवतो भक्ताग्रतो गमनेऽपि वातेनाङ्घ्रिरेणुना पृष्ठतः स्थितभक्तसम्बन्धे स शुचिर्भविष्यत्येवेत्यत आह ॥ अग्रत इति ॥ विष्णोर्भक्तस्याग्रतो गमने रजो विष्णोः पादस्पृष्टं रजो भक्तपादस्पृष्टं भवेत् । तथा च भगवत्पादस्पृष्टरजसा भक्तेन शिरसा स्पृष्टव्यतया पादेन स्पर्शे भक्तोऽत्यपराधी स्यादित्याशयः

॥ १६ ॥

प्रमेयचन्द्रिका

उद्धवे भगवत्प्रीत्यतिशयस्य तदनुभवारूढतया प्रदर्शके निरपेक्षमिति श्लोके तवाङ्घ्रिरेणुभिः पादविक्षेपेणोद्धवो नीतैरगे्रसरः भगवत्पुरोगन्ता शुचिर्भवेत् । तदुपपादयति ॥ अग्रत इति ॥ विष्णोः सकाशादग्रतो गमने विष्णोः पादसृष्टं रजः पुरोगन्तरि संबद्धं भवेत् । अतः स्वपादसम्बद्धरजसः सकाशात्स्वभक्तं पूयेय पावये इत्याशयेनानुव्रजतीत्यर्थः ॥ १६ ॥

निष्किञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः ।

कामैरनालब्धधियोऽजुषश्च ते नैरपेक्ष्यं हि विदुः सुखं मम ॥ १७ ॥

पदरत्नावली

एवं भजतां निर्दुःखानन्दो भविष्यतीत्यत्र किं मानमित्याशङ्क्य ब्रह्मादि-ज्ञानिप्रत्यक्षं प्रमाणमिति निदर्शयति निष्किञ्चना इति । ये निष्किञ्चना निष्किञ्चनत्वादिगुणपूर्णाः कामैर्विषयैरनालब्धधियो ऽप्रतिहतबुद्धयो ऽजुषश्च विषयानसेवमानाश्च ते मम सकाशान् नैरपेक्ष्यं स्वरूपसुखं स्यादिति विदुर्हीत्यन्वयः । ननु बिम्बभूतस्य विष्णोः स्वरूपसुखसद्भावे मानमस्ति चेत् प्रतिबिम्बजीवस्वरूपसुखाविर्भावे भक्त्यादिसाधनसामग्रीसम्पादनयत्नो नितरां सफलः स्यात्, तत्र किं मानमित्यत्रापीदमत्तुरं भवतीत्याह– निष्किञ्चना इति । मम नैरपेक्ष्यं सुखमस्तीति विदुरित्यन्वयः । हिशब्द उभयत्रापि प्रमाणमस्तीति सूचयति । ज्ञानिप्रत्यक्षलक्षणप्रमाणसद्भावाद् भक्त्यादिसाधनमवश्यं सम्पादनीयमिति भावः ॥ १७ ॥

श्रीनिवासतीर्थीया

पुनर्भक्तस्वरूपं दर्शयति ॥ निष्किञ्चना इति ॥ अनालब्धधियोऽह-तधियोऽजुषो विषयानसेवमाना मम सकाशान्नैरपेक्ष्यं विषयानपेक्षं स्वरूपसुखमस्माकं भविष्यतीति विदुः ॥ १७ ॥

प्रमेयचन्द्रिका

निरपेक्षमिति भक्त्यादिसाधनस्य फलापेक्षाभावोऽङ्गमिति सूचितम् । तदयुक्तम् । फलानपेक्षायां साधने प्रवृत्ययोगात् । प्रयोजनमनुद्दिश्येति न्यायादित्यत उच्यते ॥ निष्किञ्चना इति ॥ येन निष्किञ्चनत्वादिगुणपूर्णाः काम्यन्त इति कामा विषयास्तैरनालब्धधियोऽ प्रतिहतबुद्धयोऽत एवाजुषः विषयानसेवमानास्ते मम सकाशान्नैरपेक्षं विषयानपेक्षं स्वरूपसुखं विदुर् विद्लृलाभे प्राप्नुवन्तीत्यर्थः ॥ १७ ॥

बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः ।

प्रशस्तयाऽपि मद्भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥

पदरत्नावली

ननु त्वद्भक्तस्यापि विषयग्राहग्रस्ततया भक्तिलोपेनाधःपातः सम्भाव्यत इति भक्तिविधानं व्यर्थमिति तत्राह– बाध्यमान इति । विषयैर्बाध्यमानत्वेनाजितोन्द्रियोऽपि प्रशस्तया मद्भक्त्या विषयैर्नाभिभूयते । विषयनिषेवया प्राप्तदोषेणाधः न पततीत्यर्थः ॥ १८ ॥

श्रीनिवासतीर्थीया

ननु त्वद्भक्तस्यापि कदाचिद्विषयेभ्य इन्द्रियाणां जयाभावेऽधःपातः स्यादित्यतो भक्त्यङ्कुरसद्भावे सर्वथा नेत्याह ॥ बाध्यमान इति ॥ अजितेन्द्रिय इन्द्रियजयशून्यो मद्भक्तोऽत एव विषयैः कदाचिद्बाध्यमानोऽपि विषयैर्नाभिभूयते । कुतः । प्रशस्तया परममङ्गलभूतया मद्भक्त्या भक्त्यंकुरसद्भावादित्यर्थः ॥ १८ ॥

प्रमेयचन्द्रिका

ननु भक्तिमतो विषयाभिनिवेशे भक्तिलोपेनाधःपातः स्यात्किमित्यत उच्यते ॥ बाध्यमान इति ॥ अजितेन्द्रियोऽत एव विषयैर्बाध्यमानोऽपि प्रशस्तया मद्भक्त्या विषयैर्नाभिभूयत इत्यर्थः ॥ १८ ॥

यथाऽग्निः सुसमिद्धार्चिः करोत्येनांसि भस्मसात् ।

तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ १९ ॥

पदरत्नावली

कथमिवेति तत्राह– यथेति । एनांसि पापानि ॥ १९ ॥

श्रीनिवासतीर्थीया

भक्त्यङ्कुरसद्भावे कथमभिमानाभाव इत्यत आह ॥ यथेति ॥ अग्निरादौ स्वल्पस्थितः पश्चादाज्यादिभिः सुसमिद्धार्चिः । एनांसि पापानि भस्मसात्करोतीत्यन्वयः ॥१९॥

प्रमेयचन्द्रिका

भक्तेर्विषयभोगजनिताघनिरासकत्वं दृष्टान्तेनोपपाद्यते ॥ यथेति ॥१९॥

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥

पदरत्नावली

भक्त्यनुपहितबुद्धिनाऽनुष्ठितधर्मादयो मदपरोक्षं न जनयन्तीत्याह– नेति

॥ २० ॥

श्रीनिवासतीर्थीया

न साधयति न वशीकरोति ॥ २० ॥

प्रमेयचन्द्रिका

अपरोक्षज्ञानमोक्षसाधकहरिप्रसादस्यापि प्रधानसाधना भक्तिरित्युच्यते ॥ न साधयतीति ॥ यथा शमेन भगवन्निष्टबुध्द्योर्जिता भक्तिर्मां साधयति प्रसन्नतया अभिमतफलसाधकं करोति न तथा धर्मादीत्यर्थः । साङ्ख्यं ज्ञानं योगो ध्यानम् ॥ २० ॥

भक्त्याऽहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ।

भक्तिः पुनाति मन्निष्ठा सकामानपि सम्भवात् ॥ २१ ॥

पदरत्नावली

भक्तिप्रधानधर्मादीनां तत्साधनवद् भक्तेरपि तत्सहिताया एव साधनत्वमत्राह– भक्त्येति । भक्तेः प्राधान्ये गुणादर्शनात् कथं तदुन्नतिरुच्यत इति तत्राह– भक्तिरिति । सम्भवाज् जननादिरूपसंसारात् । यद्वा स्वोत्पत्त्यनन्तरमेव पुनाति न तु कालक्षेपेण ॥ २१ ॥

श्रीनिवासतीर्थीया

श्रद्धयाऽऽस्तिक्यबुद्ध्या । सतां प्रियः । सतामात्मा स्वाम्यहम् । मन्निष्ठा मयि विद्यमाना भक्तिः सकामानपि पुरुषान् । सम्भवात् । ल्यब्लोपनिमित्ता पञ्चमी । स्वसम्भवमारभ्य सोदयात्फलदं ज्ञानमितिवत्स्वोत्पत्तिमारभ्यैव भक्तिः पुनाति न तु कालक्षेपेणेत्यर्थः

॥ २१ ॥

प्रमेयचन्द्रिका

भक्त्यसहकृतधर्मादेरसाधकत्ववद्धर्माद्यसहकृतभक्तेरप्यसाधकत्वं किमित्यत उच्यते ॥ भक्तयेति ॥ एकया शुद्धया निरपेक्षया । वैराग्यादिकं च भक्तयैव भवतीत्युच्यते ॥ भक्तिरिति ॥ सम्भवात्स्वोत्पत्तिमारभ्य सकामानपि पुनाति । कामकृतदोषं परिहृत्य पुनः कामनारूपदोषपरिहृतान् करोतीति यावत् ॥ २१ ॥

धर्मः सत्यदयोपेतो विद्या वा तपसाऽन्विता ।

मद्भक्त्यपेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥

पदरत्नावली

भक्तिनायकहीनानां धर्मादीनामप्रयोजकत्वमर्थादुक्तम् । अधुना तत् प्रकाशयति धर्म इति । हिशब्दो नायमात्मा प्रवचनेन लभ्य इति श्रुतिं सूचयति ॥ २२ ॥

श्रीनिवासतीर्थीया

अपेतं रहितम् ॥ २२ ॥

दुर्घटभावदीपिका

सत्यदयोपेतः सत्यदयाभ्यामुपेतः सम्यक् समीचीनो धर्मः । तपसाऽन्विता विद्या वा प्रकृष्टविद्या च मद्भक्त्याऽपेतं रहितमात्मानं जीवं न पुनातीत्येतद्धि श्रुत्यादिप्रमाणप्रसिद्ध-मिति । एतेन मिलितयोरपि विद्याधर्मयोर्भक्त्यभावे पावित्र्यहेतुत्वं नास्तीति वक्तुं विद्या चेति वक्तव्यम् । विद्यावेति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । वाशब्दाश्चब्दार्थ इत्यभ्युपगमात् । एतेनैव धर्मो विद्या न सम्यक् प्रपुनातीत्युक्त्या भक्त्यभावे विद्याधर्मयोः सम्यक् प्रकर्षेण पावित्र्यहेतुत्वं नास्ति । किन्तु प्रकर्षेण पावित्र्यहेतुत्वमेवास्तीति लभ्यते । तदनुपपन्नम् । भक्त्यभावे विद्याधर्मयोः सर्वथा पावित्र्यहेतुत्वं नास्ती-त्यर्थस्य प्रमितत्वादिति चोद्यस्यानवकाशः । सम्यक्प्रेत्यनयोः पुनातीत्यनेनान्वय इत्यनभ्युपगमात् ॥२२॥

प्रमेयचन्द्रिका

भक्त्यसहकृतधर्मादेरप्रयोजकत्वमुक्तम् । तद्विशदमुच्यते ॥ धर्म इति ॥ २२ ॥

कथं विना रोमहर्षं द्रवता चेतसा विना ।

विनाऽऽनन्दाश्रुकलया शुद्ध्येद् भक्त्या विनेश्वरः१ ॥ २३ ॥

पदरत्नावली

यद्यपि महान्तो वैष्णवसिद्धान्ताचलनेनास्य भक्तिरस्तीति जानते तथापि बाह्यानां सुबोधाय भक्तेः प्रत्यक्षलक्षणान्याह– कथमिति ॥ २३ ॥

श्रीनिवासतीर्थीया

भक्तेषु भक्तिज्ञापकानि वदन् तदभावेऽनिष्टमाह ॥ कथमिति ॥ विना भक्तिः कथमनुमेयेति शेषः । तया भक्त्या विनेश्वरः कथं तुष्येदित्यर्थः ॥ २३ ॥

प्रमेयचन्द्रिका

भक्तिलक्षणकथनपूर्वकं तस्या आवश्यकत्वमुच्यते ॥ कथमिति ॥ भक्त्या जनितं रोमहर्षम् । भक्त्या द्रवता चेतसा भक्त्या समुद्भूतयाऽनन्दाश्रुकलयेति संयोज्यम् ॥२३॥

वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च ।

विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥

तात्पर्यम्

‘चित्तद्रवस्तथा स्थैर्यं प्रसादो भक्तिलक्षणम् । आधिक्येन तु तत्रापि स्थैर्यमेव विशेषतः । दम्भस्य चलभक्तेश्च यस्मादश्र्वादिकं भवेत् । दम्भादिपरिहारार्थं निगृह्णीयाच्च धीरधीः । अत आध्यात्मिकैः क्लेशैराधिभूताधिदैविकैः । वाक्यैश्च वेदतन्त्रा-द्यैरुपदेशैश्च तादृशैः । बलवच्छासनैर्वापि यस्य भक्तिर्न चाल्यते । स एव परमो भक्तो विष्णोर्हृदयवल्लभ’ सति भक्तिविवेके ॥

पदरत्नावली

समीचीनभक्तियुक्तः पुरुषोऽपि सर्वं पुनाति किं पुनर्भक्तिरित्याशयेनाह– वाग् गद्गदेति । अत्र ‘‘चित्तद्रवस्तथा धैर्यं प्रसादो भक्तिलक्षणः । आधिक्येन तु तत्रापि धैर्यमेव विशेषतः । दम्भस्य चलभक्तेश्च यस्मादश्वादिकं भवेत् । दम्भादिपरिहारार्थं निगृण्हीयाच्च धीरधीः । अत आध्यात्मिकैः क्लेशैराधिभूताधिदैवतैः । वाक्यैश्च वेदतन्त्राद्यैरुपदेशैश्च तादृशैः । बलवच्छासनैर्वापि यस्य भक्तिर्न चाल्यते । स एव परमो भक्तो विष्णोर्हृदयवल्लभः’’ इति विशेषाच्च ग्राह्याः ॥ २४ ॥

श्रीनिवासतीर्थीया

तत्ज्ञापकान्तरमाह ॥ वागिति ॥ नन्वेतानि दम्भादियुक्तपुरुषे च सन्तीति कथं भक्तिज्ञापकानीत्यतोऽसाधारणभक्तिज्ञापकं स्वयमाह ॥ चित्तेति । लक्षणं ज्ञापकम् । आधिक्येन भक्तिलक्षणमिति सम्बन्धः । तत्रापि चित्तद्रवादिषु त्रिषु विशेषतो भक्तिलक्षणम् । तर्हि मूलेऽश्र्वादेः कथं भक्तिलक्षणत्वमुक्तमित्यतस्तत्क्वाचित्कमेव न तु सर्वत्र भक्त्यनुमापकम् । तत्कुत इत्यत आह ॥ दम्भस्येति ॥ ज्ञात्वाऽपि स्वात्मनोऽल्पत्वं, दम्भो माहात्म्यभावनम् । तस्य सकाशाच्चलभक्तेः । चञ्चलभक्तेश्च सकाशात् । अतो नाश्र्वादि सर्वत्र भक्तिज्ञापकमिति भावः । निगृण्हीयादश्र्वादीनां निग्रहं कुर्यात् । किमर्थमित्यत उक्तम् ॥ दम्भादिति ॥ स्थैर्यं मद्भक्ति-लक्षणमित्युक्तम् । किं तत्स्थैर्यमित्यत आह ॥ अत इति ॥ रोगाद्या आध्यात्मिकक्लेशाः । राजचोरपीडाद्या आधिभौतिकक्लेशाः । अनावृष्ट्याद्या आधिदैविकक्लेशास्तादृशैर्वाक्यैः । आप्तानां हरिभक्तिस्त्वया न कार्येत्येवंरूपवाक्यैर् भक्तिर्न कार्येत्येवं प्रतिपादकैर्वेदतन्त्राद्यैस्तादृशैर्गुरूपदेशैर्बलवतां राजादीनां शासनैः शिक्षणैर्हृदयस्य वल्लभः प्रियः ॥ २४ ॥

प्रमेयचन्द्रिका

भक्त्या वाग्गद्ग्रदा यस्य । यस्य च चित्तं द्रवते यश्च हसतीत्यादि सः मद्भक्तियुक्तो भुवनं पुनातीति योजना । अत्र रोमहर्षगद्गदवाक्यादिकं डाम्भिकादिसाधारणं कथं मोक्षसाधनभक्तेर्लक्षणत्वेनोच्यत इत्यत आह ॥ चित्तद्रव इति ॥ अम्बुवदिति सूत्रोक्ता मनसो भगवदनुरक्तता चित्तद्रवः । प्रसादो मुखविकासः । आधिक्येन प्रवृत्तमेतत्त्रयं भक्तिलक्षणम् । तत्र त्रिषु मध्ये स्थैर्यमेव विशेषतो भक्तिलक्षणम् । एतत्त्रयसहितं चेद्रोमहर्षादिकं भक्तिलक्षणं न तु डंभादिना प्राप्तम् । अतो नोक्तदोष इत्याशयेन वस्तुतो भक्तस्य भक्तयुद्रेकेणात्र रोमहर्षादिप्राप्ता-वप्यास्रादेर्डाम्भिकादिसाधारणत्वेनास्मिन्महतां तादृशोऽयमिति भ्रमनिवारणाय श्वासादिनिरोधः कार्य इत्याह ॥ तस्येति ॥ आस्रादेर्डाम्भिकादिसाधारणत्वात् स्थैर्यमेव प्राधान्येन भक्तिलक्षणमिति स्थैर्यरूपं दर्शयन् सूचयति ॥ अत इति ॥ इतरापेक्षया स्थैर्यस्य प्रधानत्वादित्यर्थः । वाक्यैः प्रतिवाद्युदीरितैर् आपाततोऽन्यथाप्रतीयमानैर्वेदपञ्चरात्राद्यैस्तादृशैर्भक्तेरकर्तव्यताप्रकारकोपदेशैश्च । हृदयवल्लभो मनसः प्रियः । यद्वा हृदयं प्रियमित्यभिधानात् हृदयवल्लभः प्रियप्रिय इत्यर्थः । अतिशयेन प्रिय इति भावः ॥ २४ ॥

यथाऽग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् ।

आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥ २५ ॥

पदरत्नावली

भक्तिः पुनातीत्युक्तम् । तत्र शुद्धिप्रकारं सदृष्टान्तमाह– यथेति । अग्निना मुखवायुसंयोगेनोज्ज्वलितेन ध्मातं दाहविशेषं प्राप्तं हेम । मलम् अष्टादशदोषलक्षणम् । स्वरूपं निर्दोषभास्वरलक्षणम् । आत्मा सत्स्वभावो जीवोऽनाद्यविद्याकामकर्मकलिलं कर्माशयमन्तःकरणं भक्तियोगेन विधूय निर्मलीकृत्य अथो मङ्गलमूर्तिं मां भजत इत्यन्वयः ॥ २५ ॥

श्रीनिवासतीर्थीया

ननु प्रतिबन्धकर्मसद्भावात्कथं तस्य भक्त्युदय इत्यत आह ॥ यथेति ॥ हेम सुवर्णमग्निना ध्मातं दाहविशेषं प्राप्तं सन्मलमष्टादशदोषं स्वं स्वकीयं रूपं निजरूपमित्यर्थः । तथेति शेषः । आत्मा सत्स्वभावो जीवः कर्माशयं कर्मग्रन्थ्यन्तःकरणं मद्भक्तियोगेन विधूय निर्मलीकृत्याथोऽनन्तरं मामेव भजतीत्यर्थः ॥ २५ ॥

प्रमेयचन्द्रिका

मूले भक्तिः पुनातीत्युक्तं तत्र शुद्धिप्रकारं सदृष्टान्तमुच्यते ॥ ध्मातं निष्टप्तं हेम मलमष्टादशभेदं दोषं जहाति । पुनश्च स्वं निजरूपं निर्दोषभास्वरलक्षणं भजते यथा तथा आत्मनः कर्मानुशयं दुष्कर्मकालुष्यमद्भक्तियोगेन विधूयाथो मां भजत इत्यन्वयः ॥ २५ ॥

यथायथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः ।

तथातथा पश्यति सूक्ष्मतत्वं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ २६ ॥

पदरत्नावली

द्वित्रादिगुणितं ध्मातहेमवद् भक्तियोगोद्रेकक्रमेण शुद्धमात्मा मनो भगवत्सूक्ष्मतत्वं पश्यतीत्याह– यथेति । परिमृज्यते शोध्यते । तत्वं सूक्ष्मतत्वम् । अत्र दृष्टान्तान्तरमाह– चक्षुरिति

॥ २६ ॥

श्रीनिवासतीर्थीया

आत्मा मनः परिमृज्यते मृजूष् शुद्धौ । शुद्धं भवति । पुण्यकरगाथानां श्रवणान्यभिधानानि च तैः । हेमस्थानीय आत्मा पुण्यगाथाश्रवणाद्यग्निस्थानीयं मन्तव्यम् । हेम स्वरूपभजनीयस्थानीयं सूक्ष्मतत्त्वदर्शनम् । तत्त्वसूक्ष्मं सूक्ष्मतत्त्वं भगवत्स्वरूपमञ्जनयुक्तं चक्षुः सूक्ष्मं पश्यति । तथा चक्षुःस्थानियोऽन्तःकरणम् । अञ्जनस्थानीयं गाथाश्रवणादि ॥ २६ ॥

प्रमेयचन्द्रिका

द्विवारं ध्मातहेममलवन्मनसो यथा यथा निर्मलता तथा तथा भगवत्सूक्ष्मतत्वं पश्यतीत्युच्यते ॥ यथा यथेति ॥ परिमृज्यते शोध्यते । तत्र दृष्टान्तान्तरमुच्यते ॥ चक्षुरिति ॥ अञ्जनेन सम्प्रयुक्तं संस्कृतं चक्षुर्भूम्यादौ निहितं निध्यादि यथा पश्यति तथेत्यर्थः ॥ २६ ॥

विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।

मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥

पदरत्नावली

कर्मसचिवराहित्येन भक्तिपूर्वकाध्ययनमात्रेण चित्तं कथं त्वयि निरन्तरं विलग्नं भवतीत्यत्राह– विषयानिति । आत्मानुभव एवात्र मानं न मानान्तरमन्वेषणीयमिति भावेन विषय-निदर्शनमुक्तम् । चित्तं स्वरूपचैतन्यमित्यर्थः ॥ २७ ॥

श्रीनिवासतीर्थीया

प्रविलीयते मय्येव लग्नं भवतीत्यर्थः ॥ २७ ॥

प्रमेयचन्द्रिका

सर्वदा हर्यनुस्मरणं च हरिभक्तयुपाय इत्युच्यते ॥ विषयानिति ॥ दृष्टान्तार्थं पूर्वार्ध इति ज्ञेयम् ॥ २७ ॥

तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् ।

हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८ ॥

पदरत्नावली

मथितमाह तस्मादिति । यथा स्वप्नमनोरथं स्वप्नवन्मनोरथवच्च । असदभि-ध्यानमशुभविषयध्यानं हित्वा । नन्वेवं त्वदासक्तिवच् चित्तस्य विषयासक्तिरपि ग्राह्या किमित्यतो वा मन्दाशङ्कां परिहरन्नुपसंहरति तस्मादिति । अज्ञानामपि बुद्ध्यवतारार्थं विषयासक्तिनिदर्शनमुक्तम्, न तु ग्राह्यार्थत्वेनेति यत् तस्मात् । भावो भक्तिः । मयि भक्त्या भावितं तन्मयीकृतम् ॥२८॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ तस्मादिति ॥ यथा स्वप्नमनोरथं तदुभयविषयकमभिध्यानं यथाऽसदमङ्गलं फलाभावात्प्रेक्षावद्भिर्हीयते । यथाऽसतामशुभानां विषयाणामभिध्यानं हित्वा मद्भावेन मयि भक्त्या भावितं, भावनात्वतिवासनेत्युक्तत्वाद्वासितं संस्कृतं मनो मयि सन्धत्स्वेत्यर्थः ॥२८॥

प्रमेयचन्द्रिका

उक्तार्थोपसंहारपूर्वकमवश्यकर्तव्योपदेशः क्रियते ॥ तस्मादिति ॥ असदभिध्यानम् । अभद्रविषयानुचिन्तनम् । स्वप्नवत्स्वप्नमनोरथवदित्यसारतया विमर्शेन हित्वा मद्भावेन मद्भक्त्या भावितं मनो मयि समाधत्स्वेत्यर्थः ॥ २८ ॥

स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।

क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९ ॥

न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥

तात्पर्यम्

‘केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता । त्रिकालदुःखदत्वेन पुंसा सह निवासनात्’ ॥ जुष्टत्वाद्योषिदित्युक्ता वननाद्वनितेति च । प्रमादकरणत्वात्तु प्रमदेति च गीयते । त्यजेत्तत्सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा । न तादृशः क्वचिद्दोषः पुरुषस्या-सुखावहः । क्षुद्रपापानि पापानि चोपपातकपातके । महापातकनामानि सुमहापात-कान्यपि । तथा स्वतिमहान्तानि पातकानि विदो विदुः । पिपीलिकवधादीनि क्षुद्र-पापोदितानि च । पापमस्थिमतां हत्या फलचौर्यादिरेव वा । परदारादिकं चापि ह्युप-पातकसंज्ञितम् । पातकं शूद्रहत्यादि ब्रह्महत्यादिकं महत् । देवस्वहरणादीनि सुमहान्ति विदो विदुः । देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा । महन्महत्तरा तस्या अवज्ञा केशवे तु या । केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि । ब्रह्माद्याः केशवात्मानः श्रीर्वा निर्गुण इत्यपि । मुक्तस्य तद्भावमतिररूपत्वमतिस्तथा । त्रिगुणात्मकदेहोऽस्याप्यस्तीत्यपि तु या मतिः । जन्ममृत्यादिबुद्धिर्वा दुःखज्ञानादिबोधनम् । तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः । अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित् । अस्तीति भावनेत्याद्या अवज्ञाः सम्प्रकीर्तिताः’ इति धर्मविवेके ॥

‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’ । ‘अपि चेत्सुदुराचारो भजते मामनन्यभागि’त्यादि च ॥ ‘बाध्यमानोऽपि मद्भक्त’ इत्यादि च । ‘परदारदृशिः प्रोक्ता क्षुद्रपातकसंज्ञिता । उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् । महापातकसंज्ञं तु पित्रादे-र्दारधर्षणम् । दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः । सुमहापातकं प्रोक्तं तद्गतिः सुमहत् ततः । ऋषिदारेषु मनसो गतिरेव ततोऽधिका । देवदाराभिकामानां सङ्गिसङ्ग-स्ततोऽधिकः । किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः । न समं पातकं क्वापि न हि स्वस्त्र्यभिकामतः । अवज्ञाता माधवादेस्तस्मात्तं दूरतस्त्यजेत् । मानुषेषु तु दुःखित्वं क्षुद्रपापफलं स्मृतम् । पापात्तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा । सहस्रवर्षनरकं क्षुद्रपातकजं फलम् । उपपातकतश्चापि नरकं युगमात्रकम् । चतुर्युगावसानं तु पातकस्य फलं स्मृतम् । महापातकजन्यं च कल्पावधि समीरितम् । सुमहापातकाच्चापि यावद्ब्रह्म-लयो भवेत् । तत्पराणां पातकानां फलमन्धन्तमः स्मृतम् । अधोऽधो दुःखबहुलं विष्णुदाराभिमर्शनात् । वधादपि हि दारस्य धर्षणं कोपकारणम् । तस्माद्देव्यः सदा वन्द्या अग्निवन्नाभिकामत’ इति धर्मतत्त्वे ॥ २९,३० ॥

पदरत्नावली

स्वरूपबाह्यान्तःकरणभोग्यत्वभेदेन द्विविधा विषयाः । तत्र पूर्वे मुक्तावपेक्ष-णीयाः, सांसारिका अनर्थजनकत्वान्मुमुक्षुणाऽवश्यं हेयाः । तथा हि । तत्सेवातिरेकेणेश्वरोऽह-मित्यादिलक्षणा केशवेऽन्यथाबुद्धिर्जायते । जन्मप्रभृति पुरुषेण सह वर्तमानत्वात्, सुखक्षयहेतुत्वेन (च) स्त्र्यादिशब्दवाच्या, रीङ्क्षय इति धातोः । तस्याः सङ्गो येषां ते स्त्रीसङ्गास् तत्सङ्गानां सङ्गो येषामिति स्त्रीसङ्गसङ्गिनः । तेषां सङ्गं दूरतः परिहृत्य मत्सेवैव कर्तव्या ईश्वरो मत्स्वामी तत्किङ्करोऽहमित्यादिलक्षणेति भावेन विषयास्त्यक्तव्या इत्याशयेनाह– स्त्रीसङ्गेति । अनेन स्त्रीरागिणां सङ्गोऽपि परिहर्तव्य इत्युक्तं भवति । ‘‘केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता’’ इत्यादिवाक्यमत्र प्रमाणम् । क्षेमे मङ्गलस्थले ॥

नन्वन्येषु हत्यादिष्वधःपातहेतुषु सत्सु किं विशिष्य स्त्रीसङ्गसङ्गो दूरतस्त्याज्य इत्यत आह न तथेति । यथाऽस्य पुंसः योषित्सङ्गाद् विषयिभिर्जुष्टत्वाद् योषिच्छब्दवाच्याया ईश्वरोऽहमित्या-द्यनेकविधान्यथाबुद्धेरधिकरणलक्षणसङ्गाद् यथा तत्सङ्गिसङ्गतः मिथ्याज्ञानिसेवालक्षणसङ्गात् क्लेशो बन्धश्चान्धन्तमोलक्षणश्च भवेत् तथा अन्यप्रसङ्गतः पिपीलिकादिवधलक्षणान्न भवेदित्यन्वयः । अत्र पातकविशेषास्तत्फलानि च ‘‘परदारदृशिः प्रोक्ता क्षुद्रपातकसञ्ज्ञिता । उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् । महापातकसंञ्ज्ञं तु पित्रादेर्दारधर्षणम् । दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः । सुमहापातकं प्रोक्तं तद्गतिः सुमहत् ततः । ऋषिदारेषु मनसो गतिरेव ततोऽधिका । देवदाराभिकामानां सङ्गिसङ्गस्ततोऽधिकः । किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः । न समं पातकं क्वापि नहि स्वस्त्र्यभिकामतः । अवज्ञाता माधवादेस्तस्मात् तं दूरतस्त्यजेत् । मानुषेषु तु दुःखित्वं क्षुद्रपापफलं स्मृतम् । पापात्तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा । सहस्रवर्षनरकं क्षुद्रपातकजं फलम् । उपपातकतश्चापि नरकं युगमात्रकम् । चतुर्युगावसानं तु पातकस्य फलं स्मृतम् । महापातकजन्यं च कल्पावधि समीरितम् । सुमहापातकाच्चापि यावद् ब्रह्मलयो भवेत् । तत्पाराणां पातकानां फलमन्धन्तमः स्मृतम् । अधोऽधो दुःखबहुलं विष्णुदाराभिमर्शनात् । वधादपि हि दाराणां धर्षणं कोपकारणम् । तस्माद् देव्यः सदा वन्द्या अग्निवन्नाभिकामतः’’ इति धर्मतत्ववचनाद् विशेषः पातकानां फलानां च द्रष्टव्यः ॥ २९,३० ॥

श्रीनिवासतीर्थीया

भक्तस्येत्थम्भावकथनपरे स्त्रीणामिति श्लोके, न तथाऽस्येति (श्लोके) च स्त्रीसङ्गस्य सर्वपापोत्तमत्वमुच्यमानमयुक्तम् । प्रायश्चित्तकाण्डे ब्रह्महत्यादेरेव पापतया स्त्रीसङ्गस्य चोपपातकतयोक्तत्वादित्यतः स्त्र्यादिशब्दविवक्षितार्थं वदन् श्लोकं प्रमाणेनैव व्याचष्टे ॥ केशवे त्वित्यादिना । येति शेषः । स्त्रीत्यत्र स् त्रीत्यक्षरद्वयम् । तत्र त्रिशब्दार्थमाह ॥ त्रीति ॥ अक्षर-साम्यात्त्रि ब्रूयादिति भावः । सकारार्थः पुंसेति ॥ उक्तन्यायादेवेति भावः । योषित्सङ्गादित्यत्र योषिच्छब्दार्थमाह ॥ जुष्टत्वादिति ॥ जुषी प्रीतिसेवनयोः । मिथ्याज्ञानिभिः सेवितत्वादित्यर्थः । वनितासङ्गं प्रमदासङ्गं च त्यजेदिति ग्रन्थान्तरोक्तस्याप्यभिप्रायमाह ॥ वननादिति ॥ वन षण-सम्भक्ताविति धातोर्मिथ्याज्ञानिभिः सम्भजनीयत्वादित्यर्थः । स्त्रीणामिति श्लोकतात्पर्यमाह ॥ त्यजे-दिति ॥ तत्सङ्गं तत्सङ्गिनां सङ्गं चेति योज्यम् । मिथ्याज्ञानिसङ्गं मिथ्याज्ञानिसङ्गिसङ्गं चेत्यर्थः । बुभूषुर्बोद्धुमिच्छुः ।

न तथाऽस्येति श्लोकतात्पर्यमाह ॥ न तादृश इति ॥ तत्सङ्गस् तत्संगिसङ्गसदृशः । भगवद्विषयान्यथाज्ञानस्य सर्वपापोत्तमत्वमुक्तम् । तत्र कानि सर्वपापानि कथं चास्य तदुत्तमत्वमित्य-तस्तानुद्दिश्योदाहरति ॥ क्षुद्रेत्यादिना ॥ सु अतिमहान्ति सुमहत्तरपातकानि । उपलक्षणं चैतत् । महन्महत्तरं चेत्यपि द्रष्टव्यम् । विदो ज्ञानिनः । पातकानीत्यष्टविधानि विदुरित्यर्थः । क्षुद्रपापोदितानि क्षुद्रपापशब्दोदितानि । फलचौर्यादिरेव वा पापमित्यनेनान्वयः । परदारादिकं परदारगमनादिकम् । महन्महापातकम् । सुमहान्ति महापातकानि । सतां चावज्ञा । ततोऽपि देवस्वहरणादेरपि । सुमहत्तरा स्वतिमहान्ति पातकानीत्यर्थः । तरपाऽतिशब्दं व्याचख्यौ । या केशवेऽवज्ञा सा तस्या देवसदवज्ञायाः सकाशान्महामहत्तरेत्यन्वयः । का केशवावज्ञेत्यत्यत आह ॥ केशवस्येत्यादिना ॥ श्रीर्वा केशवात्मिका । निर्गुणः केशवः । तद्भावः केशवाभेदः । बोधनं ज्ञानम् । वशशब्दो धर्मवाची । तथा च तस्य केशवस्य वशादधीनादन्यस्यानधीनस्य कस्यचित्पुंसोऽस्तीति भावना । अस्तित्वेन सत्वादिमत्वेन भावेनेत्यर्थः । भगवदनधीनोऽपि कश्चिदस्तीति भावेनेति यावत् । अवज्ञा केशवस्य ।

ननु केशवावज्ञाकर्तॄणामेव लोकेऽभावस्तस्य फलस्याप्यभावेन तदवज्ञायाः करणत्वस्यैवा-प्रसिद्वत्वात्कथमस्याः सर्वपापोत्तमत्वमित्यत आह ॥ अवजानन्तीति ॥ तथा चात्र गीतायाम् । राक्षसीमासुरीं चेत्यादिनाऽसुराणां तदवज्ञाकर्तॄणां, ततो यान्त्यधमां गतिमिति तदवज्ञाफलस्याप्युक्तत्वेन तदवज्ञाकरणस्य सुप्रसिद्धत्वाद्युक्तं तस्याः सर्वपापोत्तमत्वकथनमित्याशयः ॥ यद्वा । न केवलं मूलरूपावज्ञा कर्तव्या किं त्ववतारेऽपीत्याह ॥ अवजानन्तीति ॥ अथवा । हर्यवज्ञायाः कथं सर्वदोषाधिकत्वमित्याशङ्कायां भगवत्प्राप्तिविरोधित्वात्तमःप्रापकत्वाच्चेति भावेनाह ॥ अवजानन्तीति ॥ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमित्यन्तं वाक्यमत्र ग्राह्यम् ।

ननु स्त्रीणामित्यादिमूले परकीयस्त्रीणां सङ्गं तत्सङ्गिसङ्गं च भक्तस्त्यजेत्तयोः सर्वपापोत्तमत्वादिति प्रतीतार्थ एव स्त्र्यादिशब्दः कस्मान्न स्यादिति चेन्न । अपि चेदिति गीतायां भक्तस्य परस्त्रीसङ्गादि-दुराचारवत्त्वेऽपि साधुरेव स मन्तव्य इति साधुत्वोक्तेर्बाध्यमान इत्यत्रापि परस्त्र्यादिविषयैर्बाध्यमानोऽपि तद्गन्ताऽपि प्रशस्तया हि मद्भक्त्या विषयैर्नाभिभूयत इत्युक्तत्वेनोपपातकं तद्गतिश्चेति प्रमाणे परस्त्रीगमनस्योपपातकत्वमुक्त्वोपपातकश्चापि नरकं युगमात्रकमित्यल्पकालीननरकभोगस्यैव फलतयोक्तेर्न तथाऽस्य भवेत्क्लेशो बन्धश्चेत्यादि मूलोक्तान्धन्तमःप्राप्तिरूपफलोक्त्यनुपपत्तिरित्यतोऽत्र स्त्र्यादिशब्दो न प्रसिद्धस्त्र्यादिपरः किंतु केशवेत्यन्यथाबुद्ध्यादिपर एवेत्याशयेनाह ॥ अपि चेत्यादिना ॥

तथा चेयं श्लोकद्वययोजना ॥ क्षेमे मङ्गलस्थाने । विविक्ते एकान्ते । आसीन आत्मवान्मन-स्व्यधिकारी स्त्रीणां मिथ्याज्ञानिनां सङ्गं त्यक्त्वा मिथ्याज्ञानरहितो भूत्वा तत्सङ्गिनां मिथ्याज्ञानसङ्गिनां सङ्गं च दूरतस्त्यक्त्वाऽतन्द्रितः सन् मां चिन्तयेदित्यर्थः । ननु ब्रह्महत्यादिपातकेषु सत्सु ब्रह्महत्यादि मतां सङ्गं तत्सङ्गिनां सङ्गं च त्यक्त्वेत्यनुक्त्वा किं विशिष्योच्यते स्त्रीणामित्यादि तत्राह ॥ न तथेति ॥ अस्य पुंसोऽन्यप्रसङ्गतोऽन्येषां ब्रह्महत्यादिपापानां तत्सङ्गिनां वा प्रकर्षेण सङ्गतस्तथा क्लेशो बन्धोऽन्धन्तमोलक्षणश्च न भवेत् । तथेति कथमित्यत आह ॥ योषिदिति ॥ योषिच्छब्द-वाच्यमिथ्याज्ञानसङ्गात्तथा तत्सङ्गिसङ्गतो मिथ्याज्ञानिसङ्गिसङ्गतश्च यथा क्लेशो बन्ध-श्चान्धन्तमश्च भवेत्तथेति ।

किं चास्तु स्त्र्यादिशब्दः परस्त्र्यादिपर एव न तूक्तान्धन्तमोरूपफलानुपपत्तिरिति शङ्कायां प्रसिद्धस्त्र्यादिग्रहणेऽपि यथा फलं सङ्गच्छते तथा प्रमाणेन विशदयति ॥ परदारदृशिरित्यादिना ॥ तद्गतिः परदारगतिर्गमनं सम्भोगः । वर्णबाह्येषु गतिर्ब्राह्मणादिवर्णबाह्यस्त्रीगतिः । स्वभावतः स्वापेक्षयोत्तमा ये मानुषा मनुष्योत्तमा इत्यर्थः । तेषां दारदृष्टिरित्यर्थः । तद्गतिर्मनुष्योत्तमानां दारगतिस्ततः सुमहत्तरपापात्सुमहन्महत्तरेत्यर्थः । ततः सुमहन्महत्तरात् सुमहन्महत्तरेत्यर्थः । उपसंहरति ॥ तत इति ॥ मनुष्योत्तमानां योषिदारभ्य विष्णुयोषित्पर्यन्तं सङ्गे पापमुक्तम् । तत्र योषित्सङ्गस्य योऽयं व्यत्ययो व्यत्यासो विष्णुस्त्रियमारभ्य मनुष्योत्तमस्त्रीपर्यन्तरूपस्तत्र स्थितेर्गमनस्य समं पातकं क्वापि नास्ति । स्वापेक्षया सर्वोत्तमत्वेन निर्णीतस्त्रीसङ्गसमं पातकमन्यन्नास्तीत्यर्थः ॥ तथा चेत्थं मूलयोजना ॥ क्षेमे विविक्ते । आसीन आत्मवान् स्त्रीणां स्वोत्तममनुष्योत्तमस्त्रियमारभ्य रमान्तानां सङ्गं तत्सङ्गिनां सङ्गं च त्यक्त्वा मां चिन्तयेदित्यर्थः । वर्णबाह्यस्त्रीगमनादिपापसङ्गं तत्सङ्गिसङ्गत्यागं चानुक्त्वा किं विशिष्याभिधीयते मनुष्योत्तमस्त्रियमारभ्य विष्णुस्त्रीपर्यन्तानां स्त्रीणामिति चेत्तत्राह ॥ नेति ॥ यथा योषित्सङ्गान्मनुष्योत्तमस्त्रियमारभ्य विष्णुस्त्रीपर्यन्तानां योषितां सङ्गा-त्तत्सङ्गिसङ्गतश्च यथा क्लेशो बन्धोऽन्धतमश्च भवेत्तथाऽन्यप्रसङ्गतोऽन्येषां परदाराणां प्रसङ्गतो दर्शनरूपसङ्गतो वर्णबाह्यानां गतिरूपसङ्गतः पित्रादेर्दारधर्षणरूपसङ्गतः । मनुष्योत्तमानां दारदृष्टि-स्तद्रूपसङ्गतश्च क्लेशोऽन्धन्तमश्च फलं न भवेदिति । ननु कुत एवमर्थः । स्त्रीणामिति सामान्योक्तेः । स्त्रीमात्रसङ्गनिषेध एवार्थोऽस्त्विति चेत्तर्हि स्वस्त्रीगमनस्यापि निषेधापत्तेः । अस्त्विति चेत्तत्राह ॥ न हीति ॥ स्वस्य या स्त्री तदभिकामतो माधवादेरवज्ञाता न हि भवति । अतोऽन्धन्तमो-लक्षणोक्तफलानुपपत्तिः । माधवादिस्त्रीणां ग्रहणे तु तद्गमनेन माधवादेरवज्ञाताऽयं भवतीत्युक्तफलं तस्य युक्तमिति न प्रतीतार्थो ग्राह्य इत्याशयः । तं मनुष्योत्तमादिस्त्रीसङ्गिनम् ।

फलतारतम्येनापि पापेषु तारतम्यमित्याशयेन पूर्वोक्तपापादेः फलमाह ॥ मानुषेष्वित्यादिना ॥ तथा पापात् । कल्पो ब्राह्मो दैनन्दिनस्तत्पराणां तदुपरितनानां मनुष्योत्तमदारगत्यादिरूपसुमहत्तरादीनां पातकानां मनुष्योत्तमस्त्रियमारभ्य विष्णुदारपर्यन्तं गमनकामनाभ्यां फलमन्धन्तम इत्युक्तम् । तत्र फलभूतेऽन्धन्तमस्यपि तारतम्यमस्तीत्याह ॥ अधोऽध इति ॥ विष्णुदाराभिमर्शनात् तत्पर्यन्तं मनुष्योत्तमस्त्रीगमनेऽधो विद्यमानं दुःखं बहुलं तमो भवति । तदुत्तमस्त्रीगमने तदपेक्षयाऽधो दुःखबहुलं तमो भवति । विष्णुदाराभिगमने त्वधोधो दुःखबहुलं तमो भवति । यस्य श्रवणेनैव मूर्छादिर्भवति तादृगन्धन्तमो भवतीत्यर्थः । माधवादिस्त्रीगमने माधवादेरवज्ञाता भवतीत्युक्तं तदुपपादयति ॥ वधा-दपीति ॥ स्ववधादपीत्यर्थः ॥ कोपेति ॥ तत्पतीनामित्यर्थः । स्वोत्तमदारदर्शनादेर्निषिद्धत्वे तद्वन्दनाद्यभाव एव प्रसज्यते । वन्दनस्य दर्शनानन्तरभावित्वादित्यत आह ॥ तस्मादिति ॥ यथाऽग्निर्दूरत एव वन्द्यः स्पर्शेन वन्दने दाहः स्यात्तद्वत् । देवीर्दृष्ट्वैता मन्मातृतुल्या इत्यनुसन्धानेन दूरत एव वन्द्याः । एता मया धर्षणीया इत्याद्यभिकामतः कौटिल्येन न वन्द्या इत्यर्थः ॥२९,३०॥

प्रमेयचन्द्रिका

असदभिध्यानं हित्वेत्युक्तम् । तत्र तावन्मिथ्याज्ञानी तत्सङ्गसन्त्यागः कार्य इति वदन् मयि मनः समाधत्स्वेत्युक्तविवरणं क्रियते ॥ स्त्रीसङ्गेनेति ॥ स्त्रीसङ्गतत्सङ्गि-सन्त्यागस्यावश्यकत्वमुपपाद्यते ॥ न तथेति ॥ अत्र स्त्रीसङ्गादेरत्यधिकपापसाधनत्वोक्तिरयुक्ता । ब्रह्माद्या याज्ञवल्क्याद्या मुच्यन्ते स्त्रीसहायिन इत्यादिविरोधात् । परस्त्रीसङ्गोऽत्राभिप्रेत इति चेन्न । तस्याल्पपापहेतुत्वेन स्मृत्यादावुक्तत्वादित्यतः प्रमाणेनैतदभिप्रायमाह ॥ केशवे त्वित्यादिना ॥ तुशब्दः स्त्रीशब्दस्यार्थविशेषद्योतकः । एवेत्यादावुपस्कर्तव्यम् । एवशब्दस्यालौकिकाङ्गनेत्यर्थः । मिथ्याबुद्धेः स्त्रीशब्दार्थत्वमुपपादयति ॥ त्रिकालेति ॥ त्रिशब्दस्त्रिकालपरः । दुःखदत्वेनेति योग्यतयोपस्कृतम् । सकारस्तु सह निवासमाह । योग्यतया पुंसेत्युक्तम् । निर्वचनत्वात् । अप्यक्षर-साम्यान्निरुक्ता भवंतीत्युक्तेः । वर्णागमो वर्णविपर्ययश्चेत्युक्तत्वादिति भावः ।

जुष्टत्वाज् जुषी प्रीतिसेवनयोरिति धातोः पुंभिः सेवितत्वादित्यर्थः । एतेन पञ्चमस्कन्धगतं तमोद्वारं योषितां सङ्गिसङ्गमित्येतदपि व्याख्यातं भवति । तत्र तत्र ग्रन्थेषु वनिताप्रमदादि-सङ्गस्यातिदोषहेतुत्वप्रतिपादकेषु वनितादिशब्देषु मिथ्याज्ञानपर इत्याशयेन वनितादिशब्दं निर्वक्ति ॥ वननादिति ॥ वननात्सम्भजनात् । प्रकृष्टो मदो यया सा प्रमदेत्यर्थः । एतत्सङ्गिनां स्त्र्यादिशब्दवाच्यमिथ्याज्ञानसङ्गिनाम् । मिथ्याज्ञानिनामित्यर्थः । बभूषुर्भवितुमिच्छुः श्रेयोऽर्थीति यावत् । ननु स्त्र्यादिशब्दानां प्रसिद्धोऽर्थः कुतस्त्यज्यत इत्यतो न तथास्य भवेत्क्लेश इति स्त्र्यादिसङ्गवतां नित्यातिदुःखरूपतमःप्राप्त्युक्तेर्मिथ्याज्ञानेन विना दुष्कर्ममात्रेण तमसोऽयोगात् स्त्रीसङ्गादिशब्दो मिथ्याज्ञानवत्वार्थकोऽवश्यं वक्तव्य इत्याशयेनाह ॥ न तादृश इति ॥ परस्त्रीगमनादेरुपपातकत्वेनाल्पदुःखापादकतया प्रमितत्वाच्च ।

तमःप्रापकतयोक्तस्त्र्यादिसङ्गो मिथ्याज्ञानसङ्गपर एवेत्यवश्यं वाच्यमित्याशयेन पापानि विविच्य दर्शयति ॥ क्षुद्रपापानीत्यादिना ॥ स्वतिमहान्तीत्युपलक्षणम् । स्वतिमहत्तमानीत्यपि ग्राह्यम् । उक्तान्यष्टविधपापानि क्रमेणोदाहृत्य दर्शयति ॥ पिपीलिकेति ॥ क्षुद्रपापोदितानि क्षुद्रपापपदे-नोदितानि । फलचौर्यादयश्चेत्येवं समुच्चये वाशब्दः । परदारादिकं परदारगमनादिकम् । सुमहान्ति सुमहापातकानि । ततोऽपि देवस्वहरणादितोऽपि सुमहत्तरा सुमहत्तरपापरूपा एवेत्येतदत्र सम्बध्यते । केशवावज्ञा नाम केत्यत आह ॥ केशवस्येति ॥ श्रीर्वा केशवात्मिकेति शेषः । निर्गुणः केशव इति ग्राह्यम् । तद्भावमतिस्तदेकत्वमतिः । मुक्तस्य केशवस्य चेति योज्यम् । अस्य केशवस्य त्रिगुणात्मकदेहोऽप्यस्तीति या मतिः साऽप्यवज्ञेति योज्यम् । तुशब्दोऽवज्ञाविशेषद्योतकः । तस्य सर्वेश्वरस्यापीति पूर्वत्रोत्तरत्र च सम्बध्यते । तदुत्तमस्तस्माद्धरेरुत्तमः । तस्य वशादिति वशवर्त्ती वश इत्युच्यते । हरेर्वशवर्त्तिनोऽन्यस्यावशवर्त्तिन इति यावत् । कस्यचिदन्यस्यावशवर्त्तिनो विषये अस्तीति भावनेत्यर्थः । यद्वा तस्य वशादिति ल्यब्लोपनिमित्ता पञ्चमी । तस्य वशत्वमपहाय अन्यस्यास्तित्वभावनेत्यर्थः । इत्याद्या इत्यनेन केशवस्य च्छेदभयादियुक्तत्वादिग्रहणम् ॥

भगवद्विषयेऽन्यथामतिरेव तदवज्ञेत्येतद्गीतावचनेनापि दर्शयन्ति ॥ अवजानन्तीति ॥ मम परं भावमजानन्तो मूढा भूतमहेश्वरम् । मानुषीं तनुमाश्रितमित्यवजानन्ति इत्युक्त्या तद्विषय-मिथ्यामतिरेव तदवज्ञेत्युक्तं भवति । अपि चेदिति गीतावचनेन परस्त्रीसङ्गादिदुराचारवता भगव-द्भजकस्य साधुत्वोक्त्या च न प्रसिद्धस्त्रीसङ्गस्य तमःसाधनत्वमत्रोच्यत इति ज्ञायत इत्याशयेन तदुदाहरति ॥ अपि चेदिति ॥ साधुरेव स मन्तव्य इत्याद्युत्तरवाक्यं च ग्राह्यम् । किञ्च बाध्य-मानोऽपि मद्भक्तो विषयैरजितेन्द्रियः । प्रशस्तया हि मद्भक्त्या विषयैर्नाभिभूयत इति पूर्वग्रन्थे स्त्र्यादेर्विषयस्याबाधकत्वोक्तेश्चोक्त एवार्थ इत्याह ॥ बाध्यमान इति ॥

अस्तु स्त्र्यादिशब्दः प्रसिद्धार्थस्तथाऽपि ‘‘न तथाऽस्य भवेत्क्लेश’’ इत्युक्तिः सङ्गच्छते । अत्र स्त्र्यादिशब्देन गुरुदेवतादारादेर्विवक्षितत्वादित्याशयेन मानान्तरमाह ॥ परदारेति ॥ दृशिः कामना । वर्णबाह्येषु कारकरजकादिषु । स्वभावतो मानुषाणां न त्ववतारेण, स्वभावतो योग्यतया स्वोत्त-मानामिति वा । ऋषिदेवस्त्रीणां दर्शनस्यासम्भवात्तासां रूपातिशयादिश्रवणेन मनसा तद्गतिरेव सम्भावितेत्याशयेनोक्तम् ॥ मनसो गतिरित्यादि ॥ किमु विष्णोर्दाराभिकामानां सङ्गिसङ्ग इत्यावृत्या योज्यम् । पातकतारतम्योक्तेः प्रकृतोपयोगसूचनाय तथाऽस्येति मूलतात्पर्यमाह ॥ तथेति ॥ तथा उक्तप्रकारेण । योषित्सङ्गस्य व्यत्ययेन क्षुद्रपातकमारभ्य महत्तमान्तं व्यत्यासेन स्थितेर् निमित्तात् स्त्रीसङ्गादिसमं पातकं नेत्यर्थः । कुत एतावान्प्रयासः स्त्रीसङ्गमात्रस्य निषिद्धत्वं किं न स्यादित्यत आह ॥ न हीति ॥ हि यस्मान्माधवादेरवज्ञैवाधिकदुःखप्रापिका । स्वस्त्र्यभिकामतो माधवादेरवज्ञता न हि तस्मात् स्त्रीसङ्गस्य निषिद्धत्वं न हीत्यर्थः । यद्वा हि यस्मात्स्वस्त्र्यभिकामतो महाक्लेशवान् न हि किन्तु माधवादेरवज्ञातैवाधिकक्लेशवानिति उपस्कृत्य योज्यम् ॥ तथा च प्रसिद्धस्त्रीसङ्गस्याधिक-पापहेतुत्वाभावादिहाधिकपापहेतुत्वेनोक्तस्त्र्यादिशब्देन मिथ्याज्ञानादुत्तमस्त्रीकामनादिकमेवोच्यत इत्याशयेनोपसंहरति ॥ तस्मादिति ॥

परस्त्रीगमनादेर्महादुःखहेतुत्वाभावे किं तत्फलमित्यतः प्रसङ्गात्क्षुद्रपापादीनां सर्वेषां फलान्याह ॥ मानुषेष्विति ॥ तुरेवार्थे तत्पराणां ततोऽधिकानां पातकानां देवावज्ञाऋष्यादिदारकामनादीनाम् । ऋषिदेवविष्णुदारकामनाया अप्यन्धंतम एव फलमिति सर्वत्र फलसाम्यमापन्नमित्यत आह ॥ अधोऽध इति ॥ महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्ये तथाऽधममित्युक्तेर् ऋषिदेवविष्णुदाराणां क्रमेणाधोध-स्तमःप्राप्तिरधोऽधश्च दुःखबहुलम् । अतो न फलसाम्यम् । तत्रापि विष्णुदाराभिमर्शनान्मनसा वाचा रावणादेरिव वाचाऽभिमर्शनाद्वा अतिदुःखबहुलमन्धन्तमःप्राप्तिरिति किमुच्यत इति भावः । उत्तमोत्त-मदारधर्षणस्याधिकदुःखकारणत्वं कुत इत्यत आह ॥ वधादपीति ॥ हीति सर्वानुभवसिद्धतामाह । दारस्य धर्षणम् । अग्निवद्दूरत इत्यर्थः । नाभिकामतः सर्वात्मना कामनयेत्यर्थः ॥ ३० ॥

उद्धव उवाच—

यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् ।

ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥

पदरत्नावली

ध्यायेन्मामतन्द्रित इत्यत्रोक्तं ध्यानप्रकारं पृच्छति यथेति । यादृशं कीदृशम् । यदात्मकं किमात्मकम् ॥ ३१ ॥

श्रीनिवासतीर्थीया

चिन्तयेदिति भगवद्ध्यानमुक्तम् । तत्रैवंविधसाधनोत्तमभक्तिमता कथं ध्येयो भगवानिति पृच्छत्युद्धवः ॥ यथेति ॥ कथमित्यर्थः । केन प्रकारेण केनोपायेन ध्यायेत् । ध्यानोपायः क इत्यर्थः । यादृशं कीदृशं कुत्र स्थितं ध्यायेदित्यर्थः । यदात्मकं किमात्मकं किं गुणविशिष्टमित्यर्थः ॥ ३१ ॥

दुर्घटभावदीपिका

हे अरविन्दाक्ष । मुमुक्षुर्ध्यानं ध्येयं त्वां यथा केन प्रकारेण ध्यायेद्यादृशं कीदृगलकादिविशिष्टं ध्यायेत् । यदात्मकं किं गुणात्मकं ध्यायेदित्येतदित्येतेषां प्रश्नानामुत्तरं त्वं वक्तुमर्हसीति । एतेन यादृशमित्येतद्यदात्मकमित्यनेन पुनरुक्तमिति दूषणं परास्तम् । यादृशमित्यस्य कीदृग्गुणमित्यर्थ इत्यनङ्गीकारात् । एतेनैव यादृशं वेति वाशब्दो व्यर्थ इति चोद्यं प्रत्युक्तम् । वाशब्दस्यैवार्थत्वं त्वमित्यनेनान्वयं चाङ्गीकृत्य त्वमेव वक्तुमर्हसि नान्य इत्यर्थ इत्युच्यत इत्यङ्गीकारात् । एतेनैव इत्येतेषां प्रश्नानामुत्तरं वक्तव्यं तन्नास्तीति न्यूनतेति शङ्का परास्ता । इत्यादेरध्याहारः । एतदित्यत्र सुपां सुलुगिति वचनात् षष्ठीबहुवचनस्य लुगिति चोरीकरणात् । एतेनैव ध्यानमित्येतद्व्यर्थमिति दूषणं पराकृतम् । ध्यानशब्देन ध्यानक्रियोच्यत इत्यनभ्युपगमात्

॥ ३१ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां चतुर्दशोऽध्यायः ॥ ११–१४ ॥

प्रमेयचन्द्रिका

चिन्तयेन्मामित्युक्तध्यानप्रकारप्रश्नपरे यथा त्वामिति श्लोके यच्छब्दः प्रश्ने । यथा केन प्रकारेण यादृशं कीदृशं किमधिष्ठाने स्थितमिति यावत् । यदात्मकं यदेव आत्मा रूपं यस्य तं किं लक्षणकमिति यावत् ॥ ३१ ॥

श्रीभगवानुवाच—

सम आसन आसीनः समकायो यथासुखम् ।

हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२ ॥

पदरत्नावली

समाहितेन मनसा ध्यानं कर्तव्यम् । एतदुपायं प्रथमतो वक्ति सम आसन इत्यादिना ॥ ३२ ॥

श्रीनिवासतीर्थीया

तत्र यथा ध्यायेदिति प्रश्नं तदुपायकथनेन परिहरति ॥ सम इति ॥ आसनविशेषणमिदम् । समे नात्युच्छ्रिते नातिनीचे चैलाजिनकुशोत्तरमित्यर्थः । समकायो ऋजुकायः । यदि ऋजुकायत्वे कस्यचिद्दुःखं तदा ऋजुकायवत्त्वनिर्बन्धो मास्त्वित्यभिप्रेत्याह ॥ यथा सुखमिति ॥ उत्सङ्गेंऽकस्थदोर्द्वय इत्यर्थः । स्वनासाग्रेति दिशोऽनवलोकयन्नित्याशयः ॥३२॥

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ॥ ३३ ॥

पदरत्नावली

विपर्येण रेचकादिक्रमेण ॥ ३३ ॥

श्रीनिवासतीर्थीया

शोधनप्रकारमाह ॥ पूरेति ॥ मध्ये स्थितं कुम्भकं पश्चाद्योज्यम् । पूरकरेचककुम्भकैरित्यर्थः । आदावपानवायोर्वामनासापुटेनोर्ध्वं नयनं पूरकं तदादौ कार्यम् । अन्तस्थितप्राणवायोर्दक्षिणनासापुटेनाधो विसर्जनं रेचकं तत्पश्चात्कर्तव्यम् । नासापुटद्वयरूपं मार्गं निर्बन्ध्य मध्ये स्थितिः कुम्भकम् । कुम्भके स्थितिरेव च प्राणायामोऽनन्तरं कार्यः । पक्षान्तरमाह ॥ विपर्ययेणापीति । रेचकपूरककुम्भकैरित्यर्थः । अयमेव च तन्त्रसारोक्तः पक्षः । यथोक्तम् । प्राणापानौ रेचयित्वा पूरयित्वा च कुम्भके प्राणायाम इति । कुम्भके स्थितिरिति शेषः ॥३३॥

प्रमेयचन्द्रिका

पूरः पूरकः वामनासापुटेन वायुपूरणमिति यावत् । रेचकः दक्षिण-नासिकारन्ध्रेण वाय्वपसरणरूपः रेचयित्वा दक्षिणतः पूरयित्वा च वामत इति तन्त्रसारे । नासिका-रन्ध्रद्वयं बध्वा पूरितवायुधारणं कुम्भकः, अन्त्यो मरुधृतिरित्युक्तेः । विपर्ययेणेति प्राक् पूरक-रेचककुम्भकक्रम उक्तः । तद्विपर्ययेण रेचकपूरककुम्भकरूपेणेत्यर्थः । मूले पूरककुम्भकरेचकै-रित्युक्तत्वेऽपि तन्त्रसारादौ कुम्भकस्यान्तिमत्वं नैय्यत्योक्तेः पूरकरेचकादेरेव विपर्ययो ज्ञेयः । शनैरिति अभ्यासक्रमेणेति भावः ॥ ३३ ॥

हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् ।

प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ ३४ ॥

पदरत्नावली

अत्र प्राणशब्दो द्विरावर्तनीयः । हृदि निरन्तरं प्राणेनोच्चार्यमाणमोङ्कारं घण्टा-नादवत् कर्णरमणीयं बिसोर्णवत् पद्मनालततन्तुवदविच्छिन्नं वायुद्वारा प्रेर्यमाणं प्राणशक्त्योदीर्य उच्चार्य अत्र तत्र हृदि स्थिते प्राणे स्वरमुदात्तलक्षणं पुनर्व्यावृत्तं यथा तथा संवेशयेत् समीचीनं कुर्या-दित्यन्वयः । ऊर्णा भ्रूमध्यमावर्ते तन्तौ मेषादिलोमस्विति यादवः । पुनरप्रथमे प्रश्ने व्यावृत्ताववधारण इति च ॥ ३४ ॥

श्रीनिवासतीर्थीया

कुम्भके स्थितिरूपप्राणायामकाले ॐकारोच्चारणमेव कार्यमित्याह ॥ हृदीति ॥ प्राणेनेत्यस्यावृत्तिः । तथा च हृदि प्राणेन श्रीमुख्यप्राणेनोच्चार्यमाणं प्राणो हृदि स्थितः सर्वदा हरिमोङ्कारेण स्तौति । यो हि कर्णौ पिधाय स्थितपुरुषेण श्रूयते । स्वरूपकथनमेतत् । कीदृशम् । बिसोर्णवद्बिसं पद्मनालं तस्योर्णस्तन्तुवद्विच्छिन्नम् । अवच्छेदेनोच्चार्यमाणमित्यर्थः । घण्टानादं तद्वद्विद्यमानं कर्णरमणीयम् । यद्वा । यथा घण्टावादने सति तन्नाद आदौ तारत-योदात्तस्वरोपेत उत्पद्यते पश्चाच्छनैर्मन्दो भवति । एवं प्राणेन कोष्टवायुशक्त्योदीर्यादौ तारतयोदात्त-स्वरेणोच्चारितमोङ्कारं पश्चाच्छनैः किञ्चिन्मन्दमुच्चार्याथानन्तरं तत्रोङ्कारे पुनरुदात्तस्वरं संवेशयेत् । उदात्तस्वरेणोच्चार्य समापयेदित्यर्थः । यद्वा । घण्टाया अधोभागे वर्तुलेऽयःशलाकादिना परिवृते सत्यादौ मन्दस्वरो जायते पश्चादुदात्तस्वरो जायते । तद्वदादौ मन्दस्वरेणोच्चार्य पश्चाच्छनैरुच्चारयेत्

॥ ३४ ॥

प्रमेयचन्द्रिका

प्राणायामसमये कर्तव्यमुच्यते ॥ हृदीति ॥ हृदि स्थितेन मुख्यप्राणे-नानुज्ञात इति तात्पर्यरीत्या ग्राह्यम् । हृदि निरन्तरं प्राणेनोच्चार्यमाणं हृदि मनसि पूर्वाभ्यास-जनितसंस्काररूपेणावच्छिन्नम् । ओङ्कारं घण्टानादं पद्मनालतन्तुवदविच्छिन्नतया नादबिन्दुघोष-व्यक्तिपूर्वमुच्चार्य प्राणेन स्वशक्तयोदीर्येति सम्बन्धो वा । अथोदात्ततयोच्चारणानन्तरं पुनरेवंविधं स्वरं तत्र हृदि संवेशयेत् संकोचयेत् । शान्तमतिशान्तं च कुर्यादिति भावः ॥ ३४ ॥

एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् ।

दशकृत्वस्त्रिषवणं मासादर्वाग् जितानलः ॥ ३५ ॥

तात्पर्यम्

‘उपास्य प्राणतोऽनुज्ञां हृदिस्थात्प्राप्य सेवकः (सेवतः) । अनुज्ञानन्तरं मासाद्वशे प्राणो भविष्यति । प्रसादभाक्तवं सम्प्रोक्तं प्राणविष्ण्वोर्जयस्त्विति ॥ न हि सर्वविजेतारौ विजेयौ केनचित्क्वचित् । अपेक्षितं फलं येन दीयते तज्जितं त्विति । यथा जिता वसुमती यथा मोक्षपदं जितमि’ति प्रभञ्जने ॥ ३५ ॥

पदरत्नावली

प्रणवेन संयुक्तं प्राणसंयमं प्राणायामम् । मासादर्वाक् मासात् पूर्वमेव । अनिलो जितः प्राणप्रसादं प्राप्त इत्यर्थः । ‘‘उपास्य प्राणतोऽनुज्ञां हृदिस्थात् प्राप्य सेवकः । अनुज्ञानन्तरं मासाद् वशे प्राणो भविष्यति । प्रसादभाक्त्वं सम्प्रोक्तं प्राणविष्ण्वोर्जयस्त्विति । न हि सर्वविजेतारौ विजेयौ केनचित् क्वचित् । अपेक्षितं फलं येन दीयते तज्जितं त्विति । यथा जिता वसुमति यथा मोक्षपदं जितम्’’ इति प्रभञ्जनप्रमाणवचनादुक्त एवार्थः ॥ ३५ ॥

श्रीनिवासतीर्थीया

प्राणसंयमं प्राणायाममभ्यसेत्कुर्यात् । कियद्वारं प्राणायामः कार्य इत्यत आह ॥ दशकृत्वो दशवारमिति ॥ कस्मिन्काले कार्य इत्यत उक्तम् ॥ त्रिषवणमिति ॥ प्रातःसवनमाध्याह्नसवनसायंसवनं चेति त्रिषवणम् । सवनं कालः । मासादर्वाक् मासात्पूर्वम् । एवं प्राणायामाभ्यासवताऽनिलो जितो भवति । अत्र कथमेवं प्राणायामकरणमात्रेण प्राणजय उच्यते । कथं चापराजितस्य प्राणस्य जितत्त्वं कथ्यत इत्यतो जयशब्दार्थमाह ॥ उपास्येति ॥ प्राणाया-मादिना त्वज्जयं संपादयामि ममानुज्ञां देहीति भावेन हृदि स्थितं प्राणमादावुपास्याथ हृदिस्था-त्प्राणतोऽनुज्ञां स्वप्ने वा प्रत्यक्षतो वाऽनुज्ञां प्राप्य तदनन्तरं सेवक एवमनुसन्धानेनोङ्कारोच्चारणपूर्वकं त्रिषवणं दशकृत्वः प्राणायामाभ्यासतो मासात्प्राणो भक्तस्य वशे भविष्यतीत्यर्थः । वशत्वापरपर्यायं जितत्वमेव विवृणोति ॥ प्रसादेति ॥ यथास्थितार्थेऽनुपपत्तिमाह ॥ न हीति ॥ प्रसादे सति तस्मात्फलभाक्त्वमेव तज्जय इत्यत्रार्थे दृष्टान्तं वक्तुमाह ॥ अपेक्षितमिति ॥ येन पुंसा जीयते प्राप्यते तत्फलं तेन पुंसा जितमित्युच्यत इति योज्यम् । वसुमती भूमिः । भूम्यपेक्षावता राज्ञा तत्प्राप्त्यनन्तरं वसुमती जितेत्युच्यते । मोक्षपदं स्थानं जितमधिकारिणेत्युच्यते । एवमित्यर्थः

॥ ३५ ॥

प्रमेयचन्द्रिका

कियद्वारमेवंविधः प्राणायामः कार्य इत्यत उच्यते ॥ एवमिति ॥ त्रिषवणं त्रिकालं प्रत्येकं दशकृत्वः । एवं मुख्यप्राणाभ्यनुज्ञां मनसा स्वीकृत्य तदन्तर्गतहरिप्रीतिमुद्दिश्य प्रतिदिनं त्रिंशतिप्राणायामाचरणे सति मासात्पूर्वमेव प्राणो जितो भवेदित्यर्थः । अत्रानिलशब्दस्य जडार्थत्वभ्रान्तिं निवारयन्मुख्यस्याभिभवविषयत्वाद्विवक्षितं जयं तदर्थकत्वे युक्तिं च प्रमाणेनाह ॥ उपास्येति ॥ सेवतः प्राणायामेनेति शेषः । प्रसादभाक्तवं कथं जयशब्दार्थ इत्यत आह ॥ अपेक्षितेति ॥ जयो नाम स्वसंकल्पितफलावाप्तिः । तथा च स्वसङ्कल्पितं वस्तु येन प्राप्यते तेन तद्वस्तु जितमित्युच्यत इत्यर्थः । तत्र प्रयोगं दर्शयति ॥ यथेति ॥ यथा भूमेर्जयो नाम भूनिमित्तकफललाभ एव यथा मोक्षजयः श्वेतद्वीपादावानन्दावाप्तिस्तथा विष्णोर्वायोर्जयोऽपि तत्प्रसादेन स्वापेक्षितफलप्राप्तिरेवेति भावः ॥ ३५ ॥

हृत्पुण्डरीकमन्तःस्थमूर्ध्वनालमधोमुखम् ।

ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् ॥ ३६ ॥

कर्णिकायां न्यसेत् सूर्यसोमाग्नीनुत्तरोत्तरम् ।

वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् ॥ ३७ ॥

पदरत्नावली

कथं स्थितं त्वामिति प्रश्नं परिहरति हृत्पुण्डरीकेति ॥ यादृशमिति प्रश्नं परिहरति वह्निमध्य इति ॥ ३६,३७ ॥

श्रीनिवासतीर्थीया

यादृशमित्यस्य परिहारं वक्तुमुच्यते ॥ हृत्पुण्डरीकेति ॥ देहान्तः स्थितं वस्तुत ऊर्ध्वनालमधोमुखं हृत्कमलं योगसामर्थ्येन कोष्टवायुनोर्ध्वमुखमधोनालं कृत्वाऽत एवोन्निद्रं विकसितमष्टपत्रं सकर्णिकं ध्यायेत् । अनेनोर्ध्वनालाधोमुखकमलस्याधोनालोर्ध्वमुखत्वेन ध्यानेऽविद्यमान-ध्यानमिति कुचोद्यानवकाशः । ऊर्ध्वनालाद्युपेतमेव तद्धृत्पद्मं वायुबलेनाधोनालाद्युपेतमेव वास्तवं भवतीत्यङ्गीकारादिति सम्प्रदायात् । ध्यात्वा च तस्यां कर्णिकायां सूर्यमण्डलं तदुपरि सोममण्डलं तदुपर्यग्निमण्डलमित्युत्तरोत्तरं सूर्यसोमाग्नीन् न्यसेदित्यर्थः । वन्हिमण्डलमध्ये ॥ ३६,३७ ॥

प्रमेयचन्द्रिका

यादृशमिति पृष्टमधिष्ठानमुच्यते ॥ हृदीति श्लोकद्वयेन ॥ अधोमुखमिति ॥ किञ्चिदधोमुखतया स्थितमित्यर्थः ॥ ३६,३७ ॥

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।

सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८ ॥

समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।

हेमाम्बरं घनश्यामं श्रीवत्सं श्रीनिकेतनम् ॥ ३९ ॥

शङ्खचक्रगदापद्मवनमालाविभूषितम् ।

नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४० ॥

द्युमत्कीरीटकटककटिसूत्राङ्गदैर्युतम् ।

सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणम् ।

सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥

पदरत्नावली

यदात्मकमित्यस्य परिहारः प्रशान्तमित्यनेन सूचितः । निर्दोषप्रकृष्टानन्द-स्वभावमित्यर्थः ॥ ३८ ॥

श्रीनिवासतीर्थीया

यदात्मकमिति प्रश्नस्योत्तरमाह ॥ सममित्यादिना ॥ मया सहितः समस्तम् । श्रीवत्सं श्रियो निकेतनमाश्रयम् ॥ द्युमत्कान्तिमत् । दिवु क्रीडेति धातोः

॥ ३८–४१ ॥

प्रमेयचन्द्रिका

वह्निमण्डलमध्ये एतद्वक्ष्यमाणं यदात्मकमित्यस्योत्तरं सममित्यादि । सर्वाङ्गेषु मनो दधत् पुरुषो ध्यायेदिति योज्यम् ॥ ३८–४१ ॥

इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनाः ।

बुद्ध्या सारथिना धीरः प्रणमेन्मयि सर्वतः ॥ ४२ ॥

तत् सर्वं व्यापकं चित्तमाकृष्यैकत्र धारयेत् ।

नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेन्मुखम् ॥ ४३ ॥

तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् ।

तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥

तात्पर्यम्

‘व्योमेति व्याप्तशब्दः स्याद्विशेषादोतता यत’ इति शब्दनिर्णये ॥ व्योमि्न धारयेत् सर्वाङ्गेषु धारयेदित्यर्थः । तच्च धारणं त्यक्तवा स्वत एव मनसस्तत्रैव समाहितत्वादन्यत्किमपि न चिन्तयेत् । ‘यावत्समग्रस्मरणमचलं केशवे भवेत् । समग्रं चिन्तयेत्तावद्यदा तु विचलेत्ततः । प्रत्यङ्गं धारणं कुर्यान्मनो यावत्समग्रगम् । प्रत्यङ्गा-भ्यासतो यावत्समग्रे सुस्थिरं मनः । तदा पुनः समग्रं तु धारयेद्यत्नतो बुधः । यदा तु धारणोऽत्साहं विना तत्राचलं मनः । तिष्ठेत् त्यक्तवा तदु(मु)द्योगं शङ्खचक्राम्बुजाङ्किते । आरूढचेताः परमेशृृङ्गाराद्येकधामनि । नैवान्यच्चिन्तयेत्तस्मात्पूर्णानन्दाच्चतुर्भुजात् । यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम् । धारणार्थप्रयत्नेन तस्मात्तदुभयं त्यजेत् । यावत्स्वारूढचेताः स्याद्विष्णो रूपे चतुर्भुज’ इति ध्यानयोगे ॥ ४४ ॥

पदरत्नावली

विषयपाशाकृष्टत्वेन विवशेन्द्रियैर्विषयध्यानं कथमुपपद्यत इत्यतस्तदुपायमाह इन्द्रियाणीति । तस्मिन् ध्येय एव स्थितमनाः ॥ सर्वव्यापकं सर्वाङ्गविषयकचित्तमाकृष्यैकत्र एकस्मिन् मुखाद्यवयवे । सर्वावयवस्मरणाशक्तावेकस्मिन्नवयवे धारयेदित्यर्थः ॥ तत्र मुखादौ लब्धपदमाकृष्य व्योमि्न सर्वाङ्गेषु धारयेदित्यर्थः । ‘‘व्योमेति व्याप्तशब्दः स्याद् विशेषादोतता यतः’’ इति वचनात् । विशेषादोतत्वमवयवानामित्यर्थः । मय्येव मनस आरोहो यस्य स मदारोहः पुरुषः । तच्च धारणलक्षणं ध्यानं त्यक्त्वा स्वत एव मनसस्तत्रैव समाहितत्वादयत्नेन जलधौ गङ्गाप्रवाहगमनवच्चिन्तयेत् । नान्यत् किमपि चिन्तयेत् । तदुक्तम् ‘‘यावत् समग्रस्मरणमचलं केशवे भवेत् । समग्रं चिन्तयेत् तावद् यदा तु विचलेत् ततः । प्रत्यङ्गधारणं कुर्यान्मनो यावत् समग्रगम् । प्रत्यङ्गाभ्यासतो यावत् समग्रे सुस्थिरं मनः । तदा पुनः समग्रं तु धारयेद् यत्नतो बुधः । यदा तु धारणोत्साहं विना तत्राचलं मनः । तिष्ठेत् त्यक्त्वा तमुद्योगं शङ्खचक्राम्बुजाङ्किते । आरूढचेताः परमे शृङ्गाराद्येकधामनि । नैवान्यच्चिन्तयेत् तस्मात् पूर्णानन्दाच्चतुर्भुजात् । यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम् । धारणार्थं प्रयत्नेन तस्मात् तदुभयं त्यजेत् । यावत् स्वारूढचेताः स्याद् विष्णो रूपे चतुर्भुजे’’ इति

॥ ४२–४४ ॥

श्रीनिवासतीर्थीया

ननु विषयाकृष्टैरिन्द्रियैस्तद्ध्यानं कथमुपपद्यत इत्यत आह ॥ इन्द्रियाणीत्यादिना ॥ अत्र व्योम्नयाकाशे इत्यन्यथाप्रतीतिनिवारणाय व्योमशब्दार्थं प्रमाणेनाह ॥ व्योमेति ॥ व्योमेति शब्दो व्याप्तशब्दार्थकः । कुत इत्यत आह ॥ विशेषादिति ॥ वीत्यस्यार्थः ॥ विशेषादिति ॥ ओमेत्यस्यार्थः ॥ ओततेति ॥ प्रमाणेन निरुच्य तदनूद्य तात्पर्यार्थमाह ॥ व्योम्नीति ॥ एकाङ्गापेक्षया मिलितानां सर्वाङ्गानां विशेषेणोतत्वाद्व्योमशब्दवाच्यत्वं द्रष्टव्यम् । तच्च त्यक्त्वा मदारोहेन किञ्चिदपि चिन्तयेदिति विरुद्धमुच्यत इत्यतो यथावद्योजयति ॥ तच्च धारणमिति ॥ धारणोत्साहम् । अयं तच्च त्यक्त्वेत्यस्यार्थः । मदारोहमित्यस्य तात्पर्यम् ॥ स्वत एवेत्यादि ॥ न किञ्चिदपीत्यस्यार्थः ॥ अन्यदित्यादि ॥ तमेव चिन्तयेत् । धारणार्थं यत्नं च न कुर्यादिति शेषः । एवं स्ववाक्येन व्याख्याय प्रमाणेन सम्यग्व्याचष्टे ॥ यावदिति ॥ केशवे यावतः समग्रस्यावयवस्य स्मरणं यथा चलं भवेत्तावत्समग्रं तावन्तं समग्रमवयवमादौ चिन्तयेत् । ततः समग्रावयवात् । यावत्पर्यन्तं मनः समग्रावयवगं भविष्यति तावत्पर्यन्तं प्रत्यङ्गधारणमेकैकाङ्ग-धारणोत्साहम् । यावद्यदा सुस्थिरं स्यात् । अनेन मदारोह इत्यस्य तात्पर्यमुक्तम् । समग्रं धारयेत् । समग्रावयवधारणोत्साहं कुर्यात् । तदुद्योगं धारणे प्रयत्नम् । किमन्यचिन्तने बाधकमित्यत आह ॥ यत इति ॥ अन्येति ॥ भगवदन्यविषयेत्यर्थः। तस्माद्धरेः पूर्वं सुस्थिरं मनोऽन्यस्मरणे धारणार्थं प्रयत्ने च क्रियमाणे सति तेन विक्षेपप्राप्त्या तस्माच्चलतीत्यर्थः । उपसंहरति ॥ तस्मादिति ॥ उभयमन्यस्मरणं धारणे प्रयत्नं च । कदा त्यजेदित्यत आह ॥ यावदिति ॥ यदेत्यर्थः । तदा त्यजेदित्यन्वयः ॥

तथा चेत्थं श्लोकत्रययोजना ॥ सारथिभूतबुद्धियुक्तमनसेन्द्रियाणि विषयेभ्य आकृष्य तन्मनो मयि सर्वतः सर्वत्र मदीयसमग्रावयवेष्वेवादौ प्रणयेत् । समग्रावयवमेवादौ चिन्तयेदिति यावत् । सर्वव्यापकं सर्वावयवव्यापकं तच्चित्तं सर्वावयवस्मरणाशक्तौ समग्रावयवादाकृष्यैकत्रैकस्मिन्नवयवे धारयेत् । धारणोत्साहं कुर्यात् । यदा सुस्मितं मुखं भावयेत् । उपलक्षणमेतत् । मुखाद्येकैकाङ्गचिन्तन-कालेऽन्यद्रूपं पादाद्यङ्गं न चिन्तयेत् । तत्रैकैकाङ्गे लब्धस्वरूपम् । सुस्थिरमिति यावत् । एकैकाङ्गा-दाकृष्य व्योमि्न सर्वाङ्गेषु धारयेत् सर्वाङ्गधारणोत्साहं कुर्यात् । यदा मदारोहो मय्यारोहो यस्य स तथा । समग्रावयवचिन्तनः । तत्रैवोत्साहं प्रयत्नं विना सुस्थिरमनस्कस्तदा तच्च धारणं धारणप्रयत्नं त्यक्त्वा न किञ्चिद्भगवदन्यत्किञ्चिदपि विषयादि न चिन्तयेत् । अन्यचिन्तने धारणोत्साहे च चित्तं तस्माच्चलेदतस्तदुभयं त्यक्त्वा चतुर्भुजत्वाद्युपेतभगवद्रूप एवारूढचेताः स्यादित्यर्थः

॥ ४२–४४ ॥

प्रमेयचन्द्रिका

प्राधान्येन ध्यानोपायः प्रत्यवहार इत्युच्यते ॥ इन्द्रियाणीति ॥ इन्द्रियार्थेभ्य इन्द्रियाण्याकृष्य मध्ये प्रधानमाकृष्टं तन्मनाः सारथिवदनुकूलबुध्या निश्चयरूपान्तःकरणेन मयि सर्वतः सर्वाङ्गेषु प्रणयेत् । तच्च सामान्यतः सर्वाङ्गेषु व्यापकं चित्तं तेभ्योऽङ्गेभ्य आकृष्य एकैकस्मिन्नवयवविशेषे विशेषतो धारयेत् । एकैकांगध्यानकाले तत्र ध्यानस्य सुदृढनिरूढताप्राप्तिपर्यन्तं नान्यान्यङ्गानि चिन्तयेत् । किन्तु भूयो भूयस्तदेव ध्यायेत् । एवं पादाद्यङ्गानि ध्यात्वा क्रमेण तत्तज्जये लब्धे अन्ते सुस्मितं मुखं भावयेत् ॥ तत्र मुखपर्यन्तमेकैकस्मिन्नङ्गे लब्धपदम् अयत्नादेव ध्यानपर्यवसन्नं चित्तमाकृष्य व्योमि्न धारयेदित्यर्थः । अत्र व्योम्नीत्यस्याकाशार्थकत्वभानात्तस्य चासङ्गतत्वात्तद्विवक्षितमर्थं प्रमाणेनाह ॥ व्योमेति ॥ व्योमेत्ययं शब्दो व्याप्त इत्यर्थकशब्दः स्यात् । कथं विशेषेणोतमित्यर्थकमकारप्रत्ययेन विशेषेणोतता यतो व्योमशब्दार्थो ऽत इत्यर्थः । व्योमपदप्रातिपदिकार्थमभिधाय व्योमि्न धारयेदित्यनूद्यार्थमाह ॥ व्योम्नीति ॥ सर्वाङ्गवैशिष्ट्यं व्याप्तिः । तथा च व्योम्नीत्यस्य सर्वाङ्गेष्वित्यर्थो लभ्यत इति भावः । तच्च त्यक्त्वेति ध्यानत्यागो भाति स चायुक्त इत्यतो व्याचष्टे ॥ तच्चेति ॥ धारणमिह ध्यानं विवक्षितम् । न तु खण्डस्मृतिः । सर्वाङ्गध्यानस्यैव प्रकृतत्वात् । तथा प्रयत्नपूर्वकध्यानपरिपाके स्वत एव प्रयत्नं विनैव तत्रैव परमात्मन्येव मनसः समाहितत्वादप्रयत्नेनैव विशिष्टध्यानलाभादन्यत्र धारणार्थप्रयत्नोपयुक्तं वा यत्किंचिन्न चिन्तयेदिति मूलार्थ उक्तो भवति ॥

ननु तत्सर्वं व्यापकं चित्तमाकृष्यैकत्र धारयेदिति सर्वाङ्गेषु सक्तं मन आकृष्यैकैकाङ्गेषु धारयेदित्युक्त्वा तत्र लब्धपदं चित्तमित्येकैकाङ्गविषयं मन आकृष्य व्योमि्न सर्वाङ्गेषु धारयेदिति विरुद्धमुच्यत इत्याशङ्क्य प्राक् प्राप्तसमग्रध्यानस्य चञ्चलत्वे तत्यागेनैकाङ्गध्यानमभ्यस्य तद्दार्ढ्यानन्तरं पुनः पुनः समग्रध्यानकरणे निश्चलध्यानलाभात्तदर्थं प्राक् प्राप्तचञ्चलध्यानपरित्यागोऽभिधीयते । उत्तरत्र तु सुदृढसर्वाङ्गध्यानस्य कर्तव्यतोच्यते । अतो न विरोध इत्याशयेन तत्र प्रमाणमाह ॥ यावदिति ॥ यद्वा तदा तत्वातिध्यानोपक्रमदशायाम् अभ्यासपाटवाभावाद्वा तद्वतोऽपि बहुदुरितवशाद्वा यदा भगवतो मनो विचलेत्तदा यावन्मनः समग्राङ्गनिष्ठं निश्चलतया भवति । तावत्प्रत्यङ्गधारणं कुर्यात् । यदा तु प्रत्यङ्गधारणाभ्यासवशात्समग्राङ्गे हरौ मनः सुस्थिरं भवति । ततो यत्नतो यत्नपूर्वकं पुनः समग्रं ध्यायेत् । यदा पटुतरध्यानाभ्यासबलाद्धारणोत्साहं ध्यानप्रयत्नं विना तत्र सर्वाङ्गे हरौ मनो निश्चलं सत्तिष्ठेत् । तदा तमुद्योगं ध्यानप्रयत्नं त्यक्त्वा शङ्खचक्रेत्याद्युक्तविशेषणविशिष्टे स्वयोग्यानन्दादिसहितगुणे हरौ सम्यक् आरूढचेताः सन् ततोऽन्यन्नैव चिन्तयेत् । तत्र निमित्तमाह ॥ यत इति ॥ कदा त्याग इत्यत उक्तं विशदयति ॥ यावदिति ॥ एतेन तत्सर्वं व्यापकमित्यादिश्लोकद्वयं व्याख्यातं भवति । तत्प्रकारस्य स्पष्टत्वान्नोपपादनं कृतम् ॥ ४४ ॥

एवं समाहितमतिर्मामेवात्मानमात्मनि ।

विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥

तात्पर्यम्

परमात्मानं मां स्वदेहे पश्यन्ति । जीवज्योतिर्मयि संयुतं प्रपश्यति । ‘समाधियोगे सम्पूर्णे हृदि पश्यति केशवम् । जीवं तत्प्रतिबिम्बं च तेनैव सह संस्थितम् । तदाधारं तदन्तस्थं तेनैव सदृशं तदा । आनन्दज्ञानशक्त्याद्यैः सदा तदवरं गुणैः । जीवन्मुक्तौ च मुक्तौ वा सततं तद्वशे स्थितमि’ति । ‘स्वयं प्रकाशरूपत्वा-ज्जीवोऽपि ज्योतिरुच्यत’ इति च तत्त्वप्रतिपत्तौ ॥ ४५ ॥

पदरत्नावली

उपासनाफलमाह– एवमिति । एवं निरन्तराभ्यासरतः प्रतिदिनं प्रवृद्धप्रेम्णा मय्येव समाहितमतिस्तत्परिपाके सत्यात्मनि देहे आत्मानं ज्ञानाद्यभीष्टदातृत्वेन स्वामिनं मामेव विचष्टे जीवात् पृथक् स्थितं पश्यति । वि निषेधे पृथग्भावे इति यादवः । सर्वात्मन् सर्वस्वामिनि ज्योतिषि ज्योतिर्मये मयि संयुतं मदाधारतया स्थितं तस्माज् जातं तस्मिन्नेवोतमिति ज्योतिर्जीवं पश्यति । तारतम्येन बिम्बभावेन स्थितास्तत्वाभिमानिनो देवता दृष्ट्वा सर्वाधारं मामन्ते पश्यतीति भावः । ‘‘समाधियोगे सम्पूर्णे हृदि पश्यति केशवम् । जीवं तत्प्रतिबिम्बं च तेनैव सह संस्थितम् । तदाधारं तदन्तःस्थं तेनैव सदृशं सदा । आनन्दज्ञानशक्त्याद्यैः सदा तदवरं गुणैः । जीवन्मुक्तौ च मुक्तौ च सततं तद्वशे स्थितम्’’ इत्येतदत्र मानम् । ‘‘स्वयं प्रकाशरूपत्वाज्जीवोपि ज्योतिरुच्यते’’ इति च ॥ ४५ ॥

श्रीनिवासतीर्थीया

ध्यानफलं कथ्यते ॥ एवमिति ॥ इममन्यथाप्रतीतिपरिहाराय व्याचष्टे ॥ परमात्मानमिति ॥ स्वदेहे स्वरूपदेहे । स्वस्य बाह्यदेहे चेत्यर्थः । तथा ज्योतिर्ज्योतिषि संयुतमित्येतत्प्रकृतासङ्गतमित्याशङ्क्य तदर्थमाह ॥ जीवज्योतिरिति । तेन ज्योतिरिति द्वितीयान्तं जीववाची । ज्योतिषीति परमात्मवाचीत्युक्तं भवति । तत्र प्रमाणमाह ॥ समाधीति ॥ तेनैव केशवेनैव । स एवाधारो यस्य स तथोक्तः । तदन्तस्थं केशव एव नियामकत्वेनान्तस्थो यस्य स तथा । आनन्दज्ञानशक्त्याद्यैः सदा तेनैव केशवेनैव सदृशमिति सततं तद्वशे स्थितमित्येताभ्यां प्रतिबिम्बत्वं व्याख्यातं भवति । तथा चैवं मयि सम्यगाहितमतिर्ज्ञानी ध्यानपरिपाकानन्तरमात्मानं मामात्मनि स्वरूपदेहे हृदये बाह्यदेहहृदये च विचष्टे । प्रतिबिम्बं जीवं स्वस्वरूपं मदाधारत्वादिना पश्यतीत्यर्थः ॥ ४५ ॥

प्रमेयचन्द्रिका

समाधिप्रकारमुक्त्वा तया चापरोक्षज्ञानं भवतीत्युच्यते ॥ एवमिति ॥ अत्रात्मानं जीवस्वरूपभूतं मामात्मनि स्वस्मिन् विचष्टे । सर्वात्मनि सर्वाभिन्ने ज्योतिषि मयि सुंयक्तमेकीभूतं जीवज्योतिर्विचष्ठ इति केचिद्व्याचक्षते । तदयुक्तम् । आत्मनि मां मयि जीवज्योतिरिति भेदस्यैव स्फुटं भानादित्याशयेन यथावद्व्याचष्टे ॥ परमात्मानमिति ॥ एतेनात्मानमित्यात्मशब्दो भगवत्परः । आत्मानीत्ययं देहपरमित्युक्तं भवति । ज्योतिरित्यस्यार्थो जीवज्योतिरिति ॥ ज्योतिषीत्यस्य मयीति ॥ आवृत्तस्य विचष्ट इत्यस्यार्थः ॥ पश्यतीति ॥ अत्र प्रमाणमाह ॥ समाधीति ॥ एवं समाहितमतिरित्यस्य तात्पर्यम् ॥ समाधियोगे सम्पूर्ण इति ॥ आत्मनीत्यस्य व्याख्यानं हृदीति ॥ मयि संयुक्तं ज्योतिरित्यस्यार्थो जीवं तत्प्रतिबिम्बमित्यादि ॥ ज्योतिषि मयीत्यस्यार्थस् तदाधारं तदन्तस्थमिति । जीवेश्वरयोरुभयोरपि ज्योतिष्ट्वोक्तिलब्धार्थकथनम् ॥ तेनैव सदृशमिति ॥ नात्यन्तिकसादृश्यमित्याशयेनोक्तम् ॥ आनन्देत्यादि ॥ सततमित्यस्य विवरणं जीवन्मुक्तौ चेति ॥ यद्वा सततमित्यनादिकालादारभ्येत्यर्थः । तत्त्वप्रतिपत्तिरिति ग्रन्थविशेषस्य संज्ञा । तत्प्रतिपत्ताविति क्वचित्पाठः । तत्रापि ग्रन्थविशेषसंज्ञैव ।

सोऽयं मूलार्थः । एवमुक्तरीत्या समाहितमतिः समाधिपूर्तिमानधिकारी आत्मनि स्वदेहे आत्मानम् आनन्दज्ञानशक्त्यादिगुणपरिपूर्णं मामेव विचष्टे पश्यति । सर्वात्मन् सर्वाधारे ज्योतिषि संयुक्तं जीवज्योतिर्विचष्ट इति ॥ ४५ ॥

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ्रमः ॥ ४६ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे चतुर्दशोऽध्यायः ॥

**तात्पर्यम् **

द्रव्यज्ञानक्रियाविषये भ्रमरूपं मनो लयं याति ॥ ४६ ॥

पदरत्नावली

दर्शनफलमाह– ध्यानेनेति । सुतीव्रेण निशितेन इत्थमुत्पन्नध्यानेन निदिध्यासनेन दर्शनेन युञ्जतः सर्वस्मात् प्रेष्ठोऽयमिति ध्यायतो योगिनो ज्ञानिनो द्रव्यज्ञानक्रियाभ्रमः मदीयोऽयमिति देहविषये ज्ञानेन्द्रियकर्मेन्द्रियविषये च भ्रमतीति भ्रमरूपं प्राकृतं मनो निर्वाणं नाशामाशु संयास्यति यातीत्यन्वयः ॥ ४६ ॥

॥ इति श्रीविजयध्वजतीर्थभिक्षुविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य चतुर्दशोऽध्यायः ॥

श्रीनिवासतीर्थीया

दर्शनफलं कथयितुं प्रवृत्ते ध्यानेनेति श्लोके द्रव्यज्ञानक्रियाभ्रम इत्येतदन्यथाप्रतीतिपरिहाराय व्याचष्टे ॥ द्रव्येत्यादि ॥ भ्रमरूपं भ्रमति । भ्रमु सञ्चलने । चलत्यहङ्कारादिकारित्वेन प्रवर्तत इत्यर्थः । तथा च योगिनोऽपरोक्षज्ञानिनः । इत्थं सुतीव्रेण ध्यानेना-सम्प्रज्ञातसमाधिना । मयि मनो युञ्जतः । द्रव्यं देहो ज्ञानं ज्ञानेन्द्रियं क्रिया कर्मेन्द्रियं द्रव्यादिषु भ्रमति । अहं कर्ता मदीयोऽयमित्याद्यहङ्कारममकारादिकारित्वेन प्रवर्तत इति द्रव्यज्ञानक्रियाभ्रमो भ्रमरूपं प्राकृतान्तःकरणमाशु निर्वाणं नाशं यास्यति मुक्तो भवतीति यावदित्यर्थः ॥ ४६ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ ११–१४ ॥

प्रमेयचन्द्रिका

उक्तापरोक्षज्ञानफलमुच्यते ॥ ध्यानेनेति ॥ अत्रान्वयाप्रतीतेर्मुक्तौ मनसो नाशे भोगाभाव इत्याशङ्कां परिहरन्व्याचष्टे ॥ द्रव्येति ॥ द्रव्यं देहादि । ज्ञानक्रियापदाभ्यां ज्ञानेन्द्रियकर्मेन्द्रियाण्युच्यन्ते । तद्विषयकभ्रमरूपं भ्रमोपादानभूतमिति यावत् । भ्रममित्यस्य तात्पर्यं भ्रमरूपमिति ॥ निर्वाणमित्यस्यार्थो लयमिति ॥ तत्वप्रतिपत्तावित्येतदत्र वा संबध्यते । तथाहि । ननु भ्रमनाशोऽधिष्ठानतत्वज्ञानेनैव भवति । न तु ज्ञानेनेत्याशङ्क्येदमुक्तम् । तत्वस्यापि जीवस्यास्वातन्त्र्यप्रतिपत्तौ सत्यां द्रव्याद्यधिष्ठानज्ञानेन द्रव्यादिविषयभ्रमो लयं यातीत्यर्थः । तत्प्रतिपत्तावप्येवं व्याख्येयम् ।

तदयं मूलार्थः । सुतीव्रेण सन्ततानुवृत्तेनेत्थमुत्पन्नेन समाधिरूपध्यानेन मनो मयि युञ्जतो योगिनः द्रव्यज्ञानक्रियात्मकं देहेन्द्रियादिविषयकमदीयत्वादिविषयकभ्रमरूपं मन आशु निर्वाणं विलयमाशु यास्यतीति । तथा च भ्रमादिरूपजडमनोनाशे स्वरूपमनसैव परमानन्दं भुङ्क्त इति भावः

॥ ४६ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां चतुर्दशोऽध्यायः ॥