१३ त्रयोदशोऽध्यायः

सत्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः

श्रीभगवानुवाच—

सत्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः ।

सत्वेनान्यतमौ हन्यात् सत्वं सत्त्वेन चैव हि ॥ १ ॥

पदरत्नावली

संसारच्छेदकरं बाह्यान्तःकरणजं ज्ञानं स्वधर्मिणमपि विनाश्य स्वयं च नश्यतीत्युक्तम् । तत् प्रपञ्चयन् भक्तेरुत्पत्तिप्रकारादिकं कथयत्यस्मिन्नध्याये । तत्र सत्वादिगुणा आत्मनो बुद्धेः किं वेति संशये भगवान् निर्धारयति सत्वमिति । बुद्धेरन्तःकरणस्य, विद्यमाना इति शेषः । नात्मनो जीवस्य तत्र सात्विकादिभेदेनान्तःकरणं त्रिविधम् । ततः किम् । तत्राह– सत्वेनेति । सत्वेन सत्वगुणविशिष्टान्तःकरणेन अन्यतमौ राजसतामसभावौ हन्यात् । सत्वं सात्विकमन्तःकरणं सत्वेन तज्जनितज्ञानेन हन्यात् ॥ १ ॥

श्रीनिवासतीर्थीया

प्राकृतान्तःकरणजापरोक्षज्ञानं संसारं विनाश्य स्वयमपि नश्यतीत्युक्तम् । तद्वेणुसङ्घर्षज इत्यादिना प्रपञ्चयितुमादौ भक्त्युत्पत्तिप्रकारादिकं कथयत्यस्मिन्नध्याये । तत्राह भगवान् ॥ सत्त्वमिति ॥ बुद्धेः प्रकृतेरन्तःकरणस्य वाऽऽत्मनो जीवस्वरूपस्य । तथा चान्तःकरणमेव सात्त्विकादिभेदेन त्रिविधम् । तथा च सात्त्विकाद्यन्तःकरणानुसारेण प्रवृत्तिवज्जीवस्वरूपमपि सात्त्विकादिकमुच्यते । तथा गीतायामपि । यो यच्छ्रद्धः स एव स इत्यत्र सात्त्विकश्रद्धः सात्त्विक इत्यादीत्युच्यते । तत्रापि सात्त्विकश्रद्धानुकूलवृत्तिमान् जीवः सात्त्विक इत्यादि द्रष्टव्यम् । ततः किमित्यत आह ॥ सत्त्वेनेति ॥ सात्त्विकान्तःकरणेनान्यतमौ । तदतिरिक्ताविति यावत् । राजस-तामसान्तःकरणे हन्यात् । तस्याभिवृद्धावितरयोर्नाशो भवतीत्यर्थः । सत्त्वं सात्त्विकमन्तःकरणम् । सत्त्वेन सात्त्विकान्तःकरणजन्यापरोक्षज्ञानेन हन्यात् ॥ १ ॥

प्रमेयचन्द्रिका

विद्याकुठारेणेति प्रकृतं ज्ञानं केन भवतीत्यतः सत्वगुणोद्रेकेणेति वक्तुं रजस्तमसोः प्रतिबन्धकयोर्भावात्कथं तेन ज्ञानोत्पत्तिरित्यतः सत्वोद्रेकेण तयोर्निवृत्तिर्भवतीति सूचयन् सत्वादिगुणाः किमात्मनो बुद्धेर्वेति सन्देहे तन्निर्धारणं क्रियते प्रथमश्लोकेन । सत्वादयो गुणा बुद्धेरेव सम्बन्धिनः । साक्षाज्जीवस्य विकारदेहेनेति यावत् । तत्र सत्वेनोद्रिक्तेनान्यतमौ रजस्तमोगुणौ हन्यात् । पुरुषः सुखसङ्गेन बध्नातीति सत्वस्यापि बन्धकत्वोक्तेस्तद्धननस्याप्यपेक्षितत्वाद्धननं केनेत्यत उक्तम् ॥ सत्वं च सत्वेनैव हन्यादिति ॥ १ ॥

सत्वाद् धर्मो भवेच्छुद्धात् पुंसो मद्भक्तिलक्षणः ।

सात्विकोपात्तया ज्ञानं ततो धर्मः प्रवर्तते ॥ २ ॥

तात्पर्यम्

धर्मात्पुनः सत्वोद्रेकः । सत्वोद्रिक्तया बुध्द्या पुनः सत्वोद्रेकात्पुनर्धर्मो-द्रेकः ॥ २ ॥

पदरत्नावली

सत्वेनान्यतमौ हन्यादित्येतद् विवृणोति सत्वादिति । शुद्धात् सत्वात् पुंसो मद्भक्तिलक्षणो धर्मो भवेत् । धर्मः किमुद्रेचयतीति तत्राह– सात्विकेति । ततो धर्मात् पुनः सत्वोद्रेकः, तस्मादुद्रिक्तसात्विकोपात्तया बुद्ध्या ज्ञानं ततः पुनः सत्वोद्रेकः, तस्मात् पुनः धर्मोद्रेकः प्रवर्तते । उद्रिक्तभक्तिधर्मपूरितान्तःकरणो ब्रह्मार्पणबुद्ध्या धर्ममेव करोतीत्यर्थः ॥ २ ॥

श्रीनिवासतीर्थीया

सत्त्वेन हन्यादेतद्विशदयति ॥ सत्त्वादिति ॥ अत्र धर्मात्ज्ञानोत्पत्ति-मुक्त्वा ततः पुनर्धर्मोत्पत्तिकथनादन्योन्याश्रय इत्यतो व्यक्तिभेदान्नान्योन्याश्रय इत्याशयेन व्याचष्टे ॥ धर्मादिति ॥ सात्त्विकोपात्तयेत्यस्य विशेष्याप्रतीतेराह ॥ सत्त्वेति । सत्त्वगुणेत्यर्थः । उपात्तेत्यस्य तात्पर्यम् ॥ उद्रिक्तेति । तथा च बुद्धिरित्येतद्विभक्तिपरिणामेनान्वेतीति भावः । पुनः सत्त्वोद्रेका-दित्यनुवादाज् ज्ञानमित्यनन्तरं पुनः सत्त्वोद्रेको भवतीत्यध्याहार्यम् । धर्म इत्यस्य व्याख्यानम् ॥ धर्मोद्रेेक इति । तथा चेयं मूलयोजना ॥ पुंसः शुद्धसत्त्वात्सात्त्विकान्तःकरणान्मद्भक्तिलक्षणो धर्मो भवेत् । तस्माद्धर्मात्पुनः सात्त्विकान्तःकरणोद्रेको भवतीति शेषः । तदनन्तरं सात्त्विकोपात्तया सात्त्विकं सत्त्वगुणसम्बन्ध्युद्रेकः सत्त्वोद्रेकसहकृतया सत्त्वोद्रिक्तयेत्यर्थः । बुध्याऽन्तःकरणेन । सात्त्विकान्तःकरणोद्रेकेणेति यावत् । ज्ञानमपरोक्षम् । ततो ज्ञानेन पुनः सत्त्वोद्रेकः सात्त्विकान्तःकरणोद्रेकस्तस्माद्धर्मः पुनर्धर्मोद्रेकः प्रवर्तत इति ॥ २ ॥

प्रमेयचन्द्रिका

सत्वगुणस्य ज्ञानहेतुत्वद्वारा भक्तिहेतुत्वं चोपपाद्यते ॥ सत्वादिति ॥ अत्र द्वितीयार्थे सात्विकोपात्तया सत्वगुणोद्रेकेण लब्धया भक्तिलक्षण इति प्रकृतया भक्त्या ज्ञानं भवतीत्युक्त्वा ततो धर्मादित्यसङ्गतमुच्यते । ततो ज्ञानात्प्राप्ताद् भक्तिलक्षणाद्धर्मादिति व्याख्याने च भक्तेर्ज्ञानं ज्ञानाद्भक्तिरित्यन्योन्याश्रय इत्याशयेन व्याचष्टे ॥ धर्मादिति ॥ सत्वाद्धर्मो भवेदिति यो धर्मोऽभिहितस्तस्माद्धर्मात्पुनः सत्वोद्रेको भवति । सत्वोद्रिक्तया बुध्द्येत्यनुवादसामर्थ्यात्तेन सत्वोद्रेकेण बुद्धिर्ज्ञानं भवतीति ग्राह्यम् । तया च सत्वोद्रिक्तया सत्वगुणोद्रेकेण लब्धया बुध्या ज्ञानेन पुनरतिशयेन सत्वोद्रेक इति ग्राह्यम् । तस्मादतिशयितसत्वोद्रेकात्पुनरप्यधिकभक्तिलक्षणधर्मोद्रेको भवतीत्यर्थः । तथाचैवं मूलार्थ उक्तो भवति । ततो धर्मादिति वक्ष्यमाणमादावपि योज्यम् । सात्विकोपात्तया बुध्द्येत्यनुवादसामर्थ्यात्सत्वोद्रेको भवतीति । तेन च ज्ञानमिति च ग्राह्यम् । तथा शुद्धाद्रजस्तमोभ्यामपि सीदत एवोद्रिक्तसत्वात्पुंसो मद्भक्तिलक्षणो धर्मो भवतीति । तस्मान्मद्भक्ति-ज्ञानरूपाद्धर्मात्पुनरतिशयेन सत्वोद्रेको भवति । तेन च ज्ञानम् । तया च सात्विकोपात्तया भक्त्या सत्वगुणोद्रेकेण लब्धेन ज्ञानेन पुनरप्यतिशयितसत्वोद्रेक इति शेषः । ततो ऽतिशयितसत्वोद्रेका-दभ्यधिको भक्तिलक्षणो धर्मस् ततो धर्मात्परमानन्दावाप्तये प्रवर्तत इति ॥

अयमत्र समुदायार्थः ॥ सात्विकप्रकृतेर्निवृत्तकर्मणा शुद्धान्तःकरणस्य भक्त्यादिमतो विशिष्ट-गुरूपसत्या प्राप्तश्रवणमननाभ्यां सत्वगुणोद्रेके सति परोक्षज्ञानदार्ढ्येन भक्तिपरिपाके जाते ततोऽपि सत्वोद्रेकेण निदिध्यासनाजनितज्ञानपरिपाकेन सुदृढा भक्तिर्जायते । तया च पुनरतिशयितसत्वो-द्रेकेणापरोक्षज्ञानोदये पुनरप्युद्रिक्ता भक्तिर्भवति । मुक्तौ च सैवानुकूलवेदनीयतया आनन्दरूपाऽवतिष्ठत इति ॥ २ ॥

धर्मो रजस्तमो हन्यात् १सत्ववृत्तिरनुत्तमा ।

आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३ ॥

पदरत्नावली

धर्मफलमाह– धर्म इति । स धर्मो रजस्तमश्च हन्यात् । पुनः कथमस्य वृत्तिरिति तत्राह सत्ववृत्तिरिति । सत्वेन भक्तिस्वभावेन वृत्तिर् वर्तनं भवति । भक्तिमयो वर्तत इत्यर्थः । भक्तिप्रतिबन्धकेऽधर्मे सति कथं तद्वृत्तिरिति तत्राह– आश्विति । उभये रजसि तमसि च हते तन्मूलस्त्वधर्म आशु नश्यतीति । अतो युक्तमुक्तमिति ॥ ३ ॥

श्रीनिवासतीर्थीया

धर्मफलमाह ॥ धर्म इति ॥ मद्भक्तिलक्षणो धर्मो रजोगुणं तमोगुणं च हन्यात् । अनन्तरं किं भवतीत्यत आह ॥ सत्त्वेति ॥ अनुत्तमाऽसदृशी । सत्त्वगुणस्यैवाभि-वृद्धिर्भवतीत्यर्थः । सत्त्ववृत्तिरिति पाठे वृत्तिर्वर्तनं स्थितिरित्यर्थः । ततोऽपि किमित्यत आह ॥ आश्विति ॥ उभये उभयस्मिन् रजसि तमसि च धर्मेण हते सति सत्त्ववृत्त्यनन्तरं रजस्तमोमूलोऽधर्म आशु नश्यतीत्यर्थः ॥ ३ ॥

प्रमेयचन्द्रिका

सत्वेनान्यतमौ हन्यादित्युक्तविवरणपूर्वकं फलमुच्यते ॥ धर्म इति ॥ अनुत्तमाच्छ्रेष्टात् । सत्वोद्रेकेण जातमनोवृत्तिः । धर्मो भक्तिलक्षणः । रजस्तमश्च हन्यात् । रजस्तमोलक्षणे उभये हते । तन्मूलः रजस्तमोमूलः । अधर्मः भक्तिरूपधर्मविरुद्धः । कामक्रोधादिः पापं वा । आशु नश्यतीत्यर्थः ॥ ३ ॥

आगमोऽर्थः प्रजा देशः कालः कर्म च जन्म च ।

ध्यानं २मन्त्रोऽथ संस्कारो ३दशैते गुणहेतवः ॥ ४ ॥

पदरत्नावली

भक्तिज्ञानसाधनान्यागमादयोऽत्र सत्वादिगुणकृता इत्याह– आगम इति । सत्वादयो गुणा एव हेतवो येषां ते तथा । अनेनैव च सात्विकादिभेदेन त्रिविधा इत्युक्तं भवति

॥ ४ ॥

श्रीनिवासतीर्थीया

उत्तरत्र सात्त्विकपदार्थसेवनं धर्मसाधनत्वेन सात्त्विकान्येवेति वक्तुं के सात्त्विकादयः पदार्थास्तत्र सात्त्विकत्वादिकं च कथं ज्ञेयमित्यत आह ॥ आगम इत्यादिना ॥ आगमः पुराणादिः । प्रजा जनाः । गुणहेतवो गुणा एव हेतवो येषां ते तथा । तथा च सात्त्विकराजसतामसभेदेनागमास्त्रिविधा इत्याशयः ॥ ४ ॥

प्रमेयचन्द्रिका

भक्त्यादिसाधनान्यागमादीनि नव सत्वोद्रेकनिमित्तकानीत्युच्यन्ते ॥ आगम इति ॥ यजनं यज्ञः । जन्मोत्तमकुले । उपस्कार उपनयनादिः । अथ संस्कार इति पाठान्तरम् । सत्वादिगुणा एव हेतवो येषां ते । तथा चागमादयः सात्विकादिभेदेन त्रिविधाः । तत्र सात्विका एवागमादयो भक्तिज्ञानसाधनानीति भावः ॥ ४ ॥

तत्तत् सात्विकमेवैषां यद्यद् वृद्धाः प्रचक्षते ।

निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम् ॥ ५ ॥

पदरत्नावली

तत्तद्भेदज्ञानं कथमत्राह– तत्तदिति । ज्ञानवृद्धा एषामागमादीनां मध्ये यद्यत् साध्विति प्रचक्षते तत् सात्विकं यद्यन्निन्दन्ति तत् तामसं यदुपेक्षितं प्रचक्षते तद् राजसम्, इति जानीहीति शेषः ॥ ५ ॥

श्रीनिवासतीर्थीया

येषामागमादीनां मध्ये ज्ञानवृद्धा यद्यत्साध्विति प्रचक्षते तत्तत्सात्त्विकम् । यत्तच्छब्दयोः पूर्वोत्तराभ्यां सम्बन्धः । यन्निन्दन्ति तत्तामसम् । तैर्वृद्धैर्यदुपेक्षितं तद्राजसमिति

॥ ५ ॥

प्रमेयचन्द्रिका

सत्वादीनां भेदज्ञानं कथमित्यत उच्यते ॥ तत्तदिति ॥ वृद्धा महाज्ञानिनो येषामागमादीनां मध्ये यत्तत्साध्विति प्रचक्षते । तत्तत्सात्विकम् । यद्यन् निन्दन्ति तत्तामसम् । तैः साधुभिर्यद्यदुपेक्षितं तैरुपेक्षितं तत्तद्राजसमिति विजानीहीति शेषः ॥ ५ ॥

सात्विकान्येव सेवेत पुमान् सत्वविवृद्धये ।

ततो धर्मस्ततो ज्ञानं वाचः स्मृतिरपोहनम् ॥ ६ ॥

पदरत्नावली

किमर्थमेवं विभागवचनं येनोपयोग्यं स्यादत्राह– सात्विकानीति । सत्वं सत्वस्वभावः, तद्विवृद्धये । किं तत इति तत्राह– तत इति । ततः सत्वाद् भक्तिसाधनं धर्मः, ततो धर्माज् ज्ञानं स्यात् । किञ्च हरिविषया वाचः, हरिविषया स्मृतिः, अपोहनं भगवद्विरुद्धत्याग इत्येते भवन्ति ॥ ६ ॥

श्रीनिवासतीर्थीया

ततः किमित्यत आह ॥ सात्त्विकान्येवेति ॥ आगमादिवस्तूनि । सत्त्वं सत्त्वगुणः । धर्मो भक्तिः । ज्ञानमपरोक्षम् । वाचो भगवद्विषयत्वेन समीचीना एव वाचस्तस्य भवन्ति । स्मृतिर्मम । अपोहनं निषिद्धत्यागो भवतीति शेषः ॥ ६ ॥

प्रमेयचन्द्रिका

सात्विकादिनिरूपणस्योपयोगोऽभिधीयते ॥ सात्विकानीति ॥ सात्विकागमादीन्येव सेवेत । किमर्थमित्यतः सत्वविवृद्धय इत्युक्तम् । तद्विवृणोति ॥ तत इति ॥ सात्विकसेवात इत्यर्थः । तद्धर्मस्तद्भक्तिलक्षणः । ततो धर्माद् ज्ञानम् । भगवद्विषया वाचः । स्मृतिर् हरिविषया । अपोहनं तद्विरुद्धत्यागः । इतो ते भवन्तीत्यर्थः ॥ ६ ॥

वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।

एवं गुणव्यत्ययजो वेदः शाम्यति तद् यथा ॥ ७ ॥

तात्पर्यम्

वेदो वृत्तिज्ञानम् । ‘मुक्ताश्चाधीयते वेदान् जडज्ञानबहिष्कृताः । स्वरूपभूतज्ञानेन पश्यन्तः सर्वमञ्जसे’ति तात्त्विके ॥ ७ ॥

पदरत्नावली

एवमुत्पन्नवृत्तिज्ञानस्य नाशं सदृष्टान्तमाह– वेण्विति । तन् मूलनिर्वाणं यथा तथा कथयामः । तथा हि । यस्मिन् वने वेणवः सन्ति तेषां वेणूनां सङ्घर्षाज्जातो वह्निस् तद्वनं दग्ध्वा स्वयमपि शाम्यति । एवं गुणव्यत्ययजः सत्वादिगुणानामन्योन्यनाशात् पृथक्स्थिताद् उद्रिक्तात् सत्वाज्जातो वेदः वृत्तिज्ञानं स्वकारणमन्तःकरणं विनाश्य निर्मूलं (सत्) स्वयं च विनश्यतीत्यन्वयः । वि निषेधे पृथग्भाव इति, अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रम इति च यादवः । वेदशब्दस्य प्रसिद्धार्थं परित्यज्याप्रसिद्धकल्पने किं निमित्तम् । उच्यते । उपक्रमं ब्रूमः । ‘‘मुक्ताश्चाधीयते वेदान् जडज्ञानविवर्जिताः । स्वरूपभूतज्ञानेन पश्यन्तः सर्वमञ्जसा’’ इति वाक्यं च । विद ज्ञान इति धातोश्च । अविनाशी वाऽरेयमात्माऽनुच्छित्तिधर्मेति श्रुतेर् न स्वरूपज्ञाननाश उपपन्नः । स्वरूपहानिप्रसङ्गात् । एतत् साम गायन्नास्त इत्यादिश्रुतिविरोधाच्च वेदोपशमो नोपपन्न इति ॥ ७ ॥

श्रीनिवासतीर्थीया

नन्वपरोक्षज्ञानस्य सदा सत्वे तन्मूलान्तःकरणस्यापि सदा सत्त्वप्राप्त्या मोक्षाभाव इत्यत आह ॥ वेण्विति । सङ्घर्षः सङ्घर्षणं तद्वनं दग्ध्वा समेधिकाभावात्स्वयं शाम्यति । यथैवं गुणयोः रजस्तमसोर्व्यत्यये नाशे सत्यभिवृद्धसत्त्वगुणजो वेदस्तत्स्वोपादानभूतं सात्त्विकान्तःकरणमपि दग्ध्वा समेधिकाभावात्स्वयमपि शाम्यतीत्यर्थः । अत्र वेदः शाम्यतीति वेदनाश उच्यते । नित्यत्वं चाप्रलयमेवेति मायिमतं प्रतीयतेऽतो व्याचष्टे ॥ वेद इति ॥ प्रतीतार्थे बाधकं वदन्वृत्तिज्ञाननाशे तु मुक्तौ ज्ञानाभावप्राप्त्या मग्नस्य हीत्युक्तदोष इत्यत आह ॥ मुक्ताश्चेति ॥ तथा च मुक्तौ मुक्तानां वेदाध्ययनोक्तेर्न वेदनाशः । वृत्तिज्ञाननाशशब्देन जडज्ञाननाशस्यैव विवक्षितत्वान्न मग्नस्य हीत्युक्तदोषश्चेति भावः ॥ ७ ॥

प्रमेयचन्द्रिका

जातस्यापि वृत्तिज्ञानस्य जडत्वात्तदपायाभावे मोक्षायोगात्तस्य नाशः सदृष्टान्तमुच्यते ॥ वेण्विति ॥ वेदः शाम्यतीत्यत्र वेदशब्देन श्रुतिविवक्षायां गुणव्यत्ययजन्यत्वं शाम्यतीति चायुक्तं स्यादित्यतो व्याचष्टे ॥ वेद इति ॥ वेदनं वेद इति भावव्युत्पत्तेरिति भावः । प्रसिद्धार्थ एव किं न स्यादित्यत आह ॥ मुक्ताश्चेति ॥ यद्यपि मुक्ता जडज्ञानरहिताः । तथापि वेदोक्तमर्थं स्वयोग्यं सर्वमञ्जसा स्वरूपज्ञानेन पश्यन्तो वेदानधीयत इत्यर्थः । महतां वेदः स्वरूप-ज्ञानमनुसरति । तदितरमुक्तानां तु वेदः स्वाध्ययनेन स्वरूपज्ञानव्यञ्जको भवति । तथा च मुक्तैरनन्तकालमधीयमानत्वान्न वेदोपरम इति भावः । मूले गुणत्रयवैषम्येन जातमन्तःकरणं गुणव्यत्ययज इत्युच्यते । ततः स्वान्तःकरणाज्जातो वेदो वृत्तिज्ञानमन्तःकरणं विनाश्य निर्मूलः स्वयं नश्यतीत्यर्थः ॥ ७ ॥

उद्धव उवाच—

विन्दन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् ।

अथापि भुञ्जते कृष्ण तत् कथं श्वखराजवत् ॥ ८ ॥

श्रीभगवानुवाच—

अहमित्यन्यथाबुद्धिः प्रमत्तस्य यदा हृदि ।

उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ ९ ॥

रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।

ततः कामो गुणध्यानाद् दुःसहः स्याद् हि दुर्मतेः ॥ १० ॥

पदरत्नावली

विषयाणामापदां पदत्वं जानन्तोऽपि तानेव सेवन्ते, तत्र किं कारणमिति भावेन पृच्छति विन्दन्तीति । श्वा च खरश्चाजश्च श्वखराजाः, तद्वत् ॥ अकर्तर्यात्मनि अहं कर्तेत्यभिमानमेति, तन्मूलरागोत्सिक्तमनःकारणकः कामः कारणमित्युत्तरमाह– अहमितीति । अयमक्षरार्थः । यदा प्रमत्तस्य हृदि अहं कर्तेति अन्यथा बुद्धिरुत्सर्पति उत्क्वथति तथा घोरं रज उत्सर्पति उदेति ततो रागोदयादुच्छ्वसितं मनो वैकारिकं विविधविकाराकरो भवतीति ॥ रजसा विकारस्य मनसो विविधकल्पनया युतः सङ्कल्प इदमित्थं करिष्यामीदमेवं करिष्य इत्यादिलक्षण उदेति । एवं विविधसङ्कल्पेन दुर्मतेर् अशोभनबुद्धेर् गुणानां शब्दादीनां ध्यानाद् दुःसहः कामः स्यादित्यन्वयः ॥ ८–१० ॥

श्रीनिवासतीर्थीया

आपदां दुःखानां पदं स्थानत्वेन विन्दन्ति जानन्ति । भुञ्जन्ते सेवन्ते । भोजन एव दृष्टान्तश्चेति । श्वा च खरश्चाजश्च श्वखराजं द्वन्द्वैकवद्भावस्तद्वत् ॥ काम एव प्रबलप्रवर्तकः । कामे च रजोगुणोद्रेकः कारणम् । तत्र च मिथ्याज्ञानमित्याशयेनाह ॥ अहमित्यादिना । यदा प्रमत्तस्य पुंसो हृदि अकर्तर्यात्मन्यहं कर्तेत्यन्यथाबुद्धिरुत्सर्पति उत्क्वथयत्युदैति तदा घोरं रजो रजोगुणमुत्सर्पत्युदेति । ततस्तदनन्तरं मनो वैकारिकं विविधाकारयुक्तं भवति ॥ अनन्तरं रजोयुक्तस्य विविधाकारयुक्तस्य च मनसः सकाशाद्विविधकल्पनायुक्त इत्थं करिष्य इत्यादिरूपः संकल्पो भवति । ततः सङ्कल्पेन । गुणानां शब्दादीनां ध्यानात् ॥ ८–१० ॥

प्रमेयचन्द्रिका

सात्विकान्येव सेवेतेत्यत्र राजसतामसविषयसेवना न कार्येति सूचितम् । तत्र विषयाणामनिष्टहेतुत्वं जानन्तोऽपि तानेव सेवते । तत्र किं कारणमित्युद्धवेन प्रश्नः क्रियते ॥ विन्दन्तीति ॥ धर्माधर्मशास्त्रप्रमादवतोऽहं कर्तेत्याद्यभिमानयुक्तस्य रजस्तमःकलुषितमनस उत्सेके जाते एवं करिष्ये विविधं करिष्य इति सङ्कल्पविकल्पोपपत्तौ दुर्बुद्धेर्गुणपदोदितविषयाभिध्यानाद्दुःसहकामो येन तद्वशगः सन्निन्द्रियजयाभावाच्चैतानि कर्माणि बहुदुःखसाधनानीति शास्त्रतः पश्यन्नपि रागविमोहितः श्वखरादिवद्विषयान् भुङ्क्त इति । भगवतोत्तरमुच्यते ॥ अहमित्यादिना ॥ ८–१० ॥

करोति कामवशगः कर्माण्यविजितेन्द्रियः ।

दुःखोदर्काणि संपश्यन् रजोवेगविमोहितः ॥ ११ ॥

पदरत्नावली

कामस्य दुस्सहत्वमुपपादयति करोतीति । रजोवेगविमोहितत्वेन कामवशं गतः, तस्मादविजितेन्द्रियः । तस्मात् कर्माणि दुःखोदर्काणि सम्पश्यन्नपि पुनः कर्माणि करोतीत्यन्वयः । यद्वा काममयत्वेनाविजितेन्द्रियो भवति, तेन चक्षुरादीन्द्रियजयाभावेन वनितादिरूपं पश्यन् रजोवेगेन वीर्योद्रेकेण विमोहितः विवेकज्ञानशून्यत्वेन विह्वलिताङ्गो दुःखफलानि कर्माणि करोति । कामसौख्याय विषयान् भुङ्क्त इति ॥ ११ ॥

श्रीनिवासतीर्थीया

दुःखोदर्काणि सम्पश्यन्नपि कर्माणि करोतीत्यन्वयः ॥ ११ ॥

रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः ।

अतन्द्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥ १२ ॥

अप्रमत्तो हि युञ्जीत मनो मय्यर्पयन् शनैः ।

अनिर्विण्णो यथाकालं१ जितश्वासो जितासनः ॥ १३ ॥

पदरत्नावली

ननु विषयाणां समुद्रतरङ्गवदावर्तमानत्वान्न संसारादस्योत्थानं स्यात् पुरुषायुष-सहस्रेणापि, तस्मान्मोक्षशास्त्रविधानं व्यर्थमित्याशङ्क्य अज्ञस्यैवं न तत्वज्ञस्येत्याह– रजस्तमो-भ्यामिति । विद्वच्छब्दविवरणं दोषदृष्टिरिति । पुनःशब्दो वीप्सार्थो दोषदृष्टिरित्यनेन सम्बध्यते । विद्वान् यदपि यद्यपि रजस्तमोभ्यां विक्षिप्तधीः, तथाप्यतन्द्रितो भूत्वा हरौ मनो युञ्जन् पुनर्दोषदृष्टित्वाद् विषयेषु न सज्जते । शरीरयात्रार्थं विषयान् सेवमानोऽपि तैः प्रतिबद्धो न भवतीति ॥ एतदेव विवृणोति अप्रमत्त इति । हिशब्दः सर्वशास्त्रसिद्धत्वद्योतकः । मनो विषयेभ्य आकृष्य शनैःशनैर् मय्यर्पयन् स्थापयन् युञ्जीत ध्यायेत् । योगः सन्नहनोपायध्यानसङ्गतिमुक्तिष्विति यादवः । मामिति शेषः । अनिर्विण्णो ऽनालस्यः, अथालमिति बुद्धिवैराग्यशून्यो वा ॥ १२,१३ ॥

श्रीनिवासतीर्थीया

ज्ञानी तु नैवमित्याह ॥ रज इति ॥ यदपि यद्यपि । विद्वान्विषयै-र्विक्षिप्तधीर्भवति । तथाप्यतन्द्रितो भूत्वा हरौ मनो युञ्जन्पुनः पुनर्दोषदृष्टिर्भवति यतोऽतो न सज्जत इत्यर्थः । मनो युञ्जन्नित्युक्तं विशदयति ॥ अप्रमत्तो हीति ॥ शनैर्मनो मय्यर्पयन्मदीये पादाद्यैकैका-वयवे स्थापयन्नित्यर्थः । अनिर्विण्णोऽनालस्योऽलं हरिसेवयेति वैराग्यशून्यो वा । युञ्जीत समग्रावयवं ध्यायेदित्यर्थः ॥ १२,१३ ॥

प्रमेयचन्द्रिका

नन्वेवं ज्ञानिनोऽपि विषयाभिनिवेशे कथं मोक्षमार्गप्रवृत्तिरित्यत उच्यते ॥ रजस्तमोभ्यामिति ॥ यद्यपि विद्वानप्येवं रजस्तमोभ्यां विक्षिप्तधीस् तथापि पुनर्विषयेषु दोषदृष्टिः सन्नतन्द्रिततया मनो हरौ युञ्जन् विषयेषु न सज्जते । अतोऽप्रमत्तो मनो युञ्जीत । एवं शनैः शनैर्मनो मर्य्यर्पयंस्तत्रानिर्विण्ण आलस्यरहितो यथाकामं विशेषनिर्बन्धमकृत्वेति यावत् । श्वासादिजयवान् सन् योगमभ्यसेदिति शेषः ॥ १२,१३ ॥

एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।

सर्वतो मन आकृष्य मय्यद्धाऽऽवेश्यते यथा ॥ १४ ॥

पदरत्नावली

सनकादियोगीन्द्रयोग सम्मत्यभावान्नायं योगः साधीयानित्यत्राह– एता-वानिति । यथा मनो मय्येवावेश्यते तादृशो योग एतावान् नान्य इति । सनकादिभिरादिष्ट इत्यद्धा सत्यम् । अद्धा प्रत्यक्षसत्ययोरिति च ॥ १४ ॥

श्रीनिवासतीर्थीया

सनकादियोगीश्वरासम्मतत्वादयं योगोऽश्रद्धेय इत्यत आह ॥ एतावानिति ॥ मनः सर्वतः सर्वेभ्यो विषयेभ्य आकृष्य यथा मय्येवाद्धा स्थाप्यते । एतावानेव मच्छिष्यैः सनकादिभिरादिष्ट उपदिष्टो योगो मोक्षोपाय इत्यर्थः । विषयेभ्य आकृष्य हरौ मनःस्थापन-मेव मुख्यमोक्षोपाय इति योगिसंमतमित्युक्तं भवति ॥ १४ ॥

दुर्घटभावदीपिका

मच्छिष्यैः सनकादिभिरादिष्टो योगः सर्वतो मन आकृष्य मयि यथा यथावदद्धा आवेश्यते इत्येतावानेवेति । एतेन पूर्वोत्तरार्धयोरनन्वय इति दूषणं परास्तम् । इत्येव-शब्दयोरध्याहारेणान्वयस्योक्तत्वात् ॥ १४ ॥

प्रमेयचन्द्रिका

उक्तमेव पुनर्निर्धारयन् उक्तोऽयं योगः सनकादिभिरनुशिक्षितत्वात्सर्वैरनुष्टेय इत्युच्यते ॥ एतावानिति ॥ सर्वतो विषयेभ्यो मन आकृष्य अद्धा सम्यग्यथा भवति तथाऽवेश्यत इति यदेतावानित्यन्वयः ॥ १४ ॥

उद्धव उवाच—

यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम् ॥ १५ ॥

पदरत्नावली

लोकोपकाराय मेरुशृङ्गोपरिस्थितौषधोपदेशवत् सनकाद्यादिष्टयोगोपदेशनमित्य-श्रद्धेयमिति पृच्छति यदेति ॥ १५ ॥

श्रीनिवासतीर्थीया

मच्छिष्यैरित्येतच्छत्वा शङ्कते ॥ यदेति ॥ कदेत्यर्थः । मच्छिष्यैरिति त्वयोच्यते । एतद्रूपेण तावत्त्वया नोपदिष्टं तव मम च सदाऽवियुक्तत्वेन मयाऽदृष्टचरत्वात् । तस्मा-द्रूपान्तरेणैवोपदिष्टमिति ज्ञायते । यद्रूपान्तरं सनकाद्युपदेशकर्तुर्वेदितुमिच्छामीत्याशयः ॥ १५ ॥

दुर्घटभावदीपिका

हे केशव । त्वं सनकादिभ्यो यदा यस्मिन्काले येन रूपेण केशव योगमादिष्टवांस्तं कालं तदेतत्प्रमाणप्रसिद्धं रूपं च वेदितुमिच्छामीति । एतेन तच्छब्दाभावाद् यदा येनेत्येतदनन्वितमिति दूषणं पराकृतम् । तं कालं तदित्यस्य चाध्याहार इत्यङ्गीकारात् । एतेनैवा-ध्याहृततच्छब्देनैव पूर्णत्वादेतदित्येतद्व्यर्थमिति चोद्यस्यानवकाशः । तद्रूपस्य प्रमाणसिद्धत्व-ज्ञापनार्थमेतदित्युक्तमित्यभ्युपगमात् ॥ १५ ॥

श्रीभगवानुवाच—

पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६ ॥

पदरत्नावली

इष्टसाधनावबोधकत्वेनाप्तिमूलकत्वेन वेद इव च प्रमाणमिति श्रद्धेयमित्याशयेन परिहर्तुमितिहासमाह– पुत्रा इति । योगस्य ज्ञानस्य गतिम् ॥ १६ ॥

श्रीनिवासतीर्थीया

तद्रूपान्तरं हंसरूपमिति वक्तुमाह ॥ पुत्रा इत्यादिना ॥ मानसाः पुत्राः। मनोजन्याः पुत्राः । योगस्य मोक्षोपायस्य । अनैकान्तोऽनियम इति प्रसिद्धेरेकान्तो नियमः । ऐकान्तिकीं नियतामव्यभिचरिताम् । गतिं स्थितिम् । अव्यभिचरितमोक्षोपायं पप्रच्छुरित्यर्थः

॥ १६ ॥

प्रमेयचन्द्रिका

योगस्य मोक्षोपायस्य ऐकान्तिकीं परमुख्यां स्थितिम् ॥ १६ ॥

सनकादय ऊचुः—

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।

कथमन्योन्यसन्त्यागो मुमुक्षोः सन्तितीर्षतः१ ॥ १७ ॥

पदरत्नावली

किं ज्ञानविषयोयं प्रश्न इति तत्राह– गुणेष्विति । पुंसां चेतो गुणेषु शब्दादिष्वाविशते, गुणाः शब्दादिविषयाश् चेतसि संस्काररूपेण वर्तन्ते । तत्र सन्तितीर्षोः संसारनदी तर्तुकामस्य मुमुक्षोर् मुक्तियोग्यस्याधिकारिणः कथमन्योन्यसन्त्यागः । विषयेभ्यश्चेतस आकर्षणं चेतसो विषयाणामाकर्षणम्, पृथक्करणमित्यर्थः । तदुच्यतामिति शेषः ॥ १७ ॥

श्रीनिवासतीर्थीया

तदेव दर्शयति । गुणेष्विति ॥ शब्दादिविषयेषु । गुणाः शब्दा-द्याश्चेतस्यनुभवजनितसंस्काररूपेण विशन्ते । अन्योन्यसन्त्यागो विषयेभ्यश्चेतस आकर्षणम् । विषयाणां चेतसः सकाशादाकर्षणं च कथमित्यर्थः । सन्तितीर्षतः संसारं तर्तुमिच्छतोऽत एव मुमुक्षोर्मोक्षेच्छोः

॥ १७ ॥

प्रमेयचन्द्रिका

गुणेषु विषयेषु चेत आवेश्यते सक्तं भवति । विषयाश्चेतसि संस्कार-रूपेणाविशन्ते । संतितीर्षोः संसारसागरसन्तरणकामस्य मुमुक्षोरन्योन्यसन्त्यागः विषयाणां चेतसश्च पृथक्करणं कथं युञ्ज्याद् उच्यतामित्यर्थः ॥ १७ ॥

श्रीभगवानुवाच—

एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः ।

ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥

स मामचिन्तयद् देवः प्रश्नपारविनिश्चयम् ।

तस्याहं हंसरूपेण समीपमगमं तदा ॥ १९ ॥

तात्पर्यम्

प्रश्नो बीजमस्येति प्रश्नबीजं परिहारम् । गुणानां चेतसश्च कर्म कारण-मिति मन्वानः कर्मधीः । ‘ब्रह्मा पृष्टस्तु योगीन्द्रैः सनकाद्यैर्मनोगतेः । कारणं विषये-ष्वद्धा कर्मेति प्रत्यपद्यत । हेतुरन्योऽपि तत्रास्तीत्येवं जानन्नपि प्रभुः । विशेषतो मनस्तत्र नाधाज्जानन् हरेः प्रियम् । स्वात्मना परिहारोक्तिस्तदा ह्यासीद्धरेः प्रिया । अतः स तत्प्रियं जानन्नाकरोत्तद्विचारणम् । तमेवाचिन्तयद्देवः प्रश्ननिर्णयकारणात् । भ्रमतीव मनः क्वापि ब्रह्मणो विष्णुमायया । सर्वज्ञस्यापि तत्रात्मा वक्तुमिच्छेज्जनार्दनः । तज्ज्ञात्वा चिन्तितं तस्य चिन्तयत्यमुमेव तु । न स्वयं चिन्तयत्यर्थं स हि तद्भाव-वित्सदा । अन्ये त्वज्ञानसंयुक्ता मोहमीयुर्यथाक्रमम् । तस्य मध्यन्दिने सूर्ये क्षोभव-त्क्षोभमात्रकम् । नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचने’ति भावविवेके ॥ १८ ॥

पदरत्नावली

तत्र ब्रह्मणा किमुक्तमिति तत्राह– एवमिति । प्रश्नो बीजं यस्य सः प्रश्नबीजः, तं परिहारम् । अन्यमनस्क इव स्थितत्वादित्याह– कर्मधीरिति । अस्यार्थः गुणानां चेतसश्च कर्म कारणमिति मन्वानः (इति) । अन्यमनस्कत्वे किं कारणमित्यस्येदमेवोत्तरं कर्मणि सर्वकर्तरि हरौ धीर्यस्य (इति) । कर्मणा हरिणैव परिहारो वक्तव्य इति धीर्यस्य स तथा । कर्म भगवन्तमेव ध्यायतीति वा । तदेतदुक्तम्– ‘‘ब्रह्मा पृष्टस्तु योगीन्द्रैः सनकाद्यैर्मनोगतेः । कारणं विषयेष्वद्धा कर्मेति प्रत्यपद्यत । हेतुरन्योपि तत्रास्तीत्येवं जानन्नपि प्रभुः । विशेषतो मनस्तत्र नाधाज्जानन् हरेः प्रियम् । स्वात्मना परिहारोक्तिस्तदा नैव हरेः प्रिया । अतः स तत्प्रियं जानन् नाकरोत् तद्विचारणम् । तमेवाचिन्तयद् देवः प्रश्ननिर्णयकारणात् । भ्रमतीव मनः क्वापि ब्रह्मणो विष्णुमायया । सर्वज्ञस्यापि यत्रात्मा वक्तुमिच्छेज्जनार्दनः । तज्ज्ञात्वा चिन्तितं तस्य चिन्तयत्यमुमेव तु । न स्वयं चिन्तयत्यर्थं स हि तद्भाववित् सदा । अन्ये त्वज्ञानसंयुक्ता मोहमीयुर्यथाक्रमम् । तस्य माध्यन्दिने सूर्ये क्षोभवत् क्षोभमात्रकम् । नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन’’ इत्येतस्मिन् वाक्ये ॥ नन्वेवं तर्हि सनकादीनां प्रश्नो निरर्थो बालप्रश्नवदिति शङ्का मा भूदिति भावेनाह– स मामिति । प्रश्नस्य पारः पूरणं, परिहार इति यावत्, तस्मिन् निश्चयो यस्य स तथा तम्

॥ १८,१९ ॥

श्रीनिवासतीर्थीया

महांश्चासौ देवश्चेति महादेवः । अत्र प्रश्नस्य बीजमित्यन्यथा-प्रतीतेस्तत्पदार्थमाह ॥ प्रश्न इति ॥ प्रश्ने कृते सति परिहारप्रवृत्तिरन्यथाऽपृष्टपरिभाषणापत्तेरित्यतः परिहारस्य प्रश्नः बीजमित्यर्थः । परिहारमित्यन्यपदार्थो दर्शितः । कर्मधीः कर्मठ इति प्रतीतिमपाकरोति ॥ गुणानामिति ॥ गुणानां संस्काररूपेण मनसि परिवृत्तौ चेतसो गुणेषु प्रवेशे । कर्म दुष्कर्म । तथा च गुणानां चेतसः सकाशादाकर्षणे संत्यागे च कर्मैव कारणमित्येकं परिहारं मन्वानः कर्मधीः प्रश्नबीजं परिहारं ध्यायमानः कर्मातिरिक्तमपि कारणं किञ्चिदस्तीति सामान्यतो जानन्नपि विशेषतस्तद्विचारं न कृतवानिति योज्यम् । अत्र प्रमाणमाह ॥ ब्रह्मेति ॥ विषयेषु मनोगतेरित्यन्वयः। कर्म दुष्कर्म । तत्र हेतुर् विचारे । किं तद्धारेः प्रियमित्यत आह ॥ स्वात्म-नेति ॥ तद्विचाराणाम् अन्यहेतुकविषयकालोचनानाम् । प्रश्ननिर्णयकारणादिति ल्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वाच्या । प्रासादात्प्रेक्षते आसनात्प्रेक्षत इत्यादौ दर्शनादत्रापि ल्यब्लोपनिमित्ता पञ्चमी । कारणमुद्दिश्येत्यर्थः । नाभ्यपद्यतेति स्पष्टम् । ज्ञानविरुद्धाज्ञानरूपमोहोक्तेः कथमेतदित्यत आह ॥ भ्रमतीवेति ॥ सर्वज्ञस्यापि ब्रह्मणः । भ्रमतीव भ्रमयुक्तं भवतीति वाऽन्येषां प्रदृश्यत इत्यर्थः । अर्थं परिहारादिरूपम् । तद्भावो जनार्दनाभिप्रायः ॥ अज्ञानेति ॥ सम्यगधिष्ठानतत्त्वज्ञानाभावेत्यर्थः । तस्य ब्रह्मणो मध्यन्दिनस्थे सूर्ये स्वतोऽचलत्यपि यथाऽन्येषां क्षोभश्चलनमिव प्रदृश्यते तद्वत्क्षोभमात्रकं तन्मनसो भ्रमगमिति वाऽन्येषां प्रदृश्यत इत्यर्थः । अज्ञानं ज्ञानविरुद्धो मोह इत्यर्थः । तमोऽन्धकारः ॥ तस्य ब्रह्मणः । सकाशं समीपम् ॥ १८,१९ ॥

प्रमेयचन्द्रिका

प्रश्नबीजमित्यत्र प्रश्नस्य बीजमिति प्रभाति । तदयुक्तम् । प्रश्नस्य संशय-हेतुकत्वे निश्चितत्वादतोऽन्यथा व्याचष्टे ॥ प्रश्न इति ॥ कर्मधीरित्यस्य सृष्ट्यादिकर्मसु व्याप्तबुद्धिरतो व्यासक्तमनस्त्वात्परिहारं नाभ्यपद्यत । न व्यजानादित्यर्थस्य प्रमाणबाधितत्वात्तद्विवक्षितार्थमाह ॥ गुणानामिति ॥ चेतसश्चेत्यनन्तरमन्योन्यानुप्रवेश इति शेषः । अन्योन्यसन्त्यागे कारणस्य पृष्टत्वेऽपि गुणानां चेतसश्चान्योन्यानुप्रवेशे कर्म कारणमिति हेतोरन्योन्यानुप्रवेशे कारणभूतकर्मनिवृत्तिः कर्म चान्योन्यसन्त्यागे कारणमिति सूचनायेति ज्ञेयम् । गुणानां चेतसश्चान्योन्यसन्त्यागे कर्म कारणमिति किं न व्याक्रियते । प्रश्नेन सङ्गतत्वादिति न वाच्यम् । मनोगतेः कारणं विषयेष्वद्धा कर्मेति प्रत्युत्तर-वचनविरोधात् ।

उक्तार्थे प्रमाणमाह ॥ ब्रह्मेति ॥ विषयेषु मनोगतेः कर्म कारणमित्यद्धा प्रपद्यते । तर्हि मूले परिहारं नाभ्यपद्यतेति कथमुक्तमित्यस्य विषयमाह ॥ हेतुरिति ॥ बन्धककर्मनिवृत्तिर् अकाम्यकर्म चेतसो विषयाणां चान्योन्यसंत्यागे कारणमन्यो हेतुरस्तीति सामान्यतो जानन्नपि विशेषाकारेण तत्र मनःप्रणिधानं नाकरोत् । तत्र हेतुर्जानन् हरेः प्रियमिति ॥

अयं भावः ॥ ईशादन्यत्र प्रायः सर्वविषयकज्ञानवतो हिरण्यगर्भस्य कदाचिदालोचने सति सर्वविषयं ज्ञानमिति निश्चितम् । प्रकृते तु हेतुरन्योऽस्तीति सामान्यतो हेतुसद्भावेऽपि तद्विशेषविषयकालोचनाभावविवक्षया परिहारं नाभ्यपद्यत इत्युक्तिर्न त्वालोचनेऽप्यज्ञानात् । नैतावता सार्वज्ञ्यविरोधः । सामान्यतद्विषयकज्ञानसद्भावादालोचनकरणे विशेषज्ञानस्य संभवाच्चेति ॥

जानन् हरेः प्रियमित्येतद्विवृणोति ॥ स्वात्मनेति ॥ अतः स्वात्मना परिहारोक्तेर् हरिप्रियत्वात्स चतुर्मुखः स्वेन परिहारकथनं तस्य हरेः प्रियं न इति जानन् तद्विषयकालोचनं नाकरोत् । किन्तु तत्प्रश्ननिर्णयकारणात्प्रश्ननिर्णयार्थं तमेव देवमचिन्तयदित्यर्थः । एतेन मूले ध्यायमान इत्यत्र हरिमित्यध्याहार्यमित्युक्तं भवति । मूले ध्यायमान इत्यस्य विवरणम् ॥ स मामचिन्तयदिति ॥ तद्विवरणं नाकरोदित्यत्र ज्ञापकं किञ्चिदस्तीत्याह ॥ भ्रमतीवेति ॥ ब्रह्माणं प्रति तच्छिष्यैस्तत्वप्रश्ने कृते जनार्दन आत्मा स्वयमेवोत्तरं वक्तुमिच्छेत्तदा विष्णोरिच्छया सर्वज्ञस्यापि ब्रह्मणो मनः क्वापि भ्रमतीव चलतीव परिवृत्तिश्च कथ्यते । भ्रम इत्येवोक्त इत्युक्तेः । इवशब्देन चलनमत्यल्पमिति सूचयति । यदा ब्रह्मणो मनो भ्रमणं भवति तदा स्वमनोभ्रमणेन हरिः स्वयमेवोत्तरं वक्ष्यामीति चिन्तितं ज्ञात्वा अमुं हरिमेव प्रश्नपरिहारार्थं चिन्तयति ध्यानं करोति । स्वयं तु तमर्थं न चिन्तयति । तस्य भगवदभिप्रायज्ञत्वं सिद्धमित्याह ॥ स हीति ॥ स हीति प्रसिद्धिलब्धावधारणाद्व्यावर्त्यमाह ॥ अन्य इति ॥ तुरवधारणे । पूर्वस्माद्विशेषद्योतको वा । तत्राज्ञानं ज्ञानाभावः । मोहो मिथ्य-ज्ञानम् । तत्रापि रुद्राद्यपेक्षया इन्द्रादीनां तदपेक्षया तदवधारणमवरक्रमाधिक्येन मोहाधिक्यमित्याह ॥ यथाक्रममिति ॥ भ्रमतीत्युक्तस्याभिप्रायं वक्ति ॥ तस्येति ॥ यथा मध्याह्नसमये सूर्यमण्डले क्षोभ इव चलनमिवाज्ञैर्दृश्यते । महामरीचिपुञ्जेन चलतीवाचलोऽपि सन्निति छन्दोगभाष्योक्तेः । तद्ब्रह्मणो मनसि परमात्मनः स्वात्मना परिहारोदय इत्यभिप्रेत्य किञ्चित्क्षोभमात्रकं भवति । न तु सर्वथा अज्ञानम् । महामरीचिमालिनि मार्ताण्डमण्डले यथा न तमोलेशस्तथेति भावः । मूले प्रश्नस्य पारं पूरणं परिहार इति यावत् । तस्मिन्विशेषाकारेण निश्चयो यस्य स तथा तम्

॥ १८,१९ ॥

दृष्ट्वा मां त उपाव्रज्य कृतपादाभिवन्दनम् ।

ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥ २० ॥

श्रीनिवासतीर्थीया

ते सनकाद्याः । कृतं मदीयपादयोरभिवन्दनं येन स तथा तम्

॥ २० ॥

इत्यहं मुनिभिः पृष्टस्तत्वजिज्ञासुभिस्तदा ।

यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ २१ ॥

श्रीनिवासतीर्थीया

अहं हंसरूपी । निबोध जानीहि ॥ २१ ॥

प्रमेयचन्द्रिका

इत्यहमित्यस्य इति मुनिभिः पृष्टोऽहं तदा तेभ्यो यदवोचम् । तन्मे सकाशान्निबोध जानीहि इति योजना ॥ २१ ॥

वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः ।

कथं घटेत वो विप्रा वक्तुं वाऽनेक आश्रयः ॥ २२ ॥

तात्पर्यम्

आत्मनो वस्तुनः परमात्मवस्तुन एकत्वं यद्यङ्गीकृतम् । तदा कथं प्रश्नो घटेत ॥ न हि परमात्मनोऽन्योऽत्र ब्रह्मणा पूज्यः स्यादभिवन्दनादिना । तस्मा-द्ब्रह्मणो वन्द्यः परमात्मैव स चैक एव अतः कथं प्रश्नः परिहारो वा ॥

पदरत्नावली

ज्ञानविधुरयोनित्वेन संशयविषयेण स्वेनोक्तार्थे प्रामाण्य(बुद्धि)जननाय को भवानिति तत्प्रश्नं विघटयति वस्तुन इति । आत्मनो वस्तुनः परमात्मवस्तुनो भवत्पक्षे यद्यनानात्वमेकत्वं विवक्षितं तर्हि अनानात्वे एकत्वपक्षे को भवानितीदृशः प्रश्नः कथं घटेत । सिद्धविषयत्वादिति शेषः । हे विप्रा वः प्रश्नो यद्यनेकाश्रयः नानात्वाश्रयस् तर्ह्यपि को भवानिति वक्तुं कथं घटेत । अनेकस्मिन् बहुत्वसङ्ख्याविशिष्टे वस्तुनि एकत्वसङ्ख्याविशिष्टत्वेन वक्तुमनु-पपन्नत्वात् ॥ २२ ॥

श्रीनिवासतीर्थीया

वस्तुन इत्यादिश्लोकमन्यथाप्रतीतिपरिहाराय व्याचष्टे ॥ आत्मन इत्यादि ॥ एवमङ्गीकारे कुतः प्रश्नो न घटेत इत्यतः कृतपादाभिवन्दनमित्यनेन सूचितं भावमाह ॥ न हीत्यादिना ॥ अत्र जगति । ब्रह्मणो ब्रह्मणा । एक एवेति सिद्धमस्ति यत एवेति शेषः । अतः सिद्धविषयादित्यर्थः । वक्तुं वेत्यस्यार्थः ॥ परिहारो वेति ॥ प्रश्नाभावे परिहारो नैव घटते तद्बीजत्वात्तस्येत्यर्थः । हे विप्राः । वः प्रश्नो यद्यनेकाश्रयो नानात्वाश्रयः परमात्म-वस्तुनोऽनेकत्वमिति यावत् । तर्हि को भवानिति वक्तुं कथं घटते । अनेकस्मिन् बहुत्वविशिष्टे वस्तुन्येकत्वसङ्ख्याविष्टत्वेन वक्तुमनुपपन्नत्वात् ॥ २२ ॥

दुर्घटभावदीपिका

हे विप्राः । आश्रयो जगदाश्रयः । परमात्माऽनेक इति कथं वक्तुं शक्यते । जगन्नाशप्रसङ्गात् । यद्यात्मनो वस्तुनः परमात्माख्यवस्तुनोऽनानात्वेऽनानात्वमेकत्वमङ्गीकृतं तर्हि ब्रह्मवन्द्यत्वेन मम परमात्मत्वस्य सिद्धत्वात् । को भवानिति वः प्रश्नः कथं घटेत तव मम परिहारश्च कथं घटेतेति । एतेनाश्रयोऽनेक इतीति वक्तुं कथं घटेतेत्यत्र हेतुर्नोक्त इति शङ्काऽ-नवकाशः । जगन्नाशप्रसङ्गादित्यस्य शेष इत्यङ्गीकारात् । एतेनैवानानात्व इति वक्तव्यमनानात्वे इति सप्तमीप्रयोगोऽनुपपन्न इति चोद्यस्यानवकाशः । अनानात्वे इति सप्तमी प्रथमादेश इत्यभ्युप-गमात् । एतेनैव यदि परमात्मन एकत्वमङ्गीकृतं तर्हि प्रश्नः परिहारश्च कथं घटेतेत्यत्र हेतुर्नोक्त इति शङ्काऽनवकाशः । मम ब्रह्मवन्द्यत्वेन परमात्मत्वस्य सिद्धत्वादित्यस्य शेष इति स्वीकरणात् । एतेनैवानुक्तसमुच्चयार्थं चेति वक्तव्यं वेति कथनमयुक्तमिति दूषणं परिहृतम् । वाशब्दश्चशब्दार्थ इत्यूरीकरणात् ॥ २२ ॥

प्रमेयचन्द्रिका

तत्र को भवानिति प्रश्न एवानुपपन्नः । प्रसिद्धविषयत्वात् । प्रश्नदोषा हि चत्वार इति अनुव्याख्याने सिद्धार्थतायाः प्रश्नदोषत्वोक्तेरित्याशयेन सनकादिकृतप्रश्नविघटनं क्रियते ॥ वस्तुन इति ॥ अत्रात्मनो वस्तुनश्चेतनस्य यद्यनानात्वमैक्यं तर्हि को भवानितीदृक्प्रकारः प्रश्नः कथं घटते । युष्माकं स्वस्वरूपस्याहमिति साक्षिणा निश्चितत्वेन युष्माकं मम भेदाभावान्मम स्वरूपस्यापि निश्चितत्वेन प्रश्नायोगात् । अभेदाभावाद्भवति पश्न इति चेन्न । आश्रयो ज्ञानाश्रय-श्चेतनोऽनेक इति वा कथं घटते । तत्वमस्याद्यागमैश्चैतन्यैक्यस्यैव सिद्धत्वादिति परेषां व्याख्यान-मुदाहरिष्यमाणानेकप्रमाणविरुद्धम् । श्रुत्यादेरन्यार्थकत्वादित्याशयेन यथावद्व्याचष्टे ॥ आत्मनो वस्तुन इति ॥ आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यत इत्युक्तेः परमात्माख्यवस्तुन इति मूलार्थ इति भावः । मूले यद्यपि अनानात्वमित्यतःपरमङ्गीकृतमित्यध्याहार्यमित्याशयेन तदर्थमाह ॥ एकत्वं यद्यङ्गीकृतमिति ॥ यदीति श्रवणात्तदेत्यध्याहारं दर्शयन्नीदृशः प्रश्नः कथं घटेतेत्येतद्योजयति ॥ तदा प्रश्नः कथं घटेतेति ॥

तदयं मूलार्थः ॥ हे विप्राः शक्तं वस्त्विह चोच्यत इत्युक्तेर्वस्तुनः शक्तस्य परमात्मनः यदि विद्वद्भिरेकत्वमङ्गीकृतं तदा को भवानितीदृशो वः प्रश्नः कथं घटेत । मम परमात्मत्वस्य निर्णीतत्वादिति भावः ॥

ननु कथं परमात्मत्वं निर्णीतं निर्णायकाभावादित्यतः प्रश्नत्रयाभिप्रायमाह ॥ न हीति ॥ चतुर्मुखादुत्तमस्य भगवदन्यस्याभावे श्रुत्यादिप्रसिद्धिद्योतनाय हिशब्दः । प्रत्युत्थानस्वागतोक्त्यादिना मुख्यवायोर् ब्रह्मणा पूज्यत्वादभिवन्दनादिनेत्युक्तम् । आदिपदेन स्तुत्या चेतनादिग्रहणम् । भवतां समक्षं ब्रह्मणा मम पादाभिवन्दनं कृतमतोऽहं परमात्मेति निर्णीत इति भावः । अस्तु तव परमात्मत्वं तथाऽप्यनेकेषां परमात्मनां भावात्तेषु को भवानिति प्रश्नो घटत एवेत्याशङ्कानिवारणाय प्रवृत्तस्य वस्तुनो यद्यनानात्वमित्यस्य विवरणाय वक्तुरनेकाश्रय इति चतुर्थप्रादप्रवृत्तिः । परमात्मत्वस्याश्रयोऽनेक इति वा वक्तुं कथं घटत इति तदर्थः । तत उक्तशङ्काविघटकं यथा स्यात्तथा तदभिप्रायमाह ॥ स चैक एवेति ॥ एवेत्यवधारणेन एकमेवाद्वितीयमित्यादिश्रुतिमत्र सूचयति । ततः किमित्यत आह ॥ अत इति ॥ यतो मम परमात्मत्वं ब्रह्मवन्दनेन निर्णीतम्, यतश्च परमात्मा एक एव नान्य इति प्रमितम् ॥ अत एवं सिद्धविषये प्रश्नोऽनुपपन्नः । प्रश्नस्यैवायुक्तत्वे शङ्कापरिहारो व्यर्थ इत्यर्थः । वाशब्दात्परमिति भाव इति संयोज्यम् ॥ २२ ॥

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।

को भवानिति वः प्रश्नो वाचारम्भो निरर्थकः ॥ २३ ॥

तात्पर्यम्

वस्तुतः समानेषु हिरण्यगर्भावरत्वात्तद्वन्द्यत्वाभावापेक्षया । तस्मा-द्ब्रह्मणो वन्दनानन्तरं विचारो न घटते । तस्मात्को भवानिति वाचा प्रारब्धः (आरब्धः) प्रश्नो निरर्थकः ॥ २३ ॥

पदरत्नावली

सिद्धविषयत्वं कथमत्राह– पञ्चात्मकेष्विति । देवमनुष्यपितृगन्धर्वासुरभेदेन पञ्चविधेषु भूतेषु जीवेषु हिरण्यगर्भापेक्षयाऽवरत्वात् तद्वन्द्यत्वाभावापेक्षया वस्तुतो वस्तुवृत्त्या समानेषु सत्सु ब्रह्माभिवन्दितचरणारविन्दं मामुद्दिश्य को भवानिति वाचारम्भो यस्य स तथा, वाचारब्ध इत्यर्थः, वः प्रश्नः निरर्थकः निर्विषय इति ॥ २३ ॥

श्रीनिवासतीर्थीया

पञ्चात्मकेष्विति श्लोके वस्तुतः समानेष्वित्येतदन्यथाप्रतीतिनिरासायानूद्य व्याचष्टे ॥ वस्तुत इत्यादिना ॥ पूर्वार्धस्याभिप्रेतं शेषं दर्शयति ॥ तस्माद्ब्रह्मण इति ॥ वाचाऽऽरब्धो वाचा केवलमारब्धो यतोऽतो निरर्थको निर्विषयः । सन्दिग्धस्यैव विषयत्वेन प्रकृते तदभावादित्याशयः ॥ २३ ॥

प्रमेयचन्द्रिका

मूले सिद्धविषयत्वस्याप्रतीतेस्तदुपपादनं क्रियते ॥ पञ्चात्मकेष्विति ॥ अत्र वस्तुत इत्यस्यान्वयाप्रतीतेर्भूतशब्दस्य वक्ष्यमाणरीत्या दैवादिपरत्वेऽपि तेषां हिरण्यगर्भेण परस्परं च समानत्वस्य प्रमाणविरुद्धत्वाच्च पूर्वोत्तरार्धयोः सङ्गत्यप्रतीतेर्व्याचष्टे ॥ वस्तुत इति ॥ वस्तुतः स्वभावतः समानेष्वित्यन्वयः । समानत्वं च नात्र ज्ञानानन्दादिगुणैः साम्यं विवक्षितम् । येन प्रमाणविरोधः । किन्तु रुद्रादीनां मानुषान्तानां हिरण्यगर्भादवरत्वात्तद्वन्द्यत्वाभावः समानः । तदपेक्षया समानेष्वित्युक्तमित्यर्थः । युधिष्टिरेणावन्द्यस्य भीमसेनस्य वन्द्यत्वेऽपि तदवरत्वाभावान्नात्र शङ्कनीयमिति ज्ञापयितुं वस्तुत इत्युक्तम् । स्वभावतो वन्द्यत्वेन समानत्वमिह विवक्षितम् । न तु वन्द्यत्वमात्रेण, युधिष्टिरस्य तु न स्वभावतो वन्द्यत्वमिति दोष इति भावः ॥

पूर्वोत्तरार्धयोर्हेतुहेतुमद्भावे न सङ्गतिरित्याशयेन तां विवृण्वन्नुत्तरार्धमाह ॥ तस्मादिति ॥ तस्माद्भगवतोऽन्यस्य हिरण्यगर्भवन्द्यत्वाभावाद् ब्रह्मणो वन्दनानन्तरं परमात्मैवायं हंस इति निर्णीतत्वेन विचारो न घटते । अतोऽस्माद्वाचारब्धः को भवानिति प्रश्नो निरर्थको निर्विषय इत्यर्थः । सन्दिग्ध-स्यैव प्रश्नविप्रविषयत्वादिति भावः । वाचाऽऽरम्भणं यस्य स वाचारम्भण इति समानलब्धार्थकथनं वाचाऽऽरब्ध इति ॥

अयं मूलार्थः ॥ पञ्चात्मकेषु देवमनुष्यपितृगन्धर्वासुरभेदेन पञ्चविधेषु जीवेष्वपि वस्तुतो हिरण्यगर्भवन्द्यत्वाभावेन समानेषु सत्सु निर्विषयत्वोक्तेः । अत एव केवलं मुखमस्तीति वक्तव्यमिति न्यायेन वाचारब्धप्रश्नोऽनुपपन्न इति ॥ नन्वस्त्वेवं हिरण्यगर्भवन्द्यत्वेन हेतुना परमात्मैवायमिति निश्चितत्वात्प्रश्नोनुपपन्न इति ॥ २३ ॥

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः ।

अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसा ॥ २४ ॥

तात्पर्यम्

त(य)स्मान्मन आदिभिर्गृह्यमाणमहं न भवाम्येव । स्वयमपि प्रसादा-त्कथंचिद्गृह्यत इत्यत आह । मत्तोऽन्यदिति । यन्मनआदिभिर्विचार्य मत्तोऽन्यत्वेनैव ज्ञायते । तदहं न भवाम्येवेति बुध्यध्वम् । विचारितस्यापि पुनः संशयकारणं परिकल्प्य संशयो न कर्तव्यः । अतः को भवानिति नारब्धव्यः, गुणेष्वाविशते चेत इत्येव प्रश्न आरब्धव्यः ।

‘न युष्माकमपि प्रश्नो घटेतायं कथञ्चन । मामृते न हि वन्द्योऽस्ति विरिञ्चेः क्वापि कश्चन । अभिवन्दितपादं मां विरिञ्चेन कथं पुनः । पृच्छथान्ये समा यस्मादवरत्वे चतुर्मुखात् । देवा मनुष्याः पितरो गन्धर्वा असुरास्तथा । इति पञ्चात्मकं सर्वं ब्रह्मणस्त्ववरं यतः । यन्मदन्यद्विचारेण गृह्यते तन्न चास्म्यहम् । इति जानीध्वमद्धैव मत्प्रसादाद्धि मद्दृशिः । अन्यत्स्वभावतो दृश्यं मम प्रेरणयैव तु । तस्माद्विवक्षितार्थे तु प्रश्नारम्भो न मद्गत’ इति तन्त्रभागवते ॥

‘इदं हि विश्वं भगवानिवेतर’ इति च । ‘प्रकृतेर्व्यतिरिक्तो यः पुरुषश्चेति कथ्यते । तं विद्यात्परमात्मानं वासुदेवेति यं विदुरि’ति भारते ॥ ‘प्रकृतेः प्राकृताच्चैव व्यतिरिक्तं गुणाधिकम् । ये विदुः परमात्मानं ते यान्ति परमं पदमि’ति च ॥ ‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकमि’ति च ॥ २४ ॥

पदरत्नावली

कुतो निरर्थक इति तत्राह– मनसेति । मनआदीन्द्रियैर्यद् गृह्यते तदहं न भवाम्येवेति यस्मात् तस्मान्निर्विषय इत्यन्वयः । त्वमपि त्वत्प्रसादाद् गृह्यसे ननु । तस्मात् प्रश्नः कुत इति तत्राह– मत्तोऽन्यदिति । नेत्यनुषज्यते । अन्यदिति भावनिर्देशः । यन्मन-आदिर्भिर्विचार्य मत्तोऽन्यत्त्वेनैव गृह्यते तदहं न भवाम्येवेति बुद्ध्यध्वमितीदम् अञ्जसा तत्त्वम् । अञ्जसा त्वरिते तत्त्व इत्यभिधानम् । विचार्य निर्णीतस्यापि पुनः संशयकारणं परिकल्प्य संशयो न कर्तव्यः । अतः को भवानिति प्रश्नो नारब्धव्यः । किन्तु गुणेष्वाविशते चेद् इत्येव प्रश्न आरब्धव्य इति भावः । ‘‘न युष्माकं मयि प्रश्नो घटतेऽयं कथञ्चन । मामृते नहि वन्द्योऽस्ति विरिञ्चेः क्वापि कश्चन । अभिवन्दितपादं मां विरिञ्चेन कथं पुनः । पृच्छथान्ये समा यस्मादवरत्वे चतुर्मुखात् । देवा मनुष्याः पितरो गन्धर्वा असुरास्तथा । इति पञ्चात्मकं सर्वं ब्रह्मणस्त्ववरं यतः । यन्मदन्यद् विचारेण गृह्यते तन्न चास्म्यहम् । इति जानीध्वमद्धैव मत्प्रसादाद् हि मद्दृशिः । अन्यत् स्वभावतो दृश्यं मम प्रेरणयैव तु । तस्माद् विवक्षितार्थे तु प्रश्नारम्भो न मद्गतः’’ इति समाख्यानबलादुक्त एवार्थो नान्यः स्वकपोलकल्पित इति । किञ्च इदं हि विश्वं भगवानिवेतर इत्यतश्च हरेर्जगतो भेदः सिद्ध इति । सकलशास्त्राणां मोक्षे हि तात्पर्यम् । मोक्षश्च प्रकृतिप्राकृतविवेकज्ञानाद् विष्णोः । तदुक्तम् ‘‘प्रकृतेर्व्यतिरिक्तो यः पुरुषश्चेति कथ्यते । तं विद्यात् परमात्मानं वासुदेवेति यं विदुः’’, ‘‘प्रकृतेः प्राकृताच्चैव व्यतिरिक्तं गुणाधिकम् । ये विदुः परमात्मानं ये यान्ति परमं पदम्’’, ‘‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’’ इति बहुप्रमाणेषु ॥ २४ ॥

श्रीनिवासतीर्थीया

निरर्थक इत्युक्तं प्रकारान्तरेणोपपादयति ॥ मनसेति ॥ अत्राहमेव न मत्तोऽन्यदित्यन्वयनिरासायाहमेव नेत्येतावदेव वाक्यं कृत्वा तत्राप्येवकारस्य नञोऽनन्तरमध्याहृतया भवामीति क्रियया सम्बन्ध इत्याशयेनाह ॥ तस्मादिति ॥ मनआदिभिरिन्द्रियैर्गृह्यमाणं यद्वस्तु तदहं भवाम्येव । यदि तदभिन्नोऽहं भवामि तर्हि तदभिन्नस्य मम वाङ्मनआदिगोचरत्वप्राप्त्या वाङ्मनो-व्यापाररूपप्रश्नपरिहारविषयत्वं स्यात् । न च तदहमस्मि । अतो मम तद्वन्मनआदिगोचरत्वाभावेन प्रश्नादिविषयत्वाभावान्निरर्थक इत्याशयः । नन्वेवं मनआदीन्द्रियागोचरत्वे श्रवणादिवैयर्थ्यमित्यतः श्रवणादिसार्थक्याय भगवतः प्रश्नादिविषयत्वं वाच्यमित्युक्तम् । बुद्ध्यध्वमञ्जसेति वाक्यमध्याहार्यम् । मत्तोऽन्यदिति बुध्यध्वमित्येतदवतारयति ॥ स्वयमिति ॥ प्रसादात्प्रसादप्राप्तविचारात् । इत्यत इत्याशङ्कायामाह अङ्गीकारेण परिहरतीत्यर्थः ।

वाक्यद्वयाभिप्रायमाह ॥ यन्मन इत्यादिना ॥ अत्र बुद्ध्या विवेकेन वाक्यं भित्वा योज्यम् । तत्र मत्तोऽन्यत्वेनैवेत्येतावद्भागं विहायेतरदाद्यशङ्कापरिहारकाञ्जसेत्यादिवाक्यभावकथनम् । अंजसेत्यत्रापि मनसेत्यादिकं सर्वमनुवर्तते । यन्मनआदिभिरिन्द्रियैर्विचार्य श्रवणादिपुरुषप्रयत्नेन ज्ञायते तदहं न भवाम्येवेति बुद्ध्यध्वं जानीध्वम् । यदि पुरुषप्रयत्नसाध्यविचारेण यद्वस्तु गृह्यते तदभिन्नोऽहं स्यां तदेव मम पुरुषप्रयत्नसाध्यविचारगोचरत्वप्राप्त्या प्रश्नादिगोचरत्वापत्तिर्न चैवमतो न तद्वन्मन-आदिविचारगोचरत्वेन भगवत्प्रश्नविषयत्वमिति भावः । यथोक्तम् । तदव्यक्तमाह हीति ।

यदि त्वत्प्रसादो भक्तोपरि भवति तदा त्वत्प्रसादात्त्वद्विषयकविचारोऽप्यस्माभिर्मनआदीन्द्रियैः कर्तुं शक्यत इति युक्तः प्रश्न इति द्वितीयशङ्कामङ्गीकारेण परिहर्तुमुक्तस्य मत्तोऽन्यदिति बुद्ध्यध्वमित्यस्य भावं कथयितुं मत्तोऽन्यत्वेनैव बुद्ध्यध्वं, विचारितस्यापीत्यादि । बुद्ध्यध्व-मित्यस्याप्यत्रान्वयः । अत्र लकारव्यत्ययः । एवं चान्यत्पञ्चभूतात्मकं सर्वं मत्प्रसादात्प्राप्तविचारेणेति शेषः । ब्रह्मवन्दनादि च मत्तोऽन्यत् । भावप्रधानो निर्देशः । मत्तोऽन्यत्वेन बुद्धमेवास्ति विचारितमेवास्तीत्यर्थः ।

तर्हि प्रश्नः कुतो न युज्यत इत्यत आह ॥ विचारितस्यापीत्यादि । ब्रह्मवन्दनादिना विचारितस्य मत्स्वरूपार्थस्य विषये संशयकारणम् । यथा लोके कस्मिंश्चिदेव वस्तुनि सर्वसाधारण्येनैव ज्ञाते सत्यसाधारण्येन ज्ञानाभावे को भवानिति प्रश्नो दृष्टोऽतो जगन्मध्ये मामपि प्रवेश्य तत्साधारण्यज्ञानरूपं संशयकारणम् । अतो मूलभूतसंशयायोगादित्यर्थः । इति प्रश्नः । तर्हि कथमस्माभिः प्रश्नः कार्य इत्यत आह ॥ गुणेष्विति ॥ इति प्रश्न एवेत्यन्वयः । इति यः प्रश्नो भवत्पितरं प्रति कृतस्तत्परिहारमेव वक्तुं ब्रह्मचिन्तया ममागत्या मां प्रति स एव प्रश्नः को भवानिति प्रश्नः । समानेष्वित्यस्य तात्पर्यम् ॥ अन्य इति ॥ अवरत्वेऽवरत्वविषये । पञ्चात्मकेषु भूतेष्वित्यस्य प्रतीतार्थपरिहारार्थमाह ॥ देवा इत्यादि ॥ मनसेति श्लोकतात्पर्यम् ॥ यदिति ॥ अञ्जसेत्यस्यार्थः ॥ विचारेणेति ॥ तस्य चार्थान्तरमाह ॥ ओति ॥ मद्दृशिर्मत्सर्वोत्तमत्वा-परोक्षज्ञानं मत्प्रसादाद्भवतां जातैवास्तीति शेषः । स्वभावतः पुरुषप्रयत्नेन । विवक्षितार्थे विचारितार्थ इति यावत् । मयि गतो मद्गतो मद्विषयको यः प्रश्नस्तदारम्भो न कार्य इत्यर्थः ।

तथा चेयं श्लोकत्रयाक्षरयोजना ॥ को भवानिति कृतं प्रश्नमेवादौ विघटयति ॥ वस्तुन इति ॥ हे विप्राः । यदि वो भवद्भिरात्मनो वस्तुनः परमात्माख्यवस्तुनोऽनानात्वमभेद एकत्वमङ्गीकृतं तदाऽनेकाश्रयः । अलुक्समासः । अनेकपरमात्मकत्वविषये ईदृशः को भवानिति प्रश्नःकथं घटेत वक्तुं वा परिहर्तुं वा कथं घटते । यद्यनेकत्वं परमात्मनस्तर्हि तन्मध्ये को भवानिति प्रश्नः कार्यः । न चैतत्सम्भवति । परमात्माख्यवस्तुन एकत्वाङ्गीकारात् । एकस्य च तस्य स्वरूपं ब्रह्मवन्दनेन निश्चितमेव । कुतः, ब्रह्मवन्दितवस्तूनामनेकेषामभावात् । तथा च सिद्धविषयत्वात्प्रश्नादि न घटत इत्याशयः । तस्य च प्रश्नदूषणत्वम् । प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यमित्यनुव्याख्याने स्पष्टम् । सिद्धविषयत्वमेवोपपादयति ॥ पञ्चेति ॥ देवमनुष्य-पितृगन्धर्वासुरभेदेन पञ्चात्मकेषु भूतेषु प्राणिषु वस्तुतः स्वभावतो ब्रह्मवन्द्यत्वाभावेनावरत्वविषये समानेषु सत्सु ब्रह्मणाभिवन्दितपादे मयि विचारः सन्देहः न घटत इति शेषः । ततः किमित्य-तस्तन्मूलः प्रश्नो न युक्त इत्याह ॥ को भवानिति ॥ वो भवद्भिः कृतः को भवानिति प्रश्नो वाचारम्भो वाचैवारम्भो यस्य स तथा । केवलवाचारब्धत्वादनर्थको निरर्थको निर्विषयः । असंदिग्ध-विषयत्वादित्युक्तं भवति ।

पुनर्निरर्थक इत्युक्तमुपपादयति ॥ मनसेति ॥ मनसा वचसा दृष्ट्याऽन्यैरिन्द्रियैरप्येका-दशेन्द्रियैरपि एकादशेन्द्रियैर्यद्वस्तु गृह्यते तदहं नैव भवामि । तथा च वाङ्मनसागोचरे मयि वाङ्मनो-व्यापाररूपः प्रश्नो न सम्भवतीति भावः । तर्हि श्रवणादिविधिवैयर्थ्यं स्यादतोऽस्त्येव मनआदिगोचरत्वमिति युक्तोऽस्मत्प्रश्न इत्यतः स्वोक्तं विशदयति ॥ बुद्ध्यध्वमञ्जसेति ॥ मनसेत्याद्यनुवर्तते । तथा चैकादशेन्द्रियैर्यदंजसा विचाररूपपुरुषप्रयत्नेन गृह्यते तदहं न भवाम्येवेति जानीध्वम् । तथा च मत्प्रसादं विना स्वतः पुरुषयत्नेन मनआदिभिर्न गृह्यत इति युक्ता मनआद्य-गोचरत्वोक्तिस्तथा चायुक्तः प्रश्नः ।

ननु भवत्प्रसादे सति विचारोऽप्यस्माभिः कर्तुं शक्यत एवेति भवत्प्रसादप्राप्तविचारेण भवतो मनआदिग्राह्यत्वसम्भवाद्युक्तोऽस्माकं प्रश्न इत्यतो मत्प्रसादप्राप्तविचारेण मत्स्वरूपं सम्यग्भवद्भि-र्ज्ञातमेवास्तीति सिद्धविषयत्वान्न प्रश्नो युक्त इत्याह ॥ मत्तोऽन्यदिति बुद्ध्यध्वमिति ॥ अन्यत्पञ्चभूतात्मकं जगन्मत्तोऽन्यत्वेन भगवत्स्वरूपं च तदुत्तमत्वेन प्रसादप्राप्तविचारेण ब्रह्मवन्दनेन च बुद्धमेवास्तीत्यतो मामपि जगत्कोटौ प्रवेश्य तत्साधारण्यं ज्ञात्वा सन्देहो न कर्तव्यः । तथा च तन्मूलकः को भवानिति प्रश्नो न कर्तव्यः । किं नाम, गुणेष्वाविशते चेत इति यः प्रश्नो ब्रह्माणं प्रति कृतः स एव ब्रह्मकृतचिन्तया तमेव प्रश्नं परिहर्तुमागतं मां प्रत्येव कर्तव्योऽहमेव तं परिहरिष्यामीत्याशय इति । नन्वहमेव न मत्तोऽन्यदित्यत्र मनआदिभिर्गृह्यमाणं वस्त्वहमेव मत्तोऽन्यन्नेत्यर्थः । कस्मान्न स्यादित्यतस्तत्र प्रमाणविरोधादित्याह ॥ इदं हीति ॥ इतरोऽपि भगवानिदं विश्वमिवोच्यत इत्यर्थः । प्रमाणद्वये तु व्यतिरिक्तपदेन भेदः स्पष्टमुक्तः ॥ नैतदिति ॥ अत्र बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । यदि बहवस्तदा को ह्यत्र पुरुषः श्रेष्ठस्तं भवान् वक्तुमर्हति । कः श्रेष्ठो येन प्रकारेण श्रेष्ठस्तं तथेत्यर्थ इति जनमेजयप्रश्ने वैशंपायनेन पुरुषैक्यपक्षं नैतदिति विनिन्द्य बहुत्वपक्षं स्वीकृत्य बहूनां पुरुषाणाम् एका योनिर्यदेकं कारणं तं गुणाधिकं विश्वं पूर्णं पुरुषं यथा येन प्रकारेण योनिस्तथा तेन प्रकारेणाख्यास्यामीति स्पष्टं भेदमात्रोक्तेरित्यर्थः

॥ २४ ॥

प्रमेयचन्द्रिका

तथापि प्रत्यक्षादिप्रमाणग्राह्यादस्मात्प्रपञ्चाद्भिन्नोऽभिन्न एवेति संशयेन को भवानिति प्रश्न आरब्ध इत्याशङ्का परिह्रियते ॥ मनसेति ॥ एतदुत्तरमत्र स्पष्टीकरिष्यति । तत्र मनआदिभिरिन्द्रियैर्गृह्यमाणं सर्वमहमेव मत्तोऽन्यन्नेति बुध्द्यध्वमित्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ यस्मादिति ॥ यस्मादित्येतदत इति वक्ष्यमाणेनान्वेति । मनआदिभिरिन्द्रियैर्गृह्यमाण इति पूर्वार्धः । अहं न भवाम्येवेत्येतदहमेवेत्यस्यार्थः । तदव्यक्तमाह हीत्यादौ भगवतो मनआद्यग्राह्यत्वस्य निर्णीतत्वात्प्रपञ्चस्य तद्ग्राह्यत्वात्प्रपञ्चापेक्षया हरेर्भेद एवात्रोच्यते नाभेद इति भावः ॥

नन्वेवं योजनायां मत्तोऽन्यदित्येतद्व्यर्थम् । अहं न भवाम्येवेत्यवधारणेन किन्तु मत्तोऽन्यन्न हीत्यर्थस्य प्राप्तत्वादित्याशङ्कावारणाय तदवतारयति ॥ स्वयमपीति ॥ मनआदिभिर्गृह्यमाणं सर्वमहं न भवामीत्ययुक्तम् । अतोऽनन्तेन तथाहि लिङ्गमित्यादौ स्वप्रसादात्कथञ्चिदनेकसाधनैर्मनसा-मापरोक्ष्योक्तेः । देवादिषु प्रसादेन रामकृष्णाद्यवतारेषु चक्षुरादिना सर्वैर्दृश्यमानत्वादिति । यतः शङ्का प्राप्ता अतस्तत्परिहारार्थं मत्तोऽन्य इत्याह भगवानित्यर्थः । कथमेतेनोक्तशङ्कापरिहार इत्यतो व्याचष्टे ॥ यदिति ॥ अनेन मूले यच्छब्दावध्याहार्यौ । मनसेत्यादेरावृत्तिः । विचार्येति शेषः । अन्यदिति भावप्रधानमव्ययम् । तेनान्यत्वेनेति लभ्यते । अहमेव नेत्यस्यानुवृत्तिश्च कार्येति सूचितं भवति । ततश्च मनसा दृष्ट्या अन्यैरपीन्द्रियैरिति प्रत्यक्षेण वचसा आगमेन । अपिशब्दादनुमानेन च सम्यग्विचार्य मत्तोऽन्यत्वेन यद्गृह्यते तज्जगदहं न भवाम्येवेत्यंजसा बुध्द्यध्वमिति मूले योजनोक्ता भवति । नन्वत्र सर्वस्मादीश्वरस्य भेदाभिधानमसङ्गतम् । प्रश्नखण्डनानुपयोगित्वादित्यतस्तदभिप्रायमाह ॥ विचारितस्यापीति ॥ हिरण्यगर्भवन्दनेन हरिरेवायं हंस इति विचार्य निश्चितस्याप्यर्थस्य विषये सर्वस्मात्परमात्मा भिन्नोऽभिन्नो वेति संशयस्याप्रामाणिकं कारणं परिकल्प्य संशयो न कर्तव्यः । मनआदीन्द्रियागम्यत्वतदभावरूपविरुद्धधर्माधिकरणत्वे भेदस्यैव निर्णीतत्वादित्यर्थः ॥ अस्त्वेवं संशयाभावस् ततः किमित्यत आह ॥ अत इति ॥ यस्मान्मनआदिभिर्मत्तोऽन्यत्वेन गृह्यमाणमहं न भवाम्येव । यस्माच्च निश्चितार्थे संशयो न युज्यते । अतः को भवानिति प्रश्नो नारब्धव्य इति मूलाभिप्राय इति भावः ॥

श्लोकत्रयार्थे समाख्यामाह ॥ न युष्माकमिति ॥ मयि मत्समीपे । अयं को भवानिति पश्नः । कथंचन केनापि प्रकारेण । परमात्मापरिज्ञानेन वा । ज्ञानेऽपि जीवाद्यभेदरूपसंशये भ्रान्त्या तत्वमस्यादिश्रुतिरूपं कारणं परिकल्प्यते । न संशयेन चेत्यर्थः । आद्यप्रकारकप्रश्नानुत्थितिं दर्शयति ॥ मामृत इति ॥ मामृते विरिञ्चेर्वंद्यो नेति कुत इत्यतः प्रवृत्तस्य पञ्चात्मकेष्विति श्लोकस्य तात्पर्यमाह ॥ अन्ये समा इति ॥ चतुर्मुखादवरत्वे अवरत्वेन अवरत्वे विषय इति वा । पञ्चात्मकेषु भूतेष्विति पृथिव्यादिभूतपरत्वं वारयन्नवरत्वे समा इत्येतद्विवृणोति ॥ देवा इति ॥ यत इत्यस्यापि पूर्ववत्तस्मादिति योजना । द्वितीयप्रश्नानुत्थितं दर्शयति ॥ यन्मदन्यदिति ॥ मदन्यद् इति भावप्रधानः। यद्विश्वं मदन्यत्वेन गृह्यते तदहं नास्म्येवेत्यर्थः । इति बुध्यध्वमञ्जसेत्यस्यार्थः ॥ इतीति ॥ ननु प्रत्यक्षादिभिर्गृह्यमाणस्याब्रह्मत्वे तत्साक्षात्काराभावेन मोक्षायोगः । प्रमाणविरोधश्चेत्यत आह ॥ प्रसादादिति ॥ परमात्मनोऽन्यस्येन्द्रियादिग्राह्यत्वं स्वाभाविकम् । अतस्तदन्यत्वं परमात्मनोऽव्यक्तत्वमेव स्वभावः । दर्शनं तु परमात्मप्रसादा-यत्तमित्यौपाधिकम् । अतो न दोष इति भावः ॥ भगवदन्यत्स्वभावतो दृश्यं चेत्सत्ताप्रतीतिप्रभृतीनां भगवदधीनत्वमित्येतदयुक्तं स्यात् । प्रतीतेस्तदधीनत्वादित्यत उक्तम् ॥ मम प्रेरणयैव स्वभावतो दृश्यमिति ॥ स्वभावस्यापि हर्यधीनत्वादिति भावः । उपसंहरति ॥ तस्मादिति ॥ प्रश्नारम्भ-स्यानुपपन्नत्वात्तद्गुणेष्वाविशते चेत इति उक्तविवक्षितविषयेष्वेव प्रश्नः कार्यः । मद्गतो मद्विषयः प्रश्नो न कार्य इत्यर्थः ॥

अहमेव न मत्तोऽन्यदित्यस्य प्रतीतार्थ एव किं न स्यात् । सर्वं खल्विदं ब्रह्मेत्यादावैक्यस्य सिद्धत्वादित्यतस्तस्यान्यार्थत्वादित्याशयेन भेदसाधकान्यैक्यबाधकानि प्रमाणानि पठति ॥ इदं हीत्यादिना ॥ इतरो भगवानिदं विश्वमिवोच्यत स्वातन्त्र्यात् । सर्वं खल्विदं ब्रह्मेत्यादिश्रुतावित्यर्थः । यदधीना यस्य सत्ता तत्तदित्येव भण्यत इति न्यायादिति भावः । उक्तं च प्रथमतात्पर्ये इतरोऽपि भगवान्विश्वमिव स्वातन्त्र्यादिति ॥

अत्र स्पष्टं भेदप्रतीतेराह ॥ प्रकृतेरिति ॥ चित्प्रकृतेरचित्प्रकृतेस्तत्कार्याज्जडात्तद्बाधाज्जीव-जाताच्चेत्यर्थः । कथ्यते सहस्रशीर्षा पुरुष इत्यादौ । वासुदेवेत्यविभक्तिको निर्देशः । नायं भेदो भ्रान्तिसिद्धस् तज्ज्ञानिनो मोक्षश्रवणादित्याशयेनाह ॥ प्रकृतेः प्राकृतादिति ॥ एतेन पूर्वोदाहृत-प्रमाणेन प्रकृतिपदस्य प्राकृतोपलक्षकत्वं सूचितम् । जीवानां परस्परं भेदे हरेः सर्वोत्तमत्वे च स्पष्टं प्रमाणमाह ॥ नैतदिति ॥ एतदित्यस्य विवरणमेकं पुरुषमिति । किन्तु बहवः पुरुषा बहूनां पुरुषाणां मध्ये एका योनिर्जगत्कारणं यथा च तथा तं पुरुषं विश्वं पूर्णम् आख्यास्यामीत्यर्थः

॥ २४ ॥

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।

जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥

**तात्पर्यम् **

मय्येव मनो यस्य स मदात्मा तस्योभयं देहे दग्धमभवत् ॥ २५ ॥

पदरत्नावली

इदानी सनकादीनां प्रश्नं परिहरति गुणेष्विति । हे प्रजा ब्रह्मजत्वेन प्रकृष्टजन्मवत्त्वात् तथा सम्बोधनम् । चेतो गुणेष्वाविशते गुणाश्चेतसीति वः प्रश्नस्यायं परिहारः । मय्येवात्मा मनो यस्य स मदात्मा, तस्य जीवस्य गुणाश्चेतश्चेत्युभयं देहे दग्धमभवत् । दह भस्मीभाव इत्यस्योभयपदित्वेन एतद्रूपसिद्धिः ॥ २५ ॥

श्रीनिवासतीर्थीया

सनकादीनां प्रश्नं परिहर्तुं गुणेष्विति श्लोकः । तत्र देहे मदात्मन इति पदद्वयप्रसिद्धार्थनिरासायार्थमाह ॥ मय्येवेति ॥ मन इत्यात्मशब्दव्याख्यानम् । दग्धमिति दह भस्मीभाव इति धातोरिदं रूपं निष्पन्नम् । तथा चेह प्रजा ब्रह्मजत्वेन प्रकृष्टजन्मवत्त्वात् । गुणेष्वा-विशते चेतो गुणाश्चेतस्याविशन्ते तयोरन्योन्यसंत्यागे किं कारणमिति वः प्रश्नस्यायं परिहार इत्य-ध्याहारः । मदात्मनो जीवस्य गुणाश्चेतश्चेत्युभयं देहे दग्धमभवत् । अन्योन्यसन्त्यागो भवतीति यावत् । तथा च मदात्मत्वमेवान्योन्यसन्त्यागे कर्मातिरिक्तमपरं कारणमित्युक्तं भवति ॥२५॥

प्रमेयचन्द्रिका

मूले को भवानिति प्रश्नो न कार्य इत्युक्तम् । तर्हि गुणेष्वाविशते चेत इति प्राग्विरिंचं प्रति कृत एव प्रश्नः क्रियत इति सनकादिगतं जानता हंसेनोच्यते ॥ गुणे-ष्वित्यादिना ॥ तत्र मदात्मनो मत्स्वरूपस्येत्यन्यथाभानात्तदर्थमाह ॥ मय्येवेति ॥ देह इत्यस्य शरीर इत्यर्थप्रतीतेः प्रकृतोपयुक्तान्वयपूर्वकं पदं दर्शयन्नर्थमाह ॥ उभयमिति ॥ चेतो गुणाश्चेत्युभयं देहे ॥ दह भस्मीभाव इति धातोर्दग्धं भस्मीभूतमभवत् ॥ तदयं मूलार्थः ॥ प्रकृष्टाद्विरिञ्चाज्जननं यासां ताः प्रजा हे सनकादयः वश् चेतो यद्यपि गुणेष्वाविशति । गुणाश्चेतसि चाविशन्ति । तथापि मदात्मनो मच्चित्तस्य चेतो गुणाश्चेत्युभयं देहे दग्धमभवत् । इन्द्रियविषयाद्याधारत्वेन तत्प्रेरकत्वादिप्रकारेण भगवति भक्त्या मनोनिवेशपूर्वकं चेतआदिसर्वसमर्पणं चेतोगुणानामन्योन्य-सन्त्यागहेतुरिति भावः ॥ २५ ॥

गुणेषु वा विशेच्चित्तमभीक्ष्णं गुणसेवया ।

गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥

तात्पर्यम्

मत्स्वरूपे तदुभयं त्यजेत् । मयि स्थिताश्चेतो गुणाश्चेति । ‘विष्णुस्था विषयाः सर्वे विष्णावेव मनो मम । इति मय्यर्पयन्सर्वं त्यजेत्तत्तन्न बाधत’ इति साम्ये ॥

पदरत्नावली

पञ्चधातुमद्गुणचित्तभस्मीभावो ज्ञानाग्निनेत्युक्तम् । तत्र स केन कारणे-नोदेतीत्यत्राह– गुणेष्विति । अभीक्ष्णं निरन्तरं गुणानां विषयाणां सेवया चित्तं चेतो गुणेषु विषयेष्वाविशेत्, तदेकनिष्ठं वर्तते । गुणाश्च चित्तप्रभवाश् चित्ते प्रभवो येषां ते तथा, चित्ते संस्कार-रूपेण वर्तन्ते । हरिस्मरणमतिक्रम्य प्रतीयन्त इत्यर्थः । ततः किमत्राह– मद्रूप इति । तत्र विद्वान् मद्रूपे मम स्वरूपे चेतो गुणश्चेत्युभयं त्यजेत् । इदमुक्तं भवति । मनआदीन्द्रियाणि मदन्त-र्यामिणि हरौ स्थितानि तदाधाराणि तत्प्रेरितानि विषयेषु वर्तन्ते विषयाश्च विष्णुस्था विष्ण्वाधारा विष्णुप्रेरिता मम भोगसाधनानीत्ययं विष्णौ गुणादित्याग इति । ‘‘विष्णुस्था विषयाः सर्वे विष्णावेव मनो मम । इति मय्यर्प्य तत् सर्वं त्यजेत् तत् तं न बाधते’’ इति वचनान्मुमुक्षुभिरेवमेव नित्यमनुसन्धेयम् ॥ २६ ॥

श्रीनिवासतीर्थीया

अन्योन्यसंत्यागे निमित्तं कथयितुं प्रवृत्ते गुणेष्विति श्लोके मद्रूप इत्यादिकमन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ मदिति ॥ तदेव विशदयति ॥ मयीति ॥ मदाधारत्वेनेत्यर्थः । तत्र प्रमाणमाह ॥ विष्णुस्था इति ॥ सर्वं विषयादिकं तद्विषयकम् । तथा चामीक्ष्णं प्रत्यहं गुणानां विषयाणां सेवया । गुणेष्वेव चित्तमाविशेत् । अभीक्ष्णं गुणसेवया गुणाश्चित्ते प्रभवः सद्भावो येषां ते तथा । चित्ते संस्काररूपेण वर्तते । तथा चान्योन्यसंयोगेऽभीक्ष्णं गुणसेवैव कर्मातिरिक्तमपरं कारणमित्युक्तं भवति । तस्माद्गुणाश्चेतश्चेत्युभयं मद्रूपे त्यजेत् । मनआदीन्द्रियाणि मदन्तर्यामिणि हरौ स्थितानि तत्प्रेरितानि विषयेषु प्रवर्तन्ते विषयाश्च विष्णुस्था विष्णुप्रेरिता मम भोगसाधनानि भवन्तीत्यनुसन्धानं कुर्यादित्याशयः ॥ २६ ॥

दुर्घटभावदीपिका

सिद्धो यतः स्वरूपं स्वस्य स्वतन्त्रस्य नारायणस्य रूपमध्यगमदपरोक्षतो ज्ञातवान् । अतो देहं नश्वरं नाशसाधनोपेतम् । नशधातोः करणे वरप्रत्यये निष्पन्नान्नश्वर-शब्दान्मत्वर्थेऽच्प्रत्यये नश्वरेति रूपं निष्पन्नम् । अवस्थितं वस्त्रादिना सम्यगवस्थितं चोझ्झितं वा वस्त्रादिनोझ्झितं च न पश्यति । अत्र दृष्टान्तमाह ॥ दैवादिति । मदिरामदान्धः परिकृत-माच्छादिकं वासो वस्त्रं दैवादपेतं गतं दैवादुपेतमागतं च यथा न पश्यति तथेति । एतेन देहो नश्वर इत्यदर्शनमज्ञानामप्यस्ति । अतो ज्ञानिनो देहं नश्वरं न पश्यन्तीति विशिष्य कथनमयुक्तमिति चोद्यस्यानववकाशः । नश्वरमित्यस्य नाशशीलमित्यर्थ इत्यनङ्गीकारात् ॥ ३६ ॥

प्रमेयचन्द्रिका

गुणचेतसामन्योन्यानुप्रवेशे निमित्तकथनपूर्वकं पूर्वश्लोकोक्तविवरणं क्रियते ॥ गुणेष्वित्यादिना ॥ अभीक्ष्णं बहुशो विषयसेवनादिना विषयेष्वाविशते । विषयाश्च चित्तप्रभवाः संस्काररूपेण प्रभूताः स्थिता इत्यनेन बहुशो विषयसेवा तदनुस्मरणं चान्योन्यानुप्रवेशे हेतुरित्युक्तं भवति ॥ अत्र मद्रूपो मत्स्वरूपो जीव इति प्रतीतिं वारयन्नुभयमित्युक्तं दर्शयन् व्याचष्टे ॥ मत्स्वरूप इति ॥ मद्रूप इति सप्तमी । चेतो गुणा इति प्रकृतमुभयशब्दोक्तमित्यर्थः । भगवत्स्वरूपे तदुभयत्यागो नाम क इत्यत आह ॥ मयीति ॥ तदाधारत्वतदधीनत्वादिविचिन्तनमेव तत्र त्याग इति भावः । अत्र प्रमाणमाह ॥ विष्णुस्था इति ॥ इति प्रकारेण तत्सर्वं विषयं मनश्चैतत्सर्वं मय्यर्प्य त्यजेद्विषयसेवां तदभिमानं वा । तत्तर्हि विषयाणां मनसश्चान्योन्यसन्त्यागे तद्विषयादिकं तं पुरुषं न बाधत इत्यर्थः ॥ २६ ॥

जाग्रत्स्वप्नः सुषुप्तिश्च गुणतो बुद्धिवृत्तयः ।

तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ २७ ॥

पदरत्नावली

नन्वस्य गुणसङ्गस्य स्वाभाविकत्वे पुरुषायुषानन्त्येनापि त्यागो न सुलभ इति तत्राह– जाग्रदिति । जाग्रदाद्यवस्था गुणतो गुणद्वारेण बुद्धिवृत्तयः बुद्ध्या प्रकृत्या वृत्तिर्वर्तनं यासां तास्तथा । प्रकृतिगुणसम्बन्धाज्जीवस्य जाग्रदाद्यवस्थावर्तित्वं न स्वाभाविको गुणसङ्ग इत्यर्थः । तात्पर्यमाह– तासामिति । तासां जाग्रदाद्यवस्थानां साक्षित्वेन वर्तमानो जीवः स्वतस् ताभ्यो विलक्षणो विनिश्चित इत्यन्वयः ॥ २७ ॥

श्रीनिवासतीर्थीया

नन्वेतद्गुणसङ्गस्य स्वाभाविकत्वेन तत्त्यागोऽतिदुर्घट इत्यतो नायं स्वाभाविक इत्युच्यते ॥ जाग्रदिति श्लोकेन ॥ तत्र जाग्रत्स्वप्नः सुषुप्तं चेत्यवस्था बुद्धिवृत्तयो बुद्धिशब्दवाच्यप्रकृतिकार्यभूताः किं साक्षान्नेत्युक्तम् ॥ गुणतस्तत्कार्यसत्त्वादिगुणद्वारेणेति । सुषुप्त्यवस्था तमोगुणकार्या स्वप्नावस्था रजोगुणकार्या जाग्रदवस्था सत्त्वगुणकार्येति विवेकः । तासामवस्थानां साक्षित्वेन वर्तमानो जीवो विलक्षणो निश्चितः । स्वाभाविकतया गुणकृतावस्थाबद्धो न भवतीति युक्तस्तत्त्याग इत्याशयः ॥ २७ ॥

प्रमेयचन्द्रिका

ननु मनोविकारभूता जाग्रदाद्यवस्था जीवधर्मा इत्यविवादम् । अतश्चेतसो जीवस्वरूपत्वमेव युक्तम् । तत्कथं तत्राभिमानत्याग इत्यत उच्यते ॥ जाग्रदिति ॥ जाग्रदाद्यवस्था गुणतः सत्वादिगुणत्रयनिमित्ता बुद्धिवृत्तयः । चेतोविकारभूताः । जीवस्तु तासामवस्थायां साक्षित्वेन साक्षीकृतत्वेन विलक्षणतया इतर इत्यर्थः । सत्यं जाग्रदाद्या अन्तःकरणोपादानका अपि जीवधर्मा इति । किन्तु गुणत्रयनिमित्तका जीवस्यौपाधिका भिन्ना एव धर्माः । अतस्तत्राभिमानत्यागो युक्त एवेति भावः । न च वाच्यं मनस उपरतत्वात्कथं तद्विकारित्वं सुप्तेरिति । सुप्त्यवस्थात्वेन विकृतिरिति तदुपरतिरित्यङ्गीकारात् । अभावरूपाज्ञानमुद्बोध्येतरविषयादुपरम्य सुप्त्यवस्थात्मना विकार एव मनस इत्यदोष इति ॥ २७ ॥

यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तितः ।

मयि तुर्ये स्थितो जह्यात् त्यागस्तु गुणचेतसाम् ॥ २८ ॥

तात्पर्यम्

गुणचेतसां त्याग एव बन्धत्यागः ॥ २८ ॥

पदरत्नावली

नन्वयमस्वाभाविकः स्वत एव निवर्तते न तत्साधनप्रयत्नापेक्षेत्याशङ्कां परिहर्तुमुक्तानुवादपूर्वकं तत्साधनं कथयति यर्हीति । आत्मनो जीवस्यायं संसृतिबन्धः सत्वादिगुणप्रवृत्तित इति यर्हि यस्मात् तस्मात् तुर्ये गुणत्रयातीते मयि स्थितस्तं बन्धं जह्यान् मदुपासनासमुद्रेकसमुद्भूतज्ञानाविर्भूतमत्प्रसादेन बन्धं त्यजतीत्यर्थः । कोऽयं बन्धत्यागो नाम येन हेयत्वेन वर्ण्यत इति तत्राह– त्याग इति । विषयारूढबाह्यान्तःकरणत्याग एव बन्धत्यागो नाम नान्यदिति ॥ २८ ॥

श्रीनिवासतीर्थीया

तत्त्यागे साधनं कथयति ॥ यर्हीति ॥ तत्र त्यागस्त्वित्यनन्तरं शेषं पूरयति ॥ गुणेति ॥ तथा चात्मनो जीवस्यायं जाग्रदाद्यवस्थारूपसंसृतिबन्धो गुणानां सत्त्वादीनां वृत्तितः प्रवृत्तित एव भवति न स्वतो यर्हि यस्मात्तस्मात्तुर्ये मयि स्थितस्तं गुणसम्बन्धं जह्यात् । कोऽयं बन्धत्यागो नाम येनास्य हेयत्वं वर्ण्यत इत्यत उक्तम् ॥ त्यागस्त्विति ॥ गुणचेतसां हरौ त्यागस्तु त्याग एव । विष्णुस्था विषयाः सर्वे विष्णावेव मनो ममेत्यर्पणमेव । बन्धत्याग इति शेषः ॥ २८ ॥

प्रमेयचन्द्रिका

नन्वेवं चित्सञ्चलितान्तःकरणरूपत्वे जाग्रदाद्यवस्थानां तद्बन्धस्य स्वाभाविकत्वापत्या स्वत एव तन्निवृत्तिसम्भवात्साधनप्रयत्नो व्यर्थ इत्यनुवादपूर्वकं परिह्रियते ॥ यर्हीति ॥ यर्हि यस्मादात्मनो जीवस्यायं मुक्तरूपः संसारबन्धो गुणवृत्तितो भविताऽत एवास्वाभाविकस्तस्मात्तुर्ये गुणत्रयातीते मदुपासनालक्षणं स्थितः बन्धं जह्यादिति पादत्रयार्थः ॥

चतुर्थपादसङ्गत्यप्रतीतेस्तां सूचयन् व्याचष्टे ॥ गुणेति ॥ तदुभयं त्यजेदिति गुणचेतसां त्यागः फलत्वेनोक्तः । इदानीं संसृतिबन्धत्यागः फलत्वेनोच्यते । अतो विरोध इत्यतश्चतुर्थपादप्रवृत्तिरिति सङ्गतिः । तत्र तुरेवार्थे । बन्धत्याग इति ग्राह्यम् । तथा च गुणचेतसां त्याग एव संसृतिबन्धत्यागः, अतो न विरोध इति मूलार्थ इति भावः ॥ सगुणचेतसामिति पाठे सत्यस्य बन्धत्याग इत्यर्थः । अतोऽत्रावधारणमात्रं ग्राह्यम् ॥ २८ ॥

अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।

विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ २९ ॥

पदरत्नावली

नन्वनेनोपायेन गुणनिमित्तबन्धत्यागोऽस्तु, अहङ्कारनिमित्तबन्धत्यागस्य क उपाय इति मन्दाशङ्कामहङ्कारकृतबन्धोऽपि गुणहेतुक एवेत्येक एव नामान्तरेणोच्यते, उपायोऽप्ययमेवेत्याशयेन परिहरति अहङ्कारकृतमिति । अस्वरूपेऽप्यहङ्कारममकाराभ्यां रजोगुणो-त्क्वथिताभ्यां कृतमिमं बन्धमात्मनो जीवस्य अर्थविपर्ययं दुःखलक्षणमनर्थं विद्वान निर्विद्य अनित्यासारताबुद्धिं कृत्वा तुर्ये भगवति स्थितः संसारचिन्तां त्यजेदित्यन्ययः ॥ २९ ॥

श्रीनिवासतीर्थीया

एतदेव विशदयितुमहङ्कारेति श्लोकः । आत्मनो जीवस्याहङ्कार-कृतबन्धमर्थविपर्ययं मोक्षविरोधिभूतं विद्वान्मोक्षविरोधित्वेन जानन् तस्मान्निर्बन्धान्निर्विद्य विरक्तो भूत्वा तुर्ये स्थितोऽधिकारी संसारचिन्तां त्यजेदित्यर्थः ॥ २९ ॥

प्रमेयचन्द्रिका

नन्वभिमानादेव संसारोऽन्यथा नेत्युक्तेः कथं गुणवृत्तिः सृतिबन्ध इत्युच्यत इत्यतोऽभिमानद्वारा गुणानां बन्धहेतुत्वमिति सूचयन्वैराग्यपूर्वकं तुर्ये मनोऽभिनिवेशनमेव बन्धत्याग-साधनमित्युच्यते ॥ अहङ्कारेति ॥ अविद्यमानात्मगुणाभिमानरूपाहङ्कारवत्वं बन्धमात्मनः स्वस्यार्थविपर्ययं परमपुरुषार्थरूपमोक्षसुखविपर्ययं विद्वान् जानन् वसन् निर्विद्यानित्यासारताज्ञानेन सर्वस्मान्निर्वेदं प्राप्य तुर्ये हरौ स्थितस्तं ध्यायन्निति यावत् । संसारचिन्तां संसरत्यनेनेति संसारः कलत्रादिस्तच्चिन्तां जह्यादित्यर्थः ॥ २९ ॥

यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।

जाग्रत्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥

तात्पर्यम्

‘भिन्नस्य त्वेकभावेन तथैकस्य च भेदतः । ज्ञानं नानार्थधीः प्रोक्ता नानात्वादर्थतद्धियोरि’ति ब्रह्मतर्के ॥ ३० ॥

पदरत्नावली

ननु कियन्तं कालं संसारनुवृत्तिरत्राह– यावदिति । हरेः स्वातन्त्र्यादि-युक्तिभिः, जीवस्यास्वातन्त्र्यादियुक्तिभिरनयोर् जीवपरयोरेकत्वबुद्धिः, एकस्य हनेर्नानात्वबुद्धिरिति नानार्थधीर् मिथ्याज्ञानं यावन्न निवर्तेत तावदसौ जाग्रत्यपि स्वपन् निद्रालुरज्ञः संसार्येव । स्वप्ने जागरणं यथा जाग्रत्त्वबुद्धिः (यथा) । ‘‘भिन्नस्य त्वेकभावेन तथैकस्य च भेदतः । ज्ञानं नानार्थधीः प्रोक्ता नानात्वादर्थतद्धियोः’’ इति वचनादुक्त एवार्थो नान्य इति ॥ ३० ॥

श्रीनिवासतीर्थीया

ननु कियत्कालं बन्धोऽनुवर्तत इत्यत उच्यते ॥ यावदिति ॥ नानार्थ-धीरित्येतस्यान्यथाप्रतीतिनिरासाय प्रमाणेनैवार्थमाह ॥ भिन्नस्येति ॥ एकवचनं द्विवचनार्थे । वस्तुतो भिन्नयोर्जीवेश्वरयोरेकभावेनैकत्वेन । एकस्य हरेर्भेदतः स्वगतभेदवत्वेन । कुत इत्यत आह ॥ नानात्वादिति ॥ अर्थो यथाऽस्ति तथा ज्ञानं न विषयीकरोति किं त्वन्याकारेणेति भावः । तथा च नानार्थधीर्जीवेश्वरयोरभेदज्ञानमीश्वररूपेषु भेदज्ञानरूपं मिथ्याज्ञानं युक्तिभिः स्वातन्त्र्य-पारतन्त्र्यादिरूपविरुद्धर्माधिकरणत्वादियुक्तिभिः पुंसो यावत्पर्यन्तं न निवर्तेत तावत्पर्यन्तमयं पुमान् जाग्रत्यपि जाग्नदवस्थायामपि स्वपन् निद्रालुर्ज्ञेयः । तदभिप्रायमाह ॥ अज्ञ इति ॥ भगवदज्ञान-निमित्तं संसारबन्धवानिति यावत् । तत्र दृष्टान्तः । स्वप्ने यथा जागरणं जाग्रत्वज्ञानम् । स्वप्नत्वा-ज्ञानादनर्थसाधनं भवति । तथैक्यज्ञानादेर्मिथ्याज्ञानत्वाज्ञानात्सांसारिकदुःखभागित्याशयः ॥३०॥

प्रमेयचन्द्रिका

कियन्तं कालं संसारानुवृत्तिरित्याशङ्कां जीवेशादिष्वभेदज्ञानमीशरूपादिषु भेदज्ञानमित्यन्यथाज्ञानत्यागोऽपि बन्धनिवृत्तेः साधनमिति सूचयन् परिहरति ॥ यावदिति ॥ अत्र नानार्थधीरिति भेदज्ञानमिति भानाद्व्याचष्टे ॥ भिन्नस्येति ॥ तुशब्दोऽर्थवैपरीत्यरूपविशेषार्थः । तथाचशब्दावन्योन्यसमुच्चये । उक्तमर्थं पदारूढं करोति ॥ नानात्वादिति ॥ अर्थस्य ज्ञानं यदुल्लेखि तदपेक्षया भिन्नप्रकारत्वात्तद्ज्ञानस्य च यत्सन्निकृष्टकरणेन स्वयं जातं तदपेक्षयाऽन्योल्लेखित्वादित्येवं नानात्वादित्यर्थः । मूलार्थस्तु पुंसः नानार्थधीरर्थं विषयमपेक्ष्य नाना अन्यप्रकारा धीः । वस्तुत ईश्वरात्परात्परस्परं च भिन्नेषु जीवजडेष्वभेदज्ञानम् । स्वगुणरूपादिभेदवर्जिते हरौ भेदज्ञानमित्येवं नानार्थज्ञानम् । विमता आत्मानः परमात्मतस्तत्वतो न भिद्यन्ते आत्मत्वात्परमात्मवत् । भगवद्रूपादयः परस्परं भिन्ना भिन्नभिन्नार्थक्रियाकारित्वादित्याभासयुक्तिभिर्युज्यतेऽर्थो एभिरिति वचनैरतिशयिताभिः श्रुतिभिश्चोपोद्बलितो यावन्न निवर्तते तावत्पर्यन्तमसौ जाग्रदादिदशापन्नोऽपि स्वपन्निद्रालुरज्ञः । तत्र दृष्टान्तः । स्वप्नावस्थायां यथा जगरणं जाग्रत्वबुद्धिस्तथाऽज्ञ इति

॥ ३० ॥

असत्त्वादात्मनोऽन्येषां भावानां किंकृताऽभिदा ।

गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥

तात्पर्यम्

‘अभिधा किङ्कृतैतेषां भावानां परमेश्वरे । यतोऽसत्वमशक्तत्वाद्भावानां तस्य शक्तता । ततः सत्वं साधुभावः सत्वमित्युच्यते बुधैः । साधुभावश्च शक्तस्य ततोऽन्याऽसाधुता ततः । अभेदे जगतो विष्णोर्या वाचो ये च हेतवः । स्वप्न-जाग्रत्कल्पकवत्सर्वे ते भ्रमदर्शिता’ इति शाश्वत्संहितायाम् ॥ ३१ ॥

पदरत्नावली

अभेदज्ञानस्य श्रुतियुक्तिसिद्धत्वात् तस्यैव मुक्तिहेतुत्वात् तस्य च ग्राह्यत्वात्, चेतनाद् भिन्नस्य जडस्य तदेकत्वकल्पनमद्वितीयस्यात्मनो भेदकल्पनं नानार्थधीरित्यर्थकल्पनो-पपत्तेरुक्तमानस्यात्मेतरस्य मिथ्यात्वेन सर्वस्योपपत्तेरिति तत्राह असत्त्वादिति । आत्मनो ज्ञानादि-गुणपूर्णस्य हरेरन्येषां भावानां ब्रह्मादिसर्वपदार्थानाम् असत्त्वादशक्तत्वात् तेषां सर्वशक्तिमता हरिणा अभिदा किं कृता कया युक्त्या केन मानेन वा सिद्धा । केनापि न सिद्धेत्यर्थः । तत्वमसि, आत्माऽद्वितीयः बोधत्वादित्यादिमानसद्भावादत्राह– गतय इति । गमयन्त्यवगमयन्त्यभीष्टमर्थमिति गतयो वचनानि हेतवो लिङ्गज्ञानानि चास्याभिमतानि मृषा न साधकानि, स्वप्नदृशो यथा स्वप्नस्य जाग्रत्त्वज्ञानानि यथा अविद्यमानानि स्वाभीष्टासाधकानि । स्वमतरीत्या चैवमित्यभिप्रायः । ‘‘अभिदा किं कृतैतेषां भावानां परमेश्वरे । यतोऽसत्त्वमशक्तत्वाद् भावानां तस्य शक्तता । ततः सत्त्वं साधुभावः सत्त्वमित्युच्यते बुधैः । साधुभावश्च शक्तिः स्यादतोऽन्याऽसाधुता ततः । अभेदे जगतो विष्णोर्या वाचा ये च हेतवः । स्वप्नजाग्रत्कल्पकवत् सर्वे ते भ्रमदर्शिनः’’ इति वचनात् ॥ ३१ ॥

श्रीनिवासतीर्थीया

ननु नानार्थधीरिति जीवेश्वरैक्यज्ञानस्य मिथ्याज्ञानस्य निवृत्तिः सम्पाद्येत्युक्तं तदयुक्तम् । तस्य यथार्थज्ञानत्वादित्यतो मिथ्याज्ञानत्वमुपपादयति ॥ असत्वादिति ॥ अत्र स्पष्टं भेदमिथ्यात्वं प्रतीयत इत्यतो अकारप्रश्लेषेण श्लोकं प्रमाणेन व्याचष्टे ॥ अभिदेति ॥ परमेश्वरे परमेश्वरेण । किं कृता केन मानेन कृता । तस्य परमेश्वरस्य यतः शक्तता ततः सत्वं तस्येत्यर्थः । असत्वसत्वशब्दयोरशक्तत्वं शक्तत्वं च न साक्षाद्वाच्येत्यर्थः । किं त्वित्यत आह ॥ साध्विति ॥ साधुभावः साधुत्वं मङ्गलरूपत्वम् । एवमुत्तरत्र ॥ शक्तस्येति ॥ शक्तश्च हरिरेवेत्याशयः । तथा च शक्तत्वं सत्वाविनाभूतोऽर्थ इत्याशयः । एवमशक्तत्वमपि नासत्वशब्द-वाच्यार्थः । किं त्वविनाभूत एवेत्याशयेनाह ॥ तत इति ॥ तस्मादित्यर्थः । साधुभावतः साधुत्वाद् अन्यदसाधुत्वमसत्वमित्युच्यते बुधैः । असाधुभावश्चाशक्तस्याशक्ताश्चान्ये भावा इत्याशयः । गतय इत्यस्यार्थः ॥ वाच इति ॥ स्वप्नदृश इत्यस्यार्थः ॥ स्वप्नेति ॥ स्वप्नस्य जाग्रदवस्थात्वकल्पक-प्रमाणवद्भ्रमदर्शिता भ्रमविषयीकृताः । तथा चात्मनो भगवतोऽन्येषां ब्रह्मादिपदार्थानामसत्वाद-साधुत्वेनाशक्तत्वात् । भगवतश्च सत्वाज्जीवेश्वरयोरभिदाऽभेदः किं कृता केन प्रमाणेन कृता सिद्धेत्यर्थः । नन्वभेदे श्रुत्यादिवाचां, भेदो मिथ्या भेदत्वादित्यादियुक्तीनां च सत्वात्कथं किं कृताऽभिदेत्युच्यत इत्यत आह ॥ गतय इति ॥ गमयन्त्यभीष्टमर्थमिति गतयो वाचो भेदत्वादिहेतवश्च । स्वप्नदृशो यथा बहुवचनं, यथा स्वप्नस्य जाग्रत्वकल्पकप्रमाणानीव मृषा मिथ्याभूता इत्यर्थः ॥ ३१ ॥

प्रमेयचन्द्रिका

ननु श्रुतियुक्तिसिद्धत्वाज्जीवेशाद्यभेदस्य कथं तद्बुद्धेर्भ्रमत्वमित्यत उच्यते ॥ असत्वादिति ॥ अत्रात्मान्यपदार्थानां मिथ्यात्वाद्भिदा किंकृता । किं धर्मिका किन्निमित्तका । अतो भेदवचनानि युक्तयश्च मृषेति व्याख्यानमप्रामाणिकं सर्वप्रमाणविरुद्धमिति भावेन प्रमाणेन तदर्थमाह ॥ अभिदेति ॥ एतेन मूले अभिदेति पदविभाग इति सूचितम् । भावा जीवाः समुद्दिष्टा इत्युक्ते-र्भावानां जीवानां परमेश्वरेणाभिदा किं कृता किं प्रमाणका । अप्रामाणिकैवेत्यर्थः ॥ ननु ब्रह्मैकमेव सदन्यदसदिति ब्रह्मान्यजीवानामसत्वस्य प्रमितत्वेन निर्धर्मिकभेदावस्थानान्यथानुपपत्या भेदाभावो गम्यत इत्यतो न जीवानामसत्वं नामात्यन्ताभावप्रतियोगित्वं किं त्वशक्तत्वमेव अतो भेदधर्मिणो विद्यमानत्वान्न भेदाभावसिद्धिरिति भावेनाह ॥ यत इति ॥ तथापि भेदः कथं सिध्यतीत्यत उक्तम् ॥ तस्येति ॥ यतस्तस्य शक्तता ततः सत्वमिति योज्यम् । तथा च शक्तत्वादिप्रकारकसत्वासत्व-रूपविरुद्धधर्माधिकरणत्वादीशजीवयोर्भेदः सिध्द्यतीति भावः ॥

अत्र शक्तता कथं सत्वशब्दार्थ इत्यत आह ॥ साधुभाव इति ॥ साधुभावः साधुत्वम् । तथापि शक्ततायाः कथं सत्वशब्दार्थत्वमित्यत उक्तम् ॥ साधुभावश्चेति ॥ अशक्तत्वादशक्तत्व-मित्येतदुपपादयति ॥ तत इति ॥ ततः शक्तत्वादन्याऽशक्तता असाधुता कृता तन्निमित्तका । अतोऽशक्तत्वादसाधुत्वं तदेवासाधुत्वं जीवानामिति भावः ॥ एतेन मूले आत्मनः परमात्मनः सकाशादन्येषां भावानामसत्वादशक्तत्वादात्मनश्च सत्वाच्छक्तत्वाद्विरुद्धधर्मत्वेन भेदस्यैव प्रमितत्वादिति यावत् । अभिदा किंकृता निःष्प्रमाणकैवेति पूर्वार्धो व्याख्यातः ॥

ननु अभिदा किंकृता किंप्रमाणकेत्याक्षेपोऽनुपपन्नः । तत्वमस्यादिवाचामात्मत्वादिहेतूनां च भावादिति शङ्कावारणाय द्वितीयार्धः प्रवृत्तस् तं व्याचष्टे ॥ अभेद इति ॥ गमयन्त्यवगमयन्त्यर्थानिति गतयो वाचः । तथा च भावानां जीवादिजगत आत्मनो विष्णोरभेदे या गतयस्तत्वमस्यादिवाचः ये चात्मत्वादित्यादिहेतवस्ते सर्वे मृषा भ्रमदर्शिता भ्रान्त्या अभेदगमकत्वेन दृष्टाः । अतत्वमसीति पदविच्छेदेन तत्वमसीति पदविच्छेदेऽपि स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि । सादृश्ये चैक्यवाक्सम्यक् सावकाशा यथेष्टत इत्युक्तरीत्या तदधीनस्त्वमसीत्याद्यर्थकत्वेनाभेदार्थकत्वस्य भ्रमदृष्टत्वात् । व्याप्त्यादिविकलत्वाद्बाधितत्वाच्च हेतूनां भ्रमदृष्टत्वात्ते मृषा । तत्र दृष्टान्तः ॥ स्वप्नदृशो यथेति ॥ स्वप्नजाग्रत्कल्पकवत् । वासनामयस्वाप्नार्थस्य जाग्रत्पदार्थत्वकल्पकप्रमाणाभासा यथा तथेत्यर्थः ॥ ३१ ॥

यो जागरे बहुविधान् क्षणधर्मिणोऽर्थान्

भुङ्क्ते समस्तकरणो हृदि तत्सदृक्षान् ।

स्वप्नेऽथ सुप्त उपसंहरते स एकः

स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥

तात्पर्यम्

‘दक्षिणाक्षिस्थितो विष्णुर्भुङ्क्तेऽर्थान् जाग्रदास्थितान् । कण्ठसंस्थस्तथा स्वप्नान् जीवानन्दं च सुप्तिगः । श्रुत्यन्वयात्स्मृतिभ्यश्च स एकः परमेश्वरः । अस्वतन्त्र-स्य जीवस्य स्वतन्त्रो जाग्रदादिदः । स्वयं स्वप्नादिहीनः सन् क्रीडते पुरुषोत्तम’ इति तत्त्वे ॥ ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीती’त्यादि च ॥ ३२ ॥

पदरत्नावली

ननु परमात्मभेदस्याप्राप्तत्वेन तद्भेदस्य भ्रमत्वं कथमापाद्यत इत्याशङ्क्य प्राप्तिमापाद्य प्रतिषेधति यो जागर इति । यो जीवस्य दक्षिणाक्षिस्थितो विश्वाख्यो हरिर्जागरे जाग्रदवस्थायां क्षणधर्मिणः क्षणकालवर्तित्वलक्षणवतो बहुविधानर्थान् भुङ्क्ते, अस्वतन्त्रजीवस्य दर्शयति, स्वप्ने च कण्ठस्थः समस्तकरणः सम्यग्वशीकृतेन्द्रियस् तैजसाख्यो विष्णुर् हृदि मनसि संस्काररूपेण स्थितान् तत्सदृक्षान् जाग्रदर्थसदृक्षान् पदार्थान् जीवस्य दर्शयति, यश्च सुप्ते सुप्त्यवस्थायां हृदि स्थितः प्राज्ञाख्यः पर उपसंहरते, इन्द्रियाणीति शेषः, विषयेभ्य इन्द्रियाण्याहृत्य जीवानन्दं पश्यति तं च स्वरूपानन्दं भोजयति स्वयं च विहितानन्दं भुङ्क्ते स विश्वादित्रिरूप एकः भेदरहितः । कुत इति तत्राह– स्मृत्यन्वयादिति । स्मृतीत्युपलक्षणम् । श्रुतिस्मृतिमानेभ्य इत्यर्थः । भुङ्क्त इत्यस्यानुभवतीत्यर्थं परित्यज्य दर्शयतीत्यर्थकथने किं नियामकमत्राह– त्रिगुणेति । त्रिगुणवृत्तीर् जाग्रत्स्वप्नसुषुप्तीः पश्यतीति त्रिगुणवृत्तिदृक् । ‘‘दक्षिणाक्षिस्थितो विष्णर्भुङ्क्तेऽर्थान् जाग्रति स्थितान् । कण्ठसंस्थस्तथा स्वप्नान् जीवानन्दं च सुप्तिगः । श्रुत्यन्वयात् स्मृतिभ्यश्च स एकः परमेश्वरः । अस्वतन्त्रस्य जीवस्य स्वतन्त्रो जगदादिजः । स्वयं स्वप्नादिहीनः सन् क्रीडते पुरुषोत्तमः’’ इति, ‘‘स्वप्नेन शारीरमभिप्रहृत्यासुप्तः सुप्तानभिचाकशीति’’ इत्यादिश्रुतिस्मृतिभ्य उक्त एवार्थः । अत्र हरेः साक्षित्वं सुखैकभोक्तृत्वं च तात्पर्यार्थः । न त्वनानन्दानुभवः, तदतीतत्वात् । कुत इति तत्राह– इन्द्रियेश इति । इन्द्रियप्रवृत्तिसमर्थस्य तद्भोग्यदुःखानुभवस्यानुचितत्वात् । अनेन तुर्यस्य विश्वाद्येकत्वमुक्तं भवति ॥ ३२ ॥

श्रीनिवासतीर्थीया

ननु नानार्थधीरितीश्वररूपेषु भेदज्ञानं मिथ्याज्ञानमिति तन्निवृत्तिः सम्पाद्येत्युक्तं तदयुक्तम् । तस्यापि यथार्थज्ञानत्वादित्यतस्तदपि मिथ्याज्ञानमेव भगवद्रूपाणामैक्यादित्याह ॥ य इति ॥ अत्र सुप्त्यवस्थागतस्य प्राज्ञस्य हृदीति स्थानोक्तेर्विश्वतैजसयोस्तदनुक्तेः प्रमाणेन तद्दर्शयन् श्लोकं प्रमाणेन व्याचष्टे ॥ दक्षिणाक्षीत्यादिना । विष्णुर्विश्वः । भुङ्क्त इति णिच् । भोजयतीत्यर्थः । कण्ठसंस्थस्तैजसः स्वप्नान् भुङ्क्ते । सुप्तिगः सुषुप्त्यवस्थायां हृदयस्थः प्राज्ञो जीवानन्दं भुङ्क्ते । स्मृतीत्युपलक्षणमित्याशयेनाह ॥ श्रुतीति ॥ भुङ्क्त इत्यस्य तात्पर्यम् ॥ अस्वतन्त्रेत्यादि ॥ इन्द्रियेश इत्यस्य तात्पर्यम् ॥ स्वयमित्यादि ॥ स्वप्नाद्यवस्थाप्रदत्वे श्रुतिं चाह ॥ स्वप्नेनेति ॥ शारीरं जीवम् । अभिहत्य सम्बद्ध्य । असुप्तो हरिः सुप्तान् जीवान् अभिचाकशीति पश्यति ॥ तथा चायमर्थः । यो जीवस्य दक्षिणाक्षिस्थितो विश्वाख्यो विष्णुर्जागरे जाग्रदवस्थायां क्षणधर्मिणः क्षणमात्रावस्थायित्वलक्षणधर्मवतः । अनित्यानिति यावत् । बहुविधान् अर्थान् शब्दादीन् भुङ्क्ते भोजयति । अस्वतन्त्रस्य जीवस्य प्रदर्शयति । यथा स्वप्ने स्वप्नावस्थायां समस्तकरणः सङ्कुचितमनो-व्यतिरिक्तजीवेन्द्रियसमुदायः कण्ठस्थतैजसाख्यो विष्णुः । हृदि मनसि संस्काररूपेण विद्यमानां-स्तत्सदृक्षान् जाग्रत्पदार्थसदृशान्पदार्थान् भुङ्क्ते जीवस्य दर्शयति । यश्च सुप्ते सुप्त्यवस्थायां हृदि हृदये स्थितः प्राज्ञो जीवस्येन्द्रियाण्युपसंहरते । विषयेभ्य इन्द्रियाण्याहृत्य तस्य स्वरूपानन्दं भोजयति । स्वयं च विहितानन्दं भुङ्क्ते । स विश्वादित्रिरूपो विष्णुरेको भेदरहितः । कुत इत्यत आह ॥ स्मृतीति ॥ स्मृत्यादीनां प्रमाणानामत्रार्थेऽन्वयसद्भावादित्यर्थः । विश्वादिरूपी हरिः कीदृश इत्यत आह ॥ त्रिगुणेति ॥ विश्वादिरूपी स त्रयाणां सत्त्वादीनां गुणानां वृत्तीर्जाग्रत्स्वप्नसुषुप्तीः पश्यतीति स तथोक्तः । इन्द्रियेशश्चेति योज्यम् ॥ ३२ ॥

प्रमेयचन्द्रिका

एवं जीवेश्वरभेदं प्रसाध्येदानीं भगवद्रूपाणां भेदभ्रमप्रसक्तिमापाद्य तत्प्रतिषेधः क्रियते ॥ य इति ॥ जागरे जीवस्य जाग्रदवस्थायां यो दक्षिणाक्षिस्थितो विश्वाख्यो हरिः क्षण-धर्मिणः क्षणकालवर्तित्वरूपधर्मवतः बहुविधानर्थान्विषयान् समस्तानि करणानीन्द्रियाणि यस्य सः सर्वेन्द्रियाण्यधिष्टायेति यावत् । भुङ्क्ते स्थूलान्भोगानिन्द्रियैः सः शुभान् भुङ्क्ते । जीवं च शुभाशुभ-साधारण्येन भोजयति । हृदि स्वमनसि स्थितस् तैजसाख्यः समस्तकरणः संक्षित्पबाह्येन्द्रियः सन् तत्सदृशान् जाग्रदनुभूतार्थसदृशान् बहुविधान् हृदि मनसि स्थितान् मनोगतसंस्कारोपादानकानिति वा शुभान् स्वाप्नार्थान् भुङ्क्ते । अथ सुप्ते सुप्त्यवस्थायां हृद्याकाशस्थितो यः प्राज्ञनामकः ॥ समस्तकरण इति ॥ लिङ्गवचनव्यत्ययेन समस्तानि जीवकरणानि उपसंहरते उपरतानि करोति । स्वसंनिधिलब्धजीवानन्दमिति शेषः । भुङ्क्ते जीवं भोजयति च । स एवं त्रिरूपी हरिरेक एव । तत्र हेतुः सत्वादित्रयवृत्तिरूपजाग्रदादित्र्यवस्थाः पश्यतीति त्रिगुणवृत्तिदृक् ॥ इन्द्रियाणामीश इति । तथा च जीवदेहे स्थित्वा प्रेरकत्वं सर्वभोक्तृत्वसर्वेन्द्रियस्वामित्वादिब्रह्मलक्षणवत्वाद्विश्वादि-त्रयाणामेकत्वमेव । न स्थानभेदादिना भेदभ्रमः कार्यः । न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीत्याद्युक्तेरिति भाव इति मूलार्थः ॥

अत्र जाग्रदादिषु यो भुङ्क्ते जीवः यश्च त्रिगुणवृत्तिदृगिन्द्रियेश ईश्वरः स एक इत्यन्यथाभानाद्भगवद्रूपपरतया प्रमाणेन व्याचष्टे ॥ दक्षिणाक्षीति ॥ स्वपित्यत्र जीव इति सुप्तिर्हृदयाकाशस्तत्र स्थितः सुप्तिगः । जीवानन्दमित्यनेन मूले जीवानन्दमिति शेषः । भुङ्क्त इत्यस्य आवृत्तिं च कृत्वा उपसंहरत इत्यतःपरं योज्यमित्युक्तं भवति । एतेन त्रिपादी विश्वतैजस-प्राज्ञाख्यरूपत्रयपरैव न तु जीवपरेत्युक्तं भवति । स्मृत्यन्वयादित्येतदुपलक्षणमिति सूचयन् अन्वयं दर्शयन् व्याचष्टे ॥ श्रुत्यन्वयादिति ॥ श्रुतीनां विश्वादिरूपैक्यसम्बन्धाद्भारतपञ्चरात्रादिस्मृतिभ्यश्च स विश्वादिरूपो परमेश्वर एक एवेति निश्चीयत इत्यर्थः । एतच्छतिस्मृतीनामन्वयात्सम्बन्धात्स त्रिरूपी हरिरेक एवेति ज्ञायत इति मूलार्थ इत्युक्तं भवति । आगमेन भगवद्रूपाणामैक्यं प्रसाध्य युक्तिरप्युच्यते ॥ त्रिगुणवृत्तिदृगिन्द्रियेश इतीति ज्ञेयम् ॥

ननु जीवस्यैवावस्थात्रयानुभवः साक्षिसिद्धस् तत्कथं विष्णुर्भुङ्क्त इत्युच्यते । तथात्वे हरेरपि स्वप्नादिबन्धप्रसङ्गादित्याशङ्कां प्रमाणशेषेण परिहरति ॥ अस्वतन्त्रस्येति ॥ स्वतन्त्रेश्वरदत्तजाग्रदा-द्यनुभवस्य जीवेऽङ्गीकारान्न तत्साक्षिविरोधः । हरेस्तु स्वतन्त्रत्वादेव स्वप्नाद्यबन्धतया क्रीडयैव तद्गतशुभभोगोऽप्यङ्गीक्रियते । श्रुत्यादिबलादिति भावः । अत्र स्मृत्यन्वय उदाहृतस्मृत्यैव लब्धश्रुत्यन्वयं लेशतो दर्शयति ॥ स्वप्नेनेति ॥ स्वप्नेन सुप्त्या शारीरं जीवमभिप्रेत्य सम्बन्धयित्वा स्वयमसुप्त एव सुप्तान् सुप्तं जीवमीषच्च सुप्तवत्स्वव्यापारादुपरतान् इन्द्रियदेवांश्चाभिचाकशीति पश्यति । तत्र जीवानन्दमनुभवति चेत्यर्थः । एवं य एषु सुप्तेषु जागर्ति कामं पुरुषो निर्ममाण इत्यादिकमपि स्वप्नादिशुभाशुभदातृत्वतदबद्धत्वतद्द्रष्टृत्वतद्भोक्तृत्वाद्युदाहर्तव्यम् ॥ ३२ ॥

एवं विमृश्य गुणतो मनसस्त्र्यवस्था

मन्मायया मयि कृता इति निश्चितार्थाः ।

सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण-

ज्ञानासिना भजत माऽखिलसंशयाधिम् ॥ ३३ ॥

पदरत्नावली

उक्तार्थानुवादपुर्वकमुक्तज्ञानफलं विधत्ते एवमिति । एवमुक्तविधं विमृश्या-लोच्य । कथमित्युक्तं स्मारयति गुणत इति । सत्त्वादिगुणत उद्भूतान् । मननान्मन उद्दिष्ट इति मनसो जीवस्य जाग्रदाद्यवस्था मन्मायया मदिच्छया मयि मदाधारत्वेन कृता विहिताः पर्याप्ता इति निश्चितार्था यूयमनुकूलश्रुत्यादिमानेन सतां महतामुक्त्या वचनेन तीक्ष्णेन निशितधारेण ज्ञानाख्यासिना हार्दं हृदिरूढमखिलसंशयाख्यमाधिं सञ्छिद्य मा मां भजतेत्यन्वयः । अनेन मुक्तिरप्युक्ता भवतीति ज्ञातव्यम् ॥ ३३ ॥

श्रीनिवासतीर्थीया

एवंज्ञातुः फलमाह ॥ एवमिति ॥ एवं विमृश्य जीवेश्वरौ भिन्नत्वेनेश्वरं चैकत्वेन विचार्य । तथा मनसः, मननान्मन उद्दिष्टो जीवस्तस्य जाग्रदादित्र्यवस्था मन्मायया मदिच्छया मयि मदाधारत्वेन सत्त्वादिगुणतः कृता इति निश्चितार्था यूयमागमानुकूलानुमानसदुक्तिरूप-प्रमाणेन तीक्ष्णीकृतज्ञानासिना हार्दं हृदिस्थितं संशयरूपमाधिं व्यथां संच्छिद्य मा मां भजतेत्यर्थः

॥ ३३ ॥

प्रमेयचन्द्रिका

उक्तार्थोपसंहारपूर्वकमुक्तज्ञानफलं निरूप्यते ॥ एवमिति ॥ एवमुक्तविधया विमृश्य आलोच्य । कथमित्यत उक्तं स्मारयति ॥ गुणत इति ॥ सत्वादिगुणत उद्भूता मनसो विकारभूताः । मननान् मन उद्दिष्ट इत्युक्तेर्मनसो जीवस्य धर्मभूता जाग्रदाद्यवस्था मन्मायया मदिच्छया मयि मदाधारत्वेन जीवस्य बन्धकतया कृता विहिता इति निश्चितार्था यूयमधिकारिणः । अनुमानैर्युक्तिभिः सदुक्तिभिर्निर्दुष्टागमैश्च तीक्ष्णेन ज्ञानाख्यासिना हार्दं मनोगतम् अखिलसंशयाधिं सकलसंशयजनितमनोव्यथां संच्छिद्य मा भजतेत्यन्वयः । अनेनापरोक्षज्ञानद्वारकं मुक्तिरूपफलमुक्तं भवति ॥ ३३ ॥

वीक्षेत विभ्रममिमं मनसो विलासं

दृष्टं विनष्टमतिलोलमलातचक्रम् ।

विज्ञानमेकमुरुधेव विभाति माया स्वप्ने

यथा त्रिगुणसर्गकृतो विकल्पः ॥ ३४ ॥

तात्पर्यम्

जाग्रदादिषु परमात्मभेदं विभ्रमं वीक्षेत । जाग्रदादिकरो देवः परमात्मैक एव तु । इति वीक्षेत सततं मुच्यते संसृतेरत’ इति प्रकाशसंहितायाम् । यदा विभ्रमोऽयमिति दृष्टस्तदैव विनष्टः । श्रुतियुक्तिभिर्विचारितेऽतिलोलः । क्षिप्रं विनश्य-तीत्यर्थः । अलातस्य चक्राकारत्वभ्रमवत् परमात्मभेदभ्रमः । त्रिगुणैस्तत्कार्यैः पापादि-भिश्च बद्धः सन् विज्ञानरूपं परमात्मानं भ्रान्त्या बहुधा पश्यति । ‘देहभेदेष्ववस्थासु प्रादुर्भावेषु चैकलम् । ज्ञानानन्दैकसद्रूपं भ्रान्त्या भिन्नं प्रपश्यति । सा च भ्रान्तिर्विनश्येत यदा भ्रान्तित्ववेदनम् । अतिक्षिप्रं विनश्येच्च न स्थिरं दिग्भ्रमादिवत् । त्रिगुणैर्बन्धिता जीवा ज्ञप्तिमात्रं जनार्दनम् । पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित् । अभिन्नोऽपि विभिन्नेषु व्यवहारो यथा भवेत् । तथैव व्यवहाराय शक्तत्वान्नैव दूषणम् । ईशस्य तु तदन्येषामपि यच्छक्तिदायक’ इति ब्रह्मतर्के ॥ अलातभ्रामको यदा निवर्तते तदैव भ्रमो निवर्तते । तद्वद्यदा भ्रमनिवृत्तिमिच्छति तदैव गुरूपसदनान्निवर्तयितुं शक्यः । ‘अशक्योऽप्यपि शक्योऽयं विनिवर्तयितुं भ्रमः । ईशस्थो गुरुसम्पत्त्या यदि शुद्धमनाः पुमानि’ति सम्यग्ज्ञाने ॥ ३४ ॥

पदरत्नावली

ननु जाग्रदादिषु प्रवर्तकत्वेन वर्तमानस्य हरेर्विश्वादिरूपाणां भेदो नास्तीत्युक्तम् । तत्र वृत्तिभेदेन प्रतीयमानो भेदः कथं प्रत्येतव्य इत्यत्राह– वीक्षेतेति । जाग्रदादिषु प्रतीयमानमिमं परमात्मभेदं विभ्रमज्ञानमूलं वीक्षेत । ‘‘जाग्रदादिकरो देवः परमात्मैक एव तु । इति वीक्षेत सततं मुच्यते संसृतेरतः’’ इति वचनात् । अज्ञाननिमित्तहेतुमाह– मनस इति । मनसो विलासं मनोविकाररूपत्वात् । एतत् कुतोऽत्राह– दृष्टमिति । गुरूपदिष्टशास्त्रदृष्ट्या यदा विभ्रमोऽयमिति दृष्टस्तदैव नष्टो भवति, एतस्मात् । इतोपि मनोविलास इत्याह– अतिलोलमिति । श्रुत्यादिविचारे क्षिप्रनाशित्वात् । अत्र लुप्तोपमामाह– अलातचक्रमिति । अलातचक्राकारभ्रमवत् परमात्मभेदभ्रमं विद्यादित्यर्थः । एवं सुरनराद्याहिततत्तन्नियन्तृभेदोऽपि भ्रान्त इत्याशयेनाह– विज्ञानमिति । विज्ञानमानन्दं ब्रह्मेति श्रुतेः । एकं स्वगतभेदशून्यं ब्रह्म नानारूपमिव भाति, अज्ञानामिति शेषः । यथा स्वप्न एकैव गजादिमाया बहुधा प्रतीयते तथेति । मिथ्याज्ञानकारणमाह– त्रिगुणेति । सत्वादिभिस्त्रिभिर्गुणैस्तत्सर्गैस् तत्कार्यैः पापादिभिश्च कृतः पर्याप्तो विकल्पो मिथ्याज्ञानं, कारणमिति शेषः । तमआदिगुणनिमित्तपापादिदूषितान्तःकरणानामज्ञानामासुरप्रकृतीनां सच्चिदानन्दरूपमेकं बह्विव प्रतीयत इति भावः । ‘‘देहभेदेष्ववस्थासु प्रादुर्भावेषु चैकलम् । ज्ञानानन्दैकसद्रूपं भ्रान्त्या भिन्नं प्रपश्यति । सा च भ्रान्तिर्विनश्येत यदा भ्रान्तित्ववेदनम् । अतिक्षिप्रं निवर्तेत न स्थिरं दिग्भ्रमादिवत् । त्रिगुणैर्बन्धिता जीवा ज्ञप्तिमात्रं जनार्दनम् । पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित् । अभिन्नोपि विभिन्नेषु व्यवहारो यथा भवेत् । तथैव व्यवहाराय शक्तत्वान्नैव दूषणम् । ईशस्य तु यदन्येषामपि यच्छक्तिदायकः’’ इत्यनेन मानेन ‘‘अशक्योऽप्यतिशक्योऽयं विनिवारयितुं भ्रमः । ईशस्थो गुरुसम्पत्त्या यदि शुद्धमनाः पुमान्’’ इत्यनेन च मानेन निर्णीतत्वादिदमेव तात्पर्येण ज्ञातव्यम् । अन्यद् दुःशास्त्रमिति सिद्धम् ॥ ३४ ॥

श्रीनिवासतीर्थीया

ननु विश्वादिरूपाणां भेदो नास्तीत्युक्तमयुक्तम् । अक्ष्यादिस्थानभेदेन देहाद्यधिष्ठानभेदेन च भेदस्य प्रादुर्भावभेददर्शनस्य च सद्भावादित्यतस्तद्भेददर्शनं भ्रान्तमित्याह ॥ वीक्षेतेति ॥ इमं श्लोकमन्यथाप्रतीतिनिरासाय स्ववाक्येन किंचिद्व्याख्याय तत्र प्रमाणं चाह ॥ जाग्रदादिष्वित्यादिना ॥ परमात्मभेदमित्यनेनेममित्यस्यार्थ उक्तः । जाग्रदाद्यवस्थास्वक्ष्यादिस्थानभेदेन प्रतीयमानं परमात्मभेदम् । दृष्टं विनष्टमित्यस्य तात्पर्यमाह ॥ यदेति ॥ अयं प्रतीयमानः परमात्म-भेदो विभ्रम इति दृष्टो विभ्रमत्वेन दृष्ट इत्यर्थः । अतिलोलमित्यस्य तात्पर्यमाह ॥ श्रुतीति ॥ अतिलोलश्चञ्चल इत्यर्थः । तस्याभिप्रायमाह ॥ क्षिप्रमिति ॥ अलातचक्रमित्येतल्लुप्तोपमेति भावेन विवृण्वन् दार्ष्टान्तिकमपि दर्शयति ॥ अलातस्येति ॥ त्रिगुणानां सर्ग इति प्रतीतिनिरासार्थं वदन् एकस्य बहुत्वेन भ्रान्त्या दर्शने निमित्तकथनपरमित्याशयेन तात्पर्यमाह ॥ त्रिगुणैरित्यादिना ॥ तत्कार्यैरित्यनेन त्रिगुणैः सर्गः सृष्टिर्येषां ते त्रिगुणसर्गाः पापाद्यास्तैरित्यर्थ उक्तो भवति । तत्र प्रमाणमाह ॥ देहभेदेष्विति ॥ भेदोऽपि तद्देहेष्वनेकदेहेष्वित्यर्थः । प्रादुर्भावेषु च स्थितमिति शेषः । अनेन विज्ञानमेक इत्यादेस्तात्पर्यमुक्तं भवति । दृष्टं विनष्टमित्यस्य तात्पर्यम् ॥ सा चेति ॥ अतिलोलमित्यस्यार्थः ॥ अतिक्षिप्रमित्यादि ॥ दिग्भ्रमादिर्यथा स्थिरस्तथा स्थिरं नेति व्यतिरेकदृष्टान्तः । प्राच्यां प्रतीचीत्वभ्रमो नेयं प्रतीचीत्युपदेशेऽपि भ्रमो नैव निवर्तते आदित्योदयदर्शनपर्यन्तमिति दिग्भ्रमस्य स्थिरत्वमिति द्रष्टव्यम् । त्रिगुणेत्यादेस्तात्पर्यम् ॥ त्रिगुणै-रिति ॥ उपलक्षणं चैतत् । तत्कार्यैः पापादिभिश्चेति द्रष्टव्यम् । मायास्वप्ने यथेत्यस्य तात्पर्यम् ॥ स्वप्न इति ॥

नन्वेवं सर्वत्रावस्थित इत्यस्य हरेरेकत्वे कथं तर्हि भेदव्यवहार इत्यत आह ॥ अभिन्नोऽपीति ॥ विभिन्नेषु वस्तुषु व्यवहारायातीवशक्त इति शेषः । अघटितघटकशक्तियुक्त इत्यर्थः । जीवानामपि स्वगुणैर्ज्ञानादिभिरभेदात्तत्र व्यवहारः कथमित्यत आह ॥ तदन्येषामपीति ॥ भेदव्यवहारशक्तिदायकः । दृष्टान्तान्तरं विहाय विशिष्यालातचक्रदृष्टान्तग्रहणेऽभिप्रायमाह ॥ अलातेति ॥ भ्रमणकर्ता पुरुषः । भ्रमोऽलातस्य चक्राकारत्वभ्रमः । अलातस्य भ्रमणं न करिष्य इतीच्छया यदाऽलातभ्रमणान्निवर्तते पुमांस्तदा तदधीनो भ्रमोऽपि निवर्तत इत्याशयः । तदनुसारेण दार्ष्टान्तिके भावमाह ॥ तद्वदिति ॥ इच्छत्यतःपरं भगवद्भेदभ्रमनिवृत्तिं सम्पादयिष्य इतीतीच्छति । गुरूपसदनाद्गुरूपसत्त्यनन्तरं भावितदुपदेशादेरित्यर्थः । शक्यो भ्रम इति वर्तते । दृष्टान्ते भ्रमकस्य भ्रमनिवृत्तिरित्यत्रैवायं दृष्टान्तो बोद्धव्यः । तदैव गुरूपसदनादित्युक्तेर्दार्ष्टान्तिकाभिप्राये प्रमाणमाह ॥ अशक्योऽपीति । गुरूपसत्त्यादिना निवर्तयितुमतीव शक्य इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ मनसो विलासं कार्यभूत-मलातचक्रमिव विद्यमानम् । जाग्रदादिस्थानभेदेन प्रतीयमानमिमं परमात्मभेदं विभ्रममीक्षेत । भेदज्ञानं भ्रम इति जानीयादित्यर्थः । एवं सति तस्य निवृत्तिर्भवतीत्याह ॥ दृष्टमिति ॥ भेदज्ञानं यदा गुरूपदेशादिना भ्रमत्वेन दृष्टं भवति । तदैव विनष्टं भवतीत्यर्थः । कुतः । बाधकज्ञानेन भ्रमनिवृत्तेः प्रसिद्धत्वादिति भावः । बाधकज्ञानेऽप्यनिवृत्तदिग्भ्रमादिवत्स्थिरत्वं किं न स्यादित्यत आह ॥ अतिलोलमिति ॥ अतिचञ्चलम् । श्रुत्यादिभिर्विचारिते सति क्षिप्रं विनाशीत्यर्थः । एवं देहभेदेन तत्रन्नियन्तृरूपभेदः प्रादुर्भावभेदश्च प्रतीयमानो भ्रान्त इत्याह ॥ विज्ञानमिति ॥ विज्ञानरूपमेकमेव ब्रह्म देहभेदेन प्रादुर्भावभेदेन चोरुधा बहुत्वेनाधिष्ठानतत्त्वाज्ञानां भाति । तत्र दृष्टान्तः ॥ स्वप्न इति । यथा स्वप्ने मायासंस्कारमयमेकमेव वस्तूरुधा भाति । आदौ गजत्वेन दृष्टः क्षणेन वृक्षः सम्पद्यते । तत्त्वेन दृष्टश्च क्षणेन मनुष्यः संपद्यत इत्यादि तथेत्यर्थः । अज्ञानामेवं मिथ्याज्ञाने कारणमुच्यते ॥ त्रिगुणेति ॥ मिथ्याज्ञानापरपर्यायो विकल्पः । त्रिगुणैस्त्रिगुणसर्गैश्च त्रिभिर्गुणैस्त्रिगुणैः सर्गो येषां पापादीनां ते त्रिगुणसर्गास्तैश्च कृत इति ॥ ३४ ॥

प्रमेयचन्द्रिका

ननूक्तं भगवद्रूपाणामैक्यमयुक्तमिवाभाति । विश्वादिरूपाणां दक्षिणाक्ष्यादि-स्थानभेदेन स्थूलादिभोगभेदेन तथा गजमशकाद्यन्तर्यामिरूपाणां परिमाणतद्भोग्यभोगादिभेदेन मत्स्याद्यवताराणामपि वर्णाकृत्यादिभेदेन दृश्यमानत्वाद्विरुद्धधर्मवतामैक्यायोगादिति शङ्का परिह्रियते ॥ वीक्षेतेति ॥ अत्र इमं प्रपञ्चं मनसो विकल्पितमलातचक्रमिव विभ्रमं वीक्षेत सत्यतया दृष्टमपि विनष्टं बाध्यम् । दृश्यत्वस्य बाध्यत्वेन व्याप्तेः शुक्तिरजतादौ । वस्तुतस्तु विज्ञानं ब्रह्मैकमेवानेक-प्रपञ्चात्मना भाति । यथैंद्रजालिकी माया । यथा वा स्वप्ने अविद्याकृता सृष्टिस्तथा मायाऽविद्याकार्य-त्रिगुणसर्गकृतो विविधकल्पनारूपोऽयं बाह्यान्तरप्रपञ्च इत्यन्यथाव्याख्यानमयुक्तम् । सर्वप्रमाण-विरुद्धत्वादित्याशयेन यथावद्व्याचष्टे ॥ जाग्रदादिष्विति ॥ जाग्रत्स्वप्नसुषुप्तिषु तथा नानादेहेषु स्थितस्य परमात्मनो मत्स्याद्यवताररूपस्य चाधिष्टानभेदादिदर्शनादिनिमित्तकं भेदं भेदज्ञानं विभ्रमं वीक्षेत । भेदविभ्रमं मिथ्याभूतं वीक्षेतेति वा । तथा चेममिति परामृष्टो न प्रपञ्चस्तस्याप्रकृतत्वात्किं त्ववस्थात्रयनियामकत्वादिना प्रकृतः परामृश्यत इति भावः ॥

समाख्यासिद्धत्वादयमेवार्थ इत्याह ॥ जाग्रदादीति ॥ इन्द्रार्जुनादाविव चैतन्यैक्येऽपि देहभेद इति न मन्तव्यमिति विशेषद्योतनार्थस्तुशब्दः । अभेदज्ञानस्य मुक्तिहेतुत्वेन प्रमात्वात्तद्विरुद्धं रूपभेदज्ञानं भ्रम एवेति सूचयितुं फलकथनम् । दृष्टं विनष्टमित्येतद्व्याख्याति ॥ यदेति ॥ दृष्टो निश्चितः । निश्चयोपायमाह ॥ श्रुतीति ॥ गुरूपदेशेन श्रुतिभिस्तन्मूलाभिर्युक्तिभिश्च विचारिते भ्रमोऽयमिति यदा निश्चयस्तदा भ्रमो विनष्टो भवतीत्यर्थः । अतिलोलमित्येतदतिचञ्चलत्वान्मिथ्येत्यर्थकं न भवति । तटिदादौ व्यभिचारात् । किं त्वीशरूपेषु भेदज्ञानभ्रमत्वनिश्चयानन्तरमविलम्बेन तन्नाश इत्येव तत्रोच्यत इत्याशयेनानूद्यार्थमाह ॥ अतिलोल इति ॥ यद्वा श्रुतिभिरित्येतदत्रान्वेति । यदेवेह तदमुत्र तदन्विह, नेह नानाऽस्ति किञ्चन, एकमेवाद्वितीयमित्यादिश्रुतिभिर्न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीत्यादिसूत्रोक्तयुक्तिभिश्च विचारिते भगवद्रूपेषु भेदभ्रमः क्षिप्रं विनश्यतीत्यर्थः ।

अलातस्य चक्रत्वाभावादन्वयं सूचयन् अलातचक्रमित्येतद्व्याचष्टे ॥ अलातस्येति ॥ काष्टाग्रलग्नेऽलाते भ्राम्यमाणे यथा चक्राकारत्वभ्रमो भवति । तद्वत्परमात्मभेदविभ्रम इति भावः । अलातचक्रमिति मूले लुप्तोपमेति ज्ञेयम् । एवं पूर्वार्धं व्याख्यायोत्तरार्धं व्याख्याति ॥ त्रिगुणैरिति ॥ त्रिगुणैः सत्वादिभिस्तत्तकार्यैरहङ्कारादिभिःपापादिभिश्च । एतेन मूले त्रिगुणैः सर्गैस्तत्कार्यैश्चेत्यर्थ उक्तो भवति । बद्धः सन् पश्यतीत्युक्त्या त्रिगुणसर्गः कृतस्तन्निमित्तको विकलः विरुद्धकलनं भ्रम इत्यर्थ इत्युक्तो भवति ॥ विज्ञानरूपमिति ॥ विज्ञानमित्यर्थः । एकमित्यस्याभिप्रायः ॥ परमात्मानमिति ॥ उरुधैव विभाति मायेत्यस्यार्थो भ्रान्त्या बहुधा पश्यतीति ॥

स्वोक्तार्थे प्रमाणमाह ॥ देहभेदेष्विति ॥ सुरासुरनरादिदेहभेदेषु भिन्नदेहेष्विति यावत् । नानारूपतया जाग्रदाद्यवस्थासु दक्षिणाक्ष्याद्यनेकस्थानतया मत्स्याद्यवतारेषु नानावर्णाकृत्यादितया अवस्थितानेकरूपतया स्थितत्वेऽप्येकलं भेदरहितं ज्ञानानन्दैकरसं निर्दुष्टदेहं हरिं स्थानभेदादिजनित-भ्रान्त्या भिन्नं प्राकृतदेहं च प्रपश्यत्यज्ञजन इत्यर्थः । एतेन विज्ञानमेकमुरुधेव विभातीत्येतद्व्याख्यातं भवति । विज्ञानमित्यस्योपलक्षणतया विज्ञानानन्दरूपमित्यर्थः । कदेयं भ्रान्तिर्नश्यतीत्यत आह ॥ सा चेति ॥ यदा बाधकवशाद्भ्रान्तित्वप्रकारकं ज्ञानं जायते । तदा भ्रान्तिरन्याकारोल्लेखिज्ञानं विनश्यति । विनश्येदित्यनेन दृष्टं विनष्टमिति व्याख्यातं भवति । विनश्येदित्यस्य विवरणम् ॥ अतिक्षिप्रमिति ॥ अतिलोलमित्येतदनेनोक्तार्थं भवति । दिग्भ्रमादिवच् चन्द्रप्रादेशत्वादिवत् । सूर्योदयादिलिङ्गेन दूरतोऽप्येवं दृश्यमानत्वादिति लिङ्गेनाप्तवचनेन च संजातबाधोऽपि प्रत्यक्षतो भ्रान्तिप्रतीताकारोल्लेख्येव वर्तते । तद्वदिदं स्थिरं नेत्यर्थः । तथा भ्रान्तिजनने निमित्तमाह ॥ त्रिगुणैरिति ॥ ज्ञाप्तिमात्रमित्यनभिमतव्यावृत्तिः । ज्ञानानन्दैकरसमित्यर्थः । बहुधा भिन्नत्वेन । एतेन त्रिगुणविसर्गकृतो विकल्प इत्येतद्व्याख्यातं भवति ।

तत्र दृष्टान्तः ॥ स्वप्न इति ॥ यथा स्वप्ने एकमेव दृश्यमानं गजगोगवयादितया बहुधा भ्रान्त्या पश्यन्ति तथा जनार्दनं बहुधा पश्यन्तीत्यर्थः । यद्यपि स्वप्ने गजगवयादिवासनाभेदाद्गजादिभेदोऽस्ति । तथापि पुरुषादिरूपेण यो दृष्टः स एव गजः संपन्नवैलक्षण्यात्स एव गवयो जात इति स्वप्नभ्रममनुसृत्य एवमुक्तमिति ज्ञेयम् । एतेन मूले स्वप्ने यथेत्युक्तार्थं भवति । न चैवं भगवद्रूपाणाम् अत्यन्ताभिन्नत्वे भिन्नभिन्नावस्थाप्रदत्वं भिन्नार्थभोक्तृत्वं स्थानभेदादिकं रूपाणामनेकत्वं निरूपण एकत्वमित्यादयो व्यवहाराः कथं युज्यन्त इत्यत आह ॥ अभिन्नोऽपीति ॥ ईशस्य शक्तत्वाद् अचिन्त्यशक्तिघटित-विशेषबलेनाघटितघटने समर्थत्वादत्यन्ताभेदाभेदव्यवहारायोग इति दूषणं नैवेत्यर्थः । कैमुत्येनैतदुप-पादयति ॥ तदन्येषां श्रीब्रह्मादीनामपि यस्मादभेदेऽपि व्यवहारशक्तिप्रदस्तस्मात्तस्य किम्विति ॥ तथा च पूर्ववद्वेति सूत्रोक्तन्यायेनैकं रूपमचिन्त्यैश्वर्ययोगतो विशेषादेव केवलं बहुसङ्ख्यागोचरं चेति सर्वं भेदव्यवहारादिकं युज्यत इति भावः ॥

अस्थिरभ्रमाणामनेकेषां भावाद्विशिष्यालातचक्रदृष्टान्तोपादाने निमित्तमाह ॥ अलातभ्रामकः पुरुषो यथा भ्रामणान्निवर्तते तदैव तत्क्षण एव द्रष्टुरलातारोपितचक्रभ्रमो निवर्तते ॥ तत्र यथा भ्रामक-पुरुषेच्छया अतिक्षिप्रं भ्रमो निवर्तते तद्वदत्रापि भ्रान्तः पुरुषो भगवद्रूपेषु भेदभ्रमं निवर्त्तयितुमिच्छति । तदैवातिक्षिप्रं निवर्तयितुं शक्यः । इच्छामात्रेण कथं निवृत्तिरित्यत उक्तम् ॥ गुरुप्रसादादिति ॥ गुरूपसत्या प्राप्ततदुपदेशादित्यर्थः । तदुक्तं यथा गुरुकृपोदय इति । अनादिदुर्वासनाद्बलितोऽयं भ्रमः कथं गुरूपदेशादपि निवर्तयितुं शक्यत इत्यतः प्रमाणेन परिहरति ॥ अशक्य इति ॥ ईशविषये स्थितोऽयं भेदभ्रम उक्तरीत्या निवर्तयितुमशक्योऽपि पुमान्निवृत्तकर्मणा काम्यादित्यागादिना च शुद्धान्तःकरणो यदि स्यात्तर्हि शुश्रूषादिना प्राप्तगुरूपसम्पत्या तस्य निवर्तयितुं शक्य एव । ईशो ह्यागमैकवेद्यः । अवतारकाले दर्शनेऽपि तस्येशत्वमागमैकगम्यम् । आगमार्थस्तु न व्युत्पत्तिमात्रेण ज्ञायते । किं तु गुरूपदेशेनैव अतो दुर्वासनानुबद्धोऽपीशरूपविषयकभेदभ्रमः शुद्धान्तःकरणस्य प्रसन्नाचार्यसयुक्तिकोपदेशेन सद्य एव निवर्तत इति किमत्राश्चर्यमिति भावः ॥

तथा चायं मूलार्थः ॥ जाग्रदाद्यवस्थाप्रदरूपेषु स्थानभेदादिज्ञाननिमित्तकं मनसो विलासं मनोविकाररूपमिमं भगवद्रूपविषयकभेदज्ञानं विभ्रमं वीक्षेत । क्षिप्रमधिष्टानज्ञाननाश्यत्वादस्य भ्रमत्वमित्याशयेन भ्रमनिवृत्तिकारणमुच्यते ॥ दृष्टमिति ॥ शास्त्राचार्योपदेशेन श्रुतियुक्तिभिर्विचारिते सत्यतिलोलं भवति अतिक्षिप्रं विनश्यति । वस्तुतो विज्ञानानन्दैकरसमेकं स्वगतभेदवर्जितं ब्रह्मैवोरुधा नानात्वेन विभात्यज्ञानाम् । यथा स्वप्ने माया वासनामयः पदार्थ एक एव बहुधा भ्रान्त्या भाति । भ्रान्तिमात्रे दृष्टान्तः । न त्वेकस्यैव नानात्वप्रतीतौ । वासनानां भिन्नभिन्नत्वात् । एतादृशभ्रमे प्रधानकारणमुच्यते ॥ त्रिगुणेति ॥ त्रिगुणैः सत्वादिभिस्तत्सर्गैरहङ्कारादिभिश्च कृतोऽयं विरुद्धकल्पनारूपो भ्रमः ॥ वस्तुतस्तु विज्ञानमात्रं ब्रह्मैकमेव स्वाचिन्त्यशक्त्या नानास्थानेष्वनेक-विधभोगभोक्तृतया विचित्रकार्यतया विविधलक्षणवत्तया उरुधाऽनन्तरूपात्मना विभातीति ॥३४॥

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततर्ष-

स्तूष्णीं भवेन्निजसुखानुभवो निरीहः ।

सन्दृश्यते क्वच यदीदमवस्तुबुद्ध्या

त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥

तात्पर्यम्

निपातमन्धन्तमः । मोक्षमारभ्य तावत्पर्यन्तं स्मृतिर्यस्माज्ज्ञानिनो वर्तते अतो मूढेषु अविद्याव्यवस्थितो भ्रमो यद्यपि संदृश्यते तेन तथापि भ्रमाय न भवति । फलं हि निपातं स्मरति ॥ ३५ ॥

पदरत्नावली

एवंविधं मिथ्याज्ञानं मोक्षार्थिना हेयमिति भावेनाह– दृष्टिमिति । यतः पापफलं मिथ्याज्ञानं ततो निवृत्ततर्षः विषयाभिलाषरहितः दृष्टिं मिथ्याज्ञानं प्रतिनिवर्त्य परमात्मभेदादि-दर्शनरहितो भूत्वा तूष्णी भवेन् निरन्तरध्यानमन्तरेण प्रवृत्त्यन्तरविधुरः स्यात् । किमनेन पाषाण-वदवस्थानेनेति तत्राह– निजेति । अनेन स्वरूपसुखस्यानुभवो यस्य स तथा । ननु नित्य-नैमित्तिकादिक्रियादर्शनात् प्रवृत्त्यन्तरशून्यः कथमत्राह– निरीह इति । निषिद्धचेष्टाविदुरो भवति न तु क्रियामात्रशून्यः । ननु संसारे वर्तमानो मूढजनस्थितं भ्रमं दृष्ट्वा स्वयं मुह्यतीति किं न स्यादित्यत्राह– सन्दृश्यत इति । यदि क्वचिन्मूढजने स्थितमिदं परमात्मभेदज्ञानं ज्ञानिना सन्दृश्यते तथाप्यवस्तुबुद्ध्या अविद्यमानोऽयं भेद इति ज्ञानेन त्यक्तं मिथ्याज्ञानं पुनः भ्रमाय भ्रमजननाय न भवेत् । तत्र निमित्तमाह– स्मृतिरानिपातादिति । न्यग्भावेन पातो यस्मिन् तन्निपातमन्धन्तमः । मोक्षमारभ्य तावत्पर्यन्तं स्मृतिर्यस्मात् । ज्ञानिनो निपातपर्यन्तं स्मृतिर्ज्ञानमस्तीति यत् तस्मादित्यर्थः । ज्ञानफलं मोक्षः कर्मफलं स्वर्ग एवं मिथ्याज्ञानफलमन्धन्तम इति स्मरति ज्ञानीति । नि न्यग्भावनिकामयोरिति यादवः ॥ ३५ ॥

श्रीनिवासतीर्थीया

मोक्षार्थिनैवंविधं मिथ्याज्ञानमवश्यं हेयमित्याह ॥ दृष्टिमिति ॥ ततस्तस्मात्पापफलभूतां दृष्टिं भेददृष्टिं मिथ्याज्ञानं प्रतिनिवर्त्य विनाश्य निवृत्ततर्षोऽत एव निरीहो निषिद्धाचरणशून्यस्तूष्णीं भवेत् । किमनेन पाषाणवदवस्थानेनेत्यत आह ॥ निजेति ॥ स्वरूप-सुखानुभववान् । निजसुखो हरिस्तदनुभवयुक्तो वा । ननु स्वतो मोहाभावेऽपि मूढजनस्थितं भगव-द्भेदभ्रमं दृष्ट्वा स्वयमपि मुह्यतीति कस्मान्न स्यादित्यत आह ॥ संदृश्यत इति ॥ अत्र निपातशब्दं व्याख्यायाभिप्रायं वदन् संदृश्यत इत्यादिकमपि व्याचष्टे ॥ निपातमिति ॥ नितरां पातो यत्रेति व्युत्पत्त्येत्यर्थः । तावत्पर्यन्तमित्याङोऽर्थः । अनेन ज्ञानिनो न भवति इति शेषः । कुत इत्यतः स्मृतिरित्यादेर्भावमाह ॥ फलं हीति ॥ भ्रमफलमित्यर्थः । तथा च यदि यद्यपि क्व च मूढजनेषु स्थितमिदं मिथ्याज्ञानम् । अनेन ज्ञानिना संदृश्यते तथाऽप्यवस्तुबुद्ध्याऽसमीचीनमिदं भवति । मयैवंविधज्ञानवता न भवितव्यमिति बुद्ध्या परित्यक्तं यस्मात्तस्मादस्य ज्ञानिनो मूढजनस्थितभ्रमदर्शनं भ्रमाय भ्रमजननाय न भवेत् । अवस्तुबुद्ध्या कस्मादनेन परित्यक्त इत्यत आह ॥ स्मृतिरिति ॥ भगवदभेदज्ञानं मोक्षजनकं मिश्रज्ञानं संसारफलकं भेदज्ञानमन्धन्तमःफलकमिति मोक्षमारभ्य निपातादन्धन्तमःपर्यन्तं सम्यक् फलस्मृतिर्यस्माज्ज्ञानिनोऽस्ति । अतो ममाप्येवंविधज्ञानेऽन्धन्तमो भविष्यतीति स्मरणवता ज्ञानिना परित्यक्तत्वाद्भ्रमाय न भवतीत्यर्थः ॥ ३५ ॥

प्रमेयचन्द्रिका

भगवद्रूपेषु भेदभ्रमोऽवश्यं त्याज्यस् त्यागस्य महाफलसाधनत्वादित्युच्यते ॥ दृष्टिमिति ॥ निवृत्ततर्षः निवृत्तविषयाभिलाषो भूत्वा ततः पूर्वप्रस्तुतविकल्पपदोक्तां भगवद्रूपभेददृष्टिं प्रतिनिवर्त्य सम्यङि्नवर्तयित्वा तृष्णीं भवेत् । निरन्तरहरिध्यानमन्तरेण प्रवृत्यन्तरविधुरः स्यात् । किमनेन तूष्णीमवस्थानेनेत्यत उक्तम् ॥ निजसुखानुभव इति ॥ निजं स्वभावभूतं सुखं यस्य हरेस्तस्यानुभवः साक्षात्कारो यस्य स निजसुखानुभवोऽपरोक्षज्ज्ञानी स्वयं च तत्प्रसादान्निजसुखानुभवो भवेत् । स्वोदयात्फलदं ज्ञानमित्युक्तेः । श्रीहरिध्यानादिलक्षणतूष्णींभावेनापरोक्षज्ञानस्वस्वरूप-सुखानुभवश्च स्यादिति भावः । ज्ञानिनोऽपि नित्यनैमित्तिककर्मदर्शनात्कथं तूष्णींभाव इत्यत उक्तम् ॥ निरीह इति ॥ बन्धकचेष्टारहित इत्यर्थः । तूष्णीं भवेदित्यनेन विरुद्धकर्मविरहो विवक्षितो न तु क्रियामात्रत्याग इति भाव इति पूर्वार्धार्थः ॥

ज्ञानिनो गुरूपदेशादिना रूपभेदज्ञाननिवृत्तावपि मूढेषु स्थितं भेदभ्रमं तदीयव्यवहारादिना ज्ञातवतस्तत्संसर्गात्पुनर्भेदभ्रमानुत्पत्तिः स्यात् । ततश्च मोक्षप्रतिबन्धो भवेदिति शङ्कावारणायोत्तरार्धः प्रवृत्तः । तमःप्रतीतेर्यथावद्व्याचिख्यासुस्तावन्निपातपदमनूद्य व्याचष्टे ॥ निपातमिति ॥ नितरां पातोऽपुनरावृत्तिलक्षणो यत्र तन्निपातं तच्चान्धतम एवेति भावः । समग्रवाक्यं योजयति ॥ मोक्षमारभ्येति ॥ यद्यपि मूढेषु स्थितो भगवद्रूपभेदभ्रमस्तेन ज्ञानिना संदृश्यते । तथापि नासौ भ्रमाय भवति । मूढजनगतभेदभ्रमस्य ज्ञानिना दृष्टत्वेऽपि ज्ञानिनो भ्रमो न जायत इति यावत् । कुतो न जायते दुर्जनसङ्गेन चित्तव्यामोहस्य लोकदृष्टत्वादित्यत उक्तम् ॥ मोक्षमारभ्येति ॥ यस्मादपरोक्षज्ञानकर्ममिश्रकर्मपापकर्ममिथ्याज्ञानानां फलत्वेन मोक्षमारभ्य तावत्पर्यन्तं निपातपर्यन्तं स्मृतिर् मोक्षस्वर्गनिरयतमसां फलत्वानुसन्धानं शास्त्राचार्योपदेशेन ज्ञानिनो विद्यते । अतो मूढेषु स्थितो भ्रमो यद्यपि तेन संदृश्यते । तथा भ्रमाय न भवतीत्येकान्वयः । ज्ञानि फलतया मोक्षादि-स्मरणेऽपि भ्रमाभावः कुत इत्यत आह ॥ फलं हीति ॥ यस्मादीशरूपभेदविषयकमिथ्याज्ञस्य फलमन्धंतम इति स्मरति ज्ञानी अनुसन्धत्ते । अतोऽनिष्टप्राप्तिभयाद्भ्रमानुदयो ज्ञानिनो युज्यत इति भावः । पूर्वोक्तनिगमनरूपत्वान्न पुनरुक्तिः । एतेन मूले आनिपातादिति निपातस्योत्तरार्धत्वोक्त्या योग्यतया ज्ञानफलभूतो मोक्षः पूर्वावधितया सम्बध्यत इत्याशयेन मोक्षमारभ्येत्युक्तम् । कस्य स्मृतिरित्यतोऽध्याहारः कृतो ज्ञानिन इति ॥ स्मृतिरित्यस्यान्वयादर्शनाद्विद्यत इत्यध्याहारः कृतः । भ्रमाय न भवेदित्यनेनान्वयलाभाय यस्मादत इत्युपस्कृतम् । क्वचेत्यस्यार्थो मूढेषु स्थित इति । पूर्वार्धे निवर्त्यतयोक्तो भ्रम इदमिति परामृश्यत इति भावेन तदर्थोऽभिहितो भ्रम इति । यदीति विद्यमानत्वात्तथापीत्युक्तम् । अवस्तुबुध्येत्यस्याभिप्रायः ॥ फलं हीति ॥ यस्मान्मोक्षमारभ्य निपातपर्यन्तं ज्ञानिकर्मादिफलत्वेन ज्ञानिनः स्मृतिर्विद्यते । तस्माद्यद्यपि क्वच मूढेषु इदमीशरूपाभेदज्ञानं सन्दृश्यते । तथाप्यवस्तुबुध्द्या तद्विषयस्यावस्तुत्वज्ञानेन त्यक्तमिदं मिथ्याज्ञानं दृष्टमपि द्रष्टुर्ज्ञानिनो भ्रमाय न भवेदिति । भगवद्रूपेषु भेदज्ञानेन तमो भवतीति दृष्टज्ञानवतः मूढेषु तादृशमिथ्यानदर्शनेन स्वस्यापि मिथ्याज्ञानं भवतीति ॥ ३५ ॥

देहं च नश्वरमवस्थितमुज्झितं१ च

सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।

दैवादुपेतमथ दैववशादपेतं

वासो यथा परिवृतं२ मदिरामदान्धः ॥ ३६ ॥

तात्पर्यम्

त्रिगुणसर्गकृतो विकल्प इत्युक्तम् । ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वा-द्विकल्पो भवतीत्यत आह । देहं च नश्वरमिति ॥ ३६ ॥

पदरत्नावली

ननु त्रिगुणसर्गकृतो विकल्प इत्यत्र त्रिगुणबद्धानां विकल्पा इत्युक्तम् । तत्र ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वाद् विकल्पः सम्भाव्यत इत्यत्राह– देहं चेति । निरन्तरं भगवन्तं ध्यायन् जीवस्वरूपमारभ्य परमात्पपर्यन्तानि तत्वानि तत्तत्स्वरूपं यथावदध्यगमद् देहादिविलक्षणतया तारतम्येनापरोक्षीचकारेति यत् तस्माद् देहाभिमानरहितो ध्यानारूढोऽवस्थितमुत्थितं वा देहं नानुपश्यति । कीदृशं देहम् । दैवादुपेतं प्राप्तं दैववशाद् भगवत्प्रेरितकर्मवशाद् अपेतं वियुक्तं च । मदिरामदान्धः मद्यपानजनितमदविस्मृतात्मज्ञानः पुरुषः परिवृतमाच्छादितं वासो यथा दृढीकरणादियत्नं न करोतीति । अतस्त्रिगुणकृतदेहाभिमानाभावात् तत्कृतविकल्पो नास्तीति भावः ॥ ३६ ॥

श्रीनिवासतीर्थीया

उत्तरश्लोकस्य सङ्गत्यप्रतीतेस्तां दर्शयति ॥ त्रिगुणेति ॥ उक्तमित्यनन्तरं तत्रेति शेषः । यदा देहवत्त्वं तदा परम्परया देहस्य त्रिगुणकार्यत्वात्त्रिगुणित्वं द्रष्टव्यम् । विकल्पो भगवद्भेदरूपं मिथ्याज्ञानमाह । त्रिगुणकार्ये देहे स्फुटतरविवेकज्ञानसद्भावेनाभि-मानलेशाभावात्तत्कृतविकल्पो न भवतीत्याहेत्यर्थः । यथा मदिरापानप्राप्तमदेनान्ध उन्मत्तः परिवृत-माच्छादितं वासो दैवादपेतं दैववशादुपेतं वा न पश्यति । तथा सिद्धोऽपरोक्षज्ञानी नश्वरमिमं देहं दैवाद्भगवत्प्रेरितकर्मवशादवस्थितं दैवादुख्खितं न पश्यति । ननु दृष्टान्ते मदिरापानजान्धताया वस्त्रादर्शनहेतुभूतायाः सत्वाद्युक्तमदर्शनम् । दार्ष्टान्तिकेऽदर्शने को हेतुरित्यत उक्तम् ॥ यत इति ॥ यतः सिद्धः स्वस्य स्वतन्त्रस्य हरे रूपमध्यगमदापरोक्ष्येण ज्ञातवान् । असंप्रज्ञातसमाधौ भगवद्दर्शने इतरादर्शनं युक्तमित्याशयः ॥ ३६ ॥

प्रमेयचन्द्रिका

देहं तु नश्वरमित्युत्तरश्लोकद्वयेनापरोक्षज्ञानिनः स्थितिरसंगतोच्यते । तदा प्रकृतिसङ्गतः गुणचेतसोः कथमन्योन्यसङ्गत्याग इति सनकादिभिः प्रश्ने अनादिबन्धकर्मणा सततं विषयानुसेवया च प्राप्तस्य गुणचेतसोरन्योन्यानुबन्धस्य त्यागः सहनं निवर्तकर्मणा गुणचेतसो-र्भगवत्यर्पणेन दुर्विषयसेवायाः स्वात्मनो विपर्ययहेतुताविमर्शसंजातेन निर्वेदेन सर्वत्राभिमानत्यागेन हरेः सर्वस्वातन्त्र्यसर्वावस्थाप्रदत्वसर्वरूपाभेदसर्वेश्वरत्वादिज्ञानेन च समुत्पन्नादीश्वरानुग्रहाद्भवतीत्येवं वक्तव्यस्य सर्वस्योक्तत्वादित्यतः श्लोकद्वयमवतारयति ॥ त्रिगुणेति ॥ ज्ञानिनो भ्रमो जायत इत्ययुक्तम् । तत्र मूढजनगतभ्रमदर्शननिमित्तकभ्रमासम्भवेऽपि निमित्तान्तरेण भ्रमः सम्भवति । तथाहि । त्रिगुणसर्गकृतो विकल्प इत्यनेन विकल्पशब्दितभ्रमं प्रति त्रिगुणतत्कार्यपापादिबन्धस्य कारणत्वमुक्तम् । एवं सति ज्ञानिनोऽपि देहेन्द्रियादिमत्वेन त्रिगुणादिबद्धत्वाद्भवत्येव भ्रमो भ्रमाय न भवेदिति अयुक्तमिति यतः शङ्का प्राप्ता अतस्तत्परिहारमाह श्लोकद्वयेनेत्यर्थः । मूलार्थस्तु सिद्धो जीवन्मुक्तः स्वरूपं स्वातन्त्र्यात्स्व इति प्रोक्त इत्युक्तेः स्वतन्त्ररूपं भगवन्तमध्यगमत् । अपरोक्षीचकार । अत एव स्वस्यानन्दादिगुणात्मकं रूपं यतोऽध्यगमद् अतो नश्वरं नाशशीलं देहम् अवस्थितमुखितं चेत्यस्य विवरणम् । दैवाद् भगवत्प्रेरितादृष्टादुपेतं स्थितम् । अथ दैववशादपेतम् । वियुक्तं न पश्यति । तत्र दृष्टान्तः मदिरया संजातमदेनान्धीभूतः पुरुषः परिकृतं धृतं वासो दैवादुपेतमथ दैववशादुपेतं यथा न पश्यति तथेत्यर्थः ॥ मदान्ध इव परमात्मदर्शनादिना तत्रैव परवशत्वात्स्वरूपसुखानुभवेन तृप्तत्वाच्च न देहादिज्ञानं ज्ञानिन इति भावः ॥ ३६ ॥

देहोऽपि दैववशगः खलु कर्म यावत्

स्वारम्भकं प्रति समीक्षत एव सासुः ।

तं सप्रपञ्चमधिरूढसमाधियोगः

स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ ३७ ॥

तात्पर्यम्

‘आदरो भजनं भक्तिर्बहुमानं च सेवनम् । पर्यायवाचकाः सर्वे स्मृतिस्तज्ज(न्य)न्म कर्म चे’ति शब्दनिर्णये ॥ ३७ ॥

पदरत्नावली

दैवादुपेतमित्येतत् स्पष्टयति देहोपीति । ननु स्वयं देहपोषणादिप्रयत्नोदासीनश्चेत् कथं तिष्ठति इत्यतो वाह– देह इति । दैववशगः स्वादृष्टप्रेरकश्रीहर्यधीनो देहोपि तावत् प्रतिसमीक्षते प्रतीक्ष्यावतिष्ठते । कार्यस्य जडस्य कारणावस्थानमन्तरेणावस्थानं कथमत्राह– सासुरिति । प्राणवृत्तिसहितत्वात् । कियन्तं कालमत्राह– कर्मेति । यावत् स्वारम्भकं स्वोत्पादकादृष्टलक्षणं कर्मास्ति । तत्समाप्तौ पतत्येव । एवार्थे खलुशब्दः । तथाप्यभिमानो भवत्येवेत्यत्राह– तमिति । अधिरूढसमाधियोगो ऽसम्प्रज्ञातसमाधिस्थः सप्रपञ्चं तं देहं पुनर्न भजेत् पूर्वं यथा तथाऽऽदृतं न करोतीत्यन्वयः । ‘‘आदरो भजनं भक्तिर्बहुमानं च सेवनम् । पर्यायवाचकाः सर्वे स्मृतिस्तज्जन्यकर्म च’’ इति वचनात् । कथमिव । प्रबुद्धवद् यथा स्वप्नादुत्थितः स्वाप्नं स्वप्नदृष्टं देहं न भजेत् तथेति

॥ ३७ ॥

श्रीनिवासतीर्थीया

दैववशादवस्थितमित्याद्युक्तं विशदयति ॥ देहोऽपीति ॥ सासुः प्राणादिवृत्तिसहितो दैववशगो देहः स्वारम्भकं कर्म यावत्पर्यन्तमस्ति तावत्पर्यन्तं ज्ञानिनं प्रति समीक्षते । ज्ञानिसम्बन्धितयाऽस्तीति यावत् । देहसद्भावेऽभिमानस्तस्य स्यादेवेत्यत आह ॥ तमिति ॥ अधिरूढसमाधियोगोऽसम्प्रज्ञातसमाध्यवस्थापन्नोऽपरोक्षज्ञानी सप्रपञ्चं स्वकार्यसहितं तं देहं प्रतिबुद्धवत् । तत्र तस्येव । सप्तम्यन्ते षष्ठ्यन्ते चोपपदे इवार्थे वतिः स्यादिति लक्षणस्य प्रायिकत्वात्प्रथमान्तादपि वतिः । तथा च प्रतिबुद्ध इवेत्यर्थः । प्रतिबुद्धो जाग्रदवस्थापन्नः स्वप्नमिव स्वाप्नं देहं यथा न भजते तद्वत्पुनर्न भजत इत्यर्थः । ननु देहं न भजते नाप्नोतीति कथं, ज्ञानिनः प्रारब्धकर्मसद्भावे देहान्तरप्राप्तेरावश्यकत्वादित्यतो भजनशब्दार्थमाह ॥ आदर इति । एतेन सर्वे शब्दाः पर्यायवाचकाः । पर्यायेण क्रमेणैकार्थस्य वाचका घटकरीरादिशब्दवत्क्रमप्रयोज्या इत्यर्थः । तथा च पुनर्न भजते । ज्ञानाभावावस्थायां यथा देहे आदरं कृतवान् तथा ज्ञानोत्पत्त्यनन्तरं तस्मिन्देहे आदरं बहुमानं वा न करोतीत्यर्थ उक्तो भवति ॥ ३७ ॥

प्रमेयचन्द्रिका

तर्हि देहावस्थानं कथमित्यत उच्यते ॥ देहोऽपीति ॥ पुरुषप्रयत्नमन्तरा केवलं दैववशगः स्वादृष्टनियामकेश्वराधीनः सासुः प्राणेन्द्रियः । तद्वृत्तिसहितो देहः स्वारंभकं स्वावस्थानहेतुभूतं कर्म यावदस्ति तत्तावत्पर्यन्तमेव प्रति समीक्षते । श्वा मुमूर्षतीत्यादिवत्प्रति समीक्षत इव देहावस्थानहेतुभूतं कर्म यावदवतिष्टते यावद्वर्तते अथ निवर्तत इति भावः । स्यादेवं समाध्यवस्थायां देहाभिमानाभावः । समाधेरुत्थानानन्तरं पुनर्देहाभिमानप्राप्तिरस्ति किमित्यतो नोच्यते ॥ तमिति ॥ अधिरूढः समाधिरूपो योगो यस्य सः ज्ञानी । सप्रपञ्चमिन्द्रयादिविस्तारसहितं तं देहं प्रतिबुद्धः स्वप्नादुत्थितो यथा स्वप्ने दृष्टं देहे न भजते । तत्रापुनर्भजते इति ॥

ननु स्वाप्नदेहस्य वासनामयस्य प्रबोधे विनाशात्तं न भजत इति युक्तम् । समाध्यारूढस्य समाधेरुत्थानानन्तरमपि देहस्य सत्वान्न भजत इति कथमुच्यत इत्यत आह ॥ आदर इति ॥ आदरादयः शब्दाः स्मृतिशब्दक्रियावाचकशब्दाश्चेत्येते सर्वे पर्यायवाचकाः । पर्यायेण क्रमेण वाक्यभेदे प्रयोगार्हत्वात्पर्यायवाचकाः । एकार्थवाचका इति यावत् । कृष्णं स्मरति स्मृत्वाऽर्चयतीत्यादौ कृष्णे आदरं करोतीत्येव भानात्स्मृतिस्तज्जन्यकर्म चेति युज्यत इति ज्ञेयम् । तथा च न भजतीत्यस्यादरं न करोतीत्यर्थ इति भावः ॥ इदमुक्तं भवति ॥ ज्ञानिशरीरस्य त्रिगुणकार्यत्वेऽपि ज्ञानिनस्तत्वाभि-मानाभावेन सन्नपि देहो अविद्यमानकल्पो न स्वकार्यक्षमोऽतो न त्रिगुणसर्गकृतो भवतीति ॥३७॥

मयैतदुक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयोः ।

जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥ ३८ ॥

पदरत्नावली

इतिहासं निगमयति मयैतदिति ॥ ३८ ॥

श्रीनिवासतीर्थीया

इतिहासं समापयति ॥ मयैतदिति ॥ हे विप्राः । साङ्ख्यशास्त्र-योगशास्त्रयोर्यद्गौप्यं प्रमेयमुक्तं तद्वो मयोक्तमित्यर्थः । एतदर्थमेव मदागमनमित्याह ॥ जानीतेति ॥ यज्ञं यज्ञो विष्णुर्देवतेति श्रुतेर्विष्णुं मा मां युष्माकं धर्मं वक्तुमिच्छयाऽऽगतं जानीतेत्यर्थः ॥३८॥

प्रमेयचन्द्रिका

उक्तार्थनिगमनपूर्वकमर्थादुक्तं स्वस्य विष्णुत्वं स्पष्टमुच्यते ॥ मयेति ॥ साङ्ख्ययोगयोर्गुह्यं ज्ञानध्यानयोः सम्बन्धरहस्यम् । यज्ञो विष्णुः । यज्ञो विष्णुर्देवतेति श्रुतेः ॥ युष्मदिति ॥ प्रश्नोत्तरकथनव्याजेन युष्मभ्यं भगवद्धर्मकथनेच्छयेत्यर्थः ॥ ३८ ॥

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।

परायणं द्विजश्रेष्ठाः श्रियः कीर्तेर्दमस्य च ॥ ३९ ॥

पदरत्नावली

कर्मयोगस्य साङ्खस्य यथार्थज्ञानस्य, सत्यस्य यथार्थभाषणस्य, ऋतस्य भूतहितोपदेशिवेदस्य, तेजसो बलस्य, ब्रह्मवर्चसस्य वा, श्रियः सम्पदः ॥ ३९ ॥

श्रीनिवासतीर्थीया

स्वमहिमानमाह ॥ अहमिति ॥ योगशास्त्रस्य साङ्ख्यशास्त्रस्याहं परायणं मुख्यप्रतिपाद्यः । यद्वा योगस्य कर्मयोगस्य साङ्ख्यस्य ज्ञानयोगस्य । करणे षष्ठी । ताभ्यामहं परायणं मुख्यप्राप्य इत्यर्थः । ऋतस्य यथार्थविज्ञानस्य । ऋतं यथार्थविज्ञानमित्युक्तेः । सत्यस्य यथार्थभाषणस्य । तेजसो बलस्य । ब्रह्मवर्चसस्य वा । श्रियः संपदः कीर्तेर्दमस्य चेत्येतेषां गुणानामहं परायणं मुख्यत आश्रय इत्यर्थः ॥ ३९ ॥

प्रमेयचन्द्रिका

यज्ञमिति स्वस्य विष्णुत्वमुक्त्वा तल्लक्षणं च स्वस्योच्यते ॥ अहमिति ॥ सत्यस्य यथार्थप्रपञ्चस्य । यथार्थज्ञानस्य वा । ऋतस्य ऋ गताविति धातोर् ऋच्छत्यवगच्छत्यनेनेति धातोः परत्वावगमकस्य वेदस्य । तेजसः ब्रह्मवर्चसस्य । तेजोभिधान्तुश्रियमित्युक्तेर्महालक्ष्म्या वा । श्रियः सम्पदः । परायणं मुख्याश्रयम् ॥ ३९ ॥

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

सुहृदं परमात्मानं साम्यासङ्गादयो गुणाः ॥ ४० ॥

तात्पर्यम्

‘अपूर्णगुणरूपास्तु सम्पूर्णगुणरूपकम् । भजन्ति परमं ब्रह्म देवा-स्त्रिगुणवर्जितमि’ति कालसंहितायाम् ॥ ४० ॥

पदरत्नावली

सर्वे गुणा असम्पूर्णगुुणरूपा अप्रधाना ब्रह्मादिदेवा एवंविधं मां भजन्ति । किञ्च गुणाश्च मां भजन्ति । कीदृशम् । निर्गुणं प्रकृतिगुणवर्जितम् आत्मानं सम्पूर्णगुणरूपकम् अत एव निरपेक्षकम् । अपूर्णगुणस्य हि गुणापेक्षा, न च साऽस्तीति । अत एव सुहृद-मनिमित्तबन्धुम् । अत एवाहमेव सेव्य इत्युक्तम् । प्रियं तदेतत् प्रेय इति श्रुतेः । ‘‘अपूर्णगुणरूपास्तु सम्पूर्णगुणरूपकम् । भजन्ति परमं ब्रह्म देवास्त्रिगुणवर्जितम्’’ इति वचनात् । के गुणा इति तत्राह– साम्यासङ्गादय इति । ज्ञानादिगुणानां तारतम्येपि सर्वसामान्यादनभिधानम्, साम्यादीनां तदभावाद् विशेषोक्तिरिति ज्ञातव्यम् ॥ ४० ॥

श्रीनिवासतीर्थीया

मां भजन्तीति श्लोकं प्रमाणेनैवान्यथाप्रतीतिनिरासाय व्याचष्टे ॥ अपूर्णेति ॥ गुणा इत्यस्याप्रधानभूता इत्यर्थः । तत्कुत इत्यतो ऽपूर्णगुणरूपा इत्युक्तम् । सम्पूर्णेत्यात्मशब्दार्थः । त्रिगुणेति निर्गुणमित्यस्यार्थः । तथा च सर्वे गुणा अपूर्णगुणरूपत्वाद-प्रधानभूता ब्रह्माद्या देवा निर्गुणं निरपेक्षकं जीववदपेक्षाशून्यं सुहृत्वादियुक्तं मां भजन्ति । तथा सर्वे गुणा निर्गुणत्वादियुक्तं मां भजन्ति । मयि सर्वे गुणाः सन्तीति यावत् । के ते गुणा इत्यत आह ॥ साम्येति ॥ तत्तद्योग्यतामनतिक्रम्य फलदानं साम्यं वायुवत्तत्तत्पदार्थसम्बन्धेऽपि तत्कृतलेपाभाव इत्यादयो हि गुणा इत्यर्थः ॥ ४० ॥

दुर्घटभावदीपिका

सर्वे गुणा अप्रधाना लक्ष्म्यादिदेवा यस्य साम्यासङ्गादयो गुणास्तं निर्गुणं सत्त्वादिगुणरहितं निरपेक्षकमपेक्षारहितम् । पूर्णकाममिति यावत् । सुहृदं ज्ञानिनां प्रियमात्मानं स्वामिनं मां भजन्तीति । एतेन साम्यासङ्गादयो गुणा इत्येतदनन्वितमिति दूषणं परास्तम् । यस्य तमित्यध्याहारेणान्वयस्योक्तत्वात् ॥ ४० ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां त्रयोदशोऽध्यायः ॥ ११–१३ ॥

प्रमेयचन्द्रिका

सर्वदेवोपास्यस्वमहिमोच्यते ॥ मामिति ॥ अत्र गुणा मां भजन्ति । के ते गुणा इत्यतः साम्यासङ्गादयो गुणा इत्युच्यत इति भाति । तथात्वे साम्यादीनां भगव-त्स्वरूपत्वेन तेषां हरेः प्रियत्वायोगोत् । भजन्तीत्युक्तादरकर्तृत्वानुपपत्तेरित्यतो विवक्षितमर्थं प्रमाणेनाह ॥ अपूर्णेति ॥ देवानां महागुणवत्वेऽपि तदीयगुणानां निरवधिकत्वाभावादपूर्णगुणत्वम् । अत एव भजकत्वम् । हरेः स्वातन्त्र्येण निरवधिकगुणवत्वाद्भजनीयत्वमिति सूचितं भवति । ततश्च मूले गुणा इत्यस्याप्रधाना देवा इत्यर्थः । निरपेक्षकमित्यस्यार्थः ॥ सम्पूर्णगुणरूपकमिति ॥ भजनीयत्वे निमित्तान्तरम् ॥ निर्गुणमिति ॥ तस्यार्थस्त्रिगुणवर्जितमिति ॥ आत्मानमाततगुणम् । तस्यार्थः ॥ परमं ब्रह्मेति ॥ ब्रह्मेत्यस्य गुणपूर्णतावाचित्वं बृहन्तो ह्यस्मिन् गुणा इत्यादिनोक्तमिति ज्ञेयम् । मूले के ते आत्मपदोक्ता इत्यत उक्तम् ॥ साम्यासङ्गादय इति ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि, पण्डिताः समदर्शिन इत्यादावुक्तरीत्या साम्यं ज्ञेयम् । वैषम्याभावो वा साम्यम् । असङ्गश्रुत्युक्तं किंपरत्वमसङ्गत्वम् । ज्ञानानन्दैश्वर्यादीनामादिपदेन ग्रहणम् ॥ ४० ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां त्रयोदशोऽध्यायः ॥

इति ते च्छिन्नसन्देहा मुनयः सनकादयः ।

सभाजयित्वा परया भक्त्याऽगृणत संस्तवैः ॥ ४१ ॥

पदरत्नावली

सनकादीनां भगवदुक्त्या च्छिन्नसन्देहत्वस्य किं लक्षणमित्यत्राह– इतीति । इतीत्यनेन समाप्तिः ॥ ४१ ॥

श्रीनिवासतीर्थीया

भगवदुक्त्या सनकादीनां छिन्नसन्देहत्वे किं ज्ञापकमित्यत आह ॥ इतीति ॥ हंसरूपस्य मे सकाशात् । सभाजयित्वा पूजयित्वा । संस्तवैः स्तोत्रैः । अगृणत स्तोत्रमकुर्वन् ॥ ४१ ॥

तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।

प्रतीयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे त्रयोदशोऽध्यायः ॥

पदरत्नावली

पूजितः सम्यक् संस्तुत इत्येताभ्यां च च्छिन्नसंशयत्वं लक्षयति ॥ ४२ ॥

॥ इति श्रीविजयध्वजतीर्थविरचितायां श्रीभागवतटीकायां पदरत्नावल्याम्

एकादशस्कन्धे त्रयोदशोऽध्यायः ॥

श्रीनिवासतीर्थीया

अहं हंसरूपी । परमेष्ठिनो ब्रह्मणः । पश्यतः सतः स्वकं धाम गृहं प्रतीयायागममित्यर्थः ॥ ४२ ॥

**॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्यां **

एकादशस्कन्धे त्रयोदशोऽध्यायः ॥