न रोधयति मां योगो न साङ्ख्यं धर्म एव च
॥ अथ द्वादशोऽध्यायः ॥
श्रीभगवानुवाच—
न रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्ते न दक्षिणाः ॥ १ ॥
व्रतानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमाः ।
यथाऽवरुन्धेन्मत्सङ्गः सर्वदुःखापहो हि माम् ॥ २ ॥
तात्पर्यम्
‘सङ्गस्तु गुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात् । स चेद्धरौ भवेत्तेन मुच्यते नात्र संशयः । अपरोक्षदृशेर्हेतुर्भवेत्स स्याद्यदि क्षमः । अन्यथा सुखभागेन मद्दृशिर्मोक्ष-कारणमि’ति दर्शने ॥ २ ॥
पदरत्नावली
भगवद्गुणोत्कर्षज्ञानपूर्विका भक्तिरेव परमपुरुषार्थान्तरङ्गसाधनमितीममर्थं समर्थयते । तत्रादौ गुणोत्कर्षाज्ञानाननुरक्तयोगादीनां विवक्षितपुरुषार्थसाधनत्वं न भवतीत्याह– न रोधयतीति । योगो ध्यानम् । रोधयति वशीकरोति । त्यागो दानम् । यथा मयि सङ्गः गुणसम्प्रीतिः । भक्तिपूर्विका सर्वपूर्णगुणत्वमतिर्यथा मामवरुन्धेद् वशीकरोति तथा योगादयो न रोधयन्ति । ‘‘सङ्गस्तु गुणसम्प्रीति-र्गुणवत्वेऽतिनिश्चयात् । स चेद् हरौ भवेत्तेन मुच्यते नात्र संशयः । अपरोक्षदृशेर्हेतुर्भवेत् स स्याद् यदि क्षमः । अन्यथा सुखभावेन यद्दृशिर्मोक्षकारणम्’’ इति वचनादुक्त एवार्थो न तु सम्बन्धमात्रम्
॥ १,२ ॥
श्रीनिवासतीर्थीया
भक्तेरेवोत्तमसाधनत्वं मोक्ष इतीममर्थं प्रतिपादयितुमयमध्यायः । तत्र भक्तिशून्ययोगादीनां भगवद्वशीकरणद्वारा न पुरुषार्थहेतुत्वमित्याह ॥ न रोधयतीति । न वशीकरो-तीत्यर्थः । योगो वायुजयादियोगाभ्यासः । त्यागो दानम् । साङ्ख्यं तत्त्वज्ञानम् । अवरुन्धेद्वशी-कुर्यात् । अत्र सङ्गशब्दोक्तसम्बन्धमात्रस्य सर्वजीवसाधारण्यात्सर्वदुःखापह इत्युक्तमोक्षसाधनत्वानुपपत्तेः सङ्गशब्दार्थमाह ॥ सङ्गस्त्विति ॥ गुणसंप्रीतिरित्यत्र गुणशब्दो गुणवत्परः । तथा च गुणवत्त्वे हरेर्गुणवत्त्वविषये योऽतिनिश्चयः सुदृढमाहात्म्यज्ञानमिति यावत् । तस्माज्ज्ञाता या गुणवति हरौ संप्रीतिः स्नेहः स सङ्ग इत्यर्थः । तथा च माहात्म्यज्ञानपूर्वकसुदृढः सर्वतोऽधिकस्नेहरूपा भक्तिः सङ्गशब्देन विवक्षितेति द्रष्टव्यम् । तेन मुच्यत इत्यनेन सर्वदुःखापह इत्येतद्विवृतम् । नन्वेतादृशभक्तेरपरोक्षज्ञानसाधनताया एवोक्तत्त्वात्कथं मोक्षसाधनत्वोक्तिरित्यतः सत्यमपरोक्षज्ञान-द्वारैवेत्याह ॥ अपरोक्षेति ॥ कदेत्यत आह ॥ स इति ॥ स सङ्गो यदि क्षमोऽतिपक्वः स्यात्तर्हीत्यर्थः। अन्यथाऽतिपक्वो न भवति चेत्तादृशसङ्गवान्पुरुषः सुखभागैहिकपारत्रिकसुखभाग्भवति न तु मुक्त इत्यर्थः । ननु तादृशसङ्गवानपि कुतो न मुक्त इत्यतोऽपरोक्षज्ञानाभावादित्याह ॥ मद्दृशिरिति ॥ १,२ ॥
प्रमेयचन्द्रिका
अत्रादौ सङ्गतः स्नेह इत्युक्तेः सङ्गपदोदितभक्तिरेव सर्वसाधनेभ्यो भूयसीति । तत्साहित्ये सत्येव धर्मादीनां फलदत्वं नान्यथेत्याशयेनोच्यते ॥ न रोधयतीत्यादिना ॥ सर्वदुःखा-पहो मत्सङ्गो मां यथाऽवरुन्धेद्वशीकरोति । तथा धर्मो मां व्यवरुन्धेदिति प्रत्येकं योजना । साङ्ख्यं ज्ञानं, योगो ध्यानम् । त्यागः सत्पात्रेभ्यः मिथ्याभिमानविरतिस्त्याग इत्यभिधीयत इति वा । छन्दांसि वेदाः । अत्रार्थज्ञानस्य विवक्षितत्वान्न स्वाध्यायपदेन पुनरुक्तता । साङ्ख्यपदेन प्राक् प्रकृतिमहदाद्यपरतत्वज्ञानस्य विवक्षितत्वान्न तत्रापि पुनरुक्तिः । सर्वत्र प्रत्येकं न रोधयतीति सम्बन्धः । मत्सङ्ग इत्यत्र सङ्गो नाम मनःसन्निधिमात्रम् । तस्य हरेः सर्वगतत्वेन सर्वसाधारणत्वात् । नापि मनसा सङ्गः । द्वेषादिना अयोग्यानामपि तद्भावात् । अतोऽत्र विवक्षितं सङ्गशब्दार्थं प्रमाणेनाह ॥ सङ्गस्त्विति ॥ सर्वसाधारण्यव्यावृत्तिसूचनार्थस्तुशब्दः । गुणेषु सम्प्रीतिः स्नेहातिशयः । गुणातिशयरूपमाहात्म्यज्ञानपूर्वकः स्नेह इति यावत् । आरोपितगुणेषु सम्प्रीतिव्यावृत्तये ‘‘गुणवत्वे अतिशयनिश्चयात्’’ इत्युक्तम् । अतिशयनिश्चयपूर्वकं गुणसम्प्रीतिरिति भावः । तस्य भगवदवरोधकत्वं नाम मोक्षप्रापकप्रसादजनकत्वमित्याशयेनाह ॥ स चेदिति ॥ तेन सङ्गेन जातभगवत्प्रसादान्मुच्यत इत्यर्थः । ननु सङ्गस्य मोचकत्वे अस्मदादावपि हरिगुणसम्प्रीतेरनुभवसिद्धत्वादिदानीं कुतो न मोक्ष इत्यत आह ॥ अपरोक्षेति ॥ यदि स सङ्गः क्षमः परिपक्वः स्यात्तर्ह्येवापरोक्षदृशेर्हेतुर्भवेत् । अन्यथा क्षमत्वे तेन सङ्गेनैहिकामुष्मिकसुखभोग एव भवेत् । न त्वपरोक्षज्ञानम् । अस्तु सङ्गाभावे तदभावस्तथापि मोक्षाभावः कुत इत्यत आह ॥ मद्दृशिरिति ॥ अयं भावः । अस्मदादा-वीषद्भक्तिसद्भावे तस्या अपरिपक्वत्वात्परिपक्वभक्तेरेव ज्ञानद्वारा मोक्षसाधनत्वादिदानीं मुक्त्यभावो युक्त इति ॥ १,२ ॥
मत्सङ्गेन तु दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ ३ ॥
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ ॥ ४ ॥
तात्पर्यम्
‘ज्ञात्वाऽपि हरिविद्वेषी तमो याति न संशयः । विशेषरूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः । गुणसम्प्रीतिमान्नित्यं तं दृष्ट्वा मुक्तिमेष्यति । अथवा सुखभागेव स्याद्यावद्दर्शनोपग’ इति व्यक्ते ॥
‘हरिसङ्ग(ति)विहीनस्तु हरेर्दर्शनवानपि । न मुच्यतेऽखिलाज्ञोऽपि तमो याति च निश्चयात् । गुणैरन्यैर्विहीनोऽपि तद्भक्तेष्वपि च क्रमात् । सङ्गवान्सुखभागेव स्याद्गुणै-र्मुक्तिमेति वा । स्वभक्तसङ्गहीनस्य व्युत्क्रमात्सङ्गिनोऽपि वा । स्वसङ्गविघ्नकृद्विष्णु-स्तत्सज्जेतैषु तत्र चे’ति सत्सङ्गे ॥
पदरत्नावली
भगवानुक्तमर्थं प्रख्यापयति मत्सङ्गेनेति । दैतेयाः प्रह्लादादयः । बहवो मत्सङ्गेन मत्पदं प्राप्ताः ॥ ३,४ ॥
श्रीनिवासतीर्थीया
ननु साङ्ख्यमिति तत्त्वज्ञानस्यापि मोक्षसाधनत्वाभावत्वोक्तिः कथमित्यतो भक्तिशून्यतत्वज्ञानमेवाभिप्रेतमत्रेत्याह ॥ ज्ञात्वाऽपीति । शास्त्रावलोकनेन कृष्णादिविशेषरूपं भगवदभिन्नत्वेन ज्ञात्वाऽपि । हरिद्वेषी तत्र भक्तिशून्य इत्यर्थः । यथा दुर्योधनादेर्वस्तुतो यत्तत्त्वं भगवत्सर्वोत्तमत्वादि तत्ज्ञानस्य सत्वेऽपि भक्त्यभावात्तमो यात इति द्रष्टव्यम् । विशेषरूपज्ञानेऽपि भक्त्यभावे न मोक्ष इति व्यतिरेकमुक्त्वा तदभावेऽपि भक्तिसद्भावे भवत्येव मोक्ष इत्यन्वयमाह ॥ विशेषेति । कृष्णस्येत्यर्थः । अज्ञो भगवदभिन्नत्वाज्ञः । गुणवत्त्व इत्यादिना भक्तिमत्वमुक्तम् । एष्यति भक्तेः पक्वतायामित्यर्थः । अन्यथाऽपक्वत्वे । सुखेति ॥ मुक्तेतरसुखेत्यर्थः । कियत्पर्यन्त-मित्यत आह ॥ यावदिति ॥ दर्शनस्योप समीपे यावत्पर्यन्तं गच्छत्यपरोक्षज्ञानं यावत्पर्यन्तं भवति तावत्पर्यन्तमित्यर्थः । सङ्गशब्दोक्तभक्तेर्मोक्षसाधनत्वे प्रमाणान्तरमाह ॥ हरीति ॥ हरेर्दर्शनवान्निर्गुणत्वादिरूपेण हर्यपरोक्षज्ञानी । तथा चैतत्प्रमाणानुरोधेन दैत्यानामप्यपरोक्षज्ञान-मस्तीत्यवश्यमङ्गीकरणीयम् । इतरस्याप्येवमसंश्लेषः पाते त्विति सूत्रोक्तपुण्याश्लोषादेस्तेषामपरोक्षज्ञाना-भावेऽयोगात् । उक्तं च भाष्ये । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यत इति । निर्गुणत्वादिज्ञानपरिपाक एव तेषां दर्शनं न त्वपरोक्षज्ञानम् । न मे गुरोरप्यपरोक्षतां गतमित्युक्तेः । व्यतिरेकमुक्त्वाऽन्वयमाह ॥ गुणैरिति ॥ वैराग्यादिगुणैः सङ्गसहितैर्वैराग्यादिगुणैः । सङ्गहीनस्य प्रत्युत द्वेषयुक्तस्य । तत्तस्मात् । एतेषु भक्तेषु । तत्र हरौ ॥ ३,४ ॥
प्रमेयचन्द्रिका
ननु तमेवं विद्वानमृत इत्यादेर्ज्ञानस्यैव मुक्तिसाधनतायाः प्रमितत्वाद्व्यर्थैव भक्तिः । न च ज्ञानसाधनतया तदुपयोगः । गुरूपदेशादिनैव तत्सम्भवादित्यतो भक्तिहीनज्ञानं सर्वथा न मोक्षसाधनमित्याह ॥ ज्ञात्वाऽपीति ॥ जयी पयोब्धिमन्दिरः किलैष पक्षिवाहनः । जनार्दनो वधाय नः प्रजात इत्यादिप्रकारकस्य तथा द्रोणकृपाद्युपदेशादिना प्राप्तस्य मागधसुयोधनादीनां प्रत्यक्षज्ञानस्य सत्वेऽप्ययोग्यतया भक्त्यभावादसूयानिमित्तकद्वेषबलाच्च तमःप्राप्तेरेव प्रमितत्वाद्भक्तिरहितज्ञानमप्रयोजकमतो भक्तिरेव मुक्तिसाधिका न सांख्यमिति निषिद्धं ज्ञानं च तादृशमेवेति भावः ।
ज्ञानिनोऽपि सङ्गाभावे मोक्षो नेत्युक्त्वा तत्सद्भावे विशेषज्ञानरहितस्याप्यस्ति मोक्ष इत्याह ॥ विशेषरूपस्येति ॥ बिम्बरूपस्येत्यर्थः । ननु स्वबिम्बदर्शनेनैवैनं जीवं मोचयतीत्यवधारणात्कथं विशेषरूपाज्ञस्य मोक्ष इति चेत् । सत्यम् । भूलोकादुत्क्रम्योर्ध्वलोकगमनानन्तरं तत्र स्वर्गादौ विशेषोपास्त्या मोचकबिम्बाख्यविशेषरूपसाक्षात्कारेण परमप्राप्त्युपपत्तेः । एतच्च गोपिकाद्या दिवं गत्वेत्युत्तरत्र स्पष्टीभविष्यति । अधिकारविशेषापेक्षयैतदिति ज्ञेयम् । अत एव पक्षान्तरमाह ॥ अथवेति ॥ सामान्यरूपापरोक्षेण न मोक्षः किंतु सुखभागेव स्यात् । सामान्यदर्शनाल्लोका मुक्ति-र्योग्यात्मदर्शनादित्युक्तेः । एतच्च योग्यसाक्षात्कारपर्यन्तम् । तस्मिन् जाते परममुक्तिर्भवतीति भावः ॥
ननु कृष्णाद्यवताराणां सर्वसाधारण्येन प्रत्यक्षविषयतया तद्दर्शने जयी पयोब्धिमन्दिर इत्यादिज्ञाने सत्यपि वैकुण्ठादिगतरूपदर्शनाद्गुणपूर्णत्वादिज्ञानाभावाद्युक्ता जरासन्धादीनां द्वेषतस्तमःप्राप्तिः । अतः सा न भक्त्यभावनिमित्तका । अतो हरिभक्तिरनपेक्षितेत्यतो सत्यप्यपरोक्षतो भगवद्दर्शने भक्त्यभावात् क्रमेण मोक्षाभावादित्यत्र प्रमाणम् ॥ हरिसङ्गतीति ॥ सङ्गो गुणसम्प्रीतिः । आदिदैत्यानां हिरण्याक्षादीनां तपोवरादिना वैकुण्ठादिषु सञ्चारेण तद्गतरूपदर्शने वेदार्थभूताखिलगुणज्ञत्वेऽपि भक्त्यभावात्तत्रैवासूयाद्वेषेण न मोक्षः । प्रत्युत तमःप्राप्तिरेव युक्ता अतो भक्तिः सर्वथाऽपेक्षितेति भावः ॥
गुणान्तराभावेऽपि हरिभक्तितद्भक्तभक्तितश्चाल्पयुतं सुखसाधनमित्याह ॥ गुणैरिति ॥ अपीत्यतःपरं हराविति शेषः । सङ्गमात्रवांश्चेत्सुखभावे च न मोक्षभाक् । गुणैर्विरक्तिपरिपक्व-भक्त्युपासायोग्यदर्शनादिभिर्युक्तश्चेन्मुक्तिमेष्यति । वेति व्यवस्थिविकल्पः । तद्भक्तेष्वपि च क्रमा-दित्येतदकरणे दोषोक्त्या समर्थयति ॥ स्वभक्तेति ॥ नीचेष्वधिकगुणसंप्रीतिरुत्तमेष्वल्पेत्येवं व्युत्क्रमादित्यर्थः । तत्तस्मात्कारणात् क्रमेण तेषु भक्तेषु ब्रह्मादिषु तत्र हरौ च सज्जेत सङ्गं कुर्यात् ॥
मूले गुणसम्प्रीतिसद्भावे दैत्यादीनामपि भवेन्मोक्षः सैव भूयसीत्याशयेनोच्यते ॥ मत्सङ्गेनेति ॥ यातुधानाः पुण्यजना । रजस्तमःप्रकृतय इति देहनिमित्तकतात्कालिकजातिविवलक्षया । सात्विका एव वैष्णवा इति गीतातात्पर्योक्तेः ॥ ३,४ ॥
बहवो मत्पदं प्राप्ता त्वाष्ट्रकावन्तिकादयः ।
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥ ५ ॥
पदरत्नावली
त्वाष्ट्रको वृत्तः । आवन्तिकोऽवधूतो भिक्षुः । यातुधाना इत्याद्युक्तं शृङ्गि-ग्राहिकतया दर्शयितुं विभीषण इत्यादि पुनर्वचनम् । वणिक् तुलाधारः ॥ ५ ॥
श्रीनिवासतीर्थीया
त्वाष्ट्रकस्त्वष्ट्रपुत्रो वृत्रासुरः । अवन्तिकोऽवन्तिदेशोद्भवोऽवधूतो भिक्षुः। सामान्येनोक्तादैतेयादीन् विशेषतो निर्दिशति ॥ वृषपर्वेति ॥ विभीषण इत्यनेन यातुधानपदोक्तराक्षसो दर्शितः ॥ ५ ॥
प्रमेयचन्द्रिका
त्वाष्ट्रकस्त्वष्टुपुत्रो वृत्रासुरः । आवन्तिकोऽवधूतो ऽवन्तिद्विजः कश्चिदित्याद्युक्तेः । दैतेया इत्यादेरुदाहरणम् ॥ वृषपर्वेत्यादि ॥ ५ ॥
सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न््नयस्तथाऽपरे ॥ ६ ॥
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।
अव्रतातप्ततपसो मत्सङ्गान्मामुपागताः ॥ ७ ॥
पदरत्नावली
मयोनामा शूद्रः । ते गोप्यादयो मामुपागता इत्यन्वयः ॥ साधनं विना त्वामुपगताश्चेत् सर्वे किं नाप्नुवन्तीति तत्राह– मत्सङ्गादिति । गुणसम्प्रीतिरपि न वेदादिभ्य उत्पन्ना (तासाम्) इत्याह– नाधीतेति ॥ ६,७ ॥
श्रीनिवासतीर्थीया
सुग्रीवाद्या वानरा मृगा, गृध्रः खगो, वणिक्पथः वेदव्यासानुग्रहपात्रभूतः कीटविशेषः । अन्ये तु वणिक् तुलाधारो ऽयं वैश्यः । पथस्तन्नामा शूद्रः । एतौ भारतप्रसिद्धा-वित्याहुः ॥ अव्रताश्च ते तप्ततपसश्च ॥ ६,७ ॥
प्रमेयचन्द्रिका
मृगा इत्यस्योदाहरणम् ॥ सुग्रीव इत्यादि ॥ ऋक्षो जाम्बवान् । गृध्रो जटायुः । वणिक्पथो मखश्च वैश्यः । ते नाधीतश्रुतिगणा इत्यादि दैत्यवानरादिजातिविवक्षयोक्तम् । बलिसुग्रीवादिगोपगोपीयज्ञपत्नीनां चाध्ययनादेः प्रसिद्धत्वात् । देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपीत्यादौ च सिद्धत्वादिति ज्ञेयम् ॥
धर्मव्याधः । कुब्जा त्रिवक्रा । स्त्रिय इत्यस्य विवरणम् ॥ व्रजे गोप्य इत्यादि ॥ सङ्ग-स्याधिक्यव्युत्पादनाय तेषु दैत्यादिषु । साधनान्तरं नेत्युच्यत इति । एतच्च जातिविवक्षया । वस्तुतः प्रह्लादसुग्रीवादीनां महागुणत्वादिति ज्ञेयम् ॥ ६,७ ॥
केवलेन हि भावेन गोप्यो गावः खगा मृगाः ।
येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ॥ ८ ॥
पदरत्नावली
तर्हि केनेत्यत्राह– केवलेनेति । केवलेन निर्दोषेण भावेन भक्तियोगेन । केवलेनेति विशेषणान्न द्वेषयुक्ता भक्तिर्मुक्तिसाधनम् । ‘‘ज्ञात्वापि हरिविद्वेषी तमो याति न संशयः’’ इति वचनात् । भावेन अपरोक्षज्ञानोत्पादकस्वभावेनेति विशेषणाद् विशेषरूपस्याज्ञानेऽपि मोक्षो नियतः, ‘‘विशेषरूपस्याज्ञोऽपि गुणवत्वेऽतिनिश्चितः । गुणसम्प्रीतिमान् नित्यं तं दृष्ट्वा मुक्तिमेष्यति’’ इत्युक्तेः । ज्ञानोत्पत्तेः पूर्वमपि भगवल्लीलाद्यनुकारेण परमानन्दः स्यादित्यतो भावेनेति । ‘‘अथवा सुखभागेव स्याद् यावद् दर्शनोपगः’’ इति स्मृतेः ॥ ८ ॥
श्रीनिवासतीर्थीया
भावेन भक्त्या ॥ ८ ॥
प्रमेयचन्द्रिका
तेषु सङ्गातिशयं दर्शयितुमुक्तम् ॥ केवलेनेति ॥ मनुष्यस्त्रीत्वेन ज्ञानप्रसक्त्यभावोपपादनाय पुनर्गोप्य इत्याद्युक्तिः । सिद्धाः संसारान्मुक्ताः ॥ ८ ॥
यं न योगेन सांख्येन दानव्रततपोऽध्वरैः ।
व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि ॥ ९ ॥
पदरत्नावली
भक्तिरहितं ज्ञानमपि न मत्प्रापकं किमुतान्यत् साधनजालमिति भावेनाह– यमिति । यं मां नाप्नुयाद् यत्नवानपि । ‘‘हरिसङ्गविहीनस्तु हरेर्दर्शनवानपि । न मुच्यतेऽखिलज्ञोऽपि तमो याति विनिश्चयात् । गुणैरन्यैर्विहीनस्तु तद्भक्तेष्वपि च क्रमात् । सङ्गवान् सुखभागेव स्याद् गुणैर्मुक्तिमेति वा । स्वसङ्गविघ्नकृद् विष्णुस्तत् सज्जेत् तेषु तत्र च’’ इत्यनेन भगवद्भक्ते-स्तद्भक्तभक्तेरन्वयव्यतिरेकौ दर्शिताविति ध्वनितमित्यनेन श्लोकेन ज्ञायते । ‘‘गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम् । परं पदं ययुः पूर्वसङ्गादेव सुमोचिताः’’ इति वचनाद् भक्तिजनितज्ञानेन मुक्तिमाप्नोति न केवलज्ञानेनेत्यभिप्रायेण न साङ्ख्येनेत्युक्तम् । उपलक्षणमेतत् । दानादिष्वप्यनुसन्धेयमेतत् । ‘‘श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यमेव च । निवर्त्यं च हरेः पूजेत्येवं कुर्यान्न चाक्रमात् । एवं कर्ता तु संन्यासी सर्वोत्सर्गाद् हरौ स्मृतः । अन्यथा नैव संन्यासी निष्क्रियोऽपि शिला यथा’’ इत्येवंलक्षणवान् संन्यासी न तु शिलावन्निष्क्रिय इत्यभिप्रेत्य वेणुमात्रभृत् संन्यासी न मामाप्नोतीति (सूचयति) । किञ्च ‘‘नाहं कर्ता तु सर्वस्य कर्तैको विष्णुरव्ययः । इति वित्त्वा तु संन्यासी नान्यथा तु कथञ्चन’’, ‘‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः’’ इति लक्षणान्तरवानेव सन्न्यासी न रक्तपटधारीत्यर्थः
॥ ९ ॥
प्रमेयचन्द्रिका
भक्तेराधिक्यव्युत्पादनाय तत्प्राप्यसाधनान्तरासाध्यत्वमुच्यते ॥ यमिति ॥ गोप्यादिभिः प्राप्यं तं मामित्यन्वयः । भक्तिरहितेन योगेन ध्यानेनेत्यादौ सर्वत्र ग्राह्यम् ॥९॥
रामेण सार्धं मधुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः ।
विगाढभावेन न मे वियोगतीव्राधयोऽन्यद् ददृशुः सुखाय ताः ॥ १० ॥
पदरत्नावली
गोपीनां मयि भक्तिरपरोक्षज्ञानान्तरङ्गा न तु रतिनिमित्तेति प्रकटयितुं वक्ति रामेणेति । ता गोप्यो मत्तोऽन्यद् वस्तु सुखाय न ददृशुरित्यन्वयः ॥ १० ॥
श्रीनिवासतीर्थीया
गोपिकाप्रशंसनं करोति ॥ रामेणेति । श्वाफल्किनाऽक्रूरेण । विगाढभावेन निरूढस्नेहेन । वियोगजन्या तीव्रमनोरथा मे मत्तोऽन्यद् वस्तु पुत्रादिकं सुखाय न ददृशुः ॥ १० ॥
प्रमेयचन्द्रिका
गोपिकानां भक्तयुद्रेकोपपादनं क्रियते ॥ रामेणेति ॥ विगाढभावेन अतिशयदृढभक्त्या । आधिर्मनोव्यथा । मे मत्तो अन्यद्वस्तु सुखाय न ददृशुरित्यन्वयः ॥१०॥
यासां क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण ।
क्षणार्धवत् ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ॥ ११ ॥
पदरत्नावली
अत्र हेतुमाह– यासामिति । ताः क्षपाः ॥ ११ ॥
श्रीनिवासतीर्थीया
तत्र हेतुर्यासामिति ॥ क्षपा रात्रयो क्षणार्धवन्नीताः । तास्तादृशा अपि गोप्यः ॥ ११ ॥
दुर्घटभावदीपिका
हे अङ्ग । यासां गोपीनां क्षणो वृन्दावनगोचरेण वृन्दावनभूमौ चरता प्रेष्ठतमेन मयैव क्षणार्धवन्नीतास्तास्तासां सर्वासां गोपीनां मया हीनाः क्षपाः पुनः पुनः । सर्वदेति यावत् । कल्पसमा बभूवुरिति । एतेन वृन्दावनस्य सविषयकपदार्थत्वाभावेन वृन्दावनगोचरेणे-त्यनुपपन्नमिति दूषणं परास्तम् । वृन्दावनगोचरेणेत्यनेन वृन्दावनस्य विषयेणेत्यर्थ उच्यत इत्यनभ्युपगमात् । एतेनैव ता इत्यनेन रात्रीणां किमैक्यमुच्यते किंवा साजात्यमुच्यते । नाद्यः । रात्रीणामैक्यस्य बाधितत्वात् । न द्वितीयः । विजातीयरात्रीणामभावेन व्यावर्त्त्याभावात् साजात्यकथनस्य वैय्यर्थ्यादिति दूषणं पराकृतम् । सर्वगोपीसङ्ग्रहार्थं यासामित्यस्यावृत्तिं ता इत्यस्य तासामित्यर्थकत्वं चाभ्युपेत्य यासां यासां तासां तासामित्यर्थस्योक्तत्वात् । एतेनैव पुनरित्येतद्व्यर्थमिति दूषणं परास्तम् । कृष्णवियोगानन्तरं रात्रयः सर्वदा कल्पसमा बभुवुरित्यर्थलाभार्थमावृत्तेन पुनःशब्देन सर्वदेत्यर्थ उच्यत इति स्वीकरणात् ॥ ११ ॥
प्रमेयचन्द्रिका
तत्र हेतुरुच्यते ॥ यासामिति ॥ ताः क्षपाः पुनर्मम मधुरागमनात्परम्
॥ ११ ॥
ता नाविदन् मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेदम् ।
यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे ॥ १२ ॥
पदरत्नावली
आत्मानं स्वस्वरूपम् । अदः स्वर्गम् । इदं जगत् । तत्र दृष्टान्तमाह– यथेति । समाधौ मुनयो नामरूपे यथा न विदन्ति, अब्धितोये प्रविष्टा नद्यश्च । अनेन भक्त्यतिशयो दर्शित इति ॥ १२ ॥
श्रीनिवासतीर्थीया
अनुषङ्गः स्नेहः । स्वमात्मानं स्वकीयदेहं स्वस्वरूपम् । इदम् एत-ल्लोकम् । समाधौ स्थिताः । अब्धितोये सामुद्रजले । गङ्गादिनाम रूपमाकारादिकं च नाविदन् । यथोक्तम् । स्वकीयमुदकं नद्यः समुद्रे नैव जानत इति ॥ १२ ॥
प्रमेयचन्द्रिका
अनुषङ्गबद्धधियो ऽतिशयितस्नेहानुबद्धबुद्धयः । आत्मानं देहम् । अदः स्वर्गम् । इदं पश्वपत्यगृहादिकं जगत् । तत्र दृष्टान्तः ॥ यथेति ॥ मुनयः समाध्यवस्थायां यथा देहादिकं न विदुः । यथा अब्धितोये प्रविष्टा नद्यः स्वस्वनामरूपे न विदुरित्यर्थः । तदुक्तम् ‘‘ता यथा तत्र न विदुरियमहमस्मीति’’ छन्दोगश्रुतौ ॥ १२ ॥
मत्कामा रमणं जारं १मत्स्वरूपाविदोऽबलाः ।
ब्रह्म मां परमं प्रापुः शतशोऽथ सहस्रशः ॥ १३ ॥
तात्पर्यम्
‘गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम् । परं पदं ययुः पूर्वसङ्गादेव शुभोचिता’ इति च ॥ १३ ॥
पदरत्नावली
तत्फलमाह– मत्कामा इति । मामेव कामयन्ते इति मत्कामाः । अस्वरूपविदोऽबला जारं मां रमणं मत्वा सङ्गान्मां परमं ज्ञात्वा मामापुरित्यन्वयः । आसां ब्रह्मज्ञानं कथमुदभूत् । उच्यते । संसारं जरयतीति जारस्तम्, नित्यानन्दप्रदत्वेन रमयतीति रमणः, तम् । सर्वतो विलक्षणस्यास्य विष्णोः स्वरूपं विदन्तीत्यस्वरूपविदः, इत्येवं गुणसम्प्रीतितो मां ब्रह्म ज्ञात्वेति । ‘‘गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथातथम्’’ इत्येतदत्रापि प्रमाणत्वेनोदाहर्तव्यमिति ज्ञातव्यम् ॥ १३ ॥
श्रीनिवासतीर्थीया
मत्स्वरूपाविदो मद्भक्ताधमाः । अबला गोप्यः । जारं रमणम् । जारभूतं पतिमुपपतिं मन्वाना ब्रह्म मामापुरित्युच्यते तदयुक्तम् । सम्यक् स्वरूपाज्ञाने जारत्वादि-ज्ञानमात्रेण तत्प्राप्त्ययोगादित्यत आह ॥ गोपिकाद्या इति ॥ गोपिकाद्याः सर्वे पूर्वमपरोक्षज्ञानिन एव प्रारब्धप्रतिबन्धवशाद्गोपिकाजन्मनि भगवन्तं कृष्णं सम्यघ्घरित्वेन न ज्ञातवन्तः । किं नामाय-मस्माकं जारभूतः पतिरित्येव ज्ञात्वा तत्र सङ्गमकुर्वन्पश्चात्तद्देहपातानन्तरं दिवं गत्वा तस्मिन्सान्तानिके लोके सम्यघ्घरिं ज्ञात्वा । साधनसंपूर्तिं सम्पाद्येति यावत् । तदनन्तरं यथातथं स्वस्वरूपेण परं पदं प्रापुः । यथा कैकयी रामं हरित्वेन प्रारब्धवशादज्ञात्वा पश्चात्सान्तानिकलोके तं सम्यग्ज्ञात्वा साधनसम्पूर्त्यनन्तरं परं पदं प्राप्तवती । यथोक्तम् । कैकयी तु चलान् लोकान् प्राप्ता नैवाचला-न्क्वचिदिति । तद्वद्गोप्यो ऽपीत्यर्थः । तथा चैतद्बलाद्गोप्यादेरपरोक्षज्ञानाभावो मन्तव्यः । ननु हरित्वेन ज्ञानस्य गोपिकादेरभावे द्युप्राप्तिरपि कथं तेषामित्यत आह ॥ पूर्वमिति ॥ पूर्वं गोपिकाजन्मनि कृताद्धरौ सङ्गात्सर्गादिशुभोचिताः ॥ १३ ॥
प्रमेयचन्द्रिका
तासां भक्त्यतिशयस्य फलमुच्यते ॥ मत्कामा इति ॥ मामेव कामयन्ति इति मत्कामाः । अस्वरूपविदो ऽबलाः । मां जारं रमणं मन्वानाः सङ्गाद्गुणसम्प्रीतिवशात् परमं ब्रह्म मां प्रापुरित्यर्थः ॥ ननु योग्यस्वबिम्बभगवद्रूपदर्शनरहितानां कथं मुक्तिरित्युच्यत आह ॥ गोपिकाद्या इति ॥ शुभफलप्राप्तियोग्या गोपिकास् त्रिवक्रया सह शतद्व्यष्टिसाहस्रमहिष्यो दिवं गत्वा तत्र पूर्वं श्रीकृष्णे गुणसम्प्रीतिरूपसङ्गादेव भगवदुपासनया यथातथं स्वयोग्यतानुसारेण याथातथ्येनेति वा । हरिं स्वमोक्षप्रदस्वबिम्बभूतमपरोक्षतो ज्ञात्वा परं पदं ययुरित्यर्थः । एतेनास्वरूपविद इत्यस्य योग्यसाक्षात्काररहिता इत्यर्थो लभ्यते । न तु ज्ञानरहिता इति । श्रीकरग्रहं विखनसार्चितः रामेण सार्धमित्यादिगोपिकावचनैर्महाज्ञानावगमादिति ज्ञेयम् ॥ १३ ॥
तस्मात् त्वमुद्धवोत्सृज्य चोदितां प्रति चोदनाम् ।
प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन यस्मिन्नस्त्यकुतोभयम् ॥ १५ ॥
तात्पर्यम्
‘श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यमेव च । निवर्त्यं च हरेः पूजेत्येवं कुर्यान्न चाक्रमात् । एवं कृत्वा तु सन्न्यासी सर्वोत्सर्गाद्धरौ स्मृतः । अन्यथा नैव सन्न्यासी निष्क्रियोऽपि शिला यथे’ति कर्मविवेके ॥ ‘नाहं कर्ता तु सर्वस्य कर्तैको विष्णुरव्ययः । इति वित्त्वा तु सन्न्यासी नान्यथेति कथञ्चने’ति निवृत्ते ॥ ‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर’ इति च
॥ १४,१५ ॥
पदरत्नावली
यतो मुमूक्षूणामहमेव शरणमतस्त्वमपि मामेव शरणं व्रजेत्युपसंहरति तस्मादिति । प्रतिकर्मचोदितां चोदनां नानाविधकर्मविधिमुत्सृज्य प्रवृत्त्यादिकं च मयि समर्प्य सर्वदेहिनामात्मानं स्वामिनं यस्मिन्नकुतोभयमस्ति तमेकं मां सर्वात्मभावेन सर्वस्वामिबुद्ध्या क्रियया शरणं याहीत्यन्वयः ॥ १४,१५ ॥
श्रीनिवासतीर्थीया
प्रतिचोदनां वेदोक्तां चोदनां विधिम् । श्रुतमेव चोत्सृज्येति सम्बन्धः । अत्र सर्वपरित्याग एव कथ्यत इति प्रतीतिनिरासाय तात्पर्यमाह ॥ श्रोतव्यं चेति ॥ एवं प्रकारेण । क्रमः प्रकारः । तथा चैतं प्रकारं विहाय प्रकारान्तरेण न कुर्यात् । सन्न्यासी स्मृतः । कुतः । सर्वेषां श्रोतव्यादीनां हरावुत्सर्गात्समर्पणात् । कुत एवं निष्क्रियत्वात्सन्न्यासीति कस्मान्न स्यादित्यत आह ॥ अन्यथेति ॥ वित्त्वा ज्ञात्वा स्थितः । मयीति भगवति । कर्मणां संन्यास उच्यते । तत्प्रकारश्च नाहं कर्ता हरिः कर्तेति प्रमाणेन वाऽवगन्तव्यः । यद्यत्र कर्मणां स्वरूपेण त्यागो विवक्षितस्तदा कथं युद्ध्यस्वेति युद्धरूपकर्मविधिः सङ्गच्छते विरोधादित्याशयः । यस्मिन् मयि स्थितानां कुतोऽपि भयं नास्ति तमेकं सर्वदेहिनामात्मानं स्वामिनं मामेव सर्वात्मभावेन सर्वान्तर्यामीति बुद्ध्या शरणं याहीत्यन्वयः । शरणागतिश्च सर्वोत्तमत्वज्ञानपूर्वं, तत्र मनः सदेति प्रमाणोक्ता द्रष्टव्या
॥ १४,१५ ॥
दुर्घटभावदीपिका
हे उद्धव । त्वं तस्मान्मम मुमुक्षुशरणत्वात् । चोदनामित्यस्यावृत्तिश् चोदनां प्रति शङ्कावाक्यं प्रत्युदितां वाचं परिहारवाक्यम् । वक्तव्यमात्रमिति यावत् । प्रवृत्तं प्रवृत्तं कर्म श्रोतव्यं च श्रुतं च मय्येवोत्सृज्य मत्पूजैवेत्यनुसन्धाय मामेव शरणं याहीति वक्ष्यमाणेनान्वय इति ॥ ता.अर्थः ॥ वक्तव्यमित्यनेनोदितां प्रचोदनामित्येतद्व्याख्यातं भवति । कार्यं फलोद्देशेन कार्यम् । अनेन प्रवृत्तमिति व्याख्यातं भवति । निवृर्त्यं वृत्तं निवृत्तिं च हरेः पूजेत्यनुसन्धानं क्रमात्कालक्रमेण सम्यक् कुर्यात् । एवं हरेः पूजेत्येवमनुसन्धानं न च नैव त्याज्यम् । तर्हि सन्न्यासी भवेदित्यादिवाक्यानां का गतिरित्यत आह ॥ एवमिति । एवं कर्ता हरेः पूजेत्यनुसन्धानकर्ता यः स तु स एव हरौ सर्वोत्सङ्गात्सन्न्यासी स्मृतः । अन्यथाऽनुसन्धानं विना निष्क्रियोऽपि सर्व-क्रियारहितोऽपि सन्न्यासी नैव । अत्र दृष्टान्तमाह ॥ शिला यथेति । एतेन क्रमादित्येतद्व्यर्थमिति दूषणं निराकृतम् । हरेः पूजेति सम्यगनुसन्धानं कथं स्यादित्याशङ्कापरिहारार्थं हरेः पूजेति सम्यगनुसन्धानस्य सहसा कर्तुमशक्यत्वेऽपि कालक्रमेण कर्तुं शक्यमिति वक्तुं क्रमादित्युक्तमिति स्वीकरणात् ॥ १४ ॥
प्रमेयचन्द्रिका
मूले एवं भक्तेरेव सर्वसाधनोत्तमत्वमुपपाद्योपसंहारः क्रियते ॥ तस्मादिति श्लोकद्वयेन ॥ तस्माद्भक्तेरुक्तविधया आवश्यकत्वात् । प्रतिचोदितां प्रतिकर्मसु चोदिताम् । विहिताम् । तत्तदधिकारिणः प्रति चोदितामिति वा । चोदनां विधिम् । विहितमिति यावत् । प्रवृत्तादिकमुत्सृज्य समर्प्य सर्वदेहिनामात्मानं स्वामिनमादानादिकर्त्तारं मामेकमेव सर्वात्मभावेन सर्वस्वामित्वेन शरणं याहि । यस्मिन्क्रियमाणे अकुतोभयं परमं पदमस्तीत्यर्थः ।
अत्रोत्सृज्येति श्रोतव्यादेः सर्वत्यागो विधीयत इति भाति । तदयुक्तम् । तद्वतो विधानादिति-सूत्रादिविरोधादित्यत आह ॥ श्रोतव्यं चेति ॥ इतःपरं स्वेन श्रोतव्यम् । यत्प्राक् श्रुतं यच्च वक्तव्यं भगवन्नामादिकम् । यत्कार्यं वर्णाश्रमविहितं कर्म । यच्च निवर्त्यं निवर्तनीयम् । निषिद्धत्याग इति यावत् । तत्सर्वं हरेः पूजेत्येव कुर्यात् । हरौ समर्पयेत् । करिष्यमाणं च तत्पूजात्वेन सङ्कल्प-येदिति भावः । एवं कृत्वा भगवदर्पणकर्त्तैव सन्यासीत्युच्यते । कथं कर्त्तुः सन्यासित्वं कर्मत्यागस्यैव सन्यासशब्दार्थत्वादित्यत उक्तम् ॥ सर्वोत्सर्गादिति ॥ नाहं कर्त्तेति तत्पूजेति च सर्वस्य हरौ त्यागादित्यर्थः । अन्यथा कर्म कृत्वा हरावर्पणाकरणे निष्क्रियोऽपि गार्हस्थ्यादिकर्मत्यागे वा परमहंसोऽपि नैव सन्यासी । तत्र दृष्टान्तः ॥ शिला यथेति ॥ सर्वक्रियारहिता शिला यथा न सन्यासी तथेत्यर्थः । क्रियात्यागमात्रेण सन्यासित्वे शिलाया अपि सन्यासित्वं स्यादिति भावः ।
हरौ कर्मोत्सर्गवान् सन्यासीत्युक्तम् । तत्रोत्सर्गो नाम स्वस्य क्रियास्वातन्त्र्याभावज्ञानपूर्वकं हरेरेव तत्स्वातन्त्र्यमित्यत्र प्रमाणमाह ॥ नाहमिति ॥ अन्यथा क्रियायाः स्वरूपत्यागमात्रेण । हरिपूजात्वानुसन्धानं फलकाम्यत्यागश्च सन्यास इति सूचयन् कर्मस्वरूपत्यागः सन्यास इति प्रतिपादकं प्रमाणं पठति ॥ मयीति ॥ अधिकात्मनि परमात्मन्यनुबन्धचेतसा । सर्वाणि कर्माणि मयि सन्यस्य नाहं कर्त्ता हरिः कर्त्ता तत्पूजा कर्म चाखिलमिति समर्प्य निराशीर् हरिप्रीत्यतिरिक्तफलान्तराशा-रहितः । निर्ममः ममेदं कर्मेति स्वातन्त्र्याभिमानरहितः सन् युध्द्यस्वेति हर्यर्पणबुध्या युद्धोपलक्षित-कर्मकरणविधानात्समर्पणमेव सन्यासो न तु स्वरूपतः कर्मत्याग इति ज्ञायत इति भावः ॥१४,१५॥
उद्धव उवाच—
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।
न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥ १६ ॥
तात्पर्यम्
वायौ मुख्यधियेत्युक्त्वा विशेषतो गोपिकाप्रशंसनात्संशयःशृृण्वत इति चोदयति ॥ १६ ॥
पदरत्नावली
प्रथमतो वायौ मुख्यधियेत्युक्त्वा विशेषतो गोपिकाप्रशंसनं कृतमिति संशयबीजं हृदि कृत्वोद्धवश्चोदयति संशय इति । भक्तेषु वायोः सर्वोत्तमत्वमुक्त्वा विशेषतो गोपीः स्तुवतस्तव वाचं शृण्वतो मम आत्मस्थो मनोगतः संशयो वायुरुत्तमो गोप्यो वेत्येवमाकारको न निवर्तते । प्रत्युत येन वचनेन मे मनो भ्राम्यति निर्धारितैककोटिस्थितं नेत्यन्वयः ॥ १६ ॥
श्रीनिवासतीर्थीया
उद्धवप्रश्नाभिप्रायमाह ॥ वायाविति ॥ इत्युक्त्वेति ॥ इति वायोः सर्वदेवोत्तमत्वेन सर्वभक्तोत्तमत्वमुक्त्वेत्यर्थः ॥ विशेषत इति ॥ वाय्वादिभक्तोत्तमान्विहायेति भावः । प्रशंसनाद्रामेण सार्धमिति प्रशंसाकरणात् । यस्याश्च गोपिकादेर्भक्तोत्तमत्वं विनाऽयोगादित्यर्थः । तथा च विरुद्धार्थप्रतिपादकवाक्यद्वयरूपविप्रतिपत्त्या संशय इत्याशयः । आत्मस्थो मनसि स्थितः । येन त्वद्वचसा ॥ १६ ॥
दुर्घटभावदीपिका
आत्मस्थ इत्यस्य वायुविषय इत्यर्थः । एतेन संशयमात्रस्य मनोगतत्वेन व्यावृत्त्यभावादात्मस्थ इति विशेषणं व्यर्थमिति दूषणं प्रत्युक्तम् । आत्मस्थ इत्यस्य मनोगत इत्यर्थ इत्यङ्गीकारात् ॥ १६ ॥
प्रमेयचन्द्रिका
संशयः शृृण्वत इत्युद्धवेन हे योगेश्वरेश्वर तव वाचं शृृण्वतो आत्मस्थो मनसि स्थितः संशयो निवर्तते । येन संशयेन मे मनो भ्राम्यति बहुधा परिवर्तते । इदमित्थमिति निश्चयो न जायत इति पृच्छ्यते । अत्र संशयप्रापकाभावात्कथमत्र संशय इत्यत आह ॥ वाया-विति ॥ वायौ मुख्यधियेति वायोः सर्वभक्तापेक्षया मुख्यत्वमुक्त्वा रामेण सार्धमित्यादिना ग्रन्थेन विशेषतोऽतिशयेन गोपिकां भक्त्यतिशयरूपप्रशंसाकरणात्तदुभयविधवाक्यंशृृण्वतो मे विप्रतिपत्तिजनितया कोटिद्वयोपस्थित्या वायुः सर्वभक्तोत्तमो वा गोपिका भक्तोत्तमा वेति संशयो जायते द्वयोरपि त्वयोत्तमभक्तत्वकथनात् । तं मे संशयं परिहरेत्यभिप्रायेण पृच्छतीत्यर्थः ॥ १६ ॥
श्रीभगवानुवाच—
य एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्ममुपैति रूपं मात्रा स्वरो वर्ण इति स्थविष्ठम् ॥ १७ ॥
तात्पर्यम्
**गोपिका अपि मामापुः किमु वाय्वाद्या इति दर्शयितुं गोपिका-प्रशंसनम् । सर्वैर्गुणैः सर्वोत्तमस्तु वायुरेव । स एव च हिरण्यगर्भ इति दर्शयितुमाह । य एष जीवो विवरप्रसूतिरित्यादि । विशेषेण वराणामहङ्कारादीनामपि प्रसूतिकर्ता । प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या मनोमात्रादयश्च हिरण्यगर्भस्य देव्याः परमात्मनश्च व्यक्तिस्थानानीत्युक्तम् । ‘प्राणेन घोषेण च सह विवरप्रसूतिर्मनोमयं रूपमुपैती’त्यादिना **
॥ १७ ॥
पदरत्नावली
गोपिका अपि मामापुः किमु वाय्वाद्या इति गोपिकाप्रशंसनं कृतमिति परिहारं हृदि कृत्वा वायुरेव सर्वैर्गुणैः सर्वोत्तमः, स एव हिरण्यगर्भश्चेति दर्शयितुं भगवान् हिरण्यगर्भस्य सर्वोत्तमत्वं वक्ति य एष इति । यो विवरप्रसूतिर् विशेषेण वराणामहङ्काराद्यभिमानिदेवानां प्रसूतिरुत्पत्तिर्यस्मात् स तथा, उत्पादक इत्यर्थः । एष जीवः, जीव प्राणधारण इति धातोः । प्रकृष्टानन्दलक्षणस्य हरेरधिष्ठानत्वात् तन्नामा ब्रह्मा प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या लक्ष्म्या च सह गुहां रूद्रादीनां हृदयगुहां प्रविष्टः सन्, मनोमयं रुद्रादीनां मनसि नियन्तृत्वेन स्थितमत एव सूक्ष्मं परमाणुकल्पं रूपमुपैति । किञ्च मात्रा स्वरो वर्ण इति मात्रास्वरवर्णत्रयात्मकं वेदाख्यं स्थविष्ठं रूपमुपैति ॥ १७ ॥
श्रीनिवासतीर्थीया
परिहाराभिप्रायमाह ॥ गोपिका अपीति ॥ अध्याहृतेन वस्तुत इत्यनेन तुशब्दस्य सम्बन्धः । वस्तुतस्तु सर्वगुणैर्ज्ञानभक्त्यादिभिः सर्वोत्तमः सर्वभक्तोत्तमो वायुरेव नान्य इत्यर्थः । तर्हि य एष जीव इत्यादिना हिरण्यगर्भप्रशंसाया एव करणेन वायुप्रशंसाया अकरणाद-सङ्गतिरित्यत उक्तम् ॥ स एव चेति ॥ प्रकृतत्वानुसन्धानार्थश्चशब्दः । तथा च वायौ मुख्यधियेति प्रकृतो वायुरेवेत्यर्थः । हिरण्यगर्भो हिरण्यगर्भपदयोग्यः । तर्हि पूर्वं रामेण सार्धमित्यादिना कृतगोपिकाप्रशंसनस्य का गतिरित्यत उक्तम् ॥ गोपिका अपीति ॥ इतीत्यनन्तरं कैमुत्यमिति शेषः । प्रशंसनं रामेणेत्यादिना कृतमिति शेषः । श्लोकं व्याचष्टे ॥ विशेषेणेति ॥ वीत्युपसर्गस्येदं व्याख्यानम् । अहङ्कारादीनां तदभिमानिरुद्रादीनाम् । प्रसूतिरित्यस्य व्याख्यानम् ॥ प्रसूतिकर्तेति ॥ विष्णुनेति ॥ जगतां प्रकृष्टचेष्टकत्वात्प्राणस्य प्राणत्वप्रदत्वाच्च विष्णुः प्राणशब्दवाच्य इत्यर्थः । किमनेन श्लोकेनोक्तं भवतीत्यत आह ॥ मन इति ॥ इत्युक्तमित्यनन्तरं भवतीति शेषः । इत्यादि-नेत्युक्तं भवतीत्यन्वयः । तथा चेत्थं योजना । य एष विवरप्रसूतिर्जीवो जीवोत्तमश्चतुर्मुखः स प्राणेन घोषेण च सह रुद्रादीनां हृदयगुहां प्रविष्टः सन् मनोमयं रुद्रादीनां मनसि तन्नियन्तृत्वेन स्थितम् । अत एव सूक्ष्मं परमाणुकल्पं रूपमुपैति । रुद्रादिमनोनियामकतया सूक्ष्मरूपवान् भवतीत्याशयः । किञ्च मात्रा ह्रस्वदीर्घप्लुता उदात्तादि स्वरा अकाराद्या वर्णा इति एतद्रूपं वेदात्मकं स्थविष्ठं रूपमुपैति । वेदप्रतिपाद्यतया स्थूलरूपवान् भवतीत्यर्थः । अनेन मनो वेदाश्च हिरण्यगर्भविष्णुप्रकृतीनां प्रतिपादकत्वेन व्यक्तिस्थानमित्युक्तं भवति ॥ १७ ॥
प्रमेयचन्द्रिका
नन्वेवं संशयेन प्रश्नविघटनमेव कर्तव्यं तद्विहायोत्तरग्रन्थे हिरण्यगर्भस्य माहात्म्यकथनमयुक्तमित्याशङ्क्य तदभिप्रायं दर्शयन् अवतारयति ॥ गोपिका अपीत्यादिना ॥ न गोपिकाप्रशंसनं तासां सर्वभक्तोत्तमत्वाभिप्रायेण । किन्तु आजानदेवेभ्यो नीचा गोपिका अपि भक्त्या मां प्राप्ताः, किमु सर्वदेवोत्तमत्वेन इयदामननादित्यादिना प्रमिता वाय्वाद्या इति कैमुत्येन वायौ मुख्यधियेत्युक्तम् । वायोः सर्वभक्तोत्तमत्वं ज्ञापयितुं गोपिकाप्रशंसनं पूर्वं कृतम् । वायु-माहात्म्यमिदानीं य एष जीवो विवरप्रसूतिरित्यादिसार्धश्लोकचतुष्टयेनोच्यत इत्यर्थः ॥ इत्यादीत्य-विभक्तिको निर्देशः । इत्यादिनेति वा । तथा च नोत्तरग्रन्थस्यासङ्गतिरिति भावः । सर्वोत्तम इत्यस्य सर्वजीवोत्तम इत्यर्थः । यत्किञ्चिद्गुणाधिक्यमात्रेण नात्रोत्तमत्वम् । तथात्वे तदन्यगुणैरन्यस्याप्युत्तमता-प्रसङ्गादित्यत उक्तम् ॥ सर्वैर्गुणैरिति ॥ भक्तिज्ञानानन्दादिसर्वैर्गुणैरित्यर्थः । ननूत्तरग्रन्थे हिरण्यगर्भस्यैवोत्तमत्वमुच्यते न तु वायोरतः कथमस्य वायूत्तमताज्ञापकत्वमित्यत उक्तम् ॥ स एव चेति ॥ नात्र हिरण्यगर्भमहिमाकथनमसङ्गतम् । स पूर्वं वायुरेवोत्तरकल्पे हिरण्यगर्भ इति हेतोर्हिरण्यगर्भमहिमोक्त्यैव वायुमहिमालाभात्तदुत्तमता ज्ञापितैवेति भावः ॥
अत्र विवरस्य भूताकाशस्य प्रसवकर्तेत्यसङ्गतमुच्यत इत्यत आह ॥ विशेषेणेति ॥ वराणां तु रुद्रादीनां तेषामतिशयेनोत्तमत्वसम्भावनाय रुद्रादीनामिति वक्तव्ये अहङ्कारादीनामित्युक्तम् । अहङ्कारादेः सर्वगतत्वमूलत्वेन तदभिमानिनां तज्जन्येतरतत्वदेवापेक्षयोत्तमताया न्याय्यत्वादिति भावः। आदिपदेन बुध्द्याद्यभिमान्युमाग्रहणम् । प्रसूतिरित्यस्य प्रकृष्टा सूतिर्येनेत्यर्थमभिप्रेत्य प्रसूतिकर्त्तेत्युक्तम् । तथा च विवरशब्दो योगवृत्या विशेषेण सर्वदेवोत्तमरुद्रशेषगरुडोमादिपरः, तेषां जनक इति मूलपदार्थ उक्तो भवति ॥
प्राणेन घोषेणेति पदद्वयं प्राणवायुध्वनिपरताप्रतीतिवारणाय व्याचष्टे ॥ प्राणेनेति ॥ अत एव प्राण इत्यादौ प्राणशब्दस्य भगवत्परताया निर्णीतत्वात् । घोषशब्देन ध्वनिव्यंग्यो वेदो लक्ष्यते । ततश्चाभिमान्यभिमन्यमानयोरभेदव्यपदेशाद्वेदाभिमानिनी चित्प्रकृतिरभिधीयते । ततश्च प्राणेन विष्णुना घोषेण रमयेति मूलार्थ उक्तो भवति ॥
एवं पदत्रयार्थमभिधाय योजनाप्रदर्शनपूर्वकं श्लोकतात्पर्यमाह ॥ मनोमात्रादय इति ॥ अत्र प्राणेन घोषेणेति सहयोगे तृतीया । इत्यादिनेत्यादिपदेन मात्रास्वर इत्यादेः सङ्ग्रहः । इत्यादिनेत्यस्य मनोमात्रादयश्च हिरण्यगर्भस्य देव्याः परमात्मनश्च व्यक्तिस्थानानीत्युक्तमित्यन्वयः । ततश्चैवं मूलयोजना सूचिता भवति । यो विवरप्रसूतिर् जीवो सर्वाभिमानिनी । सर्वप्राणधारको वा । ब्रह्मा स एषः प्राणेन घोषेण च सह रुद्रादीनां हृदयगुहायां मनसि प्रविष्टः स रुद्रादिमनोयन्तृत्वादिना मनोमयं सूक्ष्मं परमाणुकल्पं रूपं मात्रा स्वरो वर्ण इत्येवमात्मकवेदान्तर्गतं स्थविष्टं स्वरूमुपैतीति । एतदभिप्रायकथनपरेऽत्र मनोमात्रादयश्चेति ग्रन्थस्य यद्यपि सत्ताऽपि रमाहिरण्यगर्भाभ्यां सह वर्तते । तथाप्यतिशयेन मननादिषु रमासहितहिरण्यगर्भस्य सामर्थ्यव्यंजनादतिशयेन मनआदीति । व्यक्तिस्थानान्येतानीत्यभिप्राय इति भावः ॥ १७ ॥
यथाऽनलः १स्वेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः ।
अणुः प्रजातो हविषा समिद्ध्यते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥
तात्पर्यम्
तत्रापि विशेषतो भगवत एव व्यक्तिस्थानमित्याह । यथाऽनल इत्यादिना ॥ १८ ॥
पदरत्नावली
अनेन वेदादीनि विष्णुप्रकृतिब्रह्मणामभिव्यक्तिस्थानानीत्युक्तम् । तत्र प्रकृतिब्रह्मणोः (अपेक्षया) विशेषेण वेदादिकं मम व्यक्तिस्थानमित्याह– यथेति । अनिलो बन्धुर्यस्य स तथा । उष्मा उष्णः । अनलो दारुणि खे बलेन मथ्यमानो अणुत्वे प्रजातो हविषा घृतेन यथा समिद्ध्यते तथेयं वेदवाणी मे व्यक्तिर् व्यक्तिस्थानम् । वेदवाण्येव विशेषतो मत्तत्वव्यञ्जिकेत्यर्थः
॥ १८ ॥
श्रीनिवासतीर्थीया
उत्तरश्लोकं प्रकृतासङ्गतत्वं परिहर्तुमवतारयति ॥ तत्राऽपीति ॥ हिरण्यगर्भविष्णुप्रकृतिषु मध्ये । तत्रापीत्यनन्तरं वेदो मनश्च व्यक्तिस्थानमित्युक्तम् । तत्र वेदस्त्रयाणां किं साम्येन व्यक्तिस्थानमित्याशङ्कायामिति वाक्यशेषः । विशेषतो हिरण्यगर्भप्रकृत्यपेक्षयाऽऽधिक्ये-नेत्यर्थः ॥ तथा चायमर्थः ॥ अनिलबन्धुर्वातसख ऊष्मोष्णोऽनलो हुताशः स्वे स्वीये स्वाश्रये दारुणि अर्ककाष्टादौ बलेनाभिमथ्यमान आदावणुत्वेन प्रजातः पश्चाद्धविषा घृतादिना समिद्ध्यते तथैवेयं वाणी मे व्यक्तिर्व्यक्तिस्थानम् । आदौ गुणरूपदेशादिना किञ्चिद्व्यक्तोऽहं वेदादिना सम्यग्व्यक्तो भवाम्यधिकारिण इत्याशयः ॥ १८ ॥
दुर्घटभावदीपिका
ऊष्मेत्यस्य सर्वपापदाहकेत्यर्थः । उष दाहे इति धातुव्याख्यानात् । एतेनाग्निपक्षे विष्णुपक्षे चोष्मेत्येतद्व्यर्थमिति दूषणं परिहृतम् । उपासितस्याग्नेर्विष्णोश्च सर्वपापदाहकत्वं वक्तुमूष्मेत्युक्तमित्यभ्युपगमात् ॥ १८ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां द्वादशोऽध्यायः ॥ ११–१२ ॥
प्रमेयचन्द्रिका
यथाऽनल इत्युत्तरश्लोकस्य प्रकृते सङ्गृत्यप्रतीतेराह ॥ तत्रेति ॥ ननु उद्धवं प्रति ब्रह्मणः सर्वोत्तमत्वोपदेशाय रुद्रादिमनोनियामकतया तन्मनसि स्थितत्वेन मनसो व्यक्तिस्थानत्वं वक्तव्यम् । तस्य च निरवधिकोत्तमताव्यावृत्तये लक्ष्मीनारायणयोरपि मनआदीन्द्रिय-गतत्वेन मनआदेस्तद्व्यक्तिस्थानत्वं च वक्तव्यम् । मात्रास्वरवर्णात्मकवेदवाण्या व्यक्तिस्थानत्वं किमर्थमुच्यत इति चेत् । सत्यम् । न केवलमणुरूपेण रुद्रादिमनसि स्थितत्वमात्रेण सर्वोत्तमत्वं किं त्वतिस्थूलरूपेण वेदे स्थितत्वाच्चेत्याशयेन तदुक्तेरुपपन्नत्वात् । तत्रापि न मनआदिसाधारण्येन वेदस्य व्यक्तिस्थानता । अपि तु तत्र मनआदिषु मध्ये वेदवाणी विशेषतो व्यक्तिस्थानम् । तत्रापि विशेषत इत्युक्त्या हिरण्यगर्भश्रीदेव्योरपि वेदवाणी सामान्यतो व्यक्तिस्थानमिति ज्ञायते । प्रमेयं वक्तुं यथाऽनल इति श्लोकप्रवृत्तिरिति भावः ॥
मूलार्थस्तु अनिलबन्धुर्वायुसख ऊष्मा उष्णस्पर्शवाननलः । खे व्योमि्न विवरे वेदारणी दारुणी बलेन प्रमथ्यमान आदावणुः प्रजातो यथा हविषा घृतादिना समिध्यते तथैवेयं वेदवाणी मे व्यक्तिर् वेदश्रवणेनेषद्व्यक्तोऽहं मननव्याख्यानाभ्यामतिशयेन व्यक्तो भवामीत्येवं वेदो मे विशेषतो व्यक्तिस्थानमिति प्रसिद्धमिति हिशब्दार्थ इति ॥ १८ ॥
एवं गतिः कर्म रतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च ।
सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजः सत्वतमो विकारः ॥ १९ ॥
पदरत्नावली
प्रकृत्यदीनां व्यक्तिस्थानत्वेपि मम श्रोत्रादीन्यपि वेदवद् विशेषतो व्यक्तिस्थानानीत्याह– एवमिति । पदादीनि गत्यादिशब्दवाच्यानि । इन्द्रियेन्द्रियविषययोरूभयो-र्ग्रहणायैवमुक्तम् । सङ्कल्पो मनः । विज्ञानं बुद्धिः । अभिमानो ऽन्तःकरणवृत्तिविशेषव्यञ्जकं तस्य (अन्तःकरणस्य) रूपान्तरम् । सूत्रं वायुः । सत्वसहितं तमः । विकारो ब्रह्माण्डम् । एतानि हरेरधिष्ठानरूपाणि भवन्तीति ज्ञातव्यानि । तदभिमानिन्यो देवताश्च । यस्तमसि तिष्ठन्, श्रोत्रे तिष्ठन्नित्यादेः ॥ १९ ॥
श्रीनिवासतीर्थीया
प्रकृतिहिरण्यगर्भापेक्षया भगवत एवैकादशेन्द्रियाणि तद्विषया रमाब्रह्माद्याः सर्वेऽपि विशेषतो व्यक्तिस्थानानीत्याह ॥ एवमिति ॥ गत्यादिशब्दैः पादादीन्द्रियाण्यपि ग्राह्याणि । उभयोर्ग्रहणायैवमुक्तम् । घ्राणादिशब्दैस्तद्विषया गन्धाद्या अपि ग्राह्याः । कर्म हस्तेन्द्रियकार्यम् । रतिर्गुह्येन्द्रियकार्यम् । विसर्गः पायुकार्यम् । वागिन्द्रियतत्कार्येऽपि ग्राह्ये । सङ्कल्पं मनः । विज्ञानं विज्ञानात्मिका विज्ञानतत्त्वाभिमानिनी श्रीः । अभिमानोऽहङ्काररुद्रादिः । सूत्रं ब्रह्म । रजःसत्त्वतमः श्रीभूदुर्गारूपेण त्रिगुणात्मिका प्रकृतिश्च । विकारो ब्रह्माण्डं च । एवं वाणीवन्मे व्यक्तिरिति पूर्वेण सम्बन्धः ॥ १९ ॥
प्रमेयचन्द्रिका
अथ यथायोगं बाह्येन्द्रियाण्यपि व्यक्तिस्थानानीत्युच्यते ॥ एवमिति ॥ गम्यतेऽनेनेति गतिरित्यादिव्युत्पत्या पादपाण्युपस्थपाय्विन्द्रियाणि गत्यादिशब्दवाच्यानि । वागिन्द्रियं च ग्राह्यम् । वाक्च वक्तव्यं हस्तौ चादातव्यं पादौ च गन्तव्यं पायुश्च वर्जयितव्यम् । उपस्थश्चा-नन्दयितव्यं चेति श्रुत्यनुसारेण सविषयेन्द्रियग्रहणायैवमुक्तमिति ज्ञेयम् । रसो रसना संकल्पो मनः। सङ्कल्पविकल्पात्मकं मन इत्युक्तेः । विज्ञानं विशिष्टज्ञानम् । अभिमानोऽहङ्कारः । सूत्रं वायुः । एतेन महत्तत्वं विवक्ष्यते । वायोरपि महत्तत्वाभिमानित्वात् । विक्रियत इति विकारो ब्रह्माण्डादिः । एतदभिमानिदेवाश्च ग्राह्याः । तदेतत्सर्वम् एवं मनआदिवद्व्यक्तिस्थानमित्यर्थः । अत्र चतुर्मुखसाम्यं हरेर्व्यावर्तयितुं विशिष्य मे व्यक्तिरित्युक्तम् । वस्तुतस्तु हिरण्यगर्भस्य देव्याश्चैतत्सर्वं व्यक्तिस्थानमिति ज्ञेयम् । एवं रुद्राद्यशेषजीवमनआदीन्द्रियेषु सूक्ष्मरूपेण तथा बहिर्देहाद् व्याप्तरूपेण च विशेषतः स्थित्वा नियामकत्वाद्धारिरेव सर्वोत्तमस् तदनु श्रीदेवी च । अथ तत्प्रेरणया हिरण्यगर्भस्तदात्मको वायुश्चेति । वायौ मुख्यधियेत्येतदुपपादनाय हिरण्यगर्भस्य मनआदिकं व्यक्तिस्थानमित्युक्तम्
॥ १९ ॥
अयं हि जीवस्त्रिवृदब्जयोनिरव्यक्त एको जगतां यथाऽऽद्यः ।
विश्लिष्टशक्तिर्बहुधै१व भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥
यस्मिन्निदं प्रोतमशेषमोतं पटे यथा तन्तुवितानसंस्था ।
य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥
तात्पर्यम्
विशेषेण श्लिष्टशक्तिः । अनपगतसामर्थ्यः । यथैकं कलमादिबीजं भूमा-वुप्तं बह्वङ्कुरं भवति एवं परमात्मानुगृहीतो ब्रह्माऽहङ्कारादिषु बहुधा व्यक्तीभवति ॥
‘सुपर्णशेषरुद्रादिप्रसूतिश्च चतुर्मुखः । सर्वजीवोत्तमो जीवो गुणैर्ज्ञानसुखादिभिः । विष्णुभक्त्यादिभिः सर्वैर्नियमात्सर्वकालिकम् । मुक्तावपि न सन्देहः स हि देवेन विष्णुना । प्राणप्राणेन जगतामीशेन रमया तथा । वेदात्मिक्या च सहितः सूक्ष्मः सन्मनसि स्थितः । वीन्द्रादीनां तु सर्वेषां मात्रावर्णस्वरेषु च । स्थूलरूपी सदा तिष्ठन्नेवं श्रोत्रादिखेषु च । सर्वेषां प्रेरको ह्येको ज्ञानानन्दबलैस्त्रिवृत् । नित्यशक्तिः सर्वगः सन्बहुधेव प्रतीयते । तस्मिन्नोतमिदं सर्वं पटे लक्षणतन्तुवत् । स एव वायुरुद्दिष्टो वायुर्हि ब्रह्मतामगात् । विशेषतो हरेर्व्यक्तिस्थानान्येतानि सर्वशः । मन आदीन्यहङ्कारो ब्रह्मा वेदात्मिका रमा । त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका । तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः । यथा दारुषु सूक्ष्मः सन्मथितोऽग्निः समिध्यते । तथा वेदादिषु हरिर्मथितः सम्प्रदृश्यते । व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदुरि’ति तन्त्रभागवते ॥ ‘मनसि व्यक्ततां यामि तस्माद्व्यक्तिर्हि मे मन’ इति भारते ॥ ‘यथैव वस्त्रे दीर्घं च तिर्यक्चापि सुसंस्थिता । तन्तुभिः क्रियमाणैव पद्माद्याकारसंस्थितिः । यथा जीर्णानि वस्त्राणि तन्त्वाधाराणि वा पुनः । कन्थावयवभूतानि तद्वदेतच्चतुर्मुखे । सोऽपि तद्वद्धरौ नित्यं संस्थितः श्रीरपि स्फुटमि’ति प्रातिस्विके ॥ २१ ॥
पदरत्नावली
विवरप्रसूतिरित्युक्तं कारणत्वं गुहां प्रविष्ट इत्युक्तव्याप्तिं च विविच्य सोदाहरणमाह अयं हीति । मां रमां चान्तरेण वर्णाद्यात्मकवेदादिसर्वशब्दवाच्योऽयमब्जयोनिर्बह्मा नियामकत्वेन सवोत्तमत्वाज्जीवः, त्रिवृज् ज्ञानानन्दबलात्मकः, अव्यक्तः सूक्ष्मः । जगतामाद्यः । एक एवाहङ्कारादिपृथिव्यन्तानि स्वसृष्टानि कार्याण्यनुप्रविश्य विशेषेण श्लिष्टशक्तिरनपगतसामर्थ्य एव तत्तन्नियामकरूपैर् बहुधैव भाति । तत्ववादिनामिति शेषः । कथमिव । यद्वद् यथा कलमादिबीजानि योनिं भूमिलक्षणां प्रतिपद्य बह्वङ्कुराणि भवन्तीति । एवं परमात्मानुगृहीतो ब्रह्मा अहङ्कारादिषु बहुधा व्यक्तीभवतीति । यो विवरप्रसूतिर् योनिद्वारा प्रसूयते एष जीव इति सञ्ज्ञां लभत इत्यन्यथा व्याकुर्वते । तन्मतम् ‘‘सुपर्णशेषरूद्रादिप्रसूतिस्तु चतुर्मुखः । सर्वजीवोत्तमो जीवो गुणैर्ज्ञानसुखादिभिः । विष्णुभक्यादिभिः सर्वैर्नियमात् सार्वकालिकम् । मुक्तावपि न सन्देहः स हि देवेन विष्णुना । प्राणः प्राणेन जगतामीशेन रमया तथा । वेदात्मिक्या च सहितः सूक्ष्मः सन् मनसि स्थितः । वीन्द्रादीनां तु सर्वेषां मात्रावर्णस्वरेषु च । स्थूलरूपी सदा तिष्ठन्नेवं श्रोत्रादिकेषु च । सर्वेषां पे्ररको ह्येको ज्ञानानन्दबलैस्त्रिवृत् । नित्यशक्तिः सर्वगः सन् बहुधैव प्रतीयते । तस्मिन्नोतमिदं सर्वं पटे लक्षणतन्तुवत् । स एव वायुरुद्दिष्टो वायुर्हि ब्रह्मतामगात् । विशेषेण हरेर्व्यक्तिस्थानान्येतानि सर्वशः । मनआदीन्यहङ्कारो ब्रह्मा वेदात्मिका रमा । त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका । तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः । यथा दारुषु सूक्ष्मः सन् मथितोऽग्निः समिध्यते । तथा वेदादिषु हरिर्मथितः सम्प्रदृश्यते । व्यक्तिस्थानान्यथैतानि वेदादीनि हरेर्विदुः’’ इत्यनेन प्रमाणवाक्येन निरस्तमिति नास्माभिस्तद्दूषणाय प्रयत्यते । ‘‘मनसि व्यक्ततां यामि तस्माद् व्यक्तिर्हि मे मनः’’ इत्येतत् स्पष्टं च ॥
नन्वेवं तर्हि चतुर्मुख एव जगदाकारेण विवर्तत इति किं न स्यादत्राह– यस्मिन्निति । यस्मिन् विरिञ्चे । तन्तूनां वितानस्य पद्माद्याकारस्य संस्था स्थितिः । पटाद्याधारतया तन्तुविरचित-पद्माद्याकारस्य पटाद् यथा भेदः प्रत्यक्षसिद्धस्तथा विरिञ्चाद् भिन्नम् । उपलक्षणमेतत् । विरिञ्चश्च श्रीश्चैव मदाधारौ मद्भिन्नाविति । तदुक्तम् ‘‘यथैव वस्त्रे दीर्घा च तिर्यग्वापि सुसंस्थिता । तन्तुभिः क्रियमाणैव पद्माद्याकारसंस्थितिः । यथा जीर्णानि वस्त्राणि तन्त्वाधाराणि वा पुनः । कन्धावयवभूतानि तद्वदेतच्चतुर्मुखे । सोऽपि तद्वद् हरौ नित्यं संश्रिता श्रीरपि स्फुटम्’’ इति । उक्तं विशिनष्टि य एष इति । य एष संसारतरुर् जगद्वृक्षः पुष्पफले स्वर्गमोक्षौ प्रसूते स विरिञ्चे, ओतः प्रोतश्चेति शेषः ॥ २०,२१ ॥
श्रीनिवासतीर्थीया
हिरण्यगर्भस्य विवरप्रसूतिरित्युक्तकारणत्वं गुहां प्रविष्ट इत्युक्तव्याप्तिं च विविच्य सोदाहरणमाह ॥ अयं हि जीवस्त्रिवृदिति ॥ अत्रविश्लिष्टशक्तिरपगतशक्ति-रित्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ विशेषेणेति ॥ दृष्टान्तं विवृण्वन्दार्ष्टान्तिकं च विवृणोति ॥ यथेति ॥ बीजम् । जलाद्यनुगृहीतमिति शेषः । योनिशब्दार्थकथनम् ॥ भूमाविति ॥ एकस्मि-न्कलमबीजे उप्ते तेनैकमङ्कुरं जायते तस्मादेकस्मादेवाङ्कुरात्पुनरनेकानि बीजानि जायन्ते । तैश्च पुनर्बहून्यंकुराणि जायन्ते । एवं परंपरयैकमेव बीजं बह्वङ्कुरं भवति । व्याप्तं कार्येषु कारणमिति सर्वाङ्कुरेषु तद्बीजानुगतेः परम्परया सत्वादिति द्रष्टव्यम् । तथा च त्रिवृज् ज्ञानानन्दबलात्मकोऽव्यक्तः सूक्ष्मो जगतामाद्यो योऽयं जीवः सर्वजीवोत्तमो हिरण्यगर्भ एक एव परमात्मानुगृहीतः सन् अहंकारादीनि स्वसृष्टानि कार्याण्यनुप्रविश्यापि विश्लिष्टशक्तिर्नित्यशक्तिः । अनेन बीजवैलक्षण्यमुक्तं ज्ञातव्यम् । बीजस्याङ्कुरजननेन शक्त्यपायादस्य तदभावादिति तन्नियामकरूपैर्बहुधैव भाति । एकं बहुधा भातीत्यत्रैव दृष्टान्तमाह ॥ बीजानीति ॥ बीजानि कलमाद्येकैकं बीजं योनिं भूमिं प्रतिपद्योत्पन्नं सद् बहुधा भवति बह्वङ्कुरं भवति यद्वत्तद्वदित्यर्थः । एवं स्ववाक्येन व्याख्याय प्रमाणेन य एष इत्यादिश्लोकान् सम्यग्व्याचष्टे ॥ सुपर्णेत्यादिना । यतः सर्वोत्तमोऽतो जीवो जीवशब्दवाच्यः । असाधारण्येन व्यपदेशादिति न्यायादित्यर्थः । सार्वकालिकं सर्वस्मिन्नपि काले नियमान्नियमेन सर्वैरेतैर्गुणैः सर्वजीवोत्तम इत्यन्वयः। इदं न संसारावस्थायामेवेत्याह ॥ मुक्तावपीति ॥ प्राणेनेत्यस्यार्थमाह ॥ देवेनेत्यादिना ॥ प्राणप्राणेन प्राणस्य प्राणप्रदत्वेन जगतामीशेन । ईश प्रेरणे । प्रेरकेण । तथा च प्रकर्षेण जगताम् अनश्चेष्टकः । प्रेरक इति प्राणशब्दस्यार्थान्तरम् । घोषेणेत्यस्यार्थः ॥ रमयेत्यादि ॥ घोषत्वं तस्याः कुत इत्यत आह ॥ वेदेति ॥ तदभिमानित्वा-त्तदैक्यव्यपदेशः । मनोमयं रूपमुपैतीत्यस्य तात्पर्यम् ॥ सूक्ष्म इत्यादि ॥ सर्वेषां मनसीत्यन्वयः ।
मात्रेत्यादेरर्थमाह ॥ मात्रेति ॥ एवमिति श्लोकतात्पर्यमाह ॥ एवमिति ॥ अयं हीति श्लोके त्रिवृच्छब्दार्थमाह ॥ ज्ञानेति ॥ विश्लिष्टशक्तिरित्यस्यार्थमाह ॥ नित्यशक्तिरिति ॥ बहुधैव भातीत्यस्यार्थमाह ॥ सर्वग इति ॥ यस्मिन्नित्यस्यार्थमाह ॥ तस्मिन्निति ॥ लक्षण-तन्तुवत्पद्मादिचिह्नरूपतन्तुसमुदायो यथा पटे ओतं तद्वच्चतुर्मुखे इदं जगदोतमित्यर्थः । एवं हिरण्यगर्भस्योत्तमत्वे वायोर्भक्तोत्तमत्वे किमायातमित्यत आह ॥ स एवेति ॥ हिरण्यगर्भ एवेत्यर्थः । कुत इत्यत उक्तम् ॥ वायुर्हीति । अनेन स एव च हिरण्यगर्भ इत्युक्तं दृढीकृतं भवति । मे व्यक्तिरित्यस्यार्थमाह ॥ विशेषत इति ॥ अभिमानशब्दार्थः ॥ अहङ्कार इति ॥ ब्रह्मेति सूत्रशब्दार्थः । त्रिगुणात्मिकेति रजःसत्त्वतम इत्यस्यार्थः । संविदात्मिकेति विज्ञानशब्दार्थः । यथाऽनल इत्यादेरर्थः ॥ यथेत्यादि ॥ मथितो विचारितः । उपसंहरति ॥ व्यक्तीति ॥ अथ तस्मादित्यादौ योज्यम् । मनसो भगवद्व्यक्तिस्थानत्वे भारतं चाह ॥ मनसीति ॥ भगवद्वाक्यमिदम् । तेन यामीति युक्तम् । व्यक्तिर्व्यक्तिस्थानम् ॥ यस्मिन्निति श्लोकं प्रमाणान्तरेण व्याचष्टे ॥ यथैवेति ॥ तथा च यस्मिन्हिरण्यगर्भे इदमशेषं जगदोतं प्रोतं च । तत्र दृष्टान्तः ॥ पट इति ॥ यथा तन्तूनां वितानस्य पद्माद्याकारस्य संस्थितिर् व्यवस्थितिः पटे पटाधारतयाऽस्ति तथेत्यर्थः । प्रकारान्तरेणार्थ-माह ॥ तथेति ॥ वस्त्राणि प्रादेशादिपरिमितानि महाकन्थावयवभूतानि तन्त्वाधाराणि । तथा च तन्तुवितानेन दीर्घतन्तुना महाकन्थावयवभूतजीर्णक्षुद्रपटावयवानां संस्था संस्थितिर्यथा पटे कन्थारूपमहापटाधारतयाऽस्ति तद्वदित्यर्थः । एतज्जगत् । तद्वज्जगद् इदमित्युक्तं दर्शयति ॥ य एष इति ॥ पुराणोऽनादिः । कर्मात्मकः कर्ममूलः । पुष्पफले ऐहिकं सुखं पुष्पमामुष्मिकं सुखं फलम् ॥ २०,२१ ॥
प्रमेयचन्द्रिका
पुनश्च ब्रह्मणो माहात्म्यमुच्यते ॥ अयं हीति ॥ अयमुक्तविधमहिमो-पेतोऽब्जयोनिः । सर्वजीवोत्तमत्वाज्जीवः । ज्ञानानन्दबलात्मकत्वात् त्रिवृद् अव्यक्तः परमसूक्ष्मः । स्वयमेक एव जगतामाद्यः कारणभूतः । विश्लिष्टशक्तिः । स्वसृष्टिकार्येष्वनुविश्य बहुधेव ज्ञानिनां भाति । तत्र दृष्टान्तो ॥ बीजानीति ॥ योनिर्भूमिलक्षणम् । अत्र विश्लिष्टशक्तिरित्येतद्विश-कलितसामर्थ्य इत्यन्यथाभानाद्व्याचष्टे ॥ विशेषेणेति ॥ वीत्यस्यातिशयार्थत्वमित्युक्तं भवति । लब्धार्थमाह ॥ अनपगतेति ॥ बीजानीति दृष्टान्तवाक्यं विवृण्वन् हिरण्यगर्भस्य तद्वद्विकारित्वभ्रमं वारयति ॥ यथैकमिति ॥ बह्वङ्कुरमिति ॥ आदौ प्रधानांकुरे जाते तत्परितो बहूनामंकुराणां जनेर्दृष्टत्वादिति भावः । अहङ्कारादिष्विति ॥ अहंकारादितत्वेषु तदभिमानिरुद्रादिषु । तत्तत्प्रभेदेषु वैकारिकादिषु च स्वयमनेकरूपैर्व्यक्तो भवतीत्यर्थः । अत्राहङ्कारादिष्वित्यधिकरणत्वोक्त्या न तदात्मना विकारितेति सूचितं भवति ॥ स्वोक्तार्थप्रतिपत्याद्यर्थं य एष इत्यादि श्लोकचतुष्टयं प्रमाणेन व्याचष्टे ॥ सुपर्णेत्यादिना ॥ विवरप्रसूतिरित्यस्यार्थः ॥ सुपर्णेति ॥ जीव इत्यस्य तात्पर्यम् ॥ सर्वजीवोत्तम इति ॥ सार्वकालिकमित्यव्ययम् । सर्वकालसम्बन्धि यथा भवति तथा नियमा-दज्ञानसुखादिभिर्विष्णुभक्त्यादिभिश्च सर्वगुणैः सर्वजीवोत्तम इति सम्बन्धः । प्राणेन घोषेणेत्यादेरर्थः ॥ स हि देवेनेति ॥ मनोमयमित्यादेरर्थः ॥ सूक्ष्मः सन्निति ॥ तत्र स्वकालोपलक्षिताकारादयो मात्राः, अग्निमी इत्यादयो वर्णाः, स्वर उदात्तादिः । एवं गतिरित्यादि तात्पर्यम् ॥ एवं श्रोत्रादिखेष्विति ॥ एतेन एवं गतिरित्यादिकमपि हिरण्यगर्भपरतया योज्यमिति सूचितं भवति । सर्वेषामित्येतत्फलितार्थकथनम् । त्रिवृदित्यस्यार्थः ॥ नित्यशक्तिरिति ॥ बहुधैवेत्यस्य सर्वगतः सन्नित्यादि ॥
सर्वाधारत्वोपपादके यस्मिन्नहमित्यर्धे पटस्य तन्त्वाश्रयत्वं प्रतीयते । न चैतद्युक्तम् । तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इति तन्तुपटयोरभेदोक्तिरित्यत आह ॥ तस्मिन्निति ॥ लक्षणतन्तुवच् चिन्हभूततन्तुवत् । नात्र पटोपादानभूतानां पटाश्रितत्वमिह दृष्टान्तत्वमिति भावः । एतद्विवरिष्यति ॥ स एव हिरण्यगर्भ इति ॥ यदसङ्गतिपरिहारायोक्तं तत्प्रमाणशेषेण दर्शयति ॥ स एवेति ॥ यस्माद्वायुरेवोत्तरकल्पे ब्रह्मपदमगात्तस्मात्स एव वायुरुद्दिष्ट इत्यर्थः । ननु य एष जीव इति प्रथमश्लोके वायुमाहात्म्यमुपक्रम्य उक्त्वा अयं जीव इति उपरि सार्धश्लोकेनापि तदेवोच्यते । मध्ये यथाऽनल इति श्लोकद्वये भगवन्माहात्म्यमुच्यत इति हि व्याख्यानं कृतम् । तत्सदृशन्यायेन विरुद्धम् । उपक्रान्तवायुमहिमोक्तेरेव सङ्गतत्वेन हरिमहिमोक्तेरसङ्गतत्वं चेति शङ्का-वारणाय मनोमयमित्यारभ्य विकार इत्यन्तं सार्धश्लोकद्वयाभिप्रायमाह ॥ विशेषत इत्यादिना ॥ व्यक्तिस्थानानि सामर्थ्यव्यञ्जनस्थानानि । विशेषत इत्युक्त्या ब्रह्मणोऽपि व्यक्तिस्थानानीति लभ्यते । अतो मध्ये हिरण्यगर्भमहिमालाभान्न सदृशन्यायविरोधः । तथापि ब्रह्मणो निरुपचरितसर्वोत्तमतावारणाय मे व्यक्तिर्विशिष्य मुख्यतो विष्णोर्व्यक्तिस्थानत्वोक्तिसूचनाय विष्णुः सर्वेश्वर इति उक्तमिति ॥
एतानीत्युक्तविवरणं तु तत्र दर्शयति ॥ मन आदीनीति ॥ आदिपदेन गतिरित्या-द्युक्तदशेन्द्रियग्रहणम् । अभिमान इत्यस्यार्थोऽहङ्कार इति । सूत्रमित्यस्य ब्रह्मेति । मात्रा स्वरो वर्णः । इयं वाणीत्यस्यार्थः ॥ वेदात्मिका रमेति ॥ तमःसत्वरज इत्यस्यार्थः । त्रिगुणात्मिका सैव श्रीरिति ॥ विज्ञानमित्यस्य सैवोक्ता संविदात्मिकेति ॥ मे व्यक्तिरित्यस्य तात्पर्यम् । तस्या अपीति ॥ तस्या वेदगुणत्रयविज्ञानाभिमानिन्या महालक्ष्म्याः । मात्रादयश्च हिरण्यगर्भस्येति प्रागुक्तैर्विशेषत इत्युभयत्रोक्तेर्हिरण्यगर्भस्य वेदादिस्थानत्वं वक्तव्यम् । तथात्वे वेदाद्यभिमानिनी सरस्वतीति द्रष्टव्यम् । यथाऽनल इत्यादेस्तात्पर्यम् ॥ यथा दारुष्वित्यादि ॥ उपसंहरति ॥ व्यक्तिस्थानानीति ॥ अथ तस्माद्वेदवेद्यतया वेदमनआदिनियामकतया स्थितत्वाच्चेत्यर्थः ।
मनसः व्यक्तिस्थानत्वं रीत्यन्तरेणाह ॥ मनसीति ॥ व्यक्ततामपरोक्षविषयताम् । मनस एव दर्शनकरणत्वसत्वादिति भावः । यस्मिन्निदं प्रोतमित्यादिकं प्रमाणान्तरेण स्पष्टं व्याचष्टे ॥ यथैवेति ॥ पूर्वसिद्ध एव वस्त्रे दीर्घं तिर्यक्चापि सुसंश्रिता पृथक् तन्तुभिरेव क्रियमाण पद्मासाकार-संस्थितिर्वस्त्राश्रिता । तद्वदेतच्चतुर्मुख इत्यन्वयः । न तूपादानभूततन्तूनां पटाश्रितत्वमतो नैतदिह दृष्टान्ततया विवक्षितमित्येवशब्दार्थः । रीत्यन्तरेणाप्येतदुपपादयति ॥ यथा जीर्णानीति ॥ शिथिलानि कन्थावयवभूतानि खण्डवस्त्राणि । तन्त्वाश्रितानि तद्वदेतज्जगत्सर्वं चतुर्मुखे प्रोतमित्यर्थः । मूले यस्मिन्निदं प्रोतमित्यत्र सोऽब्जयोनिः श्रीरपि हरौ प्रोत इत्यादि ग्राह्यमित्याशयेनाह ॥ सोऽपीति ॥ तद्वत्पटे तन्तुवितानसंस्थावत् । शरीरस्थितेति योज्यम् ॥ २०,२१ ॥
द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः ।
दशैकशाखो द्विसुपर्णनीडस्त्रिवल्कलो द्विफलः खं प्रविष्टः ॥ २२ ॥
अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः ।
हंसा य एवं१ बहुरूपमिष्टं मायामयं वेद स वेद वेदम् ॥ २३ ॥
एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः ।
विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे द्वादशोऽध्यायः ॥
तात्पर्यम्
‘जगद्वृक्षस्य बीजे द्वे ब्रह्मा चैव सरस्वती । मूलभूतानि कर्माणि मनो बुद्धिरहङ्कृतिः । नालत्वेन समुद्दिष्टाः खमाद्याः स्कन्धसंज्ञिताः । एकादशेन्द्रियाण्येव शाखास्तु त्रिगुणास्त्वचः । प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते । पुष्पमैहिकमुद्दिष्टं रसाः शब्दादयस्तयोः । प्रवृत्ताश्च निवृत्ताश्च पक्षिणस्तत्र संस्थिताः । वृक्षस्य पृथिवी-वच्छ्रीर्विष्णुराकाशवायुवत् । तस्या अपि सदाधार एवं ज्ञात्वा विमुच्यत’ इति निवृत्ते ॥
‘प्राकृतान्तःकरणजं ज्ञानमस्त्रं सृतिच्छिदम् । तदेव तेन संछेद्यं चित्तं प्रकृति-सम्भवम् । तेनैव सह संत्याज्यं नैव पूर्वं कथञ्चन । ज्ञानं प्रकृतिजं चापि मूलनाशे विनश्यति । ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् । वेत्ति मुक्तस्तस्थाऽऽत्मानं जीवानन्यांश्च सर्वश’ इति माहात्म्ये ॥
‘बीजभूतावपि ह्यस्य ब्रह्मा चैव सरस्वती । न रिष्यतो जगत्सृष्टौ वटवृक्षादिबीज-वत् । स्वकार्यतो महान्तौ च गुणतो रूपतस्तथा । पृथिव्युदकवत्तस्माद्बीजत्वं न तु बीजवत् । व्यञ्जकत्वान्न चाल्पत्वान्महाक्ष्मावद्रमा स्मृता । अण्डो महाक्ष्मा सम्प्रोक्तस्ततः पृथ्व्युदकं तथा । जायते नित्यशस्तस्माद्भुक्तं भुक्तं न हीयते । तत्राप्युदकवद्ब्रह्मा मृद्वच्चापि सरस्वती । जलाधारा यतो मृच्च सर्वत्रापि व्यवस्थिता । अन्यथा तु रजोभूता नीयते वायुनाऽखिला । अथवा सर्वनाशः स्याज्जलाधारा ततः स्मृता । वटादिबीजवत्तस्य पुण्यापुण्यमुदीरितम् । बाह्योदवच्चाग्निवच्च विष्णुरेव प्रकीर्तित’ इति सत्यसंहितायाम् ॥ श्रियादेरप्यायकत्वाद्बाह्योदवत् । ब्रह्मादेरपि लयकर्तृत्वादग्निवत् । आधारत्वात्सुखदत्वाच्च वायुवत् । अवकाशप्रदत्वाद्व्योमवद्विष्णुः । ‘व्रीह्यादिवत्तु मूलत्वं कर्मणां जगतः स्मृतम् । उदवत्पृथिवीवच्च ब्रह्मणो वाच एव च । मूलभूवच्छ्रियश्चैव मूलूभरण्डमुच्यते । बाह्योदाग्नी-रखंवत्तु विष्णोर्बीजत्वमिष्यत’ इति विश्वसंहितायाम् ॥
देहेन्द्रियमनोवाक्षु स्थितो भक्त्यादिसाधकः । सुपर्णशेषरुद्रादेरपि ब्रह्मा चतुर्मुखः । अतो भक्त्यादिकाः सर्वे गुणास्तस्यैव सर्वगाः । अतिरिक्ताश्च सम्पूर्णाः सुपर्णादेः शताधिकाः । सुपर्णादिभिरज्ञातास्तदभीमानवर्जिताः । ब्रह्मणस्तु पुनः सन्ति तेषां कर्ता जनार्दनः । तस्मात्सर्वाधिको ब्रह्मा गुणैः सर्वैर्न संशयः । वर्णस्थो वर्णनामाऽसौ स्वरस्थः स्वरनामकः । मनःस्थश्च मनोनामा तन्नामा चक्षुरादिगः । तस्य सर्वाणि नामानि मुख्यतः कवयो विदुः । तत्स्थानत्वादिन्द्रियादेर्वर्णादेश्चोपचारतः । एवमस्योप-चारेण विष्णोः साक्षात्तु मुख्यत’ इति शब्दनिर्णये ॥
कृष्णप्रियाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः । महिष्योऽष्टौ विना यास्ताः कथिताः कृष्णवल्लभाः । ताभ्यः सहस्रसमिता यशोदा नन्दगेहिनी । ततोऽप्यभ्यधिका देवी देवकी भक्तितस्ततः । वसुदेवस्ततो जिष्णुस्ततो रामो महाबलः । न ततोऽभ्यधिकः कश्चिद्भक्त्यादौ पुरुषोत्तमे । विना ब्रह्माणमीशेशं स हि सर्वाधिकः स्मृत’ इत्यन्तर्यामि-संहितायाम् ॥ ‘पापद्वेषादिका दोषा अवराणां न संशयः । भक्त्यादिगुणपूगस्तु पराणामा विरिञ्चतः । स्वातन्त्र्यात्सर्वदेहेषु स्थितानामपि सर्वशः । स्पृश्यन्ते नैव दोषैस्ते गुणा-दानैकतत्परा’ इति विवेके ॥ ‘यदु किञ्चेमाः प्रजाः । शोचन्त्यमैवासां तद्भवति । पुण्य-मेवामुं गच्छति । न ह वै देवान्पापं गच्छती’ति च ॥
पदरत्नावली
जगद्वृक्षस्य ब्रह्मा बीजमित्युक्तम् । तद् विवृणोति द्वे अस्येति । ‘‘जगद्वृक्षस्य बीजे द्वे ब्रह्मा चैव सरस्वती । मूलभूतानि कर्माणि मनोबुद्धिरहङ्कृतिः । नालत्वेन समुद्दिष्टाः खमाद्या स्कन्धसंज्ञिताः । एकादशेन्द्रियाण्येव शाखास्तु त्रिगुणास्त्वचः । प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते । पुष्पमैहिकमुद्दिष्टं रसाः शब्दादयस्तयोः । प्रवृत्ताश्च निवृत्ताश्च पक्षिणस्तत्र संस्थिताः । वृक्षस्य पृथिवीवच्छ्रीर्विष्णुराकाशवायुवत् । तस्या अपि सदाधार एवं ज्ञात्वा विमुच्यते’’ इत्यनेन व्यख्यातोऽयं श्लोकः । तथापि स्पष्टत्वाय किञ्चिदुच्यते । अस्य जगद्वृक्षस्य जलवच्च भूमिवच्च ब्रह्मसरस्वत्यौ द्वे बीजे व्यञ्जके न तु वटबीजवदङ्कुरोत्पत्त्यनन्तरं नाशशिरस्के । अत एव स्वकार्यतो गुणतो रूपतश्च महत्यौ । शतमित्युपलक्षणम् । अनेकविधान्यसङ्ख्यानि कर्माणि मूलानि यस्य स शतमूलो जगत्तरुः । त्रयो नाला अहङ्कारबुद्धिमनोभिमानिनो रुद्रेन्द्रचन्द्रा यस्य स त्रिनालः । पञ्च आकाशादिभूतानि स्कन्धा यस्य स पञ्चस्कन्धः । पञ्चानां रसानां शब्दादीनां प्रसूतिर्यस्मात् स पञ्चरसप्रसूतिः । दश एकं चेन्द्रियाणि शाखा यस्य स एकादशेन्द्रियशाखः । द्विविधाः सुपर्णाः, प्रवृत्तिमार्गस्थाश्च निवृत्तिमार्गस्थाश्च पक्षिणः पुण्यपापलक्षणपक्षवन्तः । तेषां नीडं यस्मिन् स द्विसुपर्णनीडः । त्रीणि सत्वरजस्तमोलक्षणानि वल्कलानि त्वचो यस्य स त्रिवल्कलः । द्वे प्रवृत्तिनिवृत्तिलक्षणे फले यस्य स द्विफलः । खं विष्ण्वाख्यमाकाशं प्रविष्टः ।
अत्रेदं तात्पर्यम् । लक्ष्म्यादेरप्यायनाद् बाह्योदवत्, ब्रह्मादेरपि लयकर्तृत्वादग्निवत्, आधारत्वात् सुखदत्वाच्च वायुवत्, अवकाशदत्वाच्च व्योमवद् विष्णुः । ‘‘बीजभूतावपि ह्यस्य ब्रह्मा चैव सरस्वती । न रिष्यते जगत्सृष्टौ वटवृक्षादिबीजवत् । स्वकार्यतो महान्तौ च गुणतो रूपतस्तथा । पृथिव्युदकवत् तस्माद् बीजत्वं न तु बीजवत् । व्यञ्जकत्वान्न चाल्पत्वान्महाक्ष्मावद् रमा स्मृता । अण्डो महाक्ष्मा सम्प्रोक्तस्ततः पृथ्व्युदकं तथा । जायते नित्यशस्तस्माद् भुक्तं भुक्तं न हीयते । तत्राप्युदकवद् ब्रह्मा मृद्वच्चापि सरस्वती । जलाधारा यतो मृच्च सर्वत्रापि व्यवस्थिता । अन्यथा तु रजो भूत्वा नीयते वायुनाऽखिला । अथवा सर्वनाशः स्याज्जलाधरा ततः स्मृता । वटादिबीजवत् तस्य पुण्यापुण्यमुदीरितम् । बाह्योदवच्चाग्निवच्च विष्णुरेवं प्रकीर्तितः’’ इत्येतत्, ‘‘व्रीह्यादिवत् तु मूलत्वं कर्मणां जगतः स्मृतम् । उदवत् पृथिवीवच्च ब्रह्मणो वाच एव च । मूलभूवच्छ्रियश्चैव मूलभूरण्ड-मुच्यते । बाह्योदाग्नीरखंवत्तु विष्णोर्बीजत्वमुच्यते’’ इत्येतच्चोक्तार्थे प्रमाणम् । तत्तज्जीवदेहादिषु स्थित्वा तत्तन्मनइन्द्रियादिगणं तत्तद्योग्यतानुसारेण श्रीहरिगुणोपसंहारे प्रेरयित्वा हरिभक्त्यादिसाधनसामग्री-सम्पादनेन हरेः प्रीतिसमुद्रे मग्नो ब्रह्मा सर्वाधिकारिभ्य उत्तमोत्तम इति ज्ञायते । तदुक्तम्– ‘‘देहेन्द्रियमनोवाक्षु स्थितो भक्त्यादिसाधकः । सुपर्णशेषरुद्रादेरपि ब्रह्मा चतुर्मुखः । अतो भक्त्यादिकाः सर्वे गुणास्तस्यैव सर्वगाः । अतिरिक्ताश्चासम्पूर्णाः सुपर्णादेः शताधिकाः । सुपर्णादिभिरज्ञाता-स्तदभीमानवर्जिताः । ब्रह्मणस्तु पुनः सन्ति तेषां कर्ता जनार्दनः । तस्मात् सर्वाधिको ब्रह्मा गुणैः सर्वैर्न संशयः । वर्णस्थो वर्णनामाऽसौ स्वरस्थो स्वरनामकः । मनःस्थश्च मनोनामा तन्नामा चक्षुरादिगः । तस्य सर्वाणि नामानि मुख्यतः कवयो विदुः । तत्स्थानत्वादिन्द्रियादेर्वर्णादेश्चोप-चारतः । एवमस्योपचारेण विष्णोः साक्षात्तु मुख्यतः’’ इति ।
अनेन मात्रा स्वरो वर्ण इति क्रमेणेत्यादिना वर्णस्वरादीनां विष्णोरनन्तरं चतुर्मुखे मुख्यत्व-मुक्तमिति ज्ञातव्यम् । किञ्च ‘‘कृष्णप्रियाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः । महिष्यष्टौ विना यास्ताः कथिता कृष्णवल्लभाः । ताभ्यः सहस्रसमिता यशोदा नन्दगेहिनी । ततोप्यभ्यधिका देवी देवकी भक्तितस्ततः । वसुदेवस्ततो जिष्णुस्ततो रामो महाबलः । न ततोऽभ्यधिकः कश्चिद् भक्त्यादौ पुरुषोत्तमे । विना ब्रह्माणमीशेशं स हि सर्वाधिकः स्मृतः’’ इत्यनेन सर्वाधिकारिभ्योपि ब्रह्मणोऽधिक-भक्तिमत्वं गोपिकादिष्वपि भक्तितारतम्यमस्तीत्युक्तम् । अतो रामेण सार्धं मधुरां प्रणीते श्वाफल्किनेत्यादौ प्रतीयमानभक्तितारतम्याभावाशङ्का निरस्ता । ‘‘पापद्वेषादिका दोषा अवराणां न संशयः । भक्त्यादिगुणपूगस्तु पराणामाविरिञ्चतः । स्वातन्त्र्यात् सर्वदेहेषु स्थितानामपि सर्वशः । स्पृश्यन्ते नैव दोषैस्ते गुणादानैकतत्पराः’’, ‘‘यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद् भवति’’, ‘‘पुण्यमेवामुं गच्छति नह वै देवान् पापं गच्छति’’ इति श्रुतिस्मृतिभ्यां प्रजार्जितभक्त्यादिगुणपूगस्पर्श एव मनआदीन्द्रियाभिमानिदेवानां न तु तदार्जितपापादिस्पर्श इति निर्णीतत्वान्नात्र शङ्का कार्या ॥
अस्य जगद्वृक्षस्यैकं फलं प्रवृत्तकर्मफलं स्वर्गादिलक्षणं ग्रामेचरा गृध्रा विषयलोलुपाः कर्मिणो अदन्ति । एकं निवृत्तलक्षणं कर्मफलं मोक्षम् अरण्यवासा हंसाः श्रीनारायणाख्यक्षीरपायिनो ज्ञानिनो भुञ्जते इति । एतद्वृक्षवर्णनस्य फलमाह– य इति । यः पुरुष एवं बहुरूपं बहुविधम् इष्टं भोगाय-तनत्वेनाभीष्टं मायामयं भगवदिच्छानिमित्तमूलप्रकृत्युपादानकर्तृकं जगद्वृक्षं वेद स पुरुषो वेदं वेद, यतः प्रसूता जगतः प्रसूतिरित्यादिवेदार्थं वेदेति ॥
एतद्विद्याफलमाह– एवमिति । एवमुक्तप्रकारेण सद्गुरूपासनया प्रधानभक्त्या निशितेन विद्याकुठारेण प्राकृतान्तःकरणजन्यज्ञानपरशुना जीवशयं बाह्यान्तःकरणं विवृश्च्य च्छित्त्वा निर्मलीकृत्य प्राकृतान्तःकरणजन्यज्ञानमस्त्रं संसारनिरासकरं त्यज । अथ तज्ज्ञानत्यागानन्तरं निजज्ञानेनात्मानं परमात्मानं सम्पद्य मुक्तौ यथायोग्यसुखमनुभवसि चेति भावः । ‘‘प्राकृतान्तःकरणजं ज्ञानमस्त्रं सृतिच्छिदम् । तदेव तेन सञ्च्छेद्यं चित्तं प्रकृतिसम्भवम् । तेनैव सह सन्त्याज्यं नैव पूर्वं कथञ्चन । ज्ञानं प्रकृतिजं वाऽपि मूलनाशे विनश्यति । ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् । वेत्ति मुक्तस्तथाऽऽत्मानं जीवानन्यांश्च सर्वशः’’ इति वाक्यान्न ज्ञानमात्रोच्छेदो विवक्षितः किन्तु प्राकृतस्यैवेति ॥ २२–२४ ॥
॥ इति श्रीविजयध्वजतीर्थविरचितायां श्रीभागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धे द्वादशोऽध्यायः ॥
श्रीनिवासतीर्थीया
तरुत्वमेव विशदयति ॥ द्वे अस्येत्यादिना ॥ तत्प्रमाणेन व्याचष्टे ॥ जगदित्यादिना ॥ अस्येत्यस्य व्याख्यानम् ॥ जगद्वृक्षस्येति ॥ जगदित्युक्त्या संसारशब्दो जगत्पर इत्युक्तं भवति । शतमूल इत्यस्यार्थमाह ॥ मूलेति ॥ शतशब्दोऽनन्तवाचीति ज्ञेयम् । अनेन कर्मात्मक इत्युक्तं विवृतं भवति । त्रिनाल इत्यस्यार्थः ॥ मन इत्यादि ॥ पञ्चस्कन्ध इत्यस्यार्थः ॥ खमाद्या इति ॥ आकाशाद्यानि भूतानीति यावत् । खमित्येतन्मकारन्तमव्ययं मन्तव्यम् । तेन खमाद्या इत्युक्तम् । अन्यथा खाद्या इति स्यादिति ध्येयम् । दशैकशाख इत्यस्यार्थः ॥ एकादशेति ॥ त्रिवल्कल इत्यस्यार्थमाह ॥ त्रिगुणा इति ॥ द्विफल इत्यस्यार्थः ॥ प्रवृत्तं चेति ॥ तत्साध्यः स्वर्गः । निवृत्तं तत्साध्यो मोक्षः । पुष्पफल इति पूर्वश्लोके पुष्पशब्दविवक्षितार्थ-माह ॥ पुष्पमिति ॥ ऐहिकं सुखम् । तथा च पुष्पफले इत्यत्र फलमामुष्मिकमित्युक्तम् । तद् द्विविधम् । स्वर्गो मोक्षश्चेति । प्रवृत्तं च निवृत्तं चेत्यनेन विवृतं भवतीति ध्येयम् । पञ्च-रसेत्यस्यार्थः ॥ रसा इति । तयोः फलयोः । तथा च पञ्चरसानां प्रसूतिर्यस्मात्स तथोक्त इत्यर्थः । द्विसुपर्णानां नीडो यस्मिन्नित्येतस्यार्थः ॥ प्रवृत्ताश्चेत्यादि ॥ वृक्षसाम्ये वृक्षः पृथिव्याद्याधारत्वे-नास्ति । अत्र जगद्वृक्षे का पृथिवीस्थानीयेत्यत आह ॥ वृक्षस्येति ॥ खं प्रविष्ट इत्यस्यार्थः ॥ विष्णुरिति ॥ उपलक्षणमेतत् । आकाशवाय्वग्निजलवद्विद्यमानो विष्णुस्तस्याः पृथिवीभूत-श्रियोऽप्याधार इत्यर्थः । तथा च खं खादिवद्विद्यमानं भगवन्तं प्रविष्टस्तदाधारतयाऽस्तीत्यन्वयः । स वेदेत्यादेस्तात्पर्यम् ॥ एवं ज्ञात्वेति ॥
तथा चास्य जगद्वृक्षस्यैकं फलं प्रवृत्तकर्मसाध्यं स्वर्गादि । ग्रामेचरा ग्रामे विद्यमाना गृध्रा विषयाकांक्षावन्तोऽदन्ति भक्षयन्ति । एकं निवृत्तसाध्यं मोक्षमरण्यवासा हंसाः परमहंसा अदन्ति । य एवं बहुरूपमनेकप्रकारमिष्टं भोगायतनत्वेनाभीष्टं मायामयं हरीच्छानिर्मितं जगद्वृक्षं वेद स वेदं वेद । यतः प्रसूता जगत इत्यादिवेदार्थं वेद । मुक्तो भवतीति यावदित्यर्थः ॥
ननु ब्रह्मसरस्वत्योर्बीजत्वे वटबीजादेः कार्योत्पत्त्यनन्तरमवस्थान्तरापत्त्या बीजत्वावस्थाया नाशदर्शनात्तद्वत्पूर्वावस्थानाशशङ्काप्राप्तौ प्रमाणान्तरेण तां परिहरति ॥ बीजेति ॥ जलवन्मृद्वच्चेति शेषः । अस्य जगद्वृक्षस्य वटेति व्यतिरेकदृष्टान्तः ।
ननु बीजस्य स्वकार्यवृक्षापेक्षयाऽणुत्वदर्शनात्तद्वद्ब्रह्मसरस्वत्योरपि जगदपेक्षयाऽणुत्वप्राप्त्या प्रमाणसिद्धमहत्वविरोध इत्यत आह ॥ स्वकार्यत इति ॥ रूपतः स्वरूपतः । ननु यदि वटबीजवद्विकारोऽल्पत्वं च न तर्हि कीदृशं बीजत्वमित्यत आह ॥ पृथिव्युदकवदिति ॥ यथा प्रसिद्धवृक्षे मृदुदकयोर्वृक्षव्यञ्जकत्वमेवं सरस्वतीब्रह्मणोरपि पृथिव्युदकवद्व्यञ्जकत्वादेव बीजत्वं न तु प्रसिद्धवटबीजवद्विकारित्वादल्पत्वाच्चेत्यर्थः । प्रसिद्धवृक्षस्य महाभूमिस्थितत्वादत्र सा केत्यत आह ॥ महाक्ष्मेति ॥ क्ष्मा भूः । क्ष्माऽवनिर्मेदिनी महीत्यभिधानात् । का महाक्ष्मेत्यत आह ॥ अण्ड इति ॥ ततो महाक्ष्माभूताण्डात् । नित्यशो जायते । नित्यशो जायत इत्यत्र युक्तिस्तस्मात्कारणादेव नित्यशो भुक्तमित्यादि । व्रीह्यादिपार्थिवपदार्था उदकं च प्रत्यहं भुज्यते । तथाऽपि पृथिव्युदकयोर्न समाप्तिः । प्रत्यहं ब्रह्माण्डाज्जायमानत्वादित्याशयः । न हीयते न समाप्यते । एवं महाक्ष्मास्थानीयरमायाः सकाशाज्जगद्वृक्षं प्रति ब्रह्माण्डान्तर्गतमृदुदकस्थानीययोः सरस्वती-ब्रह्मणोरप्युत्पत्तिर्द्रष्टव्या । पृथिव्युदकवदित्युक्तं तद्विवेचयति ॥ तत्राऽपीति ॥ तदुपपादयति ॥ जलेति ॥ यतः सर्वत्रापि व्यवस्थिता मृज्जलमाधारो यस्याः सा तथोक्ता । ततो मृद्भूता सरस्वती जलभूतब्रह्माधारेणास्तीत्यर्थः । मृदो जलाधारतामुपपादयति ॥ अन्यथेति ॥ जलाधारताया अभावेऽखिला मृच्छुष्कायतेऽतो रजोभूता सती वायुना नीयते नीयेत । अथवा शुष्कत्वेन सर्वस्या अपि मृदो वह्न्यादिना नाशं स्यात् । न तु निबिडतयैकत्रावस्थानम् । ततो जलधारा स्मृता । जलसम्बन्धेनार्द्रतायाः सत्वान्न वायुना नीयते न नश्यत्येवेत्यर्थः । ननु जगद्वृक्षं प्रति ब्रह्म-सरस्वत्योर्जलमृद्व्यञ्जकत्वेनैव बीजत्वे वटबीजवद्बीजं किमित्यत आह ॥ वटादीति ॥ तस्य जगद्वृक्षस्य । खं प्रविष्ट इत्येतदुपलक्षणमित्याशयेनाह ॥ बाह्योदेति ॥ तस्येति वर्तते । उपलक्षणमेतत् । वायुखंवदित्यपि ज्ञेयम् । विष्णोर्बाह्योदादिसाम्यमुपपादयति ॥ श्रियादेरिति । बाह्योदस्य महालक्ष्माभूतब्रह्माण्डाप्यायकत्वात्तत्स्थानीयरमाया अप्याप्यायकत्वाद्विष्णुर्बाह्योद-वत्प्रलयकालीनाग्नेर्मृज्जललयकर्तृत्वदर्शनाद्भगवानपि तथेत्याह ॥ ब्रह्मादेरिति ॥ आदिपदात्सरस्वती । जलमृद्भूतब्रह्मसरस्वत्योरित्यर्थः । यथा वायुर्लोकाधारस्तत एव सुखदश्चातो भगवानपि जगद्वृक्ष-स्याधारत्वादिना वायुवदित्यर्थः । तेन खं प्रविष्ट इत्यत्र खमित्यस्योपलक्षणत्वेन वायुं प्रविष्ट आधारत्वेन सुखदं हरिं प्रविष्टो वायुभूतविष्ण्वाधारत्वेन सुखेनास्तीत्यर्थ उक्तो भवति । अवकाशाभावे वृक्षस्थित्ययोगेन प्रसिद्धवृक्षस्याकाशे सत्वात्तद्वज्जगद्वृक्षस्यावकाशप्रदत्वाद्विष्णुर्व्योमवत् । तथा च खमवकाशप्रदं विष्णुं प्रविष्टस्तत्रास्तीत्यर्थ उक्तो भवति ।
उक्तार्थे प्रमाणान्तरमाह ॥ व्रीहिति ॥ जगतो मूलत्वमिति सम्बन्धः । कर्मणां पुण्या-पुण्यरूपाणाम् । ब्रह्मणो वाचश्च मूलत्वमुदवत्पृथिवीवदेवेत्यन्वयः । श्रियो मूलत्वमिति वर्तते । काऽसौ मूलभूरित्यत आह ॥ मूलभूरिति ॥ ईरः समीरः । खंवदिति मकारान्ताव्ययत्वाद्युक्तम् । य एष जीवो विवरप्रसूतिर्मनोमयं सूक्ष्ममुपैतीत्यादिना रुद्रादिमनःस्थितत्वमुक्तम् । तत्र स्थित्वा किं करोतीत्यतः प्रमाणेन तद्दर्शयति ॥ देहेति ॥ सुपर्णशेषरुद्रादेर्देहेन्द्रियमनोवाक् चक्षुस्थित-सुपर्णशेषरुद्रादेर्भक्त्यादिसाधक इत्यन्वयः । सर्वगाः सुपर्णादिस्थाः । तस्यैव स्वामिनः फलश्रुते-रित्युक्तेरिति द्रष्टव्यम् । सुपर्णादिषु स्थित्वा तैर्ये कारितास्त एव भक्त्यादिगुणाः सन्ति ब्रह्मणो नान्य इति प्राप्ते सत्याह ॥ अतिरिक्ताश्चेति ॥ सुपर्णादेः सकाशादतिरिक्ताः सुपर्णादि-कृतगुणव्यतिरिक्ता ब्रह्मणः स्वकीयगुणाः शताधिकाः शतगुणिताः । तदिति ॥ ये सुपर्णादिकृत-भक्त्यादिका गुणाः स्वामिनः फलश्रुतेरिति न्यायेन ब्रह्मणो भवन्ति तेषु सुपर्णादेरभिमानोऽपि कश्चनास्ति । तत्कृतत्वात्तथाऽतिरिक्ता अपि तेषां सुपर्णादीनामभिमानवर्जिता गुणा ब्रह्मणः सन्तीत्यर्थः । तेषां गुणानाम् । स्वरो वर्ण इतीत्यादेस्तात्पर्यम् ॥ वर्णस्थ इत्यादि ॥ तन्नामा चक्षुरादिनामा । तस्य चतुर्मुखस्य । एवं वर्णादिवत् । अस्य चतुर्मुखस्य । साक्षान्मुख्यतः परममुख्यया वृत्त्या । रामेणेत्यादिगोपिकाप्रशंसनं कैमुत्येनैव कृतं न तु वाय्वाद्यपेक्षयोत्तमभक्तत्वाभि-प्रायेणेत्युक्तम् । तत्कुतः । वाय्वाद्यपेक्षया गोपिकादेरेवोत्तमत्वं किं न स्यादित्यतस्तारतम्यप्रतिपादकं प्रमाणं पठति ॥ कृष्णेति ॥ कृष्णवल्लभा या महिष्यः कथितास्ताः कृष्णप्रियाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिका इति योज्यम् । तर्हि रुग्मिणीसत्यानीलाद्यष्टमहिषीणामपि गोपीभ्यो द्विगुणाधिकत्वशङ्का स्यात्तदर्थमष्टौ विनेत्युक्तम् । तथा चाष्टमहिषीव्यतिरिक्तशत्तोत्तरषोडश-सहस्रसङ्ख्याका अग्निकुमारा एव विवक्षिता इति न दोषः । समिता गुणिता । जिष्णुरर्जुनः ।
ननु पूर्वमतो भक्त्यादिकाः सर्वे गुणास्तस्यैवेत्युक्तं तर्हि तेषामपि पापादिप्रेरकत्वात्तत्कृत-पापादिकमपि स्यादन्यथा भक्त्यादिकमपि न स्यादविशेषादित्यतः प्रमाणान्तरेण व्यवस्थां दर्शयति ॥ पापेति ॥ सर्वदेहेषु प्रेरकत्वेन स्थितानामवराणां नीचानां दैत्यानां पापादिदोषाः । कुतः पारतन्त्र्यात्तेषामिति हेतुर्द्रष्टव्यः । भक्त्यादिगुणसमूहस्तु सर्वदेहेषु प्रेरकत्वेन स्थितानां पराणामुत्तमानां देवानां तत्राविरिञ्चतो ब्रह्मपर्यन्तं भवति । कुतस्तेषां देवानां, स्वातन्त्र्यादतस्तैर्दोषैर्नैव स्पृश्यन्त इति योज्यम् । स्वातन्त्र्यविवरणम् ॥ गुणेति ॥ अत्र श्रुतिमप्याह ॥ यदिति ॥ एतद्विद्याफल-कथनाय प्रवृत्ते एवमिति श्लोकेऽस्त्रं त्यजेति ज्ञानाभावोक्तौ मुक्तावपि तदभावप्राप्तौ मग्नस्य हीति न्यायेन दुःखं स्यादित्यतस्तात्पर्यमाह ॥ प्राकृतेति ॥ ज्ञानमपरोक्षम् । तेनाधिकारिणा । प्रकृत्या संभवो यस्य तत्तथोक्तम् । तादृशं चित्तम् । तेनापरोक्षज्ञानेन सहैव सन्त्याज्यम् । पूर्वज्ञानोत्पत्तेर्ज्ञानं तत्कदा नश्यतीत्यत आह ॥ ज्ञानमिति ॥ प्रकृतिः प्राकृतान्तःकरणम् ॥ मूलेति ॥ उपादानभूतप्राकृतान्तःकरणेत्यर्थः । न ह्युपादाननाशे उपादेयस्य स्थितिरस्तीत्याशयः । तथा चैवमुक्तप्रकारेणाप्रमत्तो धीरोऽधिकारी त्वं गुरूपासनया जातयैकभक्तिः प्रधानभक्तिस्तया जातो यो विद्याकुठारः प्राकृतान्तःकरणजापरोक्षज्ञानाख्यपरशुस्तेन जीवाशयं बाह्यान्तःकरणं विवृश्च्य च्छित्वा निर्मूलीकृत्य पश्चात्प्राकृतान्तःकरणजमन्तःकरणरूपसृतिच्छिदं वृत्तिरूपमपरोक्षज्ञानरूपास्त्रं संत्यज्याथ परमात्मानं सम्पद्य मुक्तो भूत्वा स्वरूपज्ञानेन भगवत्स्वरूपादिकं वेत्सीति श्लोकार्थः
॥ २२–२४ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे द्वादशोऽध्यायः ॥
प्रमेयचन्द्रिका
जगतामाद्य इति ब्रह्मणो जगत्कारणत्वमुक्तम् । किं तज्जगदित्यतो जगत्स्वरूपविवरणपरं य एष इत्यादिदुर्गमार्थं ग्रन्थं प्रमाणेन व्याचष्टे ॥ जगद्वृक्षस्येति ॥ सर्वजीव-सम्बन्धी सपरिकरः सफलः सम्बन्धहेतुत्वात्संसाराख्यो यो जगद्वृक्षस्तस्येत्यर्थः । शतमूल इत्यत्र मूलशब्दार्थो मूलभूतानीति ॥ त्रिनाल इत्यस्यार्थः मनो बुद्धिरिति ॥ खमाद्याः । अम्भावश् छान्दसः । आकाशवाय्वग्निजलपृथिव्य इत्यर्थः । दशैकशाख इत्यस्यार्थ एकादशेन्द्रियाणीति ॥ मनसो नालत्वेनोक्तत्वेऽपि शाखारूपत्वमपि विवक्षाविशेषेणोक्तमिति ज्ञेयम् । मूले दश चैका च शाखा यस्येति विग्रहः । त्रिवल्कल इत्यस्यार्थः सत्वादयस्त्रिगुणास्त्वच इति ॥ पुष्पं च फलं च ते प्रसूते जनयतीति मूलार्थः । फलं च द्विविधमित्याह ॥ प्रवृत्तं चेति ॥ प्रवृत्त-मामुष्मिकस्वर्गादिफलसाधनमेव फलान्तभूर्तम् । ऐहिकैश्वर्यादिसाधनमस्थिरत्वसाम्यात्पुष्पशब्दोक्तमित्याह ॥ पुष्पमिति ॥ पञ्चरसप्रसूतिरित्यस्य तात्पर्यम् ॥ रसा इति ॥ तयोः पुष्पफलयोः रसाः साराः स्पर्शशब्दरूपरसगंधरूपा विषया इत्यर्थः । ऐहिकामुष्मिकविषयभोगस्य प्रवृत्तकर्मफलत्वादिति भावः। द्विसुपर्णनीड इत्यस्यार्थः प्रवृत्ताश्चेति ॥ मत्वर्थीयाच्प्रत्ययेन प्रवृत्तकर्मिणो निवृत्तकर्मिण-श्चेत्यर्थः । तत्र जगद्वृक्षे संस्थिताः । एतेन मूले द्विविधानां काम्याकाम्यकर्मिणां सुपर्णानां जीवानां नीडः कुलाय भूत इत्यर्थ उक्तो भवति । खं प्रविष्ट इत्यभिप्रायमाह ॥ वृक्षस्येति ॥ लौकिकवृक्षो हि पृथिव्याश्रितः । सा च पृथिवी वायुनाऽवष्टब्धा एतदुपपादयिष्यति भगवानाचार्यः । कुत्रचिदवकाशे
स्थिता पृथिवी । अवकाशोऽव्याकृताकाशः । अतः खं प्रविष्ट इत्युक्तम् इत्युपपद्यते । तत्र वृक्षस्य पृथिवीवज्जगद्वृक्षस्याधारभूता श्रीः । तस्या पृथिवीस्थानीयाया श्रियोऽपि आकाशवद्वायुवच्च सदाधारो विष्णुरित्यर्थः । य एवं बहुरूपमित्यादिफलकथनग्रन्थस्य तात्पर्यमाह ॥ एवं ज्ञात्वा विमुच्यत इति ॥
अदन्तीति मूलस्यायमर्थः ॥ गृधृ आकाङ्क्षायामिति धातोर्गृध्रा विषयाकाङ्क्षायुक्ता ग्रामे विषयसमूहे चराः । तदेकरतियुक्ता इति वा । एकं प्रवृत्तकर्मफलमामुष्मिकम् । ऐहिकस्य पुष्पाख्यतदन्त-र्भावादेकमित्युपपन्नम् । ऐहिकमामुष्मिकमित्येकविषयरूपं फलमदन्ति । तथा अरण्ये विविक्तप्रदेशे वसन्तीत्यरण्यवासाः । अरं सुखम् । णश्च निर्वृतिवाचक इत्युक्तेर्यात्यनुभवतीत्यरण्यो भगवान् । तत्र वासो मनोनिवेशो येषां ते इति अरण्यवासाः । दोषहीनत्वात्साररूपत्वाच्च हंसाः । नित्यं हीनोऽखिलैर्दोषैः साररूपो यतो हरिः । हंस इत्युच्यत इत्युक्तेर्हंसवन्नारायणाख्यः क्षीरसागरशायिन इति वा । एकं निवृत्तकर्मणो ज्ञानद्वारा फलभूतं मोक्षसुखमनुभवन्तीति । एवं हिरण्यगर्भेण सृज्यतया प्रस्तुतस्य जीवबन्धकतया संसाराख्यजगद्वृक्षस्य स्थितिमुक्त्वा तद्ज्ञानिनः फलमुच्यते ॥ य एतं बहुरूपमिति ॥ बहुभिर्ब्रह्मादिभिर् बीजादिस्थानीयैः रूप्यते इति बहुरूपम् । इष्टं स्वेष्टमुक्त्यादि-साधकम् । मायामयमीश्वरेच्छाधीनमेतं जगद्वृक्षं वेद स पुरुषो वेदं वेद्यत इति व्युत्पत्या भगवन्तं वेद । वेदमागममिति । सर्वशास्त्रविचारसंजनितब्रह्मज्ञानं तस्य भवतीत्यर्थः ॥
एवं सङ्गपदोदितभक्तेः सर्वसाधनोत्तमत्वं तदुपपादनाय बाह्यात्मकहिरण्यगर्भस्य माहात्म्यं तत्प्रसङ्गसन्निधापितं जगत्स्वरूपं तदाधारश्रीश्रीपत्योर्महिमानं तज्ज्ञानफलं चोक्त्वोपसंहारव्याजेन ज्ञानिनो यद्वत्तिरूपज्ञानं तत्स्वरूपज्ञानं व्यञ्जयित्वा स्वयं च नश्यतीत्युपदेशः क्रियते ॥ एवमिति ॥ धीषु रतो ज्ञानी गुरुसेवया निशितेन एवमुक्तप्रकारेण विद्याकुठारेण प्राकृतान्तःकरणजन्यज्ञानाख्यास्त्रेण जीवाशयं बाह्यान्तःकरणजन्यं ज्ञानं विवृश्च्य च्छित्वा अथ प्रमादहेत्वभावादप्रमत्त आत्मानं विष्णुं सम्पद्यास्त्रं वृत्तिरूपज्ञानं त्यज । वृत्तिज्ञानविलोपे भगवत्संपत्तिश्च भवतीति भावः । बाह्यान्तः-करणात्मकलिङ्गदेहनाशोत्तरक्षणमेव भगवत्प्राप्तिरित्यभिप्रायेण सम्पद्येत्युक्तमिति ज्ञेयम् ।
अत्र मुक्तौ सर्वात्मना ज्ञाननाश उच्यत इति भाति । तदयुक्तम् । संज्ञानाशो यदि भवेत्किं मुक्त्या नः प्रयोजनमिति ज्ञानाभावे मुक्तेरपुरुषार्थत्वोक्तेरित्यत आह ॥ प्राकृतेति ॥ सृतिच्छिदं संसारच्छेदकम् । प्राकृतान्तःकरणस्यापि बन्धकत्वात्तस्य सत्वात्कथं संसारच्छेद इत्यत आह ॥ तदेवेति ॥ यत्प्रकृतिसम्भवचित्तमन्तःकरणम् । तदपि तेन ज्ञानेनैव संच्छेद्यम् । ननु वृत्तिरूप-ज्ञानेनान्तःकरणच्छेदेऽङ्गीकृते ज्ञाने जाते प्रथममन्तःकरणनाशापत्या तन्नाशे निराश्रयज्ञानायोगाज् ज्ञानस्यैवाभावे न तस्य सृतिच्छेदकत्वमित्यत आह ॥ तेनेति ॥ संसारेण सहैवान्तःकरणं त्याज्यम् । एवकारव्यावर्त्यमाह ॥ नैवेति ॥ संसृत्यन्तःकरणयोर्यौगपद्येन परिपक्वज्ञानेन विनाश्यत्वाद्युक्तं सृतिच्छेदकत्वमिति भावः । तथापि मुक्तिर्न सम्भवति । सर्वसंसारनाशकप्राकृतज्ञानस्य स्वरूपेण व्यवस्थितेरेव मुक्तित्वादित्यत आह ॥ ज्ञानमिति ॥ ज्ञानोपायान्तःकरणरूपमूलनाशे तत्कार्यं ज्ञानं च नश्यति । तन्तुनाशे पटनाशवदिति भावः । नन्वन्तःकरणनाशे ज्ञानावस्थानायोगा-दन्तःकरणनाशानन्तरं ज्ञाननाशः कथमित्यतो वाऽह तेन ज्ञानेन सहैवान्तःकरणं सन्त्याज्यम् । नैव पूर्वं कथञ्चनेति ॥
ननु ज्ञानविनाशे केन कं पश्येद्येनेदं सर्वं विजानाति तं च केन विजानीयात् । विज्ञातारमरे केन विजानीयादितीश्वरस्वात्मान्यजीवज्ञानाभावेन मुक्तेरपुरुषार्थतेत्यत आह ॥ ततः परमिति ॥ ननु बीजे इत्यत्र यः संरस्वतीब्रह्मणोर्बीजस्थानीयत्वमुक्तम् । वटादिबीजस्य वृक्षोत्पत्तौ बीजत्वा-कारापायेन वृक्षरूपतया विकारित्वात् । स्वकार्यवृक्षापेक्षया बीजस्य स्वरूपतो गुणतोऽल्पत्वा-त्तद्वद्वाणीविरिञ्चयोरपि विकारित्वं नाशो जगदपेक्षयाऽल्पत्वं च स्यादित्याशङ्कां प्रमाणेन परिहरति ॥ बीजभूताविति ॥ न रिष्यतः न नश्यतः । स्वकार्यतः स्वसृष्टाज्जगतः सकाशाद्गुणतो ज्ञानानन्दादिगुणतः, स्वरूपतो द्रव्यसान्द्रत्वादिस्वरूपतः, परिमाणतो वा महान्तौ । अविकारित्वे बीजत्वं कथमित्यत आह ॥ पृथिव्युदकवदिति ॥ तस्माद्विनाशाद्यभावस्य प्रमितत्वाद्वाणीविरिञ्चयो-र्बीजत्वं पृथिवीवदुदकवच्चोपादानकारणस्य व्यञ्जकत्वादेव न तु वटबीजवत् । तस्यैव विवरणम् ॥ न चाल्पत्वादिति ॥ चशब्दात्स्वयं कार्याकारेण परिणम्य विनाशित्वाच्चेति गृह्यते । ननु पृथिवीवच्छ्रीरिति पृथिवीस्थानीयत्वं श्रिय उक्तम् । अत्र सरस्वत्यास्तदुच्यते । अतो विरोध इत्यत आह ॥ महाक्ष्मावदिति ॥ वृक्षोत्पत्तौ का महालक्ष्मा यत्साम्यं रमाया उच्यत इत्यत आह ॥ अण्ड इति ॥ तथा च वटाङ्कुरोत्पत्तौ बीजावपनाधिकरणपृथिवीवद्वाणी । रमा तु ब्रह्माण्डस्थानीयेति भेदान्न विरोध इति भावः ।
नन्वङ्कुरोत्पत्तावण्डस्य क उपयोगः । येनात्र तद्वद्रमाया जगदुत्पत्तावुपयोगित्वं सिध्द्येदित्यत आह ॥ तत इति ॥ ततोऽण्डात्पृथिवी उदकं च जायते । प्रतिक्षणमुपचीयते । अण्डात्पृथि-व्युदकयोः सदा उपचयो भवतीत्यत्र ज्ञापकमाह ॥ तस्मादिति ॥ मृदेव हि औषधान्नात्मना परिणमते तच्चान्नादिकं प्राणिभिर्भुज्यते । पश्चादिति नरैर्भुक्तं तदा परमाण्वन्तं नश्यति । एवं प्रतिवर्षं पुनः पुनर्जायमानः सस्यादिविकारभागानां बहुश उपचये पृथिव्यादौ द्रव्यन्यूनतया तद्धानिः संभाविता । तथाऽपि भुक्तं भुक्तमपि पृथिव्युदकस्वरूपं न हीयत इति यस्मात्तस्मात्पृथिव्युदकयोरुपचयादेवेति भावः ।
वाणीविरिञ्चयोः पृथिव्युदकस्थानीयत्वमुक्तम् । तद्विवेचयति ॥ तत्रापीति ॥ सररस्वतीब्रह्मणोर्मध्येऽपीत्यर्थः । कुतोऽयं विशेष इत्यतस्तदुपपादयति ॥ जलाधारेति ॥ जलमाधारो यस्याः सा जलाधारेति विग्रहः । यतः सर्वत्रापि मृज्जलाधारैव व्यवस्थिता । अतो जगद्वृक्षस्य मृत्स्थानीया ब्रह्माणी जलस्थानीयब्रह्माश्रितेति वक्तव्यम् । अत उक्तम् उदकवद् ब्रह्मेत्यादि युक्तमित्यर्थः । भवेदेतद्यदि पृथिव्या जलाधारत्वं प्रमितं स्यात्तदेव कुत इत्यत आह ॥ अन्यथेति ॥ अन्यथा मृदो जलाश्रितत्वाभावे अखिलाऽपि मृद्वायुनाऽपनीयते । पृथिव्या जलासंमिश्रितत्वे घनीभावासम्भवेन रजोरूपताप्राप्त्या वायुनेतस्ततस्तद्रजोऽपनये शिथिलतया जगदाधारत्वं न स्यादिति भावः । पक्षान्तरमाह ॥ अथवेति ॥ निःशेषरजोऽपगमे सर्वनाशः स्यादित्यर्थः । अद्भ्यः पृथिवीत्युक्तेरुपादानजलाभावे तन्त्वभावे पटस्येव पृथिव्या नाशः स्यादित्यप्याहुः । उपसंहरति ॥ जलाधारेति ॥ पृथिवीजलब्रह्माण्डानां यद्यपि विकारित्वमस्ति तथाऽपि बीजव्यञ्जकत्वांश एव दृष्टान्तत्वमिति ज्ञेयम् ।
पूर्वं द्वे बीजे ब्रह्मा चैव सरस्वतीत्युक्त्वा तयोर्बीजत्वं वटबीजादिबीजवत्साक्षादंकुरोपादानत्वरूपं नास्ति । किन्तु पृथिव्युदकवद्व्यञ्जकत्वमेवेत्युक्तम् । तर्हि जगद्वृक्षे वटबीजादिस्थानीयं किमित्यत आह ॥ वटादिबीजेति ॥ तस्य जगद्वृक्षस्य पुण्यापुण्यमिति द्वन्द्वैकवद्भावः । पुण्यादिकर्मणोऽपि संसाररूपजगद्वृक्षान्तर्गतत्वाद्बीजस्थानीयत्वं युज्यत इति ज्ञेयम् । नन्वण्डातर्गतपृथिव्युदकस्थानीयत्वं वाणीब्रह्मणोस् तदाप्यायकाण्डस्थानीयत्वं रमाया इत्युक्तम् । तेनैवाण्डाद्बर्हिलिप्ततया स्थितायाः साक्षादावरणभूतायाः पृथिव्या अप्यण्डातर्भावविवक्षया तत्स्थानीयत्वं च रमायाः सिध्यति । अबग्नीरादिबहिरावरणस्थानीयत्वं कस्येत्यत आह ॥ बाह्योदवच्चेति ॥ अन्योन्यसमुच्चये चशब्दः ।
विष्णुराकाशवायुवत् । बाह्योदवच्चाग्निवच्चेत्युक्तमबादिभूतचतुष्टयत्वं स्ववचनेन क्रमेणोपपादयति ॥ श्रियादेरित्यादिना ॥ बहिरावरणोदकं ह्यण्डस्य तद्वारा तत्पृथिव्युदकयोरुपचायकं हरिरपीहाण्डादि-स्थानीयायाः श्रिय आदिपदोक्तयोर्वाणीविरिञ्चयोः पृथिव्युदकस्थानीययोराप्यायकत्वाद्बाह्योदकस्थानीय-प्रसिद्धाग्नेर्जलादिलयकर्तृत्ववदुदकपृथिवीस्थानीयब्रह्मवाण्योर्लयकर्तृत्वेन हरेरग्निसाम्यं श्रियो लयाभावादत्र ब्रह्मादेरित्युक्तम् । वायुर्हि सर्वाधारः । वायुबद्धत्वाल्लोकानां वायुना वै गौतमसूत्रेणायं लोकः परश्च लोक इति श्रुतेर्मुख्यवायुपरत्वेऽप्यस्याः श्रुतेस् तस्य वायोरपि भूतवायौ स्थितत्वात्तन्नियामकत्वा-द्वायुबद्धत्वेऽपीयं श्रुतिः प्रमाणमित्याहुः । श्रमपरिहारद्वारा सुखप्रदश्च । अत आधारत्वात्सुखदत्वाच्च हरिर्वायुवत् । अवकाशप्रदत्वसाम्यादाकाशवद्विष्णुः । अवकाशप्रदो नित्यं वासुदेवो नभस्थित इत्युक्ते-रुभयोरवकाशप्रदत्वं प्रसिद्धमेवेति ॥ प्राक् खं प्रविष्ट इति मूले विष्णुराकाशवायुवदित्यत्र च यदाकाशसाम्यमुक्तं तदप्यवकाशप्रदत्वेनैवेति न विरोधः ।
स्वोक्तार्थस्थापनाय प्रमाणं पठति ॥ व्रीह्यादीति ॥ यथा व्रीह्यादिबीजमङ्कुरमुत्पाद्य स्वय-मुपक्षीयते तथा कर्मापि शरीरादिकमुत्पाद्य नश्यतीति कर्मणां बीजसाम्यम् । यद्यपि बीज एवाङ्कुरतया परिणमते न कर्म किन्तु निमित्तमेव । तथापि जगदन्तर्भूतत्वेन वा कारणत्वमात्रेण वा साम्यम् ।
ननु मुख्यधियेत्युक्त्वा गोपिप्रशंसनात्संशय इति पृष्टे कैमुत्येन वायोरुत्तमत्वोपपादनाय तदित्याशयेन वायोर्भक्त्यादिभिः सर्वैर्गुणैः सर्वेभ्योऽप्युत्तमत्वं दर्शयितुं य एष जीव इत्यादि-ग्रन्थप्रवृत्तिरित्युक्तम् । तत्र सूक्ष्मरूपेण मनआदीन्द्रियस्थितत्वं स्थविष्टरूपेण मात्रास्वरवर्णस्थत्वादिक-मेवोच्यते न तु सर्वगुणैरुत्तमत्वमित्याशङ्क्य सुपर्णाद्यशेषदेवदेहेन्द्रियस्थत्वोक्तयैव तथाऽशेषगुणसाधकत्वतन्नियामकत्वादिना सर्वगुणस्वामित्वाद्वा ततोऽधिकतद्विजातीयनिःसीमगुणवत्वं लभ्यते । अतो युक्तमुक्तमित्याशयेन प्रमाणमुदाहरति ॥ देहेन्द्रियेति ॥ आदिपदेन विज्ञानवैराग्या-नन्दादिग्रहणम् । यतः सुपर्णादेर्भक्त्याद्यखिलगुणसाधकोऽतः सर्वगा अपि गुणास्तस्य चतुर्मुख-स्यैवाधीनाः । तत्स्वामिका इति यावत् । तत एवं सुपर्णादिगताशेषगुणस्वामित्वम् । अत एवातिरिक्ता सुपर्णादिगतगुणेभ्यो भिन्नाः सम्पूर्णा निःसीमाः सुपर्णादेर्गुणापेक्षया शताधिकाः । शतशब्दोऽ-त्रायुतवचनः । भक्त्यादिकाः सर्वे गुणास्तस्य सन्त्येवेत्यावृत्या योज्यम् । न हि स्वगुणाभावेऽन्येभ्यो गुणदातृत्वं युज्यत इति भावः । न केवलं तेभ्यः सजातीयगुणतोऽयुताधिक्यमात्रं किंतु तद्विजातीया अप्यसङ्ख्याः सन्तीत्याह ॥ सुपर्णादिभिरिति ॥ तदभिमानवर्जिताः सुपर्णादिदेवानामभिमाना-विषयास्तदस्वामिन इति यावत् । एतच्च विशेषणं सजातीयगुणानामपि समम् ।
यद्वा सुपर्णादिभिर् न सर्वथा अज्ञातत्वमित्याह ॥ तदभीमानवर्जिता इति ॥ तेषां सुपर्णा-दीनामभि सम्यक् दीर्घोऽतिशयार्थे मानं ज्ञानं तद्वर्जिताः सम्यगतिशयेन विशेषाकारेण तद्ज्ञानाविषयाः सामान्यतोऽल्पज्ञानमनुमतमिति भावः । पुनरिति विजातीयत्वद्योतकः । तेषां गुणानां कर्ता नियामकः । एतेनायं हि जीव इत्यादेस्तात्पर्यं गुणपूर्णत्वं, तेन च सर्वोत्तमत्वं लभ्यत इत्याशयेनोपसंहरति ॥ तस्मादिति ॥ मनोमयं रूपमुपैति मात्रास्वरोवर्ण इति स्थविष्टमित्यादिना मनोमात्रादिषु स्थित्वा नियामकत्वमात्रं नोच्यते । किंतु तत्तच्छब्दप्रवृत्तिनिमित्तभूतगुणपूर्णत्वं चोच्यत इति भावेनाह ॥ वर्णस्थ इति ॥ वरणीयो वर्णः । स्वे स्वतन्त्रे हरौ रतेः स्वरः । मननान् मनः । तन्नामा चक्षुरादिनामा । चष्ट इति चक्षुः । श्रुणोतीति श्रोत्रमित्यादि द्रष्टव्यम् ।
वर्णादिस्थितेर्वर्णादिनामत्वं मञ्चस्थे मञ्चशब्दवल्लक्षणया किं नेत्याह ॥ तस्येति ॥ महायोग-विद्वद्रूढ्योर्भावादिति भावः । तर्ह्यक्षरादावपि वर्णादिशब्दस्य मुख्यत्वमस्ति को विशेष इत्याह ॥ तस्थानत्वादिति ॥ वर्णादिनामकचतुर्मुखस्याधिष्ठानत्वादित्यर्थः । उपचारत इति परममुख्यवृत्येत्यर्थो न तु लक्षणादिवृत्तित इति । रूढेर्योगस्य च सत्वादिति ज्ञेयम् । विरिञ्चस्य वर्णादिशब्दमुख्यवाच्यत्वे हरेस्तत्तु समन्वयादित्युक्तं तन्न स्यादित्यत आह ॥ एवमिति ॥ एवं सुपर्णादेरिव तु साक्षान्मुख्यत इति पदत्रयेण अतिपरममुख्यवृत्या विष्णोः सर्वनामानि वाचकानीत्युक्तं भवति ॥
ननु सुपर्णादिभ्यो वायोर्भक्त्यादिगुणैरुत्तमत्वेऽपि गोपिकापेक्षयोत्तमत्वं कथं कैमुत्यलभ्यम् । गोपिकानां तु सुरगणाद्यपेक्षया भक्तिगुणतः सर्वोत्तमत्वे बाधकाभावादित्कथमे भक्तितोऽपि गोपिकापेक्षया देवानामुत्तमत्वम् । तदपेक्षया वायोः । तासां न देवापेक्षयाऽपि नीचत्वादित्याह ॥ कृष्णप्रियाभ्य इति ॥ याः पूर्वं कथिताः कृष्णवल्लभास् तासु रुग्मिणी सत्यभामा नीला भद्रा मित्रविन्दा कालिन्दी लक्षणा जाम्बवतीत्यष्टौ महिष्यो विना शतोत्तरषोडशसहस्रमहिष्यो गोपीभ्यो द्विगुणा इत्यर्थः । ताश्चाजानदेवैः सर्वगुणैः समा इति भावः । ताभ्यो महिषीभ्यः । जिष्णुरर्जुनः । पुरुषोत्तमविषये । ब्राह्मणमित्युपलक्षितं वायुं वाणीं भारतीं च विनेति ग्राह्यम् ।
ननु सुपर्णादिषु स्थित्वा तेषां भक्त्यादिसाधकत्वेन वायोर्भक्त्यादिगुणाधिक्ये दुर्जनेषु स्थित्वा तेषां पापद्वेषादिदोषसाधकत्वेन तदाधिक्यं च स्यादित्यत आह ॥ पापेति ॥ देहेन्द्रियप्राणिधियां त्रिधैव ह्यभिमानिन इत्युक्तेष्ववराभिमानिनां कल्यादीनामेव न तु देवानाम् । दैत्यानां दोषवद्गुणा अपि स्युः किमित्यत आह ॥ भक्त्यादीति ॥ तुशब्दो दोषव्यवच्छेदकः । सुराणामेवेत्यवधारणे वा । सदसज्जनसर्वदेहेषु पुण्यपापनियामकत्वेन स्थितानामपि । वराणामुत्तमाभिमानिनाम् । सर्वशो देवानामेव भक्त्यादिगुणपूगा एव भवन्ति । नैव दोषैस्ते स्पृश्यन्ते । तेषामितरजगद्गतगुणदोषविषये स्वतन्त्रत्वाद्विलक्षणत्वेन गुणस्वीकारे दोषत्यागे च तात्पर्योपेतत्वाच्चेति भावः ।
अत्र श्रुतिमप्याह ॥ यदु किञ्चनेति ॥ यदु यदेव इमाः साधुप्रजा यदेव येनैव कर्मणा शोचन्ति । तत्पापं कर्मासां प्रजानामेवामा सह भवति । न तु देवान् गच्छति । शोचन्तीति यत्तद्दुःखमिति वा । सर्वप्रेरकमप्यमुं देवसङ्घं पुण्यसुखादिकं शुभं वा गच्छति प्राप्नोति । एवशब्दव्यावर्त्यकथनं वा । न देवान्पापं गच्छतीति ह वै इत्यनेन हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः । उपासनाधर्मफलं यतो देहान्तरे स्थितिरित्यादिप्रसिद्धिं दर्शयति
॥ २२–२४ ॥
**॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां **
श्रीमद्भागवत एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां द्वादशोऽध्यायः ॥