बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः
॥ अथ एकादशोऽध्यायः ॥
श्रीभगवानुवाच—
बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः ।
गुणस्य मायामूलत्वान्न मे बन्धो न मोक्षणम् ॥ १ ॥
तात्पर्यम्
मे गुणतः । मद्वशसत्वादेः । अमायत्वान्निर्गुणोऽहं बन्धमोक्षौ न चापि मे । मदधीनस्य जीवस्य बन्धमोक्षौ मदेव त्वि’ति स्वाभाव्ये ॥ १ ॥
पदरत्नावली
भेदज्ञानमेव मुक्तिसाधनं तत्साधनं भक्तिस्तस्य वैराग्यमित्येतत् सर्वमेतस्मिन्नध्याये कथयति । तत्रादौ गुणेष्वित्यादिना यदुद्धवचोद्द्यं तत् परिहरति बद्ध इत्यादिना । बद्धो मुक्त इति ह्याख्या, जीवस्येति शेषः । हिशब्द एवार्थे जीवस्यैवेत्यर्थः । स्वतश्चिद्रूपस्य कथं घटत इत्यत्राह– गुणत इति । सत्वादिगुणसम्बन्धात् । निरवयवस्यैतत्सम्बन्धः कथमत्राह– म इति । गुणानां जीवस्य च मम वशत्वान्मदधीनप्रवृत्तित्वाच्च । दुर्घटघटकशक्तिमत्त्वान्ममेत्यर्थः । तर्हि शैवलावृतशरीरवत् (?) न कदाप्यस्य सुखमत्राह– न वस्तुत इति । वस्तुवृत्त्या नास्ति । तन्निवर्तकेश्वरेच्छाधीनत्वान्न मिथ्येत्यर्थः । गुणसम्बन्धत्वाद् भवत एव तौ किं न स्यातामत्राह– गुणस्येति । जातिविवक्षयैकवचनम् । गुणानां मायामूलत्वात् तत्प्रवर्तकत्वेन सम्बन्धः, स्वतोऽहं निर्गुण इत्यतो मम बन्धमोक्षौ न स्त इति भावः । ब्रह्मण एव मायामयौ बन्धमोक्षौ नाविद्यमान-जीवस्येत्यङ्गीकर्तुमुचितम्, प्रतीतत्वान्नाप्रामाणिकोऽध्याहारो युक्त इतीदं चोद्यम् ‘‘अमायत्वान्निर्गुणोऽहं बन्धमोक्षौ न चापि मे । मदधीनस्य जीवस्य बन्धमोक्षौ मदेव तु’’ इति स्पष्टप्रमाणवचनेन परिहृत-मिति त्वन्मनोरथकल्पनमत्र न प्रकाशयेति ॥ १ ॥
श्रीनिवासतीर्थीया
प्रश्नबीजमेव खण्डयति ॥ बद्धो मुक्त इति ॥ तत्र बद्धो मुक्त इति ह्याख्या गुणतो निमित्तान्मे भवतीत्यन्यथाप्रतीतिवारणायानूद्य व्याचष्टे ॥ मे गुणत इति ॥ मद्वशेति षष्ठ्यर्थसम्बन्धकथनम् । सत्त्वादेः सकाशात् । श्लोकं प्रमाणेन व्याचष्टे ॥ अमायत्वादिति ॥ मदधीनस्य जीवस्येत्युक्त्या गुणस्येत्येतद्व्याख्यातं भवति ॥ ततश्चायं श्लोकार्थः ॥ बद्धमुक्तव्यवस्थाया अप्रामाणिकत्वमेकजीवमतानुसारेणोक्तमयुक्तम् । यतो बद्धो मुक्त इति ह्याख्या गुणस्याप्रधानस्य मदधीनस्य जीवस्य । जात्यैकवचनम् । जीवानाम् । केचन बद्धाः केचन मुक्ता इत्याख्या हि ‘‘मुक्ताख्या बन्धमोक्षात्स्यात् । बन्धाख्या हर्यधीनत इति वक्ष्यमाणप्रसिद्धा । अतः साऽस्त्येव । ननु मुक्तत्वमस्तु बद्धत्वं चिद्रूपूस्य कथं घटत इत्यत उक्तम् ॥ न वस्तुत इति ॥ परमार्थतो जीवस्वरूपानुबन्धितया नास्तीत्यर्थः । ततो विमुक्तत्वोक्तिर्युज्यत इत्याशयः । बद्ध्यते चेत्कथं बद्ध्यत इति प्रश्नमनङ्गीकारणैव परिहरति ॥ गुणस्येति ॥ सत्त्वादेर्गुणस्य मायाशब्दवाच्यप्रकृति-मूलकत्वान्मम च प्रकृत्यतीतत्वेन तत्कार्यगुणसम्बन्धाभावाद्गुणप्रयुक्तं बन्धनं मे नास्त्यतस्तद्ध्वंसरूपो मोक्षोऽपि नास्तीति न वस्तुत इत्युक्तम् ॥ १ ॥
प्रमेयचन्द्रिका
उद्धवेन प्रकृतप्रश्नपरिहारपरे बद्धो मुक्त इत्याख्ये तस्मिन्वाक्ये बद्ध इत्याख्या गुणतः सत्वादिगुणसम्बन्धादेव मे जातेत्यन्वयप्रतीतिं वारयन्विवक्षितान्वयमाह ॥ मे गुणत इति ॥ इति सम्बन्धार्थे षष्टीत्यभिपे्रत्योक्तम् ॥ मद्वशत्वादेरिति ॥ तथा च मद्वशत्वस्य मम सृष्टृत्वसंहार्यत्वादिरूपमत्सम्बन्धान्मे गुणतः मदीयगुण इति उच्यत इति भावः । मे मोक्षो बन्धन-मित्युक्ते भगवतो बन्धमोक्षाभावे गुणस्य मायामूलत्वादित्यनेन सूचितं हेतुं प्रमाणेन दर्शयति ॥ अमायत्वादिति ॥ पिशाचवत्स्थिता मायेत्युक्ता जीवाच्छादिकारूपा प्रकृतिरिह मायोच्यते । तथा चामायात्वादुक्तरूपप्रकृत्यबद्धत्वादहं निर्गुणः सत्वादिभिः कामादिभिर्वा गुणैः रहितः । चशब्दोऽवधारणे हेतौ वा । तथा च तस्मान्मायागुणरहितत्वादेव मे बन्धमोक्षावपि न स्तः । तर्हि कस्य बन्धमोक्षा-वित्यत आह ॥ मदधीनस्येति ॥ अनेन मूले मदधीनस्य जीवस्येत्यध्याहार्यमिति सूचयति । मन् मत्तः सकाशादेव जीवस्य मदधीनौ बन्धमोक्षौ भवत इत्यर्थः । तुशब्दो जीवस्यास्वातन्त्र्यरूप-विशेषद्योतकः । तेनास्वातन्त्र्यं बन्धे नियामकमित्युक्तं भवति ।
ततश्चायं मूलार्थः । मदधीनजीवस्यैव बद्धो मुक्त इत्याख्या । सा च बन्धादिर्जीवस्य न वस्तुतः स्वभावतः । किन्तु मे गुणतः । मदधीनसत्वादिगुणेभ्य एव भवति हीत्यत्र प्रमाणं सूचयति । ननु स्वतश्चिदानन्दात्मकस्य तथा सत्वादिगुणनिमित्तबन्धोऽस्ति किमित्यत उक्तं गुणस्येति ॥ जातावेकवचनम् । गुणानां जीवाच्छादिकादिप्रकृतिमूलत्वान्मम च स्वतन्त्रत्वेनामायत्वान्मे मोक्षः न बन्धनमिति ॥ १ ॥
शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया ।
स्वप्ने यथाऽऽत्मनः ख्यातिः संसृतिर्नतु वास्तवी ॥ २ ॥
तात्पर्यम्
‘स्वप्नोऽयमित्यविज्ञानात्स्वप्ने दुःखमुपाश्नुते । निजस्वरूपानुभव-राहित्यात्तद्वदेव तु । जाग्रद्दुःखमपि प्रोक्तं विष्णुतत्त्वं न पश्यतः । तस्मात्तद-स्वभावत्वा-त्सदप्येतदवास्तवमि’ति लोकसंहितायाम् ॥ २ ॥
पदरत्नावली
जीवस्य संसारो वास्तवो न चेत् तर्हि कस्मादयमस्येत्याशङ्क्याज्ञानादिति सोदाहरणमाह– शोकमोहाविति । मायया अज्ञानेन । यथा स्वप्ने स्वप्नोऽयमित्यज्ञानेनात्मनः शोकमोहादिख्यातिस्तथा स्वरूपाज्ञानेन शोकादि नतु स्वरूपस्य, तस्य सुखात्मकत्वात् । अर्थक्रिया-कारित्वेन सत्यपि संसृतिर् न वास्तवी प्रतिहन्तुमशक्या भवतीत्यर्थः । ‘‘स्वप्नोऽयमित्यविज्ञानात् स्वप्ने दुःखमुपाश्नुते । निजस्वरूपानुभवराहित्यात् तद्वदेव तु । जाग्रद्दुःखमपि प्रोक्तं विष्णुतत्वं नपश्यतः । तस्मात् तदस्वभावत्वात् सदप्येतदवास्तवम्’’ इति वचनात् स्वप्नदृष्टान्तेन संसारस्य न मिथ्यात्वमुच्यत इति ॥ २ ॥
श्रीनिवासतीर्थीया
बन्धत्वस्य स्वरूपानुबन्धित्वाभावं विवृणोति ॥ शोकमोहाविति ॥ तत्र मायया स्वप्ने यथाऽऽत्मनः ख्यातिरिति संसृतेर्मिथ्यात्वमुच्यत इत्यतस्तस्य तात्पर्यमाह ॥ स्वप्नोऽयमिति ॥ आत्मनो मायया शोकादिसंसृतिरित्यस्यार्थमाह ॥ निजेति ॥ अत्रात्मनो माययेत्यस्य प्रकारान्तरेणार्थमाह ॥ विष्णुतत्त्वं न पश्यत इति ॥ अवास्तवीति मिथ्याप्रतीतेराह ॥ सदप्येतद्दुःखादिकमिति । अवास्तवत्वोक्तौ निमित्तं तदस्वभावत्वाज्जीवस्वभावत्त्वाभावादिति ॥ ततश्चायं श्लोकार्थः ॥ यथाऽऽत्मनः स्वप्ने जीवस्य माययाऽविद्यया स्वप्नत्वाज्ञानेन शोकादेः ख्यातिर्ज्ञानं भवति न तु स्वप्नोऽयमिति निश्चयानन्तरम् । एवमात्मनो जीवस्यात्मनः परमात्मनो माययाऽविद्यया भगवत्स्वातन्त्र्याज्ञानेन यथाऽऽत्मनःस्वस्य तदधीनत्वाद्यज्ञानेन सर्वमेतन्मदिच्छयेति वक्ष्यमाण-प्रमाणानुसारेणात्मनो माययेच्छया च शोकमोहौ सुखदुःखं देहापत्तिर्देहस्यापत्तिः प्राप्तिरुत्पत्ति-रित्यादिरूपा संसृतिः संसारबन्धो भवति न वास्तवीति सत्यभूताऽपि जीवस्वभावत्वाभावाद्वास्तवी नैवातो विमुक्तत्वोक्तिर्युक्तेत्याशयः । यथोक्तम् । प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यत इति
॥ २ ॥
प्रमेयचन्द्रिका
जीवस्य संसार औपाधिक इति सदृष्टान्तमुपपाद्यते ॥ शोकमोहाविति ॥ अत्रात्मनो जीवस्य स्वप्ने करितुरगादिपदार्थख्यातिर्यथा भ्रमस्तथा संसृतिरपि न वास्तवी मिथ्येति व्याख्यानं प्रमाणविरुद्धमित्याशयेन प्रमाणमाह ॥ स्वप्नोऽयमितीति ॥ यथा स्वप्नोऽयमितीति ज्ञानाभावात् प्रत्युतजाग्रत्वज्ञानात्तत्रोपलभ्यमानव्याघ्रादिना स्वस्य मृतिर्भवतीति भ्रमात्स्वप्ने दुःखमवाप्यते तथैव विष्णोः स्वातन्त्र्यादिरूपं तत्वमपश्यतो भावरूपाज्ञानादिनिजस्वरूपभूतज्ञानानन्दाद्यात्मकतया अनुभवराहित्यादेव तु अतिशयेन जाग्रद्दुःखमपि भवतीति श्रुत्यादौ प्रोक्तम् । यस्मादेवं स्वप्नत्वाज्ञान-निमित्तकदुःखप्राप्तिरिव जाग्रत्यपि विष्णुतत्वापरिज्ञानस्वरूपानुभवराहित्यनिमित्तकोपाधिवशाद्दुःखं
भवति । तस्मात्तस्य दुःखादिरूपबन्धनस्य स्वाभाविकत्वाभावात्सदप्येतद्दुःखादिकमवास्तवमित्युच्यत इत्यर्थः ।
तथा चैवं मूलार्थः । स्वप्ने स्वप्नोऽयमित्यविज्ञानात्प्रत्युत वासनोपादानकस्वाप्नार्थानां जाग्रद्वस्तु-तादात्म्याज्ञानाद्यथाऽत्मनस्तन्निमित्तकशोकादिख्यातिज्ञानम् । तथा मायया प्रकृत्या निजस्वरूपानु-भवराहित्यादात्मन औपाधिकी शोकमोहादिरूपसंसृतिर्न तु वास्तवी जीवस्वभावभूतेति ॥ २ ॥
विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥
तात्पर्यम्
‘विद्याऽविद्ये मम तनू प्रतिमावत्सदोदिते । सदा तद्व्यतिरिक्तस्य नित्य-ज्ञानसुखात्मनः । मदिच्छावशगे नित्यमविद्यानिर्मिता गुणाः । सत्वाद्या मदधीनत्वाद-विद्याया न मे गुणाः । अविद्या चैव विद्या च गुणाः सत्वादिका अपि । देहोत्पत्तिः सुखं दुःखं सर्वमेतन्मदिच्छया । अतोऽहं बन्धमोक्षाभ्यां रहितो नित्यमेव तु । मुक्तशब्दोदितो बन्धराहित्यान्न विमोक्षत’ इति कालसंहितायाम् । ‘श्रीस्तु विद्या समुद्दिष्टा दुर्गाऽविद्या प्रकीर्तिता । ते त्वनादी हरेरिच्छानियते सर्वदैव त्वि’ति मायावैभवे ॥ ३ ॥
पदरत्नावली
अत्र माया निकृतिः किं न स्यात् तथा प्रसिद्धेरित्यतस्तन्निराकरणमाह– विद्याविद्ये इति । मम तनू प्रतिमावत् स्थिते । किं कार्ये इत्यत्राह– शरीरिणामिति । शरीरिणां देहिनां बन्धमोक्षकरी, आद्ये अनादितो विद्यमाने । मे मायया प्रकृत्या विनिर्मिते ममेच्छावशं गते च । साक्षात् स्वरूपत्वे ‘‘विद्याविद्ये मम तनू प्रतिमावत् सदोदिते । सदा तद्व्यतिरिक्तस्य नित्य-ज्ञानसुखात्मनः । मदिच्छावशगे नित्यमविद्यानिर्मिता गुणाः । सत्वाद्या मदधीनत्वादविद्याया न मे गुणाः । अविद्या चैव विद्या च गुणाः सत्वादिका अपि । देहोत्पत्तिः सुखं दुःखं सर्वमेतन्मदिच्छया । अतोऽहं बन्धमोक्षाभ्यां रहितो नित्यमेव तु । मुक्तशब्दोदितो बन्धराहित्यान्न विमोक्षतः’’ इति प्रमाणविरोध आपद्यते । मोक्षबन्धकरत्वं चाभिमानिदेवतासामर्थ्यात् । तत्र श्रियाऽभिमतप्राकृतसत्वगुणजाता विद्या । दुर्गादिकृततमोगुणजाता त्वविद्या । तदुक्तम् ‘‘श्रीस्तु विद्या समुद्दिष्टा दुर्गाऽविद्या प्रकीर्तिता । ते त्वनादी हरेरिच्छानियते सर्वदैव तु’’ इति ॥ ३ ॥
श्रीनिवासतीर्थीया
न मे मोक्षो न बन्धनमित्युक्तम् । तत्कुत इत्याशङ्कायां मोक्षबन्धयो-र्विद्याविद्यानिर्मितत्वात्तयोश्च मदिच्छावशगत्वान्न मे देहोत्पत्त्यादिरूपबन्धमोक्षौ स्त इत्यभिप्रेत्याह ॥ विद्याविद्य इति ॥ अत्र तनुत्वोक्त्याऽभेदप्रतीतौ तात्पर्यं प्रमाणेनैवाह ॥ विद्याविद्य इति ॥ तद्व्यतिरिक्तस्य विद्याविद्याभ्यां भिन्नस्य । तदभेदशून्यस्येत्यर्थः । नित्यज्ञानसुखात्मनो ममेत्यन्वयः । मायया मे विनिर्मित इत्यस्याभिप्रायमाह ॥ नित्यम् मदिच्छावशग इति ॥ अविद्यानिर्मिता इत्यादिना गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनमित्यस्य तात्पर्यमुक्तम् ॥ अविद्या चैवे-त्यादिना ॥ विद्याविद्ये शोकमोहावित्यनयोः श्लोकतात्पर्यमुक्तं भवति । विद्याविद्येत्यादेः साध्यमाह ॥ अत इति ॥ अथ बद्धस्य मुक्तस्येत्यत्रत्यस्य मुक्तशब्दस्य तात्पर्यं प्रमाणशेषेणाह ॥ नित्यमेव त्वित्यादि ॥ नित्यं बन्धराहित्यादित्यन्वयः । बन्धराहित्याद्बन्धात्यन्ताभावाधिकरणत्वात् । न विमोक्षतो बन्धध्वंसाधिकरणत्वान्नेत्यर्थः ॥ विद्याविद्ययोराद्यत्वमभिमान्यपेक्षयोपपादयति ॥ श्रीस्त्विति ॥ आद्य इत्यस्यार्थः ॥ अनादीति ॥ हरेरिच्छानियत इति माययेत्यादेरर्थः ॥ ततश्चायं श्लोकार्थः ॥ हे उद्धव शरीरिणां जीवानां बन्धमोक्षकरी करिण्यौ आद्यौ । अनादी ये विद्याविद्ये श्रीभूदुर्गे तमे माययेच्छया विनिर्मिते नियतेऽतस्तदधीनबन्धमोक्षौ न मे स्त इति ॥ ३ ॥
प्रमेयचन्द्रिका
मे गुणत इति गुणादेः सर्वस्य भगवदधीनत्वाद्भगवतस्तदबद्धत्वादिकमुक्तं तद्विवरणं क्रियते ॥ विद्याविद्येति ॥ अत्र तनुत्वं भोगायतनत्वमिति । अनिर्वाच्यमायानिर्मितत्वमिति च भ्रान्तिं निवारयन् । मानप्रमाणेन व्याचष्टे ॥ विद्याविद्य इति ॥ प्रतिमावदित्यनेन तनुत्वमिह सन्निधानपात्रत्वमित्युक्तं भवति । तद्व्यतिरिक्तस्य तदबद्धस्य । तदुपपादनार्थमुक्तम् ॥ नित्यज्ञान-सुखात्मन इति ॥ प्रतिमात्वोपपादनायोक्तम् ॥ मदिच्छावशगेति ॥ एतेन मे मायया मदिच्छया विनिर्मित इति मूलार्थ उक्तो भवति । अस्त्वेवं विद्याविद्ययोर्हर्यधीनत्वं ततः प्रकृते किमित्यत आह ॥ अविद्यानिर्मिता इति ॥ यस्मात्सत्वाद्या गुणा अविद्यानिर्मिताः सा चाविद्यामद्वशगा । अतो अविद्याया मदधीनत्वात्तन्निर्मिता गुणा मे न बन्धकाः । एतदेव विवृणोति ॥ अविद्या चेति ॥ मदिच्छयैवेति सम्बन्धः । उक्तमर्थं प्रकृते सङ्गमयति ॥ अत इति ॥ अत एवेत्याह । एवेति सम्बन्धः। तु इत्यस्य स्वातन्त्र्यरूपातिशयेनेत्यर्थः । एतेन रमायानित्याबद्धत्वेऽपि स्वातन्त्र्या-भावादहमेवेत्यवधारणोपपत्तिरिति सूचितं भवति । ननु द्वावेव नित्यमुक्तौ प्रकृतिश्च परमश्चेति हरेर्मुक्तत्वोक्तेः कथं मोक्षराहित्यमुच्यत इत्यत आह ॥ मुक्तशब्दोदित इति ॥
ननु विद्याविद्ये नाम ज्ञानाज्ञाने कथं तयोर्विशिष्य भगवत्प्रतिमात्वम् । कथं वा आद्यत्वमित्य-तस्तदभिमानिदेवताविवक्षयैवमुक्तिरिति प्रमाणान्तरेणाह ॥ श्रीस्त्विति ॥ शरीरिणां विद्याविद्ये ज्ञानाज्ञाने तदभिमानिनी श्रीदुर्गेति मूलार्थ उक्तो भवति ॥ ३ ॥
एकस्यैव ममांशस्य जीवस्यैव महामते ।
बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरः ॥ ४ ॥
तात्पर्यम्
‘भिन्नांशस्यैव जीवस्य बन्धमोक्षौ न मे क्वचित् । अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत् । जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवदि’ति वैलक्षण्ये ॥ ‘मुक्तस्य तु न मे मोक्षो बन्धाभावात्कथञ्चन । मुक्त इत्यपि नामैत-द्दीप्यतेऽसौ दिवाकरः । इतिवद्बन्धराहित्यान्न तु वृक्षादिदीप्तिवत् । कादाचित्कतया वाच्यं बन्धाभावादमोक्षतः । जीवस्य बन्धमोक्षस्तु मत्प्रसादात्कदाचने’ति तत्त्वोदये ॥ ४ ॥
पदरत्नावली
ओही बध्यते चेत् कथं बध्यत इति परमात्मविषयप्रश्नः मे गुणतो बन्ध-मोक्षाविति परिहारोपि । तत्र जीवस्यैव ताविति भवद्भिरुच्यते । अत इदं कथं सङ्गच्छत इति तटस्थशङ्कां परिहरन्नुपसंहरति एकस्येति । जीवः परमात्मेति द्विविधं तत्वम् । तयोरेकस्यैव जीवस्य बन्धमोक्षौ । स क इत्यतो ममांशस्येति । स किं स्वरूपांश इत्यतो जीवस्येति । जीवो भिन्नांश इति ‘‘भिन्नांशस्यैव जीवस्य बन्धमोक्षौ न मे क्वचित् । अभिन्नांशास्तु मत्स्याद्या तेजसः काल-वह्निवत् । जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत्’’ इत्यनेन सिद्धम् । किमुक्तं स्यादत्ताह– एवमिति । एवमुक्तविधस्य जीवस्याविद्ययाऽनादिर्बन्धः, तथा विद्यया इतरन् मोक्षलक्षणं श्रेयः स्त इत्यर्थः । अतः परमात्मा कथं बध्यत इति प्रश्नोऽनुपपन्न इति भावः ॥ ४ ॥
श्रीनिवासतीर्थीया
भगवानुपसंहरति ॥ एकस्यैवेति ॥ अस्य जीवस्येत्यन्वयः । इतरो मोक्षः । अत्रांशत्वोक्त्या मच्छादिवदभिन्नांशप्रतीतावाह ॥ भिन्नेति । तेजसो बाह्याग्नेः । कालवन्हिः प्रलयकालवन्ह्यभिमानिनी । यथाऽभिन्नांशस्तद्वत् । अत्र जडग्रहणे तयोर्भेदाभेदसद्भावादत्यन्तभेद-दृष्टान्तत्वं न स्यादिति द्रष्टव्यम् । यथोक्तं भाष्ये । प्रकाशादिवन्नैवं पर इत्यत्राभिमानिदेवतापेक्षयै-तदिति । तेजसोऽग्नेः प्रतिबिम्बः खद्योतः ॥ मुक्तशब्दोदितो बन्धराहित्यान्न विमोक्षत इत्युक्तं प्रमाणान्तरेण विस्तरेणोपपादयति ॥ मुक्तस्य त्विति । मुक्तशब्दवाच्यस्य मे मोक्षो बन्धध्वंसो न । कुत इत्यतो ध्वंसस्य प्रतियोगिसमानाधिकरणत्वात्प्रतियोगिभूतस्य बन्धस्याभावादित्याह ॥ कथञ्चन बन्धाभावादिति । ननु मुच्लृ मोक्षणे अस्मात्कर्तरि क्तप्रत्यये हीदं रूपम् । तथा च सर्वथा बन्धस्यैवाभावेन ध्वंसवत्त्वार्थकमुक्तशब्दवाच्यत्वमेव न स्यादित्यत आह ॥ मुक्तस्या-पीति ॥ एतन्नाम बन्धराहित्यात्तदत्यन्ताभावाधिकरणत्वाद्युक्तम् । असौ दिवाकरो दीप्यते इत्युक्तेः सार्वकालिकदीप्तेरेवार्थो न त्वन्धकारध्वंसवत्त्वम् । नित्यनिवृत्तान्धकारत्वात्तद्वदित्यर्थः ॥ वृक्षादीति ॥ वृक्षो दीप्यत इत्युक्तेर् अन्धकारध्वंसवत्त्वस्यार्थतया प्रतीयमानत्वेन तद्दीप्तेः कादाचित्कत्वं प्रतीयते । एवं मुक्त इति नाम कादाचित्कतया न वाच्यम् । बन्धध्वंसस्य कदाचिज्जातत्वादिदं नामेति न वाच्यम् । कुत इत्यत उक्तम् ॥ बन्धाभावादमोक्षत इति ॥ मोक्षो ध्वंसः । तथा च बन्धरूपप्रतियोगिनोऽभावादमोक्षतो मोक्षशब्दवाच्यध्वंसायोगादित्यर्थः । वृक्षादिदीप्तिवत्कादाचित्कतया मुक्त इति नाम जीव एव युक्तमित्याशयेनाह ॥ जीवस्येति ॥ बन्धान्मोक्षो बन्धमोक्षो बन्धध्वंस इत्यर्थः ॥ ४ ॥
प्रमेयचन्द्रिका
एवं जीवभिन्नस्येश्वरस्य बन्धाद्यभावमुपपाद्य बद्धो मुक्त इत्याख्येत्यत्र यज्जीवानामेव बन्धादिकमिति संक्षेपेणोक्तं तद्विवरणम् एकस्यैवेति ॥ जीवस्योक्तमंशत्वं घटयति ॥ भिन्नांशस्येति ॥ स्वरूपांशो विभिन्नांश इति द्वेधांश इष्यते इत्युक्तो जीवो भिन्नांश इति नानुपपत्तिरिति भावः । एतेन एके मुख्याऽन्यकेवला इत्यभिधानान्मूले एकस्येत्यस्य तदन्यस्येत्यर्थः सूचितो भवति । अत एव तयोरन्य इति श्रुतेरर्थमेकस्तयोरिति वक्ष्यति ॥ जीवस्य भिन्नांशत्वे अभिन्नांशः क इत्यत आह ॥ अभिन्नांशा इति ॥ उक्तमर्थं दृष्टान्तेनोपपादयति ॥ तेजस इति ॥ यथा तेजोदेवतायाः कालाग्निः स्वरूपांशस्तथा मत्स्याद्या हरेः स्वरूपांशाः । यथा च जलादिगत-प्रतिबिम्बखद्योताद्यभिमानी तेजोदेवता अग्नेरत्यन्तभिन्नः । अभिमानिदेवतापेक्षयैतदिति । प्रकाशादिवन्नैवं पर इति सूत्रभाष्योक्तेः । तथा जीवा भिन्नांशका इत्यर्थः ।
नित्यबद्धो नित्यमुक्त एक एवेत्युक्तशङ्कानिवारणाय जीवेशयोरत्यन्तभेदं साधयितुं तत्प्रतिज्ञापरे अथ बद्धस्य मुक्तस्येति श्लोके संसारबद्धस्य तस्मान्मुक्तस्येति भाति । तच्च सुपर्णावेतावित्युत्तर-ग्रन्थविरुद्धो ऽतो मुक्तस्येत्येतद्विष्णोरिति व्याख्यातुं भगवतो मुक्तशब्दवाच्यत्वे न मे मोक्ष इत्युक्तविरोध इत्यतः प्रमाणेन विरोधं परिहरति ॥ मुक्तस्येति ॥ मुक्तस्य मम इत्यनेन मुक्तस्येति मूलपदस्यार्थ उक्तो भवति । कथंचन केनापि प्रकारेण बन्धाभावात् । सति हि बन्धे तस्मान्मोक्षो वक्तव्यः । सर्वथा बन्धरहितस्य तन्निरूपितमोक्षो न युज्यत इति भावः । तर्हि मुक्तस्येति कथमुक्ति-रित्यत आह ॥ मुक्त इत्यपीति ॥ नित्यं दीप्यमानसूर्यादिविषये दीप्यतेऽसौ दिवाकर इति कादा-चित्कव्यवहारो यथा भवेद्धरेर्नित्यं बन्धराहित्यमपेक्ष्य मुक्त इत्यपि नामोपपद्यते । न तु वृक्षादिदीप्ति-वत् । तमसा पूर्वमप्रकाशमानो वृक्षो यथा सूर्योदयाद्यनन्तरमेव दीप्यत इति । तत्र कादाचित्क-व्यवहारतन्मुक्तत्वमपि कादाचित्कतया न वाच्यम् । कुतः बन्धाभावान्निमित्तादमोक्षतस्तन्निरूपित-मोक्षस्याभावादित्यर्थः । नैवं जीवस्यापि मुक्तत्वं मन्तव्यम् । तस्य संसारबन्धसद्भावेन कादाचित्कमोक्षस्योपपन्नत्वादित्याशयेनाह ॥ जीवस्येति ॥ ४ ॥
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥
तात्पर्यम्
मुक्तस्य विष्णोः । ‘नित्यशुद्धबुद्धमुक्तसत्यसुखाद्वयप्रत्यगेक पूर्ण इत्यतः पदान्वयादि’त्यादिवचनात् । बद्धो जीवः । ‘बद्धा जीवा इमे सर्वे पूर्वबन्धसमन्वयात् । नित्यमुक्तत्वतो विष्णुर्मुक्तनामा सदोदितः । अबद्धत्वादमोक्षोऽपि दीप्यतेऽसौ रविर्यथे’ति ब्रह्मसंहितायाम् ॥ ५ ॥
पदरत्नावली
एकस्मिन् भोगायतने स्थितयोर्जीवपरयोरेकस्य जीवस्यैव तौ स्त इति यदुच्यते तत्र विवेकज्ञानं कथमत्राह– अथेति । यतो जीवस्यैव बन्धमोक्षौ अथ तस्माद् बद्धस्य जीवस्य मुक्तस्य विष्णोर्वैलक्षण्यम् अस्वातन्त्र्यस्वातन्त्र्यादिलक्षणं ते तुभ्यं वदामीत्यन्वयः । मुक्तनामत्वं च हरेरेव मुख्यं नित्यशुद्धमुक्तादिपदानां हरावेवान्वयादिति पुरुषोत्तमध्यानवचनात् सिद्धम् । ‘‘मुक्तस्य तु न मे मोक्षो बन्धाभावात् कथञ्चन । मुक्त इत्यपि नामैतद् दीप्यतेऽसौ दिवाकरः । इतिवद् बन्धराहित्यान्नतु वृक्षादिदीप्तिवत् । कादाचित्कतया वाच्यं बन्धाभावदमोक्षतः । जीवस्य बन्धमोक्षस्तु मत्प्रसादात् कदाचन’’ इति तत्वोदयवचनाच्चोक्तार्थसिद्धिः । बद्धस्य जीवस्य । ‘‘बद्धा जीवा इमे सर्वे पूर्वबन्धसमन्वयात् । नित्यमुक्तस्ततो विष्णुर्मुक्तनामा सदोदितः । अबद्धत्वादमोक्षोपि दीप्यतेऽसौ रविर्यथा’’ इति स्पष्टप्रमाणम् । सति वैलक्षण्ये बद्धाबद्धव्यवस्था वक्तुं शक्या, तदेव कथमित्यत उक्तं विरुद्धधर्मिणोरिति ॥ ५ ॥
श्रीनिवासतीर्थीया
एवं जीवेश्वरयोर्जीवानां भेदसद्भावाद्बद्धमुक्तव्यवस्थायाश्च सद्भावादेकजीव-वादोऽयुक्त इत्यदेहिनो भगवतो न बन्ध इत्युपपाद्य विरुद्धधर्माधिकरणत्वाच्चावश्यं भेद एव जीवेश्वरयो-र्वाच्य इत्याशयेन प्रकरणान्तरमारभते ॥ अथेति ॥ विरुद्धधर्मिणोर्विरुद्धधर्मयुक्तयोः । एकधर्मी देहः । एकेत्यनेन द्वासुपर्णेति श्रुतिस्थसमानशब्दार्थ उक्तो वेदितव्यः । अत्र श्लोके स्थितं मुक्तस्येति पदमनूद्य व्याचष्टे ॥ मुक्तस्येति ॥ विष्णोस्तच्छब्दवाच्यत्वं कुत इत्यतो देवीमीमासासूत्रं तत्र प्रमाणत्वेनोदाहरति ॥ नित्येत्यादिना ॥ इत्यत इत्येतैः पदैर्भगवानेव वाच्यः । कुत इत्यत उक्तम् ॥ पदान्वयादिति ॥ एतेषां पदानां यो यौगिकार्थस्तस्य भगवत्येव सम्यगन्वयात्सम्बन्धात् । शक्तितात्पर्यलक्षणसम्बन्धसद्भावादिति वाऽर्थः । बद्धशब्दार्थमाह ॥ बद्धो जीव इति ॥ विष्णु-जीवयोर्मुक्तबद्धशब्दवाच्यत्वं प्रमाणेनोपपादयति ॥ बद्धा जीवा इति ॥ पूर्वबन्धेति ॥ अनादिकालीनबन्धेत्यर्थः । नित्यमुक्तत्वतो बन्धात्यन्ताभाववत्त्वादित्यर्थः । ननु यदि भगवतो मुक्तशब्दवाच्यत्वं तर्हि न मे मोक्ष इति मोक्षाभावः कथमुक्तस्तेनामुक्तत्वलाभादित्याशङ्कायां तत्रार्थभेदमाह ॥ अबद्धत्वादमोक्षोऽपीति । सर्वथा प्रतियोगिभूतबन्धशून्यत्वादमोक्षो बन्धध्वंसशून्य इत्यर्थः । अत्र दृष्टान्तः ॥ दीप्यत इति ॥ तत्र यथांऽधकारध्वंसो नार्थस्तद्वत् । नित्यमुक्तत्वत इति बन्धाभावस्य सार्वकालिकत्वविवक्षया मुक्तनामवत्त्वमुक्तम् । तत्र वाऽयं दृष्टान्तः ।
सार्वकालिकदीप्तिरेव दीप्यत इत्यस्यार्थो न कादाचित्की यथेत्यर्थः । यद्वा । अबद्धत्वा-द्बन्धरहितत्वादमोक्षोऽपि बन्धध्वंसशून्योऽपि नित्यमुक्तत्वतो बन्धात्यन्ताभाववत्त्वान्मुक्तनामा । तत्र दृष्टान्तः ॥ दीप्यत इति ॥ तत्र यथाऽन्धकारध्वंसो नार्थः किंतु सार्वकालिकी दीप्तिरेव तद्वदित्यर्थः
॥ ५ ॥
दुर्घटभावदीपिका
हे तात । कस्मिन्धर्मणि शरीरे स्थितयोर्विरुद्धधर्मिणोर्वैलक्षण्यं ते वदामि । विरुद्धधर्मिणौ कौ कथं तद्धर्मविरुद्धत्वमित्याशङ्कापरिहारार्थं विरुद्धधर्मिणोरित्युक्तं विवृणोति ॥ बद्धस्येति । बद्धस्य जीवस्य । अथशब्दः समुच्चये । मुक्तस्य नित्यमुक्तस्य विष्णोश्च वैलक्षण्यं वदामीति । एतेन बद्धस्य मुक्तस्येत्येतद्विरुद्धधर्मिणोरित्यनेनान्वितमिति दूषणं पराकृतम् । वैलक्षण्या-मित्यादेरावृत्तिमभ्युपेत्य विरुद्धधर्मिणोरित्येतद्विवरणार्थं बद्धस्येतत्प्रवृत्तमित्यङ्गीकारात् ॥ ५ ॥
प्रमेयचन्द्रिका
यदर्थमिदं प्रमाणोदाहरणं तदिदानीमाह ॥ मुक्तस्य विष्णोरिति ॥ यत एवं तत्वोदयाख्ये ग्रन्थे हरेर्मुक्त इति नामाङ्गीकारे विरोधाभाव उपपादितस् तस्मान्मुक्तस्येत्यस्य विष्णोरित्यर्थ इत्यर्थः । विष्णौ मुक्तशब्दस्य सांकर्षणसूत्रे प्रयोगं च दर्शयति ॥ नित्येति ॥ नित्यः सर्वकालव्याप्तः शुद्धो निर्दोषः । बुद्धो ज्ञानरूपः । मुक्तः सदा बन्धरहितः । सत्यः निर्दुःखनिरतिशयनित्यानन्दानुभवरूपः । सत्यं परं धीमहीत्यत्रैवमेव श्रीमदाचार्यैः सत्यशब्दार्थोक्तेः । अद्वितीयः समाधिकरहितः । प्रत्यक् सर्वावान्तरः । एकः स्वगतभेदवर्जितः । आनन्दादिगुणैः पूर्णः। इत्यतो हेतोः सर्वपदानामेवंविधविशेषवाचकतया हरावन्वयात्सम्बन्धादिति दैवीमीमांसासूत्रार्थः ॥
बद्धः संसारावस्थायामेव । प्रतीतेर्मुक्तसाधारण्येन जीवोऽत्र विवक्षित इत्याशयेनाह ॥ बद्धो जीव इति ॥ ननु बद्धस्य मुक्तत्वायोगात्कथं बद्धशब्दो जीवसामान्यपर इत्याशङ्क्य प्रमाणेन परिहरति ॥ बद्धा इति ॥ मुक्तानामपि भूतपूर्वगत्या बद्धशब्दवाच्यत्वं सम्भवतीति भावः । नैवं हरेः पश्चान्मुक्तेर्मुक्तशब्दवाच्यत्वमित्याह ॥ नित्येति ॥ विष्णुर्नित्यमुक्तत्वात्सदा नियमेन शास्त्रेषु मुक्तनामा उदितः । तर्हि हरिरमोक्ष इति क्वचिदुक्तेः का गतिरित्यत उक्तम् ॥ अबद्धत्वादिति ॥ व्याख्यातप्रायमेतत् । तदुभयत्र दृष्टान्तमाह ॥ दीप्यत इति ॥ वृक्षो दीप्यते यथेति ग्राह्यम् । एतदपि प्रागुपपादितम् । मूले एकधर्मिणीत्येकस्मिन्देह इत्यर्थः ॥ ५ ॥
सुपर्णावेतौ सदृशौ सखायौ यदृच्छया कृतनीडौ च वृक्षे ।
एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥
तात्पर्यम्
‘अनत्तृत्वं हरेर्दुःखानत्तृत्वादुच्यते सदा । विषयान्विनापि पूर्णत्वा-त्स्वरूपानन्दभोगिनः । शुभमत्त्येव हि सदा सर्वत्रापि स्थितं विभुः । स्वादोरदनवद्ध्यत्ति जीवोऽस्वाद्वपि यत्सदा । अनारतं पारवश्यात्स्वाद्वत्तीति ततः श्रुति’रिति भोगनिर्णये ॥ अस्वादु स्वादुवध्द्यत्ति जीवो नैव जनार्दनः । अतो नात्तीतिवचनमश्नतोऽपि सुखं सदे’ति परभोगे । साशनानशनत्वेन नरदेवौ यथोदितौ । अत्तिं विनाऽप्यदौर्बल्यात्तथानत्तिर्हरेर्भुज’ इति स्वाभाव्ये । तदेव प्रोक्तं निरन्नोऽपि बलेन भूयानिति । स्वयं त्वत्त्येव तथापि नादननिबन्धनं तस्य बलमित्यर्थः । ‘यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाऽभि-स्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश । यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेदे’त्यादिवाक्यशेषात् । वृक्षे स्थित्वा मध्वदः सुपर्णा यस्मिन्नश्नन्ति । सुपर्णे निविशन्ते तदाधारत्वेन सुवते च । तस्यैव सुपर्णस्य स्वादु पिप्पलम् । अन्यस्तु स्वादु-वदश्नाति न स्वादु । यावत्पितरं परमात्मानं न वेदेत्यर्थः । ‘सुपर्णौ द्वौ शरीरस्थौ जीवश्च परमस्तथा । पारवश्यादनाज्जीवस्तत्रात्तीति श्रुतौ श्रुतः । स्ववशेनादनाद्विष्णुर्नात्तीत्यत्रापि संश्रुतः । स एव हि शुभस्यात्ता जीवोऽत्तास्यैव वेदनादि’ति कूर्मसंहितायाम् ॥ ‘सर्वं वा अत्तीति तददितेरदितित्वम्’ । ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः’ । ‘अत्ता चराचरग्रहणात्’ । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव चे’त्यादेश्च ॥ ६ ॥
पदरत्नावली
तत्र प्रथममेकधर्मिणीत्युक्तं विवृणोति सुपर्णाविति । पॄपालनपूरणयोरिति धातोः सुष्ठु पालकत्वात् पूर्णत्वाद् हरिः पाल्यत्वादपूर्णत्वाच्च जीवोपि सुपर्ण इत्युच्यते । अयं च विरुद्धधर्मेष्वन्तर्भूयते । चिदानन्दत्वेन सदृशौ वृक्षसमानधर्मे देहे स्थितत्वात् सखायौ । यदृच्छया अदृष्टप्रेरकहरीच्छया । अथ विरुद्धधर्मानाह– एक इति । पिप्पलं कर्मफलम् । जीवादन्य हरिर्निरन्नोपि भोगरहितोपि बलेन भूयान् पुष्टः । अदननिमित्तं बलं नास्तीत्यर्थः । आत्मानं स्वमन्यं जीवं च । अन्धो भगवद्विषयज्ञानविधुरः । बद्धो भगवदधीनः । विद्यामयः स्वपरगताखिल-विशेषविषयकज्ञानस्वरूपः । अनेन श्लोकद्वयेन द्वासुपर्णा सयुजा सखायेत्यादिश्रुतिर्विवृता । अत्रानश्नन्नन्यो अभिचाकशीतीत्यादौ यदशनाद्यभावेन हरेरवस्थानमुच्यते तद्दुःखाद्यनशनमेव नतु सुखानदनमित्यादि सर्वम् ‘‘अनत्तृत्वं हरेर्दुःखानत्तृत्वादुच्यते सदा । विषयान् विनापि पूर्णत्वात् स्वरूपानन्दभोगिनः । सुखमत्त्येव हि सदा सर्वत्रापि स्थितं विभुः । स्वादोरदनवद् योऽत्ति जीवोऽ-स्वाद्वपि यत् सदा । अनारतं पारवश्यात् स्वाद्वत्तीति ततः श्रुतिः’’ इति, ‘‘अस्वादु स्वादुवद् योऽत्ति जीवो नैवं जनार्दनः । अतो नात्तीति वचनमश्नतोपि शुभं सदा’’ इति बहुप्रमाणसिद्धम् । तदेवात्रोक्तं निरन्नोपि बलेन भूयानिति ।
स्वयं त्वत्त्येव, तथापि नादननिबन्धनं तस्य बलमिति । कुतः । यत्रा सुपर्णा अमृतस्य भागमनिमेषा विदथाऽभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश । ‘‘यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद् यः पितरं न वेद’’ इत्यादिवाक्यशेषात् । ‘‘वृक्षे स्थित्वा मध्वदः सुपर्णा यस्मिन्ननश्नति निविशन्ते, तदाधारत्वेन सुवते च, तस्यैव सुपर्णस्य स्वादु पिप्पलम् । अन्यस्तु स्वादुवदश्नाति, न स्वादु । यावत् पितरं परमात्मानं न वेद’’ इति । ‘‘सुपर्णौ द्वौ शरीरस्थौ जीवश्च परमस्तथा । पारवश्यादनाज्जीवस्तत्रात्तीति श्रुतौ श्रुतः । स्ववशेनादनाद् विष्णुर्नात्तीत्यत्तापि सन् श्रुतः । स एव हि शुभस्यात्ता जीवोऽत्तास्यैव वेदनात्’’ इति वचनादत्र जीवपरमात्मानावेवोच्येते न सामान्यपक्षिणाविति ज्ञायते । ‘‘सर्वं वा अत्तीति तददितेरदितित्वम्, यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः, अत्ता चराचरग्रहणात्, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’’ इत्यादेश्च । अत्तृत्वस्य लिङ्गत्वेनोक्तत्वाद् लिङ्गस्योभयसम्प्रतिपन्नत्वेन निर्णयहेतुत्वाद् हरेर्न सर्वात्मनाऽ-नत्तृत्वमत्रोच्यते । किन्तु अशुभानत्तृत्वेनानत्तृत्वश्रुतेः कृतार्थत्वेन प्रामाण्यसम्भवाच्छ्रुतिशरणानामस्माकं न कापि क्षतिरिति ॥ ६ ॥
श्रीनिवासतीर्थीया
विरुद्धधर्मिणोरित्युक्तमुपपादयितुमत्तृत्वानत्तृत्वरूपविरुद्धधर्मकथनपरां द्वासुपर्णेत्यादि श्रुतिमर्थतोऽनुवदति ॥ सुपर्णावित्यादिना ॥ सुष्टु परमानन्दरूपौ । सयुजावित्यस्यार्थः ॥ सदृशाविति ॥ समानं वृक्षं परिषस्वजात इत्यस्यार्थमाह ॥ यदृच्छयेति ॥ कृतनीडौ कृताश्रयौ । तयोरन्यः पिप्पलं स्वाद्वत्तीत्यस्यार्थमाह ॥ एकस्तयोरिति ॥ ननु निरन्न इत्युक्तमनत्तृत्वं हरेः कथम् । अत्ता चराचरग्रहणात् । गुहां प्रविष्टावित्यादि सूत्रे ऋतं पिबन्ताविति श्रुतौ चात्तृत्वोक्ते-रित्यतोऽनत्तृत्वोक्तेरर्थमाह ॥ अनत्तृत्वमिति ॥ प्रकारान्तरेणानत्तृत्वमुपपादयति ॥ विषयानिति ॥ तथा च पूर्णत्वेन विषयसापेक्षात्तृत्वाभावादनत्तृत्वमित्यर्थः । विषयसापेक्षत्वाभावे कथं पूर्णत्वमत आह ॥ स्वरूपेति ॥ प्रकारान्तरेणात्तृत्वशब्दार्थमाह ॥ शुभमिति । शुभविषयमित्यर्थः । कर्मपल-भोक्तृत्वं नाम जीवकर्मानुसारेण प्राप्तं यत्फलं शुभविषयरूपं तदेव जीवे स्थित्वा तदिन्द्रियमधिष्ठाय तेन सह भुंक्ते । तेन च जीवस्याप्राप्तं सुखं जन्यते ईश्वरस्य तु व्यज्यत इत्यादि द्रष्टव्यम् । अत एव तत्त्वप्रकाशिकायां गुहां प्रविष्टावित्यधिकरणे भगवतः कर्मफलभोक्तृत्वं प्रसाध्यान्ते श्रोत्रं चक्षुरिति प्रमाणमुदाहृतम् । तत्रान्ते विषयानुपसेवत इत्युक्तेः । अत एव गीताभाष्ये सप्तमाध्याये सुखरूपस्य भोक्तृत्वादित्येतत्सुखसाधनस्य भोक्तृत्वादिति टीकाकारैर्व्याख्यातम् । तस्मात्कर्मफलं सुखमेवाश्नातीत्य-साम्प्रदायिकमिति द्रष्टव्यम् । तथा चाशुभानत्तृत्वपराऽनत्तृत्वोक्तिरिति भावः । सर्वत्रापि जीवेषु सर्वत्रापीन्द्रियेषु स्थित्वा सर्वत्रापीन्द्रियेष्वभिमुखतया तद्भोग्यत्वेन स्थितं शुभं विषयमत्तीति योजना । जीवेऽत्तृत्वं व्याख्याति ॥ स्वादोरिति ॥ यद्यस्माज्जीवोऽनारतं प्रत्यहं परवशत्वादस्वाद्वेव स्वादोः पदार्थस्यादनवदत्तीति प्रसिद्धम् । ततस्तयोरन्यः पिप्पलं स्वाद्वत्तीति श्रुतिरुपपन्नेत्यर्थः । अनारतं पारवश्यादिति जीवस्य पारवश्येनात्तृत्वोक्त्या भगवति पारतन्त्र्येणात्तृत्वाभावोऽनत्तृत्ववचनार्थ इति सूचितं ध्येयम् । अत्रैव प्रमाणान्तरमाह ॥ अस्वाद्विति ॥ सुखं सुखयतीति व्युत्पत्त्या सुखसाधन-मित्यर्थः । निरन्नोऽपि बलेन भूयानित्येतद्योजयितुं प्रमाणमाह ॥ साशनेति ॥ नरश्च देवश्च । जात्यैकवचनम् । साशनानशने अभीति पुरुषसूक्ते साशनशब्देन मनुष्या उक्ताः । अत्तिं विना दौर्बल्यात् । अदनाभावनिमित्तकदौर्बल्यसद्भावात् । देवा अनशना उक्ताः । अत्तिं विनाऽप्य-दौर्बल्याददनाभावनिमित्तकदौर्बल्याभावादित्यर्थः । एवं भुजः शुभविषयभोक्तुरपि हरेरनत्तिरनत्तृत्वं च । तथा चादनाभावनिमित्तकदौर्बल्याभावाद्युक्तमित्यर्थः । एतत्प्रमाणानुसारेण मूलं योजयति ॥ तदेवेति ॥ अत्तिं विनाऽप्यदौर्बल्यादित्युक्तमेवेत्यर्थः । तथा च निरन्नोऽप्यत्तिं विना स्थितोऽप्यनत्ताऽपि बलेन भूयान् दुर्बलो न भवतीत्यर्थः । अदनाभावनिबन्धनदौर्बल्यशून्य इत्यर्थः । एतत्तात्पर्यमाह ॥ स्वयं त्वत्त्येवेत्यादिना ॥ तथाऽप्यत्तृत्वेऽपि ।
स्वयं त्वत्त्येवेति भगवतोऽत्तृत्वमुक्तं तत्र वाक्यशेषं प्रमाणत्वेनाह ॥ यत्रेत्यादिना ॥ ततश्चायम् ऋग्द्वयार्थः । सुपर्णाः सुष्टुपरमानन्दरूपाः । अनिमेषं कुर्वाणा इति शेषः । तथा च निमेषमकुर्वाणा अनिमिषा देवा यत्र विदथा यज्ञे । सुपां सुलुगिति सप्तम्या आकारः । यथोक्तमृग्भाष्यटीकायाम् । त्वमग्ने वृजिनवर्तनिं नरन् सक्मन् पिपर्षि विदथे विचर्षण इत्येतद्व्याख्यानावसरे विदथ इति यज्ञनामेति । यस्मिन् यज्ञेऽमृतस्य सोमस्य भागमुद्दिश्याभिस्वरन्त्यभिप्रयन्त्यागच्छन्तीत्यर्थः । यथोक्तं निरुक्ते । अभिस्वरन्तीति वाऽभिप्रयन्तीति वेति । अत्रास्मिन् यज्ञे इमं प्रति विश्वस्येन ईश्वरः । यथोक्तं निरुक्ते । इनो विश्वस्येतीश्वरः सर्वेषामिति । भुवनस्य गोपा इन्द्रियसमुदायस्य गोपयिता रक्षकः । यथोक्तं निरुक्ते । भुवनस्य गोपा इतीन्द्रियाणां गोपयिताऽत्मेति । धीरो धीमान् हरिर्मा मदीयं मया दीयमानं पाकं पक्तव्यम् । यथोक्तं निरुक्ते । स मा धीरः पाकमत्राविवेशेति । धीरो धीमान्पाकः पक्तव्यो भवतीति । यद्धविस्तदुद्देश्याविवेशागतवानित्यर्थः । अनेन स्वस्य हविर्भोक्तृत्वाभावे तदुद्दिश्य यज्ञं प्रत्यागमनासम्भवेन तदन्यथाऽनुपपत्त्या भोक्तृत्वं ज्ञायते । तदनङ्गीकारे यत्रासुपर्णेति योऽयं सुपर्णेत्यादिवाक्यशेषस्तद्विरोधः स्यादिति भावः ।
यस्मिन्नित्यनेनापि भगवतोऽत्तृत्वं स्पष्टमुच्यते । देहाख्ये वृक्षे स्थित्वा मध्वदः । मध्वित्यानन्द उद्दिष्ट इति वचनान्मध्वानन्दम् अदन्तीति मध्वदः । मध्वच्छब्दस्य प्रथमाबहुवचनमेतत् । विश्वे सुपर्णाः सर्वे जीवा यस्मिन् अश्नन्ति दुःखादिकमश्नन्ति भगवति निविशन्ते नितरां प्रविष्टा भवन्ति । यस्मिन् सुवते च यदाधारत्वेन सोमं कण्डयन्ति यज्ञं कुर्वन्तीत्यर्थः । योऽस्य जगतोऽग्रे वर्तते तस्यैतस्यैव स्वादु पिप्पलमाहुः । यो नशद्भगवदज्ञानेन नाशं प्राप्नुवानो जीवस्तस्य तत्स्वादु पिप्पलं यावत्पर्यन्तं पितरं परमात्मानं न वेद तावत्पर्यन्तं नो, किं नाम तावत्पर्यन्तमस्वाद्वेव स्वादुत्वेनाश्नाति । यदा परमात्मानं वेद तदा स्वादु पिप्पलं शुभभोगो मुक्तौ भगवत्ज्ञानप्रसादाद्भवतीति । जीवो ह्यस्यैव वेदनादिति प्रमाणानुसारेण द्रष्टव्यम् । यस्मिन्वृक्ष इति श्रुतिं स्ववाक्येन व्याख्याय प्रमाणेनापि व्याचष्टे ॥ सुपर्णाविति ॥ तत्र शरीरस्थजीवपरयोर्मध्ये । स्ववशेन स्वातन्त्र्येणादनान्निमित्तादत्रापि विष्णुर्नात्तीति संश्रुत इत्यपि योज्यमिति सूचितम् । पितरं न वेदेति श्रुत्यभिप्रेतमाह ॥ जीवोऽत्तीति ॥ अस्य विष्णोर्वेदनात्ज्ञानात् । तदनन्तरं मुक्तौ शुभस्यैवात्ता जीवो भवतीत्यर्थः । ननु यदि भगवतोऽत्तृत्वमेव प्रामाणिकं स्यात्तदनत्तृत्वोक्तेर्गतिकथनं युक्तं स्यात्तदेव कुत इत्यत आह ॥ सर्वमिति ॥ अदितेर्भगवतोऽदितित्वमदितिशब्दप्रवृत्तिनिमित्तम् । ब्रह्म ब्राह्मणजात्यभिमानी ब्रह्मा । क्षत्रं क्षत्रजात्यभिमानी वायुस्तयोरदनत्वोक्त्या तस्यात्तृत्वं लभ्यते ॥ ६ ॥
प्रमेयचन्द्रिका
प्रतिज्ञातं वैलक्षण्यं श्रुत्योच्यते ॥ सुपर्णाविति ॥ सुपर्णौ सुष्टु परमानन्दरूपौ ज्ञानानन्दादिगुणात्मकतया किञ्चित्सदृशौ । ईश्वर उपकारको जीवस्तूपकार्य इति । उपकार्युपकारकभावापन्नत्वेन सखायौ । यत्रान्यहेत्वभावः स्याद् ईश्वरेच्छादिना विना । तदिच्छा हि यदृच्छा स्यादित्युक्तेः केवलेश्वरेच्छादिकं यदृच्छेत्युच्यते । तयोर्देहाख्ये वृक्षे कृतनीडौ कृतवसती बभूवतुः । तर्योर्मध्ये एक एके मुख्यान्यकेवला इति वचनादीश्वरादन्यो जीवः पिप्पलान्नमनित्या-सारतयाऽश्वत्थफलसदृशं कर्मफलरूपमन्नं खादति । तदन्य ईश्वरो निरन्नोऽपि बलेन भूयानधिक इत्यर्थः ॥
नात्र सर्वस्य अदनाभाव उच्यते किंत्वशुभानतृत्वमिति वक्तुं तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीतीति व्याख्येयश्रुतौ अदनाभावप्रतीतेः कथमतृत्वमुच्यत इत्यतस्तां श्रुतिं प्रमाणेन व्याचष्टे ॥ अनतृत्वमिति ॥ अनश्नन्निति श्रुतौ निरन्नत्वं हरेः सदा दुःखानतृत्वादेवोच्यते । अत्र दुःखशब्दोऽशुभमात्रवचनः । अनश्नन्नित्यशुभापेक्षयेत्याथर्वणभाष्योक्तेस् त्वमाह । प्रकारान्तरेणानतृत्वं विषयानिति ॥ पूर्णत्वादनतृत्वमिति सम्बन्धः । लोके विषभोगे सुखलाभादपूर्णोऽयं भवति । अतः स्वपूर्त्यर्थकभोगवत्वादत्ता जीवः । न तु भगवान् । तस्य स्वरूपानन्दभोगेनैव पूर्णत्वात् । अतः सर्वविषयभोक्ताऽपि स्वस्य पूर्णताप्रयोजकादनराहित्याद्धरिरनश्नन्नित्युच्यत इति भावः । सर्वथाऽनशनमेव किं न स्यादित्यत आह ॥ शुभमिति ॥ हीत्यनेन अत्ता चराचरग्रहणाद्गुहां प्रविष्टावात्मानौ हि तद्दर्शनाद् ऋतं पिबन्तौ विषयानुपसेवत इत्यादिभिरशनस्य प्रमितत्वं सूचयति । अतोऽनशनं प्रमाणाविरुद्धमिति भावः । ननु सर्वानृतेपि ब्रह्मणोऽशुभानशनेनानतृत्वव्यपदेशे जीवस्यापि तथा स्यात् । स्वाद्वत्तीति तस्यापि शुभाशनोक्तेरित्यत आह ॥ स्वादोरिति ॥ यस्माज्जीवः सदा अस्वाद्वपि वस्तु स्वाद्वोदनवदत्ति । अस्वाद्वेव स्वादुत्वेनात्तीति यावत् । तत्कुतो ऽनारतं सर्वदा परवशत्वेन स्वाद्वशनालाभात्प्रत्युतास्वादून्येव स्वादुत्वेनात्तीति भावः । अतः किमित्यत आह ॥ स्वाद्वत्तीति ॥ यत एवमस्वाद्वेव स्वादुत्वेनात्ति । ततः कारणादेव स्वाद्वत्तीति श्रुतिः प्रवृत्ता । न त्वशुभानशनविवक्षयेति भावः ॥ जीवशयोरज्ञानानशनोक्तिघटने प्रमाणान्तरमाह ॥ अस्वाद्विति ॥ विषयान्विनापि पूर्णत्वादित्युक्तार्थे मानान्तरं पठति ॥ साशनेति ॥ साशनानशने अभीति पुरुषसूक्ते देवमनुष्ययोरुभयोरपि भोक्तृत्वेऽपि अशनाभावे दौर्बल्याभिप्रायेण साशना इति मनुष्यानुक्त्वा अत्तिं विनापि दौर्बल्याभावादनशना इति देवा उक्ताः । तथा अत्तिं विनाऽदौर्बल्यादेव भुजः भुंक्ते इति भुक् तस्य हरेरनत्तिरुक्ता अनश्नन्नित्यादिश्रुतावित्यर्थः ।
यदर्थमनशनश्रुतेर्गतिरुक्ता तदिदानीमाह ॥ तदेवेति ॥ यदनश्नन्नित्यत्र दुःखानतृत्वं स्वस्य पूर्णतापादकभोगराहित्यम् । अत्तिं विनाऽप्यदौर्बल्यं चानशनार्थतया विवक्षितम् । तदेव निरन्नोऽपि बलेन भूयानित्यत्र निरन्नशब्दार्थतयोक्तमित्यर्थः । कथमेतदनेन वाक्येन लभ्यत इत्यत आह ॥ स्वयं त्वत्येवेति ॥ निरन्नोऽपीत्यपिशब्दस्यार्थः स्वयं त्वत्त्येव तथापीति । बलेन भूयानित्यस्यार्थो नादननिबन्धनं तस्य बलमिति । तथा च निरन्नोऽपि स्वस्य बलपूर्त्यर्थकान्नरहितोऽपि स्वभावसिद्ध-बलेनैव भूयानिति मूलार्थ इत्युक्तं भवति ।
ननु निरन्न इत्यस्य प्रातीतिकः सर्वथाऽतृत्वाभाव एवार्थः किं न स्यात् । श्रुतावप्यनशनस्यैव स्पष्टं प्रतीतेरित्यतो हरेः सर्वथाऽतृत्वांङ्गीकारे वाक्यशेषविरोध इत्याशयेनोत्तरम् ऋग्द्वयं पठति ॥ यत्रा सुपर्णा इति ॥ सुपर्णाः सुष्टु परमानन्दरूपा जीवा अमृतस्य मुक्तेर्भागं स्वयोग्यां मुक्तिमिति यावत् । उद्दिश्य अनिमेषं निमेषकालव्यवधानं विना सर्वदा यस्मिन्हरौ विषये विदथा सुपां सुलुगिति दीर्घः विदथेषु । ज्ञानादिरूपक्रियायज्ञेषु । सक्मन् पिपर्षि विदथे विचर्षण इति ऋचि सद्विद्याख्ये विदथे सम्प्रजात इति भाष्यस्य टीकायां विदथे इति यज्ञनामेति ह्युक्तम् । अभिस्वरन्ति स्तुवन्ति तपः कुर्वन्ति च । स्वृ शब्दोपतापयोरिति धातोर् बाह्यान्तरयज्ञकाले तदुपयुक्तां स्तुतिं तपोविशेषं कुर्वन्तीति यावत् । यश्च इनः स्वामी विश्वस्य भुवनस्य विश्वस्य वायोर्भुवनस्य चेति गोपा रक्षकः । गुप् रक्षण इति धातोः । स धीरः धैर्यसंपन्नो हरिः पाकं यज्ञदानपरिपाकं तत्फलमिति यावत् । उद्दिश्य भोक्तुमिति शेषो वा । अत्र शरीरे उक्तरूपयज्ञकर्त्तारं मा मामाविवेशेति प्रथममन्त्रार्थः ॥
द्वितीयमन्त्रं दुर्गमार्थत्वात्स्वयमेव व्याचष्टे ॥ वृक्षे स्थित्वेत्यादिना ॥ वृक्ष इत्यधिकरण-सप्तम्यभिप्रायः स्थित्वेति ॥ मध्वद इति जीवानामदनमुक्तं भगवतस्तस्य वैलक्षण्योपपादनस्य प्रकृतत्वात्तद्विरुद्धलक्षणतया भगवन्तमुपस्था(पाद)पयितुमनश्नन्नितीति । इदित्यस्या एवेति । द्वा सुपर्णा इति सुपर्णपदेन हरेः प्रस्तुतत्वात्प्रकृतपरामर्शकस्य तस्येत्यस्य सुपर्णस्येत्यर्थ उक्तः । ननु पिप्पलं स्वाद्वत्ति मध्वद इति च जीवस्यापि स्वादुपिप्पलाशनोक्तेर्हरेरेव स्वाद्वत्तीति स्वाद्वशनं कथमुच्यत इत्यतस्तन्नो इत्यस्याभिप्रायमाह ॥ यावत्पितरमिति ॥ यावत्पितरं परमात्मानमपरोक्षतो न वेद तावत्पर्यन्तं स्वादु नात्तीत्यर्थ इत्यर्थः ॥ अपरोक्षज्ञानानन्तरं प्रारब्धप्रतिबन्धाभावदशायां स्वाद्वेव पिप्पलं मुक्तौ तु नियमेन स्वाद्वदनमिति भावः ॥
ततश्चायं मन्त्रार्थः ॥ वृक्षे देहे स्थित्वा मध्वदः मध्विति स्वादु उच्यते । अस्वाद्वेव मधुवददन्तीति मध्वदः । सुपर्णा जीवाः । सुष्टु परमानन्दरूपत्वात्सुपर्णे अग्रे अग्य्रे सर्वोत्तमे यस्मिन्ननश्निति हरौ निविशन्ति आश्रिता भवन्ति । अधि स्रुवते च प्रसुवते संपादयन्ति चेति यावत् ॥ स्वाभीष्टं ज्ञानभक्त्यादिकमिति शेषः । तस्य हरेरिद् एव स्वादु परं शुभं पिप्पलं जीव-कर्तृककर्मफलं भोग्यमाहुः । यः पितरं परमात्मानं न वेद अत एव नशन् नाशादिमान् । तस्य स्वादु पिप्पलं नो यावत्पितरं न वेद तावन्नास्तीति । तथा चैवं वाक्यशेषात्कं प्रत्याविवेशेति । तस्यैव स्वादु पिप्पलमिति च स्पष्टमतृत्वोक्तेरनशन्नित्येतदशुभादनाभावमपेक्ष्येत्यवश्यं वक्तव्यम् । तस्मान्निरन्न इत्यस्याप्ययमेवार्थ इति भावः ।
प्रमाणान्तरेणापि द्वा सुपर्णेत्यादेरुक्त एवार्थ इति समर्थयति ॥ सुपर्णाविति ॥ पारवश्यादनारतं परवशत्वेन भोक्तृत्वात् । तत्र जीवपरयोर्मध्ये । एतेन परवशत्वेनादनाभावमपेक्ष्याप्यनश्नन्नित्युक्तिरिति चोक्तं भवति ॥ स एव हीति ॥ यस्मात्स विष्णुरेव शुभस्यात्ता अतोऽपि नात्तीति श्रूयत इति पूर्वेणान्वयः । जीवस्य न कदापि शुभमात्राभावो मन्तव्य इत्याह ॥ जीव इति ॥ वेदनादपरोक्ष-ज्ञानानन्तरमिति । शुभमेवेति शेषः । किञ्च हरेः शुभभोक्तृत्वस्य श्रुतिसूत्रादिसिद्धत्वाच्चाङ्गीकार्यं तदित्याशयवान् श्रुत्याद्युदाहरति ॥ सर्वमित्यादिना ॥ सर्वं चराचरात्मकं विश्वम् अत्तीति यत्तदेवादितेर् हरेरदितित्वमदितिशब्दवाच्यत्वं प्रवृत्तिनिमित्तमित्यर्थः । ब्राह्मणजातिविशिष्टं क्षत्रियजातिमेवम् उभे उभयविधं जगदोदनम् अन्नमित्यर्थः । अत्ता सर्वभोक्ता विष्णुः सर्वं चेति श्रुतौ सर्वस्य चराचरस्य तदद्यतया ग्रहणादिति मूलार्थः । तथा च हरेः सर्वातृत्वस्यैवानेकप्रमाणसिद्धत्वादशुभानतृत्वादिविषया अनश्नन्निति श्रुतिरतो निरन्न इत्यपि तद्विषयमेवेति सिद्धम् ॥ ६ ॥
आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः ।
योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ ७ ॥
तात्पर्यम्
‘जीवो मुक्तोऽपि नो जीवान् परमात्मानमेव च । वेत्ति सर्वात्मना विष्णुर्वेत्त्येकः पुरुषोत्तमः । तस्य प्रसादतः किञ्चिद्ब्रह्माद्या अपि जानते । अन्य-जीवानपेक्ष्यैको जानाति च चतुर्मुखः । सामस्त्येन तदन्ये तु लेशज्ञानाः क्रमात्स्मृता’ इति विनिर्णये ॥ ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तपे’त्यादि च । ‘अज्ञा जीवास्तु कथ्यन्ते मुक्ता अप्यल्पवेदनात् । ज्ञ इत्येवोच्यते नित्यं सर्ववेत्तृत्वतो हरिरि’ति वैशेष्ये ॥ ‘अनाद्यविद्ययाऽन्धत्वं जीवस्य यदि योग्यता । प्रयत्नश्चानुकूलः स्यादन्तवद्भवति ध्रुवम् । नित्यमेवान्यथाऽन्धत्वमयोग्या मानुषादयः । बद्धत्वं सर्वजीवानां नियमान्नित्यमेव तु । बद्धत्वं विष्ण्वधीनत्वमन्धत्वं तददर्शनम् । अतः क्वचिदनित्यत्वमन्धताया भविष्यति । मुक्तस्यापि तु बद्धत्वमस्ति यत्स हरेर्वशः । मुक्ताख्या दुःखमोक्षात्स्याद्बद्धाख्या हर्यधीनतः । नित्यबद्धा अपि ततो मुक्ता दुःखविमोक्षतः । नित्यमुक्तस्त्वेक एव हरिर्नारायणः प्रभुः । स्वतन्त्रत्वात्स्वतन्त्रत्वं तस्यैकस्य न चापर’ इति मुक्तविवेके ॥ ‘शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य । आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम्’ ॥ ‘कृष्णो मुक्तैरिज्यते वीतमोहैः’ । ‘मुक्तानां परमा-गतिरि’ति भारते ॥ ‘कलाः पञ्चदश त्यक्तवा श्वेतद्वीपनिवासिनाम् । मुक्ताख्या विष्ण्वधीनास्ते स्वाधिकानां वशे स्थिताः । न चास्मादधिकं किञ्चित्सुखमस्ति हरेर्विना । नित्यमुक्तः स एवैकः स्वतन्त्रः स यतः सदे’ति माहात्म्ये ॥ ७ ॥
पदरत्नावली
‘‘जीवो मुक्तोपि नो जीवान् परमात्मानमेव च । वेत्ति सर्वात्मना विष्णुर्वेत्त्येकः पुरुषोत्तमः । तस्य प्रसादतः किञ्चिद् ब्रह्माद्या अपि जानतेे । अन्यजीवानपेक्ष्यैको जानाति तु चतुर्मुखः । सामस्त्येन तदन्ये तु लेशज्ञानाः क्रमात् स्मृताः’’ इत्यनेन आत्मनमन्यं च स वेदेत्येतद् विवृतम् । सर्वज्ञत्वलिङ्गं हर्येकनिष्ठम् । तदुक्तम् ‘‘तान्यहं वेद सर्वाणि न त्वं वेत्त परन्तप’’ इत्यादि च ।
मुक्तेष्वतिव्याप्तमिदं लिङ्गमिति चेन्न । ‘‘अज्ञा जीवास्तु कथ्यन्ते मुक्ता अप्यल्पवेदनात् । ज्ञ इत्येवोच्यते नित्यं सर्ववेत्तृत्वतो हरिः’’ इति वचनात् । ‘‘अनाद्यविद्ययाऽन्धत्वं जीवस्य यदि योग्यता । प्रयत्नश्चानुकूलः स्यादन्तवद् भवति ध्रुवम् । नित्यमेवान्यथाऽन्धत्वमयोग्या मानुषादयः । बद्धत्वं सर्वजीवानां नियमान्नित्यमेव तु । बद्धत्वं विष्ण्वधीनत्वमन्धत्वं तददर्शनम् । अतः क्वचिदनित्यत्वमन्धताया भविष्यति । मुक्तस्यापि तु बद्धत्वमस्ति यत् स हरेर्वशः । मुक्ताख्या दुःखमोक्षात् स्याद् बद्धाख्या हर्यधीनतः । नित्यबद्धा अपि ततो मुक्ता दुःखविमोक्षतः । नित्यमुक्तस्त्वेक एव हरीर्नारायणः प्रभुः । स्वतन्त्रत्वात् स्वतन्त्रत्वं तस्यैकस्य न चापरे’’ इत्यनेन सोपपत्तिकेन योऽविद्ययाऽन्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्त इत्येतद् विवृतम् ।
‘‘शतं सहस्राणि चतुर्दशेह परागतिर्जीवगणस्य दैत्य ।
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम्’’ ॥
इति जीवगणस्य गतिबाहुल्यप्रवेशनिर्गमनप्रतीतेर्नित्यमुक्तत्वं हरेर्लिङ्गम्, न हरेरन्यत्र गतम्, अतः स एव नित्यमुक्तः । ननु मुक्तैः सेव्यत्वे युक्तमुक्तं तत् कथमिति चेन्न । ‘‘कृष्णो मुक्तैरिज्यते वीतमोहैः, मुक्तानां परमा गतिर् इति वचनात् । तर्ह्येषां कदा नु मुक्ताख्येति चेन्न । सर्वात्मना पञ्चदशकलानां त्यागानन्तरं तदाख्या । तदुक्तम् ‘‘कलाः पञ्चदश त्यक्त्वा श्वेतद्वीपनिवासिनाम् । मुक्ताख्या’’ इति । पश्चादपि ते स्वतन्त्राः किमित्यतो विष्ण्वधीनास्त इति । यत्प्रसादात् कलामोक्षस् तदधीनत्वमस्तु, नान्याधीनताऽस्तीत्यतः स्वाधिकानां वशे स्थिता इति । अन्याधीनत्वादधिकं दुःखं नास्तीत्यत उक्तम् ‘‘न चास्मादधिकं किञ्चित् सुखमस्ति हरेर्विना’’ इति । अतो नित्यमुक्तत्वं स्वतन्त्रत्वं च नान्यनिष्ठमित्युपसंहरति ‘‘नित्यमुक्तः स एवैकः स्वतन्त्रः सन् यतः सदा’’ इति
॥ ७ ॥
श्रीनिवासतीर्थीया
पुनर्जीवेश्वरयोरसर्वज्ञत्वसर्वज्ञत्वनित्यबद्धत्वनित्यमुक्तत्वरूप-विरुद्धधर्माधिकरणत्वाच्च भेद इत्याह ॥ आत्मानमिति श्लोकेन ॥ इमं श्लोकं प्रमाणेन व्याचष्टे ॥ जीव इति ॥ मुक्तोऽपि किम्वमुक्त इत्यर्थः । अनेन पिप्पलादो जीवो मुक्तोऽपि सन् । अन्यम् । जात्यैकवचनम् । जीवान् । आत्मानं परमात्मानं च सर्वात्मना न वेद । ब्रह्मादिजीवसंघो भगवत्प्रसादेन किञ्चिज्जानाति । अन्यजीवानपेक्ष्यैकश्चतुर्मुख एव जानाति । तदन्ये क्रमाल्लेशज्ञाना इति द्रष्टव्यम् । स अपिप्पलादस्तु विष्णुस्त्वात्मानं स्वात्मानमन्यं जीवांश्च । स्वपरगताशेषमिति यावत् । सर्वात्मना वेदेति पूर्वार्धयोजना द्रष्टव्या । अन्यजीवानपेक्ष्य सामस्त्येनेत्यन्वयः । तदन्ये क्रमाल्लेशज्ञाना इत्यन्वयः। मूलोक्तं सार्वज्ञत्वमन्यत्रातिव्याप्तं किं न स्यादिति चेत्तत्राह ॥ तानीति ॥ मे तव चातीतजन्मानीत्यर्थः। ननु मुक्तेषु सर्वज्ञत्वमतिव्याप्तं किं न स्यादित्यत आह ॥ अज्ञा इति ॥ मुक्ता अपि जीवा अल्पवेदनादज्ञा एवेति कथ्यन्त एवेत्यन्वयः । तेन सामस्त्येन सर्वज्ञत्वस्याभिप्रेततया तस्य न कुत्राप्यतिव्याप्तिरिति भावः । योऽविद्ययाऽन्ध इति द्वितीयार्धं प्रमाणेन व्याचष्टे ॥ अनादीत्यादिना ॥ अन्धत्वं विवेकज्ञानशून्यत्वादिकम् । तिष्ठतीति शेषः । स्यात्तर्हीति शेषः । अन्तवन्नाशोपेतं भवति । अन्धत्वमिति वर्तते । नित्यं ध्वंसाप्रतियोगि । अन्यथा योग्यता प्रयत्नश्च यद्यनुकूलो न स्यादित्यर्थः । अनुकूलयोग्यतादिशून्याः क इत्यत आह ॥ अयोग्या मानुषादय इति ॥ मानुषा नित्यसंसारिणः । आदिपदेन तमोयोग्याः । यथाऽविद्ययाऽन्धत्वमन्त-वद्भवतीत्युक्तम् । एवं नित्यबद्धत्वमपि कदाचिदन्तवद्भवति किं नेति प्रसङ्गादाह ॥ तदिति ॥ तस्य विष्णोरित्यर्थः । क्वचिदनुकूलयोग्यतादिमत्पुरुषविषये । न तु विष्ण्वधीनत्वस्येत्यर्थः । एतादृग्बन्धत्वं मुक्तानामप्यस्तीत्याह प्रसङ्गान्मुक्तस्यापि त्विति ॥ ननु बद्धत्वे कथं तर्हि मुक्ताख्येत्यत आह ॥ मुक्ताख्येति ॥ मोक्षाद्ध्वंसात् । हर्यधीनतो हर्यधीनत्वतः । ततो हर्यधीनत्वतो नित्यबद्धा अपि दुःखविमोक्षतो मुक्ता इत्युच्यन्ते । विद्यामयो यः स तु नित्यमुक्त इत्येतद्व्याचष्टे ॥ नित्येति ॥ बन्धात्यन्ताभाववान् । ननु स्वतन्त्रत्वमप्यस्मिन्किं न स्यादित्यत आह ॥ स्वतन्त्रत्व-मिति ॥ तस्यैकस्य नारायणस्यैव । अपरे नारायणव्यतिरिक्ते पुंसि स्वतन्त्रत्वं नास्तीत्यर्थः । तथा च यो नित्यबद्धो विष्ण्वधीनः सज्जनः सोऽप्यविद्ययाऽन्धः । प्रयत्नाद्यानुकूल्येन तदन्धत्वं न पश्यतीति ज्ञेयम् । यो नित्यबद्धो जीवो मुक्तः सोऽपि कदाचिदविद्ययाऽन्ध इत्यपि द्रष्टव्यम् । नित्यबद्धो नित्यसंसारी तमोयोग्यश्च सोऽप्यविद्ययाऽन्धोऽविद्यया नित्यान्धत्ववान् । यस्तु विद्यामयो ज्ञानरूपो नारायणः स एव नित्यमुक्तः । स्वतन्त्रत्वान्नापर इति द्वितीयार्धयोजना द्रष्टव्या ।
नन्विदं नित्यमुक्तत्वं भगवदन्यत्रातिव्याप्तं किं न स्यादिति चेन्न । जीवानां गतिबाहुल्य-प्रवेशनिर्गमप्रतीत्या संसारित्वावगमेन नित्यमुक्तत्वाभावादतो नित्यमुक्तत्वस्य नातिप्रसक्तिरित्याशयेनाह ॥ शतमिति ॥ दैत्य जीवगणस्य चतुर्दशशतं सहस्राणि चतुर्दशलक्षाणि परा गतिर्गतयः सन्ति । स्वर्गनरकप्राप्त्यर्थं यदारोहणम् । तथा स्थानं स्वर्गादौ यदवस्थानम् । तथा स्वर्गनरकाभ्यां निःसरण-मवरोहणं तत्सर्वं तत्कृतं चतुर्दशलक्षगतिकृतं विद्धीत्यर्थः । मुक्तानामपि हर्यधीनत्वरूपं नित्यबद्धत्वमुक्तं भगवत एव नित्यमुक्तत्वमुक्तम् । तदयुक्तम् । मुक्तैः परमात्मनो भेदाभावादित्यतो मुक्तौ हरेर्मुक्तैरिज्यत्वोक्त्या तेषां याजकत्वोक्त्या च भेदस्यैव स्पष्टोक्तिरित्याह ॥ कृष्ण इति ॥ मूलरूपी भगवानित्यर्थः । मुक्तप्राप्यत्वज्ञेयत्वाश्रयत्वव्यपदेशाच्च भगवतो मुक्तैर्भेद इत्याह ॥ मुक्तानामिति ॥ गम्यते प्राप्यते ज्ञायते च । मुक्तानामिति षष्ठी च कर्तरि । मुक्तानां गतिराश्रयश्च । एतेषां मुक्ता-ख्यायां कालविशेषे विशेषं भगवदधीनत्वं च वदन् अधिकं च प्रमाणेनाह ॥ कला इति ॥ त्यक्त्वाऽवस्थितानां पञ्चदशकलात्यागानन्तरं मुक्ताख्येत्युक्तं भवति । ननु यत्प्रसादात्कलामोक्ष-स्तदधीनत्वं मुक्तावस्तु नान्येषामित्यत आह ॥ स्वाधिकानामिति ॥ सर्वेषामिति शेषः । तथा च कलामोक्षे सर्वेषां स्वोत्तमानां प्रसादोऽपेक्षित एवेति तदधीनत्वमस्त्येवेति भावः । नन्वन्याधीनत्वे दुःखं स्यात्तथा लोके दर्शनादित्यत आह ॥ न चेति ॥ अस्मात्स्वोत्तमवशत्वात् । यदि स्वोत्तमवशत्वादन्यत्सुखं न तर्हि हरेरपि सुखं न स्यात् । यद्यस्ति तर्हि तस्यापि स्वोत्तमाधीनत्वं वाच्यमेवेत्यत आह । हरेर्विना । हरिभिन्नानामिति यावत् । तद्व्यतिरेकेष्वेव न चास्मादित्युक्तनियम इत्याशयः । ननु तस्यापि हरेः स्वोत्तमाधीनत्वं कुतो नास्तीत्यतस्तदपेक्षयाऽन्यस्योत्तमस्यैवाभावात् । कुत इत्यत आह ॥ नित्यमुक्त इति ॥ तदपि कुत इत्यत आह ॥ स्वतन्त्रश्चेति ॥७॥
प्रमेयचन्द्रिका
एवं श्रुतिसंवादेन जीवेश्वरवैलक्षण्यमुक्त्वा अथ बद्धस्य मुक्तस्येति प्रकृतबद्धमुक्तस्वरूपनिरूपणपूर्वकं विरुद्धधर्माधिकरणत्वयुक्त्या वैलक्षण्यं सूचयन् देहस्थत्वाविशेषादीश्वर-स्याप्यशुभान्नं स्यादित्यतो विद्वत्वं तत्र कारणमिति भावेन समर्थ्यते ॥ आत्मानमिति ॥ अपिप्पलादो अशुभानत्ता विद्वान् सर्वज्ञः स्वात्मानमन्यं स्वेतरच्च समस्तं साकल्येन वेद पिप्पलादो जीवस्तु परमात्मानं तदन्यं च साकल्येनैव न वेदेति पूर्वार्धः ।
अत्र ब्रह्मादिजीवसमुदायस्येश्वरतदन्यस्य ज्ञानाभावोऽनुपपन्नः । तस्य ज्ञानित्वस्य प्रमितत्वात् । अन्यथा मोक्षाभावप्रसङ्गात् । मुक्तजीवस्य ज्ञानाभावे मुक्तेरपुरुषार्थत्वापत्तेश्च । ब्रह्मणश्चाशेषज्ञा-न्युत्तमत्वस्याशेषशास्त्रसिद्धत्वाच्चेत्याशङ्क्य प्रमाणेन परिहरति ॥ जीवो मुक्तोऽपीति ॥ सर्वात्मनेति पूर्वोत्तरेण च सम्बध्यते । पुरुषोत्तम इति विष्णोः साकल्येन ज्ञानसद्भावे हेतुः । जीवः सर्वात्मना न वेत्तीति एतद्विवृणोति ॥ तस्येति ॥ किञ्चिद्ज्ञानं च हरिप्रसादत इत्यर्थः । ननु ब्रह्मणः सामस्त्येन ज्ञानं प्रमितम् । तत्कथमुच्यते ब्रह्माद्याः किञ्चिद्विजानत इतीत्यत आह ॥ अन्यजीवा-निति ॥ रुद्राद्यन्यजीवानपेक्ष्य आधिक्येनेति शेषः । रमाव्यावृत्तये जीवग्रहणम् । जानातीति हेतोश्चतुर्मुखः सामस्त्येन जानातीति श्रुत्यादावुच्यत इति शेषः । तदन्ये रुद्रादयः । क्रमाल्लेशज्ञानाः स्मृता इत्यर्थः । स्वस्वोत्तमविषये साकल्येन ज्ञानाभावात् । चतुर्मुखस्येशादन्यत्र सर्वविषयकं ज्ञानं साकल्येन । तदेतदपि भगवत्प्रसादायत्तमिति भावः ।
स्वात्मानमन्यं चेत्युक्तार्थे गीतासंवादं च दर्शयति ॥ तान्यहमिति ॥ बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेदेति । भगवता वेदेति स्वज्ञानमन्यज्ञानं चोक्त्वा न त्वं वेत्थेत्यर्जुनोपलक्षितस्येतरस्य ज्ञाननिषेधादिति भावः ॥
ननु जीवेश्वरयोरुभयोरपि ज्ञानमस्तीति निर्णीतम् । परं त्वीश्वरस्य बहुलमन्येषामल्पम् । न ह्येतावता वेद नवेदेत्युक्तिर्युज्यते । मुक्तानामज्ञाततायोगादित्यतः प्रमाणान्तरं पठति ॥ अज्ञा इति ॥ अल्पस्वे निस्वशब्दप्रयोगवदल्पज्ञानत्वमेव ज्ञ इति कथने निमित्तमिति भावः । अत्र ज्ञ इत्येवोच्यत इत्यनेन मूले विद्वानित्येतद्व्याख्यातं भवति । योऽविद्ययाऽन्ध इत्युत्तरार्धे अविद्याख्याज्ञानेनान्धत्वं जीवस्योच्यते । तत्रान्धत्वं नित्यमिति भाति । नित्यबद्ध इति समभिव्याहारात् । न चान्धत्व-बद्धत्वयोर्नित्यत्वमुपपन्नम् । मुक्तावुभयनिवृत्तेरित्यत आह ॥ अनादीति ॥ अनाद्यविद्यया विरिञ्चातिरिक्तसर्वजीवस्यान्धत्वं योग्यताक्रमेण किञ्चिदनादितो वर्तते । तत्र यदि मोक्षयोग्यता श्रवणादिरूपोऽनुकूलः प्रयत्नश्च स्यात्तर्हि तदन्धत्वं नाशवद्भवति । अन्यथा योग्यताभावेऽन्धत्वं नित्यमेव । अयोग्याः क इत्यत आह ॥ अयोग्या इति ॥ मुक्तेरिति शेषः । मानुषादयः मध्यमा मानुषा नित्यसंसारिणः । तथाऽधममानुषा पिशाचरक्षोदैत्यास्तमोयोग्याश्चेत्यर्थः । एतेन देवर्षिपितृपनरा मुक्तियोग्या इत्युक्तं भवति । एवमनाद्यन्धत्वं योग्यानां नश्यति । अयोग्यानां तु नित्यमित्युक्तम् ।
बद्धत्वं तु सर्वेषामपि नित्यमेवेत्याह ॥ बद्धत्वमिति ॥ मुक्तानां बन्धाभावात्कथं तन्नित्यत्व-मित्यतोऽत्र विवक्षितं बन्धं दर्शयन् बन्धत्वस्य प्रदर्शनपूर्वकं तन्नित्यत्वमुपपादयति ॥ बद्धत्वं विष्ण्वधीनत्वमिति ॥ अत इति ॥ अदर्शनस्यैवान्धत्वाद्दर्शने सति तन्नाशसम्भवादित्यर्थः । क्वचिद्योगेषु । मुक्तस्यापि बद्धत्वमुपपादयति ॥ मुक्तस्यापीति ॥ तुशब्दो विष्ण्वधीनत्व-रूपविशेषद्योतकः । ननु परस्परपरिहारेणैव वर्तमानयोर्बद्धत्वमुक्तत्वयोः कथमेकत्रावस्थानमित्यत आह ॥ मुक्ताख्येति ॥ वैवक्षिकत्वाद्बद्धत्वमुक्तत्वयोरविरोध इति भावः । जीवानां मुक्तत्वं वैवक्षिकमुक्तम् । कस्तर्हि मुख्यो मुक्त इत्यत आह ॥ नित्यमुक्त इति ॥ यदि स्वतन्त्रत्वं भगवतोऽन्यस्य स्यात्तर्हि सोऽपि नित्यमुक्तो भवेदित्यत आह ॥ स्वतन्त्रत्वमिति ॥ अपरस्मिन् ।
उक्तरूपं नित्यमुक्तत्वं नान्यस्येत्यत्र प्रमाणान्तरमाह ॥ शतं सहस्राणीति ॥ इह सर्वजीव-समुदायमध्ये । शतं सहस्राणि चतुर्दशेत्यनेकसङ्ख्योपेतस्य योग्यजीवगणस्य परा मुक्तिरूपा गतिर् वर्तते । तस्यैव विवरणम् ॥ आरोहणमिति ॥ तेषां योग्यजीवानामर्चिरादिमार्गेण वैकुण्ठादिलोका-रोहणं तत्रावस्थानं तथा सायुज्यभाजां भगवद्देहारोहणं तत्रावस्थानं तस्माद्बहिश्च निःसरन्ति । बहिश्च निर्यान्तीति । तदन्तर्बहिरेवेति चोक्तेः । तत्कृतं तेन हरिणा कृतमेवेति त्वं विद्धि । दैत्येति प्रह्लादं प्रति सम्बोधनम् ।
कला दशेन्द्रियाणि । पञ्चभूतानीति पञ्चदशकलात्मको लिङ्गदेह इत्येके । गताः कलाः पञ्चदशेत्यत्रोक्ता प्राण्यादिजडकला इत्यन्ये । एताः पञ्चदशकलास्त्यक्त्वा । श्वेतद्वीपवासिना-मित्येतदमुक्तदेवानामपि तत्र सत्वेन तद्व्यावृत्यर्थमुक्तम् । तेषां मुक्ताख्या मुक्ता इति नाम कलारूप-बन्धनिर्मुक्तत्वान्मुक्तस्थाने निवासनाच्च तेषां मुक्ता इति नाम । वस्तुतस्तु तेषां विष्ण्वधीनात्स्वाधिकानां च वशे स्थितास्ते बद्धा इति भावः । मुक्तौ परवशत्वे कथं तस्याः पुरुषार्थत्वमित्यत आह ॥ न चेति ॥ स्वाधिकानां वशत्वं तु तेषु भक्तिमतः सुखमिति उक्तत्वात् । तर्हि हरेरन्यवशत्वाभावात्सुखं न स्यादित्यत आह ॥ हरेर्विनेति ॥ हरिं विनेत्यर्थः । हरेः स्वतन्त्रत्वान्नित्यमुक्तत्वाच्च स्वातन्त्र्यादिनिमित्तकं महासुखमेव तस्येति भावः । मूले विद्यामय इत्यस्य नित्यव्यक्तनिरति-शयज्ञानात्मक इत्यर्थः ॥ ७ ॥
देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः ।
ओहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा ॥ ८ ॥
तात्पर्यम्
‘शरीरस्थोऽपि विद्वत्त्वान्न विष्णुर्बध्यते क्वचित् । अविद्वत्त्वात्तु तत्रैव देहे जीवस्तु बध्यते । स्वप्नदृग्वदिमे जीवा हरिः स्वप्नोत्थितो यथा । सदा तमोविहीनोऽपि ज्ञापनार्थमुदीर्यत’ इति विवेके ॥ ८ ॥
पदरत्नावली
ननूभयोर्देहस्थत्वाविशेषादेकस्य मुक्तत्वेन दुःखानदनमितरस्य बद्धत्वेन दुःखादनं कथमित्याशङ्क्य विद्वत्त्वाविद्वत्त्वे कारणमिति भावेनाह– देहस्थोपीति । विद्वान् नित्य-निर्दुःखा-नन्दानुभवः सर्वज्ञः श्रीहरिर् देहस्थोपि देहाभिमानाभावान् न देहस्थः, तत एव दुःखं नात्तीति । कथम् । यथा स्वप्नादुत्थितः पुरुषस् तद्गतदुःखादिकं नात्ति तथेति । कुमतिरविद्वान् जीवो देहाभिमानित्वाद् (ओहस्थोपि) देहादन्योऽपि देहस्थः । यथा स्वप्नदृक् तद्गतदुःखादिकं भुङ्क्ते तथेति
॥ ८ ॥
श्रीनिवासतीर्थीया
ननूभयोर्देहस्थत्वाविशेषादेकस्य दुःखानदनादिकमपरस्य तददनादिक-मित्यादि कथमित्यतो विद्वत्वाविद्वत्वे तत्र कारणमिति वक्तुं देहस्थोऽपीति श्लोकस्तं प्रमाणेन व्याचष्टे ॥ शरीरस्थोऽपीति ॥ विद्वत्वादित्यनेन विद्वानित्येतद्धेतुगर्भमित्युक्तं भवति । कुमतिरित्यस्य व्याख्यानम् ॥ जीवस्त्विति ॥ ननु हरेः स्वप्नोत्थितत्वसादृश्योक्तौ तद्वत्कदाचिदज्ञानसम्बन्धोऽपि प्राप्त इत्यत आह ॥ सदेति ॥ तमोऽज्ञानम् । तथा च विष्णुर्देहस्थोऽपि स्वातन्त्र्येण तत्र विद्यमानोऽपि न देहस्थो देहनिमित्तकदुःखादिभिर्न बद्ध्यते । यतोऽयं विद्वान् जीवनिष्ठमेवेदं दुःखं न ममेति सर्वदा ज्ञानवत्त्वात् । तत्र दृष्टान्तः ॥ स्वप्नादिति ॥ यथा स्वप्नोत्थितो स्वप्नोऽयमिति निश्चितो जाग्रदवस्थापन्नः स्वाप्नैर्दुःखैर्न बद्ध्यते विद्वत्वात्तथेति । देहस्थत्वमप्रयोजकमित्यर्थः । स्वातन्त्र्येण तत्र अविद्यमानत्वाददेहस्थोऽपि जीवो यतः कुमतिस्तत्र दुरभिमानवान् अविद्वत्वादतः स्वप्नदृग्वद्देहस्थो देहकृतदुःखादिबन्धनवान् भवतीति श्लोकार्थः ॥ ८ ॥
प्रमेयचन्द्रिका
ननु जीवपरयोरेकदेहस्थत्वाद्विद्वत्वाबद्धत्वादिकमीशस्येव जीवस्यापि स्यात् । जीववदविद्वत्वबद्धत्वादिदुःखादनादिकमीश्वरस्य वा भवेदित्याशङ्कां परिहरन् देही परमात्मा देहजेषु गुणेषु वर्तमानोऽपि तैः कथं न बध्यत इति प्रश्नस्योत्तरमुच्यते ॥ देहस्थोऽपीति ॥ अत्र ज्ञान्य-ज्ञानिजीवस्वभाव उच्यत इति भानात्प्रमाणेन व्याचष्टे ॥ शरीरस्थोऽपीति ॥ एतेन विद्वच्छब्दो निरवधिकज्ञानवदीश्वरपरः । अविद्वच्छब्दोऽल्पज्ञानवज्जीवपर इत्युक्तं भवति । बध्यत इति देहधर्मैरिति शेषः । अनेन देहस्थ इत्येतदुक्तार्थकं भवति । यत्र देहाबद्धतया हरिरास्ते तत्रैव देहे जीवस्तु बध्यते । एतेन यद्यपि जीवो हरिश्चैकस्मिन्देहे वर्तेते । तथा विद्वत्वमबद्धत्वमीश्वरस्यैव न तु जीवस्य । यावदविद्वत्वं बद्धत्वं च यतो बद्धत्वं प्रति न हेतुः प्रयोजकः । किंतु कुमतित्वमेवातो कुमतित्वाभावेन देहजगुणेषु वर्तमानस्यापि हरेरबद्धत्वादि युज्यत इत्युक्तं भवति । तत्र दृष्टान्तः ॥ स्वप्नदृगिति ॥ यथा स्वप्नद्रष्टा तत्र दृष्टसर्पादिना तस्य बाह्यसर्पात्मकज्ञानरूपकुमतित्वाद्दुःखं भुङ्क्ते तद्वदित्यर्थः । विष्णुर्न बद्ध्यत इत्यत्र दृष्टान्तः ॥ स्वप्नोत्थितो यथेति ॥ यथा स्वप्नादुथितः स्वप्नसर्पादे-र्जाग्रत्स्वप्नार्थक्रियाकारित्वं न विद्वान्न तन्निमित्तकं दुःखाद्यनुभवति तथा शरीरादियाथात्म्यज्ञानी विष्णुर्न तत्कृतदुःखादिभिर्बध्यत इत्यर्थः । ननु नायं दृष्टान्तः सङ्गच्छते स्वप्नोत्थितो हि प्राक् स्वप्ने दुःखादिकनुभूय पश्चात्स्वप्नोऽयमिति विद्वान्न बध्यते । न ह्येवमीश्वरस्य पूर्वं स्वप्नबन्धोऽस्ति । अतो नैष दृष्टान्त इत्यत आह ॥ सदा तमोविहीनोऽपि हरिः स्वप्नोथितोऽयमिति । तर्हि तथोक्तिः कुत इत्यत उक्तम् ॥ ज्ञापनार्थं बुध्यारोहार्थमिति ॥ दुःखाद्यभावमात्रे न हि दृष्टान्ते सर्वसाम्यमिति न्यायादिति भावः ॥ ८ ॥
इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च ।
गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः ॥ ९ ॥
तात्पर्यम्
गुणैरपि गुणेषु अप्रधानैर्जीवैरप्रधानेषु विषयेषु । ‘आत्मनो वशगै-र्जीवैरात्मनो वशगेषु च । दुःखेषु गृह्यमाणेषु मनआदिभिरिन्द्रियैः । अहं दुःखीति नैवेशस्त्वहङ्कुर्यात्परः पुमान् । जीवगं त्वेव तद्दुःखं विष्णुः पश्यति सर्वदा । अतो न दुःखभाग्विष्णुः स्वातन्त्र्यात्पुरुषोत्तमः । पारतन्त्र्यादहं दुःखीत्येवं जीवः प्रपश्यति । तस्मात्स दुःखभागुक्तो यावदीशः प्रसीदती’ति स्वातन्त्र्ये ॥ ९ ॥
पदरत्नावली
एतदेव विवृणोति इन्द्रियैरिति । गुणैर् हरेरप्रधानैर्जीवैः श्रोत्रादीन्द्रियैर् गुणेष्वप्रधानेषु अर्थेषु विषयेषु गृह्यमाणेषु सत्सु यस्त्वविक्रियः कृशोऽहं च्छिन्नोऽहमित्यादिविकाररहितो विद्वान् परमात्मा स नाहङ्कुर्यादित्यन्वयः । ‘‘शरीरस्थोपि विद्वत्त्वान्न विष्णुर्बध्यते क्वचित् । अविद्वत्वात्तु तत्रैव देहे जीवस्तु बध्यते । स्वप्नदृग्वदिमे जीवा हरिः स्वप्नोत्थितो यथा । सदा तमोविहीनोपि ज्ञापनार्थमुदीर्यते’’ इत्यनेन ‘‘आत्मनो वशगैर्जीवैरात्मनो वशगेषु च । दुःखेषु गृह्यमाणेषु मनआदिभिरिन्द्रियैः । अहं दुःखीति नैवेशो ह्यहङ्कुर्यात् परः पुमान् । जीवगत्वेन तद्दुःखं विष्णुः पश्यति सर्वदा । अतो न दुःखभाग् विष्णुः स्वातन्त्र्यात् पुरुषोत्तमः । पारतन्त्र्यादहं दुःखीत्येवं जीवः प्रपश्यति । तस्मात् स दुःखभागुक्तो यावदीशः प्रसीदति’’ इत्यनेन चानयोः श्लोकयोरर्थो विवृत इति । जीवगं चेति तद् दुःखं विष्णुः पश्यति सर्वदेत्यनेन अभिचाकशीतीत्यस्यार्थः सूचित इति ॥ ९ ॥
श्रीनिवासतीर्थीया
एतद्विवरणार्थमेवेन्द्रियार्थैरिति श्लोकस्थं गुणैरपि गुणेष्विति प्रकृतानुपयुक्तं भाति । अतः स्ववाक्येन किञ्चिदनूद्य व्याख्याय प्रमाणेनापि व्याचष्टे ॥ गुणैरपीत्यादिना ॥ दुःखेष्विति बहुवचनमाद्यर्थे । दुःखादिषु विषयेष्वित्यर्थः । मनआदिभिरिति दुःखस्य मनोग्राह्यत्वोक्त्या एवं ज्ञायते । दुःखादेः साक्षिवेद्यत्वं तावत्सिद्धम् । स्वरूपेन्द्रियं च साक्षीत्युच्यते । तत्र यत्स्वरूपमनोरूपेन्द्रियं तदेव साक्षिसंज्ञमस्मन्मतेऽतो दुःखादेः साक्षिवेद्यत्वेन कथं मनोवेद्यत्वमिति शङ्काऽनवकाश इति प्रपश्यति । तावत्पर्यन्तमिति शेषः । तथा च गुणैरात्मनो वशगत्वेनाप्रधानैर्जीवैः कर्तृभिरिन्द्रियैर्मनआदिभिर्गुणेष्वात्मनो वशगत्वेनाप्रधानेष्विन्द्रियार्थेषु दुःखादिरूपविषयेषु गृह्यमाणेषु सत्सु यस्त्वक्रियो विद्वान् स विष्णुर्नाहंकुर्यात् । अहं दुःखीत्यहङ्कारं ह्ययं न कुर्यात् । ईशः कुतो यतोऽयं विद्वांस्तद्दुःखं जीवगतत्वेनैव सर्वदा पश्यति । अत एवाविक्रियस्तत्कृतविकारशून्य इत्यर्थः । उपलक्षणं चैतत् । यस्तु जीवः सोऽहं दुःखीत्यहङ्कारवत्वादीशप्रसादपर्यन्तं दुःखभागित्यपि द्रष्टव्यम्
॥ ९ ॥
प्रमेयचन्द्रिका
हरेर्देहस्थत्वेऽपि न दुःखादिबन्ध इत्यस्योपपादनं क्रियते ॥ इन्द्रियैरिति ॥ अविक्रियः स्वतन्त्रत्वाद्विकाररहितः विद्वान् सर्वज्ञः । स हरिर्गुणैरात्मनो वशगत्वेनाप्रधानैर्जीवैः कर्तृभिरिन्द्रियैर् मनआदिभिः करणैर्गुणेषु अप्रधानेष्विन्द्रियार्थेषु विषयेषु तन्निमित्तकदुःखादिषु गृह्यमाणेषु सत्सु नाहंकुर्यात् । दुःखादिकं जीवगतत्वेनैव साक्षात्कुर्वन् स्वयमहंदुःखभावं न कुर्यादित्यर्थः । अत्र गुणैर्गुणेष्वित्यादेरर्थाभानाद्विद्वानित्यस्य ज्ञानिजीवपरताभानाच्चानूद्य व्याचष्टे ॥ गुणैरपीति ॥ उभयविशेष्यप्रदर्शनं जीवैरिति विषयेष्विति च । प्रमाणेन श्लोकं व्याचष्टे ॥ आत्मन इति ॥ गुणै रित्यस्यार्थ आत्मनो वशगैर्जीवैरिति ॥ गुणेष्विन्द्रियार्थेष्वित्यस्यात्मनो वशगेषु दुःखादि-ष्विति । विद्वानित्यस्यार्थ इशः पुमानिति । नाहंकुर्यादित्यस्य दुःखीति ॥ नैवाहंकुर्यादिति । अक्रिय इत्यस्यार्थः पर इति । क्रियातीत इत्यर्थः । ननु सर्वज्ञत्वाद्धरिर्जीववद्दुःखं पश्येत् तत्कथं दुःखानुभवाभाव ईशस्येत्यत आह ॥ जीवगंत्वेवेति ॥ यत इत्यादावुपस्कर्तव्यम् । ननु एकजीवदेहगतत्वेऽपि जीव एव दुःखं स्वसमवेततया पश्यति । हरिस्तु जीवगतत्वेनैव न तु स्वयं दुःखीत्ययं विशेषः कथं स्यादित्यत उक्तम् ॥ स्वातन्त्र्यादिति ॥ स्वतन्त्रो हि न स्वयमशुभैर्लिप्तो भवति अस्वतन्त्रस्तु स्वतन्त्राधीनस्तन्निमित्तं दुःखादिकमनुभवतीति युज्यत इति भावः । इदं दुःखं ब्रह्मापरोक्षपर्यंतमेव ततः परं तु भगवत्प्रसादेन देहादावभिमानत्यागाददुःखी भवतीत्याह ॥ यावदीशः प्रसीददीति ॥ ८,९ ॥
दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानोऽबुधस्तत्र कर्ताऽस्मीति निबध्यते ॥ १० ॥
तात्पर्यम्
गुणभाव्येन कर्मणा गुणभूतो ऽस्वतन्त्रोऽहमस्मिन्कर्मणीति भाव-नीयेन । ‘अस्वतन्त्रः स्वतन्त्रोऽस्मीत्येवं जीवः प्रभावयन् । बध्यते हीशकोपेन राजभावेन भृत्यवदि’ति च ॥ १० ॥
पदरत्नावली
जीवस्याहमस्मीत्यभिमान एवानर्थप्रवाहहेतुरित्याह– दैवेति । दैवाधीनेऽस्मिन् शरीरे वर्तमानोऽबुधोऽज्ञो जीवो ऽस्मिन् कर्मण्यहं गुणभूतोऽस्वतन्त्र ईशाधीन इति भाव्येन भावनीयेन कर्मणा अहमेव कर्तास्मीति मन्यमानस्तत्र शरीरे नितरां बध्यत इति । ‘‘अस्वतन्त्रः स्वतन्त्रोऽ-स्मीत्येवं जीवः प्रभावयन् । बध्यते हीशकोपेन राजभावनभृत्यवत्’’ इति वचनात् स्वातन्त्र्य-कर्तृत्वाभिमानोऽत्र१ विवक्षित इति । अत्राप्यस्वातन्त्र्यं दैवाधीन इत्यनेन सूचितम् ॥ १० ॥
श्रीनिवासतीर्थीया
अहमस्मीत्यभिमान एव जीवस्यानर्थप्रवाहहेतुरिति वक्तुं दैवेति श्लोकः ॥ तत्र गुणभाव्येन कर्मणेत्येतदनूद्य व्याचष्टे ॥ गुणेति ॥ तत्र प्रमाणमाह ॥ अस्वतन्त्र इति ॥ वस्तुतोऽस्वतन्त्रो जीवः । राजभावेन राजाऽहमस्मिति चिन्तनेन । तथा च दैवाधीनेऽस्मिन् शरीरे वर्तमानोऽबुधो जीवो गुणभाव्येन कर्मणा अस्मिन्कर्मण्यहम् अस्वतन्त्रोऽस्मीत्येवं वस्तुगत्या भावनीयेन कर्मणाऽहं कर्ताऽस्मीति मन्यमानः । वस्तुत एवं भावनीये कर्मणि स्वस्य स्वातन्त्र्यं मन्यमान इति यावत् । निबद्ध्यते ईशकोपेन । राजभावेन भृत्यवन्निबद्ध्यत इति श्लोकार्थः ॥ १० ॥
प्रमेयचन्द्रिका
एवं देहस्थस्यापीश्वरस्य तद्दोषासम्बन्धमुक्त्वा जीवस्य तद्बन्धोपपादके दैवाधीन इति श्लोके गुणभाव्येन कर्मणेत्यस्यार्थाभानात्तदनूद्य व्याचष्टे ॥ गुणभाव्येनेति ॥ गुणभूतः प्रधानभूतः ॥ अस्वतन्त्र इति फलितोऽर्थः । अस्मिन्क्रियमाणे कर्मणि अहमस्वतन्त्र इति भावायितुं योग्येन कर्मणेत्यर्थः । एवमवश्यं भावना कार्येत्येव प्रमाणेनोपपादयति ॥ अस्वतन्त्र इति ॥ प्रभावयन् ध्यायन् । तथा च दैवाधीने हर्यधीने देहे वर्तमानोऽबुधोऽस्मिन् कर्मण्यहमस्वतन्त्र इति भावनीयेनापि कर्मणा कृतेन निमित्तेन तत्रेशप्रेरणामज्ञात्वाऽहमेव स्वतन्त्रः कर्त्तेति मन्यमानस् तत्र शरीरे नितरां बध्यत इति मूलार्थः ॥ १० ॥
एवं विरक्तः शयन आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ॥ ११ ॥
न तथा बध्यते विद्वान् तत्र तत्राददन् गुणान् ।
तात्पर्यम्
एवं विरक्तः शयने । एवमस्वातन्त्र्येण नित्यबद्धोऽपि । एवमात्मनोः स्वातन्त्र्यपारतन्त्र्ययोर्विद्वान् जीवोऽप्यविद्वज्जीववन्न बध्यते । एवं विद्वानित्यन्वयः । ‘नित्यबद्धोऽपि जीवो य आत्मनो नित्यबद्धताम् । विष्णुना नित्यमुक्तत्वं तस्य वेत्ति स मुच्यते ॥ तदधीनत्वबन्धे तु विद्यमानेऽप्यदुःखभाक् । देहस्थोऽपि न दुःखी स्यादन्य-वत्किमु मुक्तिग’ इति प्राथम्ये ॥ ११ ॥
पदरत्नावली
कालोपि शरीरशीर्णतामीरयतीति शरीरस्य कालाधीनत्वं च । तर्हि कथङ्कारं न बध्यत इति तत्राह एवमिति । एवं शयनादिेषु स्वस्य स्वातन्त्र्याभिमानेन बध्यमानस्तत्र एवा-पारदुःखमनुभुञ्जन् विद्वान् एषु विरक्तस् तत्र तत्र हरेः स्वातन्त्र्यं विद्वान् तत्र तत्र शरीरयात्रार्थं गुणान् आददन् स्वीकुर्वन् तथा कर्तृत्वाभिमानिवन्न बध्यत इत्यन्वयः । गुणान् पुण्यलक्षणान् आददन् उपार्जयन्निति वा । भेदज्ञानिन एव बद्धत्वं नाभेदज्ञानिन इत्यनेनोच्यत इति किं न स्यादिति चेन्न । ‘‘नित्यबद्धोऽपि जीवो य आत्मनो नित्यबद्धताम् । विष्णुना नित्यमुक्तत्वं तस्य वेत्ता स मुच्यते । तदधीनत्वबन्धे तु विद्यमानेऽप्यदुःखभाक् । देहस्थोपि न दुःखी स्यादज्ञवत् किमु मुक्तिगः’’ इति वचनाज् जीवभिन्नविष्णुज्ञानाद् बन्धमोक्ष इत्यस्योपपत्तेः ॥ ११ ॥
श्रीनिवासतीर्थीया
तर्हि कथं न निबद्ध्यत इत्यतस्तद्वक्तुमेवमित्यादिग्रन्थः । तत्र प्रतीकग्रहणपूर्वकं व्याचष्टे ॥ एवं विरक्तः शयन इति ॥ तत्रैवमित्येतदनूद्य तस्यार्थमाह ॥ एवमिति ॥ एवं विद्वानित्यन्वयमभिप्रेत्य तदर्थमाह ॥ एवमिति ॥ आत्मनोः परमात्म-जीवात्मनोः । परमात्मनः स्वस्य च इति यावत् । स्वातन्त्र्यपारतन्त्र्ययोर् विद्वान् व्याख्यातार्थे प्रमाणमाह ॥ नित्येति ॥ विष्णुना नित्यबद्धतामित्यन्वयः । तस्य विष्णोस्तदधीनत्वरूपे बन्धेऽन्य-वदविद्वज्जीववत् । तथा चैवं तदधीनत्वबन्धस्य सत्वेनास्वतन्त्रेण नित्यबद्धोऽप्येवं विद्वान् विरक्तोऽधि-कारी जीवस्तत्र तत्र शरीरयात्रार्थं गुणान्विषयानाददन्स्वीकुर्वन्नपि तथाऽविद्वज्जीववन्न बद्ध्यत इति श्लोकार्थः । आसनाटनमज्जन इति मूले द्वन्दैकवद्भावो मन्तव्यः ॥ ११ ॥
प्रमेयचन्द्रिका
एवमीश्वरस्य स्वातन्त्र्यं जीवस्यास्वातन्त्र्यं चोपपाद्य तदवश्यं ज्ञातव्य-मित्याशयेन तज्ज्ञानिनो बन्धाभावः प्रतिपाद्यते ॥ एवं विरक्त इति ॥ अत्रैवमित्यस्य विरक्त इत्यनेन सम्बन्धो भाति । नासौ युज्यते । वैराग्यस्य प्रागप्रस्तुतत्वेन तत्प्रकारपरामर्शायोगादित्यतः स्फुटप्रतीत्यर्थं मूलप्रतीकमुपपादयति । एवमित्यस्य न विरक्त इत्यनेनान्वयः । किन्तु नित्यबद्धोऽ-पीत्यध्याहृतेनान्वय इत्याशयेन एवमित्यस्यार्थं वदन्नाह ॥ एवमिति ॥ एवं विरक्तः शयन इत्यन्तं प्रतीकग्रहणम् । एवमस्वातन्त्र्येण नित्यबद्धोऽपीति व्याख्यानम् । तत्रैवमित्यस्यार्थः ॥ अस्वातन्त्र्येणेति ॥ दैवाधीन इत्यस्वातन्त्र्यं प्रस्तुतम् । तस्यायं परामर्शः । नित्यबद्धोऽपीत्य-स्याध्याहारः । अथ एवमित्यस्य विद्वानित्यनेनाप्यन्वय इत्याह ॥ एवमात्मनोरिति ॥ अस्मिन्पक्षे एवमित्यस्य परमात्मनः स्वातन्त्र्यं जीवात्मनः पारतन्त्र्यं चेत्येवमित्यर्थ इत्यभिप्रेत्याह ॥ एवमात्मनोः स्वातन्त्र्यपारतन्त्र्ययोर्विद्वानिति ॥
आत्मनोः परमात्मजीवात्मनोः क्रमेण सम्बधः । स्वातन्त्र्यपारतन्त्र्ययोरिति विषयसप्तमी । षष्टी च सम्बन्धार्थे । विषयविषयिभावः सम्बन्धः । तद्विषये विद्वानिति यावत् । परमात्मनः स्वातन्त्र्यं च जानन्निति फलितोऽर्थः । पक्षद्वयेऽपि विशेष्यमध्याहरति ॥ जीवोऽपीति ॥ न केवलं परमात्मा न बध्यते किं तु ज्ञानिजीवोऽपीति अपेरर्थः । एतेन मूले प्राग्विद्वच्छब्देन हरेः प्रकृतत्वादत्रापि स एवोच्यत इति प्रतीतिर्निरस्ता । मूले न बध्यत इति बन्धाभाव उच्यते । ज्ञानिनोऽपि संसारिणो बद्धत्वात्कथमेतदित्यत उक्तम् ॥ अविद्वज्जीववन्न बध्यत इति ॥ एतेन मूले तथेत्यस्य पूर्वं प्रकृतकुमतिवदविद्वज्जीववदित्यर्थ इत्युक्तं भवति । एवमात्मनोरिति स्ववाक्ये आत्मनोः स्वातन्त्र्यपारतन्त्र्ययोर्विद्वानेवमविद्वज्जीववन्न बध्यत इत्यनेन मूलगतस्यैवंशब्दस्य अविद्व-ज्जीववदित्यर्थकथनपूर्वकं न बध्यत इत्यनेनान्वय उच्यत इति मन्दानां प्रतीतिस् तद्वारणाय स्वोक्तं विवृणोति ॥ एवं विद्वानित्यन्वय इति ॥ मूले एवमित्यस्य विद्वानित्यनेनैवान्वय इत्युक्तं भवति ॥
विद्वानविद्वज्जीववन्न बध्यत इत्येतदुपपादयन् मूलं प्रमाणेन व्याचष्टे ॥ नित्यबद्धोऽपीति ॥ नित्यमस्वातन्त्र्येणेति शेषः । एतेन एवमस्वातन्त्र्यनिमित्तेन नित्यबद्धोऽपीत्येतल्लब्धं भवति । एवं विद्वानित्यस्यार्थः ॥ आत्मनो विष्णुना नित्यबद्धतां तस्य विष्णोर्नित्यमुक्तत्वं च वेत्तीति ॥ न बध्यत इत्यस्य स मुच्यत इति ॥ तथा न बध्यत इत्यत्राविद्वज्जीववदित्यर्थ उक्तः । तदभिप्रायं विवृण्वन्नित्यबद्धत्वे स मुच्यत इति मुक्त्यनुपपत्तिरित्यत आह ॥ तदधीनत्वेति ॥ भगवदधीनत्वरूपे बन्धे विद्यमानेऽपि अदुःखभाक् । अतो दुःखाभावाभिप्रायेण नित्यबद्धस्यापि मुक्तत्वोक्तिर्युज्यत इति भावः ॥ तदेतत्कैमुत्येनोपपादयति ॥ देहस्थोऽपीति ॥ जीवन्मुक्तोऽपीत्यर्थः । अन्यवद् अनपरोक्षिजीववत् । मुक्तिगश् चरममुक्तिं प्राप्तः ॥
तदयं मूलार्थः ॥ एवं दैवाधीन इत्युक्तप्रकारेण नित्यबद्धोऽपीति शेषः । पुरुषः शयनादिषु विरक्तः । एवं विद्वान् परमात्मा स्वतन्त्रः जीवोऽस्वतन्त्र इति जानन् तत्र शरीरयात्रार्थं गुणान्विषया-नाददन् स्वीकुर्वन्नपि तथा अविद्वज्जीववन्न बध्यते । देहस्थोऽपि न दुःखमनुभवति । मुक्त्यनन्तरं तु सुतरामिति ॥ ११ ॥
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥ १२ ॥
वैशारद्येक्षयाऽसङ्गशितया च्छिन्नसंशयः ।
प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥
तात्पर्यम्
‘नानात्वमिति वै मिथ्याज्ञानं कुत्रचिदुच्यते । वस्तुयाथात्म्यतोऽ-न्यत्वाज्ज्ञानस्योज्खो विवक्षित’ इति वाल्लभ्ये ॥ १३ ॥
पदरत्नावली
एतद्ज्ज्ञानफलमाह– प्रकृतिस्थोपीति ॥ असङ्गेन वैराग्येण शितया तेजितया वैशारद्या विशारदमूलया विष्णोरनुग्रहादुत्पन्नया ईक्षया अपरोक्षज्ञानेन च्छिन्नसंशयो ऽत एवासंसक्तः प्रकृतिस्थः शरीरस्थोपि ज्ञानी स्वप्नात् प्रतिबुद्ध इव नानात्वान् मिथ्याज्ञानान् निवर्तत इत्यन्वयः । ‘‘नानात्वमिति वै मिथ्याज्ञानं कुत्रचिदुच्यते । वस्तुयाथात्म्यतोऽन्यत्वाज्ज्ञानस्योज्झे विवक्षिते’’इति वचनान्नानात्वशब्दस्य मिथ्याज्ञानवाचित्वस्य प्रसिद्धेर्युक्तमुक्तम् ॥ १२,१३ ॥
श्रीनिवासतीर्थीया
न बद्ध्यत इत्युक्तं विशदयितुं प्रवृत्ते प्रकृतिस्थेति सार्धश्लोके नानात्वा-द्भेदज्ञानान्निवर्तत इत्यन्यथाप्रतीतिं पराकर्तुं व्याचष्टे ॥ नानात्वमिति ॥ नानात्वाद्विनिवर्तत इत्यनेन मिथ्याज्ञानस्य मिथ्याज्ञानेनोख्खो रहित एव विवक्षितः । तथा चासङ्गेन वैराग्येण शितया तीक्ष्णया विशारदो विष्णुस्तत्सम्बन्धित्वेन वैशारद्येक्षयाऽपरोक्षज्ञानेन छिन्नसंशयोऽत एवासंसक्तः प्रकृतिस्थः शरीरस्थोऽपि ज्ञानी स्वप्नात्प्रतिबुद्ध इव नानात्वान्मिथ्याज्ञानाद्विनिवर्तत इति श्लोकार्थः ॥१२,१३॥
प्रमेयचन्द्रिका
नन्वपरोक्षज्ञानिनोऽपि शरीरस्थत्वाविशेषादविद्वत्वाद्बन्ध एव युक्तः । तत्कथमुच्यते न तथा बध्यत इत्यत उच्यते ॥ प्रकृतिस्थोऽपीति सार्धश्लोकेन ॥ यथा कोशार्क-वायवः सर्वगता अपि तत्सङ्गरहितास् तथा प्रकृतिकार्यशरीरस्थोऽपि यस्माद्वैशारद्या निर्मलया असङ्गेन वैराग्येण शितयोत्तेजितया ईक्षया अपरोक्षज्ञानेन च्छिन्नसंशयः । छिद्यन्ते सर्वसंशया इति वचनात् । स्वप्नात्पुरुषः प्रतिबुद्ध इव नानात्वान्मिथ्याज्ञानाच्च विनिवर्तते । तस्मान्निवृत्ताज्ञानसंशयत्वादसंसक्तो भवति न बध्यत इत्यर्थः। अत्र नानात्वाद्भेदान्निवर्तते । ऐक्यज्ञानवान्भवतीत्यन्यथाप्रतीतेः प्रमाणेन तदर्थमाह ॥ नानात्वमितीति ॥ नानात्वमिति पदेन शास्त्रेषु कुत्रचिद्भेदः कुत्रचिन्मिथ्याज्ञानमुच्यते, प्रकृते मिथ्याज्ञानमेव नानात्वं विवक्षितमिति भावः । अन्यत्वार्थकं नानात्वपदं कथं मिथ्याज्ञानपर-मित्यत आह ॥ वस्तुयाथात्म्यत इति ॥ ज्ञानस्य विषय याथात्म्यमपेक्ष्यान्यथाकारत्वान्मिथ्याज्ञानं नानात्वमित्युच्यत इति योजना ।
ननु सम्यज्ज्ञानमपि विषयाकारापेक्षया अन्याकारं घटादिविषयो हि पृथुबुध्नोदराद्याकारको बाह्यश्च । ज्ञानं त्वर्थविषयीकारित्वरूपाकारयुक्तमान्तरं च अतस्तदपि विषयापेक्षयाऽन्याकारकमेव । तत्कथमुच्यते विषयमपेक्ष्यान्याकारकं ज्ञानं मिथ्याज्ञानमितीत्यत उक्तम् ॥ उज्खो विवक्षित इति ॥ उज्खे स्त्यागोऽत्रान्यत्वपदार्थतया विवक्षित इत्यर्थः । यस्मिंन्सन्निकृष्टकरणेन ज्ञानं जायते तद्विषयभूतं वस्तु त्यक्त्वा वस्त्वन्तरोल्लेखित्वमिह वस्तुयाथात्मतोऽन्यत्वेन विवक्षितम् । तच्च मिथ्याज्ञानत्वे प्रयोजकमिति भावः । यद्वा नानात्वपदेन भेद एवार्थो विवक्षितोऽत्र किं न स्यादिति चेत् । अत्र नानात्वाद्विनिवर्तत इति ॥ नानात्वस्योज्ख उज्खितिस्त्यागो विवक्षित इति । न हि भेदस्य त्यागो विवक्षितः । पूर्वोत्तरग्रन्थविरोधात् । प्रमाणान्तरविरोधाच्च । अतस्त्यागोक्त्यन्यथानुपपत्या मिथ्याज्ञानमेव नानात्वपदेन वक्तुं युक्तमिति भावः ॥ १३ ॥
यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।
वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः ॥ १४ ॥
पदरत्नावली
वाय्वाकाशयोः सर्वत्र सत्वेपि तन्निमित्तलेपान्वयो यथा नास्ति तथेति पूर्वोक्त-जीवन्मुक्त्यवस्थामेव विशदयति यस्येति । यस्य प्राणेन्द्रियमनोधियां चेष्टादिलक्षणा वृत्तयः वीत-सङ्कल्पाः फलानुसन्धानरहिताः स्युः स देहस्थोपि तद्गुणैर्देहगुणैर्निर्मुक्तः, नारिकेलकपालमुक्तान्तः-स्थनारिकेलवदित्यन्वयः ॥ १४ ॥
श्रीनिवासतीर्थीया
एतामेव जीवन्मुक्त्यवस्थां विशदयितुं मूलम् ॥ यस्येति ॥ वीतसंकल्पाः फलानुसन्धानशून्याः । तद्गुणैर्देहधर्मैः ॥ १४ ॥
यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न तु विक्रियते बुधः ॥ १५ ॥
पदरत्नावली
यावच्छरीरपातं जीवन्मुक्तः कथङ्कारं तिष्ठतीत्यत्राह– यस्येति । आत्मा देहो मनो वा हिंस्रैर् हिंसाशीलैः प्राणिभिः । येन किञ्चित् केनचिद् यदृच्छया प्राप्तेन चन्दनादिना । तत्र तस्यमवस्थायां स बुधो न व्क्रियत इति ॥ १५ ॥
श्रीनिवासतीर्थीया
आत्मा देहः । हिंस्रैर्हिंसाशीलैः । किञ्चित्केनचित् । येन केनचित्पुंसा । यदृच्छया प्राप्तेन चन्दनादिना क्वचिद्देशे काले च । तत्र तस्यामवस्थायाम् ॥ १५ ॥
प्रमेयचन्द्रिका
यदृच्छया अर्च्यते वा तत्र तथासत्यपि बुधो ज्ञानी नैव विक्रियते । शोकहर्षादिभिर्मनोविकारं प्राप्नोति ॥ १५ ॥
न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा ।
वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः ॥ १६ ॥
न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥ १७ ॥
तात्पर्यम्
‘दोषश्चैव गुणश्चोभावीशतन्त्रौ न मे वशौ । इति जानन्न दोषी (न्नदोषः) स्याद्वर्जितोऽल्पगुणेन चे’ति प्राथम्ये ॥ १६ ॥
पदरत्नावली
एतद् विशदयति न स्तुवीतेति । कुर्वतः पुरुषान् । साध्वादि वदतो वा । गुणदोषाभ्याम् अल्पेन तुच्छेन गुणेन दोषमात्रेण च वर्जितः । न तु गुणमात्रेण वर्जित इत्यर्थः । ‘‘दोषश्चैव गुणश्चोभावीशतन्त्रौ न मे वशौ’’ इत्यादिवाक्यविरोधः सर्वगुणवर्जित इत्यङ्गीकार इति भावः ॥ तत् कथमत्राह– न कुर्यादिति । आत्मारामो मुनिः साधु कुर्याद् वदेद् ध्यायेच्च । असाधु न कुर्यान्न वदेन्न ध्यायेच्च । शुभजीवानुद्दिश्येति शेषः । अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षम इत्यादेः साधु न कुर्यादित्यर्थो नोपपद्यत इति । आत्माराम इत्यत्रात्मशब्देन परमात्मैवोच्यते न जीवाद्यन्यतमः ॥ १६,१७ ॥
श्रीनिवासतीर्थीया
एतदेव विशदयति ॥ न स्तुवीतेति ॥ कुर्वतो, वदतः पुरुषानित्यर्थः । अत्र दोषवर्जितत्वं यथा सर्वात्मनैवं गुणवर्जितत्वमपि सर्वात्मनेति प्रतीतिं वारयितुं प्रमाणमाह ॥ दोषश्चेति ॥ जानन् स्यादित्यन्वयः । तथा च गुणदोषाभ्यां वर्जितस् तयोरस्वातन्त्र्यं जानन्नित्यर्थः । न दोषी स्याद्वर्जित इति ॥ तथा च सर्वात्मना दोषवर्जितः । स्वल्पगुणेन च वर्जितः । बहुगुणवानित्यर्थ उक्तो भवति ॥ १६,१७ ॥
प्रमेयचन्द्रिका
विकारस्याभाव एव तत्कार्यो भावप्रदर्शनेन विव्रीयते ॥ न स्तुवीतेति ॥ मुनिरपरोक्षज्ञानी साधु असाधु वा कुर्वतो वदतो वा जनान्न स्तुवीत न निन्द्येत न स्तौति न निन्दतीति व्यत्ययः । गुणदोषाभ्यां वर्जितः । सर्वत्र समं हरिं पश्यन्तीति वा । स्वशत्रुमित्रादिषु समज्ञानीति वा समदृक् भवति । आत्मारामः भगवद्दर्शनादिसुखं प्राप्तः । अपरोक्षज्ञानी स्वप्रयोजनाय साध्वसाधु वा किञ्चिन्न कुर्यान्न वदेन्न ध्यायेत् । केवलेश्वरप्रीत्यर्थं साधु कुर्याद्वदेद् ध्यायेच्च । असाधु न कुर्यादित्यादि योज्यम् । एवं मुनिरपरोक्षज्ञानी जडवद्भगवतोऽन्यत्र मनोभिनिवेशरहितो विचरेद्विचरति । प्रारब्धप्रतिबन्धदशापन्नं प्रति न स्तुवीत न निन्देत विचरेदिति विधिर्वा ।
अत्र गुणदोषाभ्यां वर्जित इत्ययुक्तम् । दोषवर्जनस्यैव युक्तत्वाद्गुणवर्जनस्यायुक्तत्वादित्यतो द्वेधा तदभिप्रायं प्रमेणेनाह ॥ दोषश्चेति ॥ ईशतन्त्र एवेति जानन्नदोषः । दोषवर्जितावल्पगुणेन वर्जितत्वादिति च सम्बन्धः । तथा च गुणदोषवर्जनं नाम तद्विषयकस्वातन्त्र्याभिमानवर्जनम् । तथा दोषैः सर्वात्मना वर्जनम् । ज्ञानभक्त्यादिबहुगुणवत्वाल्पगुणवर्जनं चाभिप्रेतमिति भावः
॥ १६ ॥
शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रमस्तत्र भ्रमफलो१ ह्यधेनुमिव रक्षतः ॥ १८ ॥
तात्पर्यम्
‘स्थितिशब्देन नियमः क्वचिज्जीवनमुच्यते । उत्थितत्वं क्वचिच्चैव क्वचिद्गातिविरोधिते’ति शब्दनिर्णये ॥ १८ ॥ (इदं तात्पर्यं श्रीनिवासतीर्थीये विंशे श्लोके गृहीतम्)
पदरत्नावली
तदेकनिष्ठेन भक्त्याऽधीतवेदादिशब्दराशिः फलवान् स्यादन्यथा निष्फल एवेत्याह– शब्देति । परे ब्रह्मणि न निष्णायान् निष्ठितो नियतो न स्याद् यदि तर्हि तस्य पुंसः श्रमः वेदाध्ययनायासो भ्रमोऽज्ञानं तमसि परिभ्रमणं वा फलमस्येति भ्रमफलः स्यात् । अधेनुमदोग्ध्री गां रक्षत इव यथा तथास्य तदार्जनपरिभ्रम एवावशिष्यते, न तु जीवनफलमिति भावः । यद्वा भ्रमफलः प्रयत्नफलः श्रमः कायक्लेशः । ‘‘स्थितिशब्देन नियमः क्वचिज्जीवनमुच्यते । उत्थितत्वं क्वचिच्चैव क्वचिद् गतिविरोधिता’’ इति । अत्र निष्णायादिति शब्देन नियम उच्यत इति भावः । अधेन्वा चरति माययैव वाचं शुश्रुवा अफलामपुष्पामिति श्रुतेः ॥ १८ ॥
श्रीनिवासतीर्थीया
शब्दब्रह्मणि वेदराशौ । निष्णातो निष्ठितः परे ब्रह्मणि श्रमो वेदाध्ययनायासो भ्रमफलो भ्रमस्तमसि परिभ्रमणं तत्फलकः । अधेनुम् अदोग्ध्रीम् । गामिति शेषः । यद्वा भ्रमफलो भ्रमः कृतिः प्रयत्नश्चेत्यभिधानात् प्रयत्नफलकः श्रमः कायक्लेशः ॥ १८ ॥
प्रमेयचन्द्रिका
अत्र जीवेश्वरवैलक्षण्योपपादनमुपक्रम्य जीवस्य देहगुणैर्बद्धत्वमीशस्य देहस्थत्वेऽपि तैरबद्धत्वमुक्त्वा परमात्मज्ञान्यपि देहस्थो न देहधर्मैर्लिप्यते । किमु परमात्मेति कैमुत्यप्रदर्शनायैतावत्पर्यन्तमपरोक्षज्ञानिस्थितिरुक्ता । अथ ज्ञानिप्रसङ्गादिदानीं परोक्षज्ञानिनाऽप्यन्तर्भगवन्निष्टा कार्या । अन्यथा वेदादिरूपं शब्दब्रह्म निष्फलं स्यादित्युच्यते ॥ शब्दब्रह्मणीत्यादि श्लोकत्रयेण ॥ अत्र निष्टां स्थितिं प्राप्तो निष्णातः । वेदे स्थितः परमात्मनि स्थित इति लभ्यते । तत्कथं युज्यते सर्वस्येशाश्रयत्वेन वेदे कस्याप्यनाश्रितत्वादित्यतो वेदे स्थितिरिहाध्ययनवेदार्थश्रवणमननादिनियमः ब्रह्मण्यस्ति । न निष्णायादित्युक्तस्थित्यभावस्तु तदेकरतिरूपनियमाभाव इत्यभिप्रेत्य स्थितिशब्दस्य नियमाद्यनेकार्थकत्वे प्रमाणमाह ॥ स्थितिशब्देनेति ॥ वेदादौ स्थितिर्नियमः ।
रोगिणा स्थितिरस्तीत्यादौ जीवनं, सुप्तोऽयमिदानीं स्थित इत्युक्ते शयनादुत्थितत्वं, ग्रामान्तरं जिगमिषुरप्यद्य स्थित इत्युक्तेर्गतिविरोधि चेत्यादि ज्ञेयम् । मूले यदि वेदे नियमवानपि परे ब्रह्मणि निष्ठां स्थितिं न प्राप्नुयात्तर्हि तस्य वेदाध्ययनादिश्रमः । भ्रमफलं भ्रमो मिथ्याज्ञानं नरकादिषु परिभ्रमो भ्रमरूपं फलं प्रत्येव भवतीति शेषः । अथवा भ्रम एव फलं यस्य तद्भ्रमफलम् । उक्तविधभ्रमफल-हेतुर्भवतीति लिङ्गव्यत्ययः । तत्र दृष्टान्तो अधेनुमदोग्ध्रीं रक्षतः पुरुषस्य श्रमस्तृणाहरणाद्यर्थक-परिभ्रमणमात्रफलकस्तथेत्यर्थः ॥ १८ ॥
गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च ।
वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ १९ ॥
तात्पर्यम्
‘दुग्धदोहां तु गां रक्षेत् क्षीरमात्रप्रयोजनः । यथा तद्वद्धरेरन्यवाचो-धारणमिष्यत’ इति हरिवंशेषु ॥ १९ ॥
पदरत्नावली
एतमेवार्थं दृष्टान्तबाहुल्येन दृढयति गां दुग्धेति । पराधीनं परप्रेष्यं कुर्वन्तं देहम् । अतीर्थीकृतं विषयोपरक्तम् । कृष्णा गोषु सम्पन्नक्षीरतमा, सती साध्वी पतिव्रता, परान्नः परपिण्डादः परजातः परेधितः, सोऽयं मनुष्यलोकः पुत्रेण जय्यः, अनपत्यं परं मन्ये कदपत्याच्छुचां पदात्, नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः, वाचस्तु गोविन्दगुणस्तवे फलम्, इत्यादेः । यस्त्वेवंविधं गवादिकं रक्षति स दुःखदुःखी दुःखेऽन्धेतमसि नित्यदुःखानुभववान् वर्तत इत्यर्थः
॥ १९ ॥
श्रीनिवासतीर्थीया
दुग्ध एव दोहो यया न पुनर्दोग्धव्यमस्तीति दुग्धदोहा । अत्र दुग्धदोह-गोरक्षणे दुःखं प्रतीयते । इदमयुक्तम् । तेन महापुण्यसद्भावादतस्तात्पर्यमाह ॥ दुग्धदोहां त्विति ॥ क्षीरमेव मे स्यादिति क्षीरमात्रप्रयोजनो न तु पारत्रिकपुण्यापेक्षेति । क्षीरमात्रप्रयोजनो यो दुग्धदोहां तु गां रक्षेत्स दुःखदुःखी । भवतीति शेषः । पराधीनं स्वनीचाधीनम् । अतीर्थीकृतं सत्पात्रे व्ययीकृतं न भवति । मया हीनां वाचमित्यस्य तात्पर्यं हरेरन्यवाचोधारणमिति ॥ हरिप्रतिपादकवाग्भिन्नवाचोधारणं दुःखहेतुरित्यर्थः । यथा तद्वदित्युक्त्या गां दुग्धदोहां यो रक्षति स दुःखदुःखी भवतीत्यादि यथा तद्वद्धीनां मयेति योजनोक्ता भवति । दुःखदुःखी अतिशयेन दुःखदुःखीत्यर्थः ॥ १९ ॥
प्रमेयचन्द्रिका
एष एवार्थोऽनेकदृष्टान्तैरुपपाद्यते ॥ गामिति ॥ अत्र गोरक्षकस्य दुःखित्वोक्तिरयुक्ता गोष्टे गा यवसादिनेति गोरक्षकस्य पुण्यहेतुत्वोक्तेरित्यतो धर्मोद्देशरहितस्य क्षीरमात्रोद्देशेन गोरक्षकस्यादोग्धृगोरक्षणं केवलदुःखापादकमित्येतदृगाद्या अपरा विद्या यदा विष्णोर्न वाचका इत्युक्तरीत्या विष्णुमहिमाप्रतिपादकताभावदशापन्नवेदाध्ययनादिकं कुर्वतो दुःखदुःखित्वे दृष्टान्त इत्याशयेन प्रमाणमाह ॥ दुग्धदोहामिति ॥ अतीर्थीकृतमपात्रे दत्तम् ॥ १९ ॥
यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य ।
लीलावतारेहितकर्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ २० ॥
पदरत्नावली
अन्यदेवताप्रसङ्गपरवाचो रक्षणे फलं किं न स्यादत्राह यस्यामिति । अस्य जगतः स्थित्युद्भवप्राणनिरोधलक्षणं कर्म । ‘‘दुग्धदोहां तु गां रक्षेत् क्षीरमात्रप्रयोजनः । यथा तद्वद् हरेरन्यवाचो धारणमिष्यते’’ इति वचनादन्यविषयवाचा नित्यानन्दलक्षणमोक्षः फलं न स्यादतो मुमुक्षुस् तन्न कुर्यात् । अतोऽतत्वजिज्ञासाऽनर्थकरीति मज्जिज्ञासैव पुरुषार्थसाधनं तद्वन्तमुद्दिश्य न कुर्यान्न वदेदिति विधीयते तत्वजिज्ञासुरिति ॥ २० ॥
श्रीनिवासतीर्थीया
अत्र दुःग्धदोहामिति तात्पर्यात्पूर्वं स्थितिशब्देनेति पाठमङ्गीकृत्य शब्दब्रह्मणि निष्णात इत्यत्र निष्णातशब्दव्याख्यानपरमिति टीकाकारास्तथा दीपिकाकाराश्च । अत्र तु स्थितिशब्देन यस्यामिति श्लोके दुग्धदोहामित्यस्मात्पश्चात्पाठमङ्गीकृत्य यस्यामित्युक्तमतो न विरोधः । यस्यामिति श्लोके स्थितित्राणपदयोः पौनरुक्त्यपरिहाराय स्थितिशब्दार्थमाह ॥ स्थितिशब्देनेति१ । तथा चात्र स्थितिशब्देन जीवनमुच्यते । त्राणशब्देन च रक्षणमित्याशयः । उत्थितत्वमित्यनेन ष्ठागतिनिवृत्ताविति धातोः । प्रस्थित इत्यत्रोत्थितत्वं स्थितिशब्देनोच्यत इति, गतिविरोधिता ‘‘अत्रायं स्थित’’ इत्यत्र स्थितिशब्देनोच्यत इति भावः । एवं चास्य जगतो हरेः स्थित्यादिजनकं यत्कर्म लीलागृहीतावतारैरीहितं चेष्टितं कृतं यत्कर्म कंसहननादिकर्मेत्यर्थः ॥ २० ॥
दुर्घटभावदीपिका
स्थितिशब्दस्य जीवनमर्थः । एतेन त्राणेत्येतत् स्थितीत्यनेन पुनरुक्तमिति दूषणमपहस्तितम् । स्थितीत्यनेन त्राणशब्दार्थलक्षणमुच्यत इत्यनङ्गीकारात् । तात्पर्ये यस्या-मित्युत्तरश्लोकस्थितस्थितिशब्दव्याख्यानं कृत्वा गां दुग्धदोहमसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वत्तीर्थीकृतमङ्ग वाचं हीनां यो रक्षति दुःखदुःखीति पूर्वश्लोकस्य दुग्धदोहां तु गां रक्षेत् क्षीरमात्रप्रयोजनः । यथा तद्वद्धहरेन्यवाचोधारणमिष्यत इति हरिवंशेष्वित्यनेन व्याख्यानं सिंहावलोकनन्यायेनेति द्रष्टव्यम् । यस्यां न मे पावनमिति श्लोक एवोत्तरार्धे विद्यमानस्य लीलावतारेहितकर्मेत्यस्य लीलावतारसम्बन्धिदेवापेक्षितकंसहननादिकर्मेत्यर्थः । एतेन लीलावतारेहित-कर्मेत्यत्रेहितेत्येतद्व्यर्थमिति चोद्यं प्रत्युक्तम् । कंसहननादिकर्म स्वप्रयोजनार्थं न भवति किं तु देवादिप्रयोजनार्थमेवेति ज्ञापयितुमीहितेत्यनेन देवाद्यपेक्षितत्वमुच्यत इत्यभ्युपगमात् ॥ २० ॥
प्रमेयचन्द्रिका
मया हीनामित्येतद्विवरणपूर्वकं तादृग्ग्रन्थाभ्यासवतोऽनर्थोऽभिधीयते ॥ यस्यामिति ॥ शब्दब्रह्मणीति प्रस्तुतत्वाद्यस्यां न मे पावनमित्याद्युक्तरीत्या ऋगादेर्विष्ण्ववबोध-कत्वावस्थानाभिप्रायेणेति ज्ञेयम् । यद्वा मया हीनामिति श्लोकद्वयं दुःशास्त्रनिंदापरं ज्ञेयम् ॥२०॥
एवं जिज्ञासयाऽपोह्य नानात्वभ्रममात्मनि ।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥
तात्पर्यम्
अर्थादन्यथात्वेन मनसः परिवर्तनं नानात्वभ्रमः । ‘जीवस्येशत्वविज्ञानं जीवानामेकता तथा । ईशस्य बहुता ज्ञानमीशस्यानीशता तथा । जगतोऽसत्यताज्ञानं नानात्वभ्रम उच्यत’ इति विवेके ॥ २१ ॥
पदरत्नावली
उपसंहरति एवमिति । वस्त्वयथार्थज्ञानं नानात्वभ्रममेव जिज्ञासया अपोह्य निरस्य उपारमेत, प्रवृत्तिमार्गादिति शेषः । नानात्वभ्रमो भेदभ्रम इति मतम् ‘‘जीवस्येशत्वविज्ञानं जीवानामेकता तथा । ईशस्य बहुताज्ञानमीशस्यानीशता तथा । जगतोऽसत्यताज्ञानं नानात्वभ्रम उच्यते’’ इत्यनेन विरुद्धत्वान्न ग्राह्यं च बुभूषुभिरिति ॥ २१ ॥
श्रीनिवासतीर्थीया
उपसंहरति ॥ एवमिति ॥ नानात्वभ्रमं भेदभ्रममित्यन्यथा-प्रतीतिनिरासाय व्याचष्टे ॥ अर्थादिति ॥ तथा चात्मनि मनसि । नानात्वभ्रमं वस्तुस्थितेरन्यथात्वं नानात्वमिति कीर्तितमित्युक्तत्वादन्यथात्वेन परिभ्रमणमित्यर्थः । अत्र प्रमाणमाह ॥ जीवस्येति ॥ ईशस्य हरेर्बहुत्वस्य भेदस्य ज्ञानम् । यद्वा । ईशस्य जगत्स्वामिनो बहुत्वज्ञानं भगवद्व्यतिरिक्ता अपि बहवो जगत्स्वामिनः सन्तीति भेदज्ञानम् ॥ २१ ॥
प्रमेयचन्द्रिका
मिथ्याज्ञानवर्जनमप्यावश्यकमिति वदन् शब्दब्रह्मणीत्यादिनोक्तभगवद्भक्त्यादि-नियमस्यावश्यकस्योपसंहारः क्रियते ॥ एवमिति ॥ एवमुक्तप्रकारेण जिज्ञासया विचारेण आत्मनि परमात्मनि जीवात्मनि च स्थितमीश्वरादिविषषे नानात्वभ्रममपोह्य सर्वान्तर्गते मयि विमलं मनो निवेश्य उपारमेत । प्रवृत्तिधर्माद्विषयादेश्चेत्यर्थः । तत्र नानात्वभ्रमः भेदभ्रम इत्यन्यथाप्रतीतेस्तन्निरासाय व्याचष्टे ॥ अर्थादिति ॥ परिवृत्तिश्च कथ्यते । भ्रम इत्येव विद्वभिरित्युक्तेर्मनसोऽर्थयाथार्थ्य-मपेक्ष्यान्यथात्वेन विविधान्यप्रकारतया परिवर्तनमन्यान्याकारेण विषयीकरणं नानात्वभ्रम इत्यर्थः । तदेव प्रमाणेन विवृणोति ॥ जीवस्येति ॥ ईशस्य बहुता विष्णुब्रह्मशिवस्कन्दानीनां प्रत्येकमीशताज्ञानमित्यर्थः । ईशस्येति वस्तुत ईशस्येति । हरेरनीशता चेत्यर्थः ॥ २१ ॥
यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर१ ॥ २२ ॥
पदरत्नावली
नन्वस्तु जीवन्मुक्तस्य समर्थस्य हरौ निरन्तरं मनो निधायोपास्तिः, तदितरस्य मुमुक्षोरुपासनोपायः क इति तत्राह– यदीति । कृतानि मयि समर्प्य कुर्वाणानि मद्विषयत्वेन समाचार
॥ २२ ॥
श्रीनिवासतीर्थीया
अस्त्वियं जीवन्मुक्तस्यावस्था । मुमुक्षोः क उपाय इत्यत आह ॥ यदीति ॥ निश्चलं यथा स्यात्तथा धारयितुम् । कृतानि कर्माणि मयि समर्प्येदानीं कुर्वाणानि निरपेक्षः सन् मद्विषयत्वेन समाचर । यद्वा । सर्वाणि कर्माणि मयि मद्विषयत्वेन समाचरेत्यर्थः ॥२२॥
प्रमेयचन्द्रिका
मूले भगवति मनोनियोजनायामसामर्थ्ये कथमित्यतस्तदुपाय उच्यते ॥ यदीत्यादि श्लोकचतुष्टयेन ॥ मयि ब्रह्मणि निश्चलं यथा भवति तथा मनो धारयितुमित्यन्वयः । मयि मद्विषये । मत्पूजात्वेन कर्माणि समाचरेदिति च सम्बन्धः । निरपेक्षः हरिप्रीतिमन्तरेणा-न्याकाङ्क्षारहितः ॥ २२ ॥
श्रद्धालुर्मे कथाः शृण्वन् सुभद्रा लोकपावनीः ।
गायन्ननुस्मरन् कर्म जन्म वाऽभिनयन्२ मुहुः ॥ २३ ॥
मदर्थे धर्मकामार्थानाचरन् मदुपाश्रयः ।
लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ २४ ॥
पदरत्नावली
निष्कामत्वेन मामुद्दिश्य कर्म कुर्वाणस्येत्थम्भावमाह– श्रद्धालुरिति ॥ मत्कथाश्रवणादिना किं फलं स्यादित्यत उक्तं लभत इति । निरन्तरस्मृतिफलां भक्तिं लभते
॥ २३,२४ ॥
श्रीनिवासतीर्थीया
अभिनयन् अनुमोदनं कुर्वन् । मे मत्स्वरूपमित्यन्वयः ॥२३,२४॥
प्रमेयचन्द्रिका
अभिनवं जन्म रामकृष्णाद्यवतारमभिनवम् । कर्म सेतुबन्धन-नवनीतहरणादि-रूपम् । मदर्थे मत्प्रीत्यर्थम् । मदुपाश्रयः । मदेकशरणः ॥ २३,२४ ॥
सत्सङ्गलब्धया भक्त्या मयि मां य उपासते ।
स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् ॥ २५ ॥
उद्धव उवाच—
साधुत्व उत्तमश्लोक मनः कीदृग्विधं प्रभो ।
भक्तिस्त्वय्युपयुञ्जीत कीदृशी सद्भिरादृता ॥ २६ ॥
एतन्मे पुरुषाध्यक्ष प्रपन्नाय च कथ्यताम् ॥ २७ ॥
पदरत्नावली
सापि सत्सङ्गलब्धा चेद् भगवदपरोक्षज्ञानमुत्पाद्य तेन मुक्तिं जनयतीत्याह– सत्सङ्गेति । पदं वैकुण्ठादिस्थानम् ॥ सद्भिरिति प्रस्तुतसल्लक्षणज्ञोऽप्युद्धवो लोकोपकाराय तल्लक्षणं पृच्छति साधुत्व इति । साधुत्वासाधुत्वयोर्मनःशुद्ध्यशुद्धिनिमित्तत्वात् साधुत्वेन वर्तमानानां पुंसां मनः कीदृग्विधं भवति । साधवः किंलक्षणा इत्यर्थः । कीदृशी किंलक्षणा भक्तिस्त्वय्युपयुञ्जीत त्वदुत्तमप्रसादयोगजननी सद्भिरादृता सम्भाविता । आदृतौ सादरार्चितावित्यमरः ॥ एतत् सद्भक्योर्लक्षणम् ॥ २५–२७ ॥
श्रीनिवासतीर्थीया
उत्तरग्रन्थोपक्षेपाय सत्सङ्गेति सद्भिरिति चोक्तम् ॥ साधुत्व इति । साधुत्वे वर्तमानानां पुंसां मनः कीदृग्विधम् । कीदृग्गुणोपेतम् । यद्वा । साधुत्वविषये मनः कीदृग्विधं मनसा के साधव इति ज्ञेयाः । साधवः किं लक्षणका इति फलितार्थः । आदृता सादरमर्चिता । आदृता सादरमर्चितेत्यमरः ॥ २५–२७ ॥
दुर्घटभावदीपिका
हे उत्तमश्लोक प्रभो । कीदृग्विधं मनः साधुत्वे ज्ञापकमिति । एतेन साधुत्व इत्येतदनन्वितं साधवः कीदृशा इति वक्तव्ये मनः कीदृग्विधमिति वचनमसङ्गतमिति दूषणं परास्तम् । ज्ञापकमित्यस्य शेषः साधूनां मनः कीदृशमिति तात्पर्यार्थ इति चाभ्युपेत्य कीदृङ्मनो-वृत्तिशिष्टाः साधव इति महातात्पर्यार्थ इत्यभ्युपगमात् ॥ २६ ॥
प्रमेयचन्द्रिका
भक्तिफलमुच्यते ॥ सत्सङ्गेति ॥ पदं वैकुण्ठादिस्थानम् ॥ प्रकृतसज्जन-भक्त्यादेर्लक्षणं पृच्छति ॥ साधुत्व इति ॥ साधुत्वे वर्तमानानां मन इति सम्बन्धः । मनोधर्म एव हि साधुत्वादिज्ञापकः । ततश्च साधवः किंलक्षणका इत्युक्तं भवति । आदृता सम्पादिता
॥ २५–२७ ॥
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ २८ ॥
तात्पर्यम्
स्वेच्छोपात्तपृथग्वपुर् वसुदेवादिशरीरं स्वेच्छया येन स्वीकृतमिति । ‘नित्यानन्दशरीरोऽपि वसुदेवादिदेहगः । प्रदर्शयेज्जनिं स्वस्य नित्यं देहविवर्जितः ।
**वसुदेवादिदेहेषु प्रवेशस्तस्य भण्यते । देशेपादानमिति तु न ह्यन्यो देह इष्यते ॥ अन्याभिमतदेहेषु प्रविष्टः सर्वदा हरिः । नान्यानभिमतो देहो विष्णोरस्ति कदाचन ॥ अतोऽशरीरो भगवान् पुत्रताभिमतिस्तु या । वसुदेवादिकानां तु सैव मिथ्यामतिर्भवेत् । अन्याहंभावयुग्देह एवासौ हरिरास्थितः । न तदन्येषु देहेषु क्वचित्तस्य प्रवेशनम् । मम पुत्रस्त्वयमिति भ्रामणाय यदा हरेः । वसुदेवादिदेहेषु तनूपात्तिस्तु सा गतिः । अनुपात्त-शरीरस्य तनूपात्तिरितीष्यते । तद्देहं पितृदेहत्वे उपादत्ते यतो हरिरि’ति प्रकाशसंहितायाम् **
॥ २८ ॥
पदरत्नावली
पृष्टार्थस्य दुरवबोधत्वाद् दुष्परिहरः (मम प्रश्नः) इति नेत्याह– त्वं ब्रह्मेति । स्वेच्छयोपात्तं स्वीकृतं पृथग्वपुः शोभनाकारं वसुदेवादिशरीरं येन सः स्वेच्छोपात्तपृथग्वपुः । शुभाकारे तनौ वपुरिति यादवः । ‘‘नित्यानन्दशरीरोऽपि वसुदेवादिदेहगः । प्रदर्शयेज्जनिं स्वस्य नित्यं देहादिवर्जितः । वसुदेवादिदेहेषु प्रवेशस्तस्य भण्यते । देहोपादानमिति तु न ह्यन्यो देह इष्यते । अन्याभिमतदेहेषु प्रविष्टः सर्वदा हरिः । नान्यानभिमतो देहो विष्णोरस्ति कदाचन । अतोऽशरीरो भगवान् पुत्रताभिमतिस्तु या । वसुदेवादिकानां तु सैव मिथ्यामतिर्भवेत् । अन्याहम्भावयुग्देह एवासौ हरिरास्थितः । न तदन्येषु देहेषु क्वचित् तस्य प्रवेशनम् । मम पुत्रस्त्वयमिति भ्रामणाय यदा हरिः । वसुदेवादिदेहेषु तनूपात्तिस्तु सा गतिः । अनुपात्तशरीरस्य तनूपात्तिरितीष्यते । तद्देहं पितृदेहत्व उपादत्ते यतो हरिः’’ इत्येतदस्मिन्नर्थे मानम् ॥ २८ ॥
श्रीनिवासतीर्थीया
परमं ब्रह्म । व्योम तद्वद्व्याप्तमित्यर्थः । स्वेच्छोपात्तपृथग्वपुरिति वपुषो भगवत्स्वरूपात्पार्थक्यमुच्यते । तदयुक्तम् । देहदेहिविभेदश्च न क्वचित्परमेश्वर इत्यादिप्रमाणविरोधा-दित्याशयेन तदनूद्य व्याचष्टे ॥ स्वेच्छेति ॥ तत्र प्रमाणमाह ॥ नित्यानन्देति ॥ देहविवर्जितो नित्यं सदा जडदेहविवर्जितः । अन्यः स्वस्माद्भिन्नः । ननु यस्य पृथिवी शरीरमित्यादौ पृथिव्यादे-र्भगवत्स्वरूपत्वोक्तेर्न ह्यन्य इत्युक्तमशरीरत्वमयुक्तमित्यत आह ॥ अन्येति ॥ स्वभिन्नजीवान्तरे-णेत्यर्थः ॥ नान्येति ॥ यथा जीवानामन्यानभिमतः स्वेनैवाभिमतो जडदेहः स्वातन्त्र्येणास्ति तथा नेत्यर्थः । तथा च धरादेव्यभिमतपृथिव्यादिष्वेव भगवतः सत्वेन तेषां तच्छरीरत्वोक्तिर्युक्तेत्या-शयः । कदाचन यत इति शेषः । ननु वसुदेवादेः सकाशादुत्पन्नजडदेहाभावे वसुदेवादेर्मम पुत्रोऽयमिति पुत्रतामतिः कथं स्यात्तज्जन्यदेहं विनाऽयोगात् । तदन्यथाऽनुपपत्त्या जडदेहोऽङ्गीकार्य इत्याशङ्क्य साऽभिमतिर्भ्रान्तिरित्याह ॥ पुत्रतेति ॥ सा मिथ्यामतिरेवेत्यन्वयः । अस्मिन्नेवार्थे प्रकाशसंहितान्त-र्गतमेव प्रदेशान्तरस्थं वाक्यान्तरं पठति ॥ अन्याहंभावयुगिति ॥ अहंभावोऽभिमानः । एवकार-व्यावर्त्यमेव दर्शयति ॥ न तदन्येष्विति ॥ अन्याहंभावरहितेषु । ग्रन्थेषु देहे तनूपादानोक्तेर्वसुदेवादेः पुत्रताऽभिमतेश्च का गतिरित्यत आह ॥ ममेति ॥ भ्रामणाय भ्रान्तिजननाय । अनेन पुत्रतामते-र्भ्रान्तित्वमुक्तं भवति । वसुदेवादिदेहेषु या हरेर्गतिर्गमनं प्रवेशः सा तनूपात्तिरित्यर्थः ।
तनूपात्त्युक्तिगतिप्रदर्शनपरं प्रकाशसंहितान्तर्गतमेव प्रदेशान्तरवाक्यान्तरं पठति ॥ अनुपात्तेति ॥ हरेरिति शेषः । इति वक्ष्यमाणप्रकारेण । तमेव प्रकारं दर्शयति ॥ तद्देहमिति ॥ तच्छब्देन ग्रन्थे पूर्वप्रकृतवसुदेवादिदेहपरामर्शः । अन्याहंभावयुगित्यनुपात्तेति वाक्यद्वयं तत्रैव प्रदेशान्तरस्थमेव न तु निरन्तरं पौनरुक्त्यापत्तेरिति ज्ञेयम् । न चाधिकविधानादपुनरुक्तिरिति वाच्यम् । तदभावात् । तथा हि । अन्याहंभावयुगित्यादेर् देहेष्वित्यनेनोक्तत्वात् । मम पुत्रस्त्वित्यादेः पुत्रताऽभिमतिस्त्वित्य-नेनोक्तत्वात् । अनुपात्तेत्यादेस्तु पुनरुक्तिः स्पष्टेत्यादि । न चायमुपसंहार इति वाच्यम् । तस्मादित्यादितत्ज्ञापकाभावात् । अध्याहारस्य च सति रीत्यन्तरे क्लिष्टत्वात् । न चैषा रीतिर-प्रामाणिकीति वाच्यम् । विष्णुतत्त्वनिर्णयटीकायां वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षयेत्यत्र ब्रह्माण्डपुराणान्तर्गतमेव प्रदेशान्तरस्थवाक्यान्तरमुदाहरति । वेदानामितीति टीकाकारैरेवोक्तत्वादिति मन्तव्यम् । तथा च स्वेच्छयोपात्तं पृथग्वपुः स्वभिन्नवसुदेवादिदेहो येनेत्यर्थ उक्तो भवति ॥२८॥
प्रमेयचन्द्रिका
पुरुषाध्यक्षस्योपपादनम् ॥ त्वं ब्रह्मेत्यादि ॥ विशेषत ओतं व्याप्तमस्मिन् जगदिति व्योम । अत्र स्वेच्छोपात्तेति पदं स्वेच्छया स्वीकृतभिन्नदेह इत्यन्यथाभानादनूद्यार्थमाह ॥ स्वेच्छेति ॥ स्वेच्छया स्वस्य प्रादुर्भावायोपात्तं स्वीकृतं पितृदेहतया परिगृहीतं पृथग्भिन्नं वसुदेवादिशरीरं येन सः स्वेच्छोपात्तपृथग्वपुरित्यर्थः ॥
तत्र प्रमाणमाह ॥ नित्यानन्देति ॥ नित्यं जडदेहेन्द्रियवर्जितोऽपि नित्यानन्दोपलक्षित-पूर्णानन्तगुणात्मकशरीरोऽपि स्वस्य जनिं वसुदेवादिदेहगः सन् प्रथमतो वसुदेवं प्रविश्य पश्चादृतुकाल एव देवकीगर्भगस् ततः प्रादुर्भावेन निमित्तेनाज्ञानां जनिं प्रदर्शयेदित्यर्थः ॥ ननु हरेरपि जडदेहोपादानं तत्र तत्रोच्यते । अतो देहवर्जित इत्ययुक्तमित्यत आह ॥ वसुदेवादीति ॥ तुशब्दोऽवधारणे । प्रवेश एवेति सम्बन्धः । तद्व्यावर्त्यमाह ॥ न हीति ॥ अन्यो देहो ऽस्मदादेरिव जडदेहः। तथापि न जडदेहवर्जितत्वं युक्तम् । जीवशरीरेऽपि हरेरवस्थानस्य प्रमितत्वात् । न च तद्धरिशरीरं नेति युक्तम् । जीवोऽन्यरथगो यथेति जीवदेहतया प्रतीतस्यापि भगवदीयत्वोक्तेरित्यत आह ॥ अन्याभिमतेति ॥ परदत्तस्वाम्यमभिमानः । तद्विषयेषु देहेष्वित्यर्थः । सत्यमस्ति हरेर्जडदेहानुप्रवेश-स्तथापि तद्राहित्यं युज्यते । तद्देहस्याबन्धकत्वात् । तदपि कुतस् तत्राभिमानाभावेन तन्निमित्तकसुख-दुःखादिबन्धाभावादिति भावः ॥ व्यतिरेकं दर्शयति ॥ नेति ॥ फलितमाह ॥ अत इति ॥ ननु हरेरन्यानभिमतजडदेहाभावे वसुदेवदशरथादेः कृष्णरामादिषु पुत्रताभिमानो न स्यात् । तद्देहस्य स्वदेहाजन्यत्वात् । पुत्राभिमतिश्च प्रमितेत्येत आह ॥ पुत्रताभिमतिरिति ॥ अत्र वक्तव्यम् । किमत्र मद्देहोपादानकदेहवत्वादयं मत्पुत्र इत्यभिमतिर्विवक्षिता । उत चिदानन्ददेहोऽपि हरिर्मय्यनुग्रहेण प्रविष्टस्तेनैव देहेन निसृतः पुत्रत्वेनोपास्य इति । आद्ये पुत्रताभिमतिर्मिथ्यामतिरेव । द्वितीये न विरोध इति भावः ॥ तच्चोक्तं सुतात्मना ब्रह्मतया च दध्यावित्यादौ ॥
ननु पृथिव्यादिशरीरस्य जडत्वं निश्चितम् । तत्र च सहस्रारचक्रचिन्हितदक्षिणाकारत्वादि-विष्णुलक्षणा च प्रमिता । अतो जडदेहवत्वं तस्यास्तीत्यङ्गीकार्यमित्यत आह ॥ अन्याहम्भावेति ॥ सत्यं पृथिव्यादिदेहो जडमिति । तत्र पृथिव्यादिशब्दवाच्यजीवाभिमत एव देहे हरेर्विशेषावेश-वशाल्लक्षणविशेषः । ततश्चान्याभिमतात्मीयजडदेहाभावान्नोक्तानुपपत्तिरिति भावः ॥ ननु अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इति हरेः सर्वत्र स्थितत्वेन कुणपेऽपि भावात्तदेवाभिमानिजीवस्यो-त्क्रान्तित्वेन तस्य देहस्यान्यानभिमतत्वेन तत्रस्थस्य हरेरन्यानभिमतदेहेषु प्रवेशनं नेत्युक्तमयुक्तमिति चेन्न । सत्यं देहिनो जीवस्योत्क्रान्तत्वेऽपि कुणपाभिमानिनो जीवस्य तत्र सत्वात् । तदुक्तमैतरेय-भाष्ये । यथाऽश्मानस्तृणकाष्टाश्च सर्वैर्दिष्टक्षये स्वां प्रकृतिं भजन्त इति । तथा च यस्येदं शरीरं भोगायतनं तस्योत्क्रान्तत्वेऽपि कुणपाभिमानिजीवस्य देहसामान्याभिमानिवैश्रवणादेर्वा तत्र सत्वेनान्यानभिमतत्वाभावात्तत्र हरेः सत्वेऽपि नोक्तविरोध इति ॥
ननु कृष्णादिदेहस्य वसुदेवाज्जन्यत्वाभावे रूपविशेषेण वसुदेवदेवक्यादिदेहप्रवेशनिर्गमौ न स्याताम् । निष्प्रयोजनत्वात् । भगवता कृष्णादितनुः स्वीकृतेति कादाचित्कतया शास्त्रीयव्यवहारोऽप्य-युक्तः स्यादित्यत आह ॥ ममेति ॥ वसुदेवादिकानां मम पुत्रोऽयमिति तुशब्दादन्येषां वसुदेवादिपुत्रोऽयमिति च भ्रान्त्या भ्रमजननाय वसुदेवादिदेहेषु गतिः प्रवेशः । तदा सा कादाचित्का गतिरेव न तूपात्तिरित्युच्यत इत्यर्थः । तथा च भ्रामणं प्रयोजनम् । न तूपात्तिव्यवहारोऽपि पितृदेहप्रवेशमात्रनिमित्तक इत्यर्थः ।
ननु न पितृदेहप्रवेशनिर्गममात्रेण देहोपात्तिव्यवहारो युज्यते । तथा च परकीयगृहप्रवेश-निर्गमाभ्यामपि तद्गृहोपात्तिव्यवहारप्रसङ्गात् । अतोऽस्मदादिवदेव न तूपात्तिरङ्गीकार्येत्यत आह ॥ अनुपात्तेति ॥ निर्विकारोऽक्षरः शुद्ध आनन्दमात्रममृतं सज्ज्ञानानन्दशीर्ष इत्यादिषु नित्यनिर्दोष-चिदानन्दमात्रशरीरतयाऽनुपात्तशरीरत्वेन प्रमित अतोऽनुपात्तशरीरस्य तनूपात्तिरिति हरिस्तद्देहं वसुदेवादिदेहं पितृदेहत्वे लोकप्रतीत्या पितृदेहत्वेन प्रकारेणोपादत्त इति यतः यत् तदेवेर्यते व्यवह्रियते । इष्यत इति पाठे अङ्गीक्रियत इत्यर्थः । तथा च स्वेच्छया पितृदेहत्वेन स्वीकारान्न गृहोपात्ति-व्यवहारप्रतिबन्दीति भावः ॥ २८ ॥
श्रीभगवानुवाच—
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ॥ २९ ॥
पदरत्नावली
भगवान् सल्लक्षणं वक्तीत्याह– भगवानिति । सर्वदेहिनामकृतद्रोहः । अनवद्य आत्मा मनो यस्य स तथा ॥ २९ ॥
श्रीनिवासतीर्थीया
सर्वदेहिनामकृतद्रोहः । सत्यसारः सत्यवचनानीत्यर्थः । अनवद्यात्मा निर्दुष्टमनाः ॥ २९ ॥
प्रमेयचन्द्रिका
साधुलक्षणमुच्यते ॥ कृपालुरिति ॥ सर्वदेहिनां विषये कृपालुरकृतद्रोह इति सम्बन्धः । तितिक्षा द्वन्द्वसहिष्णुता । सत्यसारः सत्यवचने स्थिरः । अनवद्यात्मा निर्दुष्टमनाः । समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ २९ ॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ ३० ॥
पदरत्नावली
सङ्क्षिप्तं किञ्चन प्रश्नयोग्यं धनं न विद्यत इत्यकिञ्चनः । सङ्कोचे किञ्चन व्यर्थे मुधेति यादवः । अनीहो निषिद्धाचरणवर्जितः । वैष्णवधर्मे स्थिरो निश्चलः । अहमेव शरणं यस्य स मच्छरणः । मुनिः सद्गुणमननशीलः ॥ ३० ॥
श्रीनिवासतीर्थीया
अनीहो निषिद्धाचरणशून्यः । शान्तो भगवन्निष्ठबुद्धिः । स्थिरो वैष्णव-सिद्धान्ते निश्चलः । अहमेव शरणं यस्य मच्छरणः । मुनिर्मननशीलः ॥ ३० ॥
प्रमेयचन्द्रिका
दान्तो निगृहीतेन्द्रियः । शुचिः शुद्धदेहः । अकिञ्चनो निर्धनः । अनीहो निषिद्धाचारादिरहितः । शान्तो भगवन्निष्टबुद्धिः । स्थिरो धर्मज्ञानयोः । मच्छरणो मद्भक्तः । मुनिर्मौनी ॥ ३० ॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ॥ ३१ ॥
पदरत्नावली
अप्रमत्तो विहिताचारे प्रमादरहितः । गभीरात्मा अनवगाह्यमनोगतिः । आपदि धृतिमान् । जिताः षट् कामादिगुणाः षडिन्द्रियविषया वा येन स तथा । अमानी आत्मन्यविद्यमान-गुणाभिमानरहितः । मानदो ज्ञानोपदेष्टा । कल्पः विहितक्रियाकरणनिपुणः । कृपालुत्वं मनोधर्मः कारुणिकत्वं कायिकधर्म इति पृथगुक्तम् । कविः सर्वज्ञः ॥ ३१ ॥
श्रीनिवासतीर्थीया
अप्रमत्तो विहिताचरणे प्रमादशून्यः । गभीरात्मा गभीरे भगवत्यात्मा यस्य स तथा । अनवगाह्यमनोगतिर्वा । धृतिमान् आपदि धैर्ययुक्तः । जितषड्गुणो जिताः काम-क्रोधादिषड्गुणा येन स तथोक्तः । अमान्यात्मन्यविद्यमानगुणाभिमतिरूपाहङ्कारशून्यः । मानदो ज्ञानोपदेष्टा । कल्पो विहितक्रियाकरणे निपुणः । करुणो दयावान् ॥ ३१ ॥
प्रमेयचन्द्रिका
गभीरात्माऽगाधधिषणः । धृतिमान्योगाचरणे । जिताः षट् कामादयः गुणाः । अमानी दुरभिमानहीनः । परेषां बहुमानादः । कल्यः समर्थो विहिताचरणे । मैत्रः सर्वत्र स्नेहवान् । कृपालुत्वं मनोधर्मः । कारुणिकत्वं कायधर्म इति टीकायाम् । परोपकारेच्छावान् कारुणिक इत्येके । कविः सर्वज्ञः ॥ ३१ ॥
आज्ञायैव गुणान् दोषान् मया दिष्टानपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ ३२ ॥
पदरत्नावली
सामान्यलक्षणमुक्त्वा विशेषलक्षणमाह– आज्ञायैवेति । चशब्द एवार्थे । यो मया मदीयैरप्यादिष्टान् गुणान् दोषानपि आज्ञाय सम्यग्ज्ञात्वैव स्वकान् स्वविहितान् धर्मान् भागवतसञ्ज्ञान् मयि सन्त्यज्य समर्प्य मां भजेत् स एव सत्तम इत्यन्वयः ॥ ३२ ॥
श्रीनिवासतीर्थीया
एवं सत्सामान्यलक्षणमुक्त्वा विशेषलक्षणमाह ॥ आज्ञायेति ॥ मया मदीयैरप्येते गुणा एते दोषा इत्यादिष्टान्नुपदिष्टान् गुणान् धर्मान् दोषान् अधर्मांश्च जानीयात् । आज्ञायैव च स्वकान् स्वकीयान् स्वेन क्रियमाणान् सर्वान्नोऽस्माकं धर्मान् भागवतधर्मानिति यावत् । सन्त्यज्य मयि समर्प्य यो मां भजेत्स एवोत्तम इति योज्यम् ॥ ३२ ॥
प्रमेयचन्द्रिका
सामान्यलक्षणमुक्त्वा विशेषलक्षणमुच्यते ॥ आज्ञायेति ॥ आत्मीयान् गुणान् दोषानाज्ञाय सम्यक् ज्ञात्वा तत्र च दोषान् सन्त्यज्येति ग्राह्यम् । मया आदिष्टान् शास्त्ररूपाज्ञया क्लृप्तान् स्वस्वयोग्यधर्मानपि मयि सन्त्यज्य समर्प्य यो मां भजेत् स एव साधुषूत्तम इत्यर्थः ॥ ३२ ॥
ज्ञात्वा ज्ञात्वाऽथ ये वै मां यावान् यश्चास्मि यादृशः ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥ ३३ ॥
तात्पर्यम्
ज्ञात्वाज्ञात्वेति वीप्सा । ‘ज्ञात्वाऽपि मम माहात्म्यं तत्रोत्सुकतया पुनः । विशेषाच्च विशेषेण ज्ञात्वा मामश्नुतेऽधिकमि’ति विज्ञाने ॥ ३३ ॥
पदरत्नावली
भक्तेरनेकविधत्वेप्युत्तमोत्तमायाः शुश्रूषितत्वेन पृष्टत्वात् तं प्रश्नं परिहरति ज्ञात्वेति । अथवा सतां लक्षणकथनानन्तरमात्यन्तिकभक्तलक्षणमुच्यते । यद्वा शास्त्रगुरूपदेशतो भगवन्माहात्म्यं ज्ञात्वा अथ च विशेषतो ज्ञात्वेति वीप्सया माहात्म्यज्ञाने पुनःपुनःर्विशेषं द्योतयति । तदुक्तम् ‘‘ज्ञात्वापि मम माहात्म्यं तत्रोत्सुकतया पुनः । विशेषाच्च विशेषेण ज्ञात्वा मामश्नुतेऽधिकम्’’ इति । परिमाणतो यावानस्मि स्वरूपतो योऽस्मि लक्षणतो यादृशोस्मीति तत्वेन । येऽनन्यभावेन अत्युत्तमभक्त्या मां चैव भजन्ति ते भक्ततमा निरतिशयभक्ता मता नानात्वेन ज्ञाता इत्यन्वयः । अत्र तमप्प्रत्ययेन भक्तानां बाहुविद्यप्रकाशनेन भक्तेरपि तथात्वं सूचयतीति ॥ ३३ ॥
श्रीनिवासतीर्थीया
ये पुरुषाः । अहं, यो यत्स्वरूपो, यावान् परिमाणतो, यादृशो गुणै-रस्मि तं तादृशं मां ज्ञात्वाऽनन्यभावेनानन्यभक्त्या ये भजन्तीत्यन्वयः । इदमुत्तमभक्तब्रह्मविषयम् । यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेया विष्णावेव च सा भवेदित्युक्तेः । द्विरुक्तिः किमर्थेत्यतस्तात्पर्यमाह ॥ ज्ञात्वेति । इति द्विरुक्तिर्वीप्सार्था । तथा च पुनः पुनर्ज्ञात्वेत्यर्थः । किं पुनर्ज्ञानेनेत्यत आह ॥ ज्ञात्वाऽपीति । अधिकं मामिति सम्बन्धः
॥ ३३ ॥
दुर्घटभावदीपिका
यो मम गुणान्स्वातन्त्र्यादिगुणान्स्वस्य दोषान्पारतन्त्रयादिदोषानाज्ञाय सम्यग्ज्ञात्वा मया मदीयैरप्यादिष्टान् स्वकान्स्ववर्णाश्रमोचितान्सर्वान्धर्मान् कृत्वा मयि सन्त्यज्य समर्प्य च मां भजेत् । मत्कथाश्रवणादिरूपभजनं कुर्यात्स एव सत्तमः साधूत्तम इति । एतेनाज्ञायैव गुणा-न्दोषानित्येतद्व्यर्थमिति दूषणं पराकृतम् । मम कर्तृत्वं नास्ति किन्तु भगवत एव कर्तृत्वमित्यनुसन्धानरूपभगवत्समर्पणोपपादनार्थमाज्ञायैव गुणान्दोषानित्येतत्प्रवृत्तमित्यूरीकरणात्
॥ ३२ ॥
प्रमेयचन्द्रिका
एवं साधुलक्षणमभिधायोत्तमभक्तलक्षणमुच्यते ॥ ज्ञात्वेति ॥ आनन्तर्ये चशब्दः साधुलक्षणकथनानन्तरम् उत्तमभक्तलक्षणमुच्यत इत्यर्थः । अहं ज्ञानानन्दादिगुणक्रिया-द्रव्यपरिमाणतो यावानस्मि इतरव्यावर्त्यः स्वरूपतो योऽस्मिन् लक्षणसूत्राद्युक्तलक्षणतो यादृशोऽस्मि । तथा ये पुरुषा ज्ञानिनो ज्ञात्वा ज्ञात्वा अनन्यभावेन मां भजन्ति ते मम भक्ततमा इति संमता इत्यर्थः । यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेयेति प्रमाणेनानन्यभावशब्दार्थो ज्ञेयः ॥
अत्र ज्ञात्वाऽज्ञात्वेति पदच्छेदे व्याघातः । अन्यथा पुनरुक्तिरित्यत आह ॥ ज्ञात्वा-ज्ञात्वेति ॥ वीप्साभिप्रायं प्रमाणेनाह ॥ ज्ञात्वाऽपीति ॥ तत्र मन्माहात्मे उत्सुकतया विशेषात् । ज्ञात्वा पुनश्चाधिकं यथा भवति तथा विशेषेण ज्ञात्वा मामाप्नोतीत्यर्थः ॥ ३३ ॥
मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुतिप्रह्वगुणकर्मानुकीर्तनम् ॥ ३४ ॥
पदरत्नावली
इदानी सर्वसाधारणं भक्तिलक्षणमाह– मल्लिङ्गेति । अत्र कर्तव्यपद-मध्याहृत्यान्वेतव्यम् । विधिप्रकारत्वात् ॥ ३४ ॥
श्रीनिवासतीर्थीया
सर्वसाधारणभक्तलक्षणमाह ॥ मल्लिङ्गेत्यादिना ॥ अत्र प्रथमान्तानां कर्तव्यपदाध्याहारेण सम्बन्धः ॥ ३४ ॥
प्रमेयचन्द्रिका
मूले प्रकृतभक्तेः साधनान्युच्यन्ते ॥ मल्लिङ्गेत्यादिना ॥ मल्लिङ्गज्ञापकं प्रतिमा । सर्वत्र कर्तव्यमित्यध्याहार्यम् । प्रह्वो विनयः ॥ ३४ ॥
मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव ।
सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ ३५ ॥
पदरत्नावली
सर्वलाभोपहरणं हरावर्पणम् । दास्येन सहात्मनिवेदनमात्मसमर्पणम् । यद्वा दास्येन सह आत्मनि मनसि वेदनम् ॥ ३५ ॥
श्रीनिवासतीर्थीया
सर्वलाभस्य द्रव्यादेरुपहरणं हरावर्पणं दास्येन सहात्मनः स्वस्य निवेदनं समर्पणम् ॥ ३५ ॥
प्रमेयचन्द्रिका
उपहरणं दासत्वेन स्वात्मनोऽर्पणम् ॥ ३५ ॥
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः ॥ ३६ ॥
पदरत्नावली
पर्वानुमोदनम् उत्सवानुज्ञानम्, उत्सवं दृष्ट्वा हर्षो वा ॥ ३६ ॥
श्रीनिवासतीर्थीया
पर्वानुमोदनमुत्सवानुज्ञानमुत्सवं दृष्ट्वा हर्षो वा ॥ ३६ ॥
प्रमेयचन्द्रिका
पर्वानुमोदन उत्सवेषु हर्षः ॥ ३६ ॥
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७ ॥
श्रीनिवासतीर्थीया
सर्ववार्षिकपर्वसु यात्रा । बलिविधानं सर्ववार्षिकोत्सवकाले क्रीडार्थं मत्प्रतिमाया बहिर्निष्क्रमणसमये बलिदानमित्यर्थः ॥ ३७ ॥
प्रमेयचन्द्रिका
यात्रा प्रतिवर्षभाव्युत्सवेष्वभृतस्नानाय यात्रा । तदा तदा बलिदानं च धात्रीवनयात्रा धात्रीवनदेवतायै बलिदानं वा । वेदपञ्चरात्रोक्तविधानेन वैष्णवी दीक्षा । पुण्यमस्तीति हेतुत्वेन मदीयानां विष्णुपञ्चकचातुर्मास्यादिव्रतानां धारणा अनुष्ठानम् ॥ ३७ ॥
ममार्चास्थापने श्रद्धा मम सद्मनि चोद्यमः ।
उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८ ॥
पदरत्नावली
अर्चा प्रतिमा । उद्यमः करणादौ प्रयत्नः, उद्यानोपवनादिकर्मण्युद्यमो वा । सद्मनि सम्मार्जनोपलेपाभ्यामुद्यमो वा ॥ ३८ ॥
श्रीनिवासतीर्थीया
अर्चा प्रतिमा । उद्यानं पट्टणाद्दूरस्थं वनम् । उपवनं पट्टणसमीपस्थं कृत्रिमवनम् । आक्रीडपुरं क्रीडार्थं निर्मितं स्थलम् । उद्यानादीनां कर्मणि करणे उद्यम उद्योग इत्यर्थः
॥ ३८ ॥
दुर्घटभावदीपिका
ममार्चासंस्थापने, मम सद्मनि सद्मकरणे, उद्यानादिकर्मण्युद्यानादिकरणे च श्रद्धा कार्या । उद्यम उद्योगश्च कार्य इति । अनेन भगवत्प्रतिमास्थापनादौ श्रद्धां कृत्वा भगव-त्प्रतिमादिकं भविष्यतीति निश्चयं परित्यज्य प्रारम्भः कर्तव्य इत्युक्तं भवति । एतेन भगव-दर्चास्थापनादिकं कर्तव्यमिति वक्तव्यम् उद्यम इति उद्योगमात्रकथनमयुक्तमिति चोद्यं निराकृतम् । भगवत्प्रतिमास्थापनादिकाले भगवत्प्रतिमास्थापनादावीश्वरस्यैव स्वातन्त्र्यं न तु ममेति निश्चयोऽवश्य-मपेक्षित इति ज्ञापनार्थमुद्यम इत्युक्तमित्यभ्युपगमात् ॥ ३८ ॥
प्रमेयचन्द्रिका
अर्चास्थापने प्रतिमाप्रतिष्ठायां सद्मनि देवालयनिर्माणे उद्यानं देवालयाद्बहिर्गतम् उपवनं मातरम् आक्रीडा उत्सवार्थं दूरतः क्रियमाणमण्टपविशेषः पुरमन्दिरकर्मणि देवालयासु रतः पुरनिर्माणे ब्राह्मणादिमन्दिराणां निर्माणे चोद्यम इत्यनुवर्तते ॥ ३८ ॥
सम्मार्जनोपलेपाभ्यां सेकमण्डनवर्तनैः ।
गृहे शुश्रूषणं मह्यं दासवद् यदमायया ॥ ३९ ॥
पदरत्नावली
मह्यं मम यद् गृहशुश्रूषणं तदमायया । सैकमण्डलवर्तनैर् एकेन मुख्येन मण्डलेन सहितैः, अवान्तरमण्डलकरणैः, कर्तव्यमिति शेषः । सेकमण्डनवर्तनैरिति केचित् पठन्ति । चन्दनादिजलप्रोक्षणं सेकः, मण्डनमलङ्कारः, वर्तनं प्रदक्षिणवर्तनम् । विशेषजीवनं प्रोक्तं वर्तनं गमनं तथेति च ॥ ३९ ॥
श्रीनिवासतीर्थीया
सम्मार्जनं स्थलशुद्धीकरणम् । उपलेपः कुड्यादौ चूर्णादेः । सम्मार्जनोपलेपाभ्यां मह्यं मम यद्गृहं तच्छुश्रूषणमित्यर्थः । सेकं चन्दनमिश्रजलप्रोक्षणम् । मण्डनं रङ्गवल्यादिनाऽलङ्करणम् । वर्तनमावर्तनं प्रदक्षिणमित्यर्थः । एतैश्च गृहे शुश्रूषणमित्यर्थः । इदं न कापट्येन कार्यमित्याह ॥ दासवदित्यादि ॥ ३९ ॥
प्रमेयचन्द्रिका
सम्मार्जन्या धूल्यपसरणम् । उपलेपः गोमयरक्तमृत्तिकादिभिरनुलेपनम् । सेको गन्धजलादिभिः । तत्र शृङ्गारमण्डलैः रङ्गवल्याद्यावर्तनैः । मण्डलानां तत्र तत्र प्रवर्तनैरिति वा । मह्यं मम । एकमण्डलवर्तनैरिति । एकेन प्रधानेन मण्डलेन सहावान्तरमण्डलकरणैरित्यर्थः । दासवद्यन्मम गृहे शुश्रूषणं कार्यमित्यन्वयः । अमायया निष्कापट्येन ॥ ३९ ॥
अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् ।
अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ४० ॥
पदरत्नावली
मे निवेदितं दीपावलोकं नोपयुञ्ज्यात् स्वप्रयोजनाय न स्वीकुर्यात् ॥ ४० ॥
श्रीनिवासतीर्थीया
मे मदर्थं निवेदितं दीपावलोकं न युंज्यात्स्वप्रयोजनाय न स्वीकुर्यात्
॥ ४० ॥
प्रमेयचन्द्रिका
मे निवेदितं दीपावलोकं प्रकाशमात्मनोऽर्थे नोपयुञ्जीत ॥ ४० ॥
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ४१ ॥
पदरत्नावली
हविराद्यर्पणे सुष्ठूपायमाह– यद्यदिति । आनन्त्याय, अनश्वरफलाय, मोक्षायेत्यर्थः । अनन्तं वैष्णवे कृतमिति स्मृतेः ॥ ४१ ॥
श्रीनिवासतीर्थीया
तन्निवेदनम् ॥ ४१ ॥
प्रमेयचन्द्रिका
लोके सर्वस्मिन् जने । आत्मनः निवेदितुः स्वस्य । तन्निवेदनम् । आनन्त्यायानश्वरफलाय मोक्षाय ॥ ४१ ॥
सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम् ।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ४२ ॥
पदरत्नावली
अधिकारिणां योग्यताया अनेकविधत्वेन फलविशेषाय मदर्चनाधिष्ठानं चोपदिशामीत्याह– सूर्य इति । हे भद्र ॥ ४२ ॥
श्रीनिवासतीर्थीया
हे भद्र पूजापदानि अधिकारियोग्यताभेदेन मत्पूजायामधिष्ठानानीत्यर्थः
॥ ४२ ॥
प्रमेयचन्द्रिका
अधिकारिभेदेन पूजार्थमधिष्ठानान्युच्यन्ते ॥ सूर्य इत्यादिना ॥ वैष्णवो विष्णुभक्तः । अत्र ब्राह्मणत्वमविवक्षितम् । विष्णुभक्तिर्यत्र दृढा सैव पूजा स एव पूजाधिष्ठानमिति ज्ञेयम् । आत्मा स्वदेहः। हे भद्रेत्युद्धवसंबोधनम् ॥ ४२ ॥
सूर्ये तु विद्यया त्रय्या हविषाऽग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्य्रे गोष्ठे गा यवसादिना ॥ ४३ ॥
पदरत्नावली
तत्तत्साधनं चार्चनार्थमाह सूर्ये त्विति । गोष्ठे स्थिता गा यवसादिना तृणादिना, पूजयेदिति शेषः ॥ ४३ ॥
श्रीनिवासतीर्थीया
सूर्यादिषु कथं पूजा कार्येत्यत आह ॥ सूर्ये त्वित्यादिना ॥ त्रत्री विद्या गायत्री ॥ ४३ ॥
प्रमेयचन्द्रिका
तत्तदधिष्ठानेषु पूजासाधनान्युच्यन्ते ॥ सूर्ये त्विति ॥ गोष्टे स्थिता गा यवसादिना पूजयेत् । विप्रा इत्यनेन ब्राह्मण इत्युक्तोऽपि वैष्णव एव विवक्षितः । अत्राग्य्र इति विशेषणात् ॥ ४३ ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥ ४४ ॥
तात्पर्यम्
‘सर्वदेवोत्तमो वायुरिति ज्ञानान्न चापरम् । प्रियमस्ति हरेः किञ्चित्तथा वायोर्हरेर्विदः । भारतीवायुलक्ष्मीणामात्मनश्च यथाक्रमम् । आधिक्यज्ञानतो विष्णुः सर्वतः सम्प्रसीदती’ति माहात्म्ये ॥ ‘वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः । अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्ट’ इति मोक्षधर्मेषु ॥ ‘तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरथ पुनर्मृत्युं जयति य एवं वेदे’ति च । ‘पञ्चभूतमनो-बुद्धिरुद्राणां प्रतिदेहकम् । बाह्यतश्चापि नेतृत्वाद्वायुर्व्यष्टिः समष्टिक’ इति प्रभञ्जने ॥४४॥
पदरत्नावली
बन्धुर्जामाताऽयमिति सत्कृत्या सत्कारेण । हृदि खे हृदयाकाशे ध्याननिष्ठया उत्कृष्टध्यानेन । वायौ मुख्यप्राणे मुख्यधिया सर्वदेवोत्तमो वायुरिति ज्ञानेन । तदुक्तम् ‘‘सर्वदेवोत्तमो वायुरिति ज्ञानान्न चापरम् । प्रियमस्ति हरेः किञ्चित् तथा वायोर्हरेर्विदः’’ इति । हरेरुत्तमत्वविदः वायोरपीत्यर्थः । कुतः ‘‘भारतीवायुलक्ष्मीणामात्मनश्च यथाक्रमम् । आधिक्यज्ञानतो विष्णुः सर्वतः सम्प्रसीदति’’ इति वचनात् । ‘‘वायुर्भीमो भीमनादो महौजाः’’ इत्यनेनापि हेतुपूर्वकत्वेन वायोः सर्वदेवोत्तमत्वादुक्त एवार्थः । ‘‘तस्माद् वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद’’ इत्यनेन च वायुज्ञानस्यापमृत्युजयहेतुत्वोक्तेश्च । ‘‘पञ्चभूतमनोबुद्धिरुद्राणां प्रतिदेहकम् । बाह्यतश्चापि नेतृत्वाद् वायुर्व्यष्टिः समष्टिकः’’ इति वचनाच्च वायोर्व्यष्टिं समष्टिं च सम्यग् ज्ञात्वा मनो युञ्ज्यात् । द्रव्यैः पुष्पैः ॥ ४४ ॥
श्रीनिवासतीर्थीया
हृदि स्थिते खे आकाशे । वायौ मुख्यधियेत्यस्य वायुर्मुख्यो देवः सर्वदेवोत्तम इति बुद्ध्या यजन्तीत्यर्थ इति प्रमाणेनाह ॥ सर्वदेवेत्यादिना ॥ हरेर्विदो हरिज्ञानिनः सकाशादपरं वायोः । प्रियं नास्तीत्यर्थः । सर्वत आधिक्येति सम्बन्धः । वायोः सर्वदेवोत्तमत्त्वे प्रमाणान्तरमाह ॥ वायुरिति ॥ देहिनां देहपातेऽनस्य मुख्यप्राणस्यावृत्तिः कारणमित्यर्थः । मोक्षधर्मेष्विति धर्मबाहुल्याद्बहुवचनम् । अयं मृत्युं जयतीत्यन्वयः । श्रुत्युक्तं वायोर्व्यष्टित्वं समष्टित्वं च किमित्यतः प्रमाणेनैव विशदयति ॥ पञ्चेति ॥ प्रतिदेहकं प्रतिदेहान्तर्नेतृत्वाद्वायुर्व्यष्टिर्देहाद्बाह्यतश्च नेतृत्वात्समष्टिक इत्युच्यत इति योज्यम् ॥ ४४ ॥
प्रमेयचन्द्रिका
बन्धुर्जामाता । तस्मिन्निव सत्कारेण । हृदि खे आकाशे । एतेन खमित्युक्तं विवृतं भवति । वायौ मुख्यधियेत्यत्र सर्वदेवोत्तमत्वबुध्द्येत्यभिप्रेत्य तादृग्बुद्धेर्हरिपूजार्थत्वं प्रमाणेन दर्शयति ॥ सर्वदेवोत्तम इति ॥ तथा हरेः सर्वोत्तमत्वज्ञानिनः सकाशाद्वायोरपरः प्रियो नेति योज्यम् ॥ विष्णुवाय्वोरुभयोः सर्वोत्तमत्वं विरुद्धमित्यतो वायोः सर्वोत्तमत्वं भारतीरुद्राद्यपेक्षयैव । हरेस्तु निरवधिकमित्याशयेन प्रमाणमाह ॥ भारतीति ॥ भारतीवायुपदाभ्यां वाणीविरिञ्चावपि ग्राह्यौ । आत्मनः परमात्मनः । रुद्राद्यैः सर्वत अशेषजगदपेक्षया आधिक्यं जानतः । यद्वा एतेष्वपि क्रमादुत्तरोत्तरस्याधिक्यज्ञानम् इति योज्यम् ।
वायोः सर्वदेवोत्तमत्वे प्रमाणानि पठति ॥ वायुरित्यादिना ॥ भीमनादः शत्रुभयंकरनादः । प्राणभूतः जीवनप्रदः । तदुपपादयति ॥ अनावृत्तिरिति ॥ देहपाते प्रसक्ते अनस्य मुख्यप्राणस्य देहे अवृत्तिर्भवति । एतेन वायोर्देहे अवस्थानमेव जीवनप्रदत्वमित्युक्तं भवति । यत एवं रुद्राद्यशेषदेहिनां जीवनकरस् तस्माद्वायू रुद्रेन्द्रादिदेवानामपि देवः देवत्वप्रदः पूज्यः । स्तुत्य इति चार्थः । अत एव विशिष्टः । सर्वदेवोत्तमः । सोऽयं भीम इत्यन्वयः । तस्माद्धि यस्मात्प्रागुक्तरीत्या मोक्षदाता तस्माद्वायुरेव व्यष्ट्यादिः ॥ य एवं वायुं व्यष्टिं समष्टिं च वेद स पुनर्मृत्युं संसार-मपजयतीत्यर्थः ॥
अत्र व्यष्टिसमष्टिशब्दव्याख्यानपरं प्रमाणं पठति ॥ पञ्चभूतेति ॥ पञ्चभूतानि विनायक-प्रवाहाग्निवरुणधरादेव्यः मन इन्द्रः, बुद्धिरुमा । रुद्रोऽहंकारमानी सर्वत्राभिमानिदेवताग्रहणमेव कार्यमिति ज्ञापनायात्राहङ्कार इत्युक्त्वा रुद्र इत्युक्तम् । तथा च विविधदेहनियामकतया स्थितं यद्भूतादिरूपमष्टकं तन्नयतीति व्यष्टिः । बाह्यतो अधिदैवे च सम्यगेतदष्टकं नयति । समष्टिरिति भावः । बृहद्भाष्ये च प्रकारान्तरेण व्यष्टिसमष्टिशब्दार्थ उक्तः । एवं वायुर्हि मोक्षदः । तस्मात्सर्वोत्तमो वायुर्विविधं तु यदष्टकम् । देवान्नृषीन्पितृन्यक्षान् सगंधर्वान् मानुषोरगानसुरांश्च वशे नित्यं नयत्यमितपौरुषः । सुपूर्णांश्च सुपर्णेशशेषेन्द्रांस्तत्स्त्रियोऽपि च । अष्टौ नयत्युन्नयति वशीकृत्य स्वयं प्रभुः । अतो व्यष्टिः समष्टिश्च वायुरेवाभिधीयते । एवं व्यष्टिं समष्टिं च यो वायुं वेद तत्वतः । तत्परं च हरिं नित्यं मुच्यते संसृतेः पुमानिति ॥ मूले तोयपुरस्कृतैर् जलगन्धपुष्पादिभिः । तोये पूजा कार्येत्यर्थः
॥ ४४ ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मनमात्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥
तात्पर्यम्
‘स्वात्मनिस्थो हरिः पूज्य आत्मनामाऽशनादिकैः । तत्सम्बन्धादात्म-शब्दो जीवे स्यादुपचारत’ इत्यात्मसंहितायाम् ॥ ४५ ॥
पदरत्नावली
मन्त्रहृदयैर् नमोऽन्तैर्मन्त्रैः । आत्मनि स्वशरीरे मनसि वा आत्मान-मन्तर्यामिणम् । क्षेत्रज्ञं जीवान्तर्यामिणं सर्वभूतेषु समत्वेन एकप्रकारेण विकारमन्तरेण स्थितं भोगैः स्रग्गन्धादिधनैः । भोगो राज्ये धने सौख्ये इति (अभिधानम्) । आत्मशब्देनात्र जीवः किं न स्यात्, तस्य पूजनस्य तन्त्रेे विहितत्वात्, क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मत इत्यभिधानाच्चेति चेन्न । ‘‘आत्मनिस्थो हरिः पूज्य आत्मनामाऽशनादिकैः । तत्सम्बन्धादात्मशब्दो जीवस्या-प्युपचारतः’’ इति वचनादात्मा मुख्यो हरिरेवेति ज्ञायते । तत्र विधानस्य हरेरधिष्ठानत्वेन पीठार्चनवत् तदर्चनोपपत्त्या सार्थक्यात् ॥ ४५ ॥
श्रीनिवासतीर्थीया
स्थण्डिले मण्डलीकृतभूमौ । मन्त्रहृदयैर्हृदयं नमशब्दस्तदन्तैर्मन्त्रै-रित्यर्थः । भोगैः स्रक्चन्दनादिद्रव्यैः । भोगो राज्ये धने सौख्य इत्यभिधानात् । आत्मानं स्वात्मान-मित्यन्यथाप्रतीतिनिरासाय प्रमाणेन तदर्थमाह ॥ स्वात्मनीति ॥ उपचारतोऽमुख्यया वृत्त्या । तथा चात्मनि स्वात्मन्यात्मानमात्मनामकहरिं भोगैर्यजन्तीत्यर्थः ॥ ४५ ॥
प्रमेयचन्द्रिका
स्थण्डिल इत्यनेन भूर् इत्येतद्विवृतं भवति । मन्त्रहृदयैर् हृदयशब्दोक्त-नमःशब्दान्तमन्त्रैः । हृदयेऽन्तःषडक्षर इति तन्त्रसारे हृदयशब्दस्य नमःशब्दार्थकत्वोक्तेः । भोगैरित्यत्र स्वात्मानं स्वात्मनीत्यनन्वितं प्रतीयते । अतः स्वात्मनि स्थितं परमात्मानमन्नवस्त्राद्यैः पूजयेदित्यर्थमभिप्रेत्य तत्र प्रमाणमाह ॥ आत्मसंस्थ इति ॥ नन्वात्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यत इत्यात्मशब्दस्य विष्णुमात्रे वृत्युक्तेः कथं जीवे आत्मशब्दवृत्तिरित्यत आह ॥ तत्सम्बन्धादिति ॥ मूले क्षेत्रमिदं शरीरं जानातीति क्षेत्रज्ञं मां सर्वभूतेषु समत्वेन, विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिन इत्युक्तरीत्या सर्वत्र सर्वगुणपूर्णतया समत्वेन यजेतेत्यर्थः ॥ ४५ ॥
धिष्ण्येष्वेतेषु मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत् समाहितः ॥ ४६ ॥
पदरत्नावली
एतेष्वधिष्ठानेषु ध्यानप्रकारमाह– धिष्ण्येष्विति । धिष्ण्येषु स्थानेषु ॥४६॥
श्रीनिवासतीर्थीया
एतेष्वधिष्ठानेषु ध्यानप्रकारमाह ॥ धिष्ण्येष्विति ॥ ४६ ॥
दुर्घटभावदीपिका
गोष्ठे गा यवसादिनेत्यस्य गोष्ठ इत्येकवचनं जातौ । गोस्थितदेवेषु विद्यमाना गा ज्ञानात्मकानि मम रूपाणि यवसादिना यजेतेत्यर्थः । एतेन तदन्तर्गतभगवत्पूजा कर्तव्येति कथनावसरे गोष्ठस्थितगोपूजाकथनमसङ्गतमिति चोद्यं परिहृतम् । गोष्ठे गा यवसादिनेत्यस्य गोष्ठे स्थिता गा यवसादिना यजेतेत्यर्थ इत्यनङ्गीकारात् ॥ ४३ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यामेकादशोऽध्यायः ॥ ११–११ ॥
प्रमेयचन्द्रिका
धिष्ण्येषु सूर्याद्यधिष्ठानेषु ॥ ४६ ॥
इष्टापूर्तेन मामेवं यो यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिं साधुसेवया ॥ ४७ ॥
पदरत्नावली
पूजाफलमाह– इष्टेति ॥ ४७ ॥
श्रीनिवासतीर्थीया
पूजाफलमाह ॥ इष्टेति ॥ एवं सूर्याद्यधिष्ठानेषु च साधुसेवया । जातमिति शेषः ॥ ४७ ॥
प्रायेण भक्तियोगेन साङ्ख्येन च विनोद्धव ।
नोपायो विद्यते सध्य्रक् प्रायणं हि सतामहम् ॥ ४८ ॥
पदरत्नावली
प्रायेणेत्यवधारणम् । साङ्ख्येन यथार्थज्ञानेन । सतां प्रकर्षेणायनमाश्रयः
॥ ४८ ॥
श्रीनिवासतीर्थीया
साङ्ख्येन सम्यक् ख्यातिर्ज्ञानं साङ्ख्यं तेनोपायो मत्प्राप्तौ । प्रायेणेत्यवधारणम् । नैव विद्यत इत्यन्वयः । सतां प्रकर्षेणायनमाश्रयः ॥ ४८ ॥
प्रमेयचन्द्रिका
सद्भक्तिं मत्स्मृतिमित्युक्तभक्तिज्ञानयोरावश्यकत्वमुपपाद्यते ॥ प्रायेणेति ॥ प्रायेणेत्यवधारणे । प्रायेण सतां प्रकर्षेणायनमाश्रयः ॥ ४८ ॥
अथैतत् परमं गुह्यं शृण्वते यदुनन्दन ।
सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ ४९ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे एकादशोऽध्यायः ॥
पदरत्नावली
उत्तराध्याये वक्ष्यमाणार्थप्राशस्त्यं कथयति अथेति । वक्तव्यत्वे हेतुमाह– भृत्य इति । ज्ञानेन भर्तुं योग्यो भृत्यः । सु पूजितं हृन् मनो यस्य स सुहृत् । आपदि हितकर्तृत्वात् सखा ॥ ४९ ॥
॥ इति श्रीविजयध्वजतीर्थविरचितायां श्रीभागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धे एकादशोऽध्यायः ॥
श्रीनिवासतीर्थीया
उत्तराध्याये वक्ष्यमाणार्थस्य प्राशस्त्यं कथयति ॥ अथेति ॥ शृृण्वतस्तव वक्तव्यत्वे हेतुमाह ॥ त्वमिति ॥ ४९ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे एकादशोऽध्यायः ॥
प्रमेयचन्द्रिका
उत्तराध्याये वक्ष्यमाणार्थस्याधिक्यद्योतनायोच्यते ॥ अथेति ॥ भक्ति-तत्साधननिरूपणानन्तरम् एतद्वक्ष्यमाणम् । अतः परमगोप्यतया महाफलहेतुत्वात् ॥ ४९ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायाम् एकादशोऽध्यायः ॥