१० दशमोऽध्यायः

मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः

॥ अथ दशमोऽध्यायः ॥

श्रीभगवानुवाच—

मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः ।

वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १ ॥

पदरत्नावली

मुमुक्षुणा हरेरपरोक्षज्ञानमापाद्यमितीतिहासमुखेनोक्तम् । तत्साधनानि निरूप-यत्यस्मिन्नध्याये । तत्रादौ वर्णाश्रमाचाराचरणप्रकारमाह– मयोदितेष्विति । अकामात्मा फलाभिसान्धिरहितमना भूत्वा ॥ १ ॥

श्रीनिवासतीर्थीया

अपरोक्षज्ञानसाधनानि निरूपयितुं प्रवृत्तोऽयमध्यायः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीति वचनाद्वर्णाश्रमकुलाचारमिति साधु । कुलाचारस्त्रिवर्णेतरस्य शूद्रादेः ॥१॥

प्रमेयचन्द्रिका

प्रागुक्तार्थस्यावश्यकत्वं दर्शयन्वर्णाश्रमाचारप्रकार उच्यते ॥ मयोदितेष्ववहित इत्यादिना ॥ १ ॥

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।

गुणेषु तत्वज्ञा२नेन सर्वारम्भविपर्ययम् ॥ २ ॥

पदरत्नावली

सर्वसाधनेषु वैराग्यं प्रथममापाद्यमित्याह– अन्वीक्षीतेति । अन्तःकरणशुद्धि-हेतुनानावर्णाश्रमादिविहिताचारेण विशुद्धात्मा पुमान् गुणेषु शब्दादिषु तत्वज्ञानेन पुरुषार्थासाधनता-निश्चयज्ञानेन विषयात्मनां विषयेष्वासक्तचित्तानां देहिनां सर्वेषां कर्मारम्भाणां विपर्ययं फलवैपरीत्य-मन्वीक्षेतेन्यन्वयः । अन्वीक्षणं नाम यथावस्तुदर्शनम् । तदेव पुरुषार्थसाधनं नान्यत् ॥ २ ॥

श्रीनिवासतीर्थीया

गुणेषु शब्दादिषु । तत्त्वज्ञानेन पुरुषार्थसाधनतानिश्चयेन । सर्वेषां कर्मारम्भाणां विपर्ययं फलवैपरीत्यम् ॥ २ ॥

दुर्घटभावदीपिका

गुणेषु शब्दादिविषयेषु तत्त्वज्ञानेनापुरुषार्थसाधनतानिश्चयेन विशुद्धात्मा । विः पक्षिपरमात्मनोरित्युक्तत्वात् । विशब्दः परमात्मवाची । भगवद्विषयकशुद्धान्तःकरणो गुणेषु शब्दादिविषयेषु तत्त्वज्ञानेन पुरुषार्थसाधनत्वं तत्त्वमिति भ्रमेण विषयात्मनां देहिनां देहाभिमानविशिष्टानां सर्वारम्भविपर्यये सर्वेषां कर्मणां केषाञ्चित्कर्मणामारम्भणं च विपर्ययमन्वीक्षेतेति । अत्र सर्वकर्मणां विपर्ययो नाम फलविपर्ययः । केषाञ्चित्कर्मारम्भाणां विपर्ययो नामासमाप्तिरिति द्रष्टव्यम् । एतेन गुणेषु तत्त्वज्ञानेनेत्यस्य किं विषयात्मनामित्यनेनान्वयः । किंवा विशुद्धात्मेत्यनेनान्वयः । नाद्यः । गुणविषयकतत्त्वज्ञानस्य विषयान्तःकरणहेतुत्वाभावात् । न द्वितीयः । विषयात्मनामित्यत्र हेतोरनुक्तत्वेन न्यूनताप्रसङ्गादिति दूषणं परास्तम् । गुणेषु तत्त्वज्ञानेनेत्यस्यावृत्तिमुभयत्रान्वयं च स्वीकृत्यार्थभेदस्योक्तत्वात् । एतेनैव सर्वकर्मविपर्यस्यैव वक्तव्यत्वेन सर्वकर्मारम्भविपर्ययस्यावक्त-व्यत्वात्सर्वारम्भविपर्ययमित्यनुपपन्नमिति चोद्यं प्रत्युक्तम् । सर्वारम्भविपर्ययमित्यनेन सर्वकर्मारम्भाणामेव विपर्यय उच्यते न तु सर्वकर्माणां विपर्यय उच्यत इत्यङ्गीकारात् ॥ २ ॥

प्रमेयचन्द्रिका

गुह्येषु विषयेषु तत्वध्यानेन तत्वमनादितत्वमर्थक्रियाकारित्वध्यानेन । पुरुषार्थसाधनतानिश्चयेनेति यावत् । विषयात्मनां विषयेष्वासक्तचित्तानाम् । देहिनां सर्वकर्मणा-मारम्भविपर्ययं फलवैपरीत्यमीक्षेत । तत्रापि हेतुर् विषयेष्वित्यसारतारूपतत्वस्य ध्यानेन निश्चयेनेति

॥ २ ॥

सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।

नानात्मकत्वाद् विफलस्तथाऽभेदोऽन्य१धीगुणैः ॥ ३ ॥

तात्पर्यम्

बुद्धिगुणैः कामक्रोधादिभिरभेदो विफलः । ‘वस्तुस्थितेरन्यथात्वं नानात्वमिति कीर्तितम् । ज्ञानस्यैव तु नानात्वान्न स्यात्कामाद्यहंमतिः ॥ कामादिषु स्वधीस्थेषु केवलं जीवसंस्थितिः । इति बुद्धिरभेदः स्यात्स न कार्यः कथञ्चन ॥ अदुष्ट-कामश्चिद्रूपो जीवाभिन्नः स्वरूपतः । दुष्टकामो मनोधर्मस्तस्माध्द्येयः सदैव स’ इति विवेके ॥ ३ ॥

पदरत्नावली

शुक्तिरजतादिवन्मुमुक्षणा हेयमिदं ज्ञानमिति भावेनोपपादयति सुप्तस्येति । यथा सुप्तस्य जाग्रत्त्वेन विषयालोको यथा वा ध्यायतो मनोरथाश्च नानात्मकत्वाद् वस्तुस्थितेर-न्यथात्वाद् विफलो ऽत एवाविद्यमानस् तथाऽन्यधीगुणैः स्वबाह्यबुद्धिस्थगुणैर् अस्वरूपैः कामक्रोधादिभिरभेदो ऽहं क्रोधी अहं कामयितेत्यादिलक्षणो यो ऽसौ हेय इत्यर्थः । ‘‘वस्तुस्थिते-रन्यथात्वं नानात्वमिति कीर्तितम् । ज्ञानस्यैव तु नानात्वान्न स्यात् कामाद्यहंमतिः । कामादिषु स्वधीस्थेषु केवलं जीवसंस्थितिः । इति बुद्धिरभेदः स्यात् स न कार्यः कथञ्चन । अदुष्टकामश्चिद्रूपो जीवाभिन्नस्वरूपतः । दुष्टकामो मनोधर्मस्तस्माद् हेयः सदैव सः’’ इति प्रमाणेन हेयत्वं ज्ञायत इत्यर्थः ॥ ३ ॥

श्रीनिवासतीर्थीया

नानात्मकत्वादित्यर्थं दुर्गमार्थं प्रमाणेनैव व्याख्यातुमादौ स्ववाक्येन किञ्चिद् व्याकुर्वन् पदच्छेदमन्वयं च दर्शयति ॥ धीगुणैरिति ॥ बुद्धीति ॥ बाह्यान्तःकरणेत्यर्थः । ननु वस्तुस्थितेरन्यथात्वमित्यसम्भवि । न हि नरस्य वानरत्वं कर्तुं शक्यमत आह ॥ ज्ञानस्यैव तु नानात्वादिति ॥ अन्यथात्वज्ञानमेव नानात्वमित्यर्थः । एवं च वस्तुस्थितेरन्यथात्वम् बौद्धमेव न वास्तवमित्युक्तं भवति । कामादिष्वहंमतिमान्न स्यादिति विफल इत्यस्य तात्पर्यम् । ननु मूलेऽभेदो विफल इत्युच्यते । अत्र कामाद्यहंमतिर्न स्यादिति प्रमाणमूलयोर्विसंवाद इत्यत आह ॥ कामादिष्विति ॥ स्वस्य या बाह्यधीस्तत्स्थेषु कामादिषु विषये कामादीनां केवलं जीवस्वरूपे संस्थितिरस्तीति बुद्धिरभेद इत्यत्र विवक्षितोऽर्थः । ननु स न कार्य इति कथं हेयत्वमुच्यते । जीवचिद्गतत्वादित्यत आह ॥ अदुष्टेति ॥ भगवद्भक्त्यादिकं मे स्यादित्येवं रूपोऽदुष्टकामः कुत इत्यत आह ॥ जीवेति ॥ दुष्टकामो दुष्टविषयकामः । स दुष्टकामः । तथा चैवं मूलार्थः ॥ यथा सुप्तस्य स्वप्नद्रष्टुः पुरुषस्य जाग्रत्त्वेन स्वाप्नविषयाणामालोको यथा बाध्यः । यतो मनोरथा वा बाह्यपदार्थाभेदेन प्रतीयमानवस्तुस्थितेरन्यथात्वरूपत्वेन नानात्मकत्वाद्विफल एवं स्वस्य या धीर्बाह्यान्तःकरणं तस्य ये गुणाः कामाद्यास्तैरभेदः । अहं काम्यहं क्रुद्ध इत्यादि जीवस्वरूप-संस्थत्वेन ज्ञानं विफलः । कुतः । नानात्मकत्वाद्वस्तुस्थितेरन्यथात्वरूपत्वादित्यर्थः । दुष्टकामनादे-र्मनोनिष्ठत्वेन जीवस्वरूपनिष्ठत्वाभावात्तन्निष्ठत्वेन ज्ञातमन्यथाज्ञानं यतोऽतो विफलत्वेन हेयमेवेत्याशयः

॥ ३ ॥

प्रमेयचन्द्रिका

न केवलं यत्फलोद्देशेन कर्म करोति तद्वैपरीत्यमीक्षेतेति । किं त्वन्तःकरण-धर्माणां स्वरूपतानुसन्धानत्यागोऽप्यावश्यक इत्युच्यते ॥ सुप्तस्येति ॥ अत्र स्वप्नमनोरथमिथ्या-वत्सुधीगुणैर्भेदोऽपि विफला मिथ्येत्यन्यथाप्रतीतिं वारयितुं तावत्स्वधीगुणैरित्यस्यार्थं वदन्नभेदप्रदर्शन-पूर्वकमन्वयमाह ॥ बुद्धिगुणैरिति ॥ बुद्धिरहितान्तःकरणम् । उक्तान्यथाप्रतीतिनिवारणाय मूलं प्रमाणेन व्याचष्टे ॥ वस्तुस्थितेरिति ॥ ननु वस्तुनो यथास्थितिस्तस्या अन्यथात्वस्य कदाऽप्य-भावात्कथमेवमुच्यत इत्यत उक्तं विवृणोति ॥ ज्ञानस्यैवेति ॥ यद्वस्तु यत्प्रकारेण वर्तते तद्विपरीताकारेण ज्ञानमेव ह वस्तुस्थितेरन्यथात्वं, एतद्विपरीतज्ञानविषयत्वमेव नानात्वमिति भावः । तन्नानात्वं न कुर्यादित्याह ॥ न स्यादिति ॥ कामादावहमिति मतिर्यस्य स इति विग्रहः । एतेन स्वधीगुणैरभेदो विफल इत्यस्यार्थ उक्तो भवति । तत्र स्वधीगुणैरित्यस्यार्थः ॥ कामादीति ॥ अभेद इत्यस्याहंमतिरिति । विफलमित्यस्य न स्यादिति । नन्वहं कामोऽहं क्रोध इति न कस्यापि मतिर्दृश्यते । अतोऽप्रसक्तान्तरनिषेधो न युक्त इत्यसदर्थं विवृण्वन्नभेदशब्दार्थमाह ॥ कामादि-ष्विति ॥ कामादिस्वबाह्यान्तःकरणोपादानकतया तदात्मकेषु सत्स्वपि केवलमन्तःकरणात्मकतामपहाय जीवस्वरूपतया संस्थिता इति बुद्धिः स्वधीगुणैरभेदः स्यात् । स एवंविधो भेदः कथंचन न कार्यः । मिथ्याज्ञानत्वादित्यर्थः । अन्तःकरणोपादानकानामपि कामादीनां जीवधर्मत्वोररीकरणात्तद् व्यावृत्तये केवलमित्युक्तमिति ज्ञेयम् ।

न हि जीवस्वरूपकानामभाव एव किमित्यत आह ॥ अदुष्टेति ॥ नास्माभिः कामस्य जीवस्वरूपतयाऽऽस्थितत्वमेव नास्तीत्युच्यते । किं तु कामो द्विविधः । अबन्धको बन्धकश्चेति । तत्राद्यो निर्दुष्टः । कामो जीवस्वरूपः । द्वितीयोऽन्तकरणगतस्तस्मात्स कामः सर्वदा हेयः । अतोऽत्रैव जीवात्मकताबुद्धिर्न कार्येत्युक्तमिति भावः । जीवाभिन्न इत्यस्य विवरणम् ॥ स्वरूपतः स्वरूपत्वादिति ॥

ततश्चैवं मूलार्थः ॥ अत्र सुप्तिशब्दः स्वप्नपरः । पूर्वं विषयान् ध्यायतः सुप्तस्य स्वप्नद्रष्टुर्विषया-लोकः विषयाणां वासनात्मकस्वाप्नार्थानामवलोकः बाह्यार्थक्रियाकारित्वेन जाग्रद्वस्त्वात्मकत्वेन च ज्ञानम् । तथा विषयान् ध्यायतो मनोरथः मनोरथे दृश्यमानवासनापदार्थस्य जाग्रत्पदार्थत्वादिज्ञानमिति यावत् । वाशब्द उपमायाम् । यथा नानात्मकत्वात्स्वविषयभूतवस्तुयाथात्म्यमपेक्ष्यान्यथात्वाद्विफलः भ्रमः । तथा स्वधीगुणैः कामक्रोधादिभिरभेदः स्वाभेदज्ञानं कामाद्यहंमतिरिति यावत् । विफलो भ्रमोऽतो न कार्य इति ॥ ३ ॥

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् ।

जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥

तात्पर्यम्

‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनमि’ति भारते ॥ ४ ॥

पदरत्नावली

अकामात्मेत्युक्तं विवृणोति निवृत्तमिति । फलानपेक्षं यथावस्तुज्ञानपूर्वकं यत् कर्म तन्निवृत्तं तदेव सेवेत कुर्यात् । अनीदृशं यत् कर्म तत् प्रवृत्तं त्यजेन् न कुर्यात् । अहमेव परो यस्य स मत्परः । अनेन कामात्मनोऽबुधस्य कर्मविधानं प्रतीतिविरुद्धमिति परास्तम् । ‘‘निष्कामं ज्ञानपूर्वं च निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’’ इत्येतदत्र मानम् । ननु सकामस्य कर्मविधानात् तत्त्यागः कथमत्राह– जिज्ञासायामिति । जिज्ञासायां ब्रह्मविचारे । कर्मचोदनां कर्मविधिम् । ब्रह्मज्ञानोत्पत्तौ प्रवृत्तानां सर्वशब्दानां कर्मादिविषयत्वाङ्गीकारे विरोधापत्त्या तत्रानादरलक्षणत्यागो विधीयते न तु सर्वात्मना । अन्तःकरणशुद्धिद्वारा ज्ञानाङ्ग-त्वेनाङ्गीकारार्हत्वादिति । अतो नाद्रियेदित्युक्तम् ॥ ४ ॥

श्रीनिवासतीर्थीया

निवृत्तमितिश्लोके नष्टं कर्म सेवेतेत्यर्थः प्रतीयते तेन विरोधः । तं विरोधं परिहर्तुं निवृत्तशब्दार्थ उच्यते ॥ निष्काममिति ॥ फलाभिसन्धिरहितं ज्ञानं भगवज्ज्ञानं तत्पूर्वकृतं कर्म निवृत्तमित्युच्यते । तत्सेव्यमानो ब्रह्म अभ्येति । अनीदृशं कर्म प्रवृत्तमित्युच्यते । तत्सेव्यमानो ब्रह्म नाभ्येतीति द्रष्टव्यम् । ननु प्रवृत्तं त्यजेदित्ययुक्तम् । स्वर्गकामो यजेतेत्यादौ तस्य विधानादित्यत आह ॥ जिज्ञासायामिति ॥ ब्रह्मविचारे प्रवृत्तोऽधिकारी कर्मचोदनां कर्माधि-कारविहितां कर्मचोदनां नाद्रियेदिति व्याख्येयम् । अन्यथा कुर्वन्नेवेह कर्माणीति ब्रह्मजिज्ञासाधिकारिणं प्रत्यपि कर्मविधानादिदमयुक्तं स्यादिति ज्ञेयम् ॥ ४ ॥

प्रमेयचन्द्रिका

अथेदानीं वर्णाश्रमकुलाचारमाचरेदित्युक्तस्य विवरणं क्रियते ॥ अत्र निवृत्तं सेवेतेत्येतदयुक्तम् । निवृत्तस्य नष्टस्येत्युक्तस्य वासनायोगादित्यतो निवृत्तमित्यस्य करणे क्तप्रत्ययात्संसारनिवृत्तिसाधनमित्यर्थो न विवक्षित इत्याशेन प्रमाणेन तदर्थमाह ॥ निष्काममिति ॥ एतेन संसृतिप्रवृत्तिसाधनं काम्यं कर्मेत्युक्तं भवति । मूले जिज्ञासायां ब्रह्मविचारे कर्मचोदनां काम्यविधिम् । ब्रह्मविचारविरोध्यधिकं कर्म न कुर्यादिति वा ॥ ४ ॥

यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।

मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥

तात्पर्यम्

‘मामेव नित्यं ध्यायेद्यो मदात्मा स प्रकीर्तित’ इति च ॥ ५ ॥

पदरत्नावली

ननु यमादिचोदनापि नादरणीया किम् । नेत्याह– यमानिति । यमनियमा ‘‘अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा भयम् । शौचं जपस्तपो होमः श्रद्धाऽऽतिथ्यं मदर्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम्’’ इति वक्ष्यति । क्वचिद् विहितकाले । निवृत्तादिवज् ज्ञानोत्पत्तौ गुरूपासनमप्यन्तरङ्गमित्याह– मदभिज्ञमिति । मय्येवात्मा ध्यानसमर्था बुद्धिर्यस्य स तथा तम् । ‘‘मामेव नित्यं ध्यायेद् यो मदात्मा सम्प्रकीर्तितः’’ इति वचनात् ॥ ५ ॥

श्रीनिवासतीर्थीया

अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयमित्युक्तान् यमान् । अभीक्ष्णं प्रत्यहम् । शौचं जपस्तपो होमः श्रद्धाऽऽतिथ्यं मदर्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनमित्युक्तान् नियमान् । क्वचिद्विहितकाले । जिज्ञासार्थं गुरुमुपासीत ॥ ५ ॥

प्रमेयचन्द्रिका

॥ यमानिति ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनं नियमा इति तन्त्रसारे यमनियमा उक्ताः । अत्राप्यहिंसा सत्यमस्तेय-मसङ्गो ह्रीरसञ्चय इत्यादौ वक्ष्यति । अभीक्ष्णं बहुशः गुरुशुश्रूषैव प्रधानो धर्म इत्याशयेनोच्यते ॥ मदभिज्ञमिति ॥ शान्तक्रोधादिरहितमिति । मदात्मकमित्युक्ते तन्मदभिन्नमिति प्रतीतिवारणाय प्रमाणेन व्याचष्टे ॥ मामिति ॥ मय्यात्मा मनो यस्य स मदात्मक इति भावः ॥ ५ ॥

अमान्यमत्सरो दक्षो निगमे दृढसौहृदः ।

असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६ ॥

पदरत्नावली

तस्य गुरुप्रसादजनकगुणानाह– अमानीत्यादिना । नितरां गमयतीति निगमो वैष्णवशास्त्रं तस्मिन् ॥ ६ ॥

श्रीनिवासतीर्थीया

नितरां गमयति तत्त्वमिति निगमो वैष्णवशास्त्रं तस्मिन् । असत्वरो मोक्षसिद्ध्यर्थं त्वरया सहितो न भवतीत्यर्थः । न ह्येवं त्वरमाणे सिद्धिर्भवतीत्याशयः ॥ ६ ॥

प्रमेयचन्द्रिका

गुरुप्रसादजनकगुणा उच्यन्ते ॥ अमानीति श्लोकद्वयेन ॥ निगमे नितरां गमके वैष्णवशास्त्रे । त्यक्त्वा त्वरां ब्रह्मविद्यां विन्देतेति श्रुतेर्निगमाभ्यासे त्वरारहित इत्यर्थः । अत्र हेतुरर्थजिज्ञासुरिति ॥ ६ ॥

जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु ।

उदासीनः समं पश्येत् सर्वेष्वर्थमिवात्मनः ॥ ७ ॥

पदरत्नावली

सर्वेषु जायादिषु उदासीनो ममताशून्यः सर्वेषु स्वपरजायादिषु आत्मनः स्वस्य अर्थं प्रयोजनमिव परप्रयोजनमपि स्वप्रयोजनेन समं विर्विशेषं पश्येत् । अथवा सर्वेषु जायापत्यादिषु आत्मनः स्वस्यार्थमिव प्रयोजनमुभयोः समं नतु विशेषं पश्येत् । इवोभये च सादृश्य इत्यभिधानम् । यावत्प्रयोजनं पश्येदिति वा ॥ ७ ॥

श्रीनिवासतीर्थीया

सर्वेषु पदार्थेषु समं भगवन्तम् । ननु जायादिषु यद्युदासीनस्तर्हि देहयात्रा कथं स्यादित्यत उक्तम् ॥ अर्थमिवेति ॥ दशरात्रैर्भुक्तमिव न सम्यक् स्वल्पभोजनादिति वचनादिव-शब्दोऽल्पार्थः । तथा चात्मनः स्वस्याल्पमर्थं प्रयोजनं पश्येद्देहयात्रोपयुक्तं प्रयोजनं पश्येदिति भावः

॥ ७ ॥

दुर्घटभावदीपिका

अयमधिकारी जायादिषूदासीनः सन् सर्वेषु जायादिषु विद्यमानं समं मया लक्ष्म्या सहितं नारायणमात्मनः स्वस्यार्थमिव निक्षेपद्रव्यमिव पश्येदिति । अयं भावः । निक्षेपद्रव्यविशिष्टः पुरुषः स्वनिक्षेपद्रव्ये यथा प्रीतिं करोति तथा जायादिषु विद्यमाने लक्ष्मीनारायणे प्रीतिः कर्तव्येति । पराक्रान्तनिक्षेपद्रव्यव्यावृत्त्यर्थमात्मन इत्यनेन स्वसम्बन्धित्वमुक्तम् । एतेनार्थमित्यनेनैव योग्यताबलात्स्वसम्बन्धिनिक्षेपद्रव्यलाभाद् आत्मन इत्येतद्व्यर्थ इति दूषण-मपहस्तितम् । आत्मन इत्यस्य परानाक्रान्तत्वरूपार्थे तात्पर्यमित्यङ्गीकारात् ॥ ७ ॥

प्रमेयचन्द्रिका

इवशब्दोऽवधारणे । जायादिषु सर्वेषु स्वयमुदासीन एव सन् स्वात्मनः सममेवार्थं पश्येत् । यावता स्वनिर्वाहो भवति । तावन्मात्राभिनिवेशमेव तेषु कुर्यान्नाधिकं भगवदाराधनप्रतिबन्धकत्वादधिकस्येति शेषः । यद्वा जायादिषु सर्वेषु विशेषानभिनिवेशरहित एव । सर्वेषु सत्सु आत्मनोऽर्थमिव तस्यैव विवरणं सममिति । इवोभये च सादृश्य इत्युक्तेः । स्वस्यान्यस्य चोभयोः सममेव पश्येत् । स्वप्रयोजनसाम्यं पश्येदित्यर्थः ॥ ७ ॥

विलक्षणः स्थूलसूक्ष्माद् देहादात्मेक्षिता पृथक् ।

यथाग्निर्दारुणो दाह्याद् दाहकोऽन्यः प्रकाशकः ॥ ८ ॥

निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् ।

अनुप्रविष्ट आधत्ते एवं देहगुणान् परः ॥ ९ ॥

तात्पर्यम्

‘ओहधर्मवान्विष्णुर्देहधर्मवदीर्यते । जीवस्त्वदेहधर्माऽपि परतो देह-धर्मवान् । स्वयं त्वनभिमानः सन्नज्ञानामेव दर्शयेत् । विष्णुर्जीवस्त्वभीमानी यावद्विष्णुपदं व्रजेदि’ति विष्णुसंहितायाम् ॥ ८ ॥

पदरत्नावली

किञ्च जीवपरमात्मानावपि परस्परं देहादेश्च भिन्नत्वेन ज्ञातव्याविति सदृष्टान्तमाह– विलक्षण इति । स्वदृक् स्वयं प्रकाशः । ईक्षिता अस्य सर्वस्य द्रष्टा । आत्मा परमात्मा स्थूलसूक्ष्मदेहाद् विलक्षणो भिन्नश्च । आत्मा जीवश्च हरेर्देहादेश्च भिन्नः, इति ज्ञातव्यौ इति शेषः । दाह्याद् दारुणोऽन्यः पावकः ॥ प्राप्तस्य हि प्रतिषेध इति न्यायादनयोरभेदशङ्कायाः किं बीजमत्राह– निरोध इति । यथा जीवो निरोधादीन् तत्कृतान् देहगुणानाधत्ते । एवं परोपि देहमनुप्रविष्टो देहगुणानाधत्त इत्यन्वयः । निरोधो मरणम् । अणुत्वं बृहत्त्वं नानात्वं सुरनरादि-नानाजातिविशिष्टत्वमनयोर्वैलक्षण्यज्ञानं बीजमित्यर्थः ॥ ८,९ ॥

श्रीनिवासतीर्थीया

जीवपरमात्मनोर्ज्ञानमित्थं सम्पाद्यमित्याह ॥ विलक्षण इति श्लोकाभ्याम् ॥ ईक्षिता द्रष्टा । स्वदृक् स्वप्रकाशः । आभ्यां विशेषणाभ्यां स्थौल्याद्युपेत-जडदेहाद्वैलक्षण्ये विरुद्धधर्माधिकरणत्वं हेतुरुक्तः । दृष्टान्तेऽपि दाह्याद्दारुणः सकाशात्प्रकाशको दाहकोऽग्निरन्य इत्यन्यत्वोपपादकधर्मकथनम् ॥ अणुबृहन्नानात्वमित्यत्र द्वन्द्वान्तत्वप्रत्यय-स्याणुबृहत्पदाभ्यामपि सम्बन्धः । तत्कृतान् देहकृतान् । एवं जीववत् । अत्र तात्पर्यम् ॥ ओह-धर्मवानिति । यद्यपि तथाऽपीति शेषः । देहधर्मोऽस्यास्तीति देहधर्मी जीवस्तद्वत् । देहधर्मवानितीर्यते । अनेनैवमित्यस्यार्थ उक्तो भवति । ननु जीवस्य कथं देहधर्मित्वम् । तत्स्वरूपस्य तच्छून्यत्वादिति चेत्सत्यमित्याह ॥ जीवस्त्विति ॥ स्वरूपेणेति शेषः । अपि यद्यपि । तथाऽ-पीति शेषः । परतो भगवतः । तदिच्छयेति यावत् । देहधर्मवान् भवतीत्यर्थः । ननूभयोरपि देहधर्मवत्त्वे को विशेष इत्यत आह ॥ स्वयं तु विष्णुरिति ॥ दर्शयेद्देहधर्मान् । अभिमानोऽपि न सार्वकालिक इत्याह ॥ यावदिति ॥ अत्रादेहधर्मवान्विष्णुर्जीवस्त्वदेहधर्मापीत्यनेन विलक्षण इति श्लोके यद्यपीति पूरणीयम् । स चोभयपर इति सूचितम् । देहधर्मिवद्देहधर्मवानित्युक्त्या निरोध इति श्लोके तथाऽपीति पूरणीयमित्युक्तं भवति ॥ ततश्चायं श्लोकार्थः ॥ यद्यप्यात्मा विष्णुर्जीवस्य स्थौल्याद्युपेताद्देहादग्निवद्विलक्षणस्तथाऽप्यनुप्रविष्टो देहमनुप्रविष्टो जीवो मरणोत्पत्त्यादीन् देहकृतान् गुणान् अभिमानतो मुक्तेः पूर्वमाधत्ते । तद्वान् प्रतीयते । परो विष्णुरपि देहमनुप्रविष्टो निरोधादीन् गुणानेवं जीववदाधत्ते । स्वयमनभिमानोऽप्यज्ञानामेवं दर्शयतीति ज्ञानी जानीयादिति ॥ ८,९ ॥

दुर्घटभावदीपिका

आत्मा परमात्मा स्थूलसूक्ष्मात्कार्यकारणरूपाज्जडाद्देहाद्देहवतो जीवात् । देहशब्दादर्श आदिभ्योऽजित्यनेन मत्वर्थेऽच्प्रत्ययः । विलक्षणो भिन्नः । अत्र हेतुमाह ॥ ईक्षितेत्यादिना । ईक्षिता स्वातन्त्र्येणेक्षिता । स्वदृक् पराधीनज्ञानाविषयः । अत्र दृष्टान्तमाह ॥ यथेति । दाहकः प्रकाशकोऽग्निर्दाह्याद्दारुणः काष्टाद्यथाऽन्यस्तथेति । एतेनेश्वरस्य जडजीववैलक्षण्यं वक्तव्यं देहमात्रवैलक्षण्यकथनमयुक्तमिति दूषणं परिहृतम् । अनेन वाक्येन देहमात्रवैलक्षण्यमुच्यत इत्यनङ्गीकारात् ॥ अनुप्रविष्टो देहानुप्रविष्टो जीवस्तद्देहकृतान्गुणान्सुखदुःखादींश्च यथा धत्ते । एवं तथाऽनुप्रविष्टो देहानुप्रविष्टः परः परमात्मा देहगुणान् आधत्त इत्यज्ञैरुदीर्यत इति । एतेन निरोधो-त्पत्त्यणुबृहन्नानात्वमित्येकवचनस्य तत्कृतान्गुणानिति बहुवचनेनान्वय इति दूषणं परिहृतम् । निरोधोत्पत्त्यणुबृहन्नानात्वमित्यस्य गुणानित्येतद्विशेषणमित्यनङ्गीकारात् । एतेनैव भगवतो देहगुणविशिष्टत्वाभावात्परमेश्वरो जीववद्देहगुणानाधत्त इति कथनमनुपपन्नमिति चोद्यं प्रत्युक्तम् । इत्यज्ञैरुदीर्यत इति शेषपूरणेनार्थस्योक्तत्वात् ॥ ८,९ ॥

प्रमेयचन्द्रिका

किञ्च परमात्मनः सर्ववैलक्षण्यं च जानीयादिति भावेनोच्यते ॥ विलक्षण इत्यादिश्लोकत्रयेण ॥ अत्र देहादिविलक्षणस्यापीश्वरस्य विरोधादयो देहधर्मा आविद्यकदेहोपाधिवशाद् भवन्तीत्यन्यथाप्रतीतिवारणाय श्लोकत्रयतात्पर्यं प्रमाणेनाह ॥ ओहधर्मवानिति ॥ अत्र विलक्षणः स्थूलसूक्ष्माद्देहादित्यस्य ओहधर्मवानिति । एवं धर्मगुणान्पर इत्यस्यार्थः ॥ विष्णुर्देहधर्मवदीर्यत इति ॥ देहस्य धर्मा यस्यासौ देहधर्मो जीवस्तद्वदित्यर्थः । यद्वा व्यत्ययेन देहधर्मवानिव देहधर्मोपेत एवेत्यर्थः । संसारिजीवस्यापि न देहधर्मवत्वं स्वतः किमु परमात्मन इत्याशयेनाह ॥ जीवस्त्विति ॥ ईश्वराद्वैलक्षण्यद्योतनार्थस्तुशब्दः । ओहधर्मः स्वत इति शेषः । परत इति अभिमानमात्रत इत्यर्थः । एतेन योऽसावितिश्लोकतात्पर्यमुक्तं भवति । उक्तं कैमुत्यं व्यञ्जयन् विष्णुर्देहधर्मवदीर्यत इत्युक्तं विवृणोति ॥ स्वयं त्विति ॥ अनभिमानः सन्निति अभिमानोपाधिकृतदेहधर्मोऽपि । नास्तीत्यत्र-हेतुर्दर्शयेदिति । देहधर्मवत्वमिति शेषः । जीवस्याप्यौपाधिकदेहधर्मवत्वं न सर्वदेत्याह ॥ जीवस्त्विति ॥ अभीमानी अभिमाननिमित्तकदेहधर्मवानित्यर्थः ॥

सोऽयं मूलार्थः । यथा दाह्यात्प्रकाश्याद्दारुणः सकाशाद्दाहकः प्रकाशकोऽग्निरन्यस्तथेक्षिता सर्वद्रष्टा स्वप्रकाशमात्मा स्वाधीनसत्ताप्रतीत्यादिमतः स्थूलाद्देहात्सूक्ष्माल्लिङ्गदेहाच्च विलक्षणः भिन्नस्तन्निमित्तक-धर्मवांश्च न भवति ॥ ननु परमात्मनो देहधर्माभावे कथं केषाञ्चित्तथा प्रतीत्यादिकं जायत इत्यत उक्तं निरोधेति । निरोधो विनाशः । अणुबृहदित्यत्रापि त्वप्रत्ययसम्बन्धः ॥ द्वन्द्वैकवद्भावेन निरोधादिनानात्वमित्येतावत्कृतदेहाभिमाननिमित्तकान् धर्मान् । जीवो देहमनुप्रविष्टः सन् यथा आधत्ते । एवं परस्तद्विलक्षण ईश्वरोऽपि देहमनुप्रविष्ठोदेहगुणानाधत्त इव मन्दानां प्रतीयते देहधर्मवता जीवेन सह देहेऽवस्थानाद्भगवन्तमपि जीववदज्ञानिदेहधर्मवन्तं जानन्तीति भावः ॥ ८ ॥

योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि ।

संसारस्तन्निबन्धोऽयं पुंसोऽविद्यास्थितात्मनः ॥ १० ॥

पदरत्नावली

यद्द्वा इदमेवाज्ञानं संसारकारणमित्याह– य इति । योऽसौ सत्वादिगुणैर्विरचितो देहोऽयं पुरुषस्य जीवस्यार्थे हि यस्माद् अविद्यास्थितात्मनो ऽविद्यायामज्ञाने स्थितमनसः पुंसो ऽयं संसारस्तन्निबन्धः देहाभिमाननिमित्तकः ॥ १० ॥

श्रीनिवासतीर्थीया

ननु जीवस्यादेहधर्मित्वे संसारः किं निमित्त इत्यतो भगवदज्ञान-जनितैतद्देहाभिमानकृत एवेत्याह ॥ योऽसाविति ॥ भगवदज्ञानस्थितस्वरूपस्य पुरुषस्य पुरि शेतेऽसौ पुरुषस्तस्य पुंसः संसारो दुःखादिर्योऽसौ प्रसिद्धो गुणैर्विरचितोऽयं देहोऽस्ति तन्निमित्तो भगवदज्ञाननिमित्तको हि यस्मात्तस्मादित्यर्थः ॥ १० ॥

प्रमेयचन्द्रिका

ननु देहित्वाविशेषाज्जीवस्येवेश्वरस्यापि देहधर्मवत्वं युक्तमित्याशङ्क्य न देहित्वमीश्वरस्यास्ति । देहित्वप्रयोजकस्याभिमानस्याभावादतो न तन्निमित्तकनिरोधादिकृतविकारो जीववदीश्वरस्येत्याशयेनोच्यते ॥ योऽसाविति ॥ गुणैः सत्वादिभिर्विरचितो योऽस्य देहः सोऽयम् । अविद्यावस्थितात्मनो ऽविद्यायां भावरूपाज्ञानादिरूपायां स्थितस्वरूपस्य तद्बुद्धस्य अविद्याकल्पि-तान्तःकरणस्येति वा । पुरुषस्यैव भवेत् । तस्यैव देहे दृढतराभिमानसद्भावात् । न त्वीश्वरस्य । तस्य तत्राभिमानाभावादिति शेषः ॥ हि यस्मात्तस्मात्तन्निबद्धोऽविद्याकृतदेहाद्यभिमाननिमित्तकोऽयं निरोधोत्पत्यादिरूपः संसारः पुंसो जीवस्येति । तस्माज्जीवस्यैवाभिमाननिमित्तकं देहधर्मवत्वं नेश्वरस्य

॥ १० ॥

तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम् ।

सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥

तात्पर्यम्

अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विह भण्यते । तस्मादेकं परं ब्रह्म वस्तुशब्दोदितं सदे’ति लक्षणे ॥ ११ ॥

पदरत्नावली

‘‘ओहधर्मवान् विष्णुर्देहधर्मवदीयते । जीवस्त्वदेहधर्मोपि परतो देहधर्मवान् । स्वयं त्वनभिमानः सन्नज्ञानामेव दर्शयेत् । विष्णुर्जीवस्त्वभीमानी यावन्मुक्तिपदं व्रजेत्’’ इति वचनाद् विष्णोर्देहधर्मवदाभानमज्ञानां नतु ज्ञानिनाम्, जीवस्य स्वतो देहधर्मरहितस्यापि (देहधर्मवदाभानं) देहाभिमानादिति विवेकलक्षणो विचारः कर्तव्य इत्युपसंहरति तस्मादिति । उक्तप्रकारेण जिज्ञासया आत्मस्थं देहान्तःस्थितं केवलं दुर्भगदेहिभोग्यदुःखरहितमात्मानं श्रीनारायणं परं विलक्षणं सङ्गम्य ज्ञात्वा अस्य जीवस्य वस्तुबुद्धिं शक्तबुद्धिं निरसेत् त्यजेत् । कथम् । यथाक्रमं जिज्ञासया ब्रह्मादि-जीवराशेर् यथास्वरूपतारतम्यं विचार्य ज्ञात्वा परब्रह्मबुद्धिं त्यजेदित्यर्थः । ‘‘अवस्त्वशक्तमुद्धिष्टं शक्तं वस्त्विह भण्यते । तस्मादेकं परं ब्रह्म वस्तुशब्दोदितं सदा’’ इति लक्षणवचनात् ॥ ११ ॥

श्रीनिवासतीर्थीया

वस्तुबुद्धिमित्यस्य शक्तत्वबुद्धिमित्यर्थः । यथाक्रमं जिज्ञासया ब्रह्मादिजीवराशेर्यथास्वरूपं तारतम्यं विचार्य ज्ञात्वा सङ्गम्य सम्यग्ज्ञात्वा एतद्वस्तुबुद्धिमेतस्य जगतो वस्तुत्वबुद्धिम् । एकवस्त्विति पाठे एकस्य जीवस्येत्यर्थः । अत्र मिथ्याप्रतीतिनिरासाय तात्पर्यमवस्त्विति ॥ ११ ॥

प्रमेयचन्द्रिका

अतः सर्वविलक्षणो भगवांस्तद्वशो जीव इत्युपपादितार्थोपसंहारः क्रियते ॥ तस्मादिति ॥ यत एव मीश्वरो न देहधर्मादिमान् । तस्मादात्मस्थं देहस्थितं केवलं देहधर्मरहितं परं विलक्षणमात्मानं विष्णुं जिज्ञासया विचारेण सम्यक् ज्ञात्वा एतस्मिन् जीवसमूहे वस्तुबुद्धिं यथाक्रमं निरसेदित्यर्थः । अत्र वस्तुबुद्धिं यथार्थत्वबुद्धिं निरसेदित्यन्यथाभानात्प्रमाणेन तदर्थमाह ॥ अवस्त्विति ॥ अशक्तेषु भृत्यादिषु सत्स्वपि न सन्तीति व्यवहारस्य लोके दर्शनादिति भावः ॥ तस्मादिति ॥ शक्तस्यैव वस्तुशब्दवाच्यत्वाद्धरेश्च शक्तत्वादित्यर्थः ॥ ११ ॥

आचार्योऽरणिराद्या स्यादन्तेवास्युत्तरारणिः ।

तत्साधनं प्रवचनं विद्यावह्निः सुखावहः ॥ १२ ॥

पदरत्नावली

ननु ज्ञानोत्पत्त्यर्थं गुरूपास्तिः कर्तव्येत्युक्तम् । तत्र कथङ्कारं ज्ञानमुत्पद्यते येन जीवस्य ब्रह्मभावबुद्धितृणदहनं स्यादित्यतस्तत्प्रकारमाह– आचार्य इति ॥ १२ ॥

श्रीनिवासतीर्थीया

सङ्गम्येत्युक्तज्ञानप्रकारमाह ॥ आचार्य इति ॥ प्रवचनं व्याख्यानम् । तत्सन्धानं तयोराद्योत्तरारण्योः सङ्घर्षणस्थानीयम् ॥ १२ ॥

प्रमेयचन्द्रिका

जिज्ञासयेत्युक्तभगवद्विचारो गुरूपदेशैकलभ्य इत्याशयेनोच्यते ॥ आचार्य इति ॥ १२ ॥

वैशारदी साऽति१विशुद्धबुद्धिर्धुनोति मायां गुणसम्प्रसूतिम् ।

गुणांश्च संदह्य यदात्म्यमेतत् स्वयं च शाम्यत्यसमिद् यथाऽग्निः ॥ १३ ॥

तात्पर्यम्

‘पिशाचवत्स्थिता माया तू(मु)च्यते जीवगा सदा । दह्यन्ते तद्गुणाः सर्वे सा च प्रातिस्विकी नर’ इति वैभाव्ये ॥ एतच्छब्देन दुःखादिरपरोक्षतयोच्यते । ‘क्वचिद्विश्वं क्वचिद्ब्रह्म क्वचिन्निन्द्यमुदीर्यत’ इति तन्त्रनिरुक्ते । ‘बाह्यान्तःकरणाज्जन्यं ज्ञानं नश्यति मुक्तिगे । स्वरूपज्ञानतो भोगान्मुक्तो भुङ्क्ते यथेष्टत’ इति मुक्तितत्त्वे ॥ १३ ॥

पदरत्नावली

विद्यावह्नेः सुखावहत्वं नित्यदुःखहेतुजीवब्रह्मैक्यबुद्धिशुष्कतरुदाहेन नित्यानन्दनिदानत्वादित्याह– वैशारदीति । विविधं शारं सुखदुःखमिश्रलक्षणं संसारं द्यतीति विशारदो विष्णुस्तस्य विद्यमाना वैशारदी सा अतिविशुद्धबुद्धिर् अपरोक्षबुद्धिर् गुणसम्प्रसूतिम् अयोग्यकामादिजननी मायां पिशाचवत् स्थितां जीवस्वरूपाच्छादिकां निरस्य परमाच्छादिकां विधुनोति उद्घाटयति । अयोग्यकामादिगुणांश्च सन्दह्य एतद्दुःखादिकं यदात्म्यं यस्या मायायाः स्वरूपाधीनं तादृशी स्वयं सा बाह्यान्तकरणजबुद्धिश्च तदन्तःकरणं च दग्ध्वा असमिन्निरिन्धनोऽग्निरिव शाम्यति । स्वरूपज्ञानेनैव स्वस्वरूपमीश्वरादिकं चानुभवति, मुक्ताविति शेषः । ‘‘पिशाचवत् स्थिता माया तूच्यते जीवगा सदा । दह्यन्ते तद्गुणाः सर्वे साच प्रातिस्विकी नरे’’ इति प्रमाणवचनादुक्तं युक्तम् । अनेन बाह्यान्तःकरणं नश्यति स्वरूपान्तःकरणजन्यज्ञानेन स्वस्वरूपादिकमीश्वरं चानुभवतीत्येतत् सम्यङ् नावगतमतोऽन्यत् प्रमाणं वक्तव्यमितीयं शङ्का ‘‘बाह्यन्तःकरणाज्जन्यं ज्ञानं नश्यति मुक्तिगे । स्वरूपज्ञानतो भोगान् भुङ्क्ते मुक्तौ यथेष्टतः’’ इत्यनेन परिहर्तव्येति ज्ञातव्यम् । ‘‘एतच्छब्देन दुःखादिरपरोक्षतयोच्यते । क्वचिद् विश्वं क्वचिद् ब्रह्म क्वचिन्निन्द्यमितीर्यते’’ इति वचनादेतच्छब्देन दुःखादिकमत्रोच्यते इति युक्तम् । तत्पलोहाम्बुनाशवद् भेदज्ञानविनाशादात्मैकत्वमेव न नानात्वम्, अत एव तेषां नित्यत्वं च व्यावहारिकमेवेति यद् व्याख्यानं तदुत्तरग्रन्थविरुद्धत्वाद् विदुषां परिषदि न सामञ्जस्यं धत्ते ॥ १३ ॥

श्रीनिवासतीर्थीया

विद्यावह्नेः सुखावहत्वमुपपादयति ॥ वैशारदीति । शं चारं च शारे वैषयिकसुखदुःखे । विविधे शारे विशारे द्यति । दोऽवखण्डने । खण्डयतीति विशारदो विष्णु-स्तत्सम्बन्धिनी वैशारदी अतिविशुद्धबुद्धिः । अत्र मायाशब्दविवक्षितार्थं प्रमाणेनाह ॥ पिशाच-वदिति ॥ अत्र मूले माया शब्दवाच्या तु या पिशाचवत्स्थिता दुष्टा प्रकृतिः सोच्यते । गुणांश्च सन्दह्येत्यस्यार्थमाह ॥ दह्यन्त इति ॥ तद्गुणाः पिशाचवत्स्थितमायाजन्यगुणा अयोग्यकामक्रोधाद्या गुणाः । सा च माया प्रकृतिपुरुषसम्बन्धिनीत्यर्थः । एषा माया लिङ्गदेह एवेति द्रष्टव्यम् । तथा च मायां स्वगुणाच्छादिकां लिङ्गदेहरूपां विधुनोति नाशयति । कीदृशीं मायामित्यत उक्तम् ॥ यदात्म्यमेतदिति ॥ एतदपरोक्षसिद्धम् । दुःखादिकं यदात्म्यं यस्या मायायाः स्वरूपाधीनं तादृशीं मायां धुनोति । अत्रैतच्छब्दतात्पर्यमुक्तम् ॥ एतच्छब्देनेति प्रमाणेन ॥ पश्चाद्गुणांश्च सन्दह्य मायागुणान् कामादीन् सन्दह्यासमिद्धाग्निरिव स्वयं च शाम्यति । बाह्यान्तःकरणाज्जन्यं ज्ञानमित्युक्त्या मूलेऽनित्यत्वमुपलक्षकं मन्तव्यम् । समित्स्थानीयमायाशब्दवाच्यलिङ्गदेहनाशे तस्य षोडशकलात्म-कत्वेन मनसोऽपि नष्टत्वेन कारणाभावे समेधकाभावेन स्वयमपि स्वरूपज्ञानमभिवृद्धं कृत्वा नश्यतीत्याशयः । अयमर्थस्तात्पर्य उक्तः ॥ बाह्यान्तःकरणादिति ॥ १३ ॥

प्रमेयचन्द्रिका

विद्यायाः सुखावहत्वं मायानिरसनद्वारेत्युच्यते ॥ वैशारदीति ॥ अत्र माया तावन्न भगवदिच्छा विधूननायोगात् । नाप्यनिर्वाच्याविद्या । तस्याप्रामाणिकत्वात् । अतो मयाशब्दार्थं प्रमाणेनाह ॥ पिशाचवदिति ॥ पिशाचो यथा स्वभाविकबुद्धिं तिरस्कृत्यान्यथा-बुद्धिमादधति तथा जीवानां स्वस्वरूपविषयकभगवद्विषयकज्ञानाच्छादिकां जीवाच्छादिकापरमाच्छादि-काख्यदुर्देवतारूपा माया सदा जीवगा सा यदा सम्यज्ञानेन जीवाद्विमुच्यते । तदा तद्गुणास्त-न्निमित्तकाः कामक्रोधदुःखादयो गुणाश्च प्राग्विद्यमाना अपि दह्यन्ते । नन्वेकस्मिन् जीवे मुक्ते मायायास्तद्गुणानां च नष्टत्वात्सर्वविमोक्षः स्यादित्यत उक्तम् ॥ सा चेति ॥ प्रतिजीवं दुर्जीवद्वया-वस्थानान्न सर्वमोक्षप्राप्तिरिति भावः । यदात्म्यमेतदित्यत्र एतद्विश्वं यत्स्वरूपकमित्यन्यथा-प्रतीतिवारणायैतद्दुःखादिकं यदात्म्यं यदधीनमित्यर्थमभिप्रेत्य दुःखादेः पूर्वमप्रस्तुतत्वात्कथं तस्यैतच्छब्दपरामृष्टत्वमित्यत एतच्छब्दस्य सर्वत्र पूर्वप्रकृतपरामर्शकत्वमेव न । अपि बहवोऽर्थाः सन्तीत्याशयेनाह ॥ एतच्छब्देनेति ॥ एतच्छब्दो हि सन्निहितवाची । सन्निहितं च न पूर्वग्रन्थे प्रस्तुतमेवेति नियमः । किन्तु सुखदुःखादिरपि साक्षिप्रत्ययगोचरतया सन्निहितत्वादेतच्छब्देनोच्यते । क्वचिद्विश्वं जगदपि प्रत्यक्षादिप्रमाणत्रयेण सामान्यतः साक्षिणा वा सन्निहितत्वात् । क्वचिच्च परं ब्रह्म स्वनियामकतया सन्निहितं बुद्धौ सन्निहितत्वात् । क्वचिन्मिथ्याज्ञानं तदभिमानिकल्यादिरूपं निन्द्यमपि शास्त्रपरिचयवतां हेयतया बुद्धिसन्निहितत्वादेतच्छब्देनोच्यत इति प्रत्येकं सम्बन्धः ॥

तथा च वैशारदी विविधं शारदं दुःखादिरूपं संसारं द्यति खण्डयतीति विशारदो हरिः । दो अवखण्डने इति धातुः । तत्सम्बन्धिनी विशुद्धबुद्धिरपरोक्षज्ञानम् । यतः दुःखादिकं यदात्म्यं यदधीनं तां स्वयोग्यकामादिजननीम् । जीवाच्छादिकापरमाच्छादिकाख्यां मायां धुनोति । स्वगुणाच्छादिकां हित्वा परमाच्छादिकां परः । व्याघुट्येत्याद्युक्तविशेषद्योतनाय तुशब्दः । तथा अयोग्यकामादिगुणांश्च सन्दह्य दग्ध्वा निरिन्धनोऽग्निरिव स्वयं च प्रशाम्यति नश्यतीति मूलार्थः सम्पन्नः ॥

अत्र ज्ञानस्यात्यन्तिकविनाशोऽभिधीयत इति भाति । न चैतद्युक्तम् । संज्ञानाशो यदि भवेत्किमुक्त्या नः प्रयोजनमित्युक्तरीत्या मुक्तौ ज्ञानाभावे भोगाद्यसम्भवेन मुक्तेरपुरुषार्थत्वप्रसङ्गादित्या-शङ्क्य ज्ञानं द्विविधं बाह्यान्तःकरणजन्यं जीवस्वरूपं चेति । तत्र मुक्तौ जडान्तःकरणजं ज्ञानमेव नश्यति । भोगादिस्तु स्वरूपज्ञानतो भवति । तथा च मनोवृत्तिरूपज्ञानस्यैव मूले नाशोक्तेर्नानुपपत्ति-रित्याशयेन प्रमाणमाह ॥ बाह्यान्तःकरणादिति ॥ १३ ॥

अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।

नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥

मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी तथा ।

तत्तदाकृतिभेदेन जायते भिद्यते च धीः ॥ १५ ॥

एवमप्यत्र सर्वेषां देहिनां देहयोगतः ।

कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥

तात्पर्यम्

‘देहापेक्षमनित्यत्वं जीवानां जननं तथा । स्वतस्त्वजाश्च नित्याश्च बहवः सुखरूपिणः । उत्तमा जीवसङ्घास्तु नीचा वै नित्यदुःखिन’ इति जीवतत्त्वे ॥

पदरत्नावली

तत्कथमत्राह– अथेति । एषामिति प्रत्यक्षं लोककालागमात्मनामित्यनेन प्रत्यक्षमनुमानमागमं च प्रमाणयति । लोके काले आगमे वेदे च आत्मा मतिर्येषां ते तथा तेषाम्, लोककालवेदज्ञानामित्यर्थः । अनेन ज्ञानतारतम्यं च सूचितम् । तस्मात् पुण्यकर्मकर्तॄणां पापकर्मकर्तॄणां मिश्रकर्मकर्तॄणामत एव सुखदुःखमिश्रभोक्तॄणामेषां नानात्वमथैषां नित्यत्वं च मन्यसे जानासि यदि त्वम्, तस्मान्न मया भेदसाधने प्रयतनीयमित्यत आत्माभेदोऽनुपपन्न इति । ‘‘देहापेक्षमनित्यत्वं जीवानां जननं तथा । स्वतस्त्वजाश्च नित्याश्च बहवः सुखरूपिणः । उत्तमा जीवसङ्घास्तु नीचा वै नित्यदुःखिनः’’ इत्यतोऽनित्यत्वं जननं सुखैकभोक्तृत्वं च युज्यते । इयं व्यवस्था कस्मादिति तत्राह– सर्वभावानामिति । यथा सर्वेषां देवेश्वरमनुष्यादिजातिभिन्नानां भावानां जीवानां संस्था व्यवस्था योग्यता औत्पत्तिकी स्वाभविकी हि यस्मात् तस्मात्तत्तदाकृतिभेदेन देवासुरादिशरीरभेदेन तथा जायते जीवसङ्घः । तस्य धीर्ज्ञानं च योग्यतानुसारेण भिद्यते । अनेनोत्तमयोग्यतावतां भेदज्ञानेऽधिकार इतरेषामुभयेषां च यथासम्भवमन्यत्रेत्युक्तं भवति ॥ ननु दृश्यमानत्वान्नित्यानामपि जन्मादिकमस्तु तन्मायामयमिति मा शङ्कीत्याह– एवमपीति । एवमपि नित्यत्वेपि अत्र जननादिलक्षणसंसारे सर्वेषां देहिनां कालावयवतः रात्रिदिनाद्यवच्छिन्नेषु कालावयवेषु देहयोगतः देहम्बन्धेन जन्मादयो भावा असकृत् सन्ति, प्रवाहतः सत्या इत्यर्थः । देहापेक्षमनित्यत्वं जीवाना-मित्येतदत्राप्यनुसन्धेयम् ॥ १४–१६ ॥

श्रीनिवासतीर्थीया

चैतन्यमेकमेव, भेदादिकं व्यावहारिकमिति मतनिराकरणं हृदि निधाय चेतनानां भेदादिकं प्रतिपादयति ॥ अथैषामित्यादिना ॥ प्रमेयान्तरारम्भेऽथ शब्दः । कर्मकर्तॄणां पुण्यपापमिश्रकर्मकर्तॄणामत एव सुखदुःखमिश्रफलभोक्तॄणां पुण्यमिश्रपापजीवानाम् । तथा लोककालागमात्मनां कालः सर्वगुणोद्रेकादिति वक्ष्यमाणप्रमाणानुसारेण लोकान्तर्गते लोक शब्दवाच्ये कालान्तर्गते कालशब्दवाच्ये आगम शब्दवाच्ये च भगवति मनोयुक्तानां तदुपासकानामुत्तमजीव-सङ्घानाम् । नानात्वं भेदः प्रतीयमानः स्वाभाविक एव । क्रियमाणकर्मभेदात्फलभेदादुपासनाभेदा-दुपासकेष्वपि परस्परभेदान्नानात्वं स्पष्टमित्याशयः । तथाऽनित्यत्वमपि । उपलक्षणमेतत् । जन्मादय इति वक्ष्यमाणरीत्या जननमपि ग्राह्यम् । अत्र जीवानामनित्यत्वं न स्वरूपेण किन्तु स्वदेहत एवेति प्रमाणेनाह ॥ देहापेक्षमित्यादिना ॥ देहस्य विनाशजननापेक्षमित्यर्थः । उत्तमा जीवसङ्घा बहवः सुखरूपिण इत्युक्त्या, लोककालागमात्मनामित्युक्तभगवद्रूपोपासनातारतम्येनोपासकानामपि बहुत्वमभिप्रैति ॥ नानात्वमित्युक्तं विशदयति ॥ मन्यस इति ॥ सर्वपदार्थानामौत्पत्तिकी स्वाभाविकी संस्था योग्यता यथाऽस्ति तदनुसारेण तत्तदाकृतिभेदेन देवासुरमनुष्यादिभेदेन जायते । तेषां धीश्च भिद्यत इति त्वं मन्यसे जानासीति न मयोपपाद्यमस्तीत्याशयः ॥ पूर्वोक्तमनित्यत्वं देहापेक्षयैव न स्वरूपेणेति वदन्नित्यस्यापि जन्मादिकं न मायामयमित्याह ॥ एवमपीति ॥ स्वरूपापेक्षया नित्यत्वे विद्यमानेऽपीत्यर्थः । अत्र संसारे सर्वेषां जीवानां कालावयवतः सृष्ट्यादि-कालानुसारतो जायमानो यो देहयोगस्तस्माज्जायमाना ये जन्मादयोऽसकृत्सन्ति सत्या एव । यद्वा । तसेः सार्वविभक्तिकत्वात्तत्तत्क्षणलवादिकालावयवैर्देहस्य योगतोऽसकृत्प्रतिक्षणं जायमाना ये जन्मादयः पदार्थास्ते सन्ति सत्या एव न मायिका इत्यर्थः ॥ १४–१६ ॥

दुर्घटभावदीपिका

अथान्यच्च ब्रूमः । किं तत् । लोककालागमात्मनां लोकाः स्वापेक्षयोत्तमदेवलोकादयः । कालाः कल्पादिकालाः । आगमा अहरहः सन्ध्यामुपासीतेत्याद्यागमा आत्मानः स्वामिनो येषां ते लोककालागमात्मानः । देवाद्यधीना इति यावत् । तेषां लोककाला-गमात्मनाम् । अत एव कर्मकर्तॄणां पुण्यपापकर्मकर्तॄणामत एव सुखदुःखयोर्भोक्तॄणां येषां जीवानां परमेश्वरात्परस्परं च नानात्वम् । अथशब्दः समुच्चये । नानात्वस्य नित्यत्वं च ज्ञातव्यमिति । एतेन जीवानामीश्वरात्परस्परं चाभेद इति मायावादिमतनिरासार्थं भेद एव वक्तव्यः । जीवानां नित्यत्वकथनमसङ्गतमिति दूषणं पराकृतम् । जीवानां संसार एव भेदो मुक्तावभेद इति पक्षनिरासार्थं नानात्वमित्यस्यार्थवशान्नानात्वस्येति विपरिणाममङ्गीकृत्य जीवानां भेदस्य नित्यत्वमुच्यत इत्यभ्युप-गमात् ॥ सर्वभावानां सर्वजीवानां संस्था सम्यक्स्थितिः । नित्येति यावत् । औत्पत्तिकी स्वाभाविकीत्येतद्धि प्रमाणप्रसिद्धमिति मन्यसे । तथा च तथाऽपि जीवस्तत्तदाकृतिभेदेन तत्तद्देशभेदेन विशिष्टः सन् जायते जीवानां धीर्भिद्यते मिथ्याज्ञानजनकी भवति । अतश्च जीवेश्वरयोर्भेद इति ॥ अयं भावः ॥ यद्यपि जीवेश्वरयोः स्वरूपेण नित्यत्वं प्रमाणसिद्धम् । तथाऽपि जीवानां देहत उत्पत्तिर्मिथ्याज्ञानं चास्ति । एतदुभयं परमेश्वरयोर्भेदः सिद्ध इति ॥ सर्वेषां देहिनां जीवानामेव-मुत्तमाधीनत्वादिवदत्र संसारावस्थायां कालावयवतः सृष्ट्यादिकालावयवेष्वसकृदपि प्रतिक्षणं च देहयोगतो जन्मादयो भावा जन्ममरणादयो दोषरूपा धर्माः सन्ति । परमेश्वरस्य न सन्ति । अतश्च भेद इति शेष इति । यद्यपि पूर्वश्लोके जीवानां देहयोगतो जन्मोक्तं तथाऽपि तद्विवरणार्थमयं श्लोकः प्रवृत्त इत्यभ्युपगमान्न दोषः । यद्यप्युत्पत्त्यनन्तरं मरणपर्यन्तमेको देहस्तथाऽपि विशिष्टानां देहानां भेदस्याप्यङ्गीकारात् प्रतिक्षणं देहयोगत इत्युपपन्नम् ॥ १४–१६ ॥

प्रमेयचन्द्रिका

मूले विद्यावह्निः सुखावहः विशुद्धबुद्धिर्धुनोति मायामिति ज्ञानस्य मोक्ष-साधनत्वमुक्तम् । किं सर्वजीवानामित्यत उच्यते ॥ अथैषामिति ॥ लोककालागमात्मानाम् । भूस्वर्गादिलोकेषु कृतत्रेतादिषु दिवारात्र्यादिषु वा कालेषु । विधिनिषेधादिरूपागमेषु वा । आत्मा स्वरूपं मनो वा येषां ते तथोक्ताः । भूस्वर्गादिलोकप्राप्तिमतां तत्कालेषु भाविनां विधिनिषेधबद्धानां चेति यावत् । अत एव शुभाशुभकर्मकर्तॄणां तत्फलतया सुस्वदुःखयोर्भोर्क्तॄणाम् । सर्वभावानां भावा जीवाः समुद्दिष्टा इत्युक्तेः । सर्वजीवानां नानाविधत्वम् । अथेति समुच्चये । अथ तस्मादिति वा । नानालोकगन्तृत्वात्सर्वकालस्थत्वान्नित्यत्वाद्बद्धत्वाच्चेति यावत् । नित्यत्वं च अथ यदि प्रामाणिकत्वात् त्वं मन्यसे तदा चैतन्यस्वभावेनैव तत्तदाकृतिभेदेन स्थितानां तेषां यथा औत्पत्तिकी स्वाभाविकी संस्था योग्यता तथा तदनुसारिणी धीर्जायते । विषयवैचित्र्येण भिद्यते चेत्यङ्गीकार्यमिति शेषः । तथा चेदमुक्तं भवति । देहिनः प्रतिक्षणं कर्माण्याचरन्ति । न हि कश्चित्क्षणमपि जातु तिष्टत्य-कर्मकृदित्युक्तेः । तानि च कर्माणि जीवानां नित्यत्वे निरोधाद्ययोगो व्याघातादित्यत उच्यते ॥ एवमपीति ॥ नित्यत्वे सर्वेषां देहिनां जीवानामत्र संसारे निमित्तकारणीभूतदिवारात्र्यादिकालावयवतो ऽदृष्टादेश्चेति ग्राह्यम् । प्राप्तदेहयोगतः देहसम्बन्धमात्रेणासकृत्पुनः पुनर्जन्मादयो भावाः सन्तीत्यर्थः ॥

अत्र नित्यत्वे निरोधाद्ययोगव्याहतेरित्यत उक्तशङ्कापरिहारस्य स्पष्टमप्रतीतेर्नित्यत्वादि स्वाभाविकं, अनित्यत्वादिकं देहोपाधिनिबन्धनमतो न व्याहतिरिति प्रमाणेनाह ॥ देहापेक्षमिति ॥ बहवो बहुत्वोपेताः । भिन्ना इति यावत् । सुखरूपत्वं न सर्वजीवसाधारणमित्याह ॥ उत्तमा इति ॥ सुखरूपिण इत्यन्वयः । उपलक्षणमेतत् । मध्यमाः सुखदुःखोभयरूपिण इति ग्राह्यम्

॥ १४–१६ ॥

तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते ।

भोक्तुश्च सुखदुःखानां कोन्वर्थो विवशं भजेत् ॥ १७ ॥

तात्पर्यम्

‘स्वाधिकानां वशत्वात्तु परमं सुखमेव तु । तदन्येषां वशे यस्तु किं सुखं तस्य भण्यताम् । स्वाधिकानां वशत्वं च तेषु भक्तिमतः सुखम् । तदन्येषां तु दुःखाय तस्माद्भक्तोऽधिको भवेदि’ति च ॥ १७ ॥

पदरत्नावली

ननु सदनुविद्धत्वात् सत्यत्वं न स्वत इत्याशङ्क्यार्थक्रियायोग्यत्वात् स्वाभाविक-मेवेति भावेनाह– तत्रापीति । तत्रापि स्वतोऽनित्येष्वपि जन्मादिमति, जगत्यपीति वा, कर्मणां कर्तुः, जातावेकवचनम्, अस्वातन्त्र्यं कर्मफलसुखदुःखभोक्तुरस्वातन्त्र्यं च, उत्तमानामवर-नियतत्वमवरजनस्योत्तमत्त्वं च, लक्ष्यते दृश्यते, भवतेति शेषः । ततः किमत्राह– कोन्विति । कोन्वर्थः पुरुषार्थः सुखलक्षणः विवशं नीचवशं पुरुषं भजेत् । न कोपि पुरुषार्थः । कं पुरुषं पुरुषार्थः प्राप्नोतीत्यस्यापि इदम् एवमेव व्याख्येयं विशिष्टपुरुषवशं पुरुषं भजेदिति । अत्र विशेषस्तु ‘‘स्वाधिकानां वशत्वात्तु परमं सुखमेव तु । तदन्येषां वशे यस्तु किं सुखं तस्य भण्यताम् । स्वाधिकानां वशत्वं च तेषां भक्तिमतः सुखम् । तदन्येषां तु दुःखाय तस्माद् भक्त्यधिको भवेत्’’ इत्यनेनावगन्तव्यः । अनेन मुक्तावप्यन्यनियतत्वे संसारधर्मत्वात् तदर्थे न प्रयतनीयमिति शङ्का निरस्ता ॥ १७ ॥

श्रीनिवासतीर्थीया

एतादृशे संसारे सर्वथोत्तमो नीचवशो न भवेत् । किं नाम, स्वोत्तमवश एवेत्याशयेनाह ॥ तत्रापीति ॥ संसार इत्यर्थः । अत्र विवशं परवशं को न्वर्थो भजेन्न कोऽपी-त्युक्त्या परवशो न स्यादिति प्रतीयते । तथा च स्वोत्तमवशस्यापि सुखादिरूपार्थाभावः प्रतीयतेऽतस्तत्तात्पर्यं प्रमाणेनैवाह ॥ स्वाधिकानामित्यादिना ॥ तदन्येषां स्वनीचानां वशे तिष्ठति । अनेन मूलस्थकर्मणां कर्तुः सुखदुःखानां भोक्तुरुत्तमस्यापि कदाचिदस्वातन्त्र्यं स्वापेक्षया नीचपरतन्त्रत्वं ज्ञायते ततः किं प्रत्युत तेन सुखं भविष्यतीत्यत आह ॥ को न्विति ॥ विवशं नीचवशं पुरुषं को न्वर्थः सुखादिपुरुषार्थो भजेन्न कोऽपीत्यर्थ उक्तो भवति । तेषु स्वाधिकेषु सुखं सुखाय । भवतीति शेषः । तदन्येषां तेषु भक्तिरहितानां स्वाधिकानां वशत्वं दुःखाय भवतीत्यर्थः । अनेन विवशं स्वाधिकेषु भक्तिरहितस्तदधीनश्च यस्तं को न्वर्थो भजेत् । तस्यापि सुखं न प्रत्युत दुःखमेवेत्यप्यर्थ उक्तो भवति ॥ १७ ॥

दुर्घटभावदीपिका

तत्र जीवेश्वरयोर्मध्ये कर्मणां कर्तुर्जीवस्य । अपिरवधारणे । अस्वातन्त्र्यमप्यस्वातन्त्र्यमेव लक्ष्यते । सुखदुःखानां भोक्तुश्च संसारिजीवस्य । चशब्दोऽनुक्तसमुच्चये । सुखमात्रभोक्तुर्मुक्तजीवस्य चास्वातन्त्र्यं लक्ष्यते । सुखमात्रभोक्तुरीश्वरस्य स्वातन्त्र्यं लक्ष्यते । परमेश्वरस्य स्वातन्त्र्यादिविशिष्टत्वेन जीववद्भिन्नत्वे किमस्माभिः कर्तव्यमित्यत आह ॥ विवशं भजेदिति । विवशमवशं स्वतन्त्रं परमात्मानं भजेत् । अन्यथेति शेषः । अन्यथा कोऽन्वर्थो भवेत् । न कोपीति । लोककालागमात्मनामित्यादिना स्वोत्तमदेवाद्यधीनत्वं जीवानामुक्तम् । तदनुपपन्नम् । जीवानां मुक्तावपि दुःखप्रसङ्गात् । पराधीनस्य दुःखनियमादित्याशङ्कापरिहारार्थं तात्पर्यम् । तस्यार्थः । तुशब्दश्चशब्दोऽवधारणे । स्वाधिकानां तु स्वाधिकानां नारायणादीनामेव वशत्वं परमसुखमेव परमसुखसाधनमेव । दुःखसाधनं नेत्यस्य शेषः । दुःखसाधनं न तु नैव । स्वाधिकानामेवेत्येवकारव्यावृत्तिं दर्शयति ॥ तदन्येषामिति । तदन्येषां तु स्वोत्तमेभ्योऽन्येषामेव वशे यो वर्तते तस्य किं सुखं भण्यताम् । तर्हि दैत्यादीनां सुखं स्यादित्यत आह ॥ स्वाधिका-नामिति । स्वाधिकानां वशत्वं तेषु स्वाधिकेषु भक्तिमतश्च भक्तिमत एव सुखं सुखसाधनम् । तदन्येषां भक्तिमतोऽन्येषां स्वाधिकवशत्वं दुःखाय च दुःखायैव भवेत् । तस्माद्भक्त्याऽधिको भवेदिति । एतेन चत्वारस्तुशब्दा एवकारचशब्दौ व्यर्थाविति दूषणं निरस्तम् ॥ १७ ॥

प्रमेयचन्द्रिका

ननु जीवानां कर्मकर्तृत्वे क्रियास्वातन्त्र्यमेव कर्तृत्वमिति स्वतन्त्रत्वमङ्गी-कार्यम् । स्वातन्त्र्ये चाशेषपुरुषार्थलाभेन संसारस्य हेयतेत्यत उच्यते ॥ तत्रापीति ॥ तत्र संसारे । कर्मणां कर्त्तुरपि । जातावेकवचनम् । चोऽवधारणे । अस्वातन्त्र्यं लक्ष्यते । ज्ञायत एव । न च कर्तृत्वानुपपत्तिः । कर्त्ता शास्त्रार्थवत्वादिति वैवक्षिकस्य कर्तृत्वस्योक्तत्वात् । स्वातन्त्र्ये सुखदुःख-भोक्तृत्वायोगादिति हेतुसूचनाय सुखदुःखानां भोक्तुरिति विशेषणम् । चशब्देन जिघृक्षोर्ग्रहणाभावं हेतुं समुच्चिनोति । एवं विवशमस्वतन्त्रं पुरुषं कोऽन्वर्थो भजेत् । न कोऽपीत्यर्थः ॥ ननु विवशस्य पुरुषार्थासम्भवे न मोक्षः पुरुषार्थः स्यात् । मोक्षे स्वोत्तमवशत्वस्यात एव चानन्याधिपतिरित्यादिसूत्रेषु निर्णीतत्वादित्याशङ्कां प्रमाणेन परिहरति ॥ स्वाधिकानामिति ॥ स्वाधिकानां वशत्वात्तु अतिशयेन परमं सुखमेव भवेत् । तुशब्दसूचितं विशेषं दर्शयति ॥ तदन्येषामिति ॥ तदन्येषां स्वाधमानाम् । अत्रापि तुशब्दः पूर्वस्माद्विशेषद्योतकः । किमित्याक्षेपे । स्वाधिकवशत्वेनापि क्वचित्सुखं न दृश्यत इत्यत आह ॥ स्वाधिकानां वशत्वं चेति ॥ तदन्येषां स्वाधिकेषु भक्तिरहितानां तु विशेषेण तद्वशत्वमिति शेषः । दुःखाय भवेदिति सम्बध्यते । अत एवं स्वाधिकेषु भक्तिमतामेव सुखं तस्मात्तेष्वधिको भक्तो भवेदित्यर्थः । भक्त्याऽधिको भवेदिति क्वचित्पाठः ॥ १७ ॥

न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि ।

तथा च दुःखमूढानां वृथाऽहङ्कारिणां परम् ॥ १८ ॥

तात्पर्यम्

विदुषामपि देहमानिनां यदा न विद्यते सुखं तदा दुःखमूढानामहङ्कारिणां च किम्वित्यर्थः । ‘पुनःशब्दो प्रस्तुतार्थे तथाशब्द उदीर्यत’ इति शाब्दे ॥ १८ ॥

पदरत्नावली

अत्र कैमुत्यमाह नेति । विदुषामपि देहिनां देहाभिमानिनां यदा सुखं न विद्यते तथा तदा दुःखमूढानामहङ्कारिणां च सुखं नास्तीति किं पुनः । ‘‘पुनः शब्दः प्रस्तुतार्थे तथाशब्द उदीर्यते’’ इति वचनात् पुनः शब्दस् तथाशब्दार्थे वर्तते । दुःखमूढेभ्योप्यहङ्कारि-णामात्मन्यविद्यामानगुणारोपवतां किं पुनस्तरामिति च योज्यम् । यावद्देहाभिमानित्वमधिकं तावद्दुःखितं च ज्ञातव्यमित्यतो देहाभिमानिनश्च दुःखमूढाइत्युक्तम् । परमित्यनेनाभिमानित्वमेव प्रयोजकमिति

॥ १८ ॥

श्रीनिवासतीर्थीया

प्राणिनां सुखं नास्तीत्येतत्कैमुत्येनोच्यते ॥ न देहिनामिति ॥ यद्विद्यते तत् किञ्चिदल्पमेवेत्यर्थः । अत्र कथं कैमुत्यलाभस्तज्ज्ञापककिंपुनःशब्दयोरभावादित्यतः किञ्चिदित्यत्रत्यः किंशब्दोऽत्रानुवर्तते । तथाशब्दश्च पुनःशब्दार्थः । तथा च कैमुत्यलाभ इत्याशयेन वाक्यं योजयंस्तथाशब्दस्य पुनःशब्दार्थत्वे प्रमाणं चाह ॥ विदुषामपीत्यादिना ॥ देहिनामित्यस्य तात्पर्यम् ॥ देहमानिनामिति ॥ देहाभिमानित्वावस्थायुक्तानामित्यर्थः । पुनःशब्दो पुनरिति शब्दवाचको यस्यासौ पुनःशब्दः पुनःशब्दार्थस्तस्मिन्नित्यर्थः। दुःखमूढाहङ्कारिशब्दयोरर्थमाह ॥ दुःखमूढा इति ॥ अधीरा दुःखे प्राप्ते तत्सहने धैर्यशून्यास्तत्कृतमूर्च्छां प्राप्नुवानामित्यर्थः ॥१८॥

दुर्घटभावदीपिका

विवशं भजेदित्यनेन परमात्मभजनं कर्तव्यमित्युक्तम् । अस्मिन् श्लोके भगवद्भजनवेलायां देहाभिमानो दुःखे प्राप्तेऽधीरताऽहङ्कारश्च त्याज्या इति वक्तुं देहाभिमाना-धीरताऽहङ्कारसद्भावबोधकमुच्यते । विदुषामपि ज्ञानिनामपि देहिनां दुःखमूढानां दुःखे प्राप्तेऽ-धीराणामहङ्कारिणां स्वस्मिन्नविद्यमानगुणारोपवतां यदा सुखं न विद्यते तदावृथा ज्ञानं विना देहिनां तथा पुनः पुनर्दुःखमूढानां परं विशेषतोऽहङ्कारिणाम् । चशब्दोऽवधारणे । सुखं नैव विद्यत इति किञ्चित्किम्विति । एतेन पुनः पुनर्दुःखमूढानामिति वक्तव्यं तथा दुःखमूढानामित्यनुपपन्नमिति दूषणं प्रत्युक्तम् । तथाशब्दस्यावृत्तिः पुनःशब्दार्थकत्वं चेत्यङ्गीकारात् ॥ १८ ॥

प्रमेयचन्द्रिका

कैमुत्येनापि संसारिणः सुखाभावप्रतिपादके न देहिनामिति श्लोके कैमुत्या-प्रतीतेर् ज्ञानेन सुखस्यैव प्रमितत्वेन विदुषामपि सुखं न विद्यत इत्यस्यायुक्तत्वात्तदुक्तेः प्रकृतानुपयोगाच्चाह ॥ विदुषामपीति ॥ अपीति कैमुत्योपपादनम् । देहिनामित्यस्यार्थः ॥ देहमानिनामिति ॥ विरिञ्चस्य देहसम्बन्धे सत्यपि तत्रानभिमानतः सुखाभावादभिमानस्यैव सुखं प्रति प्रयोजकत्वमित्येतेन सूचितं भवति । एतेन विदुषामपि देहाभिमानदशायां सुखाभावादिकं यदा तदा दुःखमूढानां दुःखातिशयेन बलचित्तानामहंकारिणाम् अविद्यमानगुणाभिमानिनामिति मोहयुक्तचित्तानां सुतरां सुखाभावादिकं भवतीति किमु वक्तव्यमिति कैमुत्यमुपपादितम् ॥ विदुषां देहाभिमानदशायामेव सुखाभावो न व्याहतिः । कैमुत्योपपादनार्थत्वादस्त्युपयोग इति दर्शितं भवति । अत्रैकस्य तथाशब्दस्य तदेत्यर्थ उक्तः । द्वितीयस्य पुनरित्यर्थ इत्यभिधानेन दर्शयति ॥ पुनःशब्द इति ॥ पुनरिति शब्दो यस्यार्थस्य वाचकस्तस्मिन्पुनःशब्देन पुनरित्यर्थ इत्यर्थः ॥ १८ ॥

यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः ।

तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥

तात्पर्यम्

ये तु विद्वत्त्वेन प्रसिद्धाः प्राकृतानां तेऽप्यद्धा न विदुर्देहाभिमानिनश्चेत् । दुःखमूढा अधीराऽहङ्कारिणो विशेषतोऽप्यविद्यमानगुणाभिमानिनः ॥ १९ ॥

पदरत्नावली

नन्वस्त्वज्ञानां दुःखादिकं तत्परिहारप्राप्त्युपायानभिज्ञानात्, अग्निष्टोमादिना तदभिज्ञानां सुखप्राप्तिदुःखपरिहारौ स्यातामित्येतदनूद्य परिहरति यदीति । ये तु लोके विद्वत्त्वेन प्रसिद्धाः पुरुषा यदि सुखस्य प्राप्तिं दुःखस्य विघातं परिहारं जानन्तीति मतं तेऽप्यद्धा सत्यं यथार्थं योगमुपायं न विदुः । कुतो न विदुरत्राह– मृत्युरिति । यथा येनोपायेन मृत्युः संसारो न प्रभवेन् नाङ्गीकुर्यात् तम् । देहमानित्वे बहुतरदुःखग्रस्तत्वादित्यर्थः ॥ १९ ॥

श्रीनिवासतीर्थीया

नन्वज्ञानां सुखदुःखप्राप्तिपरिहारोपायाज्ञानादस्तु दुःखादि । ये तु विद्वांसो विचारशीलास्ते स्वर्ग्यसुखप्राप्तौ ज्योतिष्टोमादिकं साधनं दुःखपरिहारे च निषिद्धाकरणमित्यादिकं जानन्त्येवातो विदुषां न किञ्चित्सुखमित्युक्तमयुक्तमित्यतस्तदनूद्य परिहरति ॥ यदीति ॥ विघातं परिहारम् । अत्र जानन्तीत्यत्र दुःखमूढानामित्युक्ता अज्ञा न कर्तारः । विरोधात् । नापि विदुषामित्युक्ता विद्वांसस्तेऽप्यद्धा न विदुरित्ययोगादित्यतो योजयति ॥ ये त्विति ॥ प्राकृतानां मूर्खानाम् । ननु सुषुप्त्यवस्थायामद्धा सर्वेऽपि न विदुरेवातः किमेतद्विशिष्योच्यत इत्यत आह ॥ देहेति ॥ चेत् । यदा देहाभिमानिनो जाग्रदवस्थापन्नास्तदाऽपि न विदुरित्यर्थः । तथा च सुखदुःखयोः प्राप्तिं विघातं चैते वेदोक्तप्रकारेण जानन्तीति विद्वत्वेन ये मूर्खजनसिद्धाः । वेदापातप्रतीतार्थज्ञानिनो ये इति यावत् । तेऽप्यद्धाऽऽत्यन्तिकसुखदुःखविघाते च योगमुपायं न विदुः। तदेव विशदयति ॥ मृत्युरिति ॥ यथा येनोपायेनानुष्ठिते मृत्युः संसारो न प्रभवेन्मोक्षो भवेत्तादृशं योगं न विदुरिति श्लोकार्थः ॥ १९ ॥

प्रमेयचन्द्रिका

ननु विदुषां सुखप्राप्तिदुःखविघातसाधनाभिज्ञत्वेन सुखप्राप्त्याद्युपपत्तेर् विदुषां सुखं न विद्यत इत्युक्तमयुक्तमित्यत उच्यते ॥ यदीति ॥ नन्वत्र जानंति न विदुरिति रव्याहतिः । न च दुःखातिशयेन चलचित्तत्वान्न विदुरित्युच्यते अतो न व्याहतिरिति वाच्यम् । तर्हि जानन्तीत्यस्य संशयादिरूपज्ञानपर्यवसानात्तस्य च ज्ञानिष्वनुचितत्वाद्व्याहतिरेवेत्यत आह ॥ ये त्विति ॥ तथा च जानन्तीत्यज्ञानिनां तथाप्रतीतिमपेक्ष्योक्तम् । वस्तुतस्तु न ते ज्ञानिनोऽतो न व्याहतिरिति भावः ॥ पूर्वश्लोके दुःखमूढेभ्योऽहङ्कारिणां को विशेषः । एवं पृथग्ग्रहणमित्यतः सिंहावलोकनन्यायेनाह ॥ देहाभिमानिनश्चेदिति ॥ दुःखातिशयेनाधीरा मनोधैर्यरहिताः । अत एव चञ्चलबुद्धयस्ते दुःखमूढा ये त्वविद्यमानगुणाभिमानिनस्ते हि चलबुद्धय इत्यर्थः । दुःखमूढा-नामप्यविद्यमानगुणाभिमानसद्भावाद् विशेषतोऽपीत्युक्तमिति ज्ञेयम् ॥ ननु दुःखमूढानामहङ्कारिणां सुखं किञ्चिन्न विद्यत इति दुःखमूढत्वस्याहङ्कारित्वस्य च सुखाभावप्रयोजकत्वमुच्यते । पूर्वं तु देहमानिनां सुखं न विद्यत इति देहाभिमानस्य प्रयोजकत्वमुक्तमतो विरोध इत्यतो देहाभिमानित्वस्य साक्षात्परंपरया च दुःखाभावहेतुत्वमुक्तमित्यविरोध इत्याशयेनोक्तम् ॥ देहाभिमानिनश्चेदिति ॥ देहाभिमानिनश्चेदधीराः । अत एव दुःखमूढाः । तथाऽहङ्कारिणो विशेषतोविद्यमानगुणाभिमानिनोऽपि भवन्तीति योजना ।

ततश्चायं मूलार्थः ॥ विदुषां विद्वत्वेनाज्ञजनप्रसिद्धानां देहमानिनां किञ्चित्सुखं न विद्यते । तदाऽतिशयेन देहमानित्वादधीराः । दुःखमूढानां तथाप्रस्तुतत्वं सुखाभावादिकं विद्यत इति किमु वक्तव्यम् । अहङ्कारिणां विशेषतोऽप्यविद्यमानगुणाभिमानवतां सुखं न विद्यत इति । तथा पुनः किमु वक्तव्यमिति । सुखप्राप्त्यादिसाधनज्ञानवतां भवति सुखादिकमित्यत उक्तम् ॥ यदीति ॥ सुखदुःखयोः प्राप्तिं विघातमिति क्रमेण सम्बन्धः । जानन्तीत्यज्ञजनप्रसिद्धा एतेऽप्यद्धा सुखादिप्राप्त्युपायं न विदुस्तस्यैव विवरणं मृत्युरिति । मृत्युरूपो दुःखादिसंसारः । पुनर्यथा न प्रभवेन्नाङ्कुरीकुर्यात्तथायोगम् आत्यन्तिकसुखावाप्तिदुःखविघातोपायं न विदुरिति ॥ १९ ॥

कोन्वर्थः सुखयन्त्येनं कामो वा मृत्युमन्तिके ।

आघातं नीयमानस्य वध्यस्येव पदेपदे ॥ २० ॥

पदरत्नावली

नन्वर्थकामौ तयोरुपायः स्यातामत्राह– कोन्विति । अन्तिके स्थितमृत्युमेनं पुरुषम् । अत्र दृष्टान्तमाह– आघातमिति । आघातं मरणस्थानं प्रति नीयमानस्य वध्यस्य पुंसो यथा सुखं नास्ति तथेति ॥ २० ॥

श्रीनिवासतीर्थीया

ननु योगं ते न विदुरित्ययुक्तम् । अर्थकामौ सुखप्राप्त्यादेरुपायाविति जानीयुरेवेत्यतस्तावपि नोपायावित्याह ॥ को न्विति ॥ अन्तिके स्थितमृत्युमेनं पुरुषं कोऽर्थो द्रव्यादिः। काम्यत्वात्कामः शब्दादिविषयकेच्छावानिदानीं संसारे सुखयति । काक्वा न सुखयतीत्यर्थो लभ्यते । तत्र दृष्टान्तः ॥ आघातमिति ॥ वध्यस्य वधार्हस्यात एव शिरच्छेदादिवधार्थमाघातं मरणस्थानं नीयमानस्य कामादिर्यथा न तुष्टिदः । शिरच्छेदाय नीयमानस्य कण्ठे पुष्पमालां स्थापयन्ति । तं गन्धेन लेपयन्ति । मिष्टान्नेन भोजयन्ति तत्सर्वं तस्य न सुखहेतुः सन्निहितदुःख-वत्त्वादेवमेतस्य संसारिणः कामादिर्न सुखदो यच्च सुखं जायते तदपि दुःखमिश्रितत्वादुपेक्ष्यमित्याशयः

॥ २० ॥

प्रमेयचन्द्रिका

अर्थकामौ तत्रोपायभूतौ स्यातामित्यत उच्यते ॥ को न्वर्थ इति ॥ अन्तिके स्थितं मृत्युमेनं पुरुषम् । तत्र दृष्टान्तः ॥ आघातमिति ॥ हननस्थानं प्रति नीयमानस्य प्रतिपदं सम्भावितवधस्य किमप्यर्थादि न सुखयन्ति तथेति ॥ २० ॥

श्रुतं च दृष्टवन्नश्येत् स्पर्धासूयात्ययाप्ययैः ।

बह्वन्तरायैर्विहतं कृषिवच्चापि निष्फलम् ॥ २१ ॥

पदरत्नावली

ननु स्वर्गकामस्य सुखहेतुत्वात्, अन्यथा तत्कर्मानुष्ठानं व्यर्थं स्यात्, अतः कथं कामो वा न सुखयतीति तत्राह– श्रुतमिति । कामस्य कर्मद्वारा सुखहेतुत्वेति तन्नित्यं न, क्षणिकत्वात् । दृष्टवत् कर्मनिर्मितमन्दिरादिवत् । विश्वकर्मीयशास्त्रसिद्धवस्तुत्वं त्वप्रयोजकम् । नच मुक्तिवन्नित्यत्वमिति वाच्यम् । ज्ञानसाध्यत्वविशेषात् । स्वर्गकामेनानुष्ठीयमानमग्निष्टोमादिकं निश्चितफलं न स्याद् बह्वन्तरायविहतकृष्यादिकामवदित्याह– स्पर्धेत्यादिना । यथा कृषि-वाणिज्यादिकं मिथः स्पर्धासूयादिबह्वन्तरायैर्विहतं भवति स्पर्धादिप्रयुक्ताभिचारिककर्मणा उन्मादादि-नाप्यग्निष्टोमाद्यनुष्ठानमपि कुण्ठितम् । अत्ययो विध्यतिक्रमणम् । अप्ययोऽन्तराले मरणम् ॥२१॥

श्रीनिवासतीर्थीया

ननु स्वर्गकामनया कृतज्योतिष्टोमादियागादेः स्वर्गलाके सुखहेतुतायाः श्रुतत्वात्स्वर्गादिकामः सुखहेतुः काम्यत्वात्कृष्यादिकामनावदित्यनुमानाच्च कामो न सुखयतीत्ययुक्तमित्यत आह ॥ श्रुतं चेति ॥ श्रुत्युक्तमपि स्वर्गसुखं नश्यति कर्मसाध्यत्वाद्दृष्टव-दैहिकसुखादिवदिति द्रष्टव्यम् । ननु विध्युक्तप्रकारेणानुष्ठितकर्मजन्यं सुखमक्षयं भविष्यतीति चेत् । अस्तु तावत्सुखस्याक्षयत्वादिचिन्ता । आदौ कर्मणः सम्यगनुष्ठानमेवाशक्यमित्याह ॥ स्पर्धेति ॥ नीचत्वादिना ज्ञानं स्पर्धा । द्वेषोऽसूया । अत्ययो विध्यतिक्रमणम् । अप्ययोंऽतराले मरणम् । एतैर्विघ्नैः कर्म नश्येदित्यर्थः । दैवात्कर्मानुष्ठानसमये यदि महद्भिः स्पर्धादिकं प्राप्नोति तर्हि तत्कर्म व्यङ्गमेव भवत्यतो न फलायालमित्याशयः । स्वर्गादिकामो न सुखहेतुर्बह्वन्तराययुक्तस्वर्गादि-कामत्वान्मूषकानावृष्ट्यादिबह्वन्तराययुक्तकृष्यादिकामवदिति प्रत्यनुमानविरोधाद् उक्तानुमानमयुक्त-मित्याशयेनाह ॥ बह्विति ॥ कृषिवत्तत्कामवन्निष्फलम् । कामनाकरणमिति शेषः । यद्वा । स्वर्गकामनावता कृतज्योतिष्टोमादेः स्वर्गसुखहेतुतादर्शनात्कथमेतदित्यत आह ॥ श्रुतं चेति ॥ श्रुत्युक्तं स्वर्गसुखम् । दृष्टपदार्थवत् । कुत इत्यत आह ॥ नश्येत्स्पर्धेति ॥ एतैर्ज्योतिष्टोमादिकं कर्म नश्येत् । व्यङ्गं भवेद्यत इति शेषः । एतदेव विशदयति ॥ बह्विति ॥ यतो ज्योतिष्टोमादिकं कर्म निष्फलम् । कुतः । बह्वन्तरायकर्मत्वात् । बह्वन्तरायविहतस्वर्गकामनावदनुष्ठितकृष्यादि-साधनत्वादित्यर्थः । कृषिवद्बह्वन्तरायविहतधान्यादिकामनावदनुष्ठितकृष्यादिसाधनवदिति योज्यम्

॥ २१ ॥

प्रमेयचन्द्रिका

ननु दृष्टयोरर्थकामयोः सुखहेत्वभावे स्वर्गकाम इत्यादिश्रुत्युक्तस्य स्वर्गस्य सुखहेतुत्वं स्यादित्यत उच्यते ॥ श्रुतमिति ॥ श्रुतं स्वर्गादिकं च दृष्ट्वैश्वर्यादिवन्नश्येत् । तद्विवरणं स्पर्द्धेत्यादिना ॥ सत्सु स्पर्धया असूयया । महतामत्ययेन अतिक्रमेण अप्ययेन उन्मादादि-निमित्तकविच्छेदेन चेत्येतैर्निमित्तैर्बह्वन्तराये कामत्वाकामः काम्यमपेक्षितं फलम् । बहुविघातयुक्त-फलवत्वाद्यज्ञादेः फलं स्वर्गादिकं प्रतिक्षणं तावन्नश्येत् । तत्र दृष्टान्तः ॥ कृषिवदिति ॥ यथा कृषिकाणां जलादिनिमित्तकान्योन्यस्पर्धयाऽसूयया बलवत्पुरुषातिक्रमपश्वादिचर्वणादिनिमित्तकाप्ययैर्नश्यति तथेति । अतः सम्भावितबहुविघ्नत्त्वान्न स्वर्गादि प्राप्तुं शक्यत इति भावः ॥ २१ ॥

अन्तरायैरविहतो यदि धर्मः स्वनुष्ठितः ।

तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२ ॥

इष्ट्वैव देवता यज्ञैः स्वर्लोकं याति याज्ञिकः ।

भुञ्जीत देववत् तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३ ॥

पदरत्नावली

ननु सत्कृष्यादिरिव स्वनुष्ठितोऽग्निष्टोमादिधर्मः कर्मफलजनकः किं न स्यादत्राह अन्तरायैरिति । तेन धर्मेण । अर्थकामयोः सुखहेतुत्वाभावेऽपि स्वनुष्ठितस्य धर्मस्य तद्धेतुत्वं स्यादित्यतो वाह– अन्तरायैरिति ॥ निजधर्मार्जितान् ॥ २२,२३ ॥

श्रीनिवासतीर्थीया

ननु स्वर्गकामेन सर्वान्तरायं परिहृत्य सम्यक्कर्माद्यनुष्ठितं चेत् फलं भवत्येवेति सफलः काम इति चेत् । सत्यम् । तथाऽपि तत्फलं नश्वरमेवेत्याशयेनाह ॥ अन्तरायै-रित्यादिना ॥ याज्ञिको यज्ञकर्ता निजार्जितान्स्वीयपुण्यार्जितान् ॥ २२,२३ ॥

प्रमेयचन्द्रिका

कथञ्चित्प्राप्तावपि तदपि नश्वरमित्युच्यते ॥ अन्तरायैरिति ॥ तेन धर्मेणापि गच्छति । आशु विनश्यति । तत्प्रकारमानुपूर्वेण शृण्वित्यर्थः ॥ २२ ॥

स्वपुण्योपचिते शुभ्रे विमान उपगीयते ।

गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४ ॥

पदरत्नावली

देवीनामप्सरसाम् ॥ २४ ॥

श्रीनिवासतीर्थीया

भोगानित्युक्तं विशदयति ॥ स्वेति ॥ गन्धर्वैरुपगीयत इत्यन्वयः । देवीनामप्सरसामित्यस्य पूर्वोत्तराभ्यां सम्बन्धः । हृद्यं मनोहारि ॥ २४ ॥

प्रमेयचन्द्रिका

गन्धर्वैरित्युत्तमविषयम् । कर्मणा स्वर्गं प्राप्ता ये गायकाः पुरुषविशेषाः । तद्विषयं वा । देवीनां दिवं प्राप्तानां स्त्रीणाम् ॥ २४ ॥

स्त्रीभिः कामगयानेन किङ्किणीजालमालिना ।

क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृतः ॥ २५ ॥

पदरत्नावली

सुराक्रीडेषु देवक्रीडास्थानवनेषु ॥ २५ ॥

श्रीनिवासतीर्थीया

किङ्किणी क्षुद्रघण्टा । तस्या यो जालः समूहस्तस्य माला पंक्तिर्यस्य तेन । सुराक्रीडेषु देवानामाक्रीडं क्रीडास्थानं तेषु क्रीडन्निर्वृत आनन्दभरितः ॥ २५ ॥

दुर्घटभावदीपिका

सुराक्रीडेषु किङ्किणीजालमालिना कामगयानेन स्त्रीभिः क्रीडन्निर्वृतो बहुसुखविशिष्टः किमात्मपातं न वेद किं त्वात्मपातं वेदैव । अतः स्वर्गेऽपि दुःखमस्तीति शेष इति । एतेन स्वर्गस्यापुरुषार्थत्वोपपादनार्थमात्मपातज्ञानजन्यदुःखस्य वक्तव्यत्वात् । आत्मपातं न वेदेत्यनुपपन्नमिति दूषणं पराकृतम् । आत्मपातं न वेदेत्यत्र काकुस्वरस्याङ्गीकारात् ॥२५॥

तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।

क्षीणपुण्यः पतत्यर्वागनिच्छन् कालचालितः ॥ २६ ॥

पदरत्नावली

समाप्यते क्षीयते ॥ २६ ॥

श्रीनिवासतीर्थीया

समाप्यते क्षीयते ॥ २६ ॥

यद्यधर्मरतः सङ्गादसतामजितेन्द्रियः ।

कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः ॥ २७ ॥

पशूनविधिनाऽऽलभ्य प्रेतभूतगणान् यजन् ।

नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः ॥ २८ ॥

पदरत्नावली

स्वतोऽसुराणां वैष्णवाचार्यैर्यज्ञं कृत्वा स्वर्गं गत्वा कर्मफलं भुक्त्वा मर्त्य-लोकमागतानां गतिमाह– यदिति ॥ आलभ्य हिंसित्वा ॥ २७,२८ ॥

श्रीनिवासतीर्थीया

स्वतोऽसुरो वैष्णवाचार्यैर्यज्ञं कृत्वा द्रव्यादिसन्तुष्टतत्तेजसा स्वर्गं प्राप्य कर्मफलं भुङ्क्तवा तत्क्षये मर्त्यलोकमागतानां स्थितिरुक्ता । तदितरेषां गतिमाह ॥ यदीत्यादिना ॥ असतां प्रसङ्गात् । अनेन पूर्ववत्स्वर्गापादकवैष्णवसङ्गत्यभाव उक्तः ॥ आलभ्य हिंसित्वा

॥ २७,२८ ॥

दुर्घटभावदीपिका

कृपण इत्यस्यार्जितानां सर्वेषां धनादीनां भूम्यादौ स्थापयित्वा रक्षक इत्यर्थः । लुब्ध इत्यस्यान्यायेन धनार्जनशील इत्यर्थः । एतेन कृपणो लुब्ध इत्येतदयुक्तमिति दूषणं निरस्तम् ॥ २७ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां दशमोऽध्यायः ॥ ११–१० ॥

प्रमेयचन्द्रिका

त्रैविद्यानुष्टितयज्ञफलमुक्त्वा निरयप्रचुराद्यनुष्टितयज्ञफलं प्रदर्श्यते ॥ यदीत्यादिना ॥ स्वयमसन्नत एवासता संगो धर्मे रत्यादिमान् पुरुषो विधिना भगवति समर्पणादिविधिं विधाय पशूनालभ्य यज्ञं कृत्वेत्यर्थः । अग्नये स्वाहेत्याद्युक्तावपि विष्णुस्मृतिविहीनं यज्ञं प्रेतभूतादय एव गृह्णन्तीति हेतोः प्रेतभूतगणान्यजन्नित्युक्तम् ॥ साङ्कल्पिकं स्वर्गं तच्छेषेण नरकान् गत्वा मिथ्याज्ञानदार्ढ्यानन्तरं तमो यान्तीत्यर्थः ॥ २८ ॥

कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुमान् ।

देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ २९ ॥

पदरत्नावली

मनुष्ययाज्ञिकस्य स्थितिमाह– कर्माणीति । मर्त्यधर्मिणो मरणधर्मिणः पुरुषस्य तत्र देहेकिं सुखं लभ्यते न किमपीत्यर्थः ॥ २९ ॥

श्रीनिवासतीर्थीया

उपसंहरति ॥ कर्माणीति ॥ तैः कर्मभिस्तत्र देहे । मर्त्यधर्मिणो मरणशीलस्य ॥ २९ ॥

प्रमेयचन्द्रिका

पापकर्मफलमुच्यते ॥ कर्माणीति ॥ २९ ॥

लोकानां लोकपालानां मद्भयं कल्पजीविनाम् ।

ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः ॥ ३० ॥

पदरत्नावली

न केवलं लोकत्रयस्यानित्यफलत्वम्, (किन्तु) तत उपरितनानां सत्यलोक-पर्यन्तानामप्येवमेवेत्याह– लोकानामिति ॥ ३० ॥

श्रीनिवासतीर्थीया

न केवलं लोकत्रयस्यैवानित्यत्वं किं नाम तदुपरितनानां सत्यान्तानामपि लोकानां तत्रत्यानां चेत्याह ॥ लोकानामिति ॥ द्विपरार्धसंज्ञकपरनामकायुष्ययुक्तस्य ॥३०॥

प्रमेयचन्द्रिका

एवमैहिकामुष्मिकयोर्नश्वरत्वमुपपाद्य देवानामप्यन्ते मृतिः किमन्येषा-मित्याशयेनोच्यते ॥ लोकानामिति ॥ यद्यपि मुक्तिरूपचरमदेहलयवतां न मृतिभयम् । तथा लोके मृतेर्भयहेतुत्वादित्थमुक्तिरिति ज्ञेयम् ॥ ३० ॥

गुणाः सृजन्ति कर्माणि कालो नु सृजते गुणान् ।

जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥

पदरत्नावली

एवं मनुष्यादिब्रह्मपर्यन्तलोकानां लोकपालानां च सृष्ट्यादिकर्त्रा कालाख्येन भगवता मायागुणोपादानत्वेन तत्तत्कर्मानुगुणं प्रवर्त्यते । तस्मादस्य ज्ञानमेवात्यन्तदुःखनिवर्तकत्वेन नित्यं सुखदायीति भावेनोपसंहरति गुणा इति । गुणाः सत्वादयः । प्रकृतेः कर्मफलभोक्तृत्वमिति मतं प्रत्याह– जीवस्त्विति । तुशब्देनाचेतनस्य भोक्तृत्वानुपपत्तिं दर्शयति । सत्वादिगुणयुक्तः

॥ ३१ ॥

श्रीनिवासतीर्थीया

भगवत्सृष्टगुणबद्धत्वेन कर्मफलभोक्तृत्वाज्जीवोऽस्वतन्त्र इत्याह ॥ गुणा इति ॥ गुणनिर्मितदेहा इत्यर्थः । सृजन्ति तत्साधनभूताः । तावता तेषां न स्वातन्त्र्यं मन्तव्य-मित्याह ॥ काल इति ॥ सर्वगुणोद्रिक्तत्वात्कालो भगवान् । यो गुणयुक्तः स तु जीवः । असौ जीवः सर्वकर्मफलानि भुङ्क्ते । अस्य जीवस्य कर्मफलभोक्तृत्वे गुणसंयुक्त इत्यनेन गुणसंयुक्तत्वरूपो हेतुः कथ्यते । तथा चेदं हेतुगर्भविशेषणमित्यभिप्रेत्य तात्पर्यमाह ॥ गुणसंयुक्तः कर्मफलानि भुङ्क्त इति । यतो गुणसंयुक्तोऽत इति शेषः ॥ ३१ ॥

प्रमेयचन्द्रिका

जीवस्येव विकर्मप्राप्तावीशाधीन गुणबद्धो हेतुरिति वदन्नीश्वराभिन्नत्वाज्जीवस्य कथं गुणबन्ध इत्याशङ्कावारणाय जीवेश्वरयोर्भेदोपपादनं क्रियते ॥ गुणा इति ॥ कालः सर्वगुणोद्रेकादित्युक्तः कालो हरिर् गुणान् सत्वादीन् कामादींश्च सृजते । ते च गुणाः सृजन्ति कर्माणीत्येवं हरिर्दुःखादिहेतुभूतगुणकर्मादिस्रष्टा जीवस्तु गुणबद्धः सन् कर्मफलसुखदुःखादीनि भुङ्क्ते इत्येवमत्यन्तभेद एव जीवेश्वरयोरिति भावः ॥ ३१ ॥

यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मनः ।

नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि ॥ ३२ ॥

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् ।

य एतत् समुपासीरंस्ते मुह्यन्ति शुचर्पिताः ॥ ३३ ॥

तात्पर्यम्

यावत्स्याद्गुणवैषम्यमित्यादि य उपासीरंस्ते मुह्यन्ति । गुणसंयुक्तः कर्मफलानि भुङ्क्ते ॥ ३२,३३ ॥

पदरत्नावली

एवं जीवपरभेदं प्रतिपाद्य तदभेदमतमनूद्य दूषयति यावदिति । यावदित्यारभ्य तावदीश्वरतो भयमित्यन्तो ग्रन्थः पूर्वपक्षीयः । ये एतन्मतं समुपासीरन् सेवन्ते तेऽन्धेतमसि मुह्यन्ति दुःखोद्रेकात् ॥ ३२,३३ ॥

श्रीनिवासतीर्थीया

एवं जीवेश्वरभेदं प्रतिपाद्याभेदमतमनूद्य दूषयति ॥ यावदित्यादिना ॥ गुणवैषम्यं सृष्टिः । गुणवैषम्यप्रकारस्तु सृष्टिकाले रजस्तमश्चाभिभूय सत्त्वमुद्भूतं सद्बलीयो भवत्यत एव तदङ्गी । इतरयोस्तदनुगुणतयाऽवस्थितयोरङ्गत्वम् । एवं कदाचित्तमःसत्त्वमभिभूय रजोऽभिवृद्धं भवति तदा तदङ्गी । इतरे तदङ्गे । कदाचिद्रजःसत्त्वमभिभूय तमोऽभिवृद्धं भवति तदा तदङ्गी । इतरे तदङ्गे । एवं तेषां गुणप्रधानभावे सति महदादौ कार्ये प्रवृत्तिर्भवति । इदमेव च गुणवैषम्यं मन्तव्यम् । आत्मनश्चैतन्यस्य नानात्वं व्यावहारिको भेदोऽविद्यया प्रतीयते । अस्वतन्त्रत्वं पराधीनत्वम् । तथा चाविद्यानिवृत्तौ सत्यां मुक्तौ भेदो नैवास्तीत्याशयः । अत्र य एतदित्यस्यार्थः । एवं भेदस्य सांसारिकत्वेन व्यावहारिकत्वे सिद्धे ये भेदवादिन एतद् द्वैतं पारमार्थिकत्वेन ये उपासीरन् जानन्ति ते मुह्यन्तीत्येवं भेदवादिनां निन्दा प्रतीयते । अतो व्याचष्टे ॥ यावत्स्यादिति ॥ तथा च येऽद्वैतवादिन एतद्यावत्स्यादित्युक्तप्रकारेण भेदस्य मोक्षापर्यवसायित्वेन व्यावहारिकत्वेना-पारमार्थिकत्वमुपासरिन् जानन्ति ते मुह्यन्तीति योज्यम् ॥ ३२,३३ ॥

प्रमेयचन्द्रिका

एवं जीवेश्वरभेदमुपपाद्य तदभेदमनूद्यापाक्रियते ॥ यावत्स्यादिति श्लोकद्वयेन ॥ नन्वत्र यावत्स्यादित्यादि स्वमतमेव किं न स्यात् । परमतानुवादत्वं कुतः कल्प्यत इति चेत् । य एतत्समुपासीरन्निति निषेधात् । न ह्यनुवादाभावे निषेधो युज्यते । स्यादेतत् । यदि य एतदित्यस्य निषेधकत्वं भवेत् । न हि तत्र निषेधः प्रतीयत इत्यत आह ॥ यावत्स्यादिति ॥ एतदित्यस्यार्थो यावद्गुणवैषम्यमित्यादीति ॥ अत्र यावत्स्यादिति श्लोकोक्तप्रकारेणोपासकानां ते मुह्यन्ति शुचार्पिता इत्यनर्थोक्तिनिषेधो ज्ञायते । अतो यावदित्यादेरनुवादपरत्वमिति भावः ।

नन्वेतदिति निषेध्यतयोपात्तं यावत्स्यादित्यादिकमेव कुतः । तत्पूर्वश्लोकोक्तमपि किं न स्यादित्यत आह ॥ गुणसंयुक्त इति ॥ तत्र जीवस्तु गुणसंयुक्तो गुणसम्बद्धः सन् कर्मफलानि भुङ्क्त इति जीवस्य गुणबद्धत्वेन कर्मफलभोक्तृत्वेन । उपलक्षणमेतत् । कालोनुसृजते गुणानिति कालनाम्नो हरेर्गुणादिसृष्टृत्वेन जीवेश्वरवैलक्षण्यस्यैवोक्तत्वेन यावत्स्यादित्यादि भेदानुवादपरग्रन्थेनैकवाक्यता-विरुद्धत्वात्सार्धश्लोकमेवानुवादपरमिति ज्ञायत इति भावः ॥ ३२,३३ ॥

काल आत्माऽऽगमो लोकः स्वभावो धर्म एव च ।

इति मां बहुधा प्राहुर्गुणव्यतिकरेऽसति ॥ ३४ ॥

तात्पर्यम्

असति गुणव्यतिकरे कालादिनामानं मामेवाहुरिति स्वसिद्धान्तः । ‘कालः सर्वगुणोद्रेकादाप्तत्वादात्मनामकः । आगमोऽवगतेरस्य लोको ज्ञानस्वरूपतः । स्ववशत्वात्स्वभावोऽयं धारणाद्धर्म इत्यपि । उपासते सदा मुक्ताः परानन्दैकभागिनः । तदेतत्तत्त्वमज्ञात्वा प्राहुर्दुर्मतयः परे । यावत्तु गुणवैषम्यं तावन्नानात्वमात्मनः । भेद-बुद्धिस्तु यावत्स्यात्तावदीश्वरतन्त्रता । यावदीश्वरतन्त्रत्वं तावत्तस्माद्भयं भवेत् । उपासते य एवं तु नित्यशोके पतन्ति ते । महातमस्यनानन्दे तस्मान्नैवं विचिन्तयेत् । तस्मा-न्नित्यं तु नानात्वं जीवानामीशतन्त्रता । स्वाधिकानां वशत्वं च मुक्तावपि सदेष्यते । एवं ज्ञात्वा विमुच्यन्ते परानन्दं व्रजन्ति च’ इति तन्त्रभागवते ॥ ३४ ॥

पदरत्नावली

तर्हि स्वसिद्धान्तः क इति तत्राह– काल इति । गुणव्यतिकरेऽसति मुक्ति-दशायां बहुधा कालादिभिर्नामभिर्मामुपासत इति प्राहुः, वेदादय इति शेषः । ‘‘कालः सर्वगुणोद्रेका-दाप्तत्वादात्मनामकः । आगमोऽवगतेरस्य लोको ज्ञानस्वरूपतः । स्ववशत्वात् स्वभावोऽयं धारणाद् धर्म इत्यपि । उपासते सदा मुक्ताः परानन्दैकभागिनः । तदेतत् तत्वमज्ञात्वा प्राहुर्दुमतयः परे । यावत्तु गुणवैषम्यं तावन्नानात्वमात्मनः । भेदबुद्धिस्तु यावत् स्यात् तावदीश्वरतो भयम् । यावदीश्वरतन्त्रत्वं तावत् तस्माद् भयं भवेत् । उपासते य एतत्तु नित्यशोके पतन्ति ते । महातमस्यनानन्दे तस्मान्नैवं विचिन्तयेत् । तस्मान्नित्यं तु नानात्वं जीवानामीशतन्त्रता । स्वाधिकानां वशत्वं च मुक्तावपि सदेष्यते । एवं ज्ञात्वा विमुच्यन्ते परानन्दं व्रजन्ति च’’ इति प्रमाणात् कालादिनामानि हरेरेव मुख्यार्थानीत्यतो गुणपूर्णस्य हरेर् दुःखसमुद्रमग्नेन जीवेनैक्यं दूरतोऽपाकृतमिति भावः । कल कामधेनाविति धातोः कमनीयानां गुणानां धेनुराधार इति कालः । सर्वेषां सर्वस्मा-दाप्तत्वाद् आत्मा, आगच्छति अवगच्छति जानाति सर्वमित्यागमः । लुक् प्रकाश इति धातोः प्रकाशापरपर्यायज्ञानस्वरूपत्वाद् लोकः । स्वाधीनो भावः सत्तालक्षणो यस्य सः स्वभावः, स्वतन्त्र इत्यर्थः । धारयति सर्वमिति धर्मः ॥ ३४ ॥

श्रीनिवासतीर्थीया

कस्तर्हि स्वसिद्धान्त इत्यत आह ॥ काल इति ॥ अत्र गुणव्यतिकरे गुणवैषम्ये सतीत्यन्यथाप्रतीतिवारणाय अकारप्रश्लेषेण योजयति ॥ असतीति ॥ पूर्वोक्तगुण-प्रधानभावेनावस्थानं विहाय त्रयाणामपि गुणानां प्रधानत्वेन समानत्वेन समतयाऽवस्थानसमये प्रलये । मुक्ताविति यावत् । किमनेन श्लोकेन कथ्यत इत्यत आह ॥ कालेति ॥ तथा च गुणव्यतिकरेऽसति प्रलये । मुक्ताविति यावत् । कालादिरूपेण मां मुक्ता बहुधा उपासत इत्येवं वेदाः प्राहुः । तथा च मुक्तोपास्यत्वोक्त्या भेदो मुक्तिपर्यवसायीत्युक्तं भवति । मुक्तौ कालादिरूपेण बहुधोपासत इत्युक्त्या मुक्तेष्वपि परस्परं भेदोऽस्तीति ज्ञायते । तेन मुक्तिपर्यवसायिनो भेदस्य नाविद्यकत्वमित्याशयः । कालादिशब्दवाच्यत्वे किं निमित्तमित्यतः श्लोकत्रयं प्रमाणेन व्याचष्टे ॥ काल इत्यादिना ॥ अनेन लोककालागमात्मनां, कालोऽनुसृजते गुणानित्यत्रोक्ताः कालादिशब्दा अपि भगवत्परतया व्याख्याता अवगन्तव्याः । स्ववशत्वात्स्वतन्त्रत्वात् । स्वयमेव भवतीति व्युत्पत्त्येत्यर्थः । नानात्वं भेदः । तस्मादीश्वरात् । ते मुह्यन्ति शुचार्पिता इत्यस्य तात्पर्यम् ॥ नित्यशोक इत्यादि ॥ मूलानुक्तं पूरयति ॥ तस्मान्नैवमिति ॥ तर्हि कथं चिन्तयेदित्यत आह ॥ तस्मादिति ॥ मुक्तावपि जीवानां नानात्वमित्यादि योज्यम् । तथा चानेन स्वसिद्धान्तनिरूपककालेति श्लोकाशयः कथितो मन्तव्यः ॥ ३४ ॥

प्रमेयचन्द्रिका

यद्यत्राभेदानुवादेन तन्निषेधः क्रियते तर्ह्युत्तरश्लोके गुणव्यतिकरे गुणवैषम्ये सति जगत्सृष्ट्यनन्तरमिति यावत् । तदा कालजीववेदादिरूपेण मामेव बहुधा प्राहुरिति हरेः सर्वतादात्म्यस्य पुनः प्रतिपादनमयुक्तं स्यादित्याशङ्क्य तदभिप्रायमाह ॥ असतीति ॥ नञ्पूर्वकतया पदच्छेद इत्युक्तं भवति । एतेन गुणव्यतिकरे गुणकृतवैषम्ये संसारे असति मुक्तौ स्थिता मुक्ता इति यावत् । मामेव कालात्मादिनामानमाहुः ॥ ननु जीवमिति जीवेशादिभेदरूपस्वसिद्धान्त एवा-त्रोच्यते । न तु सर्वतादात्म्यरूपमैक्यम् । तथा च यावत्स्यादित्यादिनैक्यमनूद्यैतदित्यनेन तन्निषिध्य मुक्तैरपि कालादिपदोदितगुणवत्तया सर्वभिन्नतयोपास्यत्वात्परमार्थतो भेद एवात्रोच्यत इति भावः ॥ कालादिशब्दार्थकथनपूर्वकं यावत्स्यादित्यादेरभेदमतानुवादरूपत्वम् एतदित्यस्य तन्निषेधपरत्वं काल इत्यादेः स्वसिद्धान्तत्वं चाङ्गीकार्यम् । समाख्यासद्भावादित्याशयेनाह ॥ काल इत्यादि ॥ कल कामधेनाविति धातोः कमनीयगुणानां धेनुराश्रयः काल इत्याशयेनोक्तं कालः सर्वगुणोद्रेकादिति ॥ आप्तत्वाद्व्याप्तत्वात् । आप्नोत्यात्मेत्यर्थः । आप्तत्वात् । सर्वेषां प्रेमाश्रयत्वादिति वा । अस्य सर्वस्यावगतेर् आगच्छतीत्यवगच्छतीत्यागमः । लुक्प्रकाशन इति धातोर्ज्ञानस्वरूपत्वाल्लोकः । स्ववशत्वात्स्वाधीनो भावः सत्तालक्षणो यस्य स्वभावः । स्वतन्त्र इत्यर्थः । धत्ते सर्वं जगदिति धारणाद्धर्म इत्यर्थः । इत्यपि इत्यादिप्रकारेण सदा मुक्ता उपासते । मुक्ता इत्येतद्गुणव्यतिकरे असती-त्यस्यार्थः । आहुरित्यस्योपासत इति । काल इत्यादेः स्वसिद्धान्तत्वप्रदर्शनं तदेतत्तत्वमिति । परमतानुवादपरस्य यावत्स्यादित्यादेरर्थो यावत्त्विति । मायावादिनो गुणवैषम्यं सत्वादिगुणवैषम्यं तत्कृताविद्योपाधिसम्बन्धो यावत्स्यात्तावत्पर्यन्तं नानात्वं भेदभ्रमो भवति । यावत्पर्यन्तं च नानात्वं भेदबुद्धिः स्यात्तावदेवेश्वरतन्त्रता । अधीनता भवति । मायावच्छिन्नेश्वरोऽत्रेश्वर इत्युच्यते । यावच्चास्य जीवस्येश्वरतन्त्रत्वं तावत्तस्मादीश्वरतो दुःखादिलक्षणं भयं स्यात् । इत्येवमात्मतत्वमेवाविद्यावशान्नानेव भाति । भेदभ्रमेण चायं संसारः । स च निर्विशेषब्रह्मैक्यज्ञानान्निवर्तत इत्येवं पुरुषाधमा उपासते । ते मुह्यन्ति शुचार्पिताः ॥ नित्यशोके महातमसि पतन्ति । किं तर्हि मोक्षसाधनमित्यत उक्तम् ॥ तस्मादेवंज्ञानस्य तमःसाधनत्वान्नित्यं सदातनं स्वाभाविकसिद्धमिति यावत् । सदेत्यस्य विवरणम् ॥ मुक्ताविति ॥ शिष्यते अङ्गीक्रियते महद्भिर् महाफलप्रापकत्वादित्थं ज्ञानमेव प्रमाणमित्याह ॥ एवमिति ॥ विमुच्यन्ते संसारात् । अत्र मूले कालादिपदैर्भगवद्गुणोक्तेरयमभिप्राय इत्याहुः ॥ अस्तु जीवेश्वरयोर्भेदस् तथापि नेश्वरस्य स्रष्टृत्वादिकं कालाद्भवन्ति भूतानि जीवाद्भवन्ति भूतानि स्वभावादिदमुत्पन्नमित्यादिषु कालादीनामेव स्रष्टृत्वाद्यभिधानादित्यतः कालादिनामानं मामेवाहुरित्युच्यत इति ॥ ३४ ॥

उद्धव उवाच—

गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः ।

गुणैर्न बध्यतेऽदेही बध्यते वा कथं विभो ॥ ३५ ॥

कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणैः ।

किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ॥ ३६ ॥

एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।

नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ॥ ३७ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे दशमोऽध्यायः ॥

तात्पर्यम्

ओही परमात्मा । बध्यते चेत्कथं बध्यते ॥ नित्यमुक्तो नित्यबद्ध इत्येकजीववादिमतानुसारेण चोदयति । ‘शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब्रुवन् । नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वच’ इति विक्षेपे । ‘न मे मोक्षो न बन्धनम्’ । ‘एकस्यैव ममांशस्य जीवस्यैवं महामते । बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतरत् । अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि त’ इत्यादिपरिहारात् ॥ ३७ ॥

पदरत्नावली

भगवदुक्त्या सम्यग्ज्ञातजीवपरभेदोप्युद्धवः स्थूलमतीनामपि निस्तुषं विविच्य भेदं ज्ञापयितुं पृच्छति गुणेष्विति । स्वतोऽनपावृत ओही परमात्मा देहजेषु गुणेषु स्पर्शादिविषयेषु वर्तमानोऽपि गुणैर्विषयैर् न बध्यते उत बध्यते । द्वितीये कथं बध्यत इति ॥ कोऽर्थ इति तत्राह– कथमिति । यदि बद्धस्तर्हि केन प्रकारेण वर्तेत । लोके बद्धस्य प्रवृत्त्यदर्शनात् । चेष्टादिलिङ्गाभावेन तज्ज्ञानं च दुरापादमिति भावेनाह– कैरिति । बद्धस्यापि भोगाभावे मरणं स्यादतः किं भुञ्जीतेति । भुञ्जानस्य हानोपादाने दृष्टे, तत्रायं किं जहाति । बद्धः शयनाद्यन्यतमं करोति, तत्रायं किं करोति ॥ ब्रूहि परिहारेण स्पष्टीकुरु । एवं पृच्छतस्तव कोऽभिप्राय इत्यत एकजीववादिमतमवलम्ब्य प्रश्नबीजमाह– नित्येति । कुत एतदिति चेत्, न मे मोक्षो न बन्धनमिति परिहारात् । ‘‘शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब्रुवन् । नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वचः’’ इति वचनादुद्धवस्य नासत्यतादोषोऽपि ॥ ३५–३७ ॥

॥ इति श्रीविजयध्वजतीर्थविरचितायां श्रीभागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धे दशमोऽध्यायः ॥

श्रीनिवासतीर्थीया

एवं जीवपरभेदस्य जीवानां परस्परभेदस्य च मुक्तिपर्यवसायित्ववचनेन पारमार्थिकत्वे भगवता प्रतिपादितेऽप्येकजीवमतमवलम्ब्योद्धवः पुनराशङ्कते ॥ गुणेष्विति ॥ अत्र देहीति पदप्रतीतिं निवारयन् अकारप्रश्लेषेण पदं विच्छिद्य तदर्थमाह ॥ ओहीति ॥ बद्ध्यते वेत्येतदध्याहारेण व्याचष्टे ॥ बद्ध्यते चेदिति ॥ तथा चायमर्थः ॥ ओही परमात्मा देहजेषु गुणेषु शोकमोहकामक्रोधादिषु वर्तमानस्तद्वत्वेन प्रतीयमानस्तैर्गुणैर्बद्ध्यते न बद्ध्यते वा । यद्यप्यनपावृतः । हेतुगर्भमेतत् । अपगतावरणो न भवतीत्यनपावृतः । देहस्थत्वेन देहरूपावरण-युक्तत्वाद्बद्ध्यते । तर्हि कथं बद्ध्यते कथं च वर्तत इत्यादि ॥ ब्रूहि परिहारेण स्पष्टीकुरु । प्रश्नविदां वर । प्रश्नपरिहारवेत्तृणाम् । किमेवं तव प्रश्नबीजमित्यत आह ॥ नित्येति ॥ किमनेन प्रश्नबीज-मुक्तमित्यतस्तात्पर्यमाह ॥ नित्यमुक्त इति ॥ तथा च नित्यमुक्तचैतन्यस्यैकत्वेन तस्यैव बद्धत्वे मुक्ताभावान्मुक्तत्वे च बद्धाभावेन बद्धश्चेद्बद्ध एव न मुक्तोऽस्ति । मुक्तश्चेन्मुक्त एव न बद्धोऽस्तीति । केचन बद्धाः सन्ति केचन मुक्ताः सन्तीति बद्धमुक्तव्यवस्थाया अप्रामाणिकत्वात् । तद्रीत्या नित्यमुक्तचेतनस्यैव बद्धत्वेन बन्धादिप्रकारस्तस्य कथमित्याशयात् । मूले कथं वर्तेतेत्यादेर्भगवान् बद्ध्यते चेत्कथं बद्ध्यते कथं वृत्तिर्विहारादिर्वा । एकस्मिन्देहे उभयोर्बन्धे वृत्तिर्विहारो लक्षणैर्विविक्ते भेदज्ञानं भोजनत्यागशयनाशनगमनानि स्युर्विरुद्धत्वादित्याशयः । विरुद्धादिक्रियं शरीरमुन्मथ्येतेत्यर्थः । एवमुद्धवचोदनायां बीजमाह ॥ नित्यमुक्त इति ॥ तथा च जीवेश्वरयोर्देहस्थयोरभेदे एतत्सर्वं बन्धाद्युपपद्यत इत्याशयः । यद्वैवं मूलं योज्यम् । य एको नित्यबद्धो जीवः स एव नित्यमुक्तो भगवान् तदभिन्न एक एवेत्यर्थः । तथा चैकजीवमतं मूलोपर्येव प्राप्तमिति ध्येयम् । मे मतिरित्येक-जीवादिमतस्य स्वमतत्वमुद्धवेनोच्यते । स्वस्यैतादृशज्ञानाभावेऽपि तथोक्तावनृतोक्तिप्रयुक्तपातकापत्तेः । नानृतात्पातकं परमिति वचनादित्यत आह ॥ शिष्योऽपीति ॥ असत्येनासत्यवचनेन । तद्वचोऽसत्यवचः । स्थिरत्वार्थम् । एतत्परिहारेण सत्यभूतप्रमेयदाढर्््यार्थम् । ननु शिष्योऽपीति तात्पर्यं कस्मादुच्यते । वस्तुत एकजीववादो भगवन्मतमेव । तदनुसारेण मे मतिरित्युद्धवेनाप्युक्तमिति कुतो न स्यादित्यतो नेदं भगवन्मतम् । कुत इत्यत आह ॥ न म इति ॥ भगवतः परिहारात् । उत्तराध्याये स्पष्टमेतत् ॥ ३५–३७ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे दशमोऽध्यायः ॥ ११–१० ॥

प्रमेयचन्द्रिका

जीवेश्वरभेदं विविच्य ज्ञातुं प्रश्नः क्रियते ॥ गुणेष्विति ॥ नन्वत्र देही गुणैर्नबध्द्यत इत्युक्तिरयुक्ता । देहवतो गुणबन्धो नियत एवातो न बध्यत इत्युक्तेर्व्याहतत्वादित्यतोऽ-त्रादेहीति पदच्छेदः । स चेश्वरवाचकोऽतो न व्याहतिरित्याह ॥ ओही परमात्मेति ॥ तथाप्यदेहीत्यनूद्य कथं बध्यत इति प्रश्नो न युक्तः । स्वव्याहतेः प्रश्नदोषत्वात् । देहबन्धरहितो बध्यत इत्यस्य व्याहतत्वादित्यत आह ॥ बध्यते चेति ॥ तथा चैवमर्थः । स्वतोऽनपावृत आवरणरहितः । ओही परमात्मा देहजेषु गुणेषु कामादिषु स्पर्शादिविषयेषु च वर्तमानोऽपि तैर्गुणैर्न बध्यते । वा बध्यते वा यदि न बध्यते तर्हि देहजेषु गुणेषु वर्तमानत्वं न युज्यते । गुणबद्ध-त्वातिरेकेण तत्र वर्तमानत्वस्याभावात् । अतो बध्यत इति पक्षोऽङ्गीकार्यः । बध्यते चेत्कथं बध्यते । ओहित्वेनेश्वरस्य बन्धासम्भवात् । यदि बन्धस्तर्हि कथं वर्तेत बद्धस्य सृष्ट्यादौ प्रवृत्ययोगात् ।

कथं च जगतिविहरेत् । उक्तप्रवृत्याद्ययोगे च कैर्लक्षणैर्ज्ञायते । जगज्जन्मादिकर्तृत्वलक्षणाभावात् । बद्धत्वेन कर्मफलं किं भुञ्जीत उतेश्वरत्वात्तद्विसृजेत् । शयनासनगमनादिप्रवृत्तयोऽपि किं संति उत नेति ॥

एतं प्रश्नं प्रत्युत्तरं ब्रूहीति । ननु जीव एव देहजगुणैर्बद्धः कर्मफलभोक्ता शयनादिवांश्च अस्वतन्त्रत्वत् । ईश्वरस्तु गुणेषु वर्तमानोऽपि स्वतन्त्रत्वान्न बध्यते । अतः सृष्ट्यादिषु प्रवृत्तिमांस्तैर्लक्षणैर्ज्ञायत इति प्रमितत्वात्कथमयं प्रश्न इत्यत उक्तं मूले ॥ नित्यमुक्त इति ॥ नित्यमुक्त ईश्वरः नित्यबद्धो जीवश्चैक एवेति मे मतिरित्यर्थः ॥ यदि जीवश्वरयोर्भेदस्तदा प्रश्नानुपपत्तिः स्यात् । किं तु चैतन्यैक्यमङ्गीकृत्यैव चोद्यते । अतो नानुपपत्तिरिति भावः ।

ननु बद्धमुक्तव्यवस्थासिध्यर्थं बहुजीववादो मायावादिभिरभ्युपगतः । तत्कथं तन्मतावलम्बनवता उद्धवेनेत्थं चोद्येतेत्यत आह ॥ नित्यमुक्तो नित्यबद्ध इत्येकजीवमतानुसारेण चोदयतीति मायावादिनामेकजीववाद एव परमतात्पर्यम् । बहुजीववादस्तु मन्दानां बुध्यवतारायोक्तः । तथा चैक एव जीवस्तदज्ञानकल्पितमितरत्सर्वम् । न हि कोऽपि जीवेश्वरव्यवस्थारहिततन्मतमनुसृत्यैकस्यैव बद्धत्वमुक्तत्वरूपोभयकोट्यंकनेन पक्षद्वयेऽप्यनुपपत्तिप्रदर्शनेन प्रश्नो युज्यत इत्याशयः । नन्वसन्मतमनुसृत्योद्धवेन कथं प्रश्नः क्रियते । असत्यकथने समूलो ह वा एषकः परिशुष्यति । योऽनृतमभिवदतीति दोषोक्तेरित्यतः प्रमाणं पठति ॥ शिष्योऽपीति ॥ तद्वचोऽसत्यभूतपूर्वपक्षवचनं स्थिरत्वार्थम् ।

ननु मूले देहीति पदं विच्छेद्य देहिनो बद्धत्वाभावेन गुणेषु वर्तमानत्वायोगः । बद्धत्वपक्षे कथं बद्धत्वमिति प्रश्ने कृते कुतो बद्धत्वासम्भवः देहित्वेन तत्सम्भवादित्याशङ्कायां नित्यमुक्तो नित्यबद्ध इत्यत्र परमार्थतो जीवस्य ब्रह्माभिन्नत्वान्न तस्य बद्धत्वं च युज्यत इत्याशयेनैक्यमुद्धवेन स्वमतत्वेनोच्यते । भगवता च प्रश्नमङ्गीकृत्य बन्धस्य मिथ्यात्वादित्याशङ्क्य ब्रह्माभिन्नस्यापि जीव-स्यारोपितबन्धोपपत्तिरिति समाधीयत इत्येवं व्याख्यानमुचितम् । तथा स्पष्टमप्रतीतेः किमर्थं जीवेश्वरव्यवस्थारहितैकजीवमतावलम्बनेन प्रश्न इति व्याख्यानं क्रियते । विशेषज्ञापकाभावादित्यत आह ॥ न मोक्षो न च बन्धनमित्यादिना ॥ उत्तराध्यायगतैतत्प्रश्नपरिहारग्रन्थे न मे मोक्षो न बन्धनमिति ब्रह्मणः सर्वथा बन्धाभावमभिधाय एकस्यैवेत्यत्र भिन्नांशस्य जीवस्यैव बन्धाद्यभि-धानात् । अथ बद्धस्येति जीवश्वरयोर्वैलक्षण्यं वदामीति प्रतिज्ञाय विरुद्धधर्मिणोस् तावत्सुपर्णा-वेतावित्यादिना स्पष्टं भेदप्रतिपादनेन च परिहात्तदन्यथानुपपत्या एकजीववादे न चोदनमित्यवश्य-मङ्गीकार्यम् । अन्यथा अभेदमङ्गीकृत्य जीवबन्धप्रकार एव वर्णनीयः । न भेदाभिधानम् । न चायं भेदो मिथ्येति वाच्यम् । विरुद्धधर्मिणोरिति विरुद्धधर्माधिकरणत्वेन हेतुना तत्सत्यतावगमात् । अत एव न बन्धमिथ्यात्वमिति भावः ॥ ३५–३७ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां दशमोऽध्यायः ॥